वाक्यवृत्तिः (बृहत्स्तोत्ररत्नाकरान्तर्गता)

वाक्यवृत्तिः
शङ्कराचार्यः
१९५३

॥ वाक्यवृत्तिः॥

सर्गस्थितिप्रलयहेतुमचिन्त्यशक्तिं विश्वेश्वरं विदित-
विश्वमनन्तमूर्तिम् । निर्मुक्तबन्धनमपारसुखाम्बुरांशि
श्रीवल्लभं विमलबोधघनं नमामि ॥१
यस्य प्रसादादहमेव विष्णुः मन्येव सर्व परि-
कल्पितं च । इत्थं विजानामि सदात्मरूपं तस्याङ्घ्रि-
पद्मं प्रणतोऽस्मि नित्यम् ॥२
तापत्रयार्कसन्तप्तः कश्चिदुद्विग्नमानसः ।
शमादिसाधनैर्युक्तः सद्गुरुं परिपृच्छति ॥ ३
अनायासेन येनास्मान्मुच्येयं भवबन्धनात् ।
तन्मे संक्षिप्य भगवन् कैवल्यं कृपया वद ॥४
साध्वी ते वचनव्यक्ति प्रतिभाति वदामि ते ।
इदं तदिति विस्पष्टं सावधानमनाः शृणु ॥
तत्वमस्यादिवाक्योत्थं यज्जीवपरमात्मनोः।
तादात्म्यं विषयज्ञानं तदिदं मुक्तिसाधनम् ॥ ६

को जीवः कः परश्चास्मा तादाम्यं वा कथं तयोः।
तत्त्वमस्यादिवाक्यं वा कथं तत्प्रतिपादयेत् ॥
अत्र ब्रूमः समाधानं कोन्यो जीवस्त्मेव हि ।
यस्त्वं पृच्छसि मां कोहं ब्रहैवासि न संशयः ॥८
पदार्थमेव जानामि नाद्यपि भगवन् स्फुटम् ।
अहं ब्रह्मेति वाक्यार्थं, प्रतिपद्ये कथं वद । ९
सत्यमाहं भवानत्र विज्ञानं नैव विद्यते ।
हेतु पदार्थबोधो हि वाक्यार्थावगतेरिव ॥१०
अन्तःकरणतद्वृत्ति साक्षी चैतन्यविग्रहः।
आनन्दरूपः सत्यस्सन् किं नात्मानं प्रपद्यते ॥ ११
सत्यानन्दस्वरूपं धीसाक्षिणं बोधविग्रहम् ।
चिन्मयात्मतया नित्यं त्यक्तवा देहादिगां धियम् ।।१२
रूपादिमान्यतः पिण्डस्ततो नात्मा घटादिवत् ।
वियदादिमहाभूतविकारत्वाच कुम्भवत् ॥१३
अनात्मा यदि पिण्डोयमुक्तहेतुबलान्मतः।
करामलकवत्साक्षादात्मानं प्रतिपादय ।।१४

घटद्रष्टा घटाद्भिन्नः सर्वदा न घटो यथा ।
देहे दृष्टा तथा देहो नाहमित्यवधारयेत् ॥ १५ः
एवमिन्द्रियदृङ्नाहमिन्द्रियाणीति निश्चिनु ।
मनोबुद्धिस्तथा प्राणो नाहमित्यवधारय ॥१६
सङ्घातोऽपि तथा नाहमिति दृश्यविलक्षणम् ।
द्रष्टारमनुमानेन-निपुणं सम्प्रधारय ।।१७
देहेन्द्रियादयो भावा हानादिव्यापूतिक्षमाः।
यस्य सन्निधिर्मात्रेण सोहमित्यवधारय ।।१८
अनापन्नविकारः सन्नयस्कान्तवदेव यः।
बुध्यादींश्चालयेत्प्रत्यक्सोहमित्यवधारय ।।१९
अजडात्मवदाभान्ति यत्सानिध्याजडा अपि
देहेन्द्रियमन:प्राणा: सोहमित्यवधारय ॥२०
आगमन्मे मनोन्यत्र साम्प्रतं च स्थिरीकृतम् ।
एवं यो वेत्ति धीवृत्तिं सोहमित्यवधारय ।।...२१
स्वप्रजागरिते सुप्तिं भावाभावौ धियां तथा।::::
यो वेत्त्यविक्रियस्साक्षात्साहेमित्यवधारय ।।

घटावभासको दीपो घटादन्यो यथेष्यते।
देहावभासको देही तथाहं बोधविग्रहः ॥२३
पुत्रवित्तादयो भावा यस्य शेषतया प्रियाः ।
द्रष्टा सर्वप्रियतमः सोहमित्यवधारय ॥२४
परप्रेमास्पदतया मानभूवमहं सदा ।
भूयासमिति यो द्रष्टा सोहमित्यवधारय ॥२५
यत्साक्षिलक्षणो बोधः त्वंपदार्थस्स उच्यते ।
साक्षित्वमपि बोद्धृत्वमविकारितयात्मनः ॥२६
देहेन्द्रियमनःप्राणाहङ्कृतिभ्यो विलक्षणः ।
प्रोज्झिताशेषषड्भावविकारस्त्वंपदाभिधः ॥२७
 त्वमर्थमेवं निश्चित्य तदर्थं चिन्तयेत्पुनः ।
अतद्व्यावृत्तिरूपेण साक्षाद्विधिमुखेन च ।।२८
निरस्ताशेषसंसारदोषोऽस्थूलादिलक्षणः ।
आदृश्यत्वादिगुणक: पराकृतमोमलः ।।
निरस्तातिशयानन्दस्सत्यप्रज्ञानविग्रहः ।
सत्तास्वलक्षणः पूर्णः परमात्मेति गीयते ॥

