वाक्यपदीयम् (सवृत्ति)/तृतीयः भागः (पदकाण्डम्-१)

३,१ः जातिसमुद्देशः

सम्पाद्यताम्

श्री गणेशाय नमः ।
।। ओम् नमः श्रीभगवत्पाणिनिकात्यायनपतञ्जलिभ्यः ।।
(1) यस्मिन्संमुखतां प्रयाति रुचिरं कोऽप्यन्तरुज्जृम्भते
नेदीयान्महिमा मनस्यभिनवः पुंसः प्रकाशात्मनः ।
तृप्तिं यत्परमां तनोति विषयास्वादं विना शाश्वतीं
धामानन्दसुधामयोर्जितवपुस्तत्प्रातिभं संस्तुमः ।। 1 ।।
काण्डद्वये यथावृत्ति सिद्धान्तार्थसतत्त्वतः ।
प्रबन्धो विहितोऽस्माभिरागमार्थानुसारिभिः ।। 2 ।।
तच्छेषभूते काण्डेऽस्मिन्सप्रपञ्चे स्वरूपतः ।
श्लोकार्थद्योतनपरः प्रकाशोऽयं विधीयते ।। 3 ।।
   (2) इह पदार्थष्टकविचारउपरत्वाद् वाक्यपदीयस्य प्रथमकाण्डेन प्रयोजनादिपदार्थे निर्णीतेऽनन्तरकाण्डोपपादितोपपत्तिभिः वाक्यतदर्थयोरन्वाख्येयस्थितलक्षणयोः पदार्थयोर्निर्णीतत्वात् तदौपयिकापोद्धाररूपपदविचारः प्रक्रम्यते । तत्रानियतविकल्पो यथाभिप्रायमपोद्धार इति यथासंभवं पदभेदानुद्दिशति--
द्विधा कैश्चित्पदं भिन्नं चतुर्धा पञ्चधापि वा ।
अपौद्धृत्यैव वाक्येभ्यः प्रकृतिप्रत्ययादिवत् ।। 1 ।।
   (3) वाक्यस्यैव निरंशस्य वाचकत्वादन्तरा पदप्रतिपत्तिर्विभ्रम इति किमसत्येन पदेन व्युत्पादितेनेत्याशङ्क्य `अपोद्धृत्यैव वाक्येभ्यः' इत्याह । अपोद्धृत्य कल्पनाबुद्ध्या पृथक् पदं निष्कृष्य । अखण्डवाक्यव्युत्पत्तावुपायः पदव्युत्पत्तिर्वाक्यवादिनाम्, अखण्डपदव्युत्पत्ताविव परिकल्पितरूपप्रकृतिप्रत्ययागमादेशादिप्युत्पत्तिः पदवादिनाम् । आनन्त्याद्धि वाक्यानां स्वालक्षण्येनाशक्या व्युत्पत्तिः कर्तुमिति सदृशपदद्वारा तदुपपत्तिरित्यर्थः ।।
   (4) उभयोरपि चापोद्धृतस्यासत्यत्वं समानम् । तथा हि-अनियतानुपूर्वीको यथार्थं परिकल्पितान्वयव्यतिरेकनिबन्धनो वाक्यवादिनां पदापोद्धारः । एवं पदवादिनां शास्त्रीयान्वयव्यतिरेकनिमित्तार्थापोद्धारवशः प्रकृतिप्रत्ययाद्यपोद्धारः । यदाह वाक्यकारः--
`सिद्धं त्वन्वयव्यतिरेकाभ्याम्' (Va on P.I.2.45)

इति । तत्र भिन्नत्वं सामान्यम्, द्विधा-इत्यादिको विशेष इति विधार्थे धाप्रत्ययोपपत्तिः । प्रकारो हि विधार्थः, स च सामान्यस्य भेदको विशेषः, सादृश्यमेव सर्वत्र प्रकारः कैश्चिदिष्यते इत्येकीयमतम्, कैश्चिद् इति वचनात् । भेदेऽपि तु प्रकाराख्या कैश्चिदभ्युपगम्यते इत्युक्तेः । यदि वा अत्र बुद्धिरूपप्रकल्पितं सादृश्यमेव विधार्थः । ज्ञानप्रतिबिम्बितस्य हि बाह्यानुकारित्वेन सादृश्यं सर्वत्र प्रकारार्थः, संकल्पितसादृश्यस्य बाह्यस्य निर्वर्तनात् वाक्याच्चापोद्‌ध्रियमाणस्य पदस्य वाक्यार्थांशपरिकल्पनया अर्थवत एवापोद्धारो युक्तः । अर्थापोद्धार एव हि पदापोद्धारस्य निमित्तम् । अनिमित्ते हि तस्मिन्वर्णापोद्धारस्यापि प्रसङ्गातेषामपि व्युत्पाद्यता स्यात् ।
  (5) वाक्यार्थश्च स्थितलक्षणो निरंशः कारकोत्कलितशरीरक्रियास्वभावः । तत्र चांशांशिकल्पनया अपोद्धारे कारकात्मा क्रियात्मा चांशो विभागार्ह इति सिद्धसाध्यलक्षणांशद्वयविषयः, पदापोद्धारो द्विविधो नामाख्यातरूपः प्राथमकल्पिकः, शक्तिशक्तिमतोरभेदात् कारकात्मा सिद्धरूपोंऽशः । यद्यपि च नामपदानां प्रत्ययार्थस्य संख्यादेः शाब्दं प्राधान्यं तथाप्यर्थतः प्रातिपदिकार्थस्य जात्याच्छुरितस्य द्रव्यस्यैव प्राधान्यं सिद्धरूपस्य, संख्याकारकशक्तीनां तदाश्रयत्वात्, अनयोरेव च नामाख्यातयोर्विशेषणत्वान्निपातेपसर्गकर्मप्रवचनीयलक्षणः पदभेदोऽन्तर्भवति ।
   (6) तथा हि-सिद्धार्थाभिधायि नामपदमिति तदर्थगतं विशेषं द्योतयन्निपातः तत्रैवान्तर्भवति । सिद्धं ह्यर्थं साक्षाद् वाभिदधातु तद्गतं विशेषं वा प्रकाशयतु, नेयता भेदः । स्वरादयस्तु केचित् सत्त्प्रधाना एवेति तेऽपि नामपदमेव । ये तु हिरुगादयः क्रियाप्रधानाः तेषामाख्यातेऽन्तर्भावः । न हि तिङ्न्तमेवाख्यातम्, क्रियाप्रधानस्य सर्वस्यैव तल्लक्षणत्वात् । अत एवोपसर्गकर्मप्रवचीयपदान्यप्याख्यातपदमेव, साध्यार्थगतविशेषद्योतनात् । एवं निपातोऽपि । तद्गतभेदान्तरविवक्षायान्तु निपातोपसर्गयोरपि कैश्चित् पृथक्करणम् । तथा हि-अस्त्येवापोद्धारेऽर्थमात्राविशेषोऽनयोः । न ह्येतौ साक्षादर्थं वदतः, अपि तु तद्गतविशेषद्योतकाविति वाचकाभ्यां नामाख्याताभ्यां प्रविभक्तौ । सिद्धसाध्यार्थविषयविशेषद्योतकत्वान्निपातानां साध्यैकनियतत्वाच्चोपसर्गाणां परस्परतो भेदः । कर्मप्रवचनीयास्तु क्रियाविशेषोपजनितसंबन्धावच्छेदहेतव इति संबन्धविशेषद्योतनद्वारेण क्रियाविशेषप्रकाषनादुपसर्गेष्वेवान्तर्भवन्तीति चतुर्धा एव कैश्चिति पदं भिन्नम् ।
   (7) साक्षात्क्रियाविशेषप्रकाशनाभावात्तदपि पञ्चमं पदमिति कैश्चित् । तथा हि-कर्म प्रोक्तवन्तः कर्मप्रवचनीया इति अतिक्रान्तक्रियाख्यानलक्षणस्य व्यापारस्यात्र संभवो न तु वर्तमानस्येत्युपसर्गेभ्यो भेदः । क्रियागतविशेषद्योतनपूर्वकं हि संबन्धावच्छेदनमत्र वर्तमानम् । तथा हि सर्वः संबन्धः क्रियाकृतः, उपकारप्रभावितत्वात् तस्य, क्रियामन्तरेणोपकारभावात् । तत्र क्वचित् क्रियाशब्दः श्रूयते क्वचिन्न । यत्र श्रूयते तत्र श्रौत एव संबन्धविशेषवसायः । तद्यथा मातुः स्मरति, मातुः स्मृतम्, सर्पिषो जानीते इत्यादौ । क्रिया हि स्वभावादेव क्रियान्तरव्यधानमन्तरेण द्रव्यैः संयुज्यते । अन्ये तु यस्मान्मातृविषये प्रवर्ततेऽवतिष्ठते वा तस्मान्मातृसंबन्धीदं स्मरणमिति क्रियाकारकभावपूर्वक एवायमपि संबन्ध इति वर्णयन्ति ।
   (8) अश्रुते तु क्रियापदे द्वयी गतिः । क्वचित् संबन्धिस्वरूपमहिम्नैव नियतक्रियाक्षेपसिद्धेः प्रतिनियतक्रियाकारकभावपूर्वकत्वं शेषसंबन्धस्य विनैव कर्मप्रवचनीयमवगम्यते । तद्यथा-उपगोरपत्यम्, वृक्षस्य शाखेत्यादावपत्यापत्यवत्संबन्धो जनिक्रियानिमित्तोऽवयवयविसंबन्धश्च स्थितिक्रियानिमित्त इत्यादि । क्वचित्तु संबन्धानां प्रतिनियतक्रियापूर्वकत्वावधारणे नास्ति सामर्थ्यम् । तद्यथा-राज्ञः पुरुष इत्यत्र स्वस्वामिभावो भरणाद्यनेकक्रियानिमित्त इत्येवावगम्यते । क्रियाविशेषस्तु नावधार्यते तन्निमित्तभूतः । तथा च भाष्यम्--
`यदेतत्स्वं नाम तच्चतुर्भिः प्रकारैर्भवति भरणादपहरणात्क्रयणाद्याञ्चया' ।(M.Bh. on P.2.3.50 Cf. Kielhorn 1.463)
इति । दानादीनां त्वन्यतमाविनाभावात्क्रिया अनुमीयत एव । क्वचित्त्वविनाभाविनी क्रियापि न प्रतीयते । तथा चैवंजातीयके विषये कर्मप्रवचनीयो नियतविशिष्टक्रियाकृतत्वं संबन्धस्य विशेषमवगमयति । तदुक्तम्--
"जनयित्वा क्रिया काचित्संबन्धं विनिवर्तते ।
श्रूयमाणे क्रियाशब्दे संबन्धो जायते क्वचित् ।। (Vak.a.II.197)
स चोपजातः संबन्धो विनिवृत्ते क्रियापदे ।
कर्मप्रवचनीयेन तत्र तत्र नियम्यते ।। " (Vak.a.II.199)
इति । नियमस्तस्य नियतक्रियाजनितत्वम् । तथा हि--शाकल्यस्य संहितामनु प्रावर्षदिति योऽयं संहिताप्रवर्षमयोर्हेतुहेतुमद्भावलक्षणः संबन्धः स नियतक्रियाजनित इत्यनुना वेद्यते । अनुनिशम्येत्यत्रानोर्निशमयतिक्रियासाहचर्योपलब्धेरिह संपाठरूपत्वात्संहितायास्तदनुमानस्यौचित्यात् तत्र क्रियावचनत्वमस्यान्यत्र दृष्टषक्तेर्न कल्प्यम् ।
   (9) द्योत्यार्थनिष्ठं च द्योतकत्वमिति तदपि क्रियापदाप्रयोगादत्र नास्ति । न च क्रियापदाक्षेपकत्वम्, यथा प्रादेशं विपरिलिखतीति । अत्र वेर्लेखनासमन्वयानुपपत्तेर्निर्मातिक्रियाक्षेपकत्वम् । कारकविभक्तिर्ह्यत्र प्रादेशमिति द्वितीयेति युक्तस्तत्समुचित क्रियाक्षेपः । इह तु संहितामिति शैषिकीयं विभक्तिरिति कथं क्रियाक्षेपः । क्रियाकारकयोरेव परस्परमाक्षेप्याक्षेपकभावस्याविनाभावेन न्याय्यत्वात् । तद्यथा प्रविश, पिण्डीमित्यादौ । नापि संबन्धवाचित्वमत्रानोः, विभक्‌त्यैव तदभिधानादिति संबन्धावच्छेदस्य प्रत्यायको नान्यः संभवतीति पारिशेष्यादनोरत्र सामर्थ्यामध्यवसीयते । तदुक्तम्--
`क्रियया द्योतको नायं संबन्धस्य न वाचकः ।
नापि क्रियापदाक्षेपी संबन्धस्य तु भेदकः ।। (Vak.a.II.204)
इति । भेदको विशेषद्योतक इत्यर्थः । अयमत्र भावः । यदनन्यथासिद्धं तत्रानोर्व्यापारकल्पना युक्ता । यत्पुनरन्यथा अर्थसामर्थ्यादिना निमित्तेन सिध्यति न तत्र तस्य शक्तिः कल्पयितुं पार्यत इति पदान्तराणामर्थान्तर निवेशात्संबन्धविशेषस्य ततोऽनवगतस्य कर्मप्रवचनीयविषयता सिद्धा । ननु च
`यदत्राधिक्यं वाक्यार्थस्सः'(M.Bh.onP.2.3.46Cf.Kiel.4-51.462) इति क्रियाविशेषजनितत्वलक्षणः संबन्धस्यावच्छेदो वाक्यार्थः किमिति न कथ्यते । अनोस्तु पश्चाद्भावमात्रवृत्तित्वमेवेति ।
   (10) अत्रोच्यते--इहाधिक्यं वाक्यार्थत्वेनोध्यमानं पदार्थपृष्ठपातित्वेनैवानुसरणीयम् न तु पदार्थोल्लङ्घनेन । तत्तद्वाक्योपात्तस्य हि साध्यस्य वा विशेष्यस्य वोपात्तैरेव साधनैर्विशेषणैश्च संसर्गस्तत्राधिक्यम् । तद्यथा--गां शुक्लामानय, नीलोत्पलमिति च । अत एवोच्यते--
`आश्रयाश्रयिणोर्वाक्यान्नियमस्तववतिष्ठते ।'
इति । इत्थं चानुपात्तस्यैव पदार्थस्य वाक्यात्प्रतीतिर्नास्तीति न संबन्धावच्छेदोऽत्रापदार्थो वाक्यार्थः शक्यते कल्पयितुमिति कर्मप्रवचनीयविषय एवायम् । यद्वक्ष्यति--
`निमित्तनियमः शब्दात्संबन्धस्य न गृह्यते ।
कर्मप्रवचनीयैस्तु स विशेषेऽवरुध्यते ।।' (Vak.c.सा.शे.3)
इति । अत्र च दर्शनद्वयम्--स्वरूपेणैव संबन्धान्तरविलक्षणः कर्मप्रवचनीयेन संबन्धोऽवच्छिद्यते, क्रियाविशेषजनितत्वेन वेति । तत्र स्वरूपेणावच्छेदे विशिष्टक्रियाजनितत्वप्रतीतिः संबन्धिविशेषपर्यालोचनालभ्या । तथा हि--अधि ब्रह्मदत्ते पञ्चालाः इति स्वस्वामिभावोऽयं संबन्ध इत्यधिना वेद्यते । ब्रह्मदत्तश्च स्वामी ईश्वरः पञ्चालाश्च जनपदः स्वमिति तयोः संबन्धिनोः परिपालनकरादानाक्रियाप्रभावित एवायं संबन्धो न्याय्य इत्यवगम्यते । एवमभिमन्युरर्जुनतः प्रतीति प्रतिना सादृश्यलक्षणोऽयं संबन्ध इति द्योत्यते । स पुनः संबन्धिस्वरूपपर्यालोचनादत्र संप्रहरणादिक्रियाकृत इत्यवगम्यते । इत्थं च शाकल्यस्य संहितामनु प्रावर्षदित्यत्रापि हेतुफलभावो नामायं संबन्ध इत्येतावत्येवायमनुर्विश्राम्यति । पाठविशेरूषपत्वात् संहिताया निशमनक्रियावगतिः । शब्दश्रवणेन हि देवोऽवर्षदिति संबन्धमहिम्ना विशिष्टक्रियाप्रभावितत्वमवसीयते । केचिदियाननोरेव व्यापार इत्याहुः ।
  (11) स्वरूपावच्छेदेऽपि च क्रियायाः कार्यभूतसंबन्धापेक्षया अतीतत्वात्कर्म प्रोक्तवन्त इत्यर्थस्समन्वेत्येव । वस्तुतः क्रियाफलस्यैव संबन्धस्य प्रकाशनात् । यथा तु तत्रभवद्भर्तृहरेस्तत्र तत्राभिप्रायो लक्ष्यते तथा निमित्तविशेषावच्छेद एव कर्मप्रवचनीयकृत इति राद्धान्तः । अधि ब्रह्मदत्ते पञ्चालाः इति परिपालनक्रियाहितत्वं स्वस्वामिभावस्याधिना व्यज्यते । अभिमन्युरर्जुनतः प्रतीत्यमित्रपराजयादिकृतोऽनुकार्यानुकरणभावः प्रतिना प्रकाश्यते इत्यादि सर्वत्र योज्यम् । सुस्तुतम्, अति स्तुतमित्यादौ तु
`सुः पूजायाम्' (P. 1.4.94)
`अतिरतिक्रमणे च' (P.1.4.95)
इत्यादिना कर्मप्रवचनीयसंज्ञाधिकारिकी स्वार्थनिरपेक्षैवोपसर्गसंज्ञाबाधनाय प्रवर्तते । यथोक्तम्--
`कर्मप्रवचनीयत्वं क्रियायोगे विधीयते।
षत्वादिविनिवृत्त्यर्थं स्वत्यादीनां विधर्मणाम् ।।'(Vak.a.II.202)इति । आर्थेन तु रूपेण विभागे प्रस्तुते क्रियाविशेषावद्योतकत्वादुपसर्गपदे स्वत्यादिरन्तर्भवतीति नाव्याप्तिः । तदेवं वाक्यादपोद्‌ध्रियमाणस्य पदस्यापोद्धारार्थविशेषाश्रयेण यथासंभवं भेदो निरंषकवाक्यव्युत्पत्त्युपायभूतः प्रदर्शितः । अत एव स्वादिपदं वाक्यव्युत्पत्त्यनङ्गत्वाच्छस्त्रे संकेतितं सुबन्तपदव्युत्पत्त्युपायभूतं नेह गणनार्हं प्रकृतिप्रत्ययवदिति दृष्टान्तपक्षनिक्षिप्तमिति नाव्याप्तिः । पदात्किलासावपोद्धारो न वाक्यात् ।। 1 ।।
   (12) तदित्थं पदापोद्धारे प्रदर्शिते तदर्थस्यापोद्धृतस्य सिद्धसाध्यरूपद्वययोगिनो मतभेदेन स्वरूपापदर्शनार्थमाह--
पदार्थानामपोद्धारे जातिर्वा द्रव्यमेव वा ।
पदार्थौ सर्वशब्दानां नित्यावेवोपवर्णितौ ।। 2 ।।
   (13) अर्थद्वारेण पदं परीक्ष्यत इति दर्शनभेदेन प्रथममपोद्धारपदार्थविचारः । तथा हि--सर्वेषामपि शब्दानां पदरूपाणां नामाख्यातादिस्वभावानां जातिवादिमते जातिरेवार्थो न द्रव्यम् । द्रव्यवादिमते तु द्रव्यमेव न जातिः । द्वितीयेन वा शब्देन पदार्थान्तरं सूचितं जातिविशिष्टद्रव्याभिधानमिति । अत एव तदेव संकलनारूपं पदार्थाविति स्फुटीकृतम् । अन्यथा वार्थे प्रक्रान्ते चार्थोपसंहारोऽयं नोपपद्यते । तद्वदभिधाने तु अभिधानं तावद् द्वयोरपि समानम्, विरग्य व्यापाराभावाच्छुब्दस्य । आर्थस्तु जातिद्रव्ययोर्गुणप्रधानभावः । यद्वा प्राधान्येनैव भिन्नविषयतया पाणिनिदर्शने जातिद्रव्ये शब्देनाभिधीयेते इत्ययमत्र पक्षः पदार्थौ इत्युक्तः । तत्र नामपदस्य गौरित्यादेः गोत्वादिजातिः नियतक्रियाविषयसाधनैकार्थसमवेतसंख्याजातिविशेषभावमापन्ना अभिधेया । अनाश्रयाया जातेरनुपपत्तेः । सामर्थ्यात्प्रतीतं द्रव्यम् ।
   (14) एवमाख्यातपदस्यापि विभिन्नक्रियाक्षणसमवेताभिन्नाभिधानप्रत्ययहेतुक्रियाजातिविषया साक्षाद्वाचकशक्तिः । कारकादिजातिस्त्वत्र गुणभूता नामपदगतया च कारकजात्या क्रियाजातिराख्यातपदगता व्यक्तिद्वारेण समन्वयमेति । द्रव्यजातिस्त्वेकार्थसमवायात्साधनशक्तिद्वारेण क्रियायोगमनुभवति । संख्याजातिरप्येकार्थसमवायात्स्वव्यक्‌त्यात्मना शक्तिमुखेनैव क्रियान्वयिनीति सर्वपदार्थसमन्वयोपपत्तौ कल्पते वाक्यार्थः । यथा चोत्क्षेपणादिक्षणैवरसमसमयभाविभिरप्यावृत्त्योत्क्षेपणत्वादिजातिरभिव्यज्यते तथा अधिश्रयणादिभिः क्रियाक्षणैः पचत्यादिक्रियाजातिरिति विचारयिष्यते । व्यक्तिद्वारकं चास्या नित्याया अपि साध्यत्वमुपपद्यते ।
   (15) उपसर्गादिभिरप्यत्र दर्शने नामाख्यातसहभावी तदर्थस्य विशेषावद्योतकत्वाज्जातिपदार्थ एव । विशेषस्य विशिष्टविश्रान्तरयैवावसायात्कर्मप्रवचनीयोऽपि संबन्धजातिनिष्ठ एव । गुणशब्दानामपि शुक्लादीनां गुणजातिर्वाच्या । संज्ञाशब्दानामपि डित्थादिशब्दानां जातिवाचित्वं समर्थयिष्यते ।
   (16) तदित्थं वाजप्यायनाचार्यमतेन सार्वत्रिकी जातिपदार्थव्यवस्थोपपद्यते । व्याडितमे तु सर्वशब्दानां द्रव्यमर्थः, तस्यैव साक्षात्क्रियासमन्वयोपपत्तेः वाक्यार्थाङ्गतया चोदनाविषयत्वात् । यथाह--
`चोदनासु च तस्यारम्भात्'(Va.on P. 1.2.64)
इति । एकजातिसमन्वयवशेन चात्र संकेतोपपत्तिः । अनभिधीयमानापि जातिरुपलक्षणीक्रियते शब्दार्थे यथा गृहादौ काकादि । आख्यातेऽपि च साधनाधारद्रव्यप्राधान्यं व्याडिमते । देवदत्तः पचतीति द्रव्येणैव साक्षात्सामानाधिकरण्योपपत्तेः । क्रिया तु गुणभूतात्र, व्यापाराविष्टं हि द्रव्यमाख्यातार्थः, इदं तदिति सर्वनामप्रत्यवमर्शयोग्यं चात्र द्रव्यमिति सार्वत्रिकीयं व्यवस्था । तथा च वक्ष्यति--
`द्रव्यधर्मा पदार्थे तु द्रव्ये सर्वोऽर्थ उच्यते ।'
इति । अत एव शुक्लादीनामपि द्रव्यपदार्थता सिद्धा । तत्तदुपाधिव्यवच्छिन्नं वा ब्रह्म द्रव्यशब्दवाच्यं सर्वशब्दानां विषय इति वक्ष्यत एव । व्यक्तिपर्यायो वा द्रव्यशब्द इति जातिव्यक्तिविकल्पेन सर्वशब्दविषयः । तथा च सर्वशब्दानामित्यभिधानात्पदादप्यपोद्धारे प्रकृतिप्रत्ययरूपस्यापि शब्दस्य यथायोगं क्रियाकारकसंख्यादिरपोद्धारपदार्थो जातिव्यक्तिभेदेन समाम्नातः । उभयस्यापि वा शब्दात्प्रतीतेरुभयं पदार्थः । गुणप्रधानभावभेदाश्रयस्तु मतविकल्पः । नित्यत्वोपवर्णनं च
`सिद्धे शब्दार्थसंबन्धे' (Va. in पस्पशाह्रिका of the M.Bh.Kiel.1.6 16)इत्यत्र भाष्ये--
`यस्मिसतत्त्वं न विहन्यते' (M.Bh.Cf.Kiel.1.7 22)
इति द्रव्यस्यापि नित्यत्वम्, प्रवाहनित्यतया शब्दात्सदैव प्रतीतेः ।। 2 ।।
   (17) तदेवं दर्शनभेदेन जातिर्द्रव्यं वा पदार्थ इत्युक्ते जातिपदार्थविषयशास्त्रोपयोगी विचारोऽत्र समुद्धेशे । पदस्य हि परीक्षार्थमिदं काण्डम्, अर्थद्वारेण च पदपरीक्षा, वाक्यार्थौपयिकत्वेन च तद्विचार इति जातिपदार्थनये वाक्यार्थभूतया आख्यातपदवाच्यया क्रियया कथं समन्वयः । साधनेन हि क्रिया अन्वेति । न च जातिः साधनम् । तदाश्रयः साधनमिति चेत्, एवमपि जातेः साक्षाच्छब्देन चोदितत्वात्सामर्थ्यात्तदाधारप्रतिपत्तौ यथाचोदितानुषङ्ग इति--
`असंभवे प्रतिनिधिर्मा भून्नित्यस्य कर्मणः ।
काम्यस्य वा प्रवृत्तस्य लोप इत्यपदिश्यते ।।'(Vak.a.II.70)
इति प्रतिनिध्यनुपपत्तिरित्याशङ्क्य तत्समर्थनामाह--
`केषाञ्चित्साहचर्येण जातिः शक्त्युपलक्षणम् ।
खदिरादिष्वशक्तेषु शक्तः प्रतिनिधीयते ।। 3 ।।
   (18) इह केषाञ्चित् जातिवादिनामेकार्थसमवायाच्छक्तेः प्रतिपादने जातिः उपलक्षणम्--उपायः इति मतम् । अन्येषां पुनस्तात्पर्येण जातिरेव शब्देन प्रतिपाद्यते, कार्ययोगस्तु तस्याः क्वचित्साक्षात्, क्वचिव्द्यक्तिद्वारेणेति मतम् । अथवा केषाञ्चिद् इति शब्दानाम् । ये साधनाभिधायिनः तत्र शक्तितात्पर्येण जातेरुपलक्षणत्वान्नान्तरीयकमुपादानम्, शक्तिवाचिन्या विभक्तेः केवलाया अप्रयोगार्हत्वात् । ततश्च प्रातिपदिकस्यावश्यमुपादानमिति तद्वाच्यया जात्या शक्तिरवच्छिद्यते सति संभवे । तदभावे तु तत्सदृशापरजातिसहचरितापि शक्तिर्गृह्यते, तात्पर्येण चोदनात् । वाक्यार्थभूतया हि क्रियया साधनमात्रस्याक्षेपे सिद्धे विशिष्टजातीयप्रतिपत्त्यर्थं साधनश्रुत्यपादानेऽपि जातिविशेषस्यासंभवे क्रियासाधनशक्त्यावेदनपरतया जातेः प्रयोगान्माभूत्प्रधानभूतायाः शक्तेरपि त्यागे क्रियाया असंपत्तिरिति शिष्टसमाचारादन्यजातीयद्रव्यगतापि शक्तिः परिगृह्यते । न चैवमतिप्रसङ्गः, चोदितप्रतिनिधिविषय एवैतस्य न्यायस्येष्टत्वात् । तथा च गोदोहादिचोदनासु तदसामर्थ्ये न महिष्याद्याक्षेपप्रसङ्गः ।
   (19) उपसक्षमत्वाच्च जातिर्नियमं न विधत्ते । तद्यथा--उपघातकनिवारणपरे वाक्ये काकादिरिति सदृशोपादाने श्रौतार्थत्यागो न भवति । यत्र च संभवश्चोदितस्य श्रोतस्यार्थस्य, तत्र श्रुतिः सफला । तस्मात् `खदिरे बध्नाति, पलाशे बध्नाति' इत्यादौ खदिरादेर्बन्धनसमर्थस्यालाभे तत्सदृशकदरादिशक्तसाधनपरिग्रहो युज्यते । अनाधारायाः शक्तेरसंभवात् नान्तरीयकत्वेन जातेरुपादानम्, नियमस्याविधानात् । जातिर्हि शक्‌त्युपलक्षणम् न कार्ययोगिनीति तदाश्रयस्याशक्तत्वे तमन्तरेण द्रव्यान्तरगतापि शक्तिर्गृह्यते । यदि तु तज्जातीयमेव शक्तं स्यात् तदा सन्निहितपरित्यागे कारणाभावात् तज्जातीयमेवोपादीयेत । तदशक्तत्वे तूपलक्षणस्योपलक्षणे चरितार्थत्वात् अन्यस्यापि तत्कार्ययोगे तदुपलक्षिता शक्तिः शास्त्रचोदितेत्यर्थान्तरगताप्यपर्युदस्तत्वादुपादीयते इति नियमो नास्ति । सदृशार्थान्तरगता च शक्तिर्गृह्यत इति नातिप्रसङ्गः ।। 3 ।।
  (20) अथ येषां जातिवादिनां मते तात्पर्येण जातिरभिधेया न शक्‌त्युपलक्षणम्, तेषां कथं प्रतिनिधिरुपपद्यत इत्याशङ्क्याह-- ?
अस्वातन्त्र्यफलो बन्धिः प्रमाणादीव शिष्यते ।
अतो जात्यभिधानेऽपि शक्तिहीनं न गृह्यते ।। 4 ।।
   (21) अत इति । अस्वातन्त्र्यफलस्य बन्धेर्विधानात् चोदनात् जातेः प्रतिपाद्यत्वेऽप्युपलक्षमत्वाभावेऽप्यस्वातन्त्र्यप्रयोजनबन्धिविधिसामर्थ्याच्छक्तिहीनस्य खदिरादेस्त्यागे शक्तं कदरादि प्रतिनिधीयते । वाक्यार्थभूता हि बन्धिक्रिया प्रधानमिति तत्संपादनशक्तस्य पदार्थस्य परिग्रहो न्याय्यः । ननु च दृष्टफले बन्धौ कोऽनुरोध इत्याशङ्क्योक्तम् प्रमाणादीव शिष्यते इति । यथा दृष्टफलं प्रमाणादि चोदितं तथा तदङ्गभूतोऽपि बन्धिरिति सर्वथासावनुरोध्यः । तथा हि-असति पशोर्यूपे बन्धने प्रमाणाद्यनुपपत्ताववदानग्रहाभावात् स्वर्गफलस्य यजेरेवासंपत्तिः स्यादिति तदनुरोधात्तदङ्गसंपत्त्यर्थं तत्समुचितसाधनक्षेपः । तत्र प्रमाणं हिसाप्रारम्भः । मीञो हिंसार्थस्य ल्युट्येज्विषये रूपम्, आत्वे च कृते मानम्, तस्यारम्भः प्रशब्देन द्योत्यते । आदिग्रहणादालम्भनादेरवदानग्रहणपर्यन्तस्य तदुत्तरस्य प्राकरणिकस्याङ्गकलापस्यानुरोधः । अयमत्र पक्षद्वयेऽप्याशयः । यदि नाम जातेः प्रकृत्यर्थभूतायाः शक्‌त्यवच्छेदकत्वेनोपात्ताया असंभवः तज्जात्यवच्छिन्नस्याशक्तत्वात् तथापि प्रत्ययार्थस्य शक्तेरवच्छेद्याया अपि त्यागो न युक्तः, अपि त्वन्यगतापि सा गृह्यते । मा भूत्तद्वाचिनः पदस्यानर्थक्यम्, वाक्यार्थस्य च क्रियाया असंपत्तिरिति गामालभेतेत्यादौ च सर्वत्र योग्यव्यक्रितविषयैव क्रियावृत्तिष्ठते इति प्रतिनिधावपि किमिति संभ्रमः ।। 4 ।।
  (22) इदानीमत्रैव लिङ्गेनापि प्रतिनिधिमुपपादयति--
`संश्लेषमात्रं बध्नातिर्यदि स्यात्तु विवक्षितः ।
शक्‌त्याश्रये ततो लिङ्गं प्रमाणाद्यनुशासनम् ।। 5 ।।
  (23) बध्नात्यर्थ उपचाराद् बध्नातिः इत्युक्तः । संश्लोषो यूपे पशोर्योजनम् तदेवास्वातन्त्र्यलक्षणफलानपेक्षं तन्मात्रम् । तद्यदि बध्नात्यर्थोऽभिमतः तदा तस्य खदिरलतयापि संपाद्यत्वसंभवे कदरोपादने सामर्थ्यं नास्तीति ततः संश्लेवादुत्तरकासं प्रमाणादीनां `पशुमालभेत', `हृदयेऽवद्यति अथ वक्षसि' इत्यादिवचनेन यदनुशासनं तदत्र समर्थद्रव्योपादाने लिङ्गम् अनुमानम् । अथवा पूर्वं बन्धिरेव लिङ्गमासीत्, इदानीं यदि संश्लेषमात्रं बध्नातिस्ततः प्रमाणाद्यनुशासनं लिङ्गमित्यर्थः । पशुविशसनाङ्गस्य हि बन्ध्यर्थस्यात्रोपादानं युक्तम् । असमर्थश्च विशसने बध्नात्यर्थो न तदङ्गमिति एकप्रकरणोपात्तप्रमाणाद्यर्थपर्यालोचनालभ्यः प्रतिनिधिः । पूर्वं पदार्थसामर्थ्यादनन्तरं वाक्यार्थसामर्थ्यात्प्रतिनिधिरुक्तः, संप्रति प्रकरणसामर्थ्यादिति पक्षत्रये विशेषः । शक्तेराश्रयः कदरद्रव्यं तत्रोपादीयमाने लिङ्गमिति संबन्धः । यद्वा शक्तिः कार्यस्य निर्वर्तको द्रव्यस्यात्मातिशयः, तदाश्रये तदभ्युपगमे इत्यर्थः ।
तदेवं यदुक्तं वाक्यकाण्डे--
`यश्च जातिसमुद्देशे प्रतिनिधिं प्रत्यपरो दर्शनभेदः' ।
इति सोऽयमिह व्याख्यातः । तत्र पुनरन्यो दर्शनभेदः प्रतिपादितः-असंभवनियमत्यागो नियममात्रबाधश्चेति । तथा हि--त्रीहिभिर्यजेतेति देवतोद्देशेन द्रव्यत्यागस्य यज्यर्थत्वाद्यजतिक्रियैकदेशभावापन्नं द्रव्यमात्रं यजेतेत्येव सामर्थ्यात्प्राप्तम् । एतावानेव हि यज्यर्थ इति श्रुतिप्राप्तसन्निधानमेव द्रव्यमात्रम् । द्रव्यदेवतारहितस्य त्यागमात्रस्य यज्यर्थत्वायोगात्प्रतीते तस्मिन्नर्थसामर्थ्यादनन्तरं द्रव्याक्षेपस्यायोगात् । इत्थं च क्रियाप्रधानत्वेऽप्याख्यातस्य तदेकदेशभूतं साधनाधारमपि द्रव्यसामान्यं श्रुतिप्राप्तसन्निधानं शाब्दमेव । तत्र व्रीहिभिरिति व्रीहित्वेनाविरुद्धैकार्थसमवायेन विशेषेण परिपोषः, निर्विशेषस्य सामान्यस्याभावात् । अध्यावापार्था हि व्रीहिश्रुतिः शब्दसामर्थ्यप्राप्तं द्रव्यत्वमात्रमविरोधान्न बाधते । तद्धि श्रुतिसामर्थ्यप्राप्तम्, व्रीहित्वं पुनरर्थसामर्थ्यायातम्, निर्विशेषस्य सामान्यस्याभावात् । एवं च द्रव्यत्वमात्रस्य श्रुत्या अङ्गभावश्चोदितो न र्वीहित्वस्य विशेषस्येति तदसम्भवेऽपि विशेषान्तरेण सामान्यमात्रस्य परिपोषे प्रतिनिधि विषये चोदितस्य बाधा न भवति ।
  (24) ननु चाध्यावापे व्रीहिभिर्द्रव्यत्वस्याबिधितत्वाद्विकल्पः प्राप्नोति सर्वत्र व्रीहिभिर्यवैर्वेत्यादि । अविशिष्टं हि द्रव्यत्वं श्रुतिसामर्थ्यप्राप्तम्, तस्य चेद् व्रीहिश्रुत्या विशेषान्तरादवच्छेदो न क्रियते तदा तदपि विशेषान्तरं तेन स्वीकृतं प्राप्तसन्निध्येवेति विकल्पप्रसङ्गः तथा च व्रीहिश्रुतेरानर्थक्यम् । अत्रोच्यते-इह व्रीहित्वेन द्रव्यत्वे विशेषिते वस्तुसामर्थ्याद्यवत्वादीनामसंभवः । न हि यत्र व्रीहित्वैकार्थसमवायि द्रव्यत्वं तत्रैव यवत्वैकार्थसमवायि संभवति । ततश्चासंभवनियमो नामायम् । द्विप्रकारो हि नियमः--कश्चिच्छब्दसामर्थ्यायातो भवति यत्र पक्षे प्राप्तौ सत्यां श्रुतिः । यथा व्यक्तौ पदार्थे `विप्रतिषेधे परम्' इति । कश्चित्पुनरसत्यपि शब्दव्यापारे पदार्थानामितरेतररूपसाङ्कर्याभावादेकचोदना तदन्यनिवृत्तिफलेति पदार्थस्वरूपविमर्शायातोऽसंभवनियम इत्युच्यते । तथा चेह शब्दसामर्थ्यायातं द्रव्यत्वमिति व्रीहिभिरिति तत्राध्यावापः शब्दव्यापारः । अखण्डेऽपि हि वाक्यार्थनयेऽरोद्धारदशागतो भेदसंसर्गादिविकल्पः । तत्र व्याडिमते भेदो वाक्यार्थः, पदवाच्यानां द्रव्याणां द्रव्यान्तरनिवृत्तितात्पर्येणाभिधेयत्वात् । जातिवादिनो वाजप्यायनस्य तु मते संसर्गो वाक्यार्थः, सामान्यानां पदार्थानां संश्लेषमात्ररूपत्वाद्वाक्यार्थस्य । इयति चरितार्थे व्रीहिशब्दे व्रीहित्वस्य यवत्वादिभिर्विरुद्ध एकस्मिन्नर्थे समवाय इति तत्र तानि निवर्तन्ते । ततश्च प्रतिनिधौ वस्तुसामर्थ्यायातस्य नियमस्य बाधेऽपि शाब्दस्य द्रव्यत्वमात्रस्याबाधितत्वान्न चोदितार्थत्यागः ।
   (25) ननु च निर्विशेषस्य सामान्यस्यासंभवात् यजिना विशेषनिष्ठमेव द्रव्यत्वमाक्षिप्तमिति सर्वविशेषाणां श्रुतिसामर्थ्यप्राप्तत्वात् व्रीहिभिरिति पुनः श्रुतिर्नियमफलैव श्रौतेनापि रूपेण संजातेति कथं न श्रौतार्थत्यागः । प्रतिनिधौ नैतन्न्याथ्यम् । न हि शब्दो वस्तुचिन्तामनुसरति, कस्यचिदेव वस्तुभागस्य शब्दव्यापारविषयत्वात् । तथा च टजतिशब्दस्येयत्येव सामर्थ्यं द्रव्यमात्राक्षेपे न तु तद्विशेषे । अन्यथा निर्गुणस्य च द्रव्यस्यासंभवात् गुणस्याप्याक्षेपकोऽसौ किमिति न वर्ण्यते । तस्माद् द्रव्यत्वमात्रस्यैवाक्षेपः शाब्द इति तत्परिपोषाय विशेषान्तरावापो न नियमफल इति शास्त्रेणापर्युदस्तानां विशेषान्तराणां प्रतिनिधिसिद्धिः । तदित्थमसंभवनियमत्यागो वर्णितः । नियममात्रबाधश्चाप्युच्यते । इह स्रवत्रैव क्रियाप्रधानं वाक्यार्थः । तथा च स्वसिद्ध्यर्थं योग्यद्रव्य माक्षिप्यते साधनम् । तदेव च पदान्तरेण विशिष्टं कथ्यते । इत्थं स्थिते यत्र श्रुतस्य साधनस्यासंभवस्तत्र प्रधानभूतक्रियासंपत्त्यर्थं साधनान्तरं प्रतिनिधीयते । क्रिया हि न प्रतिनिधीयते प्राधान्यात् । क्रियान्तराश्रयणे च कर्मान्तरस्याचोदितस्यानुष्ठानाच्छास्त्रार्थोल्लङ्घनं स्यादिति गुणभूतस्य साधनस्यैव प्रचिनिधिराचरितः शिष्टैः । तत्र च प्रधानभूतक्रियापदार्थाक्षिप्तस्य शास्त्रचोदितस्य साधनमात्रस्य न त्यागः, अपि तु व्रीह्यादि पदोपात्तस्य द्रव्यविषयस्य नियममात्रस्य बाधः । स च न दोषाय, शक्तिमात्रस्य साधनरूपस्य क्रियासामर्थ्याक्षिप्तस्य प्राधान्याच्छास्त्रचोदितार्थोल्लङ्घनाभावात् ।। 5 ।।
  (26) तदेवमेतदनन्तरकाण्डे दर्शनद्वयमुपपादितमिति यथासंभवं प्रतिनिधिश्च चिन्तितः । इदानीं जातौ शब्देनाभिधीयमानायां तत्र जात्यन्तराभावान्निर्निमित्ता शब्दस्य प्रवृत्तिरायातेत्याशङ्क्योपपादयितुमाह--
स्वा जातिः प्रथमं शब्दैः सर्वैरेवाभिधीयते ।
ततोऽर्थजातिरूपेषु तदध्यारोपकल्पना ।। 6 ।।
   (27) स्वा असाधरणी आत्मीया गोशब्दत्वादिका न तु सकलशब्दसाधारणी शब्दत्वादिः । एवं चासाधारणत्वेन विशेषणात्तया संबन्धाव्यभिचारः शब्दस्यार्थजात्या संबन्धव्यभिचारेऽपीति स्वा जातिः एव मुख्यमभिधेयमित्युक्तं भवति । तथा च वाक्यकारः--
`न वा शब्दपूर्वको ह्यर्थे संप्रत्ययः'(Va.on P.1.1.67)
इति । अत एवाव्यभिचारिण्याः स्वारूपजातेरर्थजात्यभिधाने शब्दस्य नान्तरीयकमभिधानमिति प्रथमम् इत्याह । यदभेदेन यत्प्रतिपत्तिः तदवश्यं तत्र प्रतिपत्तव्यमित्येतावतात्र प्राथम्यम्, न तु क्रमेणाभिधानात् । यद्वा संबन्धव्युत्पत्तिकालापेक्षं प्राथम्यम् । तथा हि-संबन्धव्युत्पत्तिकालेऽर्थजात्या नास्ति संबन्धः । तथात्वे वाचकत्वेन तत्र विनियोगोऽनर्थकः स्यात्, अर्थस्य प्रतिपन्नित्वादिति सोऽर्थस्तावत्तेन शब्देन न प्रतिपन्नः । यदि च स्वजात्यभिधानं तदानीं न स्यात् तदानर्थकत्वाद्विभक्तियोगो न स्यादिति
`प्राक् संज्ञिनाभिसंबन्धात्संज्ञा रूपपदार्थिका'(Vak.b.I.66)
इत्युक्तम् । रूपं हि स्वरूपं स्वा जातिर्वेति दर्शनभेदेन कथ्यते । सर्वैः इति । स्वरूपपरैरर्थपरैश्च, तस्या एव स्वरूपतया व्यवहारात् । तथाव्युत्पन्नैरपि शब्दैरविनाभावाच्छब्दस्वरूपेणावस्थिता जातिः प्रतिपद्यते । अर्थस्य झटित्येव शब्दस्वरूपाभेदेनावबोधेऽपि यथा प्रतिपादितक्रमाश्रयेण ततः स्वजातिप्रत्यायनादनन्तरमर्थजातीनां गोत्वादीनामात्मसु तस्याः शब्दजातेः समारोपस्य कल्पना न परमार्थः, शब्दविवर्तत्वेनार्थस्य शब्दात्तत्त्वतो भेदाभावात् ।
  (28) यद्वा संबन्धव्युत्पत्तिकाले गोरयमर्थ इत्यर्थजात्या शब्दजातेरत्यन्तभेदात्सामानाधिकरण्यान्यथानुपपत्त्या अभेदाध्यारोपः कल्प्यते । यथा गोर्वाहीक इति । अन्यथा सङ्केतस्यैव कर्तुमशक्यत्वात् । यथा चायमनादिरपौरुषेयो वाच्यवाचकभावः तथाध्यारोरोऽपि । अन्यथा वाच्यवाचकभाव एव न घटेत, यथा बौद्धस्य दृश्यविकल्पार्थैकीकारो भेदानध्यवसायलक्षणः, न तु यथा गौर्वाहीक इत्यत्र पुरुषेच्छया अध्यारोपः । व्यवहारे शब्दार्थयोः सदैवाभेदावसायात्कथमियं प्रतिवर्णनभिव्यक्तासाधारणी जातिरसमसमयभाविभिर्वर्णैरभिव्यज्यत इति चेत् यथोत्क्षेपणत्वादिजातिरिति ब्रूमः । तथा हि--प्रत्येकं कर्मक्षणानामुपव्यञ्जकत्वेऽपि यः प्रथम उत्क्षेपणक्षणः स परमाणुमात्रदेशाक्रमणमात्ररूपत्वात् भ्रमणक्षणात् सारूप्यवशादनवधार्यमाणभेद एकैकोऽसमर्थो नियतजात्यभिव्यञ्चने इति क्षणान्तरमपेक्षते । न च तस्य भ्रमणक्षणाद्विशेषो नास्ति, उपक्रम एनोत्क्षिपामीत्येवंप्रयत्नजनितत्वात् । एवं गोशब्दमुच्चारयामीत्ययं प्रयत्नो यद्यपि गानगगनशब्दजनकात्प्रयत्नादन्य एव, हेतुभेदाच्च गकारयोरपि भेद एव तथापि सादृश्यादसौ दुरवधार इति व्यञ्जकोऽपि सन् प्रथमो ध्वनिरस्फुटमभिव्यक्तीत्यावर्तमानोऽपि न विशदतरसामान्यविशेषाभिव्यक्तौ हेतुः । यदा त्ववयवप्रबन्धः क्रमेणोपलब्धो भवति, अथ शब्दजातिविशेषोपाधियुक्ताः व्यवहारा अवतिष्ठन्ते । तदानीं साहचर्यात्परस्परावच्छेदवशेन विलक्षणतया प्रतिभासनात् । यथा च श्लोकः सकृत्पठ्यमानो नावधार्यते, अभ्यासेन तु स्फुटावभासः तथा चरमचेतसि चकास्ति रत्नतत्त्ववत्स्फोटतत्त्वम् । प्रथमाक्षरेण हि जातेराभासमात्रं जन्यते तदुत्तरोत्तरवर्णकलापेन तु स्फटतरस्फुटतमपरिच्छेदाधानम् । संस्कारविशेषोत्पादनद्वारेणाभिव्यक्तिविशेषस्य रत्नतत्त्वादौ दृष्टेः । तस्माच्छब्दादर्थं प्रतिपद्यामहे इति व्यवहाराद्वर्णानामर्थावसायजनकत्वानुपपत्तेः प्रक्रियाभङ्गस्य प्रथमकाण्ड एव विहितत्वान्निरवयवं प्रत्यायकं शब्दतत्त्वं जातिव्यक्तिभेदेन भिन्नं स्फोटस्वभावमेवाङ्गीकार्यम् । गौरयमर्थ इति च वाचकाभेदेन वाच्यप्रतीतेः तदध्यासखचितवपुर्व्ववहार्योऽर्थः । तत्र च स्वरूपस्य वाच्यता प्रथमकाण्ड एव निर्णीता, इह तु संबन्धसमुद्देशेऽपि निर्णेष्यते ।। 6 ।।
   (29) तत्रैतत् स्यात्--शब्दसमवायि सामान्यं व्यधिकरणत्वात्कथमर्थजातिमभेदेन व्यपदिशेदित्याशङ्क्य निदर्शनेनैतद्व्युत्पादयति--
यथा रक्ते गुणे तत्त्वं कषाये व्यपदिश्यते ।
संयोगिसन्निकर्षाच्च वस्त्रादिष्वपि गृह्यते ।। 7 ।।
तथा शब्दार्थसंबन्धाच्छब्दे जातिरवस्थिता ।
व्यपदेशेऽर्थजातीनां जातिकार्याय कल्पते ।। 8 ।।
   (30) रक्ते गुणे तत्त्वम् । तस्य रक्तस्य गुणस्य भावो रक्तत्वं लौहित्यसामान्यं गुणव्यक्तिसमवेतमुच्यते । तत्समवेतसमवायात् कषाये रक्तगुणाधारे द्रव्ये व्यपदिश्यते व्यपदेशाय कल्पते । तद्विशेषणभूतं हि तत्कषायद्रव्यमभिधीयते लोहिता लाक्षेति । तेन संयोगिनो वस्त्रादयः तयोः संयोगिनोः कषायवस्त्रयोः संनिकर्षः संभेदः, तस्मान्निमित्तात्तत्रापि तल्लौहित्यं गृह्यते । संयुक्तसमवेतसमवायाद्वस्त्रादिष्वपि लौहित्यनिमित्तो व्यपदेशः, लोहितं वस्त्रमित्यर्थः । तथा शब्दार्थसंबन्धात् इति । लोहितगुणकषायद्रव्यसंबन्धस्थानीयात्समानाधिकरणतयावस्थितात् स्वाभाविकात्तथा केवलं व्युत्पत्तिकाले निर्ज्ञातात्तदन्यथानुपपत्त्यैवाध्यारोपस्य कल्पनात्संबन्धादेव शब्दजात्या व्यपदेशः । अर्थोऽत्रार्थजातिः, तस्या एव वाच्यत्वप्रक्रमात् । व्यपदेशे कल्पते स्वरूपाभेदेन, जातिकार्याय कल्पते-जात्यादिशब्दे जातिषु वाचकत्वेन प्रवर्तमाना स्थिता जातिर्न केवलं व्यपदेशाय कल्पते यावज्जातिकार्याय च । अथवा व्यपदेशे सति जातिकार्याय कल्पत इत्यर्थः । निःसामान्यानि सामान्यानीत्यर्थजातीनां स्वतो जातिरहितत्वे तत्कार्यं शब्दप्रत्ययानुवृत्तिलक्षणं शब्दार्थयोः सोऽयमित्यभेदेन संबन्धाच्छब्दसमवायिनी जातिरर्थेनाध्यारोपिताभेदा संपादयन्ती तदात्मना संपद्यत इत्युपचर्यते । व्यक्तिरूपे च शब्दे जातेस्समवायो न तु वर्णेष्विति अवस्थिता इत्युपपद्यते । वर्णानां हि यौगपद्याभावादवाचकत्वमिति कथं तत्र शब्दजातेः समवायस्स्यात् । केवलं स्फोटस्य जातिव्यक्तिभेदेन दर्शनद्वयमिति व्यक्तिस्फोटे जातिः समवेता । अर्थभेदेन हि भिन्नस्य नित्यस्य शब्दस्याभिन्नाभिधानप्रत्ययहेतुर्जातिरवश्याभ्युपगन्तव्या । अत एव जात्याच्छुरिताया व्यक्तेरेव वाचकत्वम् । उपलक्षणभूता तु जातिराश्रीयते इति कथमत्राननुयायिन्या व्यक्तेर्वाचकत्वमिति न चोदनीयम् ।
  (31) शब्दार्थसंबधश्चात्र योग्यतालक्षणोऽभिप्रेतः । सर्वो हि शब्दः संज्ञात्वेन नियुज्यमानः सर्वत्रार्थे योग्यतालक्षणेन संबन्धेन संबद्धः । केवलं शक्‌त्यवच्छेदमात्रे संज्ञाकर्तुर्व्यापारो न त्वपूर्वसंकेतकरणे, अर्थसंबन्धस्यापौरुषेयत्वात् । एवं चादैक्षु वृद्धिशब्दो नापूर्व एव संकेतित इति सर्वेषामनेकार्थत्वाद्वक्तृभेदाद्वानेकत्वे समानाकारप्रत्ययनिबन्धनजातिरेषणीया । तद्यथाकाशस्य संयोगिभेदेन कल्पिताभेदस्यानेकत्वे सत्याकाशत्वं लक्ष्यते । न चैवं सर्वस्मात्सर्वार्थप्रतीतिप्रसङ्गः, प्रसिद्धिवशेनार्थप्रतीतेः कुत्रचित् कस्यचित् प्रसिद्धत्वात् । प्रसिद्धानां चार्थानामर्थप्रकरणादयो विभागहेतव उक्ताः । तद्यथा गोशब्देन नवस्वर्थेषु सन्निहितेष्वपि प्रकरणादेः प्रतिनियतार्थावसायः । तदेवं शब्दजात्या शब्दव्यक्तिर्वाचिका प्रथममभेदेन व्यपदिश्यते ततोऽर्थजातिः ततस्तव्द्यक्तिरित्ययं वास्तवः क्रमः । प्रत्यायने त्वक्रमतैव । शब्दाच्छुरितत्वेऽपि चार्थस्य न स्वरूपव्यपगमः । यथा ह्यालोकाच्छुरितोऽपि घटो न स्वरूपेण तिरोभवति, एवं शब्दस्वरूपोपरक्तोऽर्थः । स्वरूपारोपेण शब्दालोकयोरर्थप्रकाशकत्वस्यैवंविधस्य दृष्टेः । यथा च गौर्वाहीक इत्यन्त्र न गोत्वमात्रं प्रतीयते, अपि त्वध्यारोपितगोरूपो वाहीकः, एवमिहापि, न तु स्फटिकमणाविवार्थे शब्दजातेः समावेशो विवक्षितः, तस्यैव वाहीकवत् प्रत्याय्यत्वात् । स्वाभाविकश्चायमर्थप्रत्यायने शब्दानामभेदजसंबन्धोऽभ्युपाय इति प्रतिपाद्योऽपि तथैव प्रतिपद्यते । न हि पुरुषाधीनमेतत् । अनादौ संसारेऽनेनैव प्रकारेंण संबन्धव्युत्पत्तेः कोऽत्र नियतोऽध्यारोपयिता कल्प्यताम् । अव्युत्पन्नसंकेतस्यापि चाभिन्नप्रत्ययोत्पत्तेरर्थजातिरप्यस्तीति न शब्दजातिरेवाध्यारोपितास्त्विति वाच्यम् । शाब्दी चेयमेवंविधा प्रतीतिरिति चाक्षुषेण रक्तादिप्रत्ययेन निदर्शनभूतेन व्युत्पादिता । वस्तुसन्निवेशित्वाभावेऽपि च शब्दजातेरयमनादिरध्यारोपो रूढः । सदैव व्यवहारे शब्दार्थयोरभेदावसायाद्भेदस्यापि च गोर्वाहीक इतिवत् प्रतिभानान्मित्याज्ञानमिदं न भवति । प्राक् च संबन्धसंवेदनसमयादर्थजातयो भेदेनावभान्त्येव । अव्युत्पन्नसंकेतस्य बालकस्य पुरोऽवस्थितेषु सास्नादिमत्सु पिण्डेषु भिन्नः प्रत्यय उत्पद्यते तदा वाचकसन्निधानाभावादभिन्नप्रत्ययहेतुरर्थजातिरवधार्यते । अत एव कथं भेदेनानिर्धारितायामर्थजातौ शब्दजातिः समारोप्यते इत्यादि न चोदनीयम् ।। 7,8 ।।
   (32) जातिकार्याय कल्पत इत्युक्तमेवार्थमभिव्यनक्ति--
जातिशब्दैकशेषे सा जातीनां जातिरिष्यते ।
शब्दजातय इत्यत्र तज्जातिश्शब्दजातिषु ।। 9 ।।
   (33) "आकृत्यभिधानाद्वैकविभक्तौ वाजप्यायनः" (Va.on P.1.2.64)
इति जातिपक्षे प्रत्याख्यानादेकशेषस्य तत्फलमेकशब्दप्रयोगोऽत्रैकशेष उक्तः । सहविवक्षा चैकशेषेण लक्ष्यते । जातिशब्दैकशेषे प्रसक्त इति वा योजनीयम् । सा इति शब्दजातिः । अर्थजातीनाभेदेन प्रत्यवस्यमाना जातिशब्दगता जातिरेकशब्दत्वं संपादयति जातिकार्यम् । तद्यथा गावो वृक्षा इत्यादिरभिन्नसामान्यनिबन्धनस्तदेकार्थसमवायात् समाश्रितविशिष्टसङ्ख्य एकशब्दप्रयोगः । तथा जातय इमा इत्ययमपि जात्याश्रयापरजात्यभावाद्वाचरजात्यध्यासाश्रय उपपद्यते । शब्दगतं च सामान्यं जातिकार्यमुपचरतीत्युच्यते न त्वर्थजातिष्वेवेति नियमः केनचित्क्रियते इति । यदा शब्दजातयोऽपि प्रत्याय्याः तदा आस्वप्यभिधानगतं जातिकार्याय कल्पत एवेत्याह शब्दजातय इत्यत्र इति । तज्जातिः शब्दजातिः शब्दगतं सामान्यम् । शब्दजातय इमा इत्यत्रैक पदप्रयोगे तस्योच्चरितस्य शब्दजातिशब्दस्य या जातिः सा शब्दजातिषु होशब्दत्वादिकासु व्यक्तिस्थानीयासु प्रतिपाद्यास्वभिन्नशब्दप्रयोगे निबन्धनमित्यर्थः ।। 9 ।।
   (34) यद्येवं शब्दजातिः शब्दगतानामपि जातीनामन्या वाचकजातिस्तासामप्यन्येत्यनवस्थाप्रसङ्ग इत्याशङ्क्याह--
या शब्दजातिः शब्देषु शब्देभ्यो भिन्नलक्षणा ।
जातिस्सा शब्दजातित्वमप्यतिक्रम्य वर्तते ।। 10 ।।
   (35) प्रयोक्तृभेदाद्वहुषु शब्दजातिशब्देषु, अभिन्नप्रत्ययनिबन्धना या जातिस्तेभ्य एव शब्देभ्यः स्वाश्रयभूतेभ्यो भिन्नस्वभावा सा गोशब्दात्वादिशब्दजातिवर्गान्तः पातिनी न तु व्यपदेशान्तरार्हा । शब्दजातिशब्दस्यापि होशब्दत्वादिवत् शब्दजातय इत्यनेनैवैकशब्दप्रयोगेण सापि प्रत्याय्यत इति न प्रयोगानवस्थापत्तिरित्यभिप्रायः ।। 10 ।।
  (36) तदेवं स्वनिकायसिद्धाध्यासदर्शनाश्रयेण सार्वत्रिकी जातिपदार्थव्यवस्था दर्शिता । स्वरूपभूता हि जातिः सर्वेषां शब्दानामन्तरङ्गत्वादसाधारणत्वादहेयत्वाच्च प्रथमं प्रतिपाद्या । इदानीमध्यासानाश्रयेणापि प्रौढवादितया जातिपदार्थव्याप्तिमुपपादयितुमाह--
अर्थजात्यभिधानेऽपि सर्वे जात्यभिधायिनः ।
व्यापारलक्षणा यस्मात्पदार्थाः समवस्थिताः ।। 11 ।।
  (37) अन्यथा चात्र संबन्धः । तथा हि--अस्तु शब्दजातेरर्थजातीनां जातिकार्यम्, संबन्धव्युत्पत्तिस्तु न घटते । यत्र हि संकेतस्तत्र शब्दजातिरध्यस्यते । स एव त्वनेकत्वादर्थजातीना सामान्यान्तरमन्तरेण न संभवतीत्याह-अर्थजात्यभिधानेऽपि इत्यादि । यदा विशुद्धा एनार्थजातयः शब्दैरभिधीयन्त इत्याश्रीयते तदापि सर्वे जात्यभिधायिनः जात्यादिशब्दा अपि तदा जातिवाचिन एव । ननु निस्सामान्यानि सामान्यानीति सिद्धान्तात्कथं जात्यादिशब्दा अपि जात्याधारं जातिमभिदध्युरित्याह--`व्यापारलक्षणाः' इति । व्यापारः कार्यं प्रयोजनं तदेव लक्ष्यतेऽनेनेति लक्षणं हेतुर्येषां पदप्रत्याय्यानामर्थानां ते तथा नियमितस्वरूपाः । अयमाशयः । वैशेषिकादीनां भवन्तु निःसामान्यानि सामान्यानि । तानि हि व्यक्तिष्वन्वयप्रत्ययावसेयांनि परोपाधिरूपाणि स्वतन्त्रव्यक्तिवदिदन्तावभासित्वाभावात् सामान्यान्तरेण नोपाधीयन्ते । वैयाकरणानां शब्दार्थोऽर्थ इत्यभ्युरेयतामन्वयिरूपावच्छेदेन शाब्दस्य प्रत्ययस्योत्पत्तेर्जातिष्वपि जातिरविरुद्धाभ्युपगम्या । एतदेव हि व्यक्तिषवपि जात्यभ्युपगमे निमितमित्यत्रापि तथाभ्युपगमे कः प्रद्वेषः । प्रत्यक्षा अपि च पदार्थाः स्वाकार्यं विज्ञानादिकं कुर्वन्तः सन्तीति व्यवह्रियन्ते, किं पुनवः शब्दवाच्याः पदार्था इति सामान्यवचनाद् द्रव्यादयोऽपि शब्दवाच्यत्वेनैव लक्ष्यन्ते । शब्दप्रमाणकानां हि यच्छब्द आह तत्परमार्थरूपम् । तथा चान्वयिरूपेण गुणोऽप्यभिधीयमानो जातिरेव । यथोपमासमासे श्यामादिः । तथा च
`उपमानानि सामान्यवचनैः' (P.2.1.55)
इत्युच्यते ।
  (38) एवं क्रियाप्यभेदेनाभिधीयमाना जातिः । तथेदं तदिति स्वातन्त्र्येण विशेष्यतयाभिधीयमाना जातिगुणक्रिया अपि द्रव्यमिति यथावसरमग्रे निर्णेष्यत एव । एतच्च लौकिकव्यवहारानुगुण्येन शास्त्रेऽस्मिन् व्युत्पाद्यते । शास्त्रान्तरप्रसिद्धा हि व्यवस्था लोकविरुद्धा । लोके हि `गवि शृङ्गम्', `वृक्षे शाखा' इति व्यवहारः । तथैव च व्याकरणेऽप्याधारसप्तमी । शास्त्रान्तरे त्ववयवेष्ववयवीति `शृङ्गे गौः',`शाखायां वृक्षः' इति स्यात् । इत्थं च शब्दाभिधेयस्येहार्थत्वात्सर्वे जात्यभिधायिनः, यस्माच्छब्दव्यापारेण पदार्था लक्ष्यन्ते । यद्यपि बहिर्वस्तूनि न सन्ति तथापि शब्दैस्तथा प्रत्याय्यन्ते, अतोऽभिधाव्यापारवशादन्वयिरूपेण प्रत्यायनाव्द्याप्तिर्जातौ पदार्थे सिद्धेत्येषोऽप्यर्थः ।। 11 ।।
 (39) अभिधालक्षणव्यापारत्वमेव व्यक्तयति--
जातौ पदार्थे जातिर्वा विशेषो वापि जातिवत् ।
शब्दैरपेक्ष्यते यस्मादतस्ते जातिवाचिनः ।। 12 ।।
 (40) जातौ पदार्थे इति पक्षावच्छेदं करोति । अत्र हि पक्षे सर्व एव शब्दो जातिवाचींत्यभ्युपगन्तव्यम् । भवतु मा वा भूज्जातिषु जातिः । शब्दैस्तु जाति व्यतिरिक्तया जात्यैकस्वभावैव अपेक्ष्यते प्रत्याय्यत्वेनाङ्गीक्रियते । स्वालक्षण्येन हि वस्तूनां भेदः शब्दैः स्प्रष्टुं न शक्यते, अन्वयिरूपावेशेन संबन्धव्युत्पत्तौ शब्दस्य वाचकत्वात् । तथा च जातीनामितरेतरभेदो वस्तुसन्नाभिधीयते, अपि त्वभेदकल्पनेन ता अभिधीयन्ते । अभेदश्च सामान्यमिति सिद्धमेकशब्दत्वाज्जातय इति ।
 (41) तथा योऽपि विशेषः संज्ञाशब्दानां वाच्यः प्रतीतिनियतः सोऽपि जातिवत् प्रसिद्धजात्या तुल्यम्, अपेक्ष्यते शब्दैः । तत्रापि बाल्यकौमाराद्यवस्थाभेदः शब्देन न स्पृश्यते, अपि त्ववस्थातृरूपमेवानुगतम्, तद्धि प्रत्यभिज्ञाप्रत्ययनिमित्तं तत्रावश्याभ्युपगन्तव्यम् । अतः यस्माज्जातिवत्सर्वमपेक्ष्यते शब्दैस्तस्माज्जातिं विशेषं वा प्रतिपादयन्तः सर्वे जात्यभिधायिनः इति जात्यभिधानव्याप्तिं निगमयति । इत्थं च संज्ञाशब्दानामपि जातिवादिमते जातिशब्दत्वमित्येकैव शब्दानां प्रवृत्तिः ।। 12 ।।
 (42) एवं दर्शनान्तरेऽपि शब्दव्यापाराश्रयण एव व्याप्तिसिद्धिरित्याह--
द्रव्यधर्मा पदार्थे तु द्रव्ये सर्वोऽर्थ उच्यते ।
द्रव्यधर्माश्रयाद् द्रव्यमतः सर्वोऽर्थ इष्यते ।। 13 ।।
 (43) न केवलं मयैव जातिपदार्थवादिनैतदङ्गीकृतं सर्वोऽर्थो जातिरिति, यावद् द्रव्ये अपि पदार्थे, द्रव्यपदार्थपक्षेऽपि द्रव्यधर्मा सर्वोऽर्थ उच्यते, कुतः ? द्रव्यधर्माणामाश्रयणात् । द्रव्यमतः सर्वोऽर्थ इष्यते । व्याप्तिरतः सिद्धा भवतीत्यर्थः । द्रव्यवादिनाप्येतदभ्युपेतव्यं व्याप्तिसिद्धये । शब्देन योऽर्थ उच्यते सर्वोऽसौ द्रव्यधर्मयुक्त एवेत्यभिप्रायः । यथा तव द्रव्यवादिनः केचिदेव शब्दा मुख्यद्रव्याभिधायिनस्तदन्ये तूपचपितद्रव्याभिधायिनः तथा ममापि जातिवादिनो मुख्यां जातिमभिदधति केचित्, उपचरितामन्य इति मतद्वयेऽपि साम्यम् । तत्र द्रव्यधर्मा इदं तदिति प्रत्यवमर्शयोग्यत्वम्, परिनिष्पन्नता, स्वातन्त्र्यम्, लिङ्गसङ्ख्यायोगश्चेत्येवमादयः । तेषां शुक्लादिगुणेष्वप्यध्यारोपात्तेऽपि द्रव्यस्येव धर्मो येषामिति द्रव्यधर्माणः । तथा हि--शुक्लो नीलं स्त्रीपुन्नपुंसकानि सत्त्वगुणाः । तथैकत्वादयश्चेत्यादिभिः शब्दैः प्रत्याय्यमाना गुणादयो द्रव्यधर्माणः स्वातन्त्र्यादिरूपेणावभासन्त इति सर्वोऽर्थो द्रव्यरूपेणाभिधीयते ।। 13 ।।
  (44) एवं शब्दव्यापाराश्रयेण व्याप्तिरुपपादिता । अधुना वैशेषिकदृष्ट्याप्यर्थगतसमानधर्माश्रयेण जातिपदार्थव्याप्तिमाह--
अनुवृत्तिधर्मो वा जातिस्स्यातसर्वजातिषु ।
व्यावृत्तिधर्मसामान्यं विशेषे जातिरिष्यते ।। 14 ।।
  (45) जातीनामेतज्जातित्वं येयं स्वाश्रयानुवृत्तिः सर्वजातीनां साधारणो धर्मः । सा च ताभ्योऽनन्यापि सादृश्यादभेदेन परामृष्टा सती सर्वासां जातिः । सर्वैव हि जातिः स्वव्यक्तीरनुवर्तते । उपलक्षणं चैष धर्मः । तेन स्वानुरूपप्रत्ययजनकत्वम्, यद्बलाद् द्रव्यं तद्रूपमाभाति । स्वानुरूपाभिधानहेतुत्वम्, यद्वशाद् द्रव्यं यद्वशाद् द्रव्यं तद्रूपाभिधानवाच्यं भवति । प्रत्याश्रयं च सर्वात्मना परिसमाप्तिः साधारणो जातिधर्मः । यदि भागशो जातिर्वर्तेत तदा भागश एव गोत्वादिप्रत्ययः स्यात् । संपूर्णश्च विषाणाद्यवयवदर्शनेऽपि झटिति गोत्वाकारः प्रत्ययः प्रसूयते । प्रत्याश्रयपरिसमाप्ता अपि च गुणाः प्रतिद्रव्यं भिन्नाः, जातिस्तेकैवेत्येवमादयोऽसाधारणा धर्मा वाच्याः । यथा च गोत्वादिजातिस्सर्वा व्यक्तीर्व्याप्नोति तथैते धर्माः सर्वजातीर्व्याप्नुवन्तीति जात्या तुल्यरूपत्वाज्जातिकार्याय कल्पन्ते । एवं सर्व एव विशेषा व्यावर्तन्ते । अन्यथानुगमात् सामान्यानि स्युर्न विशेषा इति सर्वविशेषेषु साधारणी व्यावृत्तिः सामान्यसमो धर्मो भवंस्तेषु जातिः इत्युच्यते ।
  (46) नन्वेवं गोपिण्डेष्वपि सास्नालाङगूलखुरककुदविषाणाद्यवयवसंबन्धस्य साधारणत्वात्सैव जातिरस्तु । मैवम् । सास्नादिमत्त्वेन सास्नाजिमानित्यादिप्रत्ययो जायते न तु गौर्गौरिति । अनुरूपं हि कार्यं कारणं कल्पयति,तद्यथा दण्डीति प्रत्यये दण्डसंबन्धो निमित्तं न तु दण्डौपादित्सा । यद्येवमनुप्रवृत्तावपि न जातिर्जातिरिति प्रत्ययो युक्तः, व्यावृत्त्या च विशेषो विशेष इति । नैतदेवम् । गत्यन्तराभावादत्र सदृशा एव धर्मा जातिः कल्पते, मुख्ये जातिमत्त्वे निर्णीतम् । नित्यद्रव्यवृत्तिषु व्यावृत्तिप्रत्ययजनकेषु विशेषेषु सामान्याभ्युपगमे संशयापनोदाय विशेषान्तरकल्पने तेषामपि सामान्यसमवाये सन्देहविषयत्वाद्विशेषान्तराभ्युपगमेऽनवस्थाप्रसङ्गः । अथ कश्चिन्निस्सामान्योऽस्ति विशेषः, तदा तदविशेषात्सर्वेऽपि तथा स्युरित्यन्यत्र विस्तरेणोक्तम् । गोपिण्डेषु सामान्याभ्युपगमे न किञ्चिद्बाधकमिति न तत्र यथाकथञ्चिन्निमित्तं परिकल्प्यम् । तदेवं यत्र जात्यभ्युपगमे प्रमाणबाधास्ति तत्र सदृशधर्मरूपा जातिः । तथा चाभावेऽवपि सामान्याभ्युपगमे भावत्वापत्तेरभवनात्मकधर्मसामान्यादन्वयिप्रत्ययविषयतेति सैव तत्रापि जातिः ।। 14 ।।
  (47) कालाकाशादिशामेकत्वान्नित्यत्वेनावस्थाभेदाभावाच्च कथं जातिः, येन व्याप्तिसिद्धिरित्यत आह--
संयोगिधर्मभेदेन देशे च परिकल्पिते ।
तेषु देशेषु सामान्यमाकाशस्यापि विद्यते ।। 15 ।।
  (48) यथा सामान्यविशेषाणामन्वयिधर्मोपाधिरभेदः तथाकाशस्यापि संयोगोपाधिर्भेद इति प्रकृतापेक्षः समुच्चयः । आकाशेन संयोगो विद्यते येषामाकाशाधिकरणानां घटादीनाम्, ते संयोगिनः । आकाशं हि सर्वेषां मूर्तानामधिकरणम् । अवकाशदानाद्धि तदाकाशम् । मूर्तास्तु भावाः परस्परं प्रतिबन्धका इति न तेऽवकाशदायिनः । संयोगिनां धर्मभेदः प्रत्यक्षादिप्रमाणसिद्धं परिमितत्वं तद्वशाद्वा लोकप्रसिद्धं परिमितदेशवृत्तित्वम् । यत्र हि देशे संयोगः परिसमाप्तो वर्तते स प्रदेशो भवत्याकाशस्यानेकः । कार्यं प्रति देशः प्रदेश इति निर्वचनात् । गुणाश्च केचिव्द्याप्यवृत्तयः, यथा रूपादयः । संयोगस्तु मूर्तिपरिच्छिन्नवस्तुवृत्तिरिति सर्वदा प्रदेशवृत्तिरेव । अतः संयोगस्य नियतदेशतया संयोगिनोऽपि नियतदेशवृत्तय इति संयोगिधर्मभेदेन आकाशस्य भेदो भवत्युपाधिकृतो न स्वतः । यदाह-देशे च परिकल्पिते इति । देशभेदाच्च सामान्यमाकाशस्यापि विद्यते । अतश्च प्रतिदेशम् `इदमाकाशम्, इदमाकाशम्' इत्यभिन्नाभिधानप्रत्ययानुवृत्तिलक्षणमाकाशसामान्यमाकाशशब्दगोचरोऽस्ति ।
  (49) एवं समानन्यायत्वात्कालादीनामपि प्रदेशपरिकल्पनेन सामान्यमुपवर्णनीयम् । तथा हि-कालस्य युधिष्ठिरादिसंयोगवशेन भेदे सत्यभिन्नं कालसामान्यं कालशब्दवाच्यमस्ति । एवं मेरुं प्रदक्षिणमावर्तमानस्य सवितुर्लोकपालगृहीतैर्देशविशेषैर्ये संयोगाः तदुपाधिना सूर्येण दिशः संयोगे सति भेदेऽभिन्नं दिक्‌सामान्यं दिक्‌शब्दवाच्यं परिकल्प्यम् । आत्मा तु प्रतिशरीरमन्य एवेति तत्राप्यस्त्येवात्मत्वसामान्यम् । एवं समवायस्यापि संबन्धिभेदान्नानात्वोपचारे सर्वत्रेहबुद्ध्यनुवृत्तेर्जातिः परिकल्पनीया । ननु च संयोगिदेशेनाकाशस्य देशपरिकल्पः तेन संयोगिनामितीतरेतराश्रयत्वम् । नैतदस्ति । इतरेतरव्यावृत्तिरूपतैव रथादीनां मूर्तत्वापरिच्छिन्नपरिमाणत्वं बोधयति । कल्पितास्त्वाकाशदेशा लोकप्रसिद्धाः संयोगिवस्तुगतां परिच्छिन्नदेशतां ज्ञापयन्ति । सामान्येन ह्याकाशदेशत्वे रथादीनां प्रत्यक्षादिप्रमाणावसितरूपविरुद्धं व्यापित्वमारोपितं स्वगतेन परिमितत्वेनाकाशस्य प्रदेशकल्पनया निराक्रियेत । यद्येवं कल्पिता देशाः कथमाकाशस्य स्वतो निरवयवस्य देशभेदनिबन्धनं कार्यं जातिप्रक्लृप्तिलक्षणं जातिशब्दप्रवृत्तिलक्षणं वा कुर्युः, येन तद्नता जातिरभिधीयेत । उच्यते । व्यक्तिस्थानीयानां देशानामद्वैतदर्शने यथासत्यत्वम्
`असत्या व्यक्तयः स्मृताः'(verse 32 infra)
इति वक्ष्यते तथेहाप्याकाशस्य सत्यत्वे व्यक्तीनां न कश्चिद्विरोधः ।। 15 ।।
   (50) अथवा मुख्या एवाकाशस्य देशा घटाजीनामिवेत्याह--
अदेशानां घटादीनां देशास्संबन्धिनो यथा ।
आकाशस्याप्यदेशस्य देशास्संबन्धिनस्तथा ।। 16 ।।

