वाक्यपदीयम् (सवृत्ति)/तृतीयः भागः (पदकाण्डम्-२)

३,८ः क्रियासमुद्देशःसम्पाद्यताम्

--------------
इदानीं साध्यापेक्षत्वात् साधनस्य साधनान्तर'मिद्दिष्टायाः क्रियायाः शास्त्रीयं लक्षणमाह--
यावत् सिद्धमसिद्धं वा साध्यत्वेनाभिधीयते ।
आश्रितक्रमरूपत्वात् तत् क्रियेत्यभिधीयते ।। 1 ।।
इह क्रियावचनो धातुरिति पूर्वाचार्यलक्षणे
"अस्तिभवतिविद्यऽतीनां धातुत्वं वक्तव्यम्" (M.Bha,I,p.255,1.I) इति चोदितम् । तथा हि-यथा किं करोति ? पचति, इति पचादीनां करोतिना सामानाधिकरण्यात् क्रियाविशेषवाचकत्वाध्यवसायः, न तथा भवत्यादीनाम् । न हि भवति किं करोति ? भवति, इत्यादीति न ते क्रियावचनाः स्युः । किं च परिस्पन्दस्वभावा लोके क्रिया प्रसिद्धा । अस्तिभवतिविद्यतीनां च न परिस्पन्दस्वभावोऽर्थ इति सकलधातुव्यापकं क्रियालक्षणं भाष्ये प्रणीतं
"कारकाणां प्रवृत्तिविशेषः क्रिया" (M.Bha.I.p.258, 1.11)
इति । तत्र विचार्यते । सर्वेषां वा कारकाणामेकः प्रवृत्तिविशेषः, प्रतिकारकं भिन्ना वा प्रवृत्तिरिति । आद्ये पक्षे कारकाणां फलभूता भूतिपक्त्यादिका वा प्रवृत्तिः स्यादन्या वेति द्वैतम् । तत्र न तावत् सर्वेषामेकः प्रवृत्तिविशेषः । असम्भवात् । न हि यैव करणस्य प्रवृत्तिः सैव कर्तुः, यैवाधिकरणस्य सैव संप्रदानस्येत्यादि । अनेकाश्रयाया एकस्याः क्रियाया अदर्शनात् । तस्मात् प्रतिकारकं भिन्ना प्रवृत्तिः क्रिया । इत्थं च क्रियावाची धातुरिति सकलकारकव्यापाराभिधायी धातुः प्राप्तः । किमतः । इदमतः । सर्वकारकाभिधायी लकारः स्यात् । धातूक्तव्यापार साधनो हि लो धातोः परः प्रयुज्यमानो न्याय्यः । नैतदस्ति । कर्तृकर्मणोर्लस्यानुशासनात् तद्व्यापार एव लान्तात् प्रतीयते । ननु न शब्दनिमित्तेन नामार्थेन भवितव्यम्, अपि त्वर्थनिमित्तेन शब्देनेति साधनमात्रे लोऽनुशिष्यताम् । भवेदेतद् यदि साधनमात्रव्यापारो लान्तादवगम्येत, कर्तृकर्मव्यापार एव तु प्रतीयते इति शब्दशक्त्यनुसारेणानुशासनं युक्तम् । न तर्हि साधनमात्रव्यापाराभिधायी धातुः । अन्वयव्यतिरेकाभ्यां तदनवगमात्, उपायान्तराभावाच्च प्रकृतिप्रत्ययानुसरणस्य । सत्यमेतत् । किं तु देवदत्तः काष्ठैः स्थाल्यामोदन पचतीत्यादाव विशेषेण पचतेर्धातोः सर्वकारकव्यापारस्वीकारोपलब्धेरखिलकारकलान्तात् प्रतीयत इत्येकीयं मतऽम् । अन्ये मन्यन्ते-सम्प्रदानादिव्यापारे धातोर्नवृत्तिः । करणादिव्यापार एव तु वृत्तिः । तथा च करणादावेव स्वातन्त्र्यविवक्षा, नापादानादौ । इत्थं च
"अधिश्रयणोदकासेचन.."(Va.8,onP.I.4,23,M.Bha.I.p,324,1.17) इत्यादिना कर्त्रादीनामेव व्यापारः पचिक्रियेति वार्तिककारो दर्शयति । अतश्च
"कारकाणां प्रवृत्तिविशेषः क्रिया"(M,Bha.I.p.258,1.11)
इति क्रियास्वरूपमात्रं कथितम्, न तु धातुवाच्यत्वम् । यस्य कारकस्य या प्रवृत्तिः सा क्रिया । ततो बहुकारकविषयत्वेन बह्वय एव पाकक्रियाः । काचिदेव तु धातुनाभिधीयते कर्मगता कर्तृगता वा, पच्यते पचतीति । अत एव कर्तृकर्मणोरेवोत्पद्यते लकारः, तद्व्यापारस्यैव धातुनाभिधानात् । अन्ये तु विशेषपदे भरं कृत्वा प्रवृत्तीनां विशेषः प्रवृत्तिविशेष इति सकलकारकजन्या विक्लित्त्यादिरूपा भूतिः फलभूता कारकप्रवृत्तेः क्रियेति व्याचक्षते । अपरे पुनः कारकमत्र प्रधानं विवक्षितं कर्तृरूपं न पुनरप्रधानं करणादि । बहुवचनं त्वनेकक्रियाभेदेन कर्तृभेदात् । कर्तृग्रहणमेव तु न कृतम्, कर्मणि लकारदर्शनात्तद्व्युदासोऽस्य मा भूदिति । तेन यत्र सम्भवति कर्म तत्र तद्व्यापारोऽपि क्रिया । यद्येवं तदपेक्षयैव बहुवचनं व्याख्येयम् । कर्मार्थत्वाच्च प्रवृत्तेस्तदपि प्रधानम् । नैतदस्ति, कर्मणोऽसर्वविषयत्वात् । कर्ता पुनः सर्वत्र स्थित इति व्यापकत्वात् स एवात्र प्रधानं कारकं विवक्षितम् । अत्र च
"अन्यथा शुष्कौदने कारकाणि प्रवर्तन्ते, अन्यथा मासौदने"
(M.Bha,I,p.258,1.11)
इति भाष्यमेव लिङ्गमाह । तथा हि-मांसौदने संरम्भवत्त्वेन प्रवर्तते कर्ता, शुष्कौदने मन्दप्रस्थानेन । यतश्च संरम्भेण मन्दतया च प्रवृत्तिं दर्शयति अतोऽवसीयते कर्तैवात्र कारकशब्देनाभिधित्सित इति । तथा हि चेतनत्वात् स एव तथा प्रवर्तते । तदेवंप्रकारा ससंरम्भा तद्विपरीता वा प्रवृत्तिविशेषरूपा क्रियेति भाष्यकारेण स्वयमेवोदाहृता । अत्र केचिच्चोदयन्ति चेतन स्यैवैवं प्रवृत्तिसंभवादचेतनः कर्ता न गृहीतः स्यादिति तत्प्रवृत्तिः क्रियेति नोक्तं स्यात् । मासौदनादौ च करणादीनामपि सम्भवात् कथं कर्तैवात्र निर्दिष्ट इति । अत्रोच्यते । संरम्भस्य मान्द्यस्य च कर्तुरेव संभवः । न हि कंसपात्र्यादिकमधिकरणमन्यद्वा कारकं संरम्भवत्त्वेन मन्दतया वा प्रवर्तते । सामान्येन च कर्तृकर्मणां ग्रहणादचेतनप्रवृत्तिरपि गृहीतैव । "अन्यथा मासौदने...." इत्यादिना तु संरम्भेण मन्दतया च प्रवृत्तिविशेष उपलक्षितः । न पुनः पूर्वोक्ता कर्तृमात्रप्रवृत्तिर्नियम्यते । अतः कर्तुर्या विशिष्टा प्रवृत्तिः सा क्रियेत्यर्थः । एवं च कृत्वा प्रवृत्तिरेव विशेष इति समासः । कर्मणोऽपि सूचितत्वात् कारकशब्देन तद्व्यापारो।ञपि क्रियेति । प्रतीयते । अन्यथा कर्तृपदमेवाकरिष्यदित्युक्तम् । अस्मिन् मते
"अथ कः पचेः प्रधानोऽर्थः, यासौ तण्डुलानां विक्लित्तिः "
(M.Bha II,p.32,1.24-25.)
इति भाष्यं कथम् । कर्तृव्यापारो हि क्रिया धातुवाच्या । सा च विक्लेदना, न तु विक्लित्तिः । नास्ति विरोधः ।नात्र शब्दार्थो निरूप्यते अपि तु वस्त्वर्थ इत्यार्थेन रूपेण विक्लित्तेः प्राधान्यादेवमुक्तम् । शाब्देन तु रूपेण विक्लित्त्युपसर्जनं विक्लेदनमर्थः । कर्मणि लकारोत्पत्तौ तु विक्लित्तिरेवार्थ इति केचित् । विक्लेदनोपसर्जना विक्लित्तिरित्यपरे । तेन कर्तृकर्मव्यापार एव सर्वत्र धात्वर्थ इतीदं दर्शनम् । अन्ये तु
"सामान्यभूता क्रिया वर्तते" (M.Bha.I.p.326,1.15.)
इत्येतद्भाष्यानुसारेण प्रवृत्तिमात्रमगृहीतविशेषं सकलकारकानुयायिनी क्रियेति मन्यन्ते । तथा हि फलजननैव साधारणात्मिका क्रिया प्रवृत्तिविशेष इत्युच्यते प्रवृत्तिश्चायं विशेषश्चेति । विशेषोऽस्याः फलजननारूपत्वं न पुनरधिश्रयणादिरूपतैव । तेन जननाख्ये विशेषः प्रवृत्तीनां क्रिया । सर्वेषां हि कारकाणामेका प्रवृत्तिः फलजननालक्षणा । सर्वाणि हि फलजननाय प्रवर्तन्ते । अतो यत् फलजननारूपं तत् सर्वकारकेष्वविशिष्टम् । किञ्चित् खलु कारकं केनचिदेव रूपेण जनयतीति फलजनना सर्वसाधारणरूपैव । अवान्तरभादेन तु जनकत्वात् करणादिव्यपदेशः । कणाददर्शने चैका क्रियानेकत्र न भवेत् । तीर्थिकान्तरदर्शनं चेह नाश्रीयते । अत एव परिस्पन्दलक्षण एव व्यापारो न क्रिया । प्रवृत्तिरित्येतावत्युच्यमाने हि लोकप्रसिद्ध्या परिस्पन्दलक्षण एव व्यापारः प्रतीयेत । विशेषग्रहणात्तुः प्रवृत्तिमात्रमवगम्यत इति केचिद् व्याचक्षते । तथा हि सर्वा प्रवृत्तिः प्रवृत्त्यन्तराद् भिद्यमाना विशेषरूपतामापद्यत इति सकलक्रियानुयायीदं लक्षणम् । विशेषश्च सजातीयाद्विजातीयाच्च । तत्र सजातीयाद् भेदः `अन्यथा कारकाणि शुष्कौदने प्रवर्तन्ते, अन्यथा मांसौदने' इति प्रतिपादितः । भुजिक्रिया हि कारकभेदाद् भिद्यमानात्रोक्ता । औदासीन्येन शुष्कौदने कारकाणां प्रवृत्तिः । संरम्मेण तु मासौदने इति विशिष्यते । यदि च संरम्भरूपतैव साधनानां क्रिया स्यात् तदा शुष्कौदने भुजिः क्रियारूपतां न प्रतिपद्येतेति प्रवृत्तिविशेष इति क्रियासामान्यलक्षणम् । विजातीयाद्भेदस्तु पचति पधतीत्यादौ स्पष्ट एव । ननु द्रव्यादन्यत्वामेव तावत् कथं क्रियायाः प्रतिपन्निमिति वक्तव्यम् । तत्राप्युक्तम् ।
"इह सर्वेषु साधनेषु सन्निहितेषु कदाचित् पचतीत्येतद्भवति कदाचिन्न"
(M.Bha.I.p.254,1.17.)
इत्यादि । अन्वयव्यतिरेकाभ्यां पचत्यादिशब्दवाच्या क्रिया द्रव्यात् कारकसक्तियुक्तादन्या । तथा हि-औदासीन्यावस्थायां सत्स्वपि साधनेषु पचतीत्यादिप्रख्योपाख्ययोरबावादर्यान्तरविषयत्वं तयोः । तद्यथा घटसन्निधानेऽनुत्पद्यमानानां पाकजानामग्निसंयोगापेक्षित्वम् ।
"अथवा यथा देवदत्त इह भूत्वा पाटलिपुत्रे भवति सा नूनं क्रिया"
(M.Bha.I.p.254,1.19.)
इत्यपरमत्रोक्तम् । पूर्वेण ग्रन्थेन कादाचित्कः प्रख्याविशेषो हेतुः क्रियाया व्यतिरेकेऽभिहितः । स त्वसत्यपि विषये मरीचिकाजलावसायवत् स्यादितीदमपरमत्र लिङ्गमुपन्यस्तम् । तथा हि प्राप्तिलक्षणं फलं द्रव्यमात्रादभवद् व्यापारान्तरं ततोऽन्यदावेदयते । मिथ्याप्रत्यये विषयस्याभावात् फलानुत्पत्तिप्रसङ्गात् । न च साधानादेव शक्त्यात्मनः फलोपजनः । शक्तत्वेऽपि व्यापाराभावे फलादर्शनादित्यस्ति कश्चित् सोऽर्थः यः क्रमविशेषापेक्षः कार्यमभिनिर्वर्तयति । सा च क्रिया न शक्या पिण्डीभूता निदर्शयितुमित्यनुमानगम्योक्ता । ननु च पचतीति प्रख्याया निरालम्बनत्वेन भ्रान्तत्वादनुमापकत्वमयुक्तं स्यात् । सालम्बनत्वे तु प्रत्यक्षैव क्रिया प्रख्याविशेषविषयत्वात् । फलानुमानेऽपि प्रतीतासौ शब्देन नाभिधीयेत । फलमुपजनय्य व्यतीतायास्तस्या वर्तमानाभिधानं विरुध्यते । अत्रोच्यते-इह व्याकरणे न वस्त्वर्थोऽर्थः, अपि तु शब्दार्थोऽर्थः । तथा चान्वयव्यतिरेकाभ्यां धातुभागस्य योऽर्थो व्यवस्थाप्यते नासौ साक्षादुपलब्धुं शक्यते । समाश्रितक्रमो ह्यर्थात्मा आख्यातात् प्राधान्येन प्रतीयमानः क्रियेति शाब्देन रूपेण क्रिया चैव हि भाव्यते, स्वभावसिद्धं तु द्रव्यमित्युक्तम् । वास्तवेन रूपेण साधनाधीनसिद्धेरनित्यस्य द्रव्यस्य कथं स्वाभाविकी सिद्धिः स्यात् । शाब्देन रूपेण वस्तु भाव्यमानात्मकमपि प्रातिपदिकैः सिद्धरूपमुच्यते । तथा हि-द्रव्यशब्दाः प्रवर्तमानाः घटः क्रियते, पटः क्रियते इत्यादिसाध्यमानावस्थेष्वपि सन्मात्राकारावलम्बनं प्रत्ययं जनयन्ति । घटस्य हि भाव्यमानावस्था शिवकस्तूकादीनामवस्थानां क्रमेण प्रादुर्भावः । न चासौ घटशब्दात् प्रतीयते, क्रियत इति क्रियाशब्दप्रयोगादेव तदवगतेः । तथा च यः पदान्तरनिरपेक्षाच्छब्दादन्वयव्यतिरेकाभ्यामर्थोऽवगम्यते स तस्यार्थ इति घट इत्यस्मात् केवलात् सत्ताकारस्यैवार्थस्यावगमात् प्रातिपदिकार्थः सत्तेति निर्णीतम् । क्रियापदप्रयोगात्तु आश्रितक्रमरूपतावगमात् तिङन्तानां भाव्यमानोऽर्थोऽवस्थाप्यते । घटः क्रियते इति च घट इत्येवं बुद्ध्या गृह्यमाणो योऽर्थः स निर्वर्त्यत इत्येवं पदसमन्वयः । घटोऽभूद् भविष्यतीत्यादावपि सदाकारप्रत्ययाद भिधेवात्मना नित्यत्वमर्थानामिति
"अनित्येष्वपि नित्यत्वमभिधेयात्मना स्थितम्" (Vak.IIIसं.34.)
इत्युक्तम् । तस्माच्छाब्देन रूपेण भाव्यमाना क्रियेति । ध्वनतीत्यादावपि क्रियात्वमिति वक्ष्यते । एवं च
"पूर्वपरीभूतस्य सक्रमस्यार्थस्यागमापायित्वाद् भागानामवर्तमानत्वात् प्रत्यक्षाभावः"
इत्यपि वक्ष्यते । तदेवमन्वयव्यतिरेकाभ्यां द्रव्यानुमिता क्रिया । नन्वेवमप्यस्त्यादीनां क्रियात्वं न स्यात् । न हि सर्वेषु साधनेषु सन्निहितेषु कदाचिदस्ति भवति विद्यते वेति भवति, सर्वदा भावात् । पचतितरामित्यादाविव चास्तितरामित्यादौ प्रकर्षाभावात्, किं करोति पचतीत्यादिवच्च किं करोति अस्तीत्यादिप्रश्नप्रतिवचनाभावात्, सत्तायाश्च निर्विशेषत्वाद्भेदाभावः । अत्र ब्रूमः । इह
"अन्यथा साधनान्यस्तौ प्रवर्तन्ते, अन्यथा म्रियतौ"
(M.Bha.I.p238,1.11.)
इति प्रवृत्तिविशेषरूपत्वं तावदस्ति । अस्तौ ह्यात्मोपग्रहरूपेण साधनानां प्रवृत्तिः । एवं भवतौ विद्यतौ च । म्रियतौ त्वात्मपरित्यागरूपेणेत्यस्ति तावद्विजातीयाद्भेदः । असंरब्धसाधनसाध्या च सत्ता नियतमेव साधनानां सन्निहितेति प्रख्योपाख्ययोः कादाचित्कत्वाभावः । प्रकर्षप्रत्ययश्चापि दृश्यते । विद्यतेतरामयमिह नित्यसन्निधानात् । अनियतसन्निहिताद्धि नित्यसन्निहितस्य सत्ता विशिष्यते । तेन साधनान्यत्वादभिद्यमानापि प्रकर्षेण युज्यते । किं करोतीति च क्रियाविशेषप्रश्नेऽस्ति, न काञ्चित् पच्यादिकां क्रियामनुतिष्ठतीत्यास्ति प्रतिवचनम् । सामान्येन ह्यवगतायां सत्तायामस्य प्रश्नस्योपपत्तेः नास्ति क्रियाविषय एवायम् । प्रत्यासन्नविनाशे च किं करोति देवदत्तः, अस्ति तावद्, विद्यते तावदिति भवत एव प्रश्न प्रतिवचने । किञ्च सर्वासां क्रियाणामनन्तरफलजनकत्वमस्ता वप्येतदस्ति । किमत्र फलमिति चेदात्मामोक्षरूपेणेति ब्रूमः । षड् भावविकाराः इति निरुक्तकारवचनात् भावशब्दाभिधेयायाः सत्तायाः समग्रक्रियायोनित्वे मूलभूतायाः क्रियात्वं प्रत्यस्या न विवादः । यद्यपि च भावविकारेषु तिष्ठतिर्नोपसंख्यातः तथाप्यस्यास्त्येव क्रियाधर्मान्वथः । तथा हि--
"क्रिया क्रियाया निवर्तिका भवति द्रव्यं द्रव्यस्य"
(M.Bha.I.p.258.1.15.)
इत्युक्तम् । तिष्ठतीत्युक्ते वृद्ध्यपक्षययोर्निवृत्तिः प्रतीयते इति क्रियैषा कारकाणां प्रवृत्तिरूपा । असंब्धानि हि वृद्धावपक्षये च कारकाण्यौदासीन्येनावतिष्ठन्ते । तथा हि यावत् कारकाणि प्रवर्तन्ते तावत् पूर्वापरीभूतावयवः साध्यमानस्वभावः प्रवृत्तिविशेषस्तेषामवधार्यते । यदधीना फलनिष्पत्तिः । शब्दार्थोऽर्थ इति चैतल्लक्षणमिति वस्तुतः सिद्धमपि साध्यत्वेनाभिधीयमाना क्रिया । तद् यथा ध्वनतीति । एवं सत्तादीनामपि साध्यतयाख्यातेनाभिधानात् क्रियात्वमित्यस्त्यादीनां धातुत्वं सिद्धम् । तथा तिष्ठतेरपि क्रियान्तरनिवृत्तिवचनत्वादेतदेव क्रियालक्षणमनुगामि । तथा हि तिष्ठतीत्युक्ते न वर्धतेऽपक्षीयते वेति गम्यते । तथा च क्रियान्तरापाकरणेन कारकप्रवृत्तिविशेषत्वात् क्रियात्वम् । साधनसंसर्गदर्शनाच्च भूमौ तिष्ठति, बलेन तिष्ठतीति । एवमुपवसतीति भाजननिवृत्त्याकारा प्रवृत्तिः क्रिया । विनश्यत्यपक्षीयत इत्यसदवस्थापूर्वभावी कारकप्रवृत्तिविशेषः समाश्रितक्रमः क्रियेति भावविकारेषु प्रपञ्चयिष्यते । तदेवं साधनेभ्यो भिन्ना क्रिया । साधनेभ्यश्चान्यद् भवद् वस्तु किमन्यत् साध्यात् स्यादिति साध्यस्वभावा क्रिया धातुवाच्या । न हि संयोगविभागात्मकः सिद्धस्वभावोऽर्थो धातुवाच्यः, साध्यतया पूर्वापरीभूतत्वेनावगमात् । तद्‌व्यतिरिक्तस्य चापरस्य कर्तृव्यापारस्याप्रतीतेर्न भावनान्या काचिद् धात्वर्थो विद्यते । समस्तधात्वर्थसामान्यरूपश्च करोत्यर्थ इति पचत्यादिना सामानाधिकरण्यं प्रतीयते । पाकः पचतीति च कृदाख्याताभिहितयोर्भावयोः सिद्धसाध्यतारूपभेदात् बुद्धिभेदः । पाकं करोति पचतीति च धात्वर्थ एव विक्लोदनाख्यः शब्दात् प्रतीयमानो वास्तवकर्मगतविक्लित्तिनिष्ठतया व्याक्रियते । विक्लिद्यतस्तण्डुलान् विक्लेदयतीत्यर्थः । अत एव विक्लिद्यन्ति पचन्तीति कर्मकर्तृगतव्यापाराभिधानात् प्रतीतिभेदः । द्वयर्थः पचिरिति च कर्तृव्यापारस्य धात्वर्थतायामुपपद्यते । तस्मान्न भावना काचिदिति यागेन भावयेत् स्वर्गमिति नैष वाक्यार्थो यजेतेति अपि तु यजिः साध्यमानशरीरोऽवसीयते । यदनुष्ठानात् फलं वस्तुसामर्थ्याद् भवतीति क्रियाविवेके क्रियैव प्रधानभूता वाक्यार्थ इति निर्णीतं तत एवावधार्यम् । अलमिह विस्तरेण ।। 1 ।।
इदानीमेतदेव क्रियालक्षणमुदाहरणेन स्फुटीकरोति ।
कार्यकारणभावेन ध्वनतीत्याश्रितक्रमः ।
ध्वनिः क्रमनिवृत्तौ तु ध्वनिरित्येव कथ्यते ।। 2 ।।
घण्टा ध्वनतीति ध्वनिराख्योतेनोपात्त पौर्वापर्यः क्रियात्वमनुप्राप्तोऽभिधीयते । तथा हि-घण्टाः ध्वनेः कारणम्, कार्यं ध्वनिः । तयोः संबन्धेन हेतुना कार्ये सव्यापारा घण्टा ध्वनतीत्येवमुच्यते । ध्वनेरेव वा प्रबन्धेन जायमानस्य वीचीसन्तानवद् विप्रसृतावयवत्वात् पूर्वो भागः कारणम्, उत्तरस्तु कार्यम् । यदा तूपरत व्यापारा घण्टा तदा पूर्वापरभावस्य निवृत्तौ घण्टाया ध्वनिरित्येवं सिद्धतया शब्देन प्रतिपादितो न क्रियालक्षणमनुपतति । ध्वनिं करोतीति तु शब्दान्तरसंबन्धात् प्रतीयमानो वाक्यार्थः, न पदात् साध्यतयावसायः, न स्वशब्दादिति क्रियात्वाभावः । प्रातिपदिकेन सिद्धस्वभावतापन्नोऽर्थोऽभिधीयते । तत्र करोतीति त्वाख्यातात् साध्यरूपतावसायः शब्दान्तरसंबन्धात् प्रतीयमानो वाक्यार्थः, न पदार्थः । एवं पाकं करोतीत्यादावपि द्रष्टव्यम् । आख्यातेनैव हि साध्यस्वभावः क्रियारूपोऽर्थः प्रत्याय्यते, न नामपदेन । शब्दश्च स्वार्थे यथाभिधानं प्रमाणमिति निश्चितमेतत् । तथा हि शब्दार्थोऽर्थो न वस्त्वर्थ इत्यसकृदुक्तम् ।। 2 ।।
अत्रैवोदाहरणान्तरमाह ।
श्वेतते श्वेत इत्येतच्छ्वेतत्वेन प्रकाशते ।
आश्रितक्रमरूपत्वादभिधानं प्रवर्तते ।। 3 ।।
श्वेते गुणे श्वेतते इत्येतत् तिङन्तम् अभिधानम् क्रमरूपाश्रयेण प्रवर्तमानं क्रियारूपतामावेदयते । तत्रैव च श्वेतशब्देन सिद्धावस्थो गुणः कर्तृत्वेनोच्यते । तदाह--श्वेतत्वेन प्रकाशते इति । शौक्ल्येन गुणेनोपलक्षितः प्रतिभासत इति श्वेतते इत्यस्यार्थः कारिकायामेव व्याख्यातः ।। 3 ।।
तदेवं शब्देन साध्यतयाभिधीयमानः समाश्रितक्रमः पौर्वापर्यवानार्थः क्रियेति लक्षितम् । पूर्वापरीभूतस्य क्षणप्रवाहस्य युगपदसन्निधानादेकक्रियालक्षणानुपपत्तिरित्याशङ्क्याह ।
गुणभूतैरवयवैः समूहः क्रमजन्मनाम् ।
बुद्ध्या प्रकल्पिताभेदः क्रियेति व्यपदिश्यते ।। 4 ।।
क्रमवतां क्षणानामेकफलोद्देशेन प्रवृत्तानां सङ्कलनाबुद्ध्या समापादितैक्यानां क्रियात्वव्यवहारः । तत्रावयवानां समुदाये गुणभावापत्तेः शब्दभेदप्रयोजकत्वाभावादेकधातूपादानाक्रियैका समुदायस्वभावावतिष्ठते । तस्याश्चावयवाश्रयः क्रमः पौर्वापर्यं च व्यवह्रियते । समुदायाश्रयं चैकत्वमध्यारोपितम्, उत्पत्तिसमनन्तरनिरुद्धानामवयवानां वस्तुभूतसमुदायाभावात् । ततश्चाधिश्रयणादीनां व्यापाराणां यः समुदायो वुद्ध्यैकत्वेन गृहीतः स पचत्यादीनां वाच्यः । समुदायादेव हि फलं निष्पद्यते, न विचटनमात्राद्, अधिश्रयणादिवैयर्थ्यप्रसङ्गादिति व्यवहितैरप्याधिश्रयणादिभिः समीहितफलानुगुणैर्यथास्वं विशेष आधातव्यः इत्यनेकापेक्षे कार्ये नानान्तर्यमात्रेण कस्यचिद् विशेष इति फलविशेषसम्पादकत्वेन पचादीनामर्थः प्रतीयमानः फलैक्यादेकत्वेनावसीयमानः क्रिया ।। 4 ।।
यदि तर्हि समुदायः क्रिया अधिश्रयणादीनामवयवानां पचिक्रियात्वं न स्यात् । तथा च सर्वास्वधिश्रयणाद्यवस्थासु पचतीति प्रत्ययो न प्राप्नोतीति केषुचित् क्षणेष्वतीतानागतेषु तावन्मात्रस्य पचिरूपत्वाभावाद् भूतभविष्यद्वयवहारो न स्वादित्याशङ्क्याह ।
समूहः स तथाभूतः प्रतिभेदं समूहिषु ।
समाप्यते ततो भेदे कालभेदस्य सम्भवः ।। 5 ।।
अधिश्रयणारम्ङ एव फलादिसन्धेः समस्तक्रियाकलापस्तत्रैवाध्यस्यते । तथा च पचतीति वर्तमानकालतायां प्रयोगः । तावन्मात्रस्य च फलोपयोगिनो रूपस्यातीतत्वादपाक्षीदित्यपि प्रयुज्यते । क्षणान्तरस्य भाविनोऽध्यारोपितपचिरूपस्याभिसन्धाने पक्ष्यतीति । तथाभूतः इति । गुणभूतक्रमजन्मावयवः । तथाभूतस्य हि समुदायस्य प्रत्येकमवयवेऽध्यासात् तत्प्रत्ययोत्पत्तिः । अध्यासश्च सर्वत्र पचतीति प्रत्ययस्यानुवृत्तेरेव ज्ञायते । प्रत्यवयवपरिसमाप्तत्वाच्च समुदायस्यावयवानां तद्रूपाध्यारोप उपपद्यत एव । एवमप्येकत्रावयवे समुदायरूपारोपात् साध्यताप्रत्ययः कथम् । एकत्रैव ह्येकीकृते समुदायेऽवयवान्तराभावात् किमपरमवशिष्टं यत् साध्यं प्रतीयेत । अत्रोच्यते । न समुदायबुद्धयैकत्वेन, नाप्यवयवबुद्ध्या अयं चायं चेति समुच्चयेन प्रत्येकं समुदायस्यावयवेष्वारोपोऽत्र । किं तर्हि ? पूर्वापरीभूतावयवत्वेनैव । तथा चैकस्मिन्नप्यवयवे व्यपगते समुदायस्य व्यपगमारोपादपाक्षीदिति भूतकालता । भाविनि च पक्ष्यतीति भविष्यत्कालता ।। 5 ।।
यदि तर्हि प्रत्यवयवं समुदायाध्यारोपात् क्रियात्वं तदा तस्यावयवस्य वर्तमानरय प्रत्यक्षत्वात् कथमिदमुक्तं भाष्ये
"क्रिया नामेयमत्यन्तापरिदृष्टा न शक्या पिण्डीभूता निदर्शयितुं यथा गर्भो निर्लुठितः । सासावनुमानगम्या" (M.Bha.I,p.254,1,15.) इत्याशङ्क्याह ।
क्रमात् सदसतां तेषामात्मानो न समूहिनाम् ।
सद्वस्तुविषयैर्यान्ति संबन्धं चक्षुरादिभिः ।। 6 ।।
समूहिनाम् क्रियाक्षणानां क्रमेण भवतां सद्सद्रूपत्वात् सदेकवस्तुविषयैरिन्द्रियैः संबन्धाभावादिन्द्रियार्थसन्निकर्षजज्ञानविषयभावापत्त्ययोगादत्यन्तापरिदृष्टा साधनेभ्योऽन्यानुमानगम्या क्रिया भाष्येऽभिहिता । एकस्मिन्नपि हि क्षणे समूहोऽध्यस्यमानः समाश्रितपौर्वापर्य एवाध्यस्यते । तथारूपस्यैव क्रियात्वात्, तेन च रूपेणेन्द्रियाविषयत्वात् ।। 6 ।।
एतदेव दृष्टान्तनोपपादयति ।
यथा गौरिति सङ्घातः सर्वो नेन्द्रियगोचरः ।
भागशस्तूपलब्धस्य बुद्धौ रूपं निरूप्यते ।। 7 ।।
इन्द्रियैरन्यथा प्राप्तौ भेदांशोपनिपातिभिः ।
अलातचक्रवद्रूपं क्रियाणां परिकल्प्यते ।। 8 ।।
गौरश्व इति वर्णसमुदायोऽयुगपद्भाव्यवयवो यथा वर्तमानावयवद्वारेण श्रोत्रेन्द्रियपरिच्छेद्योऽपि संस्कारक्रमायातान्त्यबुद्धिनिर्गाह्यः तथा क्षणसमाहारात्मिकापि क्रिया वर्तमानक्षणगतेन्द्रियसंबन्धाध्यारोपितप्रत्यक्षभावा समुदायरूपतया फलानुमेया । तत्र स्फोटः प्रत्यक्ष एवेति नासौ दृष्टान्तोऽक्रमोद्भिन्नश्च । समुदायस्तु वर्णानामुच्चरितप्रध्वंसिनामयुगपत्कालत्वादप्रत्यक्षो बुद्ध्या निरूपितैकत्वो दृष्टान्तो वर्णसमाहारमात्रदर्शनाश्रयेणात्र क्रियाया अप्येवंरूपत्वादसमस मयावयवसमाहारात्मकत्वात् । अत एव अलातचक्रवत् इत्याह । भ्राम्यमाणोल्मुकराजीनां चक्राकारतया भ्रान्त्याध्यवसायवत् क्रियाक्षणनामेकत्वपरिकल्पना प्रत्यक्षताभिमानश्च । क्रियया प्रत्यक्षतयाध्यवसितया सह गृहीतसंबन्धमाख्यातपदं प्रयुज्यते । एकपदोपात्ताङ्गभूतकारकभेदावधारणान्निर्ज्ञातभेदा धातुभिरभेदेन प्रत्याय्यत इति शब्दार्थत्वमाश्रित्योच्यते एका क्रिया इति । तथा च साधनस्य लकारेणानभिधाने क्रियैकत्वेन व्यवह्रियते आस्यते भवद्भिः इति ।। 7,8 ।।
भवत्वेवमधिश्रयणाद्यवयवानां पचादिक्रियाणाम् । अधिश्रयणादीनां त्ववयवक्रियाणां प्रत्यक्षतैव न्याय्येत्याशङ्क्याह ।
यथा च भागाः पचतैरुदकासेचनादयः ।
उदकासेचनादीनां ज्ञेया भागास्तथापरे ।। 9 ।।
अधिश्रयणादीनामपि संस्कारकाः स्वावयवा विद्यन्त इति तेऽपि पूर्वापरीभूताः क्रमवन्त एव क्रियाविशेषाः प्रत्यक्षभावमतिवर्तन्त एव । तथा हि स्वावयवपरिकल्पनया पूर्वापरीभूतसमुदायात्मका एवैते । तद् यथा हस्तप्रसारणस्था लीविन्यासेष्टकाविनियोजनादयोऽध्यारोपि तसमुदायारूपाः कालत्रयाभिधायिनापि अध्यशिश्रयद्, अधिश्रयिष्यति, अधिश्रयतीति शब्देन प्रत्याय्यन्त इत्यवयवसमूहात्मकत्वात् पचिक्रियावदप्रत्यक्षत्वमेव ।। 9 ।।
अत्र पर्यन्तवर्ती भागस्तर्हि निरंशः प्रत्यक्षः स्यादित्याशङ्क्याह ।
यश्चापकर्षपर्यन्तमनप्राप्तः प्रतीयते ।
तत्रैकस्मिन् क्रियाशब्दः केवले न प्रयुज्यते ।। 10 ।।
अल्पीयसः परमाणुप्रख्यस्याशक्यावयवविभागस्य क्रियाक्षणस्य क्रियात्वं नास्ति । आश्रितक्रमरूपत्वात् क्रियाया इति न तेन क्रियाया अप्रत्यक्षताव्यभिचार उद्भावनीय इत्यर्थः क्रियात्वाभावादेव च क्रियाशब्दस्याप्रयोगः । शब्दार्थोऽर्थ इति न्यायात् । क्रियाशब्दस्याप्रयोगे क्रियात्वाभावमाह । साध्यमानरूपतया हि तिङन्तेनाभिधीयमानोऽर्थः क्रिया । केवले च निरंशे क्षणमात्रे क्रियाशब्दाप्रयोगः । अयमर्थः । नेहवास्तवो भागभेदश्चिन्त्यते, अपि तु शब्दात् प्रतीयमानः । शब्दाच्च क्षणमात्रस्वभावापि विप्रकीर्णावयवा समूहात्मनैव सर्वा क्रिया प्रतीयत इति सिद्धं शब्दवाच्यतया क्रियायाः सक्रमत्वमतीन्द्रियत्वं च । क्रमरूपानध्यासे तु प्रत्यस्तक्रमो नाख्याताबिधेयः ।। 10 ।।
यदा तु प्रयोगस्तदा--
पूर्वोत्तरैस्तदा भागैः समवस्थापितक्रमः ।
एकः सोऽप्यसदध्यासादाख्यातैरभिधीयते ।। 11 ।।
सोऽप्यपकर्षपर्यन्तमनुप्राप्तो भागः समूहान्तः पाती पूर्वोत्तरबागगतपौर्वार्पर्याध्यारोपितक्रमः क्रियालक्षणमनु पतत्येवेति क्रमात् सदसतां तेषां समूहिनामप्रत्यक्षतैवेति सर्वथात्यन्तापरिदृष्टा क्रियेति सिद्धम् । अनेनैवाशयेन निरुक्तकारः प्राह--
"पूर्वापरीभूतं भावमाख्यातेनाचष्टे व्रजति पचतीव्युपक्रमप्रभृत्यपवर्गपर्यन्तम् "
(Ni.1.1.11.)
इति । न क्षणानां पूर्वापरीभावोऽत्यन्तभेदात् । न हि यः पूर्वक्षणः स एव परः सम्पद्यते । न चैकस्यार्थस्य रूपान्तरेणापरिणामे च्विप्रत्यय उपपद्यते । अवयवेषु तु समुदायाध्यासात् तस्या चाभेदात् पूर्वापरीभावो युज्यते । पूर्वावयवानुस्यूतत्वे रूपान्तरेणावस्थानाध्यवसायाच्व्यर्थोऽपि च सङ्गच्छते । भागशः प्रत्यक्षत्वाच्च न शक्या पिण्डीभूता पांसुराशिवत् क्रिया निदर्शयितुमित्युक्तम् ।। 11 ।।
एवं साध्यस्वभावः सक्रमोऽर्थः क्रियेति लक्षणे सत्ताया नित्यत्वादसाध्यत्वादक्रमत्वात् कथमस्तीति क्रिया तिङन्तावाच्येत्याशङ्क्याह ।
कालानुपाति यद्रूपं तदस्तीति प्रतीयते ।
परितस्तु परिच्छिन्नं भाव इत्येव कथ्यते ।। 12 ।।
इह साध्यत्वेनाभिधीयमानोऽर्थः सिद्धो।ञपि क्रियेति
"क्रिया चैव हि भाव्यते, स्वभावसिद्धं द्रव्यम्" (M.Bha.I,p.2571,9.)
इति शाब्देन रूपेण क्रियालक्षणाख्यानात् सत्तापि आख्यातात् साध्यतया प्रतीयमाना क्रिया । तथा च कालात् क्रिया विभज्यत इति कालानुपातिता यथायथमुपपद्यते, अभूद् अस्ति भविष्यतीति । क्रियाधर्मस्य कालाभिव्यङ्ग्यत्वस्य दर्शनादस्त्यादीनां क्रियात्वम्, सिद्धस्य कालेनायोगात् । न हि घट इत्युक्ते कालविशेषावगतिरस्ति । निर्ज्ञातायां च सत्तायां किं करोतीति प्रश्नासम्भवादस्तीति प्रतिवचनाभावः । न तु क्रियात्वाभावात् । विनाशा शङ्कायां किं करोति देवदत्त इति प्रश्ने अस्ति तावदिति प्रतिवचनोपपत्तेः । कृभ्वस्तयः क्रियासामान्यवचनाः, पचत्यादयः क्रियाविशेषवचनाः, करोतिना हि पचत्यादीनां सामानाधिकरण्यात् तद्विशेषत्वावसायो ब्राह्मणो गार्ग्य इति यथा । यथा ब्राह्मण्यं सामान्यं तद्विशेषो गार्ग्यस्तथा करणं सामान्यं पाकादयस्तद्विशेषा इति किं करोति पचतीत्यादिसामानाधिकरण्योपपत्तिः । इत्थं च करोत्यर्थप्रश्नः पचत्यादिभिर्व्याकृतो भवति । अर्थभेदे तु न प्रश्नसामानाधिकरणो निर्णयो भवेत् । अत एव विशेषसामानाधिकरण्ये विसेषवचना अपि कृभ्वस्तय इत्युक्तम् ।
अभिन्नां चैव भिन्नां च प्राहुः कृभ्वस्तय क्रियाम् ।
एकानेकविशेषस्ता प्रवृत्तिः सार्वनामिका ।।
इति । अनेकव्यक्तिसमवेता सामान्यात्मिका अभिन्ना । नियतव्यक्तिनिष्ठा भिन्ना । सामान्यस्य प्रत्येकं परिसमाप्तत्वात् प्रतिनियतविशेषपरेऽभिधाने सामान्यशब्दोऽपि प्रयोगार्ह एव । तद्यथा सर्वनामशब्दाः सर्वार्थावमर्शयोग्या एव नियतेऽर्थे प्रयुज्यन्ते तं ब्राह्मणमानयेति । अत एव सर्वस्मिन् प्रातिपदिकार्थे प्रवृत्तेः प्रवृत्तिः सार्वनामिका' इत्युक्तम् । ननु च करोत्यर्थ विशेषत्वे सर्वधात्वर्थानामासनमपि करणमिति किं करोतीति प्रश्ने न करोत्यास्ते इति करोत्यर्थनिषेधेनोत्तरं कथं सङ्गच्छते । उच्यते । नात्र क्रियासामान्यं पृच्छ्यते, अपि तु लोकप्रसिद्ध एव गमनादिविशेषः । तत्रैवलौकिकानां क्रियात्वाभिमानादिति युक्त एव गमनादिव्युपरमे करोतिप्रतिषेधः । यदा तु यां काञ्चित् कियां जिज्ञासते तदास्ते शेते इत्यपि प्रतिवचनं भवत्येवेत्यासनादेरपि क्रियात्वम् । कथमपरिस्पन्दरूपस्य तस्य तथात्वमिति चेत्, तन्न, यस्मान्न कायव्यापार एव क्रियालक्षणः , अरि तु साधनानां प्रवृत्तिविशेष इति प्रक्रान्तम् । स च प्रवृत्तिविशेषः सर्वत्रैवानुभवसिद्धः । पर्वतस्तिष्ठतीत्यादावप्याश्रितक्रमरूपस्यार्थस्यावगमात् । न हि सर्वेषां साधनानामेकरूपो व्यापारः केनचिदुपपादयितुं शक्यते । तस्मात् पर्वतादेरप्येकदेशापरित्यागलक्षणस्तिष्ठतौ व्यापारोऽस्त्येव । तदेवमाख्यातान्नियतकालास्तिक्रिया प्रतीयते । सैव च सत्ता नामपदात् सिद्धतया प्रतीयते भाव इति । अपूर्वापरो हि भावः शब्दशक्त्यनुरोधात् तिङन्तेनासादितपूर्वापरोऽभिधीयते पचतीति । कृता तु सिद्धरूपः पाक इति । अत्रापि च धातुभागेन साद्यमानावस्थैव क्रियाभिधीयते । एतावांस्तु विशेषः । आख्याते प्राधान्येनोच्यते पूर्वापरीभूता क्रिया, कृत्सु प्रत्ययार्ते गुणीभूतेति । तथा चौदनस्य पाक इति प्रकृत्यर्थद्वारकः साधनयोग उपपद्यते । साधने च प्रत्ययः । अन्यथा कस्य तत् साधनं प्रत्ययार्थः स्यात्, कस्य वा सिद्धताख्यो धर्मो घञादिनोच्येत । प्रत्ययार्थस्य सिद्धतायाः सत्त्वभूतस्य प्राधान्यात् तस्याभ्यावृत्त्ययोगात् पञ्चकृप्वः पाक इति प्रयोगायोगः । क्रियोपपदाश्रयस्तु प्रत्ययः प्रकृत्यर्थाश्रयः भोक्तुं पाक इति भवतीत्यनन्तरकाण्डे निर्णीतमिहाप्यग्रे निर्णेष्यते । तदेवं पूर्वोत्तरभाग गतक्रमाश्रयेणाख्याताभिधेया सर्वैव क्रियाध्यारोपितक्रमेति न सत्ताया अपि काचित् क्रियात्वे विचिकित्सा ।। 12 ।।
यद्येवं क्रमस्यासतोऽध्यारोपादमुख्यत्वं क्रियायाः प्राप्नोतीत्याशङ्ख्याह ।
व्यवहारस्य सिद्धत्वान्न चेयं गुणकल्पना ।
उपचारो हि मुख्यस्य सम्भवादवतिष्ठते ।। 13 ।।
गोशब्दस्य सास्नादिमति मुख्यत्वात् तत्समानगुणे वाहीकादावुपचरिता प्रवृत्तिपरित्युच्यते । क्रियायास्तु समानकालानाश्रितपौर्वापर्यावयवाया अभावान्न मुख्यता काचित् । सर्वत्र पूर्वोत्तरासमसमया वयवगतकमरूपाध्यारोपादिति नोपचारार्थः कश्चित् । एवंविध एव हि क्रियाव्यवहारः प्रसिद्धः । तथा चैकोऽपि क्षणः समाश्रितक्रमः क्रियेत्युक्तम् ।। 13 ।।
अत्र पूर्वं `प्रतिभेदं समूहः समूहिषु समाप्यते' इति क्रमकल्पनोक्ता । अधुना प्रकारान्तरेणाह ।
आहितोत्तरशक्तित्वात् प्रत्येकं वा समूहिनः ।
अनेकरूपा लभ्यन्ते क्रमवन्तः इवाक्रमाः ।। 14 ।।
समूहिनः क्षणाः प्रत्येकमक्रमा अपि भावतः समनन्तरवर्तिक्षणसमूहगतभेदक्रमाध्यारोपादनेकत्वेन सक्रमत्वेन चावसीयन्त इति प्रत्येकं ते क्रियालक्षणमनुपतन्ति । तथा च सर्वत्राधिश्रयणादौ पचतिशब्दप्रवृत्तिः, अतीतानागतवर्तमानतासिद्धिश्च पचत्यपाक्षीत् पक्ष्यतीति । पूर्वं समूहस्यैव प्रत्येकमध्यास उक्तः । इह तूत्तररूपस्य पूर्वेषु, न तु पूर्वस्य परेषु तस्यानुभववासनावशेनैव तद्विशिष्टोत्तरप्रतिपत्तेरयत्नसिद्धत्वादिति विशेषः ।। 14 ।।
अथवा प्रधानभूतैव पचत्यादिक्रिया फलं प्रत्यनन्तरा अधिश्रयणादीनां तु तादर्थ्यात् तथात्वमित्याह
अनन्तरं फलं यस्याः कल्पते तां क्रियां विदुः ।
प्रधानभूतां तादर्थ्याद् अन्यासां तु तदाख्यता ।। 15 ।।
यत्समनन्तरमोदनादिफलनिष्पत्तिः सा क्रिया फलोपायत्वेनानुष्ठीयमाना । तया हि यत् तत् विचटनं तण्डुलावयवानामवयवान्तरेभ्यो विभागो यदनन्तरं मार्दवादयो निष्पद्यन्ते तद् यदाधिश्रयणादिषु प्रत्यस्तरूपं भवति तदा पचतीत्याख्यातशब्दाभिधेयं क्रियारूपमिति । यतो ह्यनन्तरं फलनिष्पत्तिः सा क्रिया । विचटनानन्तरमेव चौदननिष्पत्तिरिति विचटनमेव तु पाकः । पूर्वे तु व्यापारास्तदुपकारिणो न कार्यजन्मनि साक्षादुपयुज्यन्ते । न हि साक्षादजनयत् किञ्चित् कारकं नाम । यस्त्वधिश्रयणदिकाले पचतीति प्रत्ययः स विचटनोपा यत्वादधिश्रयणादीनां प्रधानभूतविचटनक्रियाध्यासवशात् । नन्वेवमधिश्रयणस्य सिद्धस्योपकारकत्वा(स्व?) भावात् सिद्धत्वम्, तत्र पचिरूपाध्यासश्चेति प्रत्यक्षःपाकः प्राप्तः । नैतदेवम् । सिद्धस्वभावस्यार्थस्य धातुवाच्यत्वाभावादधिश्रयणं सिद्धेन रूपेण न पचिः, अपि तु साध्येन विचटनरूपेण धातुवाच्यम् । तदध्यासात् पचिः । सिद्धसाध्ययोर्हि निष्पन्नानिष्पन्नपोरधिश्रयणविचटनयोरैकात्म्यापत्तौ पचत्यादिशब्द प्रयोगः । विचटनस्य तर्हि नियतकालत्वात् पूर्वापरीभावः कथम् । उच्यते । विचटनं पारशब्दवाच्यं भेदाभावाद्यद्यपि न पूर्वं न परं तथापि गुणक्रियासु तद्रूपारोपाद् गुणक्रियाणां पौर्वापर्यात् पूर्वापरीभूतमित्युच्यते । अन्ये तु विचटनस्यैव रूपमधिश्रयणादिरूपं प्रतिपन्नाः, न रूपशून्यानधिश्रयणादीन प्रत्यस्तविचटनरूपानिति । पूर्वत्र मते।ञधिश्रयणादिषु विचटनरूपस्याध्यासात् पचिप्रत्ययः उक्तः । सम्प्रति तु विचटनस्यैवानेकरूपत्वादिति मतविकल्पः । अत्र चायमाशयः । शब्दप्रमाणका वयम् । शब्दाच्चाधिश्रयणादयः पाकात्मनावगम्यन्ते । न च पचतिप्रत्ययस्य सर्वावस्थासु विशेषमुपलभामहे, येनाधिश्रयणादिषु पचतिरूपाध्यासाद् गौणः स आश्रीयेत । तस्मादनेकरूपं विचटनमेव शब्दार्थ इति केचित् । यथा तु कारिकार्थः तथा विचटनमेव मुख्यं पचिरूपं पूर्वापरानुसन्धानेन समाश्रितक्रमं साध्यमानावस्थम् । तत्समर्थानां तु व्यापाराणामुपचरितं तत् क्रियात्वम् । तथा च
"अथ कः पचेः प्रधानोऽर्थः, यासौ तण्डुलानां विक्लित्तिः "
(M.Bha.II.p.32.1.24-25)
इति च भाष्ये कर्तृव्यापारस्य पचेरूपलक्षणार्थत्वात् सर्वधात्वर्थविषयस्याभिधानम्, तादर्थ्यादेव धातुबिरस्मिन् दर्शने युज्यते । सर्वत्रैव हि कर्तृभावनोपसर्जनमर्थमभिदधति धातवः । तथा च कर्तृस्थक्रियाणामपि बुध्ये द्वेष्टि इच्छतीत्यादौ बोधनं निर्वर्तयतीत्याद्यर्थः । कर्तृव्यापारश्चात्र यथायथं करणप्रणिधानादयः । अस्तीत्यत्राप्यात्मानं बिभर्तीत्यर्थः । तथा चात्मभरणार्था व्यापारास्तादर्य्यादभिधीयन्त एव । एवं च कृत्वा द्वयर्थः पचिरिति पचिग्रहणं सर्वधातूपलक्षणार्थं वेदितव्यम् । उदाहरणमात्रत्वादस्य । तदेवं प्रत्येकं व्यापारभेदाः समारोपितसमूहरूपाः समारोपितानन्तरक्षणभेदा वा क्रमिकाः क्रियारूपत्वाच्च व्यवहारस्य समानसङ्केताः समारोपं प्रतिपद्यन्त एव । फलप्रसवयोग्योऽन्त्यो भागः क्रिया । तदर्थास्त्वन्ये व्यापारा इति दर्शनभेदेनोपपादितम् ।। 15 ।।
इदानीं सत्तायाः क्रमरूपाध्यासेऽपि साध्यता कथमित्याह ।
सत्सु प्रत्ययरूपोऽसौ भावो यावन्न जायते ।
तावत् परेषां रूपेण साध्यः सन्निभिधीयते ।। 16 ।।
सत्सु हेतुषु, प्रत्ययरूपो हेतुस्वभाव असौ पदार्थः कारणात्मना सत्त्वाद्, यावन्न जायते कार्यात्मना सत्त्वं न प्रतिपद्यते, प्रत्ययरूप आविर्भूतस्वभावो वा यावन्न सम्पद्यते, तावत् अत्रान्तराले, परेषाम् हेतूनाम्, रूपेण उपलक्षितः सिद्धत्वात् कर्तृभावमनुभवन् स्वात्मना साध्यो भवन्नाख्यातेन पूर्वापरीभूतः साध्यमानावस्थःऽभिधीयते समुद्युक्तकारणव्यापारः प्रतिष्ठामासादयंस्तिङन्तगोचरः पदार्थ इत्यर्थः । तत्र च पूर्वभागो जायतेशब्दगोचरः । यथा वक्ष्यति
"पूर्वाभागस्तु यज्जातात् तज्जन्म व्यपदिश्यते "(verse 28)
इति । उत्तरभागोऽस्तिशब्दगोचरः । सत्ताप्रतिलम्भाभिमुख्यं हि जन्म । तत्र व्यापृतं वस्तु व्यापारावसाने सत्ता समासाद्यास्तीति पूर्वव्यापाराध्यारोपेणाभिधीयते । अस्त्यात्मानं बिभर्ति सत्तां भावयतीति यावत् । एवं समाश्रिते साधनव्यापारे साध्यता ।। 16 ।।
तदभावे पुनः--
सिद्धे तु साधनाकाङ्क्षा कृतार्थत्वान्निवर्तते ।
न क्रियावाचिनां तस्मात् प्रयोगस्तत्र विद्यते ।। 17 ।।
परिसमाप्तरूपो भावे फलाभावान्निरपेक्षकारणव्यापारेऽपरिगृहीतव्यापारे परिगृहीतक्रमार्थवचनानि तिङन्तपदानि प्रयोगं नासादयन्ति । तथा च तत्र भाव इति सिद्धार्थवाचकं नामपदं प्रवर्तत इत्युक्तम् ।। 17 ।।
तदेवं सर्वैव क्रिया साध्यस्वभावा क्रमवतीति निगमयितुमाह--
स च पूर्वापरीभूत एकत्वादक्रमात्मकः ।
पूर्वापराणां धर्मेण तदर्थेनानुगम्यते ।। 18 ।।
सः अनन्तरप्रतिपादितसत्तत्त्वः क्रियाख्योऽर्थः, एकत्वात् पूर्वापरभावरहितोऽत एव पूर्वापरभागगतानुपूर्वीरहितोऽपि तद्‌व्यतिरिक्ततदर्थपूर्वापरक्षणगतानुपूर्वीसमारोपादाश्रितक्रमरूपं क्रियालक्षणं पुष्णातीत्यर्थः । तदर्थेन इति तादर्थ्याद् गुणक्रियागतो धर्मः प्रधानक्रियायामुपचर्यत इत्याह ।। 18 ।।
यतः फलैक्यादभेदाध्यवसायोऽत्रेत्याह ।
असन्निरवर्तते तस्माद् यत् सत् तदुपलभ्यते ।
तयोः सदसतोश्चासावात्मैक इव गृह्यते ।। 19 ।।
एकफलोद्देशेन प्रवृत्तानां क्रमवतां क्षणानां पूर्वो व्यपगतोऽसन् । वर्तमानश्च उपलभ्यते क्षणः सन्निति । तयोर्भिन्नयोरप्यैक्यमध्यवसाया पूर्वापरापि पूर्वापरीभूता क्रमवती क्रिया व्यवस्थाप्यते ।। 19 ।।
एवं तावत्
पदार्थानामपोद्धारे जातिर्वा व्यक्तिरेव वा । (Vak.III.जा.2.)
