वसिष्ठसंहिता ।

प्रथमोऽध्यायः ।

अथातः पुरुषनिः श्रेयसार्थं धर्म्मजिज्ञासा । ज्ञात्वा चानुतिष्ठन् धार्म्मिकः प्रशस्यतमो भवति लोके प्रेत्य वा, विहितो धर्म्मः । तदलाभे शिष्टाचारः प्रमाणम् । दक्षिणेन हिमवत उत्तरेण बिन्ध्यस्य ये धर्म्मा ये चाचारास्ते सर्व्वे प्रत्येतव्या, न त्वन्ये, प्रतिलोमकल्पवर्म्माः । एतदार्य्यावर्त्तमित्याचक्षते । गङ्गायमुनयोरन्तराप्येके । यावद्वा कृष्णमृगो विचरित तावद्‌ब्रह्म वर्च्चसमिति । अथापि भाल्लविनो निदाने गाथामुदाहरन्ति ।
पश्चात् सिन्धविहरिणो सूर्य्यस्योदयनं पुरा ।
यावत् कृष्णोऽभिधावति तावद्वै ब्रह्मवर्च्चसम् ।।
त्रैविद्यवृद्धा यं ब्रुयुर्द्धर्म्मं धर्म्मविदो जनाः ।
पवने पावने यैव स धर्म्मो नात्र संशयः ।। इति
देशधर्म्मजातिधर्म्मकुलधर्म्मान् श्रुत्यभावादब्रवोन्मनुः । सूर्य्याभ्यदितः सूर्य्याभिनिर्म्मुक्तः--कुनखो श्यावदन्तः परिवित्तिः परिवेत्ता अग्रेदिधिषुः दिधिषु--पतर्वीजहा ब्रह्मघ्न इत्येत एनस्विनः । पञ्च महापातकान्याचक्षते गुरूतल्पं सुरापानं भ्रूणहत्यां ब्राह्मणसुवर्णहरणं पतितसम्प्रयोगञ्च ब्राह्मेण वा यौनेन वा ।
अथाप्युदाहरन्ति ।
संवत्‌सरेण पतति पतितेन सहाचरन् ।
याजनाध्यापनाद् यौनादन्नपानासनादपि ।।
अथाप्यदाहरन्ति ।
विद्याविनाशे पुनरभ्युपैति
जाति प्रणाशे त्विह सर्व्वनाशः ।
कुलापदेशेन हयोऽपि पूज्य-
स्तस्मात् कुलोनां स्त्रियमुवहन्ति । इति
त्रयो वर्णा ब्राह्मणस्य वशे वर्त्तेरन् तेषां ब्राह्मणे धर्म्म वद्‌ब्रूयात् तत् राजा चानुतिष्ठेत् । राजा तु धर्म्मणानुशासन् षष्ठं षष्ठं धनस्य हरेदन्यत्र ब्राह्मणात् । इष्टापूर्त्तस्य तु षष्ठमंशं भजति । इति ह ब्राह्मण वेदमाद्यं कराति, ब्राह्मण आपद उद्धरति, तस्मादुब्राह्मणोऽनाद्यः सामोऽस्य राजा भवतीतोह प्रेत्य चाभ्युदयिकमिति ह विज्ञायते ।।
इति वासिष्ठे धर्म्मशास्त्रे प्रथमोऽध्यायः ।। 1 ।।

द्वितीयोऽध्यायः ।

चत्वारो वर्णा ब्राह्मणक्षत्रियवैश्यशूद्राः । तयो वर्णाद्विजातयो ब्राह्मणक्षत्रियवैश्याः । तेषां मातुरग्रेऽधिजननं, द्वितीयं मौञ्जिबन्धने । तत्रास्य माता सावित्रौ पिता त्वाचार्य्य उच्यते । वेदप्रदानात् पितेत्याचार्य्यामाचक्षते ।
अथाप्युदाहरन्ति ।
न त्वस्य विद्यते कर्म्म किञ्चिदा मौञ्जिबन्धनात् ।
वृत्त्या शूद्रसमो ज्ञेयो यावद्वेदे न जायते । इति
अन्यत्रादकर्म्मस्वाधापितृसंयुक्तेभ्यः ।
विद्या ह वै ब्राह्मणमाजगाम
 गोपाय माशिवधिस्तेऽहमम्मि ।
असूयकायानृजवेऽवताय
 न मां ब्रूय । वौर्य्यवतो तथा स्याम् ।।
य आवृणात्यवितथेन कर्म्मणा
बहुदुःखं कुर्व्वंस्त्वमृतं वा संप्रयच्छन् ।
तन्मन्येत पितरं मातरञ्च
तम्मै न द्रुहेत कतमच्च नाहम् ।।
अध्यापिता ये गुरु नाढ्रियन्ते
विप्रा वाचा मनसा कर्म्मणा वा ।
यथैव ते न गुरोर्भोजनीया
स्तथैवः तान् न युनक्ति श्रुतं तत् ।।
यमेव विद्याच्छचिमप्रमत्तं
मेधाविनं ब्रह्मचर्य्योपपन्नम् ।।
यस्त्वेतद्‌द्रुह्येत कतमच्च नाहं
तस्मै मां क्रूयान्निधिपाय ब्रह्मन् । इति
दहत्यग्निर्यथा कक्षं ब्रह्म त्वब्दमनादृतम् ।
न ब्रह्म तस्मै प्रबूयाच्छक्यमानमकृन्तात ।। इति
षट्‌ कर्म्माणि ब्राह्मणस्याध्ययनमध्यापनं यजनं याजनं दाजं प्रतिप्हश्चेति । त्राणि राजन्यस्याध्ययनं यजनं दानं शास्त्रेण च प्रजापालनं स्वधर्म्मस्तेन जीवेत् । एतान्येव त्रीणि त्रैश्यस्य कृषित्वाणिज्यपाशुपाल्यकुसीदञ्च । एतेषां परिचर्य्या शूद्रस्य । अनियता वृत्तिरनियतकेश वेशाः सर्व्वेंषां मुक्तशिखावर्ज्जम् । अजोवतः स्वधर्म्मंणान्यतरामपापीयसीं वृत्तिमातिष्ठेरन्, न तु कादचित् पापीयसीम् । वैश्यजीविकामास्थाय पण्येन जीवतीऽश्मलवणमपण्यं पाषाणकोषक्षोमाजिनानि च तान्तवञ्च रक्तं सर्व्वञ्च कृतान्नं पुष्पमूलक्तलानि च गन्धरसा उदकञ्चीबधीनां रसः सोमश्च शस्त्रं विषं मांसञ्च क्षीरं सविकारं अपस्तपु जतु सीसञ्च ।
अथाप्युदाहरन्ति ।
सद्यः पतति मांसेन लाक्षया लवणेन च ।
त्रपहेण सूद्रीभवति ब्राह्मणः क्षीरविक्रयात् ।।
ग्राम्यपशूनामेकशफाः, केशिनश्च सर्वे, चारण्याः पशवो वयांसि दंष्ट्रिणश्च । धान्यानां तिलानाहुः ।
अथाप्युदाहरन्ति ।
भोजनाभ्यञ्चनाद्दानाद्‌यद्वान्यत् कुरूते तिलैः ।
कृमिभूतः स विष्टायां पितृभिः सह मज्जति ।।
कामं वा स्वयं कृष्योत्‌पाद्य तिलान् विक्रीणीरन् अन्यत्र धान्यविक्रयात् । रसारसैः समतो हानतो वा निमातव्या न त्वेव लवणं रसैस्तिलतण्डूलपक्वान्नं विद्यान्मनुष्याश्च विहिताः । परिवर्त्तकेन ब्राह्मणराजन्यी वार्द्धुषान्नं नाद्याताम् ।
अथाप्युदाहरन्ति ।
समर्घं धान्यमुड़त्य महाघं यः प्रयच्छति ।
स वै वार्द्धुषिको नाम ब्रह्मवादिषु गर्हितः ।।
बृद्धिञ्च भ्रूणहत्याञ्च तुलया समतोलयन् ।
अतिष्ठद्‌भ्रूणहा काट्यां वार्द्ध, षिर्न्यक्‌पपात ह ।। इति
कामं वा परिलुप्तकृत्याय पापीयसे दद्याद् द्विगुणं हिरण्यं त्रिगुणं धान्यं, धान्येनैव रसा व्याख्याताः, पुष्पमूनफलानि च । तुलावृतमष्टगुणम् ।
अथाप्युदाहरन्ति ।
राजानुमतभावेन द्रव्यवृद्धिं विनाशयेत् ।
पुन राजाभिषेकेण द्रव्यवृद्धिञ्च वर्जयेत् ।।
द्विकं त्रिकं चतुष्कञ्च पञ्चकञ्च शतं स्मृतम् ।
मासस्य वृद्धिं गृह्णीयाद्वर्णनामनुपूर्वशः ।।
वसिष्ठवचनप्रोक्तां वृद्धिं वार्द्धुषिके शृणु ।
यञ्चमाषांस्तु विंशत्या एवं धर्म्मो न हीयत ।। इति ।
इति वासिष्ठे धर्म्मशास्त्रे द्वितीयोऽध्यायः ।। 2 ।।

