वाग्भटसंहिता
चिकित्सास्थानम्
वाग्भटः
निदानस्थानम् →

श्रीमद्वाग्भटविरचिते
अष्टाङ्गहृदये चिकित्सितस्थानम्
प्रथमोऽध्यायः
अथातो ज्वरचिकित्सितं व्याख्यास्यामः
इति ह स्माहुरात्रेयादयो महर्षयः
आमाशयस्थो हत्वाऽग्नि सामो मार्गान् पिधाय यत्
विदधाति ज्वरं दोषस्तस्मात्कुर्वीत लङ्घनम् १
प्राग्रूपेषु ज्वरादौ वा बलं यत्नेन पालयन्
बलाधिष्ठानमारोग्यमारोग्यार्थः क्रियाक्रमः २
लङ्घनैः क्षपिते दोषे दीप्तेऽग्नौ लाघवे सति
स्वास्थ्यं क्षुत्तृड् रुचिः पक्तिर्बलमोजश्च जायते ३
तत्रोत्कृष्टे समुत्क्लिष्टे कफप्राये चले मले
सहृल्लासप्रसेकान्नद्वेषकास विषूचिके ४
सद्योभुक्तस्य सञ्जाते ज्वरे सामे विशेषतः
वमनं वमनार्हस्य शस्तं कुर्यात्तदन्यथा ५
श्वासातीसारसम्मोह हृद्रो गविषमज्वरान्
पिप्पलीभिर्युतान् गालान् कलिङ्गैर्मधुकेन वा ६
उष्णाम्भसा समधुना पिबेत्सलवणेन वा
पटोलनिम्बकर्कोटवेत्रपत्रोदकेन वा ७
तर्पणेन रसेनेक्षोर्मद्यैः कल्पोदितानि वा
वमनानि प्रयुञ्जीत बलकालविभागवित् ८
कृतेऽकृते वा वमने ज्वरी कुर्याद्विशोषणम्
दोषाणां समुदीर्णानां पाचनाय शमाय च ९
दोषेण भस्मनेवाग्नौ छन्नेऽन्न न विपच्यते
तस्मादादोषपचनाज्ज्वरितानुपवासयेत् १०
तृष्णगल्पाल्पमुष्णाम्बु पिबेद्वातकफज्वरे
तत्कफं विलयं नीत्वा तृष्णामाशु निवर्तयेत् ११
उदीर्य चाग्निं स्रोतांसि मृदूकृत्य विशोधयेत्
लीनपित्तानिलस्वेदशकृन्मूत्रानु लोमनम् १२
निद्रा जाड्यारुचिहरं प्राणानामवलम्बनम्
विपरीतमतः शीतं दोषसङ्घातवर्द्धनम् १३
उष्णमेवंगुणत्वेऽपि युञ्ज्यान्नैकान्तपित्तले
उद्रि क्तपित्ते दवथुदाहमोहातिसारिणि १४
विषमद्योत्थिते ग्रीष्मे क्षतक्षीणेऽस्रपित्तिनि
घनचन्दनशुण्ठ्यम्बुपर्पटोशीरसाधितम् १५
शीतं तेभ्यो हितं तोयं पाचनं तृड्ज्वरापहम्
ऊष्मा पित्तादृते नास्ति ज्वरो नास्त्यूष्मणा विना १६
तस्मात्पित्तविरुद्धानि त्यजेत् पित्ताधिकेऽधिकम्
स्नानाभ्यङ्गप्रदेहांश्च परिशेषं च लङ्घनम् १७
अजीर्ण इव शूलघ्नं सामे तीव्ररुजि ज्वरे
न पिबेदौषधं तद्धि भूय एवाममावहेत् १८
आमाभिभूतकोष्ठस्य क्षीरं विषमहेरिव
सोदर्दपीनसश्वासे जङ्घापर्वास्थिशूलिनि १९
वातश्लेष्मात्मके स्वेदः प्रशस्तः स प्रवर्तयेत्
स्वेदमूत्रशकृद्वातान् कुर्यादग्नेश्च पाटवम् २०
स्नेहोक्तमाचारविधिं सर्वशश्चानुपालयेत्
लङ्घनं स्वेदनं कालो यवाग्वस्तिक्तको रसः २१
मलानां पाचनानि स्युर्यथावस्थं क्रमेण वा
शुद्धवातक्षयागन्तुजीर्णज्वरिषु लङ्घनम् २२
नेष्यते तेषु हि हितं शमनं यन्न कर्शनम्
तत्र सामज्वराकृत्या जानीयादविशोषितम् २३
द्विविधोपक्रमज्ञानमवेक्षेत च लङ्घने
युक्तं लङ्घितलिङ्गैस्तु तं पेयाभिरुपाचरेत् २४
यथास्वौषधसिद्धाभिर्मण्ड पूर्वाभिरादितः
षडहं वा मृदुत्वं वा ज्वरो यावदवाप्नुयात् २५
तस्याग्निर्दीप्यते ताभिः समिद्भिरिव पावकः
प्राग्लाजपेयां सुजरां सशुण्ठीधान्यपिप्पलीम् २६
ससैन्धवां तथाऽम्लार्थी तां पिबेत्सहदाडिमाम्
सृष्टविड् बहुपित्तो वा सशुण्ठीमाक्षिकां हिमाम् २७
बस्तिपार्श्वशिरःशूली व्याघ्रीगोक्षुरसाधिताम्
पृश्निपर्णीबलाबिल्वनागरोत्पलधान्यकैः २८
सिद्धां ज्वरातिसार्यम्लां पेयां दीपनपाचनीम्
ह्रस्वेन पञ्चमूलेन हिक्कारुक्श्वासकासवान् २९
पञ्चमूलेन महता कफार्तो यवसाधिताम्
विबद्धवर्चाः सयवां पिप्पल्यामलकैः कृताम् ३०
यवागूं सर्पिषा भृष्टां मलदोषानुलोमनीम्
चविकापिप्पलीमूल द्रा क्षामलकनागरैः ३१
कोष्ठे विबद्धे सरुजि पिबेत्तु परिकर्तिनि
कोलवृक्षाम्लकलशीधावनीश्रीफलैः कृताम् ३२
अस्वेदनिद्र स्तृष्णार्तः सितामलकनागरैः
सिताबदरमृद्वीकासारिवामुस्तचन्दनैः ३३
तृष्णाच्छर्दिपरीदाहज्वरघ्नीं क्षौद्र संयुताम्
कुर्यात्पेयौषधैरेव रसयूषादिकानपि ३४
मद्योद्भवे मद्यनित्ये पित्तस्थानगते कफे
ग्रीष्मे तयोर्वाऽधिकयोस्तृट्छर्दिर्दाहपीडिते ३५
ऊर्ध्वं प्रवृत्ते रक्ते च पेयां नेच्छन्ति तेषु तु
ज्वरापहैः फलरसैरद्भिर्वा लाजतर्पणान् ३६
पिबेत्सशर्कराक्षौद्रान् ततो जीर्णे तु तर्पणे
यवाग्वां वौदनं क्षुद्वानश्नीयाद्भृष्टतण्डुलम् ३७
दकलावणिकैर्यूषै रसैर्वा मुद्गलावजैः
इत्ययं षडहो नेयो बलं दोषं च रक्षता ३८
ततः पक्वेषु दोषेषु लङ्घनाद्यैः प्रशस्यते
कषायो दोषशेषस्य पाचनः शमनोऽथवा ३९
तिक्तः पित्ते विशेषेण प्रयोज्यः कटुकः कफे
पित्तश्लेष्महरत्वेऽपि कषायः स न शस्यते ४०
नवज्वरे मलस्तम्भात्कषायो विषमज्वरम्
कुरुतेऽरुचिहृल्लासहिध्माध्मानादिकानपि ४१
सप्ताहादौषधं केचिदाहुरन्ये दशाहतः
केचिल्लघ्वन्नभुक्तस्य योज्यमामोल्बणे न तु ४२
तीव्रज्वरपरीतस्य दोषवेगोदये यतः
दोषेऽथवाऽतिनिचिते तन्द्रा स्तैमित्यकारिणि ४३
अपच्यमानं भैषज्यं भूयो ज्वलयति ज्वरम्
मृदुर्ज्वरो लघुर्देहश्चलिताश्च मला यदा ४४
अचिरज्वरितस्यापि भेषजं योजयेत्तदा
मुस्तया पर्पटं युक्तं शुण्ठ्या दुःस्पर्शयाऽपि वा ४५
पाक्यं शीतकषायं वा पाठोशीरं सवालकम्
पिबेत्तद्वच्च भूनिम्बगुडूचीमुस्तनागरम् ४६
यथायोगमिमे योज्याः कषाया दोषपाचनाः
ज्वरारोचकतृष्णास्यवैरस्यापक्तिनाशनाः ४७
कलिङ्गकाः पटोलस्य पत्रं कटुकरोहिणी ४८
पटोलं सारिवा मुस्ता पाठा कटुकरोहिणी
पटोलनिम्बत्रिफला मृद्वीकामुस्तवत्सकाः ४९
किराततिक्तममृता चन्दनं विश्वभेषजम्
धात्रीमुस्तामृताक्षौद्र मर्ध श्लोकसमापनाः ५०
पञ्चैते सन्ततादीनां पञ्चानां शमना मताः
दुरालभामृतामुस्तानागरं वातजे ज्वरे ५१
अथवा पिप्पलीमूलगुडूचीविश्वभेषजम्
कनीयः पञ्चमूलं च पित्ते शक्रयवाघनम् ५२
कटुका चेति सक्षौद्रं मुस्तापर्पटकं तथा
सधन्वयासभूनिम्बं वत्सकाद्यो गणः कफे ५३
अथवा वृषगाङ्गेयीशृङ्गवेरदुरालभाः
रुग्विबन्धानिलश्लेष्मयुक्ते दीपनपाचनम् ५४
अभयापिप्पली मूलशम्याककटुकाघनम्
द्रा क्षामधूकमधु करोध्रकाश्मर्यसारिवाः ५५
मुस्तामलकह्रीबेरपद्म केसरपद्मकम्
मृणालचन्दनोशीर नीलोत्पलपरूषकम् ५६
फाण्टो हिमो वा द्रा क्षादिर्जातीकुसुमवासितः
युक्तो मधुसितालाजैर्जयत्यनिलपित्तजम् ५७
ज्वरं मदात्ययं छर्दिं मूर्च्छां दाहं श्रमं भ्रमम्
ऊर्ध्वगं रक्तपित्तं च पिपासां कामलामपि ५८
पाचयेत्कटुकां पिष्ट्व्वा कर्प रेऽभिनवे शुचौ
निष्पीडितो घृतयुतस्तद्र सो ज्वरदाहजित् ५९
कफवाते वचातिक्तापाठारग्वधवत्सकाः
पिप्पलीचूर्णयुक्तो वा क्वाथश्च्छिन्नोद्भवोद्भवः ६०
व्याघ्रीशुण्ठ्यमृताक्वाथः पिप्पलीचूर्णसंयुतः
वातश्लेष्मज्वर श्वासकासपीनसशूलजित् ६१
पथ्याकुस्तुम्बरीमुस्ता शुण्ठीकट्तृणपर्पटम्
सकट्फलवचाभार्ङ्गीदेवाह्वं मधुहिङ्गुमत् ६२
कफवातज्वरष्ठीवकुक्षि हृत्पार्श्ववेदनाः
कण्ठामयास्यश्वयथु कासश्वासान्नियच्छति ६३
आरग्वधादिः सक्षौद्रः कफपित्तज्वरं जयेत्
तथा तिक्तावृषोशीरत्रायन्तीत्रिफलामृताः ६४
पटोलातिविषानिम्ब मूर्वाधन्वयवासकाः
सन्निपातज्वरे व्याघ्रीदेवदारुनिशाघनम् ६५
पटोलपत्रनिम्बत्वक्त्रिफला कटुकायुतम्
नागरं पौष्करं मूलं गुडूची कण्टकारिका ६६
सकासश्वासपार्श्वार्तौ वातश्लेष्मोत्तरे ज्वरे
मधूकपुष्पमृद्वीकात्रायमाणा परूषकम् ६७
सोशीरतिक्तात्रिफलाकाश्मर्यं कल्पयेद्धिमम्
कषायं तं पिबन् काले ज्वरान् सर्वानपोहति ६८
जात्यामलकमुस्तानि तद्वद्धन्वयवासकम्
बद्धविट् कटुकाद्रा क्षात्रायन्तीत्रिफलागुडम् ६९
जीर्णौषधोऽन्न पेयाद्यमाचरेत् श्लेष्मवान्न तु
पेया कफं वर्धयति पङ्कं पांसुषु वृष्टिवत् ७०
श्लेष्माभिष्यण्णदेहानामतः प्रागपि योजयेत्
यूषान् कुलत्थचणककलायादिकृतान् लघून् ७१
रूक्षांस्तिक्तरसोपेतान् हृद्यान् रुचिकरान् पटून्
रक्ताद्याः शालयो जीर्णाः षष्टिकाश्च ज्वरे हिताः ७२
श्लेष्मोत्तरे वीततुषास्तथा वाटीकृता यवाः
ओदनस्तैः स्रुतो द्विस्त्रिः प्रयोक्तव्यो यथायथम् ७३
दोषदूष्यादिबलतो ज्वरघ्नक्वाथसाधितः
मुद्गाद्यैर्लघुभिर्यूषाः कुलत्थैश्च ज्वरापहाः ७४
कारवेल्लककर्कोटबाल मूलकपर्पटैः
वार्ताकनिम्बकुसुमपटोल फलपल्लवैः ७५
अत्यन्तलघुभिर्मांसैर्जाङ्गलैश्च हिता रसाः
व्याघ्रीपरूषतर्कारीद्रा क्षामलकदाडिमैः ७६
संस्कृताः पिप्पलीशुण्ठीधान्यजीरकसैन्धवैः
सितामधुभ्यां प्रायेण संयुता वा कृताकृताः ७७
अनम्लतक्रसिद्धानि रुच्यानि व्यञ्जनानि च
अच्छान्यनलसम्पन्नान्यनुपानेऽपि योजयेत् ७८
तानि क्वथितशीतं च वारि मद्यं च सात्म्यतः
सज्वरं ज्वरमुक्तं वा दिनान्ते भोजयेल्लघु ७९
श्लेष्मक्षयविवृद्धोष्मा बलवाननलस्तदा
यथोचितेऽथवा काले देशसात्म्यानुरोधतः ८०
प्रागल्पवह्निर्भुञ्जानो न ह्यजीर्णेन पीड्यते
कषायपानपथ्यान्नैर्दशाह इति लङ्घिते ८१
सर्पिर्दद्यात्कफे मन्दे वातपित्तोत्तरे ज्वरे
पक्वेषु दोषेष्वमृतं तद्विषोपममन्यथा ८२
दशाहे स्यादतीतेऽपि ज्वरोपद्र ववृद्धिकृत्
लङ्घनादिक्रमं तत्र कुर्यादाकफसङ्क्षयात् ८३
देहधात्वबलत्वाच्च ज्वरो जीर्णोऽनुवर्तते
रूक्षं हि तेजो ज्वरकृत्तेजसा रूक्षितस्य च ८४
वमनस्वेदकालाम्बु कषायलघुभोजनैः
यः स्यादतिबलो धातुः सहचारी सदागतिः ८५
तस्य संशमनं सर्पिर्दीप्तस्येवाम्बु वेश्मनः
वातपित्तजितामग्र्यं संस्कारं चानुरुध्यते ८६
सुतरां तद्ध्य्तो दद्याद्यथास्वौषधसाधितम्
विपरीतं ज्वरोष्माणं जयेत्पित्तं च शैत्यतः ८७
स्नेहाद्वातं घृतं तुल्यं योगसंस्कारतः कफम्
पूर्वे कषायाः सघृताः सर्वे योज्या यथामलम् ८८
त्रिफलापिचुमन्दत्वङ्मधुकं बृहतीद्वयम्
समसूरदलं क्वाथः सघृतो ज्वरकासहा ८९
पिप्पलीन्द्र यवधावनितिक्ता सारिवामलकतामलकीभिः
बिल्वमुस्तहिमपालनिसेव्यैर्द्राक्षयाऽतिविषया स्थिरया च ९०
घृतमाशु निहन्ति साधितं ज्वरमग्निं विषमं हलीमकम्
अरुचिं भृशतापमंसयोर्वमथुं पार्श्वशिरोरुजं क्षयम् ९१
तैल्वकं पवनजन्मनि ज्वरे योजयेत्त्रिवृतया वियोजितम्
तिक्तकं वृषघृतं च पैत्तिके यच्च पालनिकया शृतं हविः ९२
विडङ्गसौवर्चलचव्यपाठाव्योषाग्निसिन्धूद्भवयावशूकैः
पलांशकैः क्षीरसमं घृतस्यप्रस्थं पचेज्जीर्णकफज्वरघ्नम् ९३
गुडूच्या रसकल्काभ्यां त्रिफलाया वृषस्य च
मृद्वीकाया बलायाश्च स्नेहाः सिद्धा ज्वरच्छिदः ९४
जीर्णे घृते च भुञ्जीत मृदुमांसरसौदनम्
बलं ह्यलं दोषहरं परं तच्च बलप्रदम् ९५
कफपित्तहरा मुद्गकारवेल्लादिजा रसाः
प्रायेण तस्मान्न हिता जीर्णे वातोत्तरे ज्वरे ९६
शूलोदावर्तविष्टम्भजनना ज्वरवर्धनाः
न शाम्यत्येवमपि चेज्ज्वरः कुर्वीत शोधनम् ९७
शोधनार्हस्य वमनं प्रागुक्तं तस्य योजयेत्
आमाशयगते दोषे बलिनः पालयन्बलम् ९८
पक्वे तु शिथिले दोषे ज्वरे वा विषमद्यजे
मोदकं त्रिफलाश्यामात्रिवृत्पिप्पलिकेसरैः ९९
ससितामधुभिर्दद्याद्व्योषाद्यं वा विरेचनम्
लिह्याद्वा त्रैवृतं चूर्णं संयुक्तं मधुसर्पिषा
द्राक्षाधात्रीरसं तद्वत्सद्राक्षां वा हरीतकीम् १००
आरग्वधं वा पयसा मृद्वीकानां रसेन वा
त्रिफलां त्रायमाणां वा पयसा ज्वरितः पिबेत् १०१
विरिक्तानां च संसर्गी मण्डपूर्वा यथाक्रमम्
च्यवमानं ज्वरोत्क्लिष्टमुपेक्षेत मलं सदा १०२
पक्वोऽपि हि विकुर्वीत दोषः कोष्ठे कृतास्पदः
अतिप्रवर्तमानं वा पाचयन् सङ्ग्रहं नयेत् १०३
आमसङ्ग्रहणे दोषा दोषोपक्रम ईरिताः
