प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः ६९ वराहपुराणम्
अध्यायः ७०
[[लेखकः :|]]
अध्यायः ७१ →

भद्राश्व उवाच ।
भगवन् किं कृतं लोकं त्वया तमनुपश्यता ।
व्रतं तपो वा धर्मो वा प्राप्त्यर्थं तस्य वै मुने ।। ७०.१ ।।

अनाराध्य हरिं भक्त्या को लोकान् कामयेद् बुधः ।
आराधिते हरौ लोकाः सर्वे करतलेऽभवन् ।। ७०.२ ।।

एवं संचिन्त्य राजेन्द्र मया विष्णुः सनातनः ।
आराधितो वर्षशतं क्रतुभिर्भूरिदक्षिणैः ।। ७०.३ ।।

ततः कदाचिद् बहुना कालेन नृपनन्दन ।
यजतो मम देवेशं यज्ञमूर्तिं जनार्दनम् ।
आहूता आगता देवाः सममेव सवासवाः ।। ७०.४ ।।

स्वे स्वे स्थाने स्थिता आसन् यावद् देवाः सवासवाः ।
तावत् तत्रैव भगवानागतो वृषभध्वजः ।। ७०.५ ।।

महादेवो विरूपाक्षस्त्र्यम्बको नीललोहितः ।
सोऽपि रौद्रे स्थितः स्थाने बभूव परमेश्वरः ।। ७०.६ ।।

तान् सर्वानागतान् दृष्ट्वा देवानृषिमहोरगान् ।
सनत्कुमारो भगवानाजगामाब्जसंभवः ।। ७०.७ ।।

त्रसरेणुप्रमाणेन विमाने सूर्यसन्निभे ।
अवस्थितो महायोगी भूतभव्यभविष्यवित् ।। ७०.८ ।।

आगम्य शिरसा रुद्रं स ववन्दे महामुनिः ।
मया प्रणमितस्तस्थौ समीपे शूलपाणिनः ।। ७०.९ ।।

तानहं संस्थितान् देवान् नारदादीनृषींस्तथा ।
सनत्कुमाररुद्रौ च दृष्ट्वा मे मनसि स्थितम् ।। ७०.१० ।।

क एषां भवते याज्यो वरिष्ठश्च नृपोत्तम ।
केन तुष्टेन तुष्टाः स्युः सर्व एते सरुद्रकाः ।। ७०.११ ।।

एवं कृत्वा स्थिते राजन् रुद्रः पृष्टो मयाऽनघ ।
एवमर्थं क इज्योऽत्र युष्माकं सुरसत्तमाः ।। ७०.१२ ।।

एवमुक्ते तदोवाच रुद्रो मां सुरसन्निधौ ।। ७०.१३ ।।

रुद्र उवाच ।
श्रृण्वन्तु बिबुधाः सर्वे तथा देवर्षयोऽमलाः ।
ब्रह्मर्षयश्च विख्याता सर्वे श्रृण्वन्तु मे वचः ।
त्वं चागस्त्य महाबुद्धे श्रृणु मे गदतो वचः ।। ७०.१४ ।।

यो यज्ञैरीड्यते देवो यस्मात् सर्वमिदं जगत् ।
उत्पन्नं सर्वदा यस्मिंल्लीनं भवति सामरम् ।। ७०.१५ ।।

नारायणः परो देवः सत्त्वरूपो जनार्दनः ।
त्रिधात्मानं स भगवान् ससर्ज परमेश्वरः ।। ७०.१६ ।।

रजस्तमोभ्यां युक्तोऽभूद् रजः सत्त्वाधिकं विभुः ।
ससर्ज नाभिकमले ब्रह्माणं कमलासनम् ।। ७०.१७ ।।

रजसा तमसा युक्तः सोऽपि मां त्वसृजत् प्रभुः ।
यत्सत्त्वं स हरिर्देवो यो हरिस्तत्परं पदम् ।। ७०.१८ ।।

ये सत्त्वरजसी सोऽपि ब्रह्मा कमलसंभवः ।
यो ब्रह्मा सैव देवस्तु यो देवः सः चतुर्मुखः ।
यद्रजस्तमसोपेतं सोऽहं नास्त्यत्र संशयः ।। ७०.१९ ।।

सत्त्वं रजस्तमश्चैव त्रितयं चैतदुच्यते ।
सत्त्वेन मुच्यते जन्तुः सत्त्वं नारायणात्मकम् ।। ७०.२० ।।

रजसा सत्त्वयुक्तेन भवेत् सृष्टी रजोऽधिका ।
तच्च पैतामहं वृत्तं सर्वशास्त्रेषु पठ्यते ।। ७०.२१ ।।

यद्वेदबाह्यं कर्म स्याच्छास्त्रमुद्दिश्य सेव्यते ।
तद्रौद्रमिति विख्यातं कनिष्ठं गदितं नृणाम् ।। ७०.२२ ।।

यद्धीनं रजसा कर्म केवलं तामसं तु यत् ।
तद् दुर्गतिपरं नॄणामिह लोके परत्र च ।। ७०.२३ ।।

सत्त्वेन मुच्यते जन्तुः सत्त्वं नारायणात्मकम् ।
नारायणश्च भगवान् यज्ञरूपी विभाव्यते ।। ७०.२४ ।।