तृतीयोऽध्यायः ।

अश्रोत्रियाननुवाका अनग्नयः शूद्रधर्म्माणे भवन्ति ।
नानृग्‌व्राह्मणो भवति । मानवञ्चात्र श्लोकमुदाहरन्ति ।
योऽनधीत्य द्विजो वेदमन्यत कुरूते श्रमम् ।
स जीवन्नेव शूद्रत्वमाशु गच्छति सान्वयः ।।
न वणिक् न कुसीदजीवी । ये च शूद्रप्रेषणं कुर्व्वन्ति ।
न स्तेनी न चिकितसकः ।
अव्रता ह्यनधीयाना यत्र भैक्षचरा द्विजाः ।
नं ग्रामं दण्डयेद्‌राजा चीरभुक्तपदो हि सः ।।
च चारोऽपि त्रयो वापि यं ब्रूयर्व्वेदपारगाः ।
म धर्म्म इति विज्ञेयो नेतरेषा महस्त्रशः ।।
अव्रतानाममन्ताणआं जातिमात्रापजीविनाम् ।
महस्त्रशः समेतानां पर्यत्त्वं नेव विद्यते ।।
यद्वदन्त्यन्यथा भूत्वा मूर्खा धर्म्ममतद्‌विदः ।
नापापं शतधा भूत्वा तद्‌वक्तृष्वनुगच्छति ।।
श्रात्रियायेव देयानि हव्यकव्यानि नित्यशः ।
अश्रात्रयाय दत्तानि तृप्तिं नायान्ति देवताः ।।
यस्य चैव गृहे मूर्खा दूरे चैव बहुश्रुतः ।
बहुश्रुताय दातव्य नास्ति मूर्खे व्यतिक्रमः ।।
ब्राह्मणातिक्रमो नास्ति विप्रे वेदविवर्ज्जिते ।
ज्वलन्तमग्निमुत्‌सृज्य न हि भस्मनि हूयते ।।
यश्च काष्ठमया हस्तीयश्च चर्म्ममयो मृगः ।
यश्च विप्रोऽनधीयानस्त्रयस्ते नामधारकाः ।।
विद्वद्भोज्यानि चान्नानि मूर्खा राष्ट्वे षु भुञ्जते ।
तदन्नं नाशमायाति महद्वा जायते भयम् ।।
अपज्ञायमानवृत्तं योऽधिगच्छेद्‌राजा तद्वरेत् अधिगन्तो षष्ठपंशं पदाय । ब्राह्मणश्चेदधिगच्छेत् षट्‌ कर्म्मसु वर्त्तमानो ज राजा हरेत् । आततायिनं हत्वा नात्र त्राणमिच्छों किञ्चित् किल्विषमाहुः । षडूविधास्त्वाततायिनः ।
अथाप्युदाहरन्ति ।
अम्निदो गरदश्चेव शस्त्रपाणिर्धनापहः ।
क्षेत्रदारहरश्चैव षडेत आततायिनः ।।
आततायिनमायान्तमपि वेदान्तपारगम् ।
जिघांमन्तं जिघांमियान्न तेन ब्रह्महा भवेत् ।।
स्वाध्यायिनं कुले जातं यो हन्यादाततायिन्म् ।
न तेन भ्रूणहा स स्यान्मन्युस्तन्मन्युमृच्छति ।।
त्रिणाचिकेतः पञ्चाग्निस्त्रिसुपणैवान् चतुर्म्मधा वाजमनेयी षड़ङ्गविद् ब्रह्मदेयानुसन्तानश्छदागो ज्येष्ठमामगो मन्त्रब्राष्णमविद् यस्य धर्म्मानधीते यस्य च पुरूषमातृपितृवंशः श्रात्रियो विज्ञायते विद्वांसः स्त्रातकोश्चेति पड्‌क्तिपावनाः ।
चातुर्व्विद्यो विकल्पो च अङ्गविद्धर्म्मपाठकः ।।
आश्रमस्थास्त्रयो मुख्या परिषत् स्याद्दशावराः ।।
ऊपनीय तु यः कृतश्र वेदमध्य पयेत् म आचार्य्यी, य स्त्वेकदेशं स उपाध्यायो यश्च वेदाङ्गानिः आत्मत्राणे वर्गसंस्कारे वा ब्राह्मणःवेश्यी शस्त्रमाददीयाताम् । क्षस्त्रियप्य तु तन्नित्यमेव रक्षणादिकारात् । प्राग्वोदग्वासीनः प्रक्ष्याल्य पादो पाणी चामणिबन्धनात् । अङ्गष्ठमूनस्योत्तरतो रेखा ब्राह्मं तीर्थं तेन त्रिराचामेदशब्दवत् । द्विः परिमृज्यात् खान्यद्भिः संस्पृशेत् मूर्द्धन्यपी निनयेत् । सव्ये च पाणी । व्रजंस्तिष्ठन् शयानः प्रणतो वा नाचामेत् । हृदयङ्गमाभिरद्भिरवुद्‌वुदाभिरफेनाभिर्ब्राह्मणः, कण्ठगाभिः क्षत्रियः शुचिः । वैश्योऽद्भि प्राशिताभिस्तु, स्त्रीशूद्रो स्पष्टाभिरेव च । पुत्रद्वारापि यागास्तर्पणानि स्युः । न वर्णगन्धरसदुष्टाभिः । याश्च स्युरशुभागमाः । न मुख्या विप्रष उच्छिष्टं कुर्व्व न्त्यनङ्गश्लिष्टाः । सुप्ता भुक्त्वा पीत्वा स्त्रात्त्रा वाचान्तः पुनराचामेत् ।
वासश्च परिधाय कोष्ठो संस्पश्य यावलोमको न श्मश्रुगतालेपः दन्तवद्दन्तमक्तेषु यच्चान्तर्म्मुखे भविदाचान्तस्यावशिष्टं स्यान्निगिरन्नेव तच्छु चिः ।।
परानथाचामयतः पादोया विप्रुया गताः ।
भूम्य तास्तु ममाः प्राक्ताम्ताभिर्नोर्च्छिष्टभाग् भवेत् ।।
प्रचरन्नभ्यवहार्य्येषु उच्छिष्टं यदि संस्पृशेत् ।
भूमो निक्षेप्य यद्‌द्रव्यमाचान्तः प्रचरेत् पुनः ।।
यद्‌यन्मोमांस्यं स्यात् तत्तदद्भिस्तु संस्पृशेत् ।
श्वहताश्च मृगा वन्या घातितञ्च खगैः पलम् ।।
बालैरनुपविद्धान्त स्त्रीभिराचरितञ्च यत् ।
परिमङ्खयाय त्वान् सर्व्वान् शुचीनाह प्रजापतिः ।।
प्रसारितञ्च यत् पण्यं न दीषाः स्त्रीमुखानि च ।
मशंकैर्म्मक्षिकाभिश्च विलोनो नोपहन्यते ।।
क्षितिस्थाश्चैव या आपो गवां प्रीतिकराश्रयाः ।
परिमङ्खयाय तान् सर्व्वान् शुचीनाह प्रजापतिरिति ।।
त्वेपगन्धापकर्षणं शीचममेध्य लिप्तस्याद्भिमृदा च ।
तेजसमृन्मयदारवतान्तवानां भस्मपरिमार्ज्जनप्रदाहतक्षणनिर्णेजनानि । तैजसवदुपलमणीनां मणिवच्छङ्खशुक्तीनां दारूवदलस्थां रज्जुविदलचर्म्मणां चैलवच्छीचम् । गोवालैः फलचमसानां गौरसर्षपकल्केन क्षौमजानाम् । भूम्यास्तु सम्मार्ज्जनप्रक्षणोपलेपनील्ले खनैर्यथास्थाने दोषविशेषात् प्राजापत्यमुपैति ।
अथाप्युदाहरन्ति ।
खननाद्दहनाद्वर्षाद्गोभिराक्रमगादपि ।
चतुर्भिः शुध्यते भूमिः पञ्चमाच्चोपलेपनात् ।।
रजसा शुध्यते नारी नदी वेगेन शुध्यति ।
भम्मना शुध्यते कांस्यं नाम्राम्लेन च शुध्यति ।।
मद्यैर्मूत्रेः पुरोषेर्वा श्लेष्मपूयाश्रुशोणितैः ।
संस्पृष्टं नैव शुध्येत पुनः पाकेन मृण्मयम् ।।
अद्भिर्गात्राणि शुध्यन्ति मनः सत्येन शुध्यति ।
विद्यातपीभ्यां भूतात्मा बुद्धिर्ज्ञानेन शुध्यति ।।
अद्भिरेव काञ्चनं पूयेत् तथा रजतम् । अङ्गुलिकनिष्ठिकास्मूले दैवं तीर्थम् । अङ्गुल्यग्रे मानुषम् । पाणिमध्य आग्नेयम् । प्रदेशिन्यह्गुष्ठयोरन्तरा पित्र्यम् । रोचन्त इति सायं प्रातरशनान्यभिपूजयेत् । स्वदितमिति पित्र्येषु । सम्पन्नमित्याभ्युदयिकेषु ।
इति वासिष्ठे धर्म्मशास्त्रे तृतीयोऽध्यायः ।। 3 ।।

चतुर्थोऽध्यायः ।

प्रकृतिविशिष्ठं चातुर्वर्ण्यं संस्कारविशेषाच्च । ब्राह्मणोऽस्य मुखमासीद्वादू राजन्यः कृतः । ऊरु तदस्य यद्वैश्यः, पद्भ्यां शूद्रा अजायतेति । गायत्र्या कृन्दसा ब्राह्मणमसृजत्, त्रिष्टुभा राजन्यं, जगत्याव वैश्यं, न केनचिच्छन्दसा शूद्रमित्यसंस्कार्त्यो विज्ञायते । त्रिष्वेव निवासः स्यात् सर्वेषां सत्यमक्रीधो दानमहिंसा प्रजननञ्च । पितृदेवतातिथिपूजायां पशुहिंस्यात् ।
मधुपर्के च यज्ञे च पितृदैवतकर्म्मणि ।
अत्रेव च पशुं हिंस्यान्नान्यथेत्यब्रवीन्मनुः ।।
नाकृत्वा प्राणिनां हिंसां मांसमुतपद्यते क्वचित् ।
न च प्राणिवधः स्वर्ग्यस्तस्माद्‌यागे वधीऽवधः ।।
अथापि ब्राह्मणाय राजन्याय वा अभ्यागताय वा महरेक्षं वा महाजं वा पचेदेवमस्यातिथ्यं कुर्वन्तीति । उदकिक्रियामशोचञ्च द्विवर्षात् प्रभृति मृत उभयं कुर्य्यात् । दन्तजननादित्येके शरोरमग्निना संयोज्यानवेक्षमाणा अपोऽभ्यवयन्ति ।
ततस्तत्रस्था एव सव्यात्तराभ्यां पाणिभ्यामुदकक्रियां कुर्वन्ति । अयुग्मा दक्षिणमुखाः । पितॄणां वा एषा दिण् या दक्षिणा । गृहान् व्रजित्वा स्वस्तरे त्रपहमनश्रन्त आसोरन् । अशक्तो क्रीतोत्पन्नेन वर्त्तेरन् ।
दशाहं मरणाशोचं सपिण्डेषु विधीयते ।
मरणात् प्रभृति दिवसगणना । सपिण्डता सप्तपुरूषं विज्ञायते । अप्रत्तानां स्त्रोणां त्रिपुरुषं त्रिदिनं विज्ञायते । प्रतानामितरे कुर्वोरन् । ताश्च तेषां जननेऽप्येवमेव निपुणं शुद्विमिच्छतां मातापित्रोर्बोजनिमित्तत्वात् ।
अथाप्युदाहरन्ति ।
नाशौचं सूतके पुंसः संसर्गञ्चेन्न गच्छति ।
रजस्तत्राशुचि र्ज्ञयं यच्च पुंसि न विद्यते ।।
ब्राह्मणी दशरात्रेण पञ्चदशरात्रेण भूमिपः ।
विंशतिरात्रेण वैश्यः शूद्रो मासेन शुध्यन्ति ।।
अशोचे यस्तु शूद्रस्य सूतके वापि भुक्तवान् ।
स गच्छेन्नरकं घोरं तिर्य्यग्‌योनिषु जायते ।।
अनिर्द्द शाहे पक्वान्नं नियोगाद् यस्तु भुक्तवान् ।
क्वमिर्भूत्वा स देहान्ते तद्दिद्यामुपजीवति ।।
द्वादश मासान् द्वादशार्द्धन्यासान् वा अनश्रन् संहितामधीयानः पूतो भवतीति विज्ञायते । ऊनर्द्विवर्षेप्रेते गर्भपतने वा सपिण्डानां त्रिरात्रमशोचं सद्यः शोचमिति गोतमः । देशान्तरस्थे प्रेते ऊर्द्धं दशाहाच्चैकारात्रमशोचम् । आहिताग्निश्चेत् प्रवसन् म्रियते, पुनः संस्कारं कृत्वा शववच्छोचमिति गौतमः । यूपयतिश्मशानरजस्वलासूतिकाशुचीनुपस्पृश्य शशिरा अभ्युपेयादापः ।
इति वासिष्ठे धर्म्मशास्त्रे चतुर्थोऽध्यायः ।। 4 ।।