पाययेद्दोषहरणं मोहादामज्वरे तु यः १०४
प्रसुप्तं कृष्णसर्पं स कराग्रेण परामृशेत्
ज्वरक्षीणस्य न हितं वमनं न विरेचनम् १०५
कामं तु पयसा तस्य निरूहैर्वा हरेन्मलान्
क्षीरोचितस्य प्रक्षीणश्लेष्मणो दाहतृड्वतः १०६
क्षीरं पित्तानिलार्तस्य पथ्यमप्यतिसारिणः
तद्वपुर्लङ्घनोत्तप्तं प्लुष्टं वनमिवाग्निना १०७
दिव्याम्बु जीवयेत्तस्य ज्वरं चाशु नियच्छति
संस्कृतं शीतमुष्णं वा तस्माद्धारोष्णमेव वा १०८
विभज्य काले युञ्जीत ज्वरिणं हन्त्यतोऽन्यथा
पयः सशुण्ठीखर्जूरमृद्वीकाशर्कराघृतम् १०९
शृतशीतं मधुयुतं तृड्दाहज्वरनाशनम्
तद्वद् द्रा क्षाबलायष्टीसारिवाकणचन्दनैः ११०
चतुर्गुणेनाम्भसा वा पिप्पल्या वा शृतं पिबेत्
कासाच्छ्वासाच्छिरःशूलात्पार्श्वशूलाच्चिरज्वरात् १११
मुच्यते ज्वरितः पीत्वा पञ्चमूलीशृतं पयः
शृतमेरण्डमूलेन बालबिल्वेन वा ज्वरात् ११२
धारोष्णं वा पयः पीत्वा विबद्धानिलवर्चसः
सरक्तपिच्छातिसृतेः सतृट्शूलप्रवाहिकात् ११३
सिद्धं शुण्ठीबलाव्याघ्रीगोकण्टकगुडैः पयः
शोफमूत्रशकृद्वातविबन्धज्वरकासजित् ११४
वृश्चीवबिल्ववर्षाभूसाधितं ज्वरशोफनुत्
शिंशिपासारसिद्धं च क्षीरमाशु ज्वरापहम् ११५
निरूहस्तु बलं वह्निं विज्वरत्वं मुदं रुचिम्
दोषे युक्तः करोत्याशु पक्वे पक्वाशयं गते ११६
पित्तं वा कफपित्तं वा पक्वाशयगतं हरेत्
स्रंसनं त्रीनपि मलान् बस्तिः पक्वाशयाश्रयान् ११७
प्रक्षीणकफपित्तस्य त्रिकपृष्ठकटिग्रहे
दीप्ताग्नेर्बद्धशकृतः प्रयुञ्जीतानुवासनम् ११८
पटोलनिम्बच्छदनकटुका चतुरङ्गुलैः
स्थिराबलागोक्षुरक मदनोशीरवालकैः ११९
पयस्यर्धोदके क्वाथं क्षीरशेषं विमिश्रितम्
कल्कितैर्मुस्तमदनकृष्णामधुकवत्सकैः १२०
बस्तिं मधुघृताभ्यां च पीडयेज्ज्वरनाशनम्
चतस्रः पर्णिनीर्यष्टीफलोशीरनृपद्रुमान् १२१
क्वाथयेत्कल्कयेद्यष्टीशताह्वाफलिनीफलम्
मुस्तं च बस्तिः सगुडक्षौद्र सर्पिर्ज्वरापहः १२२
जीवन्तीं मदनं मेदां पिप्पलद्यं मधुकं वचाम्
ऋद्धिं रास्नां बलां बिल्वं शतपुष्पां शतावरीम् १२३
पिष्ट्वा क्षीरं जलं सर्पिस्तैलं चैकत्र साधितम्
ज्वरेऽनुवासनं दद्याद्यथास्नेहं यथामलम् १२४
ये च सिद्धिषु वक्ष्यन्ते बस्तयो ज्वरनाशनाः
शिरोरुग्गौरवश्लेष्महरमिन्द्रि य बोधनम् १२५
जीर्णज्वरे रुचिकरं दद्यान्नस्यं विरेचनम्
स्नैहिकं शून्यशिरसो दाहार्ते पित्तनाशनम् १२६
धूमगण्डूषकवलान् यथादोषं च कल्पयेत्
प्रतिश्यायास्यवैरस्यशिरः कण्ठामयापहान् १२७
अरुचौ मातुलुङ्गस्य केसरं साज्यसैन्धवम्
धात्रीद्रा क्षासितानां वा कल्कमास्येन धारयेत् १२८
यथोपशयसंस्पर्शान् शीतोष्णद्र व्यकल्पितान्
अभ्यङ्गालेपसेकादीन् ज्वरे जीर्णे त्वगाश्रिते १२९
कुर्यादञ्जनधूमांश्च तथैवागन्तुजेऽपि तान्
दाहे सहस्रधौतेन सर्पिषाऽभ्यङ्गमाचरेत् १३०
सूत्रोक्तैश्च गणैस्तैस्तैर्मधुराम्लकषायकैः
दूर्वादिभिर्वा पित्तघ्नैः शोधनादिगणोदितैः १३१
शीतवीर्यैर्हिमस्पर्शैः क्वाथकल्कीकृतैः पचेत्
तैलं सक्षीरमभ्यङ्गात्सद्यो दाहज्वरापहम् १३२
शिरो गात्रं च तैरेव नातिपिष्टैः प्रलेपयेत्
तत्क्वाथेन परीषेकमवगाहं च योजयेत् १३३
तथाऽरनालसलिलक्षीरशुक्तघृतादिभिः
कपित्थमातुलुङ्गाम्लविदारीरोध्रदाडिमैः १३४
बदरीपल्लवोत्थेन फेनेनारिष्टकस्य वा
लिप्तेऽङ्गे दाहरुङ्मोहाश्च्छर्दिस्तृष्णा च शाम्यति १३५
यो वर्णितः पित्तहरो दोषोपक्रमणे क्रमः
तं च शीलयतः शीघ्रं सदाहो नश्यति ज्वरः १३६
वीर्योष्णैरुष्णसंस्पर्शैस्तगरा गुरुकुङ्कुमैः
कुष्ठस्थौणेयशैलेय सरलामरदारुभिः १३७
नखरास्नापुरवचा चण्डैलाद्वयचोरकैः
पृथ्वीकाशिग्रुसुर साहिंस्राध्यामकसर्षपैः १३८
दशमूलामृतैरण्डद्वय पत्तूररोहिषैः
तमालपत्रभूतीकशल्लकीधान्य दीप्यकैः १३९
मिशिमाषकुलत्थाग्नि प्रकीर्यानाकुलीद्वयैः
अन्यैश्च तद्विधैर्द्र व्यैः शीते तैलं ज्वरे पचेत् १४०
क्वथितैः कल्कितैर्युक्तैः सुरासौवीरकादिभिः
तेनाभ्यञ्ज्यात्सुखोष्णेन तैः सुपिष्टैश्च लेपयेत् १४१
कवोष्णैस्तैः परीषेकमवगाहं च कल्पयेत्
केवलैरपि तद्वच्च सुक्तगोमूत्रमस्तुभिः १४२
आरग्वधादिवर्गं च पानाभ्यञ्जनलेपने
धूपानगरुजान् यांश्च वक्ष्यन्ते विषमज्वरे १४३
अग्न्यनग्निकृतान् स्वेदान् स्वेदि भेषजभोजनम्
गर्भभूवेश्मशयनं कुथकम्बलरल्लकान् १४४
निर्धूमदीप्तैरङ्गारैर्हसन्तीश्च हसन्तिकाः
मद्यं सत्र्यूषणं तक्रं कुलत्थव्रीहिकोद्र वान् १४५
संशीलयेद्वेपथुमान् यच्चान्यदपि पित्तलम्
दयिताः स्तनशालिन्यः पीना विभ्रमभूषणाः १४६
यौवनासवमत्ताश्च तमालिङ्गेयुरङ्गनाः
वीतशीतं च विज्ञाय तास्ततोऽपनयेत्पुनः १४७
वर्धनेनैकदोषस्य क्षपणेनोच्छ्रितस्य वा
कफस्थानानुपूर्व्या वा तुल्यकक्षाञ्जयेन्मलान् १४८
सन्निपातज्वरस्यान्ते कर्णमूले सुदारुणः
शोफः सञ्जायते येन कश्चिदेव विमुच्यते १४९
रक्तावसेचनैः शीघ्रं सर्पिःपानैश्च तं जयेत्
प्रदेहैः कफपित्तघ्नैर्नावनैः कवलग्रहैः १५०
शीतोष्णस्निग्धरूक्षाद्यैर्ज्वरो यस्य न शाम्यति
शाखानुसारी तस्याशु मुञ्चेद्बाह्वोः क्रमाच्छिराम् १५१
अयमेव विधिः कार्यो विषमेऽपि यथायथम्
ज्वरे विभज्य वातादीन् यश्चानन्तरमुच्यते १५२
पटोलकटुकामुस्ता प्राणदामधुकैः कृताः
त्रिचतुःपञ्चशः क्वाथा विषमज्वरनाशनाः १५३
योजयेत्त्रिफलां पथ्यां गुडूचीं पिप्पलद्यं पृथक्
तैस्तैर्विधानैः सगुडं भल्लातकमथापि वा १५४
लङ्घनं बृंहणं वाऽदौ ज्वरागमनवासरे
प्रातः सतैलं लशुनं प्राग्भक्तं वा तथा घृतम् १५५
जीर्णं तद्वद्दधि पयस्तक्रं सर्पिश्च षट्पलम्
कल्याणकं पञ्चगव्यं तिक्ताख्यं वृषसाधितम् १५६
त्रिफलाकोलतर्कारीक्वाथे दध्ना शृतं घृतम्
तिल्वकत्वक्कृतावापं विषमज्वरजित्परम् १५७
सुरां तीक्ष्णं च यन्मद्यं शिखितित्तिरिदक्षजम्
मांसं मेद्योष्णवीर्यं च सहान्नेन प्रकामतः १५८
सेवित्वा तदहः स्वप्यादथवा पुनरुल्लिखेत्
सर्पिषो महतीं मात्रां पीत्वा वा छर्दयेत्पुनः १५९
नीलिनीमजगन्धां च त्रिवृतां कटुरोहिणीम्
पिबेज्ज्वरस्यागमने स्नेहस्वेदोपपादितः १६०
मनोह्वा सैन्धवं कृष्णा तैलेन नयनाञ्जनम्
योज्यं हिङ्गुसमा व्याघ्रीवसा नस्यं ससैन्धवम् १६१
पुराणसर्पिः सिंहस्य वसा तद्वत्ससैन्धवा
पलङ्कषा निम्बपत्रं वचा कुष्ठं हरीतकी १६२
सर्षपाः सयवाः सर्पिर्धूपो विड्वा बिडालजा
पुरध्यामवचासर्जनिम्बार्कागरुदारुभिः १६३
धूपो ज्वरेषु सर्वेषु कार्योऽयमपराजितः
धूपनस्याञ्जनोत्त्रासा ये चोक्ताश्चित्तवैकृते १६४
दैवाश्रयं च भैषज्यं ज्वरान् सर्वान् व्यपोहति
विशेषाद्विषमान् प्रायस्ते ह्यागन्त्वनुबन्धजाः १६५
यथास्वं च सिरां विध्येदशान्तौ विषमज्वरे
केवलानिलवीसर्पविस्फोटाभिहतज्वरे १६६
सर्पिःपान हिमालेपसेकमांसरसाशनम्
कुर्याद्यथास्वमुक्तं च रक्तमोक्षादि साधनम् १६७
ग्रहोत्थे भूतविद्योक्तं बलिमन्त्रादि साधनम्
ओषधीगन्धजे पित्तशमनं विषजिद्विषे १६८
इष्टैरर्थैर्मनोज्ञैश्च यथादोषशमेन च
हिताहितविवेकैश्च ज्वरं क्रोधादिजं जयेत् १६९
क्रोधजो याति कामेन शान्तिं क्रोधेन कामजः
भयशोकोद्भवौ ताभ्यां भीशोकाभ्यां तथेतरौ १७०
शापाथर्वणमन्त्रोत्थे विधिर्दैवव्यपाश्रयः
ते ज्वराः केवलाः पूर्वं व्याप्यन्तेऽनन्तरं मलैः १७१
तस्माद्दोषानुसारेण तेष्वाहारादि कल्पयेत्
न हि ज्वरोऽनुबध्नाति मारुताद्यैर्विना कृतः १७२
ज्वरकालस्मृतिं चास्य हारिभिर्विषयैर्हरेत्
करुणार्द्रं मनः शुद्धं सर्वज्वरविनाशनम् १७३
त्यजेदाबललाभाच्च व्यायामस्नानमैथुनम्
गुर्वसात्म्यविदाह्यन्नं यच्चान्यज्ज्वरकारणम् १७४
न विज्वरोऽपि सहसा सर्वान्नीनो भवेत्तथा
निवृत्तोऽपि ज्वरः शीघ्रं व्यापादयति दुर्बलम् १७५
सद्यः प्राणहरो यस्मात्तस्मात्तस्य विशेषतः
तस्यां तस्यामवस्थायां तत्तत्कुर्याद्भिषग्जितम् १७६
ओषधयो मणयश्च सुमन्त्राः साधुगुरुद्विजदैवतपूजाः
प्रीतिकरा मनसो विषयाश्च घ्नन्त्यपि विष्णुकृतं ज्वरमुग्रम् १७७
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां चतुर्थे
चिकित्सितस्थानेज्वरचिकित्सितं नाम प्रथमोऽध्यायः १

द्वितीयोऽध्यायः
अथातो रक्तपित्तचिकित्सितं व्याख्यास्यामः
इति ह स्माहुरात्रेयादयो महर्षयः
ऊर्ध्वगं बलिनोऽवेगमेकदोषानुगं नवम्
रक्तपित्तं सुखे काले साधयेन्निरुपद्र वम् १
अधोगं यापयेद्र क्तं यच्च दोषद्वयानुगम्
शान्तं शान्तं पुनः कुप्यन्मार्गान्मार्गान्तरं च यत् २
अतिप्रवृत्तं मन्दाग्नेस्त्रिदोषं द्विपथं त्यजेत्
ज्ञात्वा निदानमयनं मलावनुबलौ बलम् ३
देशकालाद्यवस्थां च रक्तपित्ते प्रयोजयेत्
लङ्घनं बृंहणं वाऽदौ शोधनं शमनं तथा ४
सन्तर्पणोत्थं बलिनो बहुदोषस्य साधयेत्
ऊर्ध्वभागं विरेकेण वमनेन त्वधोगतम् ५
शमनैर्बृंहणैश्चान्यल्लङ्घ्यबृंह्यानवेक्ष्य च
ऊर्ध्वं प्रवृत्ते शमनौ रसौ तिक्तकषायकौ ६
उपवासश्च निःशुण्ठीषडङ्गोदकपायिनः
अधोगे रक्तपित्ते तु बृंहणो मधुरो रसः ७
ऊर्ध्वगे तर्पणं योज्यं प्राक् च पेया त्वधोगते
अश्नतो बलिनोऽशुद्धं न धार्यं तद्धि रोगकृत् ८
धारयेदन्यथा शीघ्रमग्निवच्छीघ्रकारि तत्
त्रिवृच्छ्यामाकषायेण कल्केन च सशर्करम् ९
साधयेद्विधिवल्लेहं लिह्यात्पाणितलं ततः
त्रिवृता त्रिफला श्यामा पिप्पली शर्करा मधु १०
मोदकः सन्निपातोर्ध्वरक्तशोफज्वरापहः
त्रिवृत्समसिता तद्वत् पिप्पलीपादसंयुता ११
वमनं फलसंयुक्तं तर्पणं ससितामधु
ससितं वा जलं क्षौद्र युक्तं वा मधुकोदकम् १२
क्षीरं वा रसमिक्षोर्वा शुद्धस्यानन्तरो विधिः
यथास्वं मन्थपेयादिः प्रयोज्यो रक्षता बलम् १३
मन्थो ज्वरोक्तो द्रा क्षादिः पित्तघ्नैर्वा फलैः कृतः
मधुखर्जूरमृद्वीकापरूष कसिताम्भसा १४
मन्थो वा पञ्चसारेण सघृतैर्लाजसक्तुभिः
दाडिमामलकाम्लो वा मन्दाग्न्यम्लाभिलाषिणाम् १५
कमलोत्पलकिञ्जल्कपृश्निपर्णी प्रियङ्गुकाः
उशीरं शाबरं रोध्रं शृङ्गबेरं कुचन्दनम् १६
ह्रीबेरं धातकीपुष्पं बिल्वमध्यं दुरालभा
अर्धार्धैर्विहिताः पेया वक्ष्यन्ते पादयौगिकाः १७
भूनिम्बसेव्यजलदा मसूराः पृश्निपर्ण्यपि
विदारिगन्धा मुद्गाश्च बला सर्पिर्ह रेणुकाः १८
जाङ्गलानि च मांसानि शीतवीर्याणि साधयेत्
पृथक्पृथग्जले तेषां यवागूः कल्पयेद्र से १९
शीताः सशर्कराक्षौद्रा स्तद्वन्मांसरसानपि
ईषदम्लाननम्लान् वा घृतभृष्टान् सशर्करान् २०
शूकशिम्बीभवं धान्यं रक्ते शाकं च शस्यते
अन्नस्वरूपविज्ञाने यदुक्तं लघु शीतलम् २१
पूर्वोक्तमम्बु पानीयं पञ्चमूलेन वा शृतम्
लघुना शृतशीतं वा मध्वम्भो वा फलाम्बु वा २२
शशः सवास्तुकः शस्तो विबन्धे तित्तिरिः पुनः
उदुम्बरस्य निर्यूहे साधितो मारुतेऽधिके २३
प्लक्षस्य बर्हिणस्तद्वन्न्यग्रोधस्य च कुक्कुटः
यत्किञ्चिद्र क्तपित्तस्य निदानं तच्च वर्जयेत् २४
वासारसेन फलिनीमृद्रो ध्राञ्जनमाक्षिकम्
पित्तासृक् शमयेत्पीतं निर्यासो वाऽटरूषकात् २५
शर्करामधुसंयुक्तः केवलो वा शृतोऽपि वा
वृषः सद्यो जयत्यस्रं स ह्यस्य परमौषधम् २६
पटोलमालतीनिम्ब चन्दनद्वयपद्मकम्
रोध्रो वृषस्तन्दुलीयः कृष्णा मृन्मदयन्तिका २७
शतावरी गोपकन्या काकोल्यौ मधुयष्टिका
रक्तपित्तहराः क्वाथास्त्रयः समधुशर्कराः २८