   (51) इह देशोऽवयव उच्यते । घटादयश्चावयविनः स्वात्मनि निरवयवाः । ये हि तेषामवयवभूताः कपालादयस्ते आरम्भकाः कारणभूता व्यतिरिक्ता एव समवायसंबन्धेन संबन्धिनः । एवमाकाशमपि केनचिदप्यनारब्धत्वादमूर्तं व्यापि निरवयवमित्यात्मभूतदेशाभावाद् द्रव्यादयः संयोगिन एवास्य देशाः, तथा तद्भेदादाकाशभेदे सर्वत्राभिन्नप्रत्ययानुगमाज्जातिपरिकल्पः । आकाशं ह्यवच्छिन्दन्तोऽर्था देशास्तस्य भवन्ति । तत्कृतावच्छेदं चाकाशमपि तेषामाधारभावापत्तेर्देश इत्यन्योन्यदेशत्वं मूर्तामूर्तयोः मूर्तास्त्वव्यापकाः परस्परमवच्छेदका न भवन्तीत्याधार एवैतेषां देशः ।। 16 ।।
  (52) कथं तर्हि देशे गौणत्वव्यवहारः । यदि हि कस्यचिन्मुख्याः प्रदेशा आत्मभूताः स्युस्तदायं युक्तः स्यान्नान्यथेत्यत आह--
भिन्नवस्त्वाश्रया बुद्धिः संयोगिष्वनुवर्तते ।
समवायिषु भेदस्य ग्रहणं विनिवर्तते ।। 17 ।।
अतः संयोगिदेशानां गौणत्वं परिकल्प्यते ।
अविवेकात्प्रदेशेभ्यो मुख्यत्वं समवायिनाम् ।। 18 ।।
  (53) भिन्ने पृथक्‌सिद्धे वस्तुनि आश्रयो यस्या बुद्धेः । अप्राप्तयोः प्राप्तिः संयोग इति पृथक्‌सिद्धपदार्थविषया संयोगबुद्धिः । भेदस्य ग्रहणं विनिवर्तते इति, यतोऽपृथक्‌सिद्धानामिहबुद्धिहेतुः समवायः, यथा `इह कपालेषु घटः' इति । अतः इति, भेदेन ग्रहणात् । अविवेकात्, विवेक्तुमशक्यत्वात् । यतो भिन्ना बुद्धिः संयोगिनाम्, अतः तत्प्रदेशानां गौणत्वम् । यतश्च समवायिनामभिन्ना बुद्धिः, अतस्तत्र मुख्यत्वम् । समवायप्रभावाद्धि प्रदेशेभ्यो विवेक्तुं समवायिनो न शक्यन्त इति तेष्वेव देशेषु कपालादिष्वेव तदारब्धमवयवि द्रव्यमुपलभ्यते । अतस्तत्र मुख्याः समवायिनः प्रदेशत्वेन व्यवस्थाप्यन्ते । संयुक्तानां तु नैवमिति गौणत्वमित्यनेनौपचारिकत्वमाकाशदेशानां समर्थितम् । ननु च घटादीनां संयोगिनां परस्परसंयोगेऽपि परस्परदेशभावो न भवति, एवमाकाशेनापि न स्यात् । नैतदस्ति। आकाशेन सदा संबद्धा रथादय इति तत्राध्यारोपो युक्तो न तु घटादीनामनियतसंयोगानाम् । अत एव घटादिष्वाकाशानुगतः प्रत्ययो दृश्यत एव घटाकाशः पटाकाश इत्यादि, अध्यारोपे च न भेदविगलनमित्युक्तम् ।। 17,18 ।।
  (54) तदेवं वैशेंषिकदर्शनाश्रयेण जातिपदार्थव्याप्तिरुपपादिता । इदानीं विज्ञानवादेनापि पदार्थव्यवस्थामाह--
अनुप्रवृत्तिरूपां यां प्रख्यातामाकृतिं विदुः ।
केचिव्द्यावृत्तिरूपां तु द्रव्यत्वेन प्रचक्षते ।। 19 ।।
  (55) `सर्वपार्षदं हीदं शास्त्रम्' इति, शब्दार्थोऽर्थ इति वा पदार्थव्यवस्थेयम् । अनुगताकारा या बुद्धिस्तस्यां प्रतिभासमानस्तदाकारोऽर्थरूपतयावसीयमानवपुर्दृश्यविकल्पयोरभेदाध्यवसायात्सामान्यमाहुः । व्यावृत्ताकारबुद्धिसन्निवेशित्वाकारोऽत्र च दर्शने द्रव्यमिति प्रसङ्गादुक्तम् । एवं च बाह्यस्य सामान्यस्याभावादाकाशादावपि तत्समर्थने न प्रयतितव्यम् । अनपह्नवनीयाभिन्नाकारप्रत्ययोपजनस्य सर्वत्रैव सिद्धेर्विज्ञाननये च सर्वमेव प्रत्ययात्मकमङ्गीकृतमेव । शब्दादुच्चरिताद्वाकारवती बुद्धिरुत्पद्यत इति तदाकारस्यैव शब्दार्थत्वम्, न बुद्धेः । स ह्याकारो बाह्योऽस्तु, न वा, शब्दवाच्यत्वस्य न काचित्क्षतिः ।। 19 ।।
 (56) ननु च वस्तूनां देशकालादिनिमित्तो भेद इति तदनादरेणाभिन्नान्येव तानु सिद्धानीति किमर्थं व्यतिरिक्तसामान्यकल्पनायां प्रयस्यत इत्याशङ्क्याह--
भिन्ना इति परोपाधिरभिन्ना इति वा पुनः ।
भावत्मसु प्रपञ्चोऽयं संसृष्टेष्वेव जायते ।। 20 ।।
  (57) निरुपाधिनो वस्तुनोऽव्यवहार्यत्वात्सर्व एव परोपाश्रयो व्यवहार इति सामान्यादौ व्यतिरिक्तसामान्यकल्पनैवमकारीत्यत्र तात्पर्यार्थः ।। 20 ।।
  (58) एतदेव व्यतिरेकमुखेनापि प्रपञ्यति--
नैकत्वं नापि नानात्वं न सत्त्वं न च नास्तिता ।
आत्मतत्त्वेषु भावानामसंसृष्टेषु विद्यते ।। 21 ।।
  (59) एकत्वसङ्ख्यीधीन एकत्वेन व्यवहारः, पृथक्‌त्वनिबन्धनो नानात्वेन, सत्तानिबन्धनः सत्त्वेन, स्वरूपसत्त्वेन तु सामान्यादीनामभावोपाधिर्नास्तीति व्यवहार इति संसर्गदर्शने सर्वः परोपाश्रयोऽयं प्रपञ्चो वैचित्र्यम् ।। 21 ।।
  (60) एवं व्यतिरिक्तोपाधिदर्शनमुपन्यस्याधुना स्वशक्तय एवोपाधय इत्यद्वैतदर्शनाश्रयेणापि प्राह--
शर्वशक्‌त्यात्मभूतत्वमेकस्यैवेति निर्णयः ।
भावानामात्मभेदस्य कल्पना स्यादनर्थिका ।। 22 ।।
  (61) एकमेव ब्रह्म सर्वशक्तीति प्रमाणेन सिद्धेऽस्मिन्नर्थेऽविद्यापारिकल्पितस्य भावभेदस्यापारमार्थिकत्वात्कार्यनानात्वोन्नीयमानः शक्तिभेद एवैकस्य युक्तो न तु स्वरूपभेदः ।। 22 ।।
  (62) तथा च
तस्माद् द्रव्यादयः सर्वाः शक्तयो भिन्नलक्षणाः ।
संसृष्टाः पुरुषार्थस्य साधिका न तु केवलाः ।। 23 ।।
  (63) द्रव्यगुणकर्मसामान्यविशेषसमवायलक्षणाः पदार्था न पृथग्भूताः । एकस्यैव शक्तयो विलक्षणव्यापारानुमेया इति ता यथायथमुपगतसमन्वयाः प्रावरणाद्यर्थक्रियाकारिण्य इत्यस्मिन् मते सर्वत्रैव जातिव्यक्तिप्रविभागः कल्पितः
`सत्यासत्यौ तु यौ भागौ' (verse 32 infra)
इत्यत्र वक्ष्यमाण इति नाकाशादीनामपि कश्चिद्विशेष इत्यर्थः । यथा हि वैशेषिकाणां व्यतिरिक्तं सामान्यम्,नैवमिह, केवलं विश्वमूर्तेः पदार्थस्य शक्तिमात्रम् । न केवलं सामान्यमेव, यावद् द्रव्यादयोऽपीति प्रसङ्गात्कथितम् । भेदाभ्युपगमेऽपि द्रव्यादीनां संसृष्टानामर्थकारित्वे वरमेकमेव शक्तिमदस्त्वित्यर्थः ।। 23 ।।
 (64) तत्रैतत्स्यात् संसृष्टानां साधनत्वे तासामसामर्थ्यम्, संसर्गस्यैव तथात्वात्, तस्य च व्यतिरेके द्वैतापत्तिरित्याशङ्क्याह--
यथैव चेन्द्रियादीनामात्मभूता समग्रता ।
तथा संबन्धिसंबन्धसंसर्गेऽपि प्रतीयते ।। 24 ।।
 (65) चक्षूरूपालोकमनस्कारा आत्ममनइन्द्रियार्था वा परस्पराहितविशेषाः संघटिता विज्ञानहेतवोऽन्वयव्यतिरेकाभ्यां दृष्टा इति नेयमेभ्यः सामग्री नाम पदार्थान्तरं जनिका । अत एव हि सामग्रीजनकाः सामग्रीशब्दवाच्याः, वस्त्वन्तरस्यानुपलब्धेः । एवमेकेन संबन्धिना सर्वशक्तीनामाधारभूतत्वेन प्रकृतत्वात्संबन्धो द्रव्यादिशक्तीनाम् । ततो य एकस्मादाधारादव्यतिरेकात्संसर्गो रूपसंमूर्च्छनं तस्मिन्नपि संसर्गे सति पुरुषार्थसाधके स्वभावभूता समग्रता विज्ञायते । तत्रापि हि आत्मभूता एव न्यायायाता, द्रव्यमात्रेण गुणादिसंसर्गरहितेन द्रव्यव्यवहाराभावात् । एवं गुणादिमात्रेणेत्यवश्यंभाविनः संसर्गस्य द्रव्यादिभ्यो विवेकानवधारणात् तत्स्वभावतैव । क्वचित्पाठः--तथा संबन्धिसंबन्धसंसर्गोऽपि प्रतीयते इति । तत्रापि संबन्धिना सर्वशक्‌त्याधारेण, संबध्यन्त इति संबन्धाः द्रव्यादिशक्तयः, तासां संबन्धानां शक्तीनामन्योन्यसंसर्गोऽप्यात्मभूत एवेति व्याख्या । यद्वा सर्वशक्तेः पदार्थस्य संबन्धिनीनां शक्तीनां संसर्गेऽपि संसर्गावस्थायामपि तथैवासौ संबन्धः, आत्मभूत एवासौ संसर्ग इत्यर्थः । चित्सामान्यानुगमाच्च विश्वस्य प्रमाणसिद्धोऽभेद इति प्रथमकाण्ड एव निर्णीतम् ।। 24 ।।
  (66) तदेवं यथादर्शनं जातिः शब्देन प्रतिपाद्यते इत्युपपादितम् । सा च नित्येति नित्यः शब्दार्थः । तथा च
"नित्यावेवोपवर्णितौ"
इत्युक्तम् । तत्र जातेर्नित्यत्वे कार्योपयोगमाह--
न तदुत्पद्यते किञ्चिद्यस्य जातिर्न विद्यते ।
आत्माभिव्यक्तये जातिः कारणानां प्रयोजिका ।। 25 ।।
  (67) व्यक्‌त्यधीना जात्यभिव्यक्तिरिति स्वाश्रयकारणानां प्रयोजककर्तृत्वमिवावलम्बते जातिः । सदा सन्निहिता कार्योत्पत्तौ कारणानां सहकारिणीत्यर्थः । निमित्तकारणत्वाद्वैशेषिकदर्शने जातीनामेषोऽर्थः प्रयोजकपदेन भङ्ग्याभिहितः ।। 25 ।।
  (68) ननु कारणेष्वसन्निधानात्कथं तेषां प्रयोजिकेत्याह--
कारणेषु पदं कृत्वा नित्यानित्येषु जातयः ।
क्वचित्कार्येष्वभिव्यक्तिमुपयान्ति पुनः पुनः ।। 26 ।।
  (69) सर्वगतत्वाज्जातीनां कारणेषु अपि सन्निधानात्पदबन्धः । तथा च जात्यात्मना कारणेषु कार्याणामवस्थानाज्जातिरूपोपरागेण तदवसायात् तत्र साधनानां प्रवृत्तौ कार्यारम्भे तत्समवेतजात्यभिव्यक्तिरसकृदाश्रयोपलब्धौ भवति । नित्याः परमाणवः कारणानि, दर्शनान्तरे वा प्रधानपुरुषादयः । अनित्या वीरणादयः । `क्वचित्' इति । दृश्येषु किञ्चित् किल कार्यं जात्याश्रयं निष्पन्नमप्यदृश्यं यथा वायुर्द्रव्यमिति । तत्र हि तज्जात्यभिव्यक्तिर्नास्ति ।। 26 ।।
इत्थं च कृत्वा प्राक् प्रभवादपि जातेर्विद्यमानत्वान्नित्यत्वं पोषितम् । तथा च जातिपदार्थनयेऽत्र जातेरुपयोगं दर्शयति--
निर्वर्त्त्यमानं यत्कर्म जातिस्तत्रापि साधनम् ।
स्वाश्रयस्याभिनिष्पत्तौ सा क्रियाणां प्रयोजिका ।। 27 ।।
 (70) घटं करोतीति कथमसतो निर्वर्त्त्यमानस्य क्रियायां साधनभावः कर्मण इत्येतदत्र चोद्यं नावतरति । जातेः सत्त्वात् स्वाश्रयनिर्वर्त्तनाय क्रियां प्रत्युक्तेन कारणपदबन्धन्यायेन प्रयोजकत्वादिति जातिरूपाश्रयेण च साधनता, व्यक्तिरूपाश्रयेण च कर्मता, निर्वर्त्त्यत इति कारकं कर्मेति सामानाधिकरण्योपपत्तिः । न हि जातिव्यक्ती अत्यन्तभिन्ने गवाश्ववत्, संमूर्च्छितस्वभावत्वादित्युभयरूपाश्रयो व्यपदेशोऽविरुद्धः । प्राप्यविकार्ययोस्तु कर्मणोस्सत्त्वात् स्वत एव साधनतोपपत्तिरिति `निर्वर्त्त्यमानम्' इति विशेषमाह । जात्यात्मना च निरूप्य वस्तु कारणेषु योग्येषु प्रवर्तन्ते तदर्थिनः इति `प्रयोजिका' इत्युच्यते । एतच्च जात्यभिधानपक्षे संभवति घटशब्देन जातेरभिधानात् । व्यक्तिपदार्थपक्षे तु उपचारसत्ताश्रयं साधनत्वं वक्ष्यति--
व्यक्तौ पदार्थे शब्दार्जन्यमानस्य कर्मणः ।
साधनत्वं तथा सिद्धं बुद्धिरूपप्रकल्पितम् ।। (Vak.III.सा.7)
इति । कारणानां प्रयोजिका जातिरितियुक्तम् । तथा च जातिपदार्थपक्षे न द्रव्यस्य क्रियासाधनत्वम्, अपि तु सैव विधिप्रतिषेधयोः साधनं जातिरित्याह--
विधौ वा प्रतिषेधे वा ब्राह्मणत्वादि साधनम् ।
व्यक्‌त्याश्रिताश्रिता जातेः संख्याजातिर्विशेषिका ।। 28 ।।
  (71) जातेः पदार्थत्वे तत्र विधौ चोदिते प्रतिव्यक्तिपरिसमाप्तत्वात्तस्याः सकृदनुष्ठानेऽपि कृतः शास्त्रार्थो `ब्राह्मणमालभेत' इति । एवं `ब्राह्मणं न हन्यात्' इत्यादिरपि प्रतिषेधो जातावेव । सकृदनुश्ठनेऽपि च पुनरुल्लङ्घने चोदितस्य दोषः । तथा हि--अहननं चोदितम्, हननं तु क्वचिदनुष्ठितमिति विरुद्धक्रियाचरणात्प्रत्यवायएव । क्वचित्तु विध्यनुष्ठानेऽन्यत्र तदभावेऽपि न विरोधः । तथा चाहुः--
नाकारणानि विधिं बाधन्ते प्रतिषेधस्तु क्रियां निर्वर्तयति'
इति । तस्माद्यदा यदा हननबुद्धिरुत्पद्यते तदा तदा प्रतिषेधः सर्वत्र ब्राह्मणजातौ व्याप्रियते । अत्र च जात्यवच्छिन्नकर्तव्यताप्रतिषेधावभासस्य सङ्कल्पस्यानुष्ठेयत्वम् । इत्थं प्रवृत्तिनिवृत्तिमये पुरुषार्थे सर्वत्र जातेरुपयोगो दर्शितः । अनुष्ठानस्य प्राधान्यात्तदङ्गम्--
`पराङ्गभूतं सामान्यं युज्यते द्रव्यसंख्यया' (III.जा.82).
इति वक्ष्यमाणन्यायेन । सङ्ख्याविवक्षामत्राह "व्यक्‌त्याश्रिता" इति । व्यक्तिं द्रव्यमाश्रिता या एकत्वसङ्ख्या तदाधारा या जातिः आश्रयभेदभिन्नेष्वेकत्वगुणेषु प्रत्ययानुवृत्तिनिमित्तं सा प्रातिपदिकवाच्यां द्रव्यजातिकार्थसमवेतसमावायादवच्छिनत्ति । जातेः पदार्थत्वे विभक्तेरपि संख्याजात्यभिधायित्वात् वास्तवेन च रूपेण संख्याजातिर्विशेषिका । शाब्देन तु प्रत्ययार्थस्य प्राधान्याद्विशेष्यासौ । एवं चैकत्वसङ्ख्याया अत्र विवक्षितत्वान्न युगपदनेकव्यक्तिविषयमनुष्ठानं चोदितम् । सत्यपि जातिपदार्थत्वे एकस्यामपि च व्यक्तौ सर्वात्मना परिसमाप्ता जातिरिति न काचित्क्षतिः । कामनाहेतुकश्च विधिरिति सत्यां कामनायां व्यक्‌त्यन्तरेऽप्यनुष्ठानाविरोधः । एवं प्रतिषेधेऽपि हननबुद्धिर्निमित्तमिति तदुत्पत्तौ सर्वत्र तत्प्रवृत्तिः । तदेवं जातेः पदार्थत्वे चोदनासूपपत्तिः । यदाह वाक्यकारः--
`धर्मशास्त्रं च तथा' । (Va.on P.I.2.64)
इति ननु जातिरेव पदार्थ इत्यवधारणानुपपत्तिः, तस्याः स्वाश्रयसमवायावियोगात् । अत एव चासां कार्यसिद्धेः कारणानामाश्रयेषु भाव इत्याश्रयादुत्कर्षयितुमशक्या जातिः केवला कथं शब्देनाभिधीयत इत्याशङ्क्या दृष्टान्तेनैतदुपपादयितुमाह--
यथा जलादिभिर्व्यक्तं मुखमेवाभिधीयते ।
तथा द्रव्यैरभिव्यक्ता जातिरेवाभिधीयते ।। 29 ।।
  (72) प्रतिबिम्बे भावान्तरोत्पत्तिः
       `विरिद्धपरिमाणेषु' (Vak.b.I.100)
इत्यादिना पूर्वं निराकृतेति मुखादिप्रतिनिम्बमादर्शादौ भ्रान्त्यापि दृश्यमानं मुशशब्दाभिधेयमादर्शादिव्यञ्जकरहितं शुद्धम् । एवं शब्दोऽपि जातिं व्यक्तिरहितामभिदधाति । अयमाशयः--आश्रयसमवायावियोगेऽपि सर्वत्राभेदात्सङ्केतोपपत्तौ जातिः शब्दाभिधेया शुद्धा, शाब्दे ज्ञाने तथा प्रतीतेः । ऐन्द्रियके तु ज्ञाने विवेकानवसायाद्भवतु जातिव्यक्‌त्योः ंसमूर्च्छितावभासः । शब्दस्य तु यथाशङ्केतं प्रतीतिहेतुत्वे न काचित्क्षतिः ।। 29 ।।
यद्येवं शब्दादप्रतीयमाना व्यक्‌तयः कथं शब्दज्ञानविषयतया जातीर्विशिष्युरित्याशङ्काह--
यथेन्द्रियगतो भेद इन्द्रियग्रहणादृते ।
इन्द्रियार्थेष्वदृष्टोऽपि ज्ञानभेदाय कल्पते ।। 30 ।।
तथात्मरूपग्रहणात् केषांचिद् व्यक्तयो विना ।
सामान्यज्ञानभेदानामुपयान्ति निमित्तताम् ।। 31 ।।
  (73) शब्दाद्युपलब्ध्यन्यथानुपपत्त्यानुमितसत्वानीन्द्रियाणि नित्यपरोक्षत्वादनुपलभ्यमानस्वगतचक्षुः श्रौत्रादिविशेषाणि शब्दस्पर्शरूपरसगन्धेषु इन्द्रियार्थेषु चाक्षुषादिप्रत्ययविशेषहेतुभावं नियमेन प्रतिपाद्यन्ते । न हि चाक्षुषं ज्ञानं श्रोत्रेन्द्रियकार्यम् । एवमगृह्यमाणस्वभावा व्यक्‌तयः । शब्देनाभिधानवेलायां केषांचिद् एव सामान्यज्ञानभेदानां काश्चन प्रत्यक्षप्रत्ययानामिवोपयान्ति हेतुतां व्यक्तयः । शाब्दे प्रत्यये शब्दार्थभूतानां सामान्यानां वस्तुतः समवायनियमात् विशेषमावेदयन्तीति न साङ्कर्यं शब्दार्थ इत्यर्थः । अगृह्यमाणस्यापि तदानीं व्यक्तिरूपस्यान्यदा प्रत्यक्षकाले गृहीतत्वाद् व्युत्पन्नसंबन्धस्यापि तद्विषयावसायाविरोधात् संप्रत्यगृह्यमाणस्यापि दृष्टं प्रतीतिविशेषहेतुत्वमिति । एतावता साम्येनात्रेन्द्रियाणि दृष्टान्तः । `केषांचित् सामान्यज्ञानभेदानाम्' इत्यर्थात् काश्चनैव व्यक्‌त्यय इति लभ्यते । तदेवं केवलं जात्यभिधानपक्षः समर्थितः । तद्वदभिधाने तु जातिरनभिधीयमानैवोपलक्षणमभेदेन सङ्केतार्थं द्रव्यस्येति तत्रैव क्रियायोगोपलब्धे। शब्दवाच्यत्वम् । यथोक्तम्--
`चोदनासु च तस्यारम्भात्' (Va.on P. 1.2.64)
इति ।। 30,31 ।।
इदानीं यदुक्‌तं प्राक्
`सर्वशक्‌त्यात्मभूतविभागमाह--
सत्यासत्यौ तु यो भावौ प्रतिभावं व्यवस्थितौ ।
सत्यं यत्तत्र सा जातिरसत्या व्यक्तयः स्मृताः ।। 32 ।।
  (74) अविद्याप्रवृत्तिरूपस्य सर्वपदार्थेष्वागमापायिनोऽसत्यत्वाद् व्यक्तिरिति व्यवहारः ।
`तदेव हि सत्यं यस्मिंस्तत्त्वं न विहन्यते' (M.Bh.on Va.1.>(पस्पशाह्निक) इत्यन्वयिरूपं भेदप्रत्ययेष्वबाध्यमानं सत्यं जातिः' इति व्यवहृतमद्वैतिभिः । तद्यथा--रुचकस्वस्तिककुण्डलादयो विकाराः परल्परोपमर्देन भवन्तोऽस्थिरप्रत्ययविषयाः, सुवर्णमित्येव तु सत्यमन्वयिविज्ञानावसेयसतत्त्वम् । एवमभेदान्तरविवक्षायां तेज इत्येव सत्यम् । तत्राप्यभेदस्तत्कारणमित्यन्त्या परा प्रकृतिः सत्या सर्वविकारानुयायिनी प्रशान्तकल्लोला चिदेकघना ब्रह्मेत्यागमविदः । तदुक्तम्--
`पृथिवीधातौ किं सत्यम्, विकल्पः, विकल्पे किं सत्यम्, विज्ञानम्, विज्ञाने किं सत्यम् ऊँ अथ तद्ब्रह्म ।'
इति । प्रतिभावम्' इति । परमतेन वस्तूनां भेदाद्वीप्सा ष चित्सामान्यस्य सर्वत्रानुगमादेव महासत्तारूपमभावप्रतियोगि विश्वस्य जगतः सत्यरूपमवदातदर्शनैः साक्षात्कृत्योपदिष्टम् । प्रमाणं नस्ते भगवन्तः ।। 32 ।।
इत्थं चात्राद्वयनये परमार्थसत्येकैव जातिर्महासत्ताख्या परब्रह्मस्वभावा, तस्या एव गोत्वादिजातिभेदेन विवर्त्ते व्यवहार इत्याह--
सम्बन्धिभेदात्सत्तैव भिद्यमाना गवादिषु ।
जातिरित्युच्यते तस्यां सर्वे शब्दा व्यवस्थिताः ।। 33 ।।
  (75) वक्ष्यमाणैराश्रयादिभिः स्वसंबन्धिभिः भिद्यमाना उपचरितभेदा गवाश्वादिषु सत्तैव महासामान्यमेव जातिः गोत्वाश्वत्वादिका, अपरसामान्यम्, नान्या परमार्थभिन्ना सा विद्यते । तथा हि गोः सत्ता गोत्वम्, नापरमन्वयि प्रतिभासते । एवमश्वस्य सत्ता अश्वत्वमित्यादि वाच्यम् । तस्याम् एव च गवादिभेदभिन्नायां सत्ताख्यायां जातौ सर्वे गवादयो डित्थादयश्च शब्दा वाचकत्वेन व्यवस्थिताः इत्यसाङ्कर्येण नियतोपाधिवशाज्जात्यभिधायिनः सिद्धाः ।। 33 ।।
सर्वशब्दविषयत्वमेवाभिव्यनक्ति--
तां प्रातिपदिकार्थं च धात्वर्थं च प्रचक्षते ।
सा नित्या सा महानात्मा तामाहुस्त्वतलादयः ।। 34 ।।
  (76) सर्वभावेषु सद्रूपं सामान्यमनुगतम् । अभावस्यापि बुद्ध्याकारेण निरूपणात्, महासत्तयानयावियोगात् प्रातिपदिकमात्रवाच्या सत्ता । तदुक्तम्
प्रातिपदिकार्थः सत्ता'
इति धातुभिरपि साधनधीनलब्धजन्मसु क्रियाव्यक्तिषु समवेता यथोपाध्युपगृहीतनानात्वा सत्तैवाभिधेयत्वमापाद्यते । सिद्धसाध्यरूपार्थद्वयात्मना च तस्या एव वृत्तेस्तदपरश्यभावात् सर्वशब्दविषयत्वं सत्तायाः । प्रत्ययभागेनाप्यत्र यथायथं सङ्ख्याकारकाद्युपाधिविशिष्टा सत्तैवाभिधीयते । सा चोदयव्ययरहितत्वात् नित्या, सत्प्रत्ययस्य सर्वदानुवृत्तेः । एते सत्तामात्रस्यात्मनो महतः षड् विशेषपरिणामाः, यत्तत्परं विशेषेभ्यो लिङ्गमात्रं महत्तत्वम्, तस्मिन्नेव सत्तामात्रे महत्यात्मन्यवस्थाय विवृद्धिकाष्ठामनुभवन्ति । प्रतिसंसृज्यमानाश्च तस्मिन्नेव सत्तामात्रे महत्यात्मन्यवस्थाय यत्तन्निःसत्तासत्तं निःसदसदव्यक्तमलिंङ्गं तस्मिन्प्रतियन्तीत्येवं साङ्ख्ये बुद्धितत्त्वं महच्छब्दवाच्यमाद्यं जगत्कारणं निर्दिष्टमित्यतोऽनन्तरस्य विकारग्रामस्य कारणरूपानुगमात्सत्तारूपत्वमविरुद्धमिति सत्तारूपं सर्वं जगदाख्यातं भवतीति सत्ताद्वैतवादः साङ्ख्यनयेनाप्युपबृंहितः । एवं च स्रवशब्दवाच्या सत्ता शब्दप्रवृत्तिनिमित्तभूतेति यथायथं भिन्नोपाधिभावप्रत्ययाभिधेया सैव । नन्वेवं गोत्वमिति प्रकृतिप्रत्ययोरेकार्थताप्रसङ्गः । नैतत् । उपाधिभेदेन सत्ताया भेदात् । प्रातिपदिकेन गवाश्रयायास्तस्या अभिधानम्, प्रत्ययेन तु निष्कृष्टाश्रयस्य सामान्यस्याभिधेत्यदोषः । प्रकृत्यर्थनिमित्तश्च भावप्रत्ययभेदः इति न साङ्कर्यप्रसङ्गः ।। 34 ।।
यदुक्तम्--
`तां प्रातिपदिकार्थं च धात्वर्थं च प्रचक्षते' (Vak.III.जा.34) इति । एतदेवोपपादयितुमाह--
प्राप्तक्रमा विशेषेषु क्रिया सैवाभिधीयते ।
क्रमरूपस्य संहारे तत्सत्त्वमिति कथ्यते ।। 35 ।।
  (77) क्रियावाची धातुः सत्त्ववाचितामेति । गीयते क्रियासत्त्वे च सत्तैव । तथा हि--साधनापरिस्पन्दवशात्क्रियाणां व्यक्तिस्थानीयानां विशेषशब्दवाच्यानां पौर्वापर्ये तद्नतापि जातिस्तथात्वेन प्रितिभासत इति सैव सक्रमा क्रिया सकलधातुविषया । तस्या एवावान्तरो धात्वर्थभेद इत्यनन्तरमेव वक्ष्यते । साधनसम्पर्कहेतुकप्रतायमानरूपापरामर्शे सत्तैव सत्त्वं द्रव्यमित्युच्यत इति सिद्धसाध्यरूपो द्विधा विवर्तः सन्मात्ररूपस्य परस्य ब्रह्मणः प्रतिपादितः । तदेव हि सर्वत्रानुगतम् । न चात्र दर्शने सद्भ्यः सत्ता व्यतिरिक्ता भावत इति सर्वं तन्मयम् । ततश्च सर्वशब्दानां सत्तावचनत्वाज्जातिपदार्थव्याप्तिः । यद्यपि च द्रव्यपदार्थेऽपि ब्रह्मद्रव्यस्याभिधानमुपाधिभेदभिन्नस्य वक्ष्यति तथापि तात्पर्यभेदादवस्थाभेदः । जातिपदार्थे सर्वत्रान्वयिरूपं जात्यात्मना ब्रह्म विवक्षितम् । द्रव्यपदार्थनये तु परिनिष्ठतरूपं परमार्थतयेति दर्शनविकल्पः । अयमेव च पक्षद्वयेऽप्येकपक्षीभावरूपः सिद्धान्तः परमार्थदृष्ट्या । अत्र सर्वपार्षदत्वात्पुनरस्य शास्त्रस्य दर्शनान्तरोपन्यासः । एष च सर्वत्रैवास्य ग्रन्थकारस्याभिप्रायः, पदार्थचर्चाविषये ब्रह्मदर्शननयेनैव संबन्धादिविचारे विनिगमनात् ।। 35 ।।
इदानीं समग्र क्रियाकलापः सत्ताविवर्त एवेति निरुक्तकारमतेन संवादमाह--
सैव भावविकारेषु षडवस्थाः प्रपद्यते ।
क्रमेण शक्तिभिः स्वाभिरेवं प्रत्ययभासते ।। 36 ।।
 (78) `षड् भावविकारा भवन्तीति हि स्माह भगवान् वार्ष्यायणिः'
(Ni.I.2.8)
इति निरुक्तकारः । तत्र च भावस्य परमार्थरूपस्य सत्तात्मकस्य जन्मादयो विकारा इत्यर्थः । सन्मात्रस्वभावा हि सत्तोत्तरोत्तरविकारापत्तौ
`जायतेऽस्ति विपरिणमते वर्धतेऽपक्षीयते विनश्यति'(Ni.I.2.9)
इति व्यपदेशमासादयति । प्रथमतरं च सन्मात्रं रूपमस्तिशब्देन नाभिधीयते अपि तु जन्मोत्तरकालभावी तस्या अवस्थाविशेषः । जन्मानन्तरभावि हि रूपं तस्या लोके सदिति व्यवहार्यम् । ततः प्राक्पश्चाद्भविन्यः पुनरवस्था जन्मविपरिणामादिरूपेण व्यवहार्याः । तथा हि--स्वशक्तिमाहात्म्यात्पूर्वं जायत इत्यवसीयते पश्चादस्तीति । अवस्थितस्य विकारापत्तिरिति विपरिणमते । तच्च विपरिणमन्मुहूर्तमपि नावतिष्ठते इति वर्धते यावदनेन वर्धितव्यम्, ततोऽपक्षीयते मुहूर्तमप्यनवस्थानादेव । अत एवोक्तं--
`ततोऽपायेन युज्यते'(M.Bh.on.P.I.1.4.51)
इति । ततोऽपि विनाश इत्येवं क्रमस्थितिः । एवंभूतास्तस्याः काश्चन शक्तयो विद्यन्ते येनैकैव सती तथा तथा विचित्रेण रूपेण प्रतिभासते । न च परिणति दर्शनाभिप्रायेणायं विकारशब्दः, अनित्यत्वप्रसङ्गात्, अपि तु विवर्त्तपर्यायोऽयम् । तथा हि--सर्वशक्‌त्यात्मभूतत्वाद्ब्रह्मणोऽनेकविकारप्रदर्शनसामर्थ्यलक्षणा अविद्याख्या शक्तिः कार्यभेदादुपचरितनानात्वा समस्तीत्यागमविदः । इत्थं च स्वाभिरेव शक्तिभिरव्यतिरिक्ताभिर्जन्मादिरूपतया अविद्यायामाभासते । तदेव ब्रह्म सर्वभावेषु समानरूपं सत्तात्मकमन्यस्य तव्द्यतिरिक्तस्याभावादित्येषोऽत्रार्थः ।। 36 ।।
यदि तर्हि स्वशक्तिमाहात्म्याज्जन्मादिरूपतया सत्तैवावभासते कथं न युगपदवभासः । क्रमेणेति कथम् ? न हि क्रमो नाम कश्चित्क्रियाविशेष इत्याशङ्क्य कालाख्यापि शक्तिर्ब्रह्मण एवेत्याह--
आत्मभूतः क्रमोऽप्यस्या यत्रेदं कालदर्शनम् ।
पौर्वापर्यादिरूपेण प्रविभक्तमिव स्थितम् ।। 37 ।।
 (79) योऽयं क्रियाणां क्रमः सोऽपि आत्मभूतोऽस्याः सत्तायाः । न केवलं ताः क्रिया एव, क्रमवद्भयो व्यतिरिक्तस्य क्रमस्यासञ्चेतनात् । यत्र क्रमे इदं कालदर्शनम्, कालं नाम पदार्थान्तरं तीर्थिकाः पश्यन्ति पौर्वापर्यादिरूपेण प्रविभक्तम् । कालस्य प्रविभक्तत्वाद्दर्शनमपि प्रविभक्तमित्युक्तम् । तात्पर्येण तु कालः पौर्वापर्यादिरूपेण प्रविभक्त इव क्रियोपाधिवशात् । क्रमाख्य हि कालशक्तिः ब्रह्मणो जन्मवत्सु पदार्थेषु जन्मादिक्रियाद्वारकमेव पौर्वापर्येणावभासोपगमविधायिनी नापरो द्रव्यभूतः काल इति
`अध्याहितकलां यस्य कालशक्तिमुपाश्रिताः ।
जन्मादयो विकाराः षड् भावभेदस्य योनयः ।। (Vak.I.3)
इत्यत्र शब्दप्रभायां निर्णीतोऽयमर्थः ।। 37 ।।
ननु च जन्मनाशावस्तुत्वात्कथं सत्तात्मकौ स्यातामित्याशङ्क्य नाशस्य तावत्सत्तात्मकत्वमुपपादयति--
तिरोभावाभ्युपगमे भावानां सैव नास्तिता ।
लब्धक्रमे तिरोभावे नश्यतीति प्रतीयते ।। 38 ।।
 (80) ्नपायोपजनविकारित्वान्नित्या ब्रह्मात्मिका सत्ता निरन्वयविनाशासहेत्यभावो नाम न भावाव्द्यतिरिक्तः । केवलं प्रागूर्ध्वं च तिरोभावमात्रं भावावभासस्य यदस्माभिरभ्युपगम्यते सैव नास्तिता कथ्यते । सत्तैव तिरोभूता स्वकारणेषु शक्तिरूपतयावस्थिता वस्तूनां नाशो न तु निरूपाख्योऽसौ । समस्तेषु च भावेषु तिरोभूतेषूपसंहृतक्रमः सिद्धरूपः `तिरोभावो नाश' इत्यादिनामपदप्रत्याय्यः। यदा तु सैव नास्तिता तिरोभावावस्थारूपा साधनसम्पर्कवशात्प्रतायमानस्वभावा विवक्षिता तदाख्यातपदप्रत्याय्या । पूर्वावस्था `अपक्षीयते' इत्युच्यते, तदुत्तरा तु `विनश्यति' इति द्वौ भावविकारौ प्रातिलोम्यपरिणामलक्षणौ । तत्र च भवनधर्मणो भावस्याभवनविरोधात्तिरोभावामात्रं विनाशः ।। 38 ।। एवं सत्ताप्रतियोगिनोऽपि प्रथमं तद्विकारत्वमवस्थाप्य जन्मनस्तद्विकारत्वं व्याचष्टे--
पूर्वस्मात्प्रच्युता धर्मादप्राप्ता चोत्तरं पदम् ।
तदन्तराले भेदानामाश्रयाज्जन्म कथ्यते ।। 39 ।।
 (81) कारणे शक्तिरूपेणावस्थानाख्यात्पूर्वधर्मात्प्रच्युता, धर्मान्तराभिव्यक्तिगुणां निष्ठाम् अप्राप्ता सत्ता, गृहीतक्रमा कार्याभिमुखोत्तरोत्तरावस्थाविशेषमासादयन्ती जायत इति व्यपदिश्यते, न त्वसत एवोत्पादो जन्म । तद्यथा न सतोऽत्यन्तं विनाशः तथा जन्मापि नाभूतपूर्वस्याविर्भावः । एतच्च
`नाभावो जायते भावो नैति भावोऽनुपाख्यताम्' (Vak.III.सं.61)
इत्यादिना प्रकटयिष्यति । अत एव चावस्थामात्रत्वात्कार्यकारणयोरभेदाद्यथाविवक्षं जनिक्रियाकर्तृत्वोपपत्तिः `अङ्कुरो जायते' इत्यादौ । एतच्च निपुणतरं कारकसमुद्देशे वक्ष्यते । पूर्वापरावस्थान्तरालवर्त्तिक्षणपरम्पराक्रमविवक्षायां च जनिक्रियान्वयोन परिनिष्ठावस्थायाम् । तथा च वक्ष्यति--
`पूर्ववस्थामविजहत्संस्पृशन् धर्ममुत्तरम् ।
संमूर्च्छित इवार्थात्मा जायमानोऽभिधीयते ।। (Vak.III.सा.117)
इति । उत्तरावस्थायाश्च पूर्वावस्थासु समारोपात्कर्तृत्वम् । व्यापृतं हि कारकं निरूपयन्तो जायत इति व्यवहरन्ति । निष्ठायां पुनरस्तीति जन्मोत्तरकाला सत्ता व्यपदिश्यते । ततोऽपि धर्मान्तराविर्भावोन्मुखतायां विपरिणमते । तत्रापि वृद्धौ वर्धत इति जन्मविशेषा एवैतेन पृथगुपात्ताः । तदयमानुलोम्यपरिणामः । तत्रैव च सिद्धरूपतायां द्रव्यता । सिद्धिर्हि निष्पत्तिरिति क्रिया पूर्वभाविनी नात्यन्तमर्थान्तरभूता ।। 39 ।।
अथ यदुक्तम्--
`संबन्धिभेदात्सत्तैव भिद्यमाना' (Vak.III.जा.33)
इति, तदिदानीं संबन्धिनः प्रदर्शयितुमाह--
आश्रयः स्वात्ममात्रा वा भावा वा व्यतिरेकिणः ।
स्वशक्तयो वा सत्ताया भेददर्शनहेतवः ।। 40 ।।
  (82) क्रियाद्रव्ययोः सत्तात्मकत्वप्रतिपादनात् तव्द्यतिरेकेण वस्त्वन्तराभावाद् यद्यपि सर्वं सत्तात्मकपरब्रह्ममयम्, तथापि व्यवहारेऽविद्याप्रवृत्तिरूपे यथावभासंभेदस्यासत्यस्यानपह्नवनीयत्वाद् द्रव्यादिसत्ताश्रयः प्रविभागोऽयमविरुद्धः । तत्र आश्रयः सत्तायाः स्वाधारः व्यञ्जकत्वात्, भेददर्शनस्य भेदावभासस्य न तु भेदस्यैव स्वतोऽभेदात् हेतुः । तद्यथा--एकमपि मुखं तैलोदकादर्शमणिकृपाणादावनेकरूपमवभासते । एवं व्यञ्जकानां गवादीनां भेदात्सत्ता गोत्वाश्वत्वादिरूपतयावभासत इत्यर्थः । स्वात्मीया वा मात्राः कलाः परिकल्पिता भागा अंशा गोत्वादिसामान्यविशेषाः परिच्छिन्नविषयाः सर्वविषयायाः सत्तायाः विच्छिन्नावभासतां दर्शयन्ति, येनु तैरेव सा विच्छिन्नेवाविच्छिन्नाप्यवभासते । ते चाश्रयभेदादेव ततः परिकल्पितभेदाः । तथा च--
`सामान्यान्यभिधीयन्ते सत्ता वा तैर्विशेषिता'
इति गोत्वादिभिः सत्ताभेदं वक्ष्यति । दृष्टश्च स्वांशैरेव परिकल्पितैर्भेदावभासः । तद्यथावयविनः । आत्मा परोऽपि संभवति कल्पनानिर्मितेन भेदेनेति स्वग्रहणेन विशेष्यते स्वश्चासावात्मा चेति । दृष्टश्च काल्पनिको भेदः यथा हन्त्यात्मानमात्मना' इति । न ह्यात्मव्यतिरिक्तो हन्ता कश्चित् प्रत्यवभासते । अर्थान्तरत्वेनावभासमाना वा देैशरावेन्द्रियादयो भेददर्शनहेतवः सत्तायाः । इहेदानीमिदमन्यत्रान्यदान्यदिति देशादिनिमित्तोवस्तुभेदः । तथा देशासत्तिविप्रकर्षकृतोऽन्यथावभासो वस्तूनाम् । यथाहुः--
`दूरे यथा वा मरुषु महानल्पोऽपि दृश्यते' ।
इति । तथा रात्रौ नीलोत्पलानामन्यथावभासः, अन्यथाहनीति कालकृतो भेदः । तथा काचकामलाद्युपहतनयनानां शुक्ले शङ्खे पीतावभास इति इन्द्रियनिमित्तो भेदः । देशादावपि च सत्तायाः संबन्धिनोऽन्ये भेदका इति विषयभेदान्नेतरेतराश्रयता । तथा चायमत्र परमार्थः--आत्मीया एव शक्तयो योग्यताख्यास्सत्तायास्तथाविधाः सन्ति याभिर्विश्वप्रपञ्चं रचयति । तद्यथा चिन्तामणिरर्थिनां यथाशयमाकारनानात्वमुद्दर्शयति तथानन्तशक्ति सन्मात्रं ब्रह्म अविद्याविलसितसहं सांसारिकप्रमातृविषये नानारूपं चकास्तीत्यन्ते वस्तुसतत्त्वमुद्धाटितम् ।। 40 ।।
इत्थं च दर्शनान्तरोपन्यासपूर्वकं स्वदर्शने जातिपदार्थव्यवस्थामुपपाद्य व्यवहारे भिन्नाया गोत्वादिजातेर्यथासंभवं स्वगतो धर्मश्चर्च्यते--
पृथिव्यादिष्वभिव्यक्तौ न संस्थानमपेक्षते ।
अनुच्छिन्नाश्रयाज्जातिरनित्येऽप्याश्रये स्थिता ।। 41 ।।
  (83) पृथिवीत्वाप्त्वतेस्त्वादयो जातिविशेषाः प्रतिनियतावयवरचनानपेक्षा एव महति परिमिते चाश्रयेऽभिव्यक्तिमासादयन्ति । तथा हि--लोष्टोऽपि पृथिवीरूपेण प्रतीयते, मृत्समूहोऽपि घटोऽपि पर्वतौऽपीत्यादि । एवं समुद्रोऽपि बिंदुरपि चोदकत्वेन प्रतीयत इत्यादि वाच्यम् । क्वचित्तु गोत्वादिका सालत्वतालत्वादिका च जातिः संस्थानमभिल्यक्तौ नियतमपेक्षत एवेत्यर्थादुक्तं भवति । तथा समवेतत्वेऽपि न गुणवदाश्रयविनाशाज्जातिर्विनश्यति । घटादौ गुणा ह्याश्रयप्रतिबद्धोदयाः युक्तं यदाश्रयविनाशमनु विनश्येयुः । जातीनां त्वाश्रयप्रतिबद्धो नात्मलाभः । केवलं प्रतीतावाश्रयमपेक्षन्ते ताः । एकव्यक्तिविनाशेऽपि च तदन्यत्रानुगतसंविदन्यथानुपपत्तेरनुमितिसद्भावाज्जातिः समवस्थितैवेति अनुच्छिन्नाश्रयात् आश्रयादुच्छेदोऽस्या नायाति, आश्रयोऽस्या नोच्छेदहेतुरित्यर्थः । आश्रयश्च विनश्यन्नुच्छेदहेतुः संभाव्यत इति नाश्रयविनाशादस्या विनाश इत्यर्थः । तृतीयार्थे वा पञ्चमी । आश्रयेण सह न विनश्यतीत्यर्थः ।। 41 ।।
ननु महाप्रलये नित्यानां सर्वेषां विनाशादाश्रयाभावे कथं जातयोऽवतिष्ठेरन् इत्याह--
अनुच्छेद्याश्रयामेके सर्वा जातिं प्रचक्षते ।
न यौगपद्यं प्रलये सर्वस्येति व्यवस्थिताः ।। 42 ।।
 (84) एके इति । य आधारं विना तासामवस्थानमन्ते नेच्छन्ति त आश्रयोच्छेदो नास्त्येवेत्याहुः । तथा हि--
इति वद्न्तो महाप्रलयस्याभावमिच्छन्तः परमाणुत्वादिजातिवद् घटत्वादिजातीनामाश्रयोऽनुच्छेद्यः सर्वथोच्छेत्तुमशक्य इत्याहुः । तथा च सदैव व्यवस्थिता जातयः कस्यचिदाश्रयस्यापायेऽप्यपराश्रयवृत्तित्वादिति नित्यत्वसिद्धिः । अथवा पृथिव्यादौ विनष्टेऽपि पार्थिवादिपरमाणुषु पृथिवीत्वादयो विश्राम्यन्ति, तद्गतेषु च रूपादिषु, रूपत्वादयः । आदिसर्गवत् युगपत्सर्वभावप्रलयो नास्तीत्यस्मिन्मते व्यवस्थिता एक इति समन्वयः । एवं एकस्मिन्नपि ब्रह्माण्डे युगपत्सर्वभावानां प्रलयो नास्तीति दर्शनाश्रयेणोक्तम् । यद्वा ब्रह्राण्डान्तरे विनष्टेऽपि ब्रह्माण्डान्तरस्य संभवाद्युगपत्प्रलयो नास्ति । तथा चाहुः--
अण्डानामीदृशानां तु परिसंख्या न विद्यते ।
इति ।। 42 ।।
ये तर्हि महाप्रलयमिच्छन्ति तन्मते कथमित्याह--
प्रकृतौ प्रविलीनेषु भेदेष्वेकत्वदर्शिनाम् ।
द्रव्यसत्त्लं प्रपद्यन्ते स्वाश्रया एव जातयः ।। 43 ।।
 (85) एकत्वमभेदं मूलप्रकृत्या प्रधानेन सह परब्रह्मणा वा ये पश्यन्ति जगतः, तेषां मते सर्वथा भावप्रपञ्चस्य निरन्वयविध्वंसाभावान्महासामान्यरूपे तत्र परस्मिन्मूलकारणे प्रविलयमात्रं महाप्रलय इति शक्तिरूपेषु पदार्थेषु यथायथं स्वजातियोगस्तदानीमविरुद्ध एवेति द्रव्यात्मना जातीनां तदानीमरि सत्त्वम्, द्रव्यादर्थान्तराभावात् । अत एव सत्त्वमित्येव वक्तव्ये द्रव्यग्रहणं द्रव्यादभिन्नत्वं बोधयितुम् । यद्वा-द्रव्यं मूलकारणम्, तत्र सत्त्वं तस्य वा यत्सत्त्वम्, कारणसत्तामवलम्बत इत्यर्थः । अद्वैतिनां हि कारणमेवानुगतं सामान्यम् । द्रव्यशब्दो वा वस्तुपर्यायः । तेन द्रव्यसत्त्वं वस्तुन एव विद्यमानत्वं मुख्यं सत्त्वम्, न तूपचरितं साधारणमेव, शक्तिरूपतयावस्थानादित्यर्थः । वैशेषिकदर्शने तु निराधारा एव घटत्वादिजातयो महाप्रलय आसते । न हि गुरुत्वादधःपतनमासां मा भूदित्याधारः, अभिव्यक्तिमात्रे तस्योपयोगात् । तदानीं चानभिव्यक्ता एव आसताम् , को विरोधः ?। शास्त्रकारस्तु स्वसिद्धान्तेनैव निगमितवान् ।। 43 ।।
एवं व्यक्तिसर्वगतत्वं सामान्यानामाश्रित्योक्तम् । इदानीं सर्वसर्वगतत्वनयेनाप्याह--
ब्राह्मणात्वादयो भावाः सर्वप्राणिष्ववस्थिताः ।
अभिव्यक्ताः स्वकार्याणां साधका इत्यापि स्मृतिः ।। 44 ।।
  (86) भवन्ति सर्वत्रेति भावाः ब्राह्मणत्वक्षत्रियत्वादयः सामान्यविशेषाः । ते प्राणिषु पिण्डेषु क्षत्रियादिष्ववस्थितत्वात्सर्वगताः । तथापि च `ब्राह्मणमालभेत' इत्यादौ न सांकर्यप्रसङ्गः, यस्मात्सर्वहतत्वेऽपि प्रतिनियताभिव्यञ्जकव्यङ्ग्या इति प्रतीतस्य क्रियाङ्गत्वात् यत्रैवाभिव्यक्तिमासादयन्त्युपदेशादिना व्यञ्जकेन तत्रैव स्वकार्यसम्पादका इत्यविच्छिन्नाहमपारम्पर्येण स्मर्यते । यथा सर्वगतत्वं पारम्पर्यागतं तथा प्रतिनियतव्यञ्जकव्यङ्ग्यत्वमपीत्यर्थः ।। 44 ।।
एवं च प्रलये घटत्वादिजातयः परमाण्वादिष्ववस्थिता इति प्रकरणसामर्थ्यादुक्तं भवति । आदिग्रहणेन ह्यचेतनजातीनामपि सर्वगतत्वमत्र विवक्षितम्, चेतनजातयोऽप्यचेतनेष्ववस्थिता इति पूर्णं सर्वगतत्वमाह--
चित्रादिष्वप्यभिव्यक्तिर्जातीनां कैश्चीदिष्यते ।
प्राण्याश्रितास्तु ताः प्राप्तौ निमित्तं पुण्यपापयोः ।। 45 ।।
  (87) आलेख्यनिर्मिते पुस्तकर्मणा दार्वादिना वा कृतेऽपि ब्राह्मणे सादृश्यात्तदाकारानुकारप्रत्ययोदय इति तत्रापि तज्जातिप्रकाशः । प्राण्युपघातात्पुनरधर्म इति चित्रस्थोपघाते तदभावः । एवं धर्मोऽपि चित्रस्थब्राह्मणपूजायां न भवति । कैश्चिद् इति वचनादत्रारुचिं सूचयति किल । मुख्यसादृश्यात्प्रतिकृतिषु प्रत्ययानुगमोपपत्तिर्न तु तद्वशाज्जातिसमवाय इति युक्तम । तदेव पूर्वं
`निर्वत्त्यमानं यत्कर्म' (Vak.III.जा.27)
इत्यादिना प्राक् प्रभवनादपि जातेः सद्भावान्नित्यत्वमुपपादितम् । इदानीं पुनराश्रयध्वंसेऽप्यवस्थानादिति पूर्वापरकोटिगामित्वात् प्राक्प्रघवंसाभावाभ्यामयोगात्परिपूर्णस्य नित्यत्वस्य सिद्धिः ।। 45 ।।
नन्वविदितशब्दार्थसंबन्धस्यान्येभ्यो व्यावृत्तं गोष्वनुगतं रूपं गौर्गौरिति न प्रतिभासते । यदि च ताभिर्व्यक्तिभिरभिव्यक्तं तत्सामान्यं कथं तत्प्रत्ययो न स्यात् । अथान्येभ्योऽव्युत्पन्नः प्रतिपत्स्यते तेऽपि कुत इति साक्षाद्दर्शिनं सर्वज्ञं द्रष्टारमन्तरेणान्धपरम्परा प्रसज्यते । सर्वत्र च शब्दार्थसंबन्धेऽन्धपरम्पराया एव वृद्धव्यवहार इति नाम कृतं स्यात्, निर्मूलत्वात् । ब्राह्मणत्वादीनां रूपव्यञ्जनसादृश्याद् बालमूकादिज्ञानसदृशोऽप्यसौ गोत्वादीनामिवावृत्तव्यावृत्तरूपावभासो नास्तीत्यवश्यमेव सर्वज्ञोऽभ्युपगन्तव्य इति मन्यमान आह--
ज्ञानं त्वस्मद्विशिष्टानां तासु सर्वेन्द्रियं विदुः ।
अभ्यासान्मणिरूप्यादिविशेषेष्विव तद्विदाम् ।। 46 ।।
 (88) अस्मद् इति पञ्चमीबहुवचनम् ।
पञ्चम्या अत् (P.7.1.31)
इत्यदादेशे कृते प्रतिनियतपदार्थदर्शिभ्यो विशिष्टाः सर्वदृश आदिगुरव सन्ति । तथा च पतञ्जलिः--
`स पूर्वेषामपि गुरुः कालेनानवन्छेदात्' (Y.Dar.I.26)
इति । सर्वज्ञानामीश्वरो गुरुरुपदेष्टा । तस्य च बुद्धीन्द्रियदेहानां कालेनानवच्छेदान्नित्यता । अन्यथा प्रलये वृत्ते पुनरुत्पन्नेषु ब्रह्मादिषु क उपदेष्टा स्यात् । ततश्च निःशास्त्रं निरनुष्ठानं विधिनिषेधयोरन्धमूकप्रायं जगत्स्यात् । अथ प्रलयो नैवास्ति, अपि तु
`न कदाचिदनीदृशं जगत्'
इति जैमिनीयाः । तदेतदसत् । सर्वशास्त्रेषु प्रलयस्मृतेः । अथाम्नायस्य क्रियार्थत्वाद्भूतार्थप्रातिपदिकं वाक्यमप्रमाणमित्युच्यते । तथा हि--कार्यपरत्वेनैव वृद्धव्यवहाराच्छब्दार्थसंबन्धव्युत्पत्तिप्रतिपत्तेः `यत्परश्च शब्दस्य शब्दार्थः' इत्याख्यायिकामात्रवर्णने सिद्धार्थाभिधाने प्रयोजनाभावाद्विधिनिषेधचोदनाभावत्कस्यचिदप्यशासनाद् भूतार्थं वाक्यशास्त्रत्वादेन न प्रमाणतामर्हति । प्रवर्तकवाक्याङ्गभानेन तु समन्वयमेति । शास्त्रे स्तावकत्वेन ह्यर्थवादवाक्यानि विधिवाक्याङ्गभावगमनादन्वयभाञ्जि भवन्ति । एवं हि विधिरुपोद्बलितो भवति ।
अत्र ब्रूमः । किमनर्थकानि वर्णवदेवार्थवादवाक्यानि महावाक्ये विधायके कार्यार्थप्रतिपादकेऽङ्गभावमुपयान्ति, आहोस्विदात्मीयः कश्चिदेशामर्थोऽस्ति यत्र प्रतिपत्तिमादधति कार्यपराणि संपद्यन्त इति पक्षद्वयम् । प्रथमः पक्षो न युक्तः । यथायथं सिद्धार्थानां स्वार्थप्रतिपत्तिदर्शनादकिञ्चित्करस्यानर्थकस्य परत्राङ्गभावानुपपत्तेः केवलं सा प्रतिपत्तिः तत्र स्वार्थे प्रमाणभूत अन्यथा वेति विचार्यम् । यत्र बाधः तत्राप्रमाणम् । अबाधे तु प्रमाणमेव । अबाधिता हि संवित् स्वतः प्रमाणमिति जैमिनीयनयः । सर्वज्ञेश्वरदेवतानां च शास्त्रदधिगतानां न किञ्चन बाधकमुत्पश्यामः । ननु च मार्जारादीनां शास्त्रे सार्थकं वचनं श्रूयते । न च तत्र संवादोऽस्तीत्येवमेव सर्वमदृष्टार्थमप्रमाणम् । मैवं वोचः । सर्वज्ञभूतानां वचनस्यागमान्तरेणापि सार्थकत्वस्य संबनादोपलब्धेरबाधितत्वमेव । चर्मचक्षुषः परमेतन्न मन्यन्ते । तथा हि भगवान् पतञ्जलिः--
`शब्दार्थसंयमनात्सर्वभूतरुतज्ञानम्'(Y.Dar.III.17)
आदिदेश । तस्माद्यत्र नास्ति संवादो बाधकमात्रपर्यवसानमर्थवादवाक्ये, तदसत्यार्थप्रतिपादनेनास्तु कार्यमात्रप्रतिपादनपरम् । यत्र तु नास्ति बाधः शास्त्रान्तरेण संवादः तत्प्रमाणमेव । न च तत्र कार्यपरता । सिद्धार्थप्रतिपादनेन पुराणेतिहासवाक्यानां तावत्येव प्रश्नोत्तरयोः समाप्तत्वदर्शनात् तत्परिज्ञानमात्राच्च धर्मोत्पत्त्यभ्युपगमात् । किञ्च ध्येये निर्ज्ञाते ध्यानादिरमुष्ठातुं शक्यते इति निष्प्रयोजनतापि नास्तीश्वरादिप्रतिपादकानां वाक्यानाम् । तथा च शास्त्रम्--
`आत्मा ज्ञातव्यो मन्तव्यो निदिध्यासितव्यः'
इति । पातञ्जलमपि--
`तस्य वाचकः प्रणवः तज्जपस्तदर्थभावनम्, ततः प्रत्यक्चेतनाधिगमोऽन्तरायाभावश्च' (Y.Dar.I.27-29)
इति । स्मृतिकाराणां च मन्वादीनामभ्युपगमो महेन्द्ररुद्रादीनां प्रत्याख्यानमिति पक्षपातऋः । न हि मन्वादयो महर्षयो न सर्वज्ञा वीतरागा वा । रागादिमत्त्वेऽज्ञत्वे वा तेषां कथं तद्वचनं प्रमाणम् ।
"तस्मात्साक्षात्कृतधर्माण ऋषयो बभूवुः तेऽवरेभ्योऽसाक्षात्कृतधर्मभ्य उपदेशेन मन्त्रान्संप्राहुरुपदेशाय ग्लायन्तोऽवरे विल्मग्रहणायेमं ग्रन्थं समाम्नासिषुर्वेदं च वेदाङ्गानि च" (Ni.I.20.2)
इत्यागप्रमाण्यात्सन्ति सर्वज्ञाः, येषामन्धपरम्पराव्युदासार्थमादिगुरुर्भगवान् सर्वशास्त्रप्रवक्ता तैरेव मुनिभिरागम्यते । शास्त्रस्य हि शब्दनित्यत्वेऽपि रचनावत्त्वादीश्वरप्रणीतत्वमेव । तथा च शास्त्रदीश्वरः समधिगम्यते । तस्माच्छास्त्रं प्रवृत्तमिति तस्य शास्त्रं निमित्तम् । शास्त्रं पुनः किन्निमित्तम् ? ईश्वरनिमित्तम् । तदेतयोः शास्त्रोत्कर्षयोरीश्वरसत्त्वे वर्तमानयोरनादिः संबन्ध इत्युक्तम् । तथा च गीतास्वाविष्टमहेश्वरभावेन भगवता कृष्णावतारेणाभिहितम्--
`वेदान्तकृद्वेदविदेव चाहम्'
इति । एवमपि च शास्त्रस्य नित्यत्वे क्षतिर्नास्तीश्वरबुद्धिरूपत्वात्तस्य । ईश्वरस्य नित्यत्वं कालेनानवच्छेदादुक्तमेव । विशिष्टरचनावत एव वेदस्येश्वरबुद्धौ दर्शनात्मनि सदावस्थितत्वमिति स्मृतिवद्यथाकालं मन्वादिवदस्य रचनाकर्तापि नास्तीत्युक्तं ब्रह्मकाण्डे--
`अनादिमव्यवच्छिन्नां श्रुतिमाहुरकर्तृकाम् ।
शिष्टैर्निबध्यमाना तु न व्यवच्छिद्यते स्मृतिः ।।'(Vak.I.100)
इति । तदेवमागमप्रमाण्याद्भावतत्त्वदृशः शिष्टास्सन्त्यतीन्द्रियार्थदर्शिन इति ते यथायथं गोत्वब्राह्मणत्वादिजातीराश्रयविवेकेनाध्यक्षयन्ति । तच्च तेषां शिष्टानां ज्ञानं सर्वेन्द्रियं प्रतिनियमानपेक्षत्वात् । सर्वज्ञा हीन्द्रियान्तरेणापीन्द्रियान्तरव्यापारं कुर्वन्ति । तथा चागमः--
`नदेनीमिन्द्रियैरेव पश्यन्ति, घ्राणतः शब्दं श्रृणोति, पृष्ठतो रूपाणि पश्यति, अप्यङ्गुल्यग्रेण सर्वेन्द्रियार्थानुपलभते'
इति । अथवा न चाक्षुषमेव तेषां विप्रादिजातिविषयं विज्ञानम्, अपि त्विन्द्रियान्तरसंबन्ध्यपि । शब्दादौ सूक्ष्मजातिविशेषावधारणक्षममित्यर्थः । तदेवमागमप्रामाण्यमाश्रित्यसर्वज्ञसिद्धिरत्र सूचिता पूर्वार्धेन । विस्तरेणागमप्रामाण्यं वाक्यपदीयेऽस्माभिः प्रथमकाण्डे शब्दप्रभायां निर्णीतमिति तत एवावधार्यम् । उत्तरार्धेनागमसिद्धे सर्वज्ञेऽत्रानुमानं तदुपोद्बलकमाह--`अभ्यासाद्' इत्यादिना । इहाभ्यासवशाज्ज्ञानैश्वर्यादीनां पुरुषविशेषेष्वतिशयो दृष्टः । यथा वैकटिकानां रत्नतत्त्वपरीक्षायाम्, रूप्यतर्काणां च रूप्यगतातिशयपरिच्छेदे यथाभ्यासं प्रकर्षतारतम्यम् । यच्च सातिशयं दतवश्यं क्वचित्काष्ठाप्राप्तं सम्भाव्यते । यथादित्ये तेजः, दाहकत्वमग्नौ शैत्यमप्सु । तथा ज्ञानैश्वर्यशक्तिबलादयो गुणाः सातिशयाः पुरुषेषु दृष्टाः सर्वज्ञेयव्यापिकाष्ठाप्राप्तमतिशयमावेदयन्तः तत्समुचितमाधारं पूर्णसमस्तसम्पत्कमनुमापयन्त्येव । अतिशय एव हि ज्ञानादीनां तारतम्येन दृश्यमानः सर्वज्ञबीजम् ।
न च यत्राप्यतिशयो दृष्टः स स्वार्थनतिलङ्घनादिति वाच्यम् । स्वार्थस्य स्वाश्रयानुसारेण व्यवस्थापयितुमशक्यत्वात्, आदित्यादौ च प्रकाशकत्वादेः स्वार्थातिलङ्घनेन दृष्टत्वात् । तस्मात्संभावनानुमानेनापि सर्वज्ञसिद्धिरुचिता । तदुक्तम्--
`तत्र निरतिशयं सर्वज्ञबीजम्'(Y.Dar.I.25)
इति । यदेतत्सर्वज्ञबीजं ज्ञानादीनामतिशयलक्षणं तत्तत्र निरतिशयम् । यत्र निरतिशयं स सर्वज्ञ इत्यर्थः । सर्वज्ञग्रहणं चात्रैश्वर्योपलक्षणम्, तेन यत्र निरतिशयमैश्वर्यं स सर्वेश्वरः परमेश्वर इत्यपि सिद्धम्, राजादीनामैश्वर्यतारतम्यदर्शनात् । इत्थं च मूलभूतेश्वरसम्भवात्
`ऋषीणामपि यञ्ज्ञानं तदप्यागमपूर्वकम्' (Vak.I.30)
इत्युक्तम् । परमेश्वरस्तु कालेनानवच्छिन्नः सहजज्ञानैश्वर्यादिधर्मयुक्तः । तस्य चेतन स्याचेतनं जगदिच्छानुविधायि प्रत्यगात्मन इव शरीरमित्युपकार्योपकारकभावसंस्थानविशेषयोगादिज्ञाता स एतन्निर्मिमीत इति बुद्धिमत्कर्तृकमपीदमत्र विश्वं सिद्धमिति स्थितम् । तदेवमागमसिद्धाः सन्त्यस्मद्विशिष्टाः । इन्द्रियप्रतिनियमानपेक्षं च साक्षात्काररूपं तेषां ज्ञानमित्यतीतानागतसूक्ष्मव्यवहिताविप्रकृष्टार्थसतत्त्वदृशो योगिनः सर्वा गोत्वब्राह्मणत्वादिजातीरध्यक्षयन्तः तदुपदेषमसङ्करेणारभन्ते । ब्राह्मणत्वादिष्वस्ति किञ्चित्सास्नादिस्थानीयमुपव्यञ्जनमस्माकं परमतीन्द्रियम् । शिष्टैस्तदवधार्य संज्ञाः प्रणीताः । तदुक्तं--
`प्रत्यक्षपूर्वकं संज्ञाकर्म'
इति । तत्रभवतामुपदेशाद्वयमपि सम्प्रदायपारम्पर्याद्यथायोगं गोत्वादिजातीरध्यवस्यामः । अस्मद्विशिष्टानां चेदं संज्ञाप्रणयनं यथावस्थितशब्दार्थसंबन्धप्रकाशनमात्रं न त्वपूर्वसङ्केतकरणं स्वाभाविकत्वाच्छब्दार्थसंबन्धस्येति शिष्टप्रमाण्यात्सन्ति ब्राह्मणत्वादिजातयो विविक्ता यथायथं भावप्रत्ययाभिधेयाः ।। 46 ।।
तत्रेदं विचार्यते ।
`तामाहुस्त्वतलादयः' (Vak.III.जा.34)
इत्युक्तम्, जातिगन्धत्वम्, उत्पलगन्धत्वम्, मल्लिकागन्धत्वमित्यत्र किं परजातौ गन्धसामान्ये भावप्रत्ययः किं वापरजातावपरसामान्ये विशिष्टाश्रयगन्धसमवायिनीत्याशङ्क्याह--
जात्युत्पलादिगन्धादौ भेदतत्त्वं यदाश्रितम् ।
तद्भावप्रत्ययैर्लोकेऽनित्यत्वान्नाभिधीयते ।। 47 ।।
  (89) इह लौकिके शब्दव्यवहारे विवक्षाधीने यदा जातिगन्धादिशब्दात्समासाद्भावप्रत्ययः क्रियते तदा सामर्थ्ये समासविधानात्तदेव प्रवृत्तिनिमित्तमिति तत्रैव भावप्रत्ययः,
`समासकृत्तद्धितेषु सम्बन्धाभिधानम्'
इति वचनादित्याधाराधेयसम्बन्धः सप्तमीसमासे, तत्पूर्वकः शेषसम्बन्धो वा षष्ठीसमासे तद्वाच्यः । यदा तु गन्धशब्दादेव पूर्वं भावप्रत्ययः पश्चात्समास इति विवक्षा तदा भेदस्य जात्युत्पलाद्याश्रितस्य विशिष्टस्य गन्धस्य यत्तत्त्वं पारमार्थिकं तत्कर्मभूतं यदाश्रितं कर्तृभूतमपरसामान्यं तद्भावप्रत्ययवाच्यं न भवति, अनित्यत्वात्सर्वत्रासन्निधानात् । भेदस्य वा गन्धविशेषस्य तत्त्वं विशिष्टं सामान्यम्, यदाश्रितं समवेतमिति समानाधिकरणे पदे ।
अयमत्रार्थः--यदुत्पलगन्धसमवेतं विशिष्टं सामान्यं न तच्चन्दनगन्धादिव्यक्तौ सन्निहितमिति व्यभिचारादनित्यम्, न तु सामान्यमनित्यं भवति । गन्धशब्दश्चाविशेषेण गन्धमात्रे वर्तत इति गन्धमात्रव्यापिनैवास्य प्रवृत्तिनिमित्तेन भावप्रत्ययाभिधेयेन भवितव्यम् । न चोत्पलगन्धसमवेतं विशिष्टं सामान्यं सर्वगन्धव्यापीति नेदमभिन्नं गन्धशब्दप्रवृत्तिनिमित्तम् । आश्रायविशेषेण तु जातेः गन्धत्वं उत्पलगन्धत्वमिति समवेतसमवायाद्विशेषणे विशिष्टावसायसिद्धिः । न चैवं नास्त्येव सामान्यविशेषः, आश्रयभेदेन गन्धव्यक्तीनां भेदात् शाबलेयत्वादिवदुपरजातियोगोपपत्तेः । तथा च भेदतत्त्वं यदाश्रितम् इत्याह । गुणानामाश्रयभेदाद्भेद इति वक्ष्यत्येव । अस्त्येव चोत्पलगन्धानामन्यतो व्यावृत्तोऽन्वयी प्रत्यय इति तन्निमित्तसामान्यसम्भवः केन वार्यते । अत एव लोक ग्रहणम् । लोकव्यवहारे परं नाभिधीयते । गन्धयुक्तिविदस्त्वभियुक्ताः पश्यन्त्येव विशिष्टं सामान्यम् । समासादपि च भावप्रत्यये सामान्यविशेषसंबन्धस्य समासवाच्यत्वाच्छब्देनाप्रतिपादनादनित्य इति नाभिधीयते ।। 47 ।।
काश्चित्तु ज्जातयोऽसंविज्ञानपदा अपि सन्तीत्याह--
अस्वशब्दाभिधानास्तु नरसिंहादिजातयः ।
सरूपावयवेवान्या तासु श्रुतिरवस्थिता ।। 48 ।।
 (90) नरसिंहगौरखरत्वादिजातयोऽविद्यमानासाधारणवाचकाः । समानं रूपं ययोक्ताववयवौ यस्याः नरसिंह इत्यादि श्रुतेः शब्दस्य सा तत्र वाचिका । एषा हि श्रुतिः नरत्वसिंहत्वजातिविषयनरसिंहशब्दद्वयसादृश्येनावभासमाना नरत्वसिंहत्वजातिप्रतिभामत्रोत्पादयति । न च नरसिंहाभ्यामारब्धो नरसिंहः, अपि तु जात्यन्तरमेवात्र शबलरूपे वस्तुनि समवेतम्, चित्र इव रूपे चित्रत्वमिति तदसाधारणमेषा न शक्नोति प्रत्याययितुम् । भावतश्च निरंशैवेयं श्रुतिरित्यवयवसादृश्यमपि न वास्तवमिति इवशब्दः, सादृश्याभिमानमात्रमत्र परम् । यथा निरंशवाक्यस्थानां पदानामिति भ्रान्त्या नरत्वादिजातौ प्रतिभोत्पादनान्नेयमसाधारणा नरसिंहजातौ श्रुतिः न चान्यापि विद्यत इति अस्वशब्दाभिधान-न विद्यते स्वशब्दः अभिधीयतेऽनेनेत्यभिधानं यस्या इति ।। 48 ।।
तदेवमर्थद्वारेण पदे परीक्ष्यमाणे प्रकृतिभागस्य जात्यर्थतया व्याप्तिमुपपाद्य प्रत्ययभागस्यापि तदुपपादनेन जात्यभिधायितायां प्रकृतिप्रत्यययोस्समभिव्याहारमुपपादयितुमाह--
जात्यवस्थापरिच्छेदे सङ्ख्या सङ्ख्यात्वमेव वा ।
विप्रकर्षेऽपि संसर्गादुपकाराय कल्पते ।। 49 ।।
  (91) द्रव्यजातेः क्रियाजातेश्च सुबन्ततिङ्न्तपदगतप्रकृतिवाच्यायाः स्वाश्रये द्रव्येऽवस्थानं अवस्था समवायः तत्र परिच्छेदः, किमेकत्र द्रव्ये तस्याः समवायो विवक्षितः किं वानेकत्रेत्येवंरूपः । तस्मिन्निर्णीयमाने यथायथं सुप्तिङ्प्रत्ययवाच्या सङ्ख्याजातिरेकार्थसमवेतसमवायात्साक्षात्सम्बन्धाभावेऽप्युपयोगाय संपद्यते । तिङन्तपदवाच्याया अपि सङ्ख्याजातेः क्रियाजात्या स्वाश्रयद्वारेणास्त्येवैकार्थसमवेतसमवायः । जातेर्वा अवस्था रूपभेदः स्वाश्रयविशेषेण संसर्गलक्षणः । शब्दप्रतीतया वा संख्याजात्या सामर्थ्यादाक्षिप्ता सङ्ख्याव्यक्तिरेकार्थसमवायात्प्रकृतिवाच्यां जातिं विशिनष्टि । प्रतीतस्य ह्यवच्छेदकत्वम् । प्रतीतिश्च शब्दादर्थत्सामर्थ्याद्वा भवन्ती न विशिष्यते ।
यद्वा द्रव्यपदार्थपक्षे संख्या व्यक्तिः शब्दवाच्या विशेषणम् । जातिपदार्थपक्षे तु सङ्ख्या जातिरिति विकल्पः । तत्र गौः, पचति, पचत इत्यादौ विशिष्टजातीयो विशिष्टसङ्ख्यावच्छिन्नश्चार्थः प्राधान्येन प्रतीयत इति प्रत्ययार्थस्य विशेषणत्वम् प्रकृत्यर्थस्य च विशेष्यत्वं । तथा च
`क्रियाप्रधानमाख्यातम्'
इत्युपपत्तिः । पचतीत्यादौ साध्यत्वात्प्रकृत्यर्थस्य प्राधान्यात्कारकादिना प्रत्ययार्थेन तस्य विशेषणात् । औपगव इत्यादौ तु प्रकृत्यर्थोपरक्तस्य प्रत्ययार्थस्यापत्यलक्षणस्याभिधानं प्राधान्येनेत्येतद्विषयमेवेदम्
`प्रकृतिप्रत्ययौ प्रत्ययार्थं सह ब्रूतः'
इति । प्रायिकमेतत् । तथा हि--सङ्ख्या प्रकृत्यर्थानुग्रहायेहोक्तेति `गामानय'इत्यादौ तद्विशिष्टस्य प्राधान्यम् ।। 49 ।।
एवं तावत्समान्येन प्रत्ययार्थविशिष्टः प्रकृत्यर्थोऽभिधीयते पदेनेति द्रव्यद्वारेण सम्बन्धाज्जात्योः प्रकृतिप्रत्ययोः समभिव्याहारोपपत्तिरुक्ता । इदानीं क्वचित्तात्पर्यभेदाच्छुतोऽप्यर्थो न विवक्ष्यत इति वाक्यार्थौपयिकत्वं पदार्थस्य विचारयितुमाह--
लक्षणा शब्दसंस्कारे व्यापारः कार्यसिद्धये ।
सङ्ख्याकर्मादिशक्तीनां श्रुतिसाम्येऽपि दृश्यते ।। 50 ।।
  (92) कर्मादयोऽपि शक्तयो विभक्तिवाच्याः सङ्ख्यावदिति तासां संख्याकर्मादिशक्तीनां श्रुतेः शब्दस्य स्ववाचकस्यामादेः साम्येऽपि, द्विविदो व्यापारो वाक्यार्थे । लक्षणा एकः । स च शब्दासंस्कारे शब्दसंस्कारविषये । सङ्ख्याकर्मादिरहितस्य प्रातिपदिकार्थमात्रस्यासम्भवात्
`न केवला प्रकृतिः प्रयोक्तव्या'
इति शब्दसंस्कारार्थं स्वार्थेन प्रकृत्यर्थमनवधारयन्त्यपि विभक्तिः प्रयुज्यते क्वचित् । तद्यथा `ग्रहं सम्मार्ष्टि' इति । कथमत्रैकत्वं न विवक्षितम् ? शब्दसंसकारमात्रफलमेव त्वेकवचनमिति चोद्ये न्यायं वक्ष्यति । इह वस्तुमात्रोपक्षेपः । तथा कर्मादिशक्तीनां शब्दसंस्कारार्थमुपादानेऽविवक्षा । यथा `सक्तून् जुहोति' इति । अत्र हि सक्तुसाधनो होम इत्येतावन्मात्रं विवक्षितम् । हवनक्रियाया अदृष्टार्थत्वेन फलवत्त्वात्प्राधान्यात् क्रियाविषयत्वमात्रेणेप्सिततमा अपि सक्तवः क्रियासमन्वयमात्रे चरितार्थाः । न हि कथं नाम सक्तवो भस्म सम्पद्येरन् इति होमः क्रियते, अपि तु सक्तुसाधनेन तेनादृष्टं सम्पद्यतामिति । यद्येवमदृष्टार्थत्वात्क्रियायाः सक्तवो नैवेप्सिततमा िति नास्त्येवात्र कर्मशक्तिः । तदसत्यास्तस्याः कथमविवक्षा । सतो ह्यविवक्षा शब्दोपात्तस्य न्याय्या । तद्यथा `ग्रहम्' इत्येकत्वस्य, न त्वसतः । न हि `काष्ठानि पचन्ति इत्युक्‌त्वा काष्ठानां कर्मशक्तिरविवक्षितेत्युच्यते, अपि तु करणशक्तिः । सत्यमेतत् । अदृष्टमेव तु न सम्पद्येत यदि सक्तव ईप्सिततमत्वेन नाश्रीयेरन्, अनन्योपायसाध्यत्वादित्यदृष्टार्थत्वसामर्थ्यादेव सक्‌त्वर्थिताभ्युपेतव्या क्रियायाः । तद्यथाराधनस्य देवतार्थता । अदृष्टार्थमेव हि देवताराध्यते इत्यदेवतार्थत्वे तस्यादृष्टार्थत्वमेव हीयेत । एवमिह प्रधानमङ्गं सक्तवोऽदृष्टस्येति भवन्त्येवेप्सिततमाः । अविवक्षितन्तु तदीप्सिततमत्वम्, तावन्मात्रफलत्वेन क्रियाया अनभिसंहितत्वात्, फलान्तरप्रयुक्तत्वाच्च सक्तूनाम् । क्रियाफलत्वस्य न ग्रहाणामिव रूपान्तरेणोपादानादविवक्षितत्वम् । तस्मादीप्सिततमत्वं कारकान्तरापेक्षयासच्चाविवक्षितं च रयाचिदपक्षयात्रेति स्थितम् । क्वचित्तु कार्यसिद्ध्यर्थं सङ्ख्याकर्मादिशक्तीनां व्यापारः कार्यस्य वाक्यार्थभूतायाः क्रियायाः सिद्धिनिमित्तो द्रव्यावच्छेदोपयोगः । सङ्ख्यादिविशेषवता द्रव्येण साध्यमानायाः क्रियायाः प्रतिपादनात् । तद्यथा पशुना यजेतेति । अत्र हि यजिरेकेनापि पशुना अविकलो निष्पद्यत इति विवक्षितैव सा सङ्ख्येति वक्ष्यते न्यायः । कर्मशक्तेश्च विवक्षा `व्रीहीनवहन्ति' इति । व्रीहयो ह्यवघातेन संस्कार्यत्वादीप्सिततमाः न त्ववघातमात्रार्थं कश्चित्प्रवर्तते, अपि तु व्रीह्यर्थम् । तेषामवघा तेन संस्कृतानां पुरोडाशयोग्यस्वभावातिशयप्रतिलम्भेन यज्यङ्गतासिद्धेरित्यवहननक्रियात्राप्रधानम्, संस्कार्या व्रीहय एव प्रधानम्, तण्डुलीकृतानामुत्तरत्रोपयोगात् । स्कतूनां तु भस्मीभूतानामसत्त्वन्नोत्तरत्रोपयोगः ।
तदाहुः--
"भूतभाव्युपयोगं हि द्रव्यं संस्कार्यमिष्यते ।
सक्तवो नोपयोक्ष्यन्ते नोपयुक्ताश्च ते क्वचित् ।।"(Tant.Var.onMi. Su.2.1.4,p.411.Anandasrama Edition).
इति । अवहननक्रिया चात्राप्रधानं वास्तवेन रूपेण कथ्यते । शाब्देन तु रूपेण क्रियैव सम्पाद्यतया चोद्यते सर्वत्रेति सैव प्रधानम् । तथा च तदपेक्षं कर्मणः कारकत्वमत्रेति वाक्यार्थप्रधानभूता क्रियेति क्रियाविवेके विस्तरेणास्माभिरभिहितमिति तत एवावधार्यम् । इत्थं च
`तानि द्वैधं गुणप्रधानभूतानि'
इति भावशब्दानां द्वैविध्यकथनं वास्तवरूपाभिप्रायमवगन्तव्यम् । पूर्वे तु
`लक्षणा शब्दसंस्कारो व्यापारः कार्यसिद्धये'
इति पठन्तो लक्षणा द्रव्योपलक्षणम्, तत्र शब्दसंस्कारमात्रोपयोगिसङ्ख्योपादानमिति तद्विषयत्वाच्छब्दसंस्कारो लक्षणेति सामानाधिकरण्यं व्याचक्षते ।। 50 ।।
इदानीं शब्दसंस्कारे लक्षणाख्यो व्यापारो विभज्यते--
न विना सङ्ख्यया कश्चित्सत्त्वभूतोऽर्थ उच्यते ।
अतः सर्वस्य निर्देशे सङ्ख्या स्यादविवक्षिता ।। 51 ।।
 (93) इदं तदिति सर्वनामप्रत्यवमर्शयोग्यं द्रव्यं सङ्ख्यासमन्वयसहम्, `तस्यापत्यम्' इत्यादौ निर्देशे साक्षान्निर्दिदिक्षितमिति नान्तरीयकत्वान्निर्देशमात्रे
`न केवला प्रकृतिः प्रयोक्तव्या'
इति चरितार्था सङ्ख्या न विवक्ष्यत इत्युत्सर्गः । तदुक्तम्--
`तद्वितार्थनिर्देशे लिङ्गवचनमप्रमाणम्, तस्याविवक्षितत्वात्' (Va.1.on P.4.1.92.)
इति । जातिस्तु द्रव्यस्य द्रव्यान्तराद्विवेकमवगमयितुमुपादीयत इति न तदविवक्षा न्याय्या । सर्वथा विवक्षाभावे प्रकृतिप्रत्ययार्थयोः शब्दप्रयोगस्यैवाभावात् । तथा च प्रकृतिवाच्या सङ्ख्या विवक्ष्यत एवेति हि वक्ष्यति ।। 51 ।।
अस्योत्सर्गस्य केचिद्विशेषमाहुः--
एकत्वं वा बहुत्वं वा केषाञ्चिदविवक्षितम् ।
तद्धि जात्यभिधानाय द्वित्वं तु स्याद्विवक्षितम् ।। 52 ।।
  (94) यज्जातौ न संभवति तव्द्यक्तिगतं पारम्पर्येण व्यवच्छेदकतयावसीयते इति द्रव्यगता सङ्ख्या जातेरवच्छेदिका न्याय्या न तु स्वगता एकत्वबहुत्वलक्षणा । एकत्वं हि जातेरव्यभिचारि बहुत्वम् अप्यातिदेशिकम् । ननु जातेर्नैव सङ्ख्यास्ति, द्रव्यधर्मत्वात्तस्याः । नेह शास्त्रान्तरप्रसिद्धा प्रक्रिया प्रमाणम्, अपि तु स्वकृतान्तः कश्चिदास्थेयः । अस्ति च प्रमाणमेकत्वे । जातेः प्रमाणेनैकत्वविशिष्टाया एव सिद्धेः । तथातिदेशिकं
`जात्याख्यायामेकस्मिन्बहुवचनम्'(P.1.2.58)
इति । जातिपरायां चोदनायामेकत्वबहुत्वे न विवक्ष्यते `ब्राह्मणो न हन्तव्यः', `सुरान पेया', `वृषलैर्न प्रवेष्टव्यम्' । यत्र तु विवक्षा तत्र द्रव्यपरा चोदनेति । द्वित्वं तु न जात्याख्यायां विहितमिति तत्सर्वथा द्रव्याश्रयमेवेति विवक्ष्यते सर्वत्र ।। 52 ।।
तदपि क्वचिन्न विवक्ष्यत इत्याह--
यद्येतौ व्याधितौ स्यातां देयं स्यादिदमौषधम् ।
इत्येवं लक्षणेऽर्थस्य द्वित्वं स्यादविवक्षितम् ।। 53 ।।
  (95) औषधदानविषयभूतव्याधितोपलक्षणार्थस्यैवमनेन प्रकारेण व्याधिं निमित्तत्वेनोपादाय प्रवृत्तस्योपलक्षणस्यैतावित्येवमुपात्तस्य यद्वाच्यं द्वित्वं तदत्राविवक्षितम् । सप्तमी चेयम् । लक्षणे ज्ञापने, अर्थस्यौषधदानविषयस्योपलक्षणे वेत्यर्थः । औषधस्वरूपमहिम्नैवात्र व्याधिविषयतासिद्धेः । तद्दानस्यैताविति व्याधितान्तरनिवृत्त्यर्थमुपादीयमानमेकस्यापि तयोर्मध्यात्संभाव्यमाने व्याध्युद्भवे तदौषधदानस्येष्टेरविवक्षात्र द्वित्वे । सम्भावनाविषयत्वाच्च व्याधिसम्भवस्य यदा द्वयोरपि तत्सम्भवः तदा समुदितावेवौषधदानस्य विषय इति सहविवक्षया चोदनार्थवती । व्याधिप्रतीकारप्रयुक्तं पुनरौषधदानमित्येकस्यापि व्याधितत्वे तत्सम्भवः । बहुषु च प्रकृतेषु एताविति परामर्शस्यानुपपत्तेरविवक्षायामपि द्वित्वस्य बहुषु तदौषधदानाप्रसङ्गः । किञ्चौषधदानेन द्वावनुग्राह्याविति प्रधानेऽत्र सङ्ख्या न विवक्ष्यते । यत्र नु क्रमेणापि द्वयोरेव चोदनार्थप्रतिपत्तिः वक्षौ छेत्तव्याविति तत्र विवक्षैव । इह तु सम्भावनाविषयं व्याधितत्त्वं भविष्यदुत्प्रेक्ष्यचोदनेति क्रमेण युगपद्वा व्याधिसम्भवे तदुपपत्तिः । न हि भविष्यतो नियमेन साहभाव्यं निर्णीयते ।। 53 ।।
तदेवं प्रत्ययोपात्ताया विवक्षिताविवक्षितत्वं वाक्यार्थपर्यालोचनया विषयविभागेन प्रतिपाद्याधुना प्रकृत्युपादानाया एकान्तेनैव विवक्षेत्याह--
एकादिशब्दवाच्यायाः कर्मण्यङ्गत्वमिष्यते ।
सङ्ख्यायाः खनति द्वाभ्यामिति रूपाद्धि साश्रिता ।। 54 ।।
  (96) द्वाभ्यां मन्त्राभ्यां मृदं खनति, `चतुर्भिरादत्ते', `षडभिर्हरति' इत्यत्र प्रवृत्तिनिमित्तभूतायाः प्रातिपदिकवाच्याया व्द्यादिसङ्ख्यायाः क्रियावच्छेदकत्वमभ्युपगम्यते, सा सङ्घ्या विवक्षितैव । अन्यथा शब्दार्थ एव त्यक्तः स्यादिति प्रातिपदिकस्यान्यथानुपपन्नप्रयोगस्य रूपात् स्वभावात्, विशिष्टसङ्ख्याभिधायिनः सामर्थ्यादत्र विवक्षा । रूपशब्दो वा प्रातिपदिकपर्याय इति रूपात् प्रातिपदिकात् न विभक्तेरित्यर्थः, यथा द्विपुत्र इत्यादौ । अत्र हि विभक्तिवाच्यो भेदः समास एकार्थीभावान्निवर्तते । प्रकृतिवाच्यस्त्ववतिष्ठत एव । तदभावे हि शब्दप्रयोग एव निष्फलः स्यात्,ग्रहमित्यादौ तु प्रत्ययः प्रातिपदिकार्थप्रत्यायने साहाय्यं गच्छतीत्यर्थवानित्यत्राविवक्षा युक्ता ।
`यस्योभयं हविरार्त्तिमार्च्छेत् ऐन्द्रं पञ्चशरावमोदनं निर्वपेत्'
(Taitt.Bra.3.7.1.7.8,p.1446)
इत्यत्रावयवद्वयारब्धः सङ्घ उभयशब्दवाच्यो न तु सङ्ख्यावाच्युभयशब्द इत्येकावयवविनाशेऽपि समुदायस्य विनाशान्निर्वापः क्रियत एव ।। 54 ।।
इदानीं यदुक्तं `व्यापारः कार्यसिद्धये' इति तद्विभज्यते । तत्र द्वित्वमेव विवक्ष्यते नैकत्वबहुत्वे इति पूर्वमुक्तम् । अधुना त्वेकत्वमपि क्वचिद्विवक्ष्यत इत्याह--
यजेत पशुनेत्यत्र संस्कारस्यापि सम्भवे ।
यथा जातिस्तथैकत्वं साधनत्वेन गम्यते ।। 55 ।।
  (97) शब्दसंस्कारार्थत्वं यद्यप्यत्र विभक्तेः संभाव्यते तथापि पशुजातेर्यथा प्रातिपदिकवाच्यायाः क्रियाङ्गभावः, `तथैकत्वम्' अपि विभक्तिवाच्यमेकपदोपादानान्न त्यज्यते । जातिवदेकत्वमपि क्रियाङ्गमित्यर्थः । एकपदोपादानो ह्यर्थ एकत्वेन बुद्धौ विपरिवर्तमानः कथं भेदेन `पशुना यजेत', `एकेन च' इति सम्बध्येत । प्रकृतिप्रत्ययाभ्यां हि यो विशिष्टः पदार्थोऽभिधीयते तेनाभिन्नयैव प्रवृत्त्या संस्पृश्यते यज्यर्थः । एकपदत्वेऽन्तःपदसम्बन्धस्यापौरुषेयत्वात् । अतश्चोभयमपि शक्यविधानम् । भेदेन तु संस्पर्शे वाक्यभेदप्रसङ्गादशक्यविधानं स्यात् । भिन्नपदोपादानं तु कदाचिद्भेदेन सम्बध्येतापि, शक्यविधानत्वात् । यथारक्तमश्वमानयेति, तत्र च वाक्यभेदो रक्तमानय, अश्वमानयेति वाक्यीयस्समन्वयः । एकपदोपादाने तु शोणमानयेतिवद् औपादानिको विनियोगः । `ग्रहं सम्मार्ष्टि' इत्यत्र तु यथा न शक्यविधानं तथा दर्शयिष्यते । अनेन च पशुशब्दार्थस्य पूर्वमनिर्ज्ञातत्वमप्रधानत्वं च विवक्षानिबन्धनं ध्वनति । अस्मादेव वाक्यात् साधनत्वेन प्रतीयत इत्यर्थः । अग्रे तु स्फुटमेव दर्शयिष्यति ।
ननु विनियोजिकया श्रुत्या द्रव्यस्य क्रियासाधनत्वं विहितम्, न तु गुणस्य सङ्ख्यायाः, विनियोजकप्रमाणस्य द्रव्य एवोपक्षीणत्वाद् गुणविनियोगे प्रमाणाभावः । सत्यम् । श्रुत्यादिप्रमाणषट्कव्यतिरिक्तोऽयमुपादानाख्यः । न हि सङ्ख्यारहितं द्रव्यमात्रं विधिरूपादत्ते । एकपदोपात्तस्य गुणस्य त्यक्तुमशक्तयत्वात् । प्रतीयते हि सगुणं द्रव्यमेकरसया शाब्द्या प्रतीत्येति यथायोगं गुणद्रव्ययोरन्वयः ।। 55 ।।
तदेवमयं वादी बाधकमन्तरेणाविवक्षां न मन्यते । ये तु शब्दसंस्कारार्थत्वमेव सङ्ख्यायाः प्रतिजानते ते कथमत्रैकत्वं विवक्षन्तीत्याह--
लिङ्गात्तु स्याद् द्वितीयादेस्तदेकत्वं विवक्षितम् ।
एकार्थविषयत्वे च तल्लिङ्गं जातिसङ्ख्ययोः ।। 56 ।।
  (98) शब्दसंस्कारार्थमेव पशुनेत्येकत्वम् । विवक्षा तु लिङ्गाज्ज्ञापकाद्वाक्यान्तरगतात् । तथा हि `आग्नेयमजमग्निष्टोम आलभेत' इत्युक्‌त्वा `ऐन्द्राग्नं द्वितीयमुक्थ्ये, ऐन्द्रं पृश्निं तृतीयं षोडशिनि' इति द्वितीयादित्वेनाजो विशेष्यते । यदि चाजमित्येकत्वमविवक्षितं स्यात्तदा द्वितीयादित्वस्यासिद्धत्वात् द्वितीयमित्यादि पुनर्विधानं न स्यादित्यस्मादभिधानसामर्थ्याद् विवक्षितमेकत्वम्' इति निश्चीयते । नन्वविवक्षायामप्येकत्वस्यात्र द्वितीयं तृतीयमित्यपपद्यत एव। अनियतसङ्ख्याप्रसङ्गे द्वितीयादित्वेन विशेषणात् । नैतदस्ति । एवं हि पक्षेऽनुवाददोषः स्यात् । लिङ्गत्वे तु द्वितीयादित्वमपूर्वमेव विहितं नित्यमविकल्पितं श्रुतं नोपरुध्यते । पक्षेऽनुवादे हि श्रुतस्य वैकल्पिकत्वं स्यादित्यविकल्पितं श्रवणं परित्यक्तं भवेदिति दोषप्रसङ्गः । एकाश्रये परिसमाप्तत्वं चैकत्वसङ्ख्याया जातेश्चैतदेव लिङ्गमिति प्रसङ्गादाह । यथा ह्येकत्वं प्रत्याश्रयपरिसमाप्तं तथा सत्यप्यनेकार्थसमवाये जातिरपीत्यस्मादवसीयते । तथैकत्वसङ्ख्याया एकः समानोऽर्थो विषय आश्रयोऽस्या जातेरित्यत्रापि तदेव द्वितीयादित्वं लिङ्गम् । अन्यथाश्रयेषु जातेरेकदेशेन प्रवृत्तौ यो द्वयोः पूरणो नासौ तज्जातीयः स्यात्, अपि नु जात्येकदेशः । न च जात्येकदेशो जातिर्भवति । समानाश्रयत्वे च जात्येकत्वयोर्जातिः प्रकृत्यर्थः साकल्येन क्रियाङ्गतयोपादीयते । अन्यथैकत्ववत्तत्राधारे सर्वात्मना जातेः परिसमाप्त्यभावे एकत्वमश्कयोपादानम्, एकस्मिन् सर्वात्मना जातेरपरिसमाप्तत्वात् । अतश्च द्वितीयादित्वं विघटेत । तस्मादेकत्वमनुमापयत्तदाश्रये सर्वात्मना जातेस्समाप्तिमप्यनुमापयत्येतल्लिङ्गम् । यावता हि विना नोपपद्यते तावतोऽर्थस्यैतल्लिङ्गम् । यथा चैकत्वं विवक्षां विना नोपपद्यते तथा जातेस्तत्समानविषयत्वमपि विनेति । अन्यथा तत्र जातेः समाप्त्यभावे साकल्येन प्रकृत्यर्थः क्रियाङ्गतया नोपात्तः स्यादिति प्रकृत्यर्थोपरोधप्रसङ्गः । द्वित्वादेरनेकाश्रयवृत्तित्वात्प्रत्याश्रयपरिसमाप्त्यभावान्न तेन सह जातेरेकार्थविषयत्वे लिङ्गमेतत् । एवं ह्मनेकाश्रितत्वमेव ज्ञापितं स्यात् । तच्च जातित्वादेव सिद्धमित्येकत्वेनैव सह जातेरेतदेकार्थसमवाये लिङ्गमवगन्तव्यम् ।। 56 ।।
इदानीं यदुक्तं `यजेत पशुना' इत्यत्रैकत्वं जातिवद्विवक्ष्यते इति तत्र पूर्वसूचितं विवक्षानिबन्धनं ग्रहवैलक्षण्येन प्रकटयति--
अन्यत्राविहितस्यैव स विधिः प्रथमं पशोः ।
क्रियायामङ्गभावश्च तत्त्वेतस्माद्विवक्षितम् ।। 57 ।।
  (99) यजेः कर्तव्यता वाक्यान्तरात्सिद्धेति `पशुना यजेत' इति गुणविधिस्तात्पर्यतः । तथा चाज्ञातस्य पशुगुणस्य प्रमाणान्तरात् प्रथमम् अनेनैव ज्ञापनमित्युत्पत्तिविधिरयं पशोः । अस्माद्वाक्यात्प्रथममुत्पन्न इव पशुरनेनैव ज्ञापितत्वात् । ज्ञप्तिरेव हि प्रथमोत्पत्तिर्भण्यते । स चोत्पत्तिविधिरत्राङ्गत्वेन यजिक्रियाविषयेण नाङ्गित्वेन इत्यस्मात्कारणद्वयात् तत् एकत्वमत्र विवक्षितम् । तथा हि शब्दप्रमाणका वयम् । शब्देन चैकत्वविशिष्टोऽर्थश्चोदित इति कथं तदेकत्वं त्यज्यताम् । तदुक्तम्--
`यथा जातिस्तथैकत्वं साधनत्वेन गम्यते'
इति । यथा शब्दचोदिता जातिस्तथैकत्वमपीतीहत्यस्तत्र न्यायस्सूचितः । शब्दश्च प्रथममिदमाह न तु शब्दान्तरं सङ्ख्यान्तरयुक्तं ग्रहादिवदस्तीति प्रथमोपदेशो विवक्षा कारणम् । अङ्गत्वोपदेशश्च यागस्य प्राधान्यात् । यदि ह्यङ्गितयोपदेशः स्यात्पशोः तदा `ग्रहं सम्मार्ष्टि' इतिवद्भवेदविवक्षेत्यर्थः । तस्माच्छ्रुतसङ्ख्याहाने हेत्वभावादेकत्वविशिष्टसाधनसाध्यत्वेन नियतरूपं प्रधानमवगतं भवतीत्यनियतानेकसङ्ख्योपादानमप्रमाणकम् ।
अत्र केचित् `क्रियायामङ्गभावस्य' इति पठन्तः प्रथमं क्रियायामङ्गभावस्य विधिरिति योजितवन्तः ।। 57 ।।
एतन्न्यायवैपरीत्येन `ग्रहं सम्मार्ष्टि' इत्यत्र लक्षणाख्यं व्यापारमाह--
ग्रहास्त्वन्यत्र विहिता भिन्नसङ्ख्याः पृथक् पृथक् ।
प्राजापत्या नवेत्येवमादिभेदसमन्विताः ।। 58 ।।
अङ्गत्वेन प्रतीतानां सम्मार्गे त्वङ्गिनां पुनः ।
निर्देशं प्रति या सङ्ख्या सा कथं स्याद्विवक्षिता ।। 59 ।।
  (100) `प्राजापत्या नव ग्रहा भवन्ति, दशैतानध्वर्युः प्रातःसवने ग्रहान् गृह्णाति, ऐन्द्रवायवं ग्रहं गृह्णाति, मैत्रावरुणं ग्रहं गृह्णाति'
इत्यादावुत्पत्तिवाक्ये ग्रहाणां सोमाधाराणां पात्राणां भिन्नसङ्ख्यानां पृथक् पृथक् तेषु प्रकरणेषु भेदेनोपात्तानां तथैवानुभूतानां `ग्रहं सम्मार्ष्टि' इत्यत्र स्मृत्योपस्थापितानां यथोत्पत्तिवाक्यानुभवमेवात्र स्मृतिबुद्धावुपस्थानं युक्तमिति भिन्नसंख्या एव प्रतीयन्ते । उत्पत्तिवाक्ये हि ग्रहाणाम् अङ्गत्वेन सोमधारणार्थमुपदेश इति तत्राप्राधान्याद्विवक्ष्यते सङ्ख्या । अपूर्वोपदेशाच्च `पशुना' इतिवत् `नव दश' इति प्रातिपदिकार्थत्वादपि तत्र नियोगतो विवक्षा । सम्मार्गे तु वास्तवेन रूपेण सम्मार्गस्य ग्रहशुद्ध्युत्पादनार्थत्वात् संस्कार्या ग्रहा एवाङ्गिनः प्रधानभूताः शाब्देन रूपेण क्रियाप्राधान्येऽपि । ततश्चोत्पत्तिवाक्यापेक्षया सम्मार्गवाक्येन पुनर्योऽयं `ग्रहम्' इति निर्देशः तत्र पूर्वश्रुता एव ते सम्मार्जनविषयभावार्थमुपात्तास्तात्पर्यत इति पूर्वसङ्ख्यान्वयिनः । प्रकरणार्थंपर्यालोचनया हि वाक्यार्थोऽवतिष्ठते न तु यथाश्रुते पदार्थमात्रेऽवस्थातव्यम्--
`स्तुतिनिन्दाप्रधानेषु वाक्येष्वर्थो न तादृशः ।
पदानां प्रविभागेन यादृशः परिकल्प्यते'
इति न्यायात्, अवान्तरवाक्यान्वयेन महावाक्यार्थानुसरणेन पदार्थापोद्धार इत्यत्र प्रकरणानुभूतभिन्नसंख्याकग्रहग्रहणम् । तदनेनाविवक्षायां हेतुद्वयमुक्तम्--अन्यत्र विधानं प्राधान्यं च । यद्यपि बहुष्वेकत्वमप्यविरुद्धमनुभूतं तथाप्यनेकमध्यपात्येकत्वमनुभूतं न तु केवलमित्यनेकसहचारिणा एवात्र स्मृतिः । अत एव `पृथक् पृथक्' इत्यनेकसङ्ख्याया भूयोदर्शनेन तत्प्रभववासनोत्पत्तिस्थैर्यं स्मृत्यव्यभिचारस्थापनार्थमाह । पृथक् पृथग्भिन्नसङ्ख्यानामनुभूतत्वात्तथैव स्मृतिः सम्मार्गे अनुवादेऽत्रेत्यर्थः । `ग्रहैर्जुहोति' इति हवने ग्रहाणामुपयोगात्संस्कार्यत्वम् । अङ्गानां प्रधानोपकाराय संस्कारर्हत्वात् । न च ग्रहैकत्वविशिष्टः सम्मार्गविधिर्न्याय्यः । गुणस्य द्रव्यसमकक्ष्यतया क्रियायामङ्गभावाभावाद् द्रव्यद्वारेणाङ्गत्वात् द्रव्यानुयायित्वेऽनुभूतद्रव्यभेदाश्रयणात् । `चित्रगवीर्बध्नाति', `शोणं योजय' इत्यत्र तु चित्रशोणश्रुत्यन्यथानुपपत्त्या गुणविवक्षौत्पत्तिकी ।। 58,59 ।।
इदानीमविवक्षौत्सर्गिकी सर्वत्र, शब्दसंस्कारार्थं विभक्‌तियुपादानादिति यत्नाद्विवक्षामाह--
नान्यत्र विधिरस्तीति संस्कारो नापि चाङ्गिता ।
हेतुः सङ्ख्याविवक्षायां यत्नात्सा हि विवक्षिता ।। 60 ।।
  (101) वाक्यान्तरे ग्रहाणां भिन्नसङ्ख्यानां विधिरस्ति इति अतो हेतोरत्र `ग्रहं सम्मार्ष्टि' इत्येकवचनं शब्दसंस्कारार्थमात्रमित्येतन्न युक्तम् । नाप्यत्र सम्मार्गे ग्रहाणां अङ्गिता प्राधान्यम्, एकत्वस्य विवक्षाभावे हेतुः निमित्तम्, अपि तु
`न विना सङ्ख्यया कश्चित्' (Vak.III.जा.51)
इत्युक्तान्न्यायात् सर्वत्रैव प्रातिपदिकार्थस्योपलक्षणार्थं वचनमित्यविवक्षितम् । यत्र तु कश्चिन्न्यायो युक्तिरूपोऽस्ति तत्र तस्मात् यत्नात् सङ्ख्या विवक्ष्यत इत्यौत्सर्गिक्या अविवक्षाया विवक्षापवादः ।। 60 ।।
न च विवक्षाहेतुर्यत्नोऽस्ति `ग्रहम्' इत्यादावित्याह--
सम्मार्जने विशेषश्च न ग्रहे क्वचिदाश्रितः ।
विहितास्ते च संस्कार्याः सर्वेषामाश्रयस्ततः ।। 61 ।।
  (102) `ग्रहं सम्मार्ष्टि' इत्यनुपात्तविशेषस्य पूर्वावधृतस्य ग्रहस्य संस्कारश्चोदितः । पूर्वं च भिन्ना ग्रहा दृष्टाः । तदाह-विहितास्ते इति । न ह्येको ग्रहः स्वोत्पत्तिवाक्ये विहितः । अपि तु बहवो `नव, दश' इत्येवं विहिताः । न च तेषां मध्यात् कश्चिदेव संस्कारार्हः, अपि तु सर्व एव ते तथेत्याह ते च संस्कार्याः इति । सर्वेषां संस्कार उपयुज्यते, उत्तरत्र सोमधारणे सर्वेषां संस्कृतानामुपयोगात् । ततश्च भूयसां विहितानां यद्येको विवक्षितोऽभविष्यत्तदा तस्य चिह्नभूतः कश्चिद्विशेषो निरदेक्ष्यत `आर्कमाश्विनं मैत्रावरुणं वा ग्रहं सम्मार्ष्टि' इति । न चासौ निर्दिष्टः । एकवचनं तु न विशेषः । तस्य प्रतिनियतैकविषयत्वाभावादनियतैकोपादाने कस्येति विशेषावधारणाभावादशक्यानुष्ठानार्थोपदेशप्रसङ्गादिति जाताविदमेकवचनं बोद्धव्यं न तु व्यक्ताविति नास्माद्यत्नाद्विवक्षासिद्धिः । किञ्च सर्वत्र शब्दसंस्कारार्थमेकवचनमित्येवमिदमुरक्रान्तम् । तथा चैकवचनं न यत्नः । तस्मात्सामान्योपदेशात्संस्कार्यत्वस्य च समानत्वादुत्पत्तिवाक्यावधृतसङ्ख्यानां सर्वेषामेव ग्रहाणां संस्कार्यत्वपरिग्रह इति सिद्धम् ।। 61 ।।
`पशुना यजेत' इत्यत्र को यत्नः सङ्ख्याविवक्षायामित्याह--
प्रत्याश्रयं समाप्तायां जातावेकेन चेत्क्रिया ।
पशुना न प्रकल्पेत तत्स्यादेव प्रकल्पनम् ।। 62 ।।
 (103) जातेः प्रत्याश्रयपरिसमाप्तत्वं पूर्वं लिङ्गेनापि साधितमित्येकत्रापि पशुत्वजातेरवैकव्यात्क्रियाङ्गतोपपत्तौ किमर्थं द्वितीयाध्युपादीयेत । यदि हि जातिराश्रय एकदेशेन वर्तेत तदैकव्यक्त्युपयोगे जातिः पदार्थो बाध्येत जात्यंशस्याजातित्वादिति प्रकृत्यर्थसामर्थ्याद् द्वितीयाद्युपादीयेत । न चैवम् । एकत्रापि जातेर्निष्ठितत्वात् । स्यादेतत् । भवत्वेकत्रापि प्रकृत्यर्थोपपत्तिः । वाक्यार्थभूता तु क्रिया नैकसाधनसाध्येति प्रधानानुरोधादङ्गान्तरमुपादीयेतेत्याशङ्क्याह--एकेन चेत्क्रिया पशुना न प्रकल्पेत इति । अदृष्टफलस्य यागस्य पशुनैकेनाप्यवदानद्वारेणोपकारान्निष्पत्तेरसम्पत्तिर्नास्ति, यतस्तदनेकत्वप्रकल्पनमत्र भवेत् । सामर्थ्याद् बुद्धिस्थमनेकसङ्ख्योत्प्रेक्षणं `तद्' इत्यनेन निर्दिशति । अस्मादेव `पशुना यजेत' इति प्रमाणभूताद्वाक्यादेकस्य क्रियासाधनतावसीयते । अन्यथा ग्रहवद्वाक्यान्तरात्सङ्ख्यान्तरस्यानवसायेऽनियतैकपरिग्रहेऽशक्यानुष्ठानोऽर्थ उपदिष्टः स्यात् ।। 62 ।।
नन्वङ्गभूतस्तवात्फभूयस्त्वमिति यथासम्भवं पश्वन्तरोपादानं भविष्यतीत्याशङ्क्याह--
एकेन चेत्प्रसिद्धायां क्रियायां यदि सम्भवात् ।
पश्वन्तरमुपादेयमुपादानमनर्थकम् ।। 63 ।।
  (104) अथमर्थः--इहैकस्य पशोः क्रियासिद्धौ हेतुभावोऽस्ति न वा । द्वितीये पक्षे शास्त्रेल्लङ्घनमित्याद्यः पक्षः । तत्र च लाघवादेकेनैव क्रियानिष्पत्तावधिहगतसमीहिताः किमर्थं साधनान्तरान्वेषणप्रयासमनुभवेयुरधिकारिणः । न हि यथासम्भवमिति शास्त्रचोदना । अचोदितानुष्ठाने च शास्त्रेल्लङ्घनादानर्थक्यमिति फलभूयस्त्वस्याप्यभावः । न ह्येकेनानेकेन वा यजौ निष्पाद्यायां फलहेतुः कश्चित्स्वरूपातिशयः । तस्मादुपायलाघवात्प्रथमेनैव पशुनावदानगणस्य निष्पत्तेरेकस्य पशोरालम्भेऽपरस्यालम्भो निष्प्रयोजनः ।। 63 ।।
क्व यथानिष्पन्नस्य निष्पत्त्यर्थं यत्नान्तरं नाद्रियत इत्यत्र दृष्टान्तमाह--
यथैवाहितगर्भायां गर्भाधानमनर्थकम् ।
तथैकेन प्रसिद्धायां पश्वन्तरमनर्थकम् ।। 64 ।।
  (105) आहितः बीजात्मनोपक्षिप्तः, गर्भो यस्यां तत्र पुनः गर्भाधानम् अफलम्, आहितस्याधाने विशेषाभावात् । एवमेकपशुसाध्ये यागे पश्वन्तरम् अफलम्, सिद्धस्य साधनवैफल्यात् । पश्वन्तरोपादाने तु तत्साधनं क्रियान्तरमेव स्यात् । न च तत्र विधिप्रतिपत्तिः । इत्थं दार्ष्टान्तिकानुगुण्याद् गर्भाधानमनर्थकम् इत्युक्तं नाशक्यमिति । आनर्थक्यस्य साध्यस्य प्रक्रमे निदर्शने सम्भवदप्यशक्यत्वं साध्येन समन्वितं न स्यात् । गर्भार्धानार्था वा संस्कारा गर्भाधानशब्देनात्र विवक्षिताः शास्त्रचोदिता इति तेषामाहितगर्भायामानर्थक्यमिति दृष्टान्तदार्ष्टान्तिकयोः साम्यं सुष्ठु संगच्छते ।। 64 ।।
तदेवं लाघवाच्चोदितमेकत्वं पशावाश्रीयत इत्येकीयं मतम् । अन्ये तु न्यायान्तरमत्राहुरिति प्रदर्शयति--
तावतार्थस्य सिद्धत्वादेकत्वस्याव्यतिक्रमम् ।
केचिदिच्छन्ति न त्वत्र सङ्ख्याङ्गत्वेन गृह्यते ।। 65 ।।
 (106) नात्रैकत्वसङ्ख्या पशुविषये विवक्ष्यते, अपि तु प्रातिपदिकार्थोपलक्षणमेव सा । सङ्घ्यामात्रयुक्तः प्रातिपदिकार्थः साधनम् । तस्य तु पूर्वं लाघवमेकत्वस्योपादाने निमित्तमभिहितमू । इदानीं त्वेकत्वपूर्वकत्वादनेकत्वस्य क्रमव्यतिक्रमे प्रयोजनाभावादेकसङ्ख्याकस्यैवैपादानं कथ्यते, तत्परिमाणेनैव क्रियासिद्धिरिति सामर्थ्यादेकत्वस्य अव्यतिक्रमः अत्यागः । तदेवं लाघवे पूर्वोक्ते सामर्थ्ये वेहोपात्ते शेषभूतमिदम्-न त्वत्र सङ्ख्याङ्गत्वेन गृह्यत इति । एकवाक्यतयैवोपपत्तेर्वाक्यभेदेन व्याख्यानं पूर्वैर्दूषणरसिकतया कृतम् । सामर्थ्यादेकत्वस्याव्यतिक्रमे तु न सङ्ख्याङ्गत्वेन गृह्यते । न वचनप्रापितः सङ्ख्यायाः क्रियाङ्गभावः स्यात् सामर्थ्यादव्यतिक्रममात्रमिति शब्देन विहितमेकत्वमित्यचोदितार्थानुष्ठानप्रसङ्ग इति दूषणं कारिकावयवाद्विभज्य पूर्वैः कल्पितम् । ग्रन्थकारस्त्वत्र मते कारिकान्तरेणैव
`अन्वयव्यतिरेकाभ्याम्' (Vak.III.377)
इत्यादिना दूषणं दास्यति ।। 65 ।।
कथं तर्हि द्वितीयादि लिङ्गमेकत्वविवक्षायामन्यन्त्रोक्तमित्याह--
द्वितीयादिषु यल्लिङ्गमुक्तं न्यायानुवादि तत् ।
न सङ्ख्या साधनत्वेन जातिवत्तेन गम्यते ।। 66 ।।
  (107) एकत्वविवक्षासिद्ध्यर्थं नैतल्लिङ्गम्, अपि तु लाघवादेकेन सिद्धत्वात्क्रियाया अनेकोपादानस्य निष्प्रयोजनत्वात् क्रमव्यतिक्रमे प्रयोजनाभावाच्चैकत्वसङ्ख्यापरिग्रह इति यदेतन्न्यायद्वयमुक्तं तदनुवादपरम्, उक्थे द्वितीयमित्यादि लिङ्गं नापूर्वमर्थं गमयति, यस्मात्तेनानन्तरोक्तेन न्यायद्वयेनैकत्वस्यापरित्यागाच्छाब्देन रूपेण न सङ्ख्या साधनत्वेन गम्यते, शब्दसंस्कारमात्रार्थत्वादेकवचनस्य । तेन वा कारणेन सङ्ख्यात्र न विवक्ष्यते, यस्मादविवक्षायामपि न्यायादिष्टसिद्धिः । यद्वा तेन लिङ्गेन सङ्ख्या साधनत्वेन नावेद्यते न्यायादेवेष्टसिद्धेरनुवादमात्रं तदित्यर्थः । जातिवदिति वैधर्म्यदृष्टान्तः । यथा शब्दचोदिता जातिरङ्गमिति गम्यते नैवमेकत्वमुक्तादेव न्यायात् तदनङ्गत्वेऽपि समीहितसिद्धेः ।। 66 ।।
केचिदिति वचनात्परमतम्, एतद् दूषयति--
अन्वयव्यतिरेकाभ्यां सङ्ख्याभ्युपगमे सति ।
युक्तं यत्साधनत्वं स्यान्न त्वन्यार्थोपलक्षणम् ।। 67 ।।
  (108) विभक्तिप्रत्ययमन्वेति अनुवर्तते, तस्मिन् सति प्रतीयते तदभावे व्यतिरिच्यते व्यावर्तते न प्रतीयते सङ्ख्येति पशुमालभेतेत्यादौ शब्दोपादानायास्तस्याः प्रतीतिश्चेदभ्युपगम्यते विधानमपि कथं नास्तीति शब्दोपात्तायास्त्यागो न युक्तः, अपि त्वेतदेव युक्तं यत्साधनत्वं क्रियाङ्गत्वम् न त्वन्यार्थोपलक्षणं प्रकृत्यर्थोपलक्षणं युक्तमित्यर्थः । सत्त्वभूतस्यार्थस्य शब्देनाभिधाने तत्संस्कारप्रतिपत्तये वचनमिति प्रकृत्यर्थोपलक्षणमात्रं तद्भवति । न चैतन्न्याय्यम् । यथा ह्यन्वय्वयतिरेकाभ्यां प्रकृतिवाच्या जातिः शब्दवकी न त्यज्यते तथा सङ्ख्यापीति न्याय्यम् । न ह्येकयोगक्षेमस्याङ्गङ्गितया एकपदोपात्तस्यार्थस्य खण्डशो विनियोगाविनियोगौ युक्ताविति भावः । शब्देनाचोदिते त्वेकत्वे सामर्थ्यात्प्रतिपत्तौ यदैकपशूपात्तानामेकादशानामवदानानां दैवान्मानुषाद्वा वैगुण्यादन्यतमविलोपः तदा पश्वन्तराण्यवदानार्थमुपादीयेरन् ।
न ह्येवं काचिच्छब्दार्थबाधा तदानीं भवति, शब्देनाचोदितत्वादेकत्वस्य । तथा च तत्कर्माज्येन न निर्वर्त्त्येतेति प्रतिनिध्यभावः । मुख्याभावे हि प्रतिनिधिरुपादीयते । मुख्यं च वचनेन सङ्ख्यानुपादाने विद्यत एव । यस्य पुनः शब्दचोदितमेकत्वं तस्योपपन्नोऽत्र प्रतिनिधिरित्यवदानलोपे तत्कर्माज्येन सम्पाद्यते, न तु पश्वन्तरमुपादीयते, चोदितैकत्वत्यागप्रसङ्गात्, यद्येवं वपाविनाशेऽपि पश्वन्तरं नोपादीयेत । नैतदस्ति । यस्मान्नालम्भनमात्रसम्पत्त्यर्थं पशोरुपांदानम्, अपि तु यागार्थम् । तत्रैव च तदेकत्वं विवक्ष्यते । यागश्च वपां विना न सम्पद्यते । तस्मात्पश्वन्तरोपादानेऽपि नातिक्रान्तमेकत्वम् । तत्रैकेनैव यागस्य निर्वृत्तत्वात् अवदानान्तरार्थन्तु पश्वन्तरे चोदिते सत्येकत्वे न लभ्यते इत्यवदानान्तरकार्यं घृतेन सम्पद्यत इति न्यायः ।। 67 ।।
यतश्च साधनत्वं युक्तम्, अतः--
साधनत्वे पदार्थस्य सामर्थ्यं न प्रदीयते ।
सङ्ख्या व्यापारधर्मोऽतस्तेन लिङ्गेन गम्यते ।। 68 ।।
 (109) यदा शब्दोपात्तत्वाज्जातिसङ्ख्ययोस्तुल्यत्वम् तदा साधनत्वे पदार्थस्य सामर्थ्यं न प्रहीयते । पदस्येति वाक्यशेष । सकलस्य हि पदार्थस्य साधनत्वे पदस्य तदभिधानलक्षणं सामर्थ्यं न दापितं भवति । अतश्च परिपूर्णस्य पदार्थस्य साधनत्वात्सङ्ख्याया एकत्वलक्षणायां क्रियाया व्यापाराख्यो धर्मः तेन लिङ्गेन गम्यते । यतस्तत्पदस्य सामर्थ्यमप्रहेयम् अतस्तेन सामर्थ्यवक्षणेन, लिङ्गेन हेतुना गम्यते सङ्ख्या व्यापारधर्मः । यतस्तदप्रहेयम् अतस्तद्भवति हेतुः सङ्ख्याव्यापाराधिगतौ । यथा यतोऽविनाभूतो धूमः अतस्स भवयत्यग्न्यधिगमहेतुः । अथवा-तेन लिङ्गेन द्वितीयादिना एतद् गम्यते न तु पूर्वोदितस्य सामर्थ्यादपरिग्रहमात्रस्य न तदनुवादि लिङ्गं यथा तैरुक्तम्, अपि तु मदीयन्यायेनैव तत्सङ्गतमित्यर्थः । यत्र तु लिङ्गं नास्ति सङ्ख्याव्यापारसूचकम्, तत्राविवक्षेति भावः, तद्यथा `ग्रहं सम्मार्ष्टि' इति । अत एव सङ्ख्यायाः क्वचिदव्यापारलक्षणो धर्मः, तेन लिङ्गेन गम्यते इत्यकारप्रश्लेषं केचिव्द्याचक्षते किल । लिङ्गाभावे `ग्रहं सम्मार्ष्टि' इत्यादौ न्यायादविवक्षेति लिङ्गमभवत्तत्र साधकतमम् । यथा साधनाभावः स्तोकान्मुक्तः इत्यादौ । तदेवमनेन श्लोकद्वयेन स एवार्थो निर्वाहितो यो
"अन्यत्राविहितस्यैव" (Vak.III.जा.57)
इत्यादौ निर्णीतः ।।
ननु च विवक्षां प्रतिजानताभ्युपेतः सङ्ख्यायाः साधनभावः । सङ्ख्या च द्रव्यविशेषणम्, शक्तिस्तु साधनमिति कथमतद्विशेषणं तथा स्यात् । नैष दोषः । शक्तेर्निराधाराया अनुपपत्तेस्तदभेदापन्नं फलतो द्रव्यमेव साधनं न्याय्यम् । तथा च कटः कर्म देवदत्तः कर्तेति सामानाधिकरण्यं दृश्यते । अथ कर्मादिशब्दैर्द्रव्यायमाणं तदभिधीयते तर्हि `कर्मणि द्वितीयेत्यादौ विभक्तिविधाने शक्त्यवच्छिन्नस्य द्रव्यस्यैव सङ्ख्यादिविशेषणत्वम् । युक्तं चैतत् । न हि शक्तिषु सङ्ख्या समवैति । तस्मादाश्रयस्य साधनत्वात्सङ्ख्यापि तथा । एतदेव हि सङ्ख्यायाः क्रियाङ्गत्वं यत्साधनावच्छेद इति सर्वं सुस्थम् ।। 68 ।।
पूर्वं ग्रहाणां संस्कार्यत्वादार्थेन रूपेण प्राधान्ये सत्यविवक्षोक्ता । अथ पुनः प्रकारान्तरेणात्र विवक्षाविवक्षे व्यवस्थापयितुमाह--
अपूर्वस्य विधेयत्वात्प्राधान्यमवसीयते ।
विहितस्य परार्थत्वात्वाच्छेषभावः प्रतीयते ।। 69 ।।
  (110) वास्तवेन रूपेण पूर्वं गुणप्रधानभावश्चर्चितः । अयन्तु वाक्यव्यापाराश्रयेणेति विशेषः ।
तथा हि--पशोरूत्पत्तिवाक्येन अपूर्वस्य विधेयत्वात्प्राधान्यम् इति यथाश्रुतमेकत्वं न त्यज्यते । विधेयत्वादित्यनेनैवापूर्वस्याक्षेपे सति पुनर्वचनं व्याप्त्यर्थम् । क्रियाया वाक्यार्थत्वेन प्राधान्येऽपि सर्वत्रापूर्वस्य प्राधान्यम्, अप्रज्ञातज्ञापनेन विधीयमानत्वादित्यर्थः । विहितस्य तु ज्ञातस्य सतोऽन्यार्थत्वेनानुवादादप्राधान्यमिति तत्र विधिवाक्यगतरूपानुसरण न्याय्यम् ।। 69 ।।
एतदेव प्राकरणिकेऽर्थे योजयति--
संमार्गस्य विधेयत्वादन्यत्र विहिते ग्रहे ।
विधिवाक्ये श्रुता सङ्ख्या लक्षणाया न बाध्यते ।। 70 ।।
  (111) `ग्रहं सम्मार्ष्टि' इत्यपूर्वस्य सम्मार्गस्य विधेयत्वात्प्राधान्यम् । अन्यत्र `प्रजापत्या नव ग्रहाः' इत्यादौ विधिवाक्ये, विहिते प्रथमं ज्ञापिते, ग्रहे ग्रहसामान्य इत्यर्थः । तत्र च विधिवाक्ये या श्रुता नव दशेत्यादिका सङ्खापदोपादाना सङ्ख्या सा लक्षणायां `ग्रहं समार्ष्टि' इत्यत्र पूर्वोद्दिष्टग्रहोपलक्षणपरेऽनुवादवाक्ये न बाध्यते न त्यज्यते, अस्या विधौ प्राधान्यात् । इह त्वनुवादवाक्ये ग्रहणमात्रोपलक्षणपरायां चोदनायां नान्तरीयिका द्रव्योपलक्षणार्था शब्दसंस्कारमात्रपरा सङख्या, ग्रहश्रुतिस्त्वनर्थिका मा भूदिति ग्रहजात्युपलक्षणार्थेति यथाविहितभिन्नसङ्ख्याकग्रहोपादानाप्थं मा भूद्गुणेन प्रधानोपरोध इति । गुणा हि प्रधानोपकाराय प्रवर्तन्त इति प्रधानसङ्ख्यया गुणसङ्ख्यात्र बाध्यते । ननु च `दशैतानध्वर्युः प्रातः सवने ग्रहान्गृह्णाति' इत्युपत्तिवाक्यं क्रियाविषयम् । `ग्रहं सम्मार्ष्टि' इत्यनुवादवाक्यं सम्मार्जनक्रियाविषयमिति विषयभेदादविरोधे बहवो ग्रहा गृह्यन्ताम्, एकस्तु सम्मार्ज्यतामिति नास्ति बाधः । अत्रोच्यते । यद्यपि बहिर्व्यापारभेदाभिन्नविषयत्वादविरोधः, तथापि प्रतिपत्तौ तयोः सङ्क्ययोर्विरोध एव । तथा हि--पूर्वं नव दश वा बुद्धौ समवस्थिताः, इदानीं तदुन्मूलनेनैको बुद्धावुपारोहयितव्यः । एवं चान्यथावगते प्रधानेऽन्यथा पुनरप्रधानवेलायामवगमो न युक्तः । अपि तु यथासिद्धस्यैवानुवादात्संमार्गे प्रधानवेलावगतसङख्याकानामेवावधारणं ग्रहाणां युक्तम् । यत्रस्थो हि ग्रहोऽनूदितः तत एवास्य स्वरूपमनुसर्तव्यम् । एवं च साधनप्रचयात्संमार्गस्यापि प्रधानस्योपकारादुभयानुग्रहः सम्पद्यते । बहुषु मध्येऽवस्थितश्चनुमूत इति तथैवात्र स्मृत्या अनुवादो न्याय्यः । तथा च प्रधानोपकारानुरोध एवेहान्यथोक्तः । पूर्वं ग्रहार्थत्वात्संमार्गस्य संमार्गवाक्य एव ग्रहाणां प्राधान्यमुक्तम्, इह तु विधिवाक्यगतं प्राधान्यमभिहितमित्येतावता विशेषः ।। 70 ।।
`पशुना यजेत' इत्यत्रापि तर्हि यागस्य विधेयत्वात्पशोरप्राधान्यमिति तदीयमेकत्वं त्यज्येतेत्याशङ्क्याह--
विधिवाक्यान्तरे सङख्या पशोर्नास्ति विरोधिनी ।
तस्मात्सगुण एवासौ सदेकत्वेन गम्यते ।। 71 ।।
  (112) पशुगुणविशिष्टो यागो विधीयत इत्यज्ञातपनात्पशोरपि विधानम् । उत्पत्तिवाक्यगता च सङ्ख्या न त्यज्यत इत्युत्सर्गः । तद्यथा पशौ । ग्रहे तूत्पत्तिवाक्यापेक्षया संमार्गविधिवाक्ये तद्विरोधिनी सङ्ख्या त्यज्यते । पशौ तु विधिवाक्यान्तरं नास्तीति प्राथमकल्पिकी न त्यज्यते सङ्ख्यैकत्वलक्षणेति, तेन सहासौ क्रियाङ्गभावमनुभवति । सगुण इति । सह लिङ्गलक्षणेन पुंस्त्वाख्येन गुणेन वर्तत इत्यर्थः । यद्वा गुणः शुक्लादिः । यत्र गुणश्रुतिर्नास्ति, यथा--`पशुना यजेत' इति, तत्राक्षिप्तगुणसामान्य इत्यर्थः । यत्रापि गुणश्रुतिर्नास्ति , यथा `गामभ्याज शुक्लाम्' `श्वेतं छागमालभेत' इति, तत्रापि तद्गुणः स गृह्यते एकवाक्योपात्तगुणयुक्त इत्यर्थः । एतच्च वक्ष्यमाणार्थोपोद्धातार्थमुक्तम् । केचित्पुनराहुः--सगुण इत्येतदेव स्फुटीकृतं सदैकत्वेनेति । अत्र तु पौनरुक्‌त्यं दोषः । न हि कारिकाभागस्य भागान्तरेण व्याख्यानं युक्तम् । यदि वा गुणो विशेषणं जातिः पशुत्वलक्षणा, तया सह गम्यते । जातेरिव श्रुतस्यैकत्वस्य त्यागे कारणाभावात्तदेकत्वमपि गम्यत इति दृष्टान्तगर्भं वचनम् । तदेवं न्यायवादिमतानुसारेण सिद्धान्तोऽत्रावस्थापितः । तथा हि--न्यायवादिभिः पूर्वपक्षोऽत्र कृतः--
`एकत्वयुक्तमेककत्वस्य श्रुतिसंयोगात्'(Mi.Su.III.1.7.13)
इति ।
`य एवं विद्वान् सोमेन यजेत'
इति सोमयागे
`दशापवित्रेण ग्रहं संमार्ष्टि'
इति श्रूयते । तत्रैकस्य ग्रहस्य संमार्गः प्राप्तः, एकत्वश्रुतिसंयुक्तो ह्ययं पदार्थः श्रूयते । एवं पूर्वपक्षं कृत्वा सिद्धान्तितम्--
`सर्वेषां वा लक्षणत्वादविशिष्टं हि लक्षणम्'(Mi.Su.III.1.7.14)
प्राप्ते द्वितीयादौ संमार्गो विधीयते । पशोस्तु यागार्थत्वात्परिच्छेन्नेन तेन यागोपकारादेकत्वविवक्षेत्युक्तम्--
चोदिते तु परार्थत्वाद्यथाश्रुति प्रतीयेत (Mi.Su.IX.1.14.40)
इति वाक्यविदां राद्धान्तः ।। 71 ।।
इदानीं सङ्ख्यावदन्यस्यापि गुणस्याश्रयावच्छेदकत्वद्वारेण क्रियाङ्गतयोपादानमनुपादानं वेति सङ्ख्याप्रसङ्गेन विचारयितुं सगुण एवासावित्युपोद्धाते सत्याह--
निर्ज्ञातद्रव्यसंबन्धे यः कर्मण्युपदिश्यते ।
गुणस्तेनार्थिता तस्य द्रव्येणेव प्रतीयते ।। 72 ।।
  (113) निर्ज्ञातः प्रथमंद्रव्यसंबन्धो यस्य तस्मिन्कर्मणि क्रियायां यो गुणः शुक्लादिः विधीयते तेनापि तस्य कर्मणः क्रियालक्षमस्य द्रव्यवत् अर्थिता । तथा च संबन्ध इति विचारबीजोपक्षेपः । द्रव्यसंबन्ध इति च द्रव्यपदार्थपक्षे प्राह्र । जातिपदार्थपक्षे तु वक्ष्यति--
`यदा तु जातिः शक्तिर्वा'
इत्यादि ।
ननु च क्रिया जनकत्वात्साधनमपेक्षताम्, गुणे तु कापेक्षा तस्याः । अथ सगुणेन द्रव्येण निर्गुणस्यासंभवाज्जन्या क्रियेत्युभयापेक्षा तर्हि क्रमोऽयं कुतः ? निर्ज्ञातद्रव्यसंबन्धे पश्चाद् द्रव्यवद्गुणेऽप्यपेक्षेति अपेक्षाऽसाम्याच्चोपमा नोपपद्यते । अत्रोच्यते । क्रिया तावत्साध्यस्वभावत्वात् साधनमपेक्षते, तच्च द्रव्यमिति तदपेक्षोपदिश्य मानगुणपेक्षापि तस्य गुणस्य साधनावच्छेदोपयोगाद्विद्यत एव क्रियायाः । तत्र यदव्यवहितमन्तरङ्गं तत्प्रथममपेक्ष्यम्, तथा च द्रव्यम् । गुणस्तु तदाधारस्तन्मुखेन संबन्धसहो बहिरङ्गः पश्चादपेक्षणीयः । अत एव निर्ज्ञात इति भूताभिधानम् । द्रव्यस्य शक्त्याधारत्वात्प्रथमं क्रियसंबन्ध इत्यर्थः । एवं च साक्षादसमन्वयादुपमा । एतच्चार्थक्रमापेक्षयोच्यते न तु शब्दव्यापारापेक्षया । `गामभ्याज शुक्लाम्' इति हि वाक्यं सकृदेव गुणप्रधानभावेन संबन्धविशिष्टमर्थमाहेति न तत्र कश्चिद् विरम्यं व्यापारः ।। 72 ।।
एवं गुणद्रव्ययोः श्रौतः क्रियासंबन्ध उक्तः । इदानीं तयोः परस्परं वाक्यीयसमन्वयप्रतिपादनायाह--
कश्चिदेव गुणो द्रव्ये यथा सामर्थ्यलक्षणः ।
आधारोऽपि गुणस्यैवं प्राप्तः सामर्थ्यलक्षणः ।। 73 ।।
  (114) निर्गुणस्य द्रव्यस्यासम्भवः सामर्थ्यम् तेन लक्ष्यते, तत्र द्रव्ये । आधारोऽपि द्रव्यं गुणस्य सामर्थ्येन निराधारगुणासंभवस्वभावेन लक्ष्यते, गुणमात्रं च द्रव्येणापेक्षितं द्रव्यमात्रं च गुणेन, अस्मात्सामर्थ्यादित्याह--कश्चिदेवेति । अपरामृष्टजातिभेदौ द्रव्यगुणौ परस्परेणापेक्षितौ । प्राप्त इति । प्रतीतिलब्धः इत्यर्थः । सामान्यमात्रे प्रतीत्यव्यभिचारात्, विशेषाणां व्यभिचारात् ।। 73 ।।
एवमाधाराधेयसामान्यसंसर्गे लब्धे श्रुतयोरेव तयोरेकवाक्यत्वाद्वाक्यीयेन समन्वयेन परस्परसंबन्धमाह--
तयोस्तु पृथगर्थित्वे संबंधो यः प्रतीयते ।
न तस्मिन्नुपघातोऽस्ति कल्प्यमन्मन्न चाश्रुतम् ।। 74 ।।
  (115) पूर्वोपवर्णितेन सामर्थ्येन पृथक् परस्परं गुणद्रव्ययोराकांक्षायां सत्यामेकवाक्योपात्तयोरेव समन्वयो यः प्रतीयते न तत्र बाधः, श्रौतेऽर्थे त्यागाभावात् । असति तत्परित्यागहेतावश्रुतपरिकल्पना न न्याय्या । अत एव प्रतीयत इति निर्बाधप्रतीतिप्रमाणतामाह । अपोद्धारबुध्द्याश्रयणे चैतदुच्यते । निरंशे हि वाक्ये पूर्वमेव विशेषविवक्षा । तथा हि--निरवयवेन वाक्येन विशिष्ट एवार्थः प्रतिपादितः । तत्र प्रतिपत्त्यर्थमंशांशिकतया अपोद्धारपदार्थः परिकल्प्यते सामान्यात्मा । स एव विशेषो भवति विशेषसंबन्धे सतीति प्रतिपादनोपायक्रमः । तथा च विशेषसंबन्धेऽपि सामान्यात्मा पदार्थो न स्वरूपात्प्रच्यवते, अपि तु तद्विशेषनिष्ठ एवावतिष्ठते । न तु सत्यतः सामान्येऽवस्थितानां पदानां विशेषेऽवस्थानमुपपद्यते । सामान्यवृत्तीनामुच्चरितानां तथाभूतानामेव तिरोभावादुत्तरकालं कोऽसौ विशेषेऽवतिष्ठताम् । न च सामान्यविशेषयोर्युगपद्विवक्षा संभवति । विशेषविवक्षायां हि सर्वस्यां नियमेन सामान्यादवच्छेदो विज्ञायत इत्युपात्तस्य सामान्यस्य त्यागप्रसङ्गः । स च नित्ये शब्दार्थसंबन्धे न युक्तः । तिरोभूतश्च निवृत्तोऽनवधार्यमाणात्मा शब्दोऽन्यस्यापि पदस्य सामान्यनिष्ठत्वाकेनचिदप्यप्रतिपादिते विशेषे निर्विषयः क्वावतिष्ठताम् । यदुक्तम्--
`सामान्यार्थस्तिरोभूतो न विशेषेऽवतिष्ठते ।
उपात्तस्य कुतस्त्यागो निवृत्तः क्वावतिष्ठताम् ।।'(Vak.a.II.15)
इति । तस्माद्विशिष्ट एवार्थो वाक्यादवगन्तव्य इत्यश्रुतस्य कल्पितस्य कल्पनावकाश एव नास्ति । नापि श्रुतस्यार्थस्य त्यागसंभवः । आपोद्धारपदार्थाश्रायेण त्वयं विचारः प्रस्तुतः । तथा च श्रुत्यादीन्यखण्डवाक्यपक्षे नोपपद्यन्त इत्याक्षिप्य वाक्यकाण्डेऽपोद्धारपदार्थकल्पनेनैवोपपादितानि । श्रुतिप्रतिपादितस्य योग्यस्य त्यागेऽश्रुतकल्पना न युज्यते इत्येकवाक्योपात्तत्वमत्र संबन्धहेतुः । परस्परसंबन्धे हि एकवाक्यतापीष्यते । वाक्यार्थेन प्रधानेन गुणानामाक्षेपादश्रुतपरिग्रहे सर्वत्र वाक्यभेदप्रसङ्गान्न क्वचिदेकवाक्यता भवेत् ।। 74 ।।
ननु च क्रियाकारकसंबन्धे विशेषणविशेष्यभावे च प्रतिपाद्ये वाक्यभेदप्रसङ्गः । न चासौ न्याय्यः । नैष दोषः । गुणप्रधानभावेनात्र संबन्धद्वयसंभवः । स चैकस्मिन्वाक्येऽविरुद्धः । तथा हि--श्रुतिवाक्यलक्षणमत्र प्रमाणद्वयमस्तीत्याह--
क्रियया योऽभिसंबन्धः स श्रुतिप्रापितस्तयोः ।
आश्रयाश्रयिणार्वाक्यान्नियमस्त्ववतिष्ठते ।। 75 ।।
  (116) श्रुत्या कारकविभक्‌त्या क्रियायां संबन्धो द्रव्यगुणयोः समशीर्षकतया प्रातिपादितः । वाक्यादखण्जप्रतिभोत्पत्तावपोद्धारेण `गामभ्याज', `शुक्लामभ्याज' इति पदार्थविभजनात् गामेव शुक्लामेवेति गुणगुणिनोरेकवाक्योपात्तयोर्विनियोगो वाक्यस्य प्रामाण्येनावतिष्ठते । अश्रुतगुणद्रव्यपरिकल्पने हि प्रतिपदार्थं क्रियाभेदात् `गामभ्याज, शुक्लां च' इति वाक्यभेदः स्यादित्येकरसयैव प्रवृत्त्यौपात्तगुणविशिष्टस्य द्रव्यस्य क्रियासमन्वये तदेकवाक्यत्वं पोषितं भवति । नियमो द्रव्यगुणयोराधेयान्तरादाधारान्तराच्च व्यवच्छेदः सति परस्परसंबन्धे । न चान्यनिवृत्तेः शब्दान्तरमस्ति वाचकमित्येकवाक्याख्यशब्दोपादानासो न श्रौतीति वाक्यीयावतिष्ठते । तदुक्तं न्यायवादिभिः-- `अर्थैकत्वे द्रव्यगुणयोरेककर्म्यान्नियमः स्यात्' (Mi.Su.3.1.6.12)
इति । यत्राथैकत्वं श्रूयते वाक्ये तत्र द्रव्यगुणयोर्नियमो भवति परस्परसंबन्धात्मकः । कुतः ? एककर्म्यात् । एकं हि कर्म वाक्यार्थभूतं क्रियालक्षणम् । प्रधानमुद्दिश्य द्रव्यगुणौ शेषभूतौ विधीयेति इति तयोः परस्पराकाक्षत्वादेकवाक्यतायां सामानाधिकरण्यावसाय इति सूत्रार्थोऽस्मन्नयानुगुणः ।। 75 ।।
एवमवस्थिते सतीदमत्रापपतीत्याह--
तत्र द्रव्यगुणाभावे प्रत्येकं स्याद्विकल्पनम् ।
श्रुतिप्राप्तो हि संबन्धो बलवान्वाक्यलक्षणात् ।। 76 ।।
  (117) श्रुतिप्राप्तः श्रुत्योपस्थापितः क्रियाकारकसंबन्धः वाक्यं लक्षणं लक्ष्यतेऽनेनेति प्रातिपदिकं यस्य तस्माद्बलवान् इति तस्य सर्वथा त्यागाभावः । साक्षाद्द्वितीयाश्रुतिस्तिङ्‌विभक्तिश्च श्रौतसंबन्धावेदिका, अन्योन्यस्वरूपानुविद्धयोः क्रियाकारकयोः प्रतीतेः । वाक्ययस्य तु संबन्धस्य साक्षाद्वाचकं नास्ति केवलमुभयस्मैकवाक्योपादानाद्योग्यार्थसमन्वयपदान्तरसमवधानात्परस्परेण संबन्धो व्यवस्थाप्यत इति श्रुत्यपेक्षया दुर्बलत्वम् । पदान्तरापेक्षणाच्च पदान्तरस्य नियतस्य सन्निधानाभावान्नावश्यं वाक्पीयसंबन्धो विशेषणविशेष्यभावलक्षम इति तस्मिन्बहिरङ्गे निवृत्तेऽपि श्रौतस्यान्तरङ्गस्यपानिवृत्तिः ।। 76 ।।
एवं च `श्वेतं छागमालभेत' इति वाक्ये श्वेताभावे कृष्णस्यालम्भनवच्छागाभावे पिष्टपिणडीमालभ्य कृती स्यादिति चोद्यमत्र दर्शने । जातिपदार्थनये तु सिद्ध्यतीष्टव्यवस्थेत्याह--
यदा तु जातिः शक्तिर्वा क्रियां प्रत्युपदिश्यते ।
सामर्थ्यात्संनिधीयेते तत्र द्रव्यगुणौ तदा ।। 77 ।।
(118) `केषांचित्साहचर्येण जातिः शक्त्युपलक्षणम्'
(Vak.III.जा.3.)
इति जात्युपलक्षिता शक्तिः । जातिपदार्थे प्रतिनिध्युपादानार्थं क्रियासाधनत्वेव चोद्यते इत्युक्तत्वाज्जातिः शक्तिर्वेत्याह । अत्र दर्शने न द्रव्यगुणयोः श्रौतः क्रियाभिसंबन्धः, अपि तु जातिक्रिययोः शक्तिक्रिययोर्वा विभक्तिप्रापितः संबन्धः । निराधारयोश्च जातिशक्त्योरसंभवात् सामर्थ्यात्संनिधापितं स्वाधारं द्रव्यं तेनापि स्वाधेयो गुण इति द्वयोरपि द्रव्यगुणयोः सामर्थ्यप्राप्तत्वम् ।। 77 ।।
ततश्च प्रतिनिधिविषये--
जातीनां च गुणानां च तुल्येऽङ्गत्वे क्रियां प्रति ।
गुणाः प्रतिनिधीयन्ते छागादीनां न जातयः ।। 78 ।।
  (119) द्रव्यव्यवधानाद्‌द्वावपि जातिगुणौ क्रियाङ्गभावमनुभवत इति तुल्यत्वम् । तत्र तथापि छागादीनां संबन्धिन्यो जातयो न प्रतिनिधीयन्ते छागाभावे मेषो नालभ्यते, अपि तु गुणानामेव प्रतिनिधिः प्रसिद्धः--श्वेताभावे कृष्णोऽपि छाग आलभ्यते ।। 78 ।।
कात्र युक्तिरित्याह--
व्यक्तिशक्तेः समासन्ना जातयो न तथा गुणाः ।
साक्षाद्‌द्रव्यं क्रियायोगि गुणस्तस्माद्विकल्पते ।। 79 ।।
  (120) व्यक्तिशक्तेः द्रव्यशक्तेः, शक्तस्य द्रव्यस्येत्यर्थः । शक्त्यायत्तो द्रव्यस्य क्रियापयोग इति शक्तिग्रहणम् । उत्पत्तिप्रभृत्याविनाशादन्वयादधिष्ठानसंबन्धयोश्चैककालत्वादासन्ना द्रव्ये जातिः । गुणास्तु तन्निष्ठोत्तरकालभाविनः कालान्तरपरिवासादन्योन्यस्वभावपरिणामिन इति द्रव्याद्विप्रकृष्टाः । यदि नाम न समासन्ना गुणाः कथमेतावता विकल्प इत्याह--साक्षाद् द्रव्यं क्रियायोगि इति । एतदुक्तं भवति । यदि द्रव्यमनपेक्ष्य गुणः साक्षात्क्रियायोगी स्यान्न विकल्पेत । यदा तु द्रव्यं साक्षात्क्रियायोगि, जातिगुणौ तु तद्द्वारेम तदा प्रत्यासत्तिविप्रकर्षचिन्ता जायते । तथा हि--द्रव्यं साक्षाच्छक्तं क्रियासंबन्धक्षममिति तद्द्वारेण समन्वययोग्यम् । तत्रासन्नं न विकल्पते जातिरूपमित्यन्यजातीयस्य न प्रतिनिधिः, अपि त्वन्यगुणस्य । कृष्णेऽपि छागे छागबुद्धिरन्वेत्येव । अन्यजातीयस्योपादाने तु जातेरात्मकल्पायास्त्यागे सर्वथैव साधनभेदात्क्रियान्तरमेव स्यात् । कदरे तु जातेरात्मकल्पायास्त्यागे सर्वथैव साधनभेदात्क्रियान्तरमेव स्यात् । रदरे तु सादृश्यात्खदिरबुद्धेरनपगमः । एतच्च जातिपक्षे युज्यते, श्रौतस्य जातिरूपस्यात्यागात् । द्रव्यपदार्थपक्षे तु जातेरनभिधेयाया उपलक्षणत्वात्तत्त्यागेऽपि नास्ति श्रौतार्थत्याग इति अन्यजातीयस्यापि प्रतिनिधिप्रसङ्गः । श्रौतस्य संबन्धस्य च द्रव्यपदार्थपक्षे पूर्वं गुणद्रव्ययोः साम्यमुक्तम् , इह तु सामर्थ्यादाक्षेपे प्रत्यासन्ना जातिर्न त्यज्यते इति जातिपदार्थमुत्कर्षयितुमेवं विचारितम्, अत एव `यदा तु जातिः' इति तु शब्दः पूर्वस्माद्विशेषणार्थः । तदेतद्भाष्येऽभिहितम्--
`यत्र ह्यन्तरद् द्रव्यं तत्प्रधानम्, न हि शुक्लामालभेतेति पिष्टपिण्डीमालभ्य कृती भवति' (M.Bha.on P.2.1.56)इति । प्रत्यासन्नतरत्वाज्जातेस्तद्वाची द्रव्यशब्दोऽभिप्रेतः न गुणोपसर्जनद्रव्यवाची । अनिर्धारितरूपस्य हि द्रव्यस्य जातिरात्मरूपनिर्धारणोपयोगिनी स्वात्मप्रदानेनारूपिता तदाकारतां प्राप्नोति । तत्प्रतिनिधौ वस्त्वन्तरभावाच्चोदितस्य त्यागप्रसङ्गः ।। 79 ।।
पूर्वोक्तं पक्षमन्यमतत्वेनोपसंहरति--
साम्येनान्यतराभावे विकल्पः कैश्चिदिष्यते ।
अतद्गुणोऽतश्छागः स्यान्मेषो वा तद्गुणो भवेत् ।। 80 ।।
  (121) यथा जातिर्द्रव्योपलक्षणम्, निरुपाधेरर्थस्याव्यवहार्यत्वात्, एवं गुणोऽपि । तथा जातिवदाधारनियतो गुणो नीलादिर्वाय्वाकाशादेस्तदभावादिति सति साम्ये ये द्रव्यवद्भेद्यत्वाद्य्रव्यलक्षणप्राप्तं गुणमप्यभिधेयं मन्यन्ते व्याडिदर्शनस्थिता द्रव्यपदार्थिकाः, तेषां गुणोऽपि क्रियासंबंन्धं जातिवद्य्रव्यद्वारेणार्हति इति श्रौतसंबन्धपरिपोषार्थं वाक्यीयसमन्वयत्यागेन द्वयोरपि गुणद्रव्ययोः प्रतिनिध्युपपत्तिरित्यनभिमतमपि पक्षं मतान्तरत्वेन निर्दिशति कैश्चिदिति । द्रव्यस्य हि प्रतिनिधिर्भाष्यकारप्रभृतिभिः शिष्टैर्नाङ्गिकृतः ।। 80 ।।
एवं प्रासङ्गिकं परिसमाप्य प्रकृतमेवानुसन्धातुमाह--
जातेराश्रितसंख्यायाः प्रवृत्तिरुपलभ्यते ।
संख्याविशेषमुत्सृज्य क्वचित्सैव प्रवर्तते ।। 81 ।।
  (122) प्रासङ्गिकेन पूर्वप्रस्तुतस्य व्यवधानादुक्तमप्येतत्पुनः स्मारितं सामान्येनाधिकं विशेषं वक्तुम् ।। 81 ।।
तथा हि--
पराङ्गभूतं सामान्यं युज्यते द्रव्यसंख्यया ।
स्वार्थं प्रवर्तमानं तु न संख्यामवलम्बते ।। 82 ।।
  (123) पूर्वं शाब्देन व्यापारेण विधीयमानानूद्यमानत्वेन गुणप्रधानभावमाश्रित्य गुणेऽपि ग्रहे संख्याविवक्षितेति प्रतिपादितम् । इदानीं तु वास्तवं गुणग्रधानभावमाश्रित्य गुणे संख्या विवक्ष्यते इति न्यायोऽवतार्यते ।। 82 ।।
यजेत पशुनेत्यत्र यज्यर्थायां पशुश्रुतौ ।
कृतार्थैकेन पशुना प्रधानं भवति क्रिया ।। 83 ।।
  (124) यागस्य प्राधान्यात्तत्साधनभूतः पशुरित्येकेन यागसंपत्तौ प्रधानस्य क्रियालक्षणस्य वाक्यार्थस्य निष्पत्तेर्गुणभेदं प्रत्यनादरात्पराङ्गभूतमत्र पशुसामान्यं द्रंव्यसंख्यया युज्यते इति जातेराश्रितसंख्याया अत्र प्रवृत्तिः । तथा हि--प्रधानं गुणभेदे सत्यावर्त्तेतेति क्रियान्तरमेवैतत्स्यात् । ततश्च न प्रधानानुयायिनो गुणाः स्युः, अपि तु प्रधानं गुणानुयायीत्येतदनिष्टं प्रसज्येतेत्याह ।। 83 ।।
यावतां संभवो यस्य स कुर्यात्तावतां यदि ।
आलम्भनं गुणैस्तेन प्रधानं स्यात्प्रयोजितम् ।। 84 ।।
  (125) यस्य इति । अधिकारिणः । अङ्गप्रयुक्ते च प्रधाने प्रधानत्वमेव तस्य न स्यात्, तत्प्रति गुणानां च गुणत्वमिति संरक्ष्योऽयं नय इत्यभिप्रायः ।। 84 ।।
`स्वार्थं प्रवर्तमानं तु न संख्यामवलम्बते' (Vak.III.जा.82)
इत्यत्रोदाहरणमाह--
संमृज्यमानतन्त्रे तु ग्रहे यत्र क्रियाश्रुतिः ।
संख्याविशेषग्रहणं नैव तत्राद्रियामहे ।। 85 ।।
  (126) समृज्यमानो ग्रहार्थस्तन्त्रं यत्र ग्रहे ग्रहशब्दे । विशेषणसमासो वायम् । संमृज्यमानं च तन्त्रं च तस्मिन् ग्रहे संस्कार्यत्वात्प्रधाने संमार्जनक्रियायाः शब्दे न प्रधानभूतायाः यत्र श्रुतिः `ग्रहं संमार्ष्टि' इत्यत्र, तत्र स्वशब्देन प्रतिपादितस्यापि संख्याविशेषस्यैकत्वलक्षणस्य विवक्षा न भवति । उत्पत्तिवाक्यानुसारेणानेकसंख्यस्यैव तस्यात्र विवक्षितत्वात् । न हि संसर्गोऽत्र तन्त्रम्, येनैकेनापि ग्रहलक्षणेन साधनेन तस्य संपत्तावनेकोपादानं पशुवन्निष्फलं स्यात्, अपि तु ग्रहस्तन्त्रमिति यथासंभवं तस्य संस्कार इति संख्याविशेषमुत्सृज्यात्र जातिः प्रवर्तते ।। 85 ।।
तदेवं `गुणे संख्या विवक्ष्यते' न तु प्रधानभूत इत्यत्र शास्त्रीयं ज्ञापकमाह--
शिष्यमाणपरे वाक्ये यदेकग्रहणं कृतम् ।
शेषे विशिष्टसंख्येऽपि व्यक्तं तल्लिङ्गदर्शनम् ।। 86 ।।
  (127) `सरूपाणामेकशेषः' इत्यत्र शिष्यत इति शेष इति कर्मसाधनशेषशब्दाश्रयेण शिष्यमाणः अवतिष्ठमानः, परः प्रधानं एकशेषलक्षणेन संस्कारेण संस्कार्यत्वाद्भवतीत्येकवचनान्तत्वादेकसंख्यायुक्तेऽपि प्रतीते शेषशब्दे यत्पुनरेकशब्दोपादानम् तत्स्वार्थं प्रवर्तमानं प्रधानभूतं सामान्यमाधारगतसंख्याश्रयेण न प्रवर्तत इत्यस्यार्थस्य ज्ञापकं स्फुटम् । भावसाधने तु शेषशब्दे शेषणक्रियायाः प्राधान्यम्, न शिष्यमाणस्येति द्विबह्वोरपि शेषणमेकमेवेति, एकत्वे विवक्षितेऽपि द्विबह्वोर्निवारणार्थमेकशब्दोऽर्थवानेवेति न ज्ञापकं स्यात् ।। 86 ।।
एवं `गुणे संख्या विवक्ष्यते ' इति न्यायं वैदिकोदांहरणपृष्ठपातितयावस्थाप्य प्रकृतोपयोगितां दर्शयितुं व्याकरणेऽप्युदाहरणमत्राह--
समासप्रत्ययविधौ यथा निपतिता श्रुतिः ।
गुणानां परतन्त्राणां न्यायेनैवोपपद्यते ।। 87 ।।
  (128) `सुप्सुपा' इत्यत्र समासस्य विधिरिति तस्यैव प्राधान्यम् । न ह्यवयवानामिदमनुशासनम्, समुदाये तेषामन्तर्भूतत्वात् स्वातन्त्र्याभावात् । न चाप्यवयवाः केचनात्र वस्तुतः सन्ति । विशिष्टेऽर्थे समासपदस्याभिन्नस्यैव प्रवृत्तेः । यथोक्तं वाक्यकाण्डे--
`ब्राह्मणार्थो यथा नास्ति कश्चिद् ब्राह्मणकम्बले'(Vak.a.II.14)
इति । अभिन्नस्य समासपदस्यैव परिकल्पितपूर्वपरावयवविभागस्य सञ्चिकीर्षितत्वम् ष अन्वयव्यतिरेकाभ्यां हि विशिष्टार्थशब्दावधारणम् । तौ चात्र समासपदे राजपुरुषादौ स्तः । समुदायेन विशिष्टस्य संबन्धस्य प्रतिपादनात्, अवयवाभ्यामप्रतिपादनात् । समुदायसंस्कारप्रयुक्त एव चावयवानां विभक्तिलोपह्रस्वत्वपुंवद्भावादिसंस्कारः । अवयवसंस्कारनान्तरीयकत्वात्समुदायसंस्कारस्य । तस्मादत्र समासविधौ येन प्रकारेणैकसंख्यामुपादायैकत्वं प्रतिपादयन्ती श्रुतिः `सुप्सुपा' इति शब्दोपनिपतिता श्रोत्रविषयभावमागता, तेनैव प्रकारेण न्यायेनोपपद्यते युज्यते । श्रुतमेकत्वं विवक्ष्यत इत्यर्थः । कोऽसौ न्याय इत्याह `गुणानां परतन्त्राणाम्' इति । प्रधानवशवर्तित्वाद्गुणानाम् अवयवानां यां संख्यामुपादायार्थे प्रवृत्ता सती `सुप्सुपा' इति श्रुतिस्तत्संख्यायोगिनमेवार्थं प्रतिपादयतीत्येकैकस्य सुबन्तस्य समासः कष्टश्रित इत्यादौ भवति न तु बहूनाम् । महत्कष्टं श्रित इति द्वितीयान्तजातेराश्रयादनेकस्य हि समासे तस्यानियतत्वादनवस्थानात्प्रधानभूतः समासोऽनियमेन प्रतीयत इति विप्लवात्तस्यानुग्रहो निराकृतः स्यादिति प्रत्यवयवं समासभेदात् गुणायत्तं प्रधानं स्यात् न तु गुणाः प्रधानानुयायिन इत्यर्थः ।
द्वन्द्वबहुव्रीह्योस्तु `अनेकम्' इति वचनसामर्थ्यादनेकपदावयवः समासोऽभ्युपगत एव । अत एव च लिङ्गादन्यत्र संख्याविवक्षासिद्धिः । प्रत्ययविधौ अपि `ङ्याप्प्रातिपदिकाद्' इत्यत्र समाहारद्वन्द्वनिर्दिष्टायाः प्रातिपदिकलक्षणायाः प्रकृतेः सिद्धरूपाया अनुवादात्स्वादिविधिवाक्येऽधिकारादपूर्वस्य स्वादेरेकवाक्यतया प्रत्ययस्य विधानमिति तस्य प्राधान्यात्तदङ्गे प्रातिपदिके यथाश्रुतसंख्याङ्गीकारः । ननु च `सुप्सुपा' इति विभक्त्यैकत्वस्य प्रतिपादितत्वादस्तु संख्याविवक्षा, `ङ्यात्प्रातिपदिकाद्' इत्यत्र तु कासावेकत्वसंख्या श्रुता यस्या विवक्षोच्येत । यदि समाहारैकत्वं तदयुक्तम्, तस्य समुदायसंबन्धित्वात्, समुदायाच्च प्रत्ययोत्पत्तेरविवक्षितत्वान्न तस्यैकत्वमत्र विवक्षितत्वेन प्रतिपाद्यम्, अपि तु प्रत्येकमवयवानाम् । तेषां चात्र वृत्तावन्तर्गतत्वाव्द्यित्वादिप्रतियोग्येकत्वं न प्रतीयते, अपि त्वनिर्ज्ञातसंख्याविशेषाणि स्वरूपमात्रेण ङ्याप्प्रातिपदिकानि । भवतैव तर्ह्यस्माकं दिक् प्रदर्शिता, लयमप्यधुना तर्ह्येवं व्याचक्ष्महे । यथा निपतिता श्रुतिः येनैव प्रकारेण निपतिता अर्थवच्छब्दरूपं च स्वरूपमात्रेण प्रतिपादयन्ती निपतिता । तथा च तावति तात्पर्यमिति न द्वितीयमपेक्षते, द्विवचनबहुवचननान्तानामसमासाद् वृत्तौ संख्याविशेषानवगतेः प्रतियोगापेक्षामन्तरेण च द्वित्वाद्यनुत्पत्तेः । अतश्चार्थात्प्रत्येकमेकत्वं `ङ्याप्प्रातिपदिकाद्' इति वदतो विवक्षितम् । अन्ये तु ग्रहणकवाक्यादस्माद्यत्‌प्रातिपदिकं जायते ङ्यन्तादाबन्तात्प्रातिपदिकादिति, तत्र श्रुतमेकत्वं विवक्ष्यत इति व्याचक्षते, अत्र तु `यथा निपतिता श्रुतिः' इत्यवाचकम् । न हि प्रातिपदिकमुपप्लवमानं वाक्यं श्रुतिविषयम् । तदत्र संख्याविवक्षायां बहुभ्यो ङ्याप्प्रातिपदिकेभ्यः स्वादेः प्रत्ययस्य परत्वासंभवाद्यथाप्रकृत्यावर्तेत प्रत्ययः । तथा च गुणानुयायि प्रधानं स्यान्न तु गुणास्तदनुयायिनः ।
ननु च स्वादीनां प्रकृतिसंबन्धस्य विधीयमानत्वात्कथं तेषां प्राधान्यम् । एवमपि प्रकृतीनां तावद्गुणत्वं सिद्धमिति तत्र `गुणे संख्या विवक्ष्यते' इति सिद्धोऽस्मन्नयः । न च प्रकृतिरेव प्रत्ययपरतया संचिकीर्षिता । प्रकृतिप्रत्ययपरिकल्पनेन पदस्यैवान्वाख्येयत्वात् तस्यैव लोके प्रयोगात् । यद्यपि च प्रत्ययपरत्वेन संस्कृता प्रकृतिरेव पदम्, तथापि तात्पर्यदृशा प्रकृतेः प्रक्रियाभेदेनासत्यत्वादविकल्पं पदमेव सत्यमुद्दिश्य संस्कारप्रवृत्तिः । वाक्यार्थप्राधान्ये त्वपूर्वस्य प्रत्ययस्यैव लिधीयमानत्वात्प्राधान्यम् । अत एव `समासप्रत्ययविधौ' इत्याह । इत्थं च नात्र भिन्नवाक्यतया संबन्धिविधानम् , प्रक्रियायां प्रकृत्यनुवादेनैकवाक्यतया स्वादीनां विधानात् । सुप्तुङोरविशेषविधानादिति तु संख्यावाक्यभेदाभिप्रायम्, न तु प्रकृतिवाक्येनापि नैकवाक्यतात्र विवक्षितेति मन्तव्यम् । न चैकवाक्यतया विधाने प्रत्ययसंज्ञासंबन्धो विलक्षणः प्रवृत्तिभेदेन विना न शक्यते विधातुम् । विधिसंबन्धौ हि पूर्वम् ततो विधानाल्लब्धसत्तानां स्वादीनां प्रत्ययसंज्ञासंबन्धः । सतो हि कार्यिणः कार्येण भवितव्यमिति वाच्यम् । भाविनोऽपि बुद्धया विषयीकरणाद्भाव्यमानावस्थानामेव प्रत्ययादिसंज्ञासमन्वयादित्येकवाक्यतयैवात्र प्रत्ययविधिर्ग्रन्थकाराभिमतः ।। 87 ।।
किमेष एवोत्सर्गः गुणे संख्या विवक्ष्यत इति । नेत्याह--
गुणेऽपि नाङ्गीक्रियते प्रधानान्तरसिद्धये ।
संख्या कर्ता तथा कर्मण्यविशिष्टः प्रतीयते ।। 88 ।।
  (129) तथा कर्तेति । एवं च सति कर्ता अविशिष्टः प्रतीयते । इति संबन्धः । स हि गुणः । ईप्सिततमं तु कर्म संजाद्वारेणाधीयमानसंस्कारं प्रधानम् । `कर्मणि' इति । `कर्तृरीप्सिततमं कर्म' इत्यत्र कर्मसंज्ञायां विधीयमानायां तस्या एव तया वा संस्क्रियमाणस्य कर्मणः प्राधान्यात् कर्तुः क्रियया ईप्सिततममिति स्वाश्रयक्रियासंबन्धितया कर्ता निर्दिश्यमानो गुणोऽविशिष्टः सूत्रोपात्तलिङ्गसंख्याभ्यामनवच्छिन्नः, कर्त्रोः कर्तॄणां च क्रिययेप्सिततमस्यापि कर्मसंज्ञासिद्धयर्थं भूयः प्रधानानुग्रहाय प्रतीयते अवगम्यते । समासप्रत्ययविधौ तु बहूनां सुबन्तानां समासेऽव्यवस्था स्यात्, बहुत्वस्यानियतत्वात् । कर्मसंज्ञा तु बहुविषया प्रचयमनुभवतीति न दोषः । प्रत्ययविधिरपि बहुभ्यः प्रकृतिभ्यो नास्ति, परत्वस्यानिर्वाहात् । तथा च सरूपवार्त्तिक उक्तम्--
`एकविभक्ताविति चेन्नाभावाद्विभक्तेः' (Var.on P.1.2.64)
इति ।
तदेवं प्रधानप्रचये भूयाननुग्रहः कृतो भवतीति प्रधानस्याविवक्षितसंख्यत्वे सिद्धे न गुणगता संख्याश्रीयते । अन्यथा प्रधानसङ्कोचे तदुपरोधः स्यादिति प्रधानान्तरसिद्धिः । प्रयोजनमेतद्युक्तिगर्भं द्रष्टव्यमिति गुणानां पारतन्त्र्यादेव न्यायात् `कर्तुरीप्सिततमं कर्म' इत्यत्र न विवक्ष्यते संख्येत्युक्ता युक्तिः ।। 88 ।।
अत्रैपोद्वलनार्थमाह--
यस्यान्यस्य प्रसक्तस्य नियमार्था पुनः श्रुतिः ।
निवृत्तौ चरितार्थत्वात्संख्या तत्राविवक्षिता ।। 89 ।।
  (130) यस्य पुनः श्रुतिरिति संबन्धः । पूर्वं सामान्येनाक्षेपादेकैव श्रुतिः पुनः श्रुतिरित्युच्यते । यथेह कर्तुः । पुनः शब्दो वा तुशब्दार्थे । पूर्वमप्रधाने विवक्ष्यते संख्येत्युक्तम्, तदपेक्षयेह विशेषद्योतनार्थः । किमर्थमसौ पुनः श्रुतिरित्याह अन्यस्य कर्मादेः, प्रसक्तस्य प्राप्नुवतः, नियमार्था निवृत्त्यर्था । तथा हि ईप्सिततमस्य संबन्धिशब्दत्वाद्येनोप्सिततमं कर्म तस्याक्षेपस्तवत्सिद्ध इति करणादेरपीप्सिततमप्रसङ्गे कर्तुरित्युच्यमानं कारकान्तरनिवृत्तितात्पर्यान्नियमार्थमिति । द्वौ बहवो वा कर्तारो न निवारिताः, तथापि कारकान्तरनिवृत्तिर्विवक्षिता सिद्ध्यत्येवेति निर्देशार्थैवात्र संख्या । नन्वेवमनेनैव न्यायेन यजिना अनियताङ्गाक्षेपात्पशुनेति करणान्तरनिवृत्तितात्पर्येणोच्यमानमविवक्षितसंख्यं प्रसज्येत ।
नैष दोषः । यथेप्सिततमस्य संबन्धिशब्दत्वादवश्यं साधनमात्राक्षेपे सिद्धे कर्तुरिति पुनः श्रुतिर्भवति, नैवं यजेः करणाक्षेपोऽवश्यंभावी । देवतोद्देशेन हविःप्रक्षेपमात्रस्य यज्यार्थत्वात्त्यज्यमानस्यैवाक्षेपो न करणस्येति करणाक्षेपनान्तरीयकत्वाभावान्न पशुनेति पुनःश्रुतिः, अपि त्वपूर्व एवायमङ्गविधिः । पशुरेवात्र त्यज्यमान इति चेत्, त्यागमात्रेऽपि तर्हि यजेः प्रयोगो दृश्यते--अग्नौ सुष्ठु यजत इति । अत्रापि हविष अक्षेप इति चेत् एवं तर्हि दृष्टार्थानां क्रियाणां लोके भवेन्नाम सामर्थ्यात्साधनाक्षेपः । अदृष्टार्थासु तु शब्दप्रमाणकत्वात्त्यजेतेत्यतो यागः कर्तव्य इत्येव प्रतीतेः पशोरपूर्वैव चोदनेयमिति यथाश्रुतसंख्याविवक्षैव न्याय्या । न च तस्मिन्यागे द्वाभ्यां प्रधानान्तरसिद्धिरस्ति । नापि यागान्तरे, एकेनैव सर्वस्य यागस्य सिद्धेः । ननु च कारकान्तरनिवृत्तितात्पर्ये कर्तुः सार्थाद्धीयते पथिक इत्यत्रापादानेन सार्थेनेप्सिततमस्य पथिकस्य कर्मसंज्ञाभावाद्धीयत इति कर्मणि लकारोत्पत्तिः कथम् ? न चायं कर्मकर्तृविषयः, कर्मस्थक्रियाणां कर्मवद्भावस्योक्तेः । जहातिश्च त्यागमात्रवचनः कर्तृस्थक्रियः । सार्थो हि त्यजति पथिकम्, तं नानुगच्छति । ततश्च पथिकस्यापायस्तत्फलं न धातुवाच्यः । किञ्च पूर्वं कर्मणः सतः कर्तृत्वं कर्मकर्तृत्वम् । इह तु सार्तापेक्षमेव पथिकस्य कर्मत्वम् , स च सार्थोऽपादानमिति कथं तदपेक्षं कर्मत्वमित्येतदेव चोद्यते । अत्रोच्यते--इह कारकाणां स्वव्यापारे स्वातन्त्र्यं सर्वेषामेव विद्यते, अकिञ्चित्करस्य क्रियाङ्गभावायोगात् । तथा च सामान्यसंज्ञापूर्वको विशेषसंज्ञासंभव इति सार्थस्य जहातौ स्वातन्त्र्चमपादानस्यानपगतमेव । सार्थो हि पथिकं जहदपाये साधनभावमनुभवति । यथा ज्वलन्ति काष्ठानि पाके । ततश्च सामर्थ्यात्प्रतीयमानं स्वातन्त्र्यं कर्मसंज्ञाहेतुरत्रोपपद्यते--यथा प्रविश पिण्डीमिति । यद्येवं कर्मादीनामपि स्वव्यापारे स्वातन्त्र्यमस्त्येवेति तदाश्रयापि कर्मसंज्ञा स्यात् माषेष्वश्वं बध्नातीत्यनर्थकं कर्तुरिति विशेषणम् । नैतदस्ति । सदपि तत्र स्वातन्त्र्यं प्रधानेन कर्त्रा न्यग्भावितमिति न कर्मसंज्ञाहेतुः । इह तु सार्थस्यापगमाङ्गे त्यागे जहातेर्वर्तनादपगमेऽपादानत्वं न्याय्यम् । त्यागे तु स्वातन्त्र्यं न विरुध्यत इति भवति तदपेक्षं कर्तृत्वम् । नन्वेवमपि स्वातन्त्र्यस्यात्र न्यग्भावाभावे
`अपादानमुत्तराणि' (Va.on P.1.4.1.)
इति कर्तृसंज्ञाया अपादानसंज्ञाया बाधनात्कर्तृंतृतीयैव स्यात् । तद्यथा `धनुषा विध्यति' इति करणे तृतीया । नैष दोषः । नान्तरीयकयोः शक्‌त्योः शब्दसामर्थ्यादुभयोः प्रतीतौ युगपद्विवक्षायां बाध्यबाधकभावः । तथा हि --धनुषः शरनिस्सरणेऽवधिभावगमनं विना वेधने साधकतमता नोपपद्यत इति द्वयोर्युगपद्विवक्षायां करमसंज्ञया अपादानसंज्ञाबाधनात् तृतीया । कृतायामपि तृतीयस्यामस्याबधिभावः प्रतीयत एवेति । अभिन्नफलत्वे सति तुल्यबलत्वात्परत्वेन व्यवस्था । सार्थेन हि पथिको हीयते । यावच्चासावपि ततोऽनपेतस्तावत्सार्थस्य कुतस्तं प्रत्यपादनत्वमिति तदभिधातुमपादाने पञ्चम्येवात्र न्याय्या । तत्र च त्यागफलरूपापायस्य प्रतीतेस्त्यागे स्वातन्त्र्यमवगम्यत एव । ननु सार्थेन हीयत इत्यत्रापायो गम्यत एव । तथा हि--हीयत इति कोऽर्थः ? त्यज्यत इति । यदि च ततः सार्थादपेयात्पथिकः, ततोऽस्य सार्थस्य तस्यां जहातिक्रियायां कर्तृत्वमुपपद्यते नान्यथा । सत्यमेतत्, किन्तु सार्थेन हीयत इत्युक्ते संशयो जायते--किं सार्थेनात्मनः सकाशात् पथिकः परित्यज्यते किं वा अन्यतः सार्थेनापकृष्यते इति । अवधिभावे तु सार्थस्य पञ्चम्या प्रतिपादिते तस्यैव कर्तृत्वं नियतमवगम्यते । तस्मादन्यथासिद्धावधिभावप्रतिपत्त्यर्थमपादानसंज्ञैव तत्र विधेया न तु विप्रतिषेधः फलभेदे सत्यतुल्यबलत्वादाश्रयितुं शक्यः धनुषा विध्यतीत्यत्र तृतीयस्यां कृतायां धनुषः शरावधिभावोऽपि अभिन्नफलत्वे सति तुल्यबलत्वेन परत्वादपादानमुत्तराणि बाधन्त इति युक्तम् । सार्थे तु विवक्षितार्थप्रतिपादनसामर्थ्यात्कर्तृसंज्ञा न प्रवर्तते । यद्येवं कर्तृरिति कर्तृसंज्ञकेनोप्सिततमस्य कर्मसंज्ञायां पथिकस्य तदभाव इति तदवस्थं चोद्यम् । नैतत् । कर्तृग्रहणस्य स्वातन्त्र्योपलक्षणादिति सामान्येन कर्तृसंज्ञकत्वात्कर्तृसंज्ञकत्वमनपेक्ष्य प्रधानभूतं स्वातन्त्र्यमात्रं यस्यास्ति कर्तृसंज्ञकस्याकर्तृसंज्ञकस्य च तस्योभयस्याप्येकवाक्यतया संग्रह इति वाक्यभेदानवतारात्सर्वं सुस्थम् । एवं
`लः कर्मणि च भावे चाकर्मकेभ्यः'(P.3.4.69)
इति वचनात् भावकर्मकर्तृषु सामान्येन विधानात्परस्मैपदात्मनेपदयोरविशेषेण प्रसक्तौ भावकर्मणोः `शेषात्कर्तरि' इति नियमार्था पुनः श्रुतिर्निवृत्तितात्पर्यादविवक्षित संख्येति प्रत्ययनियमपक्षे नियम्यमानत्वात्प्रत्ययस्य प्राधान्येऽर्थानां गुणत्वाद्गुणेऽपि संख्या नाङ्गीक्रियतेऽत्रेति द्विबहुष्वपि कर्मादिष्वात्मनेपदपरस्मैपदसिद्धिरत्रोदाहरणत्वेन योजनीया । अयमेव ह्यस्य मुख्यो विषयः, पूर्वश्रुत्यैव विदावुपादानात्पुनश्शब्देन नियमार्थमेवानुवादात् । तथा च `यजेत पशुना' इत्यादावतिप्रसङ्गो न भवति । पशोरुत्पत्तिवाक्यं किलेदं प्रथममित्यविषय एवायमस्य श्लोकस्य । एवं
`सरूपाणामेकशेषः'(P.1.2.64)
इत्यत्र शिष्यमाणपरे वाक्ये विरूपनिवृत्त्यर्थत्वात्सरूपश्रुतेः श्रुतसंख्याऽविवक्षायां द्वयोरित्येकशेषः सिद्धयति ।। 89 ।।
गतमदः । उक्तमिदम्--
`समासप्रत्ययविधौ यथा निपतिता श्रुतिः ।
गुणानां परतन्त्राणां न्यायेनैवोपपद्यते ।।' (Vak.III.जा.97)
इति । तथा च प्रातिपदिकेभ्य एकस्या विभक्तेरभावात्
`एकविभक्ताविति चेन्नाभावाद्विभक्तेः' (Va.on P.1.2.64)
इति प्रातिपदिकैकशेष एकविभक्तिनिमित्तो दूषितः । अत्र तु भाष्ये
`अथवा पुनरस्त्वेकविभक्तावेकशेषः'
इति स एव सिद्धान्तितः, तत्कथमुपपद्यत इत्युपपादयितुमाह--
सरूपसमुदायात्तु विभक्तिर्या विधीयते ।
एकस्तत्रार्थवान्सिद्धः समुदायस्य वाचकः ।। 90 ।।
  (131) सहविवक्षायामेकशेषवचनात्परस्परापेक्षावयवार्थोपपादितसमुदायार्थप्रादुर्भावात्सरूपप्रातिपदिकविषयेऽवयवानां समुदायस्य च पृथगेवार्थवत्त्वाद्भिन्नैव प्रातिपदिकसंज्ञा । ततश्च समुदायात्प्रातिपदिकादस्त्येका विभक्तिः
`ङ्याप्प्रातिपदिकात्'।(P.4.1.1)
इत्यत्र संख्याविवक्षायामपि । ननु च समुदायात्प्रातिपदिकादिवावयवेभ्योऽपि प्रातिपदिकेभ्यो विभक्तेरुत्रत्तिरत्र स्यात् । तथा च समुदायविभक्तेरन्त्यावयवविभक्त्या व्यवधानात्कथं `एकविभक्तौ' इत्यरयोपपत्तिः । अथ सुबन्तानां सरूपाणामेकशेषो न प्रातिपदिकानामिति नास्ति व्यवधानम्, एवमपि योऽसावेकः सुबन्तः शिष्यते तदीया विभक्तिरपि शिश्यत इति सा समुदायविभक्तिश्चेति द्वे श्रूयेयाताम् । अत्रोच्यते--समुदायावयवसन्निधाने समुदायकार्यमेव प्रवर्तते नावयवकार्यम् । समुदायपारतन्त्यादवयवानाम् । अस्ति च समुदायकार्येण विभक्त्याख्येनात्रावयवानामनुग्रहः । तथा हि--समुदायादुत्पद्यमाना विभक्तिरवयवार्थगतमपि संख्याविशेषं विभजति स्पष्टम् । अवयवार्थानामेव परस्परापेक्षितरूपाणां समुदायार्थत्वादिति लाघवेनैकेनैव प्रयत्नेन तन्त्रलक्षणेनावयवानुग्रहः कृतो भवतीति नावयवेभ्यः पृथग्विभक्‌त्युत्पत्तिः । तद्यथा--पपाचेत्यत्र समुदायैकाच एव द्विर्वचनेनावयवैकाचामप्यनुग्रहः । विरूपसमुदायविषये तु सहविवक्षासम्भवेऽपि न समुदायार्थप्रादुर्भावः । तथा ह्युक्तम्--
`याभ्यां चैकमनेकार्थं ताभ्यामेवापरम् '
इति । अवयवार्थानां प्राधान्यात्प्रत्यवयवं तत्र विभक्‌त्युत्पत्तौ द्वन्द्वः सुबन्तानां सिद्धयति । ननु च सरूपविषयेऽपि परस्परापेक्षैवावयवानां समुदायप्रादुर्भावबीजम्, न तु सरूपार्थसमवेतजातिसम्भवात्समुदायस्य, तद्वाचकत्वेऽभिन्नसमुदायार्थोपपत्तिः, जातिपदार्थदर्शने प्रत्याख्यानादेकशेषस्य । किञ्च जातेरभिधेयत्वे द्विवचनबहुवचनानुपपत्तिः, एकत्वात्तस्याः । कामं बहुवचनं तान्त्रिकं भवेत् न तु बहुद्रव्यावसायः । तस्मादुद्भूतावयवार्थभेदः समुदायोऽपेक्षितेतरेतरावयवार्थाभिधायित्वात्सरूपविरूपविषयेऽपि समान एव । एवं तर्हि सुबन्तानां द्वन्द्ववचनसामर्थ्यात्तन्त्रेण विरूपसमुदायादेकाविभक्तिर्नोत्पद्यते । सरूपविषये तु न किञ्चिद्बाध्यते इति तत्रैवायं न्यायः । यदि वा व्यक्तिपदार्थनयेऽप्यारब्धे एकशेषे जातिरनभिधीयमानापि सम्बन्धव्युत्पत्त्यर्थमवश्यमुपलक्षणत्वेनापेक्षणीयेति तन्निबन्धना सरूपाणां सङ्घटना । प्रातिपदिकानां विरूपाणां त्वेकक्रियाविषयत्वेना पेक्षितसुबन्तावस्थायां संघटनम्, न प्रातिपदिकावस्थायां घनमित्यादौ समुदायस्यैवार्थवत्वान्नायं तन्त्राख्यो न्यायः संभवतीत्यतः सत्यां प्रातिपदिकसंज्ञायामर्थवद्ग्रहणेऽवयवेभ्योऽप्यनर्थकेभ्यो विभक्‌त्युत्पत्तौ नलोपादिचोद्योद्भावनं युक्तमेव । अप्रयोगसमवायिनोऽपि च प्रातिपदिकस्य परस्परार्थापेक्षा प्रयोक्त्राकांक्षायत्ता पदवदुपचर्यत एव । न हि पदमपि वाक्यमपि वा अप्रयोगसमवायि स्वतः किञ्चिदपेक्षते । प्रयोक्त्रधीना ह्याकांक्षापरपर्यायेच्छा योग्येषु शब्देषवध्यारोप्यते । असति च प्रातिपदिकस्यापेक्षणे नियतक्रियाविषयसाधनभावापरिज्ञानाद् द्वितीयाद्यनुपपत्तेः पदमेव नावतिष्ठेत इत्यपेक्षासिद्धौ समुदायार्थोपपत्तिः । सामर्थ्ये च समासविधानात् प्रातिपदिकार्थानामपेक्षानुमानम् । सर्वत्रैन च प्रकृतिप्रत्ययादीनामपोद्धारार्थेनार्थवत्ताभ्युपगमे परस्परमन्वयोपपत्तिः । तदेव समुदायार्थोपपत्तौ तस्य वाचकः प्रातिपदिकसमुदायोऽर्थवत्त्वात्प्रातिपदिकसंज्ञकः सिद्धः । समासग्रहणेन तुल्यजातीयविषयत्वान्नियमस्य, सुबन्तसमुदायस्य वाक्यस्यैव प्रातिपदिकसंज्ञा निवार्यत इत्येकविभक्तौ प्रातिपदिकैकशेषः समर्थितः संख्याविवक्षायामपि ।। 90 ।।
एवं च कृत्वा भूयान्प्रधानस्यानुग्रहः कृतो भवतीत्याह--
प्रत्ययस्य प्रधानस्य समासस्यापि वा विधौ ।
सिद्धः संख्याविवक्षायां सर्वथानुग्रहो गुणे ।। 91 ।।
  (132) `ङ्यात्त्प्रातिपदिकात्' इति प्रकृत्यनुवादेनापूर्वस्य प्रत्ययस्य विधौ विवक्षितदायामपि संख्यायां गुणे केवलात्प्रातिपदिकात्समुदायाच्चोत्पत्तिः तस्य सिद्धेति सर्वथा सर्वेण प्रकारेण, प्रधानस्य प्रत्ययरूपविषयव्याप्तिलक्षणः अनुग्रहः सिद्धः । तथा `सुप्सुपा' इति समासस्यापि प्रधानस्य विधौ विवक्षितायामपि गुणे संख्यायां द्वन्द्वेऽनेकग्रहणात् बहूनां समासः करिष्यते । बहुव्रीहौ त्वनेकपदावयवे स्वरसमासान्तपुंवद्भावेषु दोषोऽवयवतत्पुरुषाश्रयेण निवारित इति नास्त्यनिष्टम् । अविवक्षितायां संख्यायां बहूनामव्यवस्थितत्वान्नियमेन समासो न विज्ञायेतेत्युपरोधस्तस्य कृतः स्यात् । उत्तरपदे द्विगुविधानाच्च लिङ्गात्सुसूक्ष्मजटकेशादावनेकपदो बहुव्रीहिः सिद्धः । द्वयोश्च द्वन्द्वे कृते पुनरपरेण सह द्वन्द्व इत्येकवचनमुपसर्जनार्थमित्युक्तम् ।। 91 ।।
एवं पूर्वं प्रातिपदिकार्थभूतां जातिं निरूप्य विभक्त्यर्थोऽपि संख्याजातिरित्युक्‌त्वा तत्प्रसङ्गेन विवक्षाविवक्षे विचार्य इदानीं तस्यामेव जातौ यदधिकं विचार्यमवशिष्यते तदेव विचारयितुमाह--
अभेदरूपं सादृश्यामात्मभूताश्च शक्तयः ।
जातिपर्यायवाचित्वमेषामप्युपवर्ण्यते ।। 92 ।।
  (133) इयमत्र शङ्का । अन्वयविज्ञानोन्नीयमानसद्भावा जातिरित्युद्घोष्यते । सा च व्यक्तिभ्यो व्यतिरेकेणात्मानं नो दर्शयति । तदेता एव व्यक्तयः सादृश्यादेकाकारप्रत्ययप्रसवहेतवः प्रकृत्यैवैकप्रत्यवमर्शजननसामर्थ्यादध्यासाद्वा सन्तु, किमपरेण सामान्येन कृत्यम् । तदेतदभ्युपगच्छति । अभेदरूपम् अव्यतिरिक्तं व्यक्तीनां यत्सादृश्यम् एकप्रत्यवमर्शजनकं वा व्यतिरिक्तमेव शक्तिलक्षणं सामर्थ्यं तदपि जातिरिति व्यपदिश्यत एव । अन्विताकारज्ञानजनकं हि व्यक्तीनां किञ्चन रूपं सामान्यमिति सर्वपार्षदो न्यायः । ततश्च सादृश्यं शक्तिरित्यापि नामान्तरेणोच्यताम्, न काचिदनुपपत्तिः । व्यतिरेकाव्यतिरेकचिन्ता तु प्रवादिनां ग्रह एवेत्यभिप्रायः ।। 92 ।।
अत्र वैशेषिकदर्शनाश्रयेण व्यतिरेकपक्षं जातीनां समर्थयितुमाह--
दण्डोपादित्सया दण्डं यद्यपि प्रतिपद्यते ।
न तस्मादेव सामर्थ्यात्स दण्डीति प्रतीयते ।। 93 ।।
नेच्छानिमित्तादिच्छावानिति ज्ञानं प्रवर्तते ।
तस्मात्सत्यपि सामर्थ्ये बुद्धिरर्थान्तराश्रया ।। 94 ।।
  (134) अयमत्रार्थः--इहानुगताकारे ज्ञाने व्यक्तीनां व्यावृत्ताकाराणां हेतुत्वं नोपपद्यत इति सामान्यं परिकल्प्यते । सादृश्यसामर्थ्ये तु व्यक्‌त्यव्यतिरिक्ते । तद्वदनुयायिनी व्यतिरिक्ता जातिरभ्युपगन्तव्या । ननु च सापि कथमनवयवेन व्यक्तिं नानुयायात् । तथा च गवाश्वादौ सांकर्यप्रसङ्गः । नैतदेवम्, प्रतिनियताश्रयवृत्तित्वात्सामान्यानाम् । किमत्र निमित्तमिति चेत् विशिष्टसंस्थानयोगित्वं व्यक्तीनाम् । अन्यो ह्यवयवसन्निवेशो गवाम्, अन्यस्त्वश्वानामिति गोत्नाश्वत्वयोराधारनियमसिद्धिः । तत एव तर्हि विशिष्टात्सन्निवेशात्सादृश्यापरपर्यायात्प्रतिनियमेनानुगताकारप्रत्ययोऽस्तु । यथा ह्यवयवसन्निवेशः प्रतिव्यक्ति भिन्नोऽपि सामान्यस्याभिन्नस्याश्रयावच्छेदहेतुः तथा अनुगताकारस्यापि ज्ञानस्य हेतुर्भवतीत्यलमन्तर्गडुना सामान्येन । तदुक्तम--
`तुल्यभेदे यथा जातिः प्रत्यासत्त्या प्रसर्पति ।
क्वचिन्नान्यत्र सैवास्तु शब्दज्ञाननिबन्धनम् ।। '
इति । अत्रोच्यते--इह कार्याणां प्रतिनियतकारणजन्यत्वान्न सर्वो जनकः सर्वत्र कार्ये व्यापारयितुं पार्यते। तथा हि--दण्डीति प्रत्यये दण्डसंबन्धो निमित्तम् । स तु दण्डसंबन्धः सर्वत्र किं न भवतीत्युक्ते दण्डजिघृक्षा तस्य निमित्तं भण्यते । न चैतदत्र वक्तुं शक्यते । दण्डोपादानेच्छाया एव दण्डसंबन्धं प्रति नियतहेतोरस्तु दण्डीति प्रत्ययः, किमपरेण तत्र दण्डसंबन्धेन निमित्तेन कृत्यम् इति । दण्डोपादित्सा दण्डसंबन्धस्य निमित्तम् । तस्या अपि किं निमित्तमित्युक्ते दण्डस्य यत्र कार्ये विनियोगः तत्र सामर्थ्यादिदर्शनं तदुपादित्सानिमित्तं वक्तव्यम् । तथा च तत ऐवच्छानिमित्ताद् दण्डोपादित्सावानित्यस्तु प्रत्ययः, किमत्रेच्छसमवायः स्वात्मनि निमित्तमुद्घोष्यत इति । नैतच्छक्यतेऽभिघातुम् । अनुरूपं कार्यं अनुरूपकारणजन्यमितीच्छासंबन्धादिच्छावानिति ज्ञानम्, न दण्डीति । एवं सादृश्यादेः सामान्यस्य विषयनियमसामर्थ्ये सत्यपि न तस्मादेव सामर्थ्यादनुगताकारज्ञानजनकत्वं युक्तं तत्सदृशमित्यादिज्ञानदिति तन्निमित्तं व्यतिरिक्तं सामान्यमवश्याश्रवणीयमिति सिद्धम् ।। 94 ।।
अन्यथा अतिप्रसङ्ग इत्याह--
स्वभावोऽव्यपदेश्यो वा सामर्थ्यं वावतिष्ठते ।
सर्वस्यान्ते यतस्तस्माव्द्यवहारो न कल्पते ।। 95 ।।
  (135) इह कार्याणां प्रतिनियतकारणानभ्युपगमे कारणकारणादेव सिद्धावभ्युपगम्यमानायां तत्रापि तत्कारणादित्यनवस्थायामापादितायां सर्वान्ते मूलकारणेऽवस्थातव्यम् । तच्च मूलं कारणं सर्वस्य वस्तुनः सर्वस्य वादिनोऽन्ते पर्यनुयोगावसाने नित्यस्य प्रधानादेः कारणस्य स्वभावोऽव्यपदेश्योऽयमस्य स्वभावोऽस्माद्धेतोरित्येवं व्यपदेष्टुमशक्यः अवतिष्ठते । अत एवास्मिन्नवधौ हेतुप्रश्नपरम्परा निवर्तते । येषां त्वनित्यं कारणम्, तेषां सामर्थ्यं हेतुशक्तिः प्रश्नपरम्परावसानेऽवतिष्ठते । तदपि सामर्थ्यमव्यपदेश्यमेव, वैलक्षम्येन `इदं तत्' इति शब्देन व्यपदेष्टुमशक्यत्वात् । अथवा नित्यकारमपरिग्रह एव तस्यात्यन्तपरोक्षत्वात्स्वभावोऽव्यपदेश्यः । अनेकशक्‌त्यात्मकत्वे तु सामर्थ्यमप्यस्य परोक्षत्वादेवाव्यपदेश्यम् । एकमेव वा वस्तु स्वभावशब्देन सामर्थ्यशब्देन च व्यवहरन्तीति तदुक्तिभिरेव प्रतिपादयति । एवमव्यपदेश्यस्वभावेऽवस्थानात् तस्मादव्यपदेश्याच्छाब्दो व्यवहारो न प्रकल्पते । वाक्ये यथानुयातवस्तुनिबन्धनो हि परिदृश्यमानः स्थूलार्थाश्रयो गामानय, ओदनं भुंक्ष्वेति व्यवहारः सोऽन्त्यहेतुवशः इति स्वभावः सामर्थ्यं वा आनय भुंक्ष्व चेत्येवं वक्तव्यम् । अव्यपदेश्यत्वाच्च स्वाभावादेस्तेन व्यवहारो नोपपद्यत इत्ययुक्तम व्यवहार्यं वस्तूपक्षेप्तुमित्यर्थः । तदेवमभिन्नव्यवहारनिबन्धनानि सामान्यान्यभ्युपगन्तव्यानि । सादृश्यात्तु सदृश इति व्यवहारः शक्तिमत्त्वात्तु शक्तिमानिति । अन्यच्च सादृश्यज्ञानं सामान्यज्ञानाद्भिन्नजातीयेष्वपि गोगवयादिषु भावात् । अथ नावधार्यन्ते विवेकेन जातय इत्यनुगतस्य ज्ञानस्य निमितपरिकल्पनायां यदेव किञ्चिन्निमित्तं स्यादिति को ग्रहो जातिष्विति । उच्यते--तत्र रूपिसमवायात् चाक्षुषाण्येव सामान्यानीति ब्रूमः । विप्रतिपन्नं तु प्रति कार्यकल्प्यत्वमुच्यते । न च ज्ञानं नाम कार्यं जडाङ्कुराजिसदृशम्, अपि तु बोधरूपमिति । तस्य तत्सामान्यं न चक्षुरादिवदधिपतिप्रत्ययरूपं कारणम्, अपि त्वालम्बनप्रतययरूपम् । आलम्बनं च संवेद्यमानम् । अतश्चेहापि तदेवायातं संवेद्यते तस्य स्वरूपमुपयुज्यमानमिति । अथ विकल्पस्य सामान्यं विषयो न तु प्रत्यक्षस्य । तदयुक्तम् । असति सामान्ये विकल्पो न प्रत्यक्षम् । न सति, सत्यविषयत्वात् । विकल्पविषयत्वाच्च तस्यासत्यत्वम्, असत्यविषयत्वाच्च तस्य सत्यविकल्पत्वमिति इतरेतराश्रयता । किञ्च प्रतिकर्मव्यवस्थायां ज्ञानस्य बौद्धैरुच्यते यतो नीलाकारमतो नीलस्य संवेदनमिति । तद्वत् सामान्यवादिभिरष्युच्यते यतोऽभिन्नाकारमतोऽभिन्नस्य संवेदनमिति । कोऽनयोरुक्तोयर्विशेषः ? ये न नीलं प्रत्यक्षं सामान्यमीदृशमेवाप्रत्यक्षमिति । एवमस्य न कश्चिद्विशेषो दण्डादिभ्य इति नास्ति वैसादृश्यं निदर्शनैः । एकार्थकारित्वाच्च भिन्नः प्रत्ययो नास्ति हेतुभेदात् कार्याणामपि भेदात् इत्येकप्रत्यवमर्श एवासति सामान्ये नोदियात् । रूपादिव्यतिरेकेण च द्रव्यानभ्युपगमात् प्रत्यर्थमपि नास्त्येकार्थसाध्या काचिदर्थक्रिया किमुतार्थभेदो भवेत् । उदकाहरमाद्यपि रूपादिसमुदायसाधयमेकमिति तत्र समुदायबुद्धिर्भवेन्नैकबुद्धिः, यथैकाङ्कुरजनकत्वेऽपि क्षितिबीजादीनाम् । मिथ्यारूपसंविच्चैकबुद्धिरित्यापि क्वचित् सम्यक्संवेदनमूलत्वान्मिथ्याबुद्धेरवश्यं काचिद्भेदबुद्धिः सत्याप्येष्टव्येत्यनपह्नवनीयानि प्रतिनियतकार्यसाधनानि सामान्यानीति स्थितम् ।। 95 ।।
अधुना साङ्कनयैनाद्वैतनयेन वा व्यतिरिक्तां जातिं समर्थयितुमाह--
यदा भेदान्परित्यज्य बुद्धयैक इव गृह्यते ।
व्यक्त्यात्मैव तदा तत्र बुद्धिरेका प्रवर्तते ।। 96 ।।
  (136) इहैकरूपसमन्वयादेककारणपूर्वकं विश्वम् । असदनुत्पत्तेश्च कार्यकारणयोरभेद इति सर्वं किञ्चिद्भेदाभेदात्मकं वस्तु । एकस्यैवानेकधावश्तानात्ततोऽभेदः सामान्यं भेदो विशेषः । तत्र सर्वाभेदो महासामान्यम्, तस्यैव च यथाभागमवच्छेदादवान्तरसामान्यानि । अवच्छेदकाश्च धर्मास्तस्यैव तथा परिणाम इति न ततोऽतिरिच्यन्ते । सर्वं ह्येकस्यैव परिणामो विवर्त इति वा । एवं च कृत्वा कार्यकारणयोर्धर्मधर्मिणोः सामान्यविशेषयोश्च नात्यन्तं भेदः, एवमप्रतीतेः । नाप्पत्यन्तमभेदः, तथाप्यप्रतीतेः । केवलं स्वसंविज्ञानपदाभावादगत्या भेदाभेदशब्दाभ्यां यदाभिधीयते तदा शब्दसादृश्यामात्रादविवक्षितभेदाभेदरूपाध्यारोपेण परैर्विरोधो निर्विषय इवापद्यते । तत्र यदा भेदान्परित्यज्य भेदाभेदरूपाविवक्षया व्यक्‌त्यात्मैव व्यक्तेरात्मैव व्यक्तिरूपमेव बुद्ध्या एक इव गृह्यते, अभिन्नं प्रतीयते तदा तदेव सामान्यमेकबुद्धिवषयो न ततोऽन्यत्किञ्चित् । व्यक्‌त्यात्मनो हि मूलभूतमेकत्वमात्मभेदहेतुपरित्यागादविरुद्धम् । यद्यपि च प्रकृतिरूपान्वयात्सर्वमेकमेव तत्त्वतः तथापि परिणामवैचित्र्याद्विकाराणामनर्थान्तरभूतानामपि सांव्यवहारिकमनेकत्वमप्यनवगतमिति इव शब्दः । तत्र यदा समस्तभेदपरित्यागः तदा सद्वस्तुमात्रं पदार्थ इति चैकबुद्धिः प्रवर्तते । धर्मतिरस्कारे तु धर्मिमात्रं द्रव्यमिति बुद्धिः । सजातीयगतभेदहेतुपरित्यागे विजातीयभेदारेक्षायां पृथिव्यापस्तेज इत्यादिव्यवहारः । तत्राप्यर्थान्तराद्भेदहेतुपरित्यागे विजातीयभेदापेक्षायां पृथिव्यापस्तेज इत्यादिव्यवहारः । तत्राप्यर्थान्तराद्भेदापेक्षायां स्वसदृशाभेदापेक्षणे गौरश्वो घट इत्यादि भेद इति यथायथमुदाहार्यम् ।। 96 ।।
तदेवं दर्शनद्वयेन भिन्नाकाराया जातिबुद्धेर्विषयमवस्थाप्य जातिपदार्थे प्रत्याख्यानादेकशेषस्य तद्विषये समूहबुद्धेर्विंषयमवस्थापयितुमाह--
भेदरूपैरनुस्यूतं यदैकमिव मन्यते ।
समूहावग्रहा बुद्धिर्बहुभ्यो जायते तदा ।। 97 ।।
  (137) भेदरूपाण्यपि यत्र संचेत्यन्तेऽभेदरूपं च तत्र समूहमवगृह्णाति परिच्छिनत्ति या बुद्धिः सा प्रवर्तते । `एकमिव' इति । भिन्नेष्वपि एकत्वस्याध्यारोपात् । एवमपि चैकत्वोपसर्जनेभ्यो बहुभ्य एवेयं बुद्धिर्जायते न चु जातिप्रत्ययवदेकस्मादेव । अयमाशयः--यद्यपि ता एव व्यटक्तभेदो व्यक्तयो जातिरिति दर्शनम् तथापि संभवत्येकशेषस्य विषयो भेदप्राधान्येनैकधर्मावेशनिमित्ताभेदोपसर्जनतया तासां प्रतीतेः । अत एव च द्वन्द्वैकशेषयोर्वचनभेदोपपत्तिः । जातिप्रत्ययस्तु सर्वथा अभेदप्राधान्येनैव ।। 97 ।।
इदानीं सदृशबुद्धेर्विषयमाह--
सकृत्प्रवृत्तावेकत्वमावृत्तौ सदृशात्मताम् ।
भिन्नात्मिकानां व्यक्तीनां भेदापोहात्प्रपद्यते ।। 98 ।।
  (138) इह भेदहेतूनां त्यागे सामान्यबुद्धिरित्युक्‌त्वा तेषामपि च परिग्रहे समूहबुद्धिरिति राश्यन्तराभावान्निर्विषया सादृश्यबुद्धिः स्यादित्यशंक्येदमुच्यते--भिन्नात्मिकानां व्यक्तीनां सकृत्प्रवृत्तौ भेदापोलत् अनालीढभेदं तदनुस्यूतं वा एकत्वं जात्यात्मकं समूहात्मकं वा प्रतिपद्यते बुद्धिः । आवृत्तौ तु सदृश्यात्मताम् । भेदहेतुपरित्यागेनाभिन्नात्मिका व्यक्तीरवगृह्य कार्यान्तरविषयतया गृहीतभेदा एव ता गृह्णातीत्यविश्रान्ता सैव बुद्धिः सामान्यं गृह्णाति । गोगवययोस्तु पूर्वं भेदं प्रतिपद्यानन्तरमवयवसन्निवेशायत्तोऽभेदोऽवसीयत इति सादृश्यबुद्धिस्तत्र । एवं च बुद्धिभेदादेव न सादृश्यं सामान्यमुत्युक्तं भवति ।। 98 ।।
तदेवं व्यतिरिक्तजातिदर्शनमव्यतिरिक्तजातिदर्शनं च विस्तरतोऽभिधायेदानीं सौगतानां संबन्धि काल्पनिकं जातिदर्शनमाह--
अनुप्रवृत्तेति यथाभिन्ना बुद्धिः प्रतीयते ।
अर्थो व्यावृत्तरूपोऽपि तथा तत्त्वेन गृह्यते ।। 99 ।।
  (139) इहाभिन्नप्रत्ययावसेया जातिरित्युच्यते । न चाभिन्नः प्रत्ययोऽस्ति । न हि य एवैकस्यां व्यक्तौ गौरिति प्रत्ययः स एव द्वितीयस्याम् , अपि त्वन्य एव, प्रत्यर्थनियतत्वाद् बुद्धीनाम् । अतश्च नैव कश्चिद्भिन्नेष्वभिन्नप्रत्ययः, केवलं भिन्नापि सती बुद्धिरनुंप्रवृत्ता अनुगता अभिन्ना प्रतीयते । न च तत्र बुद्दितत्त्वव्यतिरेकेणान्यत्सामान्यं गोत्वादिज्ञानत्वाद्यस्ति । तस्याप्यभिन्नप्रत्ययस्य प्रतिबुद्धि भेदात् । तत्राप्यपरसामान्यकल्पनायामनवस्थापातात् । न च बुद्धिष्वपरसामान्यस्यासाधारणः कश्चिद्वाचकोऽस्तीति किं तत्सामान्यं नाम, यतश्चानादिकालीनभेदावग्रहसामर्थ्यप्रतिघातनिमित्तविभ्रमवशाद्यथा बुद्धीनामभेदावसायो भिन्नानामपि वस्तुतः, तथार्थानामपि व्यक्तिलक्षणानां स्वरूपपररूपाभ्यां व्यावृत्तस्वभावानां तत्त्वेन अभेदेन सामान्यावग्रहेणावसायो भविष्यतीति भेद एव परमार्थोऽभेदावसायो मिथ्येति सौगताः ।। 99 ।।
किमनादिकालीनविभ्रमवशादेवायम् उत बहिरस्याभेदावसायस्य किंचन निमित्तमस्तीत्याह--
सरूपाणां च सर्वेषां न भेदोपनिपातिनः ।
विद्यन्ते वाचकाः शब्दा नापि भेदोऽवधार्यते ।। 100 ।।
  (140) प्रख्योपाख्यात्मको द्विविधो व्यवहारः । तत्र समानं रूपमेषां वास्तवस्य भेदस्यानवधारणादर्वाग्दर्शनानां वस्तूनां प्रतिभासते । न हि तत्त्वतो वास्तवं सारूप्यमस्ति, सौगतनये तस्य निराकृतत्वादिति दुरवधारभेदत्वेन यत्सरूपत्वम् , तदेव निर्दिश्यत इति सादृश्यनिबन्धनोऽभेदावसायलक्षणः प्रख्यात्मको व्यवहारः । असाधारणभावरूपनिवेशसंविज्ञानपदाभावाच्चोपाख्यात्मकोऽप्यभेदेनैव व्यवहारः । उपाख्याया वाचकस्य शब्दस्य सांकेतिकत्वात्स्वलक्षणे वृत्त्यनुपपत्तेः ।
"शब्दाः साकेतिकं प्राहुः व्यवहाराय संस्मृताः ।
तदा स्वलक्षणं नास्ति संकेतस्तेन तत्र नः ।।"
इत्यादिना वेदितत्वात् । यद्यपि चावधारणाभावादेव वाचकाभावोऽवगतः, अवधारणपूर्वकत्वाद्वाचकानाम्, तथापि यत्रापि गवादिष्ववधार्यते भेदः तत्रापि तस्य वाचका न सन्ति । स्वलक्षणस्य शब्देनाभिधातुमशक्यत्वात् अपि त्वभेदाध्यवसायानुविधायिन एव ते तत्रापीति दर्शयितुं भेदेन वाचकाभाव उक्तः । इत्थं च विशेषाणामविवेचनादप्यनुगमाभिमानो वाचकाभावाच्चाभिन्ना शब्दप्रवृत्तिर्न तु बहिर्वस्तुभूतं सामान्यं नाम किञ्चनाक्ष निमित्तमित्युक्तं भवति ।। 100 ।।
सर्वेषामिति व्याप्तिर्ह्यत्रोक्ता, तामेवोपपादयितुमाह--
ज्ञानशब्दार्थविषया विशेषा ये व्यवस्थिताः ।
तेषां दुरवधारत्वाज्ज्ञानाद्येकत्वदर्शनम् ।। 101 ।।
  (141) ज्ञानानां तावद्विषयभेदाद्भेदो न्याय्योऽप्यर्वाग्दर्शिनो गोर्गौरित्यभेदावसायादशक्यपरिच्छेद इत्येकत्वमसदध्यारोपितं तत्र पश्यन्ति । एवं च शब्दानामनुनासिकतादीनां धर्माणां भेदाद्वक्तृभेदाच्च भेदेऽप्यभेदेनावसायः स एवायं गोशब्द इति । क्रमवतामवस्थायिनां शब्दानां न किञ्चित्सामान्यमस्ति । अथाभेदेनावसीयन्ते सूक्षमाणां विशेषाणां दुरवधारत्वात्, अर्थानामपि खण्डमुण्डादिः स्फुट एव भेदो नादृतोऽर्वाग्दर्शनैः विजातीयव्यावृत्त्या अन्वयिरूपोल्लेखनात् । तथा च मणिमुक्ताप्रवालादीनामभियुक्तप्रणिधानगम्यो विशेषो न सर्वैर्विच्यते ।। 101 ।।
अवदातदर्शनास्तु यथातत्त्वं विवेकिन एवेति भेदवादिनयः । जातिवादिनस्तु मन्यन्ते--
ज्ञानेष्वपि यथार्थेषु तथा सर्वेषु जातयः ।
संसर्गदर्शने सन्ति ताश्चार्थस्य प्रसाधिकाः ।। 102 ।।
  (142) अनपह्नवनीयोऽयमभिन्नावसायः सर्वत्र जातिसद्भावावेदक इति ज्ञानानामपि सामान्यविशेषाः सन्तु कानुपपत्तिरिति वस्तूनां भेदाभेदादिरूपमर्थान्तरसंसर्गनिमित्तं मन्यमानाः प्राहुः । ता एव ज्ञानजातयो अर्थस्य प्रसाधिकाः बाह्यानामर्थजातीनां निश्चायिकाः । बुद्धेरन्वितावभाससिद्धौ व्यक्तीनामपि सामान्यावधारणात् । अर्थस्यात्मीयस्य वा सामान्यकार्यस्यानुवृत्त्यादेः प्रसाधिकाः । यत्र तत्र च सत्यप्यवान्तरविशेषेऽभिन्नः प्रत्ययोऽस्ति तत्र तत्र प्रमाणसिद्धानां सामान्यविशेषाणामङ्गीकरणमानन्त्येऽपि न दोषाय । असाधारमसङ्केताभावेऽपि च जात्युत्पलादिगन्धादीनामिव सत्त्वमस्त्येव ।। 102 ।।
संसर्गदर्शन एव प्रकारान्तरमाह--
ज्ञेयस्थमेव सामान्यं ज्ञानानामुपकारकम् ।
न जातु ज्ञेयवज्ज्ञानं पररूपेण रूप्यते ।। 103 ।।
  (143) यथा ज्ञेयं व्यतिरिक्तसामान्यरूपेण रूप्यते क्रियते नैवं ज्ञानं संविदात्मसमवेतेन व्यतिरिक्तसामान्यरूपेण रूप्यते । ज्ञेयधर्मः किलायं यत् पररूपेण रूपणम् । ज्ञानं तु स्वतन्त्रं ज्ञेयमेव न भवति । ज्ञेयनिष्ठतया हि ज्ञानानां ज्ञेयस्थस्य सामान्यस्याभेदेन तदभेदावसायः प्रत्यर्थनियतत्वेऽप्युपपद्यते । बाह्यपरवशत्वेनास्वाधीनत्वाज् ज्ञानानां स्वत एव वैलक्षम्यानुपपत्तेः बहिरभिन्नेन निमित्तेन तत्र भाव्यम् । तद्यथा घटो घट इति घटाकारे बाह्यं निमित्तं तथा भेदेऽपि तद्गतं सामान्यमिति युक्तम् ।। 103 ।।
कथं पुनर्ज्ञानं ज्ञेयं न भवतीति पररूपेण न रूप्यत इत्याह--
यथा ज्योतिः प्रकाशेन नान्येनाभिप्रकाश्यते।
ज्ञानाकारस्तथान्येन न ज्ञानेनोपगृह्यते ।। 104 ।।
  (144) यथा घटादीनां दीपः प्रकाशकः स्वप्रकाशे दीपान्तरं नापेक्षते तथार्थस्य प्रकाशकं ज्ञानमात्मप्रकाशनाय प्रकाशान्तरानपेक्षमिति स्वप्रकाशकं सिद्धम् । जडवैलक्षण्यं हि प्रकाशकत्वमिति तस्यापि प्रकाश्यत्वे जडतापत्तिः । अर्थप्रकाशकाले च प्रकाशकस्याप्रकाशेऽर्थसंवेदनमेव न स्यात् । प्रकाशासञ्चेतने तल्लग्नार्थसञ्चेतनासिद्धेः । उत्तरकालं तु वेदनं क्वोपयोगि । उत्पन्नायां च प्रकटतायां आत्मसमवेतस्य तदानीं ज्ञानस्यासञ्चेतनान्मम प्रकटितोऽर्थ इत्यात्मगामि संवेदनं न स्यात् । तस्याज्ज्ञानान्तरेण स्वप्रकाशकं ज्ञानं न गृह्यते परप्रकाश्यत्वे प्रकाशकत्वाभावादिति तदाकारस्य परेण रूपेणभावाज्ज्ञेयस्थमेवाभिन्नं सामान्यमस्याभेदनिमित्तम् । तद्वशादस्य ग्राह्याकारस्य ज्ञानान्तरेणाभेदग्रहणात् । स्वसमवेतसामान्यवशेन त्वभेदप्रतिभासे बहिः सामान्यपरिकल्पो निर्निबन्धन एव स्यात् । अन्यथैवाभेदप्रतिभासस्योपपत्तेः । अर्थानान्तु व्यतिरिक्तत्वादभिन्नं सामान्यमुपपद्यते । ज्ञानानां तु सामान्याकारो न व्यतिरिक्त इति नाभिन्न उपपद्यते । प्रत्यर्थनियतत्वेन तेषां भेदात्तदभिन्नस्य तस्यापि तथात्वोपपत्तेरिति नार्थैः साम्यमस्ति । बुद्ध्याकाराणामाकारसाम्यादेव च ज्ञानानामभेदावसायसिद्धेर्न संवेदनभागेऽपि सामान्ययोग इति साकाराः स्वप्रकाशाः निःसामान्या बुद्धयः सिद्धाः । यद्यपि च वैशेषिका ज्ञेयस्थमेव सामान्यं ज्ञानानामुपकारकमिच्छन्तो न साकारं नापि स्वप्रकाशं विज्ञानमिच्छन्ति, तथापि न वयं दर्शनान्तरप्रक्रियां ब्रूमः । अपि तु यत्प्रमाणोपपन्नमितीदमत्र दर्शनमुपक्षिप्तम् ।। 104 ।।
ननु च यथा घटोऽयमिति ज्ञाने घटोऽवसीयते तथा घटज्ञानमेतदिति ज्ञाने घटज्ञानम् । को ह्यत्र विशेषः ? यदि तु विषयसंवेदनरूपा बुद्धिर्नानुभूयेत शब्देनापि तथा नाभिधीयेत, अनुभवपूर्वकत्वादभिधानस्य । न चात्मना आत्मानमनुभवति बुद्धिः , स्वात्मनि व्यापारविरोधात् । बोधरूपत्वात्तु स्वयमज्ञातैवार्थमवभासयतु । एतावानस्य बाह्याद्विशेषोऽस्तु । तद्बुभुत्सायां तु बुद्धन्तरमेवापेक्ष्यम् । ज्ञानज्ञेयसिद्धिमात्रनिष्ठत्वाच्च व्यवहारस्य प्रत्ययान्तरानपेक्षणाद् बुद्धिमालापि नानुषज्यत इत्याह--
घटज्ञानमिति ज्ञानं घटज्ञानविलक्षणम् ।
घट इत्यापि यज्ज्ञानं विषयोपनिपाति तत् ।। 105 ।।
  (145) घटज्ञानमिति ज्ञानं घटाद्याकारं ज्ञानं यदा ज्ञानान्तरेण परामृश्यते एवं ममात्रानुभवो भूत िति प्रत्ययविषयं यत्परामर्शज्ञानं तद्धटज्ञानाद्भिन्नलक्षमं साक्षाद्विषयोणाजनितत्वात् । अनुकार्यप्रत्यया एव हि विषयेण जन्यन्ते नान्ये ज्ञानालम्बनाः, व्यवधानात्; सारूप्यबलेन च ग्राह्यग्राह्कभावेन वैधर्म्येण न च घटज्ञानं ज्ञानान्तरे प्रतिभासते । अतो न तद् गृह्यते । अथोच्यते--सरूपमेव तज्ज्ञानं घट इत्येवमनुसन्धानादित्याह--घट इत्यपि यज्ज्ञानं विषयोपनिपाति तत् । न तु ज्ञाने उपनिपतति । अतो न बुद्धिर्बुद्धिमालम्बनते, स्वयमेव तु प्रकाशत इत्यर्थः । अन्ये व्याचक्षते, घटज्ञानाद् बाह्यविषयात् घटज्ञानमिति एवं ज्ञानं भिन्नं न विषयप्रविष्टं स्वात्मव्यवस्थितं ज्ञानं स?ञ्चेत्यते यस्माद्घट इत्येवमाकारं यद्विच्छिन्नं ग्राह्यप्रसृतं तदपि विषयमनुपतति ग्राह्यपरवशम् । विषयाप्रकाशने ज्ञानास्तिताया एवानिबन्धनत्वात् । एवं च बोधत्वाविशेषात् यद्यपि ज्ञानत्रानमिति मतं तदपि बाह्यविषयमेवेत्युक्तं भवति । अन्ये तु व्याचक्षते--घयज्ञानमिति ज्ञानं विषयो यस्य तद् घटज्ञानविलक्षणम्, एवंस्वरूपमनाकारम् । न हि संविदाकारस्तज्ज्ञानाभिमते प्रतिबिम्बीभवति । सारूप्यवशेन ग्राह्यग्राहकभावः, अन्यथा ज्ञानत्वाविशेषादिदमस्य संवेदनमिति प्रतिनियमो न स्यात् । घट इति तु यदेतद्बाह्यविषयं ज्ञानं तद्विषयोपनिपाति विषयाकारमुपादत्ते । अथ वा-घट ज्ञानमिति ज्ञानं घटज्ञानविलक्षणम् । किं तद्वैलक्षम्यमित्याह-घट इत्यपि यज्ज्ञानं विषयोपनिपाति तत् । निराकारमपि तद्लिषयमनुपतति परिच्छिनत्ति निरूपयति-एवंरूपोऽयमर्थ इति । घटज्ञानमिति तु ज्ञानं न ज्ञानरूपानुपाति, यतो घटज्ञानगतं विषयं निरूप्य ज्ञानरूपं किमपि तदित्येतावद्यदि परं निरूपयितुं शक्नोति, न तु सा तदीया बोधरूपता तस्य प्रतिभासते परसंवेदन इव । परेण हि घटज्ञानमस्योत्पन्नमिति कयाचिद्युक्‌त्या ज्ञानं परिच्छिद्यते, न तु स्ववत्परस्य प्रतिभासते इति ततो विलक्षणं न तस्य परिच्छेदकम् । उपलम्भात्मकत्वात्स्वयं प्रकाशत इति स्वसंवेदनं ज्ञानमुच्यते । न त्वात्मनामर्थमिव प्रकाशयतीति न स्वात्मन्यस्य कश्चिव्द्यापारः ।। 105 ।।
ननु ज्ञानस्य ग्राह्याकारो न व्यतिरिक्तः, स च घटज्ञानमिति ज्ञानेन संवद्येत इति बुद्धिरेव संवेदिता भवतीत्याशङ्क्याह--
यतो विषयरूपेण ज्ञानरूपं न गृह्यते ।
अर्थरूपविविक्तं च स्वरूपं नावधार्यते ।। 106 ।।
  (146) निराकारवादेऽप्ययं परिहारो लगति, यतस्तत्रापि घटज्ञानमेतदिति ग्राह्यस्वभावेन ज्ञानं ज्ञानानत्रेणोपलक्ष्यति, न तद्रहितमात्मतत्त्वं तस्यावधारयति । न च ग्राह्याकारो ज्ञानस्वरूपम्, औपाधिकत्वात् । यथा स्फटिकस्य नीलादि । न च ग्राह्याकारविविक्तं ग्राहकरूपं ज्ञानान्तरेणोपलक्ष्यते शुद्धबुद्ध्यनुकारेण बुद्ध्यन्तरानुपपत्तेः । एवं च विषयाप्रकाशने ज्ञानत्वायोगात् ज्ञानज्ञानाभिमतमपि विषयनिष्ठमेव । तथा चोपसर्जनेन विषय एव तेन विशिष्टोऽवस्थाप्यते ज्ञातोऽयमर्थ इति । नीलज्ञानमित्येतदपि नीलनिष्ठतया विषयप्रभवं ज्ञानं परामृश्यते । एवं च कृत्वा संविदाकारस्य ज्ञानान्तरेणाग्रहणान्न व्यतिरिक्तसामान्यनिमित्तम्, तेन तस्य ग्राह्याकारस्याविलक्षणस्य जनेन तथैव बुद्ध्यन्तरेण ग्रहणादिति न तत्र सामान्यान्तरमुपयुज्यते । नापीतरेतराश्रायदोषः । ज्ञेयसामान्यस्याभिन्नज्ञानजनकत्वेनाभिन्नज्ञानस्य च ज्ञेयताप्रतिपादकत्वेन व्यापारभेदात् । तेनैतदचोद्यम् । यथा विनैव सामान्यमभेदावसायो बुद्धीनाम् एवमर्थानामपि भविष्यतीति बुद्धीनामरि सामान्यवशेनैवोक्तप्रकारेणाभेदावसायात् इति । ननु यदि ज्ञानरूपमर्थरूपविविक्तं नावधार्यते स्वतोऽप्यस्य सिद्धिर्न स्यात् । सत्यम् । सर्वदैव ग्राह्याकारः सहभाव्यनुभूयतेऽस्य, किन्तु तत्प
ृष्ठभाविनो ह्लादनीयप्रकामा अहङ्कारास्पदविच्छिन्नग्राह्याकारविधर्माण उत्तररूपा अहङ्कारास्पदतया संचेत्यन्त इति स्वतस्तद्विविक्तरूपावधारणमस्ति बुद्धीनाम् । ज्ञानान्तरेण तु ह्लादादयो गृह्यमाणा अपि तथा न संवेद्यन्त इति अनुभवसिद्धमेतदनपह्नवनीयम् इत्यलमतिविस्तरेण ।
तदेवं प्रमाणपरिशुद्धा जातिः शब्देनाभिधीयमाना दृष्टादृष्टविषयव्यवहारसाधनसमर्थेति जातिपदार्थसिद्धिः ।। 106 ।।
इति भूतिराजतनयहेलाराजकृते प्रकीर्णप्रकाशे
जातिसमुद्देशः
समाप्तः ।।