पञ्चमोऽध्यायः ।

अस्वतन्त्रा स्त्रो पुरूषप्रधाना अनग्निरूपदक्या च अनृतमिति विज्ञायते ।
अथाप्युदाहरन्ति ।
पिता रक्षति कौमरि भर्त्ता रक्षति यौवने ।
पुत्राश्च स्थविरे भावे न स्त्री स्वातन्त्र्यमर्हति ।।
तस्या भर्त्तुरभिचार उक्तः प्रायश्चित्तरहस्येषु ।
मासि मासि रजो ह्यामां दुष्कृतान्यपकर्षति ।।
त्रिरात्रं रजस्वलाशुचिर्भवति, सा नाञ्च्यात्, नापसु स्त्रायात् अधः शयोत, दिवा न स्वप्यात्, नाग्निं स्पृशेत, न रज्जुं प्रमृजेत न दन्तान् धावयेत्, न मांसमश्रीयात्, न ग्राहन् निरीक्षेत, न हसेत, न किञ्चिदाचरेत्, नाञ्जलिना जलं पिवेत्, न खर्व्वेण न लोहितायसेन वा । विज्ञायते द्वोन्द्रस्त्रिशीर्षाणं ताष्ट्वं द्वत्वा पाप्मना गृहीतो मन्यत इति । तं सर्वाणि भूतान्यम्याक्रोशन् भ्रूणहन् भ्रणहन्निति । स स्त्रिय उपाधावत् । अस्ये मे ब्रह्महत्याये तृतीयं भागं गृद्नोतेति गत्वैवमुवाच । ता अबुवन् किं नोभूदिति । सोऽब्रवीद्वरं वृणीध्वमिति । ता अब्रुवन्नृतौ प्रजां विन्दामह इति, कामं मा विजानीमोऽलम्भनवाम इति, यथेच्छया आ-प्रसकालात् पुरूषेण सहमैथुनभावेन सम्भवाम इति चैषीऽस्माकं वरस्तथेन्द्रेणोक्तास्ताः प्रतिजगृहुस्तृतीयं भ्रूणहत्यायाः । सैषा भ्रूणहत्या मासि मास्याविर्भवति । तस्माद्रजखलान्नं नाश्रीयात् । अतश्च भ्रूणहत्याया एवैतद्रूपं प्रतिमास्यान्ते कञ्चुकमिव । तदाहुर्ब्रह्मवादिनः । अञ्जनाभ्यञ्जनमेवास्या न प्रतिग्राह्यं तद्वि स्त्रियोऽन्नमिति, तस्मात् तस्यास्तत्र न च मन्यन्ते आचारा याश्च योषित इति । सेयमुपयाति ।
उदक्यास्त्वासते तेषां ये च केचिदनग्नयः ।
गृहस्थाः श्रोत्रियाः पापाः सर्वे ते शूद्रधर्म्मिणः ।
इति वासिष्ठे धर्म्मशास्त्रे पञ्चमोऽध्यायः ।। 5 ।।

षष्ठोऽध्यायः ।

आचारः परमो धर्म्मः सर्वेषामिति निश्चयः ।
हीनाचारपरीतात्मा प्रेत्य चेह विनश्यति ।।
नैनं तपांसि न ब्रह्म नाग्निहोत्रं न दक्षिणा ।
हीनाचाराश्रितं भ्रष्टं तारयन्ति कथञ्चन ।।
आचारहीनं न पुनन्ति वेदा
यद्यप्यधीताः सह षड़्‌भिरङ्गैः ।
छन्दांस्येनं मृत्युकाले त्यजन्ति
नीड़ं शकुन्ता इव जातपक्षाः ।।
आचारहीनस्य तु ब्राह्मणस्य
वेदाः षड़ङ्गा अखिलाः सपक्षाः ।।
कां प्रीतिमुत्थापयितुं समर्था
अन्धस्य दारा इव दर्शनीयाः ।।
नैनं छन्दांसि वृजिनात् तारयन्ति
मायाविनं मायया वर्त्तमानम् ।
तत्राक्षरे सम्यगधीयमाने
पुनाति तद्‌ब्रह्म यथावदिष्टम् ।।
दुराचारो हि पुरूषो लोके भवति निन्दितः ।
दुःखभागी च सततं व्याधितोऽल्पायुरेक च ।।
आचारात् फलते धर्म्ममाचारात् फलते धनम् ।
आचाराच्छ्रियमाप्नोति आचारो हन्त्यलक्षणम् ।।
सर्वलक्षणहीनोऽपि यः सदाचारवान् नरः ।
श्रहधानोऽनसूयश्च शतं वर्षाणि जीवति ।।
आहारनिर्हारविहारयोगाः
सुसंवृता धर्म्मविदा तु कार्य्याः ।
वागबुद्धिवीर्य्याणि तपस्तथैव
धनायुषी गुप्ततमे च कार्य्ये ।।
उभे मूचपुरीषे ते दिवा कुर्य्यादुदद्म खः ।
रात्रो कुर्य्याद्दक्षिणास्य एवं ह्यायुर्न रिच्यते ।।
प्रत्यग्निं प्रतिसूर्य्यञ्च प्रतिगां प्रति च द्विजम् ।
प्रति सोमोदकं सन्ध्यां प्रज्ञा नश्यति मेहतः ।।
न नद्यां मेहनं कार्य्यं न पथि न च भम्मनि ।
न गोमये न वा कृष्टे नीप्ते क्षेत्रे न शाद्वले ।।
छायायामन्धकारे वा रात्रावहनि वा द्विजः ।
यथासुखमुखः कुर्य्यात प्राणवाधभयेषु च ।।
उद्धृताभिरद्विः कार्य्यं कुर्य्यान्न स्नानमनुद्धृताभिरपि ।
आहरेन्‌मृत्तिकां विग्रः कूलात् ससिकतां तथा ।।
अन्तर्ज्जले देवगृहे वल्मीके मूषिकस्थले ।
कृतशौचावसिष्टे च न ग्राह्याः पञ्च मृत्तिकाः ।।
एका लिङ्गे करे तिस्र उभाभ्यां द्वे तु मृत्तिके ।
यञ्चापाने दशैकस्मिन्नुभयोः सप्तमृत्तिकाः ।।
एतच्छोचं गृहस्थस्य द्विगुणं ब्रह्मचारिणः ।
वानप्रस्थस्य त्रिगुणं यतोनान्तु चतुर्गुणम् ।।
अष्टो ग्रासा सुनेर्भक्तं वानप्रस्थस्य षोड़श ।
द्वात्रिंशत् तु गृहस्थस्य अमितं ब्रह्मचारिणः ।।
अनड्वान् ब्रह्मचारी च आहिताग्निश्च ते त्रयः ।
भुञ्जाना एव सिध्यन्ति नैषां सिद्धिरनश्रताम् ।।
नेपीदानीपहहरिषु व्रतेषु नियमेषु च ।
इज्याध्ययनधर्म्मेषु यो नासक्तः स निष्क्रियः ।।
योगस्तपी दमो दानं सत्यं शोचं दया श्रुतम् ।
विद्या विज्ञानमास्तिक्यमेतद्‌ब्राह्मणलक्षणम् ।।
सर्वत्र दान्ताः श्रुतपूर्णकर्णा
जितेन्द्रियाः प्राणिवधे निवृत्ताः ।
प्रतिगृहे शङ्कुचिताग्रहस्ता-
स्तेब्राह्मणास्तारयितुं समर्थाः ।।
असूयकः पिशुनश्चैष कृतघ्नो दीर्घरीषकः ।
चत्वारः कर्म्मचाण्डाला जन्मतश्चापि पञ्चमः ।।
दीर्घवैरमसूयाञ्च असत्यं ब्रह्मदूषणम् ।
पैशुन्यं निर्द्दयत्वञ्च जानीया च्छूद्रलक्षणम् ।।
किञ्चिद्देदमयं पात्रं किञ्चित् पात्रं तपामयम् ।
घात्राणामपि तत् पात्रं शूद्रान्नं यस्य नोदरे ।।
शूद्रान्नरसपुष्टाङ्गी ह्यधोयानोऽपि नित्यशः ।
जुह्वित्वापि यजित्वापि गतिमूर्द्वां न विन्दति ।।
शूद्रान्नेनोदरस्थेन यः कश्चिन्‌म्रियते द्विजः ।
स भवेच्छूकरो ग्राम्यस्तस्य वा जायते कुले ।।
शूद्रान्नेन तु भुक्तेन मैथुनं योऽधिगच्छति ।
यस्यान्नं तस्य ते पुता न च स्वर्गार्हको भवित् ।।
स्वाध्यायाढ्यं योनिमित्रं प्रशान्तं
चैतन्यस्थं पापभीरूं बहुज्ञम् ।
स्त्रोयुक्तान्नं धार्म्मिकं गोशरण्यं
व्रतैः क्षान्तं ताट्टशं पात्रमाहुः ।।
आपमात्रे यथा न्यस्तं क्षोरं दधि धृतं मधु ।
विनश्येत् पात्रदोर्वल्यात्तच्च पात्रं रसाश्च ते ।।
एवं गाञ्च हिरण्वञ्च वस्त्रमश्वं महीं तिलान् ।
अविद्वान् प्रतिगृङ्कानी भस्मोभवति दारूवत् ।।
नाङ्गं नखञ्च वादित्रं कुर्य्यात् । न वापोऽञ्जलिना पिवेत् । न पादेन पाणिना वा राजानमपि हन्यात्, न जलेन जलम् । नेष्टकाभिः फलानि पातयेत् न फलेन फलम् । न कल्कपुटको भवेत् । न म्लेच्छभाषां शिक्षेत ।
अथाप्युदाहरन्ति ।
न पाणिपादचपलो न नेत्रचपलो भवेत् ।
न चाङ्गचपलो विप्र इति शिष्टस्य गोचरः ।।
पारम्पर्य्यागतो येषां वेदः सपरिबृंहणः ।
ते शिष्टा ब्राह्मणा ज्ञेयाः शुतिप्रत्यक्षहेतवः ।।
यन्न मन्तं न चासन्तं नाश्रुतं न बहुश्रुतम् ।
न सुवृत्तं न दुर्वृत्तं वेद कश्चित् स ब्राह्मण इति ।।
इति वासिष्ठे धर्म्मशास्त्रे षष्ठोऽध्यायः ।। 6 ।।

सप्तमोऽध्यायः ।

चत्वार आश्रमा ब्रह्मचारिगृहस्थवानप्रस्थपरिव्राजकाः । सेषां वेदमधीत्य वेदो वा वेदान् वा अविशीर्णब्रह्मचर्य्योऽपनिक्षेप्तुमावसेत् । ब्रह्मचर्य्याचार्य्यं परिचरेदा शरीर--विमोक्षात् । आचार्य्ये प्रमीतेऽग्निं परिचरेत् विज्ञायते हि चाहवाग्निराचार्य्य इति । संयतवाक् चतुर्थषष्ठाष्टमकालभोजी भैक्षमाचरेत् । गुर्वधीनो जटिलः शिखाजटो वा गुरुं गच्छन्तमनुगच्छेदसीनञ्चानुतिष्ठेत् शयानञ्चासीन उपवसेदाहूताध्यायी सर्वभेक्षं निवेद्य तदनुज्ञया भुञ्जीत । खट्वाशयनदन्तप्रक्षालनाभ्यञ्जनवर्जी तिष्ठेदहनि रात्रावासीत । त्रिः कृत्वोऽभ्युयेयादापः ।
इति वासिष्ठे धर्म्मशास्त्रे समप्तमोऽध्यायः ।। 7 ।।

अष्टमोऽध्यायः ।

गृहस्थो विनीतक्रोधहर्षो गुरुणानुज्ञातः स्नात्वा असमानार्यामस्पृष्टमैथुनां यवीयसीं सदृशीं भार्य्यां विन्देत् । पञ्चमीं मातृबन्धुभ्यः सप्तमीं पितृबन्धुभ्यः । वैवाह्यमग्निमिन्ध्यात् । सोयमागतमतिथिं नावरुन्ध्यात् । नास्यानश्रन् गृहे वसेत् ।
यस्य नाश्राति वासार्थी ब्राह्मणी गृहमागतः ।
सुकृतं तस्य यत् किञ्चित् सर्वमादाय गच्छति ।।
एकरात्रन्तु निवसन्नतिथिर्ब्राह्मणः स्मृतः ।
अनित्यं हि स्तितिर्यस्मात् तस्मादतिथिरुच्यते ।।
नैकग्राहमीणमतिथिं विग्रं साङ्गतिकं तथा ।
काले प्राप्ते अकोले वा नास्यानश्रन् गृहे वसेत् ।।
श्रद्धाशीलोऽस्पृहयालुः अलमग्न्याधेयाय नानाहिताग्निः स्यादलञ्च सोमपानाय नासोमयाजी स्यात् । उक्तः स्वाध्याये प्रजनने यज्ञे च गृहेष्वभ्यागतं प्रत्युत्थानासनशयनवाक्‌सुनृताभिर्म्मानयेत् । यथाशक्ति चान्नेन सर्वभूतानि ।
गृहस्थ एव यजते गृहस्थस्तप्यते तपः ।
चतुर्णामाश्रमाणान्तु गृहस्थस्तु विशिष्यते ।।
यथा नदीनदाः सर्वे समुद्रे यान्ति संस्थितिम् ।
एवमाश्रमिणः सर्वे गृहस्थे यान्ति संस्थितिम् ।।
यथा मातरमाश्रित्य सर्वे जीवन्ति जन्तवः ।
एवं गृहस्थेमोश्रित्य सर्वे जीवन्ति भिक्षुकाः ।।
नित्योदकीनित्ययज्ञोपवीतीनित्यस्वाध्यायीपतितान्नवर्जी ।
ऋतो गच्छन् विधिवच्च जुह्वन्
न ब्राह्मणश्च्यवते ब्रह्मलोकात् ।। इति ।।
इति वासिष्ठ धर्म्मशास्त्रेऽष्टमोऽध्यायः ।। 8 ।।

