प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः ५४ वराहपुराणम्
अध्यायः ५५
[[लेखकः :|]]
अध्यायः ५६ →

अगस्त्य उवाच ।
श्रृणु राजन् महाभाग व्रतानामुत्तमं व्रतम् ।
येन संप्राप्यते विष्णुः शुभेनैव न संशयः ।। ५५.१ ।।

मार्गशीर्षेऽथ मासे तु प्रथमाह्नात् समारभेत् ।
एकभक्तं सिते पक्षे यावत् स्याद् दशमी तिथिः ।। ५५.२ ।।

ततो दशम्यां मध्याह्ने स्नात्वा विष्णुं समर्च्य च ।
भक्त्या संकल्पयेत् प्राग्वद् द्वादशीं पक्षतो नृप ।। ५५.३ ।।

तामप्येवमुषित्वा च यवान् विप्राय दापयेत् ।
कृष्णायेति हरिर्वाच्यो दाने होमे तथार्च्चने ।। ५५.४ ।।

चातुर्मास्यमथैवं तु क्षपित्वा राजसत्तम ।
चैत्रादिषु पुनस्तद्वदुपोष्य प्रयतः सुधीः ।
सक्तुपात्राणि विप्राणां सहिरण्यानि दापयेत् ।। ५५.५ ।।

श्रावणादिषु मासेषु तद्वच्छालिं प्रदापयेत् ।
त्रिषु मासेषु यावच्च कार्त्तिकस्यादिरागतः ।। ५५.६ ।।

तमप्येवं क्षपित्वा तु दशम्यां प्रयतः शुचिः ।
अर्चयित्वा हरिं भक्त्या मासनाम्ना विचक्षणः ।। ५५.७ ।।

संकल्पं पूर्ववद् भक्त्या द्वादश्यां संयतेन्द्रियः ।
एकादश्यां यथाशक्त्या कारयेत् पृथिवीं नृप ।। ५५.८ ।।

काञ्चनाङ्गां च पातालकुलपर्वतसंयुताम् ।
भूमिन्यासविधानेन स्थापयेत् तां हरेः पुरः ।। ५५.९ ।।

सितवस्त्रयुगच्छन्नां सर्वबीजसमन्विताम् ।
संपूज्य प्रियदत्तेति पञ्चरत्नैर्विचक्षणः ।। ५५.१० ।।

जागरं तत्र कुर्वीत प्रभाते तु पुनर्द्विजान् ।
आमन्त्र्यं संख्यया राजंश्चतुर्विंशति यावतः ।। ५५.११ ।।

तेषां एकैकशो गां च अनड्वाहं च दापयेत् ।
एकैकं वस्त्रयुग्मं च अङ्गुलीयकमेव च ।। ५५.१२ ।।

कटकानि च सौवर्णकर्णाभरणकानि च ।
एकैकं ग्राममेतेषां राजा राजन् प्रदापयेत् ।। ५५.१३ ।।

तन्मध्यमं सयुग्मं तु सर्वमाद्यं प्रदापयेत् ।
स्वशक्त्याभरणं चैव दरिद्रस्य स्वशक्तितः ।। ५५.१४ ।।

यथाशक्त्या महीं कृत्वा काञ्चनीं गोयुगं तथा ।
वस्त्रयुग्मं च दातव्यं यथाविभवशक्तितः ।। ५५.१५ ।।

गां युग्माभरणात् सर्वं सहिरण्यं च कारयेत् ।
एवं कृते तथा कृष्णशुक्लद्वादश्यमेव च ।। ५५.१६ ।।

रौप्यां वा पृथिवीं कृत्वा यथाविभवशक्तितः ।
दापयेद् ब्राह्मणानां तु तथा तेषां च भोजनम् ।
उपानहौ यथाशक्त्या पादुके छत्रिकां तथा ।। ५५.१७ ।।

एतान् दत्त्वा वदेदेवं कृष्णो दामोदरो मम ।
प्रीयतां सर्वदा देवो विश्वरूपो हरिर्मम ।। ५५.१८ ।।

दाने च भोजने चैव कृत्वा यत् फलमाप्यते ।
तन्न शक्यं सहस्त्रेण वर्षाणामपि कीर्तितुम् ।। ५५.१९ ।।

तथाप्युद्देशतः किञ्चित् फलं वक्ष्यामि तेऽनघ ।
व्रतस्यास्य पुरा वृत्तं शुभान्यस्य श्रृणुष्व तत् ।। ५५.२० ।।

