प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः ८८ वराहपुराणम्
अध्यायः ८९
[[लेखकः :|]]
अध्यायः ९० →

धरण्युवाच ।
परमात्मा शिवः पुण्य इति केचिद् भवं विदुः ।
अपरे हरिमीशानमिति केचिच्चतुर्मुखम् ।। ८९.१ ।।

एतेषां कतमो देवः परः को वाऽथवाऽपरः ।
एतद्देव ममाचक्ष्व परं कौतूहलं विभो ।। ८९.२ ।।

श्रीवराह उवाच ।
परो नारायणो देवस्तस्माज्जातश्चतुर्मुखः ।
तस्माद् रुद्रोऽभवद् देवि स च सर्वज्ञतां गतः ।। ८९.३ ।।

तस्याश्चर्याण्यनेकानि विविधानि वरानने ।
श्रृणु सर्वाणि चार्वङ्गि कथ्यमानं मयाऽनघे ।। ८९.४ ।।

कैलासशिखरे रम्ये नानाधातुविचित्रिते ।
वसत्यनुदिनं देवः शूलपाणिस्त्रिलोचनः ।। ८९.५ ।।

सैकस्मिन् दिवसे देवः सर्वभूतनमस्कृतः ।
गणैः परिवृतो गौर्या महानासीत् पिनाकधृक् ।। ८९.६ ।।

तत्र सिंहमुखाः केचिद् गणा नर्दन्ति सिंहवत् ।
अपरे हस्तिवक्त्राश्च हयवक्त्रास्तथापरे ।। ८९.७ ।।

अपरे शिंशुमारास्या अपरे सूकराननाः ।
अपरेऽश्वामुखा रौद्रा खरास्याजाननास्तथा ।
छागमत्स्याननाः क्रूरा ह्यनन्ताः शस्त्रपाणयः ।। ८९.८ ।।

केचिद् गायन्ति नृत्यन्ति धावन्ति स्फोटयन्ति च ।
हसन्ति किलकिलायन्ति गर्जन्ति च महाबलाः ।। ८९.९ ।।

केचिल्लोष्टांस्तु संगृह्य युयुधुर्गणनायकाः ।
अपरे मल्लयुद्धेन युयुधुर्बलदर्पिताः ।
एवं गणसहस्त्रेण वृतो देवो महेश्वरः ।। ८९.१० ।।

यावदास्ते स्वयं देव्या क्रीडन् देववरः स्वयम् ।
तावद् ब्रह्मा स्वयं देवैरुपायात् सह सत्वरः ।। ८९.११ ।।

तमागतमथो दृष्ट्वा पूजयित्वा विधानतः ।
उवाच परमो देवो रुद्रो ब्रह्माणमव्यम् ।। ८९.१२ ।।

किमागमनकृत्यं ते ब्रह्मन् ब्रूहि ममाचिरम् ।
किं च देवास्त्वरायुक्ता आगता मम सन्निधौ ।। ८९.१३ ।।

ब्रह्मोवाच ।
अस्त्यन्धको महादैत्यस्तेन सर्वे दिवौकसः ।
अर्दिता मत्समीपं तु बुद्ध्वा मां शरणैषिणः ।। ८९.१४ ।।

ततश्चैते मया सर्वे प्रोक्ता देवा भवं प्रति ।
गच्छाम इति देवेश ततस्त्वेते समागताः ।। ८९.१५ ।।

एवमुक्त्वा स्वयं ब्रह्मा वीक्षां चक्रे पिनाकिनम् ।
नारायणं च मनसा सस्मार परमेश्वरम् ।
ततो नारायणो देवो द्वाभ्यां मध्ये व्यवस्थितः ।। ८९.१६ ।।

ततस्त्वेकीगतास्ते तु ब्रह्मविष्णुमहेश्वराः ।
परस्परं सूक्ष्मदृष्ट्या वीक्षां चक्रुर्मुदायुताः ।। ८९.१७ ।।

ततस्तेषां त्रिधा दृष्टिर्भूत्वैका समजायत ।
तस्यां दृष्ट्यां समुत्पन्ना कुमारी दिव्यरूपिणी ।। ८९.१८ ।।

नीलोत्पलदलश्यामा नीलकुञ्चितमूर्द्धजा ।
सुनासा सुललाटान्ता सुवक्त्रा सुप्रतिष्ठिता ।। ८९.१९ ।।

त्वष्ट्रा यदग्निजिह्वं तु लक्षणं परिभाषितम् ।
तत्सर्वमेकतः संस्थं कन्यायां संप्रदृश्यते ।। ८९.२० ।।

अथ तां दृश्य कन्यां तु ब्रह्मविष्णुमहेश्वराः ।
ऊचुः काऽसि शुभे ब्रूहि किं वा कार्यं विपश्चितम् ।। ८९.२१ ।।

त्रिवर्णा च कुमारी सा कृष्णशुक्ला च पीतिका ।
उवाच भवतां दृष्टेर्योगाज्जाताऽस्मि सत्तमाः ।
किं मां न वेत्थ सुश्रोणीं स्वशक्तिं परमेश्वरीम् ।। ८९.२२ ।।