नवमोऽध्यायः ।

वानप्रस्थी जटिलश्चीराजिनवासा ग्रामञ्च न प्रविशेत् । न फालकृष्टमधितिष्ठेत् । अकृष्टं मूलफलं सञ्चिन्वीत । ऊर्द्धरेताः क्षमाशयः । मूलफलभैक्षेणाश्रमागतमतिथिमर्च्चयेत् । दद्यादेव न प्रतिगृङ्गोयात् । त्रिषवणमुदकमुपस्पृश्चेत् । श्रावणकेनाग्निमाधायाहिताग्निः स्याद् वृक्षमूलिकः ऊर्द्धं षड्‌भ्यो मासेम्योऽनग्निरनिकेतः । दद्याद्देवपितृमनुष्येभ्यः । स गच्छेत् स्वर्गमानन्त्यम् ।
इति वासिष्ठे धर्म्मशास्त्रे नवमोऽध्यायः ।। 9 ।।

दशमोऽध्यायः ।

परिव्राजकः सर्वभूताभयदक्षिणां दत्त्वा प्रतिष्ठेत् ।
अथाप्युदाहरन्ति ।
अभयं सर्वभूतेभ्यो दत्त्वा चरति यो द्विजः ।
तस्यापि सर्वभूतेभ्यो न भयं जातु विद्यते ।।
अभयं सर्वभूतेभ्यो दत्त्वा यद्भूवि वर्त्तते ।
इन्ति जातानजातांश्च प्रतिगृह्नाति यस्य च ।।
सत्र्यसेत् सर्वकर्माणि वेदमेकं न सत्र्यसेत् ।
वेदसंत्र्यासतः शूद्रस्तम्माद्वेदं न मंन्यसेत् ।।
एकाक्षरं परं ब्रह्म प्राणायामः परन्तपः ।
उपवासात् परं भेक्षं दया दानाद्विशिष्यते ।।
मुण्डोऽममत्वपरिग्रहः सप्तागाराण्यमद्धल्पितानि चरेद्धैक्षं विधूमे सन्नमुषले एकशाटीपरिवृतोऽजिनेन वा गोप्रलुनैस्तृणैर्वीष्टितशरोरः स्थण्डिलशाय्यनित्यांवसतिं वसेत् ग्रामान्ते देवगृहे शून्यागारे वृक्षमूले वा मनसा ज्ञानमधीयानः । अरण्यनित्यो न ग्राम्यपशूनां सन्दर्शने विहरेत् ।।
अथाप्युदाहरन्ति ।
अरण्यनित्यस्य जितेन्द्रियस्य सर्वेन्द्रियप्रीतिनिवर्त्तकस्य ।
अध्यात्मचिन्तागतमानसस्य ध्रुवा ह्यनावृत्तिरूपेक्षकस्य ।।
अव्यक्तलिङ्गोऽव्यक्ताचारोऽनुन्मत्त उन्मत्तवेशः ।
अथाप्युदाहरन्ति ।
न शब्दशास्त्राभिरतस्य मोक्षी ।
न चापि लोके ग्रहणे रतस्य ।
न भोजनाच्छादनतत्‌परस्य ।
न चापि रम्यावसथप्रियस्य ।।
नचोत्‌पातनिमित्ताभ्यां न नक्षत्राङ्गविद्यया ।
अनुशासनवादाभ्यां भिक्षां लिप्तेत कार्हिचित् ।।
अलाभे न विषादी स्याल्लाभे चेक्न हर्षयेत् ।
प्राणमात्रिकमात्रः स्यान्मात्रासङ्गाद्विनिर्गतः ।।
न कूट्या नोद्रके सङ्कनेन चैले न त्रिपुष्करे ।
नागारे नासने नान्ने यस्य वै मीक्षवित्तमः ।।
ब्राह्मणकुले वा यल्लभेत् तद्भुञ्चोत सायं मधुमांससर्षिर्वर्जम् । यतीन् साधून् वा गृहस्थान् सायं प्रातश्च तृम्येत् । ग्रामे वसेदजिह्वोऽशरणीसङ्कसुकः । न चेन्द्रियसंयोगं कुर्वीत । केनचित्, उपेक्षकः सर्वभूतानां हिंसानुग्रहपरिहारेण । पैशुन्यमत्‌सराभिमानाहङ्गाराश्रद्धानार्जवात्मस्तव--परगर्हादन्म--लोभमोहक्रोधासूयाविवर्जनं सर्वाश्रमिणां, धर्म्मिष्ठो यज्ञोपवीन्युदककमण्डलुहस्तः । शुचिर्ब्राह्मणो वृषलान्नपानवर्जी न दीयते ब्रह्मलोकात् ।।
इति वासिष्ठे धर्म्मशास्त्रे दशमोऽध्यायः ।। 10 ।।

एकादशोऽध्यायः ।

षट्‌कर्मा गृहदेवताभ्यो बलिं हरेत् । श्रित्रियायान्नं दत्त्वा ब्रह्मचारिणेः वानन्तरं पितृभ्यो दद्यात्, ततोऽतिथिं भोजयेत् श्रेष्टासमानुपूर्वेण स्वगृह्याणां कुमारीबालवृद्धतरूणग्रभृतींस्ततोऽपरान् गृह्यान्, श्वचाण्डालपतितवायसेभ्यो बूमोनिर्वपेत् । शूद्रेभ्यः उच्छिष्टं वा दद्याच्छेषं यती भुञ्चोत, सर्वोप्रयोगेन पुनः पाको यदि निरूक्ते वैश्वदेवेऽतिथिरागच्छेद्विशेषेणस्मा अन्नं कारयेद्विजायतेऽह्निवैश्वानरः प्रविशत्यतिथिर्ब्राह्मणो गृहम् । तस्मादपयानमन्यत्र वर्षाभ्यस्तां हि शान्तिजनाविद्भिरिति तं भोजयित्वोपासोता सीमान्तादनुव्रजेदनुज्ञाताद्वा । परपक्ष ऊर्द्धं चतुर्थ्यां पितृभ्यो दद्यात्, पूर्वेद्युर्ब्राह्मणान् सन्निपात्य यतीन् गृहस्थान् साधून् वा परिणतवयसोऽविकर्मस्थान् श्रीत्रियान् शिष्यानन्तेवासिनः शिष्यानपि गुणवतो भोजयेद्विलग्नशुक्लविगृधिश्यावदन्तकुष्ठिकुनखिवर्जम् ।
अथाप्युदाहरन्ति ।
अथ चेन्मन्त्रविद्‌युक्ताः शारीरैः पंक्तिदूषणैः ।
अदूष्यन्तं यमः प्राह पक्तिपावन एव सः ।।
आद्धेनीहासनीयानि उच्छिष्टान्या दिनक्षयात् ।
खे पतन्ति हि या धारास्ताः पिवन्त्यकृतोदका ।।
उच्छिष्टेन प्रपुष्टास्ते यावन्नास्तमितो रविः ।
क्षीरधारास्ततो यान्त्यक्षयाः सञ्चरभागिनः ।।
प्राक्‌संस्कारप्रमीतानां प्रवेशनमिति श्रुतिः ।
भागधेयं मनुः प्राह उच्छिष्टोच्छेषणे उभे ।।
उच्छेषणं भूमिगतं विकिरेल्लेपसीदकम् ।
अनुप्रेतेषु विसृजेः प्रजानामनायुषाम् ।।
उभयोः शाखयोर्युक्तं पितृभ्योऽन्नं निवेदितम् ।
तदन्तरं प्रतीक्षन्ते ह्यसुरा दुष्टचेतसः ।।
तस्मादशून्यहस्तेन कुर्य्यादन्नमुपागतम् ।
भोजनं वा समालभ्य तिष्ठतोच्छेषणे उभे ।।
द्धौ दैवे पितृकृत्ये त्रोन्नेकैकमुभयत्र वा ।
भोजयेत् सुसमृद्धोऽपि न प्रसज्येत विस्तरे ।।
सत्‌क्रियां देशकालौ च शौचं ब्राह्मण-सम्पदः ।
पञ्चैतान् विस्तरो हन्ति तस्मात् तं परिवर्जयेत् ।
अपि वा भोजयेदेकं ब्राह्मणं वेदपारगम् ।
शुभशीलोपसम्पन्नं सर्वालक्षण वर्जितम् ।।
यद्येकं भोजयेच्छ्राद्धे दैवं तत्र कथं भवेत् ।
अन्नं पात्रे समद्ध्रत्य सर्वस्य प्रकृतस्य तु ।।
देवतायतने कृत्वा ततः श्रुद्धिं प्रवर्त्तते ।
प्राश्येदग्नी तदम्नस्तु दद्याद्वा ब्रह्मचारिणे ।।
यावदुष्णं भवत्यन्न यावदश्रन्ति वाग्‌यताः ।
तावद्धि पितरी श्रन्ति यावन्नोक्ता हविर्गुणाः ।।
हविर्गुणा न वक्तव्याः पितरो भावतर्पिताः ।
पितृभिस्तर्पितै पश्चाद्वक्तव्यं शोभनं हविः ।।
नियुक्तस्तु यदा श्राद्धे दैवे तन्तु समुत्‌मृजेत् ।
यावन्ति पशुरोमानि तावन्नरकमृच्छति ।।
त्रोणि श्राद्धे पवित्राणि दोहित्रः कुतपस्तिलाः ।
त्रीणि चान्नं प्रशंसन्ति शोचमक्रोधमत्वराम् ।।
दिवसस्याष्ठमे भागे मन्दोभवति भास्करः ।
स कालः कुतपो नाम पितॄणां दत्तमक्षयम् ।।
श्राद्धं दत्त्वा च भुक्ता च मैथुनं योऽधिगच्छति ।
भवन्ति पितरस्तस्य तन्मासं रेतसो भुजः ।।
यतस्ततो जायते च दत्त्वा भुक्त्वा च पैतृकम् ।
न स विद्यामवाप्नोति क्षीणायुश्चैव जायते ।।
पिता पितामहश्चैव तथैव प्रपितामह ।
उपासते सुतं जातं शकुन्ता इव पिप्पलम् ।।
मधुमांसैश्च शाकैश्च पयसा पायसेन वा ।
अधनो दास्यति श्राद्धं वर्षासु च मघासु च ।।
सन्तानवर्द्धनं पुत्रं तृप्यन्तं पितृकर्म्मणि ।
देवब्राह्मणसम्पन्नमभिनन्दन्ति पूर्वजाः ।।
नन्दन्ति पितरस्तस्य सुवृष्टैरिव कर्षकाः ।
यद्गयास्थो ददात्यन्नं पितरस्तेन पुत्रिणः ।।
श्रावण्याग्रहायण्योश्चान्वष्टकायाञ्च पितृभ्यो दद्याद्‌द्रव्यदेशब्राह्मणसन्निधाने वा कालनियमोऽवश्यम् । यो ब्राह्मणीऽग्निमादधोत, दर्शपूर्णमासाग्रयणेष्टिचातुर्म्मास्यपशुसोमैश्च यजते । नैयमिकं ह्येतद्दणं संस्तृतञ्च विज्ञायते हि त्रिभिर्ऋणे र्ऋणवान् ब्राह्मणो जायते ; यज्ञेन देवेम्यः, प्रजाया पितृभ्यो, ब्रह्मचर्य्योण ऋषिभ्यः इत्येष वा अनृणो यज्व यः पुत्रौ ब्रह्मचर्य्यवानिति । गर्भाष्टमेषु ब्राह्मणमुपनयोत, गर्भेकादशेषु राजन्यं, गर्भद्वादशेषु वैश्यम् । पालाशी दण्डी बैल्वी वा ब्राह्मणस्य, नैययाधः क्षत्रियस्च वा, ओड़, म्बरो वा वैश्यस्य । कृष्णाजिनमुत्तरोयं ब्राह्मणस्य, रोरवं क्षत्रियस्य, गव्यं वस्ताजिनं वैश्यस्य । शुक्लमाहतं वासा ब्राह्मणस्य, माञ्जिष्ठं क्षत्रियस्य, हारिद्रं कोशेयं वैश्यस्य, सर्वेषां वा तान्तवमरक्तम् । भवत्‌पूर्वां ब्राह्मणो भिक्षां याचेत, भवन्मध्यां राजन्यो, भबदन्त्यां वैश्यश्च । आषोड़शाद्‌ब्राह्मणस्यानतीतः काल, आ द्बाविंशात् क्षत्रियस्या चतुर्विंशाद्‌वैश्यस्यात ऊर्द्धं पतितसाबित्रोका भवन्ति । नैनानुपनयेन्नाध्यापदेन्न याजयेन्नैभिर्विवाहयेयुः । पतितसावित्रीक उद्दालकव्रतं चरेत् ।
द्वौ मासौ यावकेन वर्त्तयेन्मासं माक्षिकेणाष्टरात्रं घृतेन वड़रात्रमयाचितं त्रिरात्रमव्‌भक्षोऽहोरात्रमेवोपवसेत् । अश्वमेधावभृथं गच्छेद्‌ब्राह्मस्तोमेन वा यजेत् ।
इति वासिष्ठे धर्म्मशास्त्रे एकादशोऽध्यायः ।। 11 ।।