आसीदादियुगे राजा ब्रह्मवादी दृढव्रतः ।
स पुत्रकामः पप्रच्छ ब्रह्माणं परमेष्ठिनम् ।
तस्येदं व्रतमाचख्यौ ब्रह्मा स कृतवांस्तथा ।। ५५.२१ ।।

तस्य व्रतान्ते विश्वात्मा स्वयं प्रत्यक्षतां ययौ ।
तुष्टश्चोवाच भो राजन् वरो मे व्रियतां वरः ।। ५५.२२ ।।

राजोवाच ।
पुत्रं मे देहि देवेश वेदमन्त्रविशारदम् ।
याजकं यजनासक्तं कीर्त्या युक्तं चिरायुषम् ।
असंख्यातगुणं चैव ब्रह्मभूतमकल्मषम् ।। ५५.२३ ।।

एवमुक्त्वा ततो राजा पुनर्वचनमब्रवीत् ।
ममाप्यन्ते शुभं स्थानं प्रयच्छ परमेश्वर ।
यत्तन्मुनिपदं नाम यत्र गत्वा न शोचति ।। ५५.२४ ।।

एवमस्त्विति तं देवः प्रोक्त्वा चादर्शनं गतः ।
तस्यापि राज्ञः पुत्रोऽभूद् वत्सप्रीर्नाम नामतः ।। ५५.२५ ।।

वेदवेदाङ्गसंपन्नो यज्ञयाजी बहुश्रुतः ।
तस्य कीर्त्तिर्महाराज विस्तृता धरणीतले ।। ५५.२६ ।।

राजाऽपि तं सुतं लब्ध्वा विष्णुदत्तं प्रतापिनम् ।
जगाम तपसे युक्तः सर्वद्वन्द्वान् प्रहाय सः ।। ५५.२७ ।।

आराधयामास हरिं निराहारो जितेन्द्रियः ।
हिमवत्पर्वते रम्ये स्तुतिं कुर्वंस्तदा नृपः ।। ५५.२८ ।।

भद्राश्व उवाच ।
कीदृशी सा स्तुतिर्ब्रह्मन् यां चकार स पार्थिवः ।
किं च तस्याभवद् देवं स्तुवतः पुरुषोत्तमम् ।। ५५.२९ ।।

दुर्वासा उवाच ।
हिमवन्तं समाश्रित्य राजा तद्गतमानसः ।
स्तुतिं चकार देवाय विष्णवे प्रभविष्णवे ।। ५५.३० ।।

राजोवाच ।
क्षराक्षरं क्षीरसमुद्रशायिनं
क्षितीधरं मूर्तिमतां परं पदम् ।
अतीन्द्रियं विश्वभुजां पुरः कृतं
निराकृतं स्तौमि जनार्दनं प्रभुम् ।। ५५.३१ ।।

त्वमादिदेवः परमार्थरूपी
विभुः पुराणः पुरुषोत्तमश्च ।
अतीन्द्रियो वेदविदां प्रधानः
प्रपाहि मां शङ्खगदास्त्रपाणे ।। ५५.३२ ।।

कृतं त्वया देव सुरासुराणां
संकीर्त्यतेऽसौ च अनन्तमूर्ते ।
सृष्ट्यर्थमेतत् तव देव विष्णो
न चेष्टितं कूटगतस्य तत्स्यात् ।। ५५.३३ ।।

तथैव कूर्मत्वमृगत्वमुच्चै -
स्त्वया कृतं रूपमनेकरूप ।
सर्वज्ञभावादसकृच्च जन्म
संकीर्त्त्यते तेऽच्युत नैतदस्ति ।। ५५.३४ ।।

नृसिंह नमो वामन जमदग्निनाम
दशास्यगोत्रान्तक वासुदेव ।
नमोऽस्तु ते बुद्ध कल्किन् खगेश
शंभो नमस्ते विबुधारिनाशन ।। ५५.३५ ।।

नमोऽस्तु नारायण पद्मनाभ
नमो नमस्ते पुरुषोत्तमाय ।
नमः समस्तामरसङ्घपूज्य
नमोऽस्तु ते सर्वविदां प्रधान ।। ५५.३६ ।।

नमः करालास्य नृसिंहमूर्त्ते
नमो विशालाद्रिसमान कूर्म ।
नमः समुद्रप्रतिमान मत्स्य
नमामि त्वां क्रोडरूपिननन्त ।। ५५.३७ ।।