इति व्यक्तिवादिमतेन क्रियालक्षणोऽपोद्धारपदार्थो निर्णीतः । इदानीं जातिवादिमतेनाह-
जातिमन्ये क्रियामाहुरनेकव्यक्तिवर्तिनीम् ।
असाध्या व्यक्तिरूपेण सा साध्येवोपलभ्यते ।। 20 ।।
सर्वत्र प्रत्ययानुवृत्तिप्रमाणसाधिता जातिरिति पचतीति प्रत्ययस्य कर्तृकर्मादिभेदेऽप्यनुवृत्ते क्रियाव्यक्तिसमवेता जातिपवश्याब्युपगन्तव्या । सैव च धातुवाच्या । स्फोटवच्चास्या असमसमयभाविभिरपि क्षणैरभिव्यक्तिः अत एव अनेकव्यक्तिवर्तिनीम् इत्याह । जातित्वादेवानेकव्यक्तिवर्तित्वे लब्धे सदसद्‌व्यक्तिव्यङ्ग्यत्वमावेदयितुमिदमुक्तम् । भ्रमणत्वादिजातिवदुपव्यं जनावृत्तिबलेन क्रियाजातिरभिव्यक्तिमासादयति । तथा च स्वतो नित्यत्वेऽप्यस्याः स्वाश्रयमुखेन साध्यत्वं सक्रमत्त्वं च क्रियालक्षणमवतिष्ठते । अतश्च स्वाश्रयद्वारेणैवास्याः साधनाकाङ्क्षा ।। 20 ।।
यथा व्यक्तिदर्शने
अनन्तरं फलं यस्याः......(verse 15.)
इति मतान्तरमुपदर्शितं तथात्रापि जातिदर्शने प्राह ।
अन्ते या वा क्रियाभागे जातिः सैव क्रिया स्मृता ।
सा व्यक्तेरनुनिष्पादे जायमानेव गम्यते ।। 21 ।।
यस्याः क्रियाव्यक्तोरनन्तरं फलं निर्वर्तते तत्र समवेता या जातिः सैव क्रिया । पूर्वास्तु तादर्थ्यात् क्रिया इति पूर्वानुसारेण गम्यमानत्वात् पुनरिह नोक्तम् । स्वाश्रयनिष्पादनद्वारेण चास्या अपि साधनयोगः साध्यत्वं च ।। 21 ।।
एवमपरा जातिर्दर्शनभेदेन क्रियेत्युक्तम् । इदानीं परा जातिः सत्ताख्या महासामान्यरूपा जाति क्रियेत्युपपादयति ।
स्वव्यापारविशिष्टानां सत्ता वा कर्तृकर्मणाम् ।
क्रिया व्यापारभेदेषु सत्ता वा समवायिनी ।। 22 ।।
"संबन्धिभेदात् सत्तैव भिद्यमाना गवादिषु ।
जातिरित्युच्यते तस्यां सर्वे शब्दा व्यवस्थिताः ।।"(Vak.III.जा33.)
इत्युक्तत्वात् क्रियाजातित्वं संबन्धिभेदोपधानेन सत्तायाः समर्थयितुं कर्तृकर्मसमवेतव्यापारावच्छिन्ना सत्ता क्रियाजातिरित्याह । व्यतिरेकिणोऽपि हि भावाः सत्ताया भेदोपाधय इत्युक्तं कर्तृकर्मणाम् इति । तत्रैव क्रियासमवायात् । तेषु च व्यापाराविष्टेषु क्रियाव्यवहारात् तत्समवेतैव क्रियोचिता । व्यापारसमवेता वा सत्ता स्वाश्रयोपहितभेदा अस्तु क्रिया । किमनेन व्यवधानेन कर्तृकर्मगता सत्तेति ।। 22 ।।
अत्रैव सत्ताजातिदर्शने मतान्तरमाह ।
अन्त्ये वात्मनि या सत्ता सा क्रिया कैश्चिदिष्यते ।
भाव एव हि धात्वर्थ इत्यवच्छिन्न आगमः ।। 23 ।।
यदनन्तरं फलं तत्र व्यापारभागे या सत्ता सा क्रिया पूर्वास्तु तादर्थ्यात् । व्यापारविशिष्टा चेत् सत्ता क्रिया, अलमनया, व्यापार एवास्तु क्रियेत्याशङ्कयागमेनैत दभ्युपगमयति भाव एव हि इत्यादिना ।
"षड् भावविकारा भवन्तीति ह स्माह वार्ष्यायणिः"(Ni.I.2.8.)
इति भाष्यकारेणैवागमोऽनुसृतः । तथा च
"तां प्रातिपदिकार्थं च धात्वर्थं च प्रचक्षते"(Vak.III,जा.34)
इति सत्तैव भावशब्दवाच्या गुरवः क्रियेति मन्यन्ते । सैव हि संबन्धिभेदोपधानमात्रेण भिद्यमाना शब्दार्थवैचित्र्यमुपपादयति । तथाहि संबन्धिनोऽप्यस्यास्तत्त्वतः स्वशक्तिविष्फारा एवेति सत्ताद्वैतवादाभिप्रायेणेदं निगमयति
सत्ता स्वशक्तियोगेन.....
इत्यादि ।। 23 ।।
इदानीं बुद्धिः शब्दार्थ इति बौद्धपक्षे क्रियाव्यवस्थामाह ।
बुद्धिं तज्जातिमन्ये तु बुद्धिसत्तामथापरे ।
प्रत्यस्तरूपां भावेषु क्रियेति प्रतिजानते ।। 24 ।।
बुद्धिरिति तत्प्रतिभास्याकारोऽत्र विवक्षितः । तस्यैव हि भावेष्वध्यारोपो दृश्यविकल्पयोरभेदाध्यवसायात् । मतभेदेन चात्र जातिव्यक्ती क्रिये । महासामान्यं वा सत्ता । बुद्ध्याकारसमवायिनी सत्ता क्रिया भावेष्वध्यारोपिता च सैवमिति तदाश्रयेण साधनाकाङ्क्षा साध्यत्वं च सर्वमुपपद्यते । एतच्चोपचारसत्ता शब्दार्थ इति नयेन कथ्यते । सत्तायाः क्रियात्वे
"सैव भावविकारेषु षड्वस्याः प्रपद्यते" (Vak.III,जा.36)
इत्युक्तम् । तत्र भावस्य सत्ताया विकारा विशेषाः षट् सर्वक्रियाणां योनयः । षट्त्वमपि नात्यन्ताय भेदा वलम्बि ।। 24 ।।
यतः
आविर्भावतिरोभावौ जन्मनाशौ तथापरैः ।
षट्सु भावविकारेषु कल्पितौ व्यावहारिकौ ।। 25 ।।
सत्कार्यनये पदार्थानामाविर्भावोऽभिव्यक्तिरेवोत्पत्तिः । तिरोभावश्च ध्वंसः । असत्कार्यनये तु जन्मापूर्वोत्पत्तिर्विनाशश्च लयः । इत्येतौ दर्शनभेदेन भिन्नो द्वौ भावविकारौ षट्सु मध्ये परिकल्पितौ व्यवहारप्रसिद्ध्यारोपितौ । तथा हि-सत्तालक्षणस्य भावस्य नित्यत्वादुदयप्रध्वंसायोगः । सदैकस्वरूपत्वाच्चाविर्भावतिरोभावावपि न स्तः । धर्मान्तरस्य तु तौ सत्तागतत्वेन व्यवहृतौ । सतो विनाशविरोधोऽपि सतश्च जन्मायोगो धर्मान्तरस्यापि ।। 25 ।।
एवं जन्मनाशावेव कल्पितौ क्रियाव्यवहारं सर्वं व्याप्नुत इत्याह ।
ताभ्यां सर्वप्रवृत्तीनामभेदेनोपसंग्रहः ।
जन्मैवाश्रितसारूप्यं स्थितिरित्यभिधीयते ।। 26 ।।
सर्वः क्रियाकलापो यथायोगं जन्मानाशाभिन्नः । उपचयापचयरूपौ हि विकारावजस्रप्रवृत्तिषु भावेषु । तौ च तात्पर्यतो धर्मान्तराविर्भावतिरोभावलक्षणौ । तथा हि - जन्म केनचिद् धर्मेणाविर्भावः । तत्र सव्यापारं पूर्वोत्तरावस्थात्यागावाप्त्योरन्तराले वर्तमानं जायते इत्यभिधीयते वस्त्वात्मलाभोन्मुखम् । समासादितरूपं तु सव्यापारमिवास्तीत्याख्यातपदेनाभिधीयत इत्यस्तित्वमात्मलाभपर्यायमाविर्भावरूपस्य जन्मन एवोत्तरोऽवस्थाविशेषः । तथा च निरुक्तकारः
"जायत इति पूर्वभावस्यादिमाचष्टे"(Ni.I.2.)
इत्याह । पूर्वभावस्य विपरिणामादेर्व्यावहारिकात् प्रथमस्यास्तित्वस्यादिर्जन्म इत्यर्थः । तथा
"अस्तीत्युत्पन्नस्य सत्त्वस्यावधारणमाचष्टै" (Ni.I.2)
इति । उत्पन्नस्य सत्त्वस्येति जन्मोत्तरकालतामेवाभिव्यनक्ति । अवधारणं निश्चयः । अस्त्यात्मानं भावयति । अस्याश्च भाव्यमानायाः सत्तायाः सन्तानेन प्रवृत्तेः पूर्वोत्तरक्षण निरोधोपजनाभ्यां सङ्गहः । यावच्च सदृशसन्तानप्रवाह स्तावदलक्षितविवेको भावोऽस्तीत्यवधारणार्थमभिधीयते । अस्त्यात्मानं विभर्त्येव न ध्वंसते इत्यर्थः । विसदृशसन्तानोपजनेऽर्थभेदेन विपरिणमत इति व्यपदिश्यते तत्त्वादप्रच्युतं वस्तु । यदाह निरुक्तकारः ।
"विपरिणमत इत्यप्रच्यवमानस्य तत्त्वाद् विकारमाचष्टे" (Ni.I.2,)
इति । अत्रैवोपचयविवक्षायां वर्धत इति । यदाह निरुक्तकृत् ।
"वर्धत इति स्वाङ्गाभ्युच्चयं संयोगिनां पदार्थानामाचष्टे"(Ni.I.2,)
इति । वर्धते शरीरेण, वर्धते विजयेन इति । अपचयविवक्षायां तु पूर्वमपक्षीयत इति तदनन्तरं विनश्यतीति तिरोभावाभिधानमवस्थाद्वयेन । यदाह स एव ।
"अपक्षीयत इति स्वाङ्गापचयं संयोगिनामर्थानामाचष्टे, विनश्यतीति पूर्वभावस्यान्तमाचष्टे" (Ni.I.2.)
इति । पूर्वभावोऽस्तित्वमुक्तम् । तदेवं द्वाभ्यां षड् व्याप्ताः । तत्राव्याप्तिर्भाव्यकृतोद्भाविता ।
"सर्वथा स्थित इत्यत्र धातुसंज्ञा न प्राप्नोति । बाह्यो ह्येतेभ्यस्तिष्ठतिः "
(M.Bha,I,p.258,1.14-15)
इत्याशङ्कय तिष्ठतेरपि क्रियात्वं वक्तुमुक्तम् जन्मैवाथ्रितसारूप्यं स्थितिरित्यभिधीयते इति । सदृशप्रवाहरूपतयानिर्धार्यमाणविभागं जन्मैवम्(वा?)भिधीयते स्थितिरिति । जायते इतिवत् तिष्ठतीत्यपि सिद्धम् । क्रियान्तरनिर्व(व?)र्तकत्वेन चैवमभिधानाद् व्यापारविशेषः साध्यस्वभावो धातुनाभिधीयत एव ।। 26 ।।
किं बहुना, जन्मनाशावपि नार्थान्तरभूतौ अपि तु सत्तैव धात्वर्थः सर्वत्रेत्याह ।
जायमानान्न जन्मान्याद् विनाशेऽप्यपदार्थता ।
अतो भावविकारेषु सत्तैका व्यवतिष्ठते ।। 27 ।।
धर्माणां धर्मिपारन्त्र्येणावभासात् ततो व्यतिरेको न सिद्धः । अतश्च धर्म्येवानुगतो व्यावहारिकैः सर्वावस्थो व्यवहर्तुं सकृदाशक्य एवमभिधीयते जायते अस्ति विपरिणमते वर्धते इति । सत आविर्भावविरोधाद् असतोऽपि निरूहस्यात्मासादनासमर्थत्वाज्जन्मार्थोऽपि वस्तुतो न कश्चित् । सतो निरन्वयध्वंसविरोधाच्च विनाशोऽपि न व्यतिरिक्तः पदार्थः कश्चित् । तस्योपजने भावस्य प्रागिवोपलम्भप्रसङ्गात् तेन तस्य विनाशे तस्यापि व्यतिरिक्तस्योदये पूर्ववत् प्रसङ्गादुत्पद्यमानस्य च भावताप्रसङ्गादित्यादिदूषणमन्यैरेवाभिहितमनुसन्धेयम् । एवञ्च षट्स्वपि भावविकारेषु सत्यभूता सत्तैव महासामान्यस्वभावा । तस्याश्च नित्याया अप्याख्यातवाच्यत्वेन क्रमरूपोपग्रहवशेन साध्यस्वरभावतालक्षणं क्रियात्वमुक्तम् । नामपदप्रत्याय्यत्वेन तु साधनत्वम् ।। 27 ।।
असत्यपि च वस्तुतो जन्मादिभेदे व्यवहारः तत्तद्रूपतया प्रसिद्धः । तथा हि ।
पूर्वभागस्तु यज्जातात् तज्जन्म व्यपदिश्यते ।
आश्रितक्रमरूपेण निमित्तत्वे विवक्षिते ।। 28 ।।
परिनिष्ठितरूपो भावो जात इति व्यपदिश्यते । अस्मात्तु पूर्वोऽवस्थाविशेषो जन्म, यद्वशादसौ जात इति व्यपदेशमासादयति । तच्च जन्म निमित्तत्वेन साधनानां सव्यापारत्वे विवक्षिते पूर्वापरीभूतं जायतेशब्दगोचरः क्रिया भवति ।। 28 ।।
यतः
आख्यातशब्दैरर्थोऽसावेवंभूतोऽभिधीयते ।
नामशब्दाः प्रवर्तन्ते संहरन्त इति क्रमम् ।। 29 ।।
असौ जाताद्वस्तुनः पूर्वो भागः कारणात्मनावस्थानलक्षणो वस्तुतोऽविद्यमानक्रमोऽप्याख्यातशब्दाज्जायत इत्यस्मात् एवंभूतः समाश्रितक्रमः प्रतीयत इति क्रिया लक्षणमनुपतत्येव । तथा हि ।
पूर्वस्मात् प्रच्युता धर्मादप्राप्ता चोत्तरं पदम् ।
तदन्तराले भेदानामाश्रयाज्जन्म कथ्यते ।। (Vak.III.जा.39)
इति पूर्वोत्तरावयवभेदानुपूर्वीसमाश्रयेणैव जन्यर्थो व्याख्यातः । स एव च पूर्वभागो जन्मेति नामपदेन संहृतक्रमरूपतया द्रव्यायमाणः सिद्धरूपोऽभिधीयते । आख्यातवाच्येन चाभेदाध्यवसायाच्च तत्र दृष्टस्य क्रमस्योपसंहरणाभिमान इति संहरन्त इव इति इवशब्दः । तथा च सर्वत्र नामाख्यातयोः सिद्धसाध्यरूपार्थाभिधानमनुसरणीयम् ।। 29 ।।
यथा च जन्म पूर्वभागस्वभावं तथा विनाशोऽप्युत्तरभागस्वभाव इति केषांचिन्मतमित्याह ।
फलं फलापदेशो वा वस्तु वा तद्विरोधि यत् ।
तदन्यदेव पूर्वेषां नाश इत्यपदिश्यते ।। 30 ।।
फलं कार्यरूपं कारणविरुद्धं विनाशाख्यां लभते । तद्यथा संयोगः कर्मणः, ज्ञानं वा ज्ञानान्तरस्य, धर्माधर्मयोः सुखदुःखसंवेदनमित्यादि वाच्यम् । फलापदेशो यः फलमिति भ्रान्त्या परमपदिश्यते वस्तुतोऽफलमपि । तद्यथा घटस्य कापालादयो मुद्गराभिघातज्जायमानाः, पटस्य तन्तवः शीर्णस्यानन्तर्यात् फलत्वेनाभिधीयमाना विनाशव्यपदेशमासादयन्ति । तद् इति बुद्धिस्थविनाश्यप्रत्यवमर्शः । तस्य यो विरोधी भावोऽकार्यभूतोऽपि सोऽपि विनाश इति व्यवह्रियते । तद्यथा संयोगस्य विभागः, सुखस्य दुःखमित्यादि । तदेवम् अन्यदेंव वस्तु विनाशः । न त्वपदार्थोऽभावरूपस्तुच्छः । तस्यावस्तुत्वादभाव्यत्वम्, भाव्यत्वे वा तुच्छतायोग इति चिरन्तनवैशेषिकाणां मतम् । स चाख्यातेन क्रियारूपकतयाभिधीयते सक्रमो विनश्यतीति, नामपदेन तु संहृतक्रमो विनाश इति ।। 30 ।।
ननु च वस्त्वन्तरं कथं वस्तुनो विनाश इत्याशङ्क्योपपादयति ।
नैवास्ति नैव नास्तीति वस्तुनो ग्रहणाद् विना ।
कल्पते पररूपेण वस्त्वन्यदनुगम्यते ।। 31 ।।
यथा कस्यचिद्रूपस्यानुभवं विनास्तीति व्यवहारो न कल्पते तथा नास्तीत्यपीति दृष्टान्तगर्भमभिधानम् । तदयमत्रार्थः । संसर्गिरूपविवेकेन न कश्चिदपि वस्तुनो व्यवहार इति यथा सत्ताबिसन्धानादिना अस्तीति व्यवह्रियते तथा फलाद्युपजने नास्तिताव्यवहरोऽपि युज्यते । भावप्रतियोगी ह्यभावः । स च शून्यतारूपो न युज्यते, अकिञ्चिद्रूपस्य प्रत्येतुमशक्यत्वात् । न हि प्रत्ययश्च जायते प्रत्येतव्यं च नास्तीति युज्यते । तस्माद्वस्त्वन्तरं फलाद्येव विनाश इति युक्तमुच्यते । पररूपेणैव हि वस्तुनो ब्रह्मकल्पस्यान्यान्यरूपतया व्यवहारावतरणम्‌ ।। 31 ।।
ननु च वस्तुनो ग्रहणं विनान्धतमसे स्पर्शनेन्द्रियेण शून्यतारूपानुभवादभावोऽवसीयत इत्याशङ्क्याह ।
भावाभावौ घटादीनामस्पृशन्नपि पाणिना ।
  कश्चिद्वेदाप्रकाशेऽपि प्रकाशे तत एव वा ।। 32 ।।
पाणिना संस्पर्शमन्तरेणाप्रकाशे तत एव वस्तुनो ग्रहणात् प्रकाश इव वस्तूनां भमावावाववैत्येव कश्चित् प्रतिषत्ता । तथा हि सत्यप्यालोके तदभावे वा प्रमाणान्तरात् पुरोऽवस्थितं वस्तु सम्भावयन् भावमवैति, तद्विरोधिनं चार्थं निश्चित्याभावामिति, वस्तुग्रहणायत्तावेव भावाभावव्यवहारौ । सर्वस्यामपि दशायां समन्धकारेऽपि पूर्वप्रवृत्तवस्तुग्रहणानुस्मरणनिमित्तत्वात् पाणिसञ्चारेणापि चाभावावसायो वस्तुग्रहणादेव हस्तस्या स्पृष्टस्यानुभवात् । हस्तगतं हि स्प्रष्टव्यरूपमर्थान्तरविविक्तमनुभूय स्पर्शनेन्द्रियेणार्थान्तरस्याभावो निश्चीयते । तदेवं स्थितमेतद् वस्त्वन्तरं इति ।। 32 ।।
इदानीं दर्शनान्तराश्रयेण जन्मनाशौ विभजति ।
व्यापि सौक्ष्म्यं क्वचिद् याति क्वचित् संहन्यते पुनः ।
अकुर्वाणोऽथवा किञ्चित् स्वशक्त्यैवं प्रकाशते ।। 33 ।।
व्यापकं प्रधानतत्त्वं क्वचिद्देशे काले वा सौक्ष्म्यं तनुतामापद्यत इति सावस्था तिरोभावात्मिका नाशो नश्यतीति च नामाख्याताभ्यां सिद्धसाध्यरूपतयाभिधीयते । तदुक्तम् ।
तिरोभावाभ्युपगमे भावानां सैव नास्तिता ।
लब्धक्रमे तिरोभावे नश्यतीति प्रतीयते ।। (Vak.III.जा.38.)
इति । क्वचित् पुनस्तदेव व्यापि वस्तु स्वनिमित्तवशात् संहन्यते संघातरूपतां भजते इति सावस्थाविर्भावात्मिका जन्म जायते इति च पूर्ववद् व्यवह्रियते । एतच्च प्रदानस्यावस्थाद्वयमनवरतप्रवृत्तिशीलरजोगुणवसाद् भवतीति क्रियारूपमनुपततीति । तदेवं निरुक्तकारमताश्रयेण भावविकाराः क्रियासामान्यभूताः व्याख्याताः ।। 33 ।।
यद्वा निष्क्रिय एवैको व्यापकः परब्रह्माभिधानो भावोऽचिन्त्यशक्तियुक्तो जन्मनाशव्यवहारमविद्यादशायां वर्तयति । न तु भावतो जन्मनाशौ कौचित् । तथा हि ।
सर्वरूपस्य तत्त्वस्य यत् क्रमेणेव दर्शनम् ।
भागैरिव प्रक्लृप्तिश्च तां क्रियामपरे विदुः ।। 34 ।।
सर्वपरिकल्पातीतमपि ब्रह्म समाविष्टसर्वशक्तित्वात् सर्वरूपेणावबासमानं कालाख्यस्वातन्त्र्यशर्तिप्रवर्तितक्रमावभासं पूर्वापरीभूतावयवसमाहारात्मिकां क्रियाप्रतीतिमुपजनयति साध्यस्वभावभावविषयाम् । सिद्धस्वभावभावविषयेतु दिक्‌शक्तिप्रकल्पितभागभेदप्रकल्पनान्मूर्तिविभागमारचयति । तथा चा प्रविभागमपि देशकालाभ्यां प्रविभक्तमिव चकास्तीति । तत्प्रविभागानुसारिणौ जन्मनाशौ समस्तक्रियाभेदानुसारिणौ व्यावहारिकौ प्रसिद्धौ । तदेवमियं विवर्तदर्शनेन क्रियाख्याता पूर्वं तु परिणामदर्शनेनोक्ता । अत एवात्र क्रमेणेव इतीवशब्दः । एकस्य हि तत्त्वादप्रच्युतस्य वस्तुतः क्रमो नास्ति । तथा तु दर्शनमात्रम् । अत एव
अकुर्वाणोऽथवा किञ्चित् स्वशक्त्यैवं प्रकाशते ।
इति तत्त्वादप्रच्युतस्य निष्क्रियस्य सक्रियस्येव प्रकाशनं विवर्तो द्योतितः ।। 34 ।।
इदानीं सत्ताद्वैतदर्शनेन "षड् भावविकारा भवन्ति" इति निरुक्तकारमतमेव निगमयितुमाह ।
सत्ता स्वशक्तियोगेन सर्वरूपा व्यवस्थिता ।
साध्या च साधनं चैव फलं भोक्ता फलस्य च ।। 35 ।।
"तां प्रातिपदिकार्थं च धात्वर्थं च प्रचक्षते"(Vak.III.जा.34)
तथा "सैव भावविकारेषु षडवस्थाः प्रपद्यते' (Vak.III.जा.36)
इति जातिसमुद्देशे सर्वभावानुयायिनी सत्सदिति प्रत्ययहेतुः सन्मात्ररूपस्य सर्वंत्रानुगमान्माहासमान्यस्वभावा सत्ता सर्वशब्दानां विषय इति प्रतिपादितम् । तथा च स्वशक्तिरूपोपाधिनियमितशरीरा सर्वात्मकत्वमनुभवन्त्यपि सिद्धसाध्यरूपतया नामाख्यातपदवाच्यतामनुभवति । तद्व्यतिरेकेण च पदार्थान्तराभावात् सैव विचित्रशक्तित्वाद् भोग्यभोक्तृतत्‌साधनरूपतया विस्वयात्रामुद्वहति । सर्वत्र भोक्त्रादिषु सन्मात्रस्य संविद्रूपस्यानुगमात्तस्यैव सत्यता । विकल्पपरिघटितस्तु नानात्वव्यवहार इति सर्वाद्वैतावादिषु समानमेतत् ।। 35 ।।
अधुना यत्तत् साधनसमुद्देशे
प्रवृत्तिरेव प्रथमं क्वचिदप्यनपाश्रिता ।
शक्तिरेकाधिकरणे स्रोतोवदपकपर्षति (Vak.III.सा.33)
इति क्रियालक्षणमुक्तं तदनुस्मारयति ।
क्रियामन्ये तु मन्यन्ते क्वचिदप्यनपाश्रिताम् ।
साधनैकार्थकारित्वे प्रवृत्तिमनपायिनीम् ।। 36 ।।
प्रवृत्तिलक्षणेयं क्रिया नित्याना श्रिता
अपूर्वं कालशाक्तिं वा......(Vak.C.का 34)
इत्यादिना पूर्वमेव व्याख्याता साधनशक्तिभिः सह साध्यमेकं फलं साधयतीति ताः शक्तीर्द्रव्याणां प्रवहद्रूपा सती समाकर्षयति ।। 36 ।।
कथमस्या नित्याया साध्यत्वमिति चेदाह ।
सामान्यभूता सा पूर्वं भागशः प्रविभज्यते ।
ततो व्यापाररूपेण साध्येव व्यवतिष्ठते ।। 37 ।।
प्रथमावस्थायामपूर्वादिरूपतया सा प्रवृत्तिः सामान्येनाभिधीयते । परतस्तु यथास्वं साधनव्यापारोपपादितप्रविभागा साध्यमानरूपतया क्रियेति व्यवह्रियते । तथा चानुद्भिन्नविशेषरूपदशायां कारकशक्तीनां प्रवर्तिंका । ततो निष्कृष्य प्रवृत्तिरिति सामान्यसमारव्यायानाश्रयैव मण्यते । विशेषप्रक्रमे तु साधनसगवायिनी साध्यतामनुभवन्ती यथायथं पचिक्रिया भिधिक्रियेत्यादि व्यवहारं वर्तयति । अत एव
कारकाणां प्रवृत्तिविशेषः क्रिया" (M.Bha.I.p.258,1.11)
इति लक्षण मुद्दिष्टम् ।। 37 ।।
प्रकृति साधनानां सा प्रथमं तच्च कारकम् ।
व्यापाराणां ततोऽन्यत्लमपरैरुपवर्ण्यते ।। 38 ।।
अपूर्वादिस्वभावासौ सामान्यभूता प्रवृत्तिर्द्रव्याणां कारकशक्तीरादधाना प्रकृतिरिति मण्यते । अत एव प्रवर्तकत्वात् स्रोतसा तुल्या कथिता । एवंभूतापि च नित्यत्वादन्यसाधनसाध्या न भवतीति तदेव प्रथममाद्यं कारकम्, कारकाणामपि साधकमित्यर्थः । तदेव च प्रवृत्तिरूपं साधनभेदेषु प्रविभक्तशरीरं विशिष्टक्रियास्वभावमित्येकीयं मतम् । अन्ये तु ततः सामान्यभूतात् प्रवृत्तिलक्षणात् साधनभेदसमवेतानां विशिष्ट क्रियास्वभावानां व्यापाराणामन्यत्वं भेदमभ्युपयन्तीति दर्शनविकल्पः सामान्यविशेषयोर्व्यतिरेकमतावलम्बनेनोक्तः ।। 38 ।।
तदेवं विभक्तलक्षणा क्रियाख्यातशब्दैरभिधीयते इत्युक्तम् । तत्रोच्यते-साधन-संख्याकालपुरुषोपग्रहा अप्याख्यातपदात् प्रतीयन्त इति कथं क्रिवावाचि नियमेन तदित्याशङ्क्योपपादयति ।
बहूनां सम्भवेऽर्थनां केचिदेवोपकारिणः ।
संसर्गे कश्चिदेषां तु प्राधान्येन प्रतीयते ।। 39 ।।
बहूनामर्थानां सम्भवे सति संबन्धोऽवश्यंभावी । तत्र च न सर्वे समशीर्षिकया संबन्धभाजः । अपि तु केचिदेवोपकारिणः अङ्गभूताः । ततोऽन्यः कश्चिद्-उपकार्योऽङ्गीति प्रतियते । तथा च प्रधानोपसर्जनभावे सति संबन्धः प्रतिष्ठामासादयति ।। 39 ।।
ततः किमित्याह ।
साध्यत्वात्‌तत्र चाख्यातैर्व्यापाराः सिद्धसाधनाः ।
प्राधान्येनाभिधीयन्ते फलेनापि प्रवर्तिताः ।। 40 ।।
व्यापाराः क्रियारूपाः साध्यस्वभावाः तिङन्तैः प्रदानभावेन अभिधीयन्ते इति साधनाद्यभिधानेऽप्याख्यातस्य क्रियावाचित्वमुपपद्यते । क्रियाप्रधानं ह्याख्यातम् । प्रधानेन च व्यपदेशा भवन्ति । सिद्धसाधनाः इति । सिद्धं निर्वृत्तं साधनमेषामिति कारकापेक्षया व्यापाराणां प्राधान्यमुद्दीपयति । भाव्यं हि निर्वर्त्यं प्रधानं भूतापेक्षया । यद्येवं क्रियापेक्षयापि फलं प्रधानं तदर्थं प्रवृत्तेरित्याशङ्क्याह फलेनापि प्रवर्तिताः इति । वस्तुवृत्तेन भवतु फलं प्रधानम् । आख्यातात्तु क्रियायाः प्रधान्याध्यवसायः । पचतीति हि न फलं शब्देनोपादीयते । अपि तु पदान्तरनिबन्धनं तत् । एकपदनिबन्धनेषु चार्थेषु गुणप्रधानभावश्चिन्त्यते । पच्यते इत्यपि कर्मणि प्रयोगे शब्दात् पाकस्यैव साध्यतया प्राधान्यं प्रतीयते । पाको निर्वर्त्यते, इति ह्यत्रार्थः । स तु पाकः फलसाधनायेति सामर्थ्यात् प्रतीयते फलं प्रत्यङ्गभावः क्रियायाः । साक्षात्तु शब्दव्यापारेण प्राधान्यमेवास्याः । क्रियैव हि प्रधानभूता चोदिता सत्यनुष्ठीयते । वस्तुसामर्थ्यात्तु फलं भवति । न तु फलाय क्रिया चोदिता, प्राधान्येन चोदनाद् यजेत इत्यादि । अत एव सैव प्राधान्याद् वाक्यार्थो वैयाकरणानामिति क्रियाविवेकेऽस्माभिर्विवेचितं तत एवावधार्यम् । साधनानां तु सिद्धानां परमनुपकुर्वतामभिधाने प्रयोजनाभावात् तिङन्तेन गुणभूतान्येव क्रियायां साध्यायां तान्यभिधीयन्ते । कर्मणोऽपि साधनसाधारणस्य कारकत्वस्य भावात् क्रियां प्रति गुणभाव एव । यत्र तु तदेव फलं तत्र फलरूपानुप्रवेशादस्य वास्तवं प्राधान्यम्, न तु शाब्दम् । एतच्च क्रियाविवेकादेव विस्तरतोऽवगन्तव्यम् । संख्यापुरुषौ साधनाधारद्रव्यधर्मत्वात् साधनद्वारेण क्रियामुपकर्वन्तौ गुणभूतौ । तत्र कालोपग्रहौ तु साक्षादेव क्रियोपकारितया गुणभूतौ । यत्र च भावे लकारस्तत्र सङ्ख्याद्यपेक्षमेव प्राधान्यं क्रियायाः । एकपदोपात्तस्य साधनस्याभावात् संङ्ख्यया साक्षात् संबन्धः प्राधान्यादेव न भवति, क्रियायाः साध्यत्वाद्ध्यसौ प्रधानम् । न ह्यनिर्वृत्तं परस्याङ्गभावमुपगन्तुमर्हति । तथा चास्या भेदाभाव इति
एका क्रिया (M.Bha.I.p.238 1.10)
इति भाष्यम् । एकशब्दश्चायं भेदाभावप्रदर्शनपरो न सङ्ख्यावचनः । असत्त्वभूतत्वेन निःसङ्ख्यत्वात् क्रियायाः ।। 40 ।।
यद्येवं संख्यावाचिभ्यः क्रियागणनावृत्तौ कृत्वसुजादयः कथं पञ्चकृत्वः पचति द्विः पचतीतीत्याशङ्ख्योपपदयति ।
एकत्वावृत्तिभावाभ्यां भेदाभेदसमन्वये ।
संख्यास्तत्रोपलभ्यन्ते संख्येयावयवक्रियाः ।। 41 ।।
निःसंख्या एकापि क्रिया यदा आवर्तते तदा आवृत्तिनिबन्धनं भेदं स्वतश्चाभेदमुपादाय भेदाभेदयोगेऽस्याः संख्या दृश्यन्ते । [संख्येयावयवक्रियाः इति ?] संख्येया अववयक्रियायासाम् । अयमर्थः । एकफलत्वादेककर्तृकत्वाच्च क्रियैका पुनः पुनः प्रवृत्तिलक्षणां चावृत्तिमनुभवति । तत्राख्यातेन सकलक्रियाप्रवाहोऽभेदेनाभिधीयते । आवृत्तिनिबन्धनं तु भेदमवयवाधिकरणं संख्यापदमनुभवति । तथा च कृत्वसुजाद्युत्पत्तिः । न ह्यत्यन्तभेदेऽभेदे वा आवृत्तिः सम्भवति । अपि तु भेदा भेदाभ्याम् । एवं तावत् क्रियायाः स्वतः संख्यायोगो नास्ति । पचति पचतः पचन्ति इति तु साधनगतसंख्यासम्प्रत्यय इति । इह तर्हिं कथं संख्याभेदावगमः पाकः पाकौ पाकाः इति । न ह्यत्र साधनमस्ति कृदन्तैः सिद्धतयाबिदीयमानत्वात् क्रियायाः संख्यायोगो न विरुध्यते ।। 41 ।।
अत्र यदि सिद्धतयाभिधानं तदा ---
सिद्धस्यार्थस्य पाकादेः कथं साधनयोगिता ।
साध्यत्वे वा तिङन्तेन कृतां भेदो न कश्चन ।। 42 ।।
परिनिष्ठितरूपः पदार्थः साधनसंबन्धं नानुभवति ।तथा च पाकादिरिति तत्रापि साधनयोगाभावात् कृत्प्रयोगे कर्तृकर्मणोः षष्ठीविधिर्नोपपद्यते । अथ कृदभिहिते पाकादौ साध्यतैव तदा भाष्यकाराभिमतः कृतां तिङन्तेन भेदो विरुध्येत । भाष्यकारो हि पञ्चकृत्वः पचतीतिवत् पञ्चकृत्वः पाक इति प्रयोगं नेच्छति ।। 42 ।।
अथ पाकादेः सिद्धत्वेऽपि षष्ठ्याः साध्यतयाभिधानं यत्राख्याते स विषय इत्याशङ्ख्य व्युदस्यति ।
तत्र कारकयोगाया यद्याख्यातं निबन्धनम् ।
षष्ठ्याः सा लेन संबन्धे व्युदस्ता कर्तृकर्मणोः ।। 43 ।।
"कर्तृकर्मणोः कृति" (P.2.3.65)
इति वचनादाख्यातमविषय एवारयाः षष्ठ्याः । अभ्युपगम्यापि तूच्यते
न लोकाव्यय....... (P.2.3.69)
इति लकारप्रयोगे प्रतिषिद्धा षष्ठीति नायमस्या विषयः । अत एव कृद्गहणस्यैतद्वयावर्तनेऽनुपयोगात् तदनादरेणैतदुक्तम् । शत्रादिव्यावृत्त्यर्थं तु तत्रलग्रहणम् ।। 43 ।।
एवं तर्हि पाकादौ साधनसंबन्धकाले साध्यत्वं संख्याभेदप्रति पत्तिवेलायां तु सिद्धत्वं भविष्यतीत्याशङ्क्याह ।
एकाभिधान एकोऽर्थो युगपच्च द्विधर्मभाक् ।
न सम्भवति सिद्धत्वे स साध्यः स्यात् कथं पुनः ।। 44 ।।
एकोऽर्थो युगपद् विरुद्धधर्मद्वययोगी न संभवतीति सिद्धसाच्योभयरूपता पाकादेरेकपदोपादानस्य नास्ति । भिन्नशब्दोपादानस्तु स धर्मद्वययोगी भवत्येव पचति पाचकः पाकः ? इत्यादि ।। 44 ।।
इदानीमेकाभिधानत्वमेवात्र नास्ति अपि तु भिन्नाभिदानत्वमिति पाकादौ शब्दद्धयेन धातुप्रत्ययरूपेण सिद्धसाध्यरूपोभयार्थप्रतिपादनमविरुद्धमित्येतदुपषादयितुमुपक्रमते ।
एतावत् साधनं साध्यमेतावदिति कल्पना ।
शास्त्र एव न वाक्येऽस्ति विभागः परमार्थतः ।। 45 ।।
एकशब्दोपादाने ह्यर्थेऽन्वयव्यतिरेकवशेन शास्त्रेपोद्धारकल्पनायां प्रकृति प्रत्ययविभागेनार्थविभागः शक्यक्रियः लोके त्वखण्ड एव शब्दोऽखण्डस्यार्थंस्य वाचक इति न तत्रार्थप्रविभागः नापि शब्दप्रविभागः सत्यरूपः । वाक्येन तत्र व्यवहाराच्च वाक्ये इत्याह ।। 45 ।।
तत्र कियत् साधनं कियत् साध्यं क्व कथं प्रकल्पते शास्त्रे इत्याह ।
आख्यातशब्दे भागाभ्यां साध्यसाधनवर्तिता ।
प्रकल्पिता यथा शास्त्रे स घञादिष्वपि क्रमः ।। 46 ।।
पचतीत्यादावन्वयव्यतिरेकवशेन धातुभागः । क्रियायां प्रत्ययभागस्तु कारकादौ वर्तत इति शास्त्रे परिकल्प्यते । यदाह वाक्यकारः ।
`प्रत्ययार्थस्याव्यतिरेकात् प्रकृत्यन्तरेषु । धातोश्चार्थाभेदात् प्रत्ययान्तरेष्वन्वय इति । एवं पाकादावपि ।। 46 ।।
तथा हि ।
साध्यत्वेन क्रिया यत्र धातुरूपनिबन्धना ।
सत्वभावस्तु यस्तस्याः स घञादिनिबन्धनः ।। 47 ।।
भिन्नाभिधानत्वे धर्मद्वययोगे निदर्शनमत्राह ।
प्रकृतिप्रत्ययानां शास्त्रेऽसकृदुपदेशादभेदाध्यवसायेनान्वयव्तिरेकाभ्यां प्रक्रियासिद्ध्यर्थमर्थवत्ताप्रतिज्ञानाद् य एव धातुराख्याते स एवात्र कृदन्त इति तन्निबन्धनोऽप्यभिन्नः साध्यस्वभावः । ततश्चात्र धातुभागवाच्यसाध्यार्थापेक्षितानि साधनानि स्वनिमित्तं संस्कारं विभक्तिलक्षणं प्रयुञ्जत एव । धातोः परस्तु प्रत्ययो घञादिस्तस्य प्रकृत्यर्थस्य सत्त्वभावं दर्शयति । येन लिङ्गसंख्याभ्यां योगः । अतश्च तिङन्तेन कृतो भेदोऽप्युपपन्नः ।। 47 ।।
भिन्नाभिधानत्वे धर्मद्वययोगे निदर्शनमत्राह ।
बन्धुता भेदरूपेण बन्धुशब्दे व्यवस्थिता ।
समूहो बन्ध्ववस्था तु प्रत्ययेनाभिधीयते ।। 48 ।।
बन्धुशब्दे बन्धुता भेदरूपेण वाच्यावस्थिता । बन्धूनां समूहो बन्धुतेति समूहप्रत्ययेऽबेदेन बन्ध्ववस्था वाच्या । न हि समूहो नाम बन्धुभ्योऽन्यः कश्चित् । एवं च यथा प्रकृतिप्रत्ययावत्र भेदाभेदाभ्यामर्थमभिधत्तस्तथा सिद्धसाध्यताभ्यां पाकादौ धातुप्रत्यथाभ्यामर्थाभिधानम् ।। 48 ।।
शब्दभेदाच्चात्र विषयभेदेनाविरोध इत्याह ।
तत्र यं प्रति साध्यत्वमसिद्धा तं प्रति क्रिया ।
सिद्धा तु यस्मिन् साध्यत्वं न तमेव पुनः प्रति ।। 49 ।।
साधनान्यपेक्ष्य साध्यात्वादनिर्वृत्ता क्रिया धातूपादाना । कृत्प्रत्ययापेक्षया तु सिद्धतेति न साध्यत्वं तं प्रति । तथा च न साधनयोग इत्यर्थः ।। 49 ।।
अपेक्षणीयभेदात् स्वभावद्वययोगे दृष्टान्तमाह ।
राज्ञः पुत्रस्य नप्तेति न राज्ञि व्यतिरिच्यते ।
पुत्रस्यार्थः प्रधानत्वं न चास्य विनिवर्तते ।। 50 ।।
राज्ञः पुत्रस्य नप्ता विजयतामित्यत्र नप्त्रपेक्षया पुत्रस्या प्राधान्ये व्यतिरेकेऽपि राजापेक्षया व्यतिरेको न भवति । तथा च तदपेक्षया प्राधान्यं न निवर्तते यथा एवं पाकार्थंस्यापि शब्दद्वयापेक्षे सिद्धसाध्यते न विरुध्येते इत्यर्थः ।। 50 ।।
तदृशतरं दृष्टान्तमाह ।
मृगो धावति पश्येति साध्यसाधनरूपता ।
तथा विषयभेदेन सरणस्योपपद्यते ।। 51 ।।
धावतीति तिङुपात्तकर्त्रपेक्षया सरणक्रिया साध्या । दर्शनक्रियापेक्षया साधनत्वं कर्मतामनुभवति । न ह्यत्र मृगः कर्म, द्वितीयाप्रसङ्गादिति सरणक्रियैव कर्मं । तस्याश्च साधनप्रत्यक्षताया प्रत्यक्षताभिमानात् पश्येति दर्शनक्रियाकर्मतोपपत्तिः । साधनत्वं च न साध्यावस्थायामेव, अनिष्पन्नत्य परमनुपकुर्वतः साधनत्वायोगात् । उत्तरकालं तु साधनत्वं निर्वृत्तायाः क्रियायाः क्रियान्तरं प्रत्युपपद्यते । एवं घञादिविषयेऽपि धातुना साध्यत्वेनाभिहितायां क्रियायां प्रत्ययेन सिद्धताभिधानम् । प्रकृतिप्रत्ययौ च प्रत्ययार्थं सह ब्रूत इति सिद्धतायाः प्राधान्यात् साध्यतागतावृत्त्यभावात् कृत्वसुजादयो न भवन्ति । कृत्यादयस्तु लकारवत् साध्यावस्थं भावं स्वबावादाचक्षते । केवलं तु शब्दान्तरोपादानमेषां साधनमिति कृत्वोर्थप्रत्ययसंबन्धो भवत्येवैषाम् । द्विः शयितव्यं भवता । त्रिर्भुक्तं देवदत्तेन । द्विर्भुक्त्वा गतः । द्विर्दत्तवान् ।। 51 ।।
तदेवम्--
लकृत्यक्तखलर्थानां तथाव्ययकृतामपि ।
रूढिनिष्ठाघञादीनां धातुः साध्यस्य वाचकः ।। 52 ।।
सर्वत्रैवान्वयव्यतिरेकाभ्यां साध्यस्वभावार्थाभिधायित्वं धातोः । संज्ञाशब्दानामपि व्युत्पत्तिकर्मणि क्रियाया उपयोगः । तत्र लकारे क्रिया प्राधान्येनाभिधीयते । कृत्यक्तखलर्थेष्यपि तथैव । निष्ठातो भेदेन क्तो नपुंसकविषय उक्तः । एवं साध्यताभिधानात् साधनसंबन्धो न विरुध्यते । अत्र साधनसंबन्धादेव सात्यतावसायः । धातुप्रातिपदिकाभ्यां हि स्वार्थस्य सिद्धसाध्यते नावेद्येते । अपि तु साधनसंबन्धायत्ता धात्वर्थस्य साध्यताप्रतीतिः । साधनविभक्तयश्च प्रातिपदिकादुत्पद्यमानास्तदर्थस्य सिद्धतामावेदयन्ते । गतमेतत् ।। 52 ।।
`परिदेवने श्वस्तनी भविष्यन्त्यर्थे (Va.1.on P.3.3.15,M.Bha.II.p.143 1.18)
इत्युपसंख्यानं
`कालविप्रकर्षात्तूपमानम्' (Va.2onP.3.3.15,M.Bha.II.p.143 1.21.)