द्वादशोऽध्यायः ।

अथातः स्नातकव्रतानि । स न कञ्चिदयाचेतान्यस्तं राजान्तेवासिभ्यः क्षुधापरोतस्तु किञ्चिदेव याचेत कृतमकृतै वा क्षेत्रं गामजाविकं सन्ततं हिरण्यं धान्यमन्नं वा, न तु स्नातकः श्रुधावमीदेदित्युपदेशी । न नद्यायाम् सहसो संविशेन्न रजस्वलायामयोग्यायाम् । न कुलं--कुलं स्याद्वसन्ती वितातां नातिक्रमेन्नोद्यन्तमादित्यं पर्श्यन्नादित्यं तपन्तं नास्तं, भूत्रपुरीषे कुर्य्यान्न निष्ठीवेत्, परिवेष्टितशिरा भूमिमयज्ञिर्यैस्तॄणैरन्तर्द्धाय मूत्रपुरीषे कुर्य्यादुदङ्भु खश्चाहनि नक्तं दक्षिनामुखः सन्ध्यामासोतीत्तरामुदाहरन्ति ।
स्नातकानास्तु नित्यं स्यादन्तर्वासस्तथोत्तरम् ।
यज्ञोपवीते द्वे यष्टिः सीदकश्च कमन्डलुः ।।
अप्स, पाणो च काष्ठे च कथितं पावकं शुचि ।
तस्मादुदकपोणिभ्यां परिमृज्यात् कमण्डलुम् ।।
पर्य्यग्निकरणं ह्येतन्मनुराह प्रजापतिः ।
कृत्वा चावश्यकार्य्याणि आचामेच्छोचवित्ततः ।। इति
प्राङ्भु खोऽन्नानि भुञ्जोत, तुष्णीं साङ्गुष्ठं कृशग्रासं ग्रसेत न च मुखशब्द कुर्य्याद्दतुकालाभिगामी स्यात् पर्ववर्जं स्वदारे वा । तीर्थमुपेयात् ।
अथाप्युदाहरन्ति ।
यस्तु पाणिगृहीताया आस्ये कुर्वीत मैथनम् ।
भवन्ति पितरस्तस्य तन्मासं रेतसो भुजः ।।
या स्यादनतिचारेण रतिसाधर्म्मपसंश्रिता ।।
अपिच पावकोऽपि ज्ञायते । अद्य श्वो वा विजनिष्यमाणाः पतिभिः सह शयन्त इति स्तोणामिन्द्रदत्तो वरः । उन्नतवृक्षमारोहेन्न कूपमवरोहेन्नाग्निं मुखेनोपधमेन्नाग्निं ब्राह्मणञ्चान्तरेण व्यपेयान्नाग्न्योरनुज्ञाप्य वा । भार्य्यया सह नाश्रोयादवीर्य्यवदपत्यं भवतीति वाजसनेयके विज्ञायते । नेन्द्रधनुर्नाम्ना निर्द्दिशेम्नणिधनुरिति ब्रूयात् । पालाशमासनपाटुके दन्तधावनमिति वर्जयेत् । नोत्‌सङ्गे भक्षयेदङ्ध्रो न भुञ्जीत वैण्वं दण्डं दारयेद्रुक्भकुण्डले च । न बहिर्म्मालां धारयेदन्यत्र रुक्भमय्याः सभासमवायांश्च वर्जयेत् ।
अथाप्युदाहरन्ति ।
अप्रामाण्यञ्च वेदानामार्षाणञ्चैव दर्शनम् ।
अव्यवस्था च सर्वत्र एतन्नाशनमात्मनः ।। इति
नानादूतो यज्ञं गच्छेद्, यदि व्रजेदधिवृक्षसूर्य्यमध्वानं न प्रतिपद्येत, नावञ्च सांशयिकोम् । बाहुभ्यां न नदीन्तरेदुत्थायापररात्रमवीत्य न पुनः प्रतिसंविशेत् । प्राजापत्वे मूहूर्त्ते ब्राह्मणः स्वनियमाननुतिष्ठेदिति ।
इति वासिष्ठे धर्म्मशास्ते द्वादशोऽध्यायः ।। 12 ।।

त्रयोदशोऽध्यायः ।

अथातः स्वाद्यायश्चोपाकर्म श्रावण्यां र्पौणमास्यां प्रोष्ठपद्यां वाग्निमुपसमाधाय कृताधानो जुहोति देवेभ्यश्छन्दोम्यश्चेति । ब्राह्मणान् स्वस्तिवाच्य दधि प्राश्य तत उपांशु कुर्वीत अर्द्धपञ्चममामानर्द्धषष्ठानत ऊर्द्धं शुक्लपक्षेष्वधीयोत । कामन्तु येदाङ्गानि । तष्यानध्यायाः सन्ध्यस्तिमिते स्युस्तत्र शवे दिवाकीर्त्त्ये नगरेषु कामं गोमयपर्य्युषिते परिलिखिते वा श्मशानान्ते शयानस्य श्राद्धिकस्य ।
मानवञ्चात्र श्लोकमुदाहरन्ति ।
फलान्यापस्तिलान् भक्ष्यमथान्यच्छ्राद्धिकं भवेत् ।
प्रतिगृह्याप्यनध्यायः पाण्यास्या ब्राह्मणाः स्मृता इति ।।
धावतः पूतिगन्धिप्रसृतेरितवृक्षमारुढ़स्य, नावि, सेनायाञ्चे, भुक्त्वा, चाघंघ्रणि, वाणशब्दे, चतुर्द्दश्याममावास्यायामष्टम्यामष्टकास, प्रसारितपादोपस्थस्योपाश्रितस्य गुरूसमीपे, मिथुनव्यपेतया वाससो, मिथुनव्यपेतेनानिर्मुक्ते । न ग्रामान्ते, च्छर्द्दितस्य, मूत्रितस्योच्चरितस्य यजुषाञ्च, सामशब्दे, वाजीर्णे, निर्घातभूमौच । न चन्द्र--सूर्य्योपरागेषु, दिङ्‌नादपर्वतनादकम्पप्रघातेषूपलरूधिर--पांशुवर्षेष्वाकालिकम् । उल्काविद्युत्‌सज्योतिषमपर्त्त्वाकालिकं वा । आचार्य्ये च प्रेते त्रिरात्रमाचार्य्य पुत्रशिष्यबार्य्यास्वहोरात्रम् । ऋत्विग्‌योनिसम्वन्धेषु च । गुरोः पादीपसंग्रहणं कार्य्यं, ऋत्विक्‌श्वशुरपितृव्यमातुलानवरवयसः प्रत्यत्थायाबिवदेद् ये चैव पादग्राह्यास्तेषां भार्य्या गुरोश्च मातापितरौ । यो विद्यादभिवन्दितुमहमयम्भो इतिब्रूयाद्, यश्च न विद्यात् प्रत्यभिवादं नाभिवदेत् । पतितः पिता परित्याज्यो, माता तु पुत्रे न पतति ।
अथाप्युदाहरन्ति ।
उपाद्यायाद्दशाचार्य्य आचार्य्याणां शतं पिता ।
पितृर्द्दशसतं माता गौरवेणातिरिच्यते ।।
भ्र्य्याः पुत्राश्च शिष्याश्च संस्मृष्टाः पापकर्म्मभिः ।
परिभाष्य परित्याज्याः पतितो योऽन्यथा भवेत् ।।
ऋत्विगाच्चार्य्यावयाजकानध्यापको हेयावन्यत्र हानात् पतितो नान्यत्र पतितो भवतीत्याहुरन्यत्र स्त्रियाः, सा हि परगमिता, तद्भिन्नामक्षुस्मामुपेयात् ।
गुरोर्गुरौ सन्निहिते गुरूवद्‌वृत्तिरिष्यते ।
गुरूपद्‌गुरूपुत्रस्य वर्त्तितव्यमिति श्रुतिः ।।
शास्त्रं वस्त्रं तथान्नानि प्रतिग्राह्याणि ब्राह्मणस्य । विद्या वितं वयः सम्वन्धः कर्म्म च मान्यं पूर्वः पूर्वो गरौयान् । स्थविरबालातुरभारिकचक्रवतां पन्थाः समागमे परस्मै देयो, राजस्रातकयो समागमे राज्ञा स्नातकाय देयः, सर्वेरेव वा उच्चतमाय । तृणभूमाग्न्युदकवाक्‌सूनृतानसूयाः सप्त गृहे नोच्छिद्यन्ते कदाचनेति ।।
इति वासिष्ठे धर्म्मशास्त्रे त्रयोदशोऽध्यायः ।। 13 ।।