--------

३,२ः ढ्रव्यसमुद्देशः

सम्पाद्यताम्

-------------
(1) जातिर्वा द्रव्यं वा पदार्थावित्युक्तम् । तत्र वाजप्यायनदर्शनेन जातिं विशेषणभूतां पदार्थं व्यवस्थाय व्याडिदर्शनेन विशेष्यरूपं द्रव्यमपि पदार्थं व्यवस्थापयितुं यथादर्शनं तदेव पर्यायान्तरैरुद्दिशति ।
आत्मा वस्तु स्वभावश्च शरीरं तत्त्वमिप्यपि ।
द्रव्यमित्यस्य पर्यायास्तच्च नित्यमिति स्मृतम् ।। 1 ।।
(2) इहार्थक्रियायां द्रव्यमेवोपयुज्यते इति तदेव प्रवर्तकमर्थिनाम् । अतः शब्देन तदेवोच्यते । अनभिधीयमाना तु जातिरवच्छेदिका गुडशब्दे माधुर्यादय इवेति द्रव्यवादिनां दर्शनम् । द्रव्यं च द्विविधम्, पारमार्थिकं सांव्यवहारिकं च । तत्र द्वितीयं भेद्यभेदकप्रस्तावेन गुणसमुद्देशे वक्ष्यते
`वस्तूपलक्षणं यत्र....' (Vak.III.भू.3)
इत्यादिना । अनेन च द्रव्येण व्याडितदर्शने सर्वे शब्दा द्रव्याभिधायिनो भवन्ति । इह तु पारमार्थिकं द्रव्यं निरूप्यते । तथा हि आत्मा अद्वैतवादिभिरात्मशब्देन तद् द्रव्यमुक्तम् । आत्मैव ह्युपाधिभिन्नं प्रतिभासमानं `द्रव्यं पदानामर्थ इति तेषां दर्शमिहैव वक्ष्यमाणम् । वस्तु स्वलक्षणमर्थक्रियाकारि द्रव्यमिति शाक्यैरुक्तम् । स्वभावः इति सत्ताद्वैतवादिभिः स्वभाव आत्मभूता सत्तेति कृत्वा । तथा हि क्रमरूपोपसंहारे सत्तैव सत्त्वमिति स्वसंबन्धिभिरुपाधिभिरुपहितभेदा सैव द्रव्यम् । प्रकृतेरेकदेशः चेतनः पुरुषः तद्द्वारेण शरीरशरीरिणोख्यतिरेकात् `शरीरम्' द्रव्यं प्रधानमेवेति प्राकृतिकैः शरीरमेवैक आत्मा येषां तैः शरीरात्मभिरुच्यते । `तत्त्वम्' इति चतुर्भूततत्त्वादिभिश्चार्वाकैर्द्रव्यमुच्यते । पृथिव्यप्तेजोवायुरिति तत्त्वानि, तत्समुदाये शरीरेन्द्रियविषयसंज्ञा इति वचनात् । तदेवमेतैः परमार्थत एकमेव वस्तूच्यते । `द्रव्यमित्यस्य' इति । द्रव्यं नाम यः पदार्थः तस्यैव एव पर्यायाः । एतेषामेव पारमार्थिकरूपाभिधायित्वात् । नान्ये घटादिशब्दाः । सत्यपि तदभिधायित्वे वक्ष्यमाणनयेनात्मादिशब्दानामेव सर्वत्र घटादावव्याहतप्रसरत्वम् । तथा च भाष्यम्--
`एकोऽयमात्मा उदकं नाम' (M Bh.)
इति । अत्रात्मशब्द उदके प्रयुज्यमानो द्रव्यवचनः । आकृतिद्वारेण चान्ये शब्दा द्रव्ये वर्तन्ते । इमे तु तत्परित्यागेन मुख्यया वृत्त्येति विशेषः ।
`सिद्धे शब्दार्थसंबन्धे' (Va.1, in परस्पाशाह्निक)
इत्यत्र
द्रव्यं नित्यमाकृतिरन्या चान्या च भवति (M.Bh.on Va.1 in पस्पशाह्निक) इतिवदता भाष्यकारेण नित्यं द्रव्यं स्मृतम् । संग्रहोक्तस्य तस्यार्थस्यानुवादात् स्मृतम् इत्याह । यद्यपि शाक्यादिदर्शने नित्यं न भवति द्रव्यं तथापि तन्मतस्यानभ्युपगमाददोषः । केवलं यदस्माकं द्रव्यमन्यैरेवमभिधीयत इत्येवमत्रोपन्यासः । यद्वा भाष्यानुसारेण स्वरूपान्यथात्वानापत्तिः विकारभेदेऽपि नित्यत्वं विवक्षितमेवेति सर्वत्र तत्सिद्धिः ।। 1 ।।
एवं दर्शनान्तराश्रयणेनोद्दिष्टेष्वपि द्रव्यभेदेषु स्वसिद्धान्ताश्रयेण सार्वत्रिकीं द्रव्यपदार्थव्यवस्थां कर्तुमाह--
सत्यं वस्तु तदाकरैरसत्यैरवधार्यते ।
असत्योपाधिभिः शब्दैः सत्यमेवाभिधीयते ।। 2 ।।
(3) इह सर्वशब्दानां पारमार्थिकं तत्त्वं साक्षात् स्प्रष्टुमशक्तानामनेकोपाधिविषयनिहितपदानां तद्रूपालिङ्गनं व्यवहारे सम०ालक्ष्यते । उपाधीनां चागमापायवशविधुरितनिजस्वरूपाणामर्थिसार्थसमाशापूरणप्रतिहतशक्तित्वान्न तावत्येव पर्यवसानमित्युपवक्षितरूपपृष्ठपातिनः शब्दा व्यवस्थाप्यन्ते । अवधृतरूपनिवेशित्वाच्च शब्दानामवधारणानुसारमर्थे प्रवृत्तिः, अवधृतिश्चाकारद्वारेण । निराकारस्य बुद्ध्युपारोहायोगात् यथाप्रत्ययं भेदावसायस्य बाध्यमानत्वादनुयाय्यभिन्नमेव रूपं परमार्थतः । तदेव ब्रह्मरूपं सत्यम् ।। 2 ।।
स्यादेतत् । उपाधिषु शब्दानां विश्रान्त्यभावे शब्दार्थोपाधित्वं तेषां न स्यात् । अवाच्यस्य तदुपाधित्वायोगदित्येतद्विचारयितुमाह--
अध्रुवेण निमित्तेन देवदत्तगृहं यथा ।
गृहीतं गृहशब्देन शुद्धमेवाभिधीयते ।। 3 ।।
(4) अदो देवदत्तस्य गृहं यत्रासो काकः प्रतिवसतीत्यत्रानियतस्वामिकगृहोपलक्षणायोपलक्षणभूतस्य काकस्योत्पतितेऽपि तस्मिन्नुपलक्षमस्य कृतत्वाद् अध्रुवत्वम्नित्यत्वमिति तदनादरेणैव तदुपलक्षितं गृहमभिधीयते गृहशब्देन यथा तथा प्रकृतसंबन्धादसत्योपाध्युपलक्षितं सत्यमुपाधिरूपानादरेण शब्दैरभिधीयत इत्यनभिधीयमानस्याप्यभिधानविषयनियामकत्वादुपलक्षमत्वे सत्युपाधित्वनिदर्शनेन समर्थितम् । तथा हि इत्यनुबन्धस्याप्रयोगसमवायित्वादध्रुवस्योपलक्षणत्वे तद्रहितस्य शुद्धस्य प्रत्ययरूपस्य संज्ञाप्रसङ्ग इत्यत्रेदं भाष्ये निदर्शनमुक्तम् । ननु काकोऽतिविलक्षणाद् गृहाद् भेदेनावधार्यमाणो मा भूद्गृहशब्दाभिधेयः । घटादयस्त्वाकाराः पृथगनुपलभ्यमानतत्त्वाः कथमिव तच्छब्दैर्नाभिधीयेरन् । अन्यो ह्युपाधिरुपलक्षणभूतः सामानाधिकरण्येनावच्छेदकः । तद्यथा दृतिहरिरित्यत्र पशुः । अन्यत्तु विशेषणमपृथक्च्छब्दावाच्यमुपरंजकम् । तद्यथा वानेयमुदकमिति । वनसबन्धोपाधीयमानरूपविशेषमुदकम् । `अभिधीयते' इति । वनसंबन्धो विशेषणमुपरंजकतयाभिधेयकमापद्यत इति । तथा चोक्तम् ।
अर्थविशेष उपाधिस्तदन्तवाच्यः समानशब्दो यः ।
अनुपाधिरतोऽन्यः स्यात् श्लाघादिविशेषणं यद्‌वत् ।।
इत्याशङ्क्य सदृशतरमत्र निदर्शनमाह--
सुवर्णादि यथा भिन्नं स्वैराकारैरपायिभिः ।
रूचकाद्यभिधानानां शुद्धमेवैति वाच्यताम् ।। 4 ।।
(5) रुचककुण्डलाद्याकारविशेषोपाधीयमानरूपभेदमपि सर्वत्रानपायिरूपं सत्यमिति `अपायिभिः' आकारविशेषैस्तत्साध्यार्थक्रियाकरणान्न तत्रैव रुचकादिशब्दाः कृतपदसंबन्धाः । किन्तु तदतिरिच्यमानमर्थवस्त्वभिधायकत्वेन समाविशन्ति तद्वत् प्रकृतिसंबन्धादाकारोपहितनानात्वमपि परतत्त्वं शब्दगोचर इत्यर्थः । तत्र च अपायिभिरिति हेतुर्निर्देशः साध्यसमकक्ष्यतया कृतः । ततश्चोपाधीनामवाच्यत्वमसत्यत्वं च सिद्ध्यति । असत्यत्वादेवार्थक्रियाकरणात्तदर्थं च शब्दव्यवहारादवाच्यत्वं तेषामित्यर्थः । ननु रूचकादौ प्रकृत्यन्वयोऽवधार्यत एव । इहापि वस्तूनां ज्ञायमानत्वेन सत्वात्, ज्ञानस्य वैकल्पिकाकारानवस्थानान्निराकारशुद्धसंविन्मात्रानुगमस्य स्वसंवित्सिद्धत्वाददोषः । ननु विशेषणोपरक्तं विशेष्याभिधानं युक्तमित्युपसर्जनीभूतस्याभिधाने का क्षतिः । न काचित् , केवलमुपाधिष्वेवात्र तात्पर्यदृष्ट्या पदबन्धो निवार्यते । गुमत्वेन त्वभिधानमस्तु न तावत्येव विश्रन्तिरिति द्रव्यनिष्ठतासिद्धिः ।। 4 ।।
अत एव विशेषणोपरागात् साङ्कार्यदोषं परिहर्तुमाह ।
आकारैश्च व्यवच्छेदात् सार्वार्थ्यामवरुध्यते ।
यथैव चक्षुरादीनां सामर्थ्यं नाडिकादिभिः ।। 5 ।।
(6) सर्वभावेषु ब्रह्मणो द्रव्यलक्षमस्याभेदात्तदभिधायित्वे शब्दानां सर्वत्र तस्य भावात् सार्वार्थ्यं शब्दान्तराभिधीयमानार्थत्वं साङ्कर्यं प्रसज्येतेत्यत्रेदमुच्यते । प्रतिनियताकारपरिच्छिन्नवृत्तित्वात् सर्वार्थत्वप्रतिबन्धादसङ्कर इत्यर्थः । घटाकारोपधान पुरःसरं घटशब्देन ब्रह्मद्रव्यमभिमुखीक्रियते पटाकारोपधानेन तु पटशब्देनेत्याद्युपाधिरूपोपाहितविवेकित्वमभिधानीयम् । तद्यथा नाडिकाशुषिरवर्त्मनिहितनयनास्तदवकाशावस्थितमेवार्थभागं पश्यन्ति तताविद्यावच्छिन्नदृक्शक्तिभिराकारभेदैरेव वस्तूपलक्ष्यते । तथैव च यथाध्यवसायं शब्दनिवोशाच्छब्दैरेभिधीयत इत्यर्थः । यथावरणादिनेन्द्रियस्यैव प्रकाशशक्तिः प्रतिबध्यते न विषयो विक्रियते तथानाद्यविद्यावच्छेदप्रकल्पितविभागानां जीवानामेव संवेदनशकिर्नियम्यते येन विच्छिन्नार्थाभिधानेन भेदविषयाण्यभिधानानि प्रयुज्यन्ते, न तु तत्त्वमविद्ययाविलीक्रियते इति नाडिकानिदर्शनेन सूचयति । नाडिकादिभिरित्यादिग्रहणादवधानप्रतिघातमूर्त्त्यभिजनाद्यवरोधः । यत्रैव ह्यवधानं तदेव ह्यवधार्यते । मूर्त्त्यभिजनो रूपसौन्दर्यं तेनापहतोऽन्यं न पश्यति ।। 5 ।।
ये तर्ह्याकारमात्रनिवेशिनः सन्निवेशादिशब्दाः ते धर्ममात्रमभिदध्युः इति सार्वत्रिकी द्रव्यपदार्थव्यवस्था विशीर्येतेत्याशङ्क्याह ।
तेष्वाकारेषु यः शब्दस्तथाभूतेषु वर्तते ।
तत्त्वात्मकत्वात्तेनापि नित्यमेवाभिधीयते ।। 6 ।।
(7) उपाधिमात्रस्वभावेष्वपि सन्निवेशाद्याकारेषु सन्निवेशादिशब्दा वर्तमानाः परमार्थतस्तत्त्वादव्यतिरेकादुपाधीनां तन्निष्कर्षे स्वरूपास्यास्वरूपत्त्वात्तदात्मनैव सत्त्वात् तदेव नियत्यमुपाधिमद्‌द्रव्यमेवमप्यभिधानेऽभिहितं भवति । तत्त्वमात्मा ह्युपाधीनाम्, न तु ते तस्यात्मन इति व्यावर्तकत्वात् सर्व एवोपाधयस्तदात्मना सन्तः तथैवाभिधीयन्ते । यदा ह्युपाधिमल्लीनता तदोपाधय उपाधयो न भवन्ति । ततस्तु निष्कर्षे धर्मान्तराश्रयतया स्वातन्त्र्यादुपादिमत्त्मेव नोपाधित्वमित्याशयः ।। 6 ।। यद्येवं धर्माणामवस्थान्तरे धर्मिरूपत्वान्नित्यत्वे सत्यत्वे चाकाराणामसत्यत्वम्, द्रव्यस्य तु सत्यत्वमित्येतस्य नियमस्यानुपपत्तिरित्याशङ्ख्याह ।
न तत्त्वातत्त्वयोर्भेद इति वृद्धेभ्य आगमः ।
अतत्त्वमिति मन्यन्ते तत्त्वमेवाविचारितम् ।। 7 ।।
(8) अयमत्रार्थः । नेहाद्वैतनये सत्यासत्ये द्वे रूपे स्तः, अद्वैतहानिप्रसङ्गात् । किन्तु पारमार्थिकमेकमेवाद्वयं तत्त्वम् । तच्चानादिसिद्धाविद्याविलसितसहं प्रमातृविषयतया यथातत्त्वमनवभासमानमुत्यनेकविकल्पपरिघटिताकाररूपतया व्यवहारमवतरति । तथा च तदेवाकारनानात्वोन्नीयमानस्वरूपभेदं चकास्ति, नान्यत् । तद्‌व्यतिरिक्तस्यान्यस्याभावात् । तत्र च योऽयं प्रकाशः स विद्या । अप्रकाशस्तु तमोऽविद्या । न च प्रकाशाभावोऽप्रकाशो नाम कश्चिप्रमामसिद्धो निरूप्यः । ततश्च योऽयं भेदप्रकाशः स एवैकघनप्रकाशाभावः नाम प्रकाशविच्छेदोऽविद्या । तत्र विच्छिन्नान्वयोऽवच्छेदोऽवधार्यत इति विच्छिन्नप्रकाशः सत्या विद्यैव । विच्छेदमात्रं तु अप्रधानस्वभावं च किंचिदविद्येति परमार्थविचारे न किंचित्तत्त्वं व्यवतिष्ठते । तत्त्वमेव यथाप्रतिभासं भेदेन चकासदविचारितरमणीयं प्रपंचोऽतत्त्वमिति व्यवह्रियत इति ब्रह्मविदः । तथा चाविचारितरमणीयं परूक्षया व्यवस्थापितं तत्त्वमेवाभिन्नं तीर्थिका भेददर्शनव्यवस्थिता भेदात्मकमतत्त्वं मन्यन्त इति विचारेणाविद्याविलये ब्रह्मैकनिष्ठता दर्शनानाम् । तदुक्तम् ।
सत्या विशुद्धिस्तत्रोक्ता विद्यैव
इत्यादि ।। 7 ।।
एवं तेन तेन रूपेण ब्रह्मैव विकल्पितं भवतीति सर्वशब्दानां तत्तदुपाधिमुखं तदेव विषयः सिद्ध इत्याह--
विकल्परूपं भजते तत्त्वमेवाविकल्पितम् ।
न चात्र कालभेदोऽस्ति कालभेदश्च गृह्यते ।। 8 ।।
(9) परमार्थतः अविकल्पितं विकल्पानाविषयो यत्तत्त्वं तदेव व्यवहारेऽन्यस्याभावाद्विकल्पमात्रम्, विकल्परूपं नानाविधभेदावभासम्, अनादिसिद्धाविद्यावशात् समवलंबते । जीवात्मभेदेनावतिष्ठमानं तद्गतत्वेनेति मूर्तिविवर्ताश्रयदिक्‌च्छप्रविभक्तदेशनानात्वं निमित्तपौर्वापर्यावलंबनसहम् । एवमकालकलितमपि तत्त्वमनादिनिधनं कालारव्यस्वतन्त्रशक्तिविनिवेशितप्रतिबन्धाभ्यनुज्ञावशाज्जान्मादिभावविकाराभिधीयमानपौर्वापर्यं चकास्तीत्यर्थः ।। 8 ।।
नन्वविद्यमानस्य तत्त्वे प्रतिभानमयुक्तमित्याशङ्क्य दृष्टान्तेनोपपादयति । यथा विषयधर्माणं ज्ञानेऽत्यन्तमसंभवः ।
तदात्मेव च तत् सिद्धमत्यन्तमतदात्मकम् ।। 9 ।।
(10) विज्ञानवादे विषयाकारस्य भावतोऽसत्यत्वान्नीलादिस्तद्गतो धर्मो जडोऽजडे ज्ञानेऽसंभवी अत्यन्तम् इति जडाजडयोर्न केनचिदंशेन सारूप्यमित्याह । तथा चोक्तम् --
`एकदेशेन सारूप्य सर्वं स्यात् सर्ववेदनम् ।
सर्वात्मना तु सारूप्ये ज्ञानमज्ञानतां व्रजेत् ।। इति ।। 9 ।।
अथवा संभविधर्माच्छुरितं विज्ञानं विशुद्धबोधस्वभावमप्यविद्यायां व्यवहारेऽवभासत इति इष्टं निदर्शनान्तरमाह ।
तथा विकाररूपाणां तत्त्वेऽत्यन्तमसंभवः ।
तदात्मेव च तत्तत्त्वमत्यन्तमतदात्मकम् ।। 10 ।।
(11) सांख्याभिमतमविकृतं प्रधानत्त्वं सर्वविकारग्रन्थि बीजावस्थमभिन्नमनुप्रसृष्टमेव महदादिविकाररूपैः परमार्थतः । तद्धि महदादिविकारशक्तियुक्तं गुणसाम्यावस्थात्मकं गुणवैषम्यविमर्दवशोपजायमानविकारनानात्वाद्विलक्षणमेव । अथ च व्यवहारे महदादिविकाररूपावधारणेन विना तदुपलंभासंभव इति सर्वदर्शनेष्वविद्यान्वयिनी । एवमसत्याकारोपधानेन तत्त्वप्रतिभासः सिद्ध इति साध्यान्वयो गृहीतः ।। 10 ।।
कथं पुनरेतदवगम्यते आकारा असत्याः, ततोऽन्यत् सत्यमित्याह ।
सत्यमाकृतिसंहारे यदन्ते व्यवतिष्ठते ।
तन्नित्यं शब्दवाच्यं तच्छब्दतत्त्वं न भिद्यते ।। 11 ।।
(12) `तदेव हि नित्यं यस्मिंस्तत्त्वं न विहन्यते'
(M.Bh on Va.1,पस्पशान्हिक)
इति भाष्यानुसारेणैतदुच्यते । तथा हि तत्रोक्तम् ।
`कनकमित्येव सत्यं पुनरपरयाकृत्या युक्तं खदिराङ्गारसवर्णे सुवर्णकुण्डले भवतः' इत्यनेनैव दृष्टान्तेन विकारापेक्षया भिन्नस्य ब्रह्मणः सत्यतोच्यते । यथा हि तत्र रुचकाद्याकारोपमर्देन सुवर्णमित्येव सत्यम्, एवमनन्तविकारग्रामापाये सर्वान्तेऽवतिष्ठमानमनपायि ब्रह्मरूपं सत्यं तदेव च भावतो नित्यम् । आपेक्षिकं तु जात्यादीनां व्यवहारे नित्यत्वमुच्यते । तथा हि व्यक्‌त्यपाये जातिरवतिष्ठमाना गोत्वादिका नित्या । तत्राप्यश्वत्वादिभेदत्यागे पृथिवीत्येव सत्यम् । तत्राप्यपूत्वादिभेदापाये वस्तित्येव सत्यं सर्वनामप्रत्याय्यम् । तत्रापि संविद्रूपस्यानपायिनोऽनुगमाद् विषयाकारविवेके तदेव पारमार्थिकं सत्यमिति नेतिनेत्युपासीतेति भावनाय चोद्यते । संविच्च पश्यन्तीरूपा परा वाक् शब्दब्रह्ममयीति ब्रह्मतत्त्वं शब्दात् पारमार्थिकान्न भिद्यते । विवर्तदशायां तु वैखर्यात्मना भेदः । तत्र च तदेव नित्यं जात्यादिरूपेण शब्दवाच्यम् । तत्राप्यान्तरोपादानविश्रान्त्या वाचकत्वस्य व्यवस्थापनात् स्वरूपान्तर्गतस्यार्थस्य वाच्यत्वाद् वाच्यवाचकयोरविभागः सिद्ध इति प्रथमकाण्डे निर्णीतम् । अत एवानन्तरमिहाभिधास्यति
`तस्य शब्दार्थसंबन्धरूपमेकस्य दृश्यते"
इति ।। 11 ।।
यदुक्तं
`तदात्मेव च तत्तत्त्वमत्यन्तमतदात्मकम्' इति तत्रात्यन्तमतदात्मतां तावद् व्याचष्टे ।
न तदस्ति न तन्नास्ति न तदेकं न तत् पृथक् ।
न संसृष्टं विभक्तं वा विकृतं न च नान्यथा ।। 12 ।।
(13) वैकारिकसर्वव्यवहारातीतत्वात् पारमार्थिकेन रूपेण विकारात्मकं तत्त्वं न भवति । तथा हि । अस्ति इति न शक्यते व्यवहर्तुम् । सत्त्वोपाधिकस्य स्वरूपस्य तत्त्वस्वरूपायोगात् तेनात्मना व्यवहारानवतारात् । नापि नास्ति इति, अभावोपाधिकस्याप्यतथात्वात् प्रमाणेन भावात्मकस्य तत्त्वस्याचोदितत्वात् । एकसंख्योपाधीयमानस्वरूपविशेषं तत्त्वं न भवति । निरूपाधिनः तत्त्वस्य वस्तुतोऽभिन्नत्वात् । तथा चैकमित्यप्रतीतेः । नापि पृथक्‌त्वाहितविशेषम्, तद्भिन्नस्यासत्यत्वात् । नापि संसर्गोपाधिकम्, विभागोपाधिकं वा, ततो द्वितीयस्य प्रमाणेनानुपपत्तेः, कुतोऽभिन्नं विभक्तं च केन वा संसृष्ट स्यात् । परिणामनिषेधेन विवर्ताभ्युपगमान्न विकृतम् । अनेकाभावग्रामरूपतया चाद्भुतया वृत्त्या विवर्तनादविकृतमुत्यपि न शक्यते व्यवहर्तुमिति सर्वव्यपदेशातीतं तत्त्वं परं ब्रह्म ।। 12 ।।
अथ च तदात्मैवाविद्यायामवधार्यत इत्याह ।
तन्नास्ति विद्यते तच्च तदेकं तत् पृथक् पृथक् ।
संसृष्टं च विभक्तं च विकृतं तत्तदन्यथा ।। 13 ।।
(14) भावाभावविकारावभासजननशक्ति तदेवास्ति नास्तीति च सत्तासत्तोपाधिकव्यवहारसहं भावतस्तु निःसत्तासत्तं निःसदसत् परं ब्रह्म । व्यावहारिकं चैकानेकव्यवहारं जातिव्यक्‌त्यात्मना तदेव वर्तत इति संख्योपाधिकमपि च । एवं संयोगोपाधिकमपि, अन्यसंसर्गितयावभासनात् । एवं विवेकावसायस्तत्र । तथा समस्तविकारात्मना जन्यमानमिवाकाशाद्यात्मना कूटस्थतया तदेवावभासत इति तदात्मैव तत्त्वमित्युक्तम् ।। 13 ।।
एवं च कृत्वा सर्वस्य तन्मयत्वाद्विरोधिनोऽपि व्यवहारास्तत्रैवोपलीयन्त इत्याह ।
तस्य शब्दार्थसंबन्धरूपमेकस्य दृश्यते ।
तद् दृश्यं दर्शनं द्रष्टा दर्शने च प्रयोजनम् ।। 14 ।।
(15) वाच्यवाचकसंबन्धानां भावतोऽद्वयरूपता । तत्र ह्यान्तरे तत्त्वे श्रुत्यर्थशक्ती संसृज्येते इति विवर्तदशायां श्रुत्यर्थशाखात्मना तस्यैव विकासाद्वाच्यवाचकरूपतया भेदावभासौ, ज्ञानज्ञेयरूपतयैवाविद्येति ब्रह्मकाण्ड एव प्रपंचेनायमर्थोऽस्माभिनिर्णीत इति तत एवावधार्यम् । द्रष्टृदृश्यरूपतया च तस्यैव विवर्तः । तथा हि दृश्यं तावद्भावजातं संविद्रूपारूढम् । वेद्यमानैकत्वादेव वेदनैकपरमार्थम्, अप्रकाशस्य प्रकाशमानतायोगात् इति पूर्वकाण्डे अद्वयसिद्धौ च वितत्य विचारितम् । द्रष्टापि जीवात्मा अविद्याकृतावच्छेदो नियतः संसारी भोक्ता ब्रह्मैव चेतनत्वाद्भावतो भेदानुपपत्तेरिति तत्रैवावेदितम् । अनेन च प्रधानकर्तृकर्मरूपकारकनिर्देशेन कारकान्तरस्याप्याक्षेपात् सिद्धरूपो विवर्तः प्रतिपादितः । दर्शनशब्देन च प्रधानक्रियानिर्देशकेन क्रियान्तरस्याक्षेपात् साध्यस्वभावक्रियाविवर्तोऽप्युक्तः । कालशक्‌त्यवच्छिन्नो हि क्रियाविवर्तः । दिक्‌च्छक्त्यवच्छिन्नश्च मूर्तिविवर्त इति मूर्तिक्रियाविवर्तरूपं विश्वं प्रतिपादितम् । प्रयोजनशब्देन च समस्तक्रियाफलनिर्देश इति साध्यासाधनफलरूपतया विश्वसंकलनायामशेषविवर्तानुगुण्यं ब्रह्मणः प्रतिपादितम् । एतच्च
एकस्य सर्वबीजस्य यस्य चेयमनेकधा ।
भोक्तृभोक्तव्यरूपेण भोगरूपेण च स्थितिः ।।
इति ब्रह्मकाण्डे प्रतिपादितम् । तत्रैव च सतत्त्वनिर्णयोऽस्माभिरभ्यधायि । प्रख्योपाख्यात्मकत्वाच्च व्यवहारस्य द्वित्वे शब्दार्थसंबन्धरूपं तद् दृश्यं दर्शनं चेति भेदेनात्र निर्देशः । एतच्चाविद्यमयं रूपं कथ्यते । पारमार्थिकन्तु प्रशान्तप्रपंचरूपं वक्ष्यति ।
यत्र द्रष्टा च दृश्यं च दर्शनं चाविकल्पितम् ।
तस्यैवार्थस्य सत्यत्वं श्रितास्त्रय्यन्तवेदिनः ।।
इति ।। 14 ।।
उक्तमिदम् `आकृतिसंहारेऽन्ते यदवितष्ठते तत्सत्यम्' इति । तत्रैतत् स्यात् । अन्ते न किंचिदवतिष्ठते । असदपदमेवैतद्विश्वमाविर्भवतीत्याशङ्क्यापि हेतुनाभिन्नकारमपूर्वकत्वमन्वयमुखेन दृष्टान्तोपक्रमं साधयितुमाह ।
विकारापगमे सत्यं सुवर्णं कुण्डले यथा ।
विकारापगमे सत्यां तथाहुः प्रकृतिं पराम् ।। 15 ।।
(16) कुण्डलावस्थात्मकविकारापाये कुण्डले सुवर्णमेकं सत्यमवतिष्ठते यथा तथा पृथिव्यादिविकारविगमेऽन्वयिनी प्रकृतिरभिन्ना सत्यावतिष्ठते इत्युपेयम् । आहुरिति आगमप्रमाणसिद्धतां ध्वनयति ब्रह्मणः । तथा चोक्तम् ।
`एकमेव यदाम्नातम्'
इति ।
`आत्मैवेदं सत्यम्' ।
इति हि श्रुतिः । उपोद्बवनमात्रं चानुमानम् । तथा हि । निरुपाख्यादसतोऽपदाद्विकारप्रादुर्भावो न युक्तः । अभावस्य भावरूपत्वविरोधात् । न हि शशशृङ्गात्कस्यचिदुद्भवो दृश्यते । अस्ति च विज्ञानरूपतया जगत्यन्वय इति तत्पूर्वकमेवैतत् । तथा च वक्ष्यति ।
"नाभावो जायते भावो नैति भावोऽनुपाख्यताम्"
इति । तस्य चिद्रूपस्य चिच्छक्तिरपरिणामिनीति विकाराभावान्नेदं सांख्यनयवत्परिणामदर्शनम्, अपि तु विवर्तपक्षः । विशेषश्चानयोर्वाक्यपदीयेऽस्माभिर्व्याख्यात इति तत एवावधार्यम् । इहापि संबन्धसमुद्देशे वक्ष्यते । कारणान्तरव्युदासश्चाद्वयसिद्धावभिहित इति सत्यर्थित्वे तत एवावगन्तव्यः ।। 15 ।।
वाच्या सा सर्वशब्दानां शब्दाश्च न पृथक् ततः ।
अपृथक्‌त्वे च संबन्धस्तयोर्नानात्मनोरिव ।। 16 ।।
(17) तत्तदुपाधिपरिकल्पितभेदबहुलतया व्यवहारस्याविद्याभूयस्त्वे प्रतिनियताकारोपाधीयमानरूपभेदं ब्रह्मैव सर्वशब्दविषय इत्युक्तोऽर्थः । आत्मा, ब्रह्म, तत्त्वम्, इत्यादयोऽपि हि शब्दाः समवलंबितोपाधयोऽपि द्रव्यात्मानमनु परिवर्तन्ते । निरुपादिनो वाग्‌विषयातीतत्वात् । वाङ्मनसातीतं हि तत्त्वमित्युपदिशन्ति ब्रह्मविदः । घटादिशब्दापेक्षया त्वात्मादिशब्दाः प्रत्यासन्नाः । सर्वस्य च तन्मयत्वाच्छब्दा अपि तदात्मकः यथाविभक्तं प्राक् । अभेदेऽपि च पारमार्थिके सांवृतो लोकयात्रायां भेदोऽसत्य इतीवशब्दः । अत एव द्विष्ठसंबन्धोपपत्तिः ।। 16 ।।
ननु चेन्द्रजालमिदं यदवधृतरूपभेदानामपि भावानामनादृत्य तत्त्वमनवसीयमानाभेदपरमार्थोपदेशनमुत्याशङ्क्य दृष्टान्तेनैतत् साधयितुमाह ।
आत्मा परः प्रियो द्वेष्यो वक्ता वाच्यं प्रयोजनम् ।
विरुद्धानि यथैकस्य स्वप्ने रूपाणि चेतसः ।। 17 ।।
अजन्मनि तथा नित्ये पौर्वापर्यविवर्जिते ।
तत्त्वे जन्मादिरूपत्वं विरुद्धमुपलभ्यते ।। 18 ।।
(18) स्वप्नावस्थागतः प्रपंचो जागरया बाध्यमानत्वादसत्य इति सर्ववाद्यभ्युपगमः । तेनैव दृष्टान्तेन जागरायामपि भावभेदस्तुरीयदशायामननुवृत्तेरसत्योऽवस्थाप्यते । यत्किल सर्वावस्थास्वनुगतं तदेव सत्यम् । तच्च संविन्मात्ररूपमबाध्यमानम् । अवस्थाभेदस्त्वागमापायित्वाद्बाधितोऽसन् सुखदुःखादिवत् । तथा हि रागादयः सुखादयश्चास्वभावत्वात् संविन्मात्ररूपं न विकुर्वन्ति । तथावस्थाभेदोऽप्यनेकाकारकालुष्योपहृतः। तत्र स्वप्ने विरुद्धाकारोल्लेखो वैकल्पिकी दृष्टिः प्रतिप्रमातृनियता । वैकल्पिको हि मनोव्यापारानुसारी संसारी भोक्ता, स च भावतश्चोतनत्वाद् ब्रह्मेव । तथा च तावति स्वातन्त्र्यान् निर्मितावीश्वरोऽनन्योपादानात् भावानाभास्योपभुङ्‌क्ते प्रियाप्रियरूपतया रागद्वेषादिमयेन संसारमोहेन स्वपरविभागानुसारी परसंकथादिषु । तदाहुः वेदान्तततत्त्वनिपुणाः ।
प्रविभज्यात्मनात्मनं सृष्टवा भावान् पृथग्विधान् ।
स्रवेश्वरः सर्वमयः स्वप्ने भोक्ता प्रवर्तते ।।
इति । भोक्तेति वचनात् प्रत्यगात्मसृष्टिरियमुक्ता । तस्य च सर्वेश्वरत्वात् ब्रह्मरूपत्वे सृष्टिसामर्थ्यमुक्तम् । सर्वमयत्वाच्चानन्योपादानविचित्रभावरचनामात्मोपादानमाहुः । अत एव प्रविभज्यात्मनात्मानमिति कर्तृकर्मभेदाभावाच्च वैकल्पिकत्वमस्याः सृर्ष्टेः स्फुटमुक्तम् । बाह्योपादाना तु जागरायामैश्वरी सृष्टिर्विश्वशब्दावाच्या सर्वप्रमातृसाधारणी । स्थिरत्वास्थिरत्वग्रहावेषनिमित्तस्तु भेदः । अविद्याप्रवृत्तचिरूपत्वात् पुनरसत्यता समानैव । केवलं सत्यामविद्यायामपरो मोहश्चिच्छक्तेरावारको निद्रा नाम । तद्वशादत्रैव भ्रान्तत्वाभिमानोऽर्वाग्दृशाम् । परमार्थदृशां तु जननमरणरहितेऽप्रविभक्ते कूटस्थे परस्मिन् ब्रह्मणि चिदानन्दरूपे सर्वमेव जगज्जाग्रत्स्वप्नाद्यवस्थागतं मूर्तिकियाविवर्तरूपमसत्यम् । अन्वयिचित्सामान्यंमात्रं तु परमार्थ इति सिद्धम् । विरुद्धमुपलभ्यते इति वदन्नविद्यायां विरोधमभ्युपैति । एतदेव ह्यविद्यायाः स्वरूपं यदनुपपद्यमानमप्याभासोपगमं नयति, उपपन्नत्वे विद्यैव स्यात् । तस्मादसत्यप्रपंचप्रकाशनशक्तिर्ब्रह्मणोऽनादिसिद्धा ग्राह्यग्राहकयुगलं स्वानुरूपमापरचय्य जगन्नाट्यमातनोतीत्यविचारितरमणीयामिमामपनयन्ति तत्त्वदृशः ।। 17-18 ।।
इति भूतिराजतनयहेलाराजकृते प्रकीर्णप्रकाशे द्रव्यसमुद्देशो नाम द्वितीयः ।।
----------

३.३ः सम्बन्धसमुद्देशः

सम्पाद्यताम्

--------------
(1) समुद्देशद्वयेन जातिद्रव्ये दर्शनभेदेन शब्दार्थमवस्थाप्य शब्देनार्थस्याभिधाने संबन्धो हेतुः, अन्यथा सर्वं सर्वेण प्रत्याय्येतेति तत्र संबन्धं प्रतिपादयितुमाह--
ज्ञानं प्रयोक्तुर्बाह्योऽर्थः स्वरूपं च प्रतीयते ।
शब्दैरुच्चरितैस्तैषां संबन्धः समवस्थितः ।। 1 ।।
(2) प्रयोगोणाभिज्वलितैः शब्दैस्त्रितयमवगम्यते-आत्मीयं रूपम्, अर्थश्च फलसाधनः, प्रयोक्तुरभिप्रायश्च न चैतदसति संबन्धे नियमेन घटत इति वास्तवसंबन्धावसायो न सामयिकः शब्दार्थयोः संबन्धः, अमिधानियमनादनादेः । अत एव समवस्थित इत्याह । स्वभावत एव निरूढो न तु पुरुषेण निवेशित इत्यर्थः ।
(3) तत्र स्वरूपमन्तरङ्गभिधेयमिति तेन मुख्यसंबन्धोऽमिधाननियमः । अत एवान्यथापि पाठक्रमे सामर्थ्यात् स्वरूपे प्रथमं प्रतिपत्तिर्विभजनीया ततोऽध्यस्तस्वरूपेऽर्थक्रियाकारिणीत्याभ्यामर्थस्वरूपाभ्यां शब्दस्य वाच्यवाचकसंबन्धः प्रयोत्क्रभिप्रायेण तु सह कार्यकारणभावः ।
(4) ननु च वाच्यावाचकभावलक्षमः संबन्धः प्रस्तुतः । तत्र कः प्रसङ्गो ज्ञानस्वरूपयोः सत्यम् । सर्वपार्षदं पुनरिदं शास्त्रमिति ये बाह्यस्यार्थस्य शब्दवाच्यत्वं नेच्छन्ति तन्मतोपसङ्ग्रहार्थं वक्त्रभिप्रायारूढस्यैव शब्दार्थत्वे तत्र कार्यकारमसंबन्धमाह ।
(5) यथाहुः--
वक्त्रृव्यापारविषयो योऽर्थो बुद्धौ प्रकाशते ।
प्रामाण्यं तत्र शब्दस्य नार्थतत्त्वनिबन्धनम् ।।
इति । अत एव द्विविधः संबन्धपदार्थो व्यवतिष्ठते, योग्यता कार्यकारणभावश्च । अध्यासस्तु द्वयोरपि परमार्थ एव, न पृथग्रूपः ।। 1 ।।
(6) यथा चेहोपचारसत्तासमाविष्टं वस्तु शब्दार्थं वक्ष्यति तथा कार्यकारणभावोऽपि संबन्धः स्वरूपस्य तु मुख्यमेव वाच्यत्वमित्याह--
प्रतिपत्तिर्भवत्यर्थे ज्ञाने वा संशयः क्वचित् ।
स्वरूपेषूपलब्धेषु व्यभिचारो न विद्यते ।। 2 ।।
(7) अयं गौरयमर्थ इति शब्दार्थयोरभेदावभासनात् स्वरूपमभिदघदेव शब्दोऽर्थमभिधत्त इति निश्चयिते । स्वरूपाविवेकेनैव ह्यर्थपरामर्शोऽभिधानमुच्यते । वृद्धव्यवहारात्तथैव संबन्धव्युत्पत्तेः । तथा हि अयं गौरिति सङ्केतः क्रियते, भेदेनैव घटशब्दस्यायमर्थ इति तु व्याख्यातृभूमिर्न व्यवहारदशा अत्रापि चायमिति शब्दाभेद एव । यदा गौरित्युच्यते तदायं सास्नादिमानर्थो बोद्धव्य इत्यप्ययमित्यभेदेनैव परामर्शे सङ्केतप्रवृत्तिः व्यवहारफलो हि सङ्केतः । यथा च लौकिके व्यवहारे प्रतीतिस्तथासौ न्याय्यः । अभेदेन च तत्र प्रतीतिः ।
(8) प्रतीतौ हि किञ्चित्तटस्थमेव तामननुप्रविशदेवोपायमात्रं दृष्टं यथेन्द्रियम् । किञ्चित् पुनस्तत्रानुप्रविशदेव प्रतीतिं जनयद् व्यधिकरणं भवति दण्ड इव, यथा धूमादि लिङ्गम् । शब्दस्तु न जनकतामात्रेणार्थप्रतीतौ संबन्धमनुभवति, अपि तु तत्रार्थः शब्द्‌यमानः शब्दमय एवावभाति । तादृशा एव हि स प्रतीतिस्वभावः । रूढत्वाच्च न भ्रमः ।
(9) ननु न वर्णमालार्थे समुपलभ्यते । दर्शनानभिज्ञो देवानांप्रियः । इह शब्दो नाम वाचकः स उच्यते योऽयं चिच्छक्तेर्वागात्मा व्यापारः शब्दनापरपर्यायोऽब्रूयमाणोऽप्युपांशुप्रयोगे शब्द इति व्यवह्रियते यतः । तस्य च प्रथममुद्भिद्यमानावस्थस्याविभागापन्नशब्दार्थमयस्वभावस्य परवागात्मना स्वरूपेणावस्थानम् । परतस्तु प्राणवृत्त्यनुप्राणितमनोभूमिसमवलम्वितनिजस्वभावस्य वाच्यवाचकरूपभिन्नशाकाद्वयावलम्बिनः समवस्थानम् ।
(10) अस्यां च मध्यमावस्थायां परामर्शनात्मा वाचकः शब्दोऽभिन्नचैतन्योद्रेकात्मिकां परवागस्थामत्यजन्नेव स्वरूपवाच्यमुखेन तत्संभिन्नमर्थं परामृशति सामानाधिकरण्येन, गौरयमर्थ इति । तथा च स वाच्योऽर्थो वाचकाध्यासवानुच्यते । तदनु च स एव परमर्शकः शब्दः पूर्वावस्थावष्टम्भेनैव स्थानकरणाभिहननात्मावस्थोपारूढः श्रवणविषयतायोग्येनात्मना विभिन्नवाच्यवाचकरूपतया व्यक्तिमासादयन् स्फुटीभवतीत्येतावती शब्दव्याप्तिः । ततश्च परवाग्रूपनिष्पन्दात्मकस्यास्य शब्दस्य त्दरूपानुगमाच्छब्दनात्मकव्यापाररूपस्य स्वसामानाधिकरण्येनार्थरूपशब्दनादभेदेनैवैकया वृत्त्या स्वरूपविशेषेण विशिष्टमर्थाभिधानमवतिष्ठते । तद्यथा शुक्लः पटोऽयमिति शुक्लगुणच्छुरणया सकृदेव विशेष्यपटप्रत्यवमर्शः । न ह्यत्र शुक्लगुणस्य पृथक् परामर्शः । एवं घटोऽयमिति प्रधानभूतविशेष्यानुप्रवेशेनैव घटस्वरूपपरामर्श इत्येकैवेयं शब्दनात्मिका प्रतीतिः शब्दार्थयोः ।
(11) क्वचित्तु स्वरूप एव विश्रान्तिः, तद्यथा-`अग्निमन्तोदात्तमधीष्व,'`अग्नेर्ढक्' इत्यादौ । अत्र ह्यनुकार्यं स्वरूपमेव प्राधान्येनावस्थितम् । बाह्यार्थप्रतिपिपादयिषायां तु स्वरूपार्थयोः सम्भेदेनैवावभास इति न पृथक् स्वरूपपविमर्शः, अपि तु स एतस्यापि यतस्तदभेदभाजोऽर्थस्य । घट इति हि घटशब्देनार्थवत् स्वरूपभिधयैव विषयीक्रियते । ज्ञानशब्दप्रदीपास्त्रयो हि प्रकाशा येनैव प्रकाशेन परं प्रकाशयन्ति तेनैवात्मानमपि । तथा च ज्ञानमर्थं प्रकाशयति प्रथयति तथैवात्मानमपि प्रकाशयति । एवं प्रदीपो रूपभासयन्नात्मानमप्याभासविषयभावोपगमनेन प्रकाशयति ।
(12) तथा शब्दोऽपि वाचकोऽर्थमभिधीयमानतया प्रकाशयन्नात्मानमभिधयैव प्रकाशयतीत्युचितम् । न तु श्रोत्रेन्द्रियविषयभावोपगमनेन अर्थसामानाधिकरण्यापन्नं च स्वरूपमर्थवत् परामृश्यमानं शब्दस्याभिधानविषयोऽभिधेयम् । न तु वाचकतायामभिधीयमानतास्ति, परमार्शस्य परवगात्मनः कर्तृभूभ्युपारूढस्य प्रकाशस्य वाचकत्वात् तत्र च परामृश्यमानात्मकवाच्यताविरोधाता तथा चाह--
न च वाचकरूपेण प्रवृत्तस्यास्ति वाच्यता ।
इति ।
(13) एवं च कृत्वा सर्वघटशब्दसाधारणं सामान्यरूपमर्थपक्षनिक्षिप्तमर्थसमानाधिकरणं स्वरूपमस्य वाच्यम् । अर्थवत्तत्सामानाधिकरण्यात्, तत्रापि तथा प्रतीतेः, सामान्यरूप एव च सङ्केतोपपत्तेः तेनैवार्थस्य सामानाधिकरण्यात्, तथैव च व्यवहारे श्रोत्रा प्रतीतेः, तदनुसारेणैव प्रतिपाद्यप्रतिपादकभावार्थमेकपरामर्शावस्थितौ सङ्केतोपपत्तेः अत एवच स्वाभिप्रायानुसारेण श्रोत्रा वक्तृज्ञानस्यानुमानात् स्वयं शब्दस्वरूपाध्यस्तमर्थमवबुध्य तथैव वक्तर्यनुमानमुचितमित्यभेदेनैव घटशब्दाध्यस्तं प्रयोक्तृज्ञानमवसीयते । तथा च ज्ञानमप्यध्यासेनैव शब्दः प्रतिपादयति वक्त्रवगतमिति तत्रापि परमार्थदृशाध्यास एव सबन्धः ।
(14) लोलीभूतानि शब्दार्थज्ञानानि घट इत्येवमवगम्यन्ते । यथोक्तम्--
न सोऽस्ति प्रत्यय.... ....
इत्यादि । अत एव
गौरित्यत्र कः शब्दः
इति प्रश्नः । तदहर्जातस्यप्यायमस्त्येव शब्दसंभेदः । सङ्केतसहत्वात् । एवं च कृत्वा तात्पर्यदृशाध्यास एव योग्यतायां कार्यकारणभावे च फलतः संबन्धयोऽवतिष्ठत इति स एव मुख्यः । ज्ञानस्यैव च परस्परसङ्क्रान्तिर्व्यवहार इति शब्देन स्वरूपाध्यस्तं ज्ञानमपि प्रतिपाद्यते परत्रेति तदपि तस्याभिधयैव प्रतिपाद्यमुपपद्यते । घटमानयेति नियुक्तो घटानयनेऽहमनेन प्रेषित इति शब्दपूर्वकमेव प्रतिपद्यते । तदाह वार्तिककारः--
न वा शब्दपूर्वको ह्यर्थे सम्प्रत्ययः ।
इति ।
(15) तदेवं शब्दनात्मकेन व्यापारेण परवागात्मनो व्यवहारे प्रवृत्ते प्रकाशस्य तज्जीवितत्वादेकशब्दनानुप्रवेशाच्छब्दार्थयोः सामनाधिकरण्यादभेदाध्यासारव्यसंबन्धविषयता सिद्धा । अविभागदशायां तु पश्यन्त्यभिधानायां वाच्यवाचकभेदानुल्लासान्नाध्यासचिन्ता काचित् इत्थं च कृत्वा शब्दैकजीवितत्वाद् व्यवहारेऽप्यर्थस्य तदवियोगात्तद्विवर्त्तरूपं विश्वं सिद्धमित्यास्तामेतत्, पूर्वमेव संप्रपचमस्यार्थस्य निरूपितत्वात् ।
(16) तत्रान्तङ्गत्वादहेयत्वादसाधारणत्वाच्च स्वरूपं मुख्यमभिधेयम् । तत्र हि सङ्केतानपेक्षा शब्दस्य वृत्तिः । तच्च जात्यादिपक्षभेदेन ब्रह्मकाण्डे निरूपितम् । अभिधानाभिधेयनिमित्तभेदाच्च भिन्नरूपमिति स्वरूपेषु इत्याह । तथा हि-कार-णसन्निवेशि वाचकम्, स्वरूपमर्थपक्षनिक्षिप्तं बाह्याभेदेन सञ्चेत्यमानं वाच्यम्, संबन्धसवेदनसमयानुभूतमभिन्नश्रुतिविषयनियामकत्वादर्थे प्रवृत्तिनिमित्तमिति त्रितयं सर्वत्राव्यभिचारि । व्यवहाराभ्यासाच्छुतिसाम्याच्च नैतत्रितयं विवेकेनावधार्यते । श्रुत्यविशेषाच्च तत्स्वरूपमिति व्यवह्रियते न तु सर्वथैवाविभेदात् । अप्रवृत्तसङ्केतस्य अर्थे त्ययमपि वकतृज्ञानविषयः सन्देहो जायत एवाप्रवृत्तसङ्केतस्याप्यक्षादिसामान्यशब्दादेव चाक्षादौ सन्देहो न तु स्वरूप इति सिद्धम् ।। 2 ।।
(17) संबन्धः समवस्थितः स्वभावत एव निरूढः, न तु सामयिका इत्युक्तम् । तस्य सद्भावे लिङ्गमाह ।
अस्यायं वाचको वाच्य इति षष्ठ्या प्रतीयते ।
योगः शब्दार्थयोस्तत्त्वमित्यतो व्यपदिश्यते ।। 3 ।।
(18) अस्यार्थस्यायं शब्दो वाचकोऽस्य शब्दस्यायमर्थो वाच्य इति षष्ठ्यन्यथानुपपत्त्यास्त्येव स्वभाविकः शब्दार्थयोर्योग इत्यवसीमते । असंबद्धानां घटपटादीनामेवमन्योन्यापारतन्त्र्येण व्यवहारायोगात् । अत एव च स्वाभाविकात् घटपटदीनामेवमन्योन्यपारतन्त्र्येण व्यवहारायोगात् । अत एव च स्वाभाविकात् संबन्धाच्छब्दार्थयोस्तत्त्वं गौरयमर्थ इत्यभेदेन व्यवह्रियत इत्यर्थः । यदि वा अतः षष्ठ्याः सकाशात्तत्त्वं स्वरूपं संबन्धस्योच्यते ।। 3 ।।
ननु षष्ठी संबन्धस्य कार्यम्, स्वरूपनिवेशि तु लक्षणमुच्यतामित्याशङ्क्याह--
नाभिधानं स्वधर्मेण संबन्धस्यास्ति वाचकम् ।
अत्यन्तपरतन्त्रत्वाद्रूपं नास्यापदिश्यते ।। 4 ।।
(9) इह पदार्थानां स्वरूपमवधार्य तदनुगामिशब्दनिवेशेन लक्षणं क्रियते । तत्र स्वेन असाधारणे धर्मेण स्वभावेनोपलक्षितस्य वाचकं प्रत्यायकम्, अभिधानं षष्ठीव्यतिरिक्तं नास्ति, इदंतया स्वरूपानवधारणात् । गुणा द्रव्याधीना अपि प्राधान्येन शुक्लदिशब्देन कदाचिदुच्यन्ते, नैवं संबन्ध इति अत्यन्त ग्रहणम् । नित्यपरतन्त्रो हि संबन्धः परोपाधिस्वरूपः संबन्धिनो परस्परौन्मुख्यस्वभावो धर्ममात्रलक्षणः । ततो निष्कृष्य संबन्धशब्देन स्वप्रधानः संबन्धिरूपतयाभिधीयमानो न साक्षात् स्प्रष्टं शक्यत इत्यसंविज्ञानपदः कार्यैकगम्यः ।। 4 ।।
तदाह--
उपकारात्स यत्रास्ति धर्मस्तत्रानुगम्यते ।
शक्तीनामपि सा शक्तिर्गुणानामप्यसौ गुणः ।। 5 ।।
(20) उपकार्योपकारकयोरुपकारप्रभावितः संबन्धोऽसंबद्धानामुपकाराभावात् । धर्म इति नित्यपारतन्त्र्यमाह । धर्मित्वे स्वातन्त्र्यात् संबन्धान्तरप्राप्तेरनवस्थापातात् । न च शक्तिरेव संबन्धः, शक्तीनामप्याधारपारतंत्र्ये नियतकार्यजनने च संबन्ध एव नियामको यतः, गुणनामपि च द्रव्याश्रितत्वास्थापकः संबन्ध एवेति परतन्त्राणामप्युपकारकत्वात् सर्वत्रानुमीयमानस्वरूपो नित्यपरतन्त्रः ।। 5 ।।
ननूक्त एव संयोगसमवायलक्षणः संबन्धः परैरिति कोऽतिश्यस्तप्रतिपादन इत्याशङ्क्याह--
तद्धर्मणोस्तु ताच्छब्द्यं संयोगसमवाययोः ।
तयोरप्युपकारार्था नियतास्तदुपाधयः ।। 6 ।।
(21) पारतन्त्र्यं संबन्धलक्षणमिति संयोगसमवाययोर्द्रव्यगुणादिषु तत्त्वात् संबन्धशब्दप्रवृत्तिः। तस्य संबन्धस्येव धर्मः पारतन्त्र्यलक्षणो ययोस्तौ तद्धर्माणौ । स्वरूपमात्रेण हि तौ संबन्धमनुकुरुतः । तथा च तस्य संबन्धस्येव शब्दस्तयोः, गौणः संबन्धशब्दः संयोगसमवाययोः, न तु मुख्यतस्तावेव संबन्धः । तथा हि-यदा स्वतन्त्रपदार्थन्तरवत् तयोरपि स्वगतोपाधिविवक्षा तदा तदुपक्रियमाणत्वात्स्वातन्त्र्ये सति पारतन्त्र्याभावात् स्वतन्त्रपदार्थवत् संबन्धरूपताहानिः । उपकारार्था उपकारप्रयोजनाः । नियतदा असाधारणाः । तदुपाधय इति । संबन्धस्य उपाधिर्येषाम्, असंबन्धानामनियामकत्वात् । इत्थं चोपाधिमन्तौ स्वतन्त्रौ यौ, ययोश्चोपाध्यवच्छेदे संबन्ध उपयोगी, तौ संयोगसमवायौ कथमुपाधिरूपेण परतन्त्रेण संबन्धनैकात्म्यं भजेतामिति स्वाश्रये संबन्धिप्रतीतिहेतुत्वात् संबन्धसधर्माणौ तौ ।। 6 ।।
तत्र संयोगस्य तावदुपाधयः ।
काचिदेव हि सावस्था कार्यप्रसवसूचिता ।
कस्याचित् केनचिद्यस्यां संयोग उपजायते ।। 7 ।।
(22) परस्परसंयोगेनावयवानामुपसर्पणप्रत्ययाहितेनावयवि द्रव्यं जायत इत्यसमवायिकारणं संयोगोऽवयव्यन्यथानुपपत्त्यावसीयते । तथा च द्रव्यैकनियतत्वं गुणत्वेन सत्तासंबन्धः संयोगस्तेनोपाधिरिति तत्रोपकारः संबन्धेन तस्यावच्छिद्यते । यत्परतन्त्रश्च संयोगस्तेनोपाधिना संबन्धानुगृहीतेनावच्छिद्यत इति पारतन्त्र्यं नाम संबन्धसामान्यरूपमस्यान्वयि न तु तदेकजीवितं पारतन्त्र्यम् अस्य गुणकर्मसामान्यादावपि भावादस्य च द्रव्यैकनियतत्वात् । किं च संयोगस्य गुणत्वात् संबन्धो गुणत्वसंयोगत्वसंबन्धश्च न पदार्थसंबन्धस्य सर्वपदार्थोपकारस्य तद्योगो द्रव्यगुणकर्मभ्योऽन्यत्वात् । वस्तुभूतकार्यकारित्वं च संयोगस्य, योजनामात्रहेतुस्तु संबन्ध इति भेदः ।
समवायादपि संबन्धस्य भेदं नियतोपादिनियमितसमवायस्वरूपानुवादेनाह--
निरात्मकानामुत्पत्तौ नियमः क्वचिदेव यः ।
तेनैवाव्यपवर्गश्च प्राप्त्यभेदे स यत्कृतः ।। 8 ।।
आत्मान्तरस्य येनात्मा तदात्मेवावधार्यते ।
यतश्चैकस्य नानात्वं तत्त्वं नाध्यवसीयते ।। 9 ।।
तां शक्तिं समवायाख्यां शक्तीनामुपकारिणीम् ।
भेदाभेदावतिक्रान्तामन्यथैव व्यवस्थिताम् ।। 10 ।।
धर्मं सर्वपदार्थानामतीतः सर्वलक्षणः ।
अनुगृह्णाति संबन्ध इति पूर्वेभ्य आगमः ।। 11 ।।
(23) सत्कार्यवादे कारणमेव कार्यं भवतीति प्रतिनियतैः शब्दैस्तज्जन्यत इति तत्रैव तदुपलंभो युक्तः । असत्कार्यनये तु नियतेष्वेव कारणेषु कार्यम्, तन्तष्वेव पटः, कपालेष्वेव घट इत्यादिबुद्धिहेतुः समवायोऽभ्युपगतः । सत्यपि च भेदे कार्यकारणयोः तेनैव नियमविषयेण कारणेनैव कार्यस्यावियोगो देशकालभेदात् प्राप्तेः संबन्धरूपतायाः संयोगेन सहाविशेषेऽपि समवायकृतः । तथा च संयोगात् समवायस्य भेदः । अत एव कार्यकारमयोरवयवावयविनोर्धर्मधर्मिणोर्जातितद्वतोर्गुणगुणिनोर पदार्थान्तरत्वेऽपि तादात्म्येनावमासः । यथायोगं स्वगतविशेषसद्भावात्तु तादात्म्यमतत्त्वमिति इव-शब्दः । तेनैवाव्यपवर्ग इत्युक्तस्यैवेदं फलकथनमिति न पौनरुक्‌त्यम् । अव्यपवर्गादेव ह्यन्यस्यात्मनावभासः । अत एव प्रवादिनां विमतिः, अवयवावयनिनोर्धर्मर्धार्मणोश्चैकत्वं केचिदिच्छन्ति केचिन्नानात्वमिति समवायव्यामोहादपि परमार्थतो न व्यवतिष्ठते । अनेन चायुतसिद्धिः समवायस्पोपाधिरुक्तः ।
(24) एवमयुतसिद्धानामिहप्रत्ययहेतुः समवायो नान्येषामित्ययं नियमः संबन्धेनसमवायस्यावेद्यते । यत्रैव हि पारतन्त्र्यमस्य तत्रवैहबुद्धिमभेदमिव च प्रकल्पयति द्रव्यगुणकर्मसामान्येषु शक्तयोऽपि वाधारपारतन्त्र्येण तेन नियम्यन्ते । समवायिष्विव च समवायस्यापि भेदस्तेभ्यो नावधार्यते । संमूर्छितरूपत्वेनावभासात् । इह प्रत्ययकार्यवशात्त्वनुमीयते सतत्त्वतः संबन्धिव्यतिरेकेणेत्येवं परप्रसिद्धम् । येन इति समवायमनूद्य तां शक्तिमिति शक्तित्वमस्य विधत्ते। अनुग्राहकत्वेन पदानामस्य तैस्तुल्यकक्षतया निर्देशानुपपत्तिरित्यर्थः । शक्तित्वादेव च भेदाभेदावतिक्रान्तत्वम् । तत्त्वन्यतत्वाभ्यामनिर्वाच्या हि शक्तयः । तथोक्तम्--
शक्तीनां वस्तुरूपत्वे तत्त्वान्यत्वविचारणा ।
युज्यते कल्पितानां तु युक्ताद्वयवियुक्तता ।।
इति ।
(25) तथा हि-समवायिसम्मूर्च्छितत्वेनावभासान्न ततो भिन्ना नाप्यभिन्ना । आश्रयासंभविनः कार्यस्येहप्रत्ययलक्षणस्य जननादिति तत्त्वान्यत्त्वाभ्यामनिर्वाच्यता । अतश्च अन्यथैव पदार्थवैलक्षण्येनेयमवस्थिता । यदि वेहप्रत्ययकार्यस्याभेदात्स्वतोऽभिन्ना, तस्यैव तु समवायिप्रकल्पितभेदत्वाद्भिन्नापीत्येवमेकापि सती संबन्धिनानात्वात्कल्पितभेदेति अन्यथा व्यवस्थिता । साधनादिशक्तीनां चाश्रयावस्थानेन उपकारिणी । तदेवंरूपामपि समवायाख्यां शक्तिं सर्वपदार्थगतस्वाधीनत्वलक्षणं धर्ममतिक्रान्तो नित्यपारतन्त्र्यलक्षणोऽत एवोपकारापेक्षं सर्वं वस्तु लक्षणं ज्ञापकमस्य न समवायस्येव प्रतिनियतं संबन्धिरूपमेवेत्येवंरूपः संबन्धोऽनुगृह्णाति नियमयति, परतन्त्रे एवायुतसिद्धेऽवस्थापयति, पारतन्त्र्यसामान्यात् स्वव्यपदेशं च निवेशयतीत्यागमज्ञाः संबन्धलक्षणं पारतन्त्र्यमाहुः । एवंविधकार्यकारी संबन्धो नाम पदार्थविलक्षण इत्यागमेन द्रढयति ।। 9-11 ।।
एवं च कृत्वा संयोगसमवायावेव नेह संबन्धौ यथान्येषां दर्शनमित्याह--
पदार्थीकृत एवान्यैः सर्वत्राभ्युपगम्यते ।
संबन्धस्तेन शब्दार्थः प्रविभक्तुं न शक्यते ।। 12 ।।
(26) षट्पदार्थवादिभिर्वैशेषिकैर्गुणपदार्थे संयोगः प्रक्षिप्तः । समवायस्तु स्वतन्त्रः पदार्थ इत्युक्तनयेन पारतन्त्र्याच्छक्तिरूपोऽपदार्थोऽपि पदार्थः कृत इव तद्रूपसमारोपात् संबन्धः । न चेहास्य शब्दस्यायमर्थ इति नियमेन प्रविभागे शब्दार्थयोः सोऽभ्युपगन्तुं पार्यत इति तद्‌व्यतिरिक्तस्तयोरस्ति संबन्ध इत्यव्याप्तिः पदार्थसङ्‌ग्रहे वैशेषिकाणाम् । तथा हि--
समवायात् स्व आधारः स्वा च जातिः प्रतीयते ।
एकार्थसमवायात्तु गुणः स्वाधार एव ये ।। 13 ।।
(27) खाकाशगगनादयः शब्दाः स्वार्थमाकाशाख्यं तत्र समवायात् प्रतिपादयन्ति, स्वसमवेतां जातिं स्वरूपलक्षणां सर्वे शब्दाः समवायसंबन्धात् प्रत्याययन्ति, तस्याः शब्दव्यक्तिषु समवायात् । शब्दत्वमपि शब्दशब्दस्तत्र समवायात् प्रत्याययति । ये त्वाकाशगुणा महत्त्वादयस्तानेकार्थसमवायाच्छब्दाः प्रत्याययन्ति, महत्त्वादिशब्दानामसाधारणानां महत्त्वादिविशेषगुणानां वाकाशे एकत्र समवायात् । एवं शब्दव्यक्तिलक्षणा गर्जितकूजितभणितहेषितादयो गगनस्यासाधारणा गुणास्तदभिधायका अपि गर्जितादयः शब्दास्तदेकार्थसमवायादेव ।। 13 ।।
तथा--
द्रव्यत्वसत्तासंयोगाः स्वन्याधारोपबन्धनाः ।
तत्प्रदेशविभागाश्च गुणा द्वित्वादयश्च ये ।। 14 ।।
(28) द्रव्यत्वमपरसामान्यं सत्ता च महासामान्यमेकार्थसमवायाद् द्रव्यत्वादिशब्दैः प्रत्याय्यते । सत्ताद्रव्यत्वे हि द्रव्यत्वादिशब्दस्य यः स्व आधार आकाशस्तत्रान्यत्र च पृथिव्यादौ वर्तेत इति स्वान्याधाराभ्यामुपबध्येते, स्वात्मनि नियभ्येते । तथा च स्वान्याधारवृत्तिनी, स्वाश्रयुपरिसमाप्तत्वात्, सामान्यानामाश्रयान्तरसमवायेऽप्येकैकत्र समवायाविरोधात् तथा चाकाशेन पदार्थान्तराणां ये प्रदेशवृत्तयः संयोगविभागद्वित्वपृथक्‌त्वादयश्च तेऽपि संयोगादिशब्दैरेकार्थसमवायादेव प्रत्याय्यन्ते द्विष्ठत्वात् संयोगादीनामाकाशेऽपि समवायात् ।। 14 ।।
तथा--
केचित् स्वाश्रयसंयुक्ताः केचित् तत्समवायिनः ।
संयुक्तसमवेतेषु समवेतास्तथा परे ।। 15 ।।
(29) स्वशब्दानामाश्रय आकाशः, तेन संयुक्ता रथघटादयो रथघटादिशब्दैः समवेतसंयोगात् प्रत्याय्यन्ते । घटादिसमवेतास्तु रूपादयो गुणा उत्क्षेपणादयश्च कर्मविशेषाः स्वाश्रयसंयुक्तसमवायाद्रूपादिशब्दैः प्रत्याय्यन्ते घटादिसमवेतरूपादिसमवेतास्तु रूपत्वादयो रूपत्वादिशब्दैः स्वाश्रयसंयुक्तसमवेतसमवायादभिधीयन्ते ।। 15 ।।
तथा--
स्वाश्रयेण तु संयुक्तैः संयुक्तं विभु गम्यते ।
समवायस्य संबन्धो नापरस्तत्र दृश्यते ।। 16 ।।
(30) दिक्‌कालात्मनां विभूनामाकाशेन सहाप्राप्तिपूर्विकायाः प्राप्तेरसंभवात्साक्षात् संबन्धाभावाद्दिक्कालादिशब्दैः स्वाश्रयसंयुक्तसंयोगात्ते प्रतीपाद्यन्ते । आकाशेन हि संयुक्ताः पृथिव्यादयः, तैः संयुक्ता हि दिक्कालात्मानः । एवं पूर्वानुसारेण विङुद्रव्यसमवेताः गुणाः तत्समवेताश्च सामान्यविशेषाः स्वशब्दैः स्वाश्रयसंयुक्तसमवायात् स्वाश्रयसंयुक्तसमवेतसमवायाच्चाभिदीयन्त इत्यध्यवसीयत इति पृथङ् नोक्तम् । तदेवं द्रव्यगुणकर्मणां सामान्यानां च प्रतीतेहेतुरुक्तः । विशेषस्थापि परमाणुमनःसमवेतस्य स्वाश्रयसंयुक्तसमवायात् स्वशब्देनाभिधानाम् । आकाशसमवेतस्य त्वेकार्थसमवायात् दिक्‌कालात्मसमवेतस्य स्वाश्रयसंयुक्तसमवायापेक्षया प्रतीतिरुक्ता । एवमत्र यथायोगं विभजनेऽपि समवायशब्दस्य स्वार्थप्रतिपादने न कश्चित् संबन्धः स्यात् समवायस्याद्रव्यत्वात् केनचित् संयोगाभावात् स्वरूपवृत्तित्वात् समवायान्तराभावाच्च । स्यादेतत्-समवायशब्द आकाशे समवेतो घटादयश्चाकाशेन संयुक्तास्तेषु च समवायः स्थित इति स्वाश्रथसंयुक्तसंबन्धात्तमभिधास्यति । नैतद्युक्तम्, समवायान्तराभावात् समवायस्य घटादिषूक्ता कल्पना न युज्यते ।। 16 ।।
तथा हि--
संबन्धस्याविशिष्टत्वान्न चात्र नियमो भवेत् ।
तस्माच्छब्दार्थयोर्नैव संबन्धः परिकल्पते ।। 17 ।।
(31) यदायमर्थो विशिष्टस्य संबन्धस्याभावादिति तदान्तरेण संबन्धं समवायशब्दः स्वार्थं न प्रत्याययेदित्यनर्थकः, यद्वा प्रत्यायन्न नियमेन सर्वमर्थं प्रत्याययेदिति व्याख्या । प्रकृतापेक्षया वानियमः । निमित्तं विना समवायशब्दस्य स्वार्थाभिधानेऽनिबन्धनलक्षणस्य संबन्धस्याविशिष्टत्वात् सर्वः शब्दः सर्वमर्थं प्रत्याययेत् । यदा तु संबन्धस्याविशिष्टत्वात्तुल्यत्वाद् अन्येन साधारणत्वादित्यर्थस्तदेयं व्याख्या । आकाशशब्देन समवायात् स्वाश्रयाभिधाने घटादयोऽपि शब्दा गगनाभिधायिनः स्युः, आकाशसमवायस्याविशेषात् । एवं च स्वसमवेतजात्यभिधाने शब्दशब्दस्य गुणत्वं सत्ता च प्रतिपद्या स्यात् । घटदिशब्देश्च स्वाश्रयसंयोगाविशेषांत् पटादयोऽपि प्रत्याय्येरन्नितीयं अव्याप्त्यतिव्याप्तिभ्यां व्यवस्था शब्दार्थसंबन्धे विशीर्यते यतस्तस्मात्संयोगसमवायरूपतया नात्र संबन्धपदार्थपरिकल्पनं न्याय्यम् ।। 17 ।।
प्रौढिवादितया वैशेषिकदर्शनं समर्थयितुमेतदाह--
अदृष्टवृत्तिलाभेन यथा संयोग आत्मनः ।
क्वचित् स्वस्वामियोगाख्योऽभेदेऽन्यत्रापि स क्रमः ।। 18 ।।
(32) व्यापकस्यात्मनः सर्वैर्द्रव्यैः संयोगस्याविशेषेऽपि धर्माधर्मवशाच्छरीरादावेव स्वस्वामिभावलक्षणः संबन्धो यथा, एवमिहाप्यविशेष्टेऽपि स्वाश्रयसमवाये स्वाश्रयसंयोगे वादृष्टवशादेव प्रतिनियतः शब्दार्थो व्यवस्थास्यत इत्यतिव्याप्त्यभावः । अदृष्टस्य धर्माधर्मलक्षणस्यात्मगुणस्य वृत्तिः फलदानं प्रति व्यापारः तस्या लाभो देशकालादिसहकारिवशात् प्राप्तिः । तुच्छोऽयं परिहारो हेयत्वादस्य पक्षस्याभिहितः । भोगस्य स्वसुखदुःखसाधनभूतस्य युक्तं कर्माक्षिप्तत्वं न तु सर्वस्य तथाभावो युक्तः । अथ शब्देनार्थप्रतिपादननियमे सति तस्य भोग्यत्वमित्येतदपि कर्माक्षिप्तमेवेत्युच्यते तदा सर्वस्य जगतस्तथाभावाददृष्टहेतुप्रत्याख्यानं सर्वत्रायातम् । अथायमत्राशयः-यथा संयोगे समानेऽपि न सर्वं स्वमात्मनः, नापि सर्वेषामात्मनां प्रत्यात्मगतादृष्टनियमात् तथा संबन्धाभेदेऽपि न सर्वं सर्ववाच्यम्, प्रयोगदर्शनाभ्यासजनसंस्कारपारतन्त्र्यादिति तदा सर्व एव प्रतिनियतविषयः प्रयोगदर्शनाभ्यासात् सङ्केतादवसीयमानस्वरूपः संस्कारो योग्यतारूपः संबन्धोऽस्तु, किमन्येनानिबन्धनेन संयोगसमवायलक्षणेन नान्तरीयकेण कृत्यम् ।। 18 ।।
समवायस्य त्ववाच्यत्वमेवाभ्युपैति ।
प्राप्तिं तु समवायाख्यां वाच्यधर्मातिवर्तिनीम् ।
प्रयोक्ता प्रतिपत्ता वा न शब्दैरनुगच्छति ।। 19 ।।
(33) शब्दप्रतिपाद्यानां वाच्यानां गवादीनामर्थानां धर्मः संसर्गिरूपाच्छुरितत्वम् , निरुपाधीनां शब्दविषयतायोगात् । समवायस्तु निरुपाधिः, न हि तस्य गुणसामान्यादिः कश्चिदुपाधिः परैरङ्गीक्रियत इति वाच्यधर्ममतिक्रान्तः । तयेदं तदिति प्रत्यवमर्शयोग्यत्वं वाच्यधर्ममतिक्रान्तः । नित्यपरतन्त्ररूपश्चासौ समवायशब्दादपि नावधार्यते प्रयोक्तृप्रतिपत्तृभ्यामिति न तत्स्वरूपनिवेशिसंविज्ञानपदं किंचनास्ति इत्यवाच्य एव भावतोऽयम् । संबन्धिरूपतया तु स्वतन्त्रः समवायः शब्दादवगम्यते । तथा च धर्मितया प्रतीतेर्धर्मान्तरयोगसहत्वादस्त्येव स्वाश्रयसंयोगः, तदभिधाने समवायशब्दस्य संबन्ध इति न कश्चिद्दोषः । अर्थान्तरे समाजादौ च प्रयोगदर्शनात् समवायशब्दो नासाधारणं संविज्ञानपदमस्य लौकिकम् । किं तर्हि ? वैशेषिकसमय एव रूढम् । वाच्यमर्थं प्रयोक्ता विवक्षित्वा योग्यं शब्दं प्रयुङ्क्ते । समवायस्य तु पारतन्त्र्यात्मनो वाच्यत्वाभावात् प्रयोक्तुर्योग्यशब्दोदाहारे व्यापाराभावः, तदभावात् प्रतिपत्तापि न तत्र कश्चिदित्युभयोपादानम् ।। 19 ।।
अत्रावाच्यत्वे समवायस्योक्ते नैयायिको वाक्च्छलमुद्भावयति--
अवाच्यमिति यद् वाच्यं तदवाच्यतया यदा ।
वाच्यमित्यवसीयेत वाच्यमेव तदा भवेत् ।। 20 ।।
(34)अवाच्यमित्यनेन शब्देन यद् वाच्यं वक्तुमभिप्रेतं तद्यदैवावाच्यतया अवाच्यशब्देन वाच्यं व्यवहर्तव्यमिति प्रतीयते तदैव वाच्यं भवति, प्रतिपादनकाल एव वाच्यतामुपैतीत्यर्थः । तथा च वाच्यमित्युक्तेऽवाच्यशब्दस्यैव वाच्यमित्यवाच्यत्वं विरुध्यते ।। 20 ।।
अथाप्यवाच्यमित्येवं न तद् वाच्यं प्रतीयते ।
विवक्षितास्य यावस्था सैव नाध्यवसीयते ।। 21 ।।
(35) अवाच्यशब्दस्याप्यवाच्यत्वे प्रतिपिपादयिषितं शब्दानभिधेयत्वं समवायस्य न गम्येतेत्यस्य वाच्य एव । तथा च विरोध इत्यर्थः ।। 21 ।।
अथ पारतन्त्र्यात्मनावाच्यो न सर्वथेत्याशङ्क्याह--
तथान्यथा सर्वथा च यस्यावाच्यत्वमुच्यते ।
तत्रापि नैव सावस्था तैः शब्दैः प्रतिषिध्यते ।। 22 ।।