इति प्रत्याख्यातम् । तत्र भाष्य उक्तम् ---
`न [वै] तिङन्तेनोपमानमस्ति' (M.Bha.II.p.143 1.23)
इति । तत् कथं तिङन्तेनोपमानं न भवतीत्येदुपपादयति ।
साध्यस्यापरिनिष्पत्तेः सोऽयमित्यनुपग्रहः ।
तिङन्तैरन्तरेणेवमुपमानं ततो न तैः ।। 53 ।।
इह तिङन्तार्थः साध्यस्वभावोऽपरिनिष्पन्नरूपः सोऽयम् इत्युपमेयेन सहाभेदकल्पनेनोपग्रहीतुं न पार्यते । तिङन्तपदैः सिद्धरूपस्यैव प्रत्यायनासंभवात् । अतश्च
"इयं नु कदा गन्ता (M.Bha.II.p.143.1.19.)
इत्यादौ क्रिया क्रियया नोपमीयते । तद् यथा सिंहो माणवक इति सोऽयमित्यभेदेनाध्यवसायादिवार्थगर्भः संबन्धो नैवमत्र । असिद्धत्वादेव सोऽयमिति संबंन्धस्यैवाभावात् । ततश्चावशब्दमन्तरेण सिंहो माणवक इतिवद् अत्राभेदेनोपमानोपमेयभावो नास्ति । इवशब्दप्रयोगे तु भेदेनोपमानोपमेयभावः प्रतीयते, क्रन्दतीव गायतीति । तत्र च साध्यत्वादेव न क्रियागतः सः । साधनगतस्तु यो गायति स क्रन्दतीवेति न क्रिययोः सारूप्यम् । अपि तु सर्वनाम्ना व्यापारे गुणभूतमपि साधनं प्राधान्येन प्रत्यवमृश्य सम्बध्यते । तद् यथा यः पचति तस्यापत्यमिति न तिङन्तार्थस्यापत्ययोगः ।छ
`लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नभः ।'
इति तूत्प्रेक्षा नोपमा, उपमेयानिर्देशात् ।। 53 ।।
ननु स्वतोऽसिद्धत्वान्मा भूत् क्रियाया उपमानोपमेयभावः । साधनमुखेन तु भविष्यतीत्याशङ्क्याह ।
साधनत्वं प्रसिद्धं च तिङूक्षु संबन्धिनां यतः ।
तेनाध्यारोप एव स्यादुपमा तु न विद्यते ।। 54 ।।
तिङन्तवाच्ये विषये ये संबन्धिन उपादीयन्ते तेषां साध्यार्थापेक्षया कारकत्वं निश्चितम् । अन्यथा संबन्धाभावात् । अतः पर्वतश्चलति नभश्चलति इत्यादौ पर्वतादीनां श्रुत्या तावत् साधनभावः प्रत्याय्यते । स तु यदि नाम नावकल्पते इत्यध्यारोपितसामर्त्याश्चलने साधनभावमुपयान्त्यगादयः, न त्वतो वाक्याच्चलतीवेत्युपमानोपमेयभावः प्रतीयते । तद्यथा शक्त्यतिशयख्यापनाय कश्चिदभिधत्ते पर्वतं भिनत्ति, महोदधिं प्रतरतीति । नास्माद्भिनत्तीवेत्यादिप्रतिपत्तिः । अपि तु संभावितसामर्थ्यं साधनमभिसम्बध्यते क्रियया । एवं
`विभेत्यल्पश्रुताद् वेदः'
इत्यादावध्यारोपेणैव समन्वयो नोपमयेति कारकमुखेनापि क्रियायामुपमानोपमेयभावाभावः । इत्थं च
`इयं नु कदा गन्ता' (M.Bha.II.p.143.1.19)
इत्यादावध्यारोपेणैवोपपत्तिर्व्याख्येया । भविष्यत्सामान्ये भविष्यदनद्यतनत्वेन दीर्घकालतया गमनस्य विवक्षिते तत्र गन्तृत्वाध्यारोपः ।। 54 ।।
इतश्च क्रिययोरुपमानोपमेयभावो नास्तीत्याह ।
न्यूनेषु च समाप्तार्थमुपमानं विधीयते ।
क्रिया चैवाश्रये सर्वा तत्र तत्र समाप्यते ।। 55 ।।
चन्द्र इव दर्शनीयं मुखमस्या इत्यादावुपमानं परिपूर्णगुणं प्रसिद्धम्, उपमेयं तु न्यूनगुणमिति । क्रिया तु साधनसाध्या स्वाधारे परिसमाप्ता सर्वैव समेति नोपमाविषयः ।। 55 ।।
अत्रोदाहरणार्थमाह ।
येनैव हेतुना हंसः पततीत्यभिधीयते ।
आतौ तस्य समाप्तत्वादुपमार्थो न विद्यते ।। 56 ।।
गमिक्रियां साधयन् हंसः पक्षाभ्यां पततीत्युच्यते, आतिरपि पक्षिविशेषस्ताभ्यामेव स्वपक्षाभ्यां तथैव गमिक्रियां निष्पादयन्ती पचतीत्यभिधीयते इति प्रत्याश्रयपरिसमाप्तत्वात् क्रियायां न्यूनाधिकभावाभावात् सजातीयत्वे सति गवय इव गवय इतिवदुपमानोपमेयभावो नास्तीत्यर्थः । आतिः पतति हंस इवेति तु साधनयोरुपमानोपमेयभावो न तिङन्तवाच्ययोः क्रिययोः ।। 56 ।।
ननु सजातीययोः क्रिययोर्मा भूदुपमानोपमेयभावः । विजातीययोस्तु स्यादित्याशङ्क्या तत्रापि निषेधति ।
क्रियाणां जातिभिन्नां सादृश्यां नावधार्यते ।
सिद्धेश्च प्रक्रमे साध्यमुपमातुं न शक्यते ।। 57 ।।
भिन्नजातीयाः पचति गच्छतीत्यादयः क्रियाः परस्परतोऽत्यन्ताय व्यावर्तमानाः सादृश्यनिबन्धनमुपमानोपमेभावं नासादयन्ति । इदं तदिति सिद्धतया परामृष्टुमुपमानं क्रियारूपमन्यत्र साध्यस्वभावे क्रियारूपे संबन्धमुपनेतुमशक्यम् । आख्यातात् प्रतीयमानायाः क्रियायाः सिद्धत्वेनायो(त्वायो?)गात् । तदेवं तिङन्तार्थस्योपमानो पमेयभावभावात्
`कालविप्रकर्षात्तूपमानम् (Va.2.onP.3.3.15,M.Bha.II.p.143 1.31)
इत्यस्य वार्तिकस्यायमर्थः । गमनाध्ययनयोरलसविषयतया सम्भावनायां भविष्यत्सामान्यमपि दीर्घकालतयोपमाया(मया?) नद्यतनकालविवक्षायां प्रत्ययः सिद्धः । अनद्यतन इवायं भविष्यत्काल इत्यर्थः ।
लक्षणहेत्वोः क्रियायाः (P.3.2.126)
इति तु लक्ष्यलक्षणभावस्य शतृशानच् प्रयोगेण प्रतीतेर्भवति क्रियायास्तद्योगः । एवं हेतुहेतुमद्भावस्य लिङ्प्रत्ययादप्यवगतेः । इतिशब्दप्रयोगादपि हन्तीति पलायते वर्षतीति धावतीति । विशेषणविशेष्याभावोऽपि न तिङन्तवाच्यावस्थायाम् अपि तु स्वातन्त्र्येण परामर्शे सति क्रियाया उपपद्यते । तथैवोपमानोपमेयभावस्तु न सम्भवति न्यूनाधिकभावाभावात् । पचतिकल्पं पचतितरामिति क्रियासंबन्धिना(नां?) न्यूनाधिकभाव इत्याहुः । गतमेत त् ।। 57 ।।
इदानीमिदं विचार्यते । इह धातुवाच्योऽर्थः साध्यस्वबावो घञादिवाच्यस्तु सिद्धस्वभावः इति भाष्येऽनयोर्भावयोर्बाह्याभ्यन्तरयोर्भेदोऽभिहितः । तमेव दृष्टान्तोपदर्शनेन व्युत्पादयितुमाह ।
वनं वृक्षा इति यथा भेदाभेदव्यपाश्रयात् ।
अर्थात्मा भिद्यते भावे स बाह्याभ्यन्तरे क्रमः ।। 58 ।।
वृक्षसमुदायो वनमित्यभेदेन कथ्यते । वृक्षा इति तु भेदेन नानात्वेन । तथा च भिद्यतेऽर्थस्वभावो न शब्दशक्तिमात्रकृतोऽत्र भेद इत्यात्मग्रहणम् । भेदाभेदयोरन्यत्वात् समुदायावयवौ भिन्नावेव । एवं धात्वर्थो भावोऽभ्यन्तरे प्रकृतिरूपे वाच्यतया भवः प्राथमकल्पिकत्वाद् आभ्यन्तरः । स साध्यमानावस्थतया घञादिप्रत्ययवाच्याद् बाह्यात् सिद्धरूपाद् भावाद् भिद्यते । प्रकृतिवाच्यो हि भावोऽभेदेन प्रतीयते, साध्यमानावस्थस्य सिद्धधर्मसंख्यायोगाभावात् । साधनभेदप्रतीत्यैव चाख्याते भेदप्रतीतेर्धातुभेदेनैव क्रियामाचष्टे । घञादिप्रत्यवाच्यस्तु भावः सिद्धतयाभिधानात् लिङ्गसंख्याभ्यां भेदेनैव प्रत्याय्यते पाकः पाकौ पाकाः इति । आख्याते च साध्यमानावस्थस्य भावस्य प्राधान्यात् स्वधर्मेण कालेन साधनधर्मेण च प्रत्याक्तादिना पुरुषेण योगः । फलवत्वाच्च क्रियायाः कर्त्रभिप्रायादिनात्मनेपदादिद्योत्येन फलधर्मेणोपग्रहेण योगः । घञादिविषये तु सिद्धत्वाद् द्रव्यायमाणत्वान्नैवं कालादियोगः । केवलं द्रव्यधर्मेण लिङ्गेन संख्यया च योगः । तदेवमनयोः प्रकृतिप्रत्ययार्थयोर्भावयोर्बाह्याभ्यन्तरयोर्भेदः । यस्तु लकारवाच्यो भावः शय्यते स्यीयते इत्यादौ असौ धात्वभिधेयामेव साध्यतामनुवर्तते, न तु घञादाविव सिद्धरूपम् । स्वात्मावस्थो हि भावः साधनात्मना सिद्धतया चासंसृष्टो लकारवाच्यः । धातुवाच्यस्तु साध्यतया युक्त इति नायं लकारः स्वार्थिकः । तद्यथा स्वात्मप्रतिष्ठे प्रातिपदिकार्थे विधीयमाना प्रथमा न स्वर्थिंकत्वेन व्यवह्रियते । धात्वभिधेयसाध्यतानुवर्तनाच्चास्य भावस्य कालादिना योगः । भाव्यत्वाच्च कर्त्रा न वियुज्यतेऽयमिति द्विविधो बाह्यो।ञपि भावो व्यवह्रियते तिङमिहित एकः कृदभिहितोऽपर इति । तुमुन्नादिविधौ च क्रियासामान्येन सिद्धसाध्यरूपोभयधर्मानाश्रयेम उपपदमुपादीयते । तेन भोक्तुं पाकः कारकस्य व्रज्येत्यादिसिद्धिः । साध्यमानावस्थमन्यदेवोपलक्षितं वा क्रियारूपं धात्वर्थमाश्रित्य तुमुन्नादिविधिरित्यदोषः । अभ्यावृत्तिस्तु भाव्यमानधर्म इति सिद्धताविषये तदभावात् कृत्वोऽर्थप्रत्ययाः पाकादिप्रयोगे न भवन्ति । तदेवं घञादिवाच्यो विलक्षणो भावः । तत्र
`कर्तरि कृत्' (P.3.4.67)
इति वचनात् कर्तरि घञादीनां प्राप्तौ
`भावे' (P.3.3.18.)
इत्यर्थो निर्दिश्यते स च प्रत्ययविधेः प्राधान्याद् गुणभूतोऽत्रेति गुणे संख्याविवक्षायां यथाश्रुतस्य च लिङ्गस्य विवक्षायां वचनान्तरे लिङ्गान्तरे च प्रत्यया न स्युरिति वार्तिककारेण
"भावे सर्वलिङ्गो निर्देशः" (Va 1.on P.3.2.18.M,Bha.II.p.144 1.9)
कर्तव्यतया चोदितः । लिङ्गग्रहणस्योपलक्षणार्थत्वात् संख्यापि गृह्यते तत्र । तेन भूतो(तौ) भवने भावे भावयोरित्यदिनिर्देशः कर्तव्यः । तथा च पक्तिः पचनं पाकः पाकावित्यादिसिद्धिरित्यर्थः ।। 58 ।।
अत्र भाष्यकारेण
"निर्देशे नान्तरीयकर्त्वाल्लङ्गसंख्यमतन्त्रम्"(CfM.Bha.IIp.144.1.13)
इति सर्वतः सिद्धिरुपपादिता । तत्र कथं नान्तरीयकत्वेनातन्त्रत्वमित्युपपादयति ।
सामान्ये भाव इत्यत्र यल्लिङ्गमुपलभ्यते ।
भेदानामनुमेयत्वान्न तत् तेषु विवक्ष्यते ।। 59 ।।
क्रियासामान्यवचनाः कृभ्वस्तय इति भवतिना अर्थनिर्देशः क्रियमाणः सर्वधात्वर्थविषयः कृतो भवतीति `भावे' इति सामन्यचोदनायां भावशब्दार्थे सामान्यरूपे भिन्नार्थप्रकृतीनां प्रत्ययानामसम्भवाद् विशेषपर्यवसाने यथाविशेषं स्त्रियां भावे नपुंसके भावे इति भावसामानाधिकरण्यान्यथानुपपत्त्या प्रत्ययविधेर्भूयोऽनुग्रहानुरोधान्नियतव्यक्तिगतलिङ्गसंख्योपादानमतन्त्रमविवक्षितमित्यर्थः । सर्वव्यक्त्नुयायि हि भवत्यर्थसामान्यमत्र निर्दिदिक्षितम् । तच्च निराश्रयं निर्देष्टुमशक्यमिति नान्तरीयकं नियतव्यत्क्युपादानम् । अन्येषां तु व्यक्तिविशेषाणां सामर्थ्यात् सन्निधानमिति यथाविशेषं सर्वलिङ्गसङ्ख्यापरिग्रहः । सकलविशेषपरिग्रहाय सामान्यचोदनायां नान्तरीयकनियतोपात्तविशेषनिष्ठतायोगात् । तद् यथा । अयं गौः पदा न स्प्रष्टव्य इति सामान्यचोदनायां नेदन्तानिर्दिष्टनियतव्यक्तिनिष्ठतैव ।। 59 ।।
ननु च सामान्यचोदनायां विशेषपर्यवसानाद् भवतु पाकादौ बहुप्रकारोऽपि प्रत्ययः । प्रातिपदिकार्थस्तु भाव इति पुंस्त्वं कथं त्यज्यत इत्याशङ्ख्याह ।
निर्देशे चरितार्थत्वाल्लिङ्गं भावेऽविवक्षितम् ।
उपमासविधत्वाच्च भावादन्यत् पचादिषु ।। 60 ।।
प्रातिपदिकार्थस्य सत्त्वभूतस्य लिङ्गहितस्यासम्भवात् तन्निर्देशे नान्तरीयकं लिङ्गोपादानम् । ततश्च तन्नैर्देशिकमविवक्षितम् । कार्ये निरुपाधिर्भावार्थ एव विधावङ्गम् । स चात्रोपमानसदृशः, धातुसामान्याद् विधेः, यथा भवतेर्भावस्तथा पचतेः पाकस्त्यजतेस्त्यागो धात्वर्थोऽत्र प्रत्ययर्थत्वेन बोद्धव्य इत्यर्थः । अतश्च भावाद् भवत्यर्थाद् अन्यदर्थरूपं विशिष्टं पचादिधातुविषये पाकादिरूपः प्रत्ययार्थः । तथा भावादपरं पक्तिरित्यादौ यद्यपि लिङ्गं तथापि भिन्नलिङ्गयोरुपमानोपमेयभावो न विरुध्यत इत्यर्थः ।। 60 ।।
" पचतेर्भवतौ यत्तन्निर्दिंश्यते"(M.Bha.II.p.145,1.4.)
इत्यत्रैव परिहारन्तरं भाष्येऽभिहितं व्याचष्टे ।
भवतौ यत् पचादीनां तावदत्रोपदिश्यते ।
न च लिङ्गं पचादीनां भवतौ समवस्थितम् ।। 61 ।।
पूर्वं सामान्यचोदनायां सर्वव्यक्तितात्पर्यादतन्त्रे लिङ्गसंख्ये इत्युक्तम् । इदानीं ये एते पुंस्त्वैकत्वे उपात्ते ते अविवक्षिते एव सामान्यगते सामान्यं ह्येकं व्यक्तिभेदेऽप्यनुवर्तमानमेकत्वं न जहात्येव । अन्यथा सामान्यमेव न भवेत् । अतश्च व्यक्तिविशेषाणां लिङ्गसंख्यान्तरयोगेऽपि पचादीनां भवतौ वर्तमानं यद्रूपं सन्मात्रे रूपेऽस्तीति पक्तिः पचनं पाकौ पाका इत्यादौ सन्मात्रस्य रूपस्याजहत्स्वलिङ्गसंख्यस्यस्यानुवृत्तेस्तदाश्रयो विधिः सर्वत्रोपपद्यत इत्यर्थः ।। 61 ।।
ननु च सामान्यस्य विशेषात्मकत्वाद् विशेषगतं लिङ्गं सामान्यसंबन्ध्येवेति नियतलिंङ्गोपादानेऽन्यत्र कथं विधिरित्याशङ्क्याह ।
एकश्च सोऽर्थः सत्ताख्यः कथञ्चित् कैश्चिदुच्यते ।
लिङ्गानि चास्य भिद्यन्ते पचिरूपादिभेदवत् ।। 62 ।।
स एकोऽर्थो भावशब्दाभिधेयः सकलधात्वर्थविषयसिद्धतासमवेतसामान्यरूपो घञादिप्रत्ययवाच्यः सत्ताख्यः स्वशक्त्या कैश्चिच्छब्दैः केनचित् प्रकारेणाभिधीयते भावः सत्तेत्येवमादिभिः सामान्यशब्दैः सामान्यरूपः । पाकस्त्याग इत्यादिविशेषशब्दैर्विशेषरूपः । तत्र च यथा पचे रूपं पठे रूपं स्वभाव इत्यादिव्यक्तिविशेषोपाश्रयवशात् सत्ताख्योऽर्थो भिद्यते तथा शब्देभेदेन पक्तिः पचनमित्यादिना लिङ्गानि स्त्रीत्वादीन्यस्यविशिष्यन्ते । एवमपि च विशेषे सर्वव्यक्त्यनुयायि व्यापकं रूपमखण्डितमिति तदाश्रयेण सर्वत्र स्वकार्यं सम्पादयति । न तु नियतव्यक्तिगतेन लिङ्गसंख्यादिना धर्मेण नियम्यते । महाविषयत्वात् सामान्यस्य विशेषस्वीकारसामर्थ्यांत् । विशेषस्य तु सामान्यमात्मसात्कर्तुमसामर्थ्यात् स्वलिङ्गेन नियमे लिङ्गान्तरे विधिं प्रापयितुमशक्तिः । तथा च भाष्यम् ।
"यच्च पचतेर्भवतिर्भवति न तद्भवतेः पचतिर्भवति । किं च पचतेर्भवतिर्भवति । सामान्यम् । किं च भवतेः पचतिर्भवति । विशेषः"
(M.Bha.II.p.144.1.23.)
सामान्यविशेषभावेनान्योन्यस्वीकारा सामर्थ्यमुक्तम् (न्यस्वीकारसामर्थ्यमसामर्थ्यं चोक्तम् ?)। भवतिर्हि सामान्यं पचिं स्वीकरोति, न तु पचिर्विंशेषो भवतिमित्यर्थः ।। 62 ।।
संबन्धिभेदेनैक एवार्थोऽनेकरूपत्वेन प्रतिभासते इत्यत्र भाष्ये निदर्शनमुपन्यस्तं व्याचष्टे ।
आचार्यो मातुलश्चेति यथैको व्यपदिश्यते ।
संबन्धिभेदादर्थात्मा स विधिः पक्तिभावयोः ।। 63 ।।
उक्तमिदं भाष्ये--
"उपाध्यायस्य शिष्यो मातुलस्य भागिनेयं गत्वाह उपाध्यायं भवानभिवादयतामिति । स गत्वा मातुलमभिवादयते । तथा मातुलस्य भागिनेय उपाध्यायस्य शिष्यं गत्वाह मातुलं भवानभिवादतामिति । स गत्वोपाध्यायमभिवादयते ।"
(M.Bha II.p.144.1.24-p.145,1,1-3.)
इति । अत्र च यथा एकोऽर्थः किञ्चित् प्रत्युपाध्यायः कञ्चित् प्रति मातुलोऽमिधीयते तथा स प्रकारः पक्तिभावयोः बोद्धव्यः । स्वगतविशेषापेक्षया सामान्यस्वभावोऽपि पचिर्भावं प्रति विशेषः । भावः पुनः पक्तिं प्रति सामान्यमेव । ततश्च यथोपाध्यायशब्देन मातुलरूपतयानभिधीयमानोऽपि मातुलो वस्तुवृत्तेन तत्त्वात् स्वकार्यं प्रतिपद्यते तथा भावशब्देन सामान्यवाचिना साक्षादनभिधीयमानोऽपि विशेषः सामर्थ्यादनुमीयमानसन्निधिरिति सामान्यप्रयुक्तं कार्यं प्रतिपद्यते । तथा हि नोपाध्यायरूपादन्यत्र(त्?) मातुलत्वं तथा न भावादन्यत् पचिरूपम् । सामान्यविशेषयोरत्यन्तभेदाभावात् सकलविशेषपरिहारेण सामान्यरूपानुपपत्तेरिति सर्वत्र सिद्धिः ।। 63 ।।
इति भूतिराजतनयहेलाराजकृते प्रकीर्णकप्रकाशे क्रियासमुद्देशोऽष्टमः ।।

३,९ः कालसमुद्देशःसम्पाद्यताम्

-------------
क्रियानन्तरं काल उद्दिष्टः । स हि क्रियायाः परिच्छेदकः । तत्र दर्शनान्तरलक्षितं तावत्तत्स्वरूपमाह ।
व्यापारव्यतिरेकेण कालमेके प्रचक्षते ।
नित्यमेकं विभु द्रव्यं परिमाणं क्रियावताम् ।। 1 ।।
परापरादिप्रत्ययलिङ्गो व्यापक एकोऽमूर्तोऽत एवाकृतकत्वान्नित्यः कालः क्रियाव्यतिरिक्तो जन्मादिक्रियाद्वारेण भावपरिच्छेदको वैशेषिकैराम्नातः । स विस्तरतस्तत एवावगन्तव्यः ।। 1 ।।
कालस्य परिच्छेदकान्तरेभ्यः परिच्छेद्यभेदेन भेदमाह ।
दिष्टिप्रस्थसुवर्णादि मूर्तिभेदाय कल्पते ।
क्रियाभेदाय कालस्तु संख्या सर्वस्य भेदिका ।। 2 ।।
मूर्तिरसर्वगतद्रव्यपरिमाणम् । स परिच्छिद्यते दिष्टयाद्यायामानेन । तधा च मूर्तिंमद्वस्तुगतमेतद् दिष्टिर्वितस्तिरित्यादि । एकदिग्विभागावच्छेदेन चानेन वस्तुपरिच्छेदः । एतच्च प्रमाणम् । प्रस्थादिना तु सर्वतोऽवच्छेदेनारोहपरिणाहाभ्यां व्रीह्यादेः परिच्छेदः । प्रस्थः द्रोणः आढकमित्येतत् परिमाणम् । परिः सर्वतोभावे । सुवर्णादि तून्मानं गुरुत्वविशेषेण द्रव्यं परिच्छिनत्ति । सुवर्णं निष्कं फलमित्यादि । एभ्यो व्यतिरिक्तः कालोऽमूर्तक्रियापरिच्छेदहेतुः । सूर्यादिसञ्चारो हि कालेन मीयते मासः संवत्सर इत्यादि । संख्या तु मूर्तामूर्तस्य सर्वस्य परिच्छेदमादधाति प्रमाणादेश्च । द्वौ घटौ । बहव आत्मानः । द्वे क्रिये । एका वितस्तिः । द्वौ हस्तौ । चत्वारः प्रस्थाः । पञ्च फलानि । संख्यापि च संख्यया मीयते । द्वे विंशतू । पञ्च पञ्चाशत इति ।। 2 ।।
कालेन कथं क्रियाः परिन्छिद्यन्ते इत्याह ।
उत्पतौ च स्थितौ चैव विनाशे चापि तद्वताम् ।
निमित्तं कालमेवाहुर्विभक्तेनात्मना स्थितम् ।। 3 ।।
जन्मस्थितिविनाशाः समस्तक्रियाकलापान्तर्भावनहेतव इति तद्‌द्वारेण जन्मादिमतां पदार्थानां निमित्कारणं कालमाहुः । तदपेक्षो हि पदार्थानामुदयादिरवतिष्ठते प्रविभक्तशरीरः । तथा हि । केचिद् वसन्ते प्रसूयन्ते, अपरे शरदि, प्रावृष्प्यन्य इत्यादि वाच्यम् । एवं स्थितिविनाशयोरपि । उपाधिभेदाच्च भिद्यमानः कालः संसर्गिषु भेदायालम् ।। 3 ।।
यतश्चोत्पत्त्यादौ भावानां कालो निमित्तमतः ।
तमस्य लोकयन्त्रस्य सूत्रधारं प्रचक्षते ।
प्रतिबन्धाभ्यनुज्ञाभ्यां तेन विश्वं विभज्यते ।। 4 ।।
यन्त्रपुरुषप्रख्यं विश्वं सूत्रधारपुरुषकल्पकालप्रतिबद्धचेष्टम् । कालेन हि स्वशक्त्या भावानां स्थगनोन्मज्जने जन्मनाशपर्याये विभजता सूत्रधारेणेव यन्त्रपुरुषस्य सूत्रसञ्चारवशेनोन्मेषादिक्रियाकारिणा विश्वं प्राप्तपौर्वापर्यप्रविभागं प्रविभागलक्षणाश्चेष्टः कार्यन्ते ।। 4 ।।
तथाहि ।
यदि न प्रतिबध्नीयात् प्रतिन्बधं च नोत्सृजेत् ।
अवस्था व्यतिकीर्येरन् पौर्वांपर्यविनाकृताः ।। 5 ।।
कालकृतप्रतिबन्धाभावाद् युगपद्भावानामुत्पत्तिः स्यादिति बीजाङ्कुरनालकाण्डादीनामानुपूर्वीनियमाभावात् सङ्करः स्यादिति कारणादुदयतामपि भावानां कालपरिवासदर्शनादवश्यमपेक्षणीयः कालो निमित्तकारणमेष्टव्यः ।। 5 ।।
इदानीमेकत्वे विभाविते कालस्य नानात्वमुपाधिभेदनिहितमाह ।
तस्यात्मा बहुधा भिन्नो भेदैर्धर्मान्तराश्रयैः ।
न हि भिन्नमभिन्नं वा वस्तु किञ्चन विद्यते ।। 6 ।।
धर्मान्तराणि वक्ष्यमाणानि संसर्गीणि क्रियारूपाणि । तद्गतैर्भेदैरेकोऽपि कालोनानात्वेन व्यवह्रियते । तथा च नानाविधकार्यजनकः । सर्वत्रैव च पदार्थाना परोपाधिक एव भेदः । स्वतो भेदाभेदाभ्यामनिर्वाच्यत्वात् । तथा चोक्तम् ।
भिन्ना इति परोपाधिरभिन्ना इति वा पुनः ।
भावात्मसु प्रपञ्चोऽयं संसृष्टेष्वेव जायते ।। (Vak.III.जा.20)
इति ।। 6 ।।
न हि भिन्नमभिन्नं वेत्युदाहरणेन व्यक्तयति ।
नैको नाप्यनेकोऽस्ति न शुक्लो नापि चासितः ।
द्रव्यात्मा स तु संसर्गादेवंरूपः प्रकाशते ।। 7 ।।
निरूपाधिर्द्रव्यस्वभावो व्यवहारं नापततीत्येरत्वादिसंख्यासमवायादेकादिव्यवहारः । शुक्लकृष्णरूपसमवायाच्च शुक्लकृष्णरूपतया द्रव्यमभिधीयते । एवं गोत्वादिसमवायाद् गौरित्यादिव्यवहारा बोद्धव्याः । तथा कालेऽप्युत्पत्त्यादिक्रियासंबन्धवशादुत्पत्तिकालः स्थितिकालो विनाशकाल इत्यादिव्यवहार इत्यर्थः ।। 7 ।।
अतश्च ।
संसर्गिणां तु ये भेदा विशेषास्तस्य ते मताः ।
स भिन्नस्तैर्व्यवस्थानां कालो भेदाय कल्पते ।। 8 ।।
संसर्गिणः कालस्य संबन्धिनः सूर्यादिग्रहप्रचाररूपाः क्रियाविशेषाः । तेषां भेदेनोपहितात्मातिशयोऽसावहोरात्रपक्षमासर्त्वयनसंवत्सरयुगमन्वन्तरादिव्यवस्थाभेदमासादयति । तथाहि । दिवसकरोदयास्तमयावधिपरिच्छिन्नः कालोऽहरिति व्यपदेश्यः । तदुदयविच्छेदोपहितभेदस्तु निशा । आवर्तमानश्चाहोरात्राभ्यां पक्षादिव्यपदेशं यथायोगमासादयति । अक्षिपक्ष्मगतनिमेषोन्मेषादिक्रियोपहितभेदस्तु क्षणलवकाष्ठादिव्यवहारं वर्तयति ।। 8 ।।
तदेवमुपाधिभेदाहितविशेषोऽसङ्करेण निमित्तभावमुपजनादिक्रियाव्यवच्छेदेन भावेषु कालः प्रतिपद्यते । तथाहि ।
विशिष्टकालसंबन्धाद् वृत्तिलाभः प्रकल्पते ।
शक्तीनां संप्रयोगस्य हेतुत्वे नावतिष्ठते ।। 9 ।।
वसन्तादिकाले साधनशक्तीनां प्रवृत्तिदर्शनात् तासां प्रयोजको हेतुर्निमित्तकारणं काल उन्नीयते । कालप्रेरिता हि शक्तयो जन्मादिक्रिया भावानां साधयन्ति ।। 9 ।।
तथा च
जन्माभिव्यक्तिनियमाः प्रयोगोपनिबन्धनाः ।
नित्याधीनास्थिति त्वाच्च स्थितिर्नियमपूर्विका ।। 10 ।।
कालेन प्रयुक्ताः कारणशक्तयोऽभ्यनुज्ञाताः सत्यो जनयन्ति कार्यमभिव्यञ्जयन्ति च । सत्कार्यदर्शने नियमो जातस्याभिव्यक्तस्य च नियतकालमवस्थानम् । अत एव स्थितिर्नियमपूर्विका इत्याह । सापि च शाश्वतरूपकालायत्ता । विनाशोऽपि विनाशकानां कालकृतशक्तिप्रयोगाणां सामर्थ्याद् भावानां कालायत्त इति । `उत्पत्तौ च स्थितौ च' इत्यादि पूर्वोक्तमेवानेन प्रपञ्चितम् ।। 10 ।।
अन्यदपि कालकृतमाह ।
स्थितस्यानुग्रहस्तैर्धर्मैः संसर्गिंभिस्ततः ।
प्रतिबन्धस्तिरोभावः प्रहाणमिति चात्मनः ।। 11 ।।
ततः कालादवस्थितस्यापि वस्तुनो वर्धकैर्विनाशकैश्चापरैः संबन्धिभिर्भावैः क्रमेणानुग्रहो वृद्धिक्षयलक्षणः, भावात्मनश्च प्रतिबन्धः स्वकार्यासामर्थ्यं तिरोभावोऽदर्शनं प्रहाणं विनश्यत्तेत्यादयः सर्व एव विकाराः कालाधीना नियतसमयत्वात् ।।11 ।।
एवं च कृत्वा ये क्रमवन्तः क्रियाविशेषाः भावानां ते कालाधीनत्वात् पृथगप्रत्यवभासमानाः काल एवेति व्यवह्रियन्त इत्याह ।
प्रत्यवस्थं तु कालस्य व्यापारोऽत्र व्यवस्थितः ।
काल एव हि विश्वात्मा व्यापार इति कथ्यते ।। 12 ।।
अनुग्राहकत्वादिभेदेन नियतस्थितिप्रसवनिरोधावस्थासु कालस्य व्यवहारोऽविनाभावीति विश्वस्यैतदायत्तत्वादात्मा सूत्रस्थानीयश्चेष्टाहेतुत्वाद् व्यापार एवोभेदेनासौ व्यवह्रियते ।। 12 ।।
विश्वात्मत्वमेवास्य प्रतिपादयितुमाह ।
मूर्तीनां तेन भिन्नानामाचयापचयाः पृथक् ।
लक्ष्यन्ते परिणामेन सर्वासां भेदयोगिना ।। 13 ।।
प्राण्यप्राणिरूपाणां भावानां तेन कालेन परिणामकरणादानुपूर्व्या वृद्धिह्रासा विवेकेन लभ्यन्ते यौवनस्थाविरावस्थासु । भेदयोगिना इति । संसर्गिक्रियाविशेषोपहितनानात्वेनेत्यर्थः । मूर्तिग्रहणेन नित्येषु कालकृतोपकाराभावमाह । प्रतिबन्धाभ्यनुज्ञाभ्यां हि जन्मविनाशवन्तो भावाः काले समायतन्ते ।। 13 ।।
अन्वर्थेन नाम्नैव कालो विश्ववैचित्र्यहेतुरित्याह ।
जलयन्त्रभ्रमावेशसदृशीभिः प्रवृत्तिभिः ।
स कलाः कलयन् सर्वाः कालाख्यां लभते विभुः ।। 14 ।।
जलस्योद्धरणार्थं यन्त्रमरघट्टप्रायं तस्य भ्रमः परिवर्तनं तेनावेशस्तस्यैव क्षोभः तत्तुल्याः परावर्तमानस्य कालस्य पुनः पुनर्वसन्तादिभावेनावृत्तयः ताभिरयं विभुः व्यापको नित्योऽपि विकलयति विक्षिपति कलाः भावपर्यायाः समुत्सृजति स्वकारणेभ्यः प्रवर्तयतीति कालाख्याम् अन्वर्थां लभते । अनेनैतत् सूचयति । विश्वात्मैक एव परब्रह्माभिधानः सत्यो भावः । स एव नानाविधकार्यकारितयानन्तशक्तित्वेन व्यवह्रियते । तथा च क्रमिकांश्चक्रभ्रमवत् परावर्तमानान् भावान् प्रकाशयन् कालयति भूतानीति काल इत्युच्यते । स विभुः स्वतन्त्रः । अत एव स्वातन्त्र्यशक्तिः काल इति वाक्यपदीये सिद्धान्तितम् ।
अध्याह्रितकालां यस्य कालशक्तिमुपाश्रिताः । (Vak I.3.)
इत्यत्र । इहापि च सिद्धान्तयिष्यति ।
`शक्त्यात्मदेवतापक्षैर्भिन्नं कालस्य दर्शनम्'(Vak.III.का.62.)
इति । यथाहि भ्रामको बाहुना जलयन्त्रं परिवर्तयति तथा कालशक्त्या विभुर्भावानिति ।। 14 ।।
प्रतिबन्धलक्षणापि कालप्रवृत्तिरभ्यनुज्ञयैवाक्षिप्तेति, सर्वथा कालपारतन्त्र्यं निदर्शनोपन्यासेनाह ।
प्रतिबद्धाश्च यास्तेन चित्रा विश्वस्य वृत्तयः ।
ताः स एवानुजानाति यथा तन्तुः शकुन्तिकाः ।। 15 ।।
हेमन्तादिकालभेदापन्ने साधनशक्तयः कालेन प्रतिबद्धास्ता एव वसन्तादिभावमनुप्राप्तः स एवोत्सृजतीति कालयतीत्युच्यते । तद् यथा । बृहत्पक्षिग्रहणोपायभूतान् सूक्ष्मपक्षिणः तन्तुः बन्धनसूत्रमेव प्रसारितं प्रवर्तयत्युत्सृजति, पुनस्तदेव सङ्कोचितं प्रत्तिबध्नाति । धीवरा हि पक्ष्यन्तराणां ग्रहणाय सूत्रप्रतिबद्धान् पक्षिणश्चेष्टयन्ति । तथा च ते सूत्रप्रतिबद्धा स्तत्संकोचविकासाभ्यां प्रतिबन्धोत्सर्गावनुभवन्ति, न तूच्छृङ्खलाइवोड्डीय गन्तुं प्रभवन्ति, तयेच्छायां तन्तुनाकर्षणात् । एवं कालसूत्रप्रतिबद्धाः पदार्थाः संकोचविकासलक्षणावुत्पत्तिध्वंसावनवरतमनुभवन्तीत्यर्थः । अतश्च कालप्रसेवकान्तर्गतं विश्वं प्राप्तकालं प्रसूयते प्रसूतमवतिष्ठते, अवस्थितं कृतकरणीयं विनश्यति ।। 15 ।।
कथमित्यत्रैव क्रममाह ।
विशिष्टकालसंबन्धाल्लब्धपाकासु शक्तिषु ।
क्रियाभिव्यज्यते नित्या प्रयोगाख्येन कर्मणा ।। 16 ।।
इह प्राणिनामुपभोगाय विश्वरचनाप्रपञ्च इति प्रलयपर्यवसानसमयेऽदृष्टवशात् परमाणुषु यथास्वं कार्यजनिकाः शक्तयोऽभिमुखीभवन्ति । दर्शनान्तरे प्रधाने वा मूलकारणे कार्योन्मुखशक्तिषु च नित्येषु मूलकारणेषु परस्परसंश्लेषाय प्रयोगः प्रेरणाख्यः कर्मविशेषो जायते, येन सामान्यभूता प्रवृत्तिरिति पूर्वव्याख्यातसतत्वा सर्वभावगता नित्या क्रिया प्रकटीक्रियते । तथा च सव्यापाराणि कारणानि परस्परं संयुज्यन्ते ।। 16 ।।
ततश्च
जातिप्रयुक्ता तस्यां तु फलव्यक्तिः प्रतीयते ।
कुतोऽप्यद्भुतया वृत्त्या शक्तिभिः सा नियम्यते ।। 17 ।।
तस्यां नित्यायां क्रियायामभिव्यक्तायां सत्यां
कारणेषु फलव्यक्तिः कार्यव्यक्तिः प्रजायते ।
स्वाश्रयस्‌याभिनिष्पत्त्यै सा क्रियायाः प्रयोजिका ।। (Vak.III.pe.25-26.)
इति जातेः प्रयोजकत्वमुक्तम् । नियतजातीयाभिसंधानेन कारणानां व्यापारोपपत्तेः जाति प्रयोजककर्त्री । सदसत्पक्षभेदेन दर्शनद्वयस्य पूर्वं प्रत्याख्यानादाह कुतोऽप्यदूभुतया वृत्त्या इति ।
अत्यद्भुता त्वियं वृत्तिर्यदभागं यदक्रमम् ।
भावानां प्रागभूतानामात्मतत्वं प्रकाशते ।। (Vak.III.सं.81)
इत्यत्र निर्णीतमेतत् । सा च जाता कार्यव्यक्तिः कारणशक्तिभिर्नियम्यते येन तत्रैव तिष्ठति । तत्संबन्धितया च व्यवह्रियते । सदसत्पक्षयोरपि च कारणानां व्यापारस्य पराकरणात् स्वात्मनि कार्यस्य प्रतिष्ठापनं नियमोऽप्यद्भुताश्चर्यभूता वृत्तिः ।। 17 ।।
अनन्तरं किं भवतीत्याह ।
ततस्तु समवायाख्या शक्तिर्भेदस्य बाधिका ।
एकत्वमिव ता व्यक्तीरापादयति कारणैः ।। 18 ।।
इह तन्तुषु पट इत्यादीहप्रत्ययहेतुः समवायः पारतन्त्र्यसाम्यात् पूर्वं शक्तित्वेन व्यवस्थापितः । स नियमानन्तरं कार्यकारणर्भेदं तिरोधापयति । यत एकत्वमिव अत्र भासते । तथा च केचित् कारणव्यतिरिक्तं कार्यं नेच्छन्ति । भेदप्रत्ययविषयेभ्योऽभेदप्रत्ययविषयस्यावयविनोऽवयवेभ्यो वस्तुतो भेदान्नैकत्वमिति इव शब्दः ।। 18 ।।
एवं प्रतिष्ठितायां कार्यव्यक्तौ--
अथास्मान्नियमादूर्ध्वं जातयो याः प्रयोजिकाः ।
ताः सर्वा व्यक्तिमायान्ति स्वच्छे छाया इवाम्भसि ।। 19 ।।
अथ इति समुच्चये । ऊर्ध्वशब्देनानन्तर्यस्योक्तत्वात् । कारणशक्तिभिर्यदाव्यक्तिःस्वात्मनि नियमिता तदनन्तरं निष्ठासंबन्धयोरेककालत्वात् कार्यव्यक्तिर्जातैव स्वजात्या संबध्यते । प्रयोजिकया । निष्ठोत्तरकालं तु क्षणान्तके रूपादिगुणोपजनाद् इन्द्रियार्थसन्निकर्षात् संयुक्तसमवायेन रूपिद्रव्यसयवायाज्जातयः प्रकाशन्ते । तद् यथा निर्मले जले वृक्षादीनां छायाप्रतिबिम्बं जलाभेदेन, एवं व्यक्तेरैकात्म्यमिव प्राप्ता जातयोऽपि गृह्यन्त इति दृष्टान्तसाम्यम् । सर्वाः इति सत्ताद्रव्यत्वपृथिवीत्वादयः ।। 19 ।।
अतोऽनन्तरं गुणानामुत्पत्तिमाह ।
कारणानुविधायित्वादथ कारणपूर्वकाः ।
गुणास्तत्रोपलभ्यन्ते स्वजातिव्यक्तिहेतवः ।। 20 ।।
कारणानुविधायित्वेन पूर्वं कारणोत्पत्तेः पश्चात् कार्योत्पत्तिमाह । तेनैकस्मिन् क्षणे निर्गुणैव कार्यव्यक्तिः ततोऽवयवगुणेभ्योऽसमवायिकारणेभ्यः स्वावयविसमवायकारणसहितेभ्योऽवयविनि रूपाद्युत्पत्तिः । उत्पन्नाश्च रूपादयः स्वजाती रूपत्वादिकाः समभिव्यञ्जयन्ति । अदृष्टवशात् परमाणुषु क्रियोत्पन्ना पूर्वदेशसंयोगविभागाविनाशपूर्वकं परस्परोपश्लेषेण द्वयणुकादिप्रक्रमेण भोगसाधनान् पदार्थान् उत्पादयतीति पिण्डितार्थः । अत्र सर्वत्र क्रमाख्या कालशक्तिः सव्यापारेत्यभ्यनुज्ञेयम् ।। 20 ।।
कालकृता जन्मपर्याया भावानां व्याख्याताः । इदानीं स्थितिः व्याचष्टे ।
आश्रयाणां च नित्यत्वमाश्रितानां च नित्यता ।
ता व्यक्तीरनुगृह्वाति स्थितिस्तेन प्रकल्पते ।। 21 ।।
यासां तावत् कार्यव्यक्तीनां नित्या आश्रयाः कारणानि तासां कारणविनाशपूर्वकस्य विनाशस्याभावादवस्थितत्वम् । अतश्च परमाण्वादीनां कारणानां नित्यत्वं कर्तृताः कार्यव्यक्तीरुपकरोति स्थापरत्वेनावस्थापनात् । अन्यथाधारविनाशान्नावतिष्ठेरन् । अनित्याश्रयाणामपि कार्यव्यक्तीनामाश्रितानां जातीनां नित्यत्वादविनाशकारणमवस्थानं स्वजातिभिरेवानुगृह्यते, तावन्तं कालं नियतजातीयतयावस्थानसम्भवात् । अन्यथाधेयानां सामान्यानामपाये द्रव्याण्यव्यवहार्यत्वादस्थितकल्पानि स्युः ।। 21 ।।
इत्थं चोत्पत्तिरिव स्थितिरपि पराधीनेत्याह ।
अनित्यस्य यथोत्पादे पारतन्त्र्यं तथा स्थितौ ।
विनाशायैव तत् सृष्टस्वाधीनस्थितिं विदुः ।। 22 ।।
कारणं विनोत्पत्त्यभावात् यथासौ तत्परतन्त्रा तथा कारणावष्टम्ममन्तरेण स्वतःस्थित्यभावात् कृतकमुत्पत्त्यनन्तरमेव प्रध्वंसमियादिति विनाशायैव तत् सृष्टं स्यात्, नार्थक्रियार्थमित्यर्थः । तन्मा भूदस्यापार्थकं जन्मेति कारणायत्तस्थितिकं तन्मन्यन्ते वैशेषिकाः ।। 22 ।।
ननु क्रमयौगपद्याभ्यां स्थिरार्थक्रियानुपपत्तेरन्ते विनाशदर्शनात् तत्रापेक्षाभावात् कृतकः सन्नित्येव विनश्यतीति स्थित्यभाव इत्याशङ्क्याह ।
स्थितः संसर्गिभिर्भावैः स क्रियास्वनुगृह्यते ।
नैषां सत्तामनुद् गृह्य वृत्तिर्जन्मवतां स्मृता ।। 23 ।।
संसर्गिभिः सहकारिभिः अनुगृहीतो भावोऽर्थक्रियासु योग्यः । न ह्येकं किञ्चन जनकं सामग्रीतः क्रियासिद्धिरित्येषां संसर्गिणां सहकारिणां सत्त्वमस्वीकृत्य कार्ये वृत्तिः व्यापारो नास्ति जातानां भावानाम् । तदेवं क्रमभाव्यनेककार्यकर्तृत्वं तत्तत्सहकारिप्राप्तौ स्थितिलक्षणमुपपद्यते । तथा च स्थितिपर्यन्ताभ्यनुज्ञोपपत्तिः । यत्तु सहकारिणः किं कुर्वन्तीति चोद्यते तत्र सहकरणमेव सहकारार्थोऽतिशयादेरन्यत्र विचारितत्वाद् यथाप्रतीति स्थिरत्वं समर्थितं तद्वादिभिः ।। 23 ।।
इदानीं प्रतिबन्धलक्षणां कालवृत्तिं व्याचष्टे ।
जराख्या कालशक्तिर्या शक्त्यन्तरविरोधिनी ।
सा शक्तिं प्रतिबध्नाति जायन्ते च विरोधिनः ।। 24 ।।
जीर्यते भावोऽनयेति जरा नाम कालस्य शक्तिः प्राण्यप्राणिसाधारणयौवनादिशक्त्यन्तरप्रतिबन्धिनी कार्यव्यक्तीनां कालान्तरपरिवासावधृतार्थक्रियासु सामर्थ्यं विघ्नयति । ततश्च सामर्थ्यविरोधिनोऽवस्थाविशेषाः प्राण्यप्राणिषु प्रज्ञामान्द्यशोषादयः प्रादुर्भवन्ति । यतः प्रध्वंसः प्रत्यासन्न इति लक्ष्यते ।। 24 ।।
एवं जरसाधिष्ठिते भावे
प्रयोजकास्तु ये भावाः स्थितिभा गस्य हेतवः ।
तिरोभवन्ति ते सर्वे यत आत्मा प्रहीयते ।। 25 ।।
यैः (ये?) प्रवर्तिताः स्वकार्ये भावाः संसर्गिभिः सहकारिभिः स्थित्यंशहेतवः ते सर्वेऽस्य जराधिष्ठितस्य कृतध्ना इव सहोषिता अपि निवर्तन्ते । तेषु निवृत्तेषु कृतकरणीयस्यास्य भावस्य स्वरूपं प्रच्यवते ।। 25 ।।
न तु विनाशकारणैरस्य किञ्चित् क्रियत इत्याह ।
यथैवाद्भुतया वृत्त्या निष्क्रमं निर्निबन्धनम् ।
अपदं जायते सर्वं तथास्यात्मा प्रहीयते ।। 26 ।।
जन्मनि सदसत्पक्षभेदेन पूर्वं कारणव्यापारस्य व्युदासादविभाविततत्त्वमविद्यमानकारणभूतनिबन्धमत एव कारणव्यापाराभावात् पौर्वापर्येणांशांशिकयानिष्पत्तेरक्रमं विश्वमाजायमानमुपलक्ष्यत इति पूर्वमेव विवर्तचिन्तायां निर्णीतमेतत् । एवं विनाशेऽपि । क्रियमाणतायां भावतापत्तेर्निर्निबन्धनमेव प्रहाणं कालपरिवासाधीनं भावानामित्यर्थः । तदेवं सर्गस्थितिप्रलयानां कालकृतप्रतिबन्धाभ्यनुज्ञावशेन सम्भव इति विश्वात्मनः कालस्य व्यापारोऽत्र सर्वत्रेति निर्णीतम् । तदुक्तम्
प्रत्यवस्थं तु कालस्य व्यापारोऽत्र व्यवस्थितः (Verse.12.)