पलाशवल्कक्वाथो वा सुशीतः शर्करान्वितः
लिह्याद्वा मधुसर्पिर्भ्यां गवाश्वशकृतो रसम् २९
सक्षौद्रं ग्रथिते रक्ते लिह्यात्पारावताच्छकृत्
अतिनिःस्रुतरक्तश्च क्षौद्रे ण रुधिरं पिबेत् ३०
जाङ्गलं भक्षयेद्वाऽजमामं पित्तयुतं यकृत्
चन्दनोशीरजलदलाजमुद्गकणायवैः ३१
बलाजले पर्युषितैः कषायो रक्तपित्तहा
प्रसादश्चन्दनाभ्भोजसेव्यमृद्भृष्टलोष्टजः ३२
सुशीतः ससिताक्षौद्रः शोणितातिप्रवृत्तिजित्
आपोथ्य वा नवे कुम्भे प्लावयेदिक्षुगण्डिकाः ३३
स्थितं तद्गुप्तमाकाशे रात्रिं प्रातः स्रुतं जलम्
मधुमद्विकचाम्भोजकृतोत्तंसं च तद्गुणम् ३४
ये च पित्तज्वरे चोक्ताः कषायास्तांश्च योजयेत्
कषायैर्विविधैरेभिर्दीप्तेऽग्नौ विजिते कफे ३५
रक्तपित्तं न चेच्छाम्येत्तत्र वातोल्बणे पयः
युञ्ज्याच्छागं शृतं तद्वद्गव्यं पञ्चगुणेऽम्भसि ३६
पञ्चमूलेन लघुना शृतं वा ससितामधु
जीवकर्षभकद्रा क्षा बलागोक्षुरनागरैः ३७
पृथक्पृथक्शृतं क्षीरं सघृतं सितयाऽथवा
गोकण्टकाभीरुशृतं पर्णिनीभिस्तथा पयः ३८
हन्त्याशु रक्तं सरुजं विशेषान्मूत्रमार्गगम्
विण्मार्गगे विशेषेण हितं मोचरसेन तु ३९
वटप्ररोहैः शुङ्गैर्वा शुण्ठ्युदीच्योत्पलैरपि
रक्तातिसारदुर्नामचिकित्सां चात्र कल्पयेत् ४०
पीत्वा कषायान् पयसा भुञ्जीत पयसैव च
कषाययोगैरेभिर्वा विपक्वं पाययेद्घृतम् ४१
समूलमस्तकं क्षुण्णं वृषमष्टगुणेऽम्भसि
पक्त्वाऽष्टाशावशेषेण घृतं तेन विपाचयेत् ४२
तत्पुष्पगर्भं तच्छीतं सक्षौद्रं पित्तशोणितम्
पित्तगुल्मज्वरश्वासकास हृद्रो गकामलाः ४३
तिमिरभ्रमवीसर्प स्वरसादांश्च नाशयेत्
पलाशवृन्तस्वरसे तद्गर्भं च घृतं पचेत् ४४
सक्षौद्रं तच्च रक्तघ्नं तथैव त्रायमाणया
रक्ते सपिच्छे सकफे ग्रथिते कण्ठमार्गगे ४५
लिह्यान्माक्षिकसर्पिर्भ्यां क्षारमुत्पलनालजम्
पृथक्पृथक् तथाऽम्भोजरेणुश्यामामधूकजम् ४६
गुदागमे विशेषेण शोणिते बस्तिरिष्यते
घ्राणगे रुधिरे शुद्धे नावनं चानुषेचयेत् ४७
कषाययोगान् पूर्वोक्तान् क्षीरेक्ष्वादिरसाप्लुतान्
क्षीरादीन्ससितांस्तोयं केवलं वा जलं हितम् ४८
रसो दाडिमपुष्पाणामाम्रास्थ्नः शाड्वलस्य वा
कल्पयेच्छीतवर्गं च प्रदेहाभ्यञ्जनादिषु ४९
यच्च पित्तज्वरे प्रोक्तं बहिरन्तश्च भेषजम्
रक्तपित्ते हितं तच्च क्षतक्षीणे हितं च यत् ५०
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां चतुर्थे
चिकित्सितस्थाने रक्तपित्तचिकित्सितं नाम द्वितीयोऽध्यायः २

तृतीयोऽध्यायः
अथातः कासचिकित्सितं व्याख्यास्यामः
इति ह स्माहुरात्रेयादयो महर्षयः
केवलानिलजं कासं स्नेहैरादावुपाचरेत्
वातघ्नसिद्धैः स्निग्धैश्च पेयायूषरसादिभिः १
लेहैर्धूमैस्तथाऽभ्यङ्गस्वेद सेकावगाहनैः
बस्तिभिर्बद्धविड्वातं सपित्तं तूर्ध्वभक्तिकैः २
घृतैः क्षीरैश्च सकफं जयेत्स्नेहविरेचनैः
गुडूचीकण्टकारीभ्यां पृथक्त्रिंशत्पलाद्र से ३
प्रस्थः सिद्धो घृताद्वातकासनुद्वह्निदीपनः
क्षाररास्नावचाहिङ्गुपाठायष्ट्याह्वधान्यकैः ४
द्विशाणैः सर्पिषः प्रस्थं पञ्चकोलयुतैः पचेत्
दशमूलस्य निर्यूहे पीतो मण्डानुपायिना ५
स कासश्वासहृत्पार्श्वग्रहणीरोगगुल्मनुत्
द्रो णेऽपा साधयेद्रा स्नादशमूलशतावरीः ६
पलोन्मिता द्विकुडवं कुलत्थं बदरं यवम्
तुलार्धं चाजमांसस्य तेन साध्यं घृताढकम् ७
समक्षीरं पलांशैश्च जीवनीयैः समीक्ष्य तत्
प्रयुक्तं वातरोगेषु पाननावनबस्तिभिः ८
पञ्चकासान् शिरःकम्पं योनिवङ्क्षणवेदनाम्
सर्वाङ्गैकाङ्गरोगांश्च सप्लीहोर्ध्वानिलान् जयेत् ९
विदार्यादिगणक्वाथकल्कसिद्धं च कासजित्
अशोकबीजक्षवक जन्तुघ्नाञ्जनपद्मकैः १०
सविडैश्च घृतं सिद्धं तच्चूर्णं वा घृतप्लुतम्
लिह्यात्पयश्चानु पिबेदाजं कासातिपीडितः ११
विडङ्गं नागरं रास्ना पिप्पली हिङ्गु सैन्धवम्
भार्गी क्षारश्च तच्चूर्णं पिबेद्वा घृतमात्रया १२
सकफेऽनिलजे कासे श्वासहिध्माहताग्निषु
दुरालभां शृङ्गबेरं शठीं द्रा क्षां सितोपलाम् १३
लिह्यात्कर्कटशृङ्गीं च कासे तैलेन वातजे
दुस्पर्शां पिप्पलद्यं मुस्तां भार्गीं कर्कटकीं शठीम् १४
पुराणगुडतैलाभ्यां चूर्णितान्यवलेहयेत्
तद्वत्सकृष्णां शुण्ठीं च सभार्गी तद्वदेव च १५
पिबेच्च कृष्णां कोष्णेन सलिलेन ससैन्धवान्
मस्तुना ससितां शुण्ठीं दध्ना वा कणरेणुकाम् १६
पिबेद्बदरमज्ज्ञो वा मदिरादधिमस्तुभिः
अथवा पिप्पलीकल्कं घृतभृष्टं ससैन्धवम् १७
कासी सपीनसो धूमं स्नैहिकं विधिना पिबेत्
हिध्माश्वासोक्तधूमांश्च क्षीरमांसरसाशनः १८
ग्राम्यानूपौदकैः शालियवगोधूमषष्टिकान्
रसैर्माषात्मगुप्तानां यूषैर्वा भोजयेद्धितान् १९
यवानीपिप्पली बिल्वमध्यनागरचित्रकैः
रास्नाजाजीपृथक्पर्णीपलाश शठिपौष्करैः २०
सिद्धां स्निग्धाम्ललवणां पेयामनिलजे पिबेत्
कटिहृत्पार्श्वकोष्ठार्तिश्वासहिध्माप्रणाशनीम् २१
दशमूलरसे तद्वत् पञ्चकोलगुडान्विताम्
पिबेत्पेयां समतिलां क्षैरेयीं वा ससैन्धवाम् २२
मात्स्यकौक्कुटवाराहैर्मांसैर्वा साज्यसैन्धवाम्
वास्तुको वायसीशाकं कासघ्नः सुनिषण्णकः २३
कण्टकार्याः फलं पत्रं बालं शुष्कं च मूलकम्
स्नेहास्तैलादयो भक्ष्याः क्षीरेक्षुरसगौडिकाः २४
दधिमस्त्वारनालाम्लफलाम्बुमदिराः पिबेत्
पित्तकासे तु सकफे वमनं सर्पिषा हितम् २५
तथा मदनकाश्मर्यमधुकक्वथितैर्जलैः
फलयष्ट्याह्वकल्कैर्वा विदारीक्षुरसाप्लुतैः २६
पित्तकासे तनुकफे त्रिवृतां मधुरैर्युताम्
युञ्ज्याद्विरेकाय युतां घनश्लेष्मणि तिक्तकैः २७
हृतदोषो हिमं स्वादु स्निग्धं संसर्जनं भजेत्
घने कफे तु शिशिरं रूक्षं तिक्तोपसंहितम् २८
लेहः पैत्ते सिताधात्रीक्षौद्र द्रा क्षाहिमोत्पलैः
सकफे साब्दमरिचः सघृतः सानिले हितः २९
मृद्वीकार्धशतं त्रिंशत्पिप्पलद्यः शर्करापलम्
लेहयेन्मधुना गोर्वा क्षीरपस्य शकृद्र सम् ३०
त्वगेलाव्योषमृद्वीका पिप्पलीमूलपौष्करैः
लाजमुस्ताशठीरास्ना धात्रीफलबिभीतकैः ३१
शर्कराक्षौद्र सर्पिर्भिर्लेहो हृद्रो गकासहा
मधुरैर्जाङ्गलरसै र्यवश्यामाककोद्र वाः ३२
मुद्गादियूषैः शाकैश्च तिक्तकैर्मात्रया हिताः
घनश्लेष्मणि लेहाश्च तिक्तका मधुसंयुताः ३३
शालयः स्युस्तनुकफे षष्टिकाश्च रसादिभिः
शर्कराम्भोऽनुपानार्थं द्रा क्षेक्षुस्वरसाः पयः ३४
काकोलीबृहतीमेदाद्वयैः सवृषनागरैः
पित्तकासे रसक्षीरपेयायूषान् प्रकल्पयेत् ३५
द्रा क्षां कणां पञ्चमूलं तृणाख्यं च पचेज्जले
तेन क्षीरं शृतं शीतं पिबेत्समधुशर्करम् ३६
साधितां तेन पेयां वा सुशीतां मधुनाऽन्विताम्
शठीह्रीबेरबृहतीशर्कराविश्वभेषजम् ३७
पिष्ट्वा रसं पिबेत्पूतं वस्त्रेण घृतमूर्च्छितम्
मेदां विदारीं काकोलद्यं स्वयंगुप्ताफलं बलाम् ३८
शर्करां जीवकं मुद्गमाषपर्ण्यौ दुरालभाम्
कल्कीकृत्य पचेत्सर्पिः क्षीरेणाष्टगुणेन तत् ३९
पानभोजनलेहेषु प्रयुक्तं पित्तकासजित्
लिह्याद्वा चूर्णमेतेषां कषायमथवा पिबेत् ४०
कफकासी पिबेदादौ सुरकाष्ठात् प्रदीपितात्
स्नेहं परिस्रुतं व्योषयवक्षारावचूर्णितम् ४१
स्निग्धं विरेचयेदूर्ध्वमधो मूर्ध्नि च युक्तितः
तीक्ष्णैर्विरेकैर्बलिनं संसर्गी चास्य योजयेत् ४२
यवमुद्गकुलत्थान्नैरुष्णरूक्षैः कटूत्कटैः
कासमर्दकवार्ताकव्याघ्रीक्षारकणान्वितैः ४३
धान्वबैलरसैः स्नेहैस्तिलसर्षपनिम्बजैः
दशमूलाम्बु घर्माम्बु मद्यं मध्वम्बु वा पिबेत् ४४
मूलैः पौष्करशम्याकपटोलैः संस्थितं निशाम्
पिबेद्वारि सहक्षौद्रं कालेष्वन्नस्य वा त्रिषु ४५
पिप्पली पिप्पलीमूलं शृङ्गबेरं बिभीतकम्
शिखिकुक्कुटपिच्छानां मषी क्षारो यवोद्भवः ४६
विशाला पिप्पलीमूलं त्रिवृता च मधुद्र वाः
कफकासहरा लेहास्त्रयः श्लोकार्धयोजिताः ४७
मधुना मरिचं लिह्यान्मधुनैव च जोङ्गकम्
पृथग्रसांश्च मधुना व्याघ्रीवार्ताकभृङ्गजान् ४८
कासघ्नस्याश्वशकृतः सुरसस्यासितस्य च
देवदारुशठीरास्नाकर्कटाख्यादुरालभाः ४९
पिप्पली नागरं मुस्तं पथ्या धात्री सितोपला
लाजाः सितोपला सर्पिः शृङ्गी धात्रीफलोद्भवा ५०
मधुतैलयुता लेहास्त्रयो वातानुगे कफे
द्वे पले दाडिमादष्टौ गुडाद्व्योषात्पलत्रयम् ५१
रोचनं दीपनं स्वर्यं पीनसश्वासकासजित्
गुडक्षारोषणकणादाडिमं श्वासकासजित् ५२
क्रमात्पलद्वयार्धाक्ष कर्षार्धाक्षपलोन्मितम्
पिबेज्ज्वरोक्तं पथ्यादि सशृङ्गीकं च पाचनम् ५३
अथवा दीप्यकत्रिवृद्विशालाघनपौष्करम्
सकणं क्वथितं मूत्रे कफकासी जलेऽपि वा ५४
तैलभृष्टं च वैदेहीकल्काक्षं ससितोपलम्
पाययेत्कफकासघ्नं कुलत्थसलिलाप्लुतम् ५५
दशमूलाढके प्रस्थं घृतस्याक्षसमैः पचेत्
पुष्कराह्वशठीबिल्वसुरसाव्योषहिङ्गुभिः ५६
पेयानुपानं तत्सर्ववातश्लेष्मामयापहम्
निर्गुण्डीपत्रनिर्याससाधितं कासजिद्घृतम् ५७
घृतं रसे विडङ्गानां व्योषगर्भं च साधितम् ५७-२
पुनर्नवशिवाटिका सरलकासमर्दामृता
पटोलबृहतीफणिज्जकरसैः पयःसंयुतैः
घृतं त्रिकटुना च सिद्धमुपयुज्य सञ्जायते
नकासविषमज्वरक्षय गुदाङ्कुरेभ्यो भयम् ५८
समूलफलपत्रायाः कण्टकार्या रसाढके ५९
घृतप्रस्थं वलाव्योषविडङ्गशठिदाडिमैः
सौवर्चलयवक्षार मूलामलकपौष्करैः ६०
वृश्चीवबृहतीपथ्यायवानी चित्रकर्धिभिः
मृद्वीकाचव्यवर्षाभूदुरालम्भाम्लवेतसैः ६१
शृङ्गीतामलकीभार्गीरास्नागोक्षुरकैः पचेत्
कल्कैस्तत्सर्वकासेषु श्वासहिध्मासु चेष्यते ६२
कण्टकारीघृतं चैतत्कफव्याधिविनाशनम्
पचेद्व्याघ्रीतुलां क्षुण्णां वहेऽपामाढकस्थिते ६३
क्षिपेत् पूते तु सञ्चूर्ण्य व्योषरास्नामृताग्निकान्
शृङ्गीभार्गीघनग्रन्थिधन्वयासान् पलार्धकान् ६४
सर्पिषः षोडशपलं चत्वारिंशत्पलानि च
मत्स्यण्डिकायाः शुद्धायाः पुनश्च तदधिश्रयेत् ६५
दर्वीलेपिनि शीते च पृथक् द्विकुडवं क्षिपेत्
पिप्पलीनां तवक्षीर्या माक्षिकस्यानवस्य च ६६
लेहोऽय गुल्महृद्रो गदुर्नामश्वासकासजित्
शमनं च पिबेद्धूमं शोधनं बहले कफे ६७
मनःशिलालमधुक मांसीमुस्तेङ्गुदीत्वचः
धूमं कासघ्नविधिना पीत्वा क्षीरं पिबेदनु ६८
निष्ठ्यूतान्ते गुडयुतं कोष्णं धूमो निहन्ति सः
वातश्लेष्मोत्तरान् कासानचिरेण चिरन्तनान् ६९
तमकः कफकासे तु स्याच्चेत्पित्तानुबन्धजः
पित्तकासक्रियां तत्र यथावस्थं प्रयोजयेत् ७०
कफानुबन्धे पवने कुर्यात्कफहरां क्रियाम्
पित्तानुबन्धयोर्वातकफयोः पित्तनाशिनीम् ७१
वातश्लेष्मात्मके शुष्के स्निग्धमार्द्रे विरूक्षणम्
कासे कर्म सपित्ते तु कफजे तिक्तसंयुतम् ७२
उरस्यन्तःक्षते सद्यो लाक्षां क्षौद्र युतां पिबेत्
क्षीरेण शालीन् जीर्णेऽद्यात्क्षीरेणैव सशर्करान् ७३
पार्श्वबस्तिसरुक्चाल्पपित्ताग्निस्तां सुरायुताम्
भिन्नविट्कः समुस्तातिविषापाठां सवत्सकाम् ७४
लाक्षां सर्पिर्मधूच्छिष्टं जीवनीयं गणं सिताम्
त्वक्क्षीरीं समितं क्षीरे पक्त्वा दीप्तानलः पिबेत् ७५
इक्ष्वारिकाबिस ग्रन्थिपद्मकेसरचन्दनैः
शृतं पयो मधुयुतं सन्धानार्थं पिबेत्क्षती ७६
यवानां चूर्णमामानां क्षीरे सिद्धं घृतान्वितम्
ज्वरदाहे सिताक्षौद्र सक्तून्वा पयसा पिबेत् ७७
कासवांस्तु पिबेत्सर्पिर्मधुरौषधसाधितम्
गुडोदकं वा क्वथितं सक्षौद्र मरिचं हितम् ७८
चूर्णमामलकानां वा क्षीरे पक्वं घृतान्वितम्