(36) पारतन्त्र्यात्मना न वाच्य इत्यपि प्रकारप्रतिषेधे प्रकारवत एव प्रतिषेधः कृतो भवति । न हि तेनान्येन सर्वेण वा प्रकारेणावाच्य इति प्रकारमात्रस्यावस्थालक्षणस्यैतैः शब्दैः प्रतिषेधः । धर्म्यप्रतिषेधे तदाश्रितधर्मप्रतिषेधानुपपत्तेः । तस्माद्विशिष्टनिषेधेऽपि प्रतिषिद्धमेव वाच्यत्वं समवायस्येति कथमवाच्यशब्दस्यायं वाच्यः स्यादिति चोद्यमेव । यदि वा तथान्यथा इत्यादिना निषेधेऽपि न सैवावस्था निषेद्धुं शक्या यावदवस्थाता न निषिद्ध इति नान्तरीयकोऽस्य निषेधः । शब्दविषयताप्रत्यवमर्शमन्तरेणाकारविशेषः प्रतिषेद्धुं न शक्यत इति शब्दविषयत्वेन तस्य वाच्यत्वोपपत्तेरवाच्यत्वे न विरोध इति पूर्वे व्याचक्षते ।। 22 ।।
अस्य वक्तुरभिप्रेतादर्थान्तराध्यारोपेण वाक्च्छलस्योत्तरं वक्तुमेतत् सदृशं निदर्शनमाह--
न हि संशयरूपेऽर्थे शेषत्वेन व्यवस्थिते ।
अव्युदासे स्वरूपस्य संशयोऽन्यः प्रवर्तते ।। 23 ।।
(37) समानधर्मोपलंभाद्विशेषानवधारणाद् विशेषस्मृतेश्चार्थे संशयिते स्थाण्वादौ स्थाणुर्वा स्यात् पुरुषो वेति यदिदं संशयज्ञनमाजायते तत्र संशयरूपे ज्ञाने ंसशयितेऽर्थे स्वविषये शेषत्वेन तद्विषयव्यवस्थापनाङ्गत्वेन स्थिते तदुपरि तदैनान्यसंशयज्ञानं नोत्पद्यते, अस्यार्थपरतन्त्रस्यापरित्यक्तपारतन्त्र्यस्वरूपस्य स्वविषयविज्ञानं प्रति विषयभावोपगमविरोधात् । यदि हि स्वविषयस्य संशयरूपस्य ज्ञानस्येदं विषयभावमुपेयात्, तदा स्वरूपेणैव संदिग्धत्वादलब्धप्रतिष्ठं स्वस्मिन् बाह्यविमर्शस्वभावे संशयात्मनि स्वरूपे नावतिष्ठेत । तथा च बाह्यस्यार्थस्य दोलायमानत्वं न परिच्छिद्यते युगपद्विषयविषयिभावस्यानुपपत्तेः । तेनैव चार्थुप्रवृत्तेन संशयेन विषयवत् स्वरूपस्यापि संशय्यमानतायोगो व्यापारस्यैकत्वात् । तदेवं यथा संशय आत्मरूपं वर्जयन् विषयं सन्देहयति तथा अवाच्यशब्द आत्मानं वर्जयन् विषयीकृतं वाचयतीति साधर्म्यम् । संशयरूपेऽर्थे संशायभिधाने ज्ञानवस्तुनि वेत्यर्थः । शेषत्वेन व्यवस्थितिरत्रार्थाद् वस्तुविषया ।। 23 ।।
उदाहरणान्तरमप्याह--(37)
यदा च निर्णयज्ञाने निर्णयत्वेन निर्णयः ।
प्रक्रम्यते तदा ज्ञानं स्वधर्मेणावतिष्ठते ।। 24 ।।
(38) विशेषावधारणरूपे निर्णीयमानार्थविषये निर्णयज्ञाने तदैवार्थपरिच्छेदव्यापृतेऽपरः स्वगतो निर्णयो न प्रवर्तते । ज्ञानस्य ह्यर्थपारतन्त्र्यं स्वधर्मः । ततस्तु निष्कृष्य स्वरूपविचारे स्वधर्माद् विप्रकृष्येत, स्वातन्त्र्येण विषयभावापत्तेः अत एव ज्ञानान्तरग्राह्यत्वं न भवतीति घटज्ञानमिति प्रागेव प्रतिपादितमिति ज्ञानान्तरविषयत्वे विषयित्वत्यागात् स्वधर्मस्य हानिः । तदेवमन्यत्र व्यापृतस्य तदैव स्वविषयव्यापाराभावाद्यथा ज्ञानस्य ज्ञेयत्वं नास्त्येकस्यां संवित्तौ तथा वाचकस्य वाच्यत्वं नास्तीत्यवाच्यशब्दः प्रतिपादनावस्थो नात्मन एव वाच्यतामर्थस्य निषेधति,स्वात्मनि क्रियाविरोधात् । न च शब्दान्तरं तदानीं तद्वाच्यतानिषेधकमस्तीत्यवाच्यशब्दस्याभिधाविषभभावमत्रोपगच्छत्येवार्थः । तथा हि शब्दान्तरस्य समवायशब्दस्य समवायस्वरूपेण न वाच्य इत्येतद्वक्तुर्विवक्षितं प्रतीयत एव ।। 24 ।।
तद्यथा--
सर्वं मिथ्या ब्रवीमीति नैतद्वाक्यं विवक्ष्यते ।
तस्य मिथ्याभिधाने हि प्रक्रान्तोऽर्थो न गम्यते ।। 25 ।।
(39) स्ववाक्यानामसत्यार्थताप्रतिपादनाय सर्वम् अहं मिथ्या ब्रवीमि इत्युक्तेऽस्यापि वाक्यत्वान् मिथ्यार्थता न प्रसञ्जनीया । एवं हि प्रक्रान्तं विवक्षितं स्वावाक्यान्तराणां मिथ्यात्वं न प्रतीयेत अथ सत्यपि मिथ्यार्थत्वे प्रतिपादकत्वमस्य वाक्यस्य वाक्यान्तराणामपि तथैव स्यादिति तेषां मिथ्यार्थप्रतिपादनं प्रक्रान्तमफलमित्यपरोऽत्रार्थः ।। 25 ।।
अत्रैव युक्तिमाह--
न च वाचकरूपेण प्रवृत्तस्यास्ति वाच्यता ।
प्रतिपाद्यं न तत्तत्र येनान्यत् प्रतिपाद्यते ।। 26 ।।
(40) करणसन्निवेशिनस्तदैवाभिधेयता विरुद्धा, अन्यप्रतिपादनप्रवृत्तस्य तदैव प्रत्युदावृत्यात्मनि व्यापाराभावात् । वस्तुस्वभावोऽयं यत् कर्तृशक्तियुक्तं न तत् कर्मशक्तेनधिकरणं तदैव भवति, स्वातन्त्र्यपारतन्त्र्ययोरेकदैकत्र विरोधादित्यर्थः । प्रतिपाद्यं न तत्तत्र इत्यादिना सर्वनिदर्शनसाध्यमन्ते निगमितवान् । यत् प्रतिपादकं न तत् प्रतिपाद्यम् । यथा संशयज्ञानं निश्चयज्ञानं वा । प्रतिपादकं चाभिधानमतो नैतत् प्रतिपाद्यमिति प्रयोगः ।। 26 ।।
ननु मा भूद् वाचकं वाच्यम्, विरोधात् । आत्मकर्तृकवाक्यसमान्यानुप्रवेशात्त्वस्य मिथ्यात्मना केन धार्यत इत्येतदाशङ्क्यैतदेव निदर्शनान्तरेणोपपादयति--
असाधिका प्रतिज्ञेति नेयमेवाभिधीयते ।
यथा तथास्य धर्मोऽपि नैव कश्चित् प्रतीयते ।। 27 ।।
(41) साध्यनिर्देशः प्रतिज्ञा साधनाङ्गं न भवतीत्युक्ते नेयमेव सौगतस्य प्रतिज्ञात्वाविशेषात्तथा भवति, अनर्थकत्वे विवक्षितार्थासिद्धेः । अपि त्वेतद्वर्जं प्रतिज्ञान्तराणां तत्ता । एवं सर्वं मिथ्या ब्रवीमीत्यस्यापि वाक्यस्यायथार्थताप्रतिपादने क्रियमाणे धर्मोऽनृतत्वं न गम्यते तथाभावे विवक्षितार्थप्रतिपादनाभावे प्रयोगवैफल्यात् ।। 27 ।।
एवमवाच्यशब्देऽपि प्रष्टव्यम् । उपसंहरति--
व्यापारस्यापरो यस्मान्न व्यापारोऽस्ति कश्चन ।
विरोधमनवस्थां वा तस्मात् सर्वत्र नाश्रयेत् ।। 28 ।।
(42) अवाच्यशब्दस्य स्वार्थप्रतिपादने यो व्यापारोऽभिधालक्षमस्तस्यान्यो व्यापारः स्वविषयस्तदानीमेव नास्ति येनैकेन व्यापारेण शब्दान्तराभिधेयतां निषेधत्यपरेणात्मनोऽप्यभिधेयतामित्यवाच्यशब्दस्याप्यसावार्थो न वाच्यः स्यादिति विवक्षितं शब्दान्तराणामप्यवाच्यत्वं न प्रतीयेतेति विरोधः स्यात् । निर्निमित्तव्यापारान्तराभ्युपगमे चानवस्था स्यात् । तथा हि-यद्यवाच्यशब्दस्यापि विषयभावनिषेधाय व्यापारान्तरं संभवेत् तदा तस्यापि व्यापारान्तरस्य स्वविषये प्रवृत्तिनिषेधाय व्यापारान्तरं तदैवेत्यनवस्थानादप्रतिपत्तिः स्यादित्यर्थः । व्यापारान्तराभावात्तु नैष प्रसङ्गः । सर्वत्र इति न केवलं वाच्यतायामेव, अपि तु संबन्धेऽपि, संबन्धस्य संबन्धिभ्यां सहान्यस्य संबन्धस्याभावे तयोरपि संबन्धिनोः शब्दार्थयोः संबन्धो मा भूत् । संबन्धान्तरकल्पने वानवस्थेत्येषानवस्था नाश्रयितव्या । संबन्धस्य स्वयं संबन्धरूपत्वादन्यत्योपश्लोषकस्यायोगादित्यर्थः । अथवा सर्वत्र इति सर्वं मिथ्या ब्रवीमि, असाधिका प्रतिज्ञेत्यादावित्यर्थः ।
तदेवं परप्रसिद्धसंयोगसमवायलक्षणसंबन्धाश्रयेण शब्दार्थप्रविभागेऽतिव्याप्तिरदृष्टवशात् परिहृता । अव्याप्तिरपि, साक्षात् समवायस्यावाच्यत्वे कल्पितेन रूपेण संबन्धितया वाच्यत्वे नास्त्येव तटस्थस्य समवायशब्देनामुखीकृतस्य समवायस्यावाच्यत्वविधाने विरोधभावादिति प्रौढिवादितया शास्त्रान्तरसिद्धसंबन्धाश्रयेणापि शब्दार्थनियमो व्यवस्थापितः ।। 28 ।।
इदानीं स्वनिकायसिद्धं संबन्धपपादयितुमाह--
इन्द्रियाणां स्वविषयेष्वनादिर्योग्यता यथा ।
अनादिरर्थैः शब्दानां संबन्धो योग्यता तथा ।। 29 ।।
(43) समवायादिनिमित्तानपेक्षयैवोच्चरितमात्राच्छब्दार्थप्रत्ययोत्पत्तेरकृत्रिमा शक्तिरवसीयते । अर्थमात्रेण हि शब्दमात्रस्यावियोगमप्रवृत्तसंकेता अपि प्रतिपद्यन्ते । तथा च योग्यता स्वाभाविकी सिद्धा, संकेतस्तु तामेव द्योतयति । तद्यथा चक्षुरादीनां रूपादिविषये पुरुषप्रयत्नानपेक्षा ग्राहकता । न हि यत्नेनापि रूपे रसननिवेशः शक्यक्रियः । एवं गवार्थे घटशब्दनिवेशोऽसाधुः । तथा हि भाष्यम्--
"यो हि गामश्व इति ब्रूयान्न जातुचित् सम्प्रत्ययः स्यात्"
(M.Bh. on P.I.2.64)
इति । यथारुचि सङ्केते हि न वाचकशक्तिपुरःसरीकारेणान्यविषये शब्दाः प्रवर्तन्ते प्रसिद्धार्थाः, अपि तु समयमात्रं तत् । संज्ञाशब्दानां तु सर्वसंज्ञिप्रत्यायनशक्तियुक्तत्वेऽपि विशिष्टे संज्ञिनि शक्‌त्यवच्छेदः सामायिकः । इयं च योग्यता शब्दानामर्थप्रतीत्यनुसारेणैव व्यवस्थापयितव्येत्यभेदेन शब्दार्थयोः प्रत्ययादध्यासफलैवावस्थितेति स एव मुख्यः संबन्धः । अत एव प्रतीतावर्थस्यापि विषयभावेनापेक्षणात् पारतन्त्र्यसामान्यात् संबन्ध इति व्यपदिश्यते । यदापि चेन्द्रियाणि कारकत्वादज्ञातान्येव ज्ञानं जनयन्ति, शब्दस्तु ज्ञापकत्वात् स्वज्ञानेनान्यधीहेतुः, तथापि पुरुषप्रयत्नानपेक्षा शक्तिः साधारणीति साम्यम् ।। 29 ।।
इहार्थगत्यर्थः शब्दप्रयोगः । साधीयश्चार्थगतिरपशब्देभ्य इति तेषामपि सम्बन्धोऽर्थेन प्रसक्त इत्याशङ्क्याह--
असाधुरनुमानेन वाचकः कैश्चिदिष्यते ।
वाचकत्वाविशेषे वा नियमः पुण्यपापयोः ।। 30 ।।
(44) दैवी वागशक्तैर्व्यवकीर्णा बालवदन्धादिवदनुमितमूलप्रकृतिर्विदुषां वाचिका । न हि विद्वांसोऽर्थमपशब्दात् साक्षादवस्यन्तीति नापशब्दानामर्थेन कश्चित्संबन्धः । अत एव पुराकल्पेऽनृतादिभिरिवापभ्रंशैरपि रहिता वागासीदिति ब्रह्मकाण्ड उक्तम् । अवाचका एवापभ्रंशाः । ते तु सादृश्यात् साधुशब्दमनुमापयन्ति । तेभ्योऽर्थसम्प्रत्यय इति । तथा च संग्रहकारः--
शब्दप्रकृतिरपभ्रंशः ।
इति । अद्यत्वे त्वधर्मबाहुल्यादनृतादिवद् वाङ्मत्लानां रूढिः । तथा चाव्यवधानेनैवापशब्देभ्योऽर्थप्रतीतौ न म्लेच्छितवै नापभाषितवै साधुभिर्भाषितव्यमिति शास्त्रप्रामाण्यात्साधूनामेव धर्माङ्गत्वमिति तदनुसृतिः शास्त्रेण । तथा च भेदस्योभेदपूर्वकत्नात्पुरुषविकल्पानियमेनानन्तत्वादशब्दानामभिन्नसाधुशब्दपूर्वकत्वमेव निश्चीयत इति शब्दप्रकृतिरपशब्दः सिद्ध इति शब्द एव विद्या । तदत्र यता विद्यावस्थाभिन्नब्रह्मात्मिका तथा साधुशब्दावस्था विद्या । यथा च विद्यायां भेदो विषयः तथापभ्रंशावस्था वाङ्मलरूपेति परमार्थतदितरावस्थापेक्षो विकल्पः । अविद्यादशापेक्षमेव "समानायामर्थगतौ शब्देन चापशब्देन च" इति भष्यम् । अर्थगताविति वचनादर्थाभिधानमपशब्दानामवकर्णयन्ति । अविद्यायां भूयसापशब्दैर्व्यवहारादर्थप्रतीतिमात्रं भवेन्नामेत्यर्थः । रूढत्वात्त्ु व्यवहारस्याविशेषं ग्रन्थकार आह । तत्र च शास्त्रं नियामकं साधुशब्दैरेवार्थो वक्तव्यो नापशब्दैरेवं क्रियमाणमभ्युदयकारि भवतीति । पुण्यपापयोः पुण्यपापनिमित्तं नियमः क्रियते साधूनां ज्ञानाच्छास्त्रपूर्वकाद्वा प्रयोगादभ्युदय इति । असाधुप्रयोगे तु धमाभाव एव पापत्वेनोपचर्यते । न म्लेच्छितवै इत्येतस्य निषेधस्यातिक्रमात्पापमेव केचिदिच्छन्ति ।। 30 ।।
समवाये संबन्धान्तराभावः पूर्वमुक्तः, अस्मिंस्तु दर्शने स न प्रसजतीत्याह--
संबन्धशब्दे संबन्धो योग्यतां प्रति योग्यता ।। 31 ।। क ख)
(45) संबन्धशब्दो योग्यतालक्षणं संबन्धं योग्यतयैव प्रतिपादयति । एवं समवायशब्दोऽपि योग्यतयैवानादिसिद्धया स्वार्थप्रतिपादकः । तथा योग्यताशब्दोऽपि इति सर्वत्रास्य संबन्धस्य व्याप्तिः ।
सङ्केतस्य तर्हि क्वोपयोग इत्याह--
समयाद्योग्यतासंविन्मातापुत्रादियोगवत् ।। 31 ।। ग-घ
अनादिसिद्धार्थविषयव्यापारस्य शब्दस्य वृद्धव्यवहारपरम्परापरपर्यायात् समयात् स्वाभाविक्येव योग्यता निश्चीयते, न तु समयमात्रादतथाभूतेऽपि तथाभावः समुचितः । न हीयमस्य पुत्रस्य माकेकि जन्यजनकभावः सामयिकः, वस्तुसिद्धस्यैवैवं प्रतिपादनात् । अथ
प्रत्यक्षपूर्वकं संज्ञाकर्म
इत्यस्मद्विशिष्टानामर्थे शब्दनियोगः सामयिक एव । नैतत् । तैरपि योग्यतानुसारेण पूर्वाभ्यासातया निवेशात् । तदुक्तम्--
अनागमश्च सोऽभ्यासः समयः कैश्चिदिष्यये ।
इति । किं भवानाहेत्यर्थमात्राविनाभावमवगत्य विशेषप्रश्नादवधार्यते । अविदितसंकेतानपि प्रति शब्दस्य योग्यता, पुरुषेणान्यत्र संङ्केतेऽपि प्ररूढेऽर्थे गवादिशब्दाज्झटिति प्रतिपत्तिः । न च पुरुषेण नियोगः शक्यक्रिय इति वक्ष्यति ।। 31 ।।
इदानीं कार्यकारणभावं शब्दार्थयोः सम्बन्धमाह--
शब्दः कारणमर्थस्य स हि तेनोपजन्यते ।
तथा च बुद्धिविषयादर्थाच्छब्दः प्रतीयते ।। 32 ।।
(46) श्रोतृबुद्ध्युपारूढस्यार्थस्य शब्दः कारणं जनकत्वात् । शब्दार्थो ह्यर्थो बहीरूपतयावसीयमानः । तथा चान्यच्च, वक्तृबुद्धिनिवेशिनोऽर्थात् कारणभूतात् शब्दः श्रुतिविषयमनुप्राप्तः प्रतीयत इत्यर्थोऽपि शब्दस्य कारणम् । एवं चोभयथा कार्यकारणभाववर्णनाद्धूमाग्निवेलक्षण्येन शब्दार्थयोरभेदेन संबन्धोऽध्यासलक्षणः प्रतिपादितो भवति । तथा हि बुद्धो शब्दार्थयोः पूर्वमभेदेनावस्थानम् । न हि विवक्षितोऽर्थः शब्दसम्भेदशून्यः, अन्तःसञ्जल्परूपस्य तस्य प्रतिभानात् । अनादिशब्दभावनानुविद्धं हि तिरश्चामपि ज्ञानम् । अत एव स्थानकरणव्यापारादभिव्यक्तोऽर्थस्वरूपशबलः शब्दः श्रोतृभिरवधारितस्तथैव स्वरूपाच्छुरणयार्थमवगमयति । प्रतिपाद्यप्रतिपादकयोर्हि परस्पराभिप्रायसङ्क्रान्तिर्व्यवहार इत्यन्तः स्थितमर्थं मूलावस्थामाप्यपरित्यक्तं वक्तृबुद्धिसमाविष्टं श्रोतर्यर्पयति शब्दः । श्रोतापि च तथैव स्ववासनाविकासानुसारेण प्रतिपाद्यते समाविष्टशब्दभावनः । तेन चोद्बोधितशब्दभावनः प्रवर्तत इति निर्णीतं वाक्यपदीये । तदेवमेकपक्षीभाव एवैकवाक्यतया सम्बन्धे तत्र स्थितः सिद्धान्तानुगुणः । यथाविवक्षं च शब्दोऽर्थमवगमयति नियतस्वरवर्णानुपूर्वीक इति स्वरविपर्यये विवक्षान्तरमिन्द्रशत्रुशब्देऽवगन्तव्यं स्वरभेदेनान्यत्वात् । स्वकारणमेव गमयति शब्द इत्यन्तरा विवक्षान्तरं लाघवादस्फुटप्रतिभासं प्रथमवर्णोच्चारणानन्तरं द्वितीयवर्णोच्चारणवदनुमीयते ।। 32 ।।
ननु बुद्धुपारूढे शब्दार्थे कथमोदनं भुङ्क्त इत्यादिव्यवहार इत्याशङ्क्याह--
भोजनाद्यपि मन्यन्ते बुद्ध्यर्थे यदसंभवि ।
बुद्ध्यर्थादेव बुद्ध्यर्थे जाते तदपि दृश्यते ।। 33 ।।
(47) बुद्धिविपरिवर्तिनोः क्रियाकारकयोर्विज्ञाननये साध्यसाधनभावः सिद्धः प्रतिभाससारः । तथा हि बुद्ध्यर्थे बुद्धौ शब्दार्थो भोजनं भोक्ता तत्संबन्धश्च यदसम्भवित्वेनाभिमतं तदपि सम्भवत्येव । कदेत्याह--बुद्ध्यर्थादेव ओदनादिप्रतिभासादपरस्मिन् भुज्यमानात् । कारकज्ञानसंवेदने जाते सति, वाक्यवादिनः पदमात्रात् प्रतीतेरपरिसमाप्तेः । अभ्युपगमवादश्चायम् । बाह्यनयेऽपि हि शब्दार्थस्य बुद्धिपरिवर्तिनः प्रतीतेः । क्रियाकारकभावे दृश्यविकल्पयोरभेदाध्यवसायात् व्यवहारसिद्धिर्भवत्येव । तथा हि बाह्यार्थो सति दर्शनम् । दर्शनेऽर्थनिर्भासः, तस्मिन् सति वक्तुमीहा ततः प्रयत्नादेः शब्दोच्चारणमिति परम्परया बाह्यार्थ एव वाच्येत तत्र प्रवृत्तिरिति विनापि तु बाह्यार्थं शक्यते विज्ञानमात्रदर्शनेऽपि तन्निर्भासवशेन क्रियाकारकसंबन्धो मेलयितुमित्येवोपन्यस्तम् ।। 33 ।।
यतश्च बुद्धिपरिवर्ती शब्दार्थः ततः शब्दार्थसंबन्धो नित्य उपपद्यत इत्याह--
अनित्येष?वपि नित्यत्वमभिधेयात्मना स्थितम् ।
अनित्यत्वं स्वशक्तिर्वा सा च नित्यान्न भिद्यते ।। 34 ।।
(48) घटादिशब्दादुच्चरितादर्थाकारावग्रहस्य प्रत्ययस्य सदैवोपजननाद् बाह्येन रूपेण प्रध्वंसित्वेऽप्यभिधेयकेन शब्दार्थस्य नित्यत्वान्नित्यो ह्यर्थवतामर्थैरभिसंबन्ध इति प्रवाहनित्यताश्रयेण पस्पशायामुक्तम् ।
कूटस्थनित्यताश्रयेणाप्याह--
पदार्थानां सतामसत्त्वविरोधादतीतानागतयोरध्वनोर्नास्तीति प्रत्ययजनकमद्वयस्य तत्त्वस्य स्वस्य आत्मनो ब्रह्मणो द्रव्यलक्षणस्य सामर्थ्यमेव तत्रानित्यत्वमिति तस्य नित्यादद्वयरूपात्तस्माद्भेदाभावादनित्यशब्देनोपाधिभेदभिन्नस्य पूर्वोक्तेनैव न्यायेन तस्यैव प्रतिपादनान्नास्त्यभावो नाम तदभावतो भावेषु कश्चिदित्यर्थः । ततश्च घटादिशब्दैः सर्वावस्थासूपादिविशिष्टब्रह्मद्रव्यमेव नित्यं प्रतिपाद्यत इति नित्यः शब्दार्थसंबन्धः सिद्धः । तदुक्तम्--
द्रव्येऽपि पदार्थ एष विग्रहो न्याय्यः सिद्धे शब्देऽर्थे संबन्धे चेति ।। 34 ।।
एवं संबन्ध स्वाभाविकमवस्थाप्य तत्रैपोद्बलक परमतेनाह--
शब्देनार्थस्थ संस्कारो दृष्टादृष्टप्रयोजनः ।
क्रियते सोऽभिसंबन्धमन्तरेण कथं भवेत् ।। 35 ।।
(49) इहार्थं कंचनाप्यनभिदधतीनां शाबरादिविद्यानां विषादिशमने सामर्थ्यं दृष्टम् । प्रतितन्त्रं प्रसिद्धानां च बीजाक्षराणां जप्यमानानामदृष्टहेतुत्वमत एवोन्नीयत इत्यवाचककेष्वपि शब्देष्वर्थेन सह संस्कारन्यथानुपपत्त्या संबन्धभावात् सर्वत्र संबन्धावसाय इति कश्चित् ।। 35 ।।
एतन्निवारयति--
नावश्यमभिधेयेषु संस्कारः स तथाविधः ।
दृश्यते न च संबन्धस्तथाभूतो विवक्षितः ।। 36 ।।
(50) घटादिशब्देभ्योऽर्थस्य घटादेर्दृष्टादृष्टप्रयोजनस्य संस्कारस्यादर्शनादत्र संबन्धो न स्यादिति नेदृशसंस्कारनिमित्तमसौ विवक्षितः ।। 36 ।।
अपि तु
सति प्रत्ययहेतुत्वं संबन्ध उपपद्यते ।
शब्दस्यार्थे यतस्तत्र संबन्धोऽस्तीति गम्यते ।। 37 ।।
(51) प्रतिनियतार्थप्रत्यायनान्यथानुपपत्त्या शब्दार्थयोः संबन्धो योग्यतालक्षणश्चक्षूरूपादीनामिवेत्यस्मदुपज्ञमेव ज्याय इत्यर्थः । अर्थे नियते नियतस्य प्रतीतिहेतुत्वं सति संबन्धे युज्यते नान्यथेति यतस्तस्मादर्थप्रत्यायनाख्यात् कार्यात् अस्ति संबन्धः शब्दस्यार्थ इति निश्चीयते । नार्थविशेषाधनरूपः संस्कारोऽत्र संबन्धावेदकः, तस्यानुपूर्वीमात्राद्विशिष्टेन प्रभाववता रचितादपि निष्पत्तेः प्रत्यायकत्वानपेक्षणादित्यर्थप्रतीतिनियमहेतुः शब्दार्थयोः संबन्धः प्रतीतिकृतो न प्राप्तिलक्षण इति प्रतीतिलक्षणादुपकारात् तत्सिद्धिः । यदपि मीमांसकैर्यच्छब्दे विज्ञातेऽर्थो विज्ञायते स संबन्ध इत्युक्तं तदप्यनेनैव दर्शनेन व्याख्येयम् । यतः कारणाच्छब्दश्रवणानन्तरमर्थज्ञानं भवति स संबन्ध इति सति प्रत्ययहेतुत्वम् इत्येवोक्तं भवति, अन्यथा शब्दार्थयोः कार्यकारणभाववर्णने निमित्तं नियमेनोक्तं स्यात् ।। 37 ।।
सामयिकस्तु संबन्धो न युज्यत इत्याह--
नित्येऽनित्येऽपि वाच्येऽर्थे पुरुषेण कथंचन ।
संबन्धोऽकृतसंबन्धैः शब्दैः कर्तुं न शक्यते ।। 38 ।।
(52) नित्ये तावदर्थे जात्यादौ नित्यशब्दार्थदर्शने वा सर्वस्मिन् पुरुषेणेदं प्रथमतया शब्दस्य सङ्केतः कर्तुं न पार्यते । नित्यत्वादेवेदानीमुपजातस्य पुरुषस्य तत्राव्यापारात् । पूर्वमपि तस्मादाकाशकालदिगादिशब्दानां नित्यशब्ददर्शने वा ब्रह्मणः शब्दवाच्यत्वात् सर्वेषामर्थसंबन्धादादिपुरुषेणापि कृते शक्त्यनुसारस्य प्रतिपादितत्वात् , आदिसर्गात् प्रभृति च प्रवृत्तौ किमन्यन्नित्यत्वात् स्यात् । अनित्येऽप्यर्थेः घटादौ कार्यशब्ददर्शने वा प्रत्यक्षेण सर्वग्रहणायोगाज्जातिद्वारेणापि ग्रहणे जातीनामेकस्मिन्नर्थे भूयसीनां संभवे विवेचनानुपपत्तेरनुमानेनापि शब्दाभेदेनार्थस्य प्रतिपत्तेः शब्दार्थसिद्धौ तस्यायोगात् पारिशेष्याच्छब्दैरेव निरूप्य विषयं सङ्केतः क्रियेत । तथा च निरूपकाणामपि शब्दानां सङ्केते सैव वार्तेति तत्रापि शब्दान्तरैर्निरूपणेऽनवस्था, अकृतसमयैर्निरूपणानुपपत्तेरिति सुदूरमपि गत्वा कस्यचिच्छब्दस्य स्वाभाविकी योग्यतैषणीया । तथा चाविशेषात् सर्वेषामपि तत्प्रसङ्ग इति सिद्धः स्वाभाविकः शब्दार्थयोः सम्बन्धः समयवशादभिव्यज्यमानस्वरूपः ।। 38 ।।
इदानीं यन्मतुब्‌वार्तिके भाष्येऽभिहितम्--
"सम्प्रतिसत्तायां यथा स्याद् भूतभविष्यत्यसत्तायां मा भूद् "
(Bha. on P.V.2.94)
इति, तत्र भूतभविष्यतोः सत्ताव्याख्यानमिषेण प्रकृतं संबन्धनित्यत्वं निर्वाहयितुमाह--
व्यपदेशे पदार्थानामन्या सत्तौपचारिकी ।
सर्वावस्थासु सर्वेषामात्मरूपस्य दर्शिका ।। 39 ।।
(53) व्यपदेशे व्यपदेशनिमित्तं शब्देन प्रत्यायने पदप्रत्याय्यानामर्थानां बाह्यानां वस्तूनां बाह्यविलक्षणा सत्ता बुद्ध्योपचरिता बाह्यार्थसत्ताया हि अन्या बुद्धिसमारूढार्थाकाररूपा सत्ता । अत एवौपचारिकी इयम् । उपचारोऽध्यारोपः प्रयोजनमस्याः सर्वावस्थासु इति ्तीतानागतास्ववस्थास्वप्यर्थरूपं दर्शयति, तद्रूपेण बुद्ध्याकारस्य प्रतिभासनात् । एवं चातीतानागतादिशब्दानामप्यर्थसद्भावात्संबन्धनित्यतास्त्येव । विशेषणविशेष्यावस्थायामपीयमेव सत्तार्थानाम् । अन्यथा सदैन विशिष्टस्य निरंशस्य वस्तुनः कथं प्रविवेकः सर्वेषामित्यभावविषयाणां शशविषाणादिशब्दानामप्याकारोल्लेखिनी । तथा हि बुद्ध्या निरूपितवस्तुविषयाः शब्दाः । बुद्धिश्च बहिरसत्यप्यर्थे स्वबीजवासनापरिपाकवशादाकारावग्रहरूपोपजायते वैकल्पिकी । तथैव च शब्दात् प्रतीयत इत्यवधीरिबहिर्गतभावाः शब्दाः बुद्धिप्रतिभासिनमर्थमभिनिविशन्त इत्यलातचकशशविषाणादीनामपि शब्दानां नित्यमर्थैरवियोगात् संबन्धनित्यतासिद्धिः । संविदुपारोहे हि व्यावहार इति तन्मय्येवार्थस्य सत्ता न्याय्या । प्राक् तु संविदोऽप्रामाणिकत्वात् श्रद्धामात्रगम्या सा । तत्र च प्रहतः सत्ताभिमान इति तदनुरोधेनोपचारसत्तावाचोयुक्तिः । अत एव हि अर्थानामात्मलाभ इव शब्दपरामर्शमन्तरेणैषां रूपसंस्पर्शस्याभावात् ।। 39 ।।
एवं चानयैव सत्तया पूरिते व्यवहारे यद्यर्थक्रियाकरणादिना काष्ठबुसप्रायेण केनचिन्निबन्धनेनान्यसत्ता कल्प्यते तद्वर्धतां सा, न तत्र चिन्तास्माकं व्यवहारे तु तस्या नास्त्यनुप्रवेशः, यदि परमस्यामेव सा प्रतिबिंबिता व्यवह्रियत इत्येतत् प्रतिपादयितुं निदर्शनोपक्रममाह--
स्फटिकादि यथा द्रव्यं भिन्नरूपैरुपाश्रयैः ।
स्वशक्तियोगात् संबन्धं ताद्रूप्येणोपगच्छति ।। 40 ।।
तद्वच्छब्दोऽपि सत्तायामस्यां पूर्वं व्यवस्थितः ।
धर्मैरुपैति संबन्धमविरोधिविरोधिभिः ।। 41 ।।
(54) बाह्यस्य वस्तुनो नियतरूपत्वात् भावाभावसाधारण्यानुपपत्तेर्घट इत्युक्तेऽस्ति नास्तींति शब्दान्तरोपधीयमानरूपसंसर्गविरोधः स्यादित्युपचारसत्तासमाविष्टः शब्दार्थः । तथा हि--सर्वसाधारणात् पदान्तरोपधीयमानरूपविशेषसहः काचाभ्रस्फटिकाद्रिवत् सोऽर्थ इति यथायथमस्ति नास्ति इति भावाभावसमन्वयवशेन नियतः प्रतीयते । तथा हि--स्वच्छत्वात् स्फटिकादिद्रव्यं नीलादिसंसर्गेऽपरित्यक्तस्वरूपं तद्रूपमिवाभासते । तथा चोपचाकसत्तापि स्फटिकमणिस्थानींया तद्‌रूपमत्यजन्ती प्रतिषेधादिभिरुपधानैरभिसंबध्यमाना ताद्रूप्यमिवायाति, प्रतिषेधाद्यात्मिकेवाभाति । स्वशक्तिरच्छत्वं स्फटिकादेर्नानाकारोपग्रहयोग्यत्वं सत्ताया अपि सर्वविशेषस्वीकारयोग्यत्वम् । सामान्यात्मकत्वात् । शब्दोऽपीति, शब्दार्थः, शब्द्यत इति कृत्वा । यद्बा शब्दोऽस्याः प्रत्यायकत्वेनावस्थितोऽर्थद्वारेण, शब्दान्तरवाच्यैर्धर्मैः सम्बन्ध्यते । विरोधिवचनं साकल्यप्रतिपादनार्थम् । सत्तायामस्याम् इति, ज्ञानाकाररूपायाम् । पूर्वम् इत्याभासावस्यायां पदात् काचाद्यवरोधः । अविरोधिनो धर्मा भावात्मकाः । ते चोपचारसत्तायामनुगुणाः यथा स्फटिकस्य मल्लिकाकुसुमादय इति न ते रूपतिरस्क्रियाहेतवः । अत एव तत्‌सन्निधाने तदात्मनोपचारसत्ताया विश्रान्तिः । अविरुद्धा हि बाह्या सत्ता तस्याः पूर्णरूपतया प्रत्यासन्ना । तथा चोच्यते--
"यत्रान्यत् क्रियापदं न श्रूयते तत्रास्तिर्भवन्तीपर..."
(See Bha. on P.II.3.1)
इत्यादि । वर्तमानावस्था च पूर्णत्वोपकारिणीति भवन्तीपर इत्युक्तम् । सत्ता वा विरुद्धधर्मसामान्यमिति यथायथं विशेषैस्तस्या एव परिपूरणम् । विरोधिनस्तु धर्मा अभावात्मकः ते हि प्रतिषेधात्मकाः रूपतिरोधानमुपचारसत्ताया जपाकुसुमादय इव स्फटिकस्य कुर्वन्ति । यद्यपि चोपचारसत्तायामुभयेषामपि समन्वायद्विरोधाबावस्तथापि बाह्यापेक्षयात्रैतदुक्तम् । बाह्यस्थ नीलोत्पलादेरभिन्नस्य विशिष्टत्वान्नीलमुत्मलमित्युपचारसत्तायामेव विवेकाद् द्रव्यात्मा गुणसंसर्गभेदादश्रीयते पृथगित्यादिविशेषणविशेष्यभावे च वक्ष्यमाणा प्रक्रियोपपद्यते ।
स्फटिकं विमलं द्रव्यैर्यथायुक्तं पृथक् पृथक् ।
नीललोहितपीताद्यैस्तद्वर्णमुपलभ्यते ।।
इत्यपरोऽत्रागमपाठः ।। 40-41 ।।
तमेव विरोध्यविरोधिधर्मसंबन्धं क्रमेण व्याचष्टे ।
एवं च प्रतिषेध्येषु प्रतिषेधप्रक्लृप्तये ।
आश्रितेषुपचारेण प्रतिषेधः प्रवर्तते ।। 42 ।।
(55) बुद्ध्याकारस्य नानाविधधर्मसमन्वययोग्यत्वेऽब्राह्मणादिषु नञर्थोपपत्तिः । तथा हि--सत्ताविरोधान्निषेधायोगान्न ब्राह्मणोऽत्र सन् । असत्त्वे तु कथं तत्र शब्दप्रवृत्तिर्बाह्यशब्दार्थवादिनाम् । तथा च पुनरपि निषेधोऽनुपपन्नः । तदुक्तम्--
सतां च न निषेधोऽस्ति सोऽसत्सु च न विद्यते ।
जगत्यनेन न्यायेन नञर्थः प्रलयं गतः ।।
इति । यदा तूपचारसत्तासमाविष्टः शब्दार्थस्तदा सामान्येन भावाभावसाधारणतया ब्राह्मणशब्देन क्षित्रियादिषुं सादृश्याध्यारोपितो ब्राह्मणार्थः समुल्लिखित इति प्रतिषेध्यविषये दर्शिते नेति निषेधः प्रवर्तते । निर्विषयस्य निषेधस्याप्रवृत्तेः । तत्रापि च बुद्ध्याकारस्य भावैकानियतत्वाद् बुद्धिसत्तयैव सत्त्वान्नास्ति साधारणत्वेन निषेधयोग इति तस्य येयं बहीरूपता व्यावहारकैर्दृश्यविकल्पैकीकारादध्यसिता तत्रैव निषेधः फलति । तथा हि योऽयं ब्राह्मणार्थः स बहिरसन् केवलं भ्रान्त्या क्षत्रियेऽध्यवसित इति स्वाभाविकब्राह्मणार्थनिवृत्तिरत्र नञा द्योत्यते । तदुक्तं भाष्ये--
"यदि पुनरयं निवृत्तपदार्थको ब्राह्मणशब्दः किमर्थं प्रयुज्यते, एवं यथा विज्ञायेत, नेति ह्युक्ते सन्देहः स्यात् कस्य पदार्थो निवर्तत ।"
(Bha. on P.II.2.6)
इति । अत्र सर्वथा निवृत्तपदार्थकत्वे प्रयोग एव न स्यादिति बाह्यार्थापेक्षयैव निवृत्तपदार्थकत्वम् । उपचारसत्तापेक्षया तु प्रयोग इति स्फुटमुक्तं भवति । प्रतिषेधविषयप्रकल्पनार्थं च प्रयोग इति तदेवोपचारफलम् ।। 42 ।।
अविरोधिधर्मसंबन्धमुपचारसत्तासमाविष्टस्यैव प्रतिपादयितुं मुख्यसत्तायां तावदसंभवमाह--
आत्मलाभस्य जन्माख्या सत्ता लभ्यं च लभ्यते ।
यदि सज्जायते कस्मादथासज्जायते कथम् ।। 43 ।।
(56) आत्मलाभो वस्तुनः स्वरूपप्राप्तिः जन्म कथ्यते । तत्र च त्रितयमन्वयि, लब्धा कर्ता, लभ्यं कर्म , लाभश्च क्रिया । एतच्च त्रितयं सद्विषयम् । तथा च जन्मविरोधः सत् आत्मलाभायोगात् । लब्धात्मा हि सन्नुच्यते । कारणे शक्तिरूपतयावस्थानेऽपि सर्वथासतो जन्मायोगादवश्यमपूर्वस्य कस्यचिदंशस्य लाभोऽभ्युपगन्तव्य इति येन रूपेण सन्न तेन रूपेण जन्म येन च जन्म न तेन सन्निति जायतेऽङ्कुर इति प्रयोगानुपपत्तिः । जन्मानुरोधादसत्त्वाभ्युपगमे धात्वर्थे कर्तृत्वानुपपत्तेः प्रत्ययार्थविरोधः । तदनुरोधात्सत्त्वाभ्युपगमे जन्मलक्षणधात्वर्थविरोध इत्यर्थः ।। 43 ।।
अत्रैवार्थे सदृशं दृष्टान्तमाह--
सतो हि गन्तुर्गमनं सति गम्ये प्रवर्तते ।
गन्तृवच्चेन्न जन्मार्थो चेत्तद्वन्न जायते ।। 44 ।।
(57) स्वरूपप्रसरणलक्षण गमिक्रिया जनिक्रियासदृशी । तत्र च सत एव गमनं गन्तुर्दृश्यते व्यतिरिक्तसद्रूपकर्मविषयम् । एवमिहापि प्रादुर्भावितुः गन्तृवत् जन्मानुपपत्तिः । अथ जन्मानुरोधस्तदा सत्त्वाज्जायते क इति कर्तृत्वायोगः । गम्यवच्च लब्धव्योऽप्यत्र व्यतिरिक्तो नास्तीति बाह्यशब्दार्थाभ्युपगमेऽनुपपत्तिः ।। 44 ।।
उपत्तारसत्ताश्रयेण तूपपत्तिरित्याह--
उपचर्य तु कर्तारमभिधानप्रवृत्तये ।
पुनश्च कर्मभावेन तां क्रियां च तदाश्रयाम् ।। 45 ।।
अथोपचारसत्तैवं विधेयास्तत्र लादयः ।
जन्मना तु विरोधित्वात् मुख्या सत्ता न विद्यते ।। 46 ।।
(58) तुशब्दो बाह्यसत्ताया विशेषमुपचारसत्तायाः सर्वंसहत्वेन द्योतयति । इह सर्वात्मना परिनिष्ठितं जायत इति न व्यपदिश्यते । नापि सर्वात्मनासद्रूपम्, अपि तु सदसद्रूपमाश्रितपूर्वापरावस्थं सत्तासादनोन्मुखं वस्तु जायतेशब्दविषयः । तथा च तत्रोत्तरमसद्रूपमवस्याविशेषं पूर्ववस्थायां कारणानां कार्यौन्मुख्यलक्षणायाम् उपचर्य अङ्कुर इत्यभिधानस्य प्रवृत्तौ जायत इति कर्तृत्वोपपतिः । आश्रितपूर्वावस्थात्वाच्च जन्मार्थोपपत्तिः । एवं च कृत्वाश्रितपूर्वावस्थ उपचरितोत्तरावस्थश्च संमूर्च्छितोऽर्थात्मा जायत इत्यभिधानस्य विषयः । पूर्वावस्थाश्रयणाच्च लभ्यत्वेन कर्तैवोपचरितः कर्म नान्यदिति बुद्ध्या विवेचनमिदमाश्रित्य तदाश्रयाम् तयोः साधनयोः कर्तृकर्मणोराश्रयमास्पदं क्रियापेक्षत्वात् साधनभावस्य तन्निबन्धनम्, ते वा कर्तृकर्मणी आश्रयो यस्याः साधनाधीनजन्मत्वादित्युभयथापि पाठः । ताम् जनिक्रियां पूर्वापरीभूतावयवसमाहारात्मिकामध्यारोप्य जायतेऽङ्कुर इति प्रयोगसमर्थनम् । अथ इत्यभ्युपगद्योतनाय । एवं च सत्युपचारसत्तैवमाश्रिता भवति । तथा च तत्रैव कर्तर्यय जायत इति लकारो जात इति च क्तः, जातवानिति च क्तवतुः, जन्माङ्कुरस्येति षष्ठी । यद्वा कर्तृकल्पनया लकारः कर्तरि प्रत्ययः, क्रियाकल्पनया धातुः प्रकृतिः, कर्मकल्पनया कर्मकर्तृव्याख्याने वाक्येऽङ्कुर आत्मानं लभत इति द्वितीया कर्मणि । एवमात्मानमात्मना बिभ्रदस्तीत्यादावपि वाच्यम् । एवंविधो वा सर्वः परिकर उपचारसत्तेति तन्निबन्धनत्वादेवमभेदेन व्यपदेशः । मुख्या तु सत्ता पूर्वोक्ताद्विरोधान्न संगच्छते । अतः
आत्मलाभस्य जन्माख्या
इति पूर्वपक्षोऽयम् । सिद्धान्त आत्मलाभोन्मुखता जन्म । तथा च वक्ष्यति--
पूर्वस्मात् प्रच्युता धर्मादप्राप्ता चोत्तरं पदम् ।
तदन्तराले भेदानामाश्रयाज्जन्म कथ्यते ।।
इति । तथा--
पूर्वामवस्थामजहत् संस्पृशन् धर्ममुत्तरम् ।
सम्मूर्छित इवार्थात्मा जायमानोऽभिधीयते ।
इति । पुनश्च कर्मभावेन `तम्' इति क्वचित् पाठः । तत्र तं कर्तारमेव पुनः कर्मभावेनोपचर्येति योजना ।। 45,46 ।।
इदानीं जन्मोत्तरकालभाविनमस्तित्वं भावविकारमङ्कुरोऽयमस्तीत्ययंशब्द उपचारसत्तासमाविष्टमेव प्रतिपादयति, अन्यथायोगादित्याह ।
आत्मानमात्मना बिभ्रदस्तीति व्यपदिश्यते ।
अन्तर्भावाच्च तेनासौ कर्मणा न सकर्मकः ।। 47 ।।
(59) आत्मनात्मानं धारयतीत्यस्तेरर्थः । तथा च निरुक्तकारः ।
"अस्तीत्युत्पन्नस्यात्मधारणमुच्यते"
इति । व्यतिरिक्तकर्तृप्रतिषेधार्थम् आत्मना इति वचनम् । तथा च वास्तवस्य कर्तृकर्मक्रियाभेदस्याभावो भिन्नरूपत्वाद्वस्तुन इत्यर्थः । आत्मना सकर्मकत्वात्तर्ह्यस्तेः प्रसिद्धमकर्मकत्वमपावर्तेतेत्यत्राह-अन्तर्भावाद् इत्यादि । असौ इत्यसिधातुस्तदर्थो वा । धात्वर्थेन कर्मण उपसंग्रहादकर्मकोऽयं धात्वर्थ इति प्रसङ्गाद् व्युत्पादयति । जीवताविव प्राणानामप्यात्मलक्षणस्य कर्मणो धातुवाच्यत्वात्क्रियान्तरमेवेदमात्मनात्मानं धारयतीति व्याख्यायते, न त्वत्र भावतः कर्मयोग इत्यर्थः । यथा वक्ष्यति "न तत्र धारिर्न प्राणाजीवतिस्तु क्रियान्तरम्" इति । एवं जायत इत्यत्राप्यात्मानं लभत इत्यर्थनिर्वचनेऽन्तर्भूतकर्मत्वं द्रष्टव्यम् । यो हि धात्वर्थाद्बहिर्भूतः क्रमार्थः स सकर्मकव्यपदेशहेतुः । धातोरर्थपूरणे हि संपन्ने तस्माद् बाह्यस्य तेनार्थेन संबन्धे भेदाधिष्ठाने सति या कर्मता गामानेयेति शाब्दी प्रविश पिण्डीमित्यादौ च सामर्थ्यलब्धा सा सकर्मकव्यपदेशनिबन्धनम् । इह तु क्रियाकारकसंसर्गपर्यन्तो दीर्घो धात्वर्थ इति भेदाभावः ।। 47 ।।
एवं भेदाभावान्नायं वस्तुतो व्यवहारो युज्यत इति प्रतिपाद्याधुना जायत इतिवत् कर्तृत्वायोगात् स्वरूपाभावाजप्यसंभवमुक्तोपचारसत्तायामेवोपपत्तिं प्रतिपादयति-- प्राक् च सत्ताभिसंबन्धान्मुख्या सत्ता कथं भवेत् ।
असंश्च नास्तेः कर्ता स्यादुपचारस्तु पूर्ववत् ।। 48 ।।
(60) अस्तीति पूर्वापरीभूता सत्ता साध्यमानावस्था प्रतीयते । अस्यां चावस्थायां निष्पन्नरूपः कर्ता नास्ति, साधनसंबन्धात्पूर्वमपि सद्भावो नास्ति । न चान्यस्तब्द्‌यतिरिक्तोऽर्थः साधनमत्र प्रज्ञायते इति सैव सत्ता साध्यं च साधनं च मुख्यतो न संभवति । तथा हि सिद्धरूपेण साधनेन भवितव्यम् । न च सत्तामनुभवन्नेव सिद्धतया प्रज्ञायते, अनुभूतसत्तासंबन्धश्च न साध्य इति लब्वात्मलाभस्यात्मधारणलक्षणा सत्ता बुद्ध्या पूर्वापरीभूततयैवाभिधीयते । तत्र चोपसारसत्तारूढस्य पूर्वभागः कर्ता तदपरस्तु साध्यः कर्म, तदुभयाश्रयक्रियास्वरूपान्तर्भूतमिति पूर्वं जायत इतिवदुपचारसत्तया कर्तृत्वमाश्रित्यास्तीति प्रयोगोपपत्तिः । तदेवमस्ति, नास्ति, जायत इति प्रयोगमुपचारसत्तासमाश्रयणेन समर्थितम् । एत एव त्रयो भावविकाराः । एतेष्वेव चान्ये त्रयोऽन्तर्भवन्ति । तथा हि, जन्मनि वुद्धिरवयवोवोरचयात्मिकान्तर्भूतेति जायत इतिवद् वर्धत इत्ययमपि प्रयोगः समर्थनीयः । एवं परिणामो धर्मान्तराविर्भावलक्षणोऽत्रैवान्तर्भूंत इति परिणमत इत्यनेनैव न्यायेनावगन्तव्यम् । परिक्षयस्तु नास्तीति विनाशेऽन्तर्भवति, तत्राप्युपचारसत्ताश्रयेण परिक्षीयत इति प्रयोगः समर्थनीय इति षड्भावविकारयोनित्वात्सर्वस्य क्रियाप्रपञ्चस्य बौद्धसत्ताश्रयेण प्रयोगः ।। 48 ।।
क्रियाभिः साधनानामाक्षेपात्तद्वाचिनामपि तथैव प्रयोग इति सार्वत्रिकीमुपचारसत्तायाः शब्दार्थत्वे व्याप्तिं निगमयितुमाह--
तस्माद्भिन्नेषु धर्मेषु विरोधिष्वविरोधिनीम् ।
विरोधिख्यापनायैव शब्दैस्तैरुपाश्रिताम् ।। 49 ।।
अभिन्नकालामर्थेषु भिन्नकालेष्ववस्थिताम् ।
प्रवृत्तिहेतुं सर्वेषां शब्दानामौपचारिकीम् ।। 50 ।।
एतां सत्तां पदार्थो हि न कश्चिदतिवर्तते ।
सा च सम्प्रतिसत्तायाः पृथग्भाष्ये निदर्शिता ।। 51 ।।
(61) बाह्यो येषां विरोधो भावादीनां धर्माणां तैरुपचारसत्ताया अविरोधो यथोक्तेन न्यायेन । अत एवाह--`विरोधिख्यापनायैव' इति । विरोधिनां प्रकाशनाय तैस्तैर्बाह्मणादिशब्दैरुपगृहीताम् । एतैर्हि शब्दैर्विषय उपदर्शयते धर्माणाम् । ते च धर्मा बाह्याद्वस्तुनो भिन्नाः, शब्देनैव भेदस्य परिकल्पनात् । नीलोत्पलादौ विरोधिना वा भिन्नाद् वर्तमानाद्वस्तुनोऽतीतानागतादयः वीप्सया विशेषणविशेष्यभावविषयनीलोत्पलादिशब्दैरपि उपाश्रिताम् इत्याह । तत्रापि प्रविभज्य मेलनमुपचारसत्तायां युज्यते । अन्यथा संसृष्टे वस्तुनि नेयं कल्पना घटत इत्युक्तम् । अतीतानागतकालव्यापित्वाच्च नियतकलेषवपि बाह्येष्वर्थेष्वियमभिन्नकाला सार्वत्रिकी । अत एव सर्वेषामपि शब्दानां प्रवृत्तिहेतुरियम् । चैत्रोऽभूद् भविष्यतीति बुद्ध्यार्तं निरूप्य तत्र शब्दप्रवृत्तेः, अनिरूपितेऽर्थे तदयोगात् । तथा हि विद्यमानोऽपि वर्तमानकालिकोऽर्थो यावद् बुद्ध्या नावधृतस्तावदविषयः शब्दानामिति सर्वत्रोपचारसत्तारूढ एव शब्दार्थ इत्युक्तं भवति । क्रियाकारकभावेनापि चार्थानां निरूपणं बौद्धमेव । तथा हि-भाव्यमानत्वादेव क्रिया सम्प्रति नास्ति, तदभावात्तदपेक्षं साधनत्वमपि कुत इति आख्यातशब्दस्य क्रियावाचिनः सुबन्तस्य च कारकवाचिनः सर्वस्यैव बुद्धिपरिगृहीत उपचारसत्तासमाविष्टो वाच्योऽर्थोऽवतिष्ठत इति सर्वेषां व्याप्तिसिद्धिः । अभावस्य च ज्ञायमानत्वेन सत्त्वादेतामुपचारसत्तां सर्व एव पदार्थो नातिक्रामतीति सर्वेषामेव तद्विषयत्वादभावादिशब्दानामप्यर्थेन नित्यावियोगः । सिद्धः । अस्याश्चोपचारसत्ताया न निर्मूलत्वमपि तु भाष्यकाराभ्युपगतत्वमेव । मतुब्वार्तिके न सत्तां पदार्थो व्यभिचरतीत्यस्तिशब्दार्थाक्षेपे तत्समर्थनाय सम्प्रतिसत्तायां यथा स्याद् भूतभविष्यत्सत्तायां मा भूत् गावोऽस्यासन्, गावोऽस्य भवितारः ।
इति भाष्यवचनादुवपचारसत्तास्तीति गम्यते । प्रमाणभूतत्वादस्य वचनस्य । न हि भूता भविष्यन्ती वा काचित् सत्ता या अस्तीत्यनेन विचार्येत । भूतभविष्यतोरप्यनुपाख्यत्वान्न काचिन्मुख्या सत्ता । अतीतस्यानुभूतत्वादनागतस्य प्रगुणकारमसांमुख्येन बुद्ध्या तु परामर्शे प्रत्ययपरिवर्तिन्यर्थे शब्दप्रयोग इत्युपचारसत्ता भूतभविष्यतोरुपपद्यते । तथा च तद्‌व्युदासाय बाह्यसत्तापरिग्रहार्थमस्तीति विशेषणं युक्तम् । बाह्या हि सत्ता सम्प्रति वर्तमाने काले भवतीत्यन्या, ततो भूतभविष्यतोः प्रत्ययात्मना सत्तेयम् । यद्यपि वर्तमानवस्थास्यापि बाह्यस्य प्रतीतिग्राह्यत्वेनैव व्यवहार्या सत्ता तथापि सैव बहिरपि भावादस्तीत्यनेन विशेषणेन विवक्षितवर्तमानकालेन गृह्यते । प्रतीतिमात्रशरणा त्वितरा व्युदस्यते । तदेवमुपचारसत्तायां समर्पितस्वभावानां बाह्यानामेवार्थानामतीतादिभावेन प्रत्यायनाद्यथार्थ एव शाब्दो व्यवहार इति संबन्धनित्यत्वमुपपादितम् ।। 49,50,51 ।।
इदानीं सर्वंस्यैव शाब्दस्य व्यवहारस्य यथातत्त्वमप्रवृत्तेर्विष्लुतत्वे गवादिशब्दानामविचारसिद्धार्थवत्ताभ्युपगन्तव्या । तथा च सत्यतीताद्यभावविषयाणामपि शब्दानां भावाभिमतवस्तुविषयैर्घटादिशब्दैः तुल्यतां प्रतिपादयितुमुपक्रमते--
प्रदेशस्यैकदेशं वा परतो वा निरूपणम् ।
विपर्ययमभावं वा व्यवहारोऽनुवर्तते ।। 52 ।।
(62) इह शाब्दो व्यवहारोऽयथातत्त्वं प्रवृत्तोऽर्वाग्‌दृशाम् । तथा हि पूर्णस्य तत्त्वस्य साक्षाच्छब्दैः स्प्रष्टुमशक्यत्वादविद्यापरिकल्पितप्रतिनियतघटादिप्रदेशगतः शाब्दो व्यवहारः । प्रदेशशब्देन घटादेर्ब्रम्हैकदेशत्वादभिधानं कृत्स्नार्थपरिग्रहासामर्थ्यं शब्दानां प्रतिपादयितुम् । तत्रापि च मात्राकलापात्मको न प्रदेशः समस्तः शब्देनाभिधीयते अपि तु तदेकदेशः । घटशब्देन हि घटत्वजातिरुच्यते । तत्रैव रक्तशब्देन गुणः । एवं शब्दान्तरैरपि प्रतिनियतभावाभिधानमुदाहार्यम् । परेण जात्यादिना च निरूपणम् । संसर्गदर्शने स्वतो गौर्न गौः, गोत्वाभिसंबन्धाद्गौरिति ब्रह्मकल्पं साक्षादव्यवहार्यमेव द्रव्यं परोपधीयमानरूपविशेषं व्यवहारमनुपतति । तत्र विपर्ययोऽभिन्नस्य ब्रह्मणो नानोपाधिवशेन भेदः । विज्ञाननये वा बहीरूपस्य बहीरूपतया भानं विपरीतख्यातिः । अभावः शून्यवादिमते व्यावहारिकः, बाह्यस्य सर्वथैव निषेधात् विज्ञानमात्रस्याकारनानात्वायोगादसेवेदं भेदजातं शब्दविषयम् । तदेषु चतुर्षु दर्शनेषु शब्दानामर्थसंबन्धो न भाविकः । तथा हि-आद्ये दर्शनेऽर्थोऽस्ति गवादिशब्दानाम्, तत्रोपपद्यते संबन्धो यदि सोऽर्थभागो ज्ञानस्य गोचरीभवेत् । न च भवति, विवेकेनानवधारणात् । अतीन्द्रिया अपि चान्ये धर्मा अभ्युपेयन्ते । अतोऽत्रापि न संपूर्णोऽर्थसंबन्धः । इतरेषु पक्षेष्वर्थाभावादेव संबन्धासिद्धिः । तथा हि परतो निरूपणेऽऽधीयमानरूपमेव नीरूपं निरूप्यतेऽभिधीयते चेति न सत्यवस्तुविषयः संबन्धः । एवं विपर्ययाभावपक्षयोरपि वाच्यम् ।। 52 ।।
एतदेव दृष्टान्तेन साधयति--
यथेन्द्रियस्य वैगुण्यात् सत्ताध्यारोपवानिव ।
जायते प्रत्ययोऽर्थेभ्यस्तथैवोद्देशजा मतिः ।। 53 ।।
(63) तिमिरोपहतनयनश्चन्द्रमेकमप्यनेकं पश्यति । कामली च शुक्लमपि पीतं शङ्थमिति । इन्द्रयदोषादाकारान्तरारूषितार्थामभासी प्रत्ययोऽर्थेभ्यो जायते । अर्थानां तत्रावंबनत्वान्नियतविषयत्वाद्भान्तीनां प्रत्ययधर्माध्यारोपो न वस्तु प्रचिनोतीति इव शब्दः । एवमुद्दिश्यते प्रतिपाद्यतेऽनेनेति उद्देशः शब्दः । तत उत्पन्ना बुद्धिरसदाकाराध्यारोपवती भवति ।। 53 ।।
इन्द्रियवत् किं शब्दे वैगुण्यमित्याह--
आकृत्स्नविषयाभासं शब्दः प्रत्ययमाश्रितः ।
अर्थमाहान्यरूपेण स्वरूपेणानिरूपितम् ।। 54 ।।
(64) इह कारणानुरूपं कार्यं भवति । शब्दस्य च निरूपितार्थविषयत्वान्निरूपणाप्रत्ययः कारणम् । तदुक्तम्--
तथा च बुद्धिविषयादर्थाच्छब्दः प्रतीयते ।
इति । निरूपणाप्रत्ययश्च विकल्पः । स चैकैकव्यावृत्तिनिष्ठत्वाद्विकल्पनाम् अकृत्स्नविषयावभासः । न हि विकल्पेन यथातत्त्वं वस्तु स्पृश्यते, प्रदेशैकदेशादिना संस्पर्शादित्युक्तम् । अतश्चाकृत्स्नमेवार्थमध्यारोपितरूपभेदं शब्दः प्रतिपादयति । कार्यकारणसंबन्धवशाद्विकल्पात्मको हि प्रत्ययः शब्दाज्जायते । तदुक्तम्--विकल्पयोनयः शब्दा विकल्पाः शब्दयोनयः ।
इति । तथा
"कार्योपादानविकल्पपरिगृहीतः शब्दार्थः"
इति । एवमविद्यामान्द्याद्विकल्पानां यथातत्त्वमवसायपाटवाभावात् समरोपितरूपेणावसायस्य सर्ववादिभिरभ्युपगतत्वात्तदुपदर्शितविषयविषयाः शब्दाः सर्व एव बहिरसदर्थविषयाः प्रत्ययोपारूढरूपाभिधायिनः सिद्धा इत्यतीताद्यभावादिशब्दानामप्यर्थसंबन्धे न विप्रतिपत्तव्यमिति स्थितम् ।। 54 ।।
तत्रैतत् स्यात् निरावरणख्यातीनां भावतत्त्वदृशां यथार्थ एव शाब्दो व्यवहारः, ते चास्माकमुपदेष्टार इति नायथार्थः स इत्याशङ्क्याह--
रूपणव्यपदेशाभ्यां लौकिके वर्त्मनि स्थितौ ।
ज्ञानं प्रत्यमिलापं च सदृशौ बालपिण्डितौ ।। 55 ।।
(65) परस्पराभिप्रायमेलनात्मकत्वाद्वयवहारस्यावदातदर्शना भावतत्त्वदृशोऽपि व्यवहरन्तो लोकपथवर्तिनः सदृशोऽन्यैरर्वाग्‌दर्शनैः । रूपणम् आलोचनम् । आलोच्य शब्देन प्रापणं व्यपदेशः । आभ्यां व्यवहरन्तो लौकिके मार्गे तुल्याः । क्व विषय इत्याह ज्ञानं प्रति इत्यादि । बालस्य विपर्यासितमतेर्यज्‌ज्ञानमर्थसंविकल्पम्, अभिलापो व्यपदेशरूपश्च ते प्रति तद्विषये । यथा बालो विकल्पयत्यर्थमभिधत्ते च, एवं परमार्थदर्शना विद्वांसोऽपि । तथा हि तेऽपि निरूप्य विवक्षित्वा विषयं यथाविवक्षमेव व्यपदिशन्तः पराभिप्रयमेलनमारभन्त इति । यथा पराभिप्रायमेव पूर्वं निरूपयन्ति तथा च तेषामपि निरूपणाज्ञानं विकल्पः तत्पूर्वकश्चाभिलापः शब्दो लौकिकसदृशः । या तु तेषां व्यवहारातीता दशा तस्यां शुद्धं ज्ञानं पारमार्थिकमनिरूपकम् ।। 55 ।।
प्रतिनियतविषयग्राहकमेव ज्ञानं सदैवेति कास्य शुद्धिरित्याह--
सर्वार्थरूपता शुद्धिर्ज्ञानस्य निरुपाश्रया ।
ततोऽप्यस्य परां शुद्धिमेके प्राहुररूपिकाम् ।। 56 ।।
(66) द्वे दशे शुद्धेरुपक्रमपरिसमाप्तिरूपे । इन्द्रियसन्निकर्षादिरूपोपाश्रय निरपेक्षतयाशेषार्थावभासखचितं सर्वज्ञज्ञानमुपक्रमे शुद्धमित्युच्यते । इन्द्रियाद्यपेक्षारूपायाः स्वविषयग्रहणेऽशुद्देरनवगमात् । निष्ठायां चाकारकालुष्यापगमात् प्रभास्वरं प्रशान्तकल्लोलं संविन्मात्रमेकघनं शुद्धं ग्राह्यग्राहकप्रपंचशून्यं परं ब्रह्म ।। 56 ।।
नियताकारावग्रहो ह्यशुद्धिरित्याह--
अपप्लवो हि ज्ञानस्य बाह्याकारानुपातिता ।
कालुष्यमिव तत्तस्य संसर्गे व्यतिभेदजम् ।। 57 ।।
(67) स्वच्छज्ञानस्यार्थेन संसर्गे सति यस्तेनैवार्थेन व्यतिभेदः प्रतिबिबवशादभेदो व्यामिश्रीभावः ततो जातोऽयम् उपप्लवो बाह्यविषयप्रावण्यम्, उदकस्येव रजःसम्पर्कादाविलीभावः तदपगमे क्रमेण स्वस्मिन् स्वच्छरूपेऽवस्थानम् परा शुद्धिः सर्वदर्शनाभ्युपगता । तदुक्तम्
"तदा द्रष्टुः स्वरूपेऽवस्थानम्" (Y.Dar.I.3)
इति । इवशब्देनार्तरूपसम्भेदेऽपि स्वप्रकाशं ज्ञानरूपमनवगतमित्याह ।। 57 ।।
अर्थस्यापि व्यवहारेऽशुद्धिमाह--
यथा च ज्ञानमालेखादशुद्धौ व्यवतिष्ठते ।
तथोपाश्रयवानर्थः स्वरूपाद्विप्रकृष्यते ।। 58 ।।
(68) आलेखो विषयरूपोपरागः । ततोऽशुद्धं ज्ञानमिति प्रसाधितमर्थमर्थाशुद्धौ साध्यायां दृष्टान्तयति । उपाश्रयो जात्यादिरुपधानम्, तेन च द्वारेण यथादर्शनमर्थो व्यवहार्पथमवतरति । निरूपाधेस्तस्याव्यवहार्यत्वात् । उपाधिसंसर्गश्चातत्त्वमित्यर्थस्येयमशुद्धिः । जात्याद्युपाधिरूपेण समवेतेन शबलितमर्थवस्तु प्रतीयतेऽभिधीयते चेति तथा तद् व्यवहारमवतरति । न तु सर्वथाव्यपदेश्यं द्रव्यम्, एतदेव हि तस्य रूपं यदुपाधिसंसृष्टम्, सदैव तत्संसृष्टस्य प्रत्ययात् ।। 58 ।।
उक्तमर्थ प्रकृते योजयति
एवमर्थस्य शब्दस्य ज्ञानस्य च विपर्यये ।
भावाभाववभेदेन व्यवहारानुपातिनौ ।। 59 ।।
(69) जात्यादिसंसर्गरूपोपरागोऽर्थस्याशुद्धिः । शब्दस्याप्यकृत्स्नार्थाभिधानात्तदुपाधिरूपेणाभिधानाद् अशुद्धिः । ज्ञानस्य बाह्याकारोपरागः । एवं त्रितयमपि विपर्यस्तम् । तथा च भावस्यापि शब्देनाभिधीयमानस्य जायमानस्य वा परोपाधिरूपतयाभावसमकक्ष्यता । अभावोऽपि हि घटाभावः पटाभाव इति परोपाधिरेव शब्दप्रत्ययावनुपततीति साम्यम् । बुद्ध्या निरूप्यमाणो ह्यभावो भावरूपेणैवावच्छिद्यते । यत्तु परमं रूपं तत्रैव व्यवहारास्पदम् । ननु च विपर्यासः प्रतिपत्तृधर्मः, तेन प्रतिपत्तैव विपर्यस्तः कथ्यताम्, अर्थस्तु कथं विपर्यस्तः । उच्यते । विपर्यासविषयत्वात् स्वरूपेणाप्रतिभासनादर्थोऽपि तथा, शब्दोऽपि विपर्यासहेतुत्वात् तथोच्यते ।। 59 ।।
कथमभेदेन व्यवहारानुपात इत्याह--
यथा भावमुपाश्रित्य तदभावोऽनुगम्यते ।
तथाभावमुपाश्रित्य तद्भावोऽप्यनुगम्यते ।। 60 ।।
(70) निरुपाधेरभावस्याविशिष्टत्वात् भावोपाधेर्व्यवहारावतारः । भावस्यापि मद्यावस्थायामेव सत्त्वात् प्रागभावावच्छिन्नमेव व्यवहारे तत्त्वम् । नित्यानामप्यभिव्यंजककालात् प्रागनभिव्यक्तेरसत्तया व्यवहारो न विशिष्यते ।। 60 ।।
  एवमन्योन्यापेक्षित्वे भावाभावयोर्व्यवहारे साम्यं भेदमभ्युपगम्य प्रतिपादितदम् । इदानीं भावव्यतिरिक्तमभावं निरसितुमाह--
नाभावो जायते भावो नैति भावोऽनुपाख्यताम् ।
एकस्मादात्मनोऽनन्यौ भावाभावौ विकल्पितौ ।। 61 ।।
(71)द्वैतनये प्रागभावोपमर्देन भावनिष्पत्तिः । भावोपमर्देन प्रध्वंससंभवः । द्वयमपि चैतदयुक्तम्, भावाभावयोरन्योन्यस्वभावोपगमसंभवात्, स्वभावस्यानपायात् । अतश्चात्यन्तविवेके भावोपाधितयाभावस्याभावोपाधितया भावस्य प्रतीतिर्न स्यात् । तस्मादेकमेवाद्वयं तत्त्वमात्मशब्दवाच्यं व्यवहारे विकल्पदशायां भावाभावोपाधिरूपप्रविभक्तं चकास्ति । प्रकाशरूपस्य हि परस्य तत्त्वस्य सर्वथाविभिन्नस्वभावस्य महासत्तात्मनोऽभावप्रतियोगिनोऽविद्यावशात्सांवृतलोकयात्रनिर्वर्तनसमर्थस्य बहिरिदन्तया प्रतिभाने वर्तमानकालोपाधितयार्थक्रियाकारिणो भावरूपता, अतीतानागतकालोपाधितया चान्तरेव संस्काररूपतयानुवर्तनाद्बाह्येन्द्रियविषयतानुपगमात् सर्वप्रमातृसाधारणार्थक्रियाकरणादभावरूपतया व्यवहारः । न च सर्वथा तदानीमसत्ता स्मर्यमाणत्वादुत्प्रेक्ष्यमाणत्वाच्च । तथा च यस्य संस्काररूपास्ते भावास्तस्य स्मृत्युत्प्रेक्षागताः कल्पयन्त्येव कामप्यर्थक्रियाम् । अत एव च मध्यावस्थस्य भावस्वभावस्यैव प्रागभावः स्फुटेन रूपेणेन्द्रियापरिच्छेद्यावस्था, प्रध्वंसश्चोत्तरकालमभावो व्यवह्रियते, न तु सर्वथा भावसंस्कारनिवृत्तावभावः कश्चित् सर्वशक्तिविरहलक्षणश्चाकास्ति चेतसि । अत एव त्रय्यध्विकाः पदार्थाः समुद्धोष्यन्त इति नाभावो नाम कश्चित् ।। 61 ।।
तत्रैतत् स्यात्-कथं भावाभावौ विकल्पितौ इत्युच्यते, कारणभेदात् सत्यभूतौ यथावसायं कस्मान्न भवत इत्याशङ्क्य सदसत्पक्षभेदेन कार्यकारमभावानुपपत्तिप्रतिपादनपूर्वकं द्वैतदर्शनमपोद्य विवर्ताश्रयेणाद्वैतनयं स्वमतेन सिद्धान्तयितुमुपक्रमते--
अभावस्यानुपाख्यत्वात् कारणं न प्रसाधकम् ।
सोपाख्यस्य तु भावस्य कारणं किं करिष्यति ।। 62 ।।
(72) इह कार्यस्यात्मलाभमुद्दिश्य कारणं प्रवर्तते । तत्र निःस्वाभावस्योद्देशत्वायोगात् किमवलंब्य कारणस्य पदबन्धः स्यात् । जात्यात्मना सत्त्वे तस्या नित्यत्वात्कार्यतानुपपत्तेः पुनरपि कारणं क्व वर्तेत । कथंचिदभेदो जातिव्यक्त्योरिति चेद् व्यक्‌त्यात्मना तर्हि कार्यतेति तदवस्थो दोषः । नियतकारणपरिग्रहश्च न स्यात् । असत्त्वस्याविशेषात् सिकताभ्योऽपि तैवं स्त्रवेत् । नियतशक्ति कारणमिति चेत् कुतोऽवसितमेतत् । तस्मिन् सति सद्भावादिति चेत् तदेवेदं पर्यनुयुज्यते `कथमत्यन्तासतस्तस्मिन् सति भाव इति । प्रतीतित्वाददोष इति चेत् तदेवेदं पर्यनुयुज्यते `कथमत्यन्तासतस्तस्मिन् सति भाव इति । प्रतीतत्वाददोष इति चेत् प्रतीतिमात्रमस्तु किमयुक्तिकेन कार्यकारणभावोपवर्णनेन । तथा च सिद्धान्तयिष्यति--
"भावानां प्रागभूतानामात्मतत्त्वं प्रकाशते"
इति । अथ सत् कार्यं कारण इति नैते दोषाः, अत्रापि कृतस्य करणयोगादकिंचित्करं कारणम् । न ह्येतद्युज्यते कारणं चात्रोपयुज्यते, न चापूर्वं किंचित् प्राप्यात् इति । अथाभिव्यक्तिः कारणेन कार्यस्य क्रियते साऽपि ततोऽन्याऽन्या वा । अन्यत्वे सती वा स्यादसती वा । सत्त्वे प्रागिव कारणानुपपत्तिः । अभिव्यक्‌त्यन्तरकरणे त्वेतदेव पुनरावर्ततेऽनवस्था च । असत्त्वे प्राप्तमसतो जन्म । तथा च कार्ये को विद्वेषः । अभिव्यक्तौ च कारणव्यापारात् कार्यस्य कार्यता न स्यात् । वस्त्वन्तरोत्पत्तौ च किं तस्य येनासावशङ्कितमेवोद्भवेत् । तत्संबन्धाभिव्यक्तिकारणादिति चेत्, कोऽयं जन्यजनकयोः संबन्धः । तत्त्वेऽप्यभिवयक्तौ तज्जन्यायां तद्विषयः कारणव्यापारो न स्यात्, कार्येणैव तस्या जननात् । तथा कार्यस्य जनने तद्विषयोऽपि कारणव्यापारो न स्यात् । तथा च तस्यासतो जननेऽसत्कार्यप्रसङ्गः । सतोऽप्यभिव्यक्तौ पुनरप्येतदावर्तते । उपकार्योपकारकभावः संबन्धोऽभिव्यक्तिकार्ययोरिति चेत्, केन करयोपकारः । स च किं व्यतिरिक्त उताव्यतिरिक्तः । व्यतिरेके तस्येति कः षष्ठ्यर्थः । उपकारान्तरकल्पनेऽप्येतदेव चोदनीयमनवस्था च । अव्यतिरेके तु जन्यजनकभाव एव पर्यवस्यति । तत्र चोक्तो दोषः ।अनन्यत्वेऽभिव्यक्तेः कार्यात्तदेव कृतं स्यादित्यसत्कार्यनयाश्रयः । तत्र चानुपपत्तिरावेदितेति सङ्कटोऽयं पन्थाः ।। 62 ।।
इत्थं च कार्यतानिषेधात् प्रागभावप्रध्वंसाभावावपि कृतकवस्तुविषयौ न स्त इति पूर्वोक्तमेवावस्थाभेदेन विकल्पितत्वं भावाभावयोर्निगमयति--
तस्मात्सर्वमभावो वा भावो वा सर्वमिष्यते ।
न त्ववस्थान्तरं किंचिदेकस्मात् सत्यतः स्थितम् ।। 63 ।।
(73) कार्यकारणभावाभावान्मध्ये जातोऽभिव्यक्तो वासन् पूर्वोत्तरयोरवस्थयोरजातोऽनिभव्यक्तो विनाशकारणयोगाद्विनष्टश्च भावो नोपपद्यत इति भावाभावौ नैकस्यावस्थातुः परिणामदर्शनाश्रयेण सत्यभूतावस्थात्मकौ, अपि तु व्यवबारदशायामविद्याप्रवृत्तिरूपायां सत्यस्याभिन्नसंविन्मात्रस्य सत्यभूतावस्थात्मकौ, अपि तु व्यवहारदशायामविद्याप्रवृत्तिरूपायां सत्यस्याभिन्नसंविन्मात्रस्य तत्त्वस्य यथार्थमनवभासात् परमार्थतः सर्वं प्रपंचजातमभाव एवापरमार्थ एव । स च नीरूपो न कश्चिदिति भावव्यतिरेकं न सहते । किंचिद्रूपं हि कुतश्चिद् व्यतिरिच्यते । भेदमात्रस्य चाभिन्नतत्त्वाग्रहणरूपस्य शून्यत्वात् । सांवृतेन तु रूपेण सर्वं भावात्मकम् , प्रथमानस्य वस्तुत्वात्, अवस्तुनः प्रथनायोगात् । भावानां हि ज्ञायमानत्वेन ज्ञानोपारूढतया सत्त्वमेव, बहिरध्यवसानाच्चापि सत्त्वम् । केवलं योऽयं भेदोऽवच्छेदो ग्रहणमसौ न किंचिदविद्या । तत्र च भिन्नः प्रकाशोऽनुगत इति विद्यावस्थतैव । तथा च
"विद्याविद्याप्रविभागमप्रविभागं ब्रह्म"
इति । ब्रह्मकाण्ड उक्तम् ।। 63 ।।
यतश्चैवं सर्वं संवृतिसत् ततः प्रवादिनां दर्शनविकल्पास्तत्राभिमानमात्रमित्याह--
तस्मान्नाभावमिच्छन्ति ये लोके भाववादिनः ।
अभाववादिनो वापि न भावं तत्त्वलक्षणम् ।। 64 ।।
(74) आविर्भावतिरोभावमात्रं जन्मनाशौ सत एवेति वदन्तो भाववादिनः परमर्षयः । तेषामभावो नाम भावपृथग्भूतो न कश्चिद्भावस्यैव पूर्वोत्तरयोकवस्थयोरभावव्यवहारात् । तथा हि-मृदवस्था घटस्य प्रागभावः , कपालावस्था च प्रध्वंसाभाव इति वाच्यम् । सर्वं शून्यमिदं जगदित्यभाववादिनामप्यभावः पारमार्थिको न कश्चित् इति न भावं तत्त्वसक्षणं परमार्थरूपमिच्छन्ति । एवमपि ब्रुवन्तो व्यवहारे भावाभावभेदमर्थक्रियाकारणाकरणनिमित्तं नापह्रुवते । ततश्च संवृत्या सर्वमुपपद्यते साम्येनेत्यभिनिवेशोऽत्र त्याज्यः ।। 64 ।।
अभावप्रतिक्षेपे तर्हि निर्निबन्धनो भावाभावभेद इत्यत आह ।
अद्वये चैव सर्वस्मिन् स्वभावादेकलक्षणे ।
परिकल्पेषु मर्यादा विचित्रैवोपलभ्यते ।। 65 ।।
(75) सर्वस्मिन् परिदृश्यमानभेदजाते स्वभावात् परमार्थरूपात्, न सामान्यसमावेशवशादेकस्वभावे ब्रह्ममये विचित्रेषु विकल्पेषु भावाभाववादिनानात्वेनानादिनियतिशक्तिनियमितेयमविद्यावशान् मर्यादा व्यवस्था नानारूपा दृश्यते । असत्यपि वास्तवे भेदेऽविद्यानिमित्तोऽयं भेदो व्यवहारे रूढ इत्यविचारितसिद्धोऽवगन्तव्य इत्यर्थः ।। 65 ।।
न तु सत्यतोऽयं भावाभावभेद इति निदर्शनेन व्युत्पादयति--
चतस्रो हि यथावस्था निरुपाख्ये प्रकल्पिताः ।
एवं द्वैविध्यमप्येतद् भावाभावव्यपाश्रयम् ।। 66 ।।
(76) प्राक्प्रध्वंसात्यन्तेतरेतरलक्षणोपाधिवशेन नीरूपस्य रूपभेदायोगाद्यथाऽभावस्य चतुर्धा भेदः काल्पनिकः तथैव भावाभावलक्षणोऽपि भेदः काल्पनिक एवावगन्तव्यः इत्यर्थः । बहरिन्द्रियगोचरार्थक्रियोपाधिर्ब्रह्मभागः कल्पितो भावः, बहिरर्थक्रियाशून्यस्त्वभाव इति सङ्‌केतः ।। 66 ।।
वस्तुतस्तु सर्वव्यवहारातीतौ न पृथग् भावाभावावात्मतत्त्वमुद्दर्शयत इत्याह--
अविरोधी विरोधी वा सन्नसन् वापि युक्तितः ।
क्रमवानक्रमो वापि नाभाव उपपद्यते ।। 67 ।।
(77) नीरूपत्वादभावस्य भावेन सह विरोधाविरोधौ युक्‌त्या न सङ्गच्छेते । न हि भावमभावः समुच्छिनत्ति अनुगृह्णति वा येन तद्विरोधी वा यथासंख्यं भवेत् सतोऽसत्वायोगाल्लब्धरूपस्यातिशयायोगाच्छ सत्त्वमभावस्यात्मविरुद्धम् । असत्त्वमप्यस्य तद्रूपत्वादेव व्यतिरिक्तं भाववन्नोपपद्यते । एवं हि भावताप्रसङ्गः क्रमोऽपि भावधर्मो नाभावस्य युज्यते, भावस्योच्छेत्तुमशक्यत्वाद् हि तदपेक्षो भावस्य क्रमः, नाप्यभावान्तरापेक्षः, तस्यैवासिद्धत्वात्, नीरूपस्य भेदाभावात् । एवमक्रमोऽपि, यौगपद्यमर्थान्तरापेक्षत्वादस्य नास्ति, अन्येन सहासमानकालत्वादिति युक्तितो नोपपद्यते ।। 67 ।। अभावो नामैवंधर्मो यतः एवम्
अविरोधी विरोधी वा सन्नसन्नपि तत्त्वतः ।
क्रमवानक्रमो वापि तेन भावो न विद्यते ।। 68 ।।
(78) यतोऽभावस्येत्थमनुपपद्यमानता तेन भावः अप्येवं परमार्थतो नोपपद्यते । तथा हि-भावस्यानुच्छेद्यत्वान्निरतिशयत्वाच्चाभावेन सह विरोधिता अविरोधिता च न युक्ता । एवं क्रमाक्रमावपि । अथ भावान्तरेण सह भावस्य विरोधित्वादिति चिन्त्यते तत्रापि स्वतोऽनुच्छेद्यस्य निरतिशयस्य च केनचिदुच्छेत्तुमनुगृहीतं वाशक्तेस्तदनुपपत्तिरेव । क्रमाक्रमावपि भेदाभावान्न पारमार्थिकौ । सत्त्वमपि नियतार्थकियानिमित्तमर्थक्रियान्तराकरणान्न तत्त्वतो व्यवतिष्ठते । सत्तासंबन्धस्य चानुपलब्धेर्न तन्निमित्तं प्रतिभासनाच्चासत्त्वमप्यपारमार्थिकम् । इत्थं सर्वव्यवहारा विकल्पपरिघटिता एवेति भावाभावावपि तथा विज्ञेयौ कल्पना चाविद्याशक्तिः । सा च तत्त्वान्यत्त्वाभ्यामनिर्वाच्येति ब्रह्मकाण्डे निर्णीतम् ।। 68 ।।
कालनिमित्तोऽप्यत्र भेदो न पारमार्थिक इत्याह--
अभावे त्रिषु कालेषु न भेदस्यास्ति सम्भवः ।
तस्मिन्नसति भावेऽपि त्रैकाल्यं नावतिष्ठते ।। 69 ।।
(79) त्रिषु कालेषु इति । कालत्रयनिमित्तको भेदोऽभावविषयो नास्ति । तथा हि नीरूपत्वादभावस्य वर्तमानकृतस्तावत् परिच्छेदो नास्ति । तदभावत्तदपेक्षोऽतीतानागतकालयोगोऽपि न भाविकः । एवं च भावस्याप्याभावापेक्षं त्रैकाल्यं नास्ति । तथा हि प्रागभावाश्रयं भविष्यत्वं प्रध्वंसापेक्षं च भूतत्वमिति प्रागभावप्रध्वंसयोर्भेदाभावादयुक्तं तत् । तदभावाद्वर्तमानत्वमपि नास्ति । नापि स्वापेक्षं पूर्वापरकोट्योर्भेदभावत्, भावस्य कालत्रययुक्तत्वम्, भावे तु सांख्यानां पूर्वापरकोट्योर्भावस्यैकत्वमेवाभिन्नरसमिति पुनरपि कालत्रयायोगः । अवस्थास्ततो न व्यतिरिच्यतन्त इति तासामपि तदभावः । व्यतिरेकेऽपि वा तद्वतः कालभेदो न भावस्य शक्यते लक्षणमनयोर्नोपपद्यत इत्याह--
आत्मतत्त्वपरित्यागः परतो नोपपद्यते ।
आत्मतत्त्वन्तु परतः स्वतो वा नोपकल्पते ।। 70 ।।
(80) कारणाद् भावस्य सतो विनाशो नोपपद्यते । नीरूपस्य कारमसामर्थ्येन जन्यमानतायां नाशस्य रूपवत्त्वप्राप्तेर्भावेन सम्बन्धे प्रागिव तस्योपलब्धिः स्यात् । तेन तस्य विनाशे तत्रापि तथैनेत्यनवस्थापातात्, भवनस्वभावस्याभवनविरोधाच्च स्वतोऽपि विनाशाभाव इत्यभावशब्दार्थो न कश्चिदवतिष्ठते । भवनमपि भावसद्भावपरिनिष्ठतस्य कारणान्नोपपद्यते । स्वतोऽपि भवतो भवनायोगः, अभवनशीलस्य भावता विरुद्धेति भावशब्दार्थोऽपि न कश्चित् ।। 70 ।।
न चैवमपि भावाभावावेकं तत्त्वत इत्याह--
तत्त्वे विरोधे नानात्व उपकारो न कश्चन ।
तत्त्वान्यत्वपरित्यागे व्यवहारो निवर्तते ।। 71 ।।
(81) विधिप्रतिषेधयोरोकत्वं विरुद्धम् । नानात्वे तु भावाभावयोः परस्परापेक्षया निरुपकारिणोर्व्यवहारो न स्यात् तदतद्‌व्यतिरेकेण विकल्पासंभवो राश्यन्तराभावादिति सर्वव्यवहारातीतत्वं भावाभावादिरूपतया प्रतिभासमानं जगत् सांवृतेन रूपेणाविचारितसिद्धमिति स्थितम् ।। 71 ।।
परमार्थस्त्वयमत्रेत्याह--
यत्र द्रष्टा च दृश्यं च दर्शनं वा विकल्पितम् ।
तस्यैवार्थस्य सत्यत्वं श्रितास्त्रय्यन्तवेदिनः ।। 72 ।।
(82) ग्राह्याग्राहकादिप्रपञ्चम् विकल्पपरिघटितस्यासत्यत्वात्सर्वप्रपञ्चसमतिक्रान्तं वाङ्मनसातीततत्त्वमविकल्पं परं ब्रह्मानादिनिधनं सत्यमिति ब्रह्मविदः प्राहुः । ऋग्यजुःसामात्मको वेदस्त्रयी, तस्या अन्तः सारभूतार्थनिर्णयमय उपनिषद्भागः । तत्र हि समाप्तौ संक्षिप्य शास्त्रार्थसतत्त्वमाख्यायते, तं जायते तच्छीला ये त एवमभेदं परमार्थरूपमाहुः, न कर्मानुष्ठानाक्षिप्तं भेदम् । अविद्यापरिकल्पितो हि भेदो वितथो वैकल्पिकः । अविद्यापि च तत्त्वान्यत्त्वाभ्यां परस्मादनिर्वाच्यानादिसिद्धजीवात्मगतभेदप्रतिभासकारिणीत्युपपादितं ब्रह्मकाण्डे विस्तरत इति तत एवावधार्यम् ।। 72 ।।
तदेवं यथावभासमसत्यार्थनिष्ठः शाब्दो व्यवहार इत्यलब्धाभिन्नतत्त्वाविश्रान्तिर्भेदष्वत्रोपप्लवत इत्याह--
सामान्यं वा विशेषं वा यस्मादाहुर्विशेषवत् ।
शब्दास्तस्मादसत्येषु भेदेष्वेव व्यवस्थिताः ।। 73 ।।
(83) सामान्यमपि सामान्यान्तराद् व्यावृत्तं शब्दैरुच्यते । तथा विशेषो विशेषान्तराद् व्यावृत्त इत्यसत्येषु भेदेष्वेव शब्दाः कृतपदबन्धा नाभिन्नमद्वयं तत्त्वं संस्प्रष्टुं शक्ता इति वितथ एव शाब्दो व्यवहारः । सन्नित्यपि व्यवहारोऽभावप्रतियोगी । एवं ज्ञेयं प्रमेयमित्यादयोऽपि शब्दाः परिकल्पिताः ज्ञेयादिव्यावृत्तविषया इति सर्वं भेदोपनिपाति शब्दजातम् । तदुक्तं भाष्ये--
"सामान्यमपि यथा विशेषस्तद्वद्"
इति । विशेषवदित्यर्हार्थे वतिः । विशेषमर्हति यदभिधानं तद्विशेषवद्, विशेषो वा यत्रास्तीति मत्वर्थीयः । सामान्योपहितस्य विशेषस्याभिधानं संभाव्येतेति तन्निवृत्तये विशेषणमेतदिति विशेषेणापि संबध्यते ।। 73 ।।
एवं तावन्नीरूपमवस्त्वभावमाश्रित्य भावाभावयोर्विरोधाद्युक्तम् । इदानीं वैशेषिकनयेन सप्तमं पदार्थमभावमाश्रित्याह--
न ह्यभावस्य सद्भावे भावस्यात्मा प्रहीयते ।
न चाभावस्य नास्तित्वे भावस्यात्मा प्रसूयते ।। 74 ।।
(84) भावादर्थान्तरमभाव इति प्रध्वंसस्योपजने किमिति भावो विनश्यति । प्रागभावस्य च व्यावृत्तौ किमिति भावो जायते ।। 74 ।।
एतदेव दृष्टान्तेन द्रढयति--
न शाबलेयस्यास्तित्वं बाहुलेयस्य बाधकम् ।
न शाबलेयो नास्तीति बाहुलेयः प्रकल्पते ।। 75 ।।
(85) पृथग्भूतयोर्भावयोरसंबन्धयोर्यथा परस्परस्य सत्तासत्ते न प्रयोजिके तथा भावाभावयोरपि तथाभूतयोः स्यादित्यर्थः ।। 75 ।।
तदेतद्भावादर्थान्तरस्याभावस्य वस्तुत्वेऽभ्युपगम्यमाने दोषजातमित्युपसंहरति--
अभावो यदि वस्तु स्यात्तत्रेयं स्याद्विचारणा ।
ततश्च तदभावेऽपि स्याद्विचार्यमिदं पुनः ।। 76 ।।
(86)सप्तमपदार्थरूपेऽभावस्य वस्तुत्वेऽभ्युपगम्यमाने तत्‌सन्निधानासन्निधानाभ्यां भावस्यासन्निधानसन्निधाने न युज्येते इतीयं चिन्ता युज्यते । तथा च वस्तुत्वेऽभावस्य तत्राप्यभावान्तरस्य व्यतिरिक्तस्योदयास्तमययोरभावस्य यथायोगं तौ न स्याताम्, तत्राप्यभावान्तरमित्यनवस्था च स्यादित्यपि वाच्यम् ।। 76 ।।
यदा पुनर्भावप्रच्युतिर्नीरूप एवाभावो बौद्धदृष्ट्याभ्युपगम्यते तदा--
अवस्तुत्वादतीतं यद् व्यवहारस्य गोचरम् ।
तत्र वस्तुगतो भेदो न निर्वचनमर्हति ।। 77 ।।
(87) तिरोभवति भावो न त्वभावो नाम कश्चिद् व्यतिरिक्तो ज्ञायत इति नये नेदं विचारणीयं न ह्यभावस्य सद्भाव इत्यादि । भावप्रच्युरूपत्वादभावस्य कथमवतिष्ठेत । भाव इति नेदं दूषणमवतरति । प्रागभावव्यावृत्तौ च न भावो जायते अपि तु भवितृरूपत्वादिति तुच्छरूपोऽभावो वास्तवं नानात्वं नार्हति । इत्थं च सर्वव्यवहारातीतोऽसत्त्नान्नीरूपत्वादभावो वास्तवभेदादिनिरूपणमाह इति प्रागेवोक्तमुपसंहृतम् ।। 77 ।।
इदानीं कार्यकारणभावानुपपत्तिं पूर्वोक्तामनद्यस्वदर्शने विवर्त्तं सिद्धान्तथितुमाह--
अपदेऽर्थे पदन्यासः कारणस्य न विद्यते ।
अथ च प्रागसद्भावः कारणे सति दृश्यते ।। 78 ।।
(88) उत्पत्तेः पूर्वं कार्यलक्षणोऽर्थोऽपदोऽविद्यमानप्रत्यायकोऽसत्त्वादिति तत्र कारणस्य पदन्यासो व्यापारो नोपपद्यते । जननक्रियावेशयोग्यवस्तुभूतकार्यनिष्ठो हि कारणानां व्यापारः पदन्यासः । स चासति कार्ये नास्ति । न ह्यकिंचिद्रूपमुद्दिश्ये कारणानि प्रवर्तितुमुत्सहन्ते । असत उद्देश्यत्वायोगात् । सत्त्वे तु कारणानुपपत्तिरित्युक्तम् । अथ विनियोक्तृबुद्ध्यनुसंधानं कार्यस्य पदन्यासः सोऽप्यसत्यसम्भवी । जडस्य च कारणस्य सुतरांकार्ये पदन्यासोऽयं नास्ति। दृश्यते च कस्मिश्चिद्धेतौ सति कार्यमिति तत्रैव यदेव तत्त्वमेवं प्रतिभासमानं न तु वास्तवो हेतुफलभावः कश्चिदित्यर्थः ।। 78 ।।
अथोत्पत्तेः पूर्वं प्रागवस्था भावस्येति नापदस्तदानीमसावर्थ इत्युच्यते तत्राप्याह--
का तस्य प्रागवस्थेति वस्त्वाश्रितमिदं पुनः ।
प्राहवस्थेति न ह्येतद् द्वयमप्यस्त्यवस्तुनि ।। 79 ।।
(89) उत्पत्तेः पूर्वं कार्यस्य का प्रागवस्था इतीदं चोद्यं वस्त्वाश्रितं वस्त्वालंबनमेतत् पर्यनुयोगरूपमित्यर्थः । तथा हि प्रागिति चावस्येति चैतद्‌द्वयमत्र पर्यनुयोगे । न चैतद् द्वयमप्यवस्तुनि । देशतः कालतो वा पूर्वंत्वस्याभावे नीरूपे देशकालयोगायोगिन्यसम्भवात् । अवस्थेति चावस्थात्रपेक्षम् । न चावस्थाता कश्चिदन्वयी विद्यते पूर्वमित्यसत्त्वमेव तत्र । एवमसत्कार्यनये प्रागसत्त्वादेतन्न युज्यते । सत्कार्यनयेऽपि प्रागर्थानुपपत्तिः, इदानीमपि सत्त्वाद् भावस्य । अत एव च जन्मायोगादवस्थातृरूपाभावः । केनचिद्रूपेण जनने तदपेक्षया प्राप्तमसतो जन्म । तथा च तत्राप्यपदोऽर्थः ।। 79 ।।
विनाशेऽप्यसत्त्वमेव नीरूपमगोचरो वाचो भावस्येत्याह--
न चोर्ध्वमस्ति नास्तीति वचनायानिबन्धनम् ।
अलं स्यादपदस्थानमेतद्वाचः प्रचक्षते ।। 80 ।।
(90) प्रच्युतेःऊर्ध्वं निरन्वयध्वंसादसति भावभागेऽस्ति नास्तीत्यभिधानाय न समर्थं वस्तु । सांख्या हि तदानीमप्यस्तीति व्यवहरन्ति । तच्च न युक्तम् । कुतः । अनिबन्धनं यतः । वचने निबन्धनमुपलभ्यमानता । सा च ध्वस्तस्य नास्तीति शब्दागोचरमनिबन्धनमसत्त्वमिति पूर्वापरावस्थयोरव्यवहार्यो भावः ।। 80 ।।
मध्यावस्थायामेव केवलं दृश्यत इत्याह--
अत्यद्‌भुता त्वियं वृत्तिर्यदभागं यदक्रमं ।
भावानां प्रागभूतानामात्मतत्त्वं प्रकाशते ।। 81 ।।
(91) सदसत्‌पक्षभेदेन वास्तवस्य कार्यकारणभावस्य निराकृतत्वादुपपत्तिशून्ययाऽऽश्चर्यभूतया वृत्त्या व्यापारेण कार्यं प्रागदृष्टं निरंशं झटित्येवाक्रमं कस्मिंश्चिन्नियते सति दृश्यते इति प्रतिभासमात्रसारः कार्यकारणभावो वितथो वेकल्पिकोऽविद्यानेत्रैर्यथायथं विकल्पनात् । एकस्य तत्त्वादप्रच्युतस्य भेदानुकारेणासत्यविभक्तान्यरूपोपग्राहितारूपविवर्तः परमार्थ इत्यर्थः । अत्यद्भुतेयं वृत्तिः । कासावित्याह यदभागम् इत्यादि । इत्येवं पदसमन्वयः । यद्वा यस्यां वृत्तौ सत्याम् अभागं निरंशमत एव अक्रमं तत्त्वं भावानां प्रकाशत् इति संबन्धः । सांशत्वे सति क्रमेणोपजने विलंब्य वृत्तेः कारणसामर्थ्यावधारणान्नाश्चर्यमिदं भवेत् । यतस्तु झटित्यपदमक्रममेव सर्ववादिमतेऽपि कार्यमाजायतेऽतः कारणव्यापारस्य विचार्यतानुपपत्तेः तथा प्रकाशोऽविद्यावसादाश्चर्यभूतो रूढः ।। 81 ।।
तथा हि--
विकल्पोत्थापितेनैव सर्वो भावेन लौकिकः ।
मुख्येनेव पदार्थेन व्यवहारो विधीयते ।। 82 ।।
(92) मध्यावस्थाभावि दृश्यमानं रूपमपेक्ष्य पूर्वापरावस्थापरिकल्पनया क्रमिकत्वे सति कार्यकारणभावेन भावाभावरूपतया वाविचारितसिद्धो लोकव्यवहारो रूढः । एवमन्योऽपि यः कश्चिद् व्यवहारः स सर्वस्तत्त्वतो बहिर्विद्यमानस्य वस्तुनो भिन्नस्याभावादनादिमिथ्याभ्यासवासनावशोपजात एव सांवृतस्तत्त्वाध्यवसायादसांवृत इवाविद्याप्रवृत्तिरूपे जगति प्ररूढः ।। परमार्थतस्तु न भेदो नाम परिदृश्यमानः सत्यः, अपि तु अद्वयमेव तत्त्वम् ।। 82 ।।
अविद्यानेत्रैरेवमविद्याख्यतच्छक्तिवशादवधार्यत इत्याह--
भावशक्तिमतश्वैनां मन्यन्ते नित्यवादिनः ।
भावमेव क्रमं प्राहुः न भावादपरः क्रमः ।। 83 ।।
नित्यद्वयं ब्रह्मतत्त्वं ये वदन्ति ते भावस्य परस्याद्वयस्य ब्रह्मण एवैवंविधामनादिजीवात्मगतां शक्तिं मन्यन्ते । यद्‌वशात्तिरोधाय तत्त्वमतत्त्वेन भेदेन व्यवहारः क्रमिकः । अक्रमेऽपि ब्रह्मणि भेदावभासनमविद्याकृतम् । तत्रैव क्रमाभासनं कालाख्यस्वातन्त्र्यशक्तिकृतम् । ते च शक्ती न ब्रह्मणो भावात् परमार्थतो मिन्ने इति स एव तत्त्वत एवं चकास्ति । अन्यस्य तदतिरेकिणो भासमानतानुपपत्तेः । भासमानस्य प्रकाशाव्यचिरेकादप्रकाशस्य तदयोगादित्यन्यत्र निर्णीतम् । तथा च ब्रह्ममयभावोपधानेन क्रमस्यावभासनाद् व्यवहारे भावव्यतिरिक्तं तस्य न किंचिद्रूपमिति हेतुहेतुमद्भावेन योजनादपौनरुक्त्यम् ।। 83 ।।
अत्र क्रमप्रतियोगि योगपद्यमपि तथा प्रतिभानमात्रमित्याह--
क्रमान्न यौगपद्यस्य कश्चिद्भेदोऽस्ति तत्त्वतः ।
यथैव भावान्नाभावः कश्चिदन्योऽवसीयते ।। 84 ।।
(94) एकमेव तत्त्वमविद्यानेत्राणामपारमनवच्छिन्नमशक्यप्रतिभासमिति स्वगतदेशकालपौर्वापर्याध्यारोपेण सक्रममाभाति । पदार्थान्तरसाचिव्येन चाक्रममिति भावतः क्रमाक्रमौ न स्तः । यथा भावाभावावित्युक्तम् । क्रमाभावो यौगपद्यम् । क्रमश्चोक्तदृशा नान्यो भावादित्यभावस्य पूर्वं भावाद् भेदस्य वस्तुत्वस्य च निषेधाद्यौगपद्यमपि तदात्मकं न किंचिदित्यभावदृष्टान्तेन ध्वनति । भावोपधानेन च प्रतीयमानत्वात् भावान्तरसाहित्यं भावस्यात्मैव । तन्न्याय्यम् , न हि साहित्यं नाम सहितादन्यद् विवेकेनावधार्यते ।। 84 ।।
ननु क्रमेण कृतं युगपत् कृतमिति भेदेन प्रतीयेते क्रमाक्रमावित्याशङ्क्याह--
कालस्याप्यपरं कालं निर्दिशन्त्येव लौकिकाः ।
न च निर्देशमात्रेण व्यतिरेकोऽनुगम्यते ।। 85 ।।
(95) अद्य भवोऽद्यतनः कालः श्वो भवः श्वस्तनः काल इति लोके व्यपदेशादविद्यमानोऽद्यतनोऽनद्यतनोऽस्तीति लङ्विधौ भाष्ये वचनादित्येवं समुदायावयवभेदपरिकल्पनया कालतत्त्वस्यैकस्यैवाधाराधेयभेदेन निर्देशो दृष्टः । न चैतावता वस्तुतः कालो भिद्यते, वैकल्पिकत्वाद् भेदस्य । एवं क्रमाक्रमयोर्व्यतिरेकेण निर्देशेऽपि न तत्त्वतो भावात् परस्परतश्च भेद इत्यर्थः ।। 85 ।।
एतदेव पोषयति--
आधारं कल्पयन् बुद्ध्या नाभावे व्यवतिष्ठते ।
अवस्तुष्वपि नोत्प्रेक्षा कस्यचित् प्रतिबध्यते ।। 86 ।।
(96) शत्रोरभावे सुखं सुहृदभावे दुःखरातिवर्गस्य रागादिक्लेशराशेरनुत्पत्तावभावे निर्वाणं मोक्ष इत्येवमादौ व्यवहारे सप्तम्यन्यथानुपपत्त्या अभावे परिकल्प्याधारशक्तिं सुरवाद्याधेयं न कश्चिदवतिष्ठते । अन्तर्भावितण्यर्थत्वान्न कश्चिदवस्थापयितुमुत्सहत इत्यर्थः । कल्पयन्नपि वाधारभावं न कश्चिदभावेऽधिकरणभूते स्थितिमाधेयत्वं लभते । न तत्रास्य पदबन्धो वस्तुतः, अथ च कल्पयन्तीत्यर्थः । नीरूपस्य सर्वसामर्थ्यविरहलक्षणस्याभावस्याधेयं प्रति स्थित्याधारभावायोगात् । उत्प्रेक्ष्य त्वाधारभावमेवं व्यपदेशः प्रवर्तते । एवमङ्गुल्यग्रे करियूथशतमास्त इत्यादि चोत्प्रेक्षयाभिधीयमानं दृश्यत इति नास्ति विकल्पनामभूमिः ।। 86 ।।
यत एवम्--
तस्माच्छक्तिविभागेन नित्यः सदसदात्मकः ।
एकोऽर्थः शब्दवाच्यत्वे बहुरूपः प्रकाशते ।। 87 ।।
(97) सर्वपरिकल्पातीतं तत्त्वं समाविष्टं सर्वाभिः शक्तिभिर्ब्रह्म यथायथं व्यवहारे भावाभावरूपतया तत्तदुपादिखचितं शब्दाः प्रतिपादयन्तीत्यभावाभिधायिनामपि भावशब्दैस्तुल्यः संबन्धोऽविशेषाच्छब्दानामिति प्रकरणतात्पर्यमुपसंहृतम् । एक इति । भेदस्याभावनिरासेन प्रतिषिद्धत्वात् । अत एव नित्यः, अभावभावात् कार्यकारणभावस्य च निषेधात् । शब्दवाच्यत्वे इति । शब्दव्यवहारार्थं निमित्तसप्तम्या प्रयोजनकथनात् । बहुरूपाः इति क्रमाक्रमादिरूपतया प्रागुक्तयाद्वयस्यैव तत्त्वस्य प्रकाशनात् ।। 87 ।।
इत्थं च सांवृतोऽयं लोकयात्रासु पदार्थप्रयोगो निरूढ इति तथैवास्मिन् शास्त्रेऽनुगम्यत इत्यविषयास्तार्किकविकल्पा इत्याह--
व्यवहारश्च लोकस्य पदार्थैः परिकल्पितैः ।
शास्त्रे पदार्थः कार्यार्थं लौकिकः प्रविभज्यते ।। 88 ।।
(98) वितारितमपि तर्कविकल्पैर्भावतत्त्वं न यथाविचारं लोके व्यवहारमवतरति । न हि दर्शनान्तरव्यवस्थितविरुद्धभावरूपानुगमो व्यवहारे । न चाविचारेण यथातत्त्वं पार्यते निस्चयः कर्तुम् । "रूपणव्यपदेशाभ्यां सदृशौ बालपाण्डितौ" परस्पराभिप्रायमेलने प्रवर्त्तेति इति गजनिमीलितेनावधार्य पदार्थयाथातथ्यं व्यवहरन्तो लौकिका दृश्यंते । इदं च लौकिकानामेव शब्दानामनुशासनं शास्त्रम् । तदत्र लोकप्रसिद्धैव पदार्थप्रक्रिया समाश्रयणीयेत्यखण्डाद् वाक्यार्थात् क्रियावचनो धातुः सत्त्वप्रधानानि नामानि, प्रत्यायकः प्रत्यय इत्यादिः शास्त्रीयकार्यप्रसिद्ध्यर्थं लौकिक एव क्रियाद्रव्यगुणादिलक्षणोऽपोद्धारपदार्थः प्रविभज्यत इति लोकयात्रायामेकयोगक्षेमाः सर्वे शब्दा भावाभावाभिमतार्थविषया इत्यर्थस्य प्रवाहनित्यात्वाच्छब्दोहारमात्रत्वाच्च प्रतीतेर्नित्यः शब्दार्थसंबन्ध इति सिद्धम् ।। 88 ।।
इति भूतिराजतनयहेलाराजकृते प्रकीर्णप्रकाशे
संबन्धसमुद्देशस्तृतीयः ।

३,४ः भूयोद्रव्यसमुद्देशः

सम्पाद्यताम्


(1) तदेवं शब्दार्थयोः संबन्धमुक्‌त्वान्वाख्यानोपयोगी पदार्थः शास्त्रे कार्यार्थं लौकिकः प्रविभज्यत इत्युपक्षितः । जातिद्रव्ये हि सर्वशब्दानामर्थ इति
"सिद्धे शब्दार्थसंबन्धे"
इत्यत्रार्थनित्यतासमर्थनार्थं पूर्वमुक्ते । इदानीमन्वाख्यानाङ्गमपोद्धारपदार्थो द्रव्यगुणादिकः समुद्देष्टव्य इति प्रविभज्यत इत्युक्ते तस्य कुतः प्रविभाग इत्याह--
संसर्गरूपात् सम्भूताः संविद्‌रूपादपोद्धृताः ।
शास्त्रे विभक्ता वाक्यार्थात् प्रकृतिप्रत्ययार्थवत् ।। 1 ।।
निमित्तभूताः साधुत्वे शास्त्रादनुमितात्मकाः ।
केचित् पदार्था वक्ष्यन्ते संक्षेपेण यथागमम् ।। 2 ।।
(2) निरंशस्य वाक्यस्यैव वाचकत्वात् तदर्थात् पृथकत्वेन पदार्था व्यवस्थाप्यन्ते । स च वाक्यार्थः संसर्ग एव रूपम् आत्मा यस्य स तथा । क्रिया कारकतद्विशेषणसंसर्गो वाक्यार्थः । एतेन च प्रविभागबीजमाह । सर्वथा निरंशे वाक्यार्थे प्रविभजनीयरूपाभावात् । संसर्गे तु युक्तं संसृष्टार्थप्रविभजनम् । अत एव सम्भूता इत्याह । संसर्गावस्थायां सम्भवन्तो विद्यमाना इत्यर्थः । तेन संसृष्टा विद्यमाना अपोद्धर्तुं शक्यन्ते । असतामयःशलाकाकल्पानां च परस्परानन्वयेनापोद्धाराभावात् ।
(3) संवित् संवेदनम् , अपोद्धारबुद्धिस्त्वस्या रूपम् आत्मा । ततो हेतोः अपोद्धृताः पृथक्‌कृताः ।
(4) एतदुक्तं भवति । यद्यपि वाक्यार्थे पदार्थाः कदाचिदपि विवेकेन नावधार्यन्ते तथा च कीदृशः संसर्गः , तस्य भेदपूर्वकत्वादिति, तथापि प्रतिपत्तृभिरनंशस्य युगपत् प्रत्येतुमशक्यात्वात् क्रमेणांशाशिकया संवेदने भेदपूर्वकसंसर्गव्यवहारात् तदभिप्रायेण तयैवापोद्धारबुद्ध्या हि विविच्यन्तेऽर्थाः । तद्यथा पानकद्रव्ये गुडादिमात्रा विवेकशून्या अप्यास्वादयितृभी रासनविज्ञानविवेकेन पृथक्‌कृत्य व्यवह्रियन्ते ।
(5) यदा तु रूपशब्द आकारपर्यायस्तदेयं ल्यब्‌लोपे पञ्चमी । संविदः कल्पनाबुद्धे रूपम् आकारमाश्रित्येर्थः ।
(6) वाक्यार्थस्यानंशस्य झटिति प्रत्येतुमशक्तेरन्तरा पदार्थाकारबुद्धयो विभ्रमास्तत्तदंशाच्छुरिता इति तद्‌बुद्धिनिविष्ट एव त्वाकारो वस्तित्यध्यवसायात् पदार्थत्वेन परिकल्प्यतदे पूर्वकक्ष्यायामुपायभूतायाम् । प्रतिपन्ने तु समस्ते वाक्यार्थे सामान्यमात्रस्य भिन्नस्याभिन्नेन तेन सत्यभूतेन बाधः ।
(7) किमपोद्धारे प्रयोजनमित्याह--शास्त्रे विभक्ता इति । प्रत्यासत्त्या व्याकरणशास्त्र इत्यवगन्तव्यम् । अत्र हि लक्षणवाक्यानामुपायभावेन द्रव्यगुणादयोऽर्था विषयविभागेनोपात्ता इति वाक्यार्थादपोद्धार एतत् प्रयोजनं लक्षणं यथाविभागं नियतविषयमवतिष्ठतामिति ।
(8) तथा हि-उपलक्षणत्वेनार्थानामङ्गभावः शास्त्रे समाम्नातो न विधेयत्वेन, "अर्थानादेशनात्" (M.Bha. on P 2.1.1.)
इति लोकप्रसिद्धमर्थमनूद्य स्वरादिसंस्कारायोपदेशः ।
(9) प्रकृतिप्रत्ययार्थवत् इति । प्रकृतिप्रत्यययोर्नामाख्यातपदविषययोः स्वार्थोऽत्र काल्पनिकः । तेन यथा निरंशात् पदार्थात् प्रकृत्यर्थः प्रत्ययार्थश्चापोद्धारबुद्ध्यान्वयव्यतिरेकाभ्यां पदवादिभिरपोद्‌ध्रियते तथा वाक्यावादिमिरखण्डाद् वाक्यार्थात् पदार्थ इत्युभयत्राप्यपोद्धारः समान इत्यर्थः ।
(10) निमित्तभूता इति । यतस्तेषां निमित्तभावः शब्दसाधुत्वविषयोऽतो विभक्ता इत्यर्थः । ते चार्था द्विविधाः । लोकप्रसिद्धाः वैशेषिकादिशास्त्रपरिभाषिताश्च । तत्र लोकप्रसिद्धाः पशुरपत्यं देवतेत्यादयः । ते चेह प्रसिद्धत्वादेव न परिभाष्यन्ते । ये तु शास्त्रान्तरे परिभाषितास्ते स्वनिकायव्यवस्थया लक्ष्यन्त इत्याह ।
(11) केचित् एव शास्त्रादनुमितात्मका इति । शास्त्रादस्मादेव प्रत्यासत्तेः व्याकरणाख्यान्न वैशेषिकादेः । अनुमानेनाधिगत आत्मा स्वभावो लक्षणं येषामित्यर्थः । तथा ह्येकशेषारम्माद् भेद्यत्वं द्रव्यलक्षणमनुमितम् । द्रव्याणां प्राधान्येन वाच्यत्वे शब्दभेदप्रसक्तेस्तदारंभस्यार्थवत्त्वात् ।
"यस्य गुणस्य हि भावाद् द्रव्ये शब्दनिवेशस्तदभिधाने त्वतलौ"
(Va.P.5.1.119)
इति वाक्यकारवचनाद् आश्रितत्वं गुणलक्षणमनुमितम् ।
(12) जातिरपि भावप्रत्ययाभिधेयेति गुणोऽसावेवमुपपद्यते । तथा
"वोतो गुणवचनात्" (P.4.1.44)
इति गुणमुक्तवान् गुणवचन इति गुणस्य भूतपूर्वत्वेन द्रव्ये प्रत्याय्येऽभिधानं विशेषणत्वे सति कल्पते ।
(13) कालस्यापि क्रियात्मकत्वलक्षणं भूते वर्तमाने भविष्यतीति चैषां धात्वर्थोपाधित्वेन विज्ञायते ।
(14) संख्यायाश्च भेदगणनात्मकत्वं
"जात्याख्यायामेकस्मिन्" (P.1.2.58)
इति वचनादवसीयते । वैशेषिकप्रसिद्धाया गुणत्वेन द्रव्यप्रतिनियमात् स्त्रियां पुंसि नपुंसक इति सामान्येन शब्दान्वाख्यानेऽर्थस्याङ्गभावापादनात् संस्त्यानप्रसवस्थितयो लिङ्गलक्षणमनुमीयते । न हि खट्‌वादीनां लौकिकं स्त्रीत्वं शाण्टकादीनां च पुंस्त्वं कुण्डादीनां च नपुंसकत्वं सम्भवति ।
(15) शक्तिः साधनं न द्रव्यमिति शेषव्यवहारात्, कर्मकर्तृत्वोपगमात्, विभक्‌त्यर्थेऽव्ययीभाववचनाच्चानुमीयते । द्रव्यस्य ह्येकस्वभावात्वात् साधनत्वे शेषभावः कर्मकर्तृभावश्च नोपपद्यते । विभक्‌त्यर्थे च द्रव्यस्यैव वृत्तेरधिस्त्रीति स्त्रीशब्दप्रयोगाभावात् कस्य केन समासः ।
(16) उपसर्गाच्छन्दसि धात्वर्थ इति चार्थग्रहणं लिङ्गसंख्यावतो द्रव्यस्य प्रतिपत्त्यर्थं तस्यासाधनत्वमावेदयते । अन्यथा साधन इत्येवोच्येत किमनेन धातुकृतोऽर्तो धात्वर्थ इति ।
(17) पुरुषोपग्रहयोस्तु पूर्वाचार्यव्यवहारादेव लक्षणप्रसिद्धिः ।
(18) दिक्‌क्रिये तु लोकप्रसिद्धे एव शास्त्रेऽपि पूर्वादीनां व्यवस्थायामिति विशेषणात्पदार्थोपाधित्वं तल्लक्षणमनुमीयते ।
(19) क्रियापि भूवादिवार्तिके भाष्ये पूर्वापरीभूता साध्यस्वभावानुमानगम्या लक्षिता ।
(20) पदार्था इति । यद्यपि संसृष्टानामेव सर्वथा भावस्तथाप्यपोद्धृताः । अथैकैकस्य पदस्य गुणप्रधानभूता बहवोऽर्थाः । तद्यथाख्यातस्य क्रियाकालसाधनसंख्यापुरुषोपग्रहाः, नामपदस्यापि द्रव्यलिङ्गसंख्यासाधनानि क्रिया काल इत्यादि ।
(21) पदवाच्यत्वेन वा पदार्थतोपपत्तिः । केवलानां पचत्यादिपदवाच्यत्वाभावात् ।
(22) `यथागमम्' इति । यादृशो वैयाकरणानामागमस्तमनुल्लंघ्य । व्याख्यातॄणामुपदेशपारम्पर्यानतिक्रमेण यस्य पदार्थस्य यस्मिन्नन्वाख्यानेऽङ्गभावः स कथ्यत इत्यर्थः ।। 1,2 ।।
(23) तत्र गुणादीनां द्रव्यपरतन्त्रत्वात् प्रथमं तदाश्रयं द्रव्यं लक्षयति ।
वस्तूपलक्षणं यत्र सर्वनाम प्रयुज्यते ।
द्रव्यामित्युच्यते सोऽर्थो भेद्यत्वेन विवक्षितः ।। 3 ।।
(24) इह सर्वनाम्नां द्वयी गतिः । वस्तुमात्राभिधायिनः केचिद् यथा सर्वादयः । विशिष्टवस्तुवाचकाश्चान्ये यथान्तरादयः ।
(25) तत्र पूर्वैर्द्रव्यं लक्ष्यते । तथा हि-इदं तदिति सर्वनामप्रत्यवमर्शयोग्यं द्रव्यम् । इदमिति प्रत्यक्षार्थवाचकम्, तदिति प्रमाणान्तरावगतपरोक्षार्थाभिधानम्, तेन प्रत्यक्षपरोक्षार्थाकारपरामर्शेन वस्तुमात्रवाचित्वमिदंतदोरुपादानेन सर्वनाम्नामुक्तं भवति । तथा च प्रत्यक्षपरोक्षाकारभेदवधीरणेन वस्तुमात्रं तद्वाच्यं द्रव्यं लक्षितं भवति ।
(26) प्रतिपिण्डं ह्यपरिमितस्वभावो द्रव्याणामशक्यो लक्षयितुमिति सर्वद्र्वयसाधारणलक्षणमेवमुच्यते, वस्तुरूपतायाः सर्वत्र भावात् । एतदेवं निरुक्तकारेणायुक्तम् ।
"अद इति यत् प्रतीयते तद् द्रव्यम्"
इति ।
(27) द्वितीयमपि विशेषलक्षणमाह-भेद्यत्वेन विवक्षित इति । सामान्यादिभिरुपाधिभिरवच्छेद्यत्वेन विशेष्यत्वेन वक्तुमभिप्रेतमित्यर्थः । विवक्षितग्रहणेन न वस्त्वर्थस्येदं लक्षणमपि तु शब्दार्थस्येत्याह । तथा च जात्यादिरपि विशेष्यत्वेन चेद् विवक्षितस्तदा द्रव्यमिति तीर्थान्तरीयद्रव्यलक्षणानादरात् व्याडिदर्शनेन सार्वत्रिकी द्रव्यपदार्थव्यवस्था सिद्धयति ।
(28) यथा वाजप्यायनदर्शने जातिरन्वितप्रत्ययनिमित्तं सर्वशब्दानामर्थः । क्रियास्वप्यन्वितावभासप्रत्ययान्यथानुपपत्त्या जातिसिद्धिः । कथमन्यथा प्रत्यवस्थं पचतीत्यभिन्नः प्रत्ययः स्यात् । विक्लेदस्यैव पचत्यर्थत्वेऽधिश्रयणादीनां सामर्थ्यगम्यत्वे शब्दार्थत्वाभावात् देवदत्तस्य कर्तृत्वं न स्यात् । न हि तद्‌व्यापारोऽधिश्रयणादिर्धातुवाच्यः ।
(29) सामर्थ्यगम्ये च लकारवाच्यस्य कर्तुर्व्यापारे समन्वयाभावः । इत्थं च विक्लित्तेरेव धातुवाच्यत्वात्तत्रौदनः कर्मकर्तृवत् कर्ता स्यात्, न कदाचिदपि कर्म । स चापि विक्लेदोऽत्यक्षमरूपोऽक्रमो न पचिः, आश्रितपौर्वापर्यस्यैवार्थस्य क्रियात्वात् । इत्थमधिश्रयणादिरपि तत्रानुप्रविशत्येव । तावन्मात्रेऽपि च पचतीति प्रत्ययोत्पत्तेरिति प्रतिक्षणमभिन्नप्रत्ययावसेया क्रियाजातिरङ्गीकार्या ।
(30) एवं भ्रम्यादिक्रियाक्षणव्यङ्ग्या भ्रमणत्वादिजातिरपि ग्राह्या । तत्राप्युपक्रम एव विशेष्टेच्छादिकारणजन्यकर्मक्षणवैलक्षण्यात् सादृश्याद् दुरवधारान्नियतसामान्याभिव्यक्तेः । तथा हि-कमवतामपि क्षणानां स्पष्टास्पष्टत्वेन जातेरभिव्यंजकत्वम् । व्यक्तिद्वारकश्च साधनसंबन्धः, तस्याः साध्यत्वाज्जातेर्नित्यत्वेऽपि, यथा जातेर्दोहाभावे व्यक्तिद्वारकः क्रियासंबन्धो गौर्दुह्यतामिति ।
(31) अस्तिक्रियायाश्च साधनभेदात् कालभेदाच्च भेदेऽभिन्नप्रत्ययनिमित्तमपरं सामान्यं न विरुध्यते । नित्यत्वेऽपि च सामान्यस्य व्यक्तिनिष्पत्तौ फलदानसामर्थ्यमिति यजेतेति व्यक्तिनिष्पादनार्ता चोदनार्थवती । विनश्यत्यपक्षीयत इत्यत्र तिरोधानमपक्षयश्च क्रियाजातेराश्रयोऽस्तु, तथैव शब्देनावसीयमानत्वात् । शब्दार्थस्य चेहार्थत्वात् । शिष्टं क्रियाजातिसमर्थनं पूर्वमेव विहितमित्येवं द्रव्यपदार्थस्यापि सार्वत्रिकी व्यवस्थास्मिन् द्रव्यलक्षणे सत्युपपद्यते ।
(32) तथा ह्याख्यातस्यापि द्रव्यमेव साधनस्वभावं वाच्यम् । क्रियाप्राधान्येऽपि गुणभूतस्य तस्य वाच्यत्वोपगमात् । अन्यथा किमपेक्षं प्राधान्यं स्यात् । तथा च व्यापाराविष्टं तदेव प्राधान्येन वाच्यमस्तु । दर्शनान्तरेऽपि हि न सर्वथा गुणभूतत्वेन तिरोभावोऽस्य वृत्ताविवोपसर्जनपदार्थस्य, देवदत्तः पचतीति सामानाधिकरण्याभावप्रसङ्गादिति परं प्राधान्यमेव सामानाधिकरण्यान्यथानुपपत्त्यास्तु । सर्वनामप्रत्यवमर्शयोग्यत्वं त्वयं पचतीति एवं दृश्यत एव । भेद्यत्वमपि साधुत्वादिस्वविशेषणापेक्षया समस्त्येव । लक्षणानां च साम्प्रतिकव्यापारानपेक्षणात् भेदयोग्यता भेद्यत्वमत्र । एवमास्यते स्थीयते इति किमादिभिः परामर्शात् सुखमित्येवमादिभिश्च विशेष्यत्वाद् द्रव्यत्वमित्याख्यातार्थोऽपि व्याडिदर्शने द्रव्यम् ।
(33) ननु च क्रियारूपस्यैव भाव्यमानस्य प्रतीतेर्निष्पन्नानिष्पन्नयोश्च विरोधाद्भावनावचनास्तिङः. अर्थसामर्थ्याद् द्रव्यप्रतिपत्तिः सामर्थ्यलभ्या, न शब्दार्थ इति मीमांसकाः । असदेतत् । अन्वयव्यतिरेकाभ्यां धातोरेव भावनावचनत्वात् । प्रत्ययस्य च साधनाभिधायित्वात्, साध्यसाधनभावेन सिद्धासिद्धयोरप्यस्ति समन्वयः । तथा च प्रकृतिप्रत्ययोः समभिव्याहारः । अन्यथा सामर्थ्यलभ्य इति वैयाकरणानां साधनाभिधानं पर्यवसितविवादमेव । साधनं च शक्तं द्रव्यं न केवला शक्तिरिति द्रव्यार्थता सिद्धा ।
(34) चादयोऽपि द्रव्यक्रियात्मभूतसमुच्चयादिद्योतनाद् द्रव्यवचनाः क्रियावचना वा । तेन तदर्थस्यापि तथैव व्यक्‌त्याकृतिविकल्पः । गुणा अपि सामान्यविशिष्टा उच्यमाना द्रव्यं पदार्थ इत्येकशेषं रूपादयो भजन्ते । तथा समानाधिकरणेन समानेन द्रव्येणेति व्याख्यायमाने गुणेनापि समासो भवति सर्वगन्ध एकरस इति ।
(35) नन्वेवं
`विप्रतिषिद्धं चानधिकरणवाचि।' (P.2.4.13.)
इत्यत्राप्यधिकरणं द्रव्यमिति शीतोष्णं सुखदुःखमित्येकवद्भावः कथमुदाहृतः । शीतादीनामनेन लक्षणेन द्रव्यवचनत्वादनधिकरणवाचीति पर्युदासप्राप्तेः ।
(36) अत्रोच्यते । सुबन्तावयवस्य द्वन्द्वस्यैरवद्भावविधानात् सुबन्तस्य च सर्वस्य जात्युपहितद्रव्यपचनत्वेनानधिकरणवाचीति प्रतिषेधः सार्वत्रिकः स्यादिति विधेर्निर्विषयत्वमायातमिति विधिसामर्थ्यात् प्रतिषेधः प्रसिद्धद्रव्यविषयो विज्ञायते शीतोष्णे उदके इति । प्रसिद्धं हि लोके क्रियावद् गुणवद् समवायिकारणं द्रव्यमिति तद्वाच्येव पर्युदस्यते । तथा च शीतोष्णादेरुकादिद्रव्यवाचित्वे न भवत्येकवद्भावः । शैत्यादिगुणवाचित्व एव भवति ।
(37) एवं समर्थवार्तिके
`अथ हि गुणः पदार्थः भवति तदा सामर्थ्यम् ।
`अन्यो हि वीरत्वं गुणः अन्यो हि पुरुषत्वम् ।।'
(M.Bh. on Va on P.2.1.1.)
इति वीरशब्दस्यानेन लक्षणेन द्रव्याभिधायित्वेऽपि द्रव्योपसर्जनभूतस्य परतन्त्रस्य स्वार्थस्य सामर्थ्यविषयस्याभिधानात् संसर्ग्यादिलक्षणलक्षितगुणाश्रयेणाभिधानम् ।
(38) तथा हि पुरुषत्वमप्येवमेव । तत्र गुणमाह । लौकिकप्रक्रियया जातिरूपमपि तस्य भाव इत्यत्राभिप्रायादावतिप्रसङ्गपरिहारार्थं
`यस्य गुणस्य हि भावाद् द्रव्ये शब्दनिवेशः'
इत्युक्ते द्रव्यगुणयोरव्यतिरेकं मन्यमानः प्रकृतिप्रत्ययार्थयोर्भेदं नावगच्छेदित्यन्यच्छब्दादिभ्यो द्रव्यमित्युक्तमिति नास्माद्भाष्यादेतल्लक्षणेन शब्दादयो द्रव्यं न भवतीति भ्रमितव्यम् । तथा ह्यस्मिन् द्रव्यसक्षणे रूपादीनामपि द्रव्यत्वादद्रव्यप्रकर्ष इत्यामुप्रत्ययाभावः समयातरं शीतम्, उपांशुतरः शब्दः, उच्चैस्तरो ध्वनिरिति ।
इति भूतिराजतनयहेलाराजकृतौ
प्रकीर्णकप्रकाशे भूयोद्रव्यसमुद्देशश्चतुर्थः ।।
-----------