इति ।। 26 ।।
इदानीमपरमपि कालानुमानहेतुमाह ।
क्रिययोरपवर्गिण्योर्नानार्थसमवेतयोः ।
संबन्धिना विनैकेन परिच्छेदः कथं भवेत् ।। 27 ।।
इह क्रिया तावदनेकक्षणसमाहारात्मिका युगपत् क्षणानामभावात् सक्रमेति कालशक्त्यनुगृहीतैव । सर्वः क्रमे हि कालधर्मः । द्वयोश्च क्रिययोरुदयानन्तरध्वंसित्वे समानेऽपि चिरेण कृतं क्षिप्रं कृतमिति विलक्षणः परिच्छेदो विनैकं संबन्धिनमुपाधिभूतं नावकल्पते । नानार्थसमवेतयोः इत्यनेनाश्रयभेदात् क्रियाभेदामाह । ततश्च नैकक्रियानिमित्तोऽयं व्यपदेशः, पटश्चिरेण कृतो घटश्चिरेण कृत इति आश्रयबेदेऽप्यनुवृत्तेः । क्रियाया भिन्नाश्रयसमवेताया भेदे सति तदनुपपत्तेः । अत एव न कार्यद्रव्यनिमित्तोऽयं व्यपदेशः, कार्यद्रव्यस्य भेदादभिन्नव्यपदेशहेतुत्वानुपपत्तेः । न च काराकादि निमित्तमत्र तस्यापि भेदस्यानुवृत्तेः । तस्माद् यदत्र निमित्तं स कालः । सोऽपि चेद् भिन्नो नासावनुवृत्तः प्रत्ययः स्यादित्युक्तम् एकेन इति । एको हि साधारण्यात् कालोऽनुवृत्तं प्रत्ययं जनयति ।। 27 ।।
यद्येवं विलक्षणचिरक्षिप्रादिव्यप्रदेशः कुत इत्याशङ्क्याह ।
यथा तुलायां हस्ते वा नानाद्रव्यव्यवस्थितम् ।
गुरुत्वं परिमीयेत कालादेवं क्रियागतिः ।। 28 ।।
सुवर्णरजतादिद्रव्यसमवेतं गुरुत्वमेक एव तुलादण्डो रेखासूत्रसंबन्धोपहितभेदो यथा पलादिभावेन परिच्छिनत्ति तथा कालोऽपि स्वशक्तियोगाद् वैश्वरूप्यमनुभवन् निमेषादिक्रियाभेदोपहितनानात्वं क्रियासन्तानं चिराचिरादिभावेन परिमिमीते । अभ्यासातिशयवतां वणिजां हस्तो द्रव्याणां गुरुत्वविशेषं परिच्छिनत्तीति सोऽपि दृष्टान्तः । यथासौ हस्तः एवं निरुपाधिरेक एव स्वसामर्थ्यात् कालः क्रियागतं भेदं परिच्छिनत्ति ।। 28 ।।
एवं चैकः स कालः
जहाति सहवृत्ताश्च क्रियाः स समवस्थिताः ।
व्रीहिर्यथोदकं तेन हायनाख्यां प्रपद्यते ।। 29 ।।
अवस्थिते एकस्मिन्नेव काले नानाविधाः क्रियास्तत्सहचारिण्योऽप्ययन्ते । अतः स कालो हायनाख्यां संवत्सरपर्यायां प्रपद्यते । जहाति क्रिया इति हायनः । तद्यथा व्रीहिबीजं सहावस्थितमुदकमपजहद्धायन इति व्यपदिश्यते । अत एव
हश्च व्रीहिकालयोः (P.3.1.148)
इति सूत्रेकारेणोपमागर्भं (र्भा?) सहैव व्युत्पत्तिरनुशिष्टा । यथा जलैर्वीहिः सहावस्थितैरूपक्रियते तथा कालोऽपि क्रियाभिः सहकारिणीभिर्भावानुकरोतीति औपाधिकोऽस्य भेदः । मुख्यस्त्वभेदः ।। 29 ।।
यदि तर्ह्यवस्थित एकः कालः, कथमस्य क्रमरूपतेत्याह ।
प्रतिबन्धाभ्यनुज्ञाभ्यां वृत्तिर्या तस्या शाश्वती ।
तया विभज्यमानोऽसौ भजते क्रमरूपताम् ।। 30 ।।
कस्याश्चित् क्रियायाः साधनशक्तीनां व्यापारविघाते प्रतिबन्धः । तद्विपर्ययोऽभ्यनुज्ञा । ताभ्यामुपलक्षिता कालस्य नित्या प्रवृत्तिर्भावेषु । सततपरिणामिषु हि भावेषु किञ्चिदाजायते किञ्चिदपक्षीयते इति नियतमेतत् । तथा च कार्यनिवेशी क्रमः काले समारोप्यते, नत्वसौ तत्र भाविक इत्यर्थः । क्रियाधर्मो हि मुख्यः क्रमस्तदन्यत्रोपचरितः । पौर्वापर्यं हि पूर्वापरेषु वस्तुषूपाधिभूतं लक्ष्यते न तु स्वतन्त्रम् । एवं यौगपद्यमपि क्रमविरोधी धर्मः कार्यगतः काले समारोप्यते ।। 30 ।।
समविषमरूपतापि कालस्योपचरित्याह ।
कर्तृभेदात् तदर्थेषु प्रकर्षापचयौ गतः ।
समत्वं विषमत्वं वा स एकः प्रतिपद्यते ।। 31 ।।
इह यदानुष्ठातारः श्रुतिस्मृतिनिबन्धनमाचारमनुतिष्ठन्ति तदा प्रकर्षमासादयन् कालः स एवैकः कृतादिर्व्यपदिश्यते । शुभसमाचाराधिकारिबाहुल्यादि भिन्न इत्यर्थः । तदर्थः कर्तृसाध्यः समाचारः । यदा तु कर्तारो विशृङ्खला यथावत्समाचारमुल्लंघयन्ति तदा समाचारापकर्षादपचयप्राप्तेः कलिप्रभृतिर्विंषभः कालोऽभिधीयते । तदयमेकोऽप्यनुष्ठातृभेदाद् विभागमासादयति कालः ।। 31 ।।
अन्यदप्यध्यारोपितं कालस्य विभागमाह ।
कियाभेदाद्यथैकस्मिंस्तक्षाद्याख्या प्रवर्तते ।
क्रियाभेदात् तथैकस्मिन्नृत्वाद्याख्योपजायते ।। 32 ।।
तक्षणायोविकरणा दिक्रियाविशेषोपल्पिता तक्षायस्यकारादिसंज्ञा यथैकस्य कर्तुः प्रवर्तते तथा विशिष्टपुष्पादिप्रसवलक्षणक्रियाभेदादेकस्यापि कालस्य वसन्तादभेदेन समाख्या जायते । आदिग्रहणात् सितासितपक्षव्यपदेशोऽहोरात्रव्यपदेशः प्रदोषप्रत्यूषव्यपदेशश्च यथायथं क्रियाभेदोपहितो गृह्यते ।। 32 ।।
अन्योऽपि कालभेदोऽध्यारोपितो भवतीत्याह ।
आरम्भश्च क्रिया चैव निष्ठा चेत्यभिधीयते ।
धर्मान्तराणामध्यासभेदात् सदसदात्मनः ।। 33 ।।
उत्पत्तेः पूर्वमसदात्मा पदार्थः । उत्पन्नस्तु सदात्मा । तस्य बुद्ध्यैकत्वेन वस्तुरूपतया स्वीकारे सति विलक्षणधर्मभेदवशादारम्भादिकालो भेदेन वयवह्रियते । तथा हि बुद्ध्याभिसन्धाय पदार्थरूपं योग्यसाधनोपार्जनमारम्भकालः । उपार्जितसाधनस्य करणं क्रियाकालः । कर्तव्यस्य समाप्तिर्निष्ठाकालः । तदेवं यथाकालं धर्मभेदकल्पनयारम्भादिकालप्रवियागः ।। 33 ।।
स च सर्वत्र समान इत्याह ।
यावांश्च द्व्यणुकादीनां तावान् बिमवतोऽप्यसौ ।
न ह्यात्मा कस्यचिद् भेत्तुं प्रचेतुं वापि शक्यते ।। 34 ।।
अवयविनां निरंशत्वादारम्भादिकालः सर्वेषां समानः । अवयवास्तु ततोऽर्थान्तरम् । परिमाणमपि च गुणोऽन्य एवावयविन इति न तद्भेदे तस्य रूपं प्रचेतुमपचेतुं वा शक्यते । तस्मादवयविमात्रस्य कार्यद्रव्यस्य समानत्वान्न तद्वशेनाल्पपरिमाणानां महापरिमाणानां चारम्भादिकालो विशिष्यते, अपि त्ववयविव्यतिरिक्तधर्मान्तरवशेनेत्यर्थः ।। 34 ।।
तदाह ।
अन्यैस्तु भावैरन्येषां प्रचयः परिकल्प्यते ।
शनैरिदमिदं क्षिप्रमिति तेन प्रतीयते ।। 35 ।।
अल्पपरिमाणमहापरिमाणानामवयविनामन्यैर्व्यतिरिक्तैरेवावयवैर्बहुभिः प्रचयोऽल्पैरपचयश्च परिकल्प्यतेऽध्यारोप्यते । तथा च बह्ववयवोऽवयवी शनैर्निष्पद्यते, अल्पावयवस्तु क्षिप्रमित्यारम्भादिकालस्तत्र विलक्षणोऽवधार्यते । समवायतिरोहितभेदत्वादवयवधर्मैरवयविनो व्यपदेशः, न तु भावतः कालो भिद्यतेऽवयविनाम् ।। 35 ।।
यतः
असतश्च क्रमो नास्ति स हि भेत्तुं न शक्यते ।
सतोऽपि चात्मतत्त्वं यत् तत् तथैवावतिष्ठते ।। 36 ।।
उत्पत्तेः पूर्वमसन् भावः । तस्य निःस्वभावत्वात् पौर्वापर्येण विभागाभावात् क्रमो नास्ति । उत्पन्नस्यापि विद्यमानस्य तेनैव प्रकारेणाशक्यभेदत्वेन स्वरूपस्यावस्थानादविद्यमानः क्रम इति बुद्ध्यानु सन्धाने न क्रमव्यवहारः सदसतोरित्यर्थादभिहितं भवत् । भेदाश्रयो हि क्रमः । स च भेदः पदार्थस्योत्पद्यमानावस्था तत्त्वतः सदसदवस्थाद्वयरूपस्य प्रत्यवस्थमसंभवीति तत्सङ्कलनया पूर्वापररूपताध्यारोपः । एवं प्रथम एव क्रमः काल्पनिक इति सर्वस्तथारूपो न मुख्यः ।। 36 ।।
न केवलं क्रियाभेदनिमित्ताः काले एकस्मिन्नृत्वाद्याख्याः प्रवर्तन्ते, यावद् भूतादि व्यपदेशा अपीत्याह ।
क्रियापाधिश्च सन् भूतभविष्यद्वर्तमानताः ।
एकादशभिराकारैर्विभक्ताः प्रतिपद्यते ।। 36 ।।
उत्पन्नध्वस्ता यदा क्रिया भवन्ति तदा तदुपाधिः कालो भूत इति व्यपदिश्यते । यदा तु सन्निहितसाधनाः सम्भाव्यमानोदयाः क्रियाः तदा तदुपाधिः कालो भविष्यत्तां प्रतिपद्यते । प्रारब्धापरिसमाप्तक्रियोपाधिस्तु वर्तमानसंज्ञः । ते च भूतादयः कालविभागाः पुनरवान्तरभेदेनैकादशधा भवन्ति ।। 37 ।।
कथमित्याह ।
भूतः पञ्जविधस्तत्र भविष्यंश्च चतुर्विधः ।
वर्तमानो द्विधाख्यात इत्येकादश कल्पनाः ।। 38 ।।
भूतसामान्यं विशेषेभ्यो व्यावृत्तेरेको भूतभेद इति गण्यते । तथा चोक्तं
"सामान्यमपि यथा विशेषस्तद्वत् "
इति । अद्यतनो द्वितीयो भूतभेदः । अनद्यतनस्तृतीयः । अद्यतनानद्यतनसमुदायस्ताभ्यामन्यत्वाच्चतुर्थः । परोक्षस्तवनद्यतनभेदो न भूतभेद इति न पृथग् गण्यते । यस्तु भविष्यन्नप्यतिदेशाद् भूतकार्याणि लभते स पञ्चमो भूतभेदोऽध्यारोपितभूतभावो गौणः । भविष्यत्सामान्यमद्यतनोऽनद्यतनोऽद्यतनानद्यतनसमुदायश्चेति चत्वारो भविष्यद्भेदाः । यस्तु अनद्यतनवत्प्रतिषेधाद् भविष्यत्सामान्यकार्याणि प्रतिपद्यते सोऽनद्यतनोऽपि शास्त्रव्यवहारे भविष्यत्सामान्यमेव । मुख्यो वर्तमान एकः । तत्समीपभूतस्त्वतिदिष्टवर्तमानभावः
वर्तमानसमीप्ये...(2.3.3.131.)
इति भूतोभविष्यंश्च स द्वितीयः । तदेते शास्त्रकार्यप्रविभागार्थं कालस्य भेदाः कल्पिताः, न त्वसा वियत्संख्यः । एवमनन्तभेदत्वात् क्रियाभेदाद् भूतादिभेद उक्तः ।। 38 ।।
क्रिया चातीताऽविद्यमाना कथं भूतव्यपदेशं काले समर्पयेदित्याशङ्कयाह ।
काले निधाय स्वं रूपं प्रज्ञया यन्निगृह्यते ।
भावास्ततो निवर्तन्ते तत्र संक्रान्तशक्तयः ।। 39 ।।
क्रियया निर्वर्तिताः पदार्थाव्यतीता इति भण्यन्त व्यपगतस्वरूपाः । तत्र यत्तेषां वर्तमानावस्थायां बुद्ध्या स्वरूपं गृहीतं तत् स्थायिनि काले स्वाधारे समर्प्यव्ययन्ते, यतोऽनुभूताः स्मर्यमाणावस्था जायन्ते । तथा चातीतेऽध्वनि संक्रान्तशक्तयो व्यवहारं स्मार्तमनुपतन्ति । एतदुक्तं भवति । भावोपाधितया कालतत्त्वं प्रख्यायते । भावाश्वानुभूतौ स्मर्यमाणावस्थास्तस्य भूतव्यपदेशमेव स्वोपाधितया कल्पयन्ति । तथा चभूद् घट इत्यादिव्यवहारः । अतश्चैतदेव कालसद्भावावेदकं लिङ्गम् । असत्यर्थे तद्व्यवहारानुपपत्तेः । कालसंक्रान्तरूपत्वेऽभूदिति व्यवहारात् कालसिद्धिः ।। 39 ।।
तर्हि भविष्यद्वथपदेशोऽपि कथमित्याह ।
भाविनां चैव यद्रूपं तस्य च प्रतिबिम्बकम् ।
सुनिर्मृष्ट इवादर्शे काल एवोपपद्यते ।। 40 ।।
समर्थहेतुसन्निधानसमये संभावितोत्पत्तीनां पदार्थानां यद्रूपं बाह्यं यच्च तस्य बाह्यस्वरूपस्य बुद्धौ निश्चितं प्रतिबिम्बरूपं तदाकारस्तयोर्द्वयोर्दृश्यविकल्पयोरेकत्वाध्यवसायत् स्थायिनि काले समारोहस्तत्र संक्रान्तशक्तित्वमिति तदध्यारोपात् काले भविष्यत्त्वमध्यवसाय नियतरूपनिश्चय इत्यर्थः । कालादिप्रसेवकान्तर्गता एव पदार्थाश्चकासतीत्यादर्शसाम्यम् ।। 40 ।।
एवं च कालसंक्रान्तरूपत्वाद् भावानामजस्रपरिणाम इत्याह ।
तृणपर्णलतादीनि यथा स्रोतोऽनुकर्षति ।
प्रवर्तयति कालोऽपि मात्रा मात्रावतां तथा ।। 41 ।।
नदीप्रवाहो यथा तृणादीनि कानिचित् प्रेरयति स्वस्थानात् प्रच्यावयति, कानिचित् पुनराक्षिप्य तत्‌स्थाने निवेशयति एवमजस्रप्रवृत्तिः कालो भावानाक्षिप्याक्षिप्योत्सृजति, उत्सृष्टानां च धर्मपरिणामान् वर्तयति ।। 41 ।।
दष्टान्तान्तरेण तदेव द्रढयति ।
आविश्येवानुसन्धत्ते यथा गतिमतां गतीः ।
वायुस्तथैव कालात्मा विधत्ते क्रमरूपताम् ।। 42 ।।
यथा प्राणाख्यो वायुः शरीरिणामन्तरवयवसन्धिष्ववस्थितो गमनागमनादिचेष्टाः साधयति तथा कालात्मा अपि भावानामात्मन्यनुप्रविश्य प्रतिबन्धाभ्यनुज्ञाभ्यां निमज्जनोन्मज्जने कुर्वत् क्रमं पौर्वापर्यलक्षणं प्रवर्तयति ।। 42 ।।
ततश्चेदं सिद्ध्यतीत्याह ।
अयनप्रविभागश्च गतिश्च ज्योतिषां ध्रुवा ।
निवृत्तिप्रभवाश्चैव भूतानां तन्निबन्धनाः ।। 43 ।।
दक्षिणायनमुत्तरायणमिति कालकृकतमर्यादायत्तः प्रविभागः । नक्षत्राणां च नियता गतिः उदयादिरूपा कालमनुपतति । महाभूतानां च सर्गप्रलयसमये जन्मविनशावाविर्भावतिरोभावलक्षणौ कालायत्तौ इति सर्वोपकारी कालो विश्वात्मेत्युच्यते ।। 43 ।।
ज्योतींषि नक्षत्रपर्यायाणि कालप्रविभागरूपाणि नान्यत्तत्त्वमित्याह ।
मात्राणां परिमाणा ये कालवृत्त्यनुयायनः ।
नक्षत्राख्या पृथक् तेषु चिह्नमात्रं तु तारकाः ।। 44 ।।
विशिष्टकालसंबन्धवशेन ये भावानां विशिष्टाः परिणामास्ते पृथक् पृथक् विभक्ताः कृत्तिकादिनक्षत्रसंज्ञाः प्रतिपद्यन्ते । तथाहि चन्द्रमसा योगे पुष्यादीनां यो भावो जातः स तद्व्यपदेशं लभते तिष्यः पुनर्वसुर्वा माणवक इति । अत एवात्र जातप्रत्ययस्यादर्शनमन्वाख्यायते । स्वाभाविकं ह्यर्थाभिधानं शब्दानां व्युत्पाद्यते । तेन विशिष्टोपजातः पदार्थः तिष्टादिव्यपदेश्य इति भावतो मात्रापरिणाम एव नक्षत्रोपाधिः कालः । पृथक्ग्रहणात् कालस्यापि नक्षत्रसमारव्या गम्यन्ते कृत्तिका रोहिणीत्यादि । स हि कालभागो भावेषूपाधिर्जनिक्रियामुखेन । तस्यैव तु ज्ञापकानि ज्योतींषि, न तु तावदेव नक्षत्रस्य रूपं चन्द्रमसा योगे तदुपपत्तेः ।। 44 ।।
यथा च नियतकालविशेषो ज्योतीरूपैश्चिह्णैः कार्यभूतैर्ज्ञाप्यते , तथान्यैरपीत्याह ।
रुतैर्मृगशकुन्तानां स्थावराणां च वृत्तिभिः ।
छायादिपरणामैश्च ऋतुधामा निरूप्यते ।। 45 ।।
ऋतवो धाम स्थानं यस्य, तदात्मकत्वेन प्रतिभासात् । कालाख्या हि स्वातन्व्यशक्तिर्ब्रह्मणो वसन्तादिभेदेन प्रविभक्ता चकास्ति । तथा चासौ नियतऋतुभेदः पुंस्कोकिलादिकूजितवशेन नवनवकिसलययोगेन सूयादि सञ्चारविशेषोपलक्ष्यमाणच्छायातपादिभेदेन लतावतानप्रसूनविशेषेण चावधार्यते । तथाहि ।
सुगन्धिकुसुमामोदमत्तषट्पदनिर्भरः ।
पुंस्कोकिलरवाकीर्णवनोद्देशो विभाव्यते ।।
मधुर्मधुरझंकारसुखमारुतसङ्गमः ।
प्रबोधितप्रियाबाहुमञ्जरीसक्तवल्लभः ।।
मल्लिकामोदरुचिरो धर्मार्तगजकम्पतिः ।
प्रकम्पिपवनः शुष्कलताकुसुमसञ्चयः ।।
शुष्यदास्यपिपा सार्तप्राणिसङ्करग्रह्नरः ।
प्रतप्तपांसुनिचयो ग्रीष्मः सोष्मा विभाव्यते ।।
प्रशान्तातपसञ्चारा नीरदाच्छादिताम्बराः ।
जलाप्लावितभूभागाः सञ्चारविषमाः क्वचित् ।।
मयूरकेकारवपूरिताशा लतागृहान्तः स्थितकामिसंघाः ।
उत्कण्ठितप्रोषितदत्तकम्पा वर्षां विभाव्यन्त इह क्रमेण ।।
हंसानां निनदेन पद्मनिचयैर्लाक्षाद्रवोद्भासिभि--
र्नैर्मल्येन दिशां विशुद्धधवलैरभ्रैर्नभोलाञ्छनैः ।
शालीनां परिपाकशोभिवपुषां हृद्यैर्मृगाणां गतैः
संभाव्या शरदभ्रमुक्तविमलव्योमस्फुरत्तारका ।।
प्रसूनैस्तत्रत्यैर्दिशि दिशि चकासद्भिरमलै-
जडिम्ना सन्नाङ्गैः पशुभिरथ काकैर्वनगतैः ।
निशानां विस्तारैरभिमततमैः कान्तमनसां
हिमैर्हेमन्ताख्यः समय इहलक्ष्यः स्फुटवपुः ।।
हिमप्रपातस्थगितोरुमार्गो विशीर्णपर्णः शिशिरोऽपि लक्ष्यः ।
शीतार्तसीदच्छकुनिप्रकाण्डो नीहारधारावृतभूमिपृष्ठः ।।
प्रफुल्लकुन्दप्रकरप्रचारस्तुषारसङ्घातविभेददक्षः ।
वहत्यजस्रं शिशिरो नभस्वान् यत्राभितः स्फीततरुप्रकर्षः ।।45 ।।
इदानीमद्वैतवादेऽपि कालोपयोगं भावानामाह ।
निर्भासोपगमो योऽयं क्रमवानिव दृश्यते ।
अक्रमस्यापि विश्वस्य तत् कालस्य विचेष्टितम् ।। 46 ।।
संबन्धसमुद्देशे प्रदर्शितदिशाऽक्रमं ब्रह्मविवर्तरूपं विश्वम् । तस्य यदिदं क्रमेणावभासनं तत् कालशक्तिकृतप्रतिबन्धाभ्यनुज्ञासामर्थ्यम् । कालाख्या हि ब्रह्मशक्तिरविद्यैव क्रमावभासकारितया जीवात्मसु सफलेति ब्रह्मकाण्ड एव निर्णीतम् । एवं तावत् प्रथमः कालव्यापारोऽत्र क्रमावभासः ।। 46 ।।
तदनन्तरोऽपि कालभेद औपाधिक इत्याह ।
द्‌रान्तिकव्यवस्थानमध्वाधिकरणं यथा ।
चिरक्षिप्रव्यवस्थानं कालाधिकरणं तथा ।। 47 ।।
दूरोऽयमध्वा निकटोऽयमिति कर्तृगतिभेदेनाध्वनि व्यवस्था, न तु मार्गभेदोऽत्र कश्चित् । य एव हि मन्दगतीनां दूरः स एव चतुरचेष्टानामासन्नोऽध्वा । एवं स्थायिन्यपि काले प्रचितसन्तानक्रियोपाधिः चिरमिति व्यवस्थानम् । अपचितसन्तानक्रियोपाधिः क्षिप्रमिति ।। 47 ।।
इदानीं पूर्वोक्तोऽपि भूतादिभेदः कालस्य क्रियापाधिः । विशेषमत्र वक्तुं पुनः प्रतिपद्यते ।
तस्याभिन्नस्य कालस्य व्यवहारे क्रियाकृताः ।
भेदा इव त्रयः सिद्धा याँल्लोको नातिवर्तते ।। 48 ।।
अभिन्नेन कालेन व्यबहर्तुमशक्यत्वाल्लोके त्रयो भेदा इव परमार्थत एकत्वात्, क्रियोपाधयः प्रसिद्धाः तस्य भूतभविष्यद्वर्तमानाख्याः । क्रियाव्युपरमे भूतः, सम्भावितायां क्रियायां भविष्यन्, क्षणप्रवाहरूपेण प्रवर्तमानायां तस्यां वर्तमानः । मुख्य एवायम् ।। 48 ।।
कथमस्य भेदो न भवतीत्याह ।
एकस्य शक्तयः तिस्रः कालस्य समवस्थिताः ।
यत्संबन्धेन भावानां दर्शनादर्शने सताम् ।। 49 ।।
कार्यभेदे न कारणभेदानुमानम्, शक्तिभेदादेव कार्यभेदोपपत्तेः । कालाख्यस्य जगत्कारणस्य मुख्यो भेदो नास्ति । तथाहि । वर्तमानशक्तिसंबन्धेन भावानां सतामेवाभिव्यक्तिर्जन्म । अतीतानागतकालशक्तिसंबन्धेन तु सतामेव तिरोभावोऽदर्शनमनभिव्यक्तिर्विनाशः प्राक्प्रध्वंसाभावरूप इति शक्तिभेदात् कार्यभेदोपपत्तौ कालभेदकल्पना निर्निमित्ता ।। 49 ।।
दर्शनादर्शने एव शक्तिप्रविभागेन विभजति ।
द्वाभ्यां स किल शक्तिभ्यां भावानां वरणात्मकः ।
शक्तिस्तु वर्तमानाख्या भावरूपप्रकाशिनी ।। 50 ।।
अतीतानगतशक्तिभ्यां वरणं तिरोधानं भावानां सतां कालः करोति । वर्तमानशक्त्या दर्शने भावरूपप्रकाशनम् ।। 50 ।।
ननु यथानागतशक्तिकृतावरणानां पुनरभिव्यक्तिर्वर्तमानशक्तिसंबन्धो दृश्यते तथातीतशक्तिकृतावरणानामपि कथं न भवतीत्याशङ्कयाह ।
अनागता जन्मशक्तेः शक्तिरप्रतिबन्धिका ।
अतीताख्या तु या शक्तिस्तया जन्म विरुध्यते ।। 51 ।।
जन्मसहचरिताया वर्तमानशक्तेरनागतशक्तिरविरोधिनी प्रतिबन्धं न करोत्युदये । स्वकाले हि तया सा प्रतिबद्धा । समर्थहेतुसम्पाते तु वर्तमानशर्तेरुदयानुकूल्यमनागतशक्तिर्भजते । यस्य हि कालान्तरे वर्तमानता स एवानागतः कथ्यते । अतीतशक्त्या तु जन्मशक्तिर्वर्तनाख्या विरुध्यते एव न हि मृतस्य पुनर्जन्मेतिनातीतेऽध्वनि पतितमाविर्भवति वस्तु ।। 51 ।।
ननु शक्तिमदाश्रिताः शक्तयः शक्तिमानिव सदा संनिहिता इति सदैव तद्योगे भावानां युगपद् विरुद्धरूपदर्शनादर्शनप्रसङ्ग इत्याशङ्क्याह ।
तमःप्रकाशवत्त्वेते त्रयोऽध्वानो व्यवस्थिताः ।
अक्रमास्तेषु भावानां क्रमः समुपलभ्यते ।। 52 ।।
भूतभविष्यद्वर्तमानाख्यास्त्रयः कालविभागा अध्वान इवाध्वानः । यथा ह्यध्वसु गन्तारो गमनागमनादिप्रबन्धं वर्तयन्ति तथैतेषु भावाः परिणाममनुभवन्तो गतागतप्रबन्धमुपरचयन्ति । भविष्यदध्वनि य एव स्थितः स एव वर्तमानाध्वनि पतित्वातीतेऽध्वनि पुनः पतति । तथा च त्रैयाध्विकाः पदार्थाः परिणामवादिभिरभ्युपगम्यन्ते । यदुक्तं पाकञ्जले
धर्मास्त्र्यध्वानः (Vyasabhasya on Y.Dar.III.13.)
इति । यद्यपि चैते त्रयः शक्तिविशेषाः कालात्मन्यक्रमा एवावस्थिताः तथापि तमः प्रकाशरूपत्वादाधेयेषु भावेषु प्रवृत्तिं वर्तयन्तो दर्शनादर्शनाभ्यां सदसद्रूपोपकल्पनया पौर्वापर्यं विदधति । तद्यथा सत्त्वरजस्तमोलक्षणगुणा नित्यत्वाद् युगपदवस्थाना अपि अङ्गाङ्गिभावोपगमनेन यथायथं स्ववृत्त्युल्लासे विचित्रपरिणामाद् भावानुपपरचयन्ति तथेमे कालभेदाः स्वशक्तिमाहात्म्याद् भावभेदेषु क्रमोपरचनचतुरा इत्यर्थः ।। 52 ।।
तमः प्रकाशरूपत्वमेव विभजति ।
द्वौ तु तत्र तमोरूपावेकस्यालोकवत् स्थितिः ।
अतीतमपि केषाञ्चित् पुनर्विपरिवर्तते ।। 53 ।।
अतीतानागतावध्वानौ भावावरणहेतुत्वात् तमः स्वभावौ । वरणं हि तमोधर्मः ।
`गुरु वरणकमेव तमः' (sankhya Karika 13.)
इति । रजस्तु प्रवृत्तिसामान्यं कालस्वरूपं सर्वत्रान्वयि । प्रतिबन्धाभ्यनुज्ञाभ्यां प्रवर्तकं प्रेरणारूपं राजः कालात्मकमेव त्रैगुण्यपरिणामात्मकत्वं च ब्रह्मदर्शनेऽपि कालस्योपपन्नमेव शक्तिरूपस्यापि । ज्ञानक्रियाशक्ती हि जीवात्मनि गुणत्रयम् । तत्रैव च कालशक्तिस्ताद्रूप्यातीतशक्तिर्जन्मशक्तेः प्रतिबन्धिकेति पूर्वमुक्तम् । केचित्तु मन्यन्ते अतीताध्वपतितमपि पुनः कालान्तरे जहतपरिवर्तेषून्मज्जति । कृतपरिनिष्ठिता हि भावाः प्रधान प्रसेवकान्तर्गता यथाकालमुद्दर्शयन्त्यात्मा नं पुनः प्रलये तत्रैव तिरोभवन्ति । पञ्चाधिकरणदर्शनस्थानां सांख्यानामयमागमः । इत्थं चात्र दर्शने सुतरां त्रैयध्विकत्वमुपपद्यते, सर्वेषामपि त्रिष्वप्यध्वसु सञ्जारात् । प्रबन्धप्रवृत्ते जगति पूर्वमतीतानां वर्तमानता नास्ति । जगत्परिवर्तेऽपि न तदेवावर्तते, अपि तु तत्सदृशमित्यतीतशक्तेर्वर्तमानशक्तिविरोधः पूर्वमुक्तः । इह तु
`नाभवो विद्यते सतः'(B.Gita II.16.)
इति तिरोभावं पुनस्तदेवावर्तते इति दर्शनान्तरं कथ्यते । तदेवं धर्मर्धार्मणोः कथंचिद् व्यतिरेकमभ्युपगम्य स्थायी धर्मी वर्तमानो धर्मास्तु त्र्यध्वान इतीदं दर्शनमुक्तम् ।। 53 ।।
इदानीं धर्मधर्मिणोरव्यतिरेकं भाविकमाश्रित्या धर्मिणो युगपदपि व्यपदेशत्रयं धर्मद्वारकं प्रवर्तते इति महाभाष्यमतमाह ।
युगपद्वर्तमानत्वं तद्धर्मा प्रतिपद्यते ।
केषांचिद्वर्तमानत्वाच्चैति तद्वदतीतताम् ।। 54 ।।
ते अतीतवर्तमानानागतरूपा धर्मा यस्यासौ तद्धर्मा धर्मी युगपद् एकवारमेव वर्तमानत्वम् सांप्रतिकत्वं प्रतिपद्यते । धर्मस्य वर्तमानात्वात् तद्व्यतिरिक्तो धर्मी तथा वर्तमानत्वाच्च अनन्तरामपि अतीततां तद्वद् वर्तमानत्ववद् एति युगपदेवातीततामप्यासादयति । कस्यचिद्धर्मस्यातीतत्वात्तद व्यतिरिक्तो धर्मीत्यर्थः । एवं कस्यचिद्धर्मस्यानागतत्वादनागततामप्येति । तदेवं धर्मी यथायी भावतः सदैव वर्तमानोऽपि धर्मत्रैविध्यात् सकृदपि त्र्यध्वा व्यवह्रियते । अव्यतिरिक्ताश्च संनिवेशवद्धर्मा इत्यन्यत्र स्थापितम् ।। 54 ।।
नन्वतीतवर्तमानयोर्विरोधात् कथमेकत्र समावेश इत्याशङ्क्याह ।
हेतूरकारादाक्षिप्तो वर्तमानत्वमागतः ।
शान्तहेतुपकारः सन् पुनर्नोपैति दर्शनम् ।। 55 ।।
यदा संरब्धा हेतवः कार्योपकारमारभन्ते तदा तत्सामर्थ्याज्जायमानो भावो दर्शनपथमवतरन्नर्थक्रियाः सम्पादयन् वर्तमान इति व्यपदिश्यते । उपरतकारणव्यापारस्तु दानागतः । इत्येकस्यापि परोपाधिप्रकल्पितो व्यपदेशभेदोऽविरुद्ध इत्यर्थक्रियासदसत्त्व निमित्तो व्यपदेशभेदः । ननु यदेवार्थक्रियाकारि तदेव परमार्थसदित्यतीतेऽध्वनि तदभावात् कथं सत्त्वम् । न वयमर्थक्रियाकारि तदेव परमार्थसदित्यतीतेऽध्वनि तदभावात् कथं सत्त्वम् । न वयमर्थक्रियानिमित्तं सत्त्वमुपेमः, अपि तु स्वरूपेण सन्तः पदार्थाः । स्वरूपं चैषां गुणत्रयमयम् । तस्य च नित्यस्य नास्ति विनाशः । सर्वत्र सर्वदानुगमात्, वीतपञ्चकेन साधितत्वात् । तदुक्तम्--
`तदेतत् त्रैलोक्यं व्यक्तेरपैति, न सत्त्वात्'
इति ।। 55 ।।
अतीतानागतयोरध्वनोर्भावस्यादर्शनं समानमभिप्रेत्य केचित् संक्षेपरुचयः कालस्य शक्तिद्वयमेव प्रतिबन्धाभ्यनुज्ञापर्यायमभ्युपयन्तीत्याह ।
द्वे एव कालस्य विभोः केषांचिच्छक्तिवर्त्मनी ।
करोति याभ्यां भावानामुन्मीलननिमीलने ।। 56 ।।
   प्राक्‌प्रध्वंसाभावयोर्भावस्यादर्शनमविशिष्टमिति एकैव तत्कारिणी कालस्य सर्व भावग्रहिष्णुरूपस्य शक्तिः प्रतिबन्धलक्षणा । द्वितीयात्वभ्यनुज्ञालक्षणा भावाभासविधायिनी सर्वभाव प्रभविष्णुरूपस्य । तदेवं कालत्त्वं व्याख्यातम् ।। 56 ।।
अत्र तु केचिद् विप्रतिपद्यन्ते-अभिन्नेन कालेन व्यवहर्तुमशक्यत्वाद् य एव तद्भेदोपाधिः क्रियादिः परिकल्प्यते स एव व्यवहारनिमित्तं किमदृश्यमानेनानुपपन्नेन कालात्मना कृत्यमिति वदन्तः । यदि च परिकल्पितरूपेण कालेन विना व्यवपहारदौस्थ्यं तदीदृशमस्तु कालतत्त्वमिति । तद्दर्शनेनाह ।
कालाभिः पृथगर्थाभिः प्रविभक्ते स्वभावतः ।
केचिद् बुद्ध्यनुसंहारलक्षणे ते प्रचक्षते ।। 57 ।।
भिन्नाः क्रियाः संकलनाबुद्ध्यानुसंह्रियमाणाः सङ्कल्प्यमानाश्चिरक्षिप्रादिव्यपदेशस्य निमित्तं भवन्ति, एवमहोरात्रादिव्यपदेशस्य । तथा च बुद्ध्या संकलनमात्रमेवाबहुस्तत्त्वं चिरादिकालरूपं विलक्षणमेव व्यवतिष्ठते । तथाहि चिरकालस्यावान्तरप्रविभागेन भिन्ना एव कलाः स्वांशाः परिकल्प्यन्ते । एवं क्षिप्रकालस्याहरादिकालस्य च । न तु क्रियापाधिवशादयं चिरादिभेदः । पूर्वोक्तनयेन बुद्धेः स्वयं भेदात् । स एव च स्वविषये सङ्कल्प्यमाने क्रियासन्ताने समारोप्यते । बुद्धिधर्मो हि विषयरूपानुपातीति दृष्टमेतत् । विषयभूतलक्षणगतास्पत्त्वमहत्त्ववशेन चिरादिभावो बुद्धिसङ्कलनस्य कालरूपस्य व्यवह्रियते इत्येतावत् कालतत्त्वम् ।। 57 ।।
नास्त्यन्यो बाह्यः कश्चित् काल इति बौद्धप्रायाः । भवत्वेवं नास्माकं विप्रतिपत्तिरत्रेत्याह ।
ज्ञानानुगतशक्तिं वा बाह्यं वा सत्यतः स्थितम् ।
कालात्मानमनाश्रित्य व्यवहर्तुं न शक्यते ।। 58 ।।
ज्ञाने बुद्धावनुगतास्तदाकाराः शक्तयश्चिरक्षिप्रवर्तमानादिभेदरूपा यस्यासावेलंविधो बुद्ध्यनुसंहारमात्रस्वभावो वास्तु कालो बाह्यो वा कश्चित् प्रविभक्तवर्तमानादिशक्तिः पारमार्थिको द्रव्यपदार्थः । नास्माभिर्दर्शनविवेकः प्रारब्धः, किन्तु शाब्दे व्यवहारे यदङ्गं, तत्परीक्ष्यम् । अस्ति च भिन्नकालः शाब्दो व्यवहारोऽभूदस्ति भविष्यतीति । तत्र यथायोगमविचारितरमणीयः कालोऽभ्युपगन्तव्य इत्यर्थः ।। 58 ।।
तथा हि कैश्चिद् भावेभ्यो व्यतिरिक्त एव कालोऽभ्युपगत इत्याह ।
तिस्रो भावस्य भावस्य केषाञ्चिद् भावशक्तयः ।
ताभिः स्वशक्तिभिः सर्वं सदैवास्ति च नास्ति च ।। 59 ।।
पारमर्षनये सततपरिणामिषु भावेषु सत्त्वरजस्तमसां शक्तिमात्रमतीतादिकालभेदसमाख्यम् । तथा च सर्वेषां भावानां गुणत्रयमयत्वाच्छक्तित्रययोगित्वे यथायथं शक्त्युद्भवानुद्भवाभ्यां सदसत्त्वेन व्यवहारः ।। 59 ।।
तथा हि ।
सत्त्वादव्यतिरेकेण तास्तिस्रोऽपि व्यवस्थिताः ।
क्रमस्तास्तदभेदाच्च सदसत्त्वं न भिद्यते ।। 60 ।।
भावादव्यतिरिक्तास्ता एव शक्तयः क्रमः इत्युच्यन्ते । आविर्भावतिरोभावौ हि वर्तमानादिशक्तिसमन्वयवशाद् भावाः प्रतिपद्यमानाः क्रमरूपमात्मनि दर्शयन्तीति शक्तयस्ता एव तात्पर्यतः क्रमः । अव्यतिरेकेऽपि च भावाच्छक्तीनां सदा भाववदवस्थानेऽपि वृत्तिवैचित्र्यात् सङ्करो न भवति । दर्शनादर्शने हि तत्रासां व्यापारः । स च विलक्षणः । तद्वशादेव च सदसत्त्वव्यवहार इति सोऽपि भावतदो न विभिद्यते । अतीतानागतावस्थस्य हि दर्शनमप्रवृत्तं न सत्त्वमिति दर्शनाभाव एवासत्त्वव्यवहारात् सत्त्वस्य च तदानीमपि विद्यमानत्वात् सदसत्त्वं न भिद्यते ।। 60 ।।
यतः
दर्शनादर्शनेनैकं दृष्टादृष्टं तदेव तु ।
अध्वनामेकता नास्ति न च किञ्चिन्निवर्तते ।। 61 ।।
वर्तमानशक्त्या प्रकाशनं दर्शनं संवेदनम्, अतीतानगतशक्तिभ्यां तु तिरोधानमदर्शनमसंवेदनम्, तयो परस्परपरिहारेणावस्थानाद् नैकत्वमिति कार्यभेदादध्वभेद एव न सङ्करः । यत्पुनस्तद्वस्तु दृष्टं सददृष्टमतीतं च तदेकमेव धर्मिरूपम्, धर्माणामागमापायाभ्यामपि धर्मिणस्तत्त्वादप्रच्युतेः । अतश्चात्र भावदभिन्नानामप्यध्वनां वर्तमानादिरूपाणां कार्यसाङ्कर्याभावादेकत्वसङ्करो नास्ति । यतश्च सद्रूपमत्यन्तनिरन्वयध्वसं नोपपद्यते, तिरोभावमात्रं तु । ततः सदसत्त्वं न भिद्यते, सत्त्वादसत्त्वस्य भेदो नास्ति, सत्त्वमेव हि तिरोभूतमसत्त्वमिति व्यवह्रियते, न त्वभावो नाम कश्चिन्निरूप्य इत्यर्थः । तदुक्तं पातञ्जले--
"[न] धर्मी त्र्यध्वा धर्मास्त्र्यध्वानस्ते तल्लक्षितास्तां तामवस्थां प्राप्नुवन्तोऽन्यत्वेन प्रतिनिर्दिश्यन्ते"(Vyasa-bhasya on Y.Dar.III.13)
इति । तथा चानागतलक्षणं हित्वा वर्मानलक्षणं प्रतिपन्नो न चानागतातीताभ्यां वियुक्त इति ।। 61 ।।
इदानीं यथासम्भवं कालतत्त्वे मतान्तराण्युपसंहरति ।
शक्त्यात्मदेवतापक्षैर्भिन्नं कालस्य दर्शनम् ।
प्रथमं तदविद्यायां यद्विद्यायां न विद्यते ।। 62 ।।
कालाख्या स्वातन्त्र्यशक्तिर्ब्रह्मण इति तत्रभवद्भर्तृहरेरभिप्रायः । व्याख्यातारस्तु कारणशक्तिरेव काल इति व्याचक्षते । तथा हि बीजशक्तिरङ्कुरोपजनमभ्यनुजानतीकाण्डप्रसवं च तदानीं प्रतिबध्नती कालकार्यकरणात् कालः । एवमङ्कुरादिशक्तावपि यथोत्तरमनन्तरकार्यजननाद् व्यवहितकार्यप्रतिबन्धाच्च कालतत्त्वं बोद्धव्यम् । एतच्चा युक्तमिति लक्ष्यते । नियतकारणा हि भावाः स्वकारणसन्निधाने भवन्ति नाप्यथेति कारणसामर्थ्यमेवेदम् । तत्र तु नियतकालत्वात् सहकारी कालस्तदन्य एव युक्तः । कारणपरम्परया बावानामुत्पद्यमानानां च क्रमदर्शनाच्च क्रमाख्या कालशक्तिर्भावोपाधिरित्येवोपगन्तव्या । ततश्च भावभेदावभासने प्रभुः स एव तत्र तदनुयायिक्रमावभासनेऽपीति स्वतन्त्रस्य चिदात्मन एव जीवात्मगतेयं शक्तिः कालाख्या युक्ता । तथा ह्युक्तं वाक्यपदीयेऽस्माभिः । अत एवैतद्दर्शनानुगुणदर्शनान्तरमाह-आत्मा पुरुषो जीव एव काल एव जीवस्तस्यैव क्रमावभासात् । स हि यथातत्त्वमर्थान् प्रत्येतुमसमर्थः स्वाभासकालानुसारेण तत्र क्रममध्यवस्यति । ततश्च ततः कालभेदप्रक्लृप्तेः स एवोपचारेण कालाख्यां प्रतिपद्यते । स एव हि कालशक्तिरविद्याशक्तिसहचारिण्याः फलभूमिः । तददृष्टादिवशेनैव च भावेषु प्रतिबन्धाभ्यनुज्ञे । अन्ये तु विग्रहवतीं महाप्रभावां देवतां कालत्वेन प्रतिपन्नाः । अत्रापि चिद्रूपस्य ब्रह्मणः सक्तिर्देवतैव सकलजगद्ग्रासघस्मरेत्येतदानुगुण्यमेवेतीदमेवात्र सिद्धान्तरूपं दर्शनम् । अत एवैतत् कालदर्शनम्-`अविद्यायां संसारहेतुभूतायां प्रथमं भेदवभासमयो हि संसारः, भेदश्च देशकालाभ्याम्, तत्र च कालभेदो जगत्‌सृष्टेराद्यः । अक्रमा हि पश्यन्तीरूपा संवित् प्राणवृत्तिमुपारूढा कालात्मना परिगृहीतक्रमेव चकास्ति इति कृतनिर्णयं वाक्यपदीये शब्दप्रभायामस्माभिस्तत एवावगमनीयम् । निष्क्रमं हि ब्रह्मतत्त्वं विद्यामयमकालकलितमविद्यावशात् क्रमरूपोपग्रहेण यथायथं विवर्तते इति कालानुवेधात् पदार्थानां क्रमेण प्रत्यवभासोऽनादिसिद्धजीवात्मगतः, सर्वस्य भेदजातस्याविद्यामयत्वात् । कालेऽपि दर्शनभेदेन योऽयं विभागः सोऽप्यविद्याविजृम्भित एव । आविर्भूतायां तु विद्यायां सर्वस्य भेदप्रपञ्चस्या पगमादयमप्यपैति । अतश्चात्र युक्तायुक्ततया विचारणं प्रयासमात्रफलमेव । व्यवहारे सर्वस्यैवासत्यतया तत्त्वव्यवस्थयानु (स्थानु?) पपत्तेरित्यत्र तात्पर्यार्थः । तदेवं जन्मवतां पदार्थानां व्यवहारे काल उपयोगीति स्थितम् । कथं तर्हि नित्यानां शब्दानां कालकृतो ह्रस्वत्वादिभेदः । कल्पित इति ब्रूमः । तद् यथा चिरमिदं कृतं क्षिप्रमिदं कृतमिति ज्ञानयोः स्वतः समानकालत्वेऽपि विषयगतप्रचयापचयाभ्यां कालभेदप्रतिभास इव स्वात्मनि लक्ष्यते तथा ह्रस्वादावपि शब्दतत्त्वस्य नित्यत्वात् समानकालत्वेऽपि समुपचरितः कालभेदः ।। 62 ।।
अभेदे यदि कालस्य ह्रस्वदीर्घप्लुतादिषु ।
दृश्यते भेदनिर्भासः स चिरक्षिप्रबुद्धिवत् ।। 63 ।।
ह्रस्वदीर्घप्लुतावृत्त्या नालिकासालिलादिषु ।
कथं प्रचययोगः स्यात् कल्पनामात्रहेतुकः ।। 64 ।।
वास्तवेह्रस्वादौ कालस्याभेदेऽपि चिरक्षिप्रज्ञानवदुपचरिते कालभेदे समाश्रीयमाणे ह्रस्वस्य पुनः पुनरुच्चारणे नालिकायाः पानीयस्रुतिरल्पा, ततस्त्रिभागाधिका दीर्घस्योच्चारणावृत्त्या, ततोऽपि प्लुतस्य त्रिभागाधिकेति योऽयं प्रकर्षसंबन्धः सलिलस्रुतेः स कथं कल्पनामात्रकृतकालभेदात् स्वतः कालविभागशून्याद् ह्रस्वादिभेदाद् भवेत् । ह्रस्वादीनां ह्यभिन्नकालता पारमार्थिकी, कल्पिता तु भिन्नकालता । न च कल्पनाकल्पितोऽर्थोऽर्थ क्रियास्वन्वयीति ह्रस्वादिसमुच्चारणे सलिलस्रुतिरेकरूपैव स्यात् । आदिग्रहणादन्येषां भावानां निष्पत्तिभेदो ह्रस्वादिसमुच्चारणे दृश्यमान उदाहार्यः । तस्मात्तत्त्वत एव भिन्नकाला ह्रस्वादयः शब्दा इति काववृत्त्यनुरोधान्नित्यत्वव्याघात इत्यर्थः ।। 63,64 ।।
अत्र समाधिः ।
अबिव्यक्तिनिमित्तस्य प्रचयेन प्रचीयते ।
अभिन्नमपि शब्दस्य तत्त्वमप्रचयात्मकम् ।। 65 ।।
शब्दस्य ह्रस्वादिभेदभिन्नस्यापि नित्यत्वात् कालावच्छेदाभावेऽपि तदभिव्यञ्जकध्वनिग्रामस्योपचयापचयाभ्यां कालभेदाद् व्यङ्ग्यव्यञ्जकयोर्भेदानवधारणाच्छब्देऽपि कालभेदाव धारणम् । प्राकृता हि ध्वनयः शब्दस्वरूपसंभेदेन श्रूयमाणाः स्वगतं कालभेदं तत्रावभासयन्ति । न हि व्यञ्जकध्वनिविवेकेन शब्दतत्त्वग्रहणम् । अन्त्येन ध्वनिना सह बुद्धौ शब्दोऽवभासते' इत्युक्तम् । ततश्चाभिव्यञ्जकाधीनत्त्वाच्छब्दतत्त्वोपलम्भस्य यथाव्यञ्जकं तद्धर्मः स्वरूपनिवेश्येवेति भिद्यते नालिकासलिलस्रुतिः ।
अत एव
तपरस्तत्कालस्य (P.1.1.70)
इति ध्वनिगतकालाध्यासादुपपद्यते । वैकृतध्वनिजनितस्तु वृत्तिभेदो न भेदक इति निर्णीतमेव पूर्वकाण्डे । वक्ष्यते चाग्रे--
"सर्वश्च ह्रस्वदीर्घानुनासिकत्वादिधर्मव्रातः शब्दात्मनि व्यञ्जकाधीनः"
इति । ब्रह्मकाण्ड एव विस्तरेणोक्तम्--
नादस्य क्रमजन्मत्वान्न पूर्वो न परश्च सः ।
अक्रमः क्रमरूपेण भेदवानिव जायते ।। (Vak.I.48.)
