← अध्यायः ८० वराहपुराणम्
अध्यायः ८१
[[लेखकः :|]]
अध्यायः ८२ →


रुद्र उवाच ।
अतः परं पर्वतेषु देवानामवकाशा वर्ण्यन्ते ।
तत्र योऽसौ शान्ताख्यः पर्वतस्तस्योपरि महेन्द्रस्य क्रीडास्थानम् ।
तत्र देवराजस्य पारिजातकवृक्षवनम् ।
तस्य पूर्वपार्श्वे कुञ्जरो नाम गिरिः ।
तस्योपरि दानवानामष्टौ पुराणि च । १
तथा वज्रके पर्वतवरे राक्षसानामनेकानि पुराणि ।
ते च नाम्ना नीलकाः कामरूपिणः ।
महानीलेऽपि शैलेन्द्रपुराणि ।
पञ्चदशसहस्त्राणि किन्नराणां ख्यातानि ।
तत्र देवदत्तचन्द्रादयो राजानः ।
पञ्चदशकिन्नराणां गर्विताः ।
तानि सौवर्णानि बिलप्रवेशनानि च पुराणि ।
चन्द्रोदये च पर्वतवरे नागानामधिवासः ।
ते च बिलप्रवेशाः बिलेषु वैनतेयविषयावर्त्तिनो व्यवस्थितानुरागे च दानवेन्द्रा व्यवस्थिताः ।
वेणुमत्यपि विद्याधरपुरत्रयं ।
त्रिंशद्योजनशतविस्तीर्णमेकैकं तावदायतम् ।
उलूकरोमशमहावेत्रादयश्च राजानो विद्याधराणाम् । २
एकैके च शैलराजनि स्वयमेव गरुडो व्यवस्थितः ।
कुञ्जरे तु पर्वतवरे नित्यं पशुपतिः स्थितः ।
वृषभाङ्को महादेवः शंकरो योगिनां वरः अनेकगणभूतकोटिसहस्त्रवारो भगवान् अनादिपुरुषो व्यवस्थितः ।
वसुधारे च पुष्पवतां वसूनां च समावासः । ३
वसुधाररत्नधारयोर्मूर्ध्नि अष्टौ सप्त च संख्यया । पुराणि वसुसप्तर्षीणां चेति ।
एकश्रृङ्गे च पर्वतोत्तमे प्रजापतेः स्थानं चतुर्वक्त्रस्य ब्रह्मणः।
गजपर्वते च महाभूतपरिवृता स्वयमेव भगवती तिष्ठति । ४
वसुधारे च पर्वतवरे मुनिसिद्धविद्याधराणामायतनम् ।
चतुराशीत्यपरपुर्यो महाप्राकारतोरणाः ।
तत्र चानेकपर्वता नाम गन्धर्वा युद्धशालिनो वसन्ति ।
तेषां चाधिपतिर्देवो राजराजैकपिङ्गलः ।
सुरराक्षसाः पञ्चकूटेदानवाः शतश्रृङ्गेयक्षाणां पुरशतम् । ५
ताम्राभे तक्षकस्यपुरशतम् । विशखपर्वते गुहस्यायतनम् ।
श्वेतोदये गिरिवरे महागन्धर्वभवनम् ।
हरिकूटे हरिर्देवः । कुमुदे किन्नरावासः । अञ्जने महोरगाः ।
सहस्त्रशिखरे च दैत्यानामुग्रकर्मिणामावासः ।
पुराणां सहस्त्रमेकं हेममालिनाम् मुकुटे पन्नप्रपक्षे पर्वतवरे चत्वार्यायतनानि तु।
एवं मेरुपर्वतेषु देवानामधिवासः ।
मर्यादापर्वते देवकूटे पुरविन्यासः कीर्त्यते ।
तस्योपरि योजनशतं गरुडस्य जातं क्षेत्रम् ।
तस्यैव पार्श्वतस्त्रिंशद्योजनविस्तीर्णाश्चत्वारिंशदायताः सप्तगन्धर्वनगराः ।
आग्नेयाश्च नाम्ना गन्धर्वातिबलिनः ।
तत्र चान्यत् त्रिंशद्योजनमण्डलं पुरम् सैंहिकेयानाम् ।
तत्र च देवर्षिचरितानि देवकूटे दृश्यन्ते ।
पुरं च कालकेयानां तत्रैव ।
तथा चान्तरतटेऽन्येसुनान्नाम तस्यैव दक्षिणे त्रिंशद्योजनविस्तृतं द्विषष्टियोजनायामं पुरम् कामरूपिणां दृप्तानां मध्यमे च तस्य हेमकूटे महादेवस्य न्यग्रोधः ।
अथातः कैलासवर्णको भवति।
कैलासस्य तटे योजनशतमायामवस्तृतम् भुवनमालाभिव्याप्तम् ।
तस्याश्च मध्ये सभा ।
तत्र च तत्पुष्करं नाम विमानं तिष्ठति ।
धनदस्य च तद्विमानमधिवासश्च । तत्र पद्ममहापद्ममकरकच्छपकुमुदशङ्खनीलनन्दमहानिधयः प्रतिवसन्ति ।
तत्र चन्द्रादीनां लोकपालानामावासः ।
तत्र च मन्दाकिनी नाम नदी ।
तथा कनकमन्दा मन्दा चेति नामभिः सरितः ।
तत्रान्या अपि नद्यः सन्ति ।
पूर्वपार्श्वे च शतयोजनमायामास्त्रिंशद्योजनविस्तृता दशगन्धर्वपुर्यः तासु च सकुबाहुहरिकेशचित्रसेनादयो राजानः ।
तस्यैव च पश्चिमकूटे अशीतियोजनायामं चत्वारिंशद्विस्तृतमेकैकं यक्षनगरम् ।
तेषु च महामालिसुनेत्र चक्रादयो नायकाः ।
तस्यैव दक्षिणे पार्श्वे कुञ्जदरीषु गुहासु समुद्राः समुद्रं यावत्किन्नराणां पुरशतम् ।
तेषु च द्रुमसुग्रीवादिभगदत्तप्रमुखं राजशतम् ।
तत्र च रुद्रस्योमया सार्द्धं विवाहस्संवृत्तः ।
तपश्च कृतवती गौरी । किरातरूपिणा च रुद्रेण स्थितम् ।
तत्रैव तत्र स्थितेन सोमेन शंकरेण जम्बूद्वीपावलोकनं कृतम् ।
तत्र चानेककिन्नरगन्धर्वोपगीतमुमावनं नामाप्सरोभिरनेकपुष्पलतावल्लीभिरुपेतम् ।
यत्र भगवता महेश्वरेणार्द्धनारीनरवपुः प्राप्तम् ।
तत्र च कार्तिकेयस्य शरद्वनम् ।
पुष्पचित्रक्रौञ्चयोर्मध्ये कार्तिकेयाभिषेकः कृतः तस्य च पूर्वतटे सिद्धमुनिगणावासः कलापग्रामो नाम ।
तथा च मार्कण्डेयवसिष्ठपराशरनलविश्वामित्रोद्दालकादीनां महर्षीणामनेकानि सहस्त्राण्याश्रमाणां हि भवति ।
तथा च पश्चिमस्याचलेन्द्रस्य निषधस्य भागं श्रृणुत ।
तस्य च मध्यमकूटे विष्ण्वायतनं महादेवस्य ।
तस्यैवोत्तरतटे त्रिंशद्योजनविस्तृतं महत्पुरं लम्बाख्यातं राक्षसानाम् ।
तस्यैव दक्षिणे पार्श्वे बिलप्रवेशनगरम् ।
प्रभेदकस्य पश्चिमेन देवदानवसिद्धादीनां पुराणि ।
तस्य गिरेर्मूर्ध्नि महती सोमशिला तिष्ठति ।
तस्यां च पर्वणि सोमः स्वयमेवावतरति ।
तस्यैवोत्तरपार्श्वे त्रिकूटं नाम ।
तत्र ब्रह्मा तिष्ठति क्वचित् । तथा च वह्न्यायतनम् ।
मूर्त्तिमान् वह्निरुपास्यते देवैः । ६
उत्तरे च श्रृङ्गाख्ये पर्वतवरे देवतानामायतनानि ।
पूर्वे नारायणस्यायतनम् । मध्ये ब्रह्मणः ।
शंकरस्य पश्चिमे ।
तत्र च यक्षादीनां केचित् पुराणि तस्य चोत्तरतीरे जातुछे महापर्वते त्रिंशद्योजनमण्डलं नन्दजलं नाम सरस् तत्र नन्दो नाम नागराजा वसति शतशीर्षप्रचण्ड इति।।७
इत्येतेऽष्टौ देवपर्वता विज्ञेयाः ।
तेनानुक्रमेण हेमरजतरत्नवैदूर्यमानः शिलाहिङ्गुलादिवर्णाः ।
इयं च पृथ्वी लक्षकोटिशतानेकसंख्यातानां पूर्णा तेषु च सिद्धविद्याधराणां निलयाः ते च मेरोः पार्श्वतः केसरवलयालवालं सिद्धलोकेति कीर्त्त्यते ।
इयं पृथ्वी पद्माकारेण व्यवस्थिता ।
एष च सर्वपुराणेषु क्रमः सामान्यतः प्रतिपाद्यते । ८
।। इति श्रीवराहपुराणे भगवच्छास्त्रे एकाशीतितमोऽध्यायः ।। ८१ ।।