३,५ः गुणसमुदेशः

सम्पाद्यताम्

(1) इदानीं गुणस्य शास्त्रीयलिङ्गानुमितं लक्षणमाह--
संसर्गि भेदकं यद् यत् सव्यापारं प्रतीयते ।
गुणत्वं परतन्त्रत्वात्तस्य शास्त्र उदाहृतम् ।। 1 ।।
संसर्गि आधारेण संसृष्टम्, रूपसम्भेदेन वर्तमानम्, न संबन्धामात्रेण । अत एवाश्रयान्तरावच्छेदमाधारस्य करोति शुक्लोऽयं (न) नील इति । एवं गौरयं नाश्य इत्यत्राश्रयान्तराद्यवच्छदे गोत्वमपि गुणो भवति । तथा यद्यद् इति वीप्सापदेन सर्वस्यैवंप्रकारस्य सामान्यादेरपि गुणत्वमिति परिभाषां कथयन्, नेदं वस्तुरूपावस्थितमिति सूचयति । अनेन चावच्छेद्याद् द्रव्यादवच्छेदकत्वेन गुणस्य विशेषमाह । सव्यापारम्, अवच्छेदकरूपेण प्रतीयमानं गुणव्यपदेश्यं न रूपान्तरेणेत्यर्थः । यदेवंविधं तस्य गुणत्वमिति संबन्धः ।
(2) ननु किमयं परिभाषैव गुण इति, अथ निबन्धनमत्रास्तीत्याह `परतन्त्रत्वात्' इति । लोके हि परतन्त्रो गुण इत्याच्यते इति प्रतीतिरियं न परिभाषामात्रमित्यर्थः । तथा च लौकिकस्यैवायं लक्षणस्य वैशेषिकप्रसिद्ध्यपाकरणायानुवाद इत्युक्तं भवति । इत्थं च वीप्सा सफला । `शास्त्र उदाहृतम्' इति । व्याकरणेऽन्वाख्यानवाक्याङ्गं लौकिक एव गुणो गृहीत इत्यर्थः । तथाहि समर्थवार्तिके ।
"समानाधिकरणेषूपसंख्यानमसमर्थत्वात्"(Va on P 2.1.1.)
"द्रव्यं पदार्थ इति चेत् ।"(Va. on P.2.1.1.)
इति वीरपुरुषो द्रव्ययोरत्यन्ताभेदात् सामर्थ्याभावे द्रव्यपादार्थपक्षे समासाभावे चोदिते ।
अथ हि गुणः पदार्थो भवति (तदा) सामर्थ्यम् । अन्यो
हि वीरत्वं गुणः, अन्यो हि पुरुषत्वम् । (M.Bha.on Va.above)
इतदि जातेरपि पारतन्त्र्यात् द्रव्ये समवायाद् गुणत्वमुक्तम् । तथा च गुणभेदात् प्रतीयमानं द्रव्यैकत्वाश्रयं सामर्थ्यमिति सिद्धः समासः । तथा
"यस्य गुणस्य भावाद् द्रव्ये शब्दनिवेशः ।"(Va. on P.5.1.119)
इति भदेको गुणो भेद्यं द्रव्यमित्येतदेव लक्षणमनुसृतम् । तथा हि-विशेष्यमात्रवचनाद् विशेषणमात्रवचने गुणे भावप्रत्ययः ।
(3) गोशब्दस्य जात्यवच्छिन्नद्रव्यवाचित्वे जातौ गोत्वमिति जातिमात्रवचनत्वे तु शब्दस्वरूपेऽव्यभिचारिणि प्रवृत्तिनिमित्ते, तस्य च वाच्यत्वं भिन्नत्वं च पूर्वमेवोपपादितम् । स्वरूपेण हि परमुपरञ्जयद्विशेषणम् । यथा जात्यादिगुणः । तथा स्वरूपोवेशेनार्थं प्रत्याययतः शब्दस्य भवति स्वरूपमुपरञ्जकत्वाद्गुणः प्रवृत्तिनिमित्तमर्थे तद्रूपाध्यासेन चार्थप्रतीतिः । अभिधाव्यापाराविष्टस्यैव न वाच्यत्वमपि तु साधारणस्य प्रयोगगतस्य । यथा रक्ते गुणे तत्त्वमित्यादिना च संबन्ध उपपादितः । शुक्लादीनां गुणावच्छिन्नद्रव्यवाचित्वे शुक्लत्वमिति गुणे तत्त्वमित्यादिना च संबन्ध उपपादितः । शुक्लादीनां गुणवच्छिन्नद्रव्यवाचित्वे शुक्लत्वमिति गुणे भावप्रत्ययः । गुणाभिधायित्वे जातौ तद्वाचित्वे पूर्ववत् स्वरूपे । एवं चाद्यायां शब्दप्रवृत्तौ डित्थादीनामपि स्वरूप एव भावप्रत्ययः । स्वरूपाध्यासेन संज्ञायाः संज्ञिप्रत्यायनात् तदेव तत्र प्रवृत्तिनिमित्तम् । तदेतदस्य डित्थत्वमिति तु क्रियागुणाध्यासादन्यत्र प्रवृत्तौ डित्थत्वसहचरुतयोः क्रियागुणयोर्भावप्रत्ययः । तथा क्रियागुणयोरभेदाध्यासाभिप्रायं
`डित्थत्वं त एतत्' (M.Bha. on P.5.1.119)
इति भाष्यम् । यद्वोत्पत्तिप्रभृत्याविनाशात् पिण्डस्यावस्थान्तरेऽपि प्रत्यभिज्ञाप्रत्ययनिमित्तं जातिरेव भावप्रत्ययवाच्या आद्यायां शब्दप्रवृत्तौ । राजपुरुषत्वं पाचकत्वमौपगवत्वमित्यादौ तु संबन्धो यथायथं स्वरूपेणोपरञ्जकं प्रवृत्तिनिमित्तं भावप्रत्ययाभिधेयम् । विशिष्टसंबन्धावच्छिन्नो हि संबन्धी प्रतीयतेऽत्रेति संबन्धस्यैनोपरञ्जकत्वाद् गुणत्वे भावप्रत्ययवाच्यता । न हि राजादिसंबन्ध्यवच्छिन्नः पुरुषादिः प्रतीयते अपि तु तत्संबन्धावच्छिन्नः । भेदस्य चोद्भूतत्वाद्भेदाधिष्ठानः संबन्ध एव प्रवृत्तिनिमित्तमभिहितोऽन्तर्भूतः ।
(4) यत्र तु संबन्ध्यनुरक्ता प्रतीतिः भेदस्य च तिरोधानं तत्र संबन्ध्येव जात्यादि प्रवृत्तिनिमित्तं गुणो गोत्वं शुक्लत्वमित्यादौ भावप्रत्ययवाच्यः । अत्र हि न समवायोपरक्ता प्रतीतिः अपि तु जातिगुणोच्छुरिता द्रव्ये समवायशात्तिरोहितभेदे । संबन्धस्तु जातिगुणयोराधारावच्छेदकः । हस्तित्वमित्यादौ रूढिविषये जातिरेव वाच्या । एवं कुम्भकारत्वमित्यादौ । अत्र हि शब्दव्युत्पत्तिनिबन्धनं संबन्धो जातिरेव शब्दवाच्या । सत्तेत्यत्रापि सत्तासतोः संबन्धस्याव्यभिचारादनवच्छेदकत्वे जातिरेव भावप्रत्ययवाच्या । तदुक्तम्
"समासकृत्तद्धितेषु संबन्धाभिदानमन्यत्र रूढयभिन्नयोगाव्यभिचरितसंबन्धेभ्यः" इति । इत्थमत्र विशेषणं स्वरूपेण परमुपरञ्जयत्सूत्रे भावशब्देन प्रतिपादितम्, भवत्यस्मात्तेनाकारेण द्रव्यमिति भावः । तथा हि गोत्वाद्गवाकारेण द्रव्यं प्रतीयते, शुक्लादिगुणात्तदाकारेणेति, परोपाधिमन्तरेणार्थानामव्यवहार्यत्वेनासत्कल्पत्वात् । ततश्च विशेषणेनाभेदमापादितं शब्दोऽभिधत्त इति शब्दप्रवृत्तिकारणमपि भवत्यर्थरूपसंबन्धि । तेन णेनाभेदमापादितं शब्दोऽभिधत्त इति शब्दप्रवृत्तिकारणमपि भवत्यर्थरूपसंबन्धि । तेन
`यस्य गुणस्य भावात्'(Va. on P. 5.1.119)
इत्यत्र पक्षेऽर्थवाचिनी प्रकृतिः, गोर्भावो गोत्वमिति ।
"यद्वा सर्वे भावाः स्वेन भावेन भवन्ति स तेषां भावः"
(Va.onP.5.1.119)
इत्यत्र तु पक्षे शब्दवाचिनी प्रकृतिः, गोशब्दस्य भावो गोत्वमिति ।
तथा हि सर्वे भावाः सर्वे शब्दाः स्वेन भावेन भवन्त्यस्मादिति व्युत्पत्त्या प्रवृत्तिनिमित्तलक्षणेनार्थेन भवन्ति । अनेकार्थत्वाद्धातूनां भवतेः प्रयोगवचनत्वात्प्रयुज्यन्त इति । स प्रवृत्तिनिमित्तलक्षणो भावस्तेषां शब्दानां प्रत्ययवाच्य इति तच्छब्दवाच्या शब्दात्मिका प्रकृतिरत्र पक्षे भवति । तदेवं गुणलक्षणमत्र शास्त्र उदाह-तम् ।
(5) यत्र त्वस्य गुणस्य न ग्रहणं शास्त्रे तत्र युक्तिर्वक्तव्या । तथा हि ।
"वोतो गुणवचनात्" (P.4.1. 44)
इत्यत्र नायं गुणः, प्रातिपदिकाधिकारात् । स्त्रीत्वस्य च द्रव्यधर्मत्वाद् द्रव्याभिधाय्येव किंचित् प्रातिपदिकं गुणवचनग्रहणाद् गृह्यते । गुणमुक्तवान् गुणवचन इति पट्वादिभ्यो गुणोपसर्जनद्रव्यवचनेभ्यः प्रत्ययः । गुणश्चात्रोपसर्जनभूतो न संसर्ग्यादिलक्षणो जातिशब्देभ्योऽपि प्रसंङ्गादिति परिभाषितोऽसौ गृह्यते
`सत्वे निविशतेऽपैति ।'(M.Bh. on P.4.1.44)
इत्यादिः । नन्वेवं वैशेषिकप्रणीतस्यैव गुणस्य ग्रहणं स्यादिति पट्‌वी मृद्वीत्यादावीकारो न स्यात् । नैष दोषः । पाटवादीनामप्यस्य लक्षणस्य सम्भवात्, एतदर्थमेव हीयं परिभाषाऽऽरब्धा । अन्यथा प्रतीतिबलादेव रूपादीनां गुणत्वमितीयमनर्थिका स्यात् ।
"गिणवचनब्राह्मणादिभ्यः" (P.5.1.124)
इत्यत्रापि पारिभाषिक एव गुणो गृह्यते । तथा हि वाक्यकारेण
अर्थवत् प्रातिपदिकम् । (Va. on P.1.4.1)
गुणवचनं च । (Va. on P.1.41)
इति प्रातिपदिकमात्रस्य गुणवचनसंज्ञारब्धा । यद्येवं प्रातिपदिकाधिकारादेव सिद्धे किमर्थं गुणवचनम् । ब्राह्मणादिग्रहणं चानर्थकम् । उच्यते । प्रातिपदिकाधिकारादप्रसक्ते गुणवचनसंज्ञानामेव यथा स्यादिति विधानम् । गुणवचनसंज्ञाया हि बाधिकाः
"समासकृत्तद्धिताऽव्ययसर्वनामाऽसर्वलिङ्गा जातिः ।"
(Va.on P.1.4.1)
इति च समासादिसंज्ञा समारब्धाः ।
(6) तथा च समासाविवक्तं प्रातिपदिकं ष्यञमुत्पादयति । अत एव च ब्राह्मणादिग्रहणमप्युपपद्यते । ब्राह्मणशब्दस्य तद्धितान्तत्वाद् गुणवचनसंज्ञाभावात् । माणवशब्दोऽपि तद्धितान्तो मनोरपत्यमिति । तथा वाडवशब्दोऽपि
`वडवाया वृषे वाच्ये'(Va. on P.4.1.120)
इति ।
`अर्हतो नुम् च' (Va. on P.5.1.124)
इति तु कृत्संज्ञकः । एवमन्यदपि ब्राह्मणादिगणे गुणवचनसंज्ञाबाधकं योज्यमिति । तत्रापि ष्यञ् यथा स्यादिति ब्राह्मणादिग्रहणम् । ये च ष्यञो बाधकाः प्रत्ययास्तानपि बाधित्वा ष्यञ् यथा स्यादित्यपि ब्राह्मणादिग्रहणमुपपद्यते । तथा हि ब्राह्मणशब्दस्याव्युत्पत्तिपक्षे
`प्राणभृज्जाति...' (P.5.1.129)
इत्यञ् प्राप्तः । माणववाडवयोर्गोत्रत्वात्
`गोत्रचरणात्....' (P.4 3.126)
इति वुञ् प्राप्नोतीत्येवमन्यत्राप्यूह्यम् । येषां तु न तद्धितादिसंज्ञा नापि कश्चिदपवादः प्राप्नोति तेषामत्र प्रपञ्चार्थः पाठः ।
(7) सूत्रकारमते तु गुणमुक्तवान् गुणवचन इति गुणोपसर्जनद्रव्यवचनो वचनग्रहणादत्र गृह्यते ।
`तृतीया तत्कृतार्थेन गुणवचनेन'(झ.2.1.30)
इत्यत्रापि खण्डादिस्तृतीयान्तार्थकृतः कश्चिदेव गुणोपसर्जनो द्रव्यविशेषो गृह्यते । खण्डनगुणयोगाद्धि द्रव्यं खण्डशब्दवाच्यम् ।
`संख्याया गुणस्य निमाने...'(P.5.2.47)
इत्यत्र समभागो गुणो ग्राह्यः । न यथोक्तलक्षणः, नापि
`सत्त्वे निविशते...' (M. Bha. on P.4.1.44)
इत्यादिलक्षणः । द्विमयमुदश्विदिति द्वौ समौ भागौ यवानां निमानमेकस्योदश्वितः क्रीयमाणस्येत्यर्थः । सापेक्षत्वेऽपि गमकत्वाद् वृत्तिः । दृष्टश्च समावयववचनो गुणशब्दः, यथा त्रिगुणा रज्जुरिति ।
`गुणवचनेभ्यो मतुपो लुक्'(Va.on P.5.2.94)
इत्यत्र येऽभिन्नरूपा गुणमभिधाय तद्वति वर्तन्ते शब्दशक्तिस्वाभाव्यात् ते गृह्यन्ते शुक्लादयः । तथा च
`अव्यतिरेकात् सिद्धम्' (Va. on P.5.2.94)
इति प्रत्याख्यानमभेदोपचारयोग्यताश्रयेण । तेन रूपादयस्तदयोग्या निवर्तिता भवन्तीति मत्वर्थीयान्ता एव तद्वति ते साधवो रूपवान् घट इत्यादि ।
(8) `प्रकारे गुणवचनस्य'(P.8.1.12)
इत्यत्र सर्वस्यैव पदस्य द्विर्वचनमिति स्वतन्त्रं गुणोपसर्जनं द्रव्यं पट्वादि गृह्यते ।
`पूरणगुण....'(P.2.2.11)
इत्यत्र गुणशब्देनार्थग्रहणाभिसंबन्धादेतेषां तावत् प्रत्यायनं नास्ति । आश्रितमात्रस्यापि धर्मस्य संसर्ग्यादिलक्षणस्य परिग्रहे द्रव्यसामर्थ्याद्यसिद्धिः । तस्मात् `सत्त्वे निविशते....'(M.Bha. on P.4.1.44)
इत्यादिलक्षणो गुणो गृह्यते । स च वैशेषिकशास्त्रप्रसिद्धः । तथा हि--पार्थिवानां रूपादीनामग्निसंयोगादुपजनापायौ द्रव्ये स्तः । कालाकाशात्मसु परममगत्त्वादीनां चाक्रियाजन्यत्वमपीति व्याप्यते तेन लक्षणेन गुणपदार्थः । तथा च रूपादिभिरपि प्रतिषेधप्राप्तौ
"तत्स्थेश्च गुणैः " (Va on P.2.2.8)
माणार्थगतत्वेनासम्भवाद्युक्तं यत्प्रतीयमानक्रियागुणनिमित्तत्त्वम् । समासस्त्वीषत्पिङ्गल इत्यादौ सावकाश इति कथमत्र प्रसजेत् । यदपि भाष्यम्--
`आकृतेतिह्युच्यमाने...इह न स्यात् समासः ईषक्तडारः इति'
(M. Bh. on P.2.2.7)
तदपि कथम् । यावता नैवात्र क्रियाकारकसंबन्धः प्रतीयत इत्यव्युत्पन्न एवायम् । केवलं स्वरर्णानुपूर्वीज्ञापनाय
`गडेः कड च'
इत्येवमसत्येव व्यत्पत्तिराश्रिता । तस्मात्सूत्रार्थदर्शनपरत्वेनेवनैतद् भाष्यं व्याख्येयम् । गुणवचनत्वादत्र समास इति ।
`अजादी गुणवचादेव' (P.5.3.58)
इत्यत्र
`सत्त्वे निविशते'
इत्येवंलक्षणो गुणो गृह्यते न तु संसर्ग्यादिलक्षणः । एवं हि सर्वस्य प्रातिपदिकस्योपाधिविशिष्टार्थाभिधायकत्वात् प्रातिपदिकमात्रात् प्रत्यये गुणवचनग्रहणमनर्थकं स्यात् ।
(11) `नञो गुणप्रतिषेधे सम्पाद्यर्हहितालमर्थास्तद्धिताः' (P.6.2.155) इत्यत्र संसर्ग्यादिरूप एव गुण आश्रीयते । तथा हि--नञ उत्तराणि सम्पाद्यर्हाद्यर्थतद्धितप्रत्ययान्तानि गुणप्रतिषेधेऽन्तोदात्तानि भवन्तीति सूत्रार्थः । अत्र प्रतिषेध भाजश्चत्वारः--प्रकृत्यर्थः, प्रत्ययार्थः, तदुपाधिः , संबन्धो वाक्यार्थरूप इति । तत्र गुणप्रतिषेध इति वचनादकार्णवेष्टककं मुखमित्यत्र न कर्णवेष्टकादन्यदाश्रीयते, नापि तदभावः । किं तर्हि। कर्णवेष्टकाभ्यां न सम्पद्यते मुखमिति यासो मुखस्य संम्पद्यमानस्याच्छेदिका सम्पत्तिरुपसर्जनमुपाधिभूता सा प्रतिषिध्यते । तदा च प्रकृत्या कर्ण वेष्टकशब्देन नञोऽसंबन्धादसमर्थसमासोऽस्मादेव ज्ञापकादवसेयः । सत्यपि च प्रतिषेध आद्यविधिपदोपात्तार्थनिबन्धनत्वात्तद्धितो भवत्येव । उत्तरकालं तु पदान्तरेण नञ प्रतिषेधो बहिरङ्गो न बाधकः शब्दसंस्कारस्यान्तरङ्गस्य । तथा च ग्रामं न गच्छतीत्यादो क्रियाप्रतिषेधेऽपि कर्मादौ द्वितीयादयो भवन्त्येव । वाक्यार्थस्य कर्णवेष्टकाभ्यां सम्पद्यते मुखमित्येवंरूपस्य प्रतिषेधो नञा क्रियते इत्यन्ये । वाक्यार्थश्च सामान्ये वर्तमानानां पदानां विशेषेऽवस्थापकः संबन्धः । स च पदार्थावच्छेदकत्वादुपसर्जनं गुण इत्युच्यते । संबन्धे च निर्वर्तमाने प्रकृतिप्रत्ययार्थयोरपि संबन्धिनोऋ निवृत्तिप्रतीतिः । अत्रापि पक्षे प्रकृत्यर्थासंबन्धे नञोऽसमर्थसमासोऽस्मादेव ज्ञापकाद्विज्ञेयः । असामर्थ्यं च प्रकृतेः प्रत्ययार्थसापेक्षतया । सापेक्षस्यासामर्थ्यात् । प्रत्ययार्थसंबन्धे तु न दोषः । प्रधानं हि तदा प्रत्ययार्थः । प्रधानस्य सापेक्षस्यापि भवत्येव वृत्तिः ।
(12) अन्ये त्वाहुः । प्रकृत्यर्थोऽत्र प्रत्ययार्थं प्रत्युपसर्जनत्वाद् गुण इति भाष्यकारमतमुन्नीयते । तथा हि--
`न नञ्‌पूर्वात्तत्पुरुषात्....' (P.5.1.121)
इत्यत्र भाष्यकारेणोक्तम्--
`आचार्यप्रवृत्तिर्ज्ञापयति सर्व एव तद्धितः सापेक्षाद्भवतीति यदयं
नञो गुणप्रतिषेधे सम्पाद्यर्हेत्यादिकमाह'
इति । तथा हि --न पृथोर्भावोऽपार्थिवमप्रथिमेति प्रकृत्यर्थः प्रतिषिध्यते नञा । तथा चासामर्थ्यात् तद्धितौ नैव स्यात्
`समर्थानां प्रथमाद्वा'(P.4.1.82)
इति वचनात् । अतो ज्ञापकेनायमर्थ उक्तः । तत्र च यथा प्रतिषिद्धस्य पृथोर्भावः, पृथोर्वान्यस्य भावः इत्ययमर्थस्तथा प्रतिषिद्धाभ्यां कर्णवेष्टकाभ्यां संपादि मुखं ततो वान्येन संपादीत्येवं प्रकृत्यर्थेन नञः संबन्धादिमवसीयते प्रकृत्यर्थो गुणत्वेन भाष्यकारस्याभिमत इति । एतत्तु न युक्तम् । प्रधानाप्रधानसन्निधौ प्रधान एव कार्ययोग इति सम्पद्यामानार्थविषयः प्रतिषेधः सम्पत्तेर्युक्तो नाप्रधाने प्रकृत्यर्थे । एकपदोपात्तश्चार्थोऽन्तरङ्गः संसर्गीभवत्यतोऽपि सम्पत्तिरेव गुणो युक्तो न पदान्तरोपात्तः प्रकृत्यर्थो विप्रकृष्टः । ज्ञापकं च न्यायानुवर्तनं न कारकम् । नञश्च प्रधानार्थेनाभिसंबन्धे प्रकृत्या न स्यात् समासोऽसामर्थ्यादिति ज्ञापकेन प्रकृतेराश्रितसमासायाः प्रत्ययो ज्ञापितो भाष्यकारेण । तदेवं पूर्वप्रदर्शित एव सूत्रार्थो युक्तः । अभैदिकमित्यर्हार्थतद्धितोऽत्रोदाहार्यः । अवसीय इति हितार्थे । असाम्परायिकमित्यलमर्थे सम्परायाय प्रभवतीति तद्धितः । अनया दिशान्यत्रापि गुणप्रदेशे यथाभाष्यं सूत्रवार्तिकेषु गुणस्वरूपं व्याख्येयम् । दिङ्मात्रमिह प्रदर्शितम् ।। 1 ।।
(13) अतिशायनसूत्रे भाष्यम्--
`प्रातिपदिकार्थो वै द्रव्यम्, न च द्रव्यस्य प्रकर्षापकर्षौ स्तः । एवं तर्हि गुणः प्रातिपदिकार्थः । ननु च द्वयमपि प्रकृत्यर्थः । तत्र कुत एतत्, गुणस्य प्रकर्ष इति ।
तत्रैतदुक्तम्--
`यस्यास्ति प्रकर्षस्तत्प्रकर्षे भविष्यति'(M.Bh. on P.5.3.55)
इति ।
`उभयं वै प्रातिपदिकार्थः'
इत्येतल्लिङ्गं संसर्ग्यादिलक्षणो गुणो गृह्यत इति । स हि द्रव्योपसर्जनभूतः शुक्लादिप्रातिपदिकेन प्रत्याय्यते । तत्र च गुणस्यैव प्रकर्षोऽस्ति न द्रव्यस्येत्यत्र कारणं वक्तव्यम् । शब्देन निष्पन्नरूपस्य द्रव्यवद् गुणस्यापि प्रतिपादनात् कारणायत्तुगुणवत् कार्यद्रव्यमपि कथं न प्रकृष्येत । तथा गुणः प्रतीयमानः कश्चिदभिधीयमानोऽन्यः । तत्राभिधीयमानगुणापेक्ष एव द्रव्यस्य प्रकर्ष इत्यत्रापि कारणं वक्तव्यम् । एकस्मिन्नप्यर्थे बहुतरोपाधीनां सम्भवान्नियमेनैकस्योपादानमयुक्तम् । सर्वत्र द्रव्यातिशायनास्पदं स गुणः सन्निधीयत इत्येतत् कथम् । न हि गुणपरो गुणो निर्गुणा गुणा इति वचनात् । सामान्येषु चावच्छेदको नास्ति । निःसामान्यानीति सिद्धान्तात् । तथा कर्मादिष्वपि नास्ति गुण इति तत्र किंनिबन्धनः प्रकर्षो भवेत् । कथं चान्यस्मिन् प्रककृष्यमाणेऽन्यस्य प्रकर्षो युक्त इत्येतदपि वक्तव्यम् । न ह्यर्जुनशौर्येण चैत्रस्तथा । द्रव्यं च प्रकृष्यमाणं लोकः प्रत्येति शब्दात् । इत्येतान् विकल्पान् क्मेण निवारयितुमाह--
द्रव्यस्याव्यपदेशस्य य उपदीयते गुणः ।
भेदको व्यपदेशाय तत्प्रकर्षोऽभिधीयते ।। 2 ।।
(14) इहोपाधिविवेकेन निरूपयितुमेव न पार्यते द्रव्यम् । न हि सामान्यादिपदार्थं विनाध्यक्षयितुमिदन्तया शक्यते । यच्च स्वेन रूपेम निरूपयितुमपि न शक्यते तत् कथं स्वतः प्रकर्षेण युज्येत । अतः `अव्यपदेशस्य' इति सामानाधिकरण्यच्छलेन हेतुरुपात्तः । तदित्थं संसर्गिधर्मान्तरनिमित्तः प्रकर्षः । गुणादिभिरेव संसर्गिभिर्विशेष्यमाणं द्रव्यं सजातीयात् प्रकृष्यते । तत्र संसर्गिणो गुणादथो बहवः सन्निहिता इति किङ्कृतोऽतिशय इत्याह--`य उपादीयते गुणो भेदको व्यपदेशाय' इति। द्रव्यं व्यपदेष्टुं व्यवच्छेदकोऽन्यस्माद्यो गुण उपादीयते , शब्देन गृह्यते तत्कृतः प्रकर्षः प्रत्ययवाच्यः । न त्वनभिधीयमानापरसन्नियमकारणाभावात् प्रतीतेरुपप्लवमानत्वाद् बहिरङ्गत्वात् । अभिधीयमानस्तु गुणोऽन्तरङ्गो नियतप्रतीतिः । यदावेशेन हि द्रव्यमभिधीयते तदात्मन एवातिशय्यमानता न्याय्या । प्रकृत्यर्थोपाधित्वादतिशयस्य, अभिधीयमानस्यैव च प्रकृंत्यर्थत्वात् । `गुणो भेदकः' इति स्वशास्त्रलक्षितं गुणरूपमत्र गृह्यते इत्याह । संसर्गि भेदकं यद् यद् इति हि लक्षणम् । भेदकत्वं चात्र मुख्यं गुणवक्षणम् । ्समवेतस्यापि दण्डस्य दण्डिनि गुणत्वाद्, अदण्डिव्यवच्छेदेन । तदेवं शुक्लतरः पट इति शुक्लगुणनिमित्तो द्रव्यप्रकर्षो न गरिमीदिप्रतीयमानगुणनिमित्तः ।। 2।।
यथा च निरुपाधिनो द्रव्यस्य प्रकर्षो नास्ति तथा द्रव्यान्निष्कृष्टस्य स्वतन्त्रस्य गुणस्यापि शुक्लतरं रूपतरं रूपमिति स्वतः प्रकर्षो नास्ति, अपि तु तदवस्थायां द्रव्यायमाणत्वाद् गुणस्यापरसंसर्गिधर्मान्तरनिमित्त एव प्रकर्ष इत्याह--
सर्वस्यैव प्रधानस्य न विना भेदहेतुना ।
प्रकर्षो विद्यते नापि शब्दस्योपैति वाच्यताम् ।। 3 ।।
(15) गुणोऽपि प्राधान्येन शब्देनाभिधीयमानो द्रव्यलक्षममिदं तदिति सर्वनामप्रत्यवमर्शयोग्यस्वभावमनुपततीति तस्य निरुपाधेर्व्यपदेशाविषयत्वाद्यदुपाधिर्व्यपदेशस्तन्निबन्धन एव प्रकर्षः । तत्र जातिर्व्यपदेशहेतुरपि न प्रकर्षे सव्यापारा । समानजातीयाद्धि प्रकर्षः । तत्र जातेरभेदः । अत एवोक्तं भाष्ये
`जननेन प्राप्यते इति जातिः । न चैतस्यार्थस्य प्रकर्षापकर्षौ स्तः ।'
(M.Bha. on P.5.3.55)
इति । जन्मकालसंबन्धाज्जातिः, न तूत्पन्ने द्रव्ये कारणान्तरसन्निधानायत्तो निवेशोऽस्याः, येन कारणभेदाच्छुक्लादिवत् प्रकृष्यते । तस्मान्नित्यत्वाज्जातेर्नास्ति सावस्था या जातिशून्येति जन्मकालेऽपि तेनैव रूपेण सावस्थिता व्यक्तेरवियोगेन प्रवर्तमाना तज्जातीयादेव व्यवच्छेदं प्रापयितुं शक्नोतीत्यर्थः । अतश्च जातेरतिशायकत्वासम्भवात्तदेकार्थसमवायि भासुरत्वं वैमल्यं रागान्तराव्यतिभिन्नतेत्येवमादयो विशेषाः प्रकर्षवृत्तिनिबन्धनम् । यद्यपि चाग्निसंयोगादिना स्वत एव गुणस्य प्रकर्षो भवति तथापि व्यपदेशो परोपाधेरे वेति तन्निमित्त एव प्रकर्षो न्याय्यः । न हि स्वगतो विशेषः शब्देन सर्वः शक्यतेऽभिधातुम्, रूपादिशब्देन रूपत्वादिजातीयस्याविशेषेण सर्वस्याभिधानात् । अत एव यदा भासुरत्वादयोऽपि प्राधान्येन व्यपदिश्यन्ते तदा तदाश्रितधर्मान्तरद्वारक एव प्रकर्षो विज्ञेयो भासुरतर इति । तत्रापि धर्मान्तरस्य प्राधान्ये तदपराश्रितधर्मनिमित्त एव प्रकर्ष इति यावत् सम्भवति शब्दव्यापारस्तावदपर्यवसानमेव धर्माणामिति
गुणः प्रकर्षहेतुर्यः स्वातन्त्र्येणोपदिश्यते ।
तस्याश्रितगुणादेव प्रकृष्टत्वं प्रतीयते ।।
इत्युक्तमेव । अत एवात्र `सर्वस्यैव प्रधानस्य' इति व्याप्तिरिक्ता सर्वग्रहणेन । यदा तु शब्दव्यापारोपरमस्तदा धर्मान्तरपर्येषणा पर्यवस्यति ।। 3 ।।
ननु च भासुरत्वादयः शुक्लशब्दस्य न वाच्या इत्यशब्दवाच्यप्रतीयमानधर्मद्वारकेऽत्र प्रकर्षेऽनेकोपाधिसन्निधानादनियमः प्रसज्येतेत्याशङ्क्याह--
विग्यामानाः प्रधानेषु न सर्वे भेदहेतवः ।
विशेषशब्दैरुच्यन्ते व्यावृत्तार्थाभिधायिभिः ।। 4 ।।
(16) इह प्रधानेषु द्रव्येषु वस्तुसन्तो बहवोऽन्यस्मात्सजातीयविजातीयाद् व्यवच्छेदहेतवो धर्माः । ते च सर्वे न केनचिच्छब्देन शक्यन्तेऽभिधातुम् । अनेकव्यावृत्तिनिष्ठस्यैकस्य शब्दस्याभावात् । एकैकाव्यावृत्तिनिष्ठा हि बहवः शब्दा वस्तुनि प्रवर्तन्ते । तथा च ते तत्र विशेषशब्दा इत्युच्यन्ते, प्रतिनियतविशेषाभिधायित्वात् । यदि सर्वविशेषविशिष्टं द्रव्यमेकेन शब्देनाभिधीयेत स्यादसावेकः शब्दः साधारणः । न चैवम् । तस्मात्प्रतिनियतव्यावृत्तिविशिष्टार्थाभिधायिभिः शब्दैः सर्वविशेषाणामसंसस्पर्शादुपात्तविशेषहेतुरक एव प्रकर्षः । सूक्ष्माणां च विशेषणामसंविज्ञातपदानां भासुरत्वादीनामस्त्वेव शुक्लादिशब्दैर्वाच्यता तदुपाधिविवक्तस्य शुक्लस्य प्रधानस्य शब्दविषयभावोपगमायोगात् । संसर्गिरूपोपहितत्त्वाच्छब्दवाच्यस्य जातिहेतुकप्रकर्षाभावात् शुक्लतरं रूपमित्यादिप्रयोगदर्शनाच्चात्र भासुरत्वादिहेतुकः प्रकर्षो निश्चीयते । न चाशब्दवाच्यधर्मनिमित्तः सः, अतिप्रसङ्गादिति भासुरत्वादीनामपि प्रयोगप्रामाण्यादत्र शब्दवाच्यत्वं निश्चीयताम् ।। 4 ।।
ननु भवतु स्वतोऽव्यपदेशस्य द्रव्यस्य संसर्गिधर्मनिमित्ता व्यपदेशप्रवृत्तिः । तत्रैव तु व्यपदेशे संसर्गिण उपक्षयात् प्रकर्षेऽपि कतं तस्य व्यापारः कल्प्यत इत्याह--
वस्तूपलक्षणे तत्र विशेषो व्यापृतो यदि ।
प्रकर्षो नियमाभावात् स्यादविज्ञातहेतुकः ।। 5 ।।
(17) वस्तुनिर्देशमात्रचरितार्थत्वे विशेषस्योपाधिभूतस्य यः शुक्लो दृष्टः स गरिमादिना प्रकृष्टः शुक्लतर इति प्रतीयेत । तथा च विशेषः प्रकर्षस्य निबन्धनं न ज्ञायेत । न चैवं प्रसिद्धिः शुक्लगुणनिमित्तस्यैव प्रकर्षस्यातोऽवगमात् । ततश्च यथा प्रतीतिः , यथा च युक्तिः प्रत्यासन्नतरत्वाच्छब्दवाच्यस्येति तथा प्रकर्षे व्यपदेशहेतोरेव विशेषस्य व्यापारः कल्पयितुं न्याय्य इत्यर्थः ।। 5।।
इह कथं प्रकर्षप्रत्ययः निकृष्टतरः प्रकृष्टतर इत्याशङ्क्याह--
सर्वं च सर्वतोऽवश्यं नियमेन प्रकृष्यते ।
संसर्गिणा निमित्तेन निकृष्टेनाधिकेन वा ।। 6 ।।
(18) व्यपदेशहेतुप्रकर्षे प्रकर्षप्रत्यय िति निकर्षोपाधेरभिधाने निकर्षापेक्ष एव प्रकर्षो वाच्यः, प्रकर्षोपादेश्चाभिधाने प्रकर्षोपेक्ष इति सजातीयापेक्षायां सर्वस्य प्रकर्षसम्मवादेतदुपपद्यते । निकृष्टस्य निकृष्टात्वादेव प्रकृष्टस्य प्रकृष्टात्वादेवातिशयः सम्भवत्येव । एवं गुणप्राधान्येऽप्यपरधर्मनिमित्तः तत्प्रादान्येऽप्यपरनिमित्तः प्रकर्ष इत्यनवस्थां पूर्वप्रदर्शितामर्यनेनाह ।। 6 ।।
इह गोतरेति प्रयोगो दृश्यते । तत्र च न जातिनिमित्तः प्रकर्ष इत्युक्तम् । न चान्यनिमित्तमत्र सव्यापारं प्रतीयत इति निर्निमित्तः प्रकर्षो द्रव्यस्य । एवं शुक्लतरादावपि भविष्यतीति किमिति गुणहेतुकः प्रकर्षः समुद्धोष्यत इत्याशङ्क्याह--
नापेक्षते निमित्तं च प्रकर्षे व्यापृतं यदि ।
द्रव्यस्य स्यादुपादानं प्रकर्षं प्रत्यनर्थकम् ।। 7 ।।
(19) परिनिष्ठितरूपं द्रव्यं निर्ह्रासोपचयसंबन्धायोग्यं स्वत इति न स्वनिमित्तं प्रकर्षमनुभवति । तद्यदुपाधिरूपं निमित्तं प्रकर्षे सव्यापारं नाङ्गीकरोति तदा प्रकर्षे प्रतिपाद्ये तस्योपादानं निष्प्रयोजनम् । शुक्लतर इत्यादिप्रयोग एव न स्यादित्यर्थः । तस्मात्प्रयोगप्रामाण्याद्यथोपपत्ति प्रकर्षोऽनुविधेय इति व्यपदेशहेतुस्वसंसर्गिधर्मनिमित्तः स व्यवस्थाप्यः सर्वत्र । जातेश्च व्यपदेशहेतुभूतायास्तदसम्भवे यथा शुक्लतरं रूपमित्यत्रैकार्थसमवेतभासुरत्वादिधर्मद्वारकः प्रकर्षो व्यवस्थाप्यते तथा गोतरेत्यत्राप्येकार्थसमवेताद्वाहदोहादेर्धर्मादसौ व्यवस्थाप्यः । भासुरत्वादेरिव चात्र प्रयोगप्रामाण्याद्वाहदोहादेरपि शब्दार्थत्वमवसेयम् । ततश्च प्रकृष्टवाहदोहो गौर्गोतरेति भण्यत इति सर्वं सुस्थम् ।। 7 ।।
प्रकरणार्थं समापयितुमाह--
सव्यापारो गुणस्तस्मात्स्वप्रकर्षनिबन्धनः ।
द्रव्यात्मानं भिनत्त्येव स्वप्रकर्षे निवेशयन् ।। 8 ।।
(20) द्रव्यस्य स्वतो निरतिशयत्वात् स्वनिमित्तभूतप्रकर्षाधानोद्युक्तः संसर्गिगुणः स्वातिशयहेतुकेन विशेषेणाश्रयान्तराद् व्यवच्छेदं विदधाति ।
कथमन्यस्य प्रकर्षऽन्यत्प्रकृष्टमित्याशङ्क्याह--
अरूपं पररूपेण द्रव्यमाख्यायते यथा ।
अप्रकर्षं प्रकर्षेण गुणस्याविश्यते तथा ।। 9 ।।
(21) नीरूपस्य निरुपाधिनो द्रव्यस्य शाब्दव्यवहारोपगमायोगादुपाधिरूपाच्छुरितस्य तदुपगमे सर्वशब्दार्थपृष्ठपाती व्यवहारः स्वोपाधिनियमितशरीर इत्यर्थः । उपाध्युपाधिमतोश्च विवेकस्य दुरवधारत्वात् सङ्कर इति व्यवहारे गुणुप्रकर्षो गुणिनि विश्राम्यति, न गुणात्मन्येव निष्कृष्टगुणिनि व्यवतिष्ठते, नापि गुण्यात्मन्येव निष्कृष्टगुण इति सिद्धम् ।। 9 ।।
इति भूतिराजतनयहेलाराजकृते प्रकीर्णकप्रकाशे गुणसमुद्देशः (पञ्चमः) ।

३,६ः दिक्समुद्देशः

सम्पाद्यताम्

(1) सम्प्रत्येकयोगक्षेमान् पदार्थांस्तन्त्रेणोद्धिश्य क्रमेण विचारयितुमाह--
दिक् साधनं क्रिया काल इति वस्त्वभिधायिनः ।
शक्तिरूपे पदार्थानामत्यन्तमनवस्थिताः ।। 1 ।।
दिगादिशब्दाः सिद्धस्वभावद्रव्यधर्मतया स्वार्थं प्रतिपादयन्तो यथालक्षितदिगद्यर्थसंस्पर्शविकलाः । तथा हि परोपाधिरूपाः शक्तयो दिगाद्याः, पारतन्त्र्यं च शक्तिलक्षणमिति क्रियापि द्रव्यपरतन्त्रा शक्तिरिति व्यपदिश्यते । वैशेषिकनये च दिक् द्रव्यं नोपपद्यते, कार्यानुमेयत्वेन पदार्थोपकारकरूपस्य शक्तित्वस्य न्याय्यत्वात् । एवंविधं शक्तिरूपं सिद्धस्वभाववस्तुवाचकैः शब्दैः साक्षान्न स्पृश्यत इत्यसाधारणमेतत्पदार्थरूपं लक्षणेनावस्थापयितव्यम् । अस्ति ह्येषां शास्त्रेऽस्मिन् व्यवहारो
`दिक्‌शब्देभ्यो दिग्देशकालेषु....'(P.5.3.27)
इत्यादिः ।
तत्र च साधनादीनां शास्त्रादनुमितमेव लक्षणं विभजनीयम् । दिक्‌कालादीनां तु स्वरूपं वक्तव्यम् । तत्र दिशस्तावदनुमानेन स्वरूपं लक्षयति--
व्यतिरेकस्य यो हेतुरवधिप्रतिपाद्ययोः ।
ऋज्वित्येव यतोऽन्येन विना बुद्धिः प्रवर्तते ।। 2 ।।
कर्मणो जातिभेदानामभिव्यक्तिर्यदाश्रया ।
सा स्वैरुपाधिभिर्भिन्ना शक्तिर्दिगिति कथ्यते ।। 3 ।।
(2) इदमस्मात् पूर्वं पश्चाद्वेत्येवमस्मादित्यवधेरिदमिति प्रतिपाद्यस्य चावधिमतो यो व्यतिरेकः प्रातिपदिकार्थभेदोऽवध्यवधिमत्संबन्धलक्षणः स पदार्थस्वरूपादनुपपद्यमानो निमित्तान्तरमावेदयते । तन्निमित्तान्तरं दिगित्युच्यते । न हि जात्यादिनिमित्तोऽयं प्रत्ययः । तदनुरागाप्रतीतेः । परिशेषाद्दिङ्निमित्तः । यदाहुर्वैशेषिकाः ।
`इत इदमिति यतस्तद्दिशो लिङ्गम्'(Vai.Su.2.2.10)
इति । कार्यकल्प्यत्वे च सदैव पदार्थोपाधितया प्रतीतेः स्वतन्त्रद्रव्यरूपता नास्ति दिशः । न हि पृथिव्यादिवद् दिगुपलक्ष्यते । अत एव कालोऽपि शक्तिरिति वक्ष्यते । समवायश्च
`तां शक्तिं समवायाख्यां....'
इत्युक्तः । तथा `ऋजुः स्वष्टोऽयं वंशः ' इति प्रत्ययः अन्येन विना, अवधेरप्यनपेक्षणात् पृथिव्यादिनिमित्तान्तरोपकारमन्तरेण जायते । स चैकदिक्कमवयवानां प्रसरणादिति दिङ्निमित्तः । ऋज्वर्थस्योपलक्षणत्वाद् वकादिबुद्धिरपि दिङ्निमित्ता व्याख्येया । तथा कर्मक्षणानां तिर्यगूर्ध्वमधश्च जायमानानां कर्मत्वमहासामान्यव्यतिरेकेण भ्रमणत्वोत्क्षेपणत्वाद्यपरजातिव्यक्तिर्दिङ्‌निमित्ता । तथा ह्यूर्ध्वादिदिक्‌संयोगविभागकार्याः कर्मक्षणा विशिष्टाः सन्तो नियतजातिव्यंजने समर्था भवन्ति । कर्मणः इति, कर्मसामान्यस्य अवान्तरजातिभेदाः उत्क्षेपणत्वादयः । जातावेकवचनम् । भ्रमणादिक्रियाक्षणानां ये जातिभेदा इत्यर्थः । दिङ्‌लिङ्गाविशेषाद्विशेषलिङ्गाभावाच्चैका दिगिति काणादाः । एकापि च दिङ् नियतोपाधिप्रकल्पितनानात्वा दशधा व्यवह्रियते । तथा च त एवमाहुः--
`आदित्यसम्प्रयोगाद् भूतपूर्वाद् भविष्यतो भूताच्च प्राची'
(Vai.Su.2.2.14)
इति । सवितुरहरहरादौ येन प्रकल्पितदिक्‌प्रदेशेन संयोगोऽभूद्भवति भविष्यति वा तस्मादादित्यसम्प्रयोगात् प्राचीति व्यपदेशः, प्रागञ्चत्यत इति कृत्वा । तथा
`दक्षिणाप्रतीच्युदीची च' (Vai.Su.2.2.15)
इति सूत्रम् । तस्मादेवादित्यसंयोगाद् प्रतीपादिव्यपदेशः । तथा हि यत्र प्रतीपमञ्चत्यस्तगमनाद्रविः सा प्रतीची । मूर्तिपरिच्छिन्नेन ह्यादित्यमण्डलेन यः संयोगः स परिमितदेशव्यापी । तेन चातीतेन भविष्यता वर्तमानेन वावच्छिन्नो भागो नियतदिग्भागव्यवस्थापको भवतीत्यदृश्यमानगामिक्रियोऽपि यां परिहरति पृष्ठकरणेन सा दक्षिणा । यां न परिहरति सा उत्तरा । मध्याह्ने हि रविबिम्बमुदङ्‌मुखमञ्चत्यतोऽसावुदीचीत्यपि भण्यते । अनेनैव च प्रकारेण पूर्वदक्षिणादीन्यन्तरालरूपाण्यपि दिगन्तराणि व्याख्यातानीत्युक्तं सूत्रम्--
`एतेन दिगन्तराणि व्याख्यातानि'(Vai.Su.2.2.16)
इति । तथा हि मेरुं प्रदक्षिममावर्तमानस्य सवितुर्लोकपालपरिगृहीतप्रदेशसंयोगापेक्षो दशधा विभाग इति शास्त्रान्तरे विस्तरेण निर्णीतं तत एवावधार्यम् । इह त्वनूद्यते परं दिगिति न विभज्य कथ्यते । न चायमस्या उपचरितो भेदो यत् उपचारस्य प्रत्ययधर्मत्वाद्दिशि न समाविशेत् सूर्यसंयोगविशेषं तु सहकारिणमपेक्ष्य विचित्रकार्यं प्रभावयतीति कल्पनया भेदोऽपि दिशो व्यपदिश्यते । अत एव वास्तवेऽपि भेदे सहकारिणोऽभिव्यञ्जकत्वेनापेक्ष्याः । त एव कार्यभेदेऽपेक्षिष्यन्त इति तस्यान्यथोपपत्तेर्दिश एकत्वमुपेयते । को हि प्रामाणिकः कार्यस्य भेदमुपगच्छत् कारणनानात्वं प्रत्याचक्षीत । वास्तवे च दिशां नानात्वे सर्वत्र कार्यदर्शनात्तासां विभुत्वात् पूर्वापरादिप्रत्ययाः सङ्कीर्येरन् । तस्माद्भावत एका दिक्, कार्यवैचित्र्यं तु सहकारिभेदादित्येवमुक्तम् ।। 2,3 ।।
न च सहकारिण एव दिगनपेक्षात् कार्यं युक्तम्, तस्य स्वतोऽपूर्वापरादिरूपस्य (त्वात्?) तद्भावस्य दिक्संबन्धकृतत्वात्, न च तदनुरूपं कारणमिति दिक् प्रत्याख्येया पूर्वापरादिप्रत्ययलिङ्गा कालश्चेति तयोरन्यत्वे लिङ्गस्य विशेषमाह--
परापरत्वे मूर्तानां देशभेदनिबन्धने ।
तत एव प्रकल्पेते क्रमरूपे तु कालतः ।। 4 ।।
(3) मूर्तिरसर्वगतद्रव्यपरिमाणम् । अभेदाध्यवसायाच्च धर्मिणोऽत्र निर्दिष्टाः । व्यापकानामाकाशादीनां परापरत्वे न स्तः । पूर्वः पर इति भावेष्वव्यापकेषु पूर्वापरदेशसंबन्धनिमित्तो व्यवहारः । देशस्यापि पूर्वापरत्वं दिङ्निमित्तमिति तत एव दिशः परत्वापरत्वे देशनिमित्ते तातपर्यतः । पूर्वमभूद्भविष्यति परमिति तु क्रियापौर्वापर्यं कालशक्तिकृतप्रतिबन्धाभ्यनुज्ञावशाद् व्यवतिष्ठत इति नास्ति दिक्‌कालयोर्लिङ्गसंकर इत्याशयः ।। 4 ।।
अमूर्तानामपि काल्पनिके परत्वापरत्वे स्त इत्याह--
आकाशस्य प्रदेशेन भागैश्चान्यैः पृथक् पृथक् ।
सा संयोगविभागानामुपाधित्वाय कल्पते ।। 5 ।।
(4) संयोगिधर्मभेदेनाकाशस्य देशविभाग उक्तः । तथा च मूर्तद्रव्यसंयोगेन प्रदेशवृत्तिना परिकल्पितो यः प्रदेश आकाशस्य तेन सह मूर्तद्रव्यगतैर्भागेरव्याप्यवृत्तित्वात् यथायथं ये संयोगविभागास्तेषां दिगवच्छेदाय पूर्वापरादिभिन्ना प्रभवतीति तदुपाधिः प्रदेशानामाकाशस्य कल्पितानां पूर्वापरादिव्यवहारस्तथा च पूर्वाकाशसंयुक्तः पूर्वः पराकाशसंयुक्तः पर इत्यादिर्मूर्त्तेषु व्यवहारः सिध्यतीत्यमूर्तपूर्वकोऽसावित्यर्थः ।। 5 ।।
इह देशानां दिक्‌कृता पूर्वापरादिव्यवस्था, दिशस्तु किंकृता । अर्थान्तरनिमित्तत्वे तस्यापि कुत इत्यनवस्था । दिशः स्वत एव पूर्वापरादित्वे देशैरपि किमपराद्धमित्याशङ्क्याह--
दिशो व्यवस्था देशानां दिग्‌व्यवस्था न विद्यते ।
शक्तयः खलु भावानामुपकारप्रभावितः ।। 6 ।।
(5) देशानां स्वतन्त्रं रूपमाधारादिस्वभावमवधार्यत इति तत्र पूर्वापरादिभावस्य स्वरूपादेवाभावादन्यन्निमित्तं दिगाख्यं कल्प्यते दिक्‌कृतेनैवोपकारेण। तत्र परतन्त्रस्वभावा कल्प्यमाना नापरं पूर्वापरादिभावार्थं निमित्तान्तकमेषणीयं स्यात् । यादृक्‌स्वभावा हि सा कार्यपरिकल्प्या तावदेव तत्त्वं नापरम्, तत्र शक्तिनां पारतन्त्र्यस्यैवोपपत्तेः । शक्‌त्यन्तरकल्पने शक्तिमत्त्वापत्तेः शक्तित्वहानिप्रसङ्गात् । सूर्यसंयोगस्तु पूर्वापरादित्वं नापूर्वं तत्राधत्ते, अपि तु स्वभावमेवाभिव्यनक्तीत्यभिप्रायः ।। 6 ।।
शक्तित्वमेवास्याः स्वतन्त्रभावरूपताकरणाय पोषयितुमाह--
प्रत्यस्तरूपा भावेषु दिक् पूर्वेत्यभिधीयते ।
पूर्वबुद्धिर्यतो दिक् सा समाख्यामात्रमन्यथा ।। 7 ।।
(6) प्रत्यस्तम् उपधित्वेन भावेषु समारोपितं रूपम् अस्याः, तथाभूता पूर्वादिग् इति व्यवह्रियते । यतो यस्याः सकाशात्, पूर्वबुद्धिः पूर्वोऽयमर्थ इति ज्ञानम् । पूर्वत्वमुपलक्षणम् , परत्वादिरपि गृह्यते । दिक् सा परोपाधिरूपेत्यर्थः । अन्यथा तूपाधिरूपानपेक्षायां स्वातन्त्र्याश्रयणे भावतो दिङ् न भवति, अपि तु सा तदानीं समाख्यामात्रं दिगिति, स्वतन्त्रद्रव्यविषयं शब्दमात्रं वस्त्वसंस्पर्शि । तथा ह्युक्तम्--
दिक् साधनं क्रिया इति वस्त्वभिधायिनः ।
शक्तिरूपे पदार्थानामत्यन्तमनवस्थिताः ।।
इति । तदेवं नित्यपारतन्त्र्याद्दिशः कार्यैककल्प्यायाः स्वतन्त्रपदार्थगतविकल्पानवसर इति स्वतो नानास्वभावत्वे सहकारिसूर्यसंचारविशेषेण किमेकस्वभावत्वे वा सहकारिभेदेऽपि न विचित्रं कार्यं कुर्यादित्येतदशक्यं वक्तुम् । यथा हि पूर्वापरादिप्रत्ययलक्षणेन कार्येणानुमितसतत्वा तथाभ्युपगन्तव्या शक्तिरूपा दिक् ।। 7 ।।
ननु च पूर्वापरादिप्रत्ययः सम्मुखासम्मुखादिनिमित्तो भविष्यति । यथोक्तं भरते
`यतोऽभिमुखं भरताः प्रविशन्ति सा पूर्वा दिङ्‌मन्तव्या'
इति । लोकेऽप्यभिमुखस्थः पुरोवर्ती भण्यते पृष्ठतः स्थितः पश्चात् स्थित इत्युच्यते । तथा
"इह हस्तदक्षिणः पन्थाः, इह हस्तवामः"
इत्यादिव्यवहारः स्वाङ्गनिमित्त इति नास्ति दिक्‌कल्पनानिमित्तमित्याशङ्क्याह--
स्वाङ्गाद् व्यवस्था या लोके न तस्यां नियता दिशः ।
प्रत्यङ्मुखस्य यत् पश्चात्तत्पुरस्ताद्विपर्यये ।। 8 ।।
(7) स्वाङ्गं मुखमवधिमपेक्ष्य या पूर्वादिव्यवस्था तत्र दिशो नियताः न यवतिष्ठन्ते । पश्चान्मुखस्य हि यद्वस्तु पश्चादभूत्तदेव प्राङ्मुखत्वे तस्य पूर्वस्मिन् देशे भवतीति प्राङ्मुख उदङ्मुखो वा भूञ्जीतेति व्यवस्था न स्यात् । तस्मादनादिरूढदिङ्‌निमित्ता पूर्वापरादिव्यवस्थाङ्गीकार्या ।। 8 ।।
काचित्तु दिगनपेक्षापि पूर्वापरादिता देशानां रूढेत्याह--
देशव्यवस्थानियमो दिक्षु न व्यवतिष्ठते ।
रूढमप्यपरत्वेन पूर्वमित्यभिधीयते ।। 9 ।।
(8) दिक्षु दिङ्निमित्तः पूर्वदेशदक्षिमापथोत्तरापथादीनां नियमो न व्यवस्थितः । तथा हि दिगपेक्षया पाश्चात्योऽपि पूर्वदेश इति व्यवह्रियते । तथा च दक्षिणापथात् पूर्वदेशं गच्छन् पूर्वदेशं गच्छमीति ब्रूते । दिग्‌व्यवस्थया तु स उत्तरो भवति । तस्मात् पूर्वादित्वमात्र दिगनपेक्षं रूढम् । दिगपेक्षया तु यथायथं व्यवहारोऽत्राप्युपपद्यते । तथा च
"इह कस्मान्न भवति पूर्वस्मिन् देशे वसति"
(Va. on P.5.3.27)
इति भाष्ये चोदयित्वा
"नैष दोषः, देशविशेषणमेतत्"(Va.onP.5.3.27)
इति परिहृतम् । नायं पूर्वशब्दो रूढित्वादवध्यपेक्षः प्रवृत्तः, तेन न दिक्‌शब्दः सन्देशे वर्तते । देशसामान्यं तु देशशब्दादवगम्यमानं विशिनष्टि । ततो दिक्‌शब्दद्देशवृत्तेर्विधीयमानः प्रत्ययो नातो रूढशब्दाद् भवतीति भाष्यार्थः । केचिद् व्याचक्षते-नायं पूर्वशब्दो देशं देशरूपेण कथयति, देशशब्देनैव तस्याभिहितत्वात् । देशाधिकरणस्तु कश्चिद्विशेषो देशशब्दादप्रतीयमानः पूर्वशब्देनाभिधीयते दिग्‌विशेषावच्छेदनिपबन्धन इति । एतदयुक्तम् । देशसामानाधिकरण्याद्देशवृत्तिभ्यः प्रत्ययस्येष्टेः । अवश्यं हि दिक्कालयोर्व्यवच्छेदार्थं देशशब्द उपादातव्य इति तत्र प्रत्ययाभावे को विषयः स्यात् । तदेवं पूर्वदेशो दक्षिणापथ इत्यादावनन्यापेक्षे रूढेऽपि पूर्वादित्वे सहजे दिङ्‌निमित्तमपरं रूपान्तरमपि भवति । यथा स्वङ्गनिमित्तेऽन्यथा व्यवहारे दिङ्‌निमित्तोऽन्यथा व्यवहार इति मुख्यदिङ्‌निमित्तमेव पूर्वादित्वमित्युपपादितम् ।। 9 ।।
तथा च दिश्यपरोपाधिका पूर्वादीनां वृत्तिः देशे तु दिक्‌संबन्धादिति भाष्येण संवादयति ।
अतो भाषितपुस्कत्वात् पुंवद्भावो न सिद्ध्यति ।
अस्मिन्नर्थे न शब्देन प्रसवः क्वचिदुच्यते ।। 10 ।।
(9) `दक्षिणोत्तराभ्यामतसुच्'(P.5.3.28)
इत्यत्र भाष्यम्--
`अकारः किमर्थः, न तसुजेव क्रियताम् । एवं च स्वरार्थश्चकारो न करिष्यते प्रत्ययस्वरेणैव सिद्धेः'
तत उक्तम्--
`लिङ्गविशिष्टपरिभाषया दक्षिणाशब्दादप्ययं भवति ।
तत्रासत्यकारे यस्येति लोपो न स्यात्'
इति । अत्र प्रत्ययस्याकारमाक्षित्य लिङ्गविशिष्टपरिभाषया टाबन्ताभ्यां विधावसत्यकारे यस्येति लोपाभावाद्दक्षिणत उत्तरत इति रूपं न सिद्ध्येदिति सत्यकारे आकारलोपे न तथाकारस्तु श्रूयेतेति प्रयोजनमुक्‌त्वा पुंवद्भावेन सिद्धमिति पुनराक्षिप्य न सिद्ध्यति, भाषितपुंस्कस्य पुंवद्भावः, न चैतौ भाषितपुंस्कारवित्युक्तम् । पुनरप्याक्षिप्तम्-ननु चैतावपि भाषितपुंस्कौ, दक्षिण उत्तर इति पुमान् भाष्यत इति । तत उक्तम् । समानायामाकृतौ भाषितपुंस्कस्य पुंवद्भावः । आकृत्यन्तरे चैतौ भाषितपुंस्कौ । दक्षिणोत्तरा इति दिक्शब्दौ, दक्षिण उत्तर इति व्यवस्थाशब्दौ । तदेतद् भाष्यं रूढिशब्दत्वे दिशि पूर्वादीनां युज्यते नान्यथा । तथा ह्ययमर्थः । भाषितः पुमान् यस्मिन्नित्यर्थोऽन्यपदार्थः समाश्रीयते, स चाभिधेयो नोपपद्यते । तस्य पदार्थ आत्मा स्वभाव इत्यन्ततो व्यपदेशेन भाषितपुंस्कताव्यभिचारात्किमनेन व्यवच्छिद्येत । तस्मात् प्रवृत्तिनिमित्तलक्षणोऽर्थोऽन्यपदार्थः । तत्रापि भिन्ने प्रवृत्तिनिमित्ते सर्वत्रैव भाषितपुंस्कता । अन्ततोऽर्थस्वाभावादिशब्देनेत्येकस्मिन् प्रवृत्तिनिमित्ते सामर्थ्यात् भाषितपुस्कता समाश्रीयते । अर्थे च कार्यस्यासंभवादभिधेयधर्मेण तद्वचनः शब्दो भाषितपुंस्क इत्युच्यते इति प्रवृत्तिनिमित्तस्यान्यपदार्थत्वे समानायामाकृतौ यो भाषितपुंस्कः शब्दस्तस्य पुंवद्भाव इत्यर्थोऽवतिष्ठते । दिशि च दक्षिणोत्तरेति स्वाभाविकत्वादभिधानस्य, अस्मिन् दिग्‌लक्षणेऽर्थे प्रसवः पुंस्त्वमाभ्यां शब्दाभ्यां न क्वचिद्विषयेऽभिधीयते, अपि तु दिङ्‌निमित्ता, यदा देशेन तयोर्वृत्तिस्तदा व्यवस्थाशब्दौ प्रसवमभिधत्तः । परस्परापेक्षात्मस्थितिर्व्यवस्था । यथा दक्षिणः शैलभोग इत्याक्ते कुत इत्यवधिप्रतीतिः । तत्र चैतौ भाषितपुंस्कावित्याकृत्यन्तरे भाषितपुंस्कत्वादेकस्मिन् प्रवृत्तिनिमित्ते तदभावात् पुंवद्भावो न भवति । अत्र सौत्रः सर्वनाम्नो वृत्तिमात्रे पुंवद्भाव इत्यौपसंख्यानिकं पुंवद्भावमाश्रित्य टाबन्ताभ्यामपि दक्षिणोत्तरशब्दाभ्यामतसुचोऽकारं विनापि सिद्धेः षष्ठ्यतसर्थप्रत्ययेनेति वलिशेषणार्थोऽकारो व्यवस्थापितः । अत्र तु चोदितम् । ननु च दक्षिणोत्तरेत्यवश्यमवधिरपेक्षणीयः । विना तेन स्वार्थासम्भवात् । तथा च दिश्यप्यवध्यपेक्षत्वात् पूर्वादिशब्दानां प्रवृत्तेस्तत्रापि व्यवस्थाशब्दत्वमित्येकस्यां व्यवस्थाकृतावस्त्येव भाषितपुंस्कत्वम् । केवलं च परोपाश्रयत्वाद्दिशि वृत्तेर्देशशब्देभ्यो दिक्‌शब्दा भिद्यन्ते । अतः परमुक्तम्-दिक्शब्दकार्याण्येव न प्राप्नुवन्तीति । नामधेयत्वेन दिशामप्रवृत्तेर्नैते दिक्शब्धाः स्युरित्याशयः । तत्रोत्तरम्--
"दिशो यदा व्यवस्थां वक्ष्यन्ति । यदि तर्हि यो यो दिशि वर्तते स स दिक्शब्दो रमणीयादिष्वतिप्रसङ्गः" (M.Bha.on P.2.2.28)
इति । यथा हि पूर्वादयः शब्दा व्यवस्थानिमित्ता देशकालसाधारणा अपि यदा दिशि वर्तन्ते तदा दिक्शब्दा इत्युच्यते तथा रमणीयादयोऽपि गुणनिमित्ता दिशि वर्तमाना दिक्‌शब्दाः स्युः । अत्र परिहार उक्तः ।
"दिशि दृष्टः शब्दो दिक्‌शब्दः । दिशं यो न व्यभिचरतीति ।"
(M.Bha. on P.2.2 28)
इति । तत्र देशकालयोरपि व्यवस्थाशब्दाः पूर्वादयो वर्तन्ते । तथा चाभेदेन दिक्‌शब्दाेभ्यो दिक्‌देशकालेषु इत्युच्यते इति ।
कथं दिशं यो न व्यभिचरतीत्युक्तमित्येतद्भाष्यं समर्थयितुमाह--
दिक्‌शक्तेरभिधाने तु नियतं दिशि दर्शनम् ।
पूर्वादीनां यथा षष्टेर्जीवितस्यावधारणे ।। 11 ।।
(10) शक्तिग्रहणेन तत्रार्थान्तरानपेक्षारूढा पूर्वादिशब्दानां प्रवृत्तिः, देशकालयोस्तु तदुपाधित्वाद् व्यवस्थानिमित्तेति सूचयति । तथा च नियतमव्यभिचारि दिशि दर्शनं पूर्वादिशब्दानां प्रयोगः । देशकालयोस्तु व्यवस्थानिमित्तत्वेन न रूढः प्रयोगः पूर्वा दिगित्युक्ते नामधेयत्वेनान्तर्णीतावधिभावा रूढिप्रतीतिः । पूर्वो घट इति तु कुत इत्यवधिमपेक्षते । घटशब्दाच्च स्वार्थोऽवगम्यते, तदुपरि व्यवस्थां गमयति पूर्वशब्दो न तु तस्य नामधेयम् । तथा च दिक्‌शब्देभ्यो देशकालशब्दानामेषां भावतो भेद एव, सादृश्यात्त्वेकत्वाध्यवसायः । न हि रूढीनां नैमित्तिकैः सहाभेदः सम्भवति ।
तथा च
"दिक्शब्देभ्यो दिक् देशकालेषु...."(P.5.3.27)
इत्यत्र पूर्वादिशब्दानां कार्यभाक्‌त्वेन विवक्षितत्वात् शब्दग्रहणसामर्थ्याद् दिक्शब्द इव शब्दो येषामिति देशकालप्रवृत्तयो रूपसाम्याद् विशेष्यन्ते । सादृशानां च शब्दानां क्वचिद् विषये स्वभावान्नियमेन प्रत्यायनशक्तिर्दृश्यते । तद्यथा षष्टिं भूतः षष्टिक इति जीवितपरिमाणे प्रतिपाद्ये कालवाची नियमेन संख्याशब्दोपि षष्टिशब्दः । तथा च कालाधिकारविहितं प्रत्ययमुत्पादयति
`तमधीष्टो भृतो भूतो भावी' (P.5.1.80)
इति । वृत्तिविषयेऽत्र षष्टिशब्दो वाक्ये संख्याशब्दोऽपि नियतं कालं संख्येयमुपादत्ते शब्दशक्तिप्रतिनियमात् । अतो हि शब्दाद् वर्षाख्य एव कालो जन्मनः परिमाणं प्रतीयते । न च वृत्तौ कालवचनः प्रयुज्यते येन तत्सामानाधिकरण्यात्कालवृत्तित्वं संख्याशब्दस्यापि प्रतीयेतेति मासादिशब्दवत् पदान्तरानपेक्षः कालेऽयं वर्षाख्ये रूढः ।
तथा च
`तदस्य परिमाणम्'(P. 5.1.57)
इत्यत्र
"जीवितपरिमाणे चेत्यनर्थकं वचनम्, कालादिति सिद्धत्वात्"
(Va. on P.5.1.57 and 58)
इत्युक्तम् । यो हि षष्टिं वर्षाणि भूतस्तस्य षष्टिर्जीवितपरिमाणं भवत्येवेत्युपसंख्यानेन नार्थः । न चैवं रमणीयादिष्वतिप्रसङ्गः, तेषां काले नियतत्वस्याप्रतीतेः । प्रयुक्तानां चेदमन्वाख्यानमिति लौकिकी प्रतीतिरनुसर्तव्या । तथा चोक्तम्--
`अनभिधानाद्रमणीयादिषूत्पत्तिर्न भविष्यति'
(M.Bha. on P.5.1.57, 58)
इति । तदेवं यथा षष्टिशब्दः संख्याशब्दः संख्येयविषयोऽत्र स्वभावात् काले सङ्ख्येये रूढः, तथा पूर्वादिशब्दोऽन्यत्र देशे काले च व्यवस्थावचनोऽपि दिशि स्वभावान्नियमेन रूढ इति युक्तमुक्तं दिशं यो न व्यभिचरतीत्यर्थः । इत्थं च दिशि नियतत्वात् प्रयोगस्य समानायामाकृतौ भाषितपुंस्कत्वाभावात् पुंवद्भावाभावात्
`सर्वनाम्नो वृत्तिमात्रे'
इत्युक्तम् ।
`व्यवस्थायामसंज्ञायाम्'(P.1.1.34)
इति तु सर्वनामसंज्ञायामवधिनियममात्रानुगमाद् दिग्देशकालवचना अपि पूर्वादयो विशेषेण विशेष्यन्ते । तथा हि अवधिना यः प्रतिपादितो रूपावच्छेदः पूर्वादित्वं तस्यानुगमोऽस्ति । देशकालयोरिव दिक्ष्वपि व्यवस्थितार्थाभिधानात् । पूर्वशब्दो ह्यवधिभिन्नामेव व्यवस्थितां दिशमाह । अवधिं तूपाधित्वेन न स्पृशति । यथा शोणशब्दो लोहित एवार्थे वर्तते । अथ च लौहित्यं प्रवृत्तिनिमित्तत्वेन नापेक्षते । कृष्णशब्दश्च भगवति वासुदेवे वर्तते । न च कृष्णं गुणं निमित्तत्वेनोपादत्ते । तदित्थमन्तर्भावितावधयो दिक्शब्दाः पूर्वादयो रूढाः । देशकालयोस्तु शब्दोपाक्तावध्यपेक्षा इत्येतावान् विशेषः । अवधिनियमस्तु समान इति व्यवस्थायामित्यपि विशेषणे दिग्वाचिनां पूर्वादीनां सर्वनामसंज्ञाकार्यं प्रवर्तत एव ।। 11 ।।
इदानीं कार्यान्तरमपि दिशः प्राह--
छायाभाभ्यां नगादीनां भागभेदः प्रकल्पते ।
अतद्धर्मस्वभावेषु भागभेदो न कल्पते ।। 12 ।
(11) छाया निरालोकता । आभा आलोकः । दिनकरकरनिकररंजितः पर्वतशिखर एको बहुवच्छायाच्छुरितश्चापर इत्यवयवविभागः, छायातपाभ्यामुपलक्षितोऽसत्यां दिशि न कल्पते, पूर्वापरादित्वाभावात् तदुपाधिकावयवमानात्वायोगात् । तथ ह्यविद्यमानः स दिगुपाधिको धर्मः पूर्वापरादित्वं येषाममूर्तानामर्थानां तेष्वेवंविधावयवभेदभाव इति दिक्‌संबन्धनिमित्तोऽवयवभेदोऽपि दिङ्लिङ्गमित्यर्थः ।। 12 ।।
तथा हि मूर्त्तानां प्रथमत एव भागभेदप्रकल्पनं दिगायत्तमित्याह--
परमाणोरभागस्य दिशा भागो विधीयते ।
भागप्रकल्पनाशक्तिं प्रथमां तां प्रचक्षते ।। 13 ।।
(12) अकृतकत्वान्नित्यानां निरवयवानामपि परमाणृनां पार्श्वचतुष्टयमूर्ध्वाधोभागरूपं च दिशा परिकल्प्यते । न हि परमाणोरभागस्य वास्तवो भागभेद इति दिगाहित एव सः । तथा च तत्रस्थैः षड्‌भिः परमाणुभिर्योगो भवति । सति च योगे द्व्यणुकादिक्रमेण कार्यमाजायते । ततश्च तत्रापि पूर्वापरादिव्यवहारः । असत्यां तु दिशि षङ्‌भिर्योगेऽपि निरवयवः पिण्डः स्यादणुमात्रक इति स्थूलावयवव्युत्पत्तिर्न स्यात् । तस्मादुत्पत्तिप्रभृतिभागसमारोपे प्रथमा दिशामेव शक्तिरिति दिग्भिः सर्वे पदार्था मूर्त्ता भागभेदप्रकल्पनेनोपक्रियन्ते । अन्ये नगादीनां सावयवानां छायातपाभ्यां भागभेदः प्रकल्पते । येषां तु निरवयवानां छायातपनिमित्तः स न भवति तेषां परमाणूनां दिङ्‌निमित्त इति व्याचक्षते । तथा हि यत्र निमित्तान्तरं नास्ति तत्रातद्धर्मसु निरवयवेषु दिशां व्यापारो यत्र त्वन्यन्निमित्तमस्ति भागभेदस्य ज्ञापकं छायातपादिकं सावयवानां पर्वतादीनां तत्र तदेव भागभेदव्यवहारप्रवर्तकम् । एतत्प्रथमश्लोकेनोक्तम् । दिग्‌व्यापारस्तु द्वितीयश्लोकेन कथितः । तथा हि यतो न निरवयवत्वाच्छायादिको भागभेदप्रकल्पकोऽतोऽत्र परमाणौ दिशा दिक्‌पदार्थेन भागोऽभिधीयते । भागव्यवहारः पूर्वापरादिकः प्रवर्तत इत्यर्थः । यता हेत्वन्तरकृतो भागभेदव्यवहारः पर्वतादिषु तथा परमाणुष्वपि छायातपसंयोगविवक्तेषु निमित्तान्तरमेषणीयम्, तच्च दिगिति दृष्टान्तोपन्यासोऽयमाद्यकारिकया कृत इति अपरे व्याचक्षते । तदेतत् सर्मनुपपन्नम् । तथा हि ये घटस्यैकस्मिन् पार्श्वे च छायया कपालानामेव संयोग इति घटस्य छायातापाभ्यामसंबन्धः । अथ तद्देशत्वात्ससन्निहितमवयवविद्रव्यमपि संबन्धयते अवयववत् सर्वात्मना तर्हि परिसमाप्तत्वात् सर्वप्रकारं सोऽवभासेत आतपेनेति पार्श्वान्तराभावात् छाययात्यन्तमसंबन्धः स्यात् । अथ तद्देशोऽपि नातपेन संबध्यते तदाभिन्नदेशत्वमवयवावयविनोः स्यात्, आतपेन संयुक्तासंयुक्तत्वादवयवोऽपि चावयवीति तत्रापि छायादिसंबन्धोऽवयवानामेवानेन न्यायेन । तत्राप्यवयवान्तराणामिति परमाणुपर्यन्तता । ततश्च दिक्‌संबन्धादेव परमाणुवत् स्थूलोऽपि पदार्थः पूर्वापरादिभागव्यपदेशमुच्चनीचादित्वं च प्रतिपद्यते । तथा च
`निर्भागात्मकता तुल्या परमाणोर्घटस्य च'
इत्यादि वक्ष्यत्येव ।। 13 ।।
ननु स्वत एव पदार्था विशिष्यसंस्थानां प्रभवन्ति, क एषां दिक्‌कृत उपकार ित्याशङ्क्याह--
अदेशाश्चाप्यभागाश्च निष्क्रमा निरूपाश्रयाः ।
भावाः संसर्गिरूपात्तु शक्तिभेदः प्रकल्पते ।। 14 ।।
(13) विभूनामाकाशादीनां नास्ति देशः । पृथिव्यादीनां तु मूर्तानामवयविनामात्मभूतदेशाभावः । उभयेषामपि च कल्पिता देशाः संयोगिनः समवायिनश्च । एवं स्वतः पदार्थानामवयवा न सन्ति, कल्पितास्त्वार्थान्तरभूताः संसर्गिणः । अवयवभेदाभावाच्च क्रमोऽप्यमुख्यः, भेदाधिष्ठानत्वात् क्रमस्य । तथा अविद्यमान उपाश्रय उपाधिः स्वभावान्यथात्वापादको येषां ते निरुपाश्रयाः । एवंभूता अपि च भावाः संसर्गिरूपोहितेन शक्तिभेदेनासत्यपि स्वरुपान्यथात्वे देशादिभेदेन प्रतीयन्ते । तथा ह्यपरया दिशा योगात् संबन्धाविशेषेऽपि कश्चिदाधारतां प्राप्तो देश इति प्रतीयते इति दिङ्‌निमित्तो देशव्यवहारः । स एव च देशः समवायवशेन तिरोहितभेद इति भागोऽवयवश्च व्यवह्रियते । तद्वशेन च क्रमेणोत्पत्तेः । क्रमावभासो गुणादिभिश्च समवायाद्भेदापोहे विशिष्टावसाय इति संसर्गिनिमित्ते । भावानां व्यवहारः । आत्मा तु तेषां तत्र योगयस्वभावः । तदेवं यथा देशादिकार्यमदेशाद्या अपि भावाः संसर्गिभेदात् प्रतिपद्यन्ते तथा दिशा सम्पादितभागाः पूर्वादिभागभेदव्यवहारं प्रतिपद्यन्त इति दृष्टान्तोपन्यासेन समर्थितम् ।। 14 ।।
ननु देशभेदभिन्नः प्रतीयमानवयवो महापरिमाणो घटादिरवयवी दृश्यत इति कथं तत्रादेशताद्युपपद्यत इत्याशङ्क्याह--
निर्बागात्मकता तुल्या परमाणोर्घटस्य च ।
भागः शक्‌त्यंन्तरं तत्र परिमाणं च यत्तयोः ।। 15 ।।
(14) स्वभावभूताऽवयवशून्यता घटपरमाण्वोः समाना । दिग्लक्षणेन शक्तिविशेषेण तु प्रकल्पितापौर्वापर्याः स्वाधारभूता एव समवायवशादविवेकेन भासमानाः शक्तिनिमित्तत्वाच्छक्तिव्यपदेश्या भागा इति व्यवह्रियन्ते । स्वतो भागवत्त्व एकत्वायोगात् । अर्थान्तरसंबन्धनिमित्ता च भागवत्ता न मुख्या, परमाणोरपि प्रसङ्गात् । न चापि परिमाणकृतो मुख्यो भागभेदः, परिमाणस्यापि तयोर्घटाण्वोर्महत्वाणुत्वलक्षणस्य भावादर्थान्तरत्वात्, महदणुत्वप्रत्ययहेतुर्हि शक्तिविशेषः परिमाणम् । अत एव परिमाणविसेषाद् घटाण्वोर्विशेषः । न त्ववयवसंबन्धासंबन्धाभ्यामित्युपाधिसंबन्धानपेक्षायामव्यपदेश्यं वस्तु ब्रह्मकल्पं सर्वं समानम् ।। 15 ।।
न चापि वस्तूनामुपाधिनिहितो भेदः स्वरूपसमवायीत्याह--
यतः प्रकल्पते भेदो भेदस्तत्रापि दृश्यते ।
अदृष्टोपरतिं भेदमतो युक्ततरं विदुः ।। 16 ।।
(15) अवयवैरवयविनां भेदः, अवयवानामपि स्वावयवैः, तैषामपि स्वावयवैरिति यावत्परमाणुपर्यन्तं प्राप्तिः । तत्रापि दिशा भागभेदप्रकल्पनम् । दिगप्यनाश्रितभेदा कथं भेदायोपकल्पेत । दिग्भेदोऽपि सूर्यसंयोगभेदाहितः । तेऽपि सूर्यसंयोगा मेरुप्रदेशभेदात् । तत्राप्यवयवभेदाद्भेदः । तत्राप्यवयवभेदादिति पुनर्दिश्येवावस्थानम् । तत्राप्येवमिति चक्रतुल्यमिदमित्यदृष्टा उपरतिर्निष्ठा यस्य भेदस्य तमनवस्थादोषादतिशयेनानुपपन्नं मन्यन्ते । न केवलं स्वतो भेदो युक्तो भावानां यावदुपाधीनामप्यन्यापेक्षणादपर्यवसितो भेदः सुतरां भावभेदाय नालमिति प्रकर्षः । तदेवं देशादिभेदस्य भावेषु स्वत उपाधिवशाच्चाप्योगाद् व्यवहारमात्रं सांवृत्तेन रूपेण प्ररूढमशक्यापह्नवमिति निगमयिष्यति चैतन्यवदित्यादिना ।। 16 ।।
सम्प्रति व्यापकत्वममूर्तत्वे दिशः प्राह--
सर्वत्र तस्य कार्यस्य दर्शनाद्विभुरिष्यते ।
विभुत्वमेतदेवाहुरन्यः कार्यवतां विधिः ।। 17 ।।
(16) व्यतिरेकादेः पूर्वोदितस्य कार्यस्य सार्वत्रिकत्वाद् व्यापिनी दिग्‌विभुस्वभावा । अमूर्तानां ह्येतदेव विभुत्वं सर्वत्र स्वकार्यसम्पादकत्वम्, मूर्तानां तु शरीरणामवयवैर्तिततदेशव्याप्तिर्विभुत्वम् ।। 17 ।।
इदानीं पूर्वोक्तं निगमयति---
चैतन्यवत् स्थिता लोके दिक्‌कालपरिकल्पना ।
प्रकृतिं प्राणिनां तां हि कोऽन्यथा स्थापयिष्यति ।। 18 ।।
(17) सन्नपि हि पदार्थो यावन्न संवेद्यते तावदप्राप्तसत्व इव नार्थक्रियासूपयुज्यत इति चैतन्यं ज्ञानं सर्ववादिभिरशक्यनिह्नवम् । आत्मावाचैतन्यम् । यथाहुः सांख्याः
`चैतन्यं पुरुषस्य स्वरूपम्'
इति । तच्चाशक्यापह्नवम् । तद्वदनुपपद्यमानभेदापि दिक्‌कालयोः परिकल्पना यथाप्रतीति रूढा । भावानां हि परमार्थतः पूर्वोक्तनयेन भेदाभेदभावाभावादि रूपैरयोगादनादिप्ुरूढाविद्यावशाद्विचित्रो व्यवहारो रूढः प्रकृतिं स्वभावमिव व्यवहर्तॄणां प्राप्त इति विद्वद्भिरपि यथातत्त्ववेदिभिरन्यथा व्यवस्थापयितुं न पार्यते । यथा हि चैतन्यं स्वभावभूतमेवं सर्वव्यवहाराणां पूर्वापरादित्वेन दिक्‌कालावपि रूढौ, तावन्तरेणार्थक्रियानिष्पत्तेः । प्राणित्वमेव विघटेतेति प्राणिग्रहणेन सूचयति । व्यवहारे च यथाप्रतीति पदार्थप्रत्याख्यानं न युज्यते ।। 18 ।।
यस्मात् ।
सङ्करो व्यवहाराणां प्रकृतेः स्याद्विपर्यये ।
तस्मात्त्यजन्निमान् भावान् पुनरेवावलंबते ।। 19 ।।
(18) दृष्टादृष्टफला व्यवहाराः प्राङ्‌मुखोऽन्नानि भुञ्जीत, पूर्वाह्णे श्राद्धं कुर्यादित्यादयः प्रत्याख्याने दिक्कावयोर्न कल्पेरन् । प्रकृतेः स्वभावरूपतां प्राप्ताया दिक्कालकल्पनायाः, विपर्यये वैपरीत्ये, अपूर्वापरादिनिमित्तत्वेऽङ्गीक्रियमाणे मिश्रीभावोऽनवस्थितत्वं प्रत्यक्षागमरूढानां संध्योपासनादिरूपाणां व्यवहाराणां स्यात् तस्माद् यद्यपि अपूर्वापरं हीदं विश्वं मूर्तितः क्रियातश्च तथापि विद्वान् व्यवहारपतितस्त्यक्तप्रपञ्चावभासोऽपि प्रपञ्चमवलम्बत एवेति इमान् दिक्‌कालप्राकारानर्थान् बाधकाभासोपन्यासेन निराकुर्वन्नापि अवलम्बते । तदुपाधिप्रत्ययस्यानिवार्यत्वात् । बहुवचनेनावयव्यादिरप्यर्थोऽशक्यपरित्यागो व्यवहार इति दर्शयति । त्यजन्नवलम्बते इति समानकालत्वेन त्यागावलम्बनयोरतिशयोक्‌त्या युगपद्विरुद्धार्थाभ्युपगमात् परस्य स्ववचनविरोधं ध्वनयति ।। 19 ।।
यथा च कालो ब्रह्मणः शक्तिः भावेषु प्रतिबन्धाभ्यनुज्ञाव्यापारोपाध्यध्यस्तनानात्वा तथा दिगपि स्वोपाधिभिन्ना पूर्वापरादित्वेन भावभेदव्यवहारनिबन्धनीत्याह--- तस्यास्तु शक्तेः पूर्वादिभेदो भावान्तराश्रयः ।
भिन्ना दिक्‌ तेन भेदेन भेदायैवोपकल्पते ।। 20 ।।
(19) सा स्वैरुपाधिभिर्भिन्नेति सामान्येनोक्तेऽपि पूर्वादितया विशेषरूपेण भेदः पुनरिहोपात्तः । सूर्यसंयोगाश्च भावान्तराख्या व्याख्याताः । भेदायैव इति स्वविशेषणोपरक्तविशेष्यप्रत्ययजनननायेत्यर्थः । अवधारणेन भिन्नविशेष्यप्रत्ययकाल एवौपाधिकं भेदं समवलम्बते नान्यदा स्वतोऽभिन्ना दिगित्याह ।। 20 ।।
इदानीं दिङ्‌निमित्तं शास्त्रे कार्यमाह---
अवधित्वेन चापेक्षायोगे दिग्लक्षणो विधिः ।
पूर्वमस्येति षष्ठ्येव दृष्टा धर्मान्तराश्रये ।। 21 ।।
(20) इदमस्मात् पूर्वं परमिति मर्यादारूपेणापेक्षणं लौकिकं कार्यम्, तत्रैव शास्त्रीयदिग्योगलक्षणपञ्चमी विशेषविषया । कथं तर्ह्यत्र विषये षष्ठी दृश्यत इत्याह--
`पूर्वमस्येति षष्ठ्येव दृष्टा'
इत्यादि । अवध्यवधिमत्संबन्धेऽपेक्षिते पञ्चमीति तया षष्ठी तत्रैवापवादत्वाद् बाध्यते । धर्मान्तरस्य अवयवयत्वस्य त्वपेक्षायामवयविनि षष्ठ्येव भवति `पूर्वं कायस्येति' न ह्यत्रावधित्वेनावयविनोऽपेक्षेति दिग्योगपञ्चम्या अविषयोऽयम् । अवयवावयविसंबन्धे हि न पञ्चमी, किंत्ववध्यवधिमत्संबन्धे । अत एव चावयवान्तरापेक्षया अवयवान्तकस्यावधित्वे भवत्येव पञ्चमी पूर्वं कायस्य नाभेरिति कायावयव्यपेक्षावयवता, अवयवान्तरापेक्षा तु पूर्वतेति संबन्धिभेदादविरोधे विभक्तिद्वयोपपत्तिः । समासाविधौ त्वेकदेशिनेत्यवयविपरिग्रहे दिग्रूपता नाश्रीयते ।। 21 ।।
व्यवहारे च पूर्वादिभावः पूर्वादिदिङ्‌निमित्तोऽर्थानां न स्वाङ्गनिमित्त इति नानवस्थित इत्याह--
पूर्वादीनां विपर्यासोऽदृष्टश्चावध्यसङ्करे ।
ऋज्वेतदस्येत्येतच्च लिङ्गं न व्यतिकीर्यते ।। 22 ।।
(21) अवधेः अपेक्षमीयस्य असङ्करे अनियमाभावे पूर्वादीनां विपयासो न दृष्ट इति व्यवस्थित एवायं व्यवहारः । तथा हि यदपेक्ष्य पूर्वत्वं व्यवह्नियते न तदेवापेक्ष्य तस्यैवापरत्वमिति परत्वापरत्वे दिक्कृते नियते । एवमस्य वंशस्य ऋजु स्पष्टं मूलमित्येतदपि दिशो लिङ्गं न व्यतिकीर्यते अवधेरेवानपेक्षणादवध्यपेक्षायां हि साङ्कर्यं संभाव्येतापि । अवधेरनवस्थितत्वात् । न चात्र लिङ्गेऽवध्यपेक्षेत्यव्यतिकीर्णा एव दिशः । इत्थं च स्वाङ्गादपि व्यवस्थानेऽवधिनियमादसाङ्कर्यमेव । दृष्टादृष्टप्रयोजनस्तु व्यवहारोऽनादिसिद्धादित्यसम्प्रयोगाख्यावधिनिबन्धनदिग्व्यवस्थानियतैवैषणीयेति न यः कश्रनावधिराश्रयणीयः ।।
एवं तावद् बाह्यार्थनयेन दिक् समर्थिता । इदानीभन्तर्ज्ञेयनयेनाह---
अन्तःकरणधर्मो वा बहिरेवं प्रकाशते ।
अस्यां त्वन्तर्बहिर्भावः प्रक्रियायां न विद्यते ।। 23 ।।
(22) अन्तरवस्थितस्य करणं व्यापारोऽस्येति चैतन्यमेवमुच्यते । तस्य ह्यनाद्यविद्यावशात् स्वरूपनिष्कर्षेणेदमिति बहिराकारावभासेऽपि परमार्थतो बाह्यस्यायोगात् स्वकुक्षावेव जगत् प्रत्यवभासते इत्यन्तरवस्थितस्यैव व्यापारः । तथा च वक्ष्यति-- द्यौः क्षमा वायुरादित्यः सागराः सरितो दिशः ।
अन्तःकरणतत्त्वस्य भागा बहिरवस्थिताः ।।
इति । तस्यान्तःकरणस्यायं धर्मो बाह्यार्थानपेक्षोऽविद्यावशात् स्वभावभूतोऽवभासते । एवं पूर्वाद्याकारेण बहुरध्यवसीयते । असति बाह्ये कथं बहिरित्युच्येत इति चेदाह । अस्यामविद्यावशादवभासस्यैव बाह्यत्वावसायरूपायां कल्पनायामन्तारूपता बहीरूपता च न मुख्या परानुरोधात्तु प्रतिभासवशेनैवमुच्यत इत्यर्थः । असति हि बाह्ये कदपेक्षमान्तरत्वमपि न मुख्यमिति काल्पनिकोऽन्तर्बहिर्भावः । एवं च पूर्वापरत्वमविद्याध्यस्तं भावेषु आन्तररूपेष्वनादिमिथ्याभ्यासवासनालक्षणान्तःकरणधर्मरूपं चकास्तीति न बाह्या काचिद् दिगस्ति ।। 23 ।।
अतश्चैकत्वनानात्वविचारोऽपि निष्फल एवेत्याह--
एकत्वमासां शक्तीनां नानात्वं वेति कल्पने ।
अवस्तुपतिते ज्ञात्वा सत्यतो न परामृशेत् ।। 24 ।।
(23) भावोपाधिरूपाणां पूर्वादित्वेन भिन्नानां दिक्‌शक्तीनां मुख्यमेकत्वम्, उपाधिभेदात्तु नानात्वम् । मुख्यमेव चानादिसिद्धं नानात्वं भिन्नकार्यानुमेयमित्येते द्वे कल्पते अवस्तुपतिते । दिशः परमार्थतोऽवस्तुत्वाद् विज्ञाननये व्यतिरिक्तवस्त्वभावादित्यवस्तुविषये बुध्वा परमार्थतो न विचारणीये इत्यर्थः । यथाप्रतीति व्यवहारसिद्धेः । अत एवं संवेद्यमानं प्रतीतिभेदान्नानात्वमभिप्रेत्यासामिति बहुत्वेन निर्देशः ।। 24 ।।
न च पदार्थविचारे किंचित् प्रयोजनमस्ति । तथा हि---
विकल्पातीततत्त्वेषु सङ्केतोपनिबन्धनाः ।
भावेषु व्यवहारा ये लोकस्तत्रानुगम्यते ।। 25 ।।
(24) इह पदार्थास्तीर्थिकपरिकल्पितनियतसङ्केतपरिघटितशरीरास्तांस्तीर्थिकपरिकल्पितान् विकल्पानतिक्रम्य भावतो वर्तन्ते । न हि प्रतिदर्शनदर्शितविरुद्धरूपयोगस्तत्त्वं भावानाम् । तस्मादविचारितरमणीया लोकसिद्धाः पदार्थाः समाश्रयणीयाः विद्वद्भिरपि । अलमेभिरप्रतिष्ठितैस्तर्कविकल्पैः । तथा च लोके प्रसिद्धा दश दिशः सिद्धाः ।। 25 ।।
तर्कविकल्पैस्तु भेदाभेदौ न व्यवतिष्ठते इत्याह--
नैकत्वमस्त्यनानात्वं विनैकत्वेन नेतरत् ।
परमार्थे तयोरेष भेदोऽत्यन्तं न विद्यते ।। 26 ।।
(25) अन्योन्याश्रयस्य रूपस्येकासिद्धावितरासिद्धेरुभयासिद्धिप्रसङ्ग इति दिशामेकत्वनानात्वे न व्यवतिष्ठेते । व्यवहारे गजनिमीलनेन तु यथावभासं लौकिको व्यवहारो रूढः । परमार्थविचारे तु परस्परप्रतियोगिनोर्भेदाभेदयोरप्यसत्यता मुख्याभिन्नस्य परस्यैव तत्त्वरपत्वादित्यर्थः । किं च परोपाधितया शक्तिर्दिगित्युक्तम् ।। 26 ।।
शक्तेश्च भेदाभेदविचारानर्हतेत्याह---
न शक्तीनां तथा भेदो यथा शक्तिमतां स्थितिः ।
न च लौकिकमेकत्वं तासामात्मसु विद्यते ।। 27 ।।
(26) शक्तिमतां स्वतन्त्राणां पदार्थानां पृथगेवावधारणाद्भेदो निश्चीयते न शक्तीनामादारपारतन्त्र्येणावभासमानानाम् । तस्मादाधारात्परस्परतश्च भेदः प्रत्यक्षसिद्धः । नापि स्वतन्त्रस्य शक्तिमतो यथा भेदो घटादेरेकत्वं लोकप्रसिद्धम्, अभेदावभासात् । तथा शक्तीनां कार्यनानात्वोन्नीयमानभेदानां स्वत आधाराच्चाभेदोऽस्तीत्यनिर्वाच्या एव भेदाभेदाभ्यां सर्वाः शक्तयः । अत एवाविद्याशक्तिर्ब्रह्मणो भेदं न विधत्ते येन द्वैतापत्तिः ।। 27 ।।
यदुक्तं---
`नैकत्वमस्त्यनानात्वम्....'
इत्यादि तदेवाव्यवस्थितत्वेन निगमयँस्तार्किकाणामेकपक्षावलम्बनं न युक्तमित्याह---
नैकत्वं व्यवतिष्ठेत नानात्वं चेन्न कल्पयेत् ।
नानात्वं चावहीयेत यद्येकत्वं न कल्पयेत् ।। 28 ।।
(27) प्रतियोगिभूतं नानात्वं यदि बुद्ध्या न कल्पयेत् नाश्रयेत् एकत्वं कर्तृ तदा न स्वरूपं नियतं लभेत । एवं नानात्वमपि यदि प्रतियोग्येकत्वं नाश्रयेत् तदा तदपि नावतिष्ठेतेति परस्परापेक्षत्वादनयोर्नैकत्रावस्थातुं पार्यते इत्यविचारितरमणीया दिगाश्रयणीया लौकिकीति सिद्धम् ।। 28 ।।
इति भूतिराजतनयहेलाराजकृते प्रकीर्णप्रकाशे दिक्‌समुद्देशः षष्ठः ।।