चतुर्द्दशोऽध्यायः ।

अथातो भीज्याभीज्यञ्च वर्णयिष्यामः । चिकितसकमृगयुपुंश्चलोदण्डिकस्तेनाभिशस्तषण्ढपतितानामभोज्य, कदर्य्योक्षतबद्धातुर--सीमविक्रयि--तक्षक-रजकशौण्डिक--सूचकवार्द्धषिकचर्म्मावकृत्तानां, शूद्रस्य, चायज्ञस्योपयज्ञे, यश्चोपपतिं मन्यते यश्व गृहीततद्धेतुर्यश्च वधार्हं नोपहन्यात्, को बन्धमोक्षो इति चाभिक्रुश्येत्, गणान्नं गणिकान्नमथाप्युदाहरन्ति ।
नाश्रन्ति श्वपतेर्द्देवा नाशन्ति वृषलीपतेः ।
भार्य्याजितस्य नाश्रन्ति यस्य चोपपतिर्गृहे ।। इति
एधोदकसवत्‌कसुशलाजाभ्युद्यतपानावसथशफरिप्रियङ्गुस्तरजमधुमांसानि नैतेषां प्रतिगृह्नीयादथाप्युदाहरन्ति ।
गुर्वर्थदारसुज्जिहीर्षन्नर्च्चिष्यन् देवतातिथीन् ।
सर्वतः प्रतिगृह्नोयान्न तु तृप्ये त् स्वयं ततः ।। इति
न मृगयोरिषुचारिणः परिवर्जमन्नं विज्ञायते ह्यगस्त्यो वर्षसाहस्रिके सत्रे मृगयां चकार, तस्यासंस्तु रसमयाः पुरेडाशा मृगपक्षिणां प्रशस्तानामपि ह्यन्नम् । प्राजापल्यान् श्लोकानुदाहरन्ति ।
उद्यतामाहृतां भिक्षां पुरस्तादप्रचोदिताम् ।
भोज्यां प्रजापतिर्मेने अपि दुष्कृतकारिणः ।।
अद्दधानैर्न भोक्तव्यं चौरस्यापि विशेषतः ।
न त्वेव बहुधा तस्य या वानपहृता भवेत् ।।
न तस्य पितरोऽश्रन्ति दश वर्षाणि पञ्च च ।
न च हव्यं वहत्यग्निर्यस्तामग्यवमन्यते ।।
चिकित्‌सकस्य मृगयोः शल्यहस्तस्य पाशिनः ।
षण्ढस्य कुलटायाश्च उद्यतापि न गृह्यते ।। इति
उच्छिष्टमगुरोरभोज्यं, स्वमुच्छिष्टमुच्छिष्टोपहतञ्चो यदशनं केशकीटोपहतञ्च, कामन्तु केशकीटानुद्धत्याद्भिः । प्रोक्ष्य भस्मनावकोर्य्य वाचा च प्रशस्तमुपयुञ्जीतापि ह्यन्नम् ।
प्राजापत्यान् श्लोकानुदाहरन्ति ।
त्रीणि देवाः पवित्राणि ब्राह्मणानामकल्पयन् ।
अदृष्टमद्भिर्निणिंक्तं यच्च वाचा प्रशस्यते ।।
देवद्रोण्यां विवाहेषु यज्ञेषु प्रकृतेषु च ।
काकैः श्वभिश्च संस्पृष्टमन्नं तन्न विसर्जयेत् ।।
तस्मात् तदन्नमुद्धुत्य शेषं संस्कारमर्हति ।
द्रवाणां प्लावनेनैव घनानां क्षरणेन तु ।।
पाकेन सुखसंस्पृष्टं शुचिरेव हि तद्भवेत् ।।
अन्नं पर्य्युषितं भावदुष्टं हृल्लेखं पुनः सिद्धमाममृजीशपक्वञ्चाकामन्तु दध्याद्‌ष्टतेन चाभिधारितमुपयुञ्चीतापि ह्यन्नम् ।
प्राजापत्यान् श्लोकानुदाहरन्ति ।
हस्तदत्तास्तु ये स्नेहा लवणं व्यञ्जनानि च ।
दातारं नोपतिष्ठन्ते भोक्ता भुङ्‌क्ते च किल्विषम् ।। इति
लशुनपलाण्डुकेमूकगृञ्जनश्लेष्मातवृक्षनिर्यासलोहिताव्रश्चनाश्वश्वकाकावलीढ़सूद्रोच्छिष्टबोजनेषु कृच्छातिकृच्छ इतरेऽप्यन्यत्र मधुमांसफलविकर्षेष्वग्राम्यपश्वविषयः सन्धिनीक्षीरमवत्‌साक्षोरं गीमहिष्यजातरोमानिर्दशाहानामनामन्त्र्य नाव्युदकमपूप--धाना करम्मशक्तु चरकतैलपायसशाकानिलशुक्तानि वर्जयेदन्यांश्च क्षीरयवपिष्टवीरान् । श्वाविच्छल्लकशशकच्छपगोधाः पञ्चनखा नाभक्ष्याः, अनुष्ट्वाः पशूनामन्यतोदतश्च मत्‌स्यानां वा वेहगवयसिशुमारनक्रकुलीरा विकृतरुपाः सर्पशीर्षाश्च, गौर्गवयशलभाश्चानुदिष्टास्तथा धेन्वनड्वाहौ मेध्यौ वाजसनेयने । खड्‌गे तु विवदन्त्यग्रामशूकरे च, शकुनानाञ्च विशुविविष्किरजालपादाः कलविङ्कप्लवहंसचक्रवाकभासमद्‌गुटिट्टिभाटवान्धनक्तञ्चरा दावघिटाश्चटकवैलातकहारितखञ्चरौटग्रामकुक्कुटशुकसारिकाकोकिलक्रव्यादा ग्रासाचारिणश्च ।
इति वासिष्ठे धर्म्मशास्त्रे चतुर्दशोऽध्यायः ।। 14 ।।

पञ्चदशोऽध्यायः ।

शोणितशुक्रसम्भवः पुरूषो मातापितृनिमित्तकः । तस्य प्रदानविक्रयत्यागेषु मातापितरो प्रभवतः न त्वेकं पुत्रं दद्यात् प्रतिगृह्नोयाद्वा, स हि सन्तानाय पूर्वेषाम् । न स्त्री दद्यात् प्रतिगृह्नोयाद्वान्यत्रानुज्ञानाद्भर्त्तुः । पुत्रं प्रतिग्रहीष्यन् बन्धूनाहूय राजनि चविद्य निवेशनस्य मध्ये व्याहृतीर्हुत्वा दूरेबान्धवसन्निकृष्टमेव । सन्देहे चोत्‌पन्ने दूरेबान्धवं शूद्रमिव स्थापयेत् । विज्ञायते ह्येकेन बहु जायत इति । तस्मिश्चेत् प्रतिगृहोते औरसः पुत्र उत्‌पद्यते, चदुर्थभागभागो स्यात् । यदि नाभ्युदयिके युक्तः स्याद्वेदविप्लविनः सव्येन पादेन प्रवृत्ताग्रान् दर्भान लोहितान् वोपर्स्तीर्य्य पूर्णं पात्रमम्मै निनयेन्निनेतारञ्चास्य प्रकोर्य्य केशान् ज्ञातयेऽन्वारभेरन्नपसव्यं कृत्वा गृहेषु स्वेरमापाद्येरन्नत ऊर्द्धं तेन सह धर्म्ममौयुस्तद्धर्म्मापन्नः । पतितानान्तु चरितव्रतानां प्रत्युद्वीरः ।
अथाप्युदाहरन्ति ।
अग्न्यभ्युद्धरतां गच्छेत् क्रीड़न्ति च हसन्ति च । यश्चोत् पातयातांगच्छेच्छोचन्नित्याचार्य्य--मातृपितृहन्तारस्तत्‌प्रमादाद्भयाद्वा एषा प्रत्यापत्तिः पूर्णद्वात् प्रवृत्ताह्वा काञ्चनं पात्रं माहेयं वा पुरियित्वापो हिष्ठाभिरेव षड़र्ऋग्‌भिः सर्वत्र व्यतिरिक्तस्य प्रत्युद्दीरपुत्रजन्मना व्याख्यातः ।
इति वासिष्ठे धर्म्मशास्त्रे पञ्चदशोऽध्यायः ।। 15 ।।

षोड़शोऽध्यायः ।

अथ व्यवहाराः । राजमन्त्रो सदः कार्य्याणि कुर्य्याह्वयोर्विवदमानयोरत्र पक्षान्तरं न गच्छेद् । यथासनमपराधो ह्यन्ते नापराधः । समः सर्देषु भूतेषु यथासनमपराधो ह्याद्यवर्णयोर्विधानतः सम्यन्नतामाचरेत् । राजा बालानामप्राप्तव्यवहाराणआं प्राप्तकाले तु तद्वत् ।
लिखितं साक्षिणो भुक्तिः प्रमाणं त्रिविधं स्मृतम् ।
धनस्वीकरणं पूर्वं धनी धनमवाप्नुयात् ।। इति
मार्गक्षेत्रयोर्विसर्गे तथा परिवर्त्तनेन ऋणग्रहेष्वर्थान्त रेषु त्रिपादमात्रम् । गृहक्षेत्रविरोधे सामन्तविरोधेऽपि रेख्यप्रत्ययः, प्रत्यभिलेख्यविरोधे ग्रामनगरवृद्धश्रीणिप्रत्ययः ।
अथाप्युदाहरन्ति ।
य एकं क्रीतमाधेयमन्वाधेयं प्रतिग्रहम् ।
यज्ञादुपगमोवोणैस्तथा धूमशिखा ह्यमी ।। इति
 तत्र भुक्ते दशवर्षमेवोदाहरन्ति ।
आधिः सीमाधिकञ्चैव निक्षेपोपनिधिः स्त्रियः ।
राजस्वं श्रोत्रियद्रव्यं न राजा दातुमर्हतीति ।।
तच्च सम्भोगे न ग्रहीतव्यम् । गृहिणां द्रव्याणि राजा गामीनि भवन्ति, तथा राजा मन्त्रिभिः सह नागरैश्च कार्य्याणि कुर्य्यादसौ वा राजा श्रेयान् वसुपरिवारः स्यादगृध्रं परिवारं वा राजा श्रेयानगृध्रपरिवारः स्यान्न गृध्रो मृध्रपरिवारः स्यान्न, परिवाराद्दोषाः प्रादुर्भवन्ति स्तेयहारविनाशनं, तस्मात् पूर्वमेव परिवारं पृच्छेत् ।
अथ साक्षिणः ।
श्रात्रियो रुपवान् शीलबान् पुण्यबान् सत्यवान् साक्षिणः सर्व एव वा, स्त्रीणान्तु माक्षिणः स्त्रियः कुर्य्यात, द्विजानां सदृशाः द्विजाः, शूद्राणां मन्तः शूद्राश्च, अन्त्यानामन्त्याः ।
अथाप्युदाहरन्ति ।
प्रातिभाव्यं वृथादानमाक्षिकं सौरिकञ्च यत् ।
दण्डशुल्कावसिष्टञ्च न पुत्रो दातुमर्हतीति ।।
ब्रूहि साक्षिन् यथातत्त्वं लम्बन्ते पितरस्तव ।
तव वाक्यमुदीर्य्यन्तमुतपतन्ति पतन्ति च ।।
नग्ना मुण्डः कपालो च भिक्षार्थं क्षुत्‌पिपासितः ।
अन्ध शत्रुकुले गच्छेद्‌यस्तु साक्ष्यनृतं वदेत् ।।
पञ्च कन्यानृतेः हन्ति दश हन्ति नवानृते ।
शतमश्वानृते हन्ति सहस्रं पुरूषानृते ।।
उद्वाहकाले रतिसम्प्रयागे प्राणत्यये सर्वधनापहारे ।
विप्रस्य चार्ये अनृतं वदेयुः पञ्चानृतान्याहुरपातकानि ।।
त्वजनस्य अर्थे यदिवार्थहेतोः
पक्षाश्रयेणैव वदन्ति कार्य्यम् ।
वैशब्दवादं स्वकुलानपूर्वान्
स्वर्गस्थितास्तानपि पातयन्ति ।।
इति वासिष्ठे धर्म्मशास्त्र षोड़शोऽध्यायः ।। 16 ।।