कृते नारायणः शुद्धः सूक्ष्ममूर्तिरुपास्यते ।
त्रेतायां यज्ञरूपेण पञ्चरात्रैस्तु द्वापरे ।। ७०.२५ ।।

कलौ मत्कृतमार्गेण बहुरूपेण तामसैः ।
इज्यते द्वेषबुद्ध्या स परमात्मा जनार्दनः ।। ७०.२६ ।।

न तस्मात् परतो देवो भविता न भविष्यति ।
यो विष्णुः स स्वयं ब्रह्मा यो ब्रह्मा सोऽहमेव च ।। ७०.२७ ।।

वेदत्रयेऽपि यज्ञेऽस्मिन् याज्यं वेदेषु निश्चयः ।
यो भेदं कुरुतेऽस्माकं त्रयाणां द्विजसत्तम ।
स पापकारी दुष्टात्मा दुर्गतिं गतिमाप्नुयात् ।। ७०.२८ ।।

इदं च श्रृणु मेऽगस्त्य गदतः प्राक्तनं तथा ।
यथा कलौ हरेर्भक्तिं न कुर्वन्तीह मानवाः ।। ७०.२९ ।।

भूर्लोकवासिनः सर्वे पुरा यष्ट्वा जनार्दनम् ।
भुवर्लोकं प्रपद्यन्ते तत्रस्था अपि केशवम् ।
आराध्य स्वर्गतिं यान्ति क्रमान्मुक्तिं व्रजन्ति च ।। ७०.३० ।।

एवं मुक्तिपदे व्याप्ते सर्वलोकैस्तथैव च ।
मुक्तिभाजस्ततो देवास्तं दध्युः प्रयता हरिम् ।। ७०.३१ ।।

सोऽपि सर्वगतत्वाच्च प्रादुर्भूतः सनातनः ।
उवाच ब्रूत किं कार्यं सर्वयोगिवराः सुराः ।। ७०.३२ ।।

ते तं प्रणम्य देवेशमूचुश्च परमेश्वरम् ।
देवदेव जनः सर्वो मुक्तिमार्गे व्यवस्थितः ।
कथं सृष्टिः प्रभविता नरकेषु च को वसेत् ।। ७०.३३ ।।

एवमुक्तस्ततो देवैस्तानुवाच जनार्दनः ।
युगानि त्रीणि बहवो मामुपेष्यन्ति मानवाः ।। ७०.३४ ।।

अन्त्ये युगे प्रविरला भविष्यन्ति मदाश्रयाः ।
एष मोहं सृजाम्याशु यो जनं मोहयिष्यति ।। ७०.३५ ।।

त्वं च रुद्र महाबाहो मोहशास्त्राणि कारय ।
अल्पायासं दर्शयित्वा फलं दीर्घं प्रदर्शय ।। ७०.३६ ।।

कुहकं चेन्द्रजालानि विरुद्धाचरणानि च ।
दर्शयित्वा जनं सर्वं मोहयाशु महेश्वर ।। ७०.३७ ।।

एवमुक्त्वा तदा तेन देवेन परमेष्ठिना ।
आत्मा तु गोपितः सद्यः प्रकाश्योऽहं कृतस्तदा ।। ७०.३८ ।।

तस्मादारभ्य कालं तु मत्प्रणीतेषु सत्तम ।
शास्त्रेष्वभिरतो लोको बाहुल्येन भवेदतः ।। ७०.३९ ।।

वेदानुवर्त्तिनं मार्गं देवं नारायणं तथा ।
एकीभावेन पश्यन्तो मुक्तिभाजो भवन्ति ते ।। ७०.४० ।।

मां विष्णोर्व्यतिरिक्तं ये ब्रह्माणं च द्विजोत्तम ।
भजन्ते पापकर्माणस्ते यान्ति नरकं नराः ।। ७०.४१ ।।

ये वेदमार्गनिर्मुक्तास्तेषां मोहार्थमेव च ।
नयसिद्धान्तसंज्ञाभिर्मया शास्त्रं तु दर्शितम् ।। ७०.४२ ।।

पाशोऽयं पशुभावस्तु स यदा पतितो भवेत् ।
तदा पाशुपतं शास्त्रं जायते वेदसंज्ञितम् ।। ७०.४३ ।।

वेदमूर्तिरहं विप्र नान्यशास्त्रार्थवादिभिः ।
ज्ञायते मत्स्वरूपं तु मुक्त्वा वेदमनादिमत् ।
वेदवेद्योऽस्मि विप्रर्षे ब्राह्मणैश्च विशेषतः ।। ७०.४४ ।।

युगानि त्रीण्यहं विप्र ब्रह्मा विष्णुस्तथैव च ।
त्रयोऽपि सत्त्वादिगुणास्त्रयो वेदास्त्रयोऽग्नयः ।। ७०.४५ ।।

त्रयो लोकास्त्रयः संध्यास्त्रयो वर्णास्तथैव च ।
सवनानि तु तावन्ति त्रिधा बद्धमिदं जगत् ।। ७०.४६ ।।

य एवं वेत्ति विप्रर्षे परं नारायणं तथा ।
अपरं पद्मयोनिं तु ब्रह्माणं त्वपरं तु माम् ।
गुणतो मुख्यतस्त्वेक एवाहं मोह इत्युत ।। ७०.४७ ।।

।। इति श्रीवराहपुराणे भगवच्छास्त्रे सप्ततितमोऽध्यायः ।। ७० ।।