----------

३,७ः साधनसमुद्देशः

सम्पाद्यताम्

(1) `दिक् साधनम्' इति दिशोऽनन्तरं साधनमुद्दिष्टं लक्षयितुमाह--
स्वाश्रये समवेतानां तद्वदेवाश्रयान्तरे ।
क्रियाणामभिनिष्पत्तौ सामर्थ्यं साधनं विदुः ।। 1 ।।
(2) क्रियानिर्वृत्तौ द्रव्यस्य शक्तिः साधनम्, साध्यतेऽनया क्रियेति भाष्यकारप्रभृतयो विदुः । तथा हि
"गिणः साधनम् " (M.Bha. on P.3.2.115)
इति भाष्य उक्तम् । शक्तिरेवात्राधारपारतन्त्र्यादन्यस्माच्च स्वाश्रयस्य भेदकत्वाद् गुणशब्देनोक्ता । कृदाख्याताभिहितयोर्भावयोर्भेदाभिधानप्रसङ्गे तु यद् भाष्यम्--- "द्रव्यं क्रियाभिनिर्वृत्तिं प्रतिं साधनभावमुपैति"
(M.Bha.on P.3.1.67)
इति तदन्यत्राहत्य द्रव्यस्य साधनत्वव्युदासाच्छक्तिव्यवधानाश्रयेण गमयितव्यम् । शक्तं हि द्रव्यं साधनम्, न तु निराधारा शक्तिः सम्भवति ।
"परोक्षे लिट्" (P.3.2.115)
इत्यत्रापि
"यदि गुणसमुदायः साधनम्, साधनमप्यनुमानगम्यम् । अथान्यद्गुणेभ्यः साधनम्, भवति प्रत्यक्षपरोक्षतायाः संभवः" (M.Bha. on P.3.2.115)
इति यद् भाष्यं तदप्येवमेव नेतव्यम् । शक्तेर्नित्यपरोक्षत्वात् क्रियावद्विशेषणमव्यभिचारादयुक्तमिति परोक्षताविशेषणसामर्थ्याच्छक्‌त्याविष्टं द्रव्यं साधनमुपन्यस्तम् । एवम्
"उपसर्गाच्छन्दसि धात्वर्थे"(P.5.1.118)
इत्यत्र
"साधनेऽयं भवंल्लिङ्गसंख्याभ्यां योक्ष्यते"
(M.Bha. on P.5.1.118)
इति भाष्यं साधनशक्तिविशिष्टे द्रव्य इति व्याख्येयम् । तथा हि-धातावित्येवोक्ते शब्दे वृत्तसम्भवात् क्रियाप्रतिपत्तौ सिद्धायामर्थग्रहणाद्धातुकृतोऽर्थ इति समासप्पतिपत्त्यर्थाद् द्रव्यमाश्रितम् । वस्तुपर्यायो ह्यर्थशब्दः । द्रव्यस्य च स्वरूपेण सिद्धस्वभावत्वात् क्रियया करणानुपपत्तेः कर्मादिकारकरूपेणैव तस्य करणम् । क्रिया हि कारकाणि करोति, तदपेक्षत्वात्तद्‌व्यवहारस्येति साधनात्मना द्रव्यस्य क्रियया करणादेवमुक्तम् । धातुरर्थः प्रयोजनमस्येत्येतत्तु भाष्याव्याख्यानमयुक्तम् । एवं हि शक्तेरेव क्रिया साध्यत्वेन प्रयोजनमिति द्रव्यं न प्रत्याय्येत । यत्तु
"साधनं वै द्रव्यम्, न च द्रव्यस्य प्रकर्षापकर्षौ स्तः"
(M.Bha. on P.5.3.55)
इत्यद्रव्यप्रकर्षव्याख्याने भाष्ये द्रव्यस्य साधनत्वाभिधानं तच्छक्तिशक्तिमतोर्भेदाविवक्षयेत्यवगन्तव्यम् । तथा हि-तिङन्तात् क्रियासाधनाभिधायिनः प्रकर्षप्रत्यय इति शक्तेः क्रियावक्षणकार्यानुमेयायाः कार्यद्वारेणैव प्रकर्ष इति क्रियाप्रकर्षे प्रत्ययस्येष्टस्य संग्रहे द्रव्याधारत्वाच्छक्तेः कार्यमुखवत् कारणभूतद्रव्यमुखेनापि कथं न प्रकर्ष इत्याशङ्क्य द्रव्यस्य तदभावमभिधातुमेतदुक्तमिति व्यतिरेकोऽनादृतः तत्र कर्तृकर्मणोः क्रिया समवैतीति स्वाश्रयसमवोतक्रियानिष्पत्तौ तयोः कारकता, करणादीनां तु पराश्रयसमवेतायां क्रियायां साधनभावः । न हि करणादिषु क्रिया समवैति । क्रियाणाम् इति व्यक्तिभेदापेक्षं बहुवचनम् । गुणक्रियापेक्षया वा सर्वेषां स्वाश्रयसमवेतक्रियापेक्षं साधनत्वम् । गुणक्रियायां हि कर्तारः सर्वे। अकिंचित्करस्य साधनत्वानुपपत्तेः । अत एव करणं कारकमित्यादिसाधनसामानाधिकरण्योपपत्तिः । इत्थं च क्रियाणाम् इति बहुवचनं सुष्ठु गमितं भवति । कर्तृकर्मस्था तु प्रधानक्रिया करणादीनामाश्रयान्तरसमवेता ।। 1 ।।
कथं पुनरेतदवगम्यते शक्तिः साधनं न पुनर्द्रव्यमित्याशङ्क्याह---
शक्तिमात्रासमूहस्य विश्वस्यानेधर्म्मणः ।
सर्वदा सर्वथा भावात् क्वचित् किंचिद् विवक्ष्यते ।। 2 ।।
(3) घटादयो भावा विश्वशब्दवाच्याः । ते च तत्तदुदकाहरणादिकार्यसाधिकानां शक्तीनां समूहरूपाः । अत एव ताः शक्तयस्तत्र मात्रा भाग इति शक्तिसमाहारमात्रं घटादयः । ताश्च शक्तयोऽनेकविधाः । काश्चित् स्वहेतोरेव प्रभवन्ति, आश्रयविनाशमन्वपि च विनश्यन्ति । यथा बोधप्रदीपादीनां प्रकाशशक्तयः । काश्चित् पौरुषेय्यः स्थित एवाश्रये निरुध्यन्ते । यथा बलादिशक्तयः । ता हि श्रमाभ्यासेन वृष्यद्‌द्रव्योपयोगेन च जायन्ते । अन्याः सत्येवाश्रये पुरुषप्रयत्नेन विधार्य्यन्ते । यथा विषस्य मारणशक्तिः । बीजस्याङ्कुरजननशक्तिः । अन्याः प्रबावातिशयवता विपरिवर्त्यन्ते । यथा योगिना सर्वभावानां रूपपरिवृत्तिराधीयते । काश्चित् कालपरिवासेन व्यज्यन्ते, यथा धर्माधर्मादिशक्तिः फलदान इत्याद्यनेकविधमुन्नेयम् । एवमनेकस्वभावत्वे शक्तिसमुदायस्य विचित्रे कार्ये यथाशक्ति भेद विवक्षायां प्रतिनियतसादनभावोपपत्तिः । द्रव्यस्य तु साधनत्वे तस्यैकरूपत्वात् कार्यवैचित्र्यं न स्यादित्यर्थः । तदुक्तं भाष्ये
"गुणसमुदायः साधनं" (M.Bha. on P.3.2.115)
इति । प्रधानक्रियाया एकैकशक्तिसाध्यत्वाभावात् समुदायग्रहणम् । गुणक्रियापेक्षया तु प्रत्येकं शक्तेः साधनता । तस्याश्च प्रधानक्रियापेक्षया वैचित्र्यात् कर्मादिरूपता । यद् वा प्रत्येकं साधनत्वेऽपि समुदायग्रहणं शक्तीनां साधनत्वे तासां भेदादेकस्य कार्यभेदोपपत्तिरव्यापनार्थम् । तेनानेकशक्तेरपि पदार्थस्य सदैव तथावस्थानेऽपि काचिच्छक्तिः क्वचिदुद्भूता विवक्ष्यत इति घटं पश्य, घटेनोदकमानय, घटे उदकं निधेहीत्यादि कर्मकरणादिभावो नियमेनोपपद्यत इति न कारकसाङ्कर्यप्रसङ्गः । द्रव्यस्य त्वेकस्वभावत्वात् कर्मकरणादित्वं नोपपद्यत इति गर्भीकृतेयमत्र युक्तिः शक्तेः साधनत्वे बोद्धव्या ।। 2 ।।
ननु च यत्र सन्ति शक्तयस्तत्र युक्तं यन्नियमेन विवक्ष्येरन् । यत्र दृश्यन्ते पुनरसत्यस्तत्र कथं तासां विवक्षा । तद्यथा शक्तिमादधाति, शक्त्या साधयति, शक्तावायतते, शक्तेर्व्यपैतीति । न हि शक्तेः शक्‌त्यन्तरयोगः, अनवस्थापातात् । तथा धनविनाशं करोति, धनाभावेन युक्त इति निरूपाख्ये भावे का शक्तिः । स्थाल्यां पचति, स्थाल्या पचति, इति सम्भवनधारणोपकारा स्थाली करणाधिकरणभिन्ना कथमित्याशङ्क्याह--
साधनव्यवहारश्च बुद्ध्यवस्थानिबन्धनः ।
सन्नसन् वार्थरूपेषु भेदो बुद्ध्या प्रकल्प्यते ।। 3 ।।
(4) विवक्षारूपाया बुद्धेः शब्दनिमित्ता येऽवस्थाविशेषाः प्रतिनियतशब्दनिबन्धनाः तदाश्रयः कर्त्रादिकारकव्यवहारः । तथा हि--निरूपितेऽर्ते शब्दप्रयोगाद् यथानिरूपणं शब्दोपपत्तिः । निरूपणं चानपेक्ष्यापि बाह्यमर्थं स्वातन्त्र्यात् परिकल्पयति तांस्तानर्थविशेषान् । तत्र शक्तेर्द्रव्यायमाणाया बुद्धया स्वातन्त्र्येण निरूपणाच्छब्देनाभिधाने शक्‌त्यन्तरयोगो विरुद्धः । न हि तदा शक्‌त्यवस्थायामेव तस्यां तद्योगो येनानवस्था स्यात्, अपि तु द्रव्यावस्थायामभावोऽपि बुद्ध्या निरूपिताकारो द्रव्यायमाण एव शब्दवाच्यः । एवं तनुतरकपालत्वात् स्थाली पाकेऽनपेक्षितकर्तृविनियोगोत् स्वातन्त्र्येण विवक्ष्यत इति क्रत्री, इन्धनोपकारानपेक्षया तस्या एव साधकतमत्वविवक्षायां तु करणम्, वास्तवाधारविवक्षायां त्वधिकरणमिति सर्वमुपपद्यते । अत एव हन्त्यात्मानमात्मना, आत्मनः स्वात्मन्यवस्थानम्, इत्यादयोऽपि प्रयोगाः प्रथितसाधिमानः । वक्ष्यति चैतत्---
"बुद्ध्यैकं भिद्यते भिन्नमेकत्वं चोपगच्छति "
इत्यादि । दृश्यविकल्पयोरभेदाध्यवसायेन व्यवहारोपपत्तेर्बहिरन्याव्यावृत्तिपरतया समन्वयोऽत्र समर्थनीयः, स्वात्मनि नान्यस्मिन्, स्वात्मन एव नापरस्यावस्थानमित्यादि । यथा शिलापुत्रकस्य शरीरमिति । इत्थं च वाक्यादपोद्धृतस्यापि पदस्य संस्कारे प्रथमत एवाप्रयुक्ते पदान्तरे विवक्षितस्यापि विशेषस्य रूपसामान्यादनवधारणे संभवत्येव पदावधिकमन्वाख्यानं संबधिसामान्येऽपेक्षिते । अन्यथा बुद्ध्या नियतमर्थरूपं क्रियादिसंबन्ध्यपेक्षं कथं निरूप्येत । अनपेक्षितसंबन्धिरूपस्यार्थसामान्यस्याभावादभ्युपगतं पदावधिकमन्वाख्यानम् । शास्त्रे
"धातुसंबन्धे प्रत्ययाः"(P.3.4.1)
इत्येवमादीनां प्रत्याख्यानात् । यत्र च सर्वथाऽसङ्गतिः स्थालीमोदनेन काष्ठे पचतीत्यादौ तद् वाक्यमेव न भवतीति कतं वाक्यादपोद्धृतानां पदानामन्वाख्यानेऽत्र प्रसङ्गः । अत एव चाक्षीणि मे दर्शनीयानीत्यादेर्विप्रयोगस्य निवृत्तये शास्त्रमर्थवदेव । सामान्यमपि हि पदार्थरूपमर्थान्तरसंसर्गयोग्यमेव संस्तूयते, न त्वङ्गुल्यग्रे करिशतमास्त इत्याद्यसमन्वितमेव । एवं च कृत्वा छन्दसि
"चषालं ये अश्वयूपाय तक्षति"
इत्यादवसाधुत्वशङ्कापनुत्तये व्यत्ययोऽर्थवानेव । नियतानुपूर्वीकस्य छन्दोवाक्यस्य संभवात्ततस्तथैव पदापोद्धारस्य न्याय्यत्वात् । लोके तु नानवस्थितं नियतानुपूर्वीकमसङ्गत वाक्यमिति न ततोऽपोद्धारप्रसङ्गः । तस्माद्धाक्यादपोद्धृत्य पदानुशासनेऽपि निर्दोषमेव पदावधिकमन्वाख्यानम् । तत्र च समस्तविशेषणविशिष्टस्यार्थस्य निरंशत्वादपोद्धारे सामान्यमात्रा बुद्धिपरिकल्पितशरीरैव । उपक्रम एव तु विशेषापेक्षायां वाक्यावधिकमन्वाख्यानं कथ्यते । न तु वाक्यस्यानन्त्यात् साक्षादन्वाख्यानं युज्यते । प्रकृतिप्रत्ययादिविभागकल्पनया हि पदस्यैवानुशासनुमुपपद्यते । तस्य च केवलस्यासंभवाद्वाक्यस्थत्वे संबन्धिसामान्यापेक्षायां पदावधिकं तद्वाक्योपात्तसंबन्धिविशेषापेक्षायां तु वाक्यावधिकमन्वाख्यानमितीयाननयोः पक्षयोः विशेषः ।। 3 ।।
बौद्धे साधनव्यवहारे भाष्यकाराभ्युपगमसंवादकमाह---
बुद्धया समाहितैकत्वान् पञ्चालान् कुरुभिर्यदा ।
पुनर्विभजते वक्ता तदाऽपायः प्रतीयते ।। 4 ।।
(5) कुरुभ्यः पञ्चाला अभिरूपतरा इति
"पञ्चमी विभक्ते" (P.2.3.42)
इति पञ्चम्यर्थं सूत्रं भाष्ये प्रत्याख्यातम्, बौद्धस्यापायस्य सम्भवादपादान इत्येव सिद्धेः । तथा ह्याभिरूप्येण समानेन गुणेन कुरुभिः सह पञ्चालान् बुद्ध्यैकत्वं समुदायभावमापाद्यातिशयाभिरूपतावशात् कुरुभ्यः पञ्चालाः पृथक् क्रियन्त इत्यस्ति संश्लेषपूर्वको विश्लेषोऽपायः । तदुक्तं भाष्ये
"यस्तैः साम्यं गतवान् स एवं प्रयुङ्क्ते"(M.Bha.on P.1.4.24)
इति । तैः कुरुभिः पंचालानां सादृश्यं सम्प्रधारणासामर्थ्यादाभिरूप्येण प्रथमं यो ज्ञातवानित्यर्थः । अनेन चैकबुद्धिनिवेशित्वेन कुरुपंचालानां देशप्रत्यासत्तिमाह भाष्यकारः । तत्पूर्वकस्तु सातिशयस्य निरतिशयाद्विभागः । पंचमीशब्दोऽपादानसंज्ञानत्वान्नोक्तो भाष्यकृता । सूत्रारंभवादिनापि निर्धारणाश्रयत्वेनैषां बुद्ध्यैव समुदायभावः समानगुणत्वादाश्रयणीयः । अन्यथा निर्धारणाधिकारादेव विभागे लब्धे विभक्तग्रहणादत्थन्तविभागप्रतीतौ न वास्तवः समुदायभावो युज्यते । तदेवं बौद्धः साधनभावोऽस्मादवसीयते । कारकप्रकरणे च तमब्‌ग्रहणात् प्रकर्षो न विवक्ष्यत इति गौणेऽप्यत्रापायेऽपादानसंज्ञा भवति ।। 4 ।।
अन्यदपि भाष्योक्तं संवादकमाह--
शब्दोपहितरूपाश्च बुद्धेर्विषयतां गतान् ।
प्रत्यक्षमिव कंसादीन् साधनत्वेन मन्यते ।। 5 ।।
(6) "हेतुमति च" (P.3.1.26)
इत्यत्र
"आख्यानात् कृतस्तदाचष्टे...."(Va. on P.3.1.26)
इत्येवमाद्युपसंख्यानं
"न वा सामान्यकृतत्वाद्धेतुतो ह्यविशिष्टम्"(Va. on P.3.1.26)
इत्येवं प्रत्याख्यातम् । चित्रपुस्तादौ हि प्रतिकृतिरूपस्य प्रयोज्यप्रयोजकभावाध्यवसायात् कंसं घातयति, बलिं बन्धयतीति सिद्धम् । एवं कृतानुकरणे नाट्येऽपि नटानां कंसवासुदेवानुकारेण सादृश्यात्तद्रूपतोपपत्तिः । तत्र
" ग्रन्थिकेषु कथम् "(M.Bha. on P.3.1.26)
इति चोदितम् । तत्र ग्रन्थिकाः कथका इति वृत्तरूपेणैव कंसवधमाचक्षते । तत्र च प्रतिकृतिरूपस्याभावात् कथं प्रयोज्यप्रयोजकत्वमिति पर्यनुयोगः । अत्र परिहार उक्तः ।
"तेऽपि हि तेषामुत्पत्तिपृभृत्या विनाशादृद्धीर्व्याचक्षाणाः सतो बुद्धिविषयान् प्रकाशयन्ति " (M. Bha. on P.3.1.26)
इति चिरकालातीतत्वात् कंसादीनां बहिरसत्वात् बुद्धिगोचरतया सतो विद्यमानांस्तान् प्रकाशयन्ति शब्देनावभासयन्ति । बुद्धिप्रतिभास्येव ह्याकारो शब्दार्थो न वस्त्वर्थः । तथा च कथकः श्रोतरि कंसाद्याकारप्रत्ययजनतात् बुद्धिवांसुदेवेन बुद्धिकंसं घातयतीति प्रयोजकत्वसमारोपात् प्रयोगोपपत्तिः । तथा हि-कथकोदीरितशब्दसामर्थ्योपजातरूपविशेषान् श्रोतृबुद्धिगोचरमापन्नान् सव्यापाररूपान् कंसादीन् कर्मादिसाधनतया भाष्यकारो मन्यत इति बुद्ध्यवस्थानिबन्धनः साधनव्यवहारः सिद्धः । गौणेऽपि च प्रयोजके कारकप्रकरणे प्राकर्षानाश्रयाद्धेतुसंज्ञायां तद्वयापारेऽत्र णिच् सौत्रः । प्रत्यक्षम् इत्यव्ययीभावः । मननक्रियाविशेषणं चैतत् । इन्द्रियनिमित्तेन ज्ञानेन परिस्फुटानवधारयतीत्यर्थः । एतच्च `ऋद्धीर्व्याचक्षाणा' इति भाष्यास्याभिप्रायव्याख्यानम् । प्रभावातिशययुक्ते हि वस्तुन्यादरवशात् स्पष्टरूपः प्रत्ययः प्रसूयते । स्पष्टे च ज्ञानेऽवभासमान आकारो बाह्यात्मकोऽवसीयते ।। 5 ।।
तदेवं बुद्ध्या साधनव्यवहारोपपत्तौ एकस्यापि वस्तुनः शक्तिनानात्वं बौद्धमुपपद्यत इति निगमयति ।
बुद्धिप्रवृत्तिरूपं च समारोप्याभिधातृभिः ।
अर्थेषु शक्तिभेदानां क्रियते परिकल्पना ।। 6 ।।
(7) बुद्धेः प्रवृत्तिः व्यापारः परिच्छेदलक्षणः । तस्या रूपमाकारो विषय आभासमानः । तमर्थेषु बाह्येष्वध्यस्य तेषां शक्तिनानात्वं परिकल्प्यते वक्‌तृभिः । अययर्थः । दृश्यविकल्पयोरभेदाध्यवसायाद् बौद्धः शक्तिभेदो बाह्य एवेत्यभिमानात् तत्र विचित्रं साधनबावमभिमन्यन्ते । बुद्धिप्रतिभासस्य स्वप्रतिष्ठत्वेनानवगमात्तत्र क्रियाभेदं प्रतिपत्तृव्यपेक्षां चानुवर्त्य वस्त्वेन नानाशक्तिकमवगम्यत इति बहिरर्थे शब्दः प्रमाणम् । क्रियाकारकसंसर्गस्य बाधकाभावात् सति संवादे च वाक्यस्य प्रमाण्यमवगमयन्ति व्यवहर्तारः । सौगतानां विकल्पप्रतिबिंबस्य भेदानध्यलसायात् बहिष्वप्रवृत्तिः । प्रामाण्यं तु वक्त्राभिप्रया एव शब्दानां न बाह्ये व्यभिचाराशङ्कनात्, अन्यव्यावृत्तिमात्रनिष्ठता तु बहिः । वैयाकरणानां तु व्यावृत्तवस्तुविषयता, तथाध्यवसायात् तत्रैव प्रामाण्यमिति दर्शनभेदः । नियतोपादिनियमितत्वाच्च न साङ्कर्यम् । उपकारकाश्च शक्तयः प्रत्युपाधिभिन्नाः संमूर्च्छितशरीरात्वाद्वस्तुनस्तत्त्वान्यत्वाभ्यामनिर्वाच्या इति नानुपाध्युपकाराङ्गत्वादेरप्रसङ्गः ।। 6 ।।
बुद्ध्यावस्थासमाश्रये च साधनभावे सतीदमपि सिद्धं भवतीत्याह---
व्यक्तौ पदार्थे शब्दादेर्जन्यमानस्य कर्मणः ।
साधनत्वं तथा सिद्धं बुद्धिरूपप्रकल्पितम् ।। 7 ।।
(8) जातौ पदार्थे तज्जातीयाभेदेनानागतं निरूप्य योग्यसाधनविनियोगाज्जातिद्वारेण क्रियासिद्धावङ्गता व्यक्तिद्वारेण तु निर्वर्त्यमानता कर्मणो युज्यत इत्युक्तम्
"निर्वर्त्यमानं यत्कर्म जातिस्तत्रापि साधनम् "
इति । व्यक्तौ तु पदेन प्रत्याय्यायां शब्दं जनयति संयोगं करोतीत्यादौ जन्यमानस्य निर्वर्त्यस्य शब्दादेः कर्मणोऽनागतस्यापि वर्तमानव्यक्तिसारूप्यादसत्यपि जातेः प्रत्यायने भेदानध्यवसायाद् बुद्ध्याकारमुल्लिख्य योग्यसाधनविनियोगात् बौद्धस्यैव बहीरूपताध्यवसायाद् बाह्येन रूपेण निर्वर्त्यमानता, बौद्धेन तु साधनभावो युज्यत इत्यर्थः । जन्यमानस्येत्यनेन विकार्यप्राप्ययोर्व्यवच्छेदः ।। 6 ।।
विकार्यं हि प्रकृतिरूपेण स्थितमेव । प्राप्यमपि स्वत एव कियद्वा बुद्ध्या नाध्यारोप्यत इत्याह---
स्वतन्त्रपरतन्त्रत्वे क्रमरूपं च दर्शितम् ।
निरीहेष्ववि भावेषु कल्पनोपनिबन्धनम् ।। 8 ।।
(9) सदसत्‌पक्षभेदेन कार्यकारणभावस्य निराकृतत्वात् सर्वे भावाः क्रियारहिताश्चेष्टाशून्याः । तत्र क्रिययां स्वातन्त्र्यपारतन्त्र्यादिलक्षणं कर्तृकरणादिरूपं कारकत्वम् । क्रियारूपमेव च सक्रमत्त्वं यथावबासमनादिमिथ्याभ्यासवासनावशेन कल्पनाबुद्ध्युपरचितसतत्त्वम् । अपूर्वापरस्यापि भावतो विश्वस्य पूर्वापरतया स्वातन्त्र्यादिनात्रावभासनादिति मित्यावभासोऽयमर्थेषु क्रियाकारकभाव इत्यर्थः । अद्वैतनये हि सर्वमुपप्लवते, असत्यत्वादिति विकल्पपरिघटितः शाब्दो व्यवहारो यथाप्रतीत्यविचारितसिद्धोऽभ्युपगन्तव्य इति दिगादिपदार्थवत् साधनपदार्थसिद्धिः ।`दर्शितम्' इत्यद्वैतनयावलम्बिभिर्भाष्यकारप्रभृतिभिः, "कूलं पिपतिषति" इत्यादिप्रयोगसिद्ध्यर्थमाख्यातमित्यर्थः ।। 8 ।।
एवं तावद् द्रव्यव्यतिरिक्तशक्तिदर्शनेन साधनं लक्षितम् । अव्यतिरिक्तशक्तिदर्शनेनाप्याह---
शक्तयः शक्तिंमन्तश्र सर्वे संसर्गवादिनाम् ।
भावास्तेष्वस्वशब्देषु साधनत्वं निरूप्यते ।। 9
(10) समवायवशाद्धर्मधर्मिणोरभेदमिव भेदेऽपि ये वदन्ति ते संसर्गवादिनो वैशेषिकः । ते च स्वरूपं सहकारिणश्च भावानां स्वकार्यजनने शक्तिरिति प्रतिपन्नाः । सहकारिणः शक्तिः, कारणं शक्तिमत् । एवं सहकारिणामपि कारणं शक्तिः स्वकार्ये सहकारि रूपमिति शक्तिशक्तिमन्तः सर्व एव भावाः, न त्वन्या काचिदतीन्द्रिया शक्तिः ष
ट्पदार्थल्यतिरिक्ता विद्यते । एवमपि साधनत्वं भावानां पदार्थानामपादानादिशब्दैर्न प्रत्याय्यते, अपि तु विभक्तिभिरेव । तथा च प्रत्यायनं योग्यतामात्रेण त्वपादानादिशब्दप्रवृत्तिः । `घटं पश्यति' इत्यादावेव द्वितीयादिभिर्महत्त्वाद्याधारनियतं प्रत्याय्यमानं शक्तिः साधनं भवति । आधारानवच्छिन्नस्तु महत्त्वादिः कर्मादिशब्दवाच्यो न किंचनापि साधयतीति विभक्‌त्येकसमधिगम्यः । प्रातिपदिकादाधारवाचिनस्तदुत्पत्तेः । आधारसमवाये साधनत्वस्य संस्पर्शादुपकारावस्थायां शक्तित्वमुपकार्यावस्थायां तु शक्तिमत्त्वं प्रमाणदृष्टमिति न काचिदनुपपत्तिः । अत एव शक्त्यवस्थायां शक्त्यन्तरेमायोगादनवस्थापि नास्ति । अभावस्यास्मिन् दर्शने स्पतमपदार्थरूपत्वेन भाव्यत्वाच्छक्तियोगोऽविरुद्धः ।। 9 ।।
तत्र को भावः कस्य क्व शक्तिरित्युदाहरणमाह--
घटस्य दृशिकर्मत्वे महत्त्वादीनि साधनम् ।
रूपस्य दृशिकर्मत्वे रूपत्वादीनि साधनम् ।। 10 ।।
(11) `घटं पश्यति' इति दर्शनक्रियाकर्मभावापन्नस्य घटद्रव्यस्य महत्त्वानेकद्रव्यवत्त्वरूपाणि शक्तिस्वसमवोतानि साधनं कर्मकारकम् । तथा हि कणादसूत्रम् ---
"महत्यनेकद्रव्यवत्त्वाद्रूपाच्चोपलब्धिः" (Vai.Su.4.1.6)
इति । अस्यार्थः । अनेकद्रव्यं समवायिकारणं यस्य तदनेकद्रव्यं द्वयणुकादि । तद्यस्यास्ति तदारब्धस्य तदनेकद्रव्यवत् । तद्भावस्तत्त्वम् । तस्माद्धेतोरुपलब्धिर्महति द्रव्ये । तेन बहुव्रीहिणा मतुपा च द्वौ मत्वर्थावुक्तौ । तत्रैकेन परमाणोर्यव्वच्छेदः । स हि रूपवानप्यनेकस्य द्रव्यस्यारंभकस्याभावान्नोपलभ्यते । अपरेण तु मत्वर्थेन द्वयणुरादेर्व्यवच्छेदः । अत एव सूत्रान्तरमुक्तम् ---
"अद्रव्यत्वात्परमाणावनुपलब्धिः"
इति । परमाणुग्रहणमत्रादृश्यमानस्योपलक्षणार्थम् । महति दृश्यमाने चानेकद्रव्यवत्त्वं दर्शनहेतुरिति त्र्यणुकस्य कारणबहुत्वमहत्वप्रचयेभ्यो महत्त्वस्योत्पत्तिरिति त्रिभिर्द्व्‌यणुकैरारंभान्मगतोऽनेकद्रव्यवत्त्वेऽपि तदभावः । महतो हि दृश्यमानस्यानुवादेनेदं विधीयत इत्यदृस्ये नायने रश्मौ नास्यादृश्यतापत्तिः । न हि महत्त्वमप्यत्र दर्शनकारणं विधीयते । एवं ह्येकस्या आकृतेश्चरितः प्रयोग इति न्यायात् प्रक्रमो भेदार्थः पंचम्येव क्रियेत । अनेकद्रव्यवतश्च महत्त्वाव्यभिचारान् `महति' इति न हेतुनिर्देशः, अपि तु विषयोपलक्षणमेव । `रूपात्' इति च द्वितीयो दर्शनहेतुः । नीरूपस्य वाणोर्महतोऽनेकद्रव्यवतश्चाप्यनुपलंभात् । तदुक्तं सूत्रम्---
"रूपसंस्काराभावाच्च वायावनुपलब्धिः"(Vai Su.4.7.1)
इति । यतश्चानेकद्रव्यत्वस्य रूपस्य दर्शनहेतुत्वं न महत्त्वस्यापि ततो द्वयोरेव व्यतिरेकः प्रदर्शितः । महत्त्वस्याकारणत्वेऽपि च तद्विषयत्वाद्दर्शनस्य पारम्पर्येणोपयोगान् `महत्त्वादीनि साधनम्' इति बहुवचनम् । यद्वा द्रव्यत्वादीनां सामान्यविशेषाणामप्यादिशब्देन सङ्ग्रहणात् बहुवचनम् । अत्र सामान्यविशेषा हि प्रधानं दर्शननिबन्धनम् । तदुपाधिकत्वेनार्थानाम्, पररूपव्यावृत्तिस्यात्मन उपलंभात् । `महति इत्येव तूक्ते व्यभिचार आकाशादिनेत्यनेकद्रव्यवत्त्वादिति मतुपाऽवयविद्रव्ये प्रतीतिरभिव्यज्यते । `अनेकद्रव्यवत्त्वात्' इति पुनरुच्यमाने तत्पुरुषसंभावनया द्रव्यप्रचयमात्रं गम्येत । `रूपं पश्यति' इत्यत्र रूपस्य दर्शनक्रियायां रूपत्वं स्वसमवेतं सामान्यमनेकद्रव्ये च द्रव्ये समवायः साधनम् । तथा च सूत्रम्---
"अनेकद्रव्यसमवायाद्रूपविशेषाच्च रूपोपलब्धिः" (Vai. Su.4.1.8)
इति । अनेके आरंभका यस्यावयविद्रव्यस्य तदनेकद्रव्यम्, तेन समवायात्, तत्र समवेतत्वात् । रूपस्य विशेष उद्भूतत्वम् । अतो नायनरश्मिरूपं बाह्यतैजसद्रव्यरूपेणाभिभूतमपोह्यते । अन्ये तु रूपं विशेष्यते व्यावर्त्यतेऽनेनान्यस्माद्रसादेरिति रूपत्वमेव सामान्यविशेष एवमुपदिष्ट इति वर्णयन्ति । अनेकद्रव्यत्वाभावाच्च परमाणोस्तद्गतरूपस्यादृश्यता । योग्यदेशत्वादयोऽपि सामर्थ्यात् साधनमिति बहुवचननिर्देशः ।। 10 ।।
स्वैः सामान्यविशेषैश्च शक्तिमन्तो रसादयः ।
नियतग्रहणा लोके शक्तयस्तास्तथाश्रयैः ।। 11 ।।
(12) रसं रसयति, गन्धं जिघ्रति , स्पर्शं स्पृशति, शब्दं शृणोति इति र,त्वादयः सामान्यविशेषाः समवेताः रसनादीनां रसनादिक्रियासाधनम् । तथा हि तैस्तैः नियतग्रहणाः नियतं स्वजातिबलादेव गृह्यन्ते, न तु द्रव्यवदनियतग्रहणाः । द्रव्यं हि कदाचित्सामान्योपादिना गृह्यते `द्रव्यम्' इति, कदाचिद् गुणेन शुक्लमिति, कदाचित् कर्मणा `गच्छति' इति । रसत्वादीनां तु शक्तीनां स्वाधारा एवावच्छेदकाः स्वरूपग्रहणे शक्तिः । यथा हि रसस्योपलंभे रस्तवमप्युपलभ्यते तद्विशिष्टस्य तस्योपलंभादित्याश्रिताक्षेपः तथा रसत्वोपलंभेऽपि स्वाश्रयाक्षेपः । तथा रसस्योपलंभे तदाश्रयं द्रव्यमपि शक्तिरित्यापि ज्ञेयम् । पूर्ववच्चानेकद्रव्ये समवायोऽपि गृह्यते, परमाणुगतस्य रसादेरनुपलंभात् । एवं शेषेष्वपि वाच्यम् । इत्थं परस्परं शक्तिशक्तिमन्तो भावाः । तथा च न काचिन्नियता शक्तिः । संसर्गिणां परस्परं शक्तिशक्तिमन्तो भावाः । तथा च न काचिन्नियता शक्तिः । संसर्गिणां परस्परं तत्त्वात्, अन्यस्य च योग्यदेशत्वादेः सहकारिणः तथात्वात् ।। 11 ।।
इन्द्रियार्थमनः कर्तृसंबन्धः साधनं क्वचित् ।
यद्यदा यदनुग्राहि तत्तदा तत्र साधनम् ।। 12 ।।
(13)आत्मेन्द्रियमनोऽर्थसन्निकर्षात् ज्ञानं निष्पद्यते रूपादाविति संयोग एव साधनम् । सुखादौ त्वात्मान्तः करणसंयोगादिति `क्वचित्' इत्याह । किं वात्र परिगणनया, यद्यत्रोपकरोति तत्तत्र साधनमिति यथायोगं सर्वे भावाः शक्तिशक्तिमन्तः । तथा हि संख्याः परिमाणानि पृथक्‌त्वं संयोगविभागौ कर्म च रूपद्रिव्यसमवायाच्चाक्षुषाण्युक्तानि । अवयवानामवयविनिष्पत्तौ संयोगः शक्तिः । गुणनिष्पत्तौ त्ववयविनः समवायः शक्तिः इति परोपकारि परतन्त्रं सर्वं शक्तिलक्षणमनुपतति ।। 12 ।।
सा च स्वकार्यपरतन्त्रावस्था साधनादिना सिद्धस्वभावार्थाभिधायिना शब्देन नाभिधातुं शक्यते , अपि तु यथायथं विभक्‌त्यादिरस्याः प्रत्यायने समर्थ इत्याह--
स्वशब्दैरभिधाने तु स धर्मो नाभिधीयते ।
विभक्‌त्यादिभिरेवासावुपकारः प्रतीयते ।। 13 ।।
(14) स धर्मः, क्रियां प्रति शेषभावः । कारकं साधनमपादानमित्यादिशब्दैः क्रियोपकारोपलक्षितं द्रव्यमभिधीयते प्राधान्येन, न तु क्रियोपकारलक्षणः साधनभावः समुद्भूतोऽस्मात् प्रतीयते । तथा हि-अत्रापि द्रव्यरूपतया साधनमामुखीकरोति । क्रियोपकारलक्षणो धर्मो द्वितीयां प्रतिपाद्यत इति परिगृहीतक्रियोपकारं द्वितीयादिविभक्तिप्रतिपाद्यं वस्त्विति शक्तिर्विभक्तिवाच्या । क्वचित्तद्धितवाच्या । शतेन क्रीतः शत्यः शतिक इति क्रये साधकतमत्वं प्रत्ययवाच्यम् । `यत्र' `तत्र' इत्याधारभावस्त्रल्‌वाच्यः । पयः पयो जरयति, मधु निरीक्षते, दधि समश्नाति इति प्रातिपदिकादेव शक्तिः प्रतीयते । अन्तरा त्वां च मां च कमण्डलुपरित्यन्तराशब्दोऽव्ययोऽधिकरणमाहेत्यादिग्रहणम् ।। 13 ।।
कः पुनरसावुपकारलक्षणो धर्मः साधनमित्याह---
निमित्तभावो भावानामुपकारार्थमाश्रितः ।
नतिरावर्जनेत्येवं सिद्धः साधनमिष्यते ।। 14 ।।
(15) साध्यस्वाभावायां क्रियायामुपकाराय सिद्धस्वभावानां भावानां निमित्तभावो हेतुभावः । नतिः नमनमुपकाराभिमुख्यम्, `आवर्जनम्' अङ्गभावेन स्वात्मप्रत्यर्पणम्, क्रियाोपजननतात्पर्य्यम् । इति शब्दः प्रकारे । इत्येवमादिभिः शब्दैरभिधीयमानोऽन्योऽपि सिद्धः निष्पन्नतया प्रतीयमानः, एवं भूतेन वा धर्मेण निश्चितः, न वस्तु संभवमात्रेण साधनमित्युच्यते ।। 14 ।।
एवं मीमांसकवैशेषिकदर्शनेन शक्तिः साधनमित्युपपाद्य स्वदर्शने व्यतिरेकाव्यतिरेकग्रहं त्यजति ।
स तेभ्यो व्यतिरिक्तो वा तेषामात्मैव वा तथा ।
व्यतिरेकमुपाश्रित्य साधनत्वेन कल्प्यते ।। 15 ।।
(16) `सः' इति हेतुभावः शक्त्यपरपर्यायः ।
"शक्तयः सर्वभावानां कार्यार्थापत्तिगोचराः"
इत्यतीन्द्रियाः पदार्थाद् व्यतिरिक्ताः शक्तयः केषांचिद् भवन्तु । सहकारिसमवधानोपकृतो भावः स्वरूपेणैव कार्यजनकः किमदृष्टशक्तिपरिकल्पनेनेत्यात्मैव भावानां शक्तिः । संसर्गिणः सहकारिणो वार्थान्तरभूताः । स्वकारणपरंपरया हि पदार्थः समुपजातो विशिष्टो यस्तत्तत्सहकारिसंपर्के तत्तत्कार्यजनने शक्त इति किमदृष्टया व्यतिरिक्त्या शक्‌त्या । तत्कल्पने तस्या नियमहेतुर्भावस्वभाव एव वक्‌तव्य इति वरं स एवास्तु । तदत्राव्यतिरेकवादो वास्तु व्यतिरिक्ता वा शक्तयः सन्तु । नास्माकमत्र कश्चिद् ग्रहो व्यतिरेकाव्यतिरेकवादे । शब्दप्रमाणका हि वयम्, यच्छब्द आह तदस्माकं प्रमाणम् । शब्दश्च पदार्तानां व्यतिरिक्तमेव साधनभावं प्रत्याययति घटस्य दृशिक्रियायां कर्मभाव इत्यादाविति व्यतिरेकोपाश्रयः शब्दनिबन्धनो व्यवहारः । तथा च प्रातिपदिकेन द्रव्येऽभिहिते शक्तौ कृतबन्धा शक्तिः प्रवर्तते ।। 15 ।।
"यद् यदा यदनुग्राहि तत्तदा तत्र साधनम्"
इति व्याप्तिमुक्तां क्रियाया अपि साधनत्वेन भाष्यकाराभिमतेन संवादयितुमाह--
संदर्शनं प्रार्थनायां व्यवसाये त्वनन्तरा ।
व्यवसायस्तथारंभे साधनत्वाय कल्पते ।। 16 ।।
पूर्वस्मिन् या क्रिया सैव परस्मिन् साधनं मता ।
सन्दर्शने तु चैतन्यं विशिष्टं साधनं विदुः ।। 17 ।।
(17) संप्रदानसंज्ञायाम्
"क्रियाग्रहणमपि कर्तव्यम्" (Va on P.1.4 32)
इत्युक्ते इह कश्चित् कंचिदर्थं सम्पश्यति, स दृष्ट्वा प्रार्थनया व्यवसायं करोति, अध्यवसाये प्रारंभः, प्रारंभे फलप्राप्तिरिति सन्दर्शनादिभिराप्यमानत्वात् "क्रियापि कृत्रिमं कर्म" इति भाष्य उक्तम् । तत्र साध्यस्वभावाया अपि सन्दर्शनादिभिराप्यमानत्वात् "क्रियापि कृत्रिमं कर्म" इति भाष्य उक्तम् । तत्र साध्यस्वभावाया अपि सन्दर्शनादिक्रियायाः साधनत्वमापेक्षिकम् । सम्यक् समन्ताद्वा दर्शनं सन्दर्शनं फलविषयः संकल्पः । तत् प्रार्थनायां फलोपायविषयेऽभिलाषे, साधनत्वाय कल्पते, साधनं भवति । अर्थदर्शने हि सत्यभिलाषोत्पत्तिः । व्यवसायो दृढग्राहिता, क्रियाविशेषस्य उलसाधनत्वेन निश्चयः । तत्र `अनन्तरा' प्रार्थना साधनम्, अभिलाषे सति निश्चयकरणात् । व्यवसायश्चांरभक्रियायां मानस्यां प्रवृत्तौ साधनम्, व्यवसायबलेनार्थक्रियाकरणांरभात् । तया च क्रिययाऽऽप्यमानत्वाद् भौतिकी क्रिया कर्म भवति संक्षेपतः । पूर्वस्मिन् पूर्वस्मिन् व्यापारेऽपेक्षिते या क्रिया कर्तव्यत्वात् सैव पूर्वस्मान्निवृत्ता पूर्वकालभाविनी क्रिया परस्मिन् उत्तरोत्तरभाविनि साध्ये साधनं भवति । तदात्मलाभे सिद्धत्वेनोपयोगात् । तदयमर्थः । पूर्वस्मिन् सन्दर्शने या क्रिया प्रार्थनादिका सैवोत्तरां प्रति साधनं मता । अथ सन्दर्शनक्रियायाः किं साधनमित्याह---
"सन्दर्शने तु चैतन्यम्"
इति । `तुः' विशेषद्योतकः । चिद्गूप आत्मा यो भुङ्क्ते भावान् । विशेषोऽस्य फलमिलाषयोग्यता । यद्यपि च क्रिया साध्यस्वभावाऽनिष्पन्ना तथापि निष्ठावस्थायां सिद्धत्वात्, साधनशब्देन च शक्तेस्तत्रासमवायेऽपि व्यतिरेकेणाश्रयाद् युक्तः साधनभावः । क्रियायां च क्रियान्तरस्यासमवेतत्वात् सैव क्रियान्तरभावने कर्तुः करणम् । अयमत्र परमार्थः । यदपेक्षया यत् सिद्धं तत्तस्य साधनं निष्पादकं कारकं भवति । तदानीं हि कर्तुः क्रियानिष्पत्तौ करणान्तरं नास्ति । भावी चांशो भूतेनांसेनाप्यमानत्वात् कर्म भवति । कर्ता हि क्रियया यदीप्सति तत्कर्म । अत्र च क्रियांश एवेप्स्यतेऽपरेण सिद्धेन क्रियांशेनेत्यारंभेण मानसव्यापारेणाप्यमानत्वाद् भौतिकी क्रिया कर्मेति तेनाभिप्रेयमाणस्य संप्रदानत्वं सिद्धम्, `युद्धाय सन्नह्यते', `श्राद्धाय निगह्लते' इति । गत्यर्थधातुविषये संदर्शनादीनां भेदाभेदविवक्षा, पच्यादावभेदविवक्षैव, श्राद्धाय निगह्लत इत्यादौ भेदविवक्षैवेति च वक्ष्यते । तदेवं `व्यतिरेकमुपाश्रित्य साधनत्वेन कल्पत' इति क्रियाया अपि साध्यसाधनभावो व्यतिरेकाश्रयेणोपकार्योपकारकभावेन भाष्योक्त उदाहृत इति स्थितमेतत् शक्तिव्यतिरिक्ता क्रियोपकारार्थमाश्रिता साधनमिति सामान्येनोच्यत इति ।। 16,17 ।।
वार्त्तिके कारकमिति संज्ञा साधनमिति संज्ञिनिर्देशेन कर्तव्या । अन्वर्थसंज्ञाविज्ञानाद्वा साधकस्य लाभ इति ।
"अन्वर्थमितिचेदकर्तरि कर्तृशब्दानुपपत्तिः"
(Va. on P.1.4.23)
इत्युक्तम् । तत्राकर्तरि करणादौ कर्तृशब्दस्य कारकमित्यस्योपपत्तिं समर्थयितुमाह-- निष्पत्तिमात्रे कर्तृत्वं सर्वत्रैवास्ति कारके ।
व्यापारभेदापेक्षायां करणादित्वसंभवः ।। 18 ।।
(18) सामग्रीसाध्यत्वात् क्रियाणां सर्वे कारकत्वं क्रियानिष्पत्तिविषयभेदेन प्रतिपद्यन्ते इति । यदा तु कः कथं पचतीति विवक्षा तदा प्रधानक्रियानिष्पादने विचित्रव्यापाराणि कारकाणि यथास्वं व्यापारातिशयवशेन करणादिसंज्ञाः प्रतिलभन्ते । तथा हि साधनान्तरविनियोगव्यापारः कर्ता । निर्वृत्तिविकारप्राप्त्याहितसंस्कारं कर्तुः क्रियेयप्सिततमं कर्म । ज्वलनाद्यनुभवत् कारकान्तरव्यापारैरव्यवहितव्यापारं करणम् । प्रेरणानुमननानिराकरणव्यापारं कर्मणा संबन्धयमानं संप्रदानम् । अपायमवधिभावोपगमनेन साधयदपादानम् । र्तृकर्मव्यवहितक्रियाधारकमधिकरणम् । स्वतन्त्रं प्रेषयद्धेतुरिति । सामान्यपूर्वकत्वाच्च विशेषस्यावान्तरव्यापारेऽपि कारकत्वमनुवृत्तिमिति करणं कारकमिति सामानादिकरण्योपपत्तिः । अकारकस्य च विशेषसंज्ञाभावः, वृक्षस्य पर्णं पततीति । अनपेक्षिते च कर्तृव्यापारे स्थाली पचति, एधाः पचन्ति, असिश्छिनत्ति इति प्रधानक्रियायामेवैषां कर्तृत्वम् । संप्रदानापादानयोः स्वव्यापारे स्वातन्त्र्यविवक्षा नास्ति । द्वितीयस्यादातुरपगन्तुश्चापेक्षणात् । अत एव
"सिद्धं तु प्रतिकारकं क्रियाभेदात्..."(Va. on P.1.4.23)
इति प्रधानक्रियार्थेषु यथास्वं कारकव्यापारेषु पचादीनामेव वृत्तिर्वर्णिता । तदेतद्भाष्य उक्तम्---
"सामान्यभूता क्रिया वर्तते, तस्या निर्वर्तकं कारकम्"
(M.Bha. on P.1.4.23)
इति ।। 18 ।।
अत्रैव दृष्टान्तमाह---
पुत्रस्य जन्मनि यथा पित्रोः कर्तृत्वमुच्यते ।
अयमस्यामियं त्वस्मादिति भेदो विवक्षया ।। 19 ।।
(19) पितरौ पुत्रं जनयत इत्यविवक्षिते जननव्यापारभेदे जनिक्रिया कर्तृत्वमुभयोः प्रसिद्धम् । कः कथं जनयतीति भेदविवक्षायामयं पिता बीजमादधदस्यां मातरि गर्भमाधत्ते । इयं तु माताऽस्मात् पितुः पतद् बीजं धारयन्ती जनिक्रियाकर्तृत्वमनुभवतीत्यधिकरणत्वं मातुः । कर्तृत्वमपादानत्वं च पितुः, कर्तृत्वं मातुरिति भिद्यते प्रवृत्तिः । सामान्यपूर्वकत्वाच्च विशेषस्य जनि सामान्येनात्मलाभवचनो विशेषविषये प्रेषणविषयबीजधारणबीजच्युतिवचनः । यद्वा प्रकृत्यर्तोऽविशिष्टः, प्रत्ययार्थस्तु णिजर्थो जनयतीति प्रेषणादिः यत्रायं विभागः । साधयपक्षनिक्षिप्तमपीदं प्रसिद्धत्वान्निदर्शनम् ।। 19 ।।
तदेवं प्रधानक्रियायामेव सामान्यविशेषभावेन कारकं करणमित्यादिसामानाधिकरण्यमुपपादितम् । इदानीं गुणक्रियापेक्षया स्वातन्त्र्यं प्रधानक्रियापेक्षयास्वातन्त्र्ये सत्यप्यनपगतमिति प्रकारान्तरेण
`सामान्यभूता क्रिया वर्तते' (M.Bha. on P.1.4.23)
इत्येतद्भाष्यं गमयितुमाह---
गुणक्रियाणां कर्तारः कर्त्रा न्यक्कृतशक्तयः ।
न्यक्तायामपि सम्पूर्णैः स्वैर्व्यापारैः समन्विताः ।। 20 ।।
करणत्वादिभिर्ज्ञाताः क्रियाभेदानुपातिभिः ।
स्वातन्त्र्यमुत्तरं लब्ध्वा प्रधाने यान्ति कर्तृताम् ।। 21 ।।
(20) ज्वलाद्यवान्तरव्यापाररूपाणां गुणक्रियाणां स्वातन्त्र्यात् सर्वे कर्तारः, प्रधानक्रियाविषये तु कर्त्रा स्वतन्त्रेण विनियोक्त्रा न्यक्कृता शक्तिः स्वातन्त्र्यमेषामिति तेन यथायथं न्यग्भावमस्वातन्त्र्यमापादिताः सन्तः न्यक्तायां न्यग्भावेऽपि स्वव्यापारे स्वातन्त्र्यानपगमात् अकिंचित्करस्य क्रियासिद्धौ हेतुभावानुपपत्तेः यथास्वं स्वव्यापारानुष्ठाने प्रधानक्रियाङ्गभावगमनात् कर्तृविनियागेऽपि यथायथमात्मीयैः सर्वैरेव ज्वलनादिवन्यापारैरवियुक्ताः तत्क्रियाविशेषविषयैः करणादिसंज्ञारूपैरधिगताः तद्रूपमत्यजन्त इव विनियोगोत्तरकालमपि स्वव्यापारानुष्ठानलक्षणं स्वाधीनत्वामासाद्य स्वस्मिन् क्रियाभेदे स्वतन्त्राः प्रधानक्रियायामेव कर्तृतां कारकत्वं भजन्त इति करणं कारकमित्याद्युपपत्तिरित्यर्थः । करणादीनि हि कर्तृप्रैषे न्यग्भूतानि स्वव्यापारमनुतिष्ठन्ति तथा भवन्तीति कर्त्रा स्वव्यापारे कर्तृत्वार्थमेवैषां नियोगात्, नियुक्तानां सतां स्वव्यापारे स्वातन्त्र्यमनुभवतां करयणादित्वे प्रधानक्रियानिष्पत्तिरित्यविरोधः स्वातन्त्र्यपारतन्त्र्ययोः । यदेव हि स्वव्यापारे स्वातन्त्र्यं तदेव प्रधानक्रियायां पारतन्त्र्यं नान्यत् किंचित् । तच्च क्रतृविनियोगे सत्युत्तरकालमेव भवति । पूर्वन्तु कर्तृविनियोगाद्योग्यतामात्रेण स्वातन्त्र्यमुच्यते । इत्थं च करणं कारकमिति विषयभेदोऽपि नास्ति। स्वव्यापारे, स्वातन्त्र्यस्यैव प्रधानक्रियायां करणादित्वात् । तदेततदुक्तम् ।
"सिद्धं तु प्रतिकारकं क्रियाभेदात् पचादीनां करणीधिकरणयोः कर्तृभावः"
(Va. on P.1.4.23)
इति । तत्र
`अधिश्रयणोदकासेचन...'(Va. on P.1.4.23)
इत्यादिना कर्तृकरणाधिकरणानां गुणक्रियामुक्‌त्वा
`अपादानादीनां त्वप्रसिद्धिः'(Va. on P.1.4.23)
इति पुनश्चोदिते
"न वा स्वतन्त्रपरतन्त्रत्वात्तयोः पर्यायेण वचनं नचनाश्रया च संज्ञा"
इति पुनः सिद्धान्तितम् । तथा हि वलाहको विद्योतते इति विद्युदभेदाविवक्षायां प्रयोगात् स्वव्यापारेऽस्त्येवापादानस्य स्वातन्त्र्यम् इत्याहुः । ग्राम आगच्छतीति तूक्तेऽर्थान्तरावगमादपादानव्यापारानवसायात् प्रयोगाभावः । अस्ति तु ग्रामस्यापादानस्य क्रियासिद्धौ कश्चिद् व्यापारोऽवधिभावापत्तिलक्षणः । अन्यथा ग्रामस्य समीपादागच्छतीतिवत् ग्रामादागच्छतीत्यत्रापि ग्रामस्याकारकत्वं स्यात् । संप्रदानस्यापि अनिराकरणात् कर्तुः, प्रेरणानुमतिभ्यां च तत्त्वमित्यस्त्येव स्वव्यापारः । ब्राह्मणो ददातीति तु प्रयोगाभावः, संप्रदानत्वे ब्राह्मणस्यास्माद्विवक्षितार्थानवसायात् । अत एवापादानसंप्रदानव्यापारे धातोर्न वृत्तिः, अपि तु कर्मकरणादिव्यापार एव, पच्यते ओदनः स्वयमेव, असिश्छिनत्ति, स्थाली पचतीत्यादौ । तदेवं सर्वत्र क्रियाभेदसंभव इति तत्र स्वातन्त्र्यात् करणादित्वेऽपि कर्तृशब्दः प्रवर्तते । यद्येवं करणादित्वेऽपि स्वातन्त्र्यात् कर्तृसंज्ञा स्यात् । नैतदस्ति । कारकाधिकाराल्लब्धे स्वातन्त्र्ये स्वतन्त्रः कर्तेति पुनः श्रुतिः पारतन्त्र्यानाच्छुरितस्वातन्त्र्यप्रतिपत्त्यर्थेति मुख्य एव स्वतन्त्रे क्रतृसंज्ञावतिष्ठते । एवमपि परत्वात् करणादीनां करणादिसंज्ञां बाधित्वा कर्तृसंज्ञा प्राप्नोति । नैष दोषः । करणादिसंज्ञानामनवकाशत्वात् ताभिः कर्तृसंज्ञायां अत्र बाधनात् । कारकव्यपदेशस्तवनुवृत्तिसामर्थ्याद्भवति । अथ वा स्वातन्त्र्यनिमित्ता कारकसंज्ञेति नात्र बाद्यबाधकभावो निमित्तनिमित्तिनोः । अत्र हि स्वातन्त्र्यनिमित्तं पारतन्त्र्यमिति करणादिभावेऽप्यनुमितं स्वातन्त्र्यं निविशत एव कारकसंज्ञात्यपादानादिसंज्ञाभिः समावेश एवास्याः । यत्र तु पारतन्त्र्यविवक्षानान्तरीयिका स्वातन्त्र्यविवक्षा तत्र करणं पराणि बाधन्त इत्युच्यते । तद्यथा धनुषा विध्यतीति । तत्र हि धनुषः साधकतमत्वाविनाभाविनी स्वातन्त्र्यविवक्षा । स्वतन्त्रः कर्तेत्यत्र च नैवमवधार्यते यत् सर्वास्ववस्थासु स्वतन्त्रमिति, अपि तु यत् स्वतन्त्रमेवेति स्थाली पचतीत्यादावपि कर्तृसंज्ञासिद्धिः । अधिकारसामर्थ्याच्च करणाद्यवस्थायामप्यनुमितस्वातन्त्र्यहेतुककारकशब्दप्रवृत्तिरविरुद्धेति सर्वं सुस्थम् । तदेवं पूर्वं क्रियाया अभेदमाश्रित्य निष्पत्तिमात्रे कर्तृत्वमिति सामान्यभूता क्रिया निष्पत्तिमात्रस्वभावा व्याख्याता । इदानीं तु गुणप्रधानभावेन क्रियाभेदमप्याश्रित्याकर्तरि कर्तृशब्दुपपादितः । तत्र च सामान्यभूता साध्यत्वेन सर्वेषां साधारणत्वं प्राप्ता प्रधानक्रिया वर्तत इति भाष्यार्थः ।। 20,21 ।।
स्वव्यापारे स्वतन्त्राणामेव प्रधानव्यापारे पारतन्त्र्ये दृष्टान्तमाह---
यथा राज्ञा नियुक्तेषु योद्धृत्वं योद्धृषु स्थितम् ।
तेषु वृत्तौ तु लभते राजा जयपराजयौ ।। 22 ।।
तथा कर्त्रा नियुक्तेषु सर्वेष्वेकार्थकारिषु ।
कर्तृत्वं करणादित्वैरुत्तरं न विरुध्यते ।। 23 ।।
(21) यथा राज्ञा स्वामिना नियुक्तेषु प्रेषितेषु योद्धृत्वं व्यूहविभागादिना योद्धृषु स्थितम् । तेषु युध्यमानेषु च या वृत्तिः शत्रुमह्गदेशोत्सादनादिका तस्यां कृतायां राजा जयं पराजयं वाऽपि पर्यायेण लभते । एतदाह । योद्धारो योद्धृत्वे कर्तारः । पूर्वं तद्व्यापारस्य तत्रस्थत्वात् । पुना राजनियोगादस्वतन्त्राः । पुनश्च तन्नियोगे निरपेक्षाः स्वतन्त्राः । एवं कर्त्रा नियुक्तेषु संभूयार्थं पाकादिकं कुर्वत्सु भृत्येष्विव करणादिषु यत् स्वातन्त्र्यं जायते नियोगादुत्तरकालभवं तत्करणत्वादिभिर्नियोगकालभाविभिर्न विरुध्यते इत्यर्थः । तदेवं
`कारक इति संज्ञानिर्देशश्चेत् संज्ञिनोऽपि निर्देशः । इतरथा ह्यनिष्टप्रसङ्गो ग्रामस्य समीपादागच्छतीत्यकारकस्य' (Va. on P.1.4.23)
इत्यादिना साधकं निर्वर्तकं वा संज्ञि निर्देष्टव्यमिति चोदिते, अन्वर्थसंज्ञाविज्ञानाद्विशिष्टसंज्ञिसिद्ध्या परिहृते, अधिकारेणोत्तरत्रानुवृत्तेः कारकसंज्ञायाः करणादिष्वनुपपत्तेरुद्भावितायां निष्पत्तिमात्रापेक्ष्या कर्तृत्वाश्रयणेन प्रतिकारकं क्रियाभेदेन गुणक्रियायां स्वातन्त्र्याश्रयणेन च परिहृतमिति प्रकरणार्थः ।। 22,23 ।।
अन्वर्थसंज्ञाश्रयेण क्रियानिर्वर्तकस्य साधकत्वेऽभिहितेहेतुरपि क्रियानिर्वर्त इति करण इत्येव सिद्धायां तृतीयस्यां किमर्थं हेताविति पुनर्विधिनमित्याशङ्क्या हेतोः साधनाद्वयतिरेकं दर्शयति ।
अनाश्रिते तु व्यापारे निमित्तं हेतुरिष्यते ।
आश्रितावधिभावं तु लक्षणे लक्षणं विदुः ।। 24 ।।
(22) व्यापारमनाश्रित्य विवक्षितार्थसिद्धौ योग्यतामात्रेण निमित्तत्वेनाश्रियते यः स हेतुः । स चाकारकविभक्तेः शेषलक्षणाया विषयः तृतीयस्याः संबन्धषष्ठीबाधिकायाः । तद्यथा अध्ययनेन वसतीति । अध्ययनं हेतुः, वासो हेतुमान् । तयोः संबन्धे शेषषष्ठ्यां प्राप्तायां हेतौ तृतीया । नैयायिकास्त्वाचक्षते, गुणद्रव्ययोर्यन्निमित्तं स हेतुः । स चाकारकविभक्तेर्विषयः । यत्तु क्रियापदोपात्तायाः क्रियाया निमित्तं तत्कारकमेव । यथा `विद्यया वसति' इत्यादाविति
`अनर्लक्षणे' (P.1 4.84)
इत्यत्र हेतोरपि लक्षमशब्देनाख्यानादविशेषमनयोः संभाव्यापाकरोत्याश्रितेत्यादिना । लक्षणे इत्यत्र लक्षणशब्दो भावसाधनः । `लक्षणं विदुः' इत्यत्र तु करणसाधनः । लक्षणे लक्ष्यमाणवस्तुप्रकाशने । यद् `आश्रितावधिभावम्,' आश्रितोऽवधिभावो मर्यादारूपं यत्र तल्लक्ष्यतेऽनेनेति लक्षणं ज्ञापकं विदुः जानन्ति तज्ज्ञाः । यत्रावधिभावः प्रज्ञायते हेतावपि तल्लक्षणम् । अत एव तुः' विशेषावद्योतकः । अन्ये त्वाहुः । कार्योत्पत्तावुपयोगो हेतोः, प्रत्ययोत्वत्तौ तु लक्षमस्येति । तदसत् । हेतोरपि प्रत्ययोत्पत्तौ व्यापारदर्शनाद्विद्यादेरपि हि वासादिनिश्रये व्यापाराल्लक्ष्यमाणवस्तूपजने योग्यतामनादृत्यावधित्वेनाश्रितो जनको भवति मा वा भूदिति लक्षणम् । तद्यथा वृक्षमनु विद्योतते विद्युदिति वृक्षो लक्षणं विद्योतनस्य । वृक्षं प्राप्य विद्योतत इत्यर्थः । कथं तर्ह्यनुर्लक्षण इत्यत्र शाकल्यस्य संहितामनु प्रावर्षद् इत्युदाहरणम् । यावता संहिता नावधिमात्रेण वर्षणस्य परिच्छेदिका प्रतीयते , अपि तु जनकत्वेन । जनकश्च हेतुः, न लक्षणमिति हेतुरेवात्र ज्ञापकत्वसामान्याल्लक्षमशब्देनोक्त इत्यविरोधः । ननु च धूमोऽग्निना प्रसिद्धसाहचर्योऽसकृद्दर्शनावधृतः केवलोऽप्यदृश्यमानमग्निं कारणान्तरप्रभवं लक्षयतीत्येवं लक्षणं स्यात् । संहिता तु प्रथममेव दृश्यमाना, न तस्या असकृदृर्शनं दर्शनावृत्तिरस्तीति कथमसौ लक्षणं स्यात् । अत्रोच्यते । यद्यप्येतदस्ति लोके येनासकृल्लक्ष्यते तल्लक्षणमिति तथापि प्रतीता कार्योदये शक्तिर्यस्य कारणस्य तथाविधमपि कारणं लक्षणं भवति । कार्यस्य हि यः परिच्छेदः तत्र हेतुभावेन कारणमपि लक्षणम्, कार्यपरिच्छेदकत्वात् । यथैव हि भूयोदर्शनेन गृहीताविनाभावोऽन्यं गमयति तथा हेतुरपि परानपेक्षो जनयन् कार्यस्याव्यभिचारात् परिच्छेदकत्वेन भवति लक्षणम् । यथा मेघोदयो वृष्टेः कारणत्वेन निश्चितोऽसत्यामपि वृष्टौ तत्परिच्छेदक इति लक्षणं भवति यल्लोको मेघोदयं दृष्ट्वा वृष्टिमनुमिनोति । नन्वन्वयव्यतिरेकबलाद्धेतुत्वं निश्चीयते । यस्मिन् सति यद्भवति अन्यस्मिंस्तु सत्यपि विना तेन न भवति स तस्य हेतुः । अन्वयव्यतिरेकौ चासकृदृर्शनाद्भवतः । सकृद्दर्शनेऽन्वयव्यतिरेकयोरनिश्चयात् । संहिता च यद्यपि कारणं प्रवर्षणस्य तथापि सकृत्प्रवृत्तेर्न निश्चीयते तत्र कारणत्वम्, तत्कालसन्निहितार्थान्तरादपि कदाचित् कार्योत्पत्तेः संभावनात् । एवं च मेघोदयवन्न लक्षणमसौ युज्यते । अत्र ब्रूमः सकृद्दर्शनादपि हेतुभावोऽवगम्यते । यस्य हि यज्जनकं न भवति तस्मात् सकृदपि तन्न दृश्यते, यथा शाल्यङ्कुरो यवात् । न च तत्कालभवोऽन्यो जनकोऽन्यदा तस्माददृष्टेः । तथा चाहुः
यस्मिन् सति भवत्येव यत्ततोऽन्यस्य कल्पने ।
तद्धेतुत्वेन सर्वत्र हेतूनामनवस्थितिः ।।
इति । न च काकतालीयन्यायेन तत उत्पत्तिः, अतत्‌स्वभावस्य सतृदप्यजननात् । संहिता च प्रत्यक्षेण दृश्यते वर्षं जनयन्तीति सकृद्दर्शनादपि हेतुभावोऽत्र निश्चीयते । किं चागमादपि हेतुत्वमत्र निश्चितं संहितायाः प्रवर्षण इति हेतुरेवात्र ज्ञापकत्वसामान्याल्लक्षममित्युक्तम् । तदुक्तं भाष्ये
`लक्षणेन हेतुरपि व्याप्तः' (M.Bha. on P.1.4.84)
इति । लक्षमस्य व्यापकत्वात् । कारणमपि हि कार्यं लक्षयल्लक्षणं भवति, यथा मेघोदयो वृष्टेः । न च व्यभिचारः । समग्रस्याविकलस्य जनकत्वात् । तथा विवेचने चाव्यभिचारात् । प्रापणशक्तिश्च प्रामाण्यं न प्रापणमेवेति न्यायः । यदि तर्हि लक्षणशब्देन पदार्थान्तरपरिच्छेदहेतुभावो वर्ण्यते तदाश्रितावधिभावेत्येतत् कथम् । आश्रितावधिभावेऽपि लक्षणे परिच्छेदहतुत्वमेव लक्षणमन्यथा कथमलक्षयल्लक्षणं स्यात् । इयांस्तु विशेषः, यद् वृक्षोऽवधिभावेन परिच्छेदहेतुः, संहितादेस्त्ववधित्वानाश्रयेऽपि ज्ञापकत्वसामान्याल्लक्षणत्वम् । बहुधा हि लक्षणं भवति । क्वचिदवधिभावेन यथा विद्योतमानायास्तडितो वनस्पतिरवसायनिबन्धनम् । क्वचित् कारणावच्छेदेन यथा धूमो वन्हेः । क्वचित् कार्यपरिच्छेदहेतुतया यथा मेघोदयो वृष्टेः । संहितापि चोक्तेन प्रकारेण लक्षणं हेतुश्चेति । यद्येवं
`लक्षणेत्थंभूताख्यान....'(P.1.4.90)
इत्यादिना सामान्यलक्षणेनैव सिद्धायां कर्मप्रवचनीयसंज्ञायां
`अनुर्लक्षणे' (P.1.4.84)
इति पुनर्विधानमनर्थकम् । तदुक्तम् ।
`अनुर्लक्षणेवचनानर्थक्यं सामान्यकृतत्वात्'(Va. on P.1.4.84)
इति । अत्रोत्तरम्---
`हेत्वर्थं तु वचनम्' (Va. on P.1.4.84)
इत्युक्तम् । नायमभिधेयपर्यायोऽर्थशब्दः, किं तु निवृत्तिवचनः । कार्ये च कारण शब्दमुपचर्य हेतुशब्देन हेतुतृतीयोक्ता । बाधोऽपि बाध्यान्नान्येति `हेतुरेवार्थो निवर्त्यो यस्ये'ति समासः । तेन हेतुसंज्ञाबाधनार्थं पुनः संज्ञाविधानमित्युक्तं भवति । ननु च पुनः संज्ञाविधानात् प्रदेशेषु संज्ञिप्रत्ययः स्थिरतरो भवेत् । तृतीया तु कथं बाध्येत । परत्वेन हि बाधिकासौ । नैतत् । असकृद्विधीयमाना संज्ञा
`कर्मप्रवचनीययुक्ते द्वितीया'
इत्यादिप्रदेशेषु द्विरुपतिष्ठते । तत्रैकभुपस्थानं द्वितीयार्थम् । यत्तु द्वितीयमुपस्थानमनुर्लक्षण इति तदनर्थकं मा भूदिति हेतुतृतीयं बाधित्वा द्वितीयमेव स्थिरयति । ननु द्विरुपस्थानात् संज्ञिप्रत्ययो द्विर्भवेत्, न तु द्वितीयाविधिः प्रचयमनुभवति । कार्यार्था संज्ञा गुणभूता । कार्यं द्वितीयाख्यं प्रधानम् । न च गुणभेदे प्रधानभेदः । किमर्थ तर्हि गुणो द्विरुक्तः । निरर्थको भवतु, न त्वियता प्रदानमावर्तते । यद्यपि च प्रधानमात्मसंस्कारार्थं गुणदेशं गच्छति यथोद्देशे संज्ञापरिभाषे तथापि साकांक्षस्य गुमदेशगमनादेकेनैव गुमेन नैराकांक्ष्यादपरगुणदेशं किमर्थं व्रजेदिति एकैव द्वितीया । तां परत्वात्तृतीया बाधेत । ननु च प्रधानमन्तरेण गुणानां स्वरूपहानप्रसङ्गात् गुणान्तरमकृतार्थं प्रधानान्तरमाविर्भावयेत् । यथा अमात्या राजाभावे स्वात्मनो गुणरूपमीहमाना राजान्तरं स्यापयन्ति । तत्‌स्थापने तेषामात्मरूपं संपद्यते । राजानमन्तरेणामात्यादेरभावात् । नैतत् समानम्, राजामात्ययोः परस्परमुपकार्योपकारकभावात् । गुणप्रधानभावनियमस्यैवानिश्चयात् । तथा हि राजा प्रकृतीर्धर्मशास्त्रोक्तयां मर्यादायां स्थापयति । स्वयं चानुवर्तते । ताः प्रकृतयोऽपि राजानं विनयन्तीति प्रधानभेदादेव तत्र गुणभेदः । एवं तर्हि उपायविधिरेवोपेयविधिर्भवति । तद्यथा `अनीकस्थो भव' इत्युक्तेऽनीकस्थता हस्तिनामन्नयवसरक्षासंपादनमिति अनीकस्थताविधानद्वारेण तदेव कार्यं विहितं भवति । एवं कर्मप्रवचनीयसंज्ञाविधानद्वारेण तत्कार्यं द्वितीयाख्यमेव विहितं भवति । तथा च पुनर्द्वितीया विधीयमाना बाधकबाधनार्था जायते, येन नाप्राप्तिन्यायेन । संबन्धे हि षष्ठी प्राप्ता, तस्या बाधिका । अत्र वचनसामर्थ्यं निबन्धनम् । अन्यथा पुनः संज्ञाविधानमेव द्वितीयाविधानार्थं कथमुपपद्यते । इत्थं च कृत्वा कल्पनान्तरमप्युपपद्यते । गुणभेदेन प्रधानभेद इति वचनेन न्यायस्य बाधनात् । तथा च भाष्यम्---
`दृष्टान्तस्यापि पुरुषारंभो निवर्तको भवति ' (M. Bha. on P.1.1 85) इति । यद्वा संज्ञाभेदादनुशब्दः संज्ञी भिद्यते । न तु द्वितीयाविधिः प्रधानभूतः, येन न्याय्यो गुणभेदात् प्रधानभेदो भवेत् । संज्ञिभेदाच्च लब्धबलातिशयो द्वितीयाविधिस्तृतीयाविधिं बाधते । यथोद्देशपक्षे च गुणदेशं गच्छत् प्रधानमेकेन गुणेन कृतार्थं न भवति । तत्प्रकरणगतेन सर्वेणार्थित्वात्, संबन्धस्याविशेषात् । अत एव प्रधानान्तरं गुणोऽकृतार्थः कल्पयतु राजान्तरं यथा प्रकृतयः । न च वैसादृश्यं प्रकृतीनां राजकृतोपकारापेक्षित्वेऽपि सर्वथा गुणत्वात् तदङ्गभावपरिपोषार्थमेव हि तत्कृतोपकारापेक्षणम्' न तु स्वप्रधान्यार्थम् । कार्यकालपक्षेऽपि कार्यवाक्ये संज्ञाद्वयं भेदेनैव संज्ञिद्वयमुपपस्थापयति । तस्मात् पुनः संज्ञाविधानलक्षणाद्वचनसामर्थ्यात् प्राप्तातिशयः कक्ष्यान्तरप्राप्तो द्वितीयाविधिः परमपि तृतीयाविधिमपसारयतीत्येव युक्तम् । तथा च वक्ष्यति ।
हेतुहेतुमतोर्योगपरिच्छेदेऽनुना कृते ।
आरंभाद् बाध्यते प्राप्ता तृतीया हेतुलक्षणा ।।
इति । तदित्थमनुर्लक्षण इत्यत्र हेतुरेव लक्षणव्यापकत्वं कथयितुं लक्षमतयोपात्तः सत्यप्यवान्तरभेदेऽनयोः । तथा हि
`लक्षणहेत्वोः क्रियायाः' (P.3.2.126)
इत्यत्र लक्षणाद्भेदेन जनकत्वविवक्षया हेतुरुपात्तः । तदेवं निमित्तसामान्यं त्रिधा विभक्तम् । स्वरूपभेदेन क्रियानिर्वर्तकं कारकम्, सामान्येन जनको हेतुः, ज्ञापके लक्षणमिति ।। 14 ।।
जनकत्वसाम्येऽपि हेतुसाधनयोर्विषयभेदात् भेदमाह---
द्रव्यादिविषयो हेतुः कारकं नियतक्रियम् ।
(23) द्रव्यगुणक्रियासाधनसमर्थं वस्तु द्रव्यादीनां हेतुः । तद्यथा बीजेनाङ्कुरः, धनेन कुलम्, कन्यया शोकः, विद्यया यशः, शिल्पाभ्यासेन नैपुण्यम्, अग्निना पाकः । क्रियासाधनसमर्थमप्यनाश्रितव्यापारं हेतुरेवेति पाकादयो यद्यपि क्रियाः तथाप्यत्रोपरतव्यापाराणां सन्निधिनात्रोपकारितया तेजःप्रभृतीनां विवक्षितत्वादविद्यमानकरणभावास्ते हेतुतृतीयया संबध्यन्ते । धनेन सह संपत्तिक्रियाप्रभावितः कुलस्य संबन्धः । कुलस्य हि धनेन प्रसिद्धिरुपजन्यते । तत्र चोपरतव्यापारं धनं योग्यतामात्रात्कुलस्य हेतुरिति शेषषष्ठीबाधिकया हेतुतृतीयया संयुज्यते कन्यापि जनयितुः शोकस्य जननक्रियाद्वारेण । विद्यापि यशस्विना प्राप्यमाणैव यशसो हेतुरिति प्राप्तिकियाजनितोऽत्र शेषसंबन्धः । एवमन्यत्रापि यथायोगमभ्यूह्यम् । शिल्पाभ्यासेन नैपुण्यमध्ययनेन वसतीति गुणक्रियाविषयता हेतोः । क्रियासाधननियतं तु कारकम् । तत्र हि क्रियैव विषयभूता नियता, व्यापाराविष्टत्वं च स्वरूपभेदः । कस्यचित्तु व्यापारविष्टस्यापि क्रियाविषयस्य शास्त्रीयं हेतुत्वमुक्तमित्याह ।
कर्ता कर्त्रन्तरापेक्षः क्रियायां हेतुरिष्यते ।। 25 ।।
कर्ता प्रयोजकः प्रयोज्यकर्तृशक्तिव्यवधानेन क्रियायमुपयुज्यमानः प्रयोज्यकर्तारं प्रेषयन् तत्प्रयोजको हेतुः इति शास्त्रे हेतुत्वेनेष्यते । वचनात् कारकविशेषोऽपि न त्वयं रूढो हेतुरित्यर्थः ।। 25 ।।
इदानीं क्रियाविषयत्वे समानेऽपि हेतुकारणयोर्विशेषमाह ।
क्रियायै करणन्तस्य दृष्टः प्रतिनिधिस्तथा ।
हेत्वर्था तु क्रिया तस्मान्न स प्रतिनिधीयते ।। 26 ।।
(24) क्रियासाधनाय प्रकृष्टोपकारकं करणमप्रधानम्, क्रिया तु साध्य स्वभावा प्रधानम् । अत एव प्रधानानुरोधित्वाद् गुणानामसति श्रुते करणे शिष्टैः प्रतिनिधिराचरितः । प्रधानभूता हि क्रिया साध्यत्वात् योग्यसाधनाक्षेपसमर्थेति साधनसामान्यस्याक्षेपेऽध्यावापार्थं श्रुतः साधनविनियोग इति तदसंभवेऽपि प्रधानेन क्रियास्वरूपेण यदाक्षिप्तं साधनसामान्यं तद्विशेषान्तरेणापि परिपोष्यमाणं न श्रौतार्थत्यागाय प्रभवति । सामान्यस्यापि श्रुतत्वात् तस्य च सर्वविशेषस्वीकारयोग्यत्वादिति प्रतिनिध्युपपत्तिः पूर्वमेव चर्चिता विस्तरतः । अङ्गभ्रेषेऽपि प्रधानानुच्छेदात् प्रदानक्रियास्वरूपसंरक्षणाय शिष्टैः संप्रदायपारंपर्यावगतं सदृशमङ्गं मुख्यबुद्ध्यैवोपादीयत इति क्रियायाः प्राधान्यस्यैतत् फलम् । अत एव केचित् करणशब्दोऽत्र सर्वकारकवचनो जातौ चैकवचनमिति सर्वाणि कारकाणि गुणभूतानीति गुणस्य प्रतिनिधिरुपपद्यत इति व्याचक्षते । अध्ययनेन वसतीति तु वसतिक्रियाऽऽख्यातात् प्राधान्येनापि प्रतीयमाना वस्तुसामर्थ्यादध्ययनाख्यहेतुपरतन्त्रा । तथा ह्यध्ययनार्थो ममात्र वास इति वक्तारो भवन्ति । न च गुणानुरोधि प्रधानमित्यध्ययनाभावे वासार्थमन्यत् किंचिदत्र प्रतिनिधातुं युक्तम् । अन्यस्य ह्युपादाने तादर्थ्यं क्रिययाः प्रतीयेतेति तदानीं स एव मुख्यो हेतुः स्यात् । तस्मादध्ययनेन वसतीति नेयं करणतृतीया, अपि तु हेतुतृतीयैवेति । न ह्यध्ययनेन व्यापाराविष्टेन वासो निर्वर्त्यते अपि तु वासस्याध्ययनमेव संपाद्यं प्रधानमिति निर्व्यापारं योग्यतामात्रेणोद्देश्यमध्ययनं वासस्य हेतुः । व्यापाराविष्टत्वेऽध्ययनस्य वासं प्रत्यानुकूल्यविवक्षायां भिक्षादिवत् तत्समर्थाचरणात् प्रयोजककर्तृत्वम् , अध्ययने वासयतीति । तदेवं कारकविषये क्रियाप्रधानं कारकं गुणभूतम् । हेतुविषये तु विपर्यय इत्यनेनापि विशेषेण कारकाद्धेतोर्यतिरेक उक्तः ।। 26 ।।
इदानीं चतुर्थीविषयं तादर्थ्यं तृतीयाविषयाद्धेतोर्यतिरेचयितुमाह ।
प्रतिलोम्यानुलोम्याभ्यां हेतुरर्थस्य साधकः ।
तादर्थ्यमानुलोम्येन हेतुत्वानुगतं तु तत् ।। 27 ।।
(25) अपचीयमानावस्थो हेतुरपतिकमेव कार्यं जनयन् प्रातिलोम्योपलक्षितः । तद्यथा जलमातपसंसर्गविशेषोपजातापचितरूपमुत्तरोत्तरापचिततरापचिततमलक्षणावस्थापरंपरासादनानुगुणम् । अर्थान्तरसंसर्गोपचीयमानरूपविशेषं तु कार्यमुपचिततरमेव जनयन् कारणमानुकूल्योपलक्षितो हेतुः । तद्यथा बीजमुदकातपसंयोगाहितविशेषमुच्छूनतरावस्थमङ्कुरप्रसवसमर्थम् । इत्थं द्विप्रकारो हेतुः । तद्विशेषस्तु तादर्थ्यम् । आनुकूल्यैकनियतमर्थसिद्धिनिमित्तमानुकूल्येन यद्धेतुत्वं जनकत्वं तदनुगतं हेतुविशेषरूपम् । तादर्थ्यं कार्यकारणसंबन्धस्योद्भूतरूपमित्यर्थः । तत्र चतुर्थी तदनुगतं हेतुविशेषरूपम् । तादर्थ्यं कार्यकारणसंबन्धस्योद्भूतरूपमित्यर्थः । तत्र चतुर्थी कुण्डलाय हिरण्यमिति । `तस्मा इदं तदर्थम्' इति इदमोपकारकस्य निर्देशः, तच्छब्देनोपकार्यस्य । समासाद्भावप्रत्ययेन संबन्धस्योद्भूतरूपाभिधानम् । तत्र चोत्तरपदार्थस्य कारणरूपस्य प्रज्ञापनीयत्वेन प्राधान्यात्तच्छब्दवाच्ये गुणे संबन्धः पदं बध्नाति । तत्र ह्यसावुद्भूत इति तादर्थ्ये कारणस्योपकारित्वे गम्यमाने कार्यकारणसंबन्धोद्भवे चतुर्थी विधीयमाना कार्यवाचिन एव भवति । तथैव कारणगतस्यापि संबन्धस्य निर्भोगात् । कारणवचनात्तृतीया न भवति । कार्यमेव प्रयोजकतया परिणतं तदर्थमित्युच्यत इत्ययुक्तमभिधानम् । उत्तरपदार्थप्रधानत्वात्तदर्थशब्दस्य कारणवचनता न्याय्या यतः । अत एव हेतुत्वानुगतं तादर्थ्यम् । कारणविशेषो न कार्यम् । यदर्थमस्य गमनं तदनेन साधितमित्यत्र तूपसर्जनस्यैव यच्छब्देनोद्दिष्टस्य समानाधिकरणेन तच्छब्देन निर्देशात् सर्वनामर्थः कार्ययोगी युक्तः । न त्वेतावतेह सर्वनामार्थस्य प्राधान्यमुत्तरपदार्थे गुणत्वात् ।। 27 ।।
तदेवं कारकं हेतुर्लक्षणं तादर्थ्यमिति निमित्तत्वसाम्येऽपि प्रविभक्तस्वरूपविषयाः पदार्थाः इति न तत्र लक्षमसाङ्कर्यप्रसङ्ग इत्यानुषङ्गिकेऽर्थे निर्णीते प्रस्तुतमेव कारकविषयं विचारं प्रस्तावयितुमाह ।
सर्वत्र सहजा शक्तिर्यावद्‌द्रव्यमस्थिता ।
क्रियाकाले त्वभिव्यक्तेराश्रयादुपरकारिणी ।। 28 ।।
(26) अनित्यानां पदार्थानां स्वहेतोरेव शक्तानामुद्भव इति सहजाता शक्तिः । न ह्यनाधेयातिशयत्वाद् भावानामशक्तस्योत्पत्तावनन्तरमाधातुं शक्यते शक्तिः । नित्यानां तु स्वाभाविकी शक्तिः । आश्रयसमवेतास्तु शक्तयः । तदपाये निराधारा नावस्थातुं पारयन्तीति यावद्द्रव्यभाविन्यः । एवमपि सहकारिसन्निधाने स्वकार्योद्युक्ताः शक्‌त्याभिव्यक्तिमाश्रयन्ते भावा इत्यभिव्यक्तिकाल एव कार्योपयोगित्वात् साधनमित्युच्यन्ते नान्यदा सत्वेऽपि । तथा हि ।
कुड्यस्यावरणे शक्तिरस्यादीनां विदारणे ।
सर्वदा स तु सन् धर्मः क्रियाकाले निरूप्यते ।। 29 ।।
(27) आवरकं कुड्यम्, पाटकं च शस्त्रम् , छेद्यावरीतव्यवस्तुसन्निधाने ज्ञायत इति विद्यमाना शक्तिर्विषयायत्ताऽभिव्यक्तिः । परिच्छिद्यते त्रिकालाऽप्यर्वाग्दर्शनैः । उपादाननियमाद्धि कार्यात् पूर्वमपि शक्तिरस्ति । पुनरपि कार्यकारणादुत्तरकालमपि ।
आगमेनाप्येतत् संवादयति ।
स्वाङ्गसंयोगिनः पाशा दैत्यानां वारुणा यथा ।
व्यज्यन्ते विजिगीषूणां द्रव्याणां शक्तयस्तथा ।। 30 ।।
(28) दैत्यानां स्वकर्मनिर्माणा वारुणाः पाशाः स्वहस्ततलावलीनाः सदा सन्निहिताः शक्तिरूपेणेत्यागमः । ते तु परसैन्यावजयवेलायामभिव्यज्यन्त इति श्रूयते । एवं द्रव्याणां सदा सन्निहिताः शक्तयः स्वकार्यनिष्पादनकाले प्रकाशन्त इत्यपि युक्तम् ।। 30 ।।
यदुक्तमस्त्रादीनां विदारणे शक्तिरिति तदेव प्रतन्यते ।
तैक्ष्ण्यगौरवकाठिन्यसंस्थानैः स्वैरसिर्यदा ।
छेद्यं प्रति व्याप्रियते शक्तिमान् गृह्यते तदा ।। 31 ।।
(29) निबिडतरसंहननानामवयवानां क्रमेणाग्रे सूक्ष्पीभवतां तनुत्वप्रकर्षस्तैक्ष्ण्यम्, छेदनिमित्तं धर्मः । भिन्नजातीयावयवसंभेदविच्छेदे विच्छिन्नान्तरालानामवयवानामुपचयाद् गौरवं निपतनहेतुर्धर्मः । तापनोत्तेजितानां लोहावयवानां निबिडत्वं काठिन्यं नाम धर्मो यतः प्रहारविशेषो निष्पद्यते । संनिवेशविशेषो मण्डलाग्रादिव्यपदेशनिबन्धनमस्यन्तराद्विभागहेतुः संस्थानम् । यतः प्रहारवैचित्र्यमाजायते । तदेतैर्धर्मैरसियष्टिश्छेद्यविपाटनमारभमाणा शक्तिमतीति गृह्यते । व्यापारशून्या तु सत्स्वप्येतेषु धर्मेषु न तथावसीयते । एवमन्येषामपि पदार्थानां यथायोगं वाच्यम् । असेरुपलक्षणत्वात् ।। 31 ।।
पक्षान्तराण्यप्यत्र साधने संभवन्तीत्याह ।
प्राङ् निमित्तान्तरोद्भूतं क्रियायाः कैश्चिदिष्यते ।
साधनं सहजं कैश्चित् क्रियान्यैः पूर्वमिष्यते ।। 32 ।।
(30) सिद्धे सत्वेऽभिव्यक्तिप्रतीक्षा शोभते । सत्त्वमेव तु शक्तीनां कार्यानुमेयत्वात् क्रियातः पूर्वमसिद्धमिति क्रियायाः पूर्वमपेक्षणीयान्निमित्ताच्छक्तयो द्रव्याणां क्रियानुगुणा जायन्त एव । सत्वेऽप्यभिव्यक्तिनिमित्तमपेक्षणीयमिति तदेव जनकम् । तथा हि सहकारिसव्यपेक्षाणां भावानां जनकत्वात् परस्परहितशक्तयस्ते स्वकार्यहेतव इत्युन्नीयन्ते, केवलानामजनकत्वात् न तदानीं शक्ता इति न स्वाधारजनकादेव शक्तिजन्म, अपि तु निमित्तान्तरादेव । प्रत्यभिज्ञायमानत्वाच्च शक्ताशक्तत्वेऽपि न वस्तुभेद इति केचित् । अत एवोपादाननियमोऽपि योग्यतावधारणत् सिद्धः । अन्ये तु शक्तेर्वस्तुनोऽनन्यत्वात् स्वभावभेद एव शक्ताशक्तत्वे मन्यन्ते । सहजं कैश्चित् सादनं शक्तिर्द्रव्याणामिष्यत इति पूर्वप्रतिपादितपक्षानुवादः । केचितु न येनैव कारणेन क्रिया जन्यते तेनैय साधनम्, अपि त्वन्येनैवेति क्रियापेक्षया निमित्तान्तरत्वं मन्यमानाः सहजत्वमपि क्रियापेक्षयैव व्याचक्षते । तथा हि इतरेतरस्य शक्तिमर्पयन्तः क्रियां निर्वर्तयन्ति भावाः सहकारिणः इति साधनशक्तिभिः सहैव क्रियाणां व्यापाररूपाणां जन्म मन्यते । तथा च येभ्य एव क्रिया जायन्ते तेभ्य एव शक्तय इति सहजत्वम् । उपजातशक्तयस्तु क्षणान्तरे क्रियानिर्वर्तका इति साध्यसाधनभावे नास्ति क्षतिः न हि साध्यसाधनयोः सहभावः प्रमाणोपपन्नः ।। 32 ।।
अन्ये तु साधनात् पूर्वभाविनीं क्रियां मन्यन्ते । तत् कथं युज्यत इत्याह । प्रवृत्तिरेव प्रथमं क्वचिदप्यनपाश्रिता ।
शक्तिरेकाधिकरणे स्रोतोवदपकर्षति ।। 33 ।।
(31) अनपेक्षितहेतुव्यापारा नित्या क्रिया अनपाश्रिता क्वचिदपि भण्यते । स्वाश्रये तु समवेतैव । अत एव तत्राश्रये साधनशक्तीराविर्भावयति प्रतिनियतस्वकार्यसंपादिकाः । अन्ये त्वनाश्रितैवेत्याहुः । सततव्यापारप्रवहद्रूपा नदीप्रवाह इव तृणपर्णलतादीन् साधनशक्तिः प्रवृत्तिलक्षणा क्रिया कर्षति वहतीति केषांचिज्जरन्मीमांसकानामागमः । रजोलक्षणा वा प्रवृत्तिर्नित्या सर्वभावेष्वनुयायिनी स्वकार्यप्रसवसमर्था कार्याणि जनयतीति सांख्यनयः । व्यापाराविष्टस्य सर्वस्य कार्यजनकत्वाद् व्यापारः पूर्वभावी समवस्थितः । तेन च शक्‌त्याक्षेप इति युक्तम् ।। 33 ।।
केयं प्रवृत्तिरनपाश्रया नित्येत्याह ।
[इतो ग्रन्थपातसन्धानाय फुल्लराजकृतिर्लिख्यते । ]
इदानीं मतान्तरानुसारेण साधनस्वरूपं वर्णयितुमाह ।
अपूर्वं कालशक्तिं वा क्रियां वा कालमेव वा ।
तमेवंलक्षणं भावं केचिदाहुः कथंचन ।। 34 ।।
(32) अपूर्वं धर्माधर्माख्यमदृष्टसंज्ञकं केचिदेवंरूपं तं सामर्थ्यलक्षणं भावमाहुः । अदृष्टवशाद्धि सर्वं भवति वा न वेत्यदृष्टमेव सर्वकार्याणां निमित्तं बोद्धव्यम् । केचित्तु वादिनः कालशक्तिम् एव भगवतो ब्रह्मणः संबन्धिनीं साधनमाहुः । कालशक्‌त्यनुप्राणितं हि सर्वं क्रियायै प्रभवति । क्रियां वा राजसीमनन्तरोपवर्णितस्वरूपा साधनमाहुः । न तूत्तरकालभावि किंचन साधनं नाम शक्यं निरूपयितुम् । पूर्वं क्रियामूलं सादनं व्याख्यातम् । अधुना क्रियैव साधनमिति विशेषः । सैव हि स्वयं प्रवर्तमाना विशेषीभवतीति कालमेवा वा नित्यमेकमित्यादिलक्षणलक्षितं द्रव्यकालवादिनः साधनमाहुः । कालवशाद्धि सर्वे भावाः प्रभवन्ति कार्यसंपत्तये इति काल एव साधनम् । यथा वक्ष्यति
`यदि न प्रतिबध्नयात्...' (Vak.III का. v.5)
इति ।। 34 ।।
अथ शक्तेः सामर्थ्यलक्षणायाः साधनत्वेन पूर्वं निरूपितायाः संख्याविचारं कर्तुमाह ।
नित्याः षट् शक्तयोऽन्येषां भेदाभेदसमन्विताः ।
क्रियासंसिद्धयेऽर्थेषु जातिवत् समवस्थिताः ।। 35 ।।
(33) अन्येषां मतेनार्थेषु नित्याः पट् शक्तयः पृथग्लक्षणलक्षिताः कर्माद्या व्यवस्थिता इति स्थितम् । कीदृश्यः । भेदाभेदसमन्विताः, एकान्तेनार्थेभ्यश्चेद्भेदसमन्विता अभिधीयेरन्नर्थस्य शक्तिवैकल्यान्नीरूपता स्यात् । अथाभिन्नाः कथ्यन्ते तर्हि विभिन्नकार्योदयो नावतिष्ठते । तस्मात् कथंचिद् भेदेन, कथंचिदभेदेनेति भेदाभेदाभ्यां समन्विताः शक्तयोऽर्थजातिवदवस्थिताः यथा सत्वद्रव्यत्वगोत्वशाबलेयत्वादिजातयः सततं भेदाभेदसमन्वयेनार्थेष्वित्येके मन्यन्ते ।। 35 ।।
तासां तु द्रव्यादिभेदेनानन्त्येऽपि षट्‌त्वमेव षड्‌विधत्वमेव तत्त्वं नातिवर्तत इत्याह ।
द्रव्याकारादिभेदेन ताश्चापरिमिता इव ।
दृश्यन्ते तत्त्वसायां तु षट् शक्तीर्नातिवर्तते ।। 36 ।।
(34) द्रव्यभेदेन भिन्ना शक्तिः । यथा दात्रमन्यथा छिनत्ति, खङ्गोऽन्यथेति । आकारभेदेन खङ्गोऽन्यथा खङ्गलता त्वन्यथेति । आदिग्रहणाद्देशकालभेदेन सैव दहनशक्तिरग्निवैचित्र्यमुपयाति, षट्‌त्वं पुनस्तत्स्वरूपं नातिक्रामति ।। 36 ।।
अथैकैव शक्तिर्निमित्तभेदाद्विशेषरूपतया षोढात्वमापन्ना वा साधनमित्याह ।
निमित्तभेदादेकैव भिन्ना शक्तिः प्रतीयते ।
षोढा कर्तृत्वमेबाहुस्तत्प्रवृत्तेर्निबन्धनम् ।। 37 ।।
(35) यस्मात् कर्तृत्वमेव निमित्तभेदेनेप्सिततमत्वादिना ज्वलनत्वादिना वा षोढावस्थितः सन् तत्‌प्रवृत्तेः शक्तिभेदप्रवृत्तेः कारकव्यवहारभेदस्य निबन्धनं निमित्तभूतं बोद्धव्यम् । यथोक्तम्-एधाः पक्ष्यन्त्या विक्लित्तेः ज्वलिष्यन्तीति ज्वलनक्रियाकरणस्य पाक इत्यादिन्यायेन कर्तृत्वमेवावान्तरव्यापारविवक्षया करणादिव्यपदेशरूपतां भजते ।। 37 ।।
तदेवमेकानेका वा शक्तिरुपपादिता । अथासौ व्यतिरिक्ता वा स्यादव्यतिरिक्ता वेत्याशङ्क्याह---
तत्त्वे वा व्यतिरेके वा व्यतिरिक्तं तदुच्यते ।
शब्दप्रमाणको लोकः स शास्त्रेणानुगम्यते ।। 38 ।।
(36) भेदाभेदाभ्यां तावदनिर्वाच्यसौ केवलं भेदाभेदसमन्वितेत्युक्तम् । अथात्र निष्कोषाणिकां करोषि तत्त्वया सहास्माकं किं प्रयोजनम् । सर्वथा शक्तिशक्तिमतोरेकान्तेन तत्त्वमव्यतिरेको वाभेद एव वा । वैयाकरणनयानुसारिभिस्त्वस्माभिः सामर्थ्यं व्यतिरिक्तमेवोच्यते । यस्मात् शब्दप्रमाणको लोकः । शास्त्रेम चानेन स एवानुगम्यत इत्याह `स शास्त्रेणानुगम्यते । लोकप्रतीत्यनुसारेण हि शब्दस्यार्थो वितन्यते । लोकश्च शब्दक्रियानिमित्तायाः शक्तेर्व्यतिरेकमेवानुगच्छति । अव्यतिरेके हि सततं क्रियानिष्पत्तिप्रसङ्ग इत्युक्तम् ।। 38 ।।
अथ परमार्थपर्यालोचनां विना न निर्वृतिमुपलभसे तदत्रोच्यते किंचिदित्याह ।
परमार्थे तु नैकत्वं पृथक्‌त्वाद्भिन्नलक्षणम् ।
पृथक्‌त्वैकत्वरूपेण तत्त्वमेव प्रकाशते ।। 39 ।।
(37) पृथक्‌त्वाद्भिन्नलक्षणं पृथक्‌त्वव्यतिरिक्तं नैकत्वमस्ति, पृथक्‌त्वैकत्वरूपेण हि तत्त्वमेव प्रकाशते । तद्धि व्यतहारदशायां पृथक्‌त्वेन प्रकाशते । अविद्याविलये त्वेकत्वेन प्रकाशते इति बोद्धव्यम् ।। 39 ।।
एतदेव व्याख्यातुमाह ।
यत् पृथक्‌त्वमसंदिग्धं तदेकत्वान्न भिद्यते ।
यदेकत्वमसंदिग्धं तत् पृथक्‌त्वान्न भिद्यते ।। 40 ।।
(38) असंदिग्धं याथात्म्यावगमात् सन्देहं विना कृतं यत् पृथक्‌त्वं तदेकत्वान्न भिद्यते । यच्चैकत्वमसंदिग्धं विगतभ्रमं तत् पृथक्‌त्वान् नानात्वान् न भिद्यते ।। 40 ।।
तथा च यदैकत्वं काष्ठामनुप्राप्तं तदा सर्वत्र तदेव प्रकाशत इत्याह ।
द्यौः क्षमा वायुरादित्यः सागराः सरितो दिशः ।
अन्तः करणतत्त्वस्य भागा बहिरवस्थिताः ।। 41 ।।
(39) अथवास्तां कतिपयवस्तुविषयो नानात्वैकत्वविचारः । य इमे द्यौश्चाकाशं च पृथिवी च द्यावापृथिव्यौ महत्यौ महाभूतसंज्ञिके वस्तुनी, तदन्तरे च वायुरपि तृतीयः, तथादित्यलक्षणमपि सकलतेजसां प्रधानं दिव्यं तेजः, आपः सरित्समुद्रा वा विकाराः, सर्वाण्येतानि महाभूतानि सकलजगज्जीवितभूतानि, दिशो वा लोकव्यवहारनिमित्तभूताः, कालश्च वक्ष्यमाणः, तदेतत् सर्वम् `अन्तःकरणतत्त्वस्य' इति अन्तःकरणसंज्ञकं अन्तःकरणत्वेनान्तररूपतया प्रतिभासमानं यत् तत्त्वं तस्यैवैते भागाः प्रतिबिंबकाः आभासा बहिरवस्थिताः । परमार्थे तु कीदृशोऽन्तर्बहिर्भावः । एकमेव संविन्मयं परं शब्दब्रह्म तथा तथावस्थितमिति कारिकार्थः ।। 41 ।।
महाभूतरूपत्वं दिग्रूपतां चाभिधाय कालरूपतां तस्यैव प्रतिपादयन्नाह ।
कालविच्छेदरूपेण तदेवैकमवस्थितम् ।
स ह्यपूर्वापरो भागः पररूपेण लक्ष्यते ।। 42 ।।
(40) स ह्यपूर्वापरः परमार्थेन । अथवा कालशक्तिवशात् चिरक्षिप्रादिक्रमेण लक्ष्यते । तदेवं पदार्थसामर्थ्येन लोकप्रसिद्ध्या वैयाकरणमतेन साधनम् । अथ वा बुद्धिप्रकल्पनारूपं विज्ञानवादाभिप्रायेण, संसर्गिरूपं वा पदार्थान्तरभूतं संसर्गवादानुसारेण, अदृष्टलक्षणपूर्वशब्दवाच्यं वा मीमांसकदृष्ट्या, ब्रह्मसंबन्धिनी ला कालशक्तिरद्वैतदर्शनेन, क्रिया राजसी प्रवृत्तिरूपा वा सांख्यदर्शनानुसारेण, नित्यमेकं द्रव्यलक्षणं वा कालरूपं द्रव्यकालवादिनां मतेन विज्ञायम् । साधनप्रस्तावेन च कारकशब्दविचारः तत् प्रसङ्गेन च हेतुलक्षणकारककरणतादर्थ्यानां भेदनिरूपणपूर्वकं लेशतः स्वरूपमुक्तम् । ततः शक्तेः किं सह प्रागुत्तरकालं वा भाव इति कालविकल्पः । सा च किं कर्मदिभेदेन भिन्नैवाहोस्विदेकैव तथा तथा परिकल्प्यत इति संख्याविकल्पः । सा च किं पदार्थाद्व्यतिरिक्तैवाथाव्यतिरिक्तेति व्यतिरेकाव्यतिरेकचिन्ता तत्प्रस्तावेन च ब्रह्मस्वरूपनिरूपणमिति प्रकरणस्य समुदायार्थः ।। 42 ।।
इदानीं प्रकृतं वैयाकरणमतमेवानुबध्नन् शक्तेर्व्यतिरेकमेवान्वयव्यतिरेकमुखेन परिघटयन् सद्भावमुपपादयितुमाह ।
दृष्टो ह्यव्यतिरेकेऽपि व्यतिरेकोऽन्वयेऽसति ।
वृक्षाद्यर्थान्लयस्तस्माद्विभक्‌त्यर्थोऽन्य इष्यते ।। 43 ।।
(41) अव्यतिरेके अभेदेऽपि प्रकृत्यर्थस्य वृक्षो वृक्षं वृक्षेण वृक्षायेत्यादौ विभक्‌त्यर्थस्य साधनलक्षणस्य व्यतिरेकः तथा तत्रैव विभक्त्यर्थस्यासत्यन्वये प्रातिपदिकार्थस्यान्वयोऽनुगमो दृष्टः । ततो मन्यामहे अस्ति कश्चिद् व्यतिरिक्तः प्रत्ययार्थभूतोऽनपह्नवनीयः साधनलक्षणः शक्तिशब्दवाच्योऽर्थ इति साधनसिद्धिः ।। 43 ।।
इदानीं व्याख्यातस्योपसंहाराय व्याख्येयस्योपक्रमाय कारिकामाह ।
सामान्यं कारकं तस्य सप्ताद्या भेदयोनयः ।
षट् कर्माख्यादिभेदेन शेषभेदस्तु सप्तमी ।। 44 ।।
(42) सामान्यं कारकमिति व्याख्यातार्थोपसंहारः । तस्य सप्तेत्यादिना व्याख्येयार्थोपोद्धातः । तत्र आद्याः प्रधानभूताः सामान्यसाधनापेक्षया भेदरूपाश्च ता योनयः स्वकानां भेदानामिति भेदयोनयः । अथ वाद्याः सप्त भेदानां च स्वकानां योनयः कारणानि । कथमित्याह `षट् कर्माख्यादिभेदेन' इत्यादि । कर्मादिव्यपदेशभेदेन सप्त कारकशक्तयो लक्ष्यन्तेऽधुनेति साधनसमुद्देशसङ्गतिः ।। 44 ।।
कर्मादिभेदेन सप्तभेदभिन्ना तावत् कारकमुद्दिष्टम् । अथ तदनुक्रमेण कर्म तावत् संख्याभेदप्रदर्शनपूर्वकं व्याख्यातुमाह ।
निर्वर्त्यं च विकार्यं च प्राप्यं चेति त्रिधा मतम् ।
तत्रेप्सिततमं कर्म चतुर्धान्यत्तु कल्पितम् ।। 45 ।।
(43) कारकविशेषनिर्देशश्च विभक्‌त्यनुक्रमानुसारेणेह प्रदर्शितः । सूत्रेषु तु विप्रतिषेधपरिभाषामनुरुध्यापादानादिक्रमेणोक्तम् । तत्र विभक्तयः स्वौजसमाद्याः । कारकमभिहितमनभिहितं च भवति । तत्र प्रथमाभिहितकारकविभक्तिः प्रातिपदिकार्थमात्र एव विधीयते । द्वितीयादयश्च सर्वा अनभिहिते कारकविभक्तय इत्येकप्रकमत्वाद् द्वितीयाद्यर्थानुसारेणैवोपक्रमे । द्वितीयाद्यर्थश्च कर्मादिः । यदुक्तम्
`कर्मणि द्वितीया' (P.2.3.2)
इत्यादि । अतः कर्मण एवादौ व्याख्यावसरप्राप्ता । तत्र कर्तुः क्रियया यदीप्सिततममाप्तुमिष्यमाणतमं तदेव लक्षणं प्रथमसूत्रनिर्दिष्टम् । कर्म त्रिधा त्रिभिः प्रकारैः निर्वर्त्यविकार्यप्राप्यरूपैर्भिन्नमनेकान्तर्निर्दिष्टं बोद्धव्यम् । अथा अन्यत् सूत्रान्तरनिर्दिष्टमपि भेदायितुमाह चतुर्धान्यत्तु कल्पितम् इति ।। 45 ।।
कथमित्याह ।
औदासीन्येन यत् प्राप्यं यच्च कर्तुरनीप्सितम् ।
संज्ञान्तरैरनाख्यातं यद्यच्चाप्यन्यपूर्वकम् ।। 46 ।।
(44) औदसीन्येन ताटस्थ्येन यत् प्राप्यम् । यथा ग्रामं गन्तुर्वक्षमूलादि । तथा यत कर्तुरिनीप्सितम् चोरविषादि । एतत्
`तथायुक्तं च नीप्सितम्' (P.1.4.50)
इति द्वितीयसूत्रनिर्दिष्टं तावद् द्विविधम् । तथा च येनैव प्रकारेण कर्तुरीप्सिततमं तेनैव चेत् अनीप्सितम् ईप्सितादन्यद् द्वेष्यं विषादि, इतरच्च यदौदासीन्येन प्राप्यं वृक्षमूलाद्युक्तम् । तथा संज्ञान्तरैः अपादानादिसंज्ञाभिरनाख्यातमपि क्रियानिमित्तम् । एतद्
`अकथितम् च' (P.1.4.51)
इति तृतीयसूत्रनिर्दिष्टं वेदितव्यम् । तथा `यद् यच्चाप्यन्यपूर्वकम्' इति । अन्यत् कारकं पूर्वं यस्य । यथा `देवदत्तमभिक्रुध्यति', `देवदत्तमभिद्रुह्यति' इति । अत्र हि
`क्रुधद्रुहोरुपसृष्टयोः कर्म' P.1.4.38
इत्यनेन कुधद्रुहोरुपसृष्टयोः उपसर्गसंबन्धयोः यं प्रति कोपः तत् कारकं पूर्वसूत्रेण संप्रदानसंज्ञमपि कर्मसंज्ञमेव भवति । तथाक्षान् दीव्यतीत्यत्र
`दिवः कर्म च '(P.1.4.43)
इत्यनेन दिवः साधकतमं यत् पूर्वसूत्रेण करणसंज्ञमेव कर्मसंज्ञं भवति ।। 46 ।।
अथ निर्वर्त्यादि त्रिविधमुद्दिष्टं व्याख्यातुमाह ।
सती वाविद्यमाना वा प्रकृतिः परिणामिनी ।
यस्य नाश्रीयते तस्य निर्वर्त्यत्वं प्रचक्षते ।। 47 ।।
(45) यस्य निर्वर्त्यमानस्य घटादेः प्रकृतिः सती वा यथा मुदादिका, अविद्यमाना वा यथा शब्दः संयोगादेः परिणामिनी अभेदेन नाश्रीयते मृदं घटं करोतीत्याद्येवंरूपतया न विवक्ष्यते, किं तर्हि, मृदा घटं करोतीत्यादिभेदेनैव । यदा प्रकृत्या सह विवक्षा तदा तन्निर्वर्त्यं कर्म प्रचक्षते कर्मविदः ।
विकार्यं व्याख्यातुमाह---
प्रकृतेस्तु विवक्षायां विकार्यम्
(46) प्रकृतेः कारमस्य परिणाभित्वेन यदा विवक्षा क्रियते मृदं घटं करोति, काशान् कटं करोति, अङ्गारान् भस्म करोति इत्यादि तदा विकार्यं कर्म प्रचक्षते । अथापरय मतान्तरोपन्यासच्छलेन प्रकारभेदकथनवाञ्छया निर्वर्त्यविकार्ये निरूपयितुमाह---
कैश्चिदन्यथा
निर्वर्त्यं च विकार्यं च कर्म शास्त्रे प्रदर्शितम् ।। 48 ।।
कथमित्याह
यदसज्जायते सद्वा जन्मना यत्प्रकाश्यते ।
तन्निर्वर्त्यं विकार्यं च कर्म द्वेधा व्यवस्थितम् ।। 49 ।।
(47) यदसद् वैशेषिकाद्यनुसारेण जायते सांख्यमतेन सदेव वा जायते तदुभयमपि जन्मना प्रकास्यमानत्वान्निर्वर्त्यं कथ्यते । एतदुक्तं भवति । सत्कार्यवादिनामस्माकं निर्वर्त्यं कर्मास्तीति वक्तुं पार्यते । सती तस्य प्रकृतिर्भवत्वसती वा । सर्वथा जन्मना प्रकास्यमानत्वेन निर्वर्त्यत्वस्य न काचित् न क्षतिः । सदसद्वा जन्मना यत् प्रकाश्यते तन्निर्वर्त्यम् । असज्जायते इत्यविद्यमानप्रकृतेः कर्मणा निर्वर्त्यमानता पूर्वोक्तैवानूदिता, असज्जन्मना प्रकाश्यत इति । अयमत्र विशेषः । तद्यथा पुत्रं प्रसूते, शब्दं प्रयुङ्क्ते इत्यत्र कुक्षिस्थस्य सत एव पुत्रस्य विवक्षितस्य च शब्दस्य प्रसवप्रयोगाभ्यां प्रकाशनम् । सतः प्रकाशनं हि जन्मात्र विवक्षितस्य च शब्दस्य प्रसवप्रयोगाभ्यां प्रकाशनम् । सतः प्रकाशनं हि जन्मात्र विवक्षितम् । जन्मग्रहणेन प्रवृतिविवक्षायां विकार्यतामाह । अन्यथाभिव्यज्यमानस्य निर्वर्त्यकर्मताभावमपि जन्मग्रहणेनाह । तेन वेदमधीते इत्यादौ वेदादेरध्ययनेन प्रकाश्यमानस्य निर्वर्त्यकर्मताभावात्
"कर्मणि निर्वर्त्यमानविक्रियमाणे इति चेद् वेदाध्यायादीनामुपसंख्यानम् ।"
(Va. on P.3.2.1)
इत्युच्ते । इत्थं च प्रकृत्यर्थविवक्षायमेवैतन्निर्वत्यं कर्पोक्तमिति
कैश्चिदन्यथा
इत्यसङ्गम् । तस्मात् सदसत्‌कार्यवादिमतभेदेनैतद् व्याख्येयम् । पूर्वं लोकप्रतीत्यनुसारेणोक्तम् । इह तु तीर्थिकमताश्रयेणापीति विशेषः ।। 49 ।।
"विकार्यं च कर्म द्वेधा व्यवस्थितम्" । प्रतिव्यक्ति लक्षणं वक्तुं व्यक्तिभेदः पूर्वमुक्तः । लक्षणमाह---
प्रकृत्युच्छेदसंभूतं किंचित् काष्ठादिभस्मवत् ।
किंचिद् गुणान्तरोत्पत्त्या सुवर्णादिविकारवत् ।। 50 ।।
(48) निरन्वयविनाशात् प्रकृतेरुच्छेदः । तद्यथा काष्ठादेर्भस्मादि । काष्ठानि भस्म करोति । पूर्ववत् प्रकृतिविकारयोः क्रियासंबन्धो योज्यः । पूर्वेण तु लक्षणेन निर्वर्त्यमेतत् कर्म प्रकृतेरविवक्षायाम् । विवक्षायां तु विकार्यम् । इह त्वविवक्षायामपि प्रकृतौ भस्मादिकार्यं रूपविशेषादेव काष्ठादिमुपमृद्योपजातमिति प्रतितेर्विकार्यम् । पूर्वत्र तु प्रकृतिः साक्षाद्विकार्यं कर्म, तदभेदेन विकारोऽपि । इह तु साक्षाद्विकार एवेति विशेषः । काष्ठानि दहतीति तु प्रकृतिरेव शब्दवती, सामर्थ्यगम्यस्तु विकारो भस्म् । एवं काण्डानि लुनाति, चर्म करोतीत्यादौ वेदितव्यम् । काचित्तु प्रकृतिरत्यजन्ती स्वरूपं संस्तानान्तरापत्त्या विकृतेत्युच्यते इति गुणान्तरस्य सन्निवेशादेर्धर्मस्योत्पत्त्योपलक्षितमपरं विकार्यं कर्म । तद्यथा सुवर्णी कुण्डले भवत इति । असत्कार्यनये यद्यप्यत्रापूर्वोत्पत्तिः तथापि प्रत्यभिज्ञानाल्लोके तत्त्वाध्यवसायाद्गुणान्तरमात्रापत्तिरुच्यते । एतच्च प्रकृतिविवक्षायां पूर्वलक्षणेनापि सङ्गृहीतम् ।। 50 ।।
इदानीं प्राप्यकर्मलक्षणमाह---
क्रियागतविशेषणां सिद्धिर्यत्र न गम्यते ।
दर्शनादनुमानाद्वा तत्प्राप्यमिति कथ्यते ।। 51 ।।
(49) निर्वर्त्ये कर्मणि निर्वृत्तरात्मलाभ एव क्रियाकृतो विशेषो दर्शनात् प्रत्यक्षादेवावधार्यते । विकार्ये तु भस्मकुण्डलादौ विकारः क्रियाकृतो विशेषोऽवधार्यते प्रत्यक्षेण । क्वचित् पुनरनुमानाद्विशेषावसायो यथा परत्र जनितानां मुखप्रसकादादिना लिङ्गेनावसायः । जलावसेकादिक्रियावेशितश्च वनस्पतीनां विशेषः प्रतिकलमवाप्तजन्मा सूक्ष्मत्वादुत्पत्त्यनन्तरमनवसीयमानश्चरमावस्थायां प्रचिततरविशेषदर्शनादवधार्यते । न ह्यं प्रचिततरो विशेषोऽनपेक्षितक्रमो झटित्यशङ्कित एवोदेतुं प्रभवतीति प्रतिक्षणमनुमीयमानः सूक्ष्मरूपः, तस्य हि सूक्ष्मस्य रूपस्य दुरवधारत्वम् । यथा षड्‌जादिस्वरविशेषयोस्तारातितारयोः । तदेवंविधो विशेषो यत्र क्रियाकृतो न संदृश्यते तत्कर्तुः क्रियाया विषयभावमात्रेणेप्सिततमत्वात् प्राप्यं कर्म । तद्यथा आदित्यं पश्यति, नगरमुपसर्पति वेदमधीत इत्यादि । आदित्यादीनां हि संदर्शनादिक्रियया कश्चिदाहितो विशेषो नावधार्यते । प्रमाणाभ्यां क्रियासंबन्धमात्रं तु लक्ष्यते, न च स एव विशेषः । वृत्ते क्रियासंबन्धे वस्तुगतस्य भेदस्य निर्वर्त्यविकार्ययोर्दृष्टत्वात् । नगरे तु गमनक्रियाजनितः संयोगो द्विष्ठो विशेषो भवन्नपि नगरस्य महापरिमाणत्वादल्पपरिमाणेन देवदत्तेन हिमवदङ्गुलिसंबन्धवदलक्ष्यः । पृथिव्येकदेशश्च स्वावयवापेक्षया कल्पितो विशिष्टस्वाधेयाधाररूपो नगरशब्दवाच्यः प्रसिद्ध एवेति न काचिदनुपपत्तिः ।। 51 ।। नास्त्येव प्राप्यं कर्म, सर्वत्र क्रियाकृतविशेषावधारणादिति केचित् । तथा हि---
विशेषलाभः सर्वत्र विद्यते दर्शनादिभिः ।
केषांचित्तदभिव्यक्तिसिद्धिर्दृष्टिविषादिषु ।। 52 ।।
(50) दर्शनादिक्रियाहितविशेषलाभो विकारः सर्वत्र विद्यते, सौक्ष्म्थात्तु नावधार्यते सर्वेणेति केषांचिन्मतम् । तस्य विशेषस्य दृष्टौ विषं येषां तेषु तद्विषयेऽभिव्यक्तेर्निश्चयस्य सिद्धिः । दृष्टिविषैरहिभिर्निरीक्षितो हि विषयो ज्वलनज्वालालीढो लक्ष्यते । तत्साधर्म्यादन्यत्रापि दर्शनादिनाहितः कश्चिद्विशेषो विषये समुन्नेयः । तैजसं हि चक्षुः प्राप्यकारीति तेन युक्तो विषयोऽवश्यं विक्रियते यथा दृष्टिविषदर्शनेन । इंयास्तु विशेषो दृष्टिविषे तेज उत्कटं विषसंपर्काद्विषयं दहति, अन्यत्र तनुतरस्थिति । आदिशब्देनायस्कान्तादीनां ग्रहणम् । तत्सन्निधौ लोहं भ्रमति । कतकफलसन्निधौ हि जलं प्रसीदतीत्यादावस्त्येव क्रियाकृतो विकारः । एतच्च न शास्त्रकारस्य मतम् । केषांचिदित्यन्यमतत्वेनोपन्यासात् । क्वचिद्विशेषदर्शनेऽपि न सर्वत्र तथा भावोऽदृश्यमानविशेषेऽपि युक्तः । किं च क्रियाफलेऽत्र विकारोऽभिप्रेतः । परिदृश्यमानस्तु विषयो क्रियाया हेतुर्न फलम् । दृष्टिविषादावपि तेजःसंयोगाद्विषये विकारो न क्रियाबलात् । एवमयस्कान्तादेर्वस्तुस्वभावोऽयं न क्रियाकृतो विकारः कश्चित् । तस्मादस्त्येव प्राप्यं कर्म क्रियाकृतोपकारानपेक्षम् ।। 52 ।।
न चेद्विकारयोगः प्राप्यकर्मणः कथमस्य क्रियासिद्धावङ्गभावः साधनतासम्पत्त्यर्थः । उच्यते ।
आभासोपगमो व्यक्तिः सोढत्वमिति कर्मणः ।
विशेषाः प्राप्यमाणस्य क्रियासिद्धौ व्यवस्थिताः ।। 53 ।।
(51) योग्यदेशावस्थानेन दर्शनपथमवतरति विषय इति योग्यदेशापत्तिः आभासोपगमः स्वभावदस्य दर्शने उपकारः । योग्यदेशस्थितस्यापि नीहारादिप्रकाशप्रतिबन्धकभावाभावदिप्रदीपादिनिमित्ता व्यक्तिः अङ्गम् । विषयस्य प्रकाशयोग्यदेशस्थितस्यासत्यावरकेऽदृष्यस्वभावः पिशाचादिरिति सोढत्वम्, बोधक्षमता, दृश्यस्वभावताङ्गम् । एतैरतिशयैर्दर्शने साधनभावमनुभवति प्राप्यं कर्म । एते च दर्शनक्रियाहेतवो न तत्कृताः । ग्रामं गच्छतीतियादावपि यथायोगं सोढत्वादयो ग्रामादेर्वाच्याः । समीहाविषयीकृता हि ग्रामादयोऽवभासमाना गमनादिसहाः साधयन्ति गमनादिक्रियाम् । एवमधीयमानं वेदादि अध्यमनसहम् । मातरं स्मरतीत्यपि माता कृतोपकारा क्रूरहृदयस्यापि स्मृतिपथमनुपतन्ती साधयति स्मृतिम् । इप्सिततमत्वानपेक्षायां तु संबन्धित्वसामान्यविवक्षायां शेषषष्ठी मातु स्मरतीति ।। 53 ।।
एवं तावाद् यथाविभागं कर्म लक्षितम् । इदं तु वक्तव्यम्--पूर्वमुक्तं गुणक्रियाणां कर्तारः सर्वे साधनविशेषा इति । तत्कथं कर्मतासंभव इति कर्मकर्तृविचारपातनिकां करोति ।
निर्वर्त्यादिषु तत्पूर्वमनुभूय स्वतन्त्रताम् ।
कर्त्रन्तराणां व्यापारे कर्म संपद्यते ततः ।। 54 ।।
(52) निर्वृत्तिविक्रियाभासापत्तिक्रियासु यथासंख्यं निर्वर्त्यविकार्यप्राप्यलक्षणं कर्म स्वातन्त्र्यं कर्तृत्वमाश्रित्य तदपेक्षयान्येषां निर्वर्त्यादिकर्मविषयत्वाद् बहूनां कर्तॄणां निर्वर्तनादिव्यापारे प्रैषलक्षणे कर्म जायते तेनाप्यमानत्वात् । तथा हि निर्वर्तते विकुरुते आभासमुपैति प्रकाशते इति कर्तारः स्वव्यापारे कर्मभेदात् प्रधानकर्तृव्यापारे विवक्षिते निर्वर्तयति, विकारयति, आभासादिविषयभावमापादयतीति कर्तृप्रैषे स्वामिसन्निधाविव भृत्या न्यग्भवन्तः कर्मभावमनुभवन्ति ।। 54 ।।
एवं तर्हि कर्ता कर्म भवतीति कर्म भूत्वा कर्ता कथं भवति येन कर्मकर्तृत्वसंभव इत्यत आह---
तद्‌व्यापारविवेकेऽपि स्वव्यापारे व्यवस्थितम् ।
कर्मापदिष्टान् लभते क्वचिच्छास्त्राश्रयान् विधीन् ।। 55 ।।
(53) भिद्यते कुसूल इत्यादौ यदा कर्तृप्रैषस्य निर्वृत्तिः कुसूलादेर्विशरारुरूपतया स्वयमेव भिदानुभवात्, लूयते केदार इत्यादवपि शुष्कतरत्वात् कर्तृप्रयत्नानपेक्षणात्, पच्यते ओदनः स्वयमेतेवेत्यादावपि सौकर्यातिशयवशात् कर्तुरनपेक्षणात् तदा स्वव्यापारे स्वातन्त्र्याश्रये कर्तृत्वे शास्त्रेण यत्नेन कर्मकार्यप्राप्त्यर्थः कर्मवद्भावो विधीयत इति कर्मणि अपदिष्टान् विहितान् विधीन् कार्याणि कर्ताऽपि सन् प्राप्नोति । कर्मकर्त्रन्तकव्यापारपातनेन हि स्वव्यापारे कर्तृत्वात् कर्मकार्याणि न स्युरिति शास्त्रारंभः । क्वचिद् इति । कर्मस्थभावानां कर्मस्थक्रियाणां च धातूनां विषय इत्यर्थः ।। 55 ।।
ननु च कर्तृप्रैषे निवृत्ते तदायत्तं कर्मत्वमत्र मा भूत् कर्तृत्वं तु कथं येन कर्मकर्तेति व्यपदेशः । तथा हि । सति प्रधानकर्तरि कर्मणः स्वक्रियायां व्यापारो दृष्ट इति तदभावे कर्मत्ववत् कर्तृत्वमपि कुत इत्याशङ्क्याह ।
निवृत्तप्रेषणं कर्म स्वक्रियावयवे स्थितम् ।
निवर्तमाने कर्मत्वे स्वे कर्तृत्वेऽवतिष्ठते ।। 56 ।।
  (54) धात्वर्थानुकूल्येन चेष्टनं कर्तुः प्रेषणं स्वव्यापारः कारकान्तविनियोगलक्षणम् । तदनभिधीयमाने कर्तरि पच्यते ओदनः स्वयमेवेत्यादौ निवर्तते । कर्त्राश्रयस्य व्यापारस्य कर्तरि प्रत्ययेनाभिधीयमाने धातुनाऽनभिधीयमानत्वात् । प्रतीयमानत्वं तु तस्य द्वयर्थः पचिरिति भाष्यविरोधादसङ्गतमित्याख्यातम् ।
तानि धात्वन्तराणि
इति च वक्ष्यमाणत्वाद् विषयविभागेन धात्वर्थता कर्तृव्यापारस्य ग्रन्थकृतोऽभिप्रेता । तस्मिन्निवृत्ते स्वस्मिन् क्रियावयवे प्रधानक्रियापेक्षया गुणभूते स्वव्यापारेकर्म स्थितम्,कर्तृतया भूतपूर्वगत्या त्वस्य कर्मव्यपदेशः । यद्यपि च कर्तृव्यापारेविवक्षिते स्वक्रियायामेवावस्थानं तद्‌द्वारेण प्रधानक्रियानिर्वर्तनात्, कारकं कर्मेति सामानाधिकरण्याच्च, तथापि सामर्थ्यादत्र प्राधान्येनावस्थानं बोद्धव्यम् । अत एव कर्तृव्यापारापेक्षया कर्मत्वस्य निवृत्तावात्मीये सर्वत्रभवति स्वक्रियाविषये कर्तृत्वेऽवतिष्ठते इति कर्तृव्यापारापेक्षया पूर्वं कर्म भूत्वा सौकर्यातिशयप्रतिपादनपरतया तदविवक्षायां कर्ता सम्पद्यत इति भवति कर्मकर्ता । अयं भावः । न केवलं कर्तृव्यापारस्याविवक्षामात्रे कर्मकर्तृता, अपि तु स्वव्यापारे स्वातन्त्र्यविवक्षायामपि सत्याम् । ततश्चाप्राप्तानि यगादीनि कर्मकार्याणि
"कर्मवत् कर्मणा तुल्यक्रियः" (P.3.1.87)
इति शास्त्रेण प्राप्यन्ते । तदुक्तं वार्तिककृता
"कर्मकर्तरि कर्तृत्वं स्वातन्त्र्यस्य विवक्षितत्वात् " (Va.on P.3.1.87)
इति । तत्र परायत्तोपजनेऽपि भिदादौ कुसूलादेः परानपेक्षा प्रातिपादिता भाष्ये
"यस्तु खलु निवाते निरभिवर्षे अचिरकालकृतः कुसूलः स्वयमेव भिद्यत इति ।"
(M.Bha. on the Va.quoted above)
निवात इति समीरसम्पातमनवाप्येति कर्तृव्यापारो व्युदस्तः । निरभिवर्ष इति सलिलकलासंस्पर्शो व्युदस्तः । अचिरकृत इति कालान्तपरिवासादीयमानविसेषव्युदासः । एते हि पातहेतवः कुसूलस्य संभाव्येरन् इति व्युदस्ताः । एवं चादृढसंनिवेशित्वात् स्वयमेव विशीर्यत इति कर्तृत्वोपपत्तिः । यत्रापि दात्रहस्तो देवदत्तः परिपतन् दृश्यते लूयते केदारः स्वयमेवेति अत्रापि तीव्रकरकिरणसम्पर्कसमुत्सारितस्नेहः परिजर्जरितनालः विशीर्यमाणः केदारः तात्स्थ्यात् व्रीहिरूपो लवने सुकरतामेति । सामग्रीसाध्यत्वाच्च क्रियाणां प्रत्येकं व्यापारोत्कर्षणार्थं स्वातन्त्र्याध्यारोपेणाप्युपपन्नः प्रयोगः देवदत्त छिनत्ति, असिः छिनत्ति, स्थाली पचतीत्यादिः । तत्र च कर्मण एव कर्तुः कर्मवद्भावो नान्यस्य, छिद्यते रज्जुः, पच्यते ओदनः स्वयमेवेति तदेतदुक्तं भाष्ये---
"तत्रापि याऽसौ सुकरता नाम तस्या नान्यः कर्ता..."
(M.Bha.on P.3.1.87)
इति । सौकर्यातिशयवद्‌व्यापारे केदारे समीहिते न देवदत्तश्छेदस्य कर्तृव्यपदेशं प्रतिपत्तु योग्योऽपि तु केदार एवेत्यर्थः । ओदनविक्लित्तौ तु छेदनवत् कर्तृव्यापारोऽपि नावश्यमपेक्ष्यः । अनपेक्षितकर्तृप्रयत्ना एव हि तण्डुला विक्लिद्यन्ति । करणादिकारकविनियोग एव ह्यत्र मुख्यः कर्तृव्यापारो लक्ष्यते ।। 56 ।।
ननु चैक एव पच्यादिर्धातुः क्वचित् कर्तृव्यापारे गुणभूतमर्थमाह पचत्योदनं भिनत्ति कुसूलं लुनाति केदारं देवदत्त इति । क्वचित्तु कर्तृव्यापारेऽप्रतिपन्नगुणभावं स्वप्रतिष्ठमर्थमाह पच्यत ओदनः स्वयमेवेत्यादावित्येषोऽसति रूपभेदे धातूनां विवेको दुर्लभ इति कर्तृप्रत्ययवाच्यैव भावना भवत्वित्याशङ्क्याह---
तानि धात्वन्तराण्येव पचिसिद्ध्यतिवद् विदुः ।
भेदेऽपि तुल्यरूपत्वादेकत्वपरिकल्पना ।। 57 ।।
(55) कर्मकर्तृविषयाणि पच्यादीनि विक्लित्त्यादिनामात्रवचनानि तदुपसर्जनविक्लेदनादिव्यापारवाचिपच्यादिधातुभ्यो धात्वन्तराणि बोद्धव्यानि । अर्थभेदेन शब्दभेदात् । प्रधानं हि शब्दानां प्रतिपाद्योऽर्थः । प्रधानानुयायी च गुण इति न्यायात् प्रत्यर्थं भिद्यते शब्दः । तद्यथा पचेर्विक्लेदनवचनात् सिध्यतिरन्यो धातुर्विक्लित्तिवचनः । धात्वन्तरत्वेऽपि चैकत्वेन रूपाभेदादुपदेशो धातुपाठे डुपचष् पाक इत्यादि । अभिन्नरूपं ह्येकत्वकल्पनासहं वस्तु । यत्र तूपदेशभेदे फलभेदोऽस्ति तत्र द्विस्त्रिरुपदेशः, तद्यथा क्षियत्यादीनां विकरणभेदात् क्षि क्षये भ्ववादौ, क्षि निवासगत्योरिति तुदादौ दिवादौ च, क्षीञ् हिंसायामिति च क्रयादौ ।। 57 ।।
इदानीम्
एकमाहुरनेकार्थं शब्दमन्ये परीक्षकाः
इति नयेनाह---
एकदेशे समूहे च व्यापाराणां पचादयः ।
स्वभावतः प्रवर्तन्ते तुल्यरूपसमन्विताः ।। 58 ।।
(56) तुल्येनाभिन्नेन रूपेण स्वभावेन युक्ता एते धातवोऽभिन्नाः , अबाष्यमानस्यैकाकारप्रत्ययस्याभेदावेदकत्वात् । अनेकार्थत्वमेव वाधकमिति चेन्न । शक्तिभेदेनतदुपपत्तेः । अनेकार्थप्रतिपादनशक्तिर्ह्येकोऽपि शब्दो दृष्टः । यथा ग्रामशब्दः शालासमुदायवाटकपरिक्षिप्तदेशजनसमुदायवचनः । यथा वाक्षादिशब्दाः । तत्र कर्मकर्तृविषये विक्लित्तिमात्रवचनः पचिः, पच्यते ओदनः स्वयमेवेति । देवदत्तस्य कर्तुः प्रत्ययेनानाभिदानात्तद्‌व्यापारस्यात्र धातुवाच्यत्वाभावः । प्रधानभूतो हि पच्यर्थो विक्लित्तिः, सर्वत्र संभवात् । अपेक्षितेऽपि हि कर्तृव्यापारे देवदत्तः पचतीत्यत्र विक्लित्यर्थत्वाद्विक्लेदनस्य कर्तृव्यापारस्यार्थेन रूपेण विक्लित्तेरेव प्राधान्यात्, अत्र च द्वयस्याभिधानात् समूहवृत्तित्वम् । अत्रैव द्वयर्थतोपपत्तिरुक्ता । कर्मकर्तृविषये तु कर्तृप्रत्ययस्याभावात् तद्व्यापारो भावना नाभिधीयते । कर्मैव ह्यत्र कर्ता, तद्व्यापारश्च विक्लित्तिरेवेति सैवाभिधीयते । तद्यथा विक्लिद्यन्ति सिद्ध्यन्ति तण्डुला इति विक्लित्तेरेव कर्तृव्यापारस्याभिधानम्। एवं भिद्यते कुसूलः स्वयमेवेति द्विधाभवनं धात्वर्थः । भिनत्ति कुसूलं देवदत्त इति तदुपसर्जनं द्विधाभवनमित्युदाहार्यम् ।। 58 ।।
तदेवं विचित्रशक्तित्वाच्छब्दानां विषयभेदेनार्थविवेकः समुदितः । इदानीं कर्मकर्तृप्रसङ्गेन
"णेरणौ यत्कर्म"(P.1.3.67)
इत्यत्र
"कर्मकर्तृत्वात् सिद्धम्"(Va.on P.1.3.67)
इत्युक्तत्वात् विचारयति---
न्यग्भावनान्यग्भवनं रूहौ शुद्धे प्रतीयते ।
न्यग्भावना न्यग्भवनं ण्यन्तेऽपि प्रतिपद्यते ।। 59 ।।
अवस्थां पंचमीमाहुर्ण्यन्ते तां कर्मकर्तरि ।
निवृत्तप्रेषणाद्धातोः प्राकृतेऽर्थे णिजुच्यते ।। 60 ।।
(57) इहारोहयते हस्ती स्वयमेवेत्ययं हस्तिव्यापाराभिधायी प्रयोगोऽस्ति कर्मकर्तृविषयः । तस्य चान्वाख्यानोपायपरिकल्पना कर्तव्या । तत्र रूपसामान्यानुगमप्रवर्तितेन रेखागवयवदवयवापोद्धारेण तदर्थाश्रयणेन चान्वाख्यानं प्रवर्त्यते । तथा च यावतीषु सोपानस्थानीयासु अर्थविभागभूमिषु पदं विन्यस्येयं प्रायोगिकी पर्यन्तभूमिः प्राप्येत ता अन्तरालभाविन्यो गण्यमाना भूमयोऽवस्थाशब्दवाच्याः । तत्राद्ये भागे रुहिधातुः प्रत्यभिज्ञायते । तस्य चान्यत्रावस्थाद्वयरूपोऽर्थः प्रसिद्धः, स एवेहाङ्गीक्रियते । तदेतदाह---
न्यग्भावना न्यग्भवनं रूहौ शुद्धे प्रतीयते ।
इति शुद्धे केवले णिज्‌रहित इत्यर्थः । आरोहन्ति हस्तिनं हस्तिपका इत्यत्र न्यग्भवन्तं न्यग्भावयन्तीत्यर्थः । अत्र च धात्वर्थमात्रप्रदर्शने तातपर्यम् । विकरणप्रत्ययाद्युपादानं तु नान्तरीयकम् । नान्यथा प्रयोगार्हः शब्दो लभ्यत इत्यारोहयते हस्ती स्वयमेवेत्यस्यैव धातोरयममर्थः प्रदर्शितो भवति । एवं च कृत्वैकेन शब्देन धातुना नान्तरीयकतयोपात्तप्रत्ययसहायेनावस्थाद्वयं न्यग्भावनान्यग्भवनलक्षणमुपात्तम् । धातुभागादूर्ध्वं चात्र गुणायादेशलक्षणकृतविकारो णिच् प्रत्यभिज्ञायते । स यदि यथास्थितप्रकृत्यर्थनिष्ठे प्रयोजकव्यापारेऽन्वाख्यायते तदा न्यग्भावनिष्ठापरप्रयोजकव्यापारप्रतीतिप्रसङ्गात् प्रकृतवैगुण्यं स्यात् । तेन रुहिधात्वर्थसङ्कोचलभ्यं मध्येऽवस्थान्तरं प्रकृत्यर्थत्वेन णिच आश्रीयते हस्तिव्यापारमाक्षरूपम् । तत्पर्यन्ते पूर्वशङ्कापरिहाराय दर्शितम् ।
निवृत्तप्रेषणाद्
इत्यादिना । ततस्तन्निष्ठे प्रयोजकव्यापारे प्रागवस्थोपचयकारिणि णिजुत्पादितः केवलरुहितुल्यार्थतां सम्पादयति । तदाह
न्यग्भावनान्यग्भवनं ण्यन्तेऽपि प्रतिपद्यते ।
इति । आरुद्यते हस्ती स्वयमेव, आरोहयन्ति हस्तिनं हस्तिपका इत्युदाहरणद्वयमात्र । एकेन प्रयोज्यव्यापारो णिच् प्रकृत्यर्थरूपो दर्शितः । स च नान्यथा शक्यदर्शन इति यगात्मनेपगे कर्मवद्भवात् प्राप्ते नान्तरीयकतयोपात्ते । द्वितीयेन णिजर्थो हस्तिपकव्यापारः प्रदर्शितः । स च प्रयोज्यव्यापारपृष्ठपातित्वेन शक्यदर्शन इति रुहिरुपात्तः । प्रत्ययाद्युपादानं तु नान्तरीयकतया पूर्ववत् । तदेताश्चतस्त्रोऽवस्थाः । तत उर्ध्वमात्मने पदसरूपो भागो दृश्यते हस्तिव्यापारमात्रप्रतीतिश्च । एतच्च कर्मकर्त्रवस्थामन्तरेणाशक्यमिति पूर्वावस्थासंकोचलभ्या साश्रीयते । तदाह---
अवस्थां पंचमीम्
इत्यादि । तदेवं कर्मकर्तृत्वाद् आरोहयते इत्यात्मनेपदे सिद्धे
णेरणौ
इत्यत्र
"कर्मकर्तृत्वात् सिद्धमिति चेद् यक्‌चिणोर्निवृत्यर्थं वचनम्" (Va.on 1 3 67) इति वार्तिककारेणोक्तम् । तत्र
"न वा यक्‌चिणो प्रतिषेधात्" (Va. on P.1.3.67)
इत्यादिना कर्मवद्भावेनैवात्रात्मनेपदमिति सिद्धान्तितम् । गणयति गणः स्वयमेवेत्यत्र तु आत्मनेपदनिवृत्त्यर्थं नियमार्थतया
`णेरणौ'
इति सूत्रं वार्तिककारेण स्थापितम् । न्यग्भवनं च विक्लित्तिवत् कर्मस्थमिति रुहिः कर्मस्थक्रियो वाक्यकारस्य कर्मवद्भावविषयः ।। 59,60 ।।
दृश्यते च धातूनां प्रकृत्यन्तण्यन्तानां केषांचित् समानोऽर्थ इत्यत्र दृष्टान्तमाह--
ब्रवीति पचतेरर्थं सिद्ध्यतिर्न विना णिचम् ।
स ण्यन्तः पचतेरर्थो प्रकृते व्यवतिष्ठते ।। 61 ।।
(58) सिद्ध्यत्योदन इति विक्लित्तिमात्रवचनो धातुः । पचत्योदनमिति विक्लित्त्युपसर्जनं विक्लेदनलक्षणं पचत्यर्थं णिच्‌सहितोऽभिधत्ते साधयत्योदनमिति । एवमारूहिर्ण्यन्तोऽपि कचित्तदर्थे वर्तत इति । इदमत्र तात्पर्यम् । भिन्नावेवारुही प्रकृत्यन्तण्यन्तूरपौ पचतिसाधयतिवदेकार्थौ, ण्यन्ते तु प्रैषस्य निवृत्तावारोहयते हस्ती स्वयमेवेत्यपि न्यग्भवनवचनोऽन्य एव धातुरेवमुपायपरिकल्पनया व्युत्पाद्यते । न त्वयमत्र परमार्थतो णिच् येनार्थनिवृत्तौ कथमवतिष्ठतेति चोद्येत । अन्वाख्येयं हि लौकिकं शब्दमुद्दिश्य प्रतिपादकशब्दनिष्ठमुपायपरिकल्पनया प्रकृतिप्रत्ययविभागेनासत्येन सर्वत्रानुशासनं लौकिकार्थानुसारेणैवं क्रियते । नन्वेवमप्यसत्यस्यापोद्धारपदार्थस्यासंभवे कथं शासनं लौकिकार्थानुसारेणैवं क्रियते । नन्वेवमप्यसत्यस्यापोद्धारपदार्थस्यासंभवे कथं तच्छब्दः । एवं तर्हि कर्मव्यापारातिशयस्य णिच्‌प्रत्याय्यस्यास्ति संभव इत्यदोषः ।। 61 ।।
एवं प्रैषस्य निवृत्त्या कर्मणः कर्तृत्वमुपपाद्य प्रैषध्यारोपेणाप्युपपादयितुमाह---
केषांचिद्देवदत्तादेर्व्यापारो यः सकर्मके ।
स विना देवदत्तादेः कटादिषु विवक्ष्यते ।। 62 ।।
(59) कटं करोति इत्यादौ सकर्मके धात्वर्थे देवदत्तादिप्रधानकर्तृविषये प्रधानकर्तुः प्रयोजकस्य यः प्रैषलक्षणो व्यापारः असौ यदा सौकर्यातिशयविवक्षा कर्मणः तदा कर्तारमन्तरेण तत्र कर्मणि विवक्ष्यते । यथा हि देवदत्तः प्रयुङ्क्ते एवं कटोऽपि सुकरो देवदत्तमिति भवति विवक्षा ।। 62 ।।
तदेतत् सामान्येनोक्तं प्रकृते योजयति---
निवृत्तप्रेषणं कर्म स्वस्य कर्तुः प्रयोजकम् ।
प्रेषणान्तरसंबन्धे ण्यन्ते लेनाभिधीयते ।। 63 ।।
(60) कर्तृव्यापारः प्रैषः कर्मणोध्यारोपित इति निवृत्तप्रेषणं तदविवक्षितप्रयोजकव्यापारं स्वातन्त्र्यविवक्षायामात्मीयस्य प्रयोजकस्य प्रयोजकतां सौकर्यातिशयवशात् प्रतिपद्यमानं तत्र कटादिकर्मसंबन्धिनि देवदत्तादिकर्तृविषये प्रेषणान्तरे प्रयोजकव्यापारान्तरे णिचि सति कारयते कटः स्वयमेवेति ण्यन्ताल्लकारेण कर्मकर्तृविषयेणाभिधीयत इति णिजभिधेयः प्रैषोऽस्तीति भावः । अत्र चोपायपरिकल्पना प्रैषौ णिचो न तु वस्तुतस्तत्संभव इति प्रयोज्यापेक्षाभावः । तथा च प्रयोज्यकर्मसंभवादविद्यमानकर्मान्तरसंबन्धाद्धातोर्विधीयमानं णेरणावित्यात्मनेपदं कथमिति न चोदनीयम् । तथा हि-सौकर्यातिशयप्रतिपादनाय कर्मणो वास्तवः प्रैषोऽध्यारोपित इति प्रतीते तस्मिन् प्रयोकत्वस्याविवक्षा, कर्मकर्तृप्रतीतिसामर्थ्यात् तु भूतपूर्वप्रेषणावस्थावगम्यत इति तद्विषयो णिञ् न निवर्तते । एवं कर्मकर्तृप्रसङ्गेन णेरणावित्यत्र विचारितम् ।