सप्तदशोऽध्यायः ।

ऋणमस्मिन् सन्नयति अमृतत्वञ्च गच्छति ।
पिता पुत्रस्य जातस्य प श्येञ्च जीवतो मुखम् ।।
अनन्ताः पुत्रिणां लोका, नापुत्रस्य लोकीऽस्तीति श्रुयते, प्रजाः सन्त्वपुत्रिण इत्यपि शापः । प्रजाभिरग्नेस्त्वमृतत्वमस्यामित्यपि नियमो भवति ।
पुत्रेण लोकान् जयति पौत्रेणानन्त्यमश्रुते ।
अथ पुत्रस्य पौत्रेणण ब्रध्नत्याप्नोति पिष्टपमिति ।।
क्षेत्रिणः पुत्रो जनयितुः पुत्र इति विवद्यन्ते ।
तत्रोभयथाप्युदाहरन्ति ।
यद्यन्यो गोषुवृषभो वत्‌सान् जनयते सुतान् ।
गोमिनमिव ते वत्‌सा मोघं स्यन्दनमोक्षणमिति ।।
अप्रमत्ता रक्षन्तु वैनं मा च क्षेत्रे परे बोजानि वासौ जनयितुः पुत्रो भवति । सम्परायो मीघं रेतोऽकुरूत तन्तुमेतमिति ।
बहूनमिकजातानामेकश्चेत् पुत्रवान् नरः ।
सर्वेते तेन पुत्रेण पुत्रवन्त इति श्रुतिः ।।
बह्वीनां द्वादश ह्येव पुत्राः पुराणदृष्टाः स्वयमुत्‌पादितः स्वक्षेत्रे संस्कुतायां प्रथमः, तदलाभे नियुक्तायां क्षेत्रजोः द्वितीयः, तृतीयः पुत्रिका विज्ञायते, अभ्रातृका पुंसः । पितृलभ्येति प्रतिचौनं गच्छति पुत्रत्वम् । श्लोकः ।
अभ्रातृकां प्रदास्यामि तुभ्यं कन्यामलङ्कताम् ।
अस्यां यो जायते पुत्रः स मे पुत्रो भवेदिति ।।
पौनर्भवश्चतुर्यः पुनर्भूः कौमारं भर्त्तारमुत्‌सृज्यान्यैः सह चरित्वा तस्यैव कुटुम्वमाश्रयति सा पुनर्भूर्भवति या च क्लोव पतितमुन्मतं वा भर्त्तारमुत्‌सृज्यान्यं पति विन्दते मृते वा सा पुनर्भूर्भवति । कानीणः पञ्चमो, या पितृगृहेऽसंष्कृता कामादुत्‌पादयेन्मातामहप्त्य पुत्रो भवतीत्याहुः ।
अथाप्युदाहरन्ति ।
अप्रत्ता दुहिता यस्य पुत्रं विन्दति तुल्यतः ।
पुत्रो मातामहस्तेन दद्यात् पिण्डं हरेद्धनमिति ।।
गूढ़े च गूढ़ोत्‌पन्नः षष्ठ इत्येते दायादा बान्धवास्वातारो महती भयादित्याहुः । अथादायादास्तत्र सहोढ़ एव प्रथमो या गर्भिणी संस्कियते तस्यां जातः सहोढ़ः पुत्रो भवति । दत्तको द्वितीयो यं मातापितरो दद्याताम् । क्रीतस्तृतीयस्तच्छुनः शेफेन व्याख्यातं हरिश्चन्द्रो ह वै राजा सोऽजीगर्त्तस्य सोपवत्‌सैः पुत्रं विक्राय्य स्वयं क्रोतवान् । स्वयमुपागतश्चतुर्थस्यच्छुनः शेफेन व्याख्यातं शुनः शेफो ह वै यूपे नियुक्तो देवतास्तुष्टाव तस्येह देवताः पाशं विमुमुचुस्तमृत्विज ऊचुर्ममैवायं पुत्रोऽस्त्विति तानाह न सम्पेदे ते सम्पादयामासुरेष एव यं कामयेत तस्य पुत्रोऽस्त्विति तस्येह विश्वामित्रो होतासीत् तस्य पुत्रत्वमियाय । अपविद्धः पञ्चमो यं मातापितृभ्यामपास्तं प्रतिगृह्नीयात् । शूद्रापुत्र एव षष्ठो भवतीत्याहुरित्येतेऽदायादा बान्धवाः ।
अथाप्युदाहरन्ति ।
यस्य पूर्वेषां वर्णानां न कश्चिद्दायादः स्यादेते तस्यापहरन्ति । अथ भातॄणां दायविभागो द्व्यंशं जेष्ठो हरेद्हवाश्वस्य चानुसदृशमजावयो गृहञ्च कनिष्ठस्य काष्ठं गां यवसं गृहोपकरणाणि च मध्यमस्य मातुः पारिणेयं स्रियो विभजेरन् । यदि ब्राह्मणस्य ब्राह्णीक्षत्रियावैश्यासु पुत्राः स्युस्त्रंवशं ब्राह्मण्वाः पुत्रो हरेद् द्वंवशं राजन्यायाः पुत्रः सममितरे विभजेरन्नन्येन चैषां स्वयमूत्‌पादितः स्यात् द्वंवशमेव द्वरेदन्येषान्त्वाश्रमान्तरगताः क्लोवोन्मत्तपतिताश्च भरणम् । क्लोवीन्मत्तान्यं प्रेतपत्नी षण्मासं व्रतचारिण्वक्षारलवणं भुञ्जाना शयीतोर्धं षड़्‌भ्यो मासेभ्योः स्नात्वा श्राद्धञ्च पत्ये दत्त्वा विद्याकर्मगुरूयोनिसम्बन्धान् सन्निपात्य पिता भ्राता वा नियोगं कारयेत् तपसे वोन्मत्तामवशां व्याधितां वा नियुञ्जात् ज्यायसिमपि षोड़शवषां नचेदामयाविनी स्यात् प्राजापत्ये मुहूर्त्ते पाणिन ग्रहणवदुपचारोऽन्यत्र संस्थाप्य वाकपारूष्पाद्दण्डपारूष्याच्च ग्रासाच्छादनस्रनलेपनेषु प्राग्‌यामिनी स्यादनियुक्तायामुत्तपन्न उत्‌पादयियतुः पुत्रो भवतीत्याहुः स्याच्चेन्नियोगिनो दृष्ट्वा लोभन्नास्ति नियोगः । प्रायश्चित्तं वाप्युपनियुञ्जपादित्येके । कुमार्य्यृतुमती त्रिवर्षाण्युपासीतोर्द्धं त्रिभ्यो वर्षेभ्यः पतिं विन्देत् तुल्यम् ।
अथाप्युदाहरन्ति ।
पितु प्रदानात् तु यदा हि पूर्वं
कन्यावयो यः समतीत्य दीयते ।
सा हन्ति दातारमपीक्षमाणा
कालातिरिक्ता गुरूढक्षिणे च ।।
प्रयच्छेन्नग्निकां कन्यामृतुकालभयात् पिता ।
ऋतुमत्यां हि तिष्ठन्त्यां दोषः पितरमृच्छति ।।
यावच्च कन्यामृतवः स्मृशन्ति
तुल्यैः सकामामभियाच्यमानाम् ।
भ्रूणानि तावन्ति हतानि ताभ्याम्
मातापितृम्यामिति धर्मवादः ।।
अद्भिर्वाचा च दत्तायां स्रियेताथो वरो यदि ।
न च मन्त्रोपनीता स्यात् कुमारी पितुरेव सा ।।
यावच्चेदाहृता कन्या मन्त्रैर्यदि नसंस्कता ।
अन्यस्मै विधिवद्देया यथा कन्या तथैव सा ।।
पाणिग्रहे मृते बाला केवलं मन्त्रसंस्कृता ।
सा च त्वक्षतयोनिः स्यात् पुनः संस्कारमर्हतीति ।।
प्रोषितपत्नी पञ्चवर्षा प्रवसेद्‌यद्यकामा यथा प्रेतस्य एवञ्च वर्त्तितव्यं सात्, एवं पञ्च ब्राह्मणी प्रजाता, चत्वारि राजन्या प्रजाता, त्रोणि वैश्या प्रजाता, द्वे शूद्रा प्रजाता, अत ऊर्द्धं समानोदकपिण्डजन्मर्षिगोत्राणां पूर्वः पूर्वो गरीयान् नखलु कुलीने विद्यमाने परगामिनि स्यात् । यस्य पूर्वेषां षणां न कश्चिद्दायदः स्यात् सपिण्डाः पुत्रस्थानीया वा तस्य धनं विभेजेरंस्तेषामलाभे आचार्य्यान्तेवासिनौ हरेयातां, तयोरलाभे राजा हरेत्, न तु ब्राह्मणस्य राजा हरेद् ब्रह्मस्वन्तु विषं घोरम् ।
न विषं विषमित्याहुर्ब्रह्मस्वं विषमुच्यते ।
विषमेकाकिनं हन्ति ब्रह्मस्वं पुत्रपौत्रकमिति ।।
त्रैविद्यसाधुभ्यः संप्रयच्छेदिति ।
इति वासिष्ठे धर्म्मशास्त्रे सप्तदशोऽध्यायः ।। 17 ।।

अष्टादशोऽध्यायः ।

शूद्रेण ब्राह्मण्यामुत्‌पन्नश्चाण्डालो भवतीत्याहुः, राजन्यायां वैश्यायामन्त्यावसायी । वैश्येन ब्राह्मण्यामुत्‌पन्नो रामको भवति इत्याहुः, राजन्यायां पुक्कशः, राजन्येन ब्राह्मन्यामुतपन्न सूतो भवतीत्याहुः ।
अथाप्युदाहरन्ति ।
छिन्नोत्‌पन्नास्तु ये केचित् प्रातिलोम्यगुणाश्रिताः ।
गुणाचारपरिभ्रंशात् कर्मभिस्तान् विजानीयुरिति ।।
एकान्तरह्यन्तरत्र्यन्तरानुजाता ब्राह्मणक्षत्रियवैश्यैरवच्छिन्ना निषादा भवन्ति । शूद्रायां पारशवः पारयन्नेव जीवन्नेव शवी भवतीत्याहुः शव इति मृताख्या । एतच्छावं यच्छूद्रस्तस्माच्छूद्रसमीपे तु नाध्येतव्यम् ।
अथापि यमगीतान् श्लोकानुदाहरन्ति ।
श्मशानमेतत् प्रत्यक्षं ये शूद्राः पापचारिणः ।
तस्माच्छूद्रसमीपे च नाध्येतव्यं कदाचन ।।
न शूद्राय मतिं दद्यान्नीच्छिष्टं न हविस्कतम ।
न चास्योपदिशेद्धर्मं न चास्य व्रतमादिशेत् ।।
यश्चास्योपदिशेद्धर्मं यश्चास्य व्रतमादिशेत् ।
सोऽसंवृतं तमो घोरं सह तेन प्रपद्यत इति ।।
व्रणद्वारे कृमिर्यस्य सन्मवेत कदाचन ।
प्राजापत्येन शुध्येत हिरण्यं गौर्वासो दक्षिणेति ।।
नाग्निचित् शूद्रामुपेयात्, कृष्णवर्णा सा सरमा इव, न धर्मायेति ।
इति वासिष्ठे धर्मशास्त्रेऽष्टादशोऽध्यायः ।। 18 ।।

