९४

यत्राधर्मं प्रणयते दुर्बले बलवत्तरः।
तां वृत्तिमुपजीवन्ति ये भवन्ति तदन्वयाः॥१॥

राजानमनुवर्तन्ते तं पापाभिप्रवर्तकम्।
अविनीत मनुष्यं तत्क्षिप्रं राष्ट्रं विनश्यति॥२॥

यद्वृत्तिमुपजीवन्ति प्रकृतिस्थस्य मानवाः।
तदेव विषमस्थस्य स्वजनोऽपि न मृष्यते॥३॥

साहस प्रकृतिर्यत्र कुरुते किं चिदुल्बणम्।
अशास्त्रलक्षणो राजा क्षिप्रमेव विनश्यति॥४॥

योऽत्यन्ताचरितां वृत्तिं क्षत्रियो नानुवर्तते।
जितानामजितानां च क्षत्रधर्मादपैति सः॥५॥

द्विषन्तं कृतकर्माणं गृहीत्वा नृपती रणे।
यो न मानयते द्वेषात्क्षत्रधर्मादपैति सः॥६॥

शक्तः स्यात्सुमुखो राजा कुर्यात्कारुण्यमापदि।
प्रियो भवति भूतानां न च विभ्रश्यते श्रियः॥७॥

अप्रियं यस्य कुर्वीत भूयस्तस्य प्रियं चरेत्।
नचिरेण प्रियः स स्याद्योऽप्रियः प्रियमाचरेत्॥८॥

मृषावादं परिहरेत्कुर्यात्प्रियमयाचितः।
न च कामान्न संरम्भान्न द्वेषाद्धर्ममुत्सृजेत्॥९॥

नापत्रपेत प्रश्नेषु नाभिभव्यां गिरं सृजेत्।
न त्वरेत न चासूयेत्तथा सङ्गृह्यते परः॥१०॥

प्रिये नातिभृशं हृष्येदप्रिये न च सञ्ज्वरेत्।
न मुह्येदर्थकृच्छ्रेषु प्रजाहितमनुस्मरन्॥११॥

यः प्रियं कुरुते नित्यं गुणतो वसुधाधिपः।
तस्य कर्माणि सिध्यन्ति न च सन्त्यज्यते श्रिया॥१२॥

निवृत्तं प्रतिकूलेभ्यो वर्तमानमनुप्रिये।
भक्तं भजेत नृपतिस्तद्वै वृत्तं सताम् इह॥१३॥

अप्रकीर्णेन्द्रियं प्राज्ञमत्यन्तानुगतं शुचिम्।
शक्तं चैवानुरक्तं च युञ्ज्यान्महति कर्मणि॥१४॥

एवमेव गुणैर्युक्तो यो न रज्यति भूमिपम्।
भर्तुरर्थेष्वसूयन्तं न तं युञ्जीत कर्मणि॥१५॥

मूढमैन्द्रियकं लुब्धमनार्य चरितं शठम्।
अनतीतोपधं हिंस्रं दुर्बुद्धिमबहुश्रुतम्॥१६॥

त्यक्तोपात्तं मद्य रतं द्यूतस्त्री मृगया परम्।
कार्ये महति यो युञ्ज्याद्धीयते स नृपः श्रियः॥१७॥

रक्षितात्मा तु यो राजा रक्ष्यान्यश्चानुरक्षति।
प्रजाश्च तस्य वर्धन्ते ध्रुवं च महदश्नुते॥१८॥

ये के चिद्भूमिपतयस्तान्सर्वानन्ववेक्षयेत्।
सुहृद्भिरनभिख्यातैस्तेन राजा न रिष्यते॥१९॥

अपकृत्य बलस्थस्य दूरस्थोऽस्मीति नाश्वसेत्।
श्येनानुचरितैर्ह्येते निपतन्ति प्रमाद्यतः॥२०॥

दृढमूलस्त्वदुष्टात्मा विदित्वा बलमात्मनः।
अबलानभियुञ्जीत न तु ये बलवत्तराः॥२१॥

विक्रमेण महीं लब्ध्वा प्रजा धर्मेण पालयन्।
आहवे निधनं कुर्याद्राजा धर्मपरायणः॥२२॥

मरणान्तमिदं सर्वं नेह किं चिदनामयम्।
तस्माद्धर्मे स्थितो राजा प्रजा धर्मेण पालयेत्॥२३॥

रक्षाधिकरणं युद्धं तथा धर्मानुशासनम्।
मन्त्रचिन्त्यं सुखं काले पञ्चभिर्वर्धते मही॥२४॥

एतानि यस्य गुप्तानि स राजा राजसत्तम।
सततं वर्तमानोऽत्र राजा भुङ्क्ते महीमिमाम्॥२५॥

नैतान्येकेन शक्यानि सातत्येनान्ववेक्षितुम्।
एतेष्वाप्तान्प्रतिष्ठाप्य राजा भुङ्क्ते महीं चिरम्॥२६॥

दातारं संविभक्तारं मार्दवोपगतं शुचिम्।
असन्त्यक्त मनुष्यं च तं जनाः कुर्वते प्रियम्॥२७॥

यस्तु निःश्रेयसं ज्ञात्वा ज्ञानं तत्प्रतिपद्यते।
आत्मनो मतमुत्सृज्य तं लोकोऽनुविधीयते॥२८॥

योऽर्थकामस्य वचनं प्रातिकूल्यान्न मृष्यते।
शृणोति प्रतिकूलानि वि मना नचिरादिव॥२९॥

अग्राम्यचरितां बुद्धिमत्यन्तं यो न बुध्यते।
जितानामजितानां च क्षत्रधर्मादपैति सः॥३०॥

मुख्यानमात्यान्यो हित्वा निहीनान्कुरुते प्रियान्।
स वै व्यसनमासाद्य गाध मार्तो न विन्दति॥३१॥

यः कल्याण गुणाञ्ज्ञातीन्द्वेषान्नैवाभिमन्यते।
अदृढात्मा दृढक्रोधो नास्यार्थो रमतेऽन्तिके॥३२॥

अथ यो गुणसम्पन्नान्हृदयस्याप्रियानपि।
प्रियेण कुरुते वश्यांश्चिरं यशसि तिष्ठति॥३३॥

नाकाले प्रणयेदर्थान्नाप्रिये जातु सञ्ज्वरेत्।
प्रिये नातिभृशं हृष्येद्युज्येतारोग्य कर्मणि॥३४॥

के मानुरक्ता राजानः के भयात्समुपाश्रिताः।
मध्यस्थ दोषाः के चैषामिति नित्यं विचिन्तयेत्॥३५॥

न जातु बलवान्भूत्वा दुर्बले विश्वसेत्क्व चित्।
भारुण्ड सदृशा ह्येते निपतन्ति प्रमाद्यतः॥३६॥

अपि सर्वैर्गुणैर्युक्तं भर्तारं प्रियवादिनम्।
अभिद्रुह्यति पापात्मा तस्माद्धि विभिषेज्जनात्॥३७॥

एतां राजोपनिषदं ययातिः स्माह नाहुषः।
मनुष्यविजये युक्तो हन्ति शत्रूननुत्तमान्॥३८॥

संबंधित कड़ियाँसम्पाद्यताम्

  1. वाअमदेवगीता
    1. वाअमदेवगीता १
    2. वाअमदेवगीता २
    3. वाअमदेवगीता ३
  2. गीता

बाहरी कडियाँसम्पाद्यताम्

"https://sa.wikisource.org/w/index.php?title=वाअमदेवगीता_२&oldid=17646" इत्यस्माद् पुनः प्राप्तिः