"त्यदादिषु दृशोऽनालोचने कञ् च"(P.III.2.60)
इत्यत्र वार्तिके
"कृदर्थानुपपत्तिस्तु" (Va.onP.3.2.60)
इति चोदितम् । कर्तरि कृदिति वचनात् कर्त्रा प्रत्ययार्थेन भाव्यम् । स चात्र नोपपद्यते । सदृशलक्षणं ह्यर्थं तादृशादयः शब्दाः प्राहुः, न तु दर्शनक्रियायाः कर्तारमिति वार्तिकार्थः । तत्रोक्तम् ।
"इवार्थे चायं तद्धितः"(Va.on 3.2.60)
इति । इवे प्रतिकृतावित्यत्र प्रकरणेऽयं तद्धितसंज्ञः प्रत्ययो वक्तव्यः । तथा च स इव तादृश इत्याद्यर्थसिद्धिरित्यर्थः । एवं वार्तिककारेण सिद्धन्तितम् । भाष्यकारस्तु कृदर्थानुपपत्तिरिति चोद्यं यथान्यासमेव परिहर्तुं
"कर्मकर्तृत्वात् सिद्धम्"
इति । तत्र दृशः कर्तृस्थभावकत्वात् कर्तृव्यापारदर्शनमात्रवाच्यतया प्रैषस्याभावात् कथं कर्मकर्तृत्वसंभवः । प्रेषणाध्यारोपे तु णिच् स्यात् । अण्यन्तश्च सूत्रे दृशिरुपात्तः ।। 63 ।।
अत्र
निवृत्तप्रेषणं कर्म स्वक्रियावयवे स्थितम् ।
निवर्तमाने कर्मत्वे स्वे कर्तृत्वेऽवतिष्ठते ।।
इत्यनेन न्यायेन कर्मकर्तृत्वं केचित् समर्थयमानाः प्राहुः ।
सदृशादिषु यत्कर्म कर्तृत्वं प्रतिपद्यते ।
आपत्त्यापादने तत्र विषयत्वं प्रतिक्रिये ।। 64 ।।
(61) सदृशतादृशादिषु शब्देषु व्युत्पाद्येषु यत्कर्मकर्तृत्वं प्रतिपद्यते यत्कर्मणः कर्तृत्वमुक्तं तत्र दृशेर्विषयभावविषये हि आपत्त्यापादने क्रिये वाच्ये इति तदाश्रयेण कर्मकर्तृत्वसमर्थता । तथा हि पश्यतीति कोऽर्थः । विषयं घटादिकं दर्शनविषयभावमापद्यमानमापादयतीति । तत्र विषयस्य परिच्छेद्यत्वेन व्यापार आपत्तिः, कर्मभूतस्य तद्विषयमापादनं कर्तृव्यापारो दृश्यर्थो न केवलः । तत्र कर्तृव्यापारे आपत्तिलक्षणो विषयव्यापारो न्यग्भवतीति तत्सन्निधौ स्वव्यापारे स्वातन्त्र्यं विषयस्य तिरोभवति । यदा तु योग्यदेशवस्थितः स्पष्टतरावोकमध्यपरिवर्ती विषयः तदा सुदर्शनो भवन् स्वयमभिव्यक्तदर्शनः कर्तृविनियोगमपाकरोतीति स्वव्यापारे स्वातन्त्र्यविवक्षायां कर्म भूत्वा कर्ता सम्पद्यत इति भवति कर्मकर्तृविषयः ।
एतत्तु नोपपद्यत इत्याह ।
कुतश्चिदाहृत्य पदमेवं च परिकल्पने ।
कर्मस्थभावकत्वं स्पाद्दर्शनाद्यभिधायिनाम् ।। 65 ।।
(62) इह दृशेः कर्तृस्थं दर्शनमात्रं वाच्यं पश्यतीति । न ह्यतो विषयभावापत्तिरवगम्यते । किं तु विषयज्ञानमेव धात्वर्थः । विषयभावापत्तिर्हि सर्वस्य धात्वर्थस्यास्तीति विशिष्टमेव दर्शनं दृशेरभिदेयं न्याय्यम् । तच्च दर्शनं विषयप्रतिष्ठमित्यस्मात् कुतश्चित् सामर्थ्यात् विषयाक्षेपद्वारेण विषयभावापत्त्यादिवाचिपदाध्याहारे विषयगतव्यापारप्रत्यायनात्तदुपसर्जनकर्तृव्यापारचित्वकल्पने दर्शनासनाद्यभिधायिनामपि कर्मस्थभावकत्वमेव स्यादिति न कश्चिद्धातुः कर्तृस्थभावक्रियो नाम स्यात् ।
अतैतदयुक्तमिति प्रतिपादयितुमाह
आपद्यमानमापादयतीत्येवं विचक्षणतया यतः कुतश्चित् पदमध्याहृत्य भवतेदमुपकल्प्यते । तदेवं सति दर्शनाद्यभिधायिनां दृश्यादीनां धातूनां कर्मस्थभावकत्वं स्यात् । आदिग्रहणादासनाद्यभिधायिनामासिप्रभृतीनामपि । न चैतदुपपन्नं कर्तृस्थभावकत्वादृश्यादीनामिति । अत्र कर्मस्थभावकत्वं स्यात् इत्यभिदधता कर्तृस्थभावकत्वं यदुपपन्नमेषां तदेवं विघटेतेत्युक्तं भवति ।। 65 ।।
अथ कथं कर्तृस्थभावकत्वं कथं वा कर्मस्थभावकत्वं विज्ञायेतेव्याशङ्क्य प्रसङ्गाद् व्याख्यातुमाह ।
विशेषदर्शनं यत्र क्रिया तत्र व्यवस्थिता ।
क्रियाव्यवस्था त्वन्येषां शब्दैरेव प्रकाश्यते ।। 66 ।।
(63) यत्र कर्तरि कर्मणि वा विशेषः कश्चित् परिदृश्यते तत्रैव क्रिया व्यवस्थितेति बोद्धव्यम् । सपरिस्पन्दसाधनसाध्या क्रिया, अपरिस्पन्दसाधनसाध्यो भाव इतिविशेषमनपेक्ष्य सूत्रकाराभिप्रायेण क्रियापि भावोऽभिधीयत इति टीकाकारस्याभिप्रायः । तथा च
लक्षणहेत्वोः क्रियायाः (P.3.2.126)
यस्य च भावेन भावलक्षणम् (P.2.3.37)
इत्यादावमेद एव सूत्रकारस्य क्रियाभावयोश्चेतसि वर्तते ।
अन्ये त्वेतन्नेच्छन्तीत्याह ।
अन्येषां मते क्रियाव्यवस्था शब्दैरेव प्रकाश्यते । एतदुक्तं भवति । येऽपि कर्मस्थभावकाः पच्यादयस्तत्रापि कर्तर्यपि परिश्रमादिको विशेषः परिदृश्यते । ततो नैतद्वयवस्थापकम्, विशेषदर्शनं यत्र तत्र क्रियेति । तस्माच्छब्दैरेव च यत्र विशेषः प्रकाश्यते प्रातिपाद्यते तत्रैव क्रिया स्थितेति वक्तु युक्तम् । शब्दप्रमाणकानां हि शब्द एव यथा यथार्थमभिधत्ते तथैव तस्याभिदानमुपपन्नम् । न तु वस्तुमुखप्रेक्षितया । शब्दश्च पश्यति घटमित्यादौ दृशिक्रियाविषयविशिष्टमेव प्रत्याययति । काष्ठं भिनत्तीत्यादौ तु भिदिक्रियाविषयं सविशेषमभिधत्त इति तद्वशेनैव कर्तृस्थभावकत्वं कर्मस्थभावकत्वं चाभिधानीयम् । एवं च दृश्यते स्वयमेवेति न भवत्येवेति मन्तव्यम् । यत्त्वपरिस्पन्दसाधनसाध्यो भाव इत्यादि लक्षणमभिदधाय कर्मस्थः पचतेर्भाव इत्यादिकमभिदधति तदप्यव्यवस्थितमिव लक्ष्यते । तथा च पीलुपाके घटं पचतीति घटस्यानलसंपर्कादवयवक्रियाद्वारेणावयवसंयोगविनाशपूर्वकं पूर्वपूर्वकार्यविनाशे उत्तरोत्तरकार्यद्रव्यविनाशात् सपरिस्पन्दपरमाणुविषयपाकक्रियापि । ततश्चाव्यवस्थितमेवैतत् ।। 66 ।।
एव तावत् प्रथमसूत्रलक्षितं निर्वर्त्यविकार्यप्राप्यभेदेन त्रिधा भिन्नं कर्म व्याख्याय तत्प्रसङ्गेन च निर्वर्त्यविकार्यविषयं मतभेदेन निवृत्तप्रेषणण्यन्ताण्यन्तधातुविषयमध्यारोपितप्रेषणं च कर्मकर्तारं प्रदर्श्य प्राप्यविषयस्य प्रदर्शनपूर्वकं प्रत्याख्यानमुक्‌त्वा तत्प्रसङ्गेनैव कर्मस्थभावकत्वकर्तृस्थभावकत्वे मतभेदेनैव व्यवस्थाप्येदानीं सूत्रान्तरनिर्दिष्टान्यपि कर्माणि व्याख्यातुमुपक्रमते । तत्राकथितसूत्रे ।
"कालभावाध्वगन्तव्याः कर्मसंज्ञा ह्यकर्मणाम् देशश्च ।"(Va. on P.1.4.51) इत्युक्तं तावदनारंभणीयमिति प्रतिपादयितुमाह ।
कालभावाध्बदेशानामन्तर्भूतक्रियान्तरैः ।
सर्वैरकर्मकैर्योगे कर्मत्वमुपजायते ।। 67 ।।
(64) अकर्मकाणां कथं कर्मणा योगः स्यादिति कालादीनां तत्संप्रयोगे कर्मत्वं वक्तव्यमुपजायते । अत्रोच्यते । नात्र कर्मसंज्ञा वक्तव्या यस्मात् कालीदीनामकर्मकैर्धातुभिर्योगे कर्मत्वमुपजायत एव । कथमिति विशेषयितुमाह अन्तर्भूताक्रियान्तरैः इति । अन्तर्भूतं प्रधानक्रियापेक्षया क्रियान्तरं येषामिति ते तथा । तैः योगे संबन्धे सति । अतश्च क्रियान्तरापेक्षया तेषां कर्मत्वं सिद्धमेवेति किमुपसंख्यानेन । तथा च मासमास्ते, गोदोहमास्ते, कोशं स्वपिति, कुरून् स्वपितीत्थादौ मासादीन् व्याप्यास्त इति व्याप्त्यङ्गायामासनादिक्रियायां धातुर्वृत्तः । व्याप्त्यदिक्रिययाप्तुमिष्णमाणत्वात् कालादीनां स्फुटमेव कर्मत्वेमितित यत्नान्तरेण नार्थः । यद्येवनमिदानीमासिप्रभृतयः कालबावाध्वकर्मभिः सकर्मकाः सम्पन्नाः, ततश्च तेभ्यः कालरादिश्वेव कर्मसु लकृत्यक्तखलर्थाः प्राप्नुवन्ति न भावे । तत्र मासमास्यते देवदत्तेनेति भावे लकारो न स्यात । मासमासितव्यम्, मासमासितम्, स्वासं मासम् इति च कृत्यक्तखलर्था भावे न स्युः । "भावे चाकर्मकेभ्यः" इति वचनात्तत्रापीष्यते । तस्मात्कालादिकर्मसद्भावादकर्मकत्वं कथम् । सकर्मकत्वे भावे लकारः कथमिति । उच्यते । द्विविधं कर्म, अन्तरङ्गं बहिरङ्गं च । तत्र द्रव्यकर्मान्तरङ्गम्, तेनैव च पूर्वं संबन्धः । बहिरङ्गं कालादिलक्षणं कर्म । यद् वक्ष्यते ।
शक्तिप्रमाण.......
इत्यादिश्लोकेन । तत्र सकर्मकत्वाकर्मकत्वव्यपदेशोऽन्तरङ्गेणैन न्याय्यः । तथा चोक्तमकर्मकाणामित्युच्यत इत्यादिना भाष्येण ।
एवं च लादिभिरप्यन्तरङगे भाव्यमित्यन्तरङ्गबहिरङ्गतामेवाह `आधार' इति ।
गोदोहं स्वपिति । यावता कालेन गवां दोहः समाप्यत इति कोशादिः पुनः स्वकालपरिमाणेन क्रियान्तरं परिच्छिनत्ति । देशोऽपि कुतश्चिदवधेः प्राप्यमाणतया परिच्छिन्नकालस्वापादिविशेषहेतुरिति भिन्नाः कालादयः । एतेषां कालादीनां सर्वैरेवाकर्मकैः सकर्मकैश्चापि धातुभिर्योगे प्राकृतमेव कर्मत्वमुपजायत इति नैषां कर्मसंज्ञोपसंख्येयेत्यर्थः । तथा हि । न द्वितीयाविधानार्थमेव कर्मसंज्ञात्र, अपि तु लाद्यर्था अपि । तथा च
"कालाध्वनोरत्यन्तसंयोगे"(P.2.3.5)
इत्यत्र वार्त्तिकम्
"अत्यन्तसंयोगे कर्मवल्लाद्यर्थम्"(Va.onP.2.3.5)
इति । लकृत्यखलर्था अपि संज्ञाफलभिष्यन्त इत्यर्थः ।
अत्र क्रियान्तरस्य व्याप्तिलक्षणस्याप्यास्यादिधातुभिरङ्गीकृतत्वाद् व्याप्तिक्रियाविषयभावोपगमनेन मासादि प्राप्यं कर्मेप्सिततममेवेति प्राकृतमेवैतत् कर्म यथा घटं करोति शकटं करोतीति भाष्य उक्तम् । तथाहि, मासमास्ते, गोदोहमास्ते, क्रोशं स्वपिति, कुरुन् स्वपितीति व्यापनाङ्गमासनादि धातुभिरभिधत्ते मासं व्याप्यास्ते, मासमासनया व्याप्नोतीत्यर्थः । एवमन्यत्र यथायोगं योज्यम् । तद्यथा वलाहकाद्विद्योतते विद्युदिति निःसरणाङ्गे विद्योतने धातुर्वर्तते तथात्र प्राप्त्यङ्गेऽर्थे धातोर्वृत्तिः । क्रियान्तरमेवेदमन्तर्भूत व्याप्तिकं कालादिविषयम् । देवदत्तः कि करोति, आस्त इत्यत्र तु व्याप्तिरहिते धातुरासनमात्रे वर्तते । तदेतदे यथाह
एकदेशे समूहे वा व्यापाराणां पचादयः ।
स्वभावतः प्रवर्तन्ते तुल्यरूपसमन्विताः ।।
पचति, पच्यते स्वयमेवेति तथात्र बोध्यम् । एवं चोपसंख्यानस्य प्रत्याख्यानादकर्मकग्रहणमनर्थकम् । सकर्मकाणामपि मासमोदनं पचतीत्यादौ मासादेर्व्याप्तिविषयत्वेन कर्मतासिद्धिः । मासमोदनपाकेन व्याप्नोतीत्यत्रार्थः । एतदर्थं चात्र सर्वग्रहणं व्याख्यातम् । कालादिकर्मणा पचत्यादीनां द्विकर्मकत्वेऽपि प्रधाने द्रव्यकर्मणि लादिविधिरुक्तः
प्रधानकर्मण्याख्येये लादीनाहुर्दिकर्मणाम् ।
इति । सत्यपि वास्यादीनां व्याप्तिक्रियान्तर्भावे कट आस्त इत्यादौ कटादेरासनया व्याप्तिर्नास्ति, अपि तु मासादिरेवासनादिक्रियापरिच्छेदायोपादीयमानो व्याप्यत इति तस्यैव कर्मता न तु कटादेरुपश्लिष्टमात्रस्याधिकरणस्येति सर्वं सुस्थम् ।। 67 ।।
(65) कर्तृकर्मव्यवधानेनाधारः क्रियां धारयति यथा, एवं मासादिरपीत्याधारच्छायां भजते । तथा हि उदिते जुहोति, रात्रौ भुङ्‌क्ते इति प्रयोगः । क्रोशं शेते, `कुरून् स्वपिति' इति च स्फुटमेवाधिकरणत्वमध्वदेशयोः कर्तृधारणात् । मासमोदनं पचतीत्यादौ द्रव्यकर्मविषये च द्रव्यकर्मधारणं स्फुटमेव । व्याप्तिविवक्षायां तु कर्मत्वमाधारभावस्यापगमनादिति इव शब्दः । यद्वा कर्तृकर्मव्यवधानेन यथाधारः क्रियायोगं भजते तथा द्रव्यकर्मव्यवधानेन कालादीत्युपमार्थः । द्रव्यकर्मणा च पूर्वं क्रियायोगः । तद्द्वारेण तु कालादिकर्मणेति भिन्ना कक्ष्या अवस्थास्य कर्मत्वस्य । तथा हि
शक्तिप्रमाणसंख्यादेर्द्रव्यधर्माद्विशिष्यते ।
क्रियासु कालयोगोऽतः प्राग्योगो द्रव्यकर्मणा ।।
इत्युक्तम् । कठिनस्य हि पाक्यद्रव्यस्य चिरेण निष्पत्तिः, महापरिमाणस्य बहुसंख्याकस्य च विपरीतस्य त्वचिरेणेति द्रव्यकर्मापेक्षः कालादिविशेषः । एवं गोदोहं स्वपिति, इषुपातं पचतीत्यत्रापि वाच्यम् । कोशमधीते स्वाध्यायम्, कुरून् पञ्चालानधीते इत्यत्राध्ययनप्रचयापचयायत्तावध्वदेशयोर्वृद्धिह्रासाविति विप्रकृष्यते कालादिकर्म क्रियासंबन्धं प्रति द्रव्यकर्मापेक्षया । अत एवोत्तरकालभवमेतेषां कर्मत्वम् । समस्तसाधनसंबन्धे हि वृत्ते क्रियायाः परिच्छेदहेतवः कालादयोऽपेक्ष्यन्ते इति भिन्नकक्ष्यास्ते
`अकथितं च' (P.1.4.51)
इत्युत्तरेण योगेन कर्मसंज्ञां लभन्ते, नेप्सिततमत्वेन, ईप्साप्रकर्षाभावात् । दुह्यादिपरिगणने चाकथितसूत्रे
"कालभावाध्वगन्तव्याः कर्मसंज्ञा ह्यकर्मणाम् देशश्च । (Va.onP.1.4.51)
इत्यत्रैवोक्तम् । गुणप्रधानसन्निधौ च प्रधानमेव कार्येण युज्यत इति द्रव्यकर्मणि लादिविधिः । मासमोदनः पच्यते, पक्वः, पक्तव्यः, सुपचः क्रोशमधीतोऽनुवाक इत्याद्युदाहार्यम् । द्वितीया तु भिन्नशब्दोपादाना कालादिकर्मण्यपि भवति । एको हि लादिर्गुणप्रधानभूतं कर्मद्वयमशक्तोऽभिधातुमिति प्रधाने कार्यसम्प्रत्ययः । भिन्नरूपप्रातिपदिकद्वयात्तु विभक्तिरुत्पद्यमाना कर्मद्वयमपि प्रत्याययति ।
यतश्च कालादीनां सर्वधातुविषयं भिन्नकक्ष्यं च कर्मत्वम्,
अतस्तैः कर्मभिर्धातुर्युक्तोऽद्रव्यैरकर्मकः ।
लस्य कर्मणि भावे च निमित्तत्वाय कल्पते ।। 69 ।।
(66) यत्रास्ति द्रव्यकर्म तत्र तदपेक्षया कालादिकर्मणोऽप्रधान्याल्लादिस्तत्र न भवति । यत्र तु द्रव्यकर्मं नास्ति तत्र कालादावेव कर्मणि लादिः । लग्रहणस्योपलक्षणार्थत्वाच्च । लकृत्यक्तखलर्थाः आस्यते मासः, आसितव्यः , आसितः स्वास इत्यादि । अकर्मकव्यापदेशश्च धातूना द्रव्यकर्माभावनिमित्तः, कालादिकर्मणः सर्वत्र संभवात्, संभव्यभिचाराभ्यां विशेषणयोगात्, इति कालादिकर्मसंभवेऽप्यकर्मकव्यपदेशस्य द्रव्यकर्माभावनिमित्तस्याव्यावृत्तेर्भावे लकारः सिद्ध्यति, मासमास्यते भवतेत्यादि । मासमासितो देवदत्त इति चाकर्मकत्वात् कर्तरि क्तः । गत्यादिसूत्रे चाकर्मकत्वाश्रया प्रयोज्यस्य कर्मसंज्ञा सिद्धयति मासमासयति देवदत्तमित्यादौ । अत एव तत्र
"अकर्मकग्रहणे कालकर्मणामुपसंख्यानम्"(Va.onP.1.4.52)
"सिद्धं तु कालकर्मणामकर्मकवद्‌वचनात्"(Va.onP.1.4.52)
इति वार्त्तिकार्थो न्यायसिद्धः । तथा च भाष्यम् ।
"न च केचित् कालभावाध्वभिरकर्मकाः । त एवं विज्ञास्यामः क्वचिद्ये अकर्मका इति । अथवा येन कर्मण सकर्मकाश्चाकर्मकाश्च भवन्ति तेनाकर्मकाणाम् । न चैतेन कर्मणा कश्चिदप्यकर्मकः । अथ वा यत्कर्म भवति न च भवति तेनाकर्मकाणाम् । न चैतत् कर्म क्वचिदपि न भवति ।" (M.Bha.on P.1.4.52)
इति । परिहारत्रये को विशेषः । उच्यते । शब्दकर्माकर्मकाणामित्यत्र अविवक्षितकर्मका अकर्मका आश्रियन्ते । एवं ह्यास्ते शेथे इति क्रियामात्रविवक्षायां कालादिभिरप्यकर्मकत्वं संभवति । तथैव पचादीनामप्यविवक्षया कर्मसंबन्धेऽपाकृते अणि कर्तुर्णौ कर्मसंज्ञाप्रसङ्गः । तस्माद्यस्यात्यन्तमसंबन्धः कर्मणा सोऽकर्मकः । स च यदि धात्वर्थ आश्रीयते तदा तस्य क्रियात्मनो विवक्षावशेन कर्मसंबन्धासंबन्धयोर्भेदे कालादिभिरप्यकर्मकत्वे वचनस्य चरितार्थत्वं भवेत् । तस्मादविद्यमाने कर्मास्येति धातुरन्यपदार्थत्वेनाश्रीयते । गत्याद्यर्थत्वेनाणौ णाविति च तस्यैव विशेषणत्वेन प्रक्रमात् । ्र्थद्वारके च धातोः कर्मयोगेऽयोगे च रूपस्याविशेषात् अकर्मकत्वं नोपपद्यते , कालादिकर्मभिः सर्वेषां धातूनामवियोगात् । एवं च विशेषणसामर्थ्याद् विशिष्टा एव धातवो द्रव्यकर्मसमन्वयरहिताः समाश्रीयन्ते । द्रव्यकर्मविषयेऽकर्मका इति पूर्वपरिहारार्थः । द्वितीये तु परिहारे वर्तिपदार्थस्य कर्मणः साक्षात् क्रियोपकारकत्वेनान्तरङ्गत्वं विशेषः समाश्रितः । तृतीये तु परिहारे भवति न भवतीत्यभिधानान्निषिध्यमानस्य संबन्धस्य विशेष आश्रीयते । येन कर्मणा कदाचित् संबन्धो भवति तेनैव द्रव्यकर्मणा अकर्मकाणाम्, न नित्यसंबद्धेन कालादिकर्मणेत्यर्थः । द्रव्यकर्मापेक्षत्वाच्च सकर्मकाकर्मकव्यपदेशस्य ।
"उदश्चरः सकर्मकात् "(P.1.3.53)
इत्यनेन मासमुच्चरति धूम इत्यात्मनेपदं न भवतीत्याहुः ।। 69 ।।
न च कालादिकर्मैव भिन्नकक्ष्यम् ,अपि तु
सर्वं वाकथितं कर्म भिन्नकक्ष्यं प्रतीयते ।
धात्वर्थोद्देशभेदेन तन्नेप्सिततमं किल ।। 70 ।।
(67) गां दोग्वि पयः, पौरवं गां याचते, गामवरुमद्धि व्रजम् , माणवकं पन्थानं पृच्छति, वृक्षमवचिनोति फलानि, इत्यादि सर्वमेवापादानादिविशेषकथाभिरकथितम् । द्रव्यकर्मापि गवादि पयःप्रभृतिप्रधानकर्मापेक्षयोपायभूतं नान्तरीयकत्वाद् भिन्नकक्ष्यम् । धात्वर्थस्य हि दोहादेः उद्देश एव भेदो विशेषः तेन हेतुना गवादीप्साप्रकर्षरहितम् । पयःप्रभृति किलोद्दिष्य धात्वर्थः प्रवृत्तः । तत्र तूपायभूता गवादयो नान्तरीयकाः । धात्वर्थेन वोद्देशो विषयीकरणं तस्य भेदः पूर्वापरकालजम् । पूर्वं हि धात्वर्थेन प्रधानं पयःप्रभृति विषयीकृतं पश्चान्निमित्तभूतं गवादि । धात्वर्थं वा दोहादिकमुद्दिश्य यस्माद् गवादयो भेदेनोपायत्वेन प्रवर्तन्ते, अतस्ते भिन्नकक्ष्याः । `किल' इत्यस्मिन् पक्षेऽरुचिं सूचयति । तथा चाभिन्नमेव कर्मेति सिद्धन्तयिष्यति । ननु कालादीनां द्रव्यकर्मायत्तत्वाद् भवतु भिन्नकक्ष्यत्वम्, गवादौ तु विपर्ययात् कथमेतत् । तथा हि गवाद्यायत्तानि पयःप्रभृतीनि कर्माणि । तथा चोक्तम्---
"गुणकर्मणि लादिविधिः पूर्वं गुणकर्मणा भवति योगः ।
मुख्यं कर्म प्रेप्सुर्यस्माद्गव्येव यतते प्राक् ।
तस्माच्छुद्धस्य दुहेर्भवति गवा पूर्वमेव संबन्धः ।।
गोर्दुहिना पयसस्तु प्राक्, तस्माल्लादयस्तस्मिन् "
(M.Bha. on P.1.4.51)
इति । सत्यमेतत् । प्रधानाप्रधानकृतस्तवत्र कक्ष्याभेदः ।। 70 ।।
तथा हि
प्रधानकर्म कथितं यत् क्रियायाः प्रयोजकम् ।
तत्सिद्धये क्रियायुक्तमन्यत्त्वकथितं स्मृतम् ।। 71 ।।
(68) यदुद्विश्य फलभूतं क्रियाप्रवर्तने साधनानि सज्जीभवन्ति यदवाप्तावुदासते तदीप्साप्रकर्षगृहीतं प्रधानं कर्तुरीप्सिततममिति कर्मसंज्ञया प्रथममेव कथितम् । तच्च पयःप्रभृति तदर्थं तु यदनीप्सितमपि नान्तरीयकं क्रियया समन्वेति तदनवार्तविशेषमकथितकर्माप्रधानत्वाद् भिन्नकक्ष्यमित्यर्थः । तद्यथा गवादि । एवमप्राधान्येऽपि चोपायत्वात् प्रथमं क्रियायोगे लादिविधौ निमित्तत्वाय कल्पते। अनपेक्षिते तु पयसि गौरेव प्रधानम्, क्षीरविच्छेदस्तु तस्य मा भूदित्येवमनर्थ्यपि क्षीरेण सम्प्रति गोसंस्कारार्थं दोहे प्रवर्तत इति ।
अपादानमुत्ताराणि (Va.on P.1.41)
गां दोग्धि' (M.Bha. on the above )
इत्युदाहरणमुपपद्यते विप्रतिषेधेन । अन्यथाकथितकर्मत्वेऽपादानादिसंज्ञा प्राप्त्‌यभावात् कथं विप्रतिषेधोदाहरणमेतद्भवेत् । अपादानादिविशेषकथाभिरसंस्पृष्टं ह्यकथितं कर्म । तदेवं निमित्तनिमित्तिभावेनावस्थितत्वाद् भिन्नकक्ष्यत्वे कथिताकथितयोः कर्मणोर्भेदादप्राप्ता गवादीनां कर्मसंज्ञा
अकथितं च ।
इत्यनेनारभ्यत इति स्थितम् ।। 71 ।।
इदानीम्
"नीवह्योर्हरतेश्चापि गत्यर्थानां तथैव च ।
द्विकर्मकेषु ग्रहणं द्रष्टव्यमिति निश्चयः ।"(M.Bha. on P.1.4.51)इति भाष्योक्तं व्याचष्टे ।
दुह्यादिवन्नयत्यादौ कर्मत्वमकथाश्रयम् ।
आख्यातानुपयोगे तु नियमाच्छेव इष्यते ।। 72 ।।
(69) अजां नयति ग्रामम्, एधान् वहति नगरम्, हरति भारं संवाहम् । गत्यर्थग्रहणेन गतिबुद्धीत्यादिना येषां द्विकर्मकत्वं ते लक्ष्यन्ते । `तथैव च इत्यनेनानुक्तसमुच्चयार्थेन जयत्यादयो गृह्यन्ते, जयति शतं शतानीकम् स गर्गान् दण्डयति शतमिति । अत्रेप्साप्रकर्षयुक्तमजादिकर्म कथितं प्रधानं पयोवत् । ग्रामादि त्ववधिस्थानीयत्वात् गुणकर्म गवादिवदेव नान्तरीयकत्वादकथितकर्मैव द्रष्टव्यम् परिगणनलक्षणेन तु नियमेनाख्यातानुपयोगे कर्मसंज्ञया व्यावर्त्यते । नटस्य शृणोतीत्यादौ नटादिरुपयोगे ह्यख्यातापादानमित्यनुपयोगे विशेषकथानाक्रान्तत्वाद् भवेदकथितकर्मेति परिगणनलक्षणानियमाच्छेषोऽडयं षष्ठीविषयः ।। 72 ।।
तदेवं प्रधानेतरभावेन कर्मभाव उक्तः । केचित्तु प्रधानमेकमेवेदं कर्मेत्याहुः । तथाहि
अन्तर्भूतणिजर्थानां दुह्यादीनां णिजन्तवत् ।
सिद्धं पूर्वेण कर्मत्वं णिजन्तं नियमस्तथा ।। 73 ।।
(70) अन्तर्भूतो वाच्यतया णिचोऽर्थः प्रयोजकव्यापारः प्रैषलक्षणो येषां दुहियाचिप्रभृतीनां तेषां प्रयोगे गां दोग्वि पय इत्यादौ "कर्तुरीप्सिततमम्" इत्यनेनैव गवादीनामपि सिद्धा कर्मसंज्ञा । यथा "गमयति ग्रामं देवदत्तं यज्ञदत्तः" इत्यत्र णिजन्तविषये प्रयोज्यस्य प्रयोजकव्यापारेणाप्यमानत्वादिति `गतिबुद्धि' इति च नियमार्थं सूत्रं गम्यादीनामेव ण्यन्तानां प्रयोज्यः कर्म, नान्येषां पच्यादीनामित्यण्यन्तविषयेऽत्र न प्रवर्तते । तथा हि गौः पयः क्षरति, देवदत्तः तां क्षरन्तीं क्षारयति,इति दुहेरर्थः । तत्र क्षरणेनाप्यमानत्वात् पयः कर्म, क्षारणेनाप्यमानत्वाद् गौः । यद्यपि चार्थेन रूपेण पयः प्रधानभूतम् , उपायभूता तु गौः तथाप्याभिधेयकेन क्षरमोपसर्जनस्य क्षारणस्य शब्दार्थत्वाद् गौरेव प्रधानं कर्मेति तत्रैव लादयः, दुह्यते गौः, पयः दोग्धव्या, दुग्धा, सुदोहा, इति । "अप्रधाने दुहादीनाम्" इत्यार्थेन रूपेणाप्राधान्यमुच्यते यद्यप्यपायविवक्षां विना क्षारणं नोपपद्यते तथापि
"अपादानमुत्तराणि"(Va.on P.1.4.1)
इति कर्मसंज्ञैवात्र भवति परत्वात् । यदि ह्यकथितसूत्रेण कर्मसंज्ञात्रोच्येत तदापादानत्वात् कथितत्वेनासौ न स्यात् । पूर्वसूत्रेणैव तु कर्मसंज्ञायामुभयसंभवे परत्वाद् `अपादानमुत्तराणि, "गां दोधि" इत्युक्तम् । तथा चात्रापरादानविवक्षावर्णनमसमीचीनम् । एवं पौरवं गां याचते, दापयतीत्यर्थः । पौरवो गां ददाति, तं प्रयुङ्क्ते याचकः श्रद्धोत्पादनेन इति याचेर्ण्यर्थः प्रैषो वाच्यत्वेनान्तर्भूतः । याचनस्य गौः कर्म, प्रैषस्य तु गौः । यदा तु स्थापयतीत्यर्थः तदा व्रजस्याधिकरणता, उभयसंज्ञाप्रसङ्गे तु परत्वात् कर्मसंज्ञोक्ता, अधिकरणं कर्म गेहं प्रविशतीति प्रवेशोपसर्जनमत्र स्थानमर्थः गेहं प्रवेशनेन व्याप्य तिष्ठतीति । निमित्तनिमित्तिभावेन प्रवेशस्थाने प्रतीयेते । तत्र प्रवेशापेक्षया कर्म स्थानापेक्षयाधिकरणमित्युभयप्राप्तौ परत्वात्कर्मोदाहृतम् । माणवकं पन्थानं पृच्छति इति आचष्टे पन्थानं माणवकः, तं प्रयुङ्क्ते आख्यापयतीत्यर्थः । आचिख्यासति वा माणवकः, तं प्रयुङ्क्ते आचिक्यापयिषतीत्यर्थः । एवं पौरवो गां दित्सति, तं प्रयुङ्क्ते याचक इत्यप्यर्थोऽवगम्ययते । एवं भिक्षेरप्यर्थो वेदितव्यः । वृक्षमवचिनोति फलानि, मुञ्चति वृक्षः फलानि , तं मोचयतीत्यर्थः । अपायविवक्षायामपि `अपादानमुत्तराणि' इति कर्मसंज्ञैवात्र । माणवकं धर्मं ब्रूते, प्रतिपादयतीत्यर्थः । तत्र प्रतिपत्तेर्धर्मः कर्म, प्रैषस्य तु माणवकः । `माणवकमनुशास्ति धर्मम्' इति । शिक्षते धर्मं माणवकः, तं शिक्षयतदीत्यर्थः । कर्मणाभिप्रेयमाणस्य तु माणवरस्यात्र संप्रदानसंज्ञायां प्रधानव्यापारविषयया कर्मसंज्ञयात्र संप्रदानसंज्ञा बाध्यत इति वक्तव्यम् । यद्वा कर्तुर्यदीप्सिततमं कर्म तेनाभिप्रयेमाणस्य संप्रदानस्य संप्रदानत्वम् । यथोपाध्यायाय गां ददातीति । गौर्हि दातुर्वल्लभा । तत एव गुणवते दीयते । धर्मस्तु कर्तुर्नाभिमतः , पूर्वमेव सिद्धेः । तेन तु माणवकोऽनुग्रहीतुमभिप्रेत इति प्रयोज्यस्यात्रोप्सिततमं कर्म, न प्रयोजकस्येति न संप्रदानसंज्ञाया विषयोऽयमित्यन्ये । एवं नयत्यादावपि पूर्वसूत्रेणैव कर्मत्वम् । अजां नयति ग्रामम्, प्रापयतीत्यर्थः । प्रापणेन प्रधानेन संबद्धाजा प्रधानं कर्मेति
"प्रधानकर्मण्याख्येये लादीनाहुर्द्विकर्मणाम्"
(Va. on P.1.4.51)
इति न्यायसिद्धम्, अजा नीयते ग्रामम्, नेतव्या नीता, सुनयेति । एवमन्यत्रापि यतायोगमुदाहार्यम् । सत्यपि चात्र ण्यर्थान्तर्भावे गत्यादिनियमेन प्रयोज्यस्य कर्मसंज्ञा न व्यावर्त्यते सजातीयापेक्षत्वान्नियमस्य, अन्यत्र ण्यन्त एव तेन निवारणात् । अत्र च प्रैषो ण्यर्थो धातुनैव स्वीकृत इति णिच् न भवति ।। 73 ।।
ननु च वास्तवेन रूपेण पयआदेः प्राधान्यात्तस्यैवेप्सिततमत्वं न्याय्यम्, न तु गवादेः प्रतीयमानोपसर्जनभूतक्रियापेक्षमीप्सिततमत्वं युज्यते प्रदानसन्निधाने गुणस्येप्साप्रकर्षविषयत्वाभावात् । न च कारकप्रकरणे
`साधकतमं करणम्' (P.1.4.42)
इति तमब्‌ग्रहणात् प्रकर्षो न विवक्ष्यते इति शक्यते तत्र वक्तुम्, `ईप्सिततमम्' इति साक्षात् प्रकर्षविवक्षार्थं तमप्‌श्रुतेरुपादानात् । लिङ्गस्य त्वन्यत्र कृतार्थत्वम् । गङ्गायां घोष इत्यादावधिकरणसंज्ञा यथा स्यादिति । श्रुत्या हि लिङ्गबांधा । `श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानां पूर्वं पूर्वं बलीयोऽर्थविप्रकर्षादिति न्यायविद्भिरुक्तत्वात् कतं गवादेः पूर्वेण कर्मसंज्ञेत्याशङ्क्याह---
करणस्य स्वकक्ष्यायां न प्रकर्षाश्रयो यथा ।
कर्मणोऽपि स्वकक्ष्यायां न स्यादतिशयस्तथा ।। 74 ।।
(71) यथा कारकान्तरापेक्षया लब्धातिशयस्य करणसंज्ञायां सजातीयकरणान्तरापेक्षया प्रकर्षो नाश्रीयते, येन सर्वस्यैव करणकार्यं प्रवर्तते, अश्वेन पथा दीपिकया याति, पदाभ्यां पथा व्रजति, बलेन पादेनादत्त इति । अन्यथा अश्वादेरेव प्रकृष्टतमस्य भवेदिति । तथा कर्मणोऽपि । करणादीनामपि क्रियायामुपयोगादीप्सिततमत्वमिति इति सिद्धा निमित्तनिमित्तिभाववस्थितस्यापि सर्वस्य कर्मणः पूर्वेणोव योगेन कमसंज्ञेति नास्त्यकथितकर्मेत्येकीयमतेनोपन्यासः ।। 74 ।।
एतत्तु न युक्तमित्याह ।
कर्मणस्त्वाप्तुमिष्टत्व आश्रितेऽतिशयो यतः ।
आश्रीयते ततोऽत्यन्तं भेदः पूर्वेण कर्मणा ।। 75 ।।
(72) इह साधनभावस्य सर्वकारकविषयत्वाद् युक्तं यत्कारकान्तरापेक्षया लब्धातिशयसाधनभावं करणं स्वकक्ष्यागतं प्रकर्षं नाद्रियेत । कर्म त्वीप्साप्रकर्षभावं कारकान्तरापेक्षया प्रतिपत्तुममसर्थम् । न हि कारकान्तराणीप्सितानि । कर्त्रा क्रियया यदाप्तव्यं तदीप्सितम् । कारकान्तराणि तु क्रियायै करणीदीन्याप्तव्यानि, न तु क्रियया । तस्मात्तुल्यजातीयापेक्षत्वादतिशयस्य कर्मण आप्तुमिष्टतमत्वं ईप्सितमित्येवमाप्तुमभिप्रेतत्वे आश्रीयते । तमप उपादानादतिशयो यस्मादङ्गीक्रियते तस्मादीप्सितार्थान्तरापेक्ष एवासौ प्रकर्षोऽभ्युपगन्तव्य इति स्वकक्ष्यागत एव सः । तथा च पयःप्रभृति गवादीप्सितापेक्षया प्रकष्टमीप्सितं पूर्वयोगस्य विषयो गवादेस्तु पूर्वेणासिद्धायां कर्मसंज्ञायामकथितमित्यनेन सिद्धिरित्येष एव पक्षो न्याय्यः । ततश्चभिन्नकक्ष्यं कर्मद्वयमेव तत् । स्वकक्ष्यापेक्षेऽनाश्रिते तु कर्मणः प्रकर्षे तमपश्रुतिरनर्थिका स्यात् । तथा चेप्सितमात्रस्य कर्मसंज्ञायां
`वारणार्थानामीप्सितः'(P.1.4.27)
इत्यत्र यवेभ्यो गां वारयति, कूपादन्धं वारयति, अग्नेर्माणक्कं वारयतीत्युदाहरणं न स्यात् । यवोदरपि कर्मसंज्ञाप्रसङ्गात् । ततश्चैतत् सूत्रं निर्विषयं भवेदिति विषयविभागार्थं कर्मापादानयोः स्वकक्ष्यागतः कर्मणोऽतिशयः सिद्धान्तितः । तथा च वार्तिकम्---
"वारणार्थानां कर्मानर्थक्यं कर्तुरीपतिततमं कर्मेति वचनात्"
(Va. on P.1.4.27)
भाष्यमपि । यत्तु कथितं पुरस्ताद् ईप्सितयुक्तं च तस्य सिद्ध्यर्थमीप्सिततमग्रहणम् इति वारणार्थानामित्यनेन कथितमिति `अकथितं च' इत्यनेनान्धादेरीप्सितेन कूपादिना युक्तस्य कर्मसंज्ञा न सिद्ध्यतीति `ईप्सिततमम्' इत्यनेन सिद्ध्यतीत्यर्थः । यत्पुरनीप्सितमात्रमपादानादिसंज्ञाभिरकथितं तस्याकथितसूत्रेण गवादेः कर्मसंज्ञेति भाष्येऽभिहितम् । ईप्सितमेव तु यत् स्यात् तस्य भविष्यत्यकथितेनेति ।। 75 ।।
यत् पुनरेतदुक्तं दुह्यादीनां णिजन्तवत् सिद्धं पूर्वेण कर्मत्वमिति तत्राप्याह ।
णिजन्ते च यथा कर्ता सक्रियः सन् प्रयुज्यते ।
नयत्यादौ तथा कर्ता निष्कियोऽपि प्रयुज्यते ।। 76 ।।
(73) गमयति ग्रामं देवदत्तमित्यादौ णिजन्ते प्रकृतिप्रत्ययवाच्ये द्वे क्रिये भिन्ने प्रतीयते इति तदपेक्षं द्वयोः कर्मत्वं युज्यते । गां दोग्धि पय इत्यादौ तु प्रकृतिवाच्यैकैव क्रियेति कथं कर्मद्वययोगः । न चाप्यन्तर्भूतणिजर्थत्वेन तदुपपत्तिः । णिजर्थस्यात्रायोगात् । प्रैषो हि णिजर्थः । स च प्रवृत्तक्रियस्य सव्यापारस्य कर्तुरुपपद्यते । तथा हि तस्य स्वतन्त्रस्य प्रयोजको यो हेतुः तद्वयापारो णिजुक्तः । अत एवाप्रवृत्तिक्रियाणां करणादीनां प्रयोजकस्य स्वतन्त्रस्य कर्तुर्हेतुसंज्ञा न भवति । तदेवं गवादेर्निष्क्रियत्वान्न तद्वयापारेणाप्यमानत्वात् पयआदेः कर्मता, अपि तु दोहेन देवदत्त व्यापारेणैव गोपयसोर्द्वयोरपि आप्यमानत्वमित्यतिशययोगात् पयआदोरेव पूर्वेण कर्मत्वम्, गवादेस्त्वकथितमित्यनेनारभ्यते ।। 76 ।।
ननु च यथा गच्छन्तं संप्रयुक्ते गमयतीति प्रयोगः तथा क्षरन्तीं क्षारयति दोग्धि इत्यर्थ इत्याशङ्क्याह ।
भेदवाक्यं तु यत् ण्यन्ते नीदुहितप्रकृतौ च यत् ।
शब्दान्तरत्वान्नैवास्ति संस्पर्शस्तस्य धातुना ।। 77 ।।
(74) गच्छन्तं प्रयुङ्क्ते इत्यादिना गमयतीत्यादौ ण्यन्ते प्रकृतिप्रत्ययार्थयोर्विभागप्रदर्शनाय यद् वाक्यम्, ग्रामं प्राप्नुवन्तीमजां प्रयुङ्कते , क्षरन्तीं गां प्रयुङ्क्ते इत्यादि च नयति दोग्धि इत्यादौ प्रयोगाच्छब्दान्तरं भिन्नार्थमेव । न ह्येषोऽत्र धात्वर्थः परमार्थतः, अदूरविप्रकर्षेणार्थमात्रकथनमेतत् । यथा राजपुरुषादौ राज्ञः पुरुष इत्यादि । तथा हि गच्छन्तं प्रयुङ्क्त इत्यादौ वाक्ये प्रयोज्यकर्तुर्निदर्शनं गमयतीत्यादौ ण्यन्ते प्रयोज्यक्रियामात्रं प्रतीयते । प्रयोज्यस्तु स्वशब्दोपादानो देवदत्तमिति । यत्र चैतद् भेदवाक्यं विदूरं ण्यन्ते तत्र नयत्यादीनां सुतरां विदूरता । न ह्यत्र वाक्यार्थो धातूपादानः कश्चित् । अतस्तस्य वाक्यस्य वाक्यार्थस्य वा दुहादिधातुना नास्ति संबन्धः । तस्मान्नात्र ण्यर्थान्तर्भाव इति क्रियाद्वयाश्रयेणापि कर्मविशेषसमर्थनमसमीचीनम् । तदेवमेकैवेयं विलक्षणा कर्मद्वयविषया क्रियेति
सर्वं चाकथितं कर्म भिन्नकक्ष्यं प्रतीयते ।
धात्वर्थोद्देशभेदेन तन्नेप्सिततमं किल ।।
इत्येष पक्षोऽवस्थापितः । अप्राधान्येऽपि चाकथितकर्मणोऽन्तरङ्गत्वात् प्रथमं क्रियायोगाल्लादिविधिरुक्तः । नयत्यादौ तु प्राधान्यमजादेरिति तत्रैव लादयः । ण्यन्ते तु ण्यर्थस्य प्राधान्यात्तेनाप्यमानत्वात् कर्तैव प्रधानं कर्मेति तत्रैव लादयः । ततश्च
प्रदानकर्मण्याख्येये लादीनाहुर्द्विकर्मणाम् ।
अप्रधाने दुहादीनां ण्यन्ते कर्तुश्च कर्मणः ।।
इति न्यायसिद्धमिदमुदाहृतम् ।। 77 ।।
इदानीं सिद्धान्तमुद्‌घाटयति ।
यथैवैकमपादानं शास्त्रे भेदेन दर्शतम् ।
तथैकमेव कर्मापि भेदेन प्रतिपादितम् ।। 78 ।।
(75) ध्रुवमपाये (P.1.4.24)
इत्यनेनैव सर्वत्रापादानसंज्ञा भाष्येऽपि प्रतिपादिता । भीत्रार्थादिविषयेऽपि बौद्धापायस्य भावात् । अबुधबोधनार्थं हि
`भीत्रार्थानाम्' (P.1.4.25)
इत्यादिना भेदेन कथनम् । तथा च वक्ष्यति ।
निर्धारणे विभक्ते यो भीत्रार्यानां च यो विधिः ।
उपात्तापेक्षितापायः सोऽबुधप्रतिपत्त्ये ।।
इति । एवं कर्मापीप्सिततममेकमेव, कर्तुः क्रिययाप्यमानत्वस्य सर्वत्र भावात् । मन्दबुद्धयनुग्रहाय तूत्तरसूत्रप्रपञ्च इति कारिकार्थः । यद्यपि च पयःप्रभृत्यर्थं गवादेरुपादानं तथाप्यस्त्येव धात्वर्थेन तस्याप्यमानत्वम् । तद्यथा तण्डुलानोदनं पचतीति । अक्ष तण्डुलानां विक्लित्तिविशिष्टा हि विक्लेदना पचेरर्थः । तत्र विक्लित्त्याख्यगुणद्वारेण तण्डुला अपि कर्म विक्लेदनस्य, साक्षात्त्वोदनम् । तण्डुलन् विक्लेदयन्ोदनं निर्वर्तयतीत्यर्थः । इत्थं च गुणप्रधानभूतैकधातुवाच्यक्रियाभेदाश्रयेणात्र यथा कर्मभेदः तता क्षरणोपसर्जनक्षारणार्थतायां दुहेर्गोपयसी सममेव कर्मभावमनुभवतः । तथा च ण्यर्थान्तर्भावोऽपि युक्तः । ण्यन्तेऽपि प्रकृत्यर्थविशिष्टस्य प्रत्ययार्थस्य प्राधान्यान्निष्क्रियत्वं स्वतन्त्रस्य । न ह्यत्र णिच् क्रियते येन
सक्रियस्य प्रयोगस्तु यदा स विषयो णिचः ।
इति न्यायोऽनुवर्ण्येत । धातुवाच्यस्तु ण्यर्थः । तद्यथा साधयतीति ण्यर्थः पचतिवाच्यः, भेदवाक्यं तु भवत्यदूरविप्रकृष्टं भिन्नार्थमत्यन्तविशेषापेक्षया । सामान्यपेक्षया त्वेकार्थमेव राजपुरुषवृत्तिवाक्यवत् । तथा च प्रतीयत एवैतद्वाक्यार्थोऽत्र प्रयोगे । न चापि गवादीनां निष्क्रियत्वं न्याय्यं क्रियासमवायभावे कारकत्वाभावात् । आरभ्यमाणेऽप्यकथितयोगे कर्मसंज्ञा न स्यात् । प्राक् प्रयोगान्निष्क्रियत्वमिति चेत् ण्यन्तेऽपि समानमेतत् । यथा च तत्र संभावितक्रियस्य कर्तुः प्रयोजक िति तद्‌व्यापारोपपत्तिः तथात्रेति न किंचिदवद्यम् । तमब्‌ग्रहणस्य च प्रत्याख्यानादीप्साप्रकर्षानाश्रयणम् । यत्तु तमब्‌ग्रहणस्योदाहरणं `दध्ना भुञ्जीय' इति तत्र समकक्ष्यतया दध्योदनयोरीप्सितत्वे तमब्‌ग्रहणमकिंचित्‌करम् । संस्कारकत्वे हि दध्नस्तत्‌संस्कृतस्यौदनस्यैवेप्सिततमत्वमिति नास्त्येतदुद्राहरणम् । तथा च भाष्यम् ।
"तस्याप्योदन एवेप्सितः, न तु गुणेष्वस्यादरः"
(M.Bha. on P.1.4.49)
इति । यदपि कर्मापादानयोर्विषयविभागप्रदर्शनार्थं तमब्‌ग्रहणमित्युक्तं तत्रापि वारणार्थानां वारयितव्यानां वारणमर्थयन्त इति वारणयोग्यानां यदीप्सितं तदपादानमित्येवं व्याख्यानाददोषः । तथा हि वारयितव्याः प्रतिषेद्धव्याः गवादयः; तेषामीप्सिता यवादय एवापादानम् । तदेवमीप्सितमेव सर्वं कर्म । इत्थं च दुह्याद्युदाहरणार्थं न परिगणनमेतत् । नटस्य शृणोतीत्यादौ नटादि शृणोतिक्रियया निमित्तमात्रं न तु तयेप्सितत्वेन विवक्ष्यत इति कर्मसंज्ञाभावः । शृणोतिक्रियायां च सव्यापारो नटः कारकमुपयोगग्रहणादपादानसंज्ञाया व्युदस्यते । न चान्या संज्ञास्य विहितेति शेषोऽयं षष्ठीविषयः । हेतुतृतीयायास्त्वयमविषयः
अनाश्रिते तु व्यापारे निमित्ते हेतुरिष्यते ।
द्रव्यादिविषयो हेतुः कारकं नियतक्रियम् ।।
इति वचनात् ।। 78 ।।
ननु निर्वर्त्यादिभेदः कर्मणोऽभिहित इति कथमेकमेव कर्मेत्याशङ्क्याह ।
निर्वर्त्यो वा विकार्यो वा प्राप्यो वा साधनाश्रयः ।
क्रियाणामेव साध्यत्वात् सिद्धरूपोऽभिधीयते ।। 79 ।।
(76) इह साधनाश्रयः शक्त्याधारो निष्पन्नरूपो नामपदैरुच्यते । आख्यातपदैस्तु साध्यस्वभावः क्रियात्मार्थोऽभिधीयत इति क्रियाद्रव्ययोः सिद्धसाध्यास्वभावरूपं लक्षणं शब्दप्रतिपाद्येन तद्रूपेण कथ्यते । यद् भाष्यम्---
"क्रिया चैव हि भाव्यते, स्वभावसिद्धं द्रव्यम्"
(M.Bha.on P.1.3.1)
इति । तथा च कटं करोति, तण्डुलानोदनं पचति, सूर्यं पश्यति इति नामपदैः कर्म शक्त्याधारमविलक्षणं सिद्धतया प्रत्याय्यत इति नास्ति तस्य स्वरूपभेदः स्वगतः । क्रियार्थत्वाच्च वस्तुतः साधानानां क्रियाधर्मेण व्यपदेशः । निर्वृत्तिविपरिणतिप्राप्तिलक्षणा हि क्रियाः स्वसामर्थ्यायत्तमुपकारं कर्मणि दर्शयन्त्यो विभिन्नव्यपदेशनिमित्ततामासादयन्ति । एवं च कृत्वा शाब्देन रूपेण सिद्धत्वात् कर्मणः साधनमावोऽप्युपपद्यते । क्रियाविशेषावेशितव्यापदेशभेदानाश्रये तु क्रियाविषयकारकनिमित्ततयेप्सितमित्येव सामान्याख्यया सर्वं कर्म कथ्यत इति सिद्धम् ।। 79 ।।
गतमदः । इह कथमीप्सितत्वम्, `विषं भक्षयति', `चोरान् पश्यति ' इत्याशङ्क्याह ।
अहितेषु यता लौल्यात् कर्तुरिच्छोपजायते ।
विषादिषु भयादिभ्यस्तथैवासौ प्रवर्तते ।। 80 ।।
(77) वाय्वादिधातुवैषम्यनिमित्तेषु यताऽऽतुरस्य हितमिति भोजननियमासहिष्णोरभिलाषो भवति तथा स्वाम्यादिभयपरिपीडितस्य क्षेत्रियव्याधिदुःखार्तस्य वा परं विषभक्षठमेव ज्याय इति मन्यमानस्य भवति विषं भक्षणेनेप्सितमिति
तथायुक्तं चानीप्सितम् । (P.1.4.50)
इत्येतदपि कर्म पूर्वेणैव सिद्धम् । तदाह भाष्यकारः ।
"यच एष मनुष्यो दुःखार्तो भवति सोऽन्यानि दुःखान्यनुनिशम्य विषभक्ष
णमेव ज्यायो मन्यते ।" (M.Bha.on P.1.4.50)
इति । `लौल्यात् ' इति । न प्रेक्षापूर्वकारिताघटिता सर्वत्रेप्सा, अपि तु प्रकारान्तरेणापि सम्भवतीत्यर्थः । भक्षणक्रियाविषयभावापत्तिरेवात्रेप्सितत्वं तथायुक्तग्रह
णादेवावसीयते । सूत्रारंभेऽपि परोपहितं चाविज्ञातविषभावः भक्ष्यमाणीप्सितमेव विषम् । एवं दृशिक्रियया चोरादीप्सितमेव । यदीप्सितादन्यन्नैवेप्सितं नानीप्सितं वृक्षमूलादि तदपि पूर्वमनभिसंहितमपि तदानीमनुपसर्पणवेलायामीप्सितमेव, अन्यथोपसर्पणक्रियविषयभावमेव नोपेयात् । तमब्‌ग्रहणं च प्रत्याख्यातमिति श्रमापनोदनार्थं ग्रामगमनेऽप्यन्तरा वृक्षमूलोपसर्पणमपि संहितमिति सिद्ध्यतीप्सितमात्रस्य कर्मसंज्ञा पूर्वेणैव । संज्ञान्तरपूर्व कमपि कर्मेप्सितमित्येव सामान्यलक्षमेन सिद्धम् । ग्राममधिशेते, नगरमुपतिष्ठति, इत्यादावुपसर्गसंबन्धे सकर्मकत्वाद्धातूनां परत्वात् कर्मसंज्ञायामधिकरणं कर्म गेहं प्रविशतीत्युक्तम् । अनुपसर्गत्वेऽधिकरणसंज्ञा भवति । अक्षान् दीव्यति' इति विजिगीषोपसर्जनपातनवचने दीव्यतावीप्सितत्वमक्षाणाम्, क्रीडार्थत्वे तु `अक्षैर्दीव्यति' इति करणताक्षाणामित्युभयसिद्धौ समावेशार्थं सूत्रम्---
`दिवः कर्म च ' (P.1.4.43)
इति । तदुक्तं वार्तिके
`गतिदिविहेतुमत्सु च ग्रहणम्'
इति । असति समावेशार्थे सूत्रे कर्मसंज्ञाया अवकाशो `मनसा दीव्यति' इति । मनसादेव इति कर्मण्यण्‌प्रत्ययः । करणसंज्ञायास्तु देवनोऽक्ष इति करणे ल्युडिति परत्वाद् द्वितीयां बाधित्वा तृतीयैव स्यात् ।
`मनसस्तृतीयायाः'(P. 6.3.4)
इत्यलुकि, करणसंज्ञाया अप्यवकाशो मनसादेव इत्येतदेवोदाहरणम् । सूत्रारंभे तु चकारसहिते संज्ञाद्वयसमावेशान्यथानुपपत्त्या द्वितीयापि सिद्धयति । एवं कुधद्रुहोरप्यनुपसर्गयोः सम्प्रदानता उपसृष्टयोस्तु परत्वात् कर्मतेत्येवंजातीयमेव कर्म प्रागेव प्रतिपादितमस्माभिः पुनरपि स्मारितम् ।। 80 ।।
गतमेतत् । इदमिदानीं चिन्त्यते । इह कर्मद्वययोगे प्राधान्यमार्थमाश्रित्यप्रधाने लादिरुक्तः । द्वितीया तु प्रातिपादिकद्वयादप्युत्पद्यत इति तत्र गुणप्रधानभूतक्रियाद्वय विषयायामपि कर्मशक्तावेकस्या लादिनोक्तत्वेऽपरशक्‌त्यभिधानाय द्वितीया कस्मान्नोत्पद्यत इत्याशङ्क्याह ।
प्रधानेतकयोर्यत्र द्रव्यस्य क्रिययोः पृथक् ।
शक्तिर्गुणाश्रया तत्र प्रधानमनुरुध्यते ।। 81 ।।
(78) इहार्थानामेकवाक्योपात्तानां समन्वयो भवति । तत्र द्वयोः प्रधानयोः समत्वान् मिथोऽङ्गाङ्गिभावो नोपपद्यते, नापि द्वयोर्गुणयोः
"गुणानां च परार्थत्वादसंबन्धः समत्वात् स्यात्" (Mi.Su.3.1.12.22)
इति । गुणप्रधानभावेन तु समन्वयोपपत्तावेकवाक्यता भवतीत्याह---
`प्रधानेतरयोर्यत्र'
इति ।। 81 ।।
तत्र प्रधानानुमायित्वाद् गुणानामप्रधानक्रियाविषयकर्मशक्‌त्यभिधाने द्रव्यस्य गुणक्रियाविषयाप्यभिहितवत् प्रकाश्यत इति प्रधानानुरोधं सामान्येनोक्तं व्याख्यातुमाह ।
प्रधानविषया शक्तिः प्रत्ययेनभिधीयते ।
यदा गुणे तदा तद्वदनुक्तापि प्रकाशते ।। 82 ।।
(79) प्रधानक्रियावाचिनो धातोरुत्पन्नेन प्रत्ययेन लादिना यदा प्रधानक्रियाविषया कर्मशक्तिः प्रत्याय्यते तदा गुणक्रियाविषयापि साक्षाद् अनुक्तापि तद्वत् प्रकाशते इतीयमनुवृत्तिर्व्याख्याता । अत्रोदाहरणमाह ।
पचावनुक्तं यत्कर्म क्त्त्वान्ते भावाभिधायिनि ।
भुजौ शक्‌त्यन्तरेऽप्युक्ते तत्तद्धर्मः प्रकाशते ।। 83 ।।
(80) `पक्‌त्वौदनो भुज्यते' इत्युदाहरणम् । अत्र क्‌त्वाप्रत्ययस्य तुमर्थग्हणानुवृत्या भाष्यकारमतेन भावे विधानम् । वार्तिककारो हि
`आ च तुमुनः समानाधिकरणे' (Va. on P.3.4.26)
इति पपाठ । यथावकाशं
`शकधृषः.....'(P.3.4.65)
इत्यादिसूत्रविधीयमानाज् आ तुमुन्‌प्रत्ययादनुप्रयोगधातुना समानाभिधेया णमुलादयः प्रत्यया वक्तव्या इति वार्तिकार्थः । तेन `स्वादुंकारं भुज्यते यवागूर्देवदत्तेन इति णमुला कर्माभिधानाद्यवागूशब्दाद् द्वितीया न भवति । देवदत्तशब्दाच्च तृतीया भवति । अन्यथा कृतत्वात् कर्तरि णमुलुत्पत्तौ देवदत्तशब्दात्तृतीया न स्यात् । अनेनैव न्यायेन `पकूत्वौ दनो भुज्यते' इत्यत्रापि क्‌त्वाप्रत्ययो `भुज्यते' इत्यनुप्रयोगधातु ना समानाभिधेये कर्मण्येवोत्पद्यत इति नास्ति कस्याश्चिदपि सक्तेरनभिधानमितित वार्तिककारमतेनेदमुच्यते । भाष्यकारस्तु `पक्‌त्वौदनं गम्यते ग्रामः " इत्यत्रानेन न्यायेन द्वितीया न स्यादिति वार्तिकं प्रत्याचष्टे । तुमर्थग्रहणानुवृत्त्या णमुलादीनां भावे विधानं मन्यते । तुमर्थो हि भावः । कृत्‌त्वात्कर्तरि सिद्धे सेक्‌त्वाप्रभृतीनां तुमर्थ इति वचनात् कर्तुरपकर्षः । न चान्यस्तुमुनोऽर्थो निर्दिष्ट इत्यनिर्दिष्टार्थाः प्रत्ययाः स्वार्थे भवन्तीति स्वस्याः प्रकृतेरर्थो भावः सिद्धः । एवं क्त्वान्ते `पक्‌त्वा' इत्यस्मिन् भाववाचिनि पचिक्रियाविषयौदनस्य कर्मशक्तिरनुक्ता । भुजिक्रियाविषयायां कर्मशक्तौ लेनाभिहितायां तथैव तद्धर्मः तस्य प्रधनस्यैव धर्मः प्रत्यायितत्वलक्षणो यस्य तद्धर्मः प्रकाशते इति द्वितीया न भवत्योदनात् । `पक्‌त्वौदनं भुङ्क्ते इत्यत्र पचिक्रियापेक्षादेव देवदत्तात् कर्तुलतृतीयाप्यस्मान्न्यायान्न भवति । पक्‌वौदनं गम्यते ग्राम इत्यत्र तु गमिप्रत्ययेनौदनगता कर्मशक्तिर्नाभिहितेति भवति द्वितीया । यद्यपि च साधनैकार्थसमवेतायां संख्यायां भुज्यत इति विभक्तिरुत्पद्यते तथापि पचिविषयकर्मोपाधिसंख्यानभिधानाद् भवेद् द्वितीयेति न्यायोऽयमुद्धोष्यते । एकत्वादिष्वपि हि विभक्तयर्थेष्यवश्यं कर्मादयोऽङ्गत्वेनापेक्षणीयाः ।। 83 ।।
उदाहरणान्तरमाह ।
इषेश्च गमिसंस्पर्शाद् ग्रामे यो लो विधीयते ।
तत्रोषिणैव निर्भोगः क्रियते गतिकर्मणः ।। 84 ।।
(81) `इष्यते ग्रामो गन्तुम्' इत्युदाहरणम् । अत्रेषेरुभे कर्मणी, गमेर्ग्राम एवेति ग्रामस्थेषिविषयायां कर्मशर्ताविभिहितायां ग्रामविषयापि तद्वत् प्रकाशते । तत्र गमनार्थमेषणाम् । तथा च क्रियायां क्रियार्थायामुपपदे तुमुन्नति फलभूतात्र गमिक्रिया प्रधानं नेषिरिति शङ्क्यामुदाहरणान्तरमिदम् । आख्यातपदवाच्ये ह्यर्थे निर्वर्त्यत्वात् प्रधानता वर्तते । पक्‌त्वा भुज्यत इत्यत्र त्वार्थमपि प्राधान्यमस्ति । पाकस्य भोजनार्थत्वात् । `गामिसंस्पर्शाद्' इति । इषेर्द्रव्यान्तरसंबन्धः क्रियान्तरमुखेनैव सर्वदा भवति । तदिह दर्शनादिमुखेन ग्रामे इच्छा, अपि त्वेकवाक्योपात्तगमिद्वारेणेत्यर्थः । निर्भोगः चर्वणम्, आख्यानम्, इति यावत् । `इषिणैव' इति । इषिप्रत्ययेन लकारेण कर्मणि विहितेन । तन्त्रेण हि शक्तिद्वयमप्यभिदधाति प्रत्यय इति वाक्यपदीये निर्णीतम् ।। 84 ।।
मतान्तरेणाप्यत्रोपपत्तिमाह ।
पक्‌त्वा भुज्यत इत्यत्र केषांचिन्न व्यपेक्षते ।
ओदनं पचतिः सोऽसावनुमानात् प्रतीयते ।। 85 ।।
केषांचिन्मतेऽत्र वाक्ये पचिक्रियौदनं नापेक्षते । प्रथमान्तस्यौदनस्य पक्त्वेति संबन्धाभावात् । भुज्यते इत्यनेनैव संबन्धो भवत्योदनस्येत्येकैव कर्मशक्तिः, सा चाभिहितेति क्वेदमुपतिष्ठते प्रधानशक्‌त्यभिधाने गुणक्रियाशक्तिरभिहितवत् प्रकाशत इति । यदि तर्हि पचिनौदनस्यासंबन्धः पक्‌त्वान्यत् किंचिदोदनो भुज्यत इत्यर्थः स्यात् । तथा च विवक्षितमोदनपाकस्य भुज्यङ्गत्वं न प्रतीयेतेत्याशङ्क्याह `सोऽसावनुमानात् प्रतीयते' इति । स इति परामृष्टस्यौदनस्य बुद्ध्या साक्षात्कृतस्यासाविति प्रत्यक्षानुकारेण प्रतिनिर्देशः । साक्षात्पचिसमन्वयायोग्योऽप्योदनः सामर्थ्यात् पचेरपेक्षणीयत्वेन प्रतीयते । किं सामर्थ्यमिति चेत् एकवाक्यत्वमिति ब्रूमः । श्रुतसंबन्धो ह्यश्रुतसंबन्धपरिकल्पनाल्लघुः । एतच्च सत्येव गुणप्रधानभावे नान्यथेति पूर्वोक्त एव न्यायोऽत्राश्रयणीयः, इति पूर्वोक्तमेव दर्शनं न्याय्यम् । अत एवारुच्यान्यमतत्वेनोपन्यासः किल । भुजि पाकमपेक्षत इति सन्निहितेनैवाकाङ्क्षा पूरयितव्या । पाकस्य भुज्यपेक्षया पूर्वकालस्येति गुणप्रधानभावोपपत्तावेकवाक्यतोपपत्तिः ।। 85 ।।
न केवलं कर्माख्यकारकविषयोऽयं न्यायः, यावत् कारकान्तरेऽपीति व्याप्त्यर्थमुदाहरणान्तरमाह ।
तत्राभिनिविशौ कर्म यत्तिङन्तेऽभिधीयते ।
क्‌त्वान्तेऽधिकरणत्वेऽपि न तत्रेच्छन्ति सप्तमीम् ।। 86 ।।
(83) `भुक्‌त्वा नगरोऽभिनिविश्यते' इत्यत्रामिनिविशश्चेति नगरस्याभिनिविशेराधारस्य कर्मसंज्ञायां तिङ्न्तेरऽमिनिविश्यत इत्यत्र प्रधानभूते विषयेऽमिहिता कर्मशक्तिः । भुक्‌त्वेति क्‌त्वान्तविषयेऽधिकरणशक्तिरपि गुणत्वात् स्वकार्यं सप्तमीविभक्तिलक्षणं न प्रयुङ्क्ते । सप्तम्या ह्यत्र प्रधानक्रियाविषया कर्मशक्तिर्न प्रतीयेतेति प्रधानोपरोधो गुणेन कृतः स्यात् । न चैष न्याय्यः । प्रधानानुयापित्वाद् गुणानां प्रधानविरोधिनि स्वकार्ये उदासत एव । प्राधान्यं च सर्वत्र तिङ्न्तार्थस्य शाब्दव्यवहारविश्रान्तिस्थानस्य वाक्यार्थभूतस्य । अनेनैव न्यायेन नगरेऽमिनिविश्य भुङ्क्ते इत्यत्र भुज्याश्रयेणधिकरणत्वेन नगरस्याभिनिविशिकर्मत्वमपोद्यते ।। 86 ।।
गतमेतत् । इह कथं कर्मत्वं `गुडं भक्षयति' इति । गुडो हि निर्वृत्तो भक्षणक्रियागतं न कंचन विशेषमाकाङ्क्षति तथेप्सितम् । अपि तु भक्षणक्रियाया आश्रयविशेषप्रदर्शनार्थमुपादीयत इति क्रियार्थमेतद् द्रव्यं न तु द्रव्यसंस्कारार्था क्रिया, दन्तावचूर्णनादि न भक्षणक्रियाफलम्, अपि त्वन्नादनादिरूपाभ्यवहारलक्षणस्य भक्षणस्य । प्रीतिस्तृप्तिलक्षणा फलमिति नास्ति क्रियांकृतोऽत्र कश्चनोत्पत्त्यादिविशेषः । तदुक्तं वार्तिके ।
"ईप्सितस्य कर्मसंज्ञायां निर्वृत्तस्य कारकत्वे कर्मसंज्ञाप्रसङ्गः, क्रियाप्सितत्वात् "
(Va.on P.1.4.49)
इति । निर्वृत्तस्य इति निर्वत्यकर्मतां प्रतिक्षिपति । उपलक्षणं चैतत् । विकाराद्यभावात् कर्मान्तरतापि नास्ति । निराकङ्क्षस्य वेत्यर्थः । `कारकत्वे'इति क्रियासिद्धौ निमित्तभावमाह । भक्षणक्रियानिष्पत्त्यर्थं गुडस्योपादानात् । अत एव भक्षणाय गुड इति क्रियैव सन्दर्शनादिभिराप्यमानत्वादीप्सिता कर्म, न तु द्रव्यम् । भक्षणमात्रं हि गुडस्येप्सितं न तु भक्षणप्रत्याख्यानेनान्यस्तत्कृतो विशेषः । अत्र वार्तिके परिहार उक्तः ।
`न वोभयेप्सितत्वात्' (Va. on P.1.4.49)
इति ।। 86 ।।
तत्र कथं गुडादेरीप्सितत्वमित्येतद् व्याख्यातुमाह ।
यन्निर्वृत्ताश्रयं कर्म प्राप्तेरप्रचितं पुनः ।
भक्ष्यादिविषयापत्त्या भिद्यमानं तदीप्सितम् ।। 87 ।।
(84) निर्वृत्तो निष्पन्नोऽत एव निराकाङ्क्षः आश्रयो गुडादि द्रव्यं यस्य कर्ममः कर्मशक्तेरिति निर्वत्यकर्मताव्युदासः । विकारानाकाङ्क्षणाच्च विकार्यतापि व्यदस्ता । `प्राप्तेरप्रचितम्' इति । प्राप्तेर्भक्षणक्रियासंबन्धाद्योऽपि प्रचायापचययोर्विशेषस्तेनाप्रयुक्तमप्रचितमिति प्राप्यकर्मतापि व्युदस्ता पूर्वपक्षे । आद्येन हि कारिकार्धेन पूर्वपक्षवार्तिकार्थः संगृहीतः । द्वितीयेनार्धेनोत्तरवार्त्तिकव्याख्यानम् । भक्षिभुज्यादिक्रियाविषयभावापत्त्या भिद्यमानं विशिष्यमाणं गुडादीप्सितं प्राप्यमेतत् कर्मेत्यर्थः । तथा हि, न भक्षणादिक्रियैवात्रेप्सिता । एवं हि लोष्ठमपि भयक्षित्वा कृती भवेत् । नापि गुडः क्रियान्तराश्रयत्वेनेप्सितः, अपि तु भक्षणाश्रयत्वेनेत्युभयमाश्रयाश्रयिभावेन समुदितमीप्सितम् । यस्य हि गुडभक्षणमीप्सितं तस्य गुडोऽपीप्सितः । भक्षणक्रियासंबन्ध एव चात्र क्रियाकृतो विशेषः प्राप्यकर्मतायां विशेषान्तरस्यानाकांक्षणात् । अन्यथा निर्वत्यविकार्याभ्यां को विशेषः स्यात् । भक्षणस्य प्रीत्यतिशयोऽत्र फलम् । स च गुडस्य तत्संबन्धे सति घटत इत्ययमेव विशेषः । क्रियाकृतः स्वानुरूपफलप्रलवयोग्यता हि संस्कारः । ननु च तृप्तिलक्षणायां प्रीतौ गुडोऽङ्गमिति कथं प्रधानकारकरूपं कर्मत्वमस्याः । उच्यते । तृप्त्यङ्गतायां गुडस्यायमितिकर्तव्यातविशेषो यद्भक्षिक्रियाविषयीकरणे तां प्रति प्राधान्यम्, नान्यथा तृप्तिः सम्पादयितुं शक्या । तदस्य तृप्त्यङ्गभावेऽयं प्राथमकल्पिको व्यापारः । तद्यथा गुरुः सेव्यमानो धर्मोत्पत्तावङ्गतामेति, तच्चास्य परिचरणक्रियाविषयभावगमनमन्तरेण न घटनामेतीति गुरुं शुश्रूषत इति प्राधान्योपपत्तिः । तदेवमत्र पूर्वपक्षे द्रव्येप्सापह्नवेव क्रियामात्रस्येप्सा दर्शिता । अतस्तदानुगुण्येन परिहारे द्रव्यस्यापीप्सा प्रदर्शिता । यदि तर्हि क्रियाविषयभावमात्रगमनेन कर्मतासिद्धिः तथा सति सर्वत्र क्रियामात्रेऽपि सकर्मकता स्यात् । ततश्चाकर्मकव्यपदेशाः शास्त्रे विरुध्येरन् । न च विरुध्यन्ते । न ह्यवश्यं क्रियामात्रे बाह्यविषयसंभवः । काचिद्धि क्रिया कर्तर्येव विश्राम्यति । न तु बाह्यभावमपेक्षते । तद्यथा आस्ते, शेते इत्यादि । द्वयर्थः पचिरिति वचनात् सर्वधातुविषयेऽपि भावनालक्षणे व्यापारे धात्वर्थ एवात्र भावनापर्यवसानात् स एव भाव्यः । `आसनं करोति' शयनं करोति इति । अत एवात्र बाह्यभावनिष्ठा भावना तत्र तेन बाह्येन कर्मणा भाव्येन सकर्मकत्वम् । तत्र च किमित्यनुयुज्यते । पचति किमोदनमित्यादि । धात्वर्थस्य हि सर्वत्राव्यभिचाराद् भाव्यत्वेऽपि न तेन सकर्मकाकर्मकविभागः शक्यक्रियः [कालादिकर्मणेव बाह्यं तु कर्म व्यभिचरतीति तदपेक्षोऽयं विभागः । अत्तश्च शुद्धाया भावनाया धात्वर्थः कर्म, धात्वर्थविशिष्टायां तु बाह्यं कर्म । अत एव बाह्यनिष्ठायां भावनायां धात्वर्थः करणमिति न्यायविदः । तेनोदनं पचति, पाकेनौदनं भावयतीति वाक्यार्थः । यद्यपीह दर्शने भावना धात्वर्थ एव तथापि फलपर्यन्तासौ कर्तृव्यापाररूपा दीर्घतरावयवक्रियामात्रात् पृथग्‌व्यवहारसहा । एवं सर्वत्र योज्यम् ।। 87 ।।
क्वचित् पुनर्वस्तुतो बाह्यकर्मसद्भावेऽप्यकर्मकव्यपदेशो भवतीत्याह ।
धातोरर्थान्तरे वृत्तेर्धात्वर्थेनोपसंग्रहात् ।
प्रसिद्धेरविवक्षातः कर्मणोऽकर्मिका क्रिया ।। 88 ।।
(85) प्रसिद्धादर्थादन्यत्रार्थे यदा धातुर्वर्तते तदा तत्रास्य कर्मसमन्यवयरहितक्रिया वाच्या प्रतीयते । तद्यथा वहतिर्देशान्तरप्रापणवचनः सकर्मकः प्रसिद्धो भारं वहतीति । स यदा नदी वहतीत्यत्र स्यन्दनक्रियामभिधायी तदा स्यन्दनस्य जलस्रुतिरूपस्य नद्यात्मभूतत्वात् किमित्यनुयोगाभावादकर्मक इति धात्वर्थमात्रापेक्षयेयं भावना वहति स्यन्दनं करोतीति । यदापि धात्वर्थक्रियायां कर्मान्तर्भवति तदाप्यकर्मकत्वम् । तद्यथा `जीवति' इति । `प्राणान् धारयति' इति ह्यत्र धात्वर्थ इति प्राणलक्षणस्य कर्मणोऽन्तर्भावः एवं `म्रियते' `प्राणान् जहाति' इति । तथा `अस्ति' `आत्मानं विभर्ति' इति । यत्राव्यभिचारेण प्रतिनियतस्य कर्मणः प्रतीतिस्तत्राप्यर्कार्मिका क्रियेति व्यवहारः । तद्यथा `वर्षति' इति । अत्र हि यथा वर्षणक्रियायामप्यभिचाराद्देवः कर्ता प्रतीयते तथा कर्मापि जललक्षणमिति प्रसिद्देरकर्मकत्वाश्रयः कर्तरि क्त उदाहृतः `वृष्टो देवः' इति । यत्त्वप्रसिद्धं कर्म तेन सकर्मकत्वमेवास्याः क्रियायाः, `रुधिरं वर्षति' `शरन् वर्षति' इति । `पांसवो वृष्टाः' इति कर्मणि क्तः । विद्यमानोऽपि वा यत्र कर्मसंबन्धः क्रियामात्रप्रतिपादनतात्पर्यान्न विवक्ष्यते तत्राप्यकर्मकत्वं संभवति । तद्यथा नेह पच्यते, नेह भुज्यते इति । क्रियाप्रतिषेधतात्पर्याद्भावे लकारः । दीक्षितो न ददाति, न पचति, न जुहोति इति कर्मणोऽविवक्षा । अत्र किमिति नापेक्ष्यते । क्रियाप्रतिषेधतात्पर्यात् ।। 88 ।।
तदेवं चतुर्भिः प्रकारैरकर्मकव्यपदेशाः शास्त्रे भवन्ति । एवमन्येऽपि प्रकाराः संभवन्तीत्याह ।
भेदा य एते चत्वारः सामान्येन प्रदर्शिताः ।
ते निमित्तादिभेदेन भिद्यन्ते बहुधा पुनः ।। 89 ।।
(86) य एते सकर्मकाणामपि धातूनामकर्मकत्वनिबन्धनभूता भेदाश्चत्वारोऽभिहितास्ते निमित्तादिभेदेनानेकप्रकारा जायन्ते । निमित्तं सहाय उपसर्गादिः । आदिशब्दाद्देशकालादयः । तद्यथा चरतिः देशान्तरप्रयोगस्य सामर्थ्याद्भवति । `बाष्प उच्चरति', `धूम उच्चरति' इति । उच्छब्दवशाद्धातुरयमूर्ध्वप्रवृत्तावकर्मकः । आदिग्रहणात् क्वचिदात्मनेपदप्रयोगादकर्मकत्वाभिव्यक्तिः `उत्तपते' `वितपते' इति । `भासते' इत्यर्थः । `यावद्भक्तमुपतिष्ठते', भोजनकालं यावदुदीक्षते इत्यर्थः ।
`अकर्मकाच्च' (P.1.3.26)
इत्यात्मनेपदम्। `सर्पिषो जानीते', `मधुनो जानीते', इति । तेनोपायेन प्रवर्तत इति ज्ञानपूर्विकायां प्रवृत्तामत्र धातुर्वर्तते ।
`अपह्नवे ज्ञः' (P.1.3.44)
इत्यनुवृत्तौ
`अकर्मकाच्च' (P.1.3.45)
इत्यात्मनेपदम् वाक्यसामर्थ्यात् क्वचिदकर्मकत्वाभिव्यक्तिः । तद्यथा `नदी वहति' इति । नदीलक्षणकर्तृविशेषसामर्थ्यात् स्यन्दनवचनतायामकर्मकत्वम् । एवं `वायुर्वहति' इति । तथा कर्मकर्तृविषये कर्मणः कर्तृत्वप्रतीतिवशादेकदेशवचनतायां धातोरकर्मकत्वं `पच्यते ओदनः स्वयमेव' इति । एवं च कृत्वाकर्मकव्यपदेशनिमित्तं शास्त्रमत्र विषये प्रवर्तते
`मुचोऽकर्मकस्य गुणो वा' (P.7.4.57)
इति । `मोक्ष्यते वत्सः स्वयमेव' इति । एवमर्थान्तरे वृत्तिर्धातोरकर्मकत्वनिबन्धनं निमित्तादिभेदेन भिद्यते । धात्वर्थेनोपसंग्रहेऽपि निमित्तादिभेदेन भेदः । तद्यथा--क्वचित् क्रिया स्वरूपसामर्थ्यलक्षणान्निमित्तात् तिरोहितभेदत्वे कर्मणोऽन्तर्भावेऽकर्मकव्यपदेशो जीवत्यादौ । क्वचिदन्वाख्यानव्यवस्थया निर्धार्यमाणरूपभेदस्याप्यन्तर्भावः । तद्यथा पुत्रीयतौ पुत्रकर्मणः । परमार्थतोऽत्र पुत्रलक्षणं कर्म क्रियाशरीरानुप्रविष्टं कर्म क्रियाशरीरानुप्रविष्टं भेदेनासत्येन प्रक्रियायामन्वाख्याननिमित्तमाश्रीयते तथा च वक्ष्यति
पुत्रीयतौ न पुत्रोऽस्ति विशेषोच्छा तु तादृशी ।
विनैव पुत्रानुगमाद्या पुत्रे व्यवतिष्ठते ।।
इति । आचारक्यचि त्वत्रोपमानकर्मान्तर्भूतमुपमेयकर्मणा तु सकर्मकत्वम् । `पुत्रीयति छात्रम् ' इति । `मुण्डयति माणवकम् ' इति तु सामान्यकर्मान्तर्भूतं विशेषकर्मणा तु सकर्मकत्वम् । एवं `मिश्रयति तिलान्' इत्यादौ । बाष्पायते, ऊष्मायते, रोमन्थायते इत्यादौ विशेषकर्मण एव निर्धारितरूपस्यान्तर्भावः । पचेः पार्थिवं भिदेश्च सावयवं कर्म प्रसिद्धम्, न त्वन्तर्भूतम् । तस्य स्वशब्देनापि वचनात्, पचति पाक्यम्, `भिनत्ति भेद्यम्' इति । अन्तर्भावे तु स्वशब्देन निर्देशो न स्यात् । न हि भवति `जीवति प्राणान्' इति । `जलं वर्षति' इति तु भवति । अन्तर्भावाच्च कर्मणो `नमस्यति देवान् ' इत्यत्र नमःशब्दयोगे चतुर्थी न भवति । तथा च वार्तिके
`नमसः क्यचि द्वितीयानुपपत्तिः'(Va.on P.3.1 19)
इति चोदयित्वा
`प्रकृत्यन्तारत्वात् सिद्धम्' (Va. on P.3.1.19)
इति परिहृतम् । अनेनैवाशयेन धात्वन्तारमेव नमस्यतिशब्दः पूजार्थो न संभवत्येवात्र नमःशब्दोऽवयवकल्पनाद्वारेण त्वेवं व्युत्पाद्यत इत्यर्थः । बाष्यकारस्त्वन्वाख्यानवेलायां नमसः प्रकृतित्वेन परिग्रहात् संभवं मन्यमानः पुनश्चोदयति ।
`ननु नमस्यतिशब्दे नमः शब्ब्दोऽस्ति, तेन योगे चतुर्थी प्राप्नोति'
(M.Bha. on Va. above )
इति । परिहरति च
`अर्थवतो नमःशब्दस्य ग्रहणम्, न च नमस्यतिशब्दे नमःशब्दोऽर्थवान्'
(M.Bha. on Va. above )
इति । सुब्‌धातुवृत्तिरियम् । अत्र चोपसर्जनार्थः प्रत्ययार्थे गुणीभूत इति नमो देवेभ्य इत्यत्र प्रधानभूतनमःशब्दयोगे सावकाशत्वादत्र चतुर्थी न भवतीति भाष्यार्थः । प्रसिद्धेरपि यत्राकर्मकत्वं तत्राप्यवान्तरो भेदो देशकालवशाज्जायते । तद्यथा दक्षिणापथे पूर्वाह्णे `पच्यताम्' इत्युक्ते यवागूकर्मकः पाकोऽवगम्यते । अपराह्णे पुनरोदनसाधनः । मांसभूयिष्ठे तु देशे माससाधनः पाकः प्रसिद्धः । क्रियास्वरूपसामर्थ्यात् क्वचित् प्रसिद्धं नियतं कर्म, `वर्षति' इति जलं प्रतीयते । कर्तृसामर्थ्यादपि कर्म प्रसिद्धम्, यथा `दुर्जनः करोति' इत्युक्ते उपघातलक्षणं कर्म गम्यते । सुजनः करोति' इति तूपकारोऽवगम्यते । गोष्ठीभेदेन देशभेदेन चापरिमिता प्रसिद्धिरनुगन्तव्या, कियदुदाह्रियते । अविवक्षापि क्वचित् सादृश्यामात्रप्रतिपादनपरतया वाक्यस्य कर्मणो दृश्यते । तद्यथा "अनुवदते कठः कलापस्य" इत्यत्र कठकलापयोर्भाषणसादृश्यं प्रतिपाद्यमिति कर्म न विवक्षितम् । तथा कर्मशक्तिविशेषप्रतिपादने `देवदत्तः किं करोति' इति प्रश्ने `पचति' `ब्रवीति' इति कर्मसंबन्धो न विवक्ष्यते । क्रियाप्रबन्धाव्युपरमप्रतिपादनेऽपि न विवक्ष्यते कर्म `पचत्येव ददात्येव' इति यतायोगमनुसरणीयं प्रयोगजातमिष्टम् ।। 89 ।।
इति भूतिराजतनयहेलाराजकृतौ प्रकीर्णप्रकाशे कर्माधिकारः ।।
-----------
इह स्वादिविधिवाक्ये ययाऽऽनुपूर्व्या विभक्तिप्रत्ययाः सन्निविष्यास्तदनुसारेण तदर्थानां कारकाणां विचारः । तत्र द्वितीयार्थे कर्मणि विचारिते तृतीयार्थः करणं पूर्वं विचार्यते । कर्ता तु षष्ठ्या अप्यर्थ इति साधारणत्वान्न्यूनत्वेन पश्चाद्विचारयिष्यते । तत्र क्रियासंसिद्धौ सामग्व्याः साधनत्वात् कोऽतिशयः करणस्य येन तत् साधकतमं स्यादिदित्याशङ्क्य लक्षणमाह ।
क्रियायाः परिनिष्पत्तिर्यद्‌व्यापारादनन्तरम् ।
विवक्ष्यते यदा तत्र करणत्वं तदा स्मृतम् ।। 90 ।।
(87) सन्निपत्योपकारिषु सर्वेष्वपि साधनेषु यद्‌व्यापारानन्तरभाविनी क्रिया लक्ष्यते तदवाप्तातिशयं साधकतमं करणम् । तद्यथा छेदने दात्रमनुप्रविश्य छेद्यमवयवविभागं साधयत् प्रकृष्टोपकारतामासादयत्यधिकरणादिकारकान्तरेभ्यः । एवं दर्शने चक्षुः प्रणिधीयमानम् इत्याद्युदाहर्तव्यम् । साधनव्यवहारस्य च बुद्ध्यवस्थासमाश्रयत्वाद् `विवक्ष्यते' इत्याह । विवक्षोपारूढ एव ह्यर्थो व्याकरणेऽङ्गम्, न बाह्यवस्तुसत्तेत्यर्थः । तथा च बलेन लुनाति, `आलोकेन पश्यति' इत्यादावनादृत्य दात्रादिकं वलादि साधकतमत्वेन विवक्षितं करणम् । तत्र साधनान्तराणां वास्तवेऽप्याधारादिभावे बुद्ध्यान्यथात्वम्, यथा स्थाल्या पच्यत इत्यादौ । करणस्य तु रूपमेव विवक्षाधीनमिति
`साधनव्यवहारश्च बुद्ध्यवस्थानिबन्धनः'
इत्युक्तेऽपि `विवक्ष्यते' इति पुनरुक्तम् ।। 90 ।।
एतदेवाह ।
वस्तुतस्तदनिर्देश्यं न हि वस्तु व्यवस्थितम् ।
स्थाल्या पच्यत इत्येषा विवक्षा दृश्यते यतः ।। 91 ।।
(88) इदमेव नियतजातीयं तु वस्तु करणमित्येवं निरूपयितुं न शक्यते । यस्मान्न वस्तु व्यवस्थितं करणतया नियतमस्ति । प्रज्ञाताधिकरणभावा अपि हि स्थाली तनुतरकपालत्वाच्छीघ्रतरपाककार्यसाधनतयाऽनुभवत्येव वैवक्षिकं करणभावम् । तथा हि प्रयोगः करणतृतीयान्तः `स्थाल्या पच्यते' इति लोके प्रसिद्धः । आर्द्रेन्धनापेक्षया हि सुसन्निवेशा स्थाली क्रियासिद्धौ प्रत्यासीदति ।। 91 ।।
यतश्च क्रियासिद्धौ प्रकृष्टोपकारकं करणमतस्तत्र कर्तॄणां संरभ इत्याह ।
करणेषु तु संस्कारभारभन्ते पुनः पुनः ।
विनियोगविशेषांश्च प्रधानस्य प्रसिद्धये ।। 92 ।।
(89) प्रधानस्य क्रियालक्षणस्यार्थस्य प्रसिद्धये प्रकृष्टोपकारकस्य करणस्यैव फलार्थिनः संस्कारमुत्तेजनादिकमसकृद्वयापारणं चारभन्ते । उपायद्वारेणोपेये प्रवृत्तेः । तत्र काष्ठानामुपधानं संस्कारः । पुनः पुनश्चोपस्थापनं विनियोगः । दात्रस्य तीक्ष्णताधानं संस्कारः । उदत्यमननिपातने विनियोगः । चक्षुषोऽञ्जादिः संस्कारः, प्रणिधानं विनियोगः, इत्याद्यन्यत्रापि यथायोगं वक्तव्यम् ।। 92 ।।
इह कथमुपकारप्रकर्षः "अश्वेन पथा दीपिकया याति" इति बहूनामेककालं विवक्ष्यतइत्याह ।
स्वकक्ष्यासु प्रकर्षश्च करणानां न विद्यते ।
आश्रितातिशयत्वं तु परतस्तत्र लक्षणम् ।। 93 ।।
स्वस्यां कक्ष्यायां करणभावावस्थायां सजातीयापेक्षः प्रकर्षोऽत्र तमप्‌प्रत्ययवाच्यो नाश्रीयते, अपि तु साधनसामान्यस्यानुगतस्य कारकान्तरापेक्ष एव प्रकर्षस्तमप्‌प्रत्ययवाच्यः करणत्वमावेदयते । साधकशब्दाद्धि कारकसामान्यवाचिनस्तमबुत्पन्नस्त त एव प्रकर्षं गमयति । परत इति साधनान्तरात् । एवं करणजात्यपेक्षस्यातिशयस्यानाश्रयणादश्वादीनां सर्वेषामपि साधनान्तरापेक्षया प्रतिलब्धप्रकर्षाणां करणत्वमविरुद्धम् । तथा ह्यश्वो देशान्तरप्राप्तौ कर्त्राद्यपेक्षया प्रकृष्टोपकारकः । पन्था अपि साधुश्चोराद्युपद्रवरहितः । दीपिका अपि तमःसंहतिमालोकेन निर्भत्सयन्ती प्रतिपद्यते साधनान्तरेभ्योऽतिशयम् ।। 93 ।।
ननु कर्तृविनियोगोत्तरकालं साधनानां प्रवृत्तेस्तदपेक्षया कर्तुरेव साधकमतत्वं न्याय्यमित्याशङ्क्याह ।
स्वातन्त्र्येऽपि प्रयोक्तार आरादेवोपकुर्वते ।
करणेन हि सर्वेषां व्यापारो व्यवधीयते ।। 94 ।।
(91) यद्‌व्यापारानन्तरं क्रियानिष्पत्तिस्तत्करणमित्युक्ते कर्तुः करणत्वाप्रसङ्गः । न हि कर्तृव्यापारानन्तरमेव क्रियासिद्धिः । साधनविनियोगे हि कर्तृव्यापारः । विनियुक्तेषु तु साधनेषु व्यापाराविष्टेषु सत्सु क्रिया निष्पद्यते । तत्र चाधिकरणादीनामिव कर्तुरपि व्यापारो विप्रकृष्यते क्रियासिद्धौ कर्त्रन्तरप्रयोगाभावात् । पारतन्त्र्ययोगेऽपि साधनान्तराणां प्रयोक्तारः कर्तारः विनियुक्तसाधनान्तरव्यापारव्यवधानेन क्रियां दूरादेव साधयन्ति । करणव्यापारसमनन्तरमेव तु क्रियासिद्धिः ।। 94 ।।
अथ वा कर्त्रा सहातिशयचिन्ता नैव संभवतीत्याह ।
क्रियासिद्धौ प्रकर्षो वा न्यग्भावस्त्वेव कर्तरि ।
सिद्धौ सत्यां हि सामान्यं साधकत्वं प्रकृष्यते ।। 95 ।।
(92) इह क्रियासिद्धिविषये साधनान्तरेभ्योऽतिशयः करणस्य विवक्षितः । यदा च प्रवृत्तानि गृहीतव्यापाराणि कारकाणि तदा क्रियासिद्धिर्विषयीभवति । कर्तृविनियोगे त्वपेक्षिते कर्तरि न्यग्भवन्ति । साधनान्यनाविष्टस्वव्यापाराणि स्वातन्त्र्यनिबन्धनं सामान्यभूतं साधनव्यपदेशमेव नासादयन्तीति कुतः तदपेक्षया कर्तुरतिशयः स्यात् । तदाह
`सिद्धौ सत्यां हि सामान्यं साधकत्वं प्रकृष्यते ।'
इति । यत्सामान्यं साधनत्वं तत्सिद्धौ निष्पत्तौ सत्यां प्रकर्षमासादयति । निष्पत्तिश्च तस्य कर्तृविनियोगादुत्तरकालं स्वव्यापारावेशे सति । तथा च तस्यां दशायामतिशयश्चिन्त्यमानोऽधिकरणादेस्तुल्यकक्ष्यात् करणस्यैवावतिष्ठते न तु कर्तुः । स हि स्वामी प्राक्प्रवृत्ति स्वतन्त्रो न मृत्यैः सह स्पर्धते । सजातीयापेक्षो हि प्रकर्षः । कर्ता तु विजातीय एव, कारकान्तराणां स्वतन्त्रपरतन्त्ररूपत्वात् । एवं च कृत्वा कर्तरि पराधीनस्याधिकरणस्य साधकत्वातिशयः कारकान्तरापेक्षो युज्यते, भिन्नविषयत्वादिति कथमस्वाधीनं प्रकर्षवत् साधनं स्यादिति न चोदनीयम् ।। 95 ।।
यदि तर्हि कर्तुः करणस्य च रूपविप्रकर्षः कथमिदानीं करणस्यापि कर्तृत्वमसिशव्छनत्तीत्याशङ्क्याह ।
अस्यादीनां तु कर्तृत्वे तैक्ष्ण्यादि करणं विदुः ।
तैक्ष्ण्यादीनां स्वतन्त्रत्वे द्वैधात्मा व्यवतिष्ठते ।। 96 ।।
(93) इह यदा छिदिं प्रति सुतीक्ष्णधारत्वात् कर्तृविनियोगतिरस्कारेणासिः स्वातन्त्र्येण विवक्ष्यते तदासौ करणमेव न भवति, अपि तु यदनन्तरभाविनी क्रिया तस्यैव करणत्वं तैक्ष्ण्यगौरवकाठिन्यसंस्थानादेः । तस्यापि कर्तृत्वविवक्षायां विवक्षाप्रापितरूपभेदायत्त करणभावः । तथा हि तैक्ष्ण्यं छिनत्ति स्वसामर्थ्येनेति शब्दभेदोपहितरूपभेदादेकमपि तैक्ष्ण्यं भेदेनैव कर्तृकरणते प्रतिपद्यते । स्वाधीनत्वेनाश्रित आत्मा कर्ता साधकतमत्वेनाश्रितः करणमिति द्वेधा व्यवस्थानम् । क्रियायाः करणाविनाभावात् करणान्तरव्यावृत्तिपरेयं चोदना । तैक्ष्ण्यमेव छिदौ साधकतमं नान्यदिति तस्यातिशयपरिपोषे तात्पर्यम्, तदेवं कर्तृकरणे भिन्ने एव ।। 96 ।।
यद्येवमेकत्राप्राप्तौ संज्ञयोः
`करणं पराणि.......'(Va. on P.1.4.1)
इति विप्रतिषेधः कथमुपन्यस्त इत्याह ।
आत्मभेदेऽपि सत्येवमेकोऽर्थः स तथा स्थितः ।
तदाश्रयत्वाद् भेदेऽपि कर्तृत्वं बाधकं ततः ।। 97 ।।
(94) विवक्षाप्रापिते सत्यपि कर्तृकरणतया रूपभेदे स एकोऽर्थः शत्तयाधारस्थितो न प्रच्यवते रूपादित्यर्थः । अत्रोपपत्तिः `तदाश्रयत्वात्' इति । कल्पनाश्रयत्वात् । काल्पनिको हि भेदो न वास्तविकमेकत्वं विहन्तीत्यर्थः । यद्वा तदाश्रयत्वदिति तदेकार्थाधारत्वात् कर्तृकरणसंज्ञयोरिति केचिद् व्याचक्षते । शक्तिभेदेऽपि तदादारद्रव्यैकत्वादेकः संज्ञयोर्विप्रतिषेधविषय उपद्यते । संज्ञा हि शक्तिविशिष्टस्य द्रव्यस्यैव । तदेवं वस्तुनि विद्यमानमेकत्वं यदा विवक्षोपादत्ते तदैकविषयत्वे विप्रतिषेधे परत्वात् कर्तृसंज्ञा । करणसंज्ञां बाधत इत्युदाहृतम् `असिश्छनत्ति' इति । अत्र हि साधकतमत्वाविवक्षाविनाभाविनी स्वातन्त्र्यविवक्षासेरित्येकविषयत्वे उभयसंज्ञाप्रसङ्गे परत्वात् कर्तृसंज्ञा । साधकतमत्वे हि सति स्वातन्त्र्यमारोप्यते । यथा धनुषा विध्यतीत्यपायभावे सत्येव साधकतमत्वं धनुषः । तदेवं क्रियां प्रति प्रकृष्टोपकारकं करणमिति स्थितम् ।। 96 ।।
उपकारश्च भवताऽर्थेन क्रियते, न त्वविद्यमानेनेत्येतामाशङ्कामप्यपाकरोति । यथा च सन्निधानेन करणत्वं प्रतीयते ।
तथैवासन्निधानेऽपि क्रियासिद्धेः प्रतीयते ।। 98 ।।
(95) दात्रादयः सन्निहिताः क्रियोपाकारतिशयमासादयन्तः करणतया यथा प्रज्ञायन्ते तथैव धनाभावेन मुक्त ित्यादावसन्निहितमपि धनं मुक्तिं साधयत् करणमेव प्रसिद्धम् ।। 98 ।।
अत्रैव सूत्रकारमतं संवादकमाह ।
सतोकस्य वाभिनिर्वृत्तेरनिवृत्तेश्च तस्य वा ।
प्रसिद्धिं करणत्वस्य स्तोकादीना प्रचक्षते ।। 99 ।।
(96) `करणे च स्तोकाल्प....' (P. 2.3.33)
इत्यत्रोदाहरणं स्तोकान्मुक्तः स्तोकेन मुक्त इति । अत्र सत्ववचनानामपि स्तोकादीनां धर्ममात्राभिदानतात्पर्येण प्रयोगादसत्ववचनता । तच्च धर्ममात्रं स्तोकलक्षणं सदसद्वा मुक्तिक्रियायामतिशयेनोपकारकं करणमित्युक्तम् । यस्मात् स्तोकं देयवस्तुनो निष्पन्नं न चान्यत् संभवति निष्किंचनत्वात् अतो मुक्तः ; यदि वा स्तोकं देयवस्तुनोऽवशिष्टमवसितं ततो मुक्तः । यदि तु बहु देयं स्यात् न मुच्येतेति स्तोकेनाभवता मुक्तः । एवमेकेन न विंशतिरेकान्न विंशतिरिति एकाभावो विंशतिनिषेधस्य करणम् ।। 99 ।।
तदेवं विवक्षाधीनत्वात् साधनव्यवहारस्य यद्यत् साधकतमत्वेन विवक्ष्यते तत्तत्करणम् । तथा च
धर्माणां तद्वता भेदादभेदाच्च विशिष्यते ।
क्रियावधेपवच्छेदविशेषाद् भिद्यते यथा ।। 100 ।।
(97) आश्रितमात्रं धर्मशब्देनाह । `तद्वता' इत्याश्रयेण । तथा हि `देवदत्तः काष्ठैः पचति' इतीन्धनगतस्य तेजसस्तदभेदविवक्षया प्रयोगः । तथा च देवदत्तकर्तृकेन्धनकरणिका चेयं पचिक्रिया । यदा तु तेजो भेदेनन्धनाद् विवक्ष्यते तदा "एधाः पक्ष्यन्ति तेजसा" इति तेजःकरणिकेन्धनकर्तृका च पचिक्रिया । यदाप्यौष्ण्यं तेजसो भेदेन साधनविशेषात् क्रिया । तद्यताऽवधेर्ग्रामादेरवच्छेदविशेषाद् भेदविशेषात् क्रिया भिद्यते विशिष्यते `ग्रामादागच्छति', `ग्रामस्य समीपादागच्छति' इत्यादौ तद्वदत्रापि बोद्धव्यमित्यर्थः । सारण्यके ससीमके सस्थण्डिलके हि ग्रामशब्दाभिदेयेऽभेदेन `ग्रामादाहच्छति' इति प्रयोगः । वाटपरिक्षिप्ते तु ग्रामशब्दाभिधेयेऽभेदेन `ग्रामादागच्छति' इति भिद्यतेऽवधिः । तद्भेदाच्च क्रिया विशिष्यते । एवं वैवक्षिककरणभेदादपि यथाविवक्षं च तदेव प्रधानकरणं तृतीयावद्धातुप्रत्ययेन ल्युटा घञा वाभिधीयते, पचनमेधः, पचनं तेजः पचनी स्थाली, पचनमौष्ण्यम् इत्यादि यथाविवक्षमुदाहार्यं प्रयोगजातमिष्टम् ।। 100 ।।
इति भूतिराजतनयहेलाराजकृते प्रकीर्णप्रकाशे साधनसमुद्देशे करणाधिकारः ।।
---------------
(98) तृतीयार्थे करणे विचारिते सम्प्रति तदर्थः कर्ता विचार्यते । तस्य लक्षणम्
`स्वतन्त्रः कर्ता' (P.1.4.54)
इति । स्व आत्मा तन्त्रं प्रधानमस्य । करणादीनां हि परः कर्तैव तन्त्रं प्रधानम् । क्रियासिद्धौ तेन प्रयोज्यत्वात् । कर्ता त्वनन्यप्रयोज्यः स्वतन्त्र इत्युच्यते । तत्र करणादीनामपि स्वव्यापारे स्वातन्त्र्यात् कोऽतिशयः कर्तुरित्याशङ्क्योपपादयति ।
प्रागन्यतः शक्तिलाभान्न्यग्भावापादनादपि ।
तदधीनप्रवृत्तित्वात् प्रवृत्तानां निवर्तनात् ।। 101 ।।
अदृष्टत्वात् प्रतिनिधेः प्रविवेके च दर्शनात् ।
आरादप्युपकारित्वे स्वातन्त्र्यं कर्तुरुच्यते ।। 102 ।।
करणादिप्रवृत्तेः प्राक् एवार्थितादेरपरस्मान्निमित्तात्, न तु सहकारिभ्य एव सामर्थ्यमासादयति । फलकामो हि कर्ता करणादीन्युपार्जयते । तथा च पूर्वमेव शक्तिमान् स्वतन्त्रः । करणादीनां तु कर्तृविनियोगादेव स्वव्यापारे स्वातन्त्र्यम्, न त्वन्यतः । अत एव कर्त्रा न्यग्भावमात्माधीनतामापाद्यन्ते । तदायत्तव्यापाराश्च । कर्ता तु फलार्थमीहमानः स्वयं व्यापारवान् । अतिप्रवृत्तानि च करणादीनि निवर्त्यन्ते कर्त्रा । स तु फलप्राप्तौ स्वयमेव निवर्तते । चोदितासंभवे करणादीनां प्रतिनिधिरुक्तः । कर्तुः स नास्ति । कर्त्रन्तरं हि क्रियां निर्वर्तयत् प्रतिनिहितं नोच्यते । तस्याप्यर्थिनः समर्थस्यापर्युदस्तस्याधिकारात् । प्रविवेके च कारकान्तराणामभावे दृश्यते कर्ता, तद्यथा अस्ति, भवति, विद्यत इत्यादौ । यद्यप्यत्राधिकरणादयः संभवन्ति तथापि नान्तरीयकास्ते शब्दव्यापारादप्रतीयमानाः । ततश्चाकर्तृकायाः क्रियाया अभावात् संभूयकारिभ्योऽपि विशिष्यते कर्ता । एतेन हेतुकलापेन कर्तुः करणापेक्षया क्रियासिद्धौ विप्रकृष्टोपकारकत्वेऽपि स्वातन्त्र्यं प्राधान्यनिबन्धनमुच्यत इति तस्यैव कर्तृसंज्ञा, न तु करणादेः स्वव्यापारे स्वतन्त्रस्यापीत्यर्थः । एतेन चेदं भाष्यं व्याख्यातम्---
"यत् सर्वेषु साधनेषु सन्निहितेषु कर्ता प्रवर्तयिता भवति"
(M.Bha.on P.1.4.23)
इति । एतच्च भाष्यं गर्भीकृतनान्तरीयकार्थं संक्षिप्योक्तमिति गर्भीकृतार्थव्यक्तीकारेणात्र व्याख्यातम् । तथा हि `तदधीनप्रवृत्तित्वात्' इत्यनेन साक्षात् प्रवर्तकत्वं व्याख्यातम् । सामर्थ्याक्षिप्तं च न्यग्भावनादि निर्दिष्टम् । तथा हि प्रयोक्‌त्त्रधीनत्वात् प्रवृत्तेर्न्यग्भावः करणादीनां तत्रार्थोक्तः । सा प्रवर्तना च फलार्थमिति तत्प्राप्तावतिप्रवृत्तौ निवर्तनाप्याक्षिप्ता । प्रवर्तयिता चावश्यं प्रवर्त्यादन्यतः शक्तिं प्राग् लभत इति तदपि व्याख्यातम् । असंभवे च प्रवर्तयितुरेवाभाव इति प्रतिनिध्यभावः सामर्थ्योक्तो विवृतः । साक्षात्समर्थस्य क्वचिदन्यानपेक्षणात् प्रविवेके च दर्शनं सामर्थ्यलभ्यं व्याख्यातमिति समस्याभिहितं भाष्यं व्यस्य व्याख्यातम् ।। 101,102 ।।
अचेतनेषु तर्ह्येवंविधधर्मकलापभावात् कर्तृता न प्राप्नोतीत्याशङ्क्याह ।
धर्मैरभ्युदितैः शब्दे नियमो न तु वस्तुनि ।
कर्तुर्धर्मविवक्षायां शब्दात् कर्ता प्रतीयते ।। 103 ।।
(99) अभ्युदितैः उक्तैरेतैः प्रागन्यतः शक्तिलाभादिभिः प्रवर्तयितृत्वादिलक्षणैः धर्मैः स्वभावैरूपलक्षितः स्वतन्त्रः कर्ता इत्येवंलक्षणो नियमोऽवश्यभावः शब्दविषये समाश्रयणीयः । शब्देन यस्यैते धर्माः प्रत्याय्यन्ते स कर्ता बोद्धव्यः, न तु वस्तुविषयतया धर्माणामेषां सम्भवोऽन्वेषणीयः येनाचेतनविषये `अग्निर्दहति', `एधाः पचन्ति' `स्थाली पचति' इत्यादौ `कूलं पतति, `नदी वहति' इत्यादौ च कर्तृत्वं न स्यात् । एते हि धर्मा यदा कर्तृलक्षणाय विवक्ष्यन्ते शब्देन च यथाविवक्षं प्रत्याय्यन्ते तदा शब्दात् कर्ता सुप्रतिष्ठितलक्षणः प्रतीयत इति करणमिव कर्तापि वैवक्षिकः प्रतिपादितः । एवं च कृत्वाचेतनेषूपचरितमपि न भवति कर्तृत्वम्, सर्वत्रास्खलद्वत्तित्वात्प्रयोगस्य मुख्यतासंभवात् । व्याकरणे हि शब्दार्थोऽर्थः न वस्त्वर्थः । ततश्च व्याकरणान्तरे
अर्थी कर्ता
तथायुक्तश्च
इति लक्षणद्वयं चेतनाचेतनविषयतया यत् प्रणीतं तन्न कौशलमित्युक्तं भवति ।। 103 ।।
यदा च विवक्षादीनं स्वातन्त्र्यं तदेदेमपि सिद्धं भवतीत्याह ।
एकस्य बुद्ध्यवस्थाभिर्भेदे च परिकल्पिते ।
कर्मत्वं करणत्वं च कर्तृत्वं चोपजायते ।। 104 ।।
(100) `हन्त्यात्मानमात्मना' इत्येकस्यैवात्मनो विवक्षाप्रापितरूपभेदाधीनः कारकत्रययोगो दृश्यते । स वास्तवे कारकव्यवहारे न घटनामेति । न ह्येकस्य वस्तुनो युगपद् भिन्नानेकरूपता शक्यावसातुम् । न चामूर्तस्यात्मनः शस्त्रादिव्यापारजन्यवधसंभवः । विवक्षा तु शब्दनिबन्धना न विहन्यतेऽत्र । तथा हि बुद्धेरवस्था प्रतिभासनानात्वम्, तदनुसारेण विवक्षया भेदपरिकल्पः । शास्त्राद्युद्यमननिपतनव्यापारवान् हन्तीति कर्ता । आत्मैवात्र विषयभावापतितस्तथैव कर्म । सौकर्यातिशयविवक्षायां शस्त्रादिव्यापारस्य निरासे करमत्वमात्मनः । कर्मकरणे ह्यन्यत्र भेदेन दृष्टे इति तन्निरासाय कर्तैवात्र तथोच्यते भेदेन । अत एव वार्तिके कर्मवद्भावोऽनेन न्यायेन प्रत्याख्यातः ।
सिद्धं तु प्राकृतकर्मत्वात् । (Va. on P.3.1.87)
आत्मसंयोगेऽकर्मकर्तुः कर्मदर्शनात् । (Va.onP.3.1.87)
इति ।
"हन्त्यात्मानम्, आत्मना हन्यत इति ।। 104 ।।
अन्यदपि शाब्दे कर्तृत्वे सिद्धयतीत्याह ।
उत्पत्तेः प्रागसद्भावो बुद्धयवस्थानिबन्धनः ।
अविशिष्टः सताऽन्येन कर्ता भवति जन्मनः ।। 105 ।।
(101) `अङ्कुरो जायते' इति जनिकर्तृत्वं सतोऽसतो वा । तत्र
यदि सज्जायते कस्मादथासज्जायते कथम् ।
इत्यादिना । तत्र वैवक्षिके कर्तृत्वे उपचारार्थोऽपि न कश्चिदित्युच्यते । तथा हि विवक्षारूपाया बुद्धेः शब्दनिमित्ताया येऽवस्थाविशेषाः प्रतिनियतशब्दनिबन्धनाः तदाश्रयेणात्र क्रियान्तरकर्तृत्वतुल्यं जनिकर्तृत्वं सिद्धम् । विवक्षाप्रापितसन्निधाने ह्यर्थेऽङ्कुर इति शब्दः प्रयुज्यते । स च सदेव वस्तु दर्शयति । ततो `जायते' इति पदसमवधानावधारितजन्मनोऽस्य कुतः सत्त्वमिति बुद्ध्या निश्चितसत्वस्य क्रियासिद्धावुपगृहीतसामर्थ्यस्य बाह्येन रूपेण जन्मेति वाक्यार्थोऽवतिष्ठते । ततश्च येन रूपेण सत्त्वं न तेन कर्तृत्वं न तेन सत्त्वमिति नेयं वास्तवी व्यवस्था अपि तु शाब्दयेवेत्यर्थः । शब्दार्थ एव चार्थ इत्यस्खलद्‌वृत्तित्वात् प्रयोगस्य मुख्यतैव सर्वत्र । नोपचारार्थः कश्चित् ।। 105 ।।
वस्तुवृत्तचर्यायामपि चाङ्कुरो जायत इति प्रयोग इत्याह ।
कारणं कार्यभावेन यथा वा व्यवतिष्ठते ।
कार्यशब्दं तदा लब्ध्वा कार्यत्वेनाथ जायते ।। 106 ।।
(102) कार्यमुखेन कर्तृता जन्म च सदसत्पक्षभेदेन नोपपद्यत इति बुद्ध्यवस्थासमाश्रयेण पूर्वमुपपादितम् । इदानीं कारणमुखेन प्रतिपाद्यते । अत एव पक्षान्तरसूचको वा शब्दः । तत्र कारणात् पृथगेव कार्यमाजायते इति पूर्वपक्ष उक्तः । परिणामदर्शने त्वभेदपक्ष इदं कथ्यते । कार्यकारणयोः प्रकृतिविकाररूपतया `क्षीरं दधि सम्पद्यते,' बीजमङ्कुरो जायत इत्यभेदेन व्यवहारदेकस्यावस्थातुरवस्थाविशेषस्वीकरणमात्रं सतत्त्वमिति कार्योन्मुखताया विशिष्टविकाराभिनिर्वृत्तिप्रक्रमे विशिष्टोत्तरावस्था विशेषगतवाचकाध्यासात् । कारणमेव सद्रूपं कर्तृ भवदुत्तरावस्थासाधनलक्षणं जन्म प्रतिपद्यते इति युज्यते `जायतेऽङ्कुर' इति प्रयोग इत्यर्थः ।। 106 ।।
युक्तं चैतद्यदुत कारणमेव कार्यभावेनावतिष्ठत इति स्वसिद्धान्तेनैतदुपपदयितुमाह ।
यथाहेः कुण्डलीभावो व्यग्राणां च समग्रता ।
तथैव जन्मरूपत्वं सतामेके प्रचक्षते ।। 107 ।।
(103) पूर्वं सदसत्पक्षभेदेन कार्यकारणभावासभवं प्रतिपाद्य
अत्यद्भुता त्वियं वृत्तिः (Va.III.स.81)
इत्यादिना विवर्तनयेन सिद्धान्तितम् । तत्र चेयानेव जन्मार्थो विचार्यमाणोऽवतिष्ठते यदुत तथा तथा सन्निवेशमात्रम् । तद्यथा सर्पस्य कौटिल्यमनर्थान्तरम्, पृथग्भूतानां चाङ्गुल्यादीनां सङ्घातो मुष्ट्यादिरित्यवस्थाविशेषमात्रसारः कार्यकारणभाव इत्यवस्थातुरभेदादवस्थास्वनुगमात् सत्त्वे जनिकर्तृतासिद्धिः ।। 107 ।।
इदानीं कार्यकारणयोर्भेदवादेऽपि वास्तवेन रूपेण जनिकर्तृत्वं प्रतिपादयितुमाह ।
विभक्तयोनि यत्कार्यं कारणेभ्यः प्रवर्तते ।
स्वा जातिर्व्यक्तिरूपेण तस्यापि व्यवतिष्ठते ।। 108 ।।
(104) विभक्ता व्यतिरिक्ता योनिः कारणमस्य तस्यासतो विकार्यस्य जायमानस्य कारणेभ्यः सकाशाद्वयरिक्तस्योत्पत्तेः पूर्वं व्यक्तिरूपेणासत्वेऽपि जात्यात्मना सत्त्वात्तज्जातीयतया निरूप्य साधनविनियोगाज्जातिरेव कारणानां स्वाभिव्यंजकसम्पत्त्यर्थं प्रयोजिकेति सैव व्यक्‌त्यात्मना जायत इति व्यवहाराज्जातिरूपेण कर्तृत्वं व्यक्तिरूपेण जन्यत्वमिति अत्यन्तं व्यतिरेकाभावाज्जातिव्यक्‌त्योः सामानाधिकरण्यादुपपद्यत इत्यर्थः ।। 108 ।।
इदानीं शब्दार्थोऽर्थ इति स्वसिद्धान्तं निगमयितुमाह ।
भावष्वेव पदन्यासः प्रज्ञाया वाच एव वा ।
नास्तीत्यप्यपदे नास्ति न चासद्भिद्यते ततः ।। 109 ।।
(105) आकारावग्रहेण ज्ञानशब्दयोः प्रवृत्तेर्निरालंबनतायोगात् प्रतीयमाने एवाकारो भावशब्दावाच्यः सदैव विषयः पदविन्यासस्थानं तयोः । तथा हि नास्तीत्यभावालंबनौ क़्चन परपरिकल्पितं स्वयमुत्प्रेक्षितं वाकारमवलंब्य जायेते येन सदाकारावलबनाभ्यां ज्ञानशब्दभ्यामनयोर्विशेषाभावः, स्वाकारावग्रहसाम्यादिति व्यवहारे सर्वमेव भावाभावजातं समानम् । बहिर्वस्तुचर्चा तु नाङ्गम्, इयतैव व्यवहारपरिसमाप्तेरिति सदाकारावग्रहप्रवृत्तौ जायतेऽङ्कुर इति प्रयोगः सूपपाद इत्यर्थः ।। 109 ।।
बुद्धिशब्दविषयबावातिरेकेण व्यवहारे वस्तूनां बाह्या सत्ता न काचन विद्यत इत्याह ।
बुद्धिशब्दौ प्रवर्तेते यथा भूतेषु वस्तुषु ।
तेषामन्येन तत्त्वेन व्यवहारो न विद्यते ।। 110 ।।
(106) अभिधानप्रत्ययावेव व्यवहार इति यथाप्रत्ययं यथाभिधानं च पदार्थतत्त्वमेषणीयम्, नान्यत् पदार्थस्वरूपमप्रतीयमानमनभिधीयमानं चाश्रित्य प्रत्यवस्थेयमित्यर्थः । तथा चार्थोल्लेखरहिताया बुद्धेरयोगात्तत्सिद्धेन तत्त्वेन जायमानः कर्ता निरूप्यते ; निरूपितश्चाभिधीयते । यथा नास्तीति प्रत्यये बहिरसन्नपि पदार्थो नियतदेशकालयोर्निषिध्यमानो देशकालान्तरोपलब्धेनाकारेणावभासमानः कर्तृप्रत्ययेनाभिधीयते, तथा कार्योन्मुखतायामनागतमपि वस्तु तज्जातीयानुभववासनया बुद्धावभिमुखीभवत्समर्थहेतुवशाज्जायत इति जन्मनः कर्तृत्वेनाभिधीयत इति प्रकरणार्थः ।। 110 ।।
इदानीं संबन्धसमुद्देशोक्तं न्यायं चेतसि सन्निवेश्याद्वैतनयेन जन्मनाशासंभवं प्रतिपादयति ।
आकाशस्य यथा भेदश्छायायाश्चलनं यथा ।
जन्मनाशावभेदेऽपि तथा कैश्चित्प्रकल्पितौ ।। 111 ।।
(107) निष्प्रदेशस्याप्याकाशस्य नित्यस्य संयोगिपदार्थप्रविभागेन देशाध्यारोपाद् भेदपरिकल्पनेत्युक्तम् । भासामभावरूपायाः छायायाश्च निष्क्रियत्वेऽपि वारकद्रव्यक्रियानुगामितया सक्रियत्वाध्यापरोपः । एवमभावस्य पूर्वं निराकृतत्वात् जन्मनि कारणव्यापारस्य च निषेधाद् विनाशेऽपि तदनुपपत्तेरावेदितत्वात् निर्हेतुकलविनाशप्रतिषेधाच्चाबिन्नस्याद्वयस्य तत्त्वस्य नित्यस्य जन्मनाशायोगादविद्यावशात् प्रतिभासमात्रनिष्ठजन्मनाशवशेन परिकल्पितभावाभावारूपतया व्यवहार इति संबन्धसमुद्देश एव विस्तरतो निर्णीतम् । एवं च भावाभावव्यवहारवज्जायत इत्यर्थोऽविचारितरमणीयः सिद्ध इत्यर्थः ।। 111 ।।
नाशस्य कल्पितत्वमुपपादयितुमाह ।
यथैवाकाषनास्तित्वमसन्नूर्तिनिरूपितम् ।
तथैव मूर्तिनास्तित्वमसदाकाशनिश्रयम् ।। 112 ।।
(108) व्यापकस्याकाशस्य सर्वत्र भवतो वस्तुनो न क्वचिदभावः । ततश्चासदप्याकाशनास्तित्वं परिमितदेशघटादिमूर्त्यवष्ठंभवशेन कल्प्यते । यत्र हि घटादयस्तत्रासदाकाशमिति व्यवहारः । एवं मूर्तीनामपि घटादीनां क्वचिन् नास्तित्वं भावतोऽविद्यमानमरि सत्स्वभावस्य स्वरूपविनाशायोगादसत्स्वभावत्वे कदाचिदप्यभावादिति न्यायादाकासस्यान्तराले दर्शनादध्यवसीयते । अन्तराले हि मूर्तीनां सत्तायास्तिरोधाने गगनमेव तद्रहितमवधारयन्तो जन्म प्रतिपद्यन्त इत्येतत् प्रकरणादवगन्तव्यम् । तथा च द्वयोरपि जन्मनाशयोः कल्पितत्वमुपपादितं भवति । यथाध्यवसायं च व्यवहारादजन्मनिरोधा एव पदार्थाः सिद्धाः । न ह्याकाशमभावो वस्तुतः पदार्थानामभावाभावे च सदैवावस्थानाज्जान्मार्थोऽपि न कश्चित् ।। 112 ।।
इदानीं वास्तवेऽपि जन्मनि प्रकारान्तरेण जायत इति प्रयोगं समर्थयितुमाह ।
यथा तदर्थैर्व्यापारैः क्रियात्मा व्यपदिश्यते ।
अभेदग्रहणादेष कार्यकारणयोः क्रमः ।। 113 ।।
(109) `करणं कार्यभावेन'
इत्यादिना कार्यकारणयोर्वास्तवमभेदमाश्रित्य समर्थितम् । अधुना तूपचरिताभादाश्रयेणोच्यते यथा हि पचेर्विक्लित्तिः प्रधानार्थ इति तदर्थैः गुणव्यापारैरघिश्रयणोदकासेचनादिभिः कर्त्रादिगतैस्तादर्थ्यादमध्यारोप्य प्रधानक्रियारूपमुच्यते, अधिश्रयणोदकासेचनतण्डुलावपनैधोपकर्षणक्रियाः प्रधानस्य कर्तुः पाकः, काष्ठानि पचन्ति आ विक्लित्तेर्ज्वलन्तीति करणस्य पाक इत्यादिना तथा कार्यार्थत्वात् कारणस्यैवैषानुपूर्वी क्रमोऽभेदेन व्यवहारे । तथा च कारणमेवाङ्कुरशब्दाभिधेयं सत्कर्तृ कार्यात्मना जायत इति युज्यते व्यपदेष्टुमित्यर्थः ।। 113 ।।
ननु च कार्यकारणयोरभेदाध्यारोपेऽपि जन्मनः कर्तृत्वं कार्यस्यैव युज्यते न तु कारणस्य सिद्धत्वादित्याशङ्क्य प्रकृतिविकारविषये पर्यायेण कर्तृत्वं कार्यकारणयोः प्रयोगभेदेनावस्थापयितुमुपक्रम्ते ।
विकारो जन्मनः कर्ता प्रकृतिर्वेति संशये ।
भिद्यते प्रतिपत्तॄणां दर्शनं लिङ्गदर्शनैः ।। 114 ।।
(110) इह प्रकृतिविकारविषये सामानाधिकरण्यं दृश्यते क्षीरं दधि सम्पद्यत इत्यादौ । अत्र च संदेहः । तथा हि गुणप्रधानभावस्य समन्वयान्यथानुपपत्त्यवश्यंभावात् किमत्र प्रकृतिः प्रधानं विकारोऽङ्गम्, उत विपर्ययः । तत्र प्रधानस्य कर्तृत्वं जनिं प्रति । अङ्गस्य तु प्रधानद्वारको जनिसंस्पर्श इति सामानाधिकरण्यम् । यदा तु भेदेन निर्देशो बीजादङ्कुरो जायत इति तदाऽसंशयमेव विकरस्य कर्तृत्वम् । अपादानतया प्रकृतेकर्निर्देशात्, जनिकर्तुः प्रकृतिरिति । तत्र विकारकर्तृकाणामाशयः--आत्मलाभस्य जन्माख्या, असता चात्मा लब्धव्यः । तथा च विकार इति स एवात्र कर्ता युक्तः । प्रकृतिकर्तृकास्तु मन्यन्ते, असतो हि विकारस्यात्मलाभं प्रत्याभिमुख्यायोगात्तल्लक्षणे जन्मनि कर्तृतानुपपत्तिः । आत्मलाभोन्मुखता हि जन्म सिद्धान्तयिष्यते । प्रकृतिरूपेण चात्मनो लब्धत्वादुत्तरावस्थालक्षणात्मलाभौन्मुख्यमवतिष्ठत इति तत्र प्रकृतेरेव कर्त्तुत्वमुचितमिति ।। 114 ।।
तदेतद्दर्शनद्वयं लिङ्गदर्शनैः प्रयोगभेदस्वभावैर्विषयविभागेनावस्थापयितुमाह ।
क्लृपि सम्पद्यमाने या चतुर्थी सा विकारतः ।
सुवर्णपिण्डे प्रकृतौ वचनं कुण्डलाश्रयम् ।। 115 ।।
(111) `क्लृपि सम्पद्यमाने चतुर्थी वक्तव्या' इति वार्तिकस्यायमर्थः सम्पादानक्रियाकर्तरि चतुर्थी विधेयेति । प्रयोगमूलत्वाच्च स्मृतेर्विकारवचनाच्चतुर्थी श्रूयमाणा विकारस्यैव सम्पत्तिक्रियाकर्तृत्वमावेदयते । मूत्राय सम्पद्यते यवागूरिति यावगूर्मत्र जायत इत्यत्र । प्रकृतेरत्र विकारद्वारेण क्रियासमन्वयो न साक्षात् । भेदविवक्षायां तु जनिकर्तुः प्रकृतिकित्यापादानपंचम्येवात्र कारकविभक्तिः, यवाग्वा मूत्रं जायत इति । अभेदविवक्षा तु चतुर्थ्या अवकाशः । अत एव तत्र संदेहे सत्ययं निर्णयो व्यधायि । तथा पुनरावृत्तः सुवर्णपिण्डः पुनरपरयाऽऽकृत्या युक्तः खदिराङ्गारसवर्णे कुण्डले भवत इत्यत्र भाष्यप्रयोगे सुवर्णपिण्डस्य प्रकृतित्वेऽपि न तद्नतमेकत्वं दृश्यते, अपि तु विकाररूपकुण्डलद्वित्वाश्रयं भवत इति द्विवचनं कर्तृप्रत्ययरूपं दृश्यत इत्यस्मादपि लिङ्गाद् विकारस्य कर्तृत्वाव सायः ।। 115 ।।
लिङ्गान्तरं विषयभेदेन प्रकृतिविकारयोः कर्तृत्वानुमापकमाह ।
वाक्ये सम्पद्यते कर्ता संघच्व्यन्तस्य कथ्यते ।
वृत्तौ संधीभवन्तीति ब्राह्मणानां स्वतन्त्रता ।। 116 ।।
(112) अभूततद्भावे कुभ्वस्तिविवक्षायां सम्पद्यकर्तरि च्विर्विधीयते । तस्यार्थप्रदर्शनाय यद् वाक्यं क्रियते तत्र विकारस्य सम्पद्यकर्तृत्वं दृश्यते । तद्यथा असङ्घो ब्राह्मणाः सङ्घो भवतीति सङ्घगतैकत्वाश्रयस्य वचनस्य च दर्शनात् सङ्घ एव क्र्ता । वृत्तौ तूच्यते "संधीभवन्ति ब्राह्मणा" इति । अत्र प्रकृतिभूतब्राह्मणगतबहुवचनदर्शनात् प्रकृतेः कर्तृत्वावसायः । तदेवं प्रयोगभेदेन प्ररूढं प्रकृतिविकारयोः कर्तृत्वमुन्नेयम् ।। 116 ।।
इदानीं प्रकृतेः कर्तृत्वे भाष्यकारोक्तं लिङ्गमाह ।
अत्वं सम्पद्यते यस्त्वं न तस्मिन् युष्मदाश्रया ।
प्रकृतिः पुरुषस्यास्ति प्राकृतः स विधीयते ।। 117 ।।
(113) `अत्वं त्वं सम्पद्यते त्वद्भवति'(M.Bha.on P.1.4.108)
इति भाष्य उदाहृतम् । अत्र युष्मदथा विकारः । न च तदाश्रयो मध्यमः पुरुषो दृश्यते अपि तु `भवति' इत्ययुष्मदर्थरूपप्रकृतिगतप्रथमपुरुषदर्शनात् प्रकृतेरेव कर्त्रीत्वावसायः ।। 117 ।।
तदेतद्विषयभेदेन प्रयोगप्रामाण्यादवस्थितं कथं युज्यत इत्यत्रोपपत्तिमाह ।
पूर्वामवस्थामजहत्संस्पृशन् धर्ममुत्तरम् ।
समूर्च्छित इवार्थात्मा जायमानोऽभिधीयते ।। 118 ।।
(114) इह न सर्वथैवानिष्पन्नि जायत इत्यभिधीयते, अपि तु पूर्वां कारणावस्थामविजहदत्यजदिति प्रकृतेरपि कर्तृत्वसंभावनात्र । नापि सर्वात्मनोदासीनमपि तूत्तरावस्थाविशेषं संस्पृशद् आसादयदिति विकारस्यापि कर्तृत्वसंभावना । एवं च पूर्वापरावस्थोपाध्यवच्छिन्नमेकं वस्तु पूर्वावस्थानुगुण्येनोत्तरावस्थासादनोन्मुखं प्रतायमानरूपमिवाध्यवसीयमानं जायत इति धात्वर्थप्रत्ययार्थयोरानुगुण्यमासादयति । तथा च प्रकृतिविकारयोः सामानाधिकरण्यमुभयोरपि च कर्तृत्वमुपपद्यते ।। 118 ।।
यद्येवं सर्वत्रैवोभयोः कर्तृत्वं स्यादित्याशङ्क्याह ।
सव्यापारतरः कश्चित् क्लचिद्धर्मः प्रतीयते ।
संसृज्यन्ते च भावानां भेदवत्योऽपि शक्तयः ।। 119 ।।
(115) द्वयोरपि प्रकृतिविकृत्योरुक्तेन न्यायेनाभेदापत्त्या जनिसमन्वयसहत्वेऽपि कर्तृप्रत्ययोत्पत्तौ क्वचिद् विकारः सव्यापारः क्वचित् प्रकृतिरित्युक्तम् । एवमपि च विषयविभागेन `जायते' इत्यत्र यथोक्तेन प्रकारेण द्वयोरपि कर्तृत्मुपपादितम् । यतो भावानामन्यत्र भिन्ना अपि शक्तयः क्वचित् संसर्गमपि प्राप्नुवन्तीत्यर्थः । यद्वा सर्वत्रैव द्वयोरपि कर्तृत्वमेकस्य तु साक्षादिति प्रकर्षः संव्यापारतरः इत्युक्तः । प्रकृतिविकृत्योर्हि सामानादिकरण्यान्यथानुपपत्त्या एकस्य जनिकर्तृत्वे नान्तरीयकमपरस्यापि तद्वेदितव्यम् । यो हि विधेयः स प्रधानभूतः प्रकर्षेण जनिव्यापारवान्, अन्यस्त्वनूद्यमानो गुणोऽप्रकृष्टव्यापारः ।। 119 ।।
तथा च संसर्गः कर्तृशक्तयोर्यदि तर्हि संसर्गः त्वद्भवतीत्यत्र विकारावस्थाश्रयः पुरुष कस्मान्न भवतीत्याशङ्क्याह ।
विपरीतार्थवृत्तित्वं पुरुषस्य विपर्यये ।
गम्येत साधनं ह्यत्र सव्यापारं प्रतीयते ।। 120 ।।
(116) `अत्वं त्वं सम्पद्यते, त्वद्भवसि' इत्येवं युष्मदर्थाश्रयेऽत्र मध्यमे पुरुषे विवक्षितोऽर्थो न प्रतीयते अयुष्मदर्थः प्रकृतिः, युष्मदर्थो विकृतिरिति । अपि तु युष्मदर्थः प्रकृतिः सव्यापारा प्रत्ययोत्पत्ताविति तस्या अन्या विकृतिः प्रतीयते । `संपद्यसे' इति हि साधनं युष्मदर्थः सव्यापारं प्रतीयत इति तस्य फलवत्तया विकारान्तरमनुषज्येत । तथा च युष्मदर्थस्तद्विपरीतमयुष्मदर्थभावमापद्यत इति विज्ञायेत । तस्मादयुष्मपदार्थस्य प्रकृतेः सम्पद्यमानत्वसंप्रत्ययार्थं प्रथम एवात्र पुरुषो न्याय्यः ।। 120 ।।
विपरीतार्थंवृत्तित्वमेव व्याचष्टे ।
त्वमन्यो भवसीत्येषा तत्र स्यात् परिकल्पना ।
राज्ञि भृत्यत्वमापन्ने यथा तद्वद्गतिर्भवेत् ।। 121 ।।
(117) यथा `राजन् अराजा सम्पद्यसे' इत्युक्ते राजार्थस्य प्रकृतेर्युष्मदर्थस्याख्यातपदेन प्रत्यायनात् सव्यापारस्य स्वार्थविपरीतभृत्यभावेन सम्पत्तिक्रियाकर्तृत्वं प्रतीयते तथात्र `त्वद्भवसि' इत्युक्तेऽव्यावस्थासादने युष्मदर्थस्य कर्तृत्वावसायात् विवक्षितोऽर्थोष?युष्मदर्थतापत्तिलक्षणो न प्रतीयेतेति तत्सम्प्रत्ययार्थं प्रथमपुरुषो ज्यायान् । न ह्यन्यदभिदित्सतान्यदभिधानीयम् । सुवर्णपिण्डः कुण्डले भवतः" इत्यत्र तु विकारस्यापि कर्तृत्वे कुण्डले सुवर्णपिण्डात्मतया परिणमेते इति विपरीतार्थवृत्तित्वं न भवति । भवतौ कर्तुरवश्यं विकारापेक्षाभावात् । च्विविषय एव हि कर्तुरवश्यं विकारान्तरावेशः कथ्यते । यस्मात् प्रकृतिविवक्षायां च्विर्विधीयते, स्वेनात्मना च सिद्धा प्रकृतिरिति विकाररूपमापद्यमाना सव्यापारा विशिष्टविकारनिवृत्तिप्रतिपत्तये विकारशब्दाभिधेया कर्ती न्याय्या, च्व्यन्तस्य वृत्तौ हि च्व्यन्तस्य क्रियायोगे गतिसंज्ञाविधानात् । गतेः क्रियाविशेषणत्वात् । असत्ववचनत्वे कर्तृत्वायोगात् प्रकृतेरेव कर्त्रीत्वमुचितं विकाररूपगतिसंज्ञकच्व्यन्ताख्यविशेषणविशिष्टायां क्रियायामत्वद्भवति, सङ्घीभवन्ति ब्राह्मणा इति वाक्ये तु च्व्यन्तस्य प्रकृतिविकृत्योः स्वशब्देनोपादानाद्यथाविवक्षं गुणप्रधानभावादुभयोः कर्तृत्वे नियमः । तथा हि प्रकृतेर्निजमेव तत्त्वं सम्पदौ व्यापृतं प्राधान्येन विवक्षितं भवति । कदाचित् समारोपितं विकाररूपम् । तद्यथा महद्भूतश्चन्द्रमा इत्यत्रामहदर्थप्रकृतिरूपस्य कर्तृत्वात् स एव महच्छब्देन विकारवाचिनाभिधीयत इति गौणत्वान्महदर्थस्यात्वं न भवतीत्युक्तम् । "महद्भूता ब्राह्मणी" इत्यत्र तु विकारस्यैव महदर्थस्य भवितृत्वेन कर्तृतया विवक्षितत्वात् समानाधिकरणलक्षणो भवत्येव पुवद्भाव इत्युक्तम् ।। 121 ।।
गतमानुषङ्गिकम् । इदमिदानीं वक्तव्यम् । `प्रागन्यतः शक्तिलाभाद्' इत्यादिना स्वातन्त्र्यं व्याख्यातम् । तच्च प्रयोज्यकर्तुर्नोपपद्यते । स हि करणादिवत् प्रयोजकव्यापारे न्यग्भवन्न स्वतन्त्रः सत्यपि स्वव्यापारे स्वातन्त्र्ये । ततश्च स्वातन्त्र्यनिबन्धना कर्तृसंज्ञा न स्यादस्येति पाचयत्योदनं देवदत्तेन यज्ञदत्त इत्यत्र देवदत्तात् प्रयोज्यकर्तुः कर्तृतृतीया न स्यात् । तथा च वार्त्तिकम्---
स्वतन्त्रस्य कर्तृसंज्ञायां हेतुमत्युपसंख्यानम्, अस्वतन्त्रत्वात् "
(Va. on P.1.4.54)
इति । हेतुः प्रयोजकः, तद्वति प्रयोज्य इत्यर्थः । हेतुसंज्ञायस्त्वध्येषणं स्याद्विषयो यत्र नियुज्यमानस्यापि तत्प्रयोजकत्वं न विरुध्यत इति `हेतुमति' इत्युपलक्षणं युक्तम् ।
अत्र परिहारवार्तिकम्
`न वा स्वातन्त्र्यात्'(Va.on P.1.4.54.)
इति । स्वव्यापारेऽस्त्येव प्रयोज्यस्य स्वातन्त्र्यमिति सिद्धा कर्तृसंज्ञा । नन्वेवं करणादीनामपि स्यात् । नैतदस्ति । तेषां यथास्वं करणादिसंज्ञाविधानात् । प्रयोज्यस्य तु न कदाचिदन्या संज्ञोक्तेति कर्तृसंज्ञैव । एवं स्थिते प्रयोजकायत्तत्वात् प्रयोज्यप्रवृत्तेः कतं स्वातच्त्र्यमित्याशङ्क्योपपादयति ।
सम्भावनात् क्रियासिद्धौ कर्तृत्वेन समाश्रितः ।
क्रियायामात्मसाध्यायां साधनानां प्रयोजकः ।। 122 ।।
प्रयोगमात्रे न्यग्भावं स्वातन्त्र्यादेव निश्रितः ।
अविशिष्टो भवत्यन्यैः स्वतन्त्रैर्मुक्तसंशयैः ।। 123 ।।
(118) यस्तावदप्रवृत्तक्रियः प्रयोज्यः सोऽनुमितक्रियासामर्थ्या एव प्रयुज्यते । अन्यथा प्रयोग एव न स्यात् । न ह्यशक्तः कस्यांचित् क्रियायां केनचिद् विनियुज्यते सचेतसा । ततश्चावधृतशक्तिः, संभावितक्रियः कर्तैव स्वतन्त्रो विनियुज्यते । योऽपि आत्मसाध्यायां क्रियायां प्रवृत्तः सव्यापारः करणादिकारककलापं प्रयोजयन्नेव प्रलृत्तक्रियः सन् प्रयुज्यते विरामाशङ्कायां मा विरंसीदिति बुद्ध्या सोऽपि स्वतन्त्रः कर्तैव प्रयोज्यः स्वव्यापारे स्वातन्त्र्यादेव च प्रयोगमात्रे प्रयोजकप्रैषे न्यग्भावम् आयत्ततां निश्रितः प्राप्तः । क्रियासिद्धये हि प्रैषः । एवं च क्रिया सिध्यति यदि साधनान्तरविनियोगलक्षणं स्वातन्त्र्यं प्रयोज्यः प्रतिपद्यते नान्यथेति न प्रयोगेण स्वातन्त्र्यं विरुध्यते । विषयभेदाच्च प्रयोगे पारतन्त्र्यं स्वव्यापारे स्वातन्त्र्यमिति । उपाय एव च स्वव्यापारे स्वातन्त्र्यं प्रयोगे पारतन्त्र्यस्य । एवमनन्यप्रयोज्यतया स्वाधीनतया निश्चितैरपरैः समानः स्वतन्त्रः प्रयोज्यः सिद्धः । तदुक्तं वार्तिके।
"इतरथा ह्यकुर्वत्यपि कारयतीति स्यात् । (Va.on P.1.4.54)
नाऽकुर्वतीति चेत् स्वतन्त्रः । (Va. on P.1.4.54)
इति । उदासीनस्यालासस्य । शक्तस्य प्रयोगानुपपत्तेः । सम्भावितस्वातन्त्र्य एव प्रयोज्य इत्यर्थः यद्येवं स्वतन्त्रस्य प्रथोजको हेतुरित्येव स्वव्यापारे स्वतन्त्राणां करणादीनामपि प्रयोजकम्य प्रयोज्यस्य कतुर्हेतुसंज्ञाप्रसङ्गः । भवतु को दोष इति चेत् `हेतुमपि' इति तद्‌व्यापारो णिचूप्रसंगः । धातुनोक्तत्वात्तस्यायमदोष इति चेन्न, कर्मविषय एव प्रैषो धात्वर्थेऽन्तर्भवेत् फलार्थत्वात् कर्तृभावनाया धात्वर्थस्य तया संस्पर्शात् । अकर्मकधातुविषये तु करणदिविनियोगो वस्तुतः सन्नप्यनवधारित इति तत्प्रत्यायनाय णिजुत्पद्येत । शब्दाद्विशिष्टसाधनक्रियाभावनामात्रं गम्यते । न तु करणादीनां कर्त्ता प्रेषणम् । किं च प्रयोज्यस्यापि हेतुसंज्ञायां तत्प्रयोजक इति स्वतन्त्रस्य प्रत्यवमर्शोऽनर्थकः । करणादिप्रयोजकव्यावृत्तये हि सः । तस्यापि तु करणादेः स्वव्यापारस्वातन्त्र्याश्रयेण प्रयोजकस्य हेतुसंज्ञायामनर्थकः प्रत्यवमर्शः । किं च हेतुसंज्ञैवार्नार्थिका । कर्तृमात्रस्य तस्य `कर्तृमति णिच्' इत्येवास्तु । तथा च ।
`भीस्म्योर्हेतुमये'(P.1.3.68)
`भियोहेतुभये षुक्' (P.7.3.40.)
`बिभेतेर्हेतुभये'(P.6.1.56)
