वराहपुराणम्/अध्यायः ६२
← अध्यायः ६१ | वराहपुराणम् अध्यायः ६२ [[लेखकः :|]] |
अध्यायः ६३ → |
अगस्त्य उवाच ।
अथापरं महाराज व्रतमारोग्यसंज्ञितम् ।
कथयामि परं पुण्यं सर्वपापप्रणाशनम् ।। ६२.१ ।।
तस्यैव माघमासस्य सप्तम्यां समुपोषितः ।
पूजयेद् भास्करं देवं विष्णुरूपं सनातनम् ।। ६२.२ ।।
आदित्य भास्कर रवे भानो सूर्य दिवाकर ।
प्रभाकरेति संपूज्य एवं संपूज्यते रविः ।। ६२.३ ।।
षष्ठ्यां चैव कृताहारः सप्तम्यां भानुमर्चयेत् ।
अष्टम्यां चैव भुञ्जीत एष एव विधिक्रमः ।। ६२.४ ।।
अनेन वत्सरं पूर्णं विधिना योऽर्चयेद् रविम् ।
तस्यारोग्यं धनं धान्यमिह जन्ममि जायते ।
परत्र च शुभं स्थानं यद् गत्वा न निवर्तते ।। ६२.५ ।।
सार्वभौमः पुरा राजा अनरण्यो महाबलः ।
तेनायमर्चितो देवो व्रतेनानेन पार्थिव ।
तस्य तुष्टो वरं देवः प्रादादारोग्यमुत्तमम् ।। ६२.६ ।।
भद्राश्व उवाच ।
किमसौ रोगवान् राजा येनारोग्यमवाप्तवान् ।
सार्वभौमस्य च कथं ब्रह्मन् रोगस्य संभवः ।। ६२.७ ।।
अगस्त्य उवाच ।
स राजा सार्वभौमोऽभूद् यशस्वी च सुरूपवान् ।
स कदाचिन्नृपश्रेष्ठो नृपश्रेष्ठ महाबलः ।।६२.८ ।।
गतवान् मानसं दिव्यं सरो देवगणान्वितम् ।
तत्रापश्यद् बृहद् पद्मं सरोमध्यगतं सितम् ।। ६२.९ ।।
तत्र चाङ्गुष्ठमात्रं तु स्थितं पुरुषसत्तमम् ।
रक्तवासोभिराछन्नं द्विभुजं तिग्मतेजसम् ।। ६२.१० ।।
तं दृष्ट्वा सारथिं प्राह पद्ममेतत् समानय ।
इदं तु शिरसा बिभ्रत् सर्वलोकस्य सन्निधौ ।
श्लाघनीयो भविष्यामि तस्मादाहर माचिरम् ।। ६२.११ ।।
एवमुक्तस्तदा तेन सारथिः प्रविवेश ह ।
ग्रहीतुमुपचक्राम तं पद्मं नृपसत्तम ।। ६२.१२ ।।
स्पृष्टमात्रे ततः पद्मे हुङ्कारः समजायत ।
तेन शब्देन स त्रस्तः पपात च ममार च ।। ६२.१३ ।।
राजा च तत्क्षणात् तेन शब्देन समपद्यत ।
कुष्ठी विगतवर्णश्च बलवीर्यविवर्जितः ।। ६२.१४ ।।
तथागतमथात्मानं दृष्ट्वा स पुरुषर्षभः ।
तस्थौ तत्रैव शोकार्त्तः किमेतदिति चिन्तयन् ।। ६२.१५ ।।
तस्य चिन्तयतो धीमानाजगाम महातपाः ।
वसिष्ठो ब्रह्मपुत्रोऽथ तं स पप्रच्छ पार्थिवम् ।। ६२.१६ ।।
कथं ते राजशार्दूल तव देहस्य शासनम् ।
इदानीमेव किं कार्यं तन्ममाचक्ष्व पृच्छतः ।। ६२.१७ ।।
एवमुक्तस्ततो राजा वसिष्ठेन महात्मना ।
सर्वं पद्मस्य वृत्तान्तं कथयामास स प्रभुः ।। ६२.१८ ।।
तं श्रुत्वा स मुनिस्तत्र साधु राजन्नथाब्रवीत् ।
असाधुरथ वा तिष्ठ तस्मात् कुष्ठित्वमागतः ।। ६२.१९ ।।
एवमुक्तस्तदा राजा वेपमानः कृताञ्जलिः ।
पप्रच्छ साध्वहं विप्र कथं वाऽसाध्वहं मुने ।
कथं च कुष्ठं मे जातमेतन्मे वक्तुमर्हसि ।। ६२.२० ।।
वसिष्ठ उवाच ।
एतद् ब्रह्मोद्भवं नाम पद्मं त्रैलोक्यविश्रुतम् ।
दृष्टमात्रेण चानेन दृष्टाः स्युः सर्वदेवताः ।
एतस्मिन् दृश्यते चैतत् षण्मासं क्वापि पार्थिव ।। ६२.२१ ।।
एतस्मिन् दृष्टमात्रे तु यो जलं विशते नरः ।
सर्वपापविनिर्मुक्तः परं निर्वाणमर्हति ।। ६२.२२ ।।
ब्रह्मणः प्रागवस्थाया मूर्तिरप्सु व्यवस्थिता ।
एतां दृष्ट्वा जले मग्नः संसाराद् विप्रमुच्यते ।। ६२.२३ ।।
इमं च दृष्ट्वा ते सूतो जले मग्नो नरोत्तम ।
प्रविष्टश्च पुनरिमं हर्तुमिच्छन्नराधिप ।
प्राप्तवानसि दुर्बुद्धे कुष्ठित्वं पापपूरुष ।। ६२.२४ ।।
दृष्टमेतत् त्वया यस्मात् त्वं साध्विति ततः प्रभो ।
मयोक्तो मोहमापन्नस्तेनासाधुरितीरितः ।। ६२.२५ ।।
ब्रह्मपुत्रो ह्यहं चेमं पश्यामि परमेश्वरम् ।
अहन्यहनि चागच्छंस्तं पुनर्दृष्टवानसि ।। ६२.२६ ।।
देवा अपि वदन्त्येते पद्मं काञ्चनमुत्तमम् ।
मानसे ब्रह्मपद्मं तु दृष्ट्वा चात्र गतं हरिम् ।
प्राप्स्यामस्तत् परं ब्रह्म यद् गत्वा न पुनर्भवेत् ।। ६२.२७ ।।
इदं च कारणं चान्यत् कुष्ठस्य श्रृणु पार्थिव ।
आदित्यः पद्मगर्भेऽस्मिन् स्वयमेव व्यवस्थितः ।। ६२.२८ ।।
तं दृष्ट्वा तत्त्वतो भावः परमात्मैष शाश्वतः ।
धारयामि शिरस्येनं लोकमध्ये विभूषणम् ।। ६२.२९ ।।
एवं ते जल्पता पापमिदं देवेन दर्शितम् ।
इदानीमिममेव त्वमाराधय महामते ।। ६२.३० ।।
अगस्त्य उवाच ।
एवमुक्त्वा वसिष्ठस्तु इममेव व्रतं तदा ।
आदित्याराधनं दिव्यमारोग्याख्यं जगाद ह ।। ६२.३१ ।।
सोऽपि राजाऽकरोच्चेमं व्रतं भक्तिसमन्वितः ।
सिद्धिं च परमां प्राप्तो विरोगश्चाभवत् क्षणात् ।। ६२.३२ ।।
।। इति श्रीवराहपुराणे भगवच्छास्त्रे द्विषष्टितमोऽध्यायः ।। ६२ ।।