प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः ८४ वराहपुराणम्
अध्यायः ८५
[[लेखकः :|]]
अध्यायः ८६ →

रुद्र उवाच ।
इयं भूपद्मव्यवस्था कथिता। इदानीं भारतं नवभेदं श्रृणुत। तद्यथा। इन्द्रः कसेरुः ताम्रवर्णो गभस्तिः नागद्वीपः सौम्यः गन्धर्वः वारुणः भातरं चेति। सागरसंवृतमेकैकं योजनसहस्त्रप्रमाणम्। तत्र च सप्त कुलपर्वता भवन्ति। तद्यथा। महेन्द्रो मलयः सह्यः शुक्तिमान्नृक्षपर्वतः। विन्ध्यश्च पारियात्रश्च इत्येते कुलपर्वताः। अन्ये च मन्दरशारदर्दुरकोलाहलसुरमैनाकवैद्युतवारन्धमपाण्डुरतुङ्गप्रस्थकृष्णगिरिजयन्तरैवतऋष्यमूकगोमन्तचित्रकूटश्रीचकोरकूटशैलकृतस्थल इत्येते क्षुद्रपर्वताः। शेषाः क्षुद्रतराः। तेषामार्या म्लेच्छा जनपदा वसन्ति। पिबन्ति चैतासु नदीषु पानीयम्। तद्यथा गङ्गा सिन्धु सरस्वती शतद्रु वितस्ता विपाशा चन्द्रभागा सरयू यमुना इरावती देविका कुहू गोमती धूतपापा बाहुदा दृषद्वती कौशिकी निस्वरा गण्डकी चक्षुष्मती लोहिता इत्येता हिमवत्पादनिर्गताः।।

वेदस्मृतिर्वेदवती सिन्धुपर्णा सचन्दना सदाचारा रोहिपारा चर्मण्वती विदिशा वेदत्रयी इत्येता पारियात्रोद्भवाः।।४।। शोणा ज्योतीरथा नर्मदा सुरसा मन्दाकिनी दशार्णा चित्रकूटा तमसा पिप्पला करतोया पिशाचिका चित्रोत्पला विशाला वञ्जुला बालुका वाहिनी शुक्तिमती विरजा पङ्किनी रिरी कुहू इत्येता ऋक्षप्रसूताः। मणिजाला शुभा तापी पयोष्णीं शीघ्रोदा वेष्णा पाशा वैतरणी वेदी पाली कुमुद्वती तोया दुर्गा अन्त्या गिरा एता विन्ध्यपादोद्भवाः। गोदावरी भीमरथी कृष्णा वेणा वञ्जुला तुङ्गभद्रा सुप्रयोगा वाह्या कावेरी इत्येताः सह्यपादोद्भवाः।५।।
शतमाला ताम्रपर्णी पुष्पावती उत्पलावती इत्येता मलयजाः।
त्रियामा ऋषिकुल्या इक्षुला त्रिविदा लाङ्गूलिनी वंशवरा महेन्द्रतनयाः। ऋषिका लूमती मन्दगामिनी पलाशिनी इत्येताः शुक्तिमत्प्रभवाः। एताः प्राधान्येन कुलपर्वतनद्यः। शेषाः क्षुद्रनद्यः। एष जम्बूद्वीपो योजनलक्षप्रमाणतः।

अध्यायः ८६
अतः परं शाकद्वीपं निबोधत। जम्बूद्वीपस्य विस्ताराद् द्विगुणपरिणाहाल्लवणोदकश्च जम्बूद्वीपसमस्तेन द्विगुणावृतः। तत्र च पुण्या जनपदाश्चिरान्म्रियन्ते दुर्भिक्षजराव्याधिरहितश्च देशोऽयम्। सप्तैव कुलपर्वतास्तावत् तिष्ठन्ति तस्य चोभयतो लवणक्षीरोदधी व्यवस्थितौ। तत्र च प्रागायतः शैलेन्द्र उदयो नाम पर्वतः। तस्यापरेण जलधारो नाम गिरिः। सैव चन्द्रेति कीर्त्तितः। तस्य च जलमिन्द्रो गृहीत्वा वर्षति। तस्य पारे रैवतको नाम गिरिः। सैव नारदो वर्ण्यते तस्मिंश्च नारदपर्वतादुत्पन्नो तस्य चापरेण श्यामो नाम गिरिः। तस्मिंश्च प्रजाः श्यामत्वमापन्नाः सैव दुन्दुभिर्वर्ण्यते। तस्मिन् सिद्धा इति कीर्तिताः प्रजानेकविधाः क्रीडन्तस्तस्यापरे रजतो नाम गिरिः सैव शाकोच्यते। तस्यापरेणाम्बिकेयः स च विभ्राजसो भण्यते। स एव केसरीत्युच्यते। ततश्च वायुः प्रवर्त्तते। गिरिनामान्येव वर्षाणि तद्यथा। उदयसुकुमारो जलधारक्षेमकमहाद्रुमेति प्रधानानि द्वितीयपर्वतनामभिरपि वक्तव्यानि। तस्य च मध्ये शाकवृक्षस्तत्र च सप्तमहानद्यो द्विनाम्न्यः। तद्यथा सुकुमारी कुमारी नन्दा वेणिका धेनुः इक्षुमती गभस्ति इत्येता नद्यः।
।। इति श्रीवराहपुराणे भगवच्छास्त्रे पञ्चाशीतितमोऽध्यायः ।। ८५ ।।