इत्यत्र `कर्तृभये' इति वचनेऽनिष्टं स्यात् । तस्मात् स्वतन्त्रस्य प्रयोजक इति करणादिप्रयोजकस्य हेतुसंज्ञाव्युदासे प्रयतनीयम् । अत्रोच्यते । तस्य प्रयोजक इति सर्वनाम्नानुभवकर्तृसंज्ञस्य स्वतन्त्रस्य परामर्शादिप्रतिलब्धकर्तृसंज्ञानां करणादीनां प्रयोजकस्य हेतुसंज्ञा न भवति । तथा हि स्वव्यापारे स्वतन्त्रत्वेऽपि करणादेः प्रधानव्यापारे पारतन्त्र्यात् कर्तृसंज्ञा न भवति । स्वतन्त्रश्रुतिसामर्थ्याद्धि प्रकृष्टं सामर्थ्यं विवक्षितम् । करणादीनां त्वनुकुर्वाणानां कारकत्वायोगात् तदन्यथानुपपत्त्यानुमीयमानं स्वव्यापारे स्वातन्त्र्यं यदि परं कारकसंज्ञायामुपयुज्येत । न तु कर्तृसंज्ञायाम्; प्रधानविनियोगेनाभिभूतत्वात् । प्रकृष्टस्य स्वातन्त्र्यस्याभावात् । ततश्च न ते कर्तरि सन्तः प्रेष्यन्ते । प्रयोज्यस्तु प्रयोक्तोऽपि साधनान्तरविनियोक्तृत्वलक्षणं प्रकृष्टं स्वाधीनत्वं नैव त्यजतीति सर्वथाऽसौ कर्तैव युज्यते । अत एवोक्तं "कर्तृत्वेन समाश्रितः" इति । भूतेन भाविना वा संभाव्यमानेन बुद्ध्याभिसंहितेन कर्तृत्वेनेति सिद्धमिष्टम् ।। 122,123 ।।
उक्तमिदं "प्रयोगमात्रे न्यग्भावं स्वातन्त्र्यादेन निश्रितः" इति । तदपि वा नास्तीत्याह ।
निमित्तेभ्यः प्रवर्तन्ते सर्व एव स्वभूतये ।
अभिप्रायानुरोधोऽपि स्वार्थस्यैव प्रसिद्धये ।। 124 ।।
(119) स्वार्थलिप्सया सर्वः प्रवर्तमानः पराधीनतां प्रवृत्तौ नासादयतींति केवलं कस्यचित् प्रवृत्तिः कस्यचिदर्थसिद्धयेऽप्यङ्गमित्येतावता भृत्यादेः स्वाम्याद्याशयानुवर्तनेन प्रयोज्यता कथ्यते । निर्वेशनिमित्ता हि भृत्यानां प्रवृत्तिः स्वार्थसाधनाया बीतरागाणामपि कारुण्यात् प्रवृत्तौ परार्थसम्पादनमेव स्वार्थः फलम्, इष्टलक्षणत्वात्तस्य । तदेतद् भाष्येऽभिहितम्---
"सर्व इमे स्वभूत्यर्थं यतन्ते । नेह कश्चित्
परोऽनुगृहीतव्य इति।" (M.Bha. on P.3.1.26.)
इति । स्वभूत्यर्थं प्रवर्तमानेषु कः प्रयोज्यार्थ इति चोद्ये समाधानमप्युक्तम्---
"यदभिप्रायेषु सज्जन्ते" (M.Bha.on P.3.1.26)
इति । प्रयोजकाभिप्रायः क्रियासम्पादनम् । तच्च स्वार्थफलाभिसंधानेन प्रवर्तमानोऽपि प्रयोज्यः साधयत्येव । एवं च कृत्वा
`हेतुमति च'(P.3.1.26)
इति । प्रयोजकाभिप्रायः क्रियासम्पादनम् । तच्च स्वार्थफलाभिसंधानेन प्रवर्तमानोऽपि प्रयोज्यः साधयत्येव । एवं च कृत्वा
`हेतुमति च ' (P.3.1.26)
इत्यत्रोपसंख्यानानि प्रत्याख्यातानि ।
`न वा सामान्यकृतत्वाद्धेतुतो ह्यविशिष्टम्'(Va.on P.3.1.26)
इति । स्वरसप्रवृत्तित्वात् सूर्यस्य माहिष्मत्यामुद्गमनं पथिकस्याभिप्रेतं काकतालीयात् सम्पन्नमित्यभिप्रायानुवर्तनात् सूर्यः प्रयोज्यो भवतीत्यादि योज्यम् । तदाह वार्तिककारः---
`प्रवृत्तिर्ह्युभयत्रानपेक्ष्य'(Va. on P.3.1.26)
इति । मुक्तसंशयेऽपि प्रयोज्ये या प्रवृत्तिः सापि न प्रयोज्यस्य स्वार्थमपेक्ष्य, अपि त्वात्मन एवेत्यर्थः । `कंसवधमाचष्टे' इत्यादौ तु
`प्रत्यक्षमिव कंसादीन्'
इत्यादिना पूर्वमेव समर्थितम् । अचेतनविषयेऽपि तर्हि भिक्षा वासयति' इत्यादौ वासाद्यानुकूल्यादभिप्रायाध्यारोपात् प्रयोजकत्वं समर्थनीयम् । एवं च योग्यतामात्रेण निमित्तमात्रं हेतुः प्रयोजक इत्युक्तं निमित्तेभ्यः इति । वार्तिकेऽप्युक्तम्---
`हेतुनिर्देशश्च निमित्तमात्रम् भिक्षादिषु दर्शनात्'
(Va. on P.3.1.26)
इत्यवसितविचारः कर्ता ।। 124 ।।
इति भूतिराजततनयहेलाराजकृते प्रकीर्णप्रकाशे कर्त्रधिकारः ।
-------------
कर्तैव प्रयोजकः सन् हेतुरिति कर्तृविचारानन्तरं हेतुं विचारयति ।
प्रेषणाध्येषणे कुर्वस्तत्‌समर्थानि चाचरन् ।
कर्तैंव विहितां शास्त्रे हेतुसंज्ञां प्रपद्यते ।। 125 ।।
(120) आज्ञापुरःसरा व्यापारणा प्रेषणम्, निकृष्टविषयो नियोग इत्यर्थः । यत्पुनरभ्यर्हितं व्यापारयति तद्अध्येषणम् । अभ्यर्हितविषयं प्रबोधनमित्यर्थः । तत्समर्थानि प्रयोज्यक्रियासम्पत्त्यनुकूलानि चेष्टितानि । अयमेव च मुख्यः प्रयोजकव्यापारो यत् प्रयोज्यक्रियासम्पत्तिसमर्थाचरणम् । व्यापकत्वाद् भिक्षादिष्वपि भावात् । अस्यैव निकृष्टोत्कृष्टविषयतया प्रेषणाध्येणरूपेण प्रविभागः । तथा च गोबलीवर्दन्यायेन तद्विलक्षणं तत्समर्थाचरणं भिक्षाविषयमत्राभिप्रेतम् । व्यवहारभेदाद्भेदेनैषमुपादानम् । यथाभिप्रायानुविधानं प्रयोज्यत्वमुक्तं तथा स्वाभिप्रायप्रकाशनमपि प्रयोजकत्वमिति तत्समर्थाचरणमेव सर्वत्र प्रयोजकव्यापरः । `कर्तैव' इति ।
`तत्प्रयोजको हेतुश्च' (P.1.4.55.)
इति संज्ञासमावेशार्थं चकारं व्याचष्टे । असति चकारेऽत्रैकसंज्ञाधिकारात् कर्तृसंज्ञा न स्यादिति समावेशार्थोऽसौ । तदुक्तं वार्तिके ।
`गतिदिविहेतुमत्मु च ग्रहणम्'
इति । विहितां शास्त्रे' इति । प्रदेशेऽस्यैव ग्रहणं यथा स्यादित्यर्थः । फलसाधनयोग्यः पदार्थो हि लौकिको हेतुर्द्रव्यादिविषयः । तस्य त्वयं विशेषः । क्रियाविषयत्वेन कारकं हेतुः प्रथोज्यप्रयोजकः । अत ए कारकत्वनिबन्धनः प्रेषणादिः स्वव्यापारोऽत्र निर्दिष्टः । तत्र
`हेतुमति च'(P.3.1.26)
`भियो हेतुभये' (P.7.3.40)
इत्यत्र कुत्रिमस्य हेतोर्ग्रहणम् । तृतीयाविधौ तु
`हेतौ' (P.2.3.23)
इत्यत्र प्रयोजको कर्तृत्वादेव तृतीयासिद्धेलौकिकस्य हेतोर्ग्रहणम् । पंचमीविधावपि
`अकर्तरि...' (P.2.3.24)
इति पारिभाषिकः पर्युदस्यते ।
`लक्षणहेत्वोः क्रियायाः'(P.3.2.126)
इत्यत्रापि प्रयोज्यस्य कारकत्वात् क्रियायोगाव्यभिचाराद् विशेषणसामर्थ्याद् द्रव्यगुणक्रियाविषयत्वेन संमवव्यभिचाराल्लौकिक एव हेचुर्गृह्यते । तथा धात्वाधिकाराच्च । न हि धातुः साधनरूपे हेतौ वर्तते । एवं
हेतुहेतुमतोर्लिङ् (P.3.3.156)
इत्यत्रापि हेतोर्धात्वर्थविशेषणत्वात् साधनस्य च धात्वर्थत्वाभावात् लौकिक एव हेतुः ।
`कुञो हेतुताच्छील्यानुलोम्येषु'(P.3.2.20)
इत्यत्रापि न प्रयोजको हेतुः । तत्र णिज्‌विधानात् कुञ इति च तिज्रहितस्य निर्देशात् । तेनात्र कृत्त्वात् प्राप्तस्य कर्तुः लौकिको हेतुर्विशेषणम् । तेन च विरोधाभावान्न निवर्त्यते कर्ता । योग्यतारूपेणैव च कृद्भिः कर्तुरभिधानान्निमित्तमात्रं हेतुरुपदीयमानो विशेषणं पुनः श्रुतेरवधारणं प्रकल्पयति `हेतुरेव' इति । तेनाव्यभिचारि कारणं विद्यादि यशः प्रभृतिषु प्रतिपादितं भवति । एते चात्र हेत्वादयः कर्तृविशेषप्रतीतिसामर्थ्याद् गम्यमानाः परम्परया पदार्था एव । अन्यथा वाक्यावस्थायां प्रतीयमानाः पदावधिकस्यान्वाख्यानस्य निमित्तभावं नोपेयुः । इह
प्रैषातिसर्ग.....(P.3.3.163)
इत्यादिसूत्रे चकारेण समुच्चितो लोट् इति प्रैषे णिज्लोटोर्विधानाद्विकल्पप्रसङ्ग इति भाष्ये चोदितम् ।
पृच्छतु मा भवान्, अनुयाङ्क्तां मा भवानित्यत्र णिच् कस्मान्न भवति ।
(M.Bha.on P.3.1.26)
इति । `मा भवान्' इत्यात्मनिर्देशेन प्रयोजकाश्रितं प्रैषं प्रदर्शयन् णिचः प्राप्तिं परिपुष्णाति । अत्र परिहारो भाष्येऽभिहितः ।
`अकर्तृत्वात्' (M.Bha.on P.3.1.26)
इति । स्वतन्त्रस्य कर्तुः प्रयोजको हि तद्‌व्यापारे णिज् विधीयमानोऽत्र पृच्छिक्रियायामप्रवृत्तस्य तस्य कर्तृत्वाभावात्तत्प्रयोजकस्य हेतुसंज्ञाभावात्तद्‌व्यापारे प्रैषे णिज् न भवतीत्यर्थः । चोदकस्तु कालादेः प्रश्नाद्यशक्‌तस्याप्रयोज्यत्वात् प्रवृत्तत्त्य च नियोगानर्थक्यात् संभावितक्रियत्वेन कर्तुं प्रेषणमिदमित्याह---
"किं च भोः वर्तमानाया एव क्रियायाः कर्त्रा भवितव्यम्,
न भूतभविष्यत्कालायाः" (M.Bha.on P.3.1.26)
इति । अत्रोत्तरम् ।
`अभिसंबन्धस्तत्र क्रियते ।' (M.Bha on P.3.1.26)
इति। सामर्थ्यसम्भावितो भूतभविष्यत्क्रियाविषये क्रियाकारकभावः । तत्र च लोड्‌विषये प्रयोज्यक्रियैवैका सम्भाव्यत इति `क्रियायां कर्ता भव' इति । न त्वपरः प्रयोज्यव्यापारविषयः प्रयोजकव्यापारोऽस्ति । अनन्तरं भाष्यम् ।
`यच्च कर्ता कथं कर्तृप्रत्ययेनोच्यते' (M.Bha. on P.3.1.26)
इति । अत्रोत्तरम् ।
कथमस्मिन्नपृच्छत्ययं पृच्छिर्वर्तते ।'(M.Bha.on P.3.1.26)
इति । तत् उक्तम् ।
अभिसंबन्धस्तत्र क्रियते, इमां क्रियां कुर्वीति ।'
(M.Bha. on P.3.1.26)
इति । अनन्तरमुक्तम् ।
कर्त्रापि तर्ह्यभिसंबन्धः क्रियते । अस्यां क्रिथायां कर्ता भवेति (V.Bha.on P.3.1.26)
इति । तथा च यथात्र संप्रत्यपृच्छत्यपि पृच्छिक्रियाभिसन्धानेन पृच्छिर्धातुर्वर्तते तथा तत्कर्त्राप्यभिसंबन्धात् कर्तृप्रत्ययो लोट् क्रियत इति कर्त्रापि तर्ह्यभिसंबन्धः क्रियत इत्युक्तम् । एवं च वदता भाष्यकारेण सम्प्रत्यकर्तृत्वादत्र णिज् न भवतीत्युक्तं भवति । तथा हि नवमेवास्याधीयमानं कर्तृत्वं न तु विद्यमानम् । क्रियायां कर्ता भवेति हि प्रेष्यते, न तु कर्तैव सन् । तेन कर्तुः सतः प्रैषः प्रयोजकसमवायी णिज्विषयः, लोट्प्रत्ययस्तु कर्त्रादिषु विधीयते । धात्वर्थोपाधिस्तु तस्य प्रैषो द्योत्यः । स च न धातुप्रत्ययवाच्यः, अपि तु सामर्थ्याद् वक्तैव प्रयोजकोऽवतिष्ठत इति तद्धर्मः प्रैषोऽवतिष्ठमानो न धातुप्रत्ययेन नियतकालतयात्रावच्छिद्यते । तथा च सम्प्रत्यपृच्छत्यपि पृच्छत्विति प्रयोगः । णिचस्तु प्रैषो वाच्य इति शब्दोपादानत्वादभिधेयधर्मो भवन् नियतकालाभिधायिना प्रत्ययेन लडादिना कालनियमेनावच्छिद्यते । शब्देन हि ण्यन्तादुत्पन्नेन कर्तृवाचिना लकारेण तृजादिना चोपात्तो यः कर्ता प्रयोजकस्तस्य संबन्धी प्रतीयतेऽसावित्यभिधेयधर्मः । द्विविधो ह्यर्थः शास्त्रेऽन्वाख्यानाङ्गभावेनोपादीयते । कश्चित् प्रयोक्तृधर्मो यथा वीप्साबाधासूयाकुत्सनादिः । अन्यः प्रतिपाद्यधर्मः । तत्रायं लोड्विषयः प्रैष आबाधादिवत् प्रयोक्तृधर्म इत्यभिधेयत्वाद् व्यावृत्तः ।। 125 ।।
तदेतत् तात्पर्येण प्रतिपादयति ।
द्रव्यमात्रस्य तु प्रैषे पृच्छयादेर्लोड् विधीयते ।
सक्रियस्य प्रयोगस्तु यदा स विषयो णिचः ।। 126 ।।
(121) अप्रवृत्तक्रियस्य द्रव्यमात्रस्य अप्रतिलब्धकर्तृभावस्य कर्तृत्वार्थ एव प्रैषे द्योत्ये लोडुपिदश्यते । पृच्छयनुयुज्यादेर्धातोः परः प्रत्ययः कर्त्रादिकारके वाच्ये । प्रवृत्तक्रियस्य तु विरामाशङ्कायां मा विरंसीदित्यभिसंधाय कर्तुरेव स्वतन्त्रस्य प्रयोजकहेतुव्यापारे णिज् वाचक उपदिश्यते । प्रत्ययार्थविशेषणपक्षो हि `हेतुमति च' इत्यत्र सिद्धान्तितः । तथा च वार्तिकम् ।
`हेतुमतीति कारकोपादानं प्रत्ययपरिग्रहार्थम् ।'
(Va on P.3.1.26)
इति । तदेवं णिज्‌लोटोर्विभक्त एव विषयः सौकिकाच्छब्दप्रयोगात् प्रैषभेदस्यात्रावधारणात् । णिज्‌विषयस्य प्रैषस्याभिधेयधर्मत्वेन णिज्‌वाच्यतया च तद्धर्मभेदाल्लोड्‌विषयस्य तु द्योत्यत्वेन प्रयोक्तृधर्मत्वेन च भेदात् । अत एव तुशब्दद्वयेन सम्बन्धनीयः । पृच्छतु मा भवानित्यादौ न प्रैषकर्तुर्वाचकः कश्चिद् विद्यते । केवलमुच्चारयितैव कर्ता सामर्थ्यात् प्रतीयते इत्यभिधेयधर्मोऽत्र प्रैषो न भवति । नापि स्वरूपेणाभिधेयः लोटा तदनभिधानात् लोडन्तशब्दोच्चारणाद्धि प्रयोक्तृधर्मत्वेनाबाधादिवत् प्रतीयते प्रैषो न त्वस्य वाचकः कश्चिदस्ति । यदि तर्हि एवमनयोः प्रैषयोः स्फुटो भेदः कथं भाष्ये चोदितम्---
`इह कस्मान्न णिज् भवति पृच्छतु मा भवान्'
(M.Bha. on P.3.1.26)
इति । लोकव्यवहाराधिगम्योऽयं विभागः, शास्त्रेऽन्वाख्यानविभागो न कृत इति प्रैषमात्रं समानं मत्वा पूर्वपक्षः ।। 126 ।।
गतमेतत् । इह प्रयोज्यस्य प्रैषणाध्येषणादिना सर्वस्य प्रयोजकव्यापारेणाप्यमानत्वात् कर्मसंज्ञाप्रसङ्ग इत्याशङ्क्याह ।
गुणक्रियायां स्वातन्त्र्यात् प्रेषणे कर्मतां गतः ।
नियमात् कर्मसंज्ञायाः स्वधर्मेणाभिधीयते ।। 127 ।।
(122) स्वतन्त्रतामपरित्यजन्नेव प्रयोज्यः प्रयोजकव्यापारे पाराधीन्यं प्रतिपद्यते । न ह्यस्य प्रयोजकेन स्वातन्त्र्यखण्डना क्रियत इत्युक्तम् । इतरथा ह्यकुर्वत्यपि कारयतीति स्यादिति । तथा च प्रैषेऽपि स्वव्यापारे स्वातन्त्र्यात् कर्तृसंज्ञा भवत्येव । कर्मसंज्ञा तु प्रैषणाप्यमानत्वेन प्राप्ता
`गतिबुद्धि...' (P.1.4.52)
इत्यादिना नियमिता । गत्यादिधातुविषय एव प्रयोज्यः कर्मसंज्ञो नान्यत्रेति पाचयत्योदनं देवदत्तेनेत्यादौ स्वधर्मेण कर्तृत्वेन प्रयोज्यः अभिधीयते इत्यर्थः । ननु प्रषेऽपि स्वातन्त्र्यस्यानिवृत्तौ कर्तृसंज्ञैव परत्वात् स्यादिति कथं गतिबुद्धीत्यादिनियमः कथ्यते । कर्तृसंज्ञाप्रसङ्गे हि कर्मसंज्ञा आरभ्यत इति विध्यर्थता स्यात् । अत्रोच्यते - इह गुणप्रधानभूतक्रियाद्वयविषयशक्तिद्वयविषये प्रधानशक्तिरेव स्वकार्यं प्रयुङ्क्ते न गुणशक्तिरिति प्रागेव प्रतिपादितम् । तत्र धातुवाच्यः प्रयोज्यव्यापारो ण्यर्थविशेषणत्वादप्रधानं प्रयोजकव्यापारस्तु णिज्‌वाच्यः प्रधानम् । प्रकृत्यर्थावच्छिन्नत्वाद्धि प्रत्ययार्थः सर्वत्रैव प्रधानम् , प्रकृतिप्रत्ययो प्रत्ययार्थं सह ब्रूत इति । अतश्चात्र प्रयोजकव्यापारस्य प्राधान्यात् तदपेक्षया कर्मशक्तिरेव स्वकार्यं प्रापयति, न तु प्रयोज्यव्यापारविषया कर्तृशक्तिः । तद्यथाओदनस्य विक्लित्तौ स्वातन्त्र्येऽपि न कर्तृसंज्ञा, अपि तु विक्लेदनेन देवदत्त्वायापारेणेप्सिततमत्वात् कर्मसंज्ञैव पाचयत्योदनमिति । तदेवमत्रोभयप्रसङ्गाभावे विप्रतिषेधाभावात् कर्त-संज्ञाप्रत्प्त्या सिद्धैव गत्यादिविषयेऽपि कर्मसंज्ञेति नियमार्थः आरंभः । पचत्यादिविषये नियमेन प्रधानकार्ये प्रसारिते निष्प्रतिपक्षं गुणक्रिया स्वातन्त्र्यं स्वकार्यं कर्तृसंज्ञां प्रवर्तयत्येवेति सिद्धम् ।। 127 ।।
प्रयोजको हेतुरित्युक्तम् । कर्मणश्चापि फलभूतस्य क्रियां प्रत्यस्त्येव प्रयोजकत्वमिति तस्यापि हेतुत्वप्रसङ्ग इत्याशङ्क्य हेतुकर्मणोर्भेदं दर्शयति ।
क्रियायाः प्रेरकं कर्म हेतुः कर्तुः प्रयोजकः ।
कर्मार्था च क्रियोत्पत्तिः संस्कारप्रतिपत्तिभिः ।। 128 ।।
(123) निर्वृत्तिविकारप्रतिपत्तिभिर्यथाक्रमं निर्वर्त्यादित्रिविधकर्मसम्पादकत्वात् क्रियाफलं कर्मात्मसम्पत्त्यर्थं क्रियां प्रयुङ्क्ते । हेतुः पुनः क्रियार्थी साधनविनियोगे कर्तारं प्रयुङ्क्ते, न तु साक्षात् क्रियाम् । तत्परिपोषाय हि कर्तुः प्रवृत्तिः । तस्य कर्तुः प्रयोजक इति वचनात् , इति भिन्नविषयत्वाद्धेतुकर्मणोः प्रयोजकत्वस्य स्वरूपभेदः स्फुट इत्यर्थः । `च' शब्दो हेतौ । यस्मादुत्पत्त्यादिभिरुपकारात् क्रिया कर्मार्था ततः कर्म क्रियायाः प्रयोजकम् । यद्धि यदर्थं तत्तस्य प्रयोजकमिति व्यपदिश्यते । तदुद्देशेन तत्प्रवृत्तेः । कारकान्तराणि तु क्रियार्थानि न तु तदर्था क्रियेति न तानि तस्थाः प्रयोजकानि । न हि करणाद्यर्थं क्रियाप्रवृत्तिः । उपायमात्रं हि तत् । तदयमवसितविचारो हेतुः ।। 128 ।।
इति भूतिराजतनयहेलाराजकृते प्रकीर्णप्रकाशे साधनसमुद्देशे हेत्वधिकारः ।।
---------------
विभक्तिविधानक्रमेण साधनानां विचारे तृतीयार्थे कर्तरि निर्णीते चतुर्थ्यर्थं सम्प्रदानं विचारयितुमाह ।
अनिराकरणात् कर्त्तुस्त्यागाङ्गं कर्मणोप्सितम् ।
प्रेरणानुमतिभ्यां वा लभते सम्प्रदानताम् ।। 129 ।।
(124) अन्वर्थत्वात् सम्प्रदानशब्दस्य `त्यागाङ्गम्' इति लक्षणलाभः । त्यागो दीयमानस्य स्वत्वनिवृत्त्या परस्वत्वापादनम् । तत्र चाङ्गं निमित्तं पाण्याद्यपि भवतीत्याह - कर्मणेप्सितम् इति । यत् त्यज्यमानं कर्म तेन करणभूतेन प्रारंभ एव कर्त्राप्तुमिष्टमित्यर्थः । तथा च
`कर्मणा यमभिप्रैति' (P.1.4.32)
इति लक्षणपरिग्रहः । तदेवविधं त्यागाङ्गं कथं कारकविशेषरूपां सम्प्रदानतां लभत इत्याशङ्क्य कारकत्वनिबन्धनं व्यापारं क्रियासिद्धौ निर्दिशति अनिराकरणाद् इत्यादिना । `उपाध्यायाय गां ददाति' इत्यादौ त्यज्यमानं कर्म गवाद्युपाध्यायादिना संबध्यते, तदभिप्रायेणैव त्यागात् । स चोपाध्यायस्तदमिसंबध्यमानं न निराकरोति, नापि तत्‌त्यक्तुः `मा त्याक्षीः' इति निराकरणं विधत्ते । यदि हि निराकुर्यात् त्याग एव न सम्पद्यते । परस्वत्वापत्तिपर्यन्तत्वात्तस्य । अनुमन्यते च दीयमानम् । तथा दीयमानं न निराकरोति बल्यादि देवतादीति तदपि क्रियाङ्गम् । याञ्चापूर्वके च दाने प्रेरणम् अभ्यर्थनया दाने प्रवर्तनमपि सम्प्रदानव्यापारः । तथा च त्यागोपकारित्वात् त्यागाङ्गं भवत्येव कारकं सम्प्रदानम् । ननु च दानस्य तदर्थत्वात् तादर्थ्ये चतुर्थीप्रयोगात् किमर्थं सम्प्रदानसंज्ञा । नैतन्न्याय्यम् । दानक्रियार्थं हि सम्प्रदानम्, न तु दानक्रिया तदर्था, कारकाणां क्रियार्थत्वात् सम्प्रदानार्थं तु दीयमानं कर्मेति वाक्यार्थभूताया दानक्रियाया अतादर्थ्यात् तादर्थ्ये चतुर्थ्या अप्राप्तौ तदर्था सम्प्रादनसंज्ञा न्याय्या । `रजकस्य वस्त्रं ददाति ,'`घ्नतः पृष्ठं ददाति' इत्यादौ तु ददात्यर्थो नास्ति । त्यागो हि सः । तेन च हानात्मकेन ममताविच्छेदस्याक्षेपादेव परोपयोगाभिसंधिना परस्वत्वापादनमपि स्वीकृतम् । अत्र च तदभाव इति गौणोऽयं ददातेः प्रयोगः । देवताविषये तु दाने दातुस्तत्स्वामिकत्वसङ्कल्पो विद्यते एव । एवम् `अरोचकिनेऽन्नं ददाति' इत्यादौ उपयोगाभावस्तु न शाब्दः । न शूद्राय यतिं दद्यादित्यत्रापि मतिसंतानस्यापरक्रामतोऽस्त्येव परोपयोगः । तथा च `उपाध्यायादागमयति' इत्यध्ययनसंतानस्यापक्रामतो भवत्थपादानमुपाध्यायः मतिसंतानस्थोकदेशस्त्यज्यमान इति स्वत्वनिवूत्त्यङ्गपरस्वत्वापादनलक्षणो मुख्य एवात्र ददात्यर्थः । अन्ये तु मतेः दातृसंबन्धानवगमाद्नौण इत्याहुः । "कान्यां ददाति" इति जन्यजनकभावाव्यावृत्तावपि स्वस्वाभिसंबन्धस्य निवृत्तेर्मुख्य एव ददात्थर्थः "खण्डिकोपाध्यायस्तमै चपेटां ददाति" इत्यादौ वस्तुतोऽसत्यपि चपेटादिस्वाम्ये तदुपकारितया दातुः स्वामित्वाभिसंधिरस्त्येव । यद्यपि प्रतिकूलरूपत्वाच्चपेटायास्तदानीमुपयोगो नास्ति तथापि फलाद्वरेणास्त्येव परोपयोगित्वम् । चपेटासहत्वे शास्त्राभ्यासयोग्यत्वात् फलावाप्तेः । `मृजिरस्माय विशेषेणोपदिष्टः' (M.Bha.on Va on P.1.1.1.) इति तादर्थ्ये चतुर्थी । अविशेषेण गणे पठितो मृजिर्मार्जकशब्दार्थोऽपि भवतीत्यर्थः ।। 129 ।।
तदेवं प्रथमं सम्प्रदानं व्याख्यातम् । इदानीमुत्तरं व्याख्यातुमाह ।
हेतुत्वे कर्मसंज्ञायां शेषत्वे वापि कारकम् ।
रुच्यार्थादिषु शास्त्रेण सम्प्रदानाख्यमुच्यते ।। 130 ।।
(125) यथा संज्ञान्तरपूर्वकं कर्म प्रागुक्तं तथेदमपि संम्प्रदानमन्यपूर्वकं शास्त्रेण
`रुच्यर्थानां प्रीयमाणः' (P.1.4.33)
इत्यादिना व्याख्यायते । तथा हि `देवदत्ताय रोचते मोदकः' इत्यत्रान्यकर्तृकोऽभिलाषो रुच्यर्थ इत्यभिलाषविषयभावमापद्यमानं मोदकं देवदत्तः प्रयुङ्क्ते लौल्यात्तदानुगुण्यमाचरतीति हेतुसंज्ञायां प्रयोजकस्य देवदत्तस्य प्राप्तायां सम्प्रदानसंज्ञा कथ्यते । तथा च हेतुसंज्ञाबाधे णिचोऽभावाद्धेतुसमवायिन्या द्वितीयस्याः क्रियाया अप्रतीतेर्मोदकः स्वक्रियायां धातुवाच्यायां कर्ता भवति न कर्म । रोचते अभिलाषविषयभावमापद्यत इत्यर्थः । हेतुसंज्ञासनियुक्तायाः कर्तृसंज्ञाया अपि देवदत्तस्य बाधनात् कर्तुः क्रिययेप्सिततमत्वाभावात् । स्वातन्त्र्योपलक्षणायामपि कर्तृश्रुतौ सार्थीद्धीयत इति कर्मणि लकारसमर्थनार्थमत्र मोदकस्य कर्मसंज्ञा न भवति । यत्र हि शब्दोपात्ताया ं क्रियायां स्वातन्त्र्यं प्रतीयते तत्र भवेत्तदाश्रयं कर्मत्वम् । यथा हीयत इति हाने शब्दोपात्ते सार्थस्येति तदाश्रया पथिकस्य कर्मसंज्ञा । इह तु शब्दोपात्तायां मोदकक्रियायां रोचत इत्यस्मान्न देवदत्तस्य स्वातन्त्र्यं प्रतीयते, शब्दव्यापारानपेक्षायां तु वास्तवस्वातन्त्र्यस्य कारकमात्रविषयत्वात् कर्तृश्रुतिरनर्थिका स्यात् । यदा तु देवदत्ताय रोचते मोदक इत्ययमर्थो देवदत्तंमोदकः प्रीणयतीति, तथा च प्रीयमाण इति विशेषणं तदा कर्मसंज्ञायां प्राप्तायां सम्प्रदानसंज्ञारंभः । धातोरर्थान्तरे हि वृत्तौ सकर्मकत्वम् । एवं `देवदत्ताय श्लाघते' इति गुणोत्कर्षेण देवदत्तः शस्यमानो गुणवत्तया तत्समर्थाचरणादध्यारोपितप्रयोजकभावो हेतुसंज्ञां प्राप्तो गुणाख्यानेन वा ज्ञापयितुमिष्टो ज्ञापनेनाप्यमानत्वात् कर्मसंज्ञ इति
`श्लाघह्नुङ्' (P.1.4.34)
इत्यादिना सम्प्रदानसंज्ञः कथ्यते । एवं ह्नौतिप्रभृतीनां यथायोगं वाच्यम् । ह्नौतिप्रभृतयो ह्यत्र स्वार्थोपसर्जनज्ञापनवचनत्वात् सकर्मकाः । तथा च ज्ञीप्स्यमान इति संज्ञिविशेषणमुपात्तम् । `देवदत्ताय शतं धारयति' इति स्वरूपेऽवतिष्ठमानं शतमवस्थापयत्यघमर्णो धारयति । अत्रोत्तमर्णो देवदत्तो दानक्रियाद्वारेण निमित्तं धारणस्य । यतोऽसौ ददाति शतं न च तत्र ददातिक्रिया श्रूयते इत्यश्रूयमाणक्रियाविषयेऽत्र कारकशेषे षष्ठ्यां प्राप्तायां
`धारेरुत्तमर्णः '(P.1.4.35)
इति सम्प्रदानसंज्ञा । यथासंभवं हि हेत्वादित्रयं प्राप्तमुच्यते न तु प्रत्येकम् । `पुष्पेभ्यः स्पृ-हयति' इति पुष्पाणामीप्सिततमत्वात् कर्मसंज्ञाप्रसङ्ग उक्तः । द्रुह्यादौ तु कर्मसंज्ञाप्रसङ्गः । द्रोहस्यापकारत्वात् तदर्थाः सकर्मकाः । एवमीर्ष्यासूयार्था अपि । `देवदत्ताय राध्यति, ईक्षते इति तु दैवं पर्यालोचनं गणकं देवदत्तः प्रयुङ्क्ते इति हेतुसंज्ञायां प्राप्तायां
`राधीक्ष्योः ' (P.1.4.39)
इति सम्प्रदानता । `देवदत्ताय गां प्रतिशृणोति, अशृणोति' इत्यत्र तु देवदत्तो याञ्चया गां प्रतिजानानं प्रयुङ्क्ते इति हेतुसंज्ञायां प्राप्तायां
`प्रत्याङ्भ्यां श्रुवः'(P.1.4.40)
इति सम्प्रदानता । पूर्वस्य हि धात्वर्थस्य याचनलक्षणस्य देवदत्तः कर्ता भवन् प्रतिश्रवेऽङ्गीकापरे प्रयोजको भवति । `होत्रेऽनुगृणाति, प्रतिगृणाति ' इत्यत्रापि `होतारं शंसनेन प्रोत्साहयति' इति होतुः कर्मसंज्ञाप्रसङ्गे
`अनुप्रतिगुणश्च' (P.1.4.41)
इति सम्प्रदानता । शताय परिक्रीतोऽनुब्रूहि' इति साधकतमस्य परिक्रयणे नियतकालस्वीकारे सम्प्रदानता विकल्पेनोक्ता । तत्र रुच्यर्थादिष्वति आदिशब्दोपात्तस्य सुज्ञानत्वात् करणसंज्ञाप्रसङ्गो नोक्तः । विशेषविवक्षाया अभावे चात्र सर्वत्रैव क्रियानिमित्तत्वमात्राश्रयेण शेषत्वे प्राप्ते सम्प्रदानतोदाहार्या । दुह्यादिपरिगणनाद्धि अकथितकर्मतात्र नास्ति । ननु च पूर्वमपि सम्प्रदानशास्त्रेणैवोक्तं
`कर्मणा यमभिप्रैति' (P.1.4.32)
इति । तत्कथमत्र शास्त्रेणेति विशेष्यभणितिः । उच्यते । अन्वर्थत्वाद् सम्प्रदानशब्दस्य लौकिक एव सम्प्रदानार्थः पूर्वमुक्तः । इह तु रुच्यर्थादिविषये तदर्थाभावाच्छब्दसंस्कारमात्रप्रतिपादनाय शास्त्रारंभसामर्थ्यात् सम्प्रदानत्वमुच्यत इति शास्त्रीयलौकिकभेदेन द्विविधं सम्प्रदानं व्याख्यातम् ।। 130 ।।
इह श्राद्धय निगल्हते, युद्धाय संनह्यते, पत्ये शेते इत्यकर्मकधातुविषये कर्मणोऽभावात्तेनाभिप्रेयमाणस्य सम्प्रदानता न सिद्ध्यतीति
`क्रियाग्रहणमपि कर्तव्यम्'
इति वार्तिकेऽभिहितम् । क्रिययाभिप्रेयमाणस्यात्र स्यात् सम्प्रदानसंज्ञा । एतद्भाष्ये प्रत्याख्यातम् ।
क्रियापि क्रिययाप्यमानत्वात् कृत्रिमं कर्म । श्राद्धाय निगल्हते इत्यादौ च कया क्रियया क्रियाप्यमानेति सन्दर्शनादिक्रिययेत्युक्तम् । तत्र संदर्शनादिक्रियया अभेदेन धातुनाभिधानात् । कथमभेदाश्रयः क्रियाकारकभावो युज्यत इति समर्थयितुमाह ।
भेदस्य च विवक्षायां पूर्वा पूर्वा क्रियां प्रति ।
परस्याङ्गस्य कर्मत्वान्न क्रियाग्रहणं कृतम् ।। 131 ।।
(126) सन्दर्शनप्रार्थनाद्यवसायैराप्यमानत्वात् क्रियापि कृत्रिमं कर्म । तत्र प्रैक्षापूर्वकारिणः प्रवृत्तावावश्यकेन सन्दर्शनादयः सन्निहिताः प्रतीयन्त इति तेषां प्रधानक्रियाया भेदविवक्षायां पूर्वपूर्वक्रियापेक्षयोत्तरोत्तरस्याङ्गस्य प्रधानक्रियार्थस्य कर्मत्वमविरुद्धं पूर्वपूर्वक्रिययाप्यमानत्वादिति क्रियाया अपि कर्मतायां तयाभिसंबध्यमानस्य सूत्रेणैव सम्प्रदानता सिद्धेति क्रियाग्रहणं प्रत्याख्यातम् । ददातिकर्मणेत्ययं नाङ्गीक्रियते । तदत्र धातुना प्रधानक्रियैवोच्यते । सामर्थ्यप्राप्तास्तु संदर्शनादयः ततो भिन्ना इति क्रियाकारकभावोपपत्तिः । तद्यथा । सार्थाद्धीयते इति प्रतीयमानं सार्थस्य स्वातन्त्र्यं कर्मत्वनिमित्तं यदि वा तादर्थ्यात् प्रधानक्रियया प्राप्ताभेदानां धातुभिरभिधानेऽपि न सर्वथैव भेदतिरस्कार इत्यभेदाख्यकार्यानुमितभेदप्रतीत्या कर्मतोपपत्तिः ।। 131 ।।
यद्येवमोदनं पचतीत्यादावपि क्रियाकर्मणाभिप्रेयमाणस्य सम्प्रदानसंज्ञा स्यात् । ओदनादेः कर्मसंज्ञा तु क्रियाकर्मसु सावकाशेत्यत आह ।
क्रियाणां समुदाये तु यदैकत्वं विवक्षितम् ।
तदा कर्म क्रियायोगात् स्वाख्ययैवोपचर्यते ।। 132 ।।
(127) सन्दर्शनादिक्रियासमुदायः परस्परमङ्गाभावमनापन्नः समकक्ष्यतथा समुच्चीयमानरूपो यदैकफलत्वादभेदेन धातुनाङ्गीक्रियते तदा भेदनिबन्धनस्य क्रियाकारकभावस्याप्रतीतेरप्रतिलब्धकर्मभावया क्रियया संबध्यमानमोदनादिकर्म स्वाख्ययैव क्रियपेप्सिततमत्वनिमित्तभूतया कर्मसंज्ञयैव व्यवह्रियते, न तु सम्प्रदानसज्ञयेत्यर्थः । समुच्चयेनाभिधानादङ्गाङ्गिभावाभावात् क्रियायाः कर्मरूपता नास्त्यत्र पक्षे ।। 132 ।।
भेदविवक्षायां तर्हि सम्प्रदानतात्र स्यादित्याशङ्कयाह ।
भेदाभेदविवक्षा च स्वभावेन व्यवस्थिता ।
तस्माद्गत्यर्थकर्मत्वे व्यभिचारो न दृश्यते ।। 133 ।।
(128) लोकिकप्रयोगः प्रसिद्ध इति तमुद्दिश्यान्वाख्याने यथाप्रयोगमुपायपरिकल्पनया नियतभेदाभेदविवक्षेत्यर्थः । एवं च गत्यर्थकर्मणि द्वितीयाचतुर्थ्यौ अपि उभयविवक्षाश्रयेण सिद्धेति नार्थस्तदारंभेण । अन्यत्राभेदविवक्षानियमाद् व्यभिचारोऽतिप्रसङ्गो नास्ति ।। 133 ।।
एतदेवागमेन द्ढयति ।
विकल्पेनैव सर्वत्र संज्ञे स्यातामुभे यदि ।
आरंभेण न योगस्य प्रत्याख्यानं समं भवते ।। 134 ।।
(129) भेदाभेदविवक्षानियमानाश्रयणे सर्वत्र कर्मसम्प्रदानसंज्ञयोर्भावान्नियमार्थं गत्यर्थकर्मणीत्यादिसूत्रं भाष्यकारो न प्रत्याचक्षीत । प्रत्याख्याने ह्यतिप्रसङ्गः स्यात् । यदा तु विवक्षानियमश्चेतसि भाष्यकारस्य स्फरति तदारंभप्रत्याख्यानयोरविशेषं मन्यमानो युक्तं यत् प्रत्याचक्षीत । तदेवं गत्यर्थविषये विवक्षाद्वयम् । श्राद्धाय निगल्हत इत्येवमादौ तु भेदविवक्षैव । पचत्योदनमित्यादावभेदविवक्षैव । चेष्टायामनध्वनीत्येतत्प्रत्युदाहरणयोरपि चाभेदविवक्षैव, मनसा पाटलिपुत्रं गच्छत्यध्वानं गच्छतीति । सूत्रारंभे च स्त्रियं गच्छत्यजां नयतीत्यतिप्रसङ्गे
`सिद्धं त्वसंप्राप्तवचनात्' (Va.on P.2.3.12)
इत्युक्तम् । असम्प्राप्तं गमनेनासंबद्धं यत्कर्म तत्र द्वितीयाचतुर्थ्यौ वक्तव्ये । अजास्त्रियौ तु सम्प्राप्ते कर्मणीत्यतिप्रसङ्गो न भवति । एवं च विशेषसूत्रारम्भे `अध्वनश्चानपवादः' (Va on P.2.3.12)
इत्युक्तम् । अध्वनीति प्रतिषेधो न वक्तव्यः । अध्वा हि सम्प्राप्तं कर्मेह प्रतिषेद्धुमभिप्रेतः । तस्य चासम्प्राप्तवचनादेव व्युदासः सिद्धः । अत एव भाष्येऽभिहितम् ।
आस्थितप्रतिषेधो वक्तव्यः (M.Bha on P.2.3.12)
इति । आस्थितोऽध्वात्र प्रतिषेधविषयो विज्ञेयः ।। 134 ।।
(130) `अध्वन्यर्थग्रहणम्' (Va on P.2.3.12)
इति वचनादध्वपर्यायेभ्योऽपि प्रतिषेधः, पन्थानं गच्छतीत्यादौ । आस्थित आक्रान्तो गमिक्रियया अध्वा । उदाहरणम् । प्रवृत्तगमनो हि मार्ग आस्थित इत्युच्यते । अत्र येयं गमिक्रिया सा द्विरूपा भवति, आक्रान्तस्य पथो योऽतिकमणीयो भागः तत्र त्यागरूपं हीनरूपं क्रियायाः । प्राप्ये त्वासादनीये भागे संसर्गरूपं प्राप्तरूपमिति त्यागोपादानलक्षणावयवभेदात् क्रिया द्विविधा तथा च त्यागोपादानरूपाविच्छिन्नप्रवाहगमिक्रियाक्रान्तोऽध्वा क्रियाविषयभावमात्रविधीयमानकर्मसंज्ञागोचरो न तु क्रियया कर्मभूतयाऽभिसंबध्यते क्रियाभेदाभावादिति सम्प्रदानसंज्ञाभावः । ग्रामादेरेव तदुपायाप्राप्यस्यानध्वरूपस्य तद्योगः । यस्त्वनास्थितोऽध्वा तत्र द्वे एव विभक्ती भवतः । कथं चानास्थितोऽध्वा भवति । यदोत्पथेन प्राप्नोति पन्थानं पथे गच्छति, पन्थानं गच्छतीति, तदेवं सूत्रारंभे विशेषो वक्तव्यः । प्रत्याख्याने तु विवक्षानियमेनैवेष्टं सिद्धम् ।। 135 ।।
इति भूतिराजतनयहेलाराजकृते प्रकीर्णप्रकाशे साधनसमुद्देशे सम्प्रदानाधिकारः ।।
--------------
(131) इदानीं विभक्तिविधानक्रमेण तदर्थविचारे चतुथ्यर्ये निर्णीते प्राप्तावसरं पंचम्यर्थमपादानं विचारयितुमाह ।
निर्दिष्टविषयं किंचिदुपात्तविषयं तथा ।
अपेक्षितक्रियं चेति त्रिधापादानमुच्यते ।। 136 ।।
अपाये साध्ये यद् ध्रुवमेकरूपमनाविष्टापायलक्षणक्रियमन्यस्मिन्नपायेनाविष्टेऽपि तत्साधनमपादानमित्यवधिविशेषापेक्षत्वात् संरब्धोदासीनोभयकर्तृकोऽपायोऽपादानस्य विषयः स निर्दिष्टः स्वशब्देनोपात्तो यस्य तदेकमपादानमू । तद्यथा `ग्रामादागच्छति', `पर्वतादवरोहति' इत्यादि । उपात्तः क्रियान्तरस्य गुणभावेन प्रधानभावेन वा यत्रापायलक्षणो विषयस्तदन्यदुपात्तविषयपादानम् । तद्यथा `वलहकात् विद्योतते', `कुसूलात् पचति', `ब्राह्मणाच्छंसी' इति । अत्र हि निःसरणांङ्गे विद्योतने नृविद्योतनाङ्गे वा निःसरणे विद्युतिर्वर्तते इति निःसरणवक्षणोऽपायो विद्योतनस्य गुणप्रधानभावेनोपात्तः । वलाहकान्निःसृत्य ज्योतिर्विद्योतते, वलाहकाद्वा विद्योतमानं निःसरतीत्यर्थः । कुसूलाददाय पचतीत्यादानाङ्गे पाके पचिः । ब्राह्मणाद् गृह्णित्वा शंसतीति ग्रहणाङ्गे शंसने शंसिर्वर्तते ।
`पंचमीप्रकरणे ब्राह्मणाच्छंसिन उपसंख्यानम्'
(Va. on P.6.3.2)
इत्यलुक् । तत्र वार्तिककारस्य द्वितीयार्थे पंचम्येषाभिप्रेता । यदाह
`अन्यार्थे च' (Va. on P.6.3.2)
इति । ब्राह्मणानि ग्रन्थविशेषरूपाणि यः शंसति स कथ्यते ब्राह्मणाच्छंसीति वृत्तिविषयेऽत्र द्वितीयार्थे पंचमी वक्तव्या । भाष्यकारस्तु ब्राह्मणाद् गृहीत्वा आहृत्य शंसतीत्याहरणाङ्गे शंसने शंसिर्वर्तते इति ब्रुवन्नुपात्तविषयमेतदुपादानं मन्यते । अपेक्षितक्रियं त्वपादानं यत्र सर्वथैव क्रियाशब्दस्यानुपलब्धेरश्रुता क्रियानुमीयमाना संबन्धिषु द्रव्येषु संज्ञाविशेषहेतूनां शक्तिभेदानामाविर्भावे निमितत्वाय कलपते । तद्यथा माथुरा पाटलिपुत्रकेभ्य आढ्यतरा इति । अत्र हि प्रकर्षप्रत्यसामर्थ्यात् विभागहेतुरनुमीयमानापकर्षणक्रियापायलक्षणेत्यपेक्षितासावत्र क्रिया । उपात्तविषये तु धातुनैवापायः स्वीकृतः । अनेकार्थत्वेन धातूनाम् । वलाहको विद्योतते, चैत्रः पचति, दाशतयीः शंसति इत्यादौ विद्योतनादिमात्रवचनत्वेऽप्यन्यत्र निःसरणाद्यङ्गे वृत्तेरविरोधात्, पंचमीश्रुतिसामर्थ्याद्ध्यपायोऽत्र प्रतीयते । स च निःसरणाद्यङ्गत्वे धात्वर्थस्योपपद्यते नान्यथेति तदर्थतानिश्चयः ।। 136 ।।
कः पुनरमपायः, किं गतिमात्रं नेत्याह ।
संयोगिभेदादेभिन्नात्मा गमिरेव भ्रमिर्यथा ।
ध्रुवावधिरपायोऽपि समवेतस्तथाध्रुवे ।। 137 ।।
(132) संयोगेन साहचर्याद्विभागोऽप्यवधिः स्वीकृतः । तेन दिग्विशेषावच्छिन्नसंयोगविभागकार्यं यथा गमनमेव भ्रमणमिति व्यपदिश्यते यथा च गमनग्रहणाद् भ्रमणरेचनस्पन्दनादयो गृह्यन्ते न जात्यन्तराणीति काणादाः एवं ध्रुवमचलमनाविष्टापायमवधिर्यस्याध्रुवे चले समवेतस्यासौ संरब्धोदासीनसाधनसाध्यस्त्यागस्तदुभयकारकगतविभागलक्षणफलोऽपायाख्यो गतिविशेष एव बोद्धव्यः गन्तरि समवेतापीयं क्रियाऽवध्यपेक्षणादपायाख्यां लभत इति तत्र ध्रुवस्य क्रियासिद्धौ निमित्तत्वं कारकत्वमुपपद्यत इत्याशयः । स चापादानसंज्ञाया विषयभावेनावस्थितोऽपायो धातुनाभिधीयमानोऽनुमीयमानो वा ध्रुवमपादानसंज्ञमपाये साध्य इति तत्र निमित्तत्वं ध्रुवस्य कारकस्य । एवमपायो व्याख्यातः । ध्रुवं हि स्थिरमचलं लोके प्रसिद्धम् । ततश्च वार्तिके चोदितम् ।
`गतियुक्तेष्वपादानसंज्ञा नोपपद्यते अध्रुत्वात् ' (Va. on P.1.4.25)
इति । धावतोऽश्वात् पतितः, सार्थाद् गच्छतो हीन इत्यादौ गतियुक्तेष्वपादानसंज्ञिषु ध्रुवत्वस्य स्थिपत्वस्याचलत्वस्याभावात् संज्ञा न प्राप्नोतीत्यर्थः ।। अत्र परिहारोऽभिहितो
`न वा ध्रौव्यस्याविवक्षितत्वात्'(Va. on P.1.4.25)
इति ।। 137 ।।
एतद् व्याख्यातुमाह ।
द्रव्यत्वभावो न ध्नौव्यमिति सूत्रे प्रतीयते ।
अपायविषयं घ्रौव्यं यत्तु तावद्विवक्षितम् ।। 138 ।।
(133) ध्रुवं कूटस्थं निष्क्रियमिति द्रव्यस्वभावो ध्नौव्यं सूत्रे न प्रत्येव्यम्, अपि त्वसंतुष्टचलनोऽत्र ध्रुवशब्दः । तथा ह्यपायसाध्ये यद्ध्रुवं तेनापायेनासंस्पृष्टमित्येषोऽर्थः । एवं च कृत्वा धावतोष?श्वात्पतित इत्यत्र पातस्याश्वकर्तृकत्वाभावात्तेनानावेशे ध्रुवताश्वस्य तत्रास्त्येव । संरब्धोदासीनसाधनसाध्यो ह्यपायः । तत्राश्व उदासीनः, अपेता तु संरब्धः । ग्रामादागच्छति पथा पर्वतमिति तु पथः करणस्य पर्वतस्य कर्मणोऽपायेनानावेशाद् ध्रुवतायां सत्यामपि परत्वात् करणादिसंज्ञाभिर्बाधनादपादानसंज्ञा न भवति । तथा च वार्त्तिकम् ।
अपादानमुत्तराणि । धनुषा विध्यति, कंसपात्र्यां भुङ्क्ते, गां दोधि, धनुर्विध्यति ।
(Va on P.1.4.1)
इति । तदेवमपायविषयस्याश्रयणादश्वस्यापायेनानावेशाद्वस्तुतस्तद्विषयमध्रौव्यमभवदेवाविवक्षितमिति वार्तिकार्थः ।। 138 ।।
तथा हि ।
सरणे देवदत्तस्य ध्रौव्यं पाते तु वाजिनः ।
आविष्टं यदपायेन तस्याध्रौव्यं प्रचक्षते ।। 139 ।।
(134) सरणेऽश्वसमवायिन्यां वेगितायां गतौ यथा देवदत्तस्य ध्रौव्यं तेन सरणेनानावेशात् तथा देवदत्तसमवेते पाते पतनक्रियायां वाजिनः अश्वस्य तयानावेशात् ध्रौव्यमिति दृष्टान्तदार्ष्टान्तिकभावान्तर्भावेनेदमुदाहरणम् । हेतुत्वेनापायानावेशो व्यतिरेकमुखेनोमयत्रापि ध्रौव्य उपात्तः । यद्यपि चाश्वसरणे देवदत्तस्य ध्रौव्यं तथाप्यपादानसंज्ञा न भवति
`गतिर्विना त्ववधिना नापाय इति गम्यते' इति वक्ष्मयमाणत्वादवधिभावेन देवदत्तस्यानुपादानात् । तथोपादाने तु भवत्येव सरतो देवदत्ताद्धावत्यश्व इति ।
यत्र तर्हि द्वावपि सपरिस्पन्दौ तत्र कथं ध्रुवाध्रुवविभागो निश्चेय इत्याशङ्क्याह ।
उभावप्यध्रूवौ मेषौ यद्यप्युभयकर्मजे ।
विभागे प्रविभक्ते तु क्रिये तत्र विवक्षिते ।। 140 ।।
(135) स्थाणोः श्येनोऽपसर्पतीत्यन्यतरकर्मजे विभागे स्फुटभेवापायेनानावेशात् त्याणौ ध्रुवता निश्चीयते । अपसर्पतो मेषान्मेषोऽपसर्पतीत्यत्राप्युभयकर्मजे विभागे यद्यप्युभावपि मेषावपायावेशादध्रुवौ तथापीतरापायेनेतरलस्यानावेशात् कर्तृभेदाद्भिन्ने एवापायलक्षणे क्रिये ।। 140 ।।
ततश्च
मेषान्तरक्रियापेक्षमवधित्वं पृथक् पृथक् ।
मेषयोः स्वक्रियापेक्षं कर्तृत्वं च पृथक् पृथक् ।। 141 ।।
(136) इतरेतरक्रियमेतरेतरस्यानावेशादन्यक्रियायामन्यस्य ध्रौव्यं स्वक्रियायां तु कर्तृत्वं द्वयोरपि । यदा तु परस्परमवधिभावो न विवक्ष्यते, अपि त्वेकशब्दोपादाने द्विगतेऽपि क्रिये विवक्ष्यते ।। 141 ।।
तदाह ।
अभेदेन क्रियैका तु द्विसाध्या चेद्विवक्षिता ।
मेषावपाये कर्तारौ यद्यन्यो विद्यतेऽवधिः ।। 142 ।।
(137) मेषावपसर्पत इत्याख्यातपदेन कर्तृद्वयनिर्वर्त्या क्रियेक्येन प्रत्यायितेति द्वयोरपि मेषयोः क्रियावेशेन कर्तृत्वमपायेन त्वेकस्यावधित्वमित्यपादानता न भवति । एवं च कृत्वापायकर्तृत्वं मेषयोर्भवति यदान्यः पर्वतादपसर्पत इति परस्परो मेषावपसर्पत इति परस्परतो मेषवपसर्पत इति । एवं त्वभिधाने मेषान्तरक्रियापेक्षमवधित्वं द्वयोः स्वक्रियापेक्षं च कर्तृत्वंमित्युक्तम् । कर्तृभेदाद्ध्यत्र क्रियाभेदानुमानमाख्यातादेक्येनापि प्रतीयते ।। 142 ।।
यद्यन्यो विद्यतेऽवधिः तदा मेषावपायकर्तारौ नान्यथेत्येतद् भाष्यग्रान्थसंवादेनोपपादयितुमाह ।
गतिर्विना त्ववधिना नापाय इति गम्यते ।
वृक्षस्य पर्णं पततीत्येवं भाष्ये निदर्शितम् ।। 143 ।।
(138) कारकसूत्रे संज्ञिनिर्देशः कर्तव्यतया चोदितः , साधकं कारकमिति वक्तव्यम्, अन्यथा अक्रियानिमित्तस्यापि कारकप्रसङ्गः
`अपादानं च, वृक्षस्य पर्णं पततीति' (Va. on P.1.4.23)
इत्युदाहतो वार्तिके । सवार्तिकं च भाष्यमिति भाष्य इत्याह । एतच्च गतेः सावधिकाय ्पायत्वे न लिङ्गम् । अपि त्वस्य परिहाराय
`न वाऽपायस्याविवक्षितत्वात्' (Va. on P. 1.4.23)
इति । यदुक्तमित्यनेन भाष्यप्रबन्धोऽत्र निर्दिष्टः । अयं चात्रार्थः । वृक्षसंबन्धिनः पर्णस्य पातो वाक्यार्थो विवक्षितः इति वृक्षस्यावधित्वविवक्षात्र नास्ति । तथा चापायोऽयं न भवति । अपायत्वेनावध्यपेक्षारूपेणाविवक्षितत्वादित्यत्रापादानता वृक्षस्य न भवतीति, यदि त्वपायोऽत्र विवक्ष्यते तदा वृक्षस्यावधित्वात् वृक्षात् पर्णं पततीति भवति, ततश्च न ज्ञायेत कस्य संबन्धि पर्णं कङ्कस्य वा कुरस्य वेत्युक्तम् । तस्मात्पर्णविशेषणत्वेन वृक्षस्य विवक्षितत्वाद् वृक्षमत्यजत्यपि पर्णे साखारथे भूमिं स्पृशति प्रयोगोऽयं भवत्येवेत्यपायविवक्षोक्ता । एतस्माच्चावसीयते सावधिकगतिरपायो न शुद्धा, अन्यथावध्यविवक्षायामत्रापायसम्भवादपादानत्वं स्यादेवेति ज्ञापकमेतत् । एवं च चापायेनैवावधेराक्षेपात्तस्यैव विशेषणम् । शब्दवत् संज्ञिप्रतिपत्त्यर्थं ध्रुवग्रहणं संरब्धोदासीनोभयसाध्यतामपायस्य दर्शयितुमिति व्याख्याताम् ।। 143 ।।
गतमदः । इदमिदानीं वक्तव्यम् `अपादानमुत्तराणि' इति विप्रतिषेधः कात्यायनेनोक्तः । तथा चोक्तैः कारकैरपादानस्य बाधितत्वात् वलाहकादि विद्योतते, वलाहके विद्योतते, वलाहको विद्योतते इति भाष्ये संज्ञासमावेशो दर्शितो विरुद्ध इत्याशङ्क्य भाष्यं समर्थयितुमाह ।
भेदाभेदौ पृथग्भावः स्थितिश्चेति विरोधिनः ।
युगपन्न विवक्ष्वन्ते सर्वे धर्मा वलाहके ।। 144 ।।
(139) धूमज्योतिः सलिलमरुतां संघातो वलाहकः, तत्रावयवस्य ज्योतिषो विद्योतनम् । तच्च ज्योतिर्यदा तस्मात् समुदायात्मनो वलाहकाद् भेदेन विवक्ष्यते तदा भेदविवक्षायां पृथग्भावेनैव वा विवक्ष्यते तत्रावस्थानेन वा । यदा पृथग्भावेन विवक्ष्यते तदा वलाहकोऽवधिः पृथग्भावलक्षणस्यापायस्येत्युपात्तविषयमिदमपादानं व्याख्यातम्-कलाहकाद् विद्योतते विद्युज्ज्योतीरूपेति वलाहकात् पृथग्भूय निःसृत्येति निःसरणाङ्गे विद्योततने धातुः । यदा तु निराधारस्य तेजसोऽवस्थानाभावाद् वलाहकोऽवस्थितिहेतुत्वादाधारभावेन विवक्ष्यते तदाधिकरणसंज्ञोऽसौ जायते `वलाहके विद्योतते' इति, वलाहके स्थित्वा प्रकाशत इत्यर्थः । अबिन्धनत्वाद्वैद्युतस्य जातवेदसो वलाहको जलपूर्णोऽप्याधारो युज्यते । एवमुदकसंभेदात् पार्थिवेन धूमेन चाविलीकाराद् वलाहकाद्भेदो नास्ति तावत्तेजसः प्रकाशकर्तृत्वाभाव इति भेदविवक्षायां शक्तिद्वयाविर्भावो वलाहके दर्शितः । पृथग्भावो स्थितौ च भिन्नविषये एव । यदा तु स्वच्छत्वाद् वलाहकद्रव्यस्य तत्रप्यमुदकादि तेजसः प्रकाशे प्रतिबन्धकं न भवतीत्यभेदेन वलाहकाख्यः समुदायस्तेजोऽवयववशाद्विद्योतनसमर्थो विवक्ष्यते तदात्र कर्तृशक्तिरेवोज्भृम्भते वलाहको विद्योतत इति । अवयवनिबन्धना हि समुदायमनुपतन्ति व्यपदेशाः । तद्यथा किसलयित मुपवनमिति वृक्षसमुदायस्योपवनशब्दवाच्यत्वे तदवयवानां संजातकिसलयत्वे समुदायस्तथा व्यपदेशार्हः । तदेवं विवक्षाभेदात् पर्यायेण भिन्नशक्तिर्वलाहको भाष्य उदाहृतः, न तु युपच्छक्तिविवक्षायामिति न विप्रतिषेधवचनेनास्य विरोधः कश्चित् ।। 144 ।।
यत्तु विप्रतिषेधोदाहरणं तत्र युगपदेव शत्क्योर्विवक्षेत्याह ।
धनुषा विध्यतीत्यत्र विनापायविवक्षया ।
करणत्वं यतो नास्ति तस्मात्तदुभयं सह ।। 145 ।।
(140) धनुषा विध्यतीति परत्वात्करणसंज्ञाऽपादानसंज्ञां बाधत इत्युदाहृतम् । तत्र युगपद् प्राप्तिरावश्यकेन संज्ञयोरिति तद् द्वयं साधकतमत्वमपायश्च सहैकस्मिन् द्रव्ये वर्तते । यतोऽपायविवक्षामन्तरेण साधकतमत्वं व्यधने धनुषो नास्ति । न हि दण्डेनेव धनुषा विध्यति, अपि त्वपसर्पतः शरस्यवाधिभावमुपयद्धनुर्व्यधननिमित्ततां प्रतिपद्यत इति युगपदुभयविवक्षायां भिन्नविषययोरपि शक्तयोः निमित्तनिमित्तिभावेनावस्थानादेकत्र द्रव्ये समावेशात् स्वनिमित्तसंज्ञाद्वयहेतुत्वे युगपदेकस्मात् प्रातिपदिकात् तत्कार्यविभक्तिद्वयोत्पत्त्ययोगात् एकसंज्ञाधिकारोपजनिते विरोधे परत्वात् करणसंज्ञानिमित्ता विभक्तिर्भवति । शक्त्योर्हि नास्त्यत्र विरोधः, भिन्नविषयत्वात् । शरनिःसरणे ह्यपादानं व्यधने तु करणं धनुः । आविष्यशक्ति च द्रव्यमेव संज्ञाविषय इति तदनपेक्षयैकत्र प्राप्तिः । तथा हि विभक्तिविधाने `अपादाने' `करणे' इत्यादिसंज्ञाविशेषेण द्रव्यत्वमेव विशिष्यते । एकस्यानेकसंज्ञाप्रवृत्तावपि च नास्ति विरोध इति संज्ञाकार्यविभक्तिमुखेन विरोधोऽत्र व्याख्येयः । एतच्चोदाहरणमुपलक्षणार्थमुपात्तमित्यन्यत्रापि विप्रतिषेधोदाहरणे युगपदविवक्षा योज्या । तथा हि `कंसपात्र्यां भुङ्क्ते' इत्यत्रान्नादनादिरूपाया भुजेः कंसपात्री धारयन्त्यन्नमत्राधारः । स चास्याधारभावस्तावन्नोपपद्यते यावदपादानता नास्ति । कंसपात्र्या ह्यन्नमुद्धृत्य भुज्यत इति भवत्यपादानम् । न हि पर्णपुटेन सहान्नमभ्यवहरतो हस्त्यादेस्तत्र भुङ्क्त इति भवत्याधारसम्प्रत्ययः । यदि च कंसपात्री न भवेदन्नादानस्यावधिस्तदा भुजिर्नैव निष्पद्येतेत्यपाथविवक्षया विनाधिकरणत्वाभावादुभयोर्युगपद्विवक्षायां संज्ञाद्वयप्रसङ्गे `अपादानमुत्तराणि' इत्यधिकरणसंज्ञया परया पूर्वाऽपादानसंज्ञा बाच्यते एव । `गां दोग्धि' इति क्षारणवचने दुहौ नान्तरीयकोऽपायः । न हि गोरनपयति पयसि क्षारणं सम्पद्यत इति ्पादानतानान्तरीयका कर्मशक्तिः गोः परत्वात् कार्यं प्रयुङ्क्ते । एवं धनुर्विध्यतीत्यपायविवक्षां विना व्यधने धनुषः स्वातन्त्र्यं नास्तीत्युभयसंनिधौ `अपादानमुत्तराणि' इति परा कर्तृसंज्ञैव भवति ।। 145 ।।
एवमत्र विषमे द्वे शक्ती अभ्युपगम्य नान्तरीयकत्वादेकत्र द्रव्ये समावेशे संज्ञाद्वयप्राप्तौ विभक्‌त्याख्याकार्यद्वारेण विरोधे सति परत्वेन व्यवस्थोक्ता । सम्प्रति शक्‌त्यभेदमाश्रित्य संज्ञयोरभिन्नविषयोपनिपातमाह ।
एकैव सा सती शक्तिर्द्विरूपा व्यवतिष्ठते ।
निमित्तं संज्ञयोस्तत्र परया बाध्यतेऽपरा ।। 146 ।।
(141) भिन्नक्रियाविषयापि द्रव्यस्यैकैव शक्तिः, तया हि तद् द्रव्यं क्रियाद्वयं सम्पादयति, इति तत्र क्रियाद्वयविषयेऽपादानकरणसंज्ञाद्वयं लभत इत्येकत्र शक्तौसंज्ञाद्वयप्राप्तौ परया संज्ञया न परा अपरा पूर्वा संज्ञा बाध्यते विरोधाद्, एकसंज्ञाधिकारनिमित्तादित्यर्थः । शरनिःसरणेऽवधिभावो धनुषः साधकतमत्वश्क्त्यैवान्तर्भावितः । तेन वाना तदयोगादिति तावत्येकैव शक्तिर्मण्यते । परस्परनिरपेक्षस्य कार्यद्वयस्य प्रविभक्तरूपशक्तिद्वयपरिकल्पकस्याभावात् । व्यधनक्रियाया हि शरापगमनक्रियात्र गुणभूतेति पृथगात्मनि शक्‌त्यन्तरं नाक्षिपति । केवलमेकैव शक्तिर्गुणप्रधानभूतक्रियाद्वयविषयतया भिन्नरूपेव चकास्ति । द्रव्यमेव तर्ह्येकं क्रियाद्वयं सम्पादयत् साधनमस्तु, किं शक्तिपरिकल्पनया । नैतदुपपद्यते । अभिन्नस्वबावत्वादस्य नानाक्रियाविषयतायोगात् । शक्तिस्तु सामर्थ्यमनेककार्यमपि भवति । यथोक्तम् ---
"न शक्तीनां तथा भेदो यथा शक्तिमतां स्थितिः"
इति । यद्येवं पकूत्वौदनो भुज्यतामित्यत्राप्येकैव शक्तिरस्तु । नैतदुपपद्‌यते । अन्तर्भूतेनोपायेन पृथगात्मानलभमानेन स्वनिमित्तशक्तिभेदानाक्षेपादिति स्थितम् ।। 146 ।।
पूर्वं तु गुणप्रधानभावानाश्रयेण क्रियाद्वयमात्रविषयं शक्तिद्वयमुक्तम् । ततेतदपादानं
`ध्रुवमपायेऽपादानम्' (P.1.4.24)
इत्यनेनैव लक्षितं सर्वमपादानपंचमीविषयः । अपरस्तु
निर्धारणे विभक्ते यो भीत्रादीना च यो विधिः ।
उपात्तपेक्षितापायः सोऽबुधप्रतिपत्तये ।। 147 ।।
(142) "पञ्चमी विभक्ते" (P.2.3.42)
इति विभक्तिविशिष्टे निर्धारणे गम्यमाने पञ्चमीलक्षणो यो विधिरुक्तः सोऽपेक्षितापायः, अपायस्यानुमीयमानस्यापेक्षणादित्यपादानसंज्ञयैव सिद्धः । तस्य हि माथुराः पाटलिपुत्र केभ्य आढ्यतरा इत्येतदुहारणम् । अत्र निर्धारणस्य विभक्तविषयत्वादत्यन्तविभक्तताप्रतिपत्त्यर्थं विभक्तग्रहणमिति पृथग्भूता एव प्रतिपाद्यमाना एतस्य विषयः, न तु गवां कृष्णा सम्पन्नक्षीरतमेत्यादि, गोत्वेनापृथग्भावात् । तत्रात्यन्तविभागेऽपि विवक्षिते पूर्व माढ्यत्वेन बुद्ध्या साम्यमवश्यापेक्ष्यम् । तथा ह्याढयत्वेन समानेन गुणेन बुद्ध्यैकत्वमापाद्यातिशयविशिष्टाढ्यतावशात् पृथक्‌क्रियेत्यस्ति बुद्धिसंश्लेषपूर्वको विश्लेषोऽपायाख्य इत्यपादान इत्येव सिद्धात्र पञ्चमी । अपेक्षितक्रियं ह्येतदपादानम् । तदुक्तं भाष्ये
`यस्तैः साम्यं गतवान् स एवं प्रयुङ्क्ते' (M.Bha. on P.1.4.24)
इति । कारकाधिकारे तमब्‌ग्रहणादतिशयो न विवक्षित इति गौणेऽप्यत्र बौद्धेऽपायेऽपादनताविरुद्धा । तथा हि कारकव्यवहारो बुद्ध्यवस्थानिबन्धन एव सर्वः । तदुक्तं प्राक्--
बुद्ध्या समीहितैकत्वान् पञ्चालन् कुरुभिर्यदा ।
पुनर्विभजते वक्ता तदापायः प्रतीयते ।।
इति । एवं सामान्येनैव सिद्धे सूत्रारंभो बौद्धमपायमप्रतिपद्यमानं प्रति विवक्षानियमार्थम्, अपायविवक्षैवात्र कर्तव्येत्येर्थः । तथा
`भीत्रार्थानां भयहेतुः'(P. 1.4.25)
`पराजेरसोढः'(P.1.4.26)
इत्यादिश्च यो विधिरपादानसंज्ञालक्षणः सोऽयुपात्तो गुणभावेन विषयोऽपायलक्षण क्रिया येन स एवंविध इति उपात्तविषयापादानभेदोदाहरणरूपः पूर्ववदबुधबोधनार्थ एव । तथ हि वृकेभ्यो भयं चोराद् बिमेतीति य एष मनुष्यः प्रेक्षापूर्वकारी भवति स बुद्धय पश्यति यदि मां वृकाः प्राप्नुयुर्ध्रुवमनिष्टापात इति पूर्वं बुद्ध्या वृकान् प्राप्य बुद्धयन्तरेण ततो विभागं प्रतिपद्यत इति भयपूर्विकायां निवृत्तौ बिभेतेर्वर्तनाद् अस्त्येवापायः । एवं चौरेभ्यस्त्रायत इत्यनर्थप्रतिघातवचने त्रायतावनर्थं चोरसंसर्गं बुद्ध्या निश्चित्य ततः स्वजनमपनयति सुहृदिति संभवत्यपायः । अध्ययनात् पराजयत इत्यध्ययनाभ्यासपरिखिन्नो गुरुपर्युपासनायासभीरुः । प्राप्याध्ययनं ततो निवर्तत इत्यस्त्येवापयः । पराजयतिश्चात्र खेदपूर्वके निवर्तने वर्तते , अध्ययनात् खिन्नः सन्निवर्तत इत्यर्थः ।
पूर्वमेवाप्रवृत्तौ तु खेदो बुद्ध्या समीक्षितः ।
कष्टेन तपसा नित्यं दृष्टोपचरतो गुरून् ।।
इति येवेभ्यो गां वारयतीति यवसंप्राप्तो गवां यवविनाशकृतं प्रत्यवायमयं निवर्तयति तत इति मुख्य एवापायः कूपादन्धं वारयति, अग्नेर्माणवकं वारयतीति बुद्ध्या कूपाग्निसंप्राप्तिमनिष्टहेतुं मन्यमानोऽनुकम्पया ततो निवर्तयतीति बुद्धिसंश्लेषपूर्वकोऽपायः । उपाध्यायादन्तर्धत्त इत्युपाध्यायसमीपप्राप्तौ प्रेषणोपालंभादिदुःखं बुद्ध्या निश्चित्य ततोऽपैतीत्यपायः । उपाध्यायादधीते, आगमयतीति च ग्रन्थमादत्ते तत इत्यपायः । उपाध्यायमुखोदीरिता हि शब्दाः सन्तानेन वर्तमानः शिष्यमनुप्रवीशन्तीत्युपाध्यायादवधिस्थानीयात्तेषामपक्रमोऽवसीयते । तदुक्तं भाष्ये ।
`संततत्वात् ।' (M.Bha. on P.1.4.29)
इति । अनुपयोगे तु नटस्य शृणोतीत्यपायो न विवक्ष्यते । न हि नटाद् ग्रन्थमादत्ते, अपि तु नटसंबन्धि शृणोतीत्येतावदत्रार्थसतत्त्वम् । शृङ्गाच्छरो जायत इति ततो निःसरतीत्येवं लोकस्य प्रतिपत्तेरस्त्येवापायः । शास्त्रे च
पदार्थो लौकिकः प्रविभज्यते
इत्युक्तमिति तिर्थिकपरिकल्पितप्रक्रियानादरः । तीर्थिकानां हि केषांचित् कार्यकारणयोः परिणामाश्रयेण भेद इति विभागभावः । हिमवतो गङ्गा प्रभवतीति स्रोतोरूपा गङ्गा ततः प्रसर्पतीति मुख्य एवापायः । गौणं चापायमाश्रित्य
`जुगुप्साविरामप्रमादर्थानामुपसंख्यानम्'(Va. on P.1.4.24)
प्रत्याख्यातम् । तथाहि अधर्माज्जुगुप्सते विरमतीत्यास्तिकः परत्र दुःखानुबन्धिनमधर्ममवगम्य जुगुप्सापूर्वकं ततोऽपैतीत्यस्त्यपायः । नास्तिकः पुनरिहैव क्लेशफलं धर्ममवगत्य ततः प्रमादेन निवर्तते इति प्रमाद्यतीत्युच्यत इति सर्वत्र पूर्वेणैवापादानसंज्ञायामुत्तरो विधिः प्रपंचार्यः । लक्षणप्रपंचाभ्यां हि व्याकरणम् । यथोक्तम् तत एव विधय इत्यादीति सिद्धम् ।। 147 ।।
इति भूतिराजतनयहेलाराजकृते प्रकीर्णप्रकाशे साधनसमुद्देशेऽपादानाधिकारः ।
---------------
(143)इदानीं विभक्तिविधानुक्रमायातं षष्टयर्थं शेषलक्षणतिक्रम्य कारकविशेषप्रक्रमायातमधिकरणं सप्तम्यर्थं विचारयति ।
कर्तृकर्मव्यवहितामसाक्षाद्धारयत् क्रियाम् ।
उपकुर्वत् क्रियासिद्धौ शास्त्रेऽधिकरणं स्मृतम् ।। 148 ।।
लोकेऽधिकरणविशेषेण द्रव्यगुणक्रियाविषयमभिधीयते । शास्त्रे त्वस्मिन् कारकप्रकरणात् क्रियाक्षेपे क्रियायामेवोपकारविशेषेण धारणलक्षणेनाधिकरणसंज्ञावतिष्ठते । तत्र क्रिया कर्तरि कर्मणि वावतिष्ठत इति तयोः क्रियाधारणादधिकरणसंज्ञा वचनात् पर्यायेण स्यात् । कर्मस्थक्रियाविषया वा कर्तृसंज्ञा कर्तृस्थक्रियाविषया वा कर्मसंज्ञा स्यादिति तत्र यथायोगं कर्तृकर्मसंज्ञाबावेऽधिकरणसंज्ञा प्रसज्यत इत्याशङ्क्योक्तं `कर्तृकर्मव्यवहिताम्' इत्यादि । कटे आस्ते, स्थाल्यां पचतीति कर्तृकर्मधारणात् तत्समवेतायां क्रियायामुपकारकमधिकरणं पारम्पर्येण । असति ह्याधारे कर्तृकर्मणी क्रियोपकारं न प्रतिपद्येयातामिति तयोराधार उपकुर्वन् क्रियामपि तत्स्थामुपकरोति । कारकाधिकारे च तरतमयोगो नास्तीत्यत्र परम्परया क्रियाधारकेऽधिकरणसंज्ञाया सावकाशत्वात् साक्षात् क्रियाधारकयोः परत्वात् कर्तृकर्मसंज्ञे एव । कारकाणां च क्रियानिमित्तत्वं यथा तथापि भवदाश्रीयत इति व्यवधानेन क्रियापकारकत्वमविरुद्धम् । `व्यवहिताम्' इत्युक्तेऽपि `असाक्षात्' इति वचनं लोकानुसारेणापि पदार्थव्यवस्थायामधिकरणस्य क्रियाधारण प्रति व्यवधानपरिपोषणार्थम् । तथा हि शब्दात् प्रतीयमानोऽर्थो लौकिकः संस्कारनिमित्तमुच्यते । पृथिव्यां शेते, स्थाल्यां पच्यत इत्यादौ चाख्यातशब्दात् क्रियाविशिष्टे कर्तृकर्मणी प्रतिपद्येते, न क्रियामात्रं ततो निकृष्टरूपमिति क्रियाश्रयधारणादेव लोकेऽधिकरणस्य क्रियोपकारः प्रतीयते न साक्षात् ।। 148 ।।
इदानीमौपश्लेषिकादिभेदेऽप्यधिकरणस्य सामान्भेतल्लक्षणमनुगतमित्याह----
उपश्लेषस्य चाभेदस्तिलाकाशकटादिषु ।
उपकारास्तु भिद्यन्ते संयोगिसमवायिनाम् ।। 149 ।।
(144) उपश्लेष आधारस्याधेयेन संबन्धः । यद्वशादसावाधारः । तस्य त्रिष्वप्यधिकरणेष्वभेदः । अन्यथा तु संयोगिन्याधारे संबन्धः, अन्यथा तु समवायिनीति संबन्धिभेदाद्भिन्नत्वेन व्यपदेशः । तथा हि कटे आस्ते देवदत्त इति संयोगिनः कटस्य सकलावयवव्याप्त्या देवदत्तोपश्लेषो न दृश्यते, अपि तु कतिपयावयवव्याप्तेत्यविशेषादौपश्लेषिक इति सामान्यसंज्ञयाधारोऽयमुच्यते । तिलेषु तैलमिति तु समवायिना तैलरसेन तिलानां समस्तावयवव्याप्त्या लोकप्रसिद्ध्या संबन्धाद् व्यापकमेतदधिकरणम् । खे शकुनय इत्यत्र त्वाकाशस्या तात्त्विकावयवाभावात् कल्पितप्रदेशतया संबन्धाद्वैषयिकमेतदधिकरणम् । अनन्यत्र भावश्चात्र विषयार्थः । एवं जले मत्स्या इत्याधारप्रदेशापेक्षया चैतदौपश्लेषिकमधिकरणम् । गुरौ वसतीति शिष्याणां गुर्वधीनायां वृत्तौ वैषयिकमधिकरणं गुरुः । उपश्लेषोऽप्यत्र बौद्धः । एवं युद्धे सन्नह्यतीति युद्धाभिसंन्धिना सन्नहनस्य तनुत्रादिबन्धनरूपस्य प्रवृत्तेः युद्धं विषयः । गङ्गायां गाव इति गङ्गाशब्दः सामीप्यात् प्रदेशवृतिरित्यौपश्वेषिकमधिकरणम् । शत्रोरभावे सुखमित्यादावभावस्य बौद्धं कारकत्वमिति प्रागेव निर्णीतम् ।। 149 ।।
के पुनरुपकारा इत्याह ।
अविनाशो गुरुत्वस्य प्रतिबन्धे स्वतन्त्रता ।
दिग्विशेषादवच्छेद इत्याद्या भेदहेतवः ।। 150 ।।
(145) अविनाशः तैलस्य तिलकृत उपकारः । तिलविनाशे हि तैलं विकीर्णं नश्येत् । पर्यङ्के शेत इति शयितुर्गुरुत्वप्रतिबन्धे स्वतन्त्रः कर्ता आधारः । अन्यथा गुरुत्वात् पतनं भवेत् । खे शकुन्ताददय इत्यादौ खेन शकुन्तादीनामधरदिशा संबन्धस्यापावर्तनमित्ययमेव तस्याधेयोपयोगः । आदिशब्दाच्छकटादिनाधारेण देशविशेषसंप्राप्तिः । गुरुणा च शिष्याणां संस्कारातिशयः पर्यङ्कादिना च सौस्थित्यमित्येवमादय उपकारः प्रतिपाद्यन्ते । प्राच्यामादित्य उदेति प्रतीच्यामस्तमेति दक्षिणस्यामगस्त्य उत्तरस्यां ध्रुव इति दिग्विशेषसंबन्धप्रतिपादनमात्रोपयोगमेतदधिकरणम् ।। 150 ।।
मूर्तानां सर्वेषामन्याधीनायां स्थितौ मूर्तस्याधारस्याप्यपरमधिकरणमिति पर्यन्तवर्ति मुख्यमधिकरणं किमित्याह ।
आकाशमेव केषांचिद्देशभेदप्रकल्पनात् ।
आधारशक्तिः प्रथमा सर्वसंयोगिनां मता ।। 151 ।।
(146) ग्रहनक्षत्रविमानादीनां तावदाकाशभेवाधिकरणं प्रसिद्धम् । येषामपि पृथिव्येकदेशो रथादीनामधिकरणं तेषामपि तस्य पृथिव्येकदेशस्याकाशाधरत्वात् पारम्पर्येणाकाशमेवाधार इति सर्वग्रहणेनाह । समवायिनां तु स्वावयवा आधारः । तत्रापि पर्यन्ते परमाणवः । तेषां चाकाशमेव देशप्रविभागकारणमाधार इति मुख्याधारशक्तिराकाशाश्रया भावानाम् । न चैवमेकदेशतया संकरः स्वावष्टब्धपरिमितदेशमुखकभाग प्रकल्पने भिन्नतयाकाशं देशभावं प्रतिपद्यते यतः । तदुक्तम् `देशभेदप्रकल्पनात्' इति । संयोगिनां देशतया व्यवह्रियमाणस्याकाशभेदस्य तैरेव संयोगिभिरव्यापकैः परिकल्पनादाकाशं सर्वेषामसङ्करेणाधिकरणमित्यर्थः । `केषांचित्' इति, ये ह्याकाशमभ्युपयन्ति संसर्हवादिनस्तेषां मत इत्यर्थः । तत्रैतत् स्यात्, किमिदमनध्यक्षमामाणमाकाशं नाम । शब्देन गुणेन गुणी सोऽनुमीयत इति चेदाकाशगुणत्वस्यैवासिद्धेः शब्दस्यानन्वय्येतत् । न स्पर्शवद्विशेषगुणः शब्दः । अयावद्‌द्रव्यभावित्वादाश्रयादन्यत्रोपलब्धेरित्यादिहेतूपन्यासो वायं रूपादीनामपि ।। 151 ।।
सत्यप्याश्रये निमित्तान्तरात् परिवृत्तिदर्शनादाकाशस्य च द्रव्यत्वासिद्धौ शब्दाश्रयत्वस्य विवादास्पदत्वाद् यावद्‌द्रव्यभावित्वं शब्देऽसिद्धं कर्णशष्कुल्यवच्छिन्नाकाशदेश एवोपलब्धेश्चाश्रयादन्यत्रोपलभ्यमानत्वमसिद्धम्, समानेन्द्रियग्राह्यक्षणिकानेकविशेषगुणोयोगित्वमपि स्पर्शवतां स्वकृतान्तनियतमित्याशङ्क्याशसद्भावे लोके प्रसिद्धं लिङ्गमाह ।
इदमत्रेति भावानामभावान्न प्रकल्पते ।
व्यपदेशस्तमाकाशनिमित्तं संप्रचक्षते ।। 152 ।।
(147) इहाधारशक्तिरेवान्यथानुपपत्तेराकाशसद्भावं गमयति । तथा हि शब्दप्रमाणाकानां शब्दार्थोऽर्थः । अस्ति चायं शब्दः--इदं नक्षत्रमत्र तिष्ठतीति । अत्र इति यन्निर्दिष्टं तत्किचन वस्तु भवत् पृथिव्यादेरन्यत्वादाकाशाख्यामवलंबते । न चावस्त्वेतत्, सर्वसामर्थ्यविरहलक्षणादवस्तुन एवंविधव्यपदेशाभावात् । निरूप्य हि व्यपदेशो निरूपणा च वस्तुनिबन्धना, शाब्दे व्यवहारे निरूपितस्यैव वस्तुत्वात् । अत एव शत्रोपभावे सुखमित्यादौ निरूप्यमाणस्याभावस्याधाराभाव इत्यस्ति लोकप्रसिद्धव्यवहारनिमित्तमाकाशमादारभावपन्नम् । पदार्थानां परमार्थविचारे तु सर्वं प्रपंचरूपमसत्, अद्वयस्यैव सत्वात्, इत्यविचारितरमणीयलौकिकपदार्थाश्रया लक्षणप्रवृत्तिरेव विरुद्धेत्याशयः ।। 152 ।।
आकाशस्य सर्वभावाधारत्वं यदुक्तं तत् सिद्धस्वभावविषयं साध्यस्वभावविषयं तु कालस्याधारत्वमित्याह ।
कालात् क्रिया विभज्यन्ते आकाशात् सर्वमूर्तयः ।
एतावांश्चैव भेदोऽयमभेदोपनिबन्धनः ।। 153 ।।
(148) `प्रतिबन्धाभ्यनुज्ञाभ्यां तेन विश्वं विभज्यते' इति वक्ष्यमाणनयेन जन्मस्थितिनिरोधप्रविभागेन भावेषुपकुर्वन् कालः क्रियास्वाधारभावोपगमनेन प्रविभागमवस्थापयति । आकाशं त्वसर्वगतद्रव्यपरिमाणपदार्थसंयोगाहितप्रविभागमसङ्करेणाधारभावमुपयन्नियतदेशतया पदार्थव्यक्तीर्विभजते । मूर्तिक्रियाविवर्त्तरूपं चेदं विश्वं भेदावभासबहुलं लभ्यते व्यवहारे यथायथमाद्यायां दशायामभिन्नमपीत्येतदपेक्षया कालाकाशाख्याभेदनिमित्तः । कालाकाशाख्योऽभेद उपनिबन्धनं निमित्तमस्य मूर्त्तिक्रियाविवर्त्तस्यैत्यर्थः । दिक्‌शक्तिनिमित्तोऽपि हि मूर्तिभेदः पूर्वापरदेशात्मकत्वादाकाशाधारप्रविभागेन निष्ठामुपैति । कालाकाशयोरपि च भेदः शक्तित्वादत्यन्ताभिन्नपरब्रह्मनिमित्तः तस्माद्धि ते शक्ती पृथक्‌क्रियेते इत्युपपादितं प्रथमकाण्डे ।
`उपान्वध्याङ्वसः' (P.1.4.48)
इत्युपादिपूर्वस्य वसतेराधारः कर्मसंज्ञः उक्तः । तत्र वार्तिककारः प्राह ।
`वसेरश्यर्थस्य प्रतिषेधः ।' (Va.on P.1.4.48)
इति । ग्राम उपवसतीति । यथा तिष्ठतिर्गतिनिवृत्तिविशिष्टमवस्थानमाह एवं भोजननिवृत्तिविशिष्टं वासमुपवसिरिति वात्तिककारो मन्यते । तथा चोपवसेस्तिष्ठतिवद् ग्रामेणास्ति संबन्ध इति प्राप्ता कर्मसंज्ञा निवर्त्यते । विवक्षानियमश्चानेन वार्तिकेनावेद्यते । नात्र ग्रामादेरीप्सिततमत्वेन विवक्षा, अपि त्वाधारभावेनेत्यर्थः । भाष्ये तु प्रत्याख्यातमेतद्वार्तिकम् ।
"नात्रोपपूर्वस्य वसेर्ग्रामोऽधिकरणम् । कस्य तर्हि ? अनुपसर्गस्य । ग्रामेऽसौ वसंस्त्रिरात्रमुपवसतीति ।" (M.Bha.on Va on P.1.4.48)
तत्रायमाशयो भाष्यकारस्य । इह कालषिशेषावच्छिन्ना भुजिनिवृत्तिरुपवसेरर्थः । तत्र कालविशेषोऽन्तरङ्गः, प्राकृतमेव कर्म । अभुञ्जानस्य त्ववस्थानं निरधिकरणस्य नोपपद्यते, इत्याधारोऽपेक्षितो नियतः । स चोपपूर्वस्य वसेर्न संबन्धीत्यप्रसक्तैव कर्मसंज्ञा ।। 153 ।।
न ह्येवमपि यदा कालवद्देशोऽपि नियतोऽपेक्ष्यते तीर्थे उपवसतीत्यादौ तदा स्त्येवोपवसेर्देशेन संबन्ध इति स्यात् कर्मसंज्ञेत्याशङ्क्य भाष्यं समर्थयितुमाह ।
यद्यप्युपवसिर्देशविशेषमनुरुध्यते ।
शब्दप्रवृत्तिधर्मात्तु कालमेवावलंबते ।। 154 ।।
(149) तीर्थादिदेशविशेषमवलंब्य भोजनादिनिवृत्तावभिसंहितायां देशविशेषेणापि संबन्धो यद्यप्युपपूर्वस्य वसेरस्ति तथापि नासौ शब्दसामर्थ्योपनिपतितो देशसबन्धः । भोजननिवृत्तिमात्रं ह्युपवासार्थः । स चानियतकालो नोपपद्यत इति कालविशेषोऽन्तकङ्गो गर्भीकृतः शाब्द एव शब्दस्य प्रवृत्तिरभिधानव्यापारः, तस्या धर्मः स्वभावः, शब्दशक्तिरिति यावत् । देशस्तु देवदत्तसत्ताय निराधाराया अनुपपत्तेरभिसंहितोऽपि तीर्थादिः शब्दार्थे नान्तर्भवति, भोजननिवृत्त्या देशस्य संबन्धाभावात् । तत्र त्वङ्गभूतो यो वासस्तेनैव देशस्याभिसंबन्धः । तथा चाङ्गभूतवसतिक्रियाद्वारेणोपवासेऽधिकरणता देशः प्रतिपद्यते । साक्षात् कालेनैव तु तथा योगः । भोजननिवृत्तेर्नियतकालत्वात् कालव्यवधिना भोजरूपत्वात् तस्यां तदङ्गस्तु वासो नियतदेश इति तद्‌द्वारेणात्र देशेऽधिकरणम् । अत एव भाष्ये
`ग्रामे वंसस्त्रिरात्रमुपवसति' (M.Bha on P.1.4.48)
इति उपवासाङ्गस्य वासस्य ग्रामेण संबन्धो दर्शितो न तूपवासस्यैव साक्षात् । सा चात्र वसतिक्रियाङ्गभूतत्वादाक्षिप्तैवेति तद्‌द्वारेणेष्यते क्रियाकारकसंबन्धः । वसत्यङ्गा हि भोजननिवृत्तिर्नियतकाला उपवसेरर्थः । अतश्च ग्राम उपधसतीत्युक्तेऽङ्गभूतवसिक्रियापेक्षा देशस्याधिकरणता ।। 154 ।।
प्रधानभूतभोजननिवृत्त्यपेक्षा च कालस्याप्रयुज्यमानस्यापि कर्मता प्रतीयत इत्याह ।
वसतावप्रयुक्तेऽपि देशोऽधिकरणं ततः ।
अप्रयुक्तं त्रिरात्रादि कर्मं चोपवसौ स्मृतम् ।। 155 ।।
(150) भाष्य इति शेषः । श्रूयमाणोपवासक्रियासंबन्धानर्हत्वाद् ग्रामादिः सामर्थ्यप्राप्तायामप्रयुज्यमानामपि वसतिक्रियायामधिकरणम् । साधनं ह्यश्रूयमाणामपि योग्यां क्रियामाक्षिपति । तद्यथा प्रविश पिण्डीमिति भक्षिक्रियां कर्मं । अत्र च विशेषप्रतिपत्तिनिबन्धनाबावादव्यभिचरितसंबन्धा सामान्यरूपेण सत्ता प्रतीयते । यस्य च ग्रामाधिकरणा सत्ता ग्रामेऽसौ वसतीति वासं प्रत्यधिकरणं ग्रामादिर्देशोऽवतिष्ठते । श्रूयमाणाया तूपवसतिक्रियायां काल एवान्तरङ्गोऽधिकरणमित्यप्रयुज्यमानमर्येतद्योग्यत्वादाक्षिप्यते प्रवेशनक्रिययेव गृहम् । तत्र च साक्षादुपवसत्याधारे कृतार्था कर्मसंज्ञाङ्गभूतवसतिक्रियाद्वारायातमाधारं ग्रामादिदेशलक्षणं नावगाहते, प्रधानाप्रधानयोः प्रधाने कार्यंसम्प्रत्ययात् कारकाधिकारे च तमब्‌ग्रहणात् साक्षात्कारकशक्तीनां प्रकर्षो नाद्रियते, न तु क्रियासंबन्धनिमित्तान्तरङ्गबहिरङ्गभावानादरोऽन्यथा स्वव्यापारे स्वातन्त्र्यात् कर्मणः कर्तृसंज्ञा स्यात् । कर्मसंज्ञायाः सन्दर्शनादिभिरीप्सिततमायां क्रियायां तदा कर्मसंज्ञा देशेऽपि चरितार्था ग्राममुपवसति, अधितिष्ठतीत्यर्थः । अतश्च भोजननिवृत्त्यर्थतायामुपवसेः साक्षात्काल आधारः कर्मसंज्ञः, देशस्त्वभिसंहितोऽप्यङ्गभूतवसिद्वारेणैवाधारो न साक्षादिति स्थितम् । यस्तु निवृत्तिरूपत्वादुपवसेराधारेणासंबन्ध इति व्याचष्टे तस्य कालेनाप्याधारेणासंबन्धोऽत्र ,स्यात् । अस्ति च गतिनिवृत्तिवचनस्यपि तिष्ठतेराधारेण संबन्धः । सर्वव्यापारोपरमलक्षणस्य ग्रामे आस्ते इति निवृत्तेः क्रियान्तरमपार्तयन्त्याः क्रियात्वमविरुद्धभेव । कारकाणां हि प्रवृत्तिविशेषः फलानुमेयः क्रिया । स चात्र नियतकालभोजननिवृत्तिरूपः स्फुट एव । न चापि संकल्पविशेष एव मानसो व्यापारो निवृत्तिः । सन्दर्शनादीनां प्रधानक्रियया सह भेदाभावाद् युद्धाय संनह्यते इत्यादावेव भेदविवेक्षेत्युक्तम् । तथा चात्र संकल्पपूर्वकः कर्तृव्यापारो नियतकालव्यवधिना भोजनादिरूपो धातोरुपवसेरर्थः । क्रियात्मेत्यस्याधारसंबन्धे सत्यपि साक्षाद्देषलक्षणे नाधारेण संबन्धोऽङ्गभूतवसतिक्रियाद्वारेणायोगादिति नान्तरीयककालाख्याधारसंबन्ध एव कर्मसंज्ञाविधिरिति सिद्धम् ।। 155 ।।
इति भूतिराजतनयहेलाराजकृते प्रकीर्णप्रकाशे साधनसमुद्देशेऽधिकरणाधिकारः ।।
-------------
(151) इदानीं षष्ठ्यर्थः सप्तमः कारकभेदो विचार्यते । स च शेषलक्षणः संबन्धः । तस्य कथं कारकभेदत्वं कथं च शेषत्वमित्येतदुपपादयितुमाह ।
संबन्धः कारकेभ्योऽन्यः क्रियाकारकपूर्वकः ।
श्रुतायामश्रुतायां वा क्रियायां सोऽभिधीयते ।। 156 ।।
कारकेभ्योऽन्यः कर्मादिविशेषलक्षणेभ्यः षड्‌भ्योऽन्यो यः संबन्धः स शेष इत्युपयुक्तेतरवचनशेषशब्दाश्रयेण ।
"कारकणामविवक्षा शेषः" (M.Bha.on P.2.3.50)
इति भाष्यं व्याख्यातम् । `क्रियाकारकपूर्वकः' इत्यनेन कारकत्वं व्याचष्टे शेषस्य । तथा हि-राज्ञः पुरुषो वृक्षस्य शाखा पशोः पादः पितुः पुत्र इत्यादावश्रूयमाण क्रियाविषये स्वस्वामिभावावयवावयविभावजन्यजनकभावादौ संबन्धे ददातिस्थितिजन्यादिक्रियाप्रभाविते पूर्वभाविकारकत्वमुत्तरावस्थायामप्यनुगतमिति भवत्येव शेषः कारकम् । राजा हि पुरुषाय ददाति यतस्ततो राज्ञः पुरुष इति स्वस्वामिभावोऽवतिष्ठति । तत्र क्रियाकारकसंबन्धः कारणभूतः शेषसंबन्धस्तु फलभूतः । क्रियाकारकसंबन्धो हि वृत्तः स्वाश्रये शेषसंबन्धं फलं निवेश्योपरमते । तत्र पूर्वं कर्तृसंप्रदानरूपौ राजपुरुषाभूताम् । शेषसंबन्धकाले तु कर्त्रादिविशेषरूपतानवगम इति तच्छेषभूतं सामान्यं कारकत्वमवतिष्ठते । करणादिसाधनभेदोपाख्यानिमित्ताभावात् । कारकेभ्योऽन्यः कारकाणामविवक्षा शेषः । कारकपूर्वक इत्यत्र च कारकत्वैकार्थसमवायिनः करणादयः साधनभेदाः कारकशब्देनोच्यन्ते, न तु कारकसामान्यमपि । द्रव्याणां हि सिद्धस्वभावानामयः शलाकाकल्पनानां परस्परसंबन्धाभावात् क्रियाकृत एव सः । क्रिया हि निःश्रयणीव द्रव्याण्युपश्लेषयति । तथा च भाष्यम्---
"प्रातिपदिकार्थानां क्रियाकृता विशेषा उद्भवन्ति कर्म करणमित्यादि"
(cf M.Bha.on P.2.3.50)
तत्र कर्मादिरूपव्यिरेकेणान्यस्य विशेषस्यादृष्टः शेषाख्यः संबन्धः कर्मादिरूपोऽवतिष्ठमानोऽनुभूतकर्मादिविशेषे स्वाधारे पदमुपनिबध्नन्नविविवक्षितकर्मादिभेदरूपमात्मानमुद्दर्शयति । ततश्च राजपुरुषयोर्वर्तमाने दातृत्वसम्प्रदानत्वे एव फलावस्थायामनुद्रिक्तस्वस्वरूपे सामान्यरूपेण संबन्ध इति व्यपदेशमर्हतः । तथा चानुल्लिङ्गितविशेषरूपा सप्तमीयं कारकयोनिः परिगण्यते, शब्दार्थसम्प्रत्ययभेदात् । अन्यो हि सम्प्रत्ययो राजा पुरुषाय ददातीति । न ह्यस्मान्नियमेन स्वस्वामिभावनिमित्तं दानं प्रतीयते । करणादिनापि निमित्तेन दानसंभवात् । अन्यस्तु राज्ञः पुरुष इति, स्वस्लामिभावावगमात् । अतश्च प्रतीतिभेदादन्यत्वे सिद्धे कर्मादिविशेषेणेव शेषाख्येनाप्यनेन प्रातिपदिकार्थो भिद्यमानोऽभिधीयते । तदयमश्रूयमाणक्रियाविषयः संबन्धः स्वस्वामिभावादिनिमित्तानां दानादिक्रियाणामश्रुतेः । संबन्धलक्षणकार्यान्यथानुपपत्त्यानुमीयमानाश्च दानादिक्रियाः संनिहिता एवेति तन्मुखेन समन्वयोपपत्तिः संबन्धिनोः फलस्यापि च संबन्धस्य क्रियानिमित्तत्वं कारकत्वनिबन्धनमस्त्येव कर्मण इवेति सर्वमुपपद्यते । ग्रामस्य समीपादागच्छति, वृक्षस्य पर्णं पतति, इत्यादावप्यस्त्येव समीपसमीपिभावादौ संबन्धे क्रियाकारकपूर्वकत्वम् । समीपस्य हि ग्राम आश्रयः एवं पर्णस्य वृक्ष इति । अयमेव सर्वत्र न्यायः । आगमनादिक्रियां प्रति तु ग्रामादेरकारकत्वमुच्यते । श्रूयमाणक्रियाविषयस्तु संबन्धः कारकभेद एव, अविवक्षितकर्मादिविशेषः संबन्धसामान्यस्वभावः क्रियाकारकसंबन्ध एव स इति न तत्पूर्वकः । तद्यथा नटस्य शृणोतीत्यादि । करणादिसंज्ञानामत्र निमित्ताभावादप्रवृत्तेः । दुह्यादिपरिगणनाच्चाकथितकर्मत्वाभावात् । कारकेभ्योऽन्योऽयं शेषः कारक एव । तथा चोपयोगग्रहणमर्थवदित्युक्तम् । एवं मातुः स्मरति, न माषाणामश्नीयात्, सर्पिषो जानीत इत्यादौ कर्मादिकराकभेद एवाविवक्षिततद्रूपः शेष इत्युक्तम् । अत्र च शेषे षष्ठीविभक्तिरुक्ता । संबन्धस्य द्विष्ठत्वाच्च द्वाभ्यामपि संबन्धिभ्यां षष्ठीप्रसङ्ग इति चोदितम्---
"षष्ठी शेष इति चेद्विशेष्ये प्रतिषेधः (Va on P.2.3.50)
इति । राज्ञः पुरुष इति पुरुषशब्दादपि षष्ठीप्रसङ्गे प्रतिषेधः कार्य इत्यर्थः । संबन्धस्य चोद्भूतत्वात् प्रथमा विशेष्यान्न प्राप्नोतीति सापि विधेयेत्युक्तम्---
"तत्र प्रथमाविधिः"(Va on P.2.3.50)
इति । अत्रोभयत्रापि परिहाराय
"उक्तं पूर्वेण" (M.Bha. on the above two vartikas)
इत्यभिहितम् । प्रातिपदिकार्यसूत्रे
"पटसामानादिकरण्य उपसंख्यानमधिकत्वात् "(Va on P.2.3.46)
इति चोदिते
"न वा वाक्यार्थत्वात् (Va on P.2.3.46)
इत्युक्तम् । तदेवात्रातिदेसायानूदितम् । राज्ञ इत्येतत्‌पदसमन्यवयवशेन पुरुषस्य संबन्धित्वमवगम्यत इति वाक्यार्थोऽत्र संबन्धोऽन्तरङ्गे पदार्थमात्राश्रये संस्कारे निमित्तं न भवति, बहिरङ्गत्वादिति वीरः पुरुषो नीवमुत्पलमित्यादिवदत्र षष्ठ्यभावः प्रथमा च सिद्धेत्यर्थः । यद्येवं राजशब्दादपि वीरादिशब्दादिवानेन न्यायेन षष्ठी न स्यात् । प्रथमा च स्यात् । नैतदस्ति विशेष्यगतस्यैवाधिक्यस्य वाक्यार्थत्वात् । तद्धि प्रधानं प्रथममजहत्स्वरूपमेवोपकार्यतामपेक्षिते गुणे समापद्यत इति तस्यैवाधिक्यं वाक्यार्थः कथ्यते । गुणस्य तु प्रधानोपकाराय प्रवर्तमानस्य स्वात्मप्रतिष्ठत्वोपकारकत्वासंभवादुपक्रम एव प्रधानोपयोगक्षमं संबन्धिसामान्यापेक्षया रूपान्तरं विपरिवर्तते । तदुक्तं भाष्ये---
"अर्थरूपमेवैतदेवंजातीयकम्"...(M.Bha on P.2.3.50)
इति । तथा च गुणाच्छेषषष्ठी न्याय्या । समानाधिकरणं तु विशेषणं नीलादि प्रधानेनोत्पलादिना सहैकात्म्यमिबापद्यमानं न व्यतिरेकं भजत इति न तत्र षष्ठी भवति ।। 146 ।।
एतद्वस्तुसतत्त्वं प्रतिपादयति---
द्विष्ठोऽप्यसौ परार्थत्वाद् गुणेषु व्यतिरिच्यते ।
तत्राभिधीयमानः सन् प्रधानेऽप्युपभुज्यते ।। 157 ।।
(152) द्विष्ठः एकः संबन्धः । तत्र चैकैव षष्ठी न्याय्या । षष्ठीद्वये संबन्धद्वयं प्रतीयेत । सा चैकैव षष्ठी भवन्ती गुणादेव भवति न प्रधानात् । यस्मादसौ संबन्धो द्वयोरपि संबन्धिनोः स्थितः, तयोर्गुणप्रधानभावेनैकवाक्यत्वात्, प्रधानानुरोधित्वाद् गुणानामेव रूपपरिवर्तनस्यौचित्यात् तत्रैव फलतीति गुणादेव संबन्धकार्या षष्ठी न्याय्या । तथा हि गुणेषु व्यतिरेकमाधिक्यं दर्शयति संबन्धः । प्रधानं तु स्वरूपादप्रच्यवमानमेव संबन्धमनुभवति । एवं हि तस्य प्राधान्यं भवति यदि गुणानुरोधेन रूपपरिवर्तनं नासादयति । गुणाश्रयतया च संबन्धस्याभिधाने षष्ठ्या प्रधानगतमपि रूपमुपभुक्तं स्पृष्टमेवाभिहितमेवेत्यर्थः । एतत्तदुच्यते प्रधानगतस्याधिक्यस्य वाक्यार्थत्वं गुणसंबन्धेन प्रतीतेः । परस्परसाकाङ्क्षस्य पदसमूहस्य वाक्यत्वात् । राज्ञ इति हि स्वामित्वमवगम्यमानमन्यतानुपपत्त्या पुरुषेऽपि स्वत्वलक्षणमतिरेकमावेदयते । तथा च पुरुषादन्तरङ्गात् प्रथमैव भवतीति बहिरङ्गस्य संबन्धस्य पदान्तरसमन्वयान्यथानुपपत्त्यैव गमितत्वात् प्रातिपदिकार्थ एवाधिकास्याननुप्रवेशात् । यदा तु विशेषणविशेष्यभावे कामचारात् पुरुषस्य राजेत्युच्यते तदा गुणात् पुरुषादेव षष्ठीति न व्यभिचरति लक्षणम् ।। 157 ।।
उक्तमिदं क्रियाकारकपूर्वकः संबन्ध इति । तत्र क्रियाकारकसंबन्धोऽस्य निमित्तम् , स च फलभूतात् संबन्धादनुमीयमानो न विशेषेणानुमातुं पार्येत, अपि तु सामान्येन, एवंस्वभावत्वादनुमानस्येति कुतोऽयं विशेषावसाय इत्याह---
निमित्तनियमः शब्दात् संबन्धस्य न गृह्यते ।
कर्मप्रवचनीयैस्तु स विशेषेऽवरुध्यते ।। 158 ।।
(153) पितुः पुत्रः, पशोः पाद इत्यादौ संबन्धिस्वरूपविशेषावधारणादेव नियतस्थितिजननादिक्रियाप्रभावितत्वं संबन्धस्य प्रतीयते । राजपुरुष इत्यादौ तु याञ्चाविनिमयापहारप्रभृतिभिरपि स्वस्वामिभावस्य संभवादाद्यद्यपि नियमनिमित्तत्त्वं नावधार्यते तथापि दानादीनामन्यतमाविनाभावात् क्रियानुमीयत एव संबन्धिस्वरूपादिति नायं कर्मप्रवचनीयविषयः । क्वचित्तु शब्दसामर्थ्यान्निमित्तविशेषो नावधार्यते । निमित्तसामान्यावधारणं तु । सोऽयमेवंविधो विषयः कर्मप्रवचनीयानाम् । तैरन्वादिभिर्निमित्तनियमेनावच्छिद्यते संबन्धथः । तथा हि शाकल्यस्य संहितामनु प्रावर्षदित्यत्र संहिताप्रवर्षणयोर्हेतुहेतुमद्भावो निशमयतिक्रियाजनित इत्यनुनावेद्यते । तथा क्रिययास्यान्यत्रानुनिशम्येत्यादौ साहचर्योपलब्धेः कर्म प्रोक्तवन्त इति च कर्मप्रवचनीयेषव्तिक्रान्तक्रियाप्रकाशनाङ्गीकारात् संप्रति क्रियामयं न द्योतयति । क्रियापदस्य चाश्रुतेः द्योत्याभिधायकाभावे तन्निष्ठद्योतकत्वाभावात् । स्वरूपेण तु संबन्धो विभक्‌त्यैव प्रतिपाद्यते इति नापि तद्वाचकः । क्रियापदाक्षेपे तु नास्य सामर्थ्यंम्, कारकविभक्‌त्यभावादिति संबन्धविशेषावद्योतकत्वं स्थापितं कर्मप्रवचनीयानाम् । तदुक्तमनन्तरकाण्डे
"क्रियाया द्योतको नायं न संबन्धस्य वाचकः ।
नापि क्रियापदाक्षेपी संबन्धस्य तु भेदकः ।।
इति । एवमपि "अधि ब्रह्मदत्ते पञ्चालाः" इति परिपालनादिक्रियानिमित्तत्वं स्वस्वामिभावस्याधिनावेद्यते । "अभिमन्युरर्जुनतः प्रति" इति परपराजयनादिक्रियाकृतोऽनुकार्यानुकरणभावोऽर्जुनाभिमन्य्वोः संबन्ध इति प्रतिना प्रकाश्यते । एवमन्यत्रापि यथायोगमनुगन्तव्यम् । तदयमश्रुतक्रियाविषये संबन्धे कर्मप्रवचनीयानां महिमा । श्रुतक्रियाविषये तु श्रूयमाणैव क्रिया नियतं निमित्तमवधार्यत इति ।। 158 ।।
तत्र त्विदं विचार्यते । शेष इत्येवं सिद्धायां षष्ठ्यां `अधीगर्थ' इत्यादिना पुनर्विधानं किमर्थम् । `कर्मणि शेषे' इति च सामानाधिकरण्येन विशेषणानुपपत्तिः (कर्मत्वविवक्षायां हि न शेषः, कारकाणामविवक्षा शेष इत्युक्तेः । फलभूतशेषविवक्षायां च तिरोहितत्वात् कर्मत्वस्येत्याशङ्क्याह---
साधनैर्व्यपदिष्टे च श्रूयमाणक्रिये पुनः ।
प्रोक्ता प्रतिपदं षष्ठी समासस्य निवृत्तये ।। 159 ।।
(154) कर्मादीनि साधनानि शेषस्य व्यपदेशार्थान्यत्रोपादीयन्ते न तु स्वार्थम् । शेषे षष्ठी । कस्मिन् शेषे । कर्मणि करण इति वा भूतावस्थागतकर्मत्वादिरूपाश्रयेण शेषस्य विशेषणात् कर्माद्येकार्थसमवायिनि फलभूते शेष इत्यर्थोऽवतिष्ठते । तथा च विशेषणोपपत्तिः । षष्ठी तु सिद्धापि प्रतिपदमधीगर्थेत्यादिना नियतविषयतया विधीयते, पुनर्विधानेन समासो यथा निवर्त्येतेति । पुनः श्रुतिर्हि नियमार्था । तथा च षष्ठ्येव भवतीति वाक्यार्थः । नियमे चान्यनिवृत्तिः प्रधानम्, अन्यश्च प्रतियोगी व्यवच्छेद्यः । स चात्र षष्ठ्याभावः स च समासे भवतीति सामर्थ्यात् समासनिषेधोऽयमवतिष्ठते । तदेतदुक्तम् प्रतिपदविधाना षष्ठी न समस्यते इति । सूत्रव्यापार एवानेन वार्तिकेन नापूर्वोऽर्थः । क्व पुनरयं समासप्रतिषेधः । यत्र समासस्य प्राप्तिः । क्व च प्राप्तिः । सुबन्तेषु मातुः स्मृतमिति ।। 159 ।।
तथा ह्यत्र ।
निष्ठायां कर्मविषया षष्ठी न प्रतिषिध्यते ।
शेषलक्षणया षष्ठ्या समासस्तत्र नेष्यते ।। 160 ।।
(155) कृद्योग च षष्ठी समस्यत इत्युक्तम् । तथा च
"कर्तृकर्मणोः कृति"(P.2.3.69)
इति या षष्ठी तत्र भवत्येव समासः `धर्मानुस्मरणम्, अर्थानुस्मरणम्' इत्यादौ । न ह्येष षष्ठ्या नियमः `कर्तृकर्मणोः कृति' इति पुनः कर्मग्रहणाच्छेषग्रहणस्य निवृत्तेरित्यपूर्वविधानमिदम् । तेन षष्ठ्येवेति षष्ठीनियमद्वारेण समासप्रतिषेधमावेदयते । मातुः स्मृतमित्यादौ निष्ठाप्रयोगे
"न लोकाव्यय".....(P.2.3.69)
इत्यादिना `कर्तृकर्मणोः कृति' इतीयं षष्ठी निषिद्धेति
"अधीगर्थदयेशां कर्मणि"(P.2.3.52)
इत्यनेनैव कर्मणि शेषत्वेन विवक्षिते षष्ठीति सामान्येन सिद्धायां पुनर्विधानात् समासप्रतिषेधार्था विज्ञायते । ननु च
"क्तस्य च वर्तमाने" (P.2.3.67)
"नपुसके भाव उपसंख्यानम्" (Va on P.2.3.67)
इत्यनेनात्र षष्ठी । नैतत् ।
"शेषविज्ञानात् सिद्धम्" (Va on P.2.3.67)
इत्यस्य प्रत्याख्यानात् शेषषष्ठयेवेयम् । पुनर्विधानेन समासाभावं ज्ञापयति । एवमपि मातुः स्मृतमिति प्रयोगानुपपत्तिः । स्मरतेः सकर्मकत्वात् कर्मणि निष्ठाप्रसङ्गान्मातृसामानाधिकरण्यान्माता स्मृतेति स्यात् । संबन्ध्यन्तरापेक्षायां तु मातुः स्मृताया इति प्रयोगो न्याय्यः । सत्यमेतत् ।
"कर्मादिष्वकर्मकवद्वचनम्"
इति तूक्तम् । तथा चात्राकर्मकवद्भावे क्तप्रत्ययान्तेन कर्मणाभिधानाच्छेषविवक्षायां तत्र षष्ठी पुनर्विधीयमाना समासप्रतिषेधस्य सम्पद्यत इति स्थितमेतत् । एवं
"ज्ञोऽविदर्थस्य करणे"(P.2.3.51)
इत्यादौ प्रतिपदविधाने सर्पिषो ज्ञानं मधुनो ज्ञानमित्यादिः समासप्रतिषेध उदाहार्यः । ननु चात्र समासे कृते संबन्धमात्रं प्रतीयते, न तु करणपूर्वकः संबन्ध इति विग्रहवाक्यार्थाभिधाने सामर्थ्याभावादत्र समासो न भविष्यतीति किमनेन यत्नेन । नैतदस्ति । वाक्येऽपि न शाब्दः संबन्धविशेषावसायः, सादृश्यात् । तथा हि कर्मषष्ठ्यामपीदृशमेव वाक्यम् । तत्र यथार्थप्रकरणादिना जानातेर्विदर्थत्वसंप्रत्यये कर्मषष्ठ्या भवति समासः तत्त्वज्ञानं वर्णज्ञानमित्यादौ । तथा च सर्पिषो जानामीत्यत्रापि प्रकरणादेरविदर्थत्वसंप्रत्यये करणषष्ठ्या अपि भवेत् समास इति शेषग्रहणानुवृत्त्याऽत्रापि पुनर्विधानमाश्रित्य परिहरणीयः स इति स्थितम् । विभक्तिविधानस्य स्वादिविधिनैकवाक्यत्वेऽप्यवयवववाक्यानां स्वव्यापारस्य निवृत्तेः प्रतिपदविधानत्वे न काचिदनुपपत्तिः ।। 160 ।।
द्विष्ठः संबन्धो गुणेषु व्यतिरिच्यत इत्युक्तम् । गुणप्रधानभावस्य चैकत्र विरोधात् भाष्य उक्तम्---
"न तर्हीदानीमिदं भवति राज्ञः पुरुषस्येति'(M.Bha on P.2.3.51) इति । तत्र प्रतिसमाधानमुक्तम् ---
"भवति बाह्यमर्थमपेक्ष्य " (M.Bha on P.2.3.51)
इति । एतद्भाष्यं व्याचष्टे ।
अन्येन व्यपदिष्टस्य यस्यान्यत्रोपजायते ।
व्यतिरेकः स धर्मौ द्वौ लभते विषयान्तरे ।। 161 ।।
(156) राज्ञः पुरुषस्य कम्बल इत्यादौ राज्ञा विशेषणेन व्यपदिष्टस्य विशेष्यतया ज्ञापितस्य पुरुषस्य प्रधानभूतस्य अन्यत्र कम्बलादौ प्रतियोगिनि प्रधाने व्यतिरेक आधिक्यं संबन्धो जायते इति स भिन्निविषयौ गुणप्रधानभावलक्षणौ द्वौ धर्मौ प्रतिपद्यते । `व्यपदिष्टस्य' इति भूतकालेपादानेन संबन्धिद्वययौगो भिन्नकालगुणप्रधाननिमित्तो न विरुध्यत इत्याह ।। 161 ।।
ततश्च ।
प्राधान्यं स्वगुणे लब्ध्वा प्रधाने याति शेषताम् ।
सहयोगे स्वयोगेऽतः प्रधानत्वं न हीयते ।। 162 ।।
(157) अतो विषयभेदाद्धेतोः पुरुषस्य राजानं संबन्धिनं प्रति प्राधान्यं न निवर्तते । स्वस्मिन् हि तत्र गुणेऽप्रधाने राजलक्षणे प्राधान्यं पूर्वमेव तेन लब्धम् । कम्बलादौ त्वपरस्मिन् प्रधाने शेषभावं गुणत्वं यातीति तत्र स्वस्य कम्बलादेर्योगे पूर्वप्रतीतं प्राधान्यं नावगच्छति, विषयभेदात् । गुणप्रधानभावस्यैकत्राविरोधादित्यर्थः । `सहयोगे' इति प्रसङ्गान्निदर्शनमभिन्नयोगक्षेममाह ।
"सहयक्तेऽप्रधाने"(P.2.3.19)
इत्यनेनाप्रधानात् तृतीया विधीयते पुत्रेण सहागत इति । तत्र पुत्रो देवदत्तस्येति यथा विशेष्यमाणस्तदपेक्षया प्रधानमप्यागमने सहार्थसामर्थ्यादागतसंबन्धादनुमीयमानागमनसंबन्धोऽप्रधानमिति भवति ततोऽप्रधानलक्षणा तृतीया । तथा पुरुषो राजापेक्षया प्रधानमपि स्वविशेष्यापेक्षयाप्रधानत्वाद्राज्ञः पुरुषस्य धनमिति षष्ठीं प्रतिपद्यत इति सिद्धम् ।। 162 ।।
इति भूतिराजतनयहेलाराजकृते प्रकीर्णकप्रकाशे साधनसमुद्देशे शेषाधिकारः ।।
--------------
(158) एवं तावत् कारकात्मा विभक्‌त्यर्थो विचारितः । प्रथमा तु
"अभिहिते प्रथमा"(M.Bha on 2.3.46)
इत्येवं कैश्चिद् विहिता । तिङादिभिरभिहिते कर्मादौ कारके प्रथमा । पच्यते ओदनः, मांसपचनो वन्हिः, गोध्नोऽतिथिः, प्रस्कन्दनः स्तंभः , निशा नीशाणा, पचति देवदत्तः इति यथाक्रमं कर्मादिकर्तृपर्यन्तकारकाभिधानं तिङादिनोदाहृतम् । कृतः कट इति कृता कर्माभिधानम्, औपगव इति तद्धितेन संबन्धाभिधानम्, चित्रगुरिति समासेन । राज्ञः पुरुष इत्यत्र परस्परापेक्षयोः संबन्धमात्रे वाक्यपर्यवसानेऽन्यतरपदनिबद्धया षष्ठया द्विष्ठसंबन्धाभिधाने परस्मादभिहितलक्षणैव प्रथमा । अत्र तु लक्षणे चोदितम्-
"अस्तिर्भवन्तीपरः प्रथमपुरुषोऽप्रयुज्यमानोऽप्यस्ति"
(M.Bha on the above Varotika.)
इत्युक्तः । क्रियानुषङ्गमन्तरेणाव्यवहार्यः पदार्थ इति सामान्यरूपाव्यभिचरितसंबन्धा सर्वत्रास्तिक्रिया सन्निधीयत इति वृक्षोऽस्तीति वाक्यप्रयोगादभिहिते तिङा कर्तरीयं प्रथमा । तदुक्तं भाष्ये---
"न सत्तां पदार्थो व्यभिचरति"
इति । ्वधृतपदार्थाधिकरणत्वाच्छब्दप्रयोगस्यावधारणस्य च सत्तापेक्षत्वादुपचारसत्तासमाविष्टः सर्वः पदवाच्योऽर्थ इत्यर्थः ।
तथा च प्रागुक्तम्
प्रवृत्तिहेतुं सर्वेषां शब्दानामौपचारिकीम्
एतां सत्तां पदार्थो हि न कश्चिदतिवर्तते ।।
इति । नास्ति बध्यते नीयते इत्याद्यनुषङ्गोऽपि निरूपुतस्य सतो भवति इत्यौत्सर्गिकी सर्वत्रेयं सत्ता ।। तथा च विरोधिभिरविरोधिभिश्च धर्मैरेतस्यामवस्थित एव शब्दः समन्वेतीति प्रागेवोक्तं तत्रैव च निर्णीतम् । एवमपि
"अभिहितानभिहिते प्रथमाभावः"(Va on P.2.3.46)
इति चोदितम् । `प्रसाद आस्ते' इत्यादावासिक्रियापेक्षयाधिकरणशक्तिर्नाभिहिता । सदिक्रियापेक्षया त्वभिहिता कृता । ततश्चाभिहितलक्षणा प्रथमा प्राप्नोति । तथा `फलिता वनस्पतयः', `तारस्वराः परभृताः' इत्यादौ समानाधिकरणसंबन्धे प्रातिपदिकार्थव्यतिरेकाभावान्न किंचित् केनचिदभिहितमित्यभिहितलक्षणा प्रथमा न स्यात् । `उच्चैः' `नीच्चैः' िति चास्तिपदाध्याहारेणाधिकरणशक्तिप्रधानस्याव्ययस्यासंबधान्न केनचिदभिधानमिति कथं प्रथमा एवं
"तिङ्‌समानाधिकरणे प्रथमा"(M.Bha on P.2.3.46)
इत्येतदप्यनेनैव दृष्टान्तेन लक्षणमलक्षणम् । अपरमप्यत्र द्‌षणमुक्तम्---
"शतृशानचोष्च निमित्तभावातिङोऽभावस्तयोरपवादत्वात्"
(Va on P.2.3.46)
इति । इह विभाज्यान्वाख्यानपक्षे देवदत्त पचू ल्‌ इति स्थिते यावत्तिङ उत्पत्तिर्नास्ति तावत् तिङ्‌समानाधिकरणत्वाभावात् प्रथमा न प्राप्नोति । तथा च देवदत्तशब्दादविसेषविहिताः सर्वे स्वादयः स्थिता इति लटः स्थाने द्वितीयाद्यन्तपदसामानाधिकरण्ये विधीयमानौ शतृशानचौ प्राप्नुतोऽपवादभूतौ, न तु तिडः । तेषां तु लिडादिरवकाशो भवेत् । स एव च प्रथमाया अपीति `पचति देवदत्तः' इति लट्‌समानाधिकरणः प्रयोगः प्रथमान्तो न स्यात् । तदेवं लक्षणान्तरे प्रत्याख्याते
`प्रातिपदिकार्थलिङ्गपरिमाण....(P.2.3.46)
इत्याद्याचार्यीयमेव लक्षणं न्याय्यमवस्थापितम् । तत्र विचार्यते । ङ्याप्‌प्रातिपदिकस्य स्वादिप्रकृतित्वेन विज्ञातत्वात् प्रातिपदिकस्यैवार्थ इति लब्धेऽर्थे विशेषणं प्रातिपदिकग्रहणं नोपयुज्यते । तथा च तदसंयुक्तमेवार्थशब्देन । अनर्थकात् प्रथमां विधातुम् `अध्यागच्छति, पर्यागच्छति' इत्यनर्थकस्यापि निपातस्य प्रातिपदिकसंज्ञोपसंख्याता । यद्येवं संज्ञासामर्थ्यात् प्रथमा भविष्यति । न हि विभक्तिविधानादन्यप्राति प्रदिकार्यस्यात्र संभवः । किं च
अधिपरी अनर्थकौ (P.1.4.93)
इति । गतिसंज्ञाबाधनार्थात् कर्मप्रवचनीयसंज्ञाविधेर्लिङ्गादर्थवत्कृतमेषां भवतीत्यनुमीयते । अन्यथा क्रियाविशेषद्योतकत्वाभावे गतिसंज्ञाप्राप्तिरेव न स्यात् । स्वादिविधाने भिन्नवाक्यतापक्षेऽविशेषेणोत्पद्यमानाः स्वादयः सिद्धा एव । अत्रैकवाक्यतापक्षेऽपि प्रत्ययनियमे प्रकृतापेक्षत्वान्नियमस्य कर्मण्येव द्वितीया न तु करण इत्यनर्थकादव्यावृत्तिरेव । अर्थनियमो वाश्रयणीयः कर्मणि द्वितीयैवेत्यादिः । एवं च कृत्वाल्ययेभ्यो निःसंख्येभ्यः स्वादयो विद्यन्त इत्युच्चैर्नीचैरित्यप्यत्र नोदाहृतम् । अव्ययाल्लुग्वचनमप्यत्र ज्ञापकमस्ति । क्रमव्यतिक्रमे च प्रयोजनाभावात् पाठक्रमायाता प्रथमैवात्र । तस्मादर्थविशेषण मेव प्रातिपदिकग्रहणम् । सामर्थ्यवलब्धमपि व्याष्त्यर्थं प्रातिपदिकमात्रार्थे प्रथमां विधत्ते, नाव्ययादेव । तत्र प्रातिपदिकसामान्येन विशेष्यमाणोऽर्थः सत्तेति केचिदाहुः । सा हि सर्वत्रार्थेष्वव्यभिचरितसंबन्धा प्रथमं प्रतीयमाना विभक्‌त्यादिसंबन्धनिरपेक्षस्य प्रातिपदिकमात्रस्यार्थ इति व्यवस्थाप्यते । कल्पितान्वयव्यतिरेकवशेन हि शास्त्रीयार्थ निर्णयः । तत्र च शुद्धस्य प्रातिपदिकस्य वृक्षं वृक्षेणेत्यादौ विभक्‌त्यर्थानुगमेऽपि सत्तामात्रानुगमात् तदर्थनिश्चयः । निरधिकरणा च सत्ता न संभवतीति द्रव्याधिकरणैव तदर्थः तावति हि निरपेक्षः शब्दः । लिङ्गादौ प्रत्ययापेक्षणान्मात्रग्रहणाच्चेहेयानर्थो व्यवस्थाप्यते । ततश्च पंचकपक्षेणास्याविरोधः । येनाप्युक्तं प्रातिपदिकार्थः सिद्धतेति तेनापि नामपदानामाख्यातपदवैलक्षण्येन सिद्धस्वभावार्थाभिधायित्वमुक्तं न तु साधसंपाद्यता सिद्धतास्याभिप्रेता । येन शब्दान्तरप्रयोगसमधिहम्यत्वात्तस्याः प्रातिपदिकमात्रार्थता न भवेदिति चोद्येत । धर्ममात्रे च शब्दस्य विश्रान्त्यभावान्निमित्तेनात्मरूपतामापादितो निमित्ती प्रातिपदिकार्थ इति केचित् स्फुटमेवाचक्षते । निमित्तं जातिगुणक्रियाः निमित्ती तदाश्रयः समावयवशात् तिरोहितरूप एव । अत एव निमित्तेनात्मरूपतामिवापादित इत्युच्यते । न तु भावतो रूपान्तरापत्तिरत्र विवक्षिता । तदाच्छुरणमात्रं तु तथैवाध्यवसायात् । न चात्र विरम्य व्यापारः उपाध्युपरक्तस्यैव द्रव्यस्य शब्दात् प्रतीतेः । न तु प्रतिपाद्य प्रातिपदिकाच्छुद्धं द्रव्यं पश्चादुभ्दूतं लिङ्गादिविशेषं प्रतीयते । एवं ह्येकपदोपात्तेनापि तेनापत्यादिनेव प्रातिपदिकार्थो व्यतिरिच्येत । न चैवम् तस्माद्विशिष्टस्यैवार्थस्य प्रातिपदिकवाच्यत्वाल्लिङ्गोपरक्तस्यापि प्रातिपदिकार्थत्वात् मात्रग्रहणादधिकव्युदासे कुमारी वृक्षः कुण्डमिति लिंगग्रहणस्योदाहरणं दत्तम् । यथा हि कर्माधिके प्रातिपदिकार्थे प्रथमा न भवति मात्रग्रहणात् संबोधने प्रथमाविधेश्च लिङ्गात् तथा लिङ्गाधिकेऽपि न स्यादिति लिङ्गग्रहणं क्रियते । परिमाणग्रहणं प्रस्थादीनां परिच्छेदकनिमित्तस्तद्वत्यभेदेन प्रयोगः साधुर्यथा स्यादिति , प्रस्थः परिमाणमेषां व्रीहीणां प्रस्थो व्रीहयः खारी आढकमिति । सोऽयमित्यबेदोपचारे दि भेदावहानां मानमेयसंबन्धो न प्रतीयते । आनन्तर्यादिसंबन्धान्तरमपि वा प्रतीयेतेति परिमाणाधिके प्रातिपदिकार्थे मानमेयसंबन्धनिमित्ताबेदोपचाराभिव्थक्त्यर्थं प्रथमा विधीयते । असति तु प्रथमाविधानेष?स्मिन्
`तदस्य परिमाणम्'(P.5.1.57)
इति योगाविभागात् तद्धितः, पक्षे वाक्यं स्यात् । इदानीं तु वचनसामर्थ्यात् त्रयमपि भवति । तदेतत् वक्ष्यति---
मानमेयादिसंबन्धविशेषेऽङ्गीकृते तथा ।
प्रस्थादीनामसाधुत्वं तद्धितेन विना भवेत् ।।
तद्धितो योगभेदेन वाक्यं वा स्याद् विभाषितम् ।
परिमाणाधिके तत्र प्रथमा शिष्यते पुनः ।
इति । क्रियानिमित्तस्य चात्र परिमाणशब्दस्याश्रयणादुन्मानादेरपि ग्रहणम् । शुक्लादीनां मतुब्‌लोपात्तद्धितवृत्तावभदविवक्षायामेव प्रातिपदिकग्रहणादेव प्रथमासिद्धिः । एवं विंशत्यादीनां गुणिनिवृत्तौ । वचनशब्देन पूर्वाचार्यप्रसिद्धया सङ्क्योच्यते । तेन संख्यायामभिहितायामपि प्रथमानेन विधीयते । तद्यथा एको द्वौ बहवः । द्वितीयादयस्तु यथायथं कर्मादिष्वेभ्यः सिद्धाः । कर्मादिविशिष्टानामेकत्वादीनामेतैरप्रत्यायनात् । मात्रशब्दोऽवधारणार्थ इति कर्मादिविशिष्टे प्रथमा न भवति । तत्र वा द्वितीयादयो बाधकाः । संबोधनविशिष्टे प्रथमाविधानाद्वा लिङ्गात् कर्माद्यधिके तदभावसिद्धिः । न ह्यतिरेकवति प्रातिपदिकार्थे प्रथमाया भावे संबोधने विधिरुपपद्यते, अनेनैव सिद्धत्वादिति मात्रग्रहणं प्रत्याख्यातम् । मीयतेऽनयेति मात्रा संख्या । तस्याः समाहापद्वंद्वेन निर्देशः । तत्र संख्वायामभिहितायामेकादिभ्यो यथा स्यादिति मात्रग्रहणस्य प्रयोजनं वचनग्रहणेनैव सिद्धमिति ।
"अन्यतरच्छक्यमवक्तुम्" (M.Bha on P.2.3.46)
इत्युक्तं भाष्ये । साकल्यार्थं तु मात्रग्रहणं परिमाणशब्दस्य रूढित्वाशंकापनोदनेनोन्मानादिग्रहणार्थमिति केचित् । अवधारणार्थत्वेन स्थिते मात्रशब्दे
"पदसामानाधिकरण्ये उपसंख्यानमधिकत्वात् " (Va. on P.2.3.46)
इत्युक्तम् ।
"न वा वाक्यार्थत्वात्"(Va on P.2.3.46)
इति । चात्र परिहारोऽभिहितः । अनपेक्षितेतरेतरपदार्थसमन्वयव्यतिरिक्त एव प्रातिपदिकार्थे प्रथमाविधिर्वीरः पुरुष इत्यादावित्यर्थः । तदेवं यथान्यासमेव प्रथमाविधिर्युक्तः ।
(159) संबोधनेऽपि प्रथमोक्ता । तत्र च संबोधनरूपं व्याचष्टे ।
सिद्धस्याभिमुखीभावमात्र संबोधनं विदुः ।
प्राप्ताभिमुख्यो ह्यर्थात्मा क्रियासु विनियुज्यते ।। 163 ।।
परिसमाप्तरूपस्य पदार्थस्य क्रियायां विनियोगार्थं यदभिमुखीकरणं तावन्मात्रं संबोधनं प्रातिपदिकार्थाधिकं रूपम् । मात्रग्रहणेन कर्मादिसाधनरूपतां संबोधनस्यापावर्तयति । य एव हि गमनादौ नियुज्यते कर्ता स एवाभिमुखीकृतः संबोधनाधिकः । अभिमुखीकृतस्य च नियोगोत्तकालं क्रियासाधनात् परम्परया क्रियापकारकता मनुभवति संबोधनं न तु साक्षात्कारकम् ।। 163 ।।
क्रियापक्षेऽपि संबोधने विशेषणविशेष्यभाववद् वाक्यार्थता नास्ति, अपि तु कर्मादिसाधनवत् पदार्थत्वमेवेत्याह ।
संबोधनं न वाक्यार्थ इति वृद्धेभ्य आगमः ।
(160) निश्चायकं प्रमाणम् आगमः । इतरपदनैरपेक्ष्येण संबोध्यतावगतेः पदार्थ एव संबोधनं क्रियाकाङ्क्षित्वेऽपि । तद् यथा कर्मादीनां नानपेक्षितक्रियाणां साधनत्वमवकल्पते इति समाश्रयितव्या क्रिया न चातो वाक्यार्थंत्वम्, एवं संबोधनस्यापि । गम्यमानक्रियं चैकपदमपि वाक्यं वृक्ष इत्यादिवदिति वाक्यार्थोऽपि संबोधनं भवत्येव । इदानीं प्रकृतं निगमयति
उद्देशेन विभक्‌त्यर्था वाक्यार्थात् समपोद्धृताः ।। 164 ।।
संक्षेपवचनमुद्देशः । तेन हेतुना विभक्तीनामर्थाः कर्मादिकारकस्वभावाः पारमार्थिकादखण्डाद् वाक्यार्थादनेककारकविशेषणविशिष्टक्रियास्वभावात् पृथगपोद्धारबुद्ध्यान्वयव्तिरेकाभ्यामपोद्धृताः । यथा हि वाक्यादखण्डात् पदापोद्धारस्तथा वाक्यार्थात् पदार्थापोद्धारः । विभक्‌त्यर्थश्चापि पदार्थ एव । तत्रापि त्वपोद्धारे पदार्थात् विभक्त्यर्थापोद्धारो व्याख्येयः वाक्यार्थ एव तु स्तितलक्षणोऽसत्यस्तु पदार्थ इति `वाक्यार्थांत्' इत्याह । अन्ये त्वाहुः । `उद्देशेन' वाक्यार्थावयवेनोपलक्षिताद् `वाक्यार्थात्' इति वाक्यार्थैकदेशभूतात् पदार्थादेव विभक्ता इत्ययमेव स्पष्टोऽर्थः ।। 164 ।।
इदानीं विभक्त्यर्थस्य प्रातिपदिकार्थादन्यत्वे शास्त्रीयं लिङ्गामाह ।
विभक्‌त्यर्थेऽव्ययीभाववचनादवसीयताम् ।
अन्यो द्रव्याद् विभक्‌त्यर्थः सोऽव्ययेनाभिधीयते ।। 165 ।।
(161) अव्ययं विभक्ति---(P.2.1.6)
इति विभक्‌त्यर्थे वर्तमानमव्ययं समर्थेनोत्तरपदेन समस्यत इत्युक्तम् , `अधिस्त्रि' इति । तत्र यदि द्रव्यमेव विभक्‌त्यर्थो भवेत् `तदा स्त्रीशब्देनैव तस्योक्तत्वादव्ययमप्रयोगार्हमेव । तदस्याप्रयुज्यमानस्य कुतः समासः । तस्माद् विभक्त्यर्थेऽव्ययीभावशासनाद वसीयते प्रातिपदिकमेव कर्मादीनि साधनानि नाभिधत्त इति । तथा ह्यधिकरणशर्तिमव्ययपदमभिदधदुत्तरपदेनानुवभवति समासम् ।
"दृष्टो ह्यव्यतिरेकेऽपि व्यतिरेकोऽन्वये सति ।'
इत्यादिना पूर्वमन्वयव्यतिरेकाभ्यामयमर्थः साधितः । संप्रति लिङ्गदर्शनेनोपोद्बलितः । ननु च पंचकप्रातिपदिकार्थपक्षे विशिष्टस्य निर्भागस्य द्रव्यस्य प्रातिपदिकेनोक्तात्वाद् विशेषद्योतनाय विभक्तय इव अव्ययमपि प्रयोगार्हं स्यात् । द्योतकानां नियमाबावादिति कथमेतल्लिङ्गं युज्यते । सत्यमेतत् । किं तु त्रिकपक्षे लिङ्गमिदमुपन्यस्यते । तथा हि `अव्ययं विभक्ति....' इति विभक्‌त्यर्थ उपलक्षितः । पंचकपक्षे तु द्रव्यात्मभूतस्य विशेषस्य विभक्तिभिः प्रकाशनात् पदेनैवार्थ उपलभ्येत, समुदायवाच्यत्वात्तस्य, न केवलया विभक्‌त्या । पंचकपक्षेऽपि वा नियतस्य शक्‌त्यात्मनो विशेषस्य प्रातिपदिकामात्रादप्रतीतेर्विभक्तीनामेवासौ विषयः । तथा च प्रातिपदिकवाच्यादनियतशक्तेर्द्रव्यादन्यो नियतशक्तिर्विभक्‌त्यर्थ इति युक्तमुच्यते । एवं च कृत्वान्वयव्तिरेकावपूर्वाभिधाने द्योतने वा यथायोगं पक्षद्वये व्याप्रियेति ।। 165 ।।
ननु च समानकर्तृकयोः पशौ कर्तरि इत्येवमादेर्लिङ्गाद् द्रव्यस्य साधनत्वावगमात् कथं द्रव्यादन्यो विभक्‌त्यर्थ इत्याशंक्य शक्तेः साधनत्वमुपपाधयितुमाह ।
द्रव्यं तु यद् यथाभूतं तदत्यन्तं तथा भवेत् ।
क्रियाभेदेऽपि तस्यासौ द्रव्यात्मा नावहीयते ।। 166 ।।
(162)सर्वावस्थास्वनपायादेकस्वभावं द्रव्यं सदैवाचलमिति वृक्षं वृक्षेणेत्यादौसाधनवेचित्र्यनिर्निबन्धनं स्यात् । वृक्षं पश्य वृक्षेण फलितमित्यादिक्रियानानात्वनिमित्तो द्रव्यस्य भेद इत्यपि मिथ्या । क्रियानानात्वेऽपि ध्रुवं द्रव्यं स्वरूपान्न प्रच्यवते । संबन्धिभेदमात्राद् वस्तुनोऽन्यथात्वायोगात् ।। 166 ।।
एवं च कृत्वा
तस्माद् यत् करणं द्रव्यं तत् कर्म न पुनर्भवेत् ।
सर्वस्य चान्यथाभावस्तस्य द्रव्यात्मनो भवेत् ।। 167 ।।
(163) करणभावेनाधृतं द्रव्यं कर्मतया न प्रख्यायते । उपलक्षणं चैतत् कारकान्तरेषु । कर्मतया चावगतं शेषतया न विज्ञायेत । एकत्वाच्च द्रव्यस्य साधनस्य प्रासादे आस्ते आसने शेते इति ल्युडभिधानादधिकरणस्य सप्तमी न स्यात् । शक्तेस्तु साधनत्वे क्रियाभेदेन तद्भेदात्सदिक्रियापेक्षायामधिकरणशक्तिवभिहितायामप्यासिक्रियापेक्षायां तु तस्याभिहितादन्यत्रानभिहित इति पर्युदासाश्रयणात् सप्तमी सिध्यति । तथा च वार्तिकम् ।
"अनभिहिते हि विधानम्"(Va on P.2.3.1)
अथ क्रियान्तरयोगे करणस्य कर्मात्मतया परिणामस्तदा सकलस्यैव द्रव्यस्वभावस्य वस्त्वन्तरापत्तिः स्यात्, न करणांशस्यैव, तस्य द्रव्यादन्यत्वात् । शक्तेस्तु साधनत्वे क्रियाभेदेन तद्भेदेऽपि तदाधारस्य द्रव्यस्यान्वयिनोऽवस्थानात् शक्‌त्यन्तरत्यागोपादानयोगे युक्तः करणादिरूपतया संभवः । असमर्थस्य द्रव्यस्य क्रियासिद्धावनंगत्वात् सामर्थ्यमेव तदाधारं साधनं युक्तम् । न चैतावता द्रव्यस्यापि साधनाधारत्वात् साधनभावः कल्पयितुं न्याय्यः । न हि देवदत्तस्य पचिसाधनत्वे तदाधारस्य पीठस्यापि तत् कल्प्यत इति शक्तय एव साधनं न तु शक्तिमद् द्रव्यम् ।
"समानकर्तृकयोः"(P.3.4.21)
इति तु शक्त्याधारद्रव्यैकत्वाध्यारोपनिमित्तं समानत्वं कर्तृशक्‌त्योः । `पशौ कर्तरि' हस्तिसूचकयोः कर्त्रोः इति फशौ द्रव्ये यः कर्ता हस्तिसूचकयोः द्रव्ययोः कर्तारौ इति व्याख्येयम् । अथवा कर्तृशक्त्याश्र्यः पशुरेव कर्ता इति सामानाधिकरण्यम् ।
"कर्मणि द्वितीया"(P.2.3.2)
इत्यादावपि शक्तीनां संख्यायोगात् तदाधारं द्रव्यमेव निर्दिश्यते । तेन कर्मैकार्थसमवेतायां संख्यायां विभक्‌तय इत्यर्थः । निरधारायास्च शक्तेरनुपपत्तेः द्रव्यमेव शक्त्याविष्टं साधनं लकारवाच्यम् । तच्च विशेषात्मकमेव क्रियाकारि नियतेनात्मनानभिहितं पदान्तरेणाभिव्यज्यत इति देवदत्तः पचतीत्यादिसामानाधिकरण्येन प्रयोगोपपत्तिरिति सर्वं सुस्थम् ।। 167 ।।
इति भूतिराजतनयहेलाराजकृते प्रकीर्णकप्रकाशे साधनसमुद्देशः सप्तमः ।।