सृष्ट्यर्थमेतत् तव देव चेष्टितं
न मुख्यपक्षे तव मूर्त्तिता विभो ।
अजानता ध्यानमिदं प्रकाशितं
नैभिर्विना लक्ष्यसे त्वं पुराण ।। ५५.३८ ।।

आद्यो मखस्त्वं स्वयमेव विष्णो
मखाङ्गभूतोऽसि हविस्त्वमेव ।
पशुर्भवान् ऋत्विगिज्यं त्वमेव
त्वां देवसङ्घा मुनयो यजन्ति ।। ५५.३९ ।।

यदेतस्मिन् जगध्रुवं चलाचलं
सुरादिकालानलसंस्थमुत्तमम् ।
न त्वं विभक्तोऽसि जनार्दनेश
प्रयच्छ सिद्धिं हृदयेप्सितां मे ।। ५५.४० ।।

नमः कमलपत्राक्ष मूर्त्तामूर्त्त नमो हरे ।
शरणं त्वां प्रपन्नोऽस्मि संसारान्मां समुद्धर ।। ५५.४१ ।।

एवं स्तुतस्तदा देवस्तेन राज्ञा महात्मना ।
विशालाम्रतलस्थेन तुतोष परमेश्वरः ।। ५५.४२ ।।

कुब्जरूपी ततो भूत्वा आजगाम हरिः स्वयम् ।
तस्मिन्नागतमात्रे तु सीप्याम्रः कुब्जकोऽभवत् ।। ५५.४३ ।।

तं दृष्ट्वा महदाश्चर्यं स राजा संशितव्रतः ।
विशालस्य कथं कौब्ज्यमिति चिन्तापरोभवत् ।। ५५.४४ ।।

तस्य चिन्तयतो बुद्धिर्बभौ तं ब्राह्मणं प्रति ।
अनेनागतमात्रेण कृतमेतन्न संशयः ।। ५५.४५ ।।

तस्मादेषैव भविता भगवान् पुरुषोत्तमः ।
एवमुक्त्वा नमश्चक्रे तस्य विप्रस्य स नृपः ।। ५५.४६ ।।

अनुग्रहाय भगवन् नूनं त्वं पुरुषोत्तमः ।
आगतोऽसि स्वरूपं मे दर्शयस्वाधुना हरे ।। ५५.४७ ।।

एवमुक्तस्तदा देवः शङ्खचक्रगदाधरः ।
बभौ तत्पुरतः सौम्यो वाक्यं चेदमुवाच ह ।। ५५.४८ ।।

वरं वृणीष्व राजेन्द्र यत्ते मनसि वर्तते ।
मयि प्रसन्ने त्रैलोक्य तिलमात्रमिदं नृप ।। ५५.४९ ।।

एवमुक्तस्ततो राजा हर्षोत्फुल्लितलोचनः ।
मोक्षं प्रयच्छ देवेशेत्युक्त्वा नोवाच किंचन ।। ५५.५० ।।

एवमुक्तः स भगवान् पुनर्वाक्यमुवाच ह ।
मय्यागते विशालोऽयमाम्रः कुब्जत्वमागतः ।
यस्मात् तस्मात् तीर्थमिदं कुब्जकाम्रं भविष्यति ।। ५५.५१ ।।

तिर्यग्योन्यादयोऽप्यस्मिन् ब्राह्मणान्ता यदि स्वकम् ।
कलेवरं त्यजिष्यन्ति तेषां पञ्चशतानि च ।
विमानानि भविष्यन्ति योगिनां मुक्तिरेव च ।। ५५.५२ ।।

एवमुक्त्वा नृपं देवः शङ्खाग्रेण जनार्दनः ।
पस्पर्श स्पृष्टमात्रोऽसौ परं निर्वाणमाप्तवान् ।। ५५.५३ ।।

तस्मात्त्वमपि राजेन्द्र तं देवं शरणं व्रज ।
येन भूयः पुनः शोच्यपदवीं नो प्रयास्यसि ।। ५५.५४ ।।

य इदं श्रृणुयान्नित्यं प्रातरुत्थाय मानवः ।
पठेद् यश्चरितं ताभ्यां मोक्षधर्मार्थदो भवेत् ।। ५५.५५ ।।

शुभव्रतमिदं पुण्यं यश्च कुर्याज्जनेश्वर ।
स सर्वसम्पदं चेह भुक्त्वेते तल्लयं व्रजेत् ।। ५५.५६ ।।

।। इति श्रीवराहपुराणे भगवच्छास्त्रे पञ्चपञ्चाशोऽध्यायः ।। ५५ ।।