इत्यादि । तदत्र चिरक्षिप्रज्ञानवन्नायमस्वरूपसमवायी कालभेदो येनाभेदस्य भाविकस्य बावात् कार्यभेदो न स्यादित्युच्येत । अपि तु व्यङ्ग्यव्यञ्जकयोः शब्दानादयोरविवेकेन श्रोतृभिरभेदाध्यवसायाद् व्यञ्जकमन्तरेण शब्दस्वरूपाव्यवस्थानादन्तरङ्गध्वनिनिहितः कालभेदो व्यवहाराङ्गमेवेत्यर्थः । न हि यथा ज्ञानस्य विषयस्तथा शब्दस्य ध्वनयः । विषयाकारस्य शताद्यात्मकस्य ज्ञानाकाराद् विवेकेन संवेदनाच्छब्दध्वनीनां चाविवेकात् । पूर्वपक्षे तु स्वरूपानिवेशी गजनिमीलितेन भेद निर्भासः शङ्कितः । तथा च कार्यभेदानुपपत्तिश्चोदिता ।। 65 ।।
न केवलं ह्रस्वदीर्घादावेव शब्दतत्त्वमभिन्नं यावत् सर्वत्रैव पदवाक्यविषय इत्याह ।
एवं मात्रातुरीयस्य भेदो दाशतयस्य वा ।
परिमाणविकल्पेन शब्दात्मनि न विद्यते ।। 66 ।।
मात्रायाश्चतुर्थस्य भागस्यापचिततरध्वनिव्यङ्ग्यस्य, दश अवयवा येषां ते दशतयाः समुदायाः ऋगात्मानः तेषां समूहस्य दाशतयस्य चतुष्षष्ट्यात्मकस्य वेदराशेः प्रचिततरध्वनिव्यङ्ग्यस्य कालपरिमाणभेदेन विशेषो नास्ति । द्वयोरपि शब्दयोर्नित्यत्वेन समानत्वाद् व्यञ्जकगतः केवलं कालभेद इत्यर्थः । तद्यथा हस्तिमशकज्ञाने स्वरूपेणैकरूपेऽप्याकारोपप्लवाद् विलक्षणे इवानुभूयेते एवं शब्दात्मा स्फोटस्वभावः सर्वत्र पदवाक्यविषयेऽविलक्षणोऽभिव्यञ्जकभेदाद् विलक्षण इव चकास्ति ।। 66 ।।
यदि तर्हि ध्वनिभेदाद् ह्रस्वादिभेदः कार्यभेदाभिधायिवृत्तिभेदोऽपि कथं स्यात् । ततश्च द्रुतायां तपरकरणे मध्यमविलम्बितयोरुपसंख्यानं कर्तव्यं स्यादित्या शङ्क्याह ।
अनुनिष्पादिकल्पेन येऽन्ताराल इव स्थिताः ।
शब्दास्ते प्रतिपत्तॄणामुपायाः प्रतिपत्तये ।। 67 ।।
प्राकृतध्वनिभिरभिव्यक्ते शब्दतत्त्धेऽनुरणनरूपा ये पश्चात्कालभाविनो ध्वनयः सन्तानेन वर्तन्ते श्रोत्रान्तराल इव स्थिताः शीघ्रसन्तानवर्तनात्ते श्रोत्रदेशमनुप्राप्ताः शब्दप्रचयग्रहणहेतुतां श्रोत्रगुणात् प्रतिपद्यमाना द्रुतादिवृत्तिभेदं रचयन्ति । ततश्च ते शब्दतत्त्वाद् बहिर्भूता न भिन्दन्ति तत् । तदुक्तम्--
शब्दस्योर्ध्वभिव्यक्तेर्वृत्तिभेदं तु वैकृताः ।
ध्वनयः समुपोहन्ते स्फोटात्मा तैर्न भिद्यते ।। (Vak.I.77.)
इति । वार्तिंकेऽप्युक्तम्--
"सिद्धं त्ववस्थिता वर्णा वक्तुश्चिराचिरवचनाद् वृत्तयो विशिष्यन्ते"(Va5,on.P.I.1.70.M.Bha.I.p.185.113)
इति । तदेवं जन्मवतां कालेनानवच्छेदाद् नित्यानां शब्दानां तदनुपपत्तिं चोदयित्वा व्य?ञ्जकगतत्वेन समर्थितम् ।। 67 ।।
इदानीं प्रकृतमेव कालस्य परोपाधिकं भेदव्यवहारं दर्शयति ।
विशिष्टमवधिं तं तमुपादाय प्रकल्पते ।
कालः कलावतामेकः क्षणमासर्तुभेदभाक् ।। 68 ।।
कलावतां सावयवानां अनित्यानां भावानामवच्छेदकः कालो नियतपदार्थोदयाद्यवधिपरिग्रहेण लवमुहूर्तादिविबागव्यवस्थामासादयति ।। 68 ।.
तथापि नैषा व्यवस्था भाविकीत्याह ।
बुद्ध्यवग्रहभेदाच्च व्यवहारात्मनि स्थितेः ।
तावानेव क्षणः कालो युगमन्वन्तराणि वा ।। 69 ।।
क्षणसन्तानो यावान् सङ्कलनाबुद्ध्यैकत्वेन गृह्यते तावानेकः कालो मासादिरूपो व्यवस्थाप्यते । अपचयकाष्ठागतस्तु क्षण इत्युपचयकाष्ठाप्राप्तो मन्वन्तरमित्यादीति भावतो द्रव्यभूतस्यैकत्वेऽपि कालस्य कल्पनेयं बौद्धी । बुद्ध्यनुसंहारकालपक्षे तु मुख्यैवेयम् ।। 69 ।।
ननु नालिकास्रुत्या क्षणाहोरात्रादिकालव्यवहार इति सैवास्तु कालः, किमपरेण तेन कल्पितेनेत्याशङ्क्याह ।
प्रतिबन्धाभ्यानुज्ञाभ्यां नालाकाविवराश्रिते ।
यदम्भसि प्रक्षरणं तत्कालस्यैव चेष्टितम् ।। 70 ।।
घटिकोदरवर्तिनः पयसश्छिद्रान्निःसरतो यत् कस्यचिद् भागस्य पूर्वं निस्सरणमपरस्य तदैवानिस्सरणं तत् कालकृतशक्तिप्रतिबन्धाभ्यनुज्ञासामर्थ्यम् । अन्यथा गुरुत्वादम्भोऽवयवी समस्तावयवव्यापी युगपन्निर्गच्छेत् । क्रमेण तु निस्सरणात् कालोऽत्र सव्यापारो व्यतिरिक्त इति नाम्भःस्रुतिरेव कालः । तत्परिच्छेदिकात्सौ । सा हि निमेष क्रियया प्राणप्रवाहेण बुद्धिक्षणसन्तानेन वा परिच्छिन्ना तदपरकालपरिच्छेदायलम् । निमेषादिरपि सूक्ष्मेण क्रमरूपेण कालेन परिच्छिन्ना तदपरकालपरिच्छेदायालम् । निमेषादिरपि सूक्ष्मेण क्रमरूपेण कालेन परिच्छिन्न इति क्रमाख्या कालशक्तिः सूक्ष्मरूपानुस्यूता सर्वभावेष्वशक्यप्रतिक्षेपानुभायमानत्वात् । सर्वा हि संवित् क्रमरूपाच्छुरितेति अक्रमं परं तत्त्वमग्नीषोमस्वभावं सोमसूर्यादिरूपविवर्तदशावलम्बनेनाविरतपरिवर्तं प्राणिनामनुग्रहोपघाताय जगदण्डवृत्तिमातनुते । एतच्च वाक्यपदीये विस्तरेणास्माभिर्निर्णीतम् ।। 80 ।।
कालस्य तर्ह्येकरूपत्वाच्छिद्रापचयोपचयाभ्यामम्भःस्रुतेस्तद्भेदः कथमवधार्यत इत्चाशङ्क्याह ।
अल्पे महति वा छिद्रे तत्संबन्धे न भिद्यते ।
कालस्य वृत्तिरात्मापि तमेवास्यानुवर्तते ।। 81 ।।
अल्पेन नालिकाच्छिद्रेणाम्भःसंबन्धे सति कालस्यव्यापारः प्रतिबन्धाभ्यनुज्ञालक्षणो न भिद्यते । नापि महता छिद्रेणाम्भःसंबन्धे सति । एवमपि च कालात्माभिन्नरूपोऽपितमेव छिद्रसंबन्धम् अनुवर्तते । तदनुवर्तनाच्चायमल्पच्छिद्रे प्रतिबन्धाभ्यनुज्ञाबाहुल्याद् दीर्घः कालोऽवधार्यते । अयमर्थः । अभेदेऽप्यत्र कालस्य छिद्रविशेषसंबन्धोपधीयमानो भेदोऽवधार्यत इति । अत एव घटिकावरुद्धमम्भो न पतति । छिद्रमुक्तं तु पततीति किं कालेन कृत्यमिति न वाच्यम् । मूलभूतस्य कालव्यापारस्याप्रत्याख्येयत्वात् । ये एवोपहितप्रतिन्बधाभ्युनुज्ञे कावकृते ते एव घटिकावयवच्छिद्राभ्यामनुविधीयेते । यथा बीजस्याङ्कुरजननप्रतिबन्धाभ्यानुज्ञे कालकृते कुसूलक्षेत्राभ्यां पोष्येते । अत एवात्मापि तमेवास्यानुवर्तते इत्युक्तम् । दृष्टस्य हि कारणस्य काल शक्तेश्च परस्परमानुगुण्यात् सहभावान्नैकतरावलम्बनेनेतरप्रतिक्षेपो न्याय्यः ।। 81 ।।
किं बहुना, स्वशक्तिवैचित्र्यादभिन्नोऽपि कालात्मा सर्वत्र भावेषु भेदमादर्शयतीत्याह ।
आक्रीड इव कालस्य दृश्यते यः स्वशक्तिभिः ।
बहुरूपस्य भावेषु बहुधा तेन भिद्यते ।। 82 ।।
कालमुखप्रेक्षित्वाद् भावानामसौ प्रभुरेतैराक्रीडैराक्रीडमानस्तदुन्मज्जननिमज्जने डोलादिक्रीडावत् सम्पादयन् वर्तमानादिरूपवैचित्र्येण स्वसामर्थ्याध्यासितमात्मभेदमुद्दर्शयति ।। 82 ।।
तथा हि ।
त्वचिसारस्य वा वृद्धिं तृणसारस्य वा दधत् ।
तावद् तदूवृद्धियोगेन कालतत्त्वं विकल्पते ।। 83 ।।
तावत् एव तत्‌परिमाणमेव कालतत्त्वं प्रतिबन्धाभ्यनुज्ञामात्रहेत्वभिन्नं वंशस्य वेणोः क्रमेण फलप्रसवपर्यन्तां वृद्धिम् उपचयं सम्पादयत् ततोऽधिकतरां तालस्य वृद्धिं जनयत् तेन वृद्धिसंबन्धभेदेन भावेष्वाक्रीडभूतेन भिद्यते । तथा च वंशस्य वृद्धिपर्यन्तः कालोऽल्पः तालस्य तु भूयानवतिष्ठते । एवमन्यत्रापि भावेषु जन्मस्थितिविनाशावस्थाभेदसंबन्धेन कालविभाग उदाहार्यः ।। 83 ।।
यदि तर्ह्यवस्थाभेदात् कालभेदः अवस्थाविनाशादपि तस्य विनाशे नित्यत्वं न स्यादित्याशङ्क्याह ।
व्यतिक्रमे।ञपि मात्राणां तस्य नास्ति व्यतिक्रमः ।
न गन्तृगतिभेदेन मार्गभेदोऽस्ति कश्चन ।। 84 ।।
कालाधिकरणत्वाद्भावानां तदवस्थानां चापगमेऽपि नाधारापगमः । यथा गन्तॄणां तद्गमनानां चोपरमेऽपि मार्गोऽध्वा नापैति । क्रियाव्युपरमादेव हि वसन्तादिकालोपरमो व्यवह्रियते परम् । न वस्तुतः कालोऽपैति, नित्यात्वात् ।। 84 ।।
तथा हि ।
उदयास्तमयावृत्त्या ज्योतिषां लोकसिद्धया ।
कालस्याव्यतिपातेऽपि ताद्धर्म्यमिव लभ्यते ।। 85 ।।
सूर्यादिसञ्चारोपनीतविभागः कालात्मेति तदपगमादेवानपयन्नपि व्ययगत इवावधार्यते गतमहो व्युष्टा रजनी निर्गतः शिशिर इति ।। 85 ।।
यतश्च ज्योतिर्गत्या कालनानात्वव्यवहारः ततः सैव काल इत्यार्वाग्दर्शनाः केचिन्मन्यन्त इत्याह ।
आदित्यग्रहनक्षत्रपरिस्पन्दमथापरे ।
भिन्नमावृत्तिभेदेन कालं कालविदो विदुः ।। 86 ।।
उदयवधिरस्तमयावसानः सूर्यसञ्चारो दिवसः । अस्तमयादिरुदयपर्यवसानो रात्रिः कालः । स च पञ्चदशावृत्तिः पक्षः । त्रिंशत्कृत्वो मासः । चन्द्रमसः सकलनक्षत्रातिक्रमो मास इत्येवं वा कल्पना । बृहस्पतेरेकराशिसञ्चरणं संवत्सरः । एवमन्येषामपि ग्रहनक्षत्राणां ज्यौतिषशास्त्रप्रसिद्धेन गतिप्रचारभेदेन युकगमन्वन्तरकल्पमहाकल्पादिप्रविभागः कालोऽनुसर्तव्यः ।। 86 ।।
तदेवमेषां क्रिया कालः प्रसिद्धा सती क्रियान्तरप्रसिद्धं परिमापयतीत्याह ।
क्रियान्तरपरिच्छेदप्रवृत्ता या क्रियां प्रति ।
निर्ज्ञातपरिमाणा सा काल इत्यभिधीयते ।। 77 ।।
सूर्यादीनां गतिप्रचारो दिवसादिशब्दवाच्यः, गोदोहादिक्रियाविशेषश्च परिच्छिन्नपरिमाणत्वात् तदपराप्रसिद्धपरिमाणास्यादिक्रियाविशेषपरिच्छेदहेतुत्वात् कालाख्यामासादयति । दिवसमधीते, रात्रिमधीते, गोदोहमास्ते । क्रियान्तरपरिच्छेद प्रवृत्ता इत्यनेनैव गतत्वात् क्रियां प्रति इति पुनर्वचनमपेक्षाभेदेन क्रियायाः कालत्वानियमख्यापनार्थम् । तथा चान्यतः प्रसिद्धपरिमाणो गोदोहनादिरपि देवदत्तादिगतास्यादिक्रियाः परिच्छिन्दन् भवत्येव कालः ।। 77 ।।
अन्तर्मुखोऽपवरकान्तर्गतः सूर्यादिसञ्चारं नालिकास्त्रुतिं चानवधारयन् कथं कालप्रविभागमवैतीत्याह ।
ज्ञाने रूपस्य संक्रान्तिर्ज्ञानेनैवानुसंहृतिः ।
अतः क्रियान्तराभावे सा क्रिया काल इष्यते ।। 78 ।।
अन्तर्मुखोऽपि प्रकृतां काञ्चिदेव प्राणप्रवाहादिरूपां क्रियां बुद्धौ संक्रान्ताकारामवैति । बुद्ध्यन्तरैश्च तान् बुद्धिनिवेशिनः क्रियाक्षणान् सङ्कलयति । तथा च बाह्यक्रियाभावेऽपि बुद्दिनिवेशिनीयं क्रिया बाह्यापरक्रियापरिच्छेदकत्वात् काल इत्युच्यते । तथा हि भूयसीनां बुद्धीनामुदये बाह्ये चिरकालत्वमवैति, अल्पीयसीनामुदये क्षिप्रकालत्वमिति प्राणचारेण कलयन्त्येवार्थान् योगनः, अन्येऽपि प्राणक्षणगणनयेति प्रसिद्धमेतत् । तथा हि षष्ट्युत्तरशतत्रयावधिप्राणप्रचारनालिकाकलनया सहस्राण्येकविंशतिः षट्शतानि चाहोरात्रगणनामाहुः ।। 78 ।।
यदि तर्हि क्रियातिरिक्तो नास्ति कालः तदा सत्ताख्यायाः क्रियायाः सत्तान्तरेण क्रियाभूतेन योगाभावात् भूता सत्तेति कथमुच्यत इत्याशङ्क्याह ।
भूतो घट इतीयं च सत्ताया एव भूतता ।
भूता सत्तेति सत्तायाः सत्ता भूताभिधीयते ।। 79 ।।
भूतो घट इत्यत्र कस्य भूतत्वम् । न तावद् घटस्य, तस्य द्रव्यात्मकत्वात् कालेनासंस्पर्शात् । क्रियाणां साध्यस्वबावानामधिकरणभूतेन कालेन संबन्धात् । धातुवाच्या तु सत्ताख्या क्रिया भूतेति निष्ठाप्रत्ययेनावेद्यते । सा तु सत्तात्र घटसमवायिनीति पारम्पर्येण घटेन सम्बन्धो न तु साक्षाद् द्रव्यकालयोः व्यतिरिक्तकालदर्शने ऽप्यस्ति संबन्धः । क्रियामुखस्तु सः । एवं भूता सत्ता इत्यत्रापि शाब्देन धातुवाच्यान्या सत्ता क्रियारूपा, अन्या च प्रातिपदिकवाच्या द्रव्यायमाणेति सत्तान्तरयोगे धातुवाच्यसत्ताभूतत्वद्वारेणैव द्रव्यायमाणसत्ताभूतत्वसम्प्रत्यय इति न काचिदनुपपत्तिरित्यर्थः । नित्याया अपि सत्तायाः स्वाश्रयोपधानेन भेदे सति तद्‌द्वारेण त्रिकालयोगोऽविरुद्धः । गतमेतत् ।। 79 ।।
इदानीं कालस्वरूपे निर्णीते तदाश्रयः शास्त्रे व्यवहारो विचार्यते ।
`वर्तमाने लट्' (P.3.2.123.)
इत्यत्रोक्तम्
"नित्यप्रवृत्ते च कालाविभागात्"(Va.2onP.3.2.123.M.Bha.II,p.123,1.5)
इति । नित्येष्वर्थेषु कालविभागाभावाद् वर्तमानत्वानुपपत्तेः शासितव्या भवन्ती । ननु च सम्प्रतितनत्वं वर्तमानत्वं भूतभविष्यत्‌प्रतियोगि । नित्येषु चाविच्छेदेन प्रवर्तमानेषु भूतभविष्यतोरभावात् सुतरां तदुपपत्तिः । अत्रोच्यते । इहेमे कालनिमित्ता व्यपदेशाः परस्परव्यावृत्तशरीराः कालकृतोपकाराणामेव भावानां युक्ताः । ते च जन्मवन्तः । तत्र हि नियतावधिजन्मपरिग्रहेणैतदुपपत्तिः । तथा हि साधनसन्निधानेऽभिमुखोत्पत्त्यो भाविनः । साधनादवाप्तजन्मानो यावदवस्थानां वर्तमानाः व्यपगतशरीरा भूताः । तदयं वर्तमानव्यपदेशो भूतभविष्यदवधिमध्यवर्ती यत्र भूतभिविष्यन्तौ न स्तः तत्र नैव सम्भवति । तदुक्तं भाष्ये
भूतभविष्यत्‌प्रतिद्वन्द्वो वर्तमानः...(M.Bha.II.p.123,1.7.)
इति । यत्र हि भूतभविष्यन्तौ तत्र तत्प्रतियोगी वर्तमान इत्यर्थः । नित्येषु च भूतभविष्यतोरभावात् तदभावः । प्रक्रमापेक्षया च भवन्ती शिष्येत्युक्तम् । सर्वं एव तु कालप्रत्ययाः शिष्याः । अत एवाह
`कालाविभागात्'....
इति । एवं च कृत्वात्र कालावच्छेदाभावात् कालोपाधिरूपा क्रियैव नास्ति । सा हि कालोपाधिः सक्रमा साध्यमानस्वभावा । तदभावश्चात्रेति क्रियाकारकोपाधिनिबन्धना सर्वैव व्यवस्ता वक्तव्येत्युक्तं भवति । अत्र परिहार उक्तः ।
`सन्ति च कालविभागः' (Va.5onP.3.2 123,M.Bha.II.p.123,1.164)
इति । स्थास्यन्ति पर्वतास्तिष्ठन्ति, अस्थुरिति । पुनश्चोदितम्--
`किं शक्यन्त एते शब्दा प्रयोक्तुम् इति सन्ति कालविभागाः ।"
(M.Bha.II.p.123,1.18)
इति । अयमभिप्रायः । कालविभागादेवैषां शब्दानां प्रयोगोऽसिद्ध इति चोद्ये कथमेष एव निश्चायकः कथ्यत इति । अत उक्तम्--
`नावश्यं (शब्द) प्रयोगादेव' (M.Bha.II.p.123,1.19.)
इति । पूर्वापरीभूतस्याख्यातात् प्रतीतेः शब्दप्रमाणकानां तत एवार्थव्यवस्थानाद् भवेदपि शब्दप्रयोगः कालविभागो प्रमाणं किन्त्ववधीर्यापि तमत्रार्थ एव कालविभागः प्रतिपाद्यत इत्यर्थः । तदाह--
"भूतभविष्यद्वर्तमानानां राज्ञां याः क्रियास्तास्तिष्ठतेरधिकरणम्"
(M.Bha.II.p.123.1.19.)
इति । एतद्भाष्यं व्याचष्टे--
परतो भिद्यते सर्वमात्मा तु न विकल्पते ।
पर्वतादिस्थितिस्तस्मात् पररूपेण भिद्यते ।। 80 ।।
पर्वतनद्यादीनामपि नित्यानामपरतत्सहचरितपदार्थगतसत्तोपाश्रयेण सत्ताभेदात् कालभेदोपपत्तिः । सर्वमेव हि भावजातमुपाधिसंसर्गवशेन भिद्यते न तु स्वरूपेणेति
`भिन्ना इति परोपाधिः' (Vak.III.जा.20.)
इत्युक्तमेव । राज्ञां हि क्रियाः पर्वतादिस्थितेर्भेदकत्वाद् आश्रयत्वेन व्यवह्रियन्ते । यथा हि राजक्रियाणां त्रैकाल्यं क्रमिकत्वं साध्यमानता च तथा तत्सहचरितानामपि पर्वतादीनां स्थितेस्तदध्यारोप इति गौणस्त्रिकालविषयः प्रयोगोऽत्रोपपन्न इति न्याय्या भवन्ती ।। 80 ।।
अथवा राजक्रियासाहचर्येण वर्तमाना स्थितिः प्रत्यवस्थमाश्रयोपकारमनुभवन्ती पर्वतादीनां स्वयमेव भिद्यते । सहचरितक्रियाभेदेन तु भेदस्तस्याः सारूप्यादनधिगतसतत्त्वो ज्ञाप्यत इत्याह ।
प्रसिद्धभेदा व्यापारा विरूपावयबक्रियाः ।
साहचर्येण भिद्यन्ते सरूपावयवक्रियाः ।। 81 ।।
विसदृशस्वभावा अवयवक्रिया येषां व्यापाराणां ते पचिभिदिक्रियारूपाः प्रसिद्धभेदा भिन्नकाला विलक्षणा एव प्रतीताः । अधिश्रयणादायो हि पच्यवयवा विलक्षणाः, एवमुद्यमनादयो भिद्यवयवाः । ये तु सदृशावयवक्रियाव्यापाराः पर्वतादेरात्मभरणलक्षणस्थितिरूपाः ते सादृश्यादेव दुरवधारभेदा राजक्रियाभिर्विंसदृशसन्तानाभिरवधृतविभागाभिः सहचरिताभिः कालभिन्ना ज्ञाप्यन्ते । अतश्च ता राजक्रियाः परिच्छेदकत्वादाधारभूताः पर्वतादिस्थितेः कालत्वेन व्यवह्रियन्ते । सूर्यादिसञ्चारविशेषोपलक्ष्यमाणभेदाश्चापि पर्वतादिस्थितयः राजक्रियाणामुपलक्षणत्वात् । प्रसिद्धतरा हि राज्ञां क्रिया भाष्य उक्ताः । आधारावष्टम्मेन स्थितेः प्रतिक्षणमुपजनात् समाश्रितक्रमत्वे क्रियात्वमप्यविरुद्धम् । तथा हि
`जन्मैवाश्रितसारूप्यं स्थितिः' (Vak.111.कि 26)
इत्युक्तम् । नित्यानामपि चाधारेण प्रतिक्षणं ध्रियमाणत्वमविकल्पितपौर्वापर्यमेव जन्मसमाख्यां प्रतिपद्यते । शाब्दे च व्यवहारे शब्दार्थोऽर्थ इत्याख्यातात् सक्रमः प्रतीयमानोऽर्थः क्रियालक्षणमनुपतत्येव ।। 81 ।।
उक्तमिदं वार्तिके
"प्रवृत्तस्याविरामे शिष्या भवन्त्यवर्तमानत्वात्"(Va.I.onP.3.2.123 M.Bha.II.p.123.1.2.)
इति । प्रवृत्तक्रियस्य मुख्यफलानवाप्तेर्यदा विरामो न भवति, अथ च क्रियान्तरारम्भात् सा प्रवृत्ता क्रियातीता, तदा वर्तमानप्रत्ययो वक्तव्यः । इह वसामः । इह पुष्यमित्रं याजयामः इति । क्रियान्तरे प्रवृत्तो याजयन्नप्येवं प्रयुङ्क्ते दक्षिणादिमुख्यफलानवाप्तेश्च याजनाभिसन्धेरविरतः । अत्र समाधिरुक्तः
`न्याय्या त्वारम्भानपवर्गात्' (M.Bha.II.p.123.1.9.)
इति । मुख्यस्य फलस्यानभिनिर्वृत्तेस्तत्पर्यन्तात्वाच्च क्रियायाः क्रियान्तरव्यवधानेऽप्यनपवृक्तैव क्रियेति वर्तमानप्रत्ययो भवन्ती न्याय्या । अथान्तरा क्रियान्तरैर्विच्छेदादवर्तमानत्वमभिमतमत्र चकास्ति तदा
`अस्ति च मुक्तसंशये विरामः' (Va.4.onP.3.2.123.M.Bha.ज.123.1.12)
इत्युक्तम् । भुङ्क्ते इत्यादावपि हि वर्तमाने निस्संशयोऽस्त्येवावान्तरक्रियाव्यवधिः । तथा हि
"सोऽप्यवश्यं भुञ्जानो हसति जल्पति पानीयं वा पिबति ।"
(M.Bha II p.123 1.14)
इति भाष्य उक्तम् । तदेतद् व्याचष्टे ।
व्यवधानमिवोपैति निवृत्त इव दृश्यते ।
क्रियासमूहो भुज्यादिरन्तरालप्रवृत्तिभिः ।। 82 ।।
न च विच्छिन्नरूपोऽपि सोऽविरामान्निवर्तते ।
सर्वैव हि क्रियान्येन सङ्कीर्णेवोपलभ्यते ।। 83 ।।
पूर्वापरीभूतावयवसमाहारात्मको भुज्यादिक्रियासमूहोऽन्तरालपतिताभिर्हाससङ्कथनादिक्रियाभिरतीतानागतलक्षणानां व्यवधानमिव प्राप्नोति । तृप्तिफलत्वाच्च भुजेरेकः सन्तानो व्यवस्थित एवेति इवशब्दः न हि समूहव्यवधानम्, अपि तु क्षणानाम् । न च तावन्मात्रं क्रियास्वरूपम् । अनागतावयवाभावं चाभिप्रेत्यातीतावयवकल्पनया निवृत्त इव स क्रियासमूहो दृश्यते । एवमपि चान्तारालक्रियाभिरवयवद्वारेण विच्छिन्नस्वभावोऽडसावा फलप्राप्तेरनुवर्तनादविरतोऽवस्थित एव वर्तमानस्वभावः । न केवलं भुज्यादिरेव, यावद्धाससंकथनादिरपि क्रियान्तरैर्व्यवधीयता एव । अक्षिनिमेषादे (दिभि?)रपि व्यवधानम्, अन्ततः प्रश्वासोच्छासादेरपि भावात् । विश्रम्य विश्रम्य च क्रियारम्भात् सङ्कीर्णेव न तु सर्वथा सङ्कीर्णा, आ फलप्राप्तेर्विरामाभावात् । अन्तरालक्रियाणामवश्यंभाविनीनां सहकारित्वस्यायोगात् । सन्दर्शनादिफलपर्यन्तः क्षणसमूहः क्रिया । तत्र च भौतिकव्यापारोपरमेऽप्यन्तरा सन्दर्शनप्रार्थनादेर्मानसव्यापारस्य यावत् फलाधि गमस्तावदविराम एव । एवं भोजनादेरप्यविरतत्वाद् वर्तमानता सिद्धा ।। 82,83 ।।
एवं तावत् फलावसानः समूहः क्रियेति फलान्तरहेतुक्रियान्तरव्यवधानमुपेत्यापि वर्तमानत्वं समर्थितम् । यद्वान्तरालप्रवृत्तं क्रियान्तरं भिन्नजातीयमेव न भवतीत्याह ।
तदन्तरालदृष्टा वा सर्वैवावयवक्रिया ।
सादृश्यात् सति भेदे तु तदङ्गत्वेन गृह्यते ।। 84 ।।
तस्या भुज्यादिक्रियाया मध्यवर्तिनो ये क्रियाभेदा हसितादयस्ते भुज्यादेरवयवा एव, गुणव्यापाररूपा आचमनादिवदुपकारकत्वात् । ततश्चाचमनादिभिः सादृश्यात् सत्यपि हासादीनां क्वचिदसन्निधानेऽपि भुजिनिर्वृत्तेः प्रसिद्धतरैर्दध्युपसेचनादिभिरङ्गैर्भेदे भूज्यङ्गत्वेन ग्रहणं यथा द्विपुरुषवाह्ये भारे तृतीयस्योपनिपततः । तुशब्दोऽप्यर्थे । सुहृदोहि निर्वृतचेतसः परस्परं हाससङ्कथनादि कुर्वाणा एव भुजिं प्रतिपद्यन्ते । तदेवमत्र प्रत्यवयवं क्रियासमाप्तिमादिकर्मणि
"न्याय्या त्वाद्यपवर्गात् "(Va.5onP.3.2.102,Bha.II.p.114.1.4.)
इति निष्ठासमर्थनन्यायेनाभिप्रेत्य पूर्वपक्षः प्रवृत्तः । फलपर्यन्तक्रियासमूहाश्रयेण तु सिद्धान्त इति स्थितम् ।। 84 ।।
इदानीं सर्वत्रैव वर्तमानत्वं क्रियाया अनुपपन्नमित्याक्षिपति ।
सदसद् वापि वस्तु स्यात् तृतीयं नास्ति किञ्चन ।
तेन भूतभविष्यन्तौ मुक्त्वा मध्यं न विद्यते ।। 85 ।।
साध्यमानावस्था क्रिया भण्यते । तत्र च यः क्षणोऽतीतः स सन् सिद्धस्वभाव इति क्रिया तत्रातीता । यश्चासन् स साध्यः स भावी क्षण इति तत्र भविष्यदुपाधिका क्रिया । न चान्योऽस्ति कश्चित् क्षणः सदसदुभयरूपः । विरुद्धस्वभावस्यैकत्वविरोधात् । ततश्च वर्तमानता धात्वर्थविशेषणं नोपपद्यते । तदुक्तं भाष्ये
अनागते न पतसि कृत्स्नो लोकः पतत्ययम् । हिमवानपि चलति
(M.Bha.II.p.124.1.3)
इति । परोक्षा क्रिया फलेनानुमीयमानतीतत्वात् कथं वर्तमानप्रत्ययेनोच्येत । एव हिमवानुपरिदृष्टसंयोगविभागक्रियाकार्यः कस्मान्न पततीति वर्तमानप्रत्ययेन व्यपदिश्येतेत्यर्थः ।। 85 ।।
साध्यमानावस्थत्वमेव क्रियायाः स्वेन रूपेण सत्त्वं वर्तमानत्वमिति चेदाह ।
निर्वृत्तिरूपमेकस्य भेदाभावान्न कल्पते ।
सदसद् वापि तेनैकं क्रमरूपं कथं भवेत् ।। 86 ।।
एकस्यार्थात्मनो विभागाभावान्निष्पत्तिरूपं क्रमरूपत्वं क्रियालक्षणं नास्ति । तथाहि सद्वा वस्तु स्याद् असद्वा । तत्र सद् विद्यमानत्वादेवानिर्वर्त्यमा (नम?) नाश्रितक्रमरूपम्, असदप्यसत्त्वादेव तदवस्थायामनाश्रितनिर्वृत्तिरूपं कथं क्रमिकं स्यात् । न ह्यसतः सर्वधर्मशून्यस्य कश्चित् क्रमः । तृतीयराश्यभावाच्च निर्वर्त्यमानं क्रमिकं क्रियारूपं नास्तीति कथं तद् वर्तमानं स्यात् ।। 86 ।।
अथोच्यते । बहवः क्षणाः समाश्रितपौवापर्याः क्रियेति सा फलोपजनात् प्राग् वर्तमानतामासादयेदिति । तदपि न । यतः
बहूनां चानवस्थानादेकमेवोपलभ्यते ।
यथोपलब्धिस्मरणं तत्र चाप्युपपद्यते ।। 87 ।।
क्रमजन्मानोऽवयवा विप्रकीर्यमाणस्वभावाः, न युगपत्कालभाविनः । ततश्च सन्निहित एक एव क्षणः समुलभ्यत इति तस्य भेदाभावात् क्रमाभावः । अथ बहवः क्रमिका युगपत् स्मर्यन्त इत्युच्यते, तदपि न । यस्मादनुभवपूर्वकं स्मरणमेकस्य च क्रमानुभवो न वृत्त इति कथं स्मरणमपि तत्र क्रमावेदकं स्यात् ।। 87 ।।
न चापि बहूनामेकक्रियात्मकत्वं युज्यत इत्याह ।
सदसद्रूपमेकं स्यात् सर्वस्यैकत्वकल्पने ।
निर्वृत्तिरूपं निर्वृत्तेः सामान्यमथवा भवेत् ।। 88 ।।
अतीतानागतानां सदसद्रूपाणां क्षणनामेकक्रियात्मत्वाभ्युपगमे सर्वस्य वस्तुनः सदसर्दूपमयं विरुद्धमेकत्वं प्रसज्येत । न चैतद्युक्तं विरुद्धानामनुभवेनैकत्वबाधात् । यद्वा बहूनां भिन्नानामेकत्वविरोधात् कश्चिदन्वयी स्वभाव एकः कल्पयितव्यः । तथा च निर्वृत्तेः निष्पद्यमानायाः साद्यस्वभावायाः क्रियायाः निर्वत्तिरूपं निष्पत्तियोग्यत्वं प्रत्येकं क्षणानामेकक्रियात्मकत्वरूपं सामान्यं भवेत् । तथा चैका क्रिया न सिध्येदित्यभिप्रायः । बहूनां ह्यन्वयी कश्चित् स्वभावोऽङ्गीकृतः क्रियात्मा, न तु बहव एका क्रियेति क्रियाव्यक्तेरभाव एव । भिन्नानामेव हि क्षणानां निर्वृत्तिरूपान्वयो न तु प्रत्येकं क्रियाव्यक्तिस्वभावता तेषां सिध्यति । ततश्च कथं वर्तमानाः क्रियाः ।। 88 ।।
अत्र समाधिमाह ।
कार्योत्पत्तौ समर्थं वा स्वेन धर्मेण तत् तथा ।
आत्मतत्त्वे गृह्येत सा चास्मिन् वर्तमानता ।। 89 ।।
इहैकत्वं क्रियायाः क्षणसमुदायरूपायाः कल्पितम् । तथा हि-एकफलोद्देशेन प्रवर्तमाना नियतपौर्वापर्याः क्षणाः क्रियेति फलाभेदादसावेका एवं यथायथं फलभेदेन भिद्यते क्रिया । अत्र च सदसत्वेऽपि क्षणानां वर्तमानतोपपद्यत एव । न हि सत्त्वं वर्तमानतालक्षणं किन्तु प्रारब्धापरिसमाप्तत्वम् । तच्च यावतः क्षणसमूहस्य फलावधिप्रवृत्तिः तावतः प्राक् फलोपजानदभेदेनाध्यवसितस्यास्त्येव । कार्योत्पत्तौ च स एव समर्थः । स च मनोव्यापारपूर्वभावी कायव्यापारपर्यन्तः साधनसंरम्भफलानुमेयः । तत्र च स्वेन क्रमात्मकेन धर्मेण युक्तं तत्समूहरूपं यद् आत्मतत्त्वेन आत्मीयेन विद्यमानेन स्वभावेन गृह्यते तदा तस्यैवंविधस्य येयं विद्यमानता सा वर्तमानता । वा--शब्दो वक्ष्यमाणापेक्षया विकल्पद्योतकः । अयमर्थः । नियतपौर्वापर्यः समूहस्तावत् क्रमिकः । तस्य च सदसद्रूपरकत्वेऽपि फलावधि परस्परमध्यस्तक्रमः स्वकाले सन्निहित एकैकोऽपि क्षणो वर्तमानतामनुभवति । यद्यपि च नासावेकः क्रमिक इति न क्रिया तथाप्यपरक्षणगतः क्रमः तत्रानुभववासनया निश्चीयत एवेति न कश्चिद् दोषः । तदुक्तं भाष्ये
क्रियाप्रवृत्तौ यो हेतुस्तदर्थं यद् विचेष्टितम् ।
तद पेक्ष्य प्रयुञ्जीत गच्छतीत्यविचारयन् ।। (M.Bha.II.p.124,1.8)
इति । फलकामना मानसो व्यापारो भौतिकक्रियाप्रवृत्तौ हेतुः । क्रियार्थं विचेष्टितं साधनानां संरम्भः । सामान्यविशेषभावेन च तदर्थता । एवञ्च मानसव्यापारपूर्वकः कायव्यापारः फलावसानोऽभेदेनाध्यवसितो वर्तमानक्रियास्वभावः स्ववाचकशब्दप्रतिपाद्य इति स्फुटमुक्तम् ।। 89 ।।
वाशब्दसूचितं पक्षान्तरमाह ।
क्रियाप्रबन्धरूपं यदध्यात्मं विनिगृह्यते ।
सङ्क्रान्तबिम्बमेकत्र तामाहुर्वर्तमानताम् ।। 90 ।।
पूर्वं क्षणसमूहस्यैकत्वमेकफलोद्देशेन समर्थितम् । इदानीं सङ्कलनाबुद्ध्युपारूढस्य बुद्ध्याकाररूपत्वेन भाविकमेकत्वमुच्यते । तथाहि-विप्रसृतावयवः क्रियाकलापो ज्ञानस्वभावे सङ्क्रान्ताकार एकस्मिन् यदावधार्यते तदा तस्मादेकज्ञानादभेदात् तद्वद् वर्तमान एकश्च निश्चीयते । क्रमेणानुभूतानामपि च सङ्कलना भवत्येवानुभववासनायाः प्त्यासन्नत्वात् । अन्यथा समुदायादिविज्ञानाभावः । अनुभवपूर्वकत्वं हि स्मरणस्य नियतं न तु क्रमेणोपलब्धं युगपन्न स्मर्यते, शतादिप्रत्ययाभावप्रसङ्गात् । बुद्ध्याकारस्य च बहीरूपतयाध्यवसायाद बाह्यमेकं वर्तमानं क्रियारूपं व्यवह्रियते । तत्सिद्धौ च तदपेक्षयातीतानागतसिद्धिर्नान्यथेति सिद्धं क्रियायाः कालत्रयविशेषणम् । गतमदः ।। 90 ।।
इह क्रियातिपत्तौ लॄङ्‌विधाने भूतभविष्यन्तावुपादीयेते । तयोरनुपपत्तिं चोदयति ।
क्रियातिपत्तिरत्यन्तं क्रियानुत्पत्तिलक्षणा ।
न च भूतमनुत्पन्नं न भविष्यत्तथाविधम् ।। 91 ।।
`यदि कमलकमाह्वास्यन्न शकटं पर्याभविष्यद्' इति कमलकाह्वानशकटापरिभवनलक्षणायाः क्रियाया अतिपत्तिः साधनशक्तिवैकल्यान्नियतानुत्पत्तिः । न चानुत्पन्नं क्रियास्वरूपं भूतं भविष्यद् वा शक्यते व्यवस्थापयितुम् । उत्पन्नस्य हि सत्त्तातिक्रमो भूतः, समर्थंसाधनसन्निधाने सम्भावितोत्पत्तिश्च भविष्यन् । अत्र च साधनाभावात् सम्भावितापि नोत्पत्तिः । अत एवात्यन्तग्रहणेनानुत्पत्तिर्विशेषिता ।। 91 ।।
अत्र भूतभविष्यद्‌व्यवहारं समर्थयते ।
प्राग्विरुद्धक्रियोत्पादान्निर्वृत्ते वा विरोधिनि ।
व्यापारेऽवधिभेदेन विषयस्तत्र भिद्यते ।। 92 ।।
यदि कमलकमाह्वास्यन्न शकटं पर्याभविष्यदित्यपरिभवस्य निमित्तं समर्थसाधनाह्वानं भविष्यदसम्भावयन्नेवमभिधत्ते । एवं चाह्नानविरोधिनः कमलकदेशान्तरगमनादपरिभवविरोधिनः शकटगुरुतभारारोपाच्च पूर्वमप्रतिद्वन्द्विनो भविष्यत्त्वे कालस्यापेक्ष्यस्य भेदाद् अवच्छेदात् क्रियातिपत्तेरपि भविष्यद्विषयो विभज्यते । शकट परिभवस्य क्रियारूपस्य निष्पत्तिः कमलकाह्वानाभावात्, तदाह्वानं च देशान्तरगमनान्न सम्पत्स्यत इति तस्य भविष्यतोऽसम्भावनायामत्यन्तानुत्पत्तिलक्षणस्य क्रियातिपत्तिरूपस्यापि भविष्यत्ता । यदि हि समर्थसाधनाह्रवानं भविष्यति तदा क्रिया संपत्स्यते इति तस्या भविष्यत्त्वे तदत्यन्ताभावोऽपि भविष्यन् । तथा यदि स तेन ब्राह्मणार्थिनादृष्टोऽभविष्यदुताभोक्ष्यताप्यभोक्ष्यत, न तु भुक्तवानित्यत्राभोजनस्य भोजनप्रतिद्वन्द्विनो व्यापारस्यातीतत्वात् क्रियातिपत्तेरप्यवधिभेदादतीतविषयतया भूतत्वेन व्यवहारः । गतमेतत् ।। 92 ।।
इदानीं कालप्रसङ्गेनायथाकालप्रत्ययविधानार्थं धातुसंबन्धे प्रत्ययाः (P.3.4.1).