रसायनविधानेन पिप्पलीर्वा प्रयोजयेत् ७९
कासी पर्वास्थिशूली च लिह्यात्सघृतमाक्षिकाः
मधूकमधुकद्रा क्षात्वक्क्षीरीपिप्पलीबलाः ८०
त्रिजातमर्धकर्षांशं पिप्पल्यर्धपलं सिता
द्रा क्षा मधूकं खर्जूरं पलांशं श्लक्ष्णचूर्णितम् ८१
मधुना गुटिका घ्नन्ति ता वृष्याः पित्तशोणितम्
कासश्वासारुचिच्छर्दिमूर्च्छाहिध्मामदभ्रमान् ८२
क्षतक्षयस्वरभ्रंशप्लीह शोषाढ्यमारुतान्
रक्तनिष्ठीवहृत्पार्श्वरुक्पिपासाज्वरानपि ८३
वर्षाभूशर्करारक्तशालितण्डुलजं रजः
रक्तष्ठीवी पिबेत्सिद्धं द्रा क्षारसपयोघृतैः ८४
मधूकमधुकक्षीरसिद्धं वा तण्डुलीयकम्
याथास्वं मार्गविसृते रक्ते कुर्याच्च भेषजम् ८५
मूढवातस्त्वजामेदः सुराभृष्टं ससैन्धवम्
क्षामः क्षीणः क्षतोरस्को मन्दनिद्रो ऽग्निदीप्तिमान् ८६
शृतक्षीरसरेणाद्यात्सघृत क्षौद्र शर्करम्
शर्करायवगोधूमं जीवकर्षभकौ मधु ८७
शृतक्षीरानुपानं वा लिह्यात्क्षीणः क्षतः कृशः
क्रव्यात्पिशितनिर्यूहं घृतभृष्टं पिबेच्च सः ८८
पिप्पलीक्षौद्र संयुक्तं मांसशोणितवर्धनम्
न्यग्रोधोदुम्बराश्वत्थप्लक्षशालप्रियङ्गुभिः ८९
तालमस्तकजम्बूत्वक्प्रियालैश्च सपद्मकैः
साश्वकर्णैः शृतात्क्षीरादद्याज्जातेन सर्पिषा ९०
शाल्योदनं क्षतोरस्कः क्षीणशुक्रबलेन्द्रि यः
वातपित्तार्दितेऽभ्यङ्गो गात्रभेदे घृतैर्मतः ९१
तैलैश्चानिलरोगघ्नैः पीडिते मातरिश्वना
हृत्पार्श्वार्तिषु पानं स्याज्जीवनीयस्य सर्पिषः ९२
कुर्याद्वा वातरोगघ्नं पित्तरक्ताविरोधि यत्
यष्ट्याह्वनागबलयोः क्वाथे क्षीरसमे घृतम् ९३
पयस्यापिप्पलीवांशीकल्कैः सिद्धं क्षते हितम्
जीवनीयो गणः शुण्ठी वरी वीरा पुनर्नवा ९४
बलाभार्गीस्वगुप्तर्द्धि शठीतामलकीकणाः
शृङ्गाटकं पयस्या च पञ्चमूलं च यल्लघु ९५
द्रा क्षाक्षोडादि च फलं मधुरस्निग्धबृंहणम्
तैः पचेत्सर्पिषः प्रस्थं कर्षांशैः श्लक्ष्णकल्कितैः ९६
क्षीरधात्रीविदारीक्षु च्छागमांसरसान्वितम्
प्रस्थार्धं मधुनः शीते शर्करार्धतुलारजः ९७
पलार्धकं च मरिचत्वगेलापत्रकेसरम्
विनीय चूर्णितं तस्माल्लिह्यान्मात्रां यथाबलम् ९८
अमृतप्राशमित्येतन्नराणाममृतं घृतम्
सुधामृतरसं प्राश्यं क्षीरमांसरसाशिना ९९
नष्टशुक्रक्षतक्षीण दुर्बलव्याधिकर्शितान्
स्त्रीप्रसक्तान् कृशान् वर्णस्वरहीनांश्च बृंहयेत् १००
कासहिध्माज्वरश्वासदाह तृष्णास्रपित्तनुत्
पुत्रदं छर्दिमूर्च्छाहृद्योनिमूत्रामयापहम् १०१
श्वदंष्ट्रोशीरमञ्जिष्ठा बलाकाश्मर्यकत्तृणम्
दर्भमूलं पृथक्पर्णीं पलाशर्षभकौ स्थिराम् १०२
पालिकानि पचेत्तेषां रसे क्षीरचतुर्गुणे
कल्कैः स्वगुप्ताजीवन्तीमेदर्षभकजीवकैः १०३
शतावर्यर्द्धिमृद्वीका शर्कराश्रावणीबिसैः
प्रस्थः सिद्धो घृताद्वातपित्तहृद्रो गशूलनुत् १०४
मूत्रकृच्छ्रप्रमेहार्शः कासशोषक्षयापहः
धनुःस्त्रीमद्यभाराध्वखिन्नानां बलमांसदः १०५
मधुकाष्टपलद्रा क्षाप्रस्थक्वाथे पचेद्घृतम्
पिप्पल्यष्टपले कल्के प्रस्थं सिद्धे च शीतले १०६
पृथगष्टपलं क्षौद्र शर्कराभ्यां विमिश्रयेत्
समसक्तु क्षतक्षीणरक्तगुल्मेषु तद्धितम् १०७
धात्रीफलविदारीक्षुजीवनीय रसाद्घृतात्
गव्याजयोश्च पयसोः प्रस्थं प्रस्थं विपाचयेत् १०८
सिद्धशीते सिताक्षौद्रं द्विप्रस्थं विनयेत्ततः
यक्ष्मापस्मारपित्तासृक्कास मेहक्षयापहम् १०९
वयःस्थापनमायुष्यं मांसशुक्रबलप्रदम्
घृतं तु पित्तेऽभ्यधिके लिह्याद्वातेऽधिके पिबेत् ११०
लीढं निर्वापयेत्पित्तमल्पत्वाद्धन्ति नानलम्
आक्रामत्यनिलं पीतमूष्माणं निरुणद्धि च १११
क्षामक्षीणकृशाङ्गानामेतान्येव घृतानि तु
त्वक्क्षीरीशर्करालाजचूर्णैः स्त्यानानि योजयेत् ११२
सर्पिर्गुडान् समध्वंशान् कृत्वा दद्यात्पयोऽनु च
रेतो वीर्यं बलं पुष्टिं तैराशुतरमाप्नुयात् ११३
वीतत्वगस्थिकूष्माण्डतुलां स्विन्नां पुनः पचेत्
घट्टयन् सर्पिषः प्रस्थे क्षौद्र वर्णेऽत्र च क्षिपेत् ११४
खण्डाच्छतं कणाशुण्ठ्योर्द्विपलं जीरकादपि
त्रिजातधान्यमरिचं पृथगर्धपलांशकम् ११५
अवतारितशीते च दत्वा क्षौद्रं घृतार्धकम्
खजेनामथ्य च स्थाप्यं तन्निहन्त्युपयोजितम् ११६
कासहिध्माज्वरश्वासरक्त पित्तक्षतक्षयान्
उरःसन्धानजननं मेधास्मृतिबलप्रदम् ११७
अश्विभ्यां विहितं हृद्यं कूष्माण्डकरसायनम्
पिबेन्नागबलामूलस्यार्धकर्षाभिवर्धितम् ११८
पलं क्षीरयुतं मासं क्षीरवृत्तिरनन्नभुक्
एष प्रयोगः पुष्ट्यायुर्बलवर्णकरः परम् ११९
मण्डूकपर्ण्याः कल्पोऽय यष्ट्या विश्वौषधस्य च
पादशेषं जलद्रो णे पचेन्नागबलातुलाम् १२०
तेन क्वाथेन तुल्यांशं घृतं क्षीरं च साधयेत्
पलार्धिकैश्चातिबलाबलायष्टीपुनर्नवैः १२१
प्रपौण्डरीककाश्मर्य प्रियालकपिकच्छुभिः
अश्वगन्धासिताभीरुमेदा युग्मत्रिकण्टकैः १२२
काकोलीक्षीरकाकोली क्षीरशुक्लाद्विजीरकैः
मृणालबिसखर्जूर शृङ्गाटककसेरुकैः १२३
एतन्नागबलासर्पिः पित्तरक्तक्षतक्षयान्
जयेत्तृड्भ्रमदाहांश्च बलपुष्टिकरं परम् १२४
वर्ण्यमायुष्यमोजस्यं बलीपलितनाशनम्
उपयुज्य च षण्मासान् वृद्धोऽपि तरुणायते १२५
दीप्तेऽग्नौ विधिरेष स्यात् मन्दे दीपनपाचनः
यक्ष्मोक्तः क्षतिनां शस्तो ग्राही शकृति तु द्र वे १२६
दशमूलं स्वयंगुप्तां शङ्खपुष्पीं शठीं बलाम्
हस्तिपिप्पल्यपामार्गपिप्पलीमूलचित्रकान् १२७
भार्गीं पुष्करमूलं च द्विपलांशं यवाढकम्
हरीतकीशतं चैकं जलपञ्चाढके पचेत् १२८
यवस्वेदे कषायं तं पूतं तच्चाभयाशतम्
पचेद्गुडतुलां दत्त्वा कुडवं च पृथग्घृतात् १२९
तैलात्सपिप्पलीचूर्णात्सिद्धशीते च माक्षिकात्
लेहं द्वे चाभये नित्यमतः खादेद्र सायनात् १३०
तद्वलीपलितं हन्याद्वर्णायुर्बलवर्धनम्
पञ्चकासान् क्षयं श्वासं सहिध्मं विषमज्वरम् १३१
मेहगुल्मग्रहण्यर्शो हृद्रो गारुचिपीनसान्
अगस्त्यविहितं धन्यमिदं श्रेष्ठं रसायनम् १३२
दशमूलं बलां मूर्वां हरिद्रे पिप्पलीद्वयम्
पाठाश्वगन्धापामार्गस्वगुप्तातिविषामृताः १३३
बालबिल्वं त्रिवृद्दन्तीमूलं पत्रं च चित्रकात्
पयस्यां कुटजं हिंस्रां पुष्पं सारं च बीजकात् १३४
बोटस्थविरभल्लातविकङ्कत शतावरीः
पूतीकरञ्जशम्याकचन्द्र लेखासहाचरम् १३५
सौभाञ्जनकनिम्बत्वगिक्षुरं च पलांशकम्
पथ्यासहस्रं सशतं यवानां चाढकद्वयम् १३६
पचेदष्टगुणे तोये यवस्वेदेऽवतारयेत्
पूते क्षिपेत्सपथ्ये च तत्र जीर्णगुडात्तुलाम् १३७
तैलाज्यधात्रीरसतः प्रस्थं प्रस्थं ततः पुनः
अधिश्रयेन्मृदावग्नौ दर्वीलेपेऽवतार्य च १३८
शीते प्रस्थद्वयं क्षौद्रा त्पिप्पलीकुडवं क्षिपेत्
चूर्णीकृतं त्रिजाताच्च त्रिपलं निखनेत्ततः १३९
धान्ये पुराणकुम्भस्थं मासं खादेच्च पूर्ववत्
रसायनं वसिष्ठोक्तमेतत्पूर्वगुणाधिकम् १४०
स्वस्थानां निष्परीहारं सर्वर्तुषु च शस्यते
पालिकं सैन्धवं शुण्ठी द्वे च सौवर्चलात्पले १४१
कुडवांशानि वृक्षाम्लं दाडिमं पत्रमार्जकात्
एकैकां मरिचाजाज्योर्धान्यकाद् द्वे चतुर्थिके १४२
शर्करायाः पलान्यत्र दश द्वे च प्रदापयेत्
कृत्वा चूर्णमतो मात्रामन्नपानेषु दापयेत् १४३
रुच्यं तद्दीपनं बल्यं पार्श्वार्तिश्वासकासजित्
एकां षोडशिकां धान्याद् द्वे द्वे चाजाजिदीप्यकात् १४४
ताभ्यां दाडिमवृक्षाम्ले द्विर्द्विः सौर्वचलात्पलम्
शुण्ठ्याः कर्षं दधित्थस्य मध्यात्पञ्च पलानि च १४५
तच्चूर्णं षोडशपलैः शर्कराया विमिश्रयेत्
षाडवोऽय प्रदेयः स्यादन्नपानेषु पूर्ववत् १४६
विधिश्च यक्ष्मविहितो यथावस्थं क्षते हितः
निवृत्ते क्षतदोषे तु कफे वृद्धे उरः शिरः १४७
दाल्यते कासिनो यस्य स ना धूमान् पिबेदिमान्
द्विमेदाद्विबलायष्टीकल्कैः क्षौमे सुभाविते १४८
वर्तिं कृत्वा पिबेद्धूमं जीवनीयघृतानुपः
मनःशिलापलाशाजगन्धात्वक्क्षीरिनागरैः १४९
तद्वदेवानुपानं तु शर्करेक्षुगुडोदकम्
पिष्ट्वा मनःशिलां तुल्यामार्द्र या वटशुङ्गया १५०
ससर्पिष्कं पिबेद्धूमं तित्तिरिप्रतिभोजनम्
क्षयजे बृंहणं पूर्वं कुर्यादग्नेश्च वर्धनम् १५१
बहुदोषाय सस्नेहं मृदु दद्याद्विरेचनम्
शम्याकेन त्रिवृतया मृद्वीकारसयुक्तया १५२
तिल्वकस्य कषायेण विदारीस्वरसेन च
सर्पिः सिद्धं पिबेद्युक्त्या क्षीणदेहो विशोधनम् १५३
पित्ते कफे धातुषु च क्षीणेषु क्षयकासवान्
घृतं कर्कटकीक्षीरद्विबलासाधितं पिबेत् १५४
विदारिभिः कदम्बैर्वा तालसस्यैश्च साधितम्
घृतं पयश्च मूत्रस्य वैवर्ण्ये कृच्छ्रनिर्गमे १५५
शूने सवेदने मेढ्रे पायौ सश्रोणिवङ्क्षणे
घृतमण्डेन लघुनाऽनुवास्यो मिश्रकेण वा १५६
जाङ्गलैः प्रतिभुक्तस्य वर्तकाद्या बिलेशयाः
क्रमशः प्रसहास्तद्वत्प्रयोज्याः पिशिताशिनः १५७
औष्ण्यात्प्रमाथिभावाच्च स्रोतोभ्यश्च्यावयन्ति ते
कफं शुद्धैश्च तैः पुष्टिं कुर्यात्सम्यग् वहन् रसः १५८
चविकात्रिफलाभार्गीदशमूलैः सचित्रकैः
कुलत्थपिप्पली मूलपाठाकोलयवैर्जले १५९
शृतैर्नागरदुःस्पर्शापिप्पली शठिपौष्करैः
पिष्टैः कर्कटशृङ्ग्या च समैः सर्पिर्विपाचयेत् १६०
सिद्धेऽस्मिश्चूर्णितौ क्षारौ द्वौ पञ्च लवणानि च
दत्त्वा युक्त्या पिबेन्मात्रां क्षयकासनिपीडितः १६१
कासमर्दाभयामुस्तापाठाकट् फलनागरैः
पिप्पल्या कटुरोहिण्या काश्मर्या सुरसेन च १६२
अक्षमात्रैर्घृतप्रस्थं क्षीरद्रा क्षारसाढके
पचेच्छोषज्वरप्लीहसर्वकासहरं शिवम् १६३
वृषव्याघ्रीगुडूचीनां पत्रमूलफलाङ्कुरात्
रसकल्कैर्घृतं पक्वं हन्ति कासज्वरारुचीः १६४
द्विगुणे दाडिमरसे सिद्धं वा व्योषसंयुतम्
पिबेदुपरि भुक्तस्य यवक्षारयुतं नरः १६५
पिप्पलीगुडसिद्धं वा छागक्षीरयुतं घृतम्
एतान्यग्निविवृर्द्ध्य्थं सर्पींषि क्षयकासिनाम् १६६
स्युर्दोषबद्धकण्ठोरःस्रोतसां च विशुद्धये
प्रस्थोन्मिते यवक्वाथे विंशतिं विजयाः पचेत् १६७
स्विन्ना मृदित्वा तास्तस्मिन्पुराणात्षट्पलं गुडात्
पिप्पल्या द्विपलं कर्षं मनोह्वाया रसाञ्जनात् १६८
दत्त्वाऽधाक्षं पचेद्भूयः स लेहः श्वासकासजित्
श्वाविधां सूचयो दग्धाः सघृतक्षौद्र शर्कराः १६९
श्वासकासहराबर्हिपादौ वा मधुसर्पिषा
एरण्डपत्रक्षारं वा व्योषतैलगुडान्वितम् १७०
लेहयेत् क्षारमेवं वा सुरसैरण्डपत्रजम्
लिह्यात् त्र्यूषणचूर्णं वा पुराणगुडसर्पिषा १७१
पद्मकं त्रिफला व्योषं विडङ्गं देवदारु च
बला रास्ना च तच्चूर्णं समस्तं समशर्करम् १७२
खादेन्मधुघृताभ्यां वा लिह्यात्कासहरं परम्
तद्वन्मरिचचूर्णं वा सघृतक्षौद्र शर्करम् १७३
पथ्याशुण्ठीघनगुडैर्गुटिकां धारयेन्मुखे
सर्वेषु श्वासकासेषु केवलं वा बिभीतकम् १७४
पत्रकल्कं घृतभृष्टं तिल्वकस्य सशर्करम्
पेया वोत्कारिका छर्दितृट्कासामातिसारजित् १७५
कण्टकारीरसे सिद्धो मुद्गयूषः सुसंस्कृतः
सगौरामलकः साम्लः सर्वकासभिषग्जितम् १७६
वातघ्नौषधनिःक्वाथे क्षीरं यूषान् रसानपि
वैष्किरान् प्रातुदान् बैलान् दापयेत्क्षयकासिने १७७
क्षतकासे च ये धूमाः सानुपाना निदर्शिताः
क्षयकासेऽपि ते योज्या वक्ष्यते यच्च यक्ष्मणि १७८
बृंहणं दीपनं चाग्नेः स्रोतसां च विशोधनम्
व्यत्यासात्क्षयकासिभ्यो बल्यं सर्वं प्रशस्यते १७९
सन्निपातोद्भवो घोरः क्षयकासो यतस्ततः
यथादोषबलं तस्य सन्निपातहितं हितम् १८०