सर्वाज्ञत्वं परेशत्वं तथा सम्पूर्णशक्तिता।
वेदैस्समर्थते यस्य तद्ब्रह्मेत्यवधारय ।। ३१
यज्ज्ञानात्सर्वविज्ञानं श्रुतिषु प्रतिपादितम् ।
मृदाद्यनेकदृष्टान्तैस्तद्ब्रह्मेत्यवधारय ।।३२
यदानन्त्यं प्रतिज्ञाय श्रुतिस्तसिद्धये जगौ
तत्कार्यवं प्रपञ्चस्य तद्ब्रह्मेत्यवधारय ।।३३
विजिज्ञास्यतया यच्च वेदान्तेषु मुमुक्षुभिः ।
समर्थ्यतेऽतियत्नेन तद्ब्रह्मेत्यवधारय ।।
जीवात्मना प्रवेशश्च नयन्तृत्वं च तान्प्रति ।
श्रूयते यस्य वेदेषु तद्ब्रह्मेत्यवधारय ॥ ३५
कर्मणां फलदातृत्वं यस्यैव श्रयते श्रुतौ ।
जीवनाहेतुकर्तृत्वं तद्ब्रह्मेत्यवधारयः ॥ .
तत्वंपदार्थो निर्णीतौ वाक्यार्थश्चिन्त्यतेऽधुना ।
तादात्म्यमत्र वाक्यार्थः तयोरेव पदार्थयोः॥ ३७
संसर्गो वा विशिष्टो वा वाक्यार्थो नात्र सम्मतः ।
अखण्डैकरसत्वेन वाक्यार्थो विदुषां मतः ॥ ३८

प्रत्यग्बोधो य आभाति सोद्वयानन्दलक्षणः ।
अद्वयानन्दरूपश्च प्रत्यग्बोधैकलक्षणः॥
३९
इत्थमन्योन्यतादात्म्य प्रतिपत्तिर्यदा भवेत् ।
अब्रह्मत्वं त्वमर्थस्य व्यावर्तेत तदैव हि ।।४०
तदर्थस्य च पारोक्ष्यं यद्येतं किं ततः शृणु ।
पूर्णानन्दैकरूपेण प्रत्यग्बोधोऽवतिष्ठते ॥४१
तत्वमस्यादिवाक्यं च तादात्म्यप्रतिपादने ।
लक्ष्यौ तत्वं पदार्थों द्वावुपादाय प्रवर्तते ॥४३
हित्वाऽऽदौ शबली वांच्यौ वाक्यं वाक्यार्थबोधने ।
यथा प्रवर्ततेऽस्माभिस्तथा व्याख्यातमादरात् ॥४४॥
 आलम्बनतयाऽभाति योऽस्मात्प्रत्ययशब्दयोः।
अन्तकरणसम्भिन्नबोधस्सत्वं पदाभिदः॥ ४४
मायोपाधिजगद्योनिस्सर्वज्ञत्वादिलक्षणः ।
पारोक्ष्यशबलस्सत्याद्यात्मक स्तत्पदाभिध
प्रत्यक्परोक्षतैकस्य सद्वितीयत्वपूर्णता ।
विरुध्यते यतस्तस्मालक्षणा सम्प्रवर्तते । ४.६

मानान्तरविरोधे तु मुख्यार्थस्य परिग्रहे।
मुख्यार्थेनाविनाभूते प्रतीतिर्लक्षणोच्यते।।४७
तत्वमस्यादिवाक्येषु लक्षणा भागलक्षणा ।
सोहमित्यादिवाक्यस्यपदयोरिव नापरा ॥४८
अहंब्रह्मेति वाक्यार्थबोधो यावढी भवेत् ।
शमादिसहितास्तावद्भ्यसेच्छ्रवणादिकम् ।।४९
श्रुत्याचार्यप्रसादेन दृढो बोधो यदा भवेत् ।
निरस्ताशेषसंसारनिदान: पुरुषस्तदा ॥५०
विशीर्णकार्यकरणो भूतसूक्ष्मैरनावृतः ।
विमुक्तकर्मनिगडः सद्य एव विमुच्यते ॥
प्रारब्धकर्मवेगेन जीवन्मुक्तो यदा भवेत् ।
किञ्चित्कालमनारब्धकर्मबन्धस्य संक्षये ॥ ५२
निरस्तातिशयानादं वैष्णवं परमं पदम् ।
पुनरावृत्तिरहितं कैवल्यं प्रतिपद्यते ॥
इति श्रीमत्परमहंस परिव्राजकाचार्यवयं श्रीमच्छङ्कराचार्य-
विरचिता वाक्यवृत्तिः॥