इति सूत्रं विचारयति ।
व्यभिचारे निमित्तस्य साधुत्वं न प्रकल्पते ।
भाव्यासीदिति सूत्रेण तत्‌कालेऽन्यत्र शिष्यते ।। 93 ।।
इग यथास्वं नियत एव काले प्रत्यया विहिता इति स्वकालव्यभिचारे कालान्तरे तेषां साधुत्वं न स्यात् । तद्यथा `भाव्यासीत्' `अग्निष्टोमयाज्यस्य पुत्रो जनिता' इत्यादौ भावीति भविष्यत्काले प्रत्ययोऽन्वाख्यातः आसीदिति भूतकालेन संबन्धं न यायात् । तथा अग्निष्टोमेनेष्टवान् इति भूते प्रत्ययोऽन्वाख्यातो जनितेति भविष्यत्‌कालेन संबद्धो न स्यादिति सूत्रारम्भः । धातूनां स्वतःसंबन्धाभावात् तदर्थोऽत्र धातुरित्युक्तः । भेदाधिष्ठानत्वाच्च संबन्धस्य वृत्तौ अनेकसंख्यान्तर्भावः । साधनद्वारेण च धात्वर्थान्तं विशेषणविशेष्यभावलक्षणः संबन्धः । प्रत्ययाधिकाराच्च प्रत्ययपरिग्रहे सिद्धेऽधात्वधिकारविहितप्रत्ययस्यापि मतुपो वर्तमानकालसत्तोपाधिपरित्यागे कालान्तरेऽपि सति धातुसंबन्धे साधुत्वं यथा स्यादिति पुनः प्रत्ययग्रहणस्य प्रयोजनमुक्तं भाष्ये
`गोमानासीत्, गोमान् भवितेति'(M.Bha,II,p.165,1.3)
इति । तदेतत् सूत्रं वार्तिके प्रत्याख्यातम्
`धातुसंबन्धे प्रत्ययस्य यथाकालविधानात् सिद्धम्' (M.Bha.II.p.168,1.3)
इति । यथास्वं कालेषु प्रत्ययाः पदसंस्कारदर्शने विहिता इत्यन्तरेणाप्येतत् सूत्रं सिद्धमिष्टमित्यर्थः ।। 93 ।।
अत्रोच्यते ।
स्वकाल एव साधुश्चेत् कालभेदे गतिः कथम् ।
वाक्यार्थादतदर्थेषु विशिष्टत्वं न सिध्यति ।। 94 ।।
भाव्यादिशब्दस्य स्वकाले संस्कारेऽङ्गीक्रियमाणे सत्यासीदिति प्रयोगसंबन्धे कालान्तरप्रतीतिः कुतस्त्या । अत्राप्युक्तं वार्तिके इति ।
`उपपदस्य तु कालान्यत्वम्' (Va.2.onP.3.4.1.M.Bha,IIp,168,1.9)
इति उपपदस्य विशेषणस्य विशेष्यसंबन्धात् तत्कालत्वं वाक्यादवसीयत इति वाक्यार्थोऽसौ पदसंस्कारवेलायामसंनिहितो नाङ्गम् ।
एतद् व्याचष्टे ।
सोऽर्थो वाक्यार्थपर्यालोचनाहम्यो येषां पदानां न भवति तेषु अतदर्थेषु वाक्यार्थायोग्यार्थेषु सत्सु वाक्यार्थस्य तैरव(रनव?)च्छेदाद् विशिष्टत्वं न भवति । तथा च भावीत्यस्य भूतकालानुपादानाद् आसीदित्यनेन संबन्धाभावाद् वाक्यार्थो विशिष्टो नावतिष्ठेत । तस्मादेकवाक्यतावशाद् विशेष्यकालानुवृत्तौ विशेषणस्य सिद्धायां नार्थः सूत्रेणेत्यर्थः ।। 94 ।।
प्रत्युत सूत्रारंभे विवक्षितोऽर्थो न प्रतीयेतेत्याह ।
तदर्थश्चेदवयवो भाविनो भूततागतिः ।
न स्यादत्यन्तभूतत्वमेवैकं तत्र सम्भवेत् ।। 95 ।।
यद् यस्माद् वचनाद्भावि कृत्यमासीद् इत्यादौ वाक्येऽवयवो भावीत्यादिर्विशेषणभूतः, प्रधानभूताख्यातविषयभूतकालाभिधायी व्यवस्थाप्यते तदा भविष्यतः कृत्यस्य या भूतकालता प्रतिपिपादयिषिता सा न विज्ञायेत । केवलमासीदित्यनेन भूततायागमिताया अपि भावीत्यनेन पुनःश्रुतितुल्येनावधारणं प्रतीयेत । तथा च यदिदं कृत्यं कर्तव्यरूपं वस्तु तदासीदेव भूतमेवेति वाक्यार्थोऽवतिष्ठेत । न चैष विवक्षितः । तस्मात् स्वकाल एवान्वाख्यानात् वाक्यार्थपर्यालोचनाद् भाविनो भूततागतिः सिध्यति । विवक्षिता भाव्यवस्याप्यस्य कृत्यस्यातीता । सम्प्रतीदं वर्तमानं जातम् । त्रैयध्विका हि पदार्थाः पूर्वमुपपादिताः । तथा च भविष्यदध्वनोऽतीताध्वप्रवेशो न्याय्यः । यथोक्तं भगवता व्यासमुनिना ।
अवश्यंभाविनं नाशं भावित्वाद् विध्युपस्थितम् ।
अयमेव हि ते कालः पूर्वमासीदनागतः ।।
इति ।। 95 ।।
नन्वेवं स्वकालेऽन्वाख्यातस्य वाक्यार्थात् कालान्तरावहतावप्युपात्तकालत्यागप्रसङ्गः । न प्रसङ्ग इत्याह ।
विशिष्टकालता पूर्वं तथापि तु विशेषणे ।
आश्रयात् सोऽन्तरङ्गत्वात् तत्र साधुर्भविष्यति ।। 96 ।।
पदान्तरसंबन्धात् पूर्वं भाव्यादिशब्दस्य विशिष्ट एव स्वकाले व्युत्पादितत्वात् साधुत्वम् । विशेषणेऽपि च तस्य पदान्तरसंबन्धे तथैव विशिष्टकालता । यस्मादजहदेव स्वकालयोगं तत्र विशेष्यकालमनुवर्तते । भाविनो हि भूतता । अतश्च योऽसावाश्रितः स्वकालः संस्कारनिमित्तत्वेन तस्य पूर्वमेवाश्रयणादन्तरङ्गत्वे सति तत्रैव साधुः शबेदो भाव्यादिः पदान्तरयोगेऽपि । न तु स्वकालत्यागः, तद्गतत्वेनैव वाक्यार्थाद् विशिष्टतागतेः । एवमग्निष्टोमयाज्यस्य पुत्रो जनितेत्यत्र भूतस्यैव भाविता वाक्यार्थात् । सूत्रारम्भे त्वत्यन्तं भविष्यत्तैव गम्येतेति प्रत्याख्यातं सूत्रम् ।। 96 ।।
वार्तिकाभिप्रायेणा केचित्तु समर्थयन्ते । कथमित्याह ।
आमिश्र एव प्रक्रान्तः स पदार्थस्तथाविधः ।
केवलस्य विमिश्रत्वं नित्येऽर्थे नोपपद्यते ।। 97 ।।
इह प्रयुक्तानां शब्दानामन्वाख्यानाद् व्यवहाराय शब्दप्रयोगाद् वाक्यमेव तदङ्गमन्वाख्येयम् । तथा च पदान्तरार्थसमन्वययोग्यपदार्थापोद्धारपूर्वकं पदानामनुशासनाद् वाक्यावधिकेऽन्वाख्याने प्रथमत एव सर्वः पदार्थो विशिष्टः आमिश्रः एवोपात्तः यादृशो वाक्यप्रयोगादवसीयते । इतरपदार्थसमन्वयनिरपेक्षं तु पदानुशासने केवलस्य पूर्वमवस्थि तस्य पश्चादितरपदसमन्वये विशिष्टतायां नित्यः शब्दार्थसंबन्धो विरुध्येत ।
सामान्यार्थस्तिरोभूतो न विशेषेऽवतिष्ठते ।
उपात्तस्य कुतस्त्यागो निवृत्तः क्वातिष्ठताम् ।। (Vak.II.15)
इत्यादि चात्र दूषणमुक्तम् ।। 97 ।।
एवं सामान्येनाभिधाय एतदेव प्रकृते योजयति ।
शुद्धे च काले व्याख्यातमामिश्रे न प्रसिध्यति ।
साधुत्वमयथाकालं तत् सूत्रेणोपदिश्यते ।। 98 ।।
भावीति भविष्यति भूतेनासंसृष्टे प्रत्ययः साधुरुक्तः । स भूतसंसृष्टे न प्राप्नोति प्रथममेवापेक्षिते । तस्मात् सूत्रेण व्यामिश्रे काले प्रत्ययविधानमुपपद्यते ।। 98 ।।
विशेषाभावात् तर्हि भूतकालोऽप्यासीदिति भावीत्येतद्भविष्यकालसंमिश्रे कस्मात् साधुर्न भवतीत्याह ।
आख्यातपदवाच्येऽर्थे निर्वर्त्यत्वात् प्रधानता ।
विशेषणं तदाक्षेपात् तत्‌काले व्यवतिष्ठते ।। 99 ।।
`भूतं भव्यायोपदिश्यते'

इत्याख्यातवाच्या क्रिया साध्यमानस्वभावा सर्वत्रैव वाक्यार्थभूता प्रधानाम् । नामपदवाच्यं तु सिद्धस्वभावं कारकं गुणभूतम् । प्रधानानुयायिनश्च गुणाः । न तु गुणानुयायि प्रधानमित्याख्यातवाच्येनार्थेन स्वोपकारायाक्षिप्तो नामपदवाच्योऽर्थो गुणभूतस्तत्कालमनुविधत्ते । एवं च न्यायेनैव समन्वयान्यथानुपपत्त्या (समन्वयस्याप्युपयत्त्था?) गुणप्रधानसन्निधावेकस्मिन् वाक्ये प्रधानानुयायित्वाद गुणानां प्रधानानुग्रहाय तत्काल स्यापि स्वकालापरित्यागेनैवानुवर्तनात् भाव्यासीदित्यादिप्रयोगे सिद्धे नार्थः सूत्रेणेति । एतदुक्तं भवति । आमिश्रत्वं हि सर्वत्र संबन्धे सति पदार्थानां यथायोगं विशिष्टमस्त्येव । केवलं पदान्तरप्रयोगं विना न निश्चीयते तदित्येतावता सामान्येऽर्थे पदं वर्तते, विशेषेऽर्थे वाक्यमित्युच्यते । न तु त्यागग्रहौ कौचित् ।। 99 ।।
तथा विधे चार्थे पदसंस्कारादामिश्रेऽपि प्रक्रम एव वृत्तः संस्कारः । न हि कालान्तरव्यतिभिन्ने स्वकाले निषेधोऽस्ति प्रत्ययस्य । तस्मान्नार्थोऽत्र यत्नेनेत्याह ।
सम्प्रत्ययानुकारो वा शब्दव्यापार एव वा ।
अध्यस्यते विरुद्धेऽर्थे न च तेन विरुध्यते ।। 100 ।।
इह वचनेनार्थानां स्वाभावातिक्रमाभावात् कालान्तरे साधुत्वानुशासनमात्रात् तत्र प्रतीतिर्नोपपद्यत इत्यकिञ्चित्करं सूत्रम् । सङ्गितिस्तु गुणप्रधानभावेन समन्वयोपपत्तेः प्रधानकालानुरोधनैकवाक्यतावशेन दर्शिता । अथवा यथास्वं कालेष्विव संबन्धेऽप्येते प्रत्ययाः । अध्यारोपेण तु समन्वयः । तथाग्निष्टोमयाजीत्यनेन भूतविशिष्ट एवार्थः प्रत्याय्यते । जनितेत्येतत्‌संबन्धे तु स भूतकालावच्छिन्नो ज्ञानाकारो।ञनुपपद्यमानो विरुद्धे तस्मिन् भविष्यति काले अध्यस्यते समारोप्यते । योऽयं भविष्यन् कालो जनितुः तत्र जन्मोत्तरकालमग्निष्टोमकरणयागसमाप्तिमाश्रित्याधुनैव भूतकालोऽयमुपात्तः । तेनायमर्थः । सोऽस्य पुत्रो जनिता योऽग्निष्टोमेन यष्टेति । यद्वा शब्दस्याग्निष्टोमयाजीत्यस्य व्यापारः स्वार्थाभिधानलक्षणो भविष्यति कालेऽध्यस्यते । उत्पत्स्यमानस्यार्थस्यानेन प्रतिपादनानुपपत्तेर्भावी व्यापारोऽस्य । सोऽस्य पुत्रो जनिता यो जातोऽभिवृद्धोऽग्निष्टोयमाजीतीमं व्यपदेशं लप्स्यत इत्यर्थः । तदेतदुक्तं भाष्ये
कदा चैवं व्यपदेक्ष्यते । यदानेनेष्टं भवति । (M.Bha.II.p.168.1.15)
इति । तदित्थं सम्प्रत्ययानुकारेण शब्दव्यापारेण वा अध्यस्यमानेन सोऽर्थो विरुद्धत्वाभिमतो न विरुध्यते । नास्त्यत्र समन्वयविरोध इत्यर्थः ।। 100 ।।
एतदेव निदर्शनेन व्युत्पादयति ।
भूतं भविष्यदित्येतौ प्रत्ययौ वर्तमानताम् ।
अत्यजन्तौ प्रपद्येते विरुद्धाश्रयरूपताम् ।। 101 ।।
तद्वस्तु भूतं भविष्यदन्यद् इत्येतौ प्रत्ययौ ज्ञाने समुत्पद्यमानौ स्वतो वर्तमानकालावपि विषययोः स्वकालविरुद्धयोर्भूतभविष्यतोराकारं धारयतो यथा एवं स्वकालापरित्यागेन कालान्तरेऽध्यारोपोऽत्र युक्त इत्यर्थः । सङ्‌गृहीतसाध्यान्वयभूतभविष्यदाकारौ हि प्रत्ययौ भूतभविष्यद्रूपतया स्वाकारमध्यवस्यतोऽपरित्यक्तवर्तमानस्वसंवेदनरूपौ । एवमग्निष्टोमयाजीति सम्प्रत्ययानुकारोऽपि स्वकालमजहदध्यारोपविषयस्य विरुद्धस्य भविष्यत आश्रीयमाणस्य रूपं प्रतिपद्यते । न ह्यध्यस्यमानं स्वरूपं जहाति गोत्वमिव वाहीके ।। 101 ।।
इदानीं कालप्रसङ्गेन वर्तमानसारूप्यं विचारयति ।
अध्वनो वर्तमानस्य यः शेषो य उपक्रमः ।
तद् वर्तमानसामीप्यं शास्त्रे भेदेन दर्शितम् ।। 102 ।।
आफलसमाप्तेः क्रियाप्रबन्धोऽव्युपरतो वर्तमानः काल इत्युक्तम् । तस्य च यः शेषः समाप्तत्वेऽपि संस्कारानुवृत्तिलक्षणः तद् भूतविषयं वर्तमानसामीप्यम् । यश्च प्रारम्भो मानसः सङ्कल्पो वर्तमानस्य तद् द्वितीयं भविष्यद्‌विषयं वर्तमानसामीप्यम् । तत्र कायव्यापारादर्शनाद् वर्तमानतावसाये भूतभविष्यत्‌स्वभावे वर्तमानप्रत्यया अतिदिश्यन्ते । वावचनात् पक्षे भूतभविष्यत्‌प्रत्ययानामनुसासनान्नेदं वर्तमानमेव सद् भेदेनोपादीयते । अत्रापि पूर्ववत् स्वकाल एव गच्छामीत्यादिपदस्य संस्कारः । अतो हि वर्तमानस्यैव प्रतीतिः । पदान्तरप्रयोगे तु तत्कालेऽध्यारोपः । वावचनात् पक्षेऽध्यारोपितरूपाश्रयाद् भूतभविष्यत्‌प्रत्यया भवन्तीति नार्थो यत्नेन ।। 102 ।।
प्रार्थनास्वभावाशंसा प्रतीतिविशेषत्वादू वर्तमाना प्रत्युपस्थिता कथं
भविष्यत्काला (M.Bha.II.p.158 1. 18)
 इति भाष्येऽभिहितेत्यत आह ।
अशंसा वर्तमानापि विषयेण भविष्यता ।
भाष्ये भविष्यत्कालेति कार्यार्थं व्यपदिश्यते ।। 103 ।।
ज्ञानस्वभावत्वाद् वर्तमानकालापि प्रार्थ्यमानस्य विषयस्यानागतत्वाद् विषयधर्मेण भविष्यत्‌कालाशंसा व्यपदिष्टा । तथा च भूतप्रत्ययलक्षणं कार्यं भविष्यति विषयेऽतिदेष्टुं युक्तम् ।। 103 ।।
यदि विषयधर्मेणापि व्यपदेशो भवति तदेष्यमाणस्यानागतत्वादिच्छापि भविष्यत्काला स्यादिति तत्र चिकीर्षतीति वर्तमानकालप्रत्यया अप्यतिदेष्टव्या इत्याशङ्क्याह
इच्छा चिकीर्षतीत्यत्र स्वकालमनुरुध्यते ।
भविष्यति प्रकृत्यर्थे तत्कालं नानुरुध्यते ।। 104 ।।
चिकीर्षतीत्यत्र येयमिच्छा सन्नन्तधातुवाच्या सा प्रधानम् । तदुपसर्जनभूता करोतिक्रिया तद्विषयः । तस्योपसर्जनस्य भविष्यत्कालत्वेऽपि सनः प्रकृतिभूतधातुवाच्यस्य प्रकृतिप्रत्ययौ प्रत्ययार्थं सह ब्रूत इति सन्नन्तधातुवाच्याया इच्छाया वर्तमानत्वात् स एव कालोऽनुवर्त्य इति सिद्धो वर्तमानप्रत्ययः । न हि प्रधानं गुणाननुविधत्त इति गुणभूतकरोतिक्रियाकालानुवृत्तिरत्र नास्ति ।। 104 ।।
आशंसायामपि स्वकालानुवृत्तिः कथं न भवतीत्याह ।
आशंस्यमानतन्त्रत्वादाशंसायां विपर्ययः ।
प्रयोक्तृधर्म शब्दार्थे शब्दैरेवानुषज्यते ।। 105 ।।
यथेच्छा प्रत्ययार्थत्वात् प्रधानं नैवमाशंसा । न हि सा प्रत्ययवाच्या, अपि तु तद्विषय एवाशंस्यमानः प्रत्ययाभिधेयः । प्रयोक्तृधर्मो ह्याशंसा, न शब्दार्थः । तथाहिउपाध्यायश्चेदागतो व्याकरणमधीतमेवेत्याशंस्यमानमुपाध्यायागमनं व्याकरणाध्ययनं च प्रत्ययवाच्यं तन्त्रं प्रधानमिति तत्कालानुवृत्तिरेव न्याय्या । एतदाशंसिना तु प्रयोक्‌त्रा वाक्यमिदं प्रयुक्तमिति गम्यमानत्वमाशंसायाः । कथं तर्हि प्रयोक्तृधर्म आशंसा शब्दसंस्कारनिमित्तम् । शब्दार्थो हि शब्दसंस्कारनिमित्तं न्याय्य (नान्य?) इत्याशङ्कायोक्तम्
प्रयोक्तृधर्मः शब्दार्थे शब्गदैरेवानुषज्यते
इति । अध्यारोप्यते प्रयोक्तृधर्मः प्रयोज्यस्य शब्दस्याभिधेये शब्देनैव । तस्मिन् हि प्रयुक्ते गम्यते स धर्मः प्रयोक्तरीति गम्यमानत्वादा बाधादिवद् युक्तं शब्दसंस्कारनिमित्तत्वमस्य । पुरुषधर्मेष्वपि हि शास्त्रमधिकृतमिति विचारितं वाक्यपदीये । गतमेतत् ।। 105 ।।
इह वार्तिककारः पपाठ
`अनिष्पन्ने निष्पन्नशब्दः शिष्योऽनिष्पन्नत्वात्' (M.Bha.II.p.159 1.21)
इति । अनिर्वृत्ते कार्ये भूतप्रत्ययाः वक्तव्या इत्यर्थः । तद्यथा--
`देवश्चेद् वृष्टो निष्पन्नाः शालयः' (M.Bha.II,p.159,1.23)
इति । निष्पन्नसदृशार्थोऽनिष्पन्न इति पर्युदासेन योग्यहेतूनिपाते सम्भाव्यमाननिष्पत्तिरुच्यते । तेनानागतमात्रे भूतप्रत्यया न भवन्ति । अनिष्पन्न इत्युक्ते।ञपि चानिष्पन्नत्वादिति हेतुप्रदर्शनम् । उपचारेणायं प्रयोगो न वेदितव्य इत्यर्थः । अनागतरूपेणैवानुपचरितातीतावस्थेन कार्यमत्र प्रतीयत इत्युपसंख्येयो भूतप्रत्यय इत्यर्थः । अत एव भाष्यम्--
`तत्र भवितव्यं निष्पत्स्यन्ते शालयः' (M.Bha.II.p.159.1.23)
इति भविष्यत् प्रत्ययस्यैव युक्ततामाह । अस्य प्रत्याश्यानम्--
`सिद्धं तु भविष्यत्प्रतिषेधात्' (Va.3.onP.3.3133,M.Bha.II,p.159,1.24)
इति । `देवश्चेद् वृष्टः सम्पत्स्यन्ते शालय' इति केनचिदुक्ते मैवं वोचः, सम्पन्नाः शालय इत्येवं ब्रूहीति भविष्यद्वाचिनः शब्दस्य लोके प्रतिषेधो दृश्यते । भूतवाचिन एव त्वम्यनुज्ञानमिति वार्त्तिकार्थः । तदेतत् कथं भवतीति वार्तिकाभिप्रायमाचष्टे--
अप्शालिबीजसंयोगे वर्तते निष्पदिर्यदा ।
तत्रावयववृत्तित्वाद् भविष्यत्प्रतिषेधनम् ।। 106 ।।
इह निष्पत्तिर्धात्वर्थः समग्रसाधनसम्पत्तौ फलोपजनो मुख्यः । स यदावयवमात्रे जलशालिसंबन्धमात्रेऽध्यारोप्यते तदा तावन्मात्रस्य वर्षमात्रेण सम्पत्तेरतीतो धात्वर्थ इति सिद्धां भूतप्रत्ययाः । भविच्यत्‌प्रत्ययानामयमविषय एव जलशालिसंयोगस्य निष्पत्तेरिति भविष्यतः प्रतिषेधो युक्तः ।। 106 ।।
यदा तु मुख्य एव निष्पत्त्यर्थः तदात्र कथं भूतकालतेत्याह ।
फलप्रसवरूपे तु निष्पदौ भूतकालता ।
धर्मान्तरेषु तद्रूपमध्यस्य परिकल्प्यते ।। 107 ।।
समग्रसाधनसन्निधानसाध्ये यदा निष्पत्तिलक्षणे धात्वर्थे फलजन्मपर्यन्ते निष्पदिर्धातुर्वर्तते तदा पूर्वेषु कार्यनिष्पत्तेपरन्येषु कारणाश्रितेषु बीजोदकसंयोगाहितातिशयेषु धर्मेषु तत् कार्यनिष्पत्तिरूपमध्यस्यते । तेषामतीतत्वात् फलप्रसवस्याप्यतीतता परिकल्प्यत इति सिद्धा भूतप्रत्ययाः ।। 107 ।।
प्रकारान्तरेणोपचारमाह ।
उपयुक्ते निमित्तानां व्यापारे फलसिद्धये ।
तत्र रूपं यदध्यस्तं तत्कालं तत् प्रतीयते ।। 108 ।।
सामग्रीसाध्यत्वात् कार्यस्य बहूनि निमित्तानि सापेक्षाणि जनकानि । तेषां फलजन्मनि यो व्यापार उपकारस्तस्योपयुक्तत्वात् फलस्य यद्रूपं भाव्यपि तत्र तस्मिन् हेतूपकाररूपं तदध्यस्तं तस्य हेतुव्यापारस्यातीतत्वादतीतकालत्वे तदभेदापन्नं तत्फलमपि तत्कालम् अतीतकासमवसीयते । पूर्वं कारणधर्मेषु फलस्याध्यारोपः, इह तु फले कारणधर्माणामिति विशेषः । उपचारप्रयोजनं तु कारणानामत्र समर्थतरत्वप्रतिपादनम् । एतेन च
`हेतूभूतकालसम्प्रेक्षितत्वाद्वा' (Va.4.on P.3.3.133.M.Bha.II.p.160,1.3)
इति द्वितीयं प्रत्याख्यानवार्तिकं विवृतम् । निमित्तस्य वर्षस्य योऽतीतः कालः स कार्येऽध्यस्यते । कारणान्तरापेक्षाभावप्रतिपादनाय प्रतीयत इत्यर्थः । निष्पन्नत्वे निष्पन्नकार्याणि शालयः कथं तदानीमेव न कुर्वन्तीति चोदयित्वोक्तम्--
`अन्यदिदानीमुच्यते' (M.Bha.II.p.160,1.6.)
इति । यद्यर्थक्रियाकरणं शालीनां निष्पत्तिः तदा कोष्ठस्था अपि न निष्पन्नाः स्युः अर्थक्रियायां भुजिलक्षणायामवहननाद्यपेक्षणात् ।। 108 ।।
अथ हेतूपकारसमाप्तिमात्राधीना निष्पत्तिः तदा यथायथं हेतूपयोगनिष्पत्तौ निष्पत्तिव्यवहारः सिद्ध इत्याह ।
निष्पत्ताववधिः कश्चित् कश्चित् प्रतिविवक्षितः ।
हेतुजन्मव्यपेक्षातः फलजन्मेति चोच्यते ।। 109 ।।
इह कश्चिद् बीजसलिलसंयोदमात्राधीनां निष्पत्तिं शालीनां मन्यते । कश्चिदुत्तरकालभाव्यातपादिसंयोगजनितोपकारपरम्पराधीनाम् इति निष्पत्तिहेतुरनवस्थितः । कारणस्य ह्युपकारविशेषख्यापनायैवमुच्यते । तत्र च प्रथमतरनिमित्तगतोपकाराधिक्यकल्पनायां निमित्तान्तरव्यापारापह्नवेन तावत एव हेतोर्जन्मनः फलजन्मव्यवहारः । आतपादिसंयोगलक्षणहेतुजन्मनो वेति तस्यातीतत्वात् फलमप्यतीतताव्यवहारयोग्यम् । एष चोपचाराश्रय एव व्यवहारो हेतुभूतकालसंप्रेक्षाया इति नर्तेऽध्यासाद् भवत्यसौ । जलबीजसंयोगमात्रं तु निष्पदिवाच्यमाश्रित्य पूर्वः परिहारः । अत्र निष्पद्यर्थों गौणः । उत्तरत्र तु परिहारे निष्पद्यर्थों मुख्यः । कार्यकारणयोस्त्वभेदाध्यासः । इति विकल्प उपपन्नः ।। 109 ।।
सामग्रीसाध्यत्वात् कार्यस्य कथमेकसाधनसम्पत्तिमात्रे सम्पत्तिः स्यादित्येतत् चोचं विचारयितुमाह ।
अबहिस्साधनाधीना सिद्धिर्यत्र विवक्षिता ।
तत् साधनान्तराभावात् सिद्धमित्युपदिश्यते ।। 110 ।।
अन्तरङ्गे कस्मिंश्चित् साधने सन्निहिते ततोऽन्यस्य बहिर्भूतस्य साधनस्यापेक्षा तिरस्कारेण विवक्षितं साध्यं सत्‌कल्पं सिद्धमेवेति लोके व्यवहारः प्ररूढः । तदनुसारेणैव च शास्त्रे व्यवस्थोपपत्तिः । लोकप्रसिद्धस्यैव शब्दार्थव्यवहारस्य शास्त्रेणानुगमात् । तथा च यथाविवक्षं कालत्रययोगेनात्र व्यवहारः सिद्ध इति ।। 110 ।।
निगमयति--
तस्मादवधिभेदेन सिद्धा मुख्यैव भूतता ।
अनागतत्वमस्तित्वं हेतुधर्मव्यपेक्षणे ।। 111 ।।
निष्पत्तौ योऽवधिः कारणं तस्य भेदेन यथाभेदं तत्र कार्यस्याध्यासात् तद्वदतीतता मुख्या । कारणे हि कार्योपचारः, न तु भूतस्य कालस्य । यदा तु हेत्वन्तरस्य भाविकार्यजननव्यापारोऽपेक्ष्यते तदा मुख्येनैव रूपेणानागतत्वं भविष्यत्त्वं कार्यस्य । यदा तु हेत्वन्तरस्य प्रत्यासन्नकार्यजननव्यापारो विवक्ष्यते तदा व्यापारप्रबन्धस्य फलावधेरेकत्वेन पूर्वोत्तरसदवयवात्मकस्यापि सत्त्वात् वर्तमानत्वमिति प्रयोगत्रयं सिद्धं निष्पन्ना निष्पत्स्यन्ते निष्पद्यन्ते शालय इति । गतमेतत् ।। 111 ।।
अपरमपि वार्तिककारः पपाठ--
`अस्त्यर्थानां भवन्त्यर्थे सर्वा विभक्तयः कर्तुर्विद्यमानत्वात्'
(Va.5.onP.3.3.133,M.Bha.II.p.160,1.10)
इति । भवन्त्या लङ्‌विभक्तेरर्थे वर्तमाने काले भूतभविष्यदर्यास्तिङ्‌विभक्तयो वक्तव्याः । वर्तमाने हि लडेव स्यात् । तत्र भवन्त्यर्थ इत्युक्तेऽपि कर्तुर्विद्यमानत्वादिति हेतूपादानं प्रयोकालावधृतं सत्त्वं शब्दनिबन्धनं न तु वास्तवमेवेत्येतत्‌प्रतिपादनार्थम् । कूपोऽभूदभवद्‌ बभूव भविष्यति प्रयोगकालेऽपि कूपस्य कर्तुरविनष्टस्यैवोपलम्भादित्यर्थः । तथा चैतद् व्याख्यानभाष्यम्--
`कूपोऽनैन कदाचिदवधृतो न चास्यापायं पश्यति'
(M.Bha.II.p.160.1.14)
इति विद्यमानत्वं सम्प्रत्यवध्रियमाणत्वमेव व्याचष्टे । अत्र प्रत्याख्यानम्--
`सिद्धं तु यथास्वकालं समुच्चारणात्' (M.Bha.II.p.160.1.19.)
इति । आत्मीयेष्वेव कालेषु यथायोगं तिङ्‌विभक्तीनां प्रयोगोऽयम् न तु वर्तमान एवेति नार्थ उपसंख्यानेनेत्यर्थः । एतदेव साधयितुमुक्तम्
`अवात्वात्' (Va 7on P.3.3.133.M.Bha.II.p.160,1.19.)
इति । अविकल्पत्वादेषां प्रयोगाणामात्मीय एव काले समुच्चारणम् । वर्तमाने ह्येषां साधुत्वोपसंख्यांने तत्रैव सर्वास्तिङ्‌विभक्तयः पर्यायेण दृश्येरन् । न च दृश्यन्त इत्युक्तम्
`असिद्धविपर्यासश्च'(Va.8on P.3.3.133,M.Bha.II.p.160,21.)
इति । असिद्धं च वैपरीत्यमित्यर्थः । न हि कश्चित् कूपोऽभूदिति प्रयुयुक्षिते कूपो भविष्यतीति प्रयुङ्क्ते । तस्मादविकल्पितात् प्रयोगादसङ्करेण च प्रयोगाद् यथास्वं काले तिङ् विभक्तीनामुच्चारणं सिद्धम् ।।
तदेतत् कथमुपपद्यत इति वार्त्तिकाभिप्रायमाचष्टे ।
सतामिन्द्रियसंबन्धात् सैव सत्ता विशिष्यते ।
भेदेन व्यवहारो हि वस्त्वन्तरनिबन्धनः ।। 112 ।।
इह पदार्थानां सर्वो व्यवहारः संसर्गिधर्मान्तराच्छुरणेनेत्युक्तमेव । ततश्चात्र येयं कूपसत्ता सा गृहीता सती शब्दप्रयोगस्य निमित्तभावमापद्यते, अगृहीताया असत्‌कल्पात्वादिति ग्रहणोपाधिर्व्यवहारमवतरति । ग्रहणं चेन्द्रियार्थसन्निकर्षनिमित्तमिति पथि कूपस्येन्द्रियेण सन्निकर्षो यत्र भावी तत्र भविष्यन्ती सत्ता व्यवह्रियते । यत्र तु भूतः सः, तत्र भूता । यत्र तु सम्प्रतितनः तत्र वर्तमानेति त्रिकालविषयाः प्रयोगाः सामान्यविशेषभूता अपि सिद्धाः । विप्रकृष्टे हीन्द्रियसंबन्धेऽतीते भूतविशेषविषया लङादयः । विप्रकृष्टे चागामिनि भविष्यद्‌विशेषविषया लुडादयः ।। 112 ।।
ननु च यथा भूतभविष्यद्‌विभक्तयो वर्तमान विषयं नावगाहन्ते तथा सापि तद्विषयान् नावगाहेतेति कूपोऽस्तीति प्रयोगो भूते भविष्यति चेन्द्रियसंबन्धे न स्यादित्या शङ्क्याह ।
अस्तित्वं वस्तुमात्रस्य बुद्ध्या तु परिगृह्यते ।
यः समासादनाद् भेदः स तत्र न विवक्षितः ।। 113 ।।
इन्दियसंबन्धासंबन्धनिमित्तस्य भूतभविष्यल्लक्षणस्य भेदस्याविवक्षायां मनसा सन्मात्रे कूपमभिसन्धायास्तीति प्रयोगः सामान्येनात्रोपपद्यत इत्यर्थः । विशेषास्तु परस्परविरोधिना न सङ्कीर्यन्ते ।। 113 ।।
किं वात्रौपाधिकेन सत्ताया भेदेन, तात्त्विक एव सत्ताया भेदः प्रत्यवस्थित इत्याह ।
योगाद्वा स्त्रीत्वपुंस्त्वाभ्यां न किंचिदवतिष्ठते ।
स्वस्मिन्नात्मनि तत्रान्यद् भूतं भावि च कथ्यते ।। 114 ।।
"न कश्चित् स्वस्मिन्नात्मनि मुहूर्तमप्यवतिष्ठते,वर्धते यावदनेन वर्धितव्यमपायेन वा युज्यते"(M.Bha.II.p.198.1.8.)
इति स्त्रीसूत्रे भाष्यम् । तत्रोपचयः पुंस्त्वम्, अपचयः स्त्रीत्वमिति लिङ्गसमुद्देशे वक्ष्यति ।
`उत्पत्तिः प्रसवोऽन्येषां नाशः संस्त्यानमिष्यते ।' (Vak.III.लि.27.)
इति । एव स्त्रीत्वपुंस्त्वाभ्यामपचयोपचयाभ्यामजस्रप्रवृत्तिभ्यां सर्वभावानां संबन्ध इति प्रतिकलमन्योन्यरूपसदृशप्रबन्धरूपभावमध्येऽवस्थाभेदगतस्त्रिकालयोग उपपद्यत एव तात्त्विकः । अतश्चान्यदेवातिक्रान्तेन्द्रियसंबन्धं भूतं रूपम्, अन्यदेव च भविष्यदिन्द्रियसंबन्धं भावि, अन्यदेव च वर्तमानेन्द्रियसंबन्धम् । अभेदेन तु बुद्ध्या समीक्ष्य रूपसामान्यमस्तीतिं वर्तमानप्रत्ययवाच्यं सिद्धम् ।। 114 ।।
इति भूतिराजतनयहेलाराजकृते प्रकीर्णकप्रकाशे कालसमुपद्देशो नवमः ।।

३,१०ः पुरुषसमुद्देशःसम्पाद्यताम्

३,११ः सङ्ख्यासमुद्देशःसम्पाद्यताम्

इदानीं संख्यां विचारयति ।
संख्यावान् सत्त्वभूतोऽर्थः सर्व एवाभिधीयते ।
भेदाभेदविभागो हि लोके संख्यानिबन्धनः ।। 1 ।।
भेदापोद्धारलक्षणा संख्या एकादिका परार्धपर्यवसाना । भेदश्चेदं तद् इति सर्वनामप्रत्यवमर्शयोग्यवस्तुगतः । तथा च सर्व एव द्रव्यात्मार्थो भिन्न एको द्वौ बहव इत्यादिसंख्यायुक्तो व्यवह्रियते । द्वित्वादिका संख्या भेदमेकत्वसंख्या चाभेदमाश्रये व्यवहारयति । तथा च कार्यादस्माद् द्रव्ये संख्या निश्चीयते । पृथक्‌त्ववशाद्धि द्रव्याणां पृथक्‌त्वेन व्यवहारः, एकादिव्यवहारस्तु संख्यावशात् संसर्गवादिभिरभ्युपुगम्यते । वृत्तावपि च सत्त्वभूत उपसर्जनार्थः संख्यावानेवावधार्यते निस्संख्याव्ययार्थभेदेन । सैव चाभेदैकत्वसंख्या व्याख्यास्यते । विसेषप्रतीतिनिबन्धनाभावाच्च संख्याभेदो नावधार्यते । यत्र त्वस्ति निबन्धनं शौर्पिकादौ तत्र भवत्येव विशेषावसाय इति वक्ष्यत एवेति सर्व एव सत्वभूतोऽर्थः संख्यावानभिधीयते इति व्याप्तिसिद्धिः । यत्रापि तद्धितार्थनिर्देशादावनङ्गं संख्या, तत्रापि नान्तरीयकतया सत्त्वभूतस्यार्थस्य संख्योपादानं भवत्येवेत्यस्ति व्याप्तिः । तदित्थं सत्वभूतस्यार्थस्यैकत्वानेकत्वभेदः संख्यानिबन्धन इति ।। 1 ।।
वैशेषिकाणां द्रव्याश्रिता गुणात्मिका संख्या । न च पदार्थ एवासहाय एकत्वं ससहायश्च यथायोगं द्वित्वादीति सहायविरहतद्योगयोर्धर्मान्तरत्वाभावान्न कश्चिदन्यो द्रव्यात् संख्यालक्षणो गुण इति व्यतिरिक्तसंख्याभाव इति वाच्यम् । प्रत्ययभेदात् । ्न्यो हि ससहायताप्रत्ययोऽन्यश्च द्वौ त्रय इत्यादिप्रत्ययः । ससहायेष्वपि चैकत्वप्रत्ययोऽस्तीति न तद्विरह एवैकत्वसंख्या । अबाध्यमानविलक्षणप्रत्ययावेदितसद्भावा हि पदार्था यथा यथं भिन्नस्वभावा एव न्याय्याः । अनेकसंख्या च शतादिकानेकस्मिन् द्रव्ये समवेतापेक्षाबुद्धिप्रबावितावधार्यते एव व्यासज्यवृत्तिः संयोगविभागादिवत् । न ह्यनेक द्रव्यं नास्ति, तत्र वा नेयं प्रतीतिः । शतमित्यादिका केवलमनेकाश्रयत्वेऽपि सामान्याद् भिद्यते । संख्यासामान्यस्य प्रत्याश्रयपरिसमाप्तत्वादर्थान्तरापेक्षत्वात्तु सङ्ख्याया इत्यादिवैशेषिकोक्तयुक्तयोऽनुसरणीयाः । अव्यतिरिक्तधर्मवादिनस्त्वव्यतिरिक्तामाश्रयात् संख्यां मन्यन्ते । समवायेन तिरोहितभेदत्वाद् व्यतिरेकानवधारणाच्चेदं मतम् । अत्रापि तद्दर्शिता युक्तयो वाच्याः । तथा ह्यत्यन्तभेदे तद्विशिष्टप्रत्ययानुदय इति काल्पनिक एव भेद इति मन्यन्ते ।। 1 ।।
अस्माकं तु शब्दप्रमाणकानां पदार्थविचारानादरात् यथायथं पदार्थकल्पनातीर्थिकैः कृता । तामाश्रित्य लक्षणाङ्गाः पदार्था व्यवस्थाप्या इत्याह ।
स धर्मो व्यतिरिक्तो वा तेषामात्मैव वा तथा ।
भेदहेतुत्वमाश्रित्य सङ्ख्येति व्यपदिश्यते ।। 2 ।।
सङ्ख्यालक्षणो धर्मस्तेषां सत्त्वभूतानां सङ्ख्येयानामात्मैवाभिन्न एव वास्तु, तेभ्यो व्यतिरिक्तो वास्तु । किमनेन निष्प्रयोजनेनास्माभिर्विचारेण, शब्दार्थस्येह विचारयितुं प्रक्रमात् । शब्दाच्चैको द्वौ त्रय इत्यादिभेदव्यवहारे हेतुः कश्चिद् धर्मोऽवधार्यते । न हि पदार्थमात्रादनुपाधेरेव व्यवहारो घटते । स च धर्मः सञ्चष्ट इति सङ्ख्येत्यन्वर्थेन नाम्ना व्यवह्रियते ।। 2 ।।
यदि द्रव्याश्रिता सङ्ख्या कथं गुणादीनां तन्निमित्तो व्यवहार इत्याशङ्ख्याह ।
समवेता परिच्छेद्ये क्वचिदन्यत्र सा स्थिता ।
प्रकल्पयति भावानां सङ्ख्याभेदं तथात्मनः ।। 3 ।।
या द्रव्ये परिच्छेद्ये भेदहेतुः संख्या सा तत्रैव समवेता गुणत्वात् । यदा तु गुणादीनां परिच्छेदिका सा तेभ्योऽन्यत्र द्रव्येऽपि स्थिता तत्रैव तस्याः समवायान्निर्गुणानामपि तेषामेकार्थसमवायात् स्वनिमित्तं व्यवहारं वर्तयति । आत्मनोऽपि च संख्या द्रव्येऽपि स्थिता भेदं व्यवहारयति । तद् यथा शतं शते शतानीत्यादि । नहि शतसंख्यायामेकत्वद्वित्वबहुत्वानि समवेतानि विरोधादद्रव्यत्वान्निर्गुणत्वाच्च । एव द्रव्यगता सङ्ख्या रूपादिषु समारोप्यत इति `चतुर्विशतिर्गुणाः' इति व्यवहारः । तथैव `पञ्च क्रमजातयो द्वे सामान्ये' इत्यादि । `तथा चत्वारोऽभावाः' इत्यादिरपि निरुपाख्यस्याभावस्य वस्तुधर्मायोगादौपाधिको भेदव्यवहारः । एवञ्च गौणमुख्यभेदेन व्यवहारोपपत्तेस्तावन्मात्रस्य चेहोपयोगात् तीर्थिकपरिकल्पितप्रक्रियानादरेण भेदगणनमात्रलक्षणा सङ्ख्या सर्वत्राविशेषेण वर्ण्यते ।। 3 ।।
द्रव्यसमवायेऽपि गुणादिषु सङ्ख्याया भेदव्यवहारनिमित्तत्वे दृष्टान्तमाह ।
परत्वे चापरत्वे च भेदे तुल्या श्रुतिर्यथा ।
सङ्ख्याशब्दाभिधेयत्वं भेदहेतोस्तथा गुणे ।। 4 ।।
इह देशसंबन्धात् परत्वापरत्वलक्षणौ गुणावपेक्षाबुद्धिप्रभावितौ द्रव्ये समवेतात्पद्येते । तथा च ताभ्यां द्रव्यं परमपरमिति व्यवह्रियते । तद्वदेव च गुणादयोऽपि परापरशब्दाभ्यामभिधीयन्ते । ततश्च यथात्र गुणविषये भेदव्यवहारे तावेव द्रव्यगुणौ सव्यापाराविति परः अपरः इत्यबिन्नमभिधानं तथा भेदहेतोः द्रव्यसमवेताया एव सङ्ख्याया गुणादिविषयेऽपि तथैवैकादिशब्देन व्यवहारः, न त्वपरा गुणादावेकत्वादिका संख्या विद्यत इत्यर्थः । देशेन संबन्धः साक्षाद् द्रव्यस्यैवेति तन्निमित्तयोः परत्वापरत्वयोर्द्रव्य एव समवायो निश्चित इति दृष्टान्तोपपत्तिः ।। 4 ।।
किं बहुना स्वाश्रयधर्मेणाश्रितानां व्यवहारः सर्व एव दृष्ट इत्याह ।
अस्वतन्त्रे स्वतन्त्रत्वं परधर्मो यथा गुणे ।
अभेद्ये भेद्यभावोऽपि द्रव्यधर्मस्तथा गुणे ।। 5 ।।
द्रव्याश्रयिणि नित्यपरतन्त्रे गुणे पटस्य रूपमिति द्रव्यधर्मस्वातन्त्र्यं यथा व्यवपदिश्यते तथा सङ्ख्यया व्यवच्छेत्तुमनर्हत्वेऽपि तदवच्छेद्यत्वं स्वातन्त्र्याविनाभावी द्रव्यधर्मो योक्ष्यते पटस्य रूपमेकं द्वे त्रीणीत्यादि । अयमत्र भावः । इह यदा शुक्लः पट इत्यादिर्द्रव्योपसर्जनभावमापन्नो गुणोऽभिधीयते तदासौ द्रव्यसामानाधिकरण्यात् तद्धर्मेण समन्वयं सहत एव । द्रव्यान्निष्कृष्य तु पटस्य शक्ल इत्याद्यभिधाने स्वातन्त्र्यमात्मीयं द्रव्यरूपमसंभवीति स्वाश्रयायातं तद् व्यवस्थापनीयम् । तदेव च शब्दशक्‌त्यानुवर्तते ।। 5 ।।
तथा हि
स्वबुद्ध्या तमपोद्‌धृत्य लोकोऽप्यगममाश्रितः ।
स्वधर्मादन्यधर्मेण व्याचष्टे प्रतिपत्तये ।। 6 ।।
न केवलं वैशेषिको गुणस्य द्रव्यधर्मेण व्यवहारं वर्तयति यावद् द्रव्यादन्यो द्रव्ये समवेतो गुण इत्येवंभूतम् । वैशेषिकागममनुवर्तमानो लोकोऽपि तस्माद् द्रव्यादपोद्धारबुद्ध्या तं गुणं भिन्नं स्वतन्त्रं निश्चित्य द्रव्यधर्मेण संख्यावत्त्वादिना गुणधर्मविलक्षणेन परं प्रतिपादयति शब्दशक्तिमनुसृत्य । तद् यथा पटस्येदमेकं चित्रं रूपम् । तदभावपक्षे तु प्रत्यवयवमनेकं भिन्नरूपमेव रूपमित्यवयविनि बहूनि रूपाणि ।। 6 ।।
यदि वा शब्देन संसर्गिधर्माच्छुरितस्य वस्तुनोऽभिधाने द्रव्यगुणादयस्तत्र समाना इत्याह ।
परोपकारतत्त्वानां स्वातन्त्र्येणाभिधायकः ।
शब्दः सर्वपदार्थानां स्वधर्माद् विप्रकृष्यते ।। 7 ।।
परेणान्येन धर्मेणापक्रियमाणमवच्छिद्यमानं तत्त्वं स्वरूपं येषां ते परोपहितोपकाराः पदार्थाः शब्देनाभिधीयन्त इति व्यवहारे सर्वार्थानां द्रव्यगुणादीनामनुपाधि स्वरूपं न शब्देन स्पृश्यते । न हि संसर्गिधर्मविविक्ता निजेन शुद्धेन वास्तवेन रूपेण व्यवहारमवतरन्त्यार्थाः । तथा च द्रव्यवद् गुणोऽपि पटस्य रूपमिति स्वातन्त्र्येणाभिधीयमानः संसर्गिसंख्यादिकृतोपकार एवाभिधीयते । शब्दो हि न गुणानामेव, अपि तु द्रव्याणामप्यपरोपाधिकेन रूपेणोपलक्षितानां स्वधर्माद् वाचकत्वाद् दूरीभवति । सामान्याद्यसंसृष्टे तस्य सम्बन्धव्युत्पत्तेः कर्तुमशक्यत्वादिति सर्वत्र शब्दः परोपदर्शितविषय एव ।। 7 ।।
अर्थोऽपि परोपकाराहितविशेष एवेत्यत्र दृष्टान्तमाह ।
यथैवाविषयं ज्ञानं न किञ्चिदवभासते ।
तथा भावोऽप्यसंसृष्टो न कश्चिदुपलभ्यते ।। 8 ।।
ज्ञानं बोधमात्रस्वभावं नियमेन व्यवहारयोग्यं विषयपारतन्त्र्यात् तत्कृतोपरागविवेकेनाशक्यव्यवहारं यथा एवं ज्ञेयमपि संसृष्टधर्मोपरागरहितं वस्तुमात्ररूपतयापि ज्ञेयतामभिधेयतां च नासादयतीत्यत्र परोपकारतन्त्रमेवैतत् ।। 8 ।।
यद्येवमिदं सामान्यं भिन्नेष्वभिन्नाभिधानप्रत्ययनिमित्तम् , अयं विशेषो व्यावृत्तिप्रत्ययहेतुरित्येवं द्रव्यसंसर्गविविक्तः कथं व्यवहारः सामान्यादिषु अपरोपाधेस्तस्याभावादित्याशङ्क्याह ।
भेदेन तु समाख्यानं यल्लोकोऽप्यनुवर्तते ।
आगमाच्छास्त्रसदृशो व्यवहारः स वर्ण्यते ।। 9 ।।
सामान्यविशेषाभ्यां द्रव्येष्वभिन्नभिन्नप्रत्ययाविति निष्कृष्टस्वभावानामुपाधीनां नित्यपरतन्त्राणामपि भेदेन स्वतन्त्रतया प्रतिपादनं शास्त्रे तावदपोद्धाराश्रयेण युक्तम् । लोकोऽपि शास्त्रवासनया तदनुगच्छतीति वैशेषिकागमानुसारेण व्यवहारो लौकिकैः प्रतन्यते ।। 9 ।।
तथा च प्रसिद्धेरत्रापि संसर्गिधर्मपरिकल्पना न्याय्येत्याह ।
बुद्धौ स्थितेषु तेष्वेवमध्यारेणो न दुर्लभः ।
परधर्मस्य न ह्यत्र सदसत्त्वं प्रयोजकम् ।। 10 ।।
द्रव्यान्निष्कृष्यापोद्धारबुद्धयैवं भेदेन सामान्यादिषु समाख्याने परधर्मस्य स्वातन्त्र्याविषयस्योपाधिमत्त्वस्य अध्यारोपो न दुर्लभः, बुद्ध्या सर्वनामप्रत्यवमर्शयोज्यतापादनादुपाधिमद्रूपतायामुपाधिसंसर्गस्य न्याय्यत्वात् । अध्यारोपे च वास्तवे सत्त्वासत्त्वे न प्रयोजके येनोपाधिभूते वस्तुसति सामान्ये विशेषे च स्वातन्त्र्याभावात् कथमुपाधियोगोऽसन् कल्प्यत इति चोद्येत । अत्यन्ताविद्यमानेऽपि हि बहिरर्थे बुद्ध्या समावेशो दृश्यते समुद्रः कुण्डिकेति यथेति कथञ्चिद् बहिः सत्त्वे धर्ममात्रारोपो न विरुध्यते । अत एवासत्त्वमपि यावन्नाध्यारोपे उपयुज्यते । सतोऽप्यसत्त्वारोपादपुत्रोऽयमित्य(न?) तिशयख्यापनार्थमसत्त्वमप्यप्रयोजकमित्युक्तम् ।। 10 ।।
यतश्च स्वातन्त्र्येणाध्यारोपस्ततः--
सामान्येष्वपि सामान्यं विशेषेषु विशिष्टता ।
सङ्ख्यासु सङ्ख्या लिङ्गेषु लिङ्गमेवं प्रकल्पते ।। 11 ।।
गोत्वादिसामान्यभेदेषु बुद्ध्यावसितेषु अन्वयिरूपपरिकल्पनया सामान्यान्तरयोगो न विरुध्यते, द्रव्यायमाणानां बुद्ध्या निरूपणात् । एवं विशेषेषु तथाव बुद्ध्या द्रव्यायमाणेष्ववसितेषु विशेषो विशेष इत्यभिन्नाभिधानप्रत्ययहेतुः सामान्यं परस्परव्यावृत्तप्रत्ययहेतुश्च विशेषो युज्यते । द्रव्यवद् उपाधिमत्त्वेनावसायात् शतादिसंख्यायां च शतं शते शतानीत्यादिप्रातिपदिकेन द्रव्यायमाणायामभिधीयमानायामन्या सङ्ख्या द्रव्यधर्म एवारोप्यते । स्त्रीत्वादिषु च लिङ्गेषु तथैव द्रव्यायामाणेषु शब्देनाभिहितेषु द्रव्यधर्मलिङान्तरयोगः पुमान् पौंस्नं पुंस्तेति, गार्ग्यायणी कारीषगन्ध्येति च स्त्रीत्वेऽपि स्त्रीत्वाश्रयो द्वितीयस्त्रीप्रत्ययः । तथा च भाष्यकारः--
`भावोऽपि भावेन युज्यते, स्त्रीत्वं स्त्रीत्वेन' (M.Bha.II.p200,1.8,15)
इत्याह ।। 11 ।।
तदेवं प्रासङ्गिकमभिधाय प्रकृतं निगमयति ।
अतो द्रव्याश्रितां सङ्ख्यामाहुः संसर्गवादिनः ।
भेदाभेदव्यतीतेषु भेदाभेदविधायिनीम् ।। 12 ।।
यतो द्रव्यगतयैव सङ्ख्ययोक्तेन न्यायेन गुणादीनामपि तन्निमित्तो व्यवहारः सिध्यति, अतो धर्माणां संसर्गमेकत्र द्रव्ये येऽभ्युपयन्ति काणादास्ते द्रव्यसमवेतामेव सङ्ख्यां ब्रुवते,निरुपाधिषु भेदाभेदव्यतिक्रान्तेषु द्रव्येषु गुणादिषु च भेदाभेदप्रत्ययनिमित्तभूताम् । एकत्वसङ्ख्या अभेदप्रत्ययनिमित्तं द्वित्वादिका भेदप्रत्ययनिमित्तमित्यर्थः ।। 12 ।।
यदि तर्हि स्वयं भेदाभेदव्यतीताः पदार्थः कथं तेभ्योऽन्या सङ्ख्या तांस्तथा व्यवहारयेदित्यत आह ।
आत्मान्तराणां येनात्मा तद्रूप इव लक्ष्यते ।
अतद्रूपेण संसर्गात् सा निमित्तसरूपता ।। 13 ।।
इह परस्परविविक्ताः पदार्था द्रव्यादयो यथालक्षणं प्रमाणेन प्रतीताः । तत्र चान्येषामपि द्रव्याणाम् अतद्रूपेण गुणादीनां(दिना?) येन संसर्गात् समवायाख्यात् संबंधात् तद्रूप इव गुणादिरूप इवात्मा लक्ष्यते समवायेन भेदतिरोधानात्, सा आभासमात्रे परं निमित्तस्य गुणादेः सरूपता । तस्येव रूपं स्वभावोऽस्येति तत्स्वभावता, न तु परमार्थतः तत्स्वभावत्वमेव, यथायथं स्वप्रमाणतो भिन्नत्वावेदनादिति । परोपधानेन व्यवहारेऽपि न पदार्थाः सङ्कीर्यन्त इत्यर्थः ।। 13 ।।
कथं न सङ्कीर्यन्ते, यावता तथैव सर्वदैवैषामाबास इत्याशङ्क्य कार्यभेदाद् भेदमाह
संसृष्टेष्वपि निर्भागे भूतेष्वर्थक्रिया यथा ।
सत्त्वादिषु च मात्रासु सर्वास्वेवं प्रतीयते ।। 14 ।।
पृथिव्यादिषु भूतेषु अपृथग्भावेन संसर्गं प्राप्तेषु धृतिसङ्‌ग्रहपक्तिव्य्हावकाशदानलक्षणा अर्थक्रिया यथा प्रत्येकं भिन्नैव, सत्त्वरजस्तमोलक्षणेषु च सर्वभावगतेष्वपि निर्भक्तेषु प्रकाशप्रवृत्तिनियमलक्षणार्थक्रिया विलक्षणा तथा द्रव्यगुणकर्मसामान्यविशेषलक्षणास्वपि मात्रासु अन्योन्यसाहचर्येणापि निर्भक्तासु वस्तुभागरूपास्ववस्थितासु भिन्ना एवार्थक्रिया । तथा हि द्रव्यं गुणानामाश्रयभावेनार्थक्रियाकारि । गुणास्तु द्रव्ये स्वरूपसमर्पणेन यथायथमुपयोगिनः । एवं शेषेष्वपि यथायोगं वाच्यमिति निमित्तनिमित्तिनोरर्थक्रियाभेदाद् भेदसिद्धिः स्वरूपसम्भेदेऽपि ।
इदानीं संख्या स्वरूपेण परीक्ष्यते । तत्र द्वित्वदिका संख्या किमेकत्वादन्या, नान्या वा । अन्यत्वे द्वित्वादीनामेकत्वापेक्षोत्पत्तिर्न स्यात् । अनन्यत्वेऽपि तु भेदो निर्निबन्धन इत्यत आह ।
द्वित्वादियोनिरेकत्वं भेदास्तत्पूर्वका यतः ।
विना तेन न सङ्ख्यानामन्यासामस्ति सम्भवः ।। 15 ।।
तेन एकत्वेन विना अन्यासाम् द्वित्वादीनां संख्यानां यतः सम्भवः उत्पत्तिः नास्ति, अतो द्वित्वादीनाम् एकत्वं योनिः कारणमिति तदपेक्ष्य द्वित्वाद्युत्पत्तिः, न तु तदभिन्ना द्वित्वादिकाः सङ्ख्याः कथं तेन विनान्यासामसम्भव इत्यत्र युक्तिः भेदास्तत्पूर्वका यतः इति । अभेदपूर्वका भेदा इति सहजमेकत्वं भावानामाद्यम् । द्वित्वादयस्तु तत्पूर्वकाः पदार्थान्तरसंन्निधौ जायन्त इति दृष्टम् ।। 15 ।।
एकत्वे बुद्धिसहिते निमित्तं द्वित्वजन्मनि ।
एकत्वाभ्यां समुत्पन्नमेवं वा तत् प्रतीयते ।। 16 ।।
प्रथममिन्द्रियसंयुक्तयोर्द्वव्ययोर्ये एकत्वे समवेते तदाश्रितं यत् सामान्यं तत् संयुक्तसमवेतसमवायादिन्द्रियार्थसन्निकर्षात् प्रतीयते । अतस्तद्विशेषणावच्छिन्नयोरेकत्वगुणयोर्ज्ञानं, तदपेक्षे ते एकत्वे स्वाश्रयपदव्यसमवेतं द्वित्वं जनयतः । द्रव्यद्वयं हि द्वित्वस्य समवायिकारणम्, एकत्वगुणावसमवायिकारणम्, कार्यैकार्थसमवायलक्षणया लघ्व्या प्रत्यासत्त्या । अपेक्षाबुद्धिर्निमित्तकारणम्, न ह्यपश्यत एकत्वे द्वित्वबुद्धिरित्यन्वयव्यतिरेकाभ्यां बुद्धेः कारणत्वनिश्चयः । समवायित्वं च द्रव्यस्यैव, प्रत्यासत्त्यभावाच्चासमवायित्वमपि नास्तीति निमित्तकारणं बुद्धिरवस्थाप्यते । समवाय्यसमवायिव्यतिरिक्तं हि कारणं सामान्यसमाख्यया निमित्तमित्युच्यते । तदेवं कारणत्रितयाज्जाते द्वित्वे प्रथमं तत्सामान्यज्ञानं ततस्तद्गुणज्ञानं ततस्तद्विशिष्टं द्वे द्रव्ये इति ज्ञानमिति काणादनयः ।
"नागृहीतविशेषणा हि विशेष्यबुद्धिः"
इति तेषामाम्नायः । अन्येत्वेकत्वबुद्ध्योर्द्वित्वपरिच्छेद एवान्वयव्यतिरेकाभ्यां व्यापारवधारणादेकत्वे बुद्धिनिरपेक्षे एव द्वित्वं जनयतः । तथा च जातमेकत्वबुद्धिपूर्वकं गृह्यत इति मन्यन्ते । प्रक्रियाभेदोऽत्र ग्रन्थगौरवभयान्न प्रदर्श्यते । प्रथमकाण्ड एव तु कथितः ।। 16 ।।
द्वित्वस्य रूपेऽपि मतभेद इत्याह ।
एकत्वसमुदायो वा सापेक्षे वा पृथक् पृथक् ।
एकत्वे द्वित्वमित्येवं तयोर्द्विवचनं भवेत् ।। 17 ।।
एकत्वाभ्यां नापूर्वं द्वित्वं जन्यते । अपि तु तयो समुदायो वनयूथादिवदवयवाभिन्नो द्वित्वम् । तथा चावयवाश्रयस्तत्र भिन्नाकरावभासः, सङ्‌घाश्रयश्चैकाकारावभासः प्रत्यय उपपद्यते । वृक्षसमुदायश्च यथा वनमित्यनेन विलक्षणेन शब्देनोच्यते तथैकत्व समुदायोऽपि द्वित्वमिति । एवं समुदायप्रधान्यम् । यदा त्ववयवप्राधान्यविवक्षा, तदा एकत्वे एव परस्परापेक्षे द्वित्वमिति व्यवह्रियते, नातोऽन्यः कश्चित् गुण इत्येतद्दर्शनद्वयमव्यतिरेकपक्षे । अत्र च पक्षे तयोः एकत्वयोः द्विवचनं भवेद् अवयवप्राधान्यात् । एकवचनं त्वेकाकारावभासपूर्वकं द्वित्वमिति दृश्यते इति नैष पक्षो न्याय्य इत्यर्थः । तथा हि
द्वयेकयोः......(P.1.4.22.)