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां चतुर्थे
चिकित्सितस्थाने कासचिकित्सितं नाम तृतीयोऽध्यायः ३

चतुर्थोऽध्यायः
अथातः श्वासहिध्माचिकित्सितं व्याख्यास्यामः
इति ह स्माहुरात्रेयादयो महर्षयः
श्वासहिध्मा यतस्तुल्यहेत्वाद्याः साधनं ततः
तुल्यमेव तदार्तं च पूर्वं स्वेदैरुपाचरेत् १
स्निग्धैर्लवणतैलाक्तं तैः खेषु ग्रथितः कफः
सुलीनोऽपि विलीनोऽस्य कोष्ठं प्राप्तः सुनिर्हरः २
स्रोतसां स्यान्मृदुत्वं च मरुतश्चानुलोमता
स्विन्नं च भोजयेदन्नं स्निग्धमानूपजै रसैः ३
दध्युत्तरेण वा दद्यात्ततोऽस्मै वमनं मृदु
विशेषात्कासवमथुहृद्ग्रहस्वरसादिने ४
पिप्पलीसैन्धवक्षौद्र युक्तं वाताविरोधि यत्
निर्हृते सुखमाप्नोति स कफे दुष्टविग्रहे ५
स्रोतःसु च विशुद्धेषु चरत्यविहतोऽनिलः
ध्मानोदावर्ततमके मातुलुङ्गाम्लवेतसैः ६
हिङ्गुपीलुबिडैर्युक्तमन्नं स्यादनुलोमनम्
ससैन्धवं फलाम्लं वा कोष्णं दद्याद्विरेचनम् ७
एते हि कफसंरुद्धगतिप्राणप्रकोपजाः
तस्मात्तन्मार्गशुर्द्ध्य्थमूर्ध्वाधः शोधनं हितम् ८
उदीर्यते भृशतरं मार्गरोधाद्वहज्जलम्
यथा तथाऽनिलस्तस्य मार्गमस्माद्विशोधयेत् ९
अशान्तौ कृतसंशुद्धेर्धूमैर्लीनं मलं हरेत्
हरिद्रा पत्रमेरण्डमूलं लाक्षां मनःशिलाम् १०
सदेवदार्वलं मांसी पिष्ट्वा वर्तिं प्रकल्पयेत्
तां घृताक्तां पिबेद्धूमं यवान् वा घृतसंयुतान् ११
मधूच्छिष्टं सर्जरसं घृतं वा गुरु वाऽगुरु
चन्दनं वा तथा शृङ्गं वालान्वा स्नाव वा गवाम् १२
ऋक्षगोधकुरङ्गैणचर्म शृङ्गखुराणि वा
गुग्गुलुं वा मनोह्वां वा शालनिर्यासमेव वा १३
शल्लकीं गुग्गुलुं लोहं पद्मकं वा घृताप्लुतम्
अवश्यं स्वेदनीयानामस्वेद्यानामपि क्षणम् १४
स्वेदयेत्ससिताक्षीर सुखोष्णस्नेहसेचनैः
उत्कारिकोपनाहैश्च स्वेदाध्यायोक्तभेषजैः १५
उरः कण्ठं च मृदुभिः सामे त्वामविधिं चरेत्
अतियोगोद्धतं वातं दृष्ट्वा पवननाशनैः १६
स्निग्धै रसाद्यैर्नात्युष्णैरभ्यङ्गैश्च शमं नयेत्
अनुत्क्लिष्टकफास्विन्नदुर्बलानां हि शोधनात् १७
वायुर्लब्धास्पदो मर्म संशोष्याशु हरेदसून्
कषायलेहस्नेहाद्यैस्तेषां संशमयेदतः १८
क्षीणक्षतातिसारासृक्पित्तदाहानु बन्धजान्
मधुरस्निग्धशीताद्यैर्हिध्मा श्वासानुपाचरेत् १९
कुलत्थदशमूलानां क्वाथे स्युर्जाङ्गला रसाः
यूषाश्च शिग्रुवार्ताककासघ्नवृषमूलकैः २०
पल्लवैर्निम्बकुलकबृहती मातुलुङ्गजैः
व्याघ्रीदुरालभाशृङ्गीबिल्वमध्यत्रिकण्टकैः २१
साभृताग्निकुलत्थैश्च यूषः स्यात्क्वथितैर्जले
तद्वद्रा स्नाबृहत्यादिबलामुद्गैः सचित्रकैः २२
पेया च चित्रकाजाजीशृङ्गीसौवर्चलैः कृता
दशमूलेन वा कासश्वासहिध्मारुजापहा २३
दशमूलशठीरास्नाभार्गी बिल्वर्द्धिपौष्करैः
कुलीरशृङ्गीचपला तामलक्यमृतौषधैः २४
पिबेत्कषायं जीर्णेऽस्मिन् पेयां तैरेव साधिताम्
शालिषष्टिकगोधूमयवमुद्गकुलत्थभुक् २५
कासहृद्ग्रहपार्श्वार्तिहिध्माश्वास प्रशान्तये
सक्तून् वाऽकाङ्कुरक्षीरभावितानां समाक्षिकान् २६
यवानां दशमूलादिनिष्क्वाथलुलितान् पिबेत्
अन्ने च योजयेत् क्षारहिङ्ग्वाज्यविडदाडिमान् २७
सपौष्करशठीव्योष मातुलुङ्गाम्लवेतसान्
दशमूलस्य वा क्वाथमथवा देवदारुणः २८
पिबेद्वा वारुणीमण्डं हिध्माश्वासी पिपासितः
पिप्पलीपिप्पली मूलपथ्याजन्तुघ्नचित्रकैः २९
कल्कितैर्लेपिते रूढे निःक्षिपेद्घृभाजने
तक्रं मासस्थितं तद्धि दीपनं श्वासकासजित् ३०
पाठां मधुरसां दारु सरलं च निशि स्थितम्
सुरामण्डेऽल्पलवणं पिबेत्प्रसृतसम्मितम् ३१
भार्गीशुण्ठ्यौ सुखाम्भोभिः क्षारं वा मरिचान्वितम्
स्वक्वाथपिष्टां लुलितां बाष्पिकां पाययेत वा ३२
स्वरसः सप्तपर्णस्य पुष्पाणां वा शिरीषतः
हिध्माश्वासे मधुकणायुक्तः पित्तकफानुगे ३३
उत्कारिका तुगाकृष्णा मधूलीघृतनागरैः
पित्तानुबन्धे योक्तव्या पवने त्वनुबन्धिनि ३४
श्वाविच्छशामिषकणा घृतशल्यकशोणितैः
सुवर्चलारसव्योषसर्पिर्भिः सहितं पयः ३५
अनु शाल्योदनं पेयं वातपित्तानुबन्धिनि
चतुर्गुणाम्बुसिद्धं वा छागं सगुडनागरम् ३६
पिप्पलीमूलमधुकगुडगोश्व शकृद्र सान्
हिध्माभिष्यन्दकासघ्नान् लिह्यान्मधुघृतान्वितान् ३७
गोगजाश्ववराहोष्ट्रखर मेषाजविड्रसम्
समध्वेकैकशो लिह्याद्बहुश्लेष्माऽथवा पिबेत् ३८
चतुष्पाच्चर्मरोमास्थिखुरशृङ्गोद्भवां मषीम्
तथैव वाजिगन्धाया लिह्याच्छ्वासी कफोल्बणः ३९
शठीपौष्करधात्रीर्वा पौष्करं वा कणान्वितम्
गैरिकाञ्जनकृष्णा वा स्वरसं वा कपित्थजम् ४०
रसेन वा कपित्थस्य धात्रीसैन्धवपिप्पलद्यः
घृतक्षौद्रे ण वा पथ्याविडङ्गोषणपिप्पलद्यः ४१
कोललाजामलद्रा क्षापिप्पलीनागराणि वा
गुडतैलनिशाद्रा क्षाकणारास्नोषणानि वा ४२
पिबेद्र साम्बुमद्याम्लै र्लेहौषधरजांसि वा
जीवन्तीमुस्तसुरसत्वगेलाद्वय पौष्करम् ४३
चण्डातामलकीलोहभार्गी नागरवालकम्
कर्कटाख्याशठीकृष्णानाग केसरचोरकम् ४४
उपयुक्तं यथाकामं चूर्णं द्विगुणशर्करम्
पार्श्वरुग्ज्वरकासघ्नं हिध्माश्वासहरं परम् ४५
शठीतामलकीभार्ङ्गी चण्डावालकपौष्करम्
शर्कराष्टगुणं चूर्णंहिध्माश्वासहरं परम् ४६
तुल्यं गुडं नागरं च भक्षयेन्नावयेत वा
लशुनस्य पलाण्डोर्वा मूलं गृञ्जनकस्य वा ४७
चन्दनाद्वा रसं दद्यान्नारीक्षीरेण नावनम्
स्तन्येन मक्षिकाविष्ठामलक्तकरसेन वा ४८
ससैन्धवं घृताच्छं वा सिद्धं स्तन्येन वा घृतम्
कल्कितैर्मधुरद्र व्यैस्तत्पिबेन्नावयेत वा ४९
सकृदुष्णं सकृच्छीतं व्यत्यासात् ससितामधु
तद्वत्पयस्तथा सिद्धमधोभागौषधैर्घृतम् ५०
कणासौवर्चलक्षारवयस्थाहिङ्गुचोरकैः
सकायस्थैर्घृतं मस्तुदशमूलरसे पचेत् ५१
तत्पिबेज्जीवनीयैर्वा लिह्यात्समधु साधितम्
तेजोवत्यभया कुष्ठं पिप्पली कटुरोहिणी ५२
भूतीकं पौष्करं मूलं पलाशश्चित्रकः शठी
पटुद्वयं तामलकी जीवन्ती बिल्वपेशिका ५३
वचा पत्रं च तालीसं कर्षांशैस्तैर्विपाचयेत्
हिङ्गुपादैर्घृतप्रस्थं पीतमाशु निहन्ति तत् ५४
शाखानिलार्शो ग्रहणीहिध्माहृत्पार्श्ववेदनाः
अर्धांशेन पिबेत्सर्पिः क्षारेण पटुनाऽथवा ५५
धान्वन्तरं वृषघृतं दाधिकं हपुषादि वा
शीताम्बुसेकः सहसा त्रासविक्षेपभीशुचः ५६
हर्षेर्ष्योच्छ्वासरोधाश्च हितं कीटैश्च दंशनम्
यत्किञ्चित्कफवातघ्नमुष्णं वातानुलोमनम् ५७
तत्सेव्यं प्रायशो यच्च सुतरां मारुतापहम्
सर्वेषां बृंहणे ह्यल्पः शक्यश्च प्रायशो भवेत् ५८
नात्यर्थं शमनेऽपायो भृशोऽशक्यश्च कर्षणे
शमनैर्बृंहणैश्चातो भूयिष्ठं तानुपाचरेत् ५९
कासश्वासक्षयच्छर्दिहिध्माश्चान्योन्यभेषजैः ५९॥१२
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां चतुर्थे
चिकित्सितस्थाने श्वासहिध्माचिकित्सितं नाम चतुर्थोऽध्यायः ४

पञ्चमोऽध्यायः
अथातो राजयक्ष्मादिचिकित्सितं व्याख्यास्यामः
इति ह स्माहुरात्रेयादयो महर्षयः
बलिनो बहुदोषस्य स्निग्धस्विन्नस्य शोधनम्
ऊर्ध्वाधो यक्ष्मिणः कुर्यात्सस्नेहं यन्न कर्शनम् १
पयसा फलयुक्तेन मधुरेण रसेन वा
सर्पिष्मत्या यवाग्वा वा वमनद्र व्यसिद्धया २
वमेत् विरेचनं दद्यात्त्रिवृच्छ्यामानृपद्रुमान्
शर्करामधुसर्पिर्भिः पयसा तर्पणेन वा ३
द्रा क्षाविदारीकाश्मर्यमांसानां वा रसैर्युतान्
शुद्धकोष्ठस्य युञ्जीत विधिं बृंहणदीपनम् ४
हृद्यानि चान्नपानानि वातघ्नानि लघूनि च
शालिषष्टिकगोधूमयवमुद्गं समोषितम् ५
लिघुमच्युतवीर्यं च सुजरं बलकृच्च यत्
आजं क्षीरं घृतं मांसं क्रव्यान्मांसं च शोषजित्
काकोलूकवृकद्वीपिगवाश्वनकुलोरगम् ६
गृध्रभासखरोष्ट्रं च हितं छद्मोपसंहितम्
ज्ञातं जुगुप्सितं तद्धि छर्दिषे न बलौजसे ७
मृगाद्याः पित्तकफयोः पवने प्रसहादयः
वेसवारीकृताः पथ्या रसादिषु च कल्पिताः ८
भृष्टाः सर्पषतैलेन सर्पिषा वा यथायथम्
रसिका मृदवः स्निग्धाः पटुद्र व्याभिसंस्कृताः ९
हिता मौलककौलत्थास्तद्वद्यूषाश्च साधिताः
सपिप्पलीकं सयवं सकुलत्थं सनागरम् १०
सदाडिमं सामलकं स्निग्धमाजं रसं पिबेत्
तेन षडिवनिवर्तन्ते विकाराः पीनसादयः ११
पिबेच्च सुतरां मद्यं जीर्णं स्रोतोविशोधनम्
पित्तादिषु विशेषेण मध्वरिष्टाच्छवारुणीः १२
सिद्धं वा पञ्चमूलेन तामलक्याऽथवा जलम्
पर्णिनीभिश्चतसृभिर्धान्यनागरकेण वा १३
कल्पयेच्चानुकूलोऽस्य तेनान्नं शुचि यत्नवान्
दशमूलेन पयसा सिद्धं मांसरसेन वा १४
बलागर्भं घृतं योज्यं क्रव्यान्मांसरसेन वा
सक्षौद्रं पयसा सिद्धं सर्पिर्दशगुणेन वा १५
जीवन्तीं मधुकं द्रा क्षां फलानि कुटजस्य च
पुष्कराह्वं शठीं कृष्णां व्याघ्रीं गोक्षुरकं बलाम् १६
नीलोत्पलं तामलकीं त्रायमाणां दुरालभाम्
कल्कीकृत्य घृतं पक्वं रोगराजहरं परम् १७
घृतं खर्जूरमृद्वीकामधुकैः सपरूषकैः
सपिप्पलीकं वैस्वर्यकासश्वासज्वरापहम् १८
दशमूलशृतात्क्षीरात्सर्पिर्यदुदियान्नवम्
सपिप्पलीकं सक्षौद्रं तत्परं स्वरबोधनम् १९
शिरःपार्श्वांसशूलघ्नं कासश्वासज्वरापहम्
पञ्चभिः पञ्चमूलैर्वा शृताद्यदुदियाद्घृतम् २०
पञ्चानां पञ्चमूलानां रसे क्षीरचतुर्गुणे
सिद्धं सर्पिर्जयत्येतद्यक्ष्मणः सप्तकं बलम् २१
पञ्चकोलयवक्षारषट्पलेन पचेद्घृतम्
प्रस्थोन्मितं तुल्यपयः स्रोतसां तद्विशोधनम् २२
गुल्मज्वरोदरप्लीह ग्रहणीपाण्डुपीनसान्
श्वासकासाग्निसदन श्वयथूर्ध्वानिलाञ्जयेत् २३
रास्नाबलागोक्षुरक स्थिरावर्षाभुवारिणि
जीवन्तीपिप्पलीगर्भं सक्षीरं शोषजिद्घृतम् २४
अश्वगन्धाशृतात्क्षीराद्घृतं च ससितापयः
साधारणामिषतुलां तोयद्रो णद्वये पचेत् २५
तेनाष्टभागशेषेण जीवनीयैः पलोन्मितैः
साधयेत्सर्पिषः प्रस्थं वातपित्तामयापहम् २६
मांससर्पिरिदं पीतं युक्तं मांसरसेन वा
कासश्वास्वरभ्रंशशोष हृत्पार्श्वशूलजित् २७
एलाजमोदात्रिफला सौराष्ट्रीव्योषचित्रकान्
सारानरिष्टगायत्रीशाल बीजकसम्भवान् २८
भल्लातकं विडङ्गं च पृथगष्टपलोन्मितम्
सलिले षोडशगुणे षोडशांशस्थितं पचेत् २९
पुनस्तेन घृतप्रस्थं सिद्धे चास्मिन्पलानि षट्
तवक्षीर्याः क्षिपेत्त्रिंशत्सिताया द्विगुणं मधु ३०
घृतात्त्रिजातात्त्रिपलं ततो लीढं खजाहतम्
पयोनुपानं तत्प्राह्णे रसायनमयन्त्रणम् ३१
मेध्यं चक्षुष्यमायुष्यं दीपनं हन्ति चाचिरात्
मेहगुल्मक्षयव्याधि पाण्डुरोगभगन्दरान् ३२
ये च सर्पिर्गुडाः प्रोक्ताः क्षते योज्याः क्षयेऽपि ते
त्वगेलापिप्लीक्षीरीशर्करा द्विगुणाः क्रमात् ३३
चूर्णिता भक्षिताः क्षौद्र सर्पिषा वाऽवलेहिताः
स्वर्याः कासक्षयश्वासपार्श्वरुक्कफनाशनाः ३४
अथ स्वरसादचिकित्सितम्
विशेषात्स्वरसादेऽस्य नस्यधूमादि योजयेत्
तत्रापि वातजे कोष्णं पिबेदौत्तरभक्तिकम् ३५
कासमर्दकवार्ताकीमार्कव स्वरसैर्घृतम्
साधितं कासजित्स्वर्यं सिद्धमार्तगलेन वा ३६
बदरीपत्रकल्कं वा घृतभृष्टं ससैन्धवम्
तैलं वा मधुकद्रा क्षापिप्पलीकृमिनुत्फलैः ३७
हंसपाद्याश्च मूलेन पक्वं नस्तो निषेचयेत्
सुखोदकानुपानं च ससर्पिष्कं गुडौदनम् ३८
अश्नीयात्पायसं चैवं स्निग्धं स्वेदं नियोजयेत्
पित्तोद्भवे पिबेत्सर्पिः शृतशीतपयोनुपः ३९
क्षीरिवृक्षाङ्कुरक्वाथकल्कसिद्धं समाक्षिकम्
अश्नीयाच्च ससर्पिष्कं यष्टीमधुकपायसम् ४०
बलाविदारिगन्धाभ्यां विदार्या मधुकेन च