पुराणानि
  1. अग्निपुराणम्
  2. कूर्मपुराणम्
  3. गरुडपुराणम्
  4. नारदपुराणम्
  5. पद्मपुराणम्
  6. ब्रह्मपुराणम्
  7. ब्रह्मवैवर्तपुराणम्
  8. ब्रह्माण्डपुराणम्
  9. भविष्यपुराणम्
  10. भागवतपुराणम्
  11. मत्स्यपुराणम्
  12. मार्कण्डेयपुराणम्
  13. लिङ्गपुराणम्
  14. वराहपुराणम्
  15. वामनपुराणम्
  16. वायुपुराणम्
  17. विष्णुपुराणम्
  18. शिवपुराणम्
  19. स्कन्दपुराणम्
  20. हरिवंशपुराणम्

उपपुराणाः

  1. कल्किपुराणम्
  2. कालिकापुराणम्
  3. देवीभागवतपुराणम्
  4. विष्णुधर्मोत्तरपुराणम्

रामायणम्

  1. वाल्मीकिरामायणम्
  2. योगवासिष्ठः

संहिताग्रन्थाः

  1. गर्गसंहिता
  2. लक्ष्मीनारायणसंहिता

विकीर्णग्रन्थाः

  1. जैमिनीयाश्वमेधपर्व