ततो ब्रह्मादयस्ते च तस्यास्तुष्टा वरं ददुः ।
नाम्नाऽसि त्रिकला देवी पाहि विश्वं च सर्वदा ।। ८९.२३ ।।

अपराण्यपि नामानि भविष्यन्ति तवानघे ।
गुणोत्थानि महाभागे सर्वसिद्धिकराणि च ।। ८९.२४ ।।

अन्यच्च कारणं देवि त्रिवर्णाऽसि वरानने ।
मूर्तित्रयं त्रिभिर्वर्णैः कुरु देवि स्वकं द्रुतम् ।। ८९.२५ ।।

एवमुक्ता तदा देवैरकरोत् त्रिविधां तनुम् ।
सितां रक्तां तथा कृष्णां त्रिमूर्तित्वं जगाम ह ।। ८९.२६ ।।

या सा ब्राह्मी शुभा मूर्त्तिस्तया सृजति वै प्रजाः ।
सौम्यरूपेण सुश्रोणी ब्रह्मसृष्ट्या विधानतः ।। ८९.२७ ।।

या सा रक्तेन वर्णेन सुरूपा तनुमध्यमा ।
शङ्खचक्रधरा देवी वैष्णवी सा कला स्मृता ।
सा पाति सकलं विश्वं विष्णुमायेति कीर्त्त्यते ।। ८९.२८ ।।

या सा कृष्णेन वर्णेन रौद्री मूर्त्तिस्त्रिशूलिनी ।
दंष्ट्राकरालिनी देवी सा संहरति वै जगत् ।। ८९.२९ ।।

या सृष्टिर्ब्रह्मणो देवी श्वेतवर्णा विभावरी ।
सा कुमारी महाभागा विपुलाब्जदलेक्षणा ।
सद्यो ब्रह्माणमामन्त्र्य तत्रैवान्तरधीयत ।। ८९.३० ।।

साऽन्तर्हिता ययौ देवी वरदा श्वेतपर्वतम् ।
तपस्तप्तुं महत् तीव्रं सर्वगत्वमभीप्सती ।। ८९.३१ ।।

या वैष्णवी कुमारी तु साप्यनुज्ञाय केशवम् ।
मन्दराद्रिं ययौ तप्तुं तपः परमदुश्चरम् ।। ८९.३२ ।।

या सा कृष्णा विशालाक्षी रौद्री दंष्ट्राकरालिनी ।
सा नीलपर्वतवरं तपश्चर्तुं ययौ शुभा ।। ८९.३३ ।।

अथ कालेन महता प्रजाः स्त्रष्टुं प्रजापतिः ।
आरब्धवान् तदा तस्य ववृधे सृजतो बलम् ।। ८९.३४ ।।

यदा न ववृधे तस्य ब्रह्मणो मानसी प्रजा ।
तदा दध्यौ किमेतन्मे न तथा वर्द्धते प्रजा ।। ८९.३५ ।।

ततो ब्रह्मा हृदा दध्यौ योगाभ्यासेन सुव्रते ।
चिन्तयन् बुबुधे देवस्तां कन्यां श्वेतपर्वते ।
तपश्चरन्तीं सुमहत् तपसा दग्धकिल्बिषाम् ।। ८९.३६ ।।

ततो ब्रह्मा ययौ तत्र यत्र सा कमलेक्षणा ।
तपश्चरति तां दृष्ट्वा वाक्यमेतदुवाच ह ।। ८९.३७ ।।

ब्रह्मोवाच ।
किं तपः क्रियते भद्रे कार्यमावेक्ष्य शोभते ।
तुष्टोऽस्मि ते विशालाक्षि वरं किं ते ददाम्यहम् ।। ८९.३८ ।।

सृष्टिरुवाच ।
भगवन्नेकदेशस्था नोत्सहे स्थातुमञ्जसा ।
अतोऽर्थं त्वां वरं याचे सर्वगत्वमभीप्सती ।। ८९.३९ ।।

एवमुक्तस्तदा देव्या सृष्ट्या ब्रह्मा प्रजापतिः ।
उवाच तां तदा देवीं सर्वगा त्वं भविष्यसि ।। ८९.४० ।।

एवमुक्ता तदा तेन सृष्टिः सा कमलेक्षणा ।
तस्य ह्यङ्के लयं प्राप्ता सा देवी पद्मलोचना ।
तस्मादारभ्य कालात् तु ब्राह्मी सृष्टिर्व्यवर्द्धत ।। ८९.४१ ।।

ब्रह्मणो मानसाः सप्त तेषामन्ये तपोधनाः ।
तेषामन्ये ततस्त्वन्ये चतुर्द्धा भूतसंग्रहः ।
सस्थाणुजङ्गमानां च सृष्टिः सर्वत्र संस्थिता ।। ८९.४२ ।।

यत्किंचिद् वाङ्मयं लोके जगत्स्थावरजङ्गमम् ।
तत्सर्वं स्थापितं सृष्ट्या भूतं भव्यं च सर्वदा ।। ८९.४३ ।।

।। इति श्रीवराहपुराणे भगवच्छास्त्रे एकोननवतितमोऽध्यायः ।। ८९ ।।