सिद्धं सलवणं सर्पिर्नस्यं स्वर्यमनुत्तमम् ४१
प्रपौण्डरीकं मधुकं पिप्पली बृहती बला
साधितं क्षीरसर्पिश्च तत्स्वर्यं नावनं परम् ४२
लिह्यान्मधुरकाणां च चूर्णं मधुघृताप्लुतम्
पिबेत्कटूनि मूत्रेण कफजे रूक्षभोजनः ४३
कट्फलामलकव्योषं लिह्यात्तैलमधुप्लुतम्
व्योषक्षाराग्निचविकाभार्गीपथ्यामधूनि वा ४४
यवैर्यवागूं यमके कणाधात्रीकृतां पिबेत्
भुक्त्वाऽद्यात्पिप्पलद्यं शुण्ठीं तीक्ष्णं वा वमनं भजेत् ४५
शर्कराक्षौद्र मिश्राणि शृतानि मधुरैः सह
पिबेत्पयांसि यस्योच्चैर्वदतोऽभिहतः स्वरः ४६
इति स्वरसादचिकित्सितम्
अथारोचकचिकित्सितम्
विचित्रमन्नमरुचौ हितैरुपहितं हितम्
बहिरन्तर्मृजा चित्तनिर्वाणं हृद्यमौषधम् ४७
द्वौ कालौ दन्तपवनं भक्षयेन्मुखधावनैः
कषायैः क्षालयेदास्यं धूमं प्रायोगिकं पिबेत् ४८
तालीसचूर्णवटकाः सकर्पूरसितोपलाः
शाशाङ्ककिरणाख्याश्च भक्ष्या रुचिकराः परम् ४९
वातादरोचके तत्र पिबेच्चूर्णं प्रसन्नया
हरेणुकृष्णाकृमिजिद्द्रा क्षासैन्धवनागरात् ५०
एलाभार्गीयवक्षारहिङ्गुयुक्ताद्घृतेन वा
छर्दयेद्वा वचाम्भोभिः पित्ताच्च गुडवारिभिः ५१
लिह्याद्वा शर्करासर्पिर्लवणोत्तममाक्षिकम्
कफाद्वमेन्निम्बजलैर्दीप्यकारग्वधोदकम् ५२
पानं समध्वरिष्टाश्च तीक्ष्णाः समधुमाधवाः
पिबेच्चूर्णं च पूर्वोक्तं हरेण्वाद्युष्णवारिणा ५३
एलात्वङ्नागकुसुमतीक्ष्ण कृष्णामहौषधम्
भागवृद्धं क्रमाच्चूर्णं निहन्ति समशर्करम् ५४
प्रसेकारुचिहृत्पार्श्वकासश्वास गलामयान्
यवानीतित्तिडीकाम्लवेत सौषधदाडिमम् ५५
कृत्वा कोलं च कर्षांशं सितायाश्च चतुष्पलम्
धान्यसौवर्चलाजाजीवराङ्गं चार्धकार्षिकम् ५६
पिप्पलीनां शतं चैकं द्वे शते मरिचस्य च
चूर्णमेतत्परं रुच्यं हृद्यं ग्राहि हिनस्ति च ५७
विबन्धकासहृत्पार्श्वप्लीहार्शो ग्रहणीगदान्
तालीसपत्रं मरिचं नागरं पिप्पली शुभा ५८
यथोत्तरं भागवृद्ध्या त्वगेले चार्धभागिके
तद्रुच्यं दीपनं चूर्णं कणाष्टगुणशर्करम् ५९
कासश्वासारुचिच्छर्दिप्लीहहृत्पार्श्व शूलनुत्
पाण्डुज्वरातिसारघ्नं मूढवातानुलोमनम् ६०
इत्यरोचकचिकित्सितम्
अर्कामृताक्षारजले शर्वरीमुषितैर्यवैः
प्रसेके कल्पितान्सक्तून् भक्ष्यांश्चाद्याद्वली वमेत् ६१
कटुतिक्तैस्तथा शूल्यं भक्षयेज्जाङ्गलं पलम्
शुष्कांश्च भक्ष्यान् सुलघूंश्चणकादिरसानुपः ६२
श्लेष्मणोऽतिप्रसेकेन वायुः श्लेष्माणमस्यति
कफप्रसेकं तं विद्वान्स्निग्धोष्णैरेव निर्जयेत् ६३
पीनसेऽपि क्रममिमं वमथौ च प्रयोजयेत्
विशेषात्पीनसेऽभ्यङ्गान् स्नेहान् स्वेदांश्च शीलयेत् ६४
स्निग्धानुत्कारिकापिण्डैः शिरः पार्श्वगलादिषु
लवणाम्लकटूष्णांश्च रसान् स्नेहोपसंहितान् ६५
शिरॐसपार्श्वशूलेषु यथादोषविधिं चरेत्
औदकानूपपिशितैरुपनाहाः सुसंस्कृताः ६६
तत्रेष्टाः सचतुःस्नेहाः दोषसंसर्ग इष्यते
प्रलेपो नतयष्ट्याह्वशताह्वाकुष्ठचन्दनैः ६७
बलारास्नातिलैस्तद्वत्स सर्पिर्मधुकोत्पलैः
पुनर्नवाकृष्णगन्धा बलावीराविदारिभिः ६८
नावनं धूमपानानि स्नेहाश्चौत्तरभक्तिकाः
तैलान्यभ्यङ्गयोगीनि बस्तिकर्म तथा परम् ६९
शृङ्गाद्यैर्वा यथादोषं दुष्टमेषां हरेदसृक्
प्रदेहः सघृतैः श्रेष्ठः पद्मकोशीरचन्दनैः ७०
दूर्वामधुकमञ्जिष्ठाकेसरैर्वा घृताप्लुतैः
वटादिसिद्धतैलेन शतधौतेन सर्पिषा ७१
अभ्यङ्गः पयसा सेकः शस्तश्च मधुकाम्बुना
प्रायेणोपहताग्नित्वात्सपिच्छमतिसार्यते ७२
तस्यातिसारग्रहणीविहितं हितमौषधम्
पुरीषं यत्नतो रक्षेच्छुष्यतो राजयक्ष्मिणः ७३
सर्वधातुक्षयार्तस्य बलं तस्य हि विड्बलम्
मांसमेवाश्नतो युक्त्या मार्द्वीकं पिबतोऽनु च ७४
अविधारितवेगस्य यक्ष्मा न लभतेऽन्तरम्
सुरां समण्डां मार्द्वीकमरिष्टान्सीधुमाधवान् ७५
यथार्हमनुपानार्थं पिबेन्मांसानि भक्षयन्
स्रोतोविबन्धमोक्षार्थं बलौजःपुष्टये च तत् ७६
स्नेहक्षीराम्बुकोष्ठेषु स्वभ्यक्तमवगाहयेत्
उत्तीर्णं मिश्रकैः स्नेहैर्भूयोऽभ्यक्तं सुखैः करैः ७७
मृद्गीयात्सुखमासीनं सुखं चोद्वर्तयेत्परम्
जीवन्तीं शतवीर्यां च विकसां सपुनर्नवाम् ७८
अश्वगन्धामपामार्गं तर्कारीं मधुकं बलाम्
विदारीं सर्षपान् कुष्ठं तण्डुलानतसीफलम् ७९
माषांस्तिलांश्च किण्वं च सर्वमेकत्र चूर्णयेत्
यवचूर्णं त्रिगुणितं दध्ना युक्तं समाक्षिकम् ८०
एतदुद्वर्तनं कार्यं पुष्टिवर्णबलप्रदम्
गौरसर्षपकल्केन स्नानीयौषधिभिश्च सः ८१
स्नायादृतुसुखैस्तोयै र्जीवनीयोपसाधितैः
गन्धमाल्यादिकां भूषामलक्ष्मीनाशनीं भजेत् ८२
सुहृदां दर्शनं गीतवादित्रोत्सवसंश्रुतिः
बस्तयः क्षीरसर्पींषि मद्यमांससुशीलता ८३
दैवव्यपाश्रयं तत्तदथर्वोक्तं च पूजितम् ८३-२
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां चतुर्थे
चिकित्सितस्थाने राजयक्ष्मादिचिकित्सितं नाम पञ्चमोऽध्यायः ५

षष्ठोऽध्यायः
अथातश्च्छर्दिहृद्रो गतृष्णाचिकित्सितं व्याख्यास्यामः
इति ह स्माहुरात्रेयादयो महर्षयः
आमाशयोत्क्लेशभवाः प्रायश्च्छर्द्यो हितं ततः
लङ्घनं प्रागृते वायोर्वमनं तत्र योजयेत् १
बलिनो बहुदोषस्य वमतः प्रततं बहु
ततो विरेकं क्रमशो हृद्यं मद्यैः फलाम्बुभिः २
क्षीरैर्वा सह स ह्यूर्ध्वं गतं दोषं नयत्यधः
शमनं चौषधं रूक्षदुर्बलस्य तदेव तु ३
परिशुष्कं प्रियं सात्म्यमन्नं लघु च शस्यते
उपवासस्तथा यूषा रसाः काम्बलिकाः खलाः ४
शाकानि लेहा भोज्यानि रागषाडवपानकाः
भक्ष्याः शुष्का विचित्राश्च फलानि स्नानघर्षणम् ५
गन्धाः सुगन्धयो गन्धफलपुष्पान्नपानजाः
भुक्तमात्रस्य सहसा मुखे शीताम्बुसेचनम् ६
हन्ति मारुतजां छर्दिं सर्पिः पीतं ससैन्धवम्
किञ्चिदुष्णं विशेषेण सकासहृदयद्र वाम् ७
व्योषत्रिलवणाढ्यं वा सिद्धं वा दाडिमाम्बुना
सशुण्ठीदधिधान्येन शृतं तुल्याम्बु वा पयः ८
व्यक्तसैन्धवसर्पिर्वा फलाम्लो वैष्किरो रसः
स्निग्धं च भोजनं शुण्ठीदधिदाडिमसाधितम् ९
कोष्णं सलवणं चात्र हितं स्नेहविरेचनम्
पित्तजायां विरेकार्थं द्रा क्षेक्षुस्वरसैस्त्रिवृत् १०
सर्पिर्वा तैल्वकं योज्यं वृद्धं च श्लेष्मधामगम्
ऊर्ध्वमेव हरेत् पित्तं स्वादुतिक्तैर्विशुद्धिमान् ११
पिबेन्मन्थं यवागूं वा लाजैः समधुशर्कराम्
मुद्गजाङ्गलजैरद्याद्व्यञ्जनैः शालिषष्टिकम् १२
मृद्भृष्टलोष्टप्रभवं सुशीतं सलिलं पिबेत्
मुद्गोशीरकणाधान्यैः सह वा संस्थितं निशाम् १३
द्रा क्षारसं रसं वेक्षोर्गुडूच्यम्बु पयोऽपि वा
जम्ब्वाम्रपल्लवोशीरवटशुङ्गावरोहजः १४
क्वाथः क्षौद्र युतः पीतः शीतो वा विनियच्छति
छर्दि ज्वरमतीसारं मूर्च्छां तृष्णां च दुर्जयाम् १५
धात्रीरसेन वा शीतं पिबेन्मुद्गदलाम्बु वा
कोलमज्जसितालाजामक्षिकाविट्कणाञ्जनम् १६
लिह्यात्क्षौद्रे ण पथ्यां वा द्रा क्षां वा बदराणि वा
कफजायां वमेन्निम्बकृष्णापिण्डीतसर्षपैः १७
युक्तेन कोष्णतोयेन दुर्बलं चोपवासयेत्
आरग्वधादिनिर्यूहं शीतं क्षौद्र युतं पिबेत् १८
मन्थान् यवैर्वा बहुशश्च्छर्दिघ्नौषधभावितैः
कफघ्नमन्नं हृद्यं च रागाः सार्जकभूस्तृणाः १९
लीढं मनःशिलाकृष्णामरिचं बीजपूरकात्
स्वरसेन कपित्थस्य सक्षौद्रे ण वमिं जयेत् २०
खादेत्कपित्थं सव्योषं मधुना वा दुरालभाम्
लिह्यान्मरिचचोचैलागोशकृद्र समाक्षिकम् २१
अनुकूलोपचारेण याति द्विष्टार्थजा शमम्
कृमिजा कृमिहृद्रो गगदितैश्च भिषग्जितैः २२
यथास्वं परिशेषाश्च तत्कृताश्च तथाऽमयाः
छर्दिप्रसङ्गेन हि मातरिश्वा धातुक्षयात्कोपमुपैत्यवश्यम्
कुर्यादतोऽस्मिन् वमनातियोगप्रोक्तं विधिं स्तम्भनबृंहणीयम् २३
सर्पिगुडा मांसरसा घृतानि कल्याणकत्र्यूषणजीवनानि
पयांसि पथ्योपहितानि लेहाश्छर्दिं प्रसक्तां प्रशमं नयन्ति २४
इति छर्दिचिकित्सितम्
अथ हृद्रो गचिकित्सितम्
हृद्रो गे वातजे तैलं मस्तुसौवीरतक्रवत् २५
पिबेत्सुखोष्णं सबिडं गुल्मानाहार्तिजिच्च तत्
तैलं च लवणैः सिद्धं समूत्राम्लं तथागुणम् २६
बिल्वं रास्नां यवान् कोलं देवदारुं पुनर्नवाम्
कुलत्थान् पञ्चमूलं च पक्त्वा तस्मिन्पचेज्जले २७
तैलं तन्नावने पाने बस्तौ च विनियोजयेत्
शुण्ठीवयस्थालवणकायस्थाहिङ्गुपौष्करैः २८
पथ्यया च शृतं पार्श्वहृद्रुजागुल्मजिद्घृतम्
सौवर्चलस्य द्विपले पथ्यापञ्चाशदन्विते २९
घृतस्य साधितः प्रस्थो हृद्रो गश्वासगुल्मजित्
दाडिमं कृष्णलवणं शुण्ठी हिङ्ग्वम्लवेतसम् ३०
अपतन्त्रकहृद्रो गश्वासघ्नं चूर्णमुत्तमम्
पुष्कराह्वशठीशुण्ठी बीजपूरजटाभयाः ३१
पीताः कल्कीकृताः क्षारघृताम्ललवणैर्युताः
विकर्तिकाशूलहराः क्वाथः कोष्णश्च तद्गुणः ३२
यवानीलवणक्षारवचाजाज्यौषधैः कृतः
सपूतिदारुबीजाह्वपलाश शठिपौष्करैः ३३
यिवक्षारो यवानी च पिबेदुष्णेन वारिणा
एतेन वातजं शूलं गुल्मं चैव चिरोत्थितम् १
भिद्यते सप्तरात्रेण पवनेन यथा घनः
पञ्चकोलशठीपथ्यागुडबीजाह्व पौष्करम्
वारुणीकल्कितं भृष्टं यमके लवणान्वितम् ३४
हृत्पार्श्वयोनिशूलेषु खादेद्गुल्मोदरेषु च
स्निग्धाश्चेह हिताः स्वेदाः संस्कृतानि घृतानि च ३५
लघुना पञ्चमूलेन शुण्ठ्या वा साधितं जलम्
वारुणीदधिमण्डं वा धान्याम्लं वा पिबेत्तृषि ३६
सायामस्तम्भशूलामे हृदि मारुतदूषिते
क्रियैषा सद्र वायामप्रमोहे तु हिता रसाः ३७
स्नेहाढ्यास्तित्तिरिक्रौञ्च शिखिवर्तकदक्षजाः
बलातैलं सहृद्रो गः पिबेद्वा सुकुमारकम् ३८
यष्ट्याह्वशतपाकं वा महास्नेहं तथोत्तमम्
रास्नाजीवकजीवन्तीबलाव्याघ्रीपुनर्नवैः ३९
भार्गीस्थिरावचाव्योषैर्महास्नेहं विपाचयेत्
दधिपादं तथाम्लैश्च लाभतः स निषेवितः ४०
तर्पणो बृंहणो बल्यो वातहृद्रो गनाशनः
दीप्तेऽग्नौ सद्र वायामे हृद्रो गे वातिके हितम् ४१
क्षीरं दधि गुडः सर्पिरौदकानूपमामिषम्
एतान्येव च वर्ज्यानि हृद्रो गेषु चतुर्ष्वपि ४२
शेषेषु स्तम्भजाड्यामसंयुक्तेऽपि च वातिके
कफानुबन्धे तस्मिंस्तु रूक्षोष्णामाचरेत्क्रियाम् ४३
पैत्ते द्रा क्षेक्षुनिर्याससिताक्षौद्र परूषकैः
युक्तो विरेको हृद्यः स्यात्क्रमः शुद्धे च पित्तहा ४४
क्षतपित्तज्वरोक्तं च बाह्यान्तः परिमार्जनम्
कट्वीमधुककल्कं च पिबेत्ससितमम्भसा ४५
श्रेयसीशर्करा द्रा क्षाजीवकर्षभकोत्पलैः
बलाखर्जूरकाकोलीमेदायुग्मैश्च साधितम् ४६
सक्षीरं माहिषं सर्पिः पित्तहृद्रो गनाशनम्
प्रपौण्डरीकमधुकविस ग्रन्थिकसेरुकाः ४७
सशुण्ठीशैवलास्ताभिः सक्षीरं विपचेद्घृतम्
शीतं समधु तच्चेष्टं स्वादुवर्गकृतं च यत् ४८
बस्तिं च दद्यात्सक्षौद्रं तैलं मधुकसाधितम्
कफोद्भवे वमेत्स्विन्नः पिचुमन्दवचाम्भसा ४९
कुलत्थधन्वोत्थ रसतीक्ष्णमद्ययवाशनः
पिबेच्चूर्णं वचाहिङ्गुलवणद्वयनागरात् ५०
सैलायवानककणायवक्षारात्सुखाम्बुना
फलधान्याम्लकौलत्थयूष मूत्रासवैस्तथा ५१
पुष्कराह्वाभयाशुण्ठीशठी रास्नावचाकणात्
क्वाथं तथाऽभयाशुण्ठीमाद्री पीतद्रुकट्फलात् ५२
क्वाथे रोहितकाश्वत्थखदिरोदुम्बरार्जुने
सपलाशवटे व्योषत्रिवृच्चूर्णान्विते कृतः ५३
सुखोदकानुपानश्च लेहः कफविकारहा
श्लेष्मगुल्मोदिताज्यानि क्षारांश्च विविधान् पिबेत् ५४
प्रयोजयेच्छिलाह्वं वा ब्राह्मं वाऽत्र रसायनम्
तथाऽमलकलेहं वा प्राशं वाऽगस्त्यनिर्मितम् ५५