एकोनविंशोऽध्यायः ।

धर्मो राज्ञः पालनं भूतानां तस्यानुष्ठानात् सिद्धिः । भयकारणं ह्यपालनं वै एतत् सूत्रमाहुर्विद्वांसस्तस्माद्‌गार्हस्थ्यनैयमिकेषु । पुरोहिते दद्याद विज्ञायते ब्राह्मणः पुरोहितो राष्ट्रं दधातोति । तस्य भयचमपालनादसामर्थ्याच्च । देशधर्मजातिधर्मकुलधर्मान् सर्व्वान् वैताननुप्रविश्य राजा चतुरो वर्णान् स्वधर्मे स्थापयेत् तेष्वधर्मपरेषु दण्डन्तु देशकालधर्माधर्मवयोविद्यास्थानविशेषैर्दिशेत् । आगमादुष्टाभावात् पुष्पफलोपगान्यदेयानि हिंस्यात्, कर्षणकरणार्थञ्चोपहत्या गार्हस्थ्यं गाञ्छ मानोन्माने रक्षिते स्यातां, अधिष्ठानान्नो नोहारसार्थानामस्मान्न मूल्यमात्रं नैहारिकं स्यान्महामहस्थः स्यात्, सम्मानयेदवाहवाहनीयद्विगुणकारिणी स्यात् प्रत्येकं प्रयास्यः पुमान् । शतं वा रार्द्ध्यं वा तदेतप्यर्थाः स्त्रियः कराष्टो मानधारमध्यमाः पादः कार्य्यापणस्य निरक्तोऽन्तरो मानाकरः श्रोत्रियो राजपमानथ प्रव्रजितवालवृद्धतरूणप्रदाता प्रागामिकाः कुमार्य्यो मृतापत्यश्च वाहुभ्यामुत्तरं शतगुणं दद्यान्नदीकक्षवन् शेलोपमाङ्गा निष्कराः स्युस्तदुपजीविनो वा दद्युः प्रतिमासमुहाहकरैस्त्वागमयेद्राजनि च प्रेते टद्यात् । प्रासङ्गिकं तेन मातृवृत्तिर्व्याख्याता राजमहिष्याः पितृव्यमातुलांशजा पितृव्यान् राजा विभृयात् तद्वन्धुंश्चान्यांश्च राजपत्र्यो ग्रासाच्छादनं लभेरन् । अनिच्छन्तो वा प्रव्रजेरन् क्लीवोन्मत्तांशं वापि । मानवं श्लोकमुदाहरन्ति ।
न रिक्तकार्षापणमस्ति शुल्कं
न शिल्पवृत्तौ न शिशो न धर्म्मे ।
न भैक्षवृत्तोध न हृतावशे
न श्रोत्रिये प्रवजिते न यज्ञे ।। इति
स्तेनाभिशस्तदुष्टशत्रधारिसहोढ़व्रणसम्पन्नव्यपदेष्ट्रेष्वे केषां दण्डोत्‌सर्गे राजैकारात्रमुपवसेत् त्रिरात्रं पुरोहितः कृच्छमदण्ड्यदण्डने पुरोहितस्त्रिरात्रं वा ।
अथाप्युदाहरन्ति ।
अन्नादे भूण्हा मार्ष्टि पतौ भार्य्यापचारिणी ।
गुरौ शिष्यस्तु याज्यश्च स्तेनो राजनि किल्विषम् ।।
राजभिर्धृतदण्डास्तु कृत्वा पापानि मानवाः ।
निर्मलाः स्वर्गमायान्ति सन्तः सुकृतिनो यथा ।।
एनोराजानमृच्छत्यप्युत्‌मृजन्तं सकिल्विषम् ।
तञ्चेन्न घातयेद्राजा राजधर्मेण दुष्यतोति ।।
राज्ञामन्येयु कार्य्येषु सद्यः शोचं विधीयते ।
तथा तान्यपि नित्यानि काल एवात्र कारणमिति ।।
यमगोतञ्चात्र श्लोकमुदाहरन्ति ।
नात्र दोषोऽस्ति राज्ञां वै व्रतिनां न च मन्त्रिणम् ।
ऐन्द्रस्तानमुपासौना ब्रह्मभूता हि ते सदेति ।।
इति वासिष्ठे धर्म्मशास्त्रे एकोनविंशोऽध्यायः ।। 19 ।।

विंशोऽध्यायः ।

अनभिसन्धिकृते प्रायश्चित्तमपराधे सविकृतेऽप्येके ।
गुरूरात्मवतां शास्ता राजा शास्ता दुरात्मनाम् ।
इह प्रच्छन्नपापानां शास्तु वैवस्वतो यम ।। इति
तत्र च सूर्य्याभ्युदयिकः सन्नहस्तिष्ठेत् सावित्रीञ्च जपेदेवं सूर्य्याभ्यिनिर्मुक्तो रात्रोवासीत । कुनखी श्यावदन्तस्तु कृर्च्छ्रद्वादशरात्रं चरित्वा पुनर्निर्विशेत् । अथ दिधिषुपतिः कृच्छ्रं द्वादशरात्रं चरित्वा निर्विशेत । ताञ्चैवोपयच्छेद्दिधिषूपतिः कृच्छ्रातिकृच्छो चरित्वा निर्विशेत् । चरणमहरहस्त द्वक्ष्यामो व्रह्माघ्नः कृच्छ्रं द्वादशरात्रं चरित्वा पुनरूपनीतो वेदमाचार्य्यात् । गुरूतल्पगः सवृषणं शिश्रमुतकृत्याञ्चलावाधाय दक्षिणामुखो गच्छेद् यत्रैव प्रतिहन्यात् तत्र तिष्ठेदा प्रलयान्निष्कालको वा घृताक्तस्तप्तां सूर्मिं परिष्वजेन्मरणन्मुक्तो भवतीति विज्ञायते । आचार्य्यपुत्रशिष्यभार्य्यासु चैवं योनिषु च गुर्वीं सखीं गुरूसखोञ्च गत्वा कृच्छ्राब्दं चरेत् । एतदेव चाण्डालपतितान्नभोजनेषु ततः पुनरूपनयनं वपनादीनान्तु निवृत्रिः ।
मानवञ्चात्र श्लोकानुदाहरन्ति ।
वपनं मेखला दण्डो भैक्षचर्य्या व्रतानि च ।
निवर्त्तन्ते द्विजातीनां पुनसंस्कारकर्मणीति ।।
मद्यपाने क्लोवव्यवहारेषु चैवम् । मद्यभाण्डे स्थिता आपो वदि कश्चिद द्विजोऽर्थवित् । पद्मीड़ुम्वरविल्लपलाशानामुदकं पोत्वा त्रिरात्रेणैव शुध्यति । अभ्यासे सुराया अग्निवर्णांतां द्विजः पिवेत् । भ्रूणहनञ्च बक्ष्यामो ब्राह्मणं हत्वा भ्रूणहा भवत्यविज्ञातञ्च गभंम । अविज्ञाता हि गर्भाः पुमांसो भवन्ति तस्मात् पंस्कृत्य जुहुयात् लोमानि मृत्योर्जुहोमि लोमभिर्मृत्यं वासय इति प्रथमां त्वचं मृतोर्जुहोमि त्वचा मृत्यं वासय इति द्वितीयां लोहितं मृत्योर्जुहोमि लोहितेन वासय इति तृतीयां त्वचं मृत्योर्जुहोमि तावति मृत्यं वासय इति चतेर्थीं मांसानि मृत्यार्जुहोमि मांसैर्मृत्यं वासय इति पञ्चमो मेदेन मृत्योर्जुहोमि मेदसा मृत्युं वासय इति षष्ठीम् अस्थोनि मृत्योर्जुहोमि अस्थिबिर्मत्यं वासय इति सप्तमीं मज्जानं मृत्योर्जुहोमि मृज्जभिर्मुत्युं वासय इति अष्टीं राजार्थी ब्राह्मणार्थे वा संग्रामेऽभिमुखमात्मानं घातयेत् त्रिरञ्जितो वापराद्धः पूतो भवतोति विज्ञायते । द्विरूक्तं कृतः कनीयो भवतीति ।
तदप्युदाहरन्ति ।

पतितं पतितं त्यक्त्वा चौरं चोरेति वा पुनः ।
वचसा तुल्यदोषः स्यान्मिथ्यादिदोषतां व्रजेदिति ।।
एवं राजन्यं हत्वाष्टो वर्षाणि चरेत् षड़् वैश्यं त्रोणि शूर्द्रं ब्राह्रणीञ्चात्रेयीं हत्वा सवनगतो च राजन्य वैश्यो चात्रेयी वक्ष्यामो राजस्वलामृतुस्नातामात्रेय्याहुः । अत्रेती यामपत्यं भवतीति चात्रेयो । राजन्यहिंसायां वैश्यहिंसायां शूद्रं हत्वा संवत्‌सरम् । ब्राह्मणसुवर्णहरात् प्रकोर्य्य केशान् राजानमभिधावेत् स्तेनोऽस्मि भोः शास्तु भवानिति तस्मै राजौदुम्वरं शस्त्रं दध्यात् तेनात्मानं प्रमापयेन्मरणात् पूतो भवतीति विज्ञायते । निष्कालको वा वृताक्तो गोमयाग्निना पादप्रभृत्यात्मानमतिदाहयेन्मरणात् पुतो भवतीति विज्ञायते ।
अथाप्युदाहरन्ति ।
पुराकालात् प्रमीतानामानाकविधिकर्मणाम् ।
पुनारापन्नदेहानामङ्गं भवति तच्छृणु ।।
स्तेनः कुनखो भवति श्वित्रो भवति ब्रह्महा ।
सुरापः श्यावदन्तास्तु दुर्श्चर्मा गुरूतल्पगः ।। इति
पतितैः सम्प्रयोगे च ब्राह्मेण यौनेन वा तेभ्यो सकाशान्मात्रा उपलब्धास्तासां परित्यागस्तैश्च न संवेसदुदीचीं दिशयत्वानश्रन् संहिताध्ययममधीयानः पूतो भवतीति विज्ञायते ।
अथाप्युदाहरन्ति ।
शरोरपातनाच्चेव तपसाध्ययनेन च मुच्यते पातकृत् पापद्दानाच्चापि प्रमुच्यते ।। इति विज्ञायते ।
इति वासिष्ठे धर्म्मशास्त्रे विंशोऽध्यायः ।। 20 ।।

एकविंशोऽध्यायः ।

शूद्रश्चेद् ब्राह्मणोमभिगच्छेद्वोरणैर्वेष्टयित्वा शूद्रमग्नो प्रास्येद्‌ब्राह्मण्याः शिरमि वापनं कारयित्वा सर्पिषाम्यज्य नग्नां खरमारोप्य महापथमनुव्राजयेत् पूता भवतीति विज्ञायते । वैश्यश्चेद् ब्राह्मणीमभिगच्छेल्लाहितदर्मैर्वेष्टयित्वा वैश्यमग्नो प्रास्येद्‌ब्राह्मण्याः शिरसि वापन कारयित्वा सर्पिषाभ्यज्य नग्मा गोरथमारोप्य महापथमनुसंव्राजयेत् पूता भवतीति विज्ञायते । राजन्यश्चेट्‌ ब्राह्मणोमभिगच्छेच्छरपत्रैर्वेष्टयित्वा राजन्यमग्नौ प्रास्येद्‌ब्राह्मण्याः शिरोवापनं कारयित्वा सर्पिषाभ्यज्य नग्नां रक्तखरमारोप्य महापथमनुव्राजयेत् । एवं वैश्ये राजन्यायां शूद्रश्च राजन्यावैश्वयोर्म्मनसा भर्त्तुरतिचारे त्रिरात्रं यावकं क्षीरं भुञ्जानाधः शयाना त्रिरात्रमप्सु निम्नगायाः सावित्र्यष्टशतेन शिरोभिर्वाजुहुयात् पूता भक्तोति विज्ञायते ।
इति वासिष्ठे धर्म्मशास्त्रे एकविंशोऽध्यायः ।। 21 ।।
वसिष्ठसंहिता सम्पूर्णा ।


************-----------
"https://sa.wikisource.org/w/index.php?title=वसिष्ठसंहिता&oldid=399561" इत्यस्माद् प्रतिप्राप्तम्