इति द्विवचनं द्वित्वे विधीयमानं द्वित्वस्यैकत्वाभ्यामव्यतिरेकादेकत्वयोरेव तत् स्यात् । तथा च द्वयेकयोरित्येकत्वत्रयस्य द्वन्द्वविषयत्वात् बहुवचनं स्यादिति भावः । तस्मादेकाकारावभासप्रत्ययविषयमेकत्वाभ्यां जनितमन्यदेव द्वित्वमित्येव न्याय्यम् । एवं त्रित्वादयोऽपि दशसंख्यापर्यवसाना वेदितव्याः । विंशत्वादिसंख्यायां तु विचारो भविष्यति ।। 17 ।।
नन्वेवं द्वित्वबहुत्वसंख्याभेदस्यैकत्वात् कथं द्वयोद्विर्वचनं बहुषु बहुवचनमिति व्यवहार इत्यत आह ।
एकोऽपि गुणभेदेन सङ्घो भेद प्रकल्पयेत् ।
आश्रयाश्रयिभेदो हि तदाश्रयनिबन्धनः ।। 18 ।।
द्वित्वबहुत्वादिलक्षणस्सङ्घः समुपजातो व्यतिरिक्तः कल्पितो वेति द्वैतम् । तत्रोत्पत्तिपक्षे जन्यपरवशत्वाज्जनकाः गुणाः । कल्पितपक्षे त्ववयवाः समुदायपारतन्त्र्याद् गुणाः । तेषां भेदेन द्वित्वबहुत्वादेर्भेदः स्वात्मना एकस्यापि । तथा च द्वयोर्बहुष्विति च व्यवहारोपपत्तिः । यस्मादाधाराधेययोर्यो भेदो भेदव्यवहारः स तदाश्रयेण सम्बन्धेन हेतुना भवति । तथा ह्याश्रितस्य भेदेन क्वचिदाश्रयस्य भेदे व्यवह्रियते । तद् यथा पाटवस्य भेदेनैकोऽप्यर्थात्मा परुद्भवानपटुरासीत्, पटुतरश्चैषमोऽन्य एवासि संवृत्तः' इति भिन्नो व्यवह्रियते । तथेहैकत्वाना जनकत्वेनाश्रीयमाणत्वादाश्रयाणां भेदे तदाश्रितं तज्जन्यं बहुत्वादि भेदेन व्यवह्रियत इत्यर्थः ।
द्वयेकयोः (P.1.45.2.)
इत्यत्र तु द्वित्वं स्वगतेनैवाभेदेन निर्दिश्यते ।। 18 ।।
तदेवं दशसंख्यापर्यवसाना सङ्ख्या विचारिता । इदानीं विशत्यादिः सङ्ख्याभेदो विचार्यते । तत्र चोत्पत्तिरेकत्वैरेवापेक्षाबुद्धिसहितैरिति समानं पूर्वेण । किन्तु तदभिधायी शब्दः सङ्ख्यासङ्येयोभयवचनो दृश्यते, गवां विंशतिः, विंशतिर्गाव इत्यादिः । तत्र यदि प्रकृतमर्थनिर्देशमनपेक्ष्य द्वौ दशतौ विंशतिरिति स्वार्थे निपातनं वर्ण्यते तदा विंशतिगवं त्रिंशत्पूलीति समासो न स्यात् । द्वौ हि दशद्वर्गौ विंशतिः, त्रयो दशद्वर्गास्रिंशदिति संख्येयेन सामानाधिकरण्याभावः एकवचनं च न स्यात्, विंशतिः, त्रयो दशद्वर्गास्रिंशदिति संख्येयेन सामानाधिकरण्याभावः एकवचनं च न स्यात्, विंशतिः, यथायथं वर्गभेदनिबन्धनस्य वचनभेदस्य प्रसङ्गात् । तदुक्तं वार्त्तिके--
`विंशत्यादयो दशदर्थे चेत् समासवचनानुपपत्तिः'
(Va.1.onP.5.1.59.M.Bha.II.p.355.1.7.)
इति । दशद्वर्गद्वयाभिधायिनो द्विशब्दात् स्वार्ते शतिच्‌प्रत्ययो द्विशब्दस्य च विनुभाव इतीष्टः समासो वचनं च न स्यात् । गवां विंशतिर्गोविंशरिति समासो भवत्येव । `क्रोशशतयोजनशतयोः' इत्यादिज्ञापकाच्चात्र गुणेन नेति निषेधो न भवति । यदि वा गुणात्मन्यवस्थितत्वाद् विंशत्यादीनां
तत्स्थैश्च गुणैः (Va.2.onP.2.2.8.)
इति प्रतिप्रसवः समासस्य
गुणेन न (cf.P.2.2.11.)
इति निषिद्धस्य । अथ सङ्घ इत्यनुवृत्तेः परिमाणोपाधिकात् परिमाणिनि सङ्घे प्रत्ययो द्वौ दशतौ परिमाणस्य सङ्घस्य विंशतिः सङ्घ इति तदा सङ्घस्यैकत्वादेकवचनं सिद्ध्यति समासानुपपत्तिस्तु तदवस्था । विंशतिर्गोसंङ्घ इति चानिष्टं स्यात् । विंशको गोसङ्घ इति हीष्यते । तथा च वार्त्तिकम् ।
`परिमाणिनि चेत् पुनः स्वार्थे प्रत्ययविधानम् (Va.2onP.5.1.59,M.Bha.II.p.335.1.14.)
इति । द्वौ दशतौ परिमाणं यस्य स गोसङ्घो विंशतिरित्यभिधीयते । तत्र विंशतिः परिमाणं यस्य सङ्घस्येति सङघान्तरस्य परिमाणिनोऽसम्भवाद् विंशकः संङ्घ इति सिद्ध्ये
`विंशतित्रिंशद्‌भ्यां ड्वुनसंज्ञायाम्' (P.5.1.24.)
इति ड्वनुप्रत्ययः स्वार्थे वक्तव्य इत्यर्थः । तथा
`षष्ठीवचनविधिश्च' (Va.3.onP.5.1.59.M.Bha.II.p.355,1.16.)
इत्युक्तम् । इह सङ्घे परिमाणिनि विंशत्यादीनां केवलानां प्रयोगो नेष्यते, भिन्नेषु तु द्रव्येषु परिमाणिषु प्रत्ययोत्पत्तावाश्रीयमाणायां विंशतिशब्देन द्रव्याणामभिधानाद् व्यतिरेकाभावाद् गवां विंशतिरिति षष्ठी न प्राप्नोति । द्रव्यसामानाधिकरण्याद् बहुवचनप्रसङ्गश्च । तदेवं व्युत्पत्तिपक्षे दूषणान्यभिधायाव्युत्पत्तिपक्षं निर्दोषमाश्रित्यारम्भः प्रत्याख्यातव्यः
`अनारम्भो वा प्रातिपदिकविज्ञानाद् यथा सहस्रादिषु'
(Va.4.onP.5.1.59,M.Bha.II,p.355 1.20)
इति । वाशब्दस्तर्ह्यर्थे सहस्रादिवदव्यत्पुन्ना एव विंशत्यादयः
अर्थवदधातुः......(P.1.2.45.)
इति प्रतिलब्धप्रातिपदिकसंज्ञा अर्थवत्सूत्रेणानुज्ञातसाधिमानः सङ्ख्यायां सङ्ख्येये च प्रयोगभेदेनाक्षादिवजनेकार्थतया स्वभावतो वर्तमाना रूढशब्दत्वाच्च नित्यलिङ्गसंख्या यथा आपो दारा इत्यर्थः । एवं वार्त्तिककारेणावस्थापिते भाष्यकारो व्युत्पत्तिपक्षं समर्थयते संघे परिमाणिनि प्रत्ययो निपात्यते । सङ्घश्च समुदायोऽत्र सामान्येन गृह्यते, न तु प्राणिसमूह एव । तेन वृक्षाणां विंशतिरित्यपि भवति । तत्र स्वार्थे प्रत्ययविधानस्य परिहारभाष्यम्--
"संहनने वृत्तः संहनने वर्तिष्यते"(M.Bha.II.p.356,1.12.)
इति ।
एतद् व्याचष्टे ।
सङ्ख्येयसङ्घसङ्ख्यानसङ्घः सङ्ख्येति कथ्यते ।
विंशत्यादिषु सान्यस्य द्रव्यसङ्घस्य भेदिका ।। 19 ।।
अयमर्थः । गवादीनां सङ्ख्येयानामेकः सङ्घो द्रव्यसङ्घ इत्युच्यते । तयोर्द्वयोर्द्रव्यसङ्घयोर्दशतोः सङ्घोऽयं विंशतिशब्दो निपात्यते । स च सङ्ख्यानसङ्घ इत्युच्यते दशद्वर्गयोः सङ्ख्यानयो समुदायः । स च विशंतिशब्दवाच्य इति । सा विंशतिशब्दवाच्या सङ्ख्या अन्यस्य गवादिद्रव्यसङ्घस्य भेदिका परिमाणोपाधिर्विशेषणमिति । तस्मात् संख्यानसङ्घवचनाद् विंशतिशब्दाद् गवादिसङ्घे परिमाणिनि ड्वुन्‌प्रत्ययो भवति विंशको गोसङ्घ इत्यादि । तथा च दशतोः संहनने सङ्घे वृत्तो विंशतिशब्दो गवादिद्रव्यसंघे परिमाणिनि वर्तिष्यते परार्थाभिवानं वृत्तिरिति प्रत्ययमुत्पादयिष्यतीति भाष्यार्थः । द्रव्याणां द्रव्यसङ्घस्य दशतां दशतुसङ्घस्य च पारमार्थिको भेदो नास्ति, केवलं बुद्ध्यासौ परिकल्प्यते । बुद्धिव्यवस्थापितार्थनिबन्धनाश्च शब्दा बुद्धिमेवार्थाकारामुपजनयन्तोऽसत्यपि वास्तवे भेदे भेदमवगमयन्ति । निपातनसामर्थ्याच्च विशिष्टे दाशते सङ्गे वर्तन्तेऽमी शब्दाः । तथा चोक्तं गुरुभिः ।
द्वेर्विनः परिमाणाख्याद् दशदर्थात् गुरुभिः ।
शतिजस्येति सङ्घाते दाशते तु निपातनात् ।।
इति । अस्यार्थः । द्वेरिति द्विशब्दात् । विन इति विन्भाविनो विन्‌शब्दादेशादित्यर्थः । स्थान्यादेशयोर्ह्यभेदविवक्षा द्विशब्द एव विन्‌शब्द उक्तः । परिमाणख्यादिति परिमाणोपाधिकात् । सङ्ख्याशब्दो हि सङ्ख्येयाभिधायी न परिमाणाभिधायी, परिमाणोपाधिकास्तु भवत्येव । यद्वाक्यं
`द्वौ दशतौ परिमाणमस्य'
इति । दशदर्थादिति दशद्वर्गसंख्येयवृत्तेरित्यर्थः । तदिति प्रथमासमर्थाच्छतिच्‌प्रत्ययो भवत्यस्येति परिमाणवत्यभिधेये सङ्घाते । गवां संघस्य दाशतस्य च सङ्घस्य परिणामित्वाविशेषे दाशत एव सङ्घे प्रत्ययो निपातनसामर्थ्यात्, न गोसङ्घे, नापि गोषु । तथा च धर्ममात्रवचनाः शुक्लादिवद् गुणिसमानाधिकरणाः कदाचित् प्रयुज्यन्ते अभेदोपचाराद् विंशतिर्गावः कुण्डानि ब्राह्मणा इति वा । आविष्टलिङ्गसंख्यात्वाच्चान्यलिङ्गसंख्येऽपि सङ्येये सामानाधिकरण्याविरोधः समासश्चोपपन्नः । अत एव विंशतिगवं त्रिंशत्पूलीति । विंशतिसङ्ख्या हि समुदितद्रव्यसमवायिनी, न तु प्रत्येकं शुक्लादिवत् परिसमाप्तेति द्रव्यगतलिङ्गसङ्ख्ये नानुवर्तते । पञ्चादयस्तु नित्यं सङ्ख्येयवचना इति तद्गतलिङ्गसङ्ख्यानुविधायिनो युक्ताः । यदा तु गुणगुणिनोर्भेदेन व्यवहारस्तदा षष्ठी सिद्धा, गवां विंशतिरिति । ननु च दाशतः सङ्घो विंशतिशब्दावाच्यस्तस्य च सङ्येयो गुणी गवादिर्न भवति । दशतौ हि तस्य गुणिनौ, तत् कथं गोभिः स विशेष्यते । उच्यते । गवां दशतोश्च तात्त्विकभेदाभावाद् गावोऽपि गुणिनः । तत्र दशता व्यभिचाराभावाद् विंशतिर्न विशेष्यते, दशतोर्विंशतिरिति । न हि भवति कृष्णस्य कार्ष्ण्यमिति, अपि तु काकस्य कार्ष्ण्यमिति । एवं व्यभिचाराद् गोभिर्विशेष्यतेऽश्वादिव्यावृत्तये विंशतिसंख्या गवां विंशतिरिति । दाशतसङ्घरूपायाश्च विंशतेः पारम्पर्येण गावः संबन्धिन्यो भवन्त्येव । भावानयने द्रव्यानयनाच्च गोविंशतिमानयेत्युक्ते गाव आनीयन्ते । तदेवं व्युत्पत्तिपक्षः समर्थितः । सहृस्रादयस्तु पृषोदरादित्त्वादनुज्ञातसाधिमानः । अनयैव वा दिशा तेऽपि व्युत्पाद्याः ।। 19 ।।
उपलक्षणत्वाद् विंशत्यादीनाम् एकविंशतिरेकत्रिंशदित्यादयोऽपि संख्याशब्दाः एव । न ह्यत्रावयवौ संख्यावचनौ, न समुदायः । यतः
एकविंशतिसंख्यायां संख्यान्तरसरूपयोः ।
एकस्यां बुद्ध्यनावृत्त्या भागयोरिव कल्पना ।। 20 ।।
"एकादीनां दशादिभिर्द्वन्द्व इति चेद् विंशत्यादिषु वचनप्रसङ्गः"(Va.16.on.P2.2.29.M.Bha.I.p.434,1.17.)
इति चोदयित्वा
"सिद्धं त्वधिकान्ता सङ्ख्या समानाधिकरणाधिकारे अधिकलोपश्च"(Va.17.onP.2.2.29.M.Bha.I.p.434,1.17.)
इत्येकेनाधिका विंशतिरेकविंशतिरिति वार्त्तिके तत्पुरुषवृत्तिमुक्तां स्वरदोषादुपेक्ष्य एकश्च विंशतिश्चेत्येकविंशतिरित्येव भाष्येऽन्वाख्यानमङ्गीकृतम् । तथा चावयवौ संख्या स्यान्न समुदाय इति वचनप्रसङ्गपरिहाराय कथ्यते । अवयवार्थपरिकल्पनया व्युत्पत्तिमात्रमिदं क्रियते, न त्वत्रावयव एकसंख्या विंशतिसंख्या वा । परमार्थतो नरसिंहवन्निरस्तावयवविभागा ह्यन्यैवेयं संख्या भिन्नबुद्धिग्राह्या । न हि प्रत्यवयवमावर्ततेऽत्र बुद्धिः, संख्यान्तरस्यैवाभेदेन परिच्छेदात् । उपायपरिकल्पना तु विलक्षणा । कश्चित् किल नव द्वादशेति सङ्कलय्य एकविंशतिरित्यवैति । अन्यो दश चैकादश चेत्यादि । अन्यः पुनरेकश्च विंशतिश्चेति । अन्वाख्यानाय भागयोरिव परमार्थत एकस्याम् अस्यां संख्यायामियं कल्पना । यथा जातिविशेषप्रतिपत्त्यर्थं नर इति सिंह इति चांशापोद्धारः । न ह्यंशयोरत्र बुद्धिरावर्तते, अखण्डत्वात् ।। 20 ।।
भवतु संख्याद्वयारब्धेयं संख्या, किं निरस्तावयवविभागया अन्यया संख्ययेत्याशङ्क्य शास्त्रकार्यानुपपत्तिप्रसङ्गेनैतन्निवारयितुमाह ।
असंख्यासमुदायत्वात् संख्याकार्यं विधीयते ।
समूहत्वे तु तन्न स्यात् स्वाङ्गादिसमुदायवत् ।। 21 ।।
निरस्तावयवविभागा सरूपावयवाखण्डश्रुतिगोचरा दशादिवदन्यैव यतो भवतीयं संख्या. ततः संख्यायां विहितकार्यं प्रवर्तते । एकविंशतिरधिकास्मिन् शते एकविंशं शतम् । एवमेकत्रिंशम् ।
`शदन्तविंशतेश्च' (P.5.2.46.)
इति डः । तत्रं हि
"शद्‌ग्रहणेऽन्तग्रहणं प्रत्ययग्रहणे यस्मात् स तदादेरधिकार्थम्' (Va.I.onP.5.2.46,M.Bha.II,p.381,1.8.)
इत्युक्‌त्वातिप्रसङ्गनिवारणाय
`सङ्ख्याग्रहणं च' (Va.2.on.P.5.2.46,M.Bha,IIp.381,1.12.)
इत्युक्तम् । तथा च शदन्तो विंशत्यन्तश्च संख्यावाची गृह्यते, न तु गोत्रिंशद् गोविंशतिरित्यादि । एकविंशतितयमिति च संख्याकार्यमवयविनि तयप् । एकविंशतितममेकविंशमिति च पूरणे डट् । तत्र च
`विंशत्यादिभ्यस्तमडन्यतरस्याम्' (P.5.2.56.)
इति तमट् । एकविंशतिकृत्व इति
"संख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुच्"।(P.5.4.17.)
एकविंशतिमयम्[द्विमयम्] उदश्वद्यवानामिति
"संख्याया गुणस्य निमाने......"(P.5.1.22.)
इति निमाने वर्तमानात् संख्याशब्दान्निमेये मयट् । एकविंशतिक इति परिमाणिनि
"संख्याया अतिशदन्तायाः"(P.5.1.22.)
इति कन् । त्यन्तप्रतिषेधोऽत्र(न?) भवत्यर्थवतस्तत्र तिशब्दस्य ग्रहणात् । अदिकैकविंशा इति च
`संख्ययाव्ययासन्न....' (P.2.2.25)
इति बहुव्रीहिरपि संख्याकार्यम् । अवयवसंख्याद्वयमय्यां त्वस्यां समूहरूपायामेकविंशतिसंख्यायां संख्याकार्यं न स्यात् । तद् यथा-पाणिपादेन स्वाङ्गसमुदायेन भिन्नकार्यस्य स्वाङ्गान्तरस्यानारम्भात् स्वाङ्गसमुदायो न स्वाङ्गमिति कल्याणपाणिपादेति
`स्वाङ्गात्.......'(झ.4.1.54.)
ति ङीष् न भवति । तथा जनपदाभ्यां जनपदान्तरस्यानारम्भाज्जनपदसमुदायो जनपदग्रहणेन न गृह्यत इति जनपदलक्षणो वुञत्र न भवति । काशिकोसलीय इति भवार्थे
`वृद्धाच्छः'(P.4.1.114.)
एव भवति । एवमत्र संख्याभ्यां संख्यान्तरस्य भिन्नव्यपदेशस्य विलक्षणस्यानारम्भात् तत्समूहमात्ररूपत्वे संख्याकार्याभाव इति संख्यान्तरम् । एकविंशतिसंख्या च यथाकथंचिदवयवपरिकल्पनया व्युत्पाद्येतेति द्विवचनप्रसङ्गाभावः ।। 21 ।।
इह कथं संख्यया समासः द्विदशा त्रिदशा इत्यादौ । दशसंख्यया हि द्व्यादिसंख्या सम्बध्यमाना किं सञ्चष्ट इत्याह ।
संख्येयान्तरतन्त्रासु या संख्यासु प्रवर्तते ।
आवृत्तिवर्गसंख्येया तां संख्यां तादृशीं विदुः ।। 22 ।।
द्विर्दश द्विदशा इति
`संख्ययाव्ययासन्न.....' (P.2.2.25.)
इत्यादिना बहुव्रीहिरयं समासः । तत्र च संख्येयान्तरं द्व्यादिसंख्याविषयात् संख्येयाद् अन्यत् संख्येयं परिच्छेद्यं तन्त्रं प्रधानं यासां दशादिसंख्यानां तासु संख्येयप्रधानासु दशादिसंख्यासु यान्या द्वित्वादिका संख्या प्रवर्तते संबन्धमनुभवति समासार्थं तस्या दशादिसंख्यावृत्तिः पुनः पुनः प्रवृत्तिः दशादिसंख्यापरिच्छेद्यो वा वर्गो दशावयवसमूहः संख्येयः परिच्छेद्य इति तां द्वित्वादिकां संख्यां तादृशीम् ावृत्तिवर्गसंख्येयप्रधानां विदुः जानन्ति शाब्दिकाः किल । संख्या अस्या न परिच्छेद्याँ । सा हि दशसु संख्येयेषु गुणभूतेति न द्वित्वेन योगं भजते । अत एव संख्येयान्तरतन्त्रासु इत्यनेनासंबन्धे हेतुरुक्तः । दशसंख्यासंक्येयेनापि विरोधाद् द्वित्वं न संबध्यते । न हि दश द्वाविति युज्यते । तस्माद् दशसंख्याया आवृत्तिर्द्वित्वपरिच्छेद्या । द्वौ वारौ हीयं दशसंख्या द्विर्दश इति । अत एवाभ्यावृत्तिविषयः सुच्‌प्रत्ययो वाक्ये । दशावयवो वर्गः परिच्छेद्यो द्वौ दशतावित्यस्ति समन्वयः ।। 22 ।।
श्रुतैव दशसंख्या तत्संख्येया वा दश कथं द्वित्वसंख्यया न परिच्छेद्या इत्याशङ्क्य व्याख्यातामेव युक्तिमुपन्यस्यति ।
न संख्यायां न संख्येये द्वौ दशेत्यस्ति सम्भवः ।
भेदाभावान्न संख्यायां विरोधान्न तदाश्रये ।। 23 ।।
दशसंख्या तावत् संख्येयोपसर्जनत्वान्नार्हति द्वित्वसंख्यासंबन्धमत्रेत्युक्तम् । उपसर्जनत्वेऽपि च बुद्ध्या प्रत्यवमृश्य सम्बन्धे प्रधानेन संख्येयेन योगो भवेद्, यद्युपसर्जनमर्हेत् संबन्धम् । यावता दशसंख्याया एकत्वात् द्वित्वेनासंबन्धः तत्संख्येय अपि दश विरोधाद् द्वित्वेन नावच्छिद्यन्ते । न हि दश द्वौ भवतीत्युक्तमेव । उत्तरा हि संख्या पूर्वसंख्याकृतं व्यपदेशं बाधते ।। 23 ।।
तस्मात्
संख्यायेते दशद्वर्गौ द्विदशा इति संख्यया ।
तद्रूपे वापि संख्येये आवृत्तिः परिगण्यते ।। 24 ।।
दशसंख्यापरिच्छिन्न एको वर्गस्तादृशमपरमाख्यातुं द्वित्वमुपादीयते । तेन द्वयोर्दशगद्वर्गयोर्द्वित्वमत्रावेद्यते । द्वौ दशतौ द्विदशाः । संबन्धान्यथानुपपत्त्या दशशब्दोऽत्र वृत्तिविषये दशद्वर्गे वर्तते । वर्गश्च वर्ग्यभेदापन्नो विवक्ष्यत इत्यवयवगतभेदाश्रयं बहुवचनम् । वर्गवाची चात्र डतिप्रत्ययो वृत्तौ अत एव दशदिति न प्रयुज्यते, वर्गिप्राधान्यात् । तद्रूपे दशसंख्य एव संख्येये सति दशसंख्याया आवृत्तिः पुनः पुनः प्रवृत्तिर्वा गण्यते द्वित्वेन । द्वौ वारौ द्विः, द्विर्दश द्विदशाः । दशशब्दोऽत्र संख्येयमेवाचष्टे । गुणभूतसंख्याद्वारेण तु द्वित्वेन युज्यन्ते दश संख्येयाः । दशसंख्या तु गुणभूतावृत्तिद्वारेण द्वित्वसंख्यायोगमनुभवति । दशसु संख्येयेषु हि दशत्वमावर्तमानं द्वित्वेन परिच्छिद्यते । तथा च संबन्धिसंबधात् संख्येयेषु हि दशस्वपि द्वित्वमन्वयीति तदाश्रयं बहुवचनं भवति । आवृत्तिगणनविषयस्य च सुचः समासेन गतार्थत्वात् प्रयोगो न भविष्यति । तदुक्तं वार्त्तिके---
`सुजभावोऽबिहितार्थत्वात् समासे' (Va.3.onP.2.3.25.M.Bha.I.p.427,1.23.)
इति । गतमेतत् ।। 24 ।।
`संख्याया अवयवे तयप्'(P.5.2.42)
इत्यत्र
"इह कस्मान्न भवति । बहवोऽवयवा अस्याः संख्यात इति"
(M.Bha.II.p.379 1.17.)
इति भाष्ये चोदितेऽभिहितम् ।
"अवयवे या संख्या तस्याः प्रत्यय उच्यते । न च काचित् संख्या अवयविन्यस्ति, यस्या बहुशब्दोऽवयवः स्याद् । " (M.Bha.II.p.3 79.1.17-18.)
इति । अयमर्थः ।
"अवयविधानेऽवयविनि प्रत्ययः"(M.Bha.II.p.379,1.20)
इत्युक्तम् । न च संख्याशब्दवाच्या काचिद् विशिष्टावयविनी संख्यास्ति । ननु च कथं नास्ति यावता प्रयुज्यत एव वाक्यम्-`बहवोऽवयवा अस्याः संख्यायाः' इत्याह
`ननु चेयमस्ति संख्येत्येव' (M.Bha.IIp.379 1.18)
इति भाष्यम् । अस्योत्तरम् ।
नैषा संख्या । किं तर्हि । संज्ञैषा । (M.Bha.II.p.379,1.19.)
इति । एकत्वादिसंख्याविशेषाणामविशिष्टा संज्ञा नामधेयमेतत् संख्येति, न त्वस्य वाच्यः कश्चिदवयवी । ततश्च संख्यासामान्यनिवेशिनीयं प्रतिभेदमनुवर्तते संज्ञा । न च सामान्यविशेषयोरवयवावयविभावः । कल्पितत्वेऽपि चावयविनः कार्यभेदो रूपभेदः समाख्याभेदश्च भिद्यते । तद्यता वनादेर्विविक्तवृक्षकार्याद्धि समुदितवनकार्यमन्यत् । अत एव रूपभेदः । समाख्या च वृक्षा वनमिति भिन्ना । इह तु परिच्छेदलक्षणं कार्यमेकत्वादिव्यतिरिक्तं संख्याया नास्ति । किञ्चिद्रूपमपि न विविक्तमेकादिव्यतिरिक्तमवधार्यते शुक्लादिव्यतिरेकेणेव रूपस्य । समाख्या त्वर्थाभावादेव न भिन्ना । अपि तु विशेषविषयसामान्यगोचरेयं संज्ञा संख्येति । बहुत्वमपि चैवं त्रित्वादीनां सामान्यमिति बहवोऽवयया अस्यां विंशतौ त्रिंशति वेत्यप्यवयवावयविभावेन योगो न भवति । अपि तु सामान्यविशेषभावेनैव । तथा च यथा बहुतयं रूपमिति शक्लादिव्यतिरेकेण कूपावयविनोऽभावान्न भवति, तथा बहुतयी विंशतिः त्रिंशदित्यपि न भवति । न हि परिच्छिन्नरूपाया विंशत्यादिसंख्यायाः सामान्यरूपमनवधारितविशेषं बहुत्वमुपपद्यते विशेषणम् । तदेतद् भाष्योपक्षिप्तमनुवदति--
संख्या नाम न संख्यास्ति संज्ञैषेति यथोच्यते ।
रूपं न रूपमप्येवं संज्ञा सा हि सितादिषु ।। 25 ।।
सितपीतनीलादिवर्णव्यतिरेकेण यथा विलक्षणकार्यस्वभावं रूपं नाम वर्णान्तरं नास्ति, सितादीनां रूपसामान्यनिमित्ता तु संज्ञा रूपमित्येषा, तथैकत्वादिसंख्याभेदव्यतिरेकेण संख्या नाम अवयविनी न विद्यतेऽन्या । समाख्यामात्रमेषां सर्वेषां सामान्यभूतमित्युक्तोऽर्थः ।। 25 ।।
सामान्यसमाख्यात्वमेवोपपादयति ।
संख्यानजातियोगात् तु संख्या संख्येति कथ्यते ।
रूपत्वजातियोगाच्च रूपे रूपमिति स्मृतम् ।। 26 ।।
जातिनिमित्तोऽयमुभयरूपोऽपि व्यपदेशो भाष्यकारेण स्मृतो न व्यतिरिक्तार्थनिबन्धन इति बहुतयी संख्या बहुतयं रूपमिति प्रयोगाभावः । न तर्हि भवति बहुतयं चित्ररूपमिति ?। भवति, चित्ररूपस्यावयविन एकत्वान्नीलाद्यवयवयोगोपपत्तेः । एकं चित्रं चेति, चित्रतरमिति चेति भेदसंविदावेदिततत्त्वाः पदार्थाः प्रत्याख्यातुमशक्या एवावयविसामान्यादय इत्यद्वयसिद्धावस्माभिर्विचारितम् । ग्रन्थगौरवभयान्नेह प्रतन्यते । तत् तत एव अवधार्यम् । तथा च चित्रमिति रूपमेकावयविसमवेतमित्यवयवबहुत्वेनावच्छेदमर्हत्येव । किञ्चित् किल चित्रं पीतनीलारब्धं द्वयवयवम्, किञ्चित् पुनः सितरक्तपीतादिबहुविधावयवारब्धमित्यस्ति साफल्यं विशेषणस्य । गतभेदः ।। 26 ।।
संख्याविषयमन्यद् विचार्यते । इह
`बहुषु बहुवचनम्' (P.1.4.21.)
इत्यादिना संख्या विभक्तिवाच्या विहिता । तत्र स्वशब्देनाभिहितायामस्यामेकादिभ्यो वचनग्रहणात् प्रथमा लभ्येत । द्वित्वादयस्तु कथम् । तथाहि-कर्मादिष्वपि विभक्‌त्त्यर्थेष्ववस्यमेकत्वादयो निमित्तत्त्वेनापादेया इत्युक्तत्वात् कर्मणि यदेकत्वमेकत्वाद्यवच्छिन्ने वा कर्मणीत्याश्रयणादनभिहितकर्माद्याश्रयेष्वेकत्वादिषु विभक्तय इत्यभिहिविषये तदभावादेकं द्वौ बहूनीत्यादिकं कथमित्याशंक्याह ।
निमित्तमेकमित्यत्र विभक्त्या नाभिधीयते ।
तद्वतस्तु यदेकत्वं विभक्तिस्तत्र वर्तते ।। 27 ।।
प्रथमासाधारणमिदं प्रतिसमाधानम् । तथाहि-प्रातिपदिकार्थसमवेतायां संख्यायां प्रातिपदिकार्थे वा संख्यासंबन्धिनि पक्षान्तराश्रयेण वा प्रथमायां विधीयमानायामेकादिशब्दस्य प्रवृत्तिनिमित्तमेकत्वादि न तया अभिधीयते, प्रातिपदिकेनेवैकादिशब्देन तस्याभिधानात् । तद्वतः प्रवृत्तिनिमित्तभूतैकत्वाद्यवच्छिन्नस्य प्रातिपदिकार्थस्य यद् अन्यदेकत्वादि तत्र वाच्ये प्राधान्येन प्रकृत्यर्थविशेषणत्वेन वा विभक्तिः प्रथमा विधीयते इति प्रातिपदिकेन स्वनिमित्तभूतैकत्वाद्यभिधानेऽपि तदपरैकत्वाद्यभिधानाय प्रवर्तत एव एको द्वौ बहवः इति । एकशब्दस्योदाहरणार्थत्वात् तद्वतस्तु यदेकत्वम् इत्याह । द्वित्वाद्यपि हि गृह्यते द्वयादिशब्दविषयम् । तथा विभक्तिग्रहणस्य द्वितीयादिसाधारणस्योपादानाद् द्वितीयाद्यपि प्रातिपदिकेनानुक्तमेकत्वादि कथयतीत्युक्तं भवति एकं द्वौ बहून् पश्येत्यादौ । न ह्यत्र प्रातिपदिकेन कर्मादिगतमेकत्वादि स्पृष्टमिति तद्विषया द्वितीयाद्या विभक्तयः ।। 27 ।।
ननु च नात्र प्रकृतिप्रत्ययवाच्यं संख्याद्वयमवधार्यत इत्याह ।
एकस्य प्रचयो दृष्टः समूहश्च द्वयोस्तथा ।
निमित्तव्यतिरेकेण संख्यान्या भेदिका ततः ।। 28 ।।
इह एकस्य तदपरेण समुच्चीयमानस्य प्रचयो दृष्टः । तथा हि सति प्रचयेऽन्यसाहभाव्ये द्वित्वादिसंख्या जायन्ते । द्वयोः च समूहः समुदायोऽभेदो दृष्टः । तद्यथा द्विपुत्र इत्यादौ निवृत्तेऽपि द्विवचने वृत्तावसाववगम्यतेऽन्तरङ्गः । ततः प्रचयसमूहदर्शनाद्धेतोः प्रातिपदिकार्थस्य यन्निमित्तमेकत्वादि एकादिशब्दविषयं तद्व्यतिरिक्ता अन्या विभक्तिवाच्या एकत्वादिसंख्या विद्यते । बहूनामपि समूहो दृष्ट इति योजनीयं बहुपुत्र इत्यादौ । तदियं विशेषावस्थापनेन प्रातिपदिकार्थस्य भेदिका अवच्छेदिका संख्या विभक्तिवाच्यात्रावधार्यत एव । तथा हि प्रातिपदिकात् प्रचितापचितसाधारणमेकत्वमवगम्यते । विभक्तेस्तु विशेषनिश्चयोऽर्थस्य परिसमाप्तेरेक इत्यपचितमिदमेकत्वमिति । एवं द्वौ बहव इत्यसमूहरूपता । यद्येवं प्रचितविषये एकत्वे विभक्तिर्न स्याद् एकश्च एकश्चेति । नैतन्न्याय्यम् । साधारणे एकत्वे प्रातिपदिकवाच्ये विभक्तिर्विशेषं द्योतयति इत्युच्यते । तथा च विभक्त्यात्र द्वित्वाद्युपजनहेतुतामप्रतिपद्यमानमप्रचितमेवैकत्वमावेद्यते । पश्चात्तु पदार्थे पर्यवसिते चशब्दः प्रचयं द्योतयति पदार्थपृष्ठपातिनम्, न तु प्रातिपदिकार्थगतम् । प्रातिपदिकार्थप्रचयविवक्षायां हि सहविवक्षाविषय एकशब्दाप्रयोग इति ।। 28 ।।
"संख्याया अन्यपदार्थत्वात्" (cf.Va.25.onP.1.2.64.) इत्यादिना एकशेषप्रत्याख्याने तत्समानार्थद्व्यादिशब्दप्रयोगो द्वित्वाद्युपजनात् प्रातिपदिकार्थप्रचयविषये समयाद् विभक्तिर्भविष्यति । यदि सामयिकी नियोगतोऽन्यापि कस्मान्न भवन्ति, कर्मादीनामभावाद् इत्यपरमत्र प्रतिविधानं भाष्य उक्तम् । तथा हि `न केवला प्रकृति? प्रयोक्तव्या' इति
`परश्च' (P.3.1.2.)
इति समयपालनार्थं विभक्तौ विधीयमाना(या?)मर्थविशेषानाश्रयणाद् वचनसङ्कर प्राप्नोतीति यथायथमर्थानुगुण्येन विभक्तयोऽङ्गीकृताः । तथा चाभिहितेऽपि रवार्थे एकादिशब्देभ्यस्तदानुगुण्येनैव प्रकृत्यर्थानुविधायिन्यो विभक्तय इत्युपगतं भवति । स्वाभाविकत्वादर्थाभिधानस्य विभक्त्या सह प्रकृतिः स्वार्थमभिधत्त इत्ययमेव नियमः परवचनेन प्रतिपादितः । तदेतद् व्याचष्टे ।
तदेकमपि चैकत्वं विभक्तिश्रवणादृते ।
नोच्यते तेन शब्देन विभक्त्त्या तु सहोच्यते ।। 29 ।।
स्वाभाविकं सहाभिधानं यथायथं सर्वत्रैव विभक्तिविधाने प्रतिपाद्यते । वृत्तौ तु लुका केवलेनाभिधानं ज्ञाप्यते । शक्तिविशेषो हि शब्दानां वृत्तावुपजायत इति केवलस्याप्यभिधानं न विरुध्यते । एवं संबुद्धिलोपेऽपि केवलप्रयोगः स्वाभाविकः ।। 29 ।।
अन्योऽप्यत्र परिहारोऽभिहितो भाष्ये
"संख्या नामेयं परप्रधाना । संख्येयमनया विशेष्यम् । यदि चात्र प्रथमा न स्यात् संख्येयमविशेषितं स्यात् ।"(M.Bha.I,p.423,1.8.)
इति । एतद् व्याचष्टे ।
अन्वयव्यतिरेकौ च यदि स्याद् वचनान्तरम् ।
स्यातामसति तस्मिंश्च प्रकृत्यर्थो न कल्प्यते ।। 30 ।।
वृक्षः वृक्षौ वृक्षा इत्यादौ प्रकृतिप्रत्ययोः अन्वयव्तिरेकौ स्तः । तथा चोक्तम्
`दृष्टो ह्यव्यतिरेकेऽपि व्यतिरेकोऽन्वये सति' (Vak.III.सा.43.)
इत्यादि । ततश्च
तत्र योऽन्वेति यं शब्दमर्थस्तस्य भवत्यसौ ।
इति भेदेनापोद्धारकल्पना युक्ता । इह त्वेकशब्दादेकवचनमेव द्विशब्दाद् द्विवचनमेव बहुशब्दाद् बहुवचनमेव, न वचनान्तरमित्यसति व्यतिरेकेऽन्वयस्यानिश्चयात् प्रकृत्यर्थो विवेकेन नावधार्यते । असति हि वचनान्तरेऽन्वयव्यतिरेकौ न स्तः इति एकादिशब्दलक्षणायाः प्रकृतेरभिधेयं प्रत्ययार्थव्यतिरिक्तं न संभवत्यत्र येन संख्येयमवछिन्द्यात् प्रकृतिः केवला । तथा च वृक्षादावेकवचनादीनामन्वयव्यतिरेकार्थनिर्धारणादिह तदभावे प्रकृतिप्रत्ययसमुदायवाच्योऽयमर्थः येनं संख्येयो विशेष्यते संख्यालक्षणेन । तथा चानुक्तार्थत्वादेव भवति । वृत्तौ त्वेकस्या एव प्रकृतेरेकराजादवु(दिरु?) पसर्जनार्थोऽवगम्यते प्रधानार्थसम्भेदमापन्न इति विभक्तिश्चरितार्थत्वान्निवर्तते । यथा हि विना भावप्रत्ययं वृत्तौ तदर्थावगतिः निराकुलस्तिष्ठति सधीरमुवाचेत्यादौ एवमत्र विभक्तिमन्तरेणापि तत्सन्निधानदृष्टमेकत्वाद्युपसर्जनार्थोऽवगम्यत एव । तदेवं पूर्वत्र परिहारे प्रकृत्यर्थानुवादकत्वमभिमतम् । सत्यपि प्रकृत्यर्थे यथायथं तदर्थानुवादकत्वेन वचनानामुक्तत्वात् । इह तु साधारणार्थत्वमभिमतं प्रकृतिप्रत्ययसमुदायवाच्येनार्थेन संख्येयविशेषणस्योक्तत्वादिति परिहारयोर्भाष्यकारोक्तयोर्विशेषः ।। 30 ।।
अन्योऽत्र भाष्ये परिहार उक्तः--
"उभयवचना एवैते द्रव्यं चैवाहुर्गुणं च । यत् स्थोऽसौ गुणस्तस्यानुक्ता एकत्वादय इति प्रथमा भविष्यति" (M.Bha.I,p.c.441,1.10.)