स्याच्छूलं यस्य भुक्तेऽति जीर्यत्यल्पं जरां गते
शाम्येत्स कुष्ठकृमिजिल्लवणद्वयतिल्वकैः ५६
सदेवदार्वतिविषैश्चूर्णमुष्णाम्बुना पिबेत्
यस्य जीर्णेऽधिकं स्नेहैः स विरेच्यः फलैः पुनः ५७
जीर्यत्यन्ने तथा मूलैस्तीक्ष्णैः शूले सदाऽधिके
प्रायोऽनिलो रुद्धगतिः कुप्यत्यामाशये गतः ५८
तस्यानुलोमनं कार्यं शुद्धिलङ्घनपाचनैः
कृमिघ्नमौषधं सर्वं कृमिजे हृदयामये ५९
इति हृद्रो गचिकित्सितम्
अथ तृष्णा चिकित्सितम्
तृष्णासु वातपित्तघ्नो विधिः प्रायेण शस्यते
सर्वासु शीतो बाह्यान्तस्तथा शमनशोधनः ६०
दिव्याम्बु शीतं सक्षौद्रं तद्वद्भौमं च तद्गुणम्
निर्वापितं तप्तलोष्टकपालसिकतादिभिः ६१
सशर्करं वा क्वथितं पञ्चमूलेन वा जलम्
दर्भपूर्वेण मन्थश्च प्रशस्तो लाजसक्तुभिः ६२
वाट्यश्चामयवैः शीतः शर्करामाक्षिकान्वितः
यवागूः शालिभिस्तद्वत्कोद्र वैश्च चिरन्तनैः ६३
शीतेन शीतवीर्यैश्च द्र व्यैः सिद्धेन भोजनम्
हिमाम्बुपरिषिक्तस्य पयसा ससितामधु ६४
रसैश्चानम्ललवणैर्जाङ्गलै र्घृतभर्जितैः
मुद्गादीनां तथा यूषैर्जीवनीयरसान्वितैः ६५
नस्यं क्षीरघृतं सिद्धं शीतैरिक्षोस्तथा रसः
निर्वापणाश्च गण्डूषाः सूत्रस्थानोदिता हिताः ६६
दाहज्वरोक्ता लेपाद्या निरीहत्वं मनोरतिः
महासरिद्ध्रदादीनां दर्शनस्मरणानि च ६७
तृष्णायां पवनोत्थायां सगुडं दधि शस्यते
रसाश्च बृंहणाः शीताः विदार्यादिगणाम्बु च ६८
पित्तजायां सितायुक्तः पक्वोदुम्बरजो रसः
तत्क्वाथो वा हिमस्तद्वत्सारिवादिगणाम्बु वा ६९
तद्विधैश्च गणैः शीतकषायान् ससितामधून्
मधुरैरौषधैस्तद्वत् क्षीरिवृक्षैश्च कल्पितान् ७०
बीजपूरकमृद्वीकावट वेतसपल्लवान्
मूलानि कुशकाशानां यष्ट्याह्वं च जले शृतम् ७१
ज्वरोदितं वा द्रा क्षादि पञ्चसाराम्बु वा पिबेत्
कफोद्भवायां वमनं निम्बप्रसववारिणा ७२
बिल्वाढकीपञ्चकोलदर्भ पञ्चकसाधितम्
जलं पिबेद्र जन्या वा सिद्धं सक्षौद्र शर्करम् ७३
मुद्गयूषं च सव्योषपटोलीनिम्बपल्लवम्
यवान्नं तीक्ष्णकवलनस्यलेहांश्च शीलयेत् ७४
सर्वैरामाच्च तद्धन्त्री क्रियेष्टा वमनं तथा
त्र्यूषणारुष्करवचाफलाम्लोष्णाम्बुमस्तुभिः ७५
अन्नात्ययान्मण्डमुष्णं हिमं मन्थं च कालवित्
तृषि श्रमान्मांसरसं मन्थं वा ससितं पिबेत् ७६
आतपात्ससितं मन्थं यवकोलजसक्तुभिः
सर्वाण्यङ्गानि लिम्पेच्च तिलपिण्याककाञ्जिकैः ७७
शीतस्नानाच्च मद्याम्बु पिवेत्तृण्मान् गुडाम्बु वा
मद्यादर्धजलं मद्यं स्नातोऽम्ल लवणैर्युतम् ७८
स्नेहतीक्ष्णतराग्निस्तु स्वभावशिशिरं जलम्
स्नेहादुष्णाम्ब्वजीर्णात्तु जीर्णान्मण्डं पिपासितः ७९
पिबेत्स्निग्धान्नतृषितो हिमस्पर्धि गुडोदकम्
गुर्वाद्यन्नेन तृषितः पीत्वोष्णाम्बु तदुल्लिखेत् ८०
क्षयजायां क्षयहितं सर्वं बृंहणमौषधम्
कृशदुर्बलरूक्षाणां क्षीरं छागो रसोऽथवा ८१
क्षीरं च सोर्ध्ववातायां क्षयकासहरैः शृतम्
रोगोपसर्गाज्जातायां धान्याम्बु ससितामधु ८२
पाने प्रशस्तं सर्वा च क्रिया रोगाद्यपेक्षया
तृष्यन् पूर्वामयक्षीणो न लभेत जलं यदि ८३
मरणं दीर्घरोगं वा प्राप्नुयात्त्वरितं ततः
सात्म्यान्नपानभैषज्यैस्तृष्णां तस्य जयेत्पुरा ८४
तस्यां जितायामन्योऽपि व्याधिः शक्यश्चिकित्सितुम् ८४॥१२
इति तृष्णारोगचिकित्सितम्
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां चतुर्थे
चिकित्सितस्थाने छर्दिहृद्रो गतृष्णाचिकित्सितं नाम षष्ठोऽध्यायः६

सप्तमोऽध्यायः
अथातो मदात्ययादिचिकित्सितं व्याख्यास्यामः
इति ह स्माहुरात्रेयादयो महर्षयः
यं दोषमधिकं पश्येत्तस्यादौ प्रतिकारयेत्
कफस्थानानुपूर्व्या च तुल्यदोषे मदात्यये १
पित्तमारुतपर्यन्तः प्रायेणहि मदात्ययः
हीनमिथ्यातिपीतेन यो व्याधिरुपजायते २
समपीतेन तेनैव स मद्येनोपशाम्यति
मद्यस्य विषसादृश्यात् विषं तूत्कर्षवृत्तिभिः ३
तीक्ष्णादिभिर्गुणैर्योगा द्विषान्तरमपेक्षते
तीक्ष्णोष्णेनातिमात्रेण पीतेनाम्लविदाहिना ४
मद्येनान्नरसक्लेदो विदग्धः क्षारतां गतः
यान् कूर्यान्मदतृण्मोहज्वरान्तर्दाहविभ्रमान् ५
मद्योत्क्लिष्टेन दोषेण रुद्धः स्रोतःसु मारुतः
सुतीव्रा वेदना याश्च शिरस्यस्थिषु सन्धिषु ६
जीर्णाममद्यदोषस्य प्रकाङ्क्षालाघवे सति
यौगिकं विधिवद्युक्तं मद्यमेव निहन्ति तान् ७
क्षारो हि याति माधुर्यं शीघ्रमम्लोपसंहितः
मद्यमम्लेषु च श्रेष्ठं दोषविष्यन्दनादलम् ८
तीक्ष्णोष्णाद्यैः पुरा प्रोक्तैर्दीपनाद्यैस्तथा गुणैः
सात्म्यत्वाच्च तदेवास्य धातुसाम्यकरं परम् ९
सप्ताहमष्टरात्रं वा कुर्यात्पानात्ययौषधम्
जीर्यत्येतावता पानं कालेन विपथाश्रितम् १०
परं ततोऽनुवध्नाति यो रोगस्तस्य भेषजम्
यथायथं प्रयुञ्जीत कृतपानात्ययौषधः ११
तत्र वातोल्बणे मद्यं दद्यात्पिष्टकृतं युतम्
बीजपूरकवृक्षाम्लकोलदाडिमदीप्यकैः १२
यवानीहपुषाजाजी व्योषत्रिलवणार्द्र कैः
शूल्यैर्मांसैर्हरितकैः स्नेहवद्भिश्च सक्तुभिः १३
उष्णस्निग्धाम्ललवणा मेद्यमांसरसा हिताः
आम्राम्रातकपेशीभिः संस्कृता रागषाडवाः १४
गोधूममाषविकृतिर्मृदुश्चित्रा मुखप्रिया
आर्द्रि कार्द्र ककुल्माषसुक्तमांसादिगर्भिणी १५
सुरभिर्लवणा शीता निर्गदा वाऽच्छवारुणी
स्वरसो दाडिमात् क्वाथः पञ्चमूलात्कनीयसः १६
शुण्ठीधान्यात्तथा मस्तुसुक्ताम्भोच्छाम्लकाञ्जिकम्
अंभ्यङ्गोद्वर्तनस्नानमुष्णं प्रावरणं घनम् १७
घनश्चागुरुजो धूपः पङ्कश्चागुरुकुङ्कुमः
कुचोरुश्रोणिशालिन्यो यौवनोष्णाङ्गयष्टयः १८
हर्षेणालिङ्गने युक्ताः प्रियाः संवाहनेषु च
पित्तोल्वणे बहुजलं शार्करं मधु वा युतम् १९
रसैर्दाडिम खर्जूर भव्यद्रा क्षापरूषजैः
सुशीतं ससितासक्तु योज्यं तादृक् च पानकम् २०
स्वादुवर्गकषायैर्वा युक्तं मद्यं समाक्षिकम्
शालिषष्टिकमश्नीयाच्छशाजैणकपिञ्जलैः २१
सतीनमुद्गामलकपटोलीदाडिमै रसैः
कफपित्तं समुत्क्लिष्टमुल्लिखेत्तृड्विदाहवान् २२
पीत्वाऽम्बु शीतं मद्यं वा भूरीक्षुरससंयुतम्
द्रा क्षारसं वा संसर्गी तर्पणादिः परं हितः २३
तथाऽग्निर्दीप्यते तस्य दोषशेषान्नपाचनः
कासे सरक्तनिष्ठीवे पार्श्वस्तनरुजासु च २४
तृष्णायां सविदाहायां सोत्क्लेशे हृदयोरसि
गुडूचीभद्र मुस्तानां पटोलस्याथवा रसम् २५
सशृङ्गबेरं युञ्जीत तित्तिरिप्रतिभोजनम्
तृष्यते चाति बलवद्वातपित्ते समुद्धते २६
दद्याद् द्रा क्षारसं पानं शीतं दोषानुलोमनम्
जीर्णेऽद्यान्मधुराम्लेन छागमांसरसेन च २७
तृष्यल्पशः पिबेन्मद्यं मदं रक्षन् बहूदकम्
मुस्तदाडिमलाजाम्बु जलं वा पर्णिनीशृतम् २८
पाटल्युत्पलकन्दैर्वा स्वभावादेव वा हिमम्
मद्यातिपानादब्धातौ क्षीणे तेजसि चोद्धते २९
यः शुष्कगलताल्वोष्ठो जिह्वां निष्कृष्य चेष्टते
पाययेत्कामतोऽम्भस्तं निशीथपवनाहतम् ३०
कोलदाडिमवृक्षाम्लचुक्रीकाचुक्रिकारसः
पञ्चाम्लको मुखालेपः सद्यस्तृष्णां नियच्छति ३१
त्वचं प्राप्तश्च पानोष्मा पित्तरक्ताभिमूर्च्छितः
दाहं प्रकुरुते घोरं तत्रातिशिशिरो विधिः ३२
अशाम्यति रसैस्तृप्ते रोहिणीं व्यधयेच्छिराम्
उल्लेखनोपवासाभ्यां जयेच्छ्लेष्मोल्वणं पिबेत् ३३
शीतं शुण्ठीस्थिरोदीच्यदुःस्पर्शान्यतमोदकम्
निरामं क्षुधितं काले पाययेद्बहुमाक्षिकम् ३४
शार्करं मधु वा जीर्णमरिष्टं सीधुमेव वा
रूक्षतर्पणसंयुक्तं यवानीनागरान्वितम् ३५
यूषेणयवगोधूमं तनुनाऽल्पेन भोजयेत्
उष्णाम्लकटुतिक्तेन कौलत्थेनाल्पसर्पिषा ३६
शुष्कमूलकजैश्च्छागै रसैर्वा धन्वचारिणाम्
साम्लवेतसवृक्षाम्लपटोलीव्योषदाडिमैः ३७
प्रभूतशुण्ठीमरिच हरितार्द्र कपेशिकम्
बीजपूररसाद्यम्ल भृष्टनीरसवर्तितम् ३८
करीरकरमर्दादि रोचिष्णु बहुशालनम्
प्रव्यक्ताष्टाङ्गलवणं विकल्पितनिमर्दकम् ३९
यथाग्नि भक्षयन् मांसं माधवं निगदं पिबेत्
सितासौवर्चलाजाजीतिन्तिडीकाम्लवेतसम् ४०
त्वगेलामरिचार्धांशमष्टाङ्ग लवणं हितम्
स्रोतोविशुद्ध्य्ग्निकरं कफप्राये मदात्यये ४१
रूक्षोष्णोद्वर्तनोद्धर्षस्नान भोजनलङ्घनैः
सकामाभिः सह स्त्रीभिर्युक्त्या जागरणेन च ४२
मदात्यः कफप्रायः शीघ्रं समुपशाम्यति
यदिदं कर्म निर्दिष्टं पृथग्दोषबलं प्रति ४३
सन्निपाते दशविधे तच्छेषेऽपि विकल्पयेत्
त्वङ्नागपुष्पमगधामरिचाजाजिधान्यकैः ४४
परूषकमधूकैलासुराह्वैश्च सितान्वितैः
सकपित्थरसं हृद्यं पानकं शशिबोधितम् ४५
मदात्ययेषु सर्वेषु पेयं रुच्यग्निदीपनम्
नाविक्षोभ्य मनो मद्यं शरीरमविहन्य वा ४६
कुर्यान्मदात्ययं तस्मादिष्यत हर्षणी क्रिया
संशुद्धिशमनाद्येषु मददोषः कृतेष्वपि ४७
न चेच्छाम्येत्कफे क्षीणे जाते दौर्बल्यलाघवे
तस्य मद्यविदग्धस्य वातपित्ताधिकस्य च ४८
ग्रीष्मोपतप्तस्य तरोर्यथा वर्षं तथा पयः
मद्यक्षीणस्य हि क्षीणं क्षीरमाश्वेव पुष्यति ४९
ओजस्तुल्यं गुणैः सर्वैर्विपरीतं च मद्यतः
पयसा विहते रोगे बले जाते निवर्तयेत् ५०
क्षीरप्रयोगं मद्यं च क्रमेणाल्पाल्पमाचरेत्
न विक्षयध्वंसकोत्थैः स्पृशेतोपद्र वैर्यथा ५१
तयोस्तु स्याद्घृतं क्षीरं बस्तयो बृंहणाः शिवाः
अभ्यङ्गोद्वर्तनस्नानान्यन्नपानं च वातजित् ५२
युक्तमद्यस्य मद्योत्थो न व्याधिरुपजायते
अतोऽस्य वक्ष्यते योगो यः सुखायैव केवलम् ५३
आश्विनं या महत्तेजो बलं सारस्वतं च या
दधात्यैन्द्रं च या वीर्यं प्रभावं वैष्णवं च या ५४
अस्त्रं मकरकेतोर्या पुरुषार्थो बलस्य या
सौत्रामण्यां द्विजमुखे या हुताशे च हूयते ५५
या सर्वौषधिसम्पूर्णान्मथ्यमानात्सुरासुरैः
महोदधेः समुद्भूता श्रीशशाङ्कामृतैः सह ५६
मधुमाधवमैरेयसीधु गौडासवादिभिः
मदशक्तिमनुज्झन्ती या रूपैर्बहुभिः स्थिता ५७
यामास्वाद्य विलासिन्यो यथार्थं नाम बिभ्रति
कुलाङ्गनाऽपि यां पीत्वा नयत्युद्धतमानसा ५८
अनङ्गालिङ्गितैरङ्गैः क्वापि चेतो मुनेरपि
तरङ्गभङ्गभ्रुकुटीतर्जनै र्मानिनीमनः ५९
एकं प्रसाद्य कुरुते या द्वयोरपिनिर्वृ तिम्
यथाकामं भटावाप्तिपरिहृष्टाप्सरोगणे ६०
तृणवत्पुरुषा युद्धे यामास्वाद्य त्यजन्त्यसून्
यां शीलयित्वाऽपि चिरं बहुधा बहुविग्रहाम् ६१
नित्यं हर्षातिवेगेन तत्पूर्वमिव सेवते
शोकोद्वेगारतिभयैर्यां दृष्ट्वा नाभिभूयते ६२
गोष्ठीमहोत्सवोद्यानं न यस्याः शोभते विना
स्मृत्वा स्मृत्वा च बहुशो वियुक्तः शोचते यया ६३
अप्रसन्नाऽपि या प्रीत्यै प्रसन्ना स्वर्ग एव या
अपीन्द्रं मन्यते दुःस्थं हृदयस्थितया यया ६४
अनिर्देश्यसुखास्वादा स्वयंवेद्यैव या परम्
इति चित्रास्ववस्थासु प्रियामनुकरोति या ६५
प्रियाऽतिप्रियतां याति यत्प्रियस्य विशेषतः
या प्रीतिर्या रतिर्वा वाग् या पुष्टिरिति च स्तुता ६६
देवदानवगन्धर्वयक्ष राक्षसमानुषैः
पानप्रवृत्तौ सत्यां तु तां सुरां विधिना पिबेत् ६७
सम्भवन्ति न ते रोगा मेदोनिलकफोद्भवाः
विधियुक्तादृते मद्याद्ये न सिध्यन्ति दारुणाः ६८
अस्ति देहस्य साऽवस्था यस्यां पानं निवार्यते
अन्यत्र मद्यान्निगदाद्विविधौषधसंस्कृतात् ६९
आनूपं जाङ्गलं मांसं विधिनाऽप्युपकल्पितम्
मद्यं सहायमप्राप्य सम्यक् परिणमेत्कथम् ७०
सुतीव्रमारुतव्याधिघातिनो लशुनस्य च
मद्यमांसवियुक्तस्य प्रयोगे स्यात्कियान् गुणः ७१
निगूढशल्याहरणे शस्त्रक्षाराग्निकर्मणि
