प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः ५० वराहपुराणम्
अध्यायः ५१
[[लेखकः :|]]
अध्यायः ५२ →

श्रीवराह उवाच ।
श्रुत्वा दुर्वाससो वाक्यं धरणीव्रतमुत्तमम् ।
ययौ सत्यतपाः सद्यो हिमवत्पार्श्वमुत्तमम् ।। ५१.१ ।।

पुष्पभद्रा नदी यत्र शिला चित्रशिला तथा ।
वटो भद्रवटो यत्र तत्र तस्याश्रमो बभौ ।
तत्रोपरि महत् तस्य चरितं संभविष्यति ।। ५१.२ ।।

धरण्युवाच ।
बहुकल्पसहस्त्राणि व्रतस्यास्य सनातन ।
मया कृतस्य तपसस्तन्मया विस्मृतं प्रभो ।। ५१.३ ।।

इदानीं त्वत्प्रसादेन स्मरणं प्राक्तनं मम ।
जातं जातिस्मरा चास्मि विशोका परमेश्वर ।। ५१.४ ।।

यदि नाम परं देव कौतुकं हृदि वर्तते ।
अगस्त्यः पुनरागत्य भद्राश्वस्य निवेशनम् ।
यच्चकार स राजा च तन्ममाचक्ष्व भूधर ।। ५१.५ ।।

श्रीवराह उवाच ।
प्रत्यागतमृषिं दृष्ट्वा भद्राश्वः श्वेतवाहनः ।
वरासनगतं दृष्ट्वा कृत्वा पूजां विशेषतः ।
अपृच्छन्मोक्षधर्माख्यं प्रश्नं सकलधारिणि ।। ५१.६ ।।

भद्राश्व उवाच ।
भगवन् कर्मणा केन छिद्यते भवसंसृतिः ।
किं वा कृत्वा न शोचन्ति मूर्त्तामूर्त्तोपपत्तिषु ।। ५१.७ ।।

अगस्त्य उवाच ।
श्रृणु राजन् कथां दिव्यां दूरासन्नव्यवस्थिताम् ।
दृश्यादृश्यविभागोत्थां समाहितमना नृप ।। ५१.८ ।।

नाहो न रात्रिर्न दिशोऽदिशश्च
न द्यौर्न देवा न दिनं न सूर्यः ।
तस्मिन् काले पशुपालेति राजा
स पालयामास पशूननेकान् ।। ५१.९ ।।

तान् पालयन् स कदाचिद् दिदृक्षुः
पूर्वं समुद्रं च जगाम तूर्णम् ।
अनन्तपारस्य महोदधेस्तु
तीरे वनं तत्र वसन्ति सर्पाः ।। ५१.१० ।।

अष्टौ द्रुमाः कामवहा नदी च
तुर्यक् चोद्र्ध्वं बभ्रमुस्तत्र चान्ये ।
पञ्च प्रधानाः पुरुषास्तथैकां
स्त्रियं बिभ्रते तेजसा दीप्यमानाम् ।। ५१.११ ।।

साऽपि स्त्री स्वे वक्षसि धारयन्ती
सहस्त्रसूर्यप्रतिमं विशालम् ।
तस्याधरस्त्रिर्विकारस्त्रिवर्ण-
स्तं राजानं पश्य परिभ्रमन्तम् ।। ५१.१२ ।।

तूष्णींभूता मृतकल्पा इवासन्
नृपोऽप्यसौ तद्वनं संविवेश ।
तस्मिन् प्रविष्टे सर्व एते विविशु-
र्भयादैक्यं गतवन्तः क्षणेन ।। ५१.१३ ।।

तैः सर्पैः स नृपो दुर्विनीतैः
संवेष्टितो दस्युभिश्चिन्तयानः ।
कथं चैतेन भविष्यन्ति येन
कथं चैते संसृताः संभवेयुः ।। ५१.१४ ।।

एवं राज्ञश्चिन्तयतस्त्रिवर्णः पुरुषः परः ।
श्वेतं रक्तं तथा कृष्णं त्रिवर्णं धारयन्नरः ।। ५१.१५ ।।

स संज्ञां कृतवान् मह्यमपरोऽथ क्व यास्यसि ।
एवं तस्य ब्रुवाणस्य महन्नाम व्यजायत ।। ५१.१६ ।।

तेनापि राजा संवीतः स बुध्यस्वेति चाब्रवीत् ।
एवमुक्ते ततः स्त्री तु तं राजानं रुरोध ह ।। ५१.१७ ।।

मायाततं तं मा भैष्ट ततोऽन्यः पुरुषो नृपम् ।
संवेष्ट्य स्थितवान् वीरस्ततः सर्वेश्वरेश्वरः ।। ५१.१८ ।।

ततोऽन्ये पञ्च पुरुषा आगत्य नृपसत्तमम् ।
संविष्ट्य संस्थिताः सर्वे ततो राजा विरोधितः ।। ५१.१९ ।।

रुद्धे राजनि ते सर्वे एकीभूतास्तु दस्यवः ।
मथितुं शस्त्रमादाय लीनाऽन्योऽन्यं ततो भयात् ।। ५१.२० ।।

तैर्लीनैर्नृपर्तेर्वेश्म बभौ परमशोभनम् ।
अन्येषामपि पापानां कोटिः साग्राभवन्नृप ।। ५१.२१ ।।

गृहे भूसलिलं वह्निः सुखशीतश्च मारुतः ।
सावकाशानि शुभ्राणि पञ्चैकोनगुणानि च ।। ५१.२२ ।।

एकैव तेषां सुचिरं संवेष्ट्यासज्यसंस्थिता ।
एवं स पशुपालोऽसौ कृतवानञ्जसा नृप ।। ५१.२३ ।।

तस्य तल्लाघवं दृष्ट्वा रूपं च नृपतेर्मृधे ।
त्रिवर्णः पुरुषो राजन्नब्रवीद् राजसत्तमम् ।। ५१.२४ ।।

त्वत्पुत्रोऽस्मि महाराज ब्रूहि किं करवाणि ते ।
अस्माभिर्बन्धुमिच्छद्भिर्भवन्तं निश्चयः कृतः ।। ५१.२५ ।।

यदि नाम कृताः सर्वे वयं देव पराजिताः ।
एवमेव शरीरेषु लीनास्तिष्ठाम पार्थिव ।। ५१.२६ ।।

मर्य्येके तव पुत्रत्वं गते सर्वेषु संभवः ।
एवमुक्तस्ततो राजा तं नरं पुनरब्रवीत् ।। ५१.२७ ।।

पुत्रो भवति मे कर्त्ता अन्येषामपि सत्तम ।
युष्मत्सुखैर्नरैर्भावैर्नाहं लिप्ये कदाचन ।। ५१.२८ ।।

एवमुक्त्वा स नृपतिस्तमात्मजमथाकरोत् ।
तैर्विमुक्तः स्वयं तेषां मध्ये स विरराम ह ।। ५१.२९ ।।

।। इति श्रीवराहपुराणे भगवच्छास्त्रे एकपञ्चाशोऽध्यायः ।। ५१ ।।