इति। एतद् व्याचष्टे
एकत्वमेक इत्यत्र शुद्धद्रव्यविशेषणम् ।
सगुणस्तु प्रकृत्यर्थो विभक्त्यर्थेन भिद्यते ।। 31 ।।
शुद्धस्य द्रव्यस्य पूर्वं विशेषणाद् बुद्ध्या निर्ज्ञातस्य विशेषणभावमापन्नं एकत्वमेकः इति प्रातिपदिकेनाभिधीयते । उक्तशब्दो ह्येकत्वविशिष्टं द्रव्यमाह, न संख्यानमात्रमपि विंशत्यादिवत् । अत एवोभयवचनत्वं विशिष्टवचनत्वं विवक्षितं भाष्ये । न तु केवलगुणाभिधानं शुक्लादिवदेषामुपपद्यते । यदि वा
द्व्येकयोः (P.1.4.22.)
इति निर्देशात् संख्यानमात्रवचनत्वभमपीत्युयवचनत्वं स्पष्टम् । तदस्यैकशब्दवाच्यस्य ेकत्वविशिष्टस्य द्रव्यस्य विभक्तिवाच्येनैकत्वेन विशेषणात् सगुणः प्रातिपदिकार्थो विभक्त्यर्थेन भिद्यते विशेषेऽवतिष्ठते । एकत्वविशिष्टोऽयमेकोऽर्थो न तु गुणान्तरविशिष्ट इति प्रकृतिवाच्यमन्तरङ्गं विभक्तिवाच्यं तु बहिरङ्गं बाह्यमिति द्व्यादीनां च द्विपुत्र इत्यादौ बाह्यो भेदो निवर्तते विभक्तिवाच्य इति वक्ष्यति । अन्ये तु शुद्धं च द्रव्यविशेषणं चेति समाहारे द्वन्द्वं मत्वा संक्यानमात्रप्रधानं संख्येयोपसर्जनं चैकत्वं संख्यासंख्येयसामान्यरूपं प्रातिपदिकेनोच्यते । सह गुणेन संख्यानेन यो वर्तते प्रातिपदिकार्थः स विभक्तिवाच्येन भिद्यते अवच्छिन्नः प्रकाश्यते इति विभक्त्यन्तवाच्यं संख्येयं प्राधान्येनेति व्याचक्षते । यस्मिन् द्रव्ये स्थितो गुणः सङ्ख्यानं तस्यानुक्ता एकत्वादयो द्रव्यावच्छेदितया नोक्ता इति चात्र भाष्यार्थः ।। 31 ।।
ननु विभक्त्यन्तेन संख्येयस्य प्रतिपादनात् केवलस्य प्रयोगाभावाद् गुणमात्र वृत्तित्वं कथमेकादीनामवधार्यत इत्याह ।
द्वयेकयोरिति निर्देशात् संख्यामात्रेऽपि सम्भवः ।
एकादीनां प्रसिद्धा तु संख्येयार्थत्वमुच्यते ।। 32 ।।
द्व्येकयोः......(P.1.4.22.)
इति द्विवचननिर्देशाद् द्वित्वैकत्वयोर्द्वित्वाद्युपपद्यते । संख्येयाच्च निष्कृष्टयोर्द्वित्वै कत्वयोरभिधाने युक्तमिदम् । अन्यथा नित्यसंख्येयप्राधान्ये द्वावेकश्च त्रय इति बहुवचनं स्यात् । आदशभ्यः संख्या संख्येने वर्तन्ते इति लौकिकीं प्रसिद्धिमाश्रित्य भाष्ये
"स्यादेतद् यत्र नियोगतः संख्या संख्येते वर्तते"
इति संख्येयाख्यायित्वमुच्यते । अयमत्रार्थः । संख्यानमात्रे लौकिके प्रयोगे नैषां वृत्तिः । तत्र हि पदं प्रयुज्यते । विभक्त्यन्तं च पदम् । विभक्तिश्च संख्यां प्रातिपदिकार्थसमवेतामाहेति नियतं तत्र संख्येयावधारणम् । शास्त्रे त्वपोद्धारबुद्ध्या संख्यानमात्रवृत्तित्वं वृत्तावसति विभक्तिप्रत्यये काममुपपद्यते इति ।। 32 ।।
इति भूतिराजतनयहेलाराजकृते प्रकीर्णकप्रकाशे संख्यासमुद्देश एकादशः ।।

३,१२ः उपग्रहसमुद्देशःसम्पाद्यताम्

-------------
इदानीमाख्यातार्थमुपग्रहं विचारयितुं स्वरूपमस्यालौकिकत्वात् प्रदर्शयति ।
य आत्मनेपदाद् भेदः क्वचिदर्थस्य गम्यते ।
अन्यतश्चापि लादेशान्मन्यन्ते तमुपग्रहम् ।। 1 ।।
आत्मनेपदपरस्मैपदव्यङ्ग्यः कर्त्रभिप्रायतदितरादिरूपो विशेषो यः क्रियायाः साधनस्य वा स उपग्रह इति पूर्वाचार्यैरभ्युपगतः । पूर्वाचार्यप्रसिद्ध्योपग्रहशब्दवाच्योऽयमर्थो व्यवह्रियतेऽत्र शास्त्रे ।। 1 ।।
कस्यार्थस्यासौ भेद इति सामान्येनोक्तमेव विभजते ।
क्वचित् साधनमेवासौ क्वचित्तस्य विशेषणम् ।
साधनं तत्र कर्मादि व्यक्तवाचो विशेषणम् ।। 2 ।।
साधनं कर्म उपग्रहः आत्मनेपदाभिव्यङ्ग्यः पच्यते गम्यते इति । आदिशब्दात् कर्ता भावश्च । तत्र कर्ता लादेशद्वयव्यङ्ग्यः एधते यातीति । भाव आस्यते शय्यत इत्यात्मनेपदव्यङ्ख्य एव । स च बाह्यो भावो लकारवाच्यः आभ्यन्तरस्य धात्वर्थरूपस्य भावस्य क्रियायाः स्वात्मन्यवस्थितिमेकपदवाच्यसाधनानावेशादावेदयन् भवति साधनम् । व्यक्ता वाग् येषां व्यक्ता वाचि वा येषां (ये?) ते व्यक्तवाचो धात्वर्थं समुच्चारणार्थ(त्म?)कं विशिंषन्तोऽपि साधनस्य कर्तुः विशेषणं सामर्थ्याद् भवन्तो भवन्त्युपग्रह शब्दवाच्याः । तद् यथा संप्रवदन्ते ब्राह्मणा इति ।। 2 ।।
क्वचित् क्रियाविशेषण(ष उ?)मुपग्रह इत्याह ।
क्रिया विषयभेदेन जीविकादिषु भिद्यते ।
लादेशैः स क्रियाभेदो वाक्येष्वपि नियम्यते ।। 3 ।।
विषयविशेषाश्रयेण भिद्यते क्रिया । स च तस्या भेदो लादेशैः परस्मैपदात्मनेपदलक्षणैरभिव्यज्यते पचन्ति यजन्तीति । प्रधानं ह्यत्र क्रियाफलं न कर्तृगामि भृतिमात्रफलत्वाद् भृत्यानाम् । यजमानादिना प्रधानफलोद्देशेन प्रवर्त्यमाना क्रिया आत्मनेपदात् प्रतीयते यजते पचते इति । क्वचित् पुनः स एव क्रियाभेदो वाक्येष्वपि सत्स्वव(स्वशब्देनाव?)धार्यत इति वाक्यगम्यः । तद् यथा स्वं यज्ञं यजते, स्वं यज्ञं यजतीति ।
"विभाषोपपदेन प्रतीयमाने"(P.I.3.77)
इति लादेशद्वयानुशासनात् स्वमिति पदान्तरसंसर्गरचितवाक्यावसेयं क्रियायाः प्रधानफलस्य कर्तृगामित्वम् ।। 3 ।।
विषयभेदं विनापि क्वचित् साक्षात् क्रियाविशेष उपग्रह इत्याह ।
धात्वर्थस्तद्विशेषश्चाप्युक्तः क्वचिदुपग्रहः ।
धात्वर्थो गन्धनादिः स्याद् व्यतिहारो विशेषणम् ।। 4 ।।
गन्धनावक्षेपणादयः क्रियाविशेषो धातुवाच्याः सन्तोऽपि विनात्मनेपदमनभिव्यक्ता इत्यात्मनेपदाभिव्यङ्ग्यत्वादुपग्रहशब्दवाच्या भवन्ति । तद् यथा-उत्कुरुते अवकुरुते इत्यादि । व्यतिहारस्तु क्रियाविशेषणमात्मनेपदाभिव्यङ्ग्यमुपग्रहः । व्यतिपुनत इति ।। 4 ।।
कर्त्रभिप्राये क्रियाफल इति विशेष्य कथमुच्यते, यावता सर्वमेव फलं क्रियायाः कर्त्रारमभिप्रैतीत्यत आह--
क्रियाप्रवृत्तावाख्याता कैश्चित् स्वार्थपरार्थता ।
असती वा सती वापि विवक्षितनिबन्धना ।। 5 ।।
"सर्व इमे स्वभूत्यर्थं यतन्त"(M.Bha.II,p.36,1.1.)
इति । सर्वस्य स्वार्थं प्रवृत्तेः स्वार्थता पारमार्थिकी, परार्थता तु असती एव । सती वा इति तु लौकिकी वाचोयुक्तिः । तथा हि-विवक्षा विवक्षितं निबन्धनं हेतुरस्याः परार्थतायाः । स्वार्थता हि मुख्यैवेति न तस्या विवक्षानिबन्धनत्वम् । तदित्थं पारार्थ्यविवक्षायां मा भूदात्मनेपदमिति कर्त्रभिप्राये क्रियाफल इति फलं विशेष्यते । अन्ये तु प्रधानफलाभिप्रायेण वस्तुत एव स्वार्थपरार्थतामाहुरिति कैश्चित् इति वचनान्मतान्तरमुपक्षिप्तं भवति । तथा हि-यः स्वर्गौदनादिमुख्यफलार्थी स तत्रान्यान् व्यापारयति, निर्वेशेन प्रतिविधानं चारभते । ततश्च तस्य प्रतिविधातुर्मुख्यफलार्थिनः स्वार्थ आरम्भ इति तत्रात्मनेपदं यजमानादौ । यस्तु तत्प्रयुक्तो निर्वेशमात्रफलः स स्वामिचित्तानुवर्तनादेव कृतार्थतां मन्यत इति तस्यासौ परार्थ आरम्भ इति न भवति तत्रात्मनेपदम् ।। 5 ।।
इत्थं च संविधान आत्मनेपदं तत्रैव णिजित्यनयोः समानो विषय इत्याह ।
केषाञ्चित् कर्त्रभिप्राये णिचा सह विकल्पते ।
आत्मनेपदमन्येषां तदर्था प्रकृतिर्यंथा ।। 6 ।।
णिचः संविधानमात्रमर्थं मन्यन्त केचित् ।
`सर्व इमे स्वत्भूयर्थं यतन्ते'(M.Bha.II.p.36;1.1)
इति स्वार्थं प्रवर्तमानस्य प्रयोज्यस्य प्रयोजकस्तदानुकूल्याचरणात् संविधाता मण्यते । न ह्ननुविधेयस्य वचनात् स्वार्थमसम्भावतयो वा प्रवृत्तिरिति न प्रैषोणिजर्थः । अपि तु संविधानमात्रम्, तत्रैवात्मनेपदमपीति तुल्यविषयत्वादनयोः पर्यायेण प्रयोगः `यजते याजयति, पचते पाचयति' इति । आत्मनेपदाभिधेयो हि कर्ता संविधानमपेक्षते इति णिचा तुल्यविषयम् आत्मनेपदम् इति विकल्पते तेन सह । यथा तदर्था णिच उत्पादनार्था प्रकृतिः धातुर्णिचा सह विकल्पते । ये धात्वर्थविशेषणतां हेतुमतीत्यस्य मन्यन्ते तेषामन्येषां मते हेतुमति व्यापारे वर्तमानाद् धातोर्द्योतको णिजिति कुतश्चिदर्थसामर्थ्याद्धेतुमतः संविधानविशिष्टस्य व्यापारस्य क्रीणीष्वेत्यादिवदवगमाण्णिज्रेहिता शुद्धा प्रकृतिः प्रयोगमर्हत्येवेतचि मन्यन्ते । ये तु भूयमणिचमन्तरेण प्रैषस्याप्रतीतेर्हेतुमतीत्यस्य प्रत्ययार्थत्वं मन्यन्ते तेषां यथा णिचप्रकृतिर्णिचा सह न विकल्पते तथात्मनेपदमपीति । केषांचिदिति वदन् पक्षान्तरं सूचयति । तथाहि-आत्मनेपदविषयस्य कर्तुः संविधानं क्रियागतो धर्मो धातुवाच्यो भवेत् । आत्मनेपदेन हि क्रियाफलं कर्तृगामि द्योतयता सामर्थ्यात् प्रदानफलयुक्तः कर्ताभिधीयते, न तु प्रैषः स्पृश्यते । न हि प्रयोज्यप्रयोकव्यापारो ण्यन्तवदात्मनेपदान्तधातुविषये प्रतीयते । अत एव शाब्दी प्रतीतिर्भिद्यते । यजत इति फलार्थी स्वतन्त्रो यागं भावयतीत्यर्थः । तत्र चानन्यप्रयोज्यस्य स्वतन्त्रस्य भावनायामौचित्यात संविधानं व्यापारः प्रतीयते, न त्वस्माच्छाब्दव्यापारात् परं प्रयुङ्क्त इत्यवगतिः । याजयतीति यागे परं प्रयुङ्क्ते इति शाब्द एवावगमः । तात्पर्यदृशा तु वास्तवव्यापाराश्रये विषयसाम्यं भवेत् । तस्माद् भिन्नविषयत्वान्नात्र विकल्प इत्येष सिद्धान्तोऽभिमतः ।। अन्यथैकविषयत्वाद् धातुसामान्यविहितस्य णिचो धातुविशेषात् स्वरितश्रितो विधीयमानमात्मनेपदं बाधकं स्यादिति न विकल्पो भवेत्, लस्य
तिप्तस्‌झि.....(P.3.4.78.)
इत्यनेन विधानात्
`स्वरितञितः.......(P.1.3.72.)
इत्यादिर्न विधिरिति चेन्नियमस्तर्हि भविष्यति । स चैकवाक्यतया विधिशेष एव । अन्यथा परस्मैपदबाधकत्वमपि कथमात्मनेपदस्य स्यादिति । तदेवं भिन्नविषये णिजात्मनेपदे, संविधाने आत्मनेपदं तद्विशेषे तु प्रैषे णिजिति । यत्र तु पारार्थ्यं धात्वर्थस्यान्यतोऽवगम्यते तत्र न भवत्यात्मनेपदम् । तद् यथा-उक्तः करोति, प्रेषितः करोतीति प्रैषेण कर्तुः पारार्थ्यावगते स्वार्थतासम्प्रत्ययादात्मनेपदाभावोऽत्र । एवमोदनं पचतीति करणादिकारकान्तरप्रैषेऽपि प्रयोज्यकर्तुः प्रधानफलार्थताभावादात्मनेपदाभावः । तथा अजां नयति ग्राममित्यत्र धात्वर्थप्रैषमात्रविवक्षायां तु स्वात्मनि कर्तरि भवत्यात्मनेपदं अजां नयते ग्रामम् इति ।। 6 ।।
इदानीं ये णिचा सहात्मनेपदस्य विकल्पमिच्छन्ति तेषां विषयसाम्यावगमभ्रान्तिबीजमुपदर्शयति ।
क्रीणीष्व वपते धत्ते चिनोति चिनुतेऽपि च ।
आप्तप्रयोगा दृश्यन्ते येषु ण्यर्थोऽभिधीयते ।। 7 ।।
`स्वात्मानं क्रीणीष्व' इति विनताभिहिता पुत्रानाह `क्रीणीत माम्' इति शिष्टप्रयोगोऽस्ति । अत्र `क्रीणीष्व' इत्यात्मनेपदान्तस्य प्रयोगस्य ण्यर्थः प्रैषोऽवधार्यते । दास्यं प्राप्ता हि विनता नागमात्रात्मानं क्रीणीष्व दास्यान्मोचयेति कद्रूवा क्रयणस्वातन्त्र्ये नियुज्यत इति परप्रयोज्यतावगमाद् ण्यर्थतायामात्मनेपदमिदमिति समानविषयत्वं णिजात्मनेपदयोरोतस्मात् प्रयोगाद् भ्रान्तिबीजं मन्यन्ते । तथाहि-सामर्थ्यादत्र ण्यर्थोऽवगम्यते, नात्मनेपदात् । क्रयणे हि विनियुज्यते विनता । क्रयणस्य चात्र दास्यविनवृत्तिलक्षणं फलं क्रेतुः कर्तुरात्मगामीति कर्त्रभिप्रायक्रियाफलगतमात्मनेपदं विहितम् । इयत्येव शब्दार्थे पर्यवसिते परतोऽर्थसामर्थ्यात् क्रापयेति ण्यर्योऽत्रावधार्यते । तथा हि-सा विनतात्मानं कथं क्रीणाति दास्यान्मोचयति? यदि प्रत्युपकारं काद्रवेयाणामाचरति । न च सा स्वयं प्रत्युपकर्तुं शक्तेति पुत्रानाह क्रीणीत माम् इति । तथा च `पुत्रैरात्मानं दास्यान्मोचय',`कापय' इत्यमर्थोऽस्य क्रीणीष्व इति पदस्य प्रकरणसामर्थ्यपर्यालोचनया लभ्यत इति न पदार्थविषयेणात्मनेपदेनात्र णिच् समानविषय इति । एवं केशश्मश्रु वपत इति प्रयोगो भ्रान्तिबीजं दृश्यते । तथा हि वपते परनं मुण्डनमन्येन कारयतीत्यर्थः इति णिजात्मनेपदे समानविषये मन्यन्ते । अत्र च तिङन्तात् कर्तृदामि क्रियाफलं प्रतीयत इत्यामनेपदं सामर्थ्यात् तु स्वयमशक्तोऽन्यं प्रयुङक्त इत्यवगम्यते । तथा' `तृप्ता पत्नी रेतो धत्ते' इति प्रयोगो दृश्यते शिष्टानाम् । रेतो धापयतीत्यत्र चार्थः सामर्थ्यगम्यः । न हि पत्न्याः पौंस्नं सम्भवतिं, तच्च रेतोधारणयोग्यम्, पुमिन्द्रियेण तद्धारणात्, पत्न्यास्तु रेतोधारणयोग्यपुमिन्द्रियाभाव इति सामर्थ्यलभ्योऽत्र ण्यर्थो न तिङ्‌न्तवाच्यो येनात्मनेपदेन समानविषयता णिचः स्यात् । आत्मनेपदाद्धि धारणस्वातन्त्र्यमात्रमवगम्यते । तच्च पत्नीसम्बन्धाद् वाक्यार्थपर्यालोचनया प्रयोजककर्तृविषयमात्रमवगम्यते । पदं हि पदान्तरनिरपेक्षं स्वार्थमात्रमावेदयते । वाक्यसामर्थ्यात्तु विशिष्टार्थावगतिः ।
"सैषात्र यज्ञस्य समृद्धिर्योऽग्निं चिनुते यश्चिनोति यश्चीयते"
इत्यत्रापि चिनुत इति शिष्टप्रयोगे संविधाता चयनगतः प्रतीयते । तिङः सामर्थ्यात्तु प्रेषणमशब्दार्थोऽपि णिज्विषयं प्रतीयते । यो हि स्वयं चयनमनुतिष्ठति परप्रयुक्तः स चिनोतीत्येतस्मादेवावगम्यते इति प्रयोजकस्तृतीयोऽर्थाच्चिनुत इत्यतः प्रतीयते । तदेतेषु प्रयोगेष्वर्थसामर्थ्यादिनावसितमपि ण्यर्थमात्मनेपदान्तशब्दार्थ इति मत्वा कैश्चिद् भ्रमाण्णिजात्मनेपदयोर्वषयसाम्यं सर्वत्राश्रित्य विकल्पः प्रतिपादितः । गतमदः ।। 7 ।।
इह संविधाने आत्मनेपदमित्युक्तम् । पचादीनां च प्रधानभूतविक्लित्त्यादिवचनात् कथं संविधानोपादानं येन तद्विशिष्टवचनाद् धातोस्तत्रात्मनेपदं स्यादित्याशङ्ख्याह ।
संविधानं पचादीनां क्वचिदर्थः प्रतीयते ।
तन्निमित्ता यथान्यापि क्रियाधिश्रयणादिका ।। 8 ।।
"कः पचेः प्रधानार्थः । यासौ तण्डुलानां विक्लित्तिः । अथेदानीं प्रेषणमध्येषणं वा युक्तं यत् सर्वं पच्यर्थः स्यात् । बाढं युक्तम् । " (M.Bha.II.p.32,1.25)
इति भाष्ये प्रयोजकव्यापारस्यापि धात्वर्थतोपन्यस्ता । तथा चोदासीनोऽपि प्रयोजकः सामग्रीं परिपोषयन् संविधाता कारक इति तद्‌व्यापारो धातुवाच्यः पचत इति विक्लित्त्यर्थत्वाद् यथाधिश्रयणोदकासेचनादिः प्रयोज्यकर्तुर्व्यापारः । पचति देवदत्त इति अधिश्रयति उदकमासेचयति इत्याद्यर्थः । पचते देवदत्त इति सम्भारं ढौकयतीत्यर्थः । तस्येव तु प्रयोज्यप्रेषणे विवक्षिते णिज् भवति पाचयतीति । न हि संविधानमेव प्रैषः, अपि तु तत्पूर्वकं प्रेरणं यत्कुर्वन् प्रयोजक इत्युच्यते । संविधानं हि कुर्वन्नपि यावत् प्रेषणं नाचरति न तावत् प्रयोजकः कथ्यते ।। 8 ।।
कर्त्रभिप्राये विधीयमानमात्मनेपदं कथं धातोः संविधानार्थतामाक्षिपतीत्याह ।
कर्त्रभिप्रायता सूत्रे क्रियाभेदोपलक्षणम् ।
तयाभूता क्रिया या हि तत्कर्ता फलभाग् यतः ।। 9 ।।
कर्त्रभिप्रायक्रियाफलग्रहणेन संविधानविशिष्टा क्रिया निर्दिश्यते यस्माद् यैवंभूता क्रिया विशिष्टरूपा तस्याः कर्ता फलेन युज्यते । न ह्यसंविदधद् याजकादिः क्रियाफलं स्वर्गाद्यश्नुते । ततश्च कार्यभूतेन फलसम्बन्धेन कारणभूता । क्रियोपलक्षितेति तत्रात्मनेपदमित्युक्तं भवति ।। 9 ।।
उपलक्षणे दृष्टान्तमाह ।
यथोपलक्ष्यते कालस्तारकादर्शनादिभिः ।
तथा फलविशेषेण क्रियाभेदो निदर्श्यते ।। 10 ।।
`नक्षत्रं दृष्टवा वाचं विसृजेत्'
इति नक्षत्रदर्शनस्य संध्याविगमलक्षणकालविशेषोलक्षणार्थत्वात् घनाघनगहने गगने तदभावेऽपि नालिकादिभिस्तथाविधकालावधारणे वाग्विसर्गो भवत्येव यथा तथा प्रधान फलसंबन्धस्य संविधानोपलक्षणार्थत्वादनादृत्यापि फलविशेषद्योतनमात्मनेपदं संविधानमात्रे भवति ।। 10 ।।
भाष्ये स्वरितञिद्ग्रहणं प्रत्याख्यातमिति यातिप्रभृतिभ्योऽपि कस्मादात्मनेपदं न भवतीत्याह ।
क्रियाविशेषवचने सामर्थ्यमुपरुध्यते ।
केषाञ्चदन्ये तु कृताः स्वरितेतो ञितस्तथा ।। 11 ।।
कर्त्रभिप्रायक्रियाफलोपलक्षिते संविधानलक्षणे क्रियाविशेषे प्रत्याय्ये यातिप्रभृतीनां धातूनां शक्तिः प्रतिहन्यते । नियता हि शब्दशक्तिः । ये तु संविधानाभिधानसमर्थास्तेस्वरितेत्संज्ञका ञकारेत्संज्ञकाश्च पठिता धातुपाठे संविधानविशिष्टक्रियावचनसामर्थ्यमवद्योतयितुमित्यर्थः । स्वाभाविकी हि धातूनां शक्तिर्नियतविषया दुरवसानेति ञकाराद्यनुबन्धस्तदवगमाय कृतो गणकारैः ।। 11 ।।
यद्येवं कथं स्वरितञिद्ग्रहणं प्रत्याख्यायते । असति हि तस्मिन्ननुबन्धाः कथं पठ्यन्ते । तद्धि तेषां कार्यम् । असति तस्मिन् तदभावः । तथा च संविधानविशिष्टक्रियाभिधानशक्तिर्धातूनां कथमवगम्येतेत्याह ।
अनुबन्धश्च सिद्धेऽर्थे स्मृत्यर्थमनुषज्यते ।
तुल्यार्थेष्वपि चावश्यं न सर्वेष्वेकधर्मता ।। 12 ।।
इह क्रियामात्रवचनत्वेन समानाभिधेयेऽष्वपि धातुषु न सर्वेषु क्रियामात्रवचनस्वभावः, अपि तु शब्दशक्तिवैचित्र्याद् यथास्वं विशिष्टक्रियावचनत्वम् । तथा हि-`या प्रापणे', `णीञ् प्रापणे' इति तुल्येऽप्यर्थनिर्धेशे यातेः प्राप्तिः प्रापणमर्थः, नयतेस्तु प्रापणा प्रापणमिति संविधानमर्थोऽवगम्यते । एवमन्येषामपि संविधानार्थता स्वाभाविकी बोद्धव्या । तामेव सूचयितुं ञकाराद्यनुबन्धः स्मरणार्थं निवेश्यते । यो हि प्रयोगादेव स्वभावविशेषमवधारयितुमशक्तस्तं प्रति स्मृत्यर्थोऽनुबन्धासङ्गः, प्रयोगज्ञं तु प्रति नार्थस्तेन । तथा च प्रयोगदर्शिनं च प्रति स्वरितञिद्ग्रहणं शक्यमकर्तुमिति प्रत्याख्यातं एतद्भाष्ये । वचनानुसारिणं तु प्रति क्रियत एवैतत् । तथा च भाष्यम्
"वृत्तज्ञो ह्याचार्यः तत्समर्थान् अनुबन्धान् आसजति"
(M.Bha.I.p.c.266.1.20)
इति । वर्तन्तेऽस्मिन् कार्याणीति वृत्तं प्रयोगो वर्तनं वृत्तमिति शब्दव्यापारो वा । तज्ज्ञः सूत्रकारो वचनानुसारिणमवृत्तज्ञं प्रति ञकारमासतीत्यर्थः ।। 12 ।।
तुल्यार्थेष्वपि नैकधर्मतेत्यत्र दृष्टान्तमाह ।
दृशीक्ष्योः सदृशेऽप्यर्थे नाभेदः प्रतिपूर्वयोः ।
ण्यर्थोपादायिनस्तस्मान्न तुल्यार्थाः पचादिभिः ।। 13 ।।
गणपठितेऽर्ते समानेऽपीक्षते पश्यतीत्यनयोः प्रतिपूर्वयोः नाभेदो न समानार्थता, अपि तु प्रतक्षींत इत्यन्य एवार्थः प्रतिपालनं नाम । प्रतिपश्यतीति तु प्रतीपदर्शनमर्थः । दृशीक्षी चोपलक्षणं रक्षतिपालयत्योरपि, प्रतिरक्षति प्रतिपालयतीत्यन्य एवार्थः । एवं हरतिनयत्योः सम्पूर्वयोः संहरति संनयतीत्याद्यप्युदाहार्यम् । एवं ण्यर्थमपि ये सम्बन्धितया स्वीकुर्वन्ति ते संविधानाभिदायिभिः पचादिभिर्न समानवाच्याः । न हि सर्वे धातवो ण्यर्थेन संगच्छन्त इत्येतावता संविधानाभिधायिनोऽपि स्युः, शक्तिभेदात् । प्रैषो हि ण्यर्थः, संविधानं ततोऽन्यत् तद्धेतुरपीत्युक्तमेव । अत एव संविधानमेव ण्यर्थोऽत्र नाभिमतः । एवं हि पचादिभिस्तदभिधायिनां भिन्नार्थता न भवेत्, पचादीनामपि संविधानाभिधानात् सामान्येन पचादिभिरित्युक्तत्वान्न परस्मैपदान्तैरात्मनेपदान्तानां भिन्नार्थतेति लभ्यते ।। 13 ।।
संविधानेन स्वरितञिद्‌व्यतिरिक्तानां न सर्वयैवायोगोऽपि तु योगेऽपि ते तदभिधानशक्तिविकला इत्याह ।
उम्भ्यर्थे वर्तमानस्य करोतेर्भिन्नधर्मणः ।
ण्यर्थोपादायिता तस्मान्नियताः शब्दशक्तयः ।। 14 ।।
उदुम्भाञ्चकारेत्यामन्तस्यानभिव्यक्तपदार्थकस्याभिव्यक्त्त्यर्थं करोतिरनुप्रयुज्यते । स च क्रियासामान्यवाचीत्यत्रोम्भ्यर्थे वर्तते । ततश्च तस्य विशिष्टक्रियोपनिपाते भिन्नधर्मणो नानास्वभावस्य ण्यर्थ इव ण्यर्थः संविधानं तदभिधायित्वं दृष्टम् । तथा च ञिदयं पठितः । यत एवं तस्माच्छब्दानां शक्तयो नियताः । एकस्मिन्नपि ह्यर्थेऽत्रोम्भेः संविधानाभिधाने शक्तिर्नास्ति करोतेस्त्वस्ति । इत्थं चास्ति संविधानेनोम्मेः सम्बन्धो येन तदर्थप्रवृत्तेः करोतेस्तदभिधानशक्तिः । सत्यपि च तस्मिंस्तदभिधानसामर्थ्यमस्य नास्ति । वस्तुत एव तु संविधानेनोम्भेः सम्बंधाभावे करोत्यर्थोऽपि संविधानेन न विशेष्यते ।। 14 ।।
कथमवसीयते करोत्यर्थोऽत्र संविधानविशिष्ट इति तदर्थसंप्रत्यायकस्यात्मनेपदस्यादर्शनादित्याशङ्क्य भाष्यकाराभ्युपगममत्रार्थे संवादकमाह ।
तथा ह्यनुप्रयोगस्य करोतेरात्मनेपदे ।
पूर्ववद्‌ग्रहणं प्राप्ते स्वरितं समुपस्थितम् ।। 15 ।।
इह
`आम्‌प्रत्ययवत्कृञोऽनुप्रयोगस्य' (P.1.3.63.)
इत्यात्मनेपदविधानमकर्त्रभिप्राये चरितार्थम् । कर्त्रभिप्राये तु कृञोऽनुयोगस्यात्मनेपदे
`स्वरितञितः कर्त्रभिप्राये क्रियाफले' (P.1.3.72.)
इत्यनेन प्रसक्ते
`पूर्ववत् सनः'(P.1.3.62.)
इत्यतः सूत्रात् स्वरितलिङ्गयुक्तं पूर्ववद्ग्रहणमधिकृतमिति भाष्यकारेणोपगतम् । तथा चानुप्रयोगस्य कृञो यदाम्‌प्रत्ययात् पूर्वस्य धातोरात्मनेपदं तदा कर्त्रभिप्रायेऽपि तद् भवति नान्यथेति नियमार्थात् पूर्ववद्ग्रहणादत्रात्मनेपदाभावः । एतच्च कथमुपपद्यते यद्यनुप्रयोगस्य करोतेः संविधानाभिधानसामर्थ्यं स्यात् । अन्यथात्मनेपदाप्रसङ्गात् किं पूर्ववद्‌ग्रहणेन ।। 15 ।।
णिज्‌योग्यार्थाभिधानेऽपि न सर्वेषां धातूनां संविधानप्रत्यायनसामर्थ्यमप्यनुमेयमित्येतन्निदर्शनोपन्यासेन स्थिरयति ।
एकत्वेऽपि क्रियाख्याते साधनाश्रयसंख्यया ।
भिद्यते न तु लिङ्गाख्यो भेदस्तत्र तदाश्रितः ।। 16 ।।
साध्यस्वभावत्वात् क्रियायाः स्वतो नास्ति भेदः । तिङन्तपदविषये त्वेकपदोपात्तकर्तृकर्मलक्षणसाधनाधारद्रव्यगतद्वित्वबहुत्वाभ्यां पचतः पचन्ति पच्येते पच्यन्ते इति विशिष्यते । द्विबहुसाधनसाध्यत्वं ह्यत्रोपगम्यते क्रियायाः । यथा च साधनादारद्रव्यसंख्यायोगस्तथा तद्गतलिङ्गविशेषयोगोऽपि कस्मान्न भवतीति न शक्यते वक्तुमाख्याताल्लिङ्गविशेषस्याप्रतीतेः । एकपदोपादाने साधनाश्रयस्य द्वित्वादेरेवावगमो न तु स्त्रीत्वपुंस्त्वविशिष्टेऽर्थे समवेतेयं क्रियेत्याख्यातादवगम्यते । स्वाभाविकं हि शब्दानामर्थ प्रत्यायनं न युक्तिगम्यम् । साधनसङ्गख्ययेत्येव वक्तव्ये व्यापाराविष्टं द्रव्यात्मकमेव सङ्ख्यायुक्तमाख्याताभिधेयं न शक्तिमात्रमित्याश्रयग्रहणेन सूचयति । तथा च देवदत्तः पचतीति द्रव्येण सामानाधिकरण्यं दृश्यते । अत एव द्रव्यवादिनामाख्यातार्थोऽपि द्रव्यमित्यभ्युपगमः ।। 16 ।।
तदयं निदर्शनार्थः साध्येन योज्यते ।
तस्मादवस्थितेऽप्यर्थे कस्यचित् प्रतिबध्यते ।
शब्दस्य शक्तिः स त्वेष शास्त्रेऽन्वख्यायते विधिः ।। 17 ।।
यत एवं शब्दशक्तिभेदापेक्षम भिदानमन्यत्रापि तस्मात् संविधानसंबन्धे सत्यपि धातूनां कस्यचिद् यात्यादेस्तत्प्रत्यायने सामर्थ्यं प्रतिहन्यत इत्युक्तमुम्भ्यादिसमानार्थस्य करोतेः संविधानाभिधानसामर्थ्यं नोम्भेरिति । स चैष शब्दशक्तिनियमार्थः प्रकारः स्वरितञिद्‌ग्रहणेन शास्त्रे ज्ञाप्यते प्रकटीक्रियते । गतमेतत् ।। 17 ।।
इह यजन्ति याजकाः पचन्ति भक्तकरा इत्येतत् कर्त्रभिप्रायक्रियाफलग्रहणस्य व्यावर्त्यमुदाहृत्य याजकानपि दक्षिणा फलमभिप्रैति कर्मकरानपि भृतिरित्याक्षिप्य
"सर्वत्रैव क्रियाफलं कर्तारमभिप्रैति । तत्र प्रकर्षगतिर्विज्ञायते साधीयो यत् क्रियाफलमभिप्रैति । किञ्च साधीयो यदर्था क्रियारभ्यते"(M.Bha.I.p.293,1.6.) इति भाष्ये समर्थितम् एतद् व्याचष्टे ।
यस्यार्थस्य प्रसिद्ध्यर्थमारभ्यन्ते पचादयः ।
तत् प्रधानं फलं तेषां न लाभादि प्रयोजनम् ।। 18 ।।
इह कर्त्रभिप्रायक्रियाफलस्य संविधानोपलक्षणत्वात् संविधानक्रियावचनाद् धातोरात्मनेपदमित्युक्तं भवति । यत्र च संविधाने यत् फलं तदेवोपलक्षणं युक्तम् । तच्च यदर्थं संविधानारम्भः , यदुद्देशेन हि संविधाता प्रथममेव संविधानं साधनोपार्जनं योग्यतानुसारेण च प्रवर्तनमारभते तत् स्वार्गादि प्रधानं फलं वेदितव्यम् । संविधात्रा नियुक्तानि कारकाणि तदिच्छया प्रवर्तन्त इति तेषां दक्षिणा भृतिर्वा फलमप्रधानं तादर्थ्येन पूर्वमेव क्रियाप्रवृत्त्ययोगात् । संविधाता पुनः प्रधानक्रियार्थमुदासीनोऽपि बहुमुखमाचेष्टत इति मुख्यफलाभिसन्धानेन स एव क्रियाः पच्यादिकाः प्रवर्तयति । तदयं फलस्य प्रकर्षस्तादर्थ्येन पूर्वमेव प्रधानक्रियारम्भाद् व्याख्यातः ।। 18 ।।
संविधाने आत्मनेपदमित्यस्मिन् पक्षे सिद्धान्ते चोदितं भाष्ये---
"इह कथं भवितव्यं स्वामिदासौ पचतः" इति ।
एतद् व्याचष्टे ।
यत्रौभौ स्वामिदासौ तु प्रारभेते सहक्रियाम् ।
युगपद् धर्मभेदेन धातुस्तत्र न वर्तते ।। 19 ।।
प्रभुभृत्ययोः सम्भूय द्वन्द्वनिर्देशेनाभिधीयमानयोः क्रियारम्भे तत्साध्यस्य व्यापारस्य भेदात् युगपदेककालं धातुर्वाचकत्वं नासादयति । तथाहि-प्रभुसाध्यं संविधानं सम्भारघटनं भृत्यसाध्यं तु प्रधानक्रियारूपमिति विलक्षणत्वात् व्यापारस्यैकधातुवाच्यता नोपपद्यते । तथा च किमात्मनेपदं संविधात्रपेक्षं क्रियतां किं वा दासापेक्षं परस्मैपदमिति संशयो न व्यावर्तते ।। 19 ।।
अथापि कथञ्चित् क्रियाद्वयं विलक्षणमप्यनेकार्थत्वाद् धातुरभिदधीत तथापि
यत्र प्रतिविधानार्थः पचिस्तत्रात्मनेपदम् ।
परस्मैपदमन्यत्र संस्कराद्यभिधायिनि ।। 20 ।।
प्रतिविधानं संविधानं तद्वचनात् पचेः आत्मनेपदम् आम्नातं वाक्यगतविक्लित्तिपर्यन्तसाधनविनियोगादिलक्षणसंस्कारादिवचनात् तु परस्मैपदम् इति धातुनार्थद्रयस्वाकारेऽप्येकस्मिन् प्रयोगे विरुद्धस्वरूपलादेशद्वयनुपपत्तिः ।। 20 ।।
अत्र समाधिः
संविधातुश्च सान्निध्यात् दासे धर्मोऽनुषज्यते ।
प्लक्षशब्दस्य सान्निध्यान्न्यग्रोधे प्लक्षता यथा ।। 21 ।।
अयमर्थः । अतुल्यकक्ष्ययोर्यद्येकशब्दवाच्यताऽभ्युपगम्यते तदा युगपदधिकरणवचनतायां द्वन्द्वविधानाद् द्वन्द्वनिर्दिष्टौ स्वामिगदासावेकस्मिन् पच्यर्थे सह विवक्ष्यते । तत्र चेतरेतरधर्माध्यासात् साहचर्यमिति स्वामिसाहचर्याद् दासे संविधानं तद्वयापारोऽध्यारोप्यते । तथा च स्वामिना तुल्यो दास इति स्वामिद्वयस्य कर्तृत्वे संविधानवचनाद् धातोरात्मनेपदं क्रियते स्वामिदासौ पचेते इति । तद् यथा प्लक्षन्यग्रोधाविति सहविवक्षायां न्यग्रोधे प्लक्षरूपारोपः प्रक्षरणान्न्यग्रोधोऽपि प्लक्ष इति । तथा चानुस्यूतभेदस्य समुदायस्याभिधानादितरेतरापेक्षायां द्वन्द्वाद् द्विवचनं भवति । एतदग्रे द्वन्द्वविचारे निर्णेष्यामः ।। 21 ।।
कथमतद्रूपेण सन्निधानमात्रादन्यरूपारोप इति दृष्टान्तेन व्युत्पादयति ।
पुरोडाशाभिधानं च धानादिषु यथा स्थितम् ।
छत्रिणा चाभिसंबन्धाच्छत्रिशब्दाभिधेयता ।। 22 ।।
प्रातःसवने
"पुरोडाशैः प्रचरन्ति"
इत्युच्यते । तत्र चैकस्य पुरोडाशस्य बहुत्वसंख्यानुपपत्तेस्तत्सहचरितेष्वध्यारोपितपुरोडाशयागेषु सत्स्वयं प्रयोगः । तत्र पुरोडाशः धानाः करम्भः परिवापः पयस्येति पञ्च पुरोडाशाः कथ्यन्ते । तथा छत्रिणो यान्तीति बहुवचनान्यथानुपपत्त्या पराकृतच्छत्रसंबन्धा अपि छत्रिसाहचर्यात् तच्छब्देनाभिधीयन्ते । एवं दासेऽपिस्वामिसाहचर्याद् द्वन्द्वनिर्देशान्यथानुपपत्त्या स्वामिधर्मासङ्ग इत्यात्मनेपदं भवति । स्वामिदाससाध्यस्य हि व्यापारस्य भेदोऽत्र न विवक्ष्यते इत्यभिन्नधातुवाच्यक्रियारूपाश्रयप्रधानगतधर्मोपपत्तिः ।। 22 ।।
यद्वा मतान्तरमत्रेत्याह ।
अर्थात् प्रतीतमन्योन्यं पारार्थ्यमविवक्षितम् ।
इत्ययं शेषविषयः कैश्चिदत्रानुवर्ण्यते ।। 23 ।।
स्वामिदासयोः क्रियापकारित्वं विलक्षणमेकस्य मुख्यफलाभिसन्धानादितरस्य तदनभिसन्धानादित्येतदविवक्षित्वा सामान्येन मातापितरौ पुत्रं जनयत इतिवत् क्रियायां कर्तृत्वमात्रविवक्षायां
`शेषात् कर्तरि परस्मैपदम्'(P.1.3.78.)
भवति । स्वामिपदसन्निधानादेव हि संविधानमवगतं दासपदार्थसामर्थ्याच्च तस्यान्यगामि क्रियाफलमिति चरितार्थत्वादाख्यातस्य नात्र व्यापार इति क्रियासामान्यवचनाद्धातोरात्मनेपदविधावनुपयोगाच्छेषात् परस्मैपदं ' स्वामिदासौ पचत इति ।। 23 ।।
पञ्चभिर्हलैः कृषतीति स्वामिनः प्रतिविधातुस्तथा सम्भवाण्णिचः प्राप्तिमापादयितुं भाष्यकारेणोपन्यस्तम् । तत्र चोद्यते ।
अथ प्रतिविधाता यो हलैः कृषति पञ्चभिः ।
भाष्ये नोहाहृतं कस्मात् प्राप्तं तत्रात्मनेपदम् ।। 24 ।।
युगपत् पञ्चभिर्हलैः कर्षणं स्वामिन उपपद्यते, न कर्षकस्येति प्रतिविधातर्यात्मनेपदं प्रतिविधानवचनाद् धातोः कुतः कारणाल्लक्षणेन प्राप्तं न कृतं भाष्यकारेण ।। 24 ।।
अत्र परिहारं शङ्कित्वा प्रतिक्षिपति ।
प्रतीतत्वात् तदर्थस्य शेषत्वं यदि कल्प्यते ।
न स्यात् प्राप्तविभाषासौ स्वरितेतां निवर्तिका ।। 25 ।।
भृत्यस्य पञ्चभिर्हलैर्युगपद् विलेखनासम्भवात् स्वाम्येव तथेति गतार्थत्वात् संविधानस्यात्मानेपदविधावनुपयोगात् शेषत्वं परस्मैपदनिमित्तं यद्यत्रावस्थाप्यते तदा प्रदेशान्तरविरोधः प्राप्नोति । तथा हि
`न वेति विभाषा' (P.1.1.44)
इत्यत्र
`विभाषोपपदेन प्रतीयमाने' (P.I.3.77.)
इतीयं प्राप्तविभाषा गणिता कर्त्रभिप्राये क्रियाफले स्वरितेत्संज्ञाकानां नित्ये आत्मनेपदे प्राप्ते पक्षे तन्निवृत्त्यर्था । यदि चात्रोपपदेन द्योतिते न स्यादात्मनेपदं तदा स्वं यज्ञं यजतीत्यादावपि तदप्राप्तेः
विभाषोपपदेन......
इत्यप्राप्तविभाषा भवेद् विधिमुखेन प्रवृत्तेरपि विरोधः । तस्माद् द्वाभ्यामुपपदात्मनेपदाभ्यां संविधानं द्योत्यत इति प्राप्तविभाषावचनाल्लभ्यत इति कथमत्रात्मनेपदं न भवेत् ।। 25 ।।
अत्र केचिदाहुः ।
शुद्धे तु संविधानार्थे कैश्चिदत्रेष्यते कृषिः ।
तद्धर्मा यजिरित्येवं न स्यात्तत्रात्मनेपदम् ।। 26 ।।
ये णिचा समानविषयतामात्मनेपदस्य मन्यन्ते, त एवमिच्छन्ति संविधानमात्रेऽर्थे कृषिर्वर्तत इति न भवत्यात्मनेपदं णिज्‌वदिति । तथा हि णिच्‌परिहारायोक्तम्---
"कृष्णादिषु चानुत्पत्तिर्नानाक्रियाणां कृष्यर्थत्वात् (Va.3.onP.3.1.26,M.Bha.II.p,33,1.25.)
"नावश्यं कृषिर्विलेखन एव वर्तते । किं तर्हि । प्रतिविधानेऽपि वर्तते । (M.Bha.II.p,33.1.25.)
एवं शुद्धे विलेखनानवच्छिन्ने संविधानार्थे कृषिः वर्तत इति विलेखनस्य प्रयोज्यव्यापारस्यासम्भवाद् यथा णिञ् नोत्पद्यते तथात्मनेपदमपि, संविधानेन विशेष्यमाणस्यान्यस्य धात्वर्थस्याभावात् । संविधानविशिष्टार्थवाचिनो हि धातोरात्मनेपदं न तु शुद्धसंविधानवचनात् । यद्यपि च विलेखनमत्र धात्वर्थः तथापि तद्विषयं प्रतिविधानं विशिष्टमेव शब्दशक्तिस्वाभाव्यात् कृषिरभिधत्ते। तद् यथा--
`फले लुग्वचनानार्थक्यं प्रकृत्यन्तरत्वात्'
इति प्रत्याख्याते लुकि रूढिशब्दत्वेऽपि शब्दशक्तिस्वाभाव्यादामलकादिभिर्वनस्पतिविशेषप्रभव एव फलविशेषोऽभिधीयते । तदेतन्निवारयति । तथा ह्येवमत्रोच्यमाने यजिः अपि तस्य कृषेरिव धर्मोऽस्येति तद्धर्मा कृषिधर्मा स्यादिति ततोऽपि न भवेदात्मनेपदम् । यथा हि कृषिः शुद्धे प्रतिविधाने वर्तते तथा यजिरपि वर्तेत । तथा च भाष्ये प्रतिविधाने यजेर्वृत्तिरुक्ता । इदं हि तत्र चोद्यते--
"इह याजका याजयन्तीतीष्यते । हविःप्रक्षेपमात्रवचने तु यजौ याजकाः हविः प्रक्षिपन्ति, तान् यजमानः प्रयोजयन् याजयतीति विपरीतमभिधानं स्यात्" इति ।
अत्र परिहार उक्तः
"यज्यादिष्वविपर्यासो नानाक्रियाणां यज्यर्थत्वात्"
(Va.4.onP3.1.26M.Bha.II.p.34 1.3.)
"नावश्यं यजिर्हविःप्रक्षेपण एव वर्तते । किं तर्हि ।
त्यागेऽपि । तं यजमानः करोति, याजकाः कारयन्ति ।"
(M.Bha.II.p.34.1.5)
इति । एवं च द्रव्यत्यागमात्ररूपो यजेरर्थ इति कृषिवत् ततोऽपि न स्यादात्मनेपदम् । अथ त्यागविशिष्टं प्रतिविधानं यज्यर्थ इति भवत्यात्मनेपदं कृषेरपि विलेखनविशिष्टं संविधानमर्थ इति प्रसज्यत एवात्मनेपदम् । णिच् तु प्रैषस्यासम्प्रत्ययान्न भवति । न हि संविधानमेव ण्यर्थ इति पूर्वमेव निर्णीतम् ।। 26 ।।
कथं तर्ह्यात्मनेपदं न भवतीति सिद्धान्तमाह ।
अत्र तूपपदेनायमर्थभेदः प्रतीयते ।
प्राप्ते विभाषा क्रियते तस्मान्नास्त्यात्मनेपदम् ।। 27 ।।
समीपे श्रूयमाणेन पञ्चभिर्हलैरिति पदेनायं संविधानलक्षणोऽर्थविशेषो गम्यते यतस्ततोऽत्र
`विभाषोपपदेन प्रतीयमाने' (P.1.3.77)
इति प्राप्त आत्मनेपदे विभाषाकरणात् पक्षे न भवतीति कृषतीति साधुः प्रयोगो भाष्येऽवस्थित इति सिद्धमिष्टम् ।। 27 ।।
इति भूतिराजतनयहेलाराजकृते प्रकीर्णकप्रकाशे उपग्रहसमुद्देशो द्वादशः ।।

३,१३ः लिङ्गसमुद्देशःसम्पाद्यताम्