पीतमद्यो विषहते सुखं वैद्यविकत्थनाम् ७२
अनलोत्तेजनं रुच्यं शोकश्रमविनोदकम्
न चातः परमस्त्यन्यदारोग्यबलपुष्टिकृत् ७३
रक्षता जीवितं तस्मात्पेयमात्मवता सदा
आश्रितोपाश्रितहितं परमं धर्मसाधनम् ७४
स्नातः प्रणम्य सुरविप्रगुरून् यथास्वं वृत्तिं विधाय च समस्तपरिग्रहस्य
आपानभूमिमथ गन्धजलाभिषिक्ता माहारमण्डपसमीपगतां श्रयेत ७५
स्वास्तृतेऽथ शयने कमनीये मित्रभृत्य रमणीसमवेतः
स्वं यशः कथकचारणसङ्घै रुद्धतं निशमयन्नतिलोकम् ७६
विलासिनीनां च विलासशोभि गीतं सनृत्यं कलतूर्यघोषैः
काञ्चीकलापैश्चल किङ्किणीभिः क्रीडाविहङ्गैश्च कृतानुनादम् ७७
मणिकनक समुत्थैरावनेयैर्विचित्रैः सजलविविधलेखक्षौमवस्त्रावृताङ्गैः
अपि मुनिजनचित्तक्षोभसम्पादिनीभिश्चकि तहरिणलोलप्रेक्षणीभिः प्रियाभिः ७८
स्तननितम्बकृतादतिगौरवादलसमाकुलमीश्वरसम्भ्रमात्
इति गतं दधतीभिरसंस्थितं तरुणचित्तविलोभनकार्मणम् ७९
यौवनासवमत्ताभि र्विलासाधिष्ठितात्मभिः
सञ्चार्यमाणं युगपत्तन्वङ्गीभिरितस्ततः ८०
तालवृन्तनलिनीदलानिलैः शीतलीकृतमतीव शीतलैः
दर्शनेऽपि विदधद्वशानुगं स्वादितं किमुत चित्तजन्मनः ८१
चूतरसेन्दुमृगैः कृतवासं मल्लिकयोज्ज्वलया च सनाथम्
स्फाटिकशुक्तिगतं सतरङ्गं कान्तमनङ्गमिवोद्वहदङ्गम् ८२
तालीसाद्यं चूर्णमेलादिकं वा हृद्यं प्राश्य प्राग्वयःस्थापनं वा
तत्प्रार्थिभ्यो भूमिभागे सुमृष्टे तोयोन्मिश्रं दापयित्वा ततश्च ८३
धृतिमान् स्मृतिमान्नित्यमनूनाधिकमाचरन्
उचितेनोपचारेण सर्वमेवोपपादयन् ८४
जितविकसितासितसरोजनयनसङ्क्रान्तिवर्धितश्रीकम्
कान्तामुखमिव सौरभहृतमधुपगणं पिबेन्मद्यम् ८५
पीत्वैवं चषकद्वयं परिजनं सन्मान्य सर्वं ततो
गत्वाऽहारभुवं पुरः सुभिषजो भुञ्जीत भूयोऽत्र च
मांसापूपघृतार्द्र कादिहरितैर्युक्तं ससौवर्चलैर्द्विस्त्रिर्वा निशि चाल्पमेव वनितासंवल्गनार्थं पिबेत् ८६
रहसि दयितामङ्के कृत्वा भुजान्तरपीडना
त्पुलकिततनुं जातस्वेदां सकम्पपयोधराम्
यदि सरभसं शीधोर्वारं न पाययते कृती
किमनुभवति क्लेशप्रायं ततो गृहतन्त्रताम् ८७
वरतनुवक्त्रसङ्गति सुगन्धितरं सरकं
द्रुतमिव पद्मरागमणिमासव रूपधरम्
भवति रतिश्रमेण च मदः पिबतोऽल्पमपि
क्षयमत ओजसः परिहरन् स शयीत परम् ८८
इत्थं युक्त्या पिबन्मद्यं न त्रिवर्गाद्विहीयते
असारसंसारसुखं परमं चाधिगच्छति ८९
एश्वर्यस्योपभोगोऽय स्पृहणीयः सुरैरपि
अन्यथा हि विपत्सु स्यात्पश्चात्तापेन्धनं धनम् ९०
उपभोगेन रहितो भोगवानिति निन्द्यते
निर्मितोऽतिकदर्योऽय विधिना निधिपालकः ९१
तस्माद्व्यवस्थया पानं पानस्य सततं हितम्
जित्वा विषयलुब्धानामिन्द्रि याणां स्वतन्त्रताम् ९२
विधिर्वसुमतामेष भविष्यद्वसवस्तु ये
यथोपपत्ति तैर्मद्यं पातव्यं मात्रया हितम् ९३
यावद् दृष्टेर्न सम्भ्रान्तिर्यावन्न क्षोभते मनः
तावदेव विरन्तव्यं मद्यादात्मवता सदा ९४
अभ्यङ्गोद्वर्तनस्नानवास धूपानुलेपनैः
स्निग्धोष्णैर्भावितश्चान्नैः पानं वातोत्तरः पिबेत् ९५
शीतोपचारैर्विविधैर्मधुरस्निग्ध शीतलैः
पैत्तिको भावितश्चान्नैः पिबन्मद्यं न सीदति ९६
उपचारैरशिशिरैर्यव गोधूमभुक् पिबेत्
श्लैष्मिको धन्वजैर्मांसैर्मद्यं मारिचिकैः सह ९७
तत्र वाते हितं मद्यं प्रायः पैष्टिकगौडिकम्
पित्ते साम्भोमधु कफे मार्द्वीकारिष्टमाधवम् ९८
प्राक् पिबेच्छ्लैष्मिको मद्यं भुक्तस्योपरि पैत्तिकः
वातिकस्तु पिबेन्मध्ये समदोषो यथेच्छया ९९
इति मदात्ययचिकित्सितम्
अथ मदमूर्च्छायचिकित्सितम्
मदेषु वातपित्तघ्नं प्रायो मूर्च्छासु चेष्यते
सर्वत्रापि विशेषेण पित्तमेवोपलक्षयेत् १००
शीताः प्रदेहा मणयः सेका व्यजनमारुताः
सिता द्रा क्षेक्षुखर्जूरकाश्मर्यस्वरसाः पयः १०१
सिद्धं मधुरवर्गेण रसा यूषाः सदाडिमाः
षष्टिकाः शालयो रक्ता यवाः सर्पिश्च जीवनम् १०२
कल्याणकं महातिक्तं षट्पलं पयसाऽग्निकः
पिप्पल्यो वा शिलाह्वं वा रसायनविधानतः १०३
त्रिफला वा प्रयोक्तव्या सघृतक्षौद्र शर्करा
प्रसक्तवेगेषु हितं मुखनासावरोधनम् १०४
पिबेद्वा मानुषीक्षीरं तेन दद्याच्च ॠनावनम्
मृणालबिसकृष्णा वा लिह्यात्क्षौद्रे ण साभयाः १०५
दुरालभां वा मुस्तं वा शीतेन सलिलेन वा
पिबेन्मरिचकोलास्थिमज्जोशीराहिकेसरम् १०६
धात्रीफलरसे सिद्धं पथ्याक्वाथेन वा घृतम्
कुर्यात्क्रियां यथोक्तां च यथादोषबलोदयम् १०७
पञ्चकर्माणि चेष्टानि सेचनं शोणितस्य च
सत्त्वस्यालम्बनं ज्ञानमगृद्धिर्विषयेषु च १०८
मदेष्वतिप्रवृद्धेषु मूर्च्छायेषु च योजयेत्
तीक्ष्णं संन्यासविहितं विषघ्नं विषजेषु च १०९
इति मदमूर्च्छायचिकित्सितम्
अथ सन्न्यासचिकित्सितम्
आशु प्रयोज्यं सन्न्यासे सुतीक्ष्णं नस्यमञ्जनम्
धूमः प्रधमनं तोदः सूचीभिश्च नखान्तरे ११०
केशानां लुञ्चनं दाहो दंशॐ दशनवृश्चिकैः
कट्वम्लगालनं वक्त्रे कपिकच्छ्ववघर्षणम् १११
उत्थितो लब्धसंज्ञश्च लशुनस्वरसं पिबेत्
खादेत्सव्योषलवणं बीजपूरककेसरम् ११२
लघ्वन्नप्रति तीक्ष्णोष्णमद्यात्स्रोतोविशुद्धये
विस्मापनैः संस्मरणैः प्रियश्रवणदर्शनैः ११३
पटुभिर्गीतवादित्र शब्दैर्व्यायामशीलनैः
स्रंसनोल्लेखनैर्धूमैः शोणितस्यावसेचनैः ११४
उपाचरेत्तं प्रततमनुबन्धभयात्पुनः
तस्य संरक्षितव्यं च मनः प्रलयहेतुतः ११५
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां चतुर्थे
चिकित्सितस्थानेमदात्ययादिचिकित्सितं नाम सप्तमोऽध्यायः ७

अष्टमोऽध्यायः
अथातोऽशसां चिकित्सितं व्याख्यास्यामः
इति ह स्माहुरात्रेयादयो महर्षयः
काले साधारणे व्यभ्रे नातिदुर्बलमर्शसम्
विशुद्धकोष्ठं लघ्वल्पमनुलोमनमाशितम् १
शुचिं कृतस्वस्त्ययनं मुक्तविण्मूत्रमव्यथम्
शयने फलके वाऽन्यनरोत्सङ्गे व्यपाश्रितम् २
पूर्वेण कायेनोत्तानं प्रत्यादित्यगुदं समम्
समुन्नतकटीदेशमथ यन्त्रणवाससा ३
सन्क्थोः शिरोधरायां च परिक्षिप्तमृजु स्थितम्
आलम्बितं परिचरैः सर्पिषाऽभ्यक्तपायवे ४
ततोऽस्मै सर्पिषाऽभ्यक्तं निदध्यादृजु यन्त्रकम्
शनैरनुसुखं पायौ ततो दृष्ट्वा प्रवाहणात् ५
यन्त्रे प्रविष्टं दुर्नाम प्लोतगुण्ठितयाऽनु च
शलाकयोत्पीड्य भिषक् यथोक्तविधिना दहेत् ६
क्षारेणैवार्द्र मितरत्क्षारेण ज्वलनेन वा
महद्वा बलिनश्छित्त्वा वीतयन्त्रमथातुरम् ७
स्वभ्यक्तपायुजघनमवगाहे निधापयेत्
निर्वातमन्दिरस्थस्य ततोऽस्याचारमादिशेत् ८
एकैकमिति सप्ताहात्सप्ताहात्समुपाचरेत्
प्राग्दक्षिणं ततो वाममर्शः पृष्ठाग्रजं ततः ९
बह्वर्शसः सुदग्धस्य स्याद्वायोरनुलोमता
रुचिरन्नेऽग्निपटुता स्वास्थ्यं वर्णबलोदयः १०
बस्तिशूले त्वधो नाभेर्लेपयेच्छ्लक्ष्णकल्कितैः
वर्षाभूकुष्ठसुरभि मिशिलोहामराह्वयैः ११
शकृन्मूत्रप्रतीघाते परिषेकावगाहयोः
वरणालम्बुषैरण्ड गोकण्टकपुनर्नवैः १२
सुषवीसुरभीभ्यां च क्वाथमुष्णं प्रयोजयेत्
सस्नेहमथवा क्षीरं तैलं वा वातनाशनम् १३
युञ्जीतान्नं शकृद्भेदि स्नेहान् वातघ्नदीपनान्
अथाप्रयोज्यदाहस्य निर्गतान् कफवातजान् १४
सस्तम्भकण्डूरुक्शोफानभ्यज्य गुदकीलकान्
विल्वमूलाग्निकक्षारकुष्ठैः सिद्धेन सेचयेत् १५
तैलेनाहिबिडालोष्ट्र वराहवसयाऽथवा
स्वेदयेदनु पिण्डेन द्रवस्वेदेन वा पुन: १६ सक्तूनां पिण्डिकाभिर्वा स्निग्धानां तैलसार्पिषा रास्नाया हपुषाया वा पिण्डैर्वा कार्ष्ण्यगान्धिकै: १७ कासीसं सैन्धवं रास्ना शुण्ठी कुष्ठं च लाङ्गली
शिलाभ्रकाश्वमारं च जन्तुहृद्दन्तिचित्रकौ १
हरितालं तथा स्वर्णक्षीरी तैश्च पचेत्समैः
तैलं सुधार्कपयसी गवां मूत्रे चतुर्गुणे २
एतदभ्यङ्गतोऽशासि क्षारवत्पातयेद्द्रुतम्
क्षारकर्मकरं ह्येतन्न च दूषयते वलिम् ३
स्वेदयेदनु पिण्डेन द्र वस्वेदेन वा पुनः १६
सक्तूनां पिण्डिकाभिर्वा स्निग्धानां तैलसर्पिषा
रास्नाया हपुषाया वा पिण्डैर्वा कार्ष्ण्यगन्धिकैः १७
अर्कमूलं शमीपत्रं नृकेशाः सर्पकञ्चुकम्
मार्जारचर्म सर्पिश्च धूपनं हितमर्शसाम् १८
तथाऽश्वगन्धा सुरसा वृहती पिप्पली घृतम्
धान्याम्लपिष्टैर्जीमूतबीजैस्तज्जालकं मृदु १९
लेपितं छायया शुष्कं वर्तिर्गुदजशातनी
सजालमूलजीमूतलेहे वा क्षारसंयुते २०
गुञ्जासूरणकूष्माण्ड बीजैर्वर्तिस्तथागुणा
स्नुक्क्षीरार्द्र निशालेपस्तथा गोमूत्रकल्कितैः २१
कृकवाकुशकृत्कृष्णा निशागुञ्जाफलैस्तथा
स्नुक्क्षीरपिष्टैः षड्ग्रन्थाहलिनीवारणास्थिभिः २२
कुलीरशृङ्गीविजया कुष्ठारुष्करतुत्थकैः
शिग्रुमूलकजैर्बीजैः पत्रैरश्वघ्ननिम्बजैः २३
पीलुमूलेन बिल्वेन हिङ्गुना च समन्वितैः
कुष्ठं शिरीषबीजानि पिप्पल्यः सैन्धवं गुडः २४
अर्कक्षीरं सुधाक्षीरं त्रिफला च प्रलेपनम्
आर्कं पयः सुधाकाण्डं कटुकालाबुपल्लवाः २५
करञ्जो वस्तमूत्रं च लेपनं श्रेष्ठमर्शसाम्
आनुवासनिकैर्लेपः पिप्पल्याद्यैश्च पूजितः २६
एभिरेवौषधैः कुर्यात्तैलान्यभ्यञ्जनाय च
धूपनालेपनाभ्यङ्गैः प्रस्रवन्ति गुदाङ्कुराः २७
सञ्चितं दुष्टरुधिरं ततः सम्पद्यते सुखी
अवर्तमानमुच्छूनकठिनेभ्यो हरेद्सृक् २८
अर्शोभ्यो जलजाशस्त्रसूचीकूर्चैः पुनः पुनः
शीतोष्णस्निग्धरूक्षैर्हि न व्याधिरुपशाम्यति २९
रक्ते दुष्टे भिषक् तस्माद्र क्तमेवावसेचयेत्
यो जातो गोरसः क्षीराद्वह्निचूर्णावचूर्णितात् ३०
पिबंस्तमेव तेनैव भुञ्जानो गुदजान् जयेत्
कोविदारस्य मूलानां मथितेन रजः पिबन् ३१
अश्नन् जीर्णे च पथ्यानि मुच्यते हतनामभिः
गुदश्वयथुशूलार्तो मन्दाग्निर्गौल्मिकान् पिबेत् ३२
हिङ्ग्वादीननुतक्रं वा खादेद्गुडहरीतकीम्
तक्रेण वा पिबेत्पथ्यावेल्लाग्निकुटजत्वचः ३३
कलिङ्गमगधाज्योतिःसूरणान् वांऽशवर्धितान्
कोष्णाम्बुना वा त्रिपटुव्योषहिङ्ग्वम्लवेतसम् ३४
युक्तं बिल्वकपित्थाभ्यां महौषधबिडेन वा
अरुष्करैर्यवान्या वा प्रदद्यात्तक्रतर्पणम् ३५
दद्याद्वा हपुषाहिङ्गुचित्रकं तक्रसंयुतम्
मासं तक्रानुपानानि खादेत्पीलुफलानि वा ३६
पिबेदहरहस्तक्रं निरन्नो वा प्रकामतः
अत्यर्थं मन्दकायाग्नेस्तक्रमेवावचारयेत् ३७
सप्ताहं वा दशाहं वा मासार्धं मासमेव वा
बलकालविकारज्ञो भिषक् तक्रं प्रयोजयेत् ३८
सायं वा लाजसक्तूनां दद्यात्तक्रावलेहिकाम्
जीर्णे तक्रे प्रदद्याद्वा तक्रपेयां ससैन्धवाम् ३९
तक्रानुपानं सस्नेहं तक्रौदनमतः परम्
यूषै रसैर्वा तक्राढ्यैः शालीन् भुञ्जीत मात्रया ४०
रूक्षमर्धोद्धृतस्नेहं यतश्चानुद्धृतं घृतम्
तक्रं दोषाग्निबलवित्त्रिविधं तत्प्रयोजयेत् ४१
न विरोहन्ति गुदजाः पुनस्तक्रसमाहताः
निषिक्तं तद्धि दहति भूमावपि तृणोलुपम् ४२
स्रोतःसु तक्रशुद्धेषु रसो धातूनुपैति यः
तेन पुष्टिर्बलं वर्णः परं तुष्टिश्च जायते ४३
वातश्लेष्मविकाराणां शतं च विनिवर्तते
मथितं भाजने क्षुद्र बृहतीफललेपिते ४४
निशां पर्युषितं पेयमिच्छद्भिर्गुदजक्षयम्
घान्योपकुञ्चिकाजाजीहपुषापिप्पलीद्वयैः ४५
कारवीग्रन्थिकशठी यवान्यग्नियवानकैः
चूर्णितैर्घृतपात्रस्थं नात्यम्लं तक्रमासुतम् ४६
तक्रारिष्टं पिबेज्जातं व्यक्ताम्लकटु कामतः
दीपनं रोचनं वर्ण्यं कफवातानुलोमनम् ४७
गुदश्वयथुकण्ड्वर्तिनाशनं बलवर्धनम्
त्वचं चित्रकमूलस्य पिष्टा कुम्भं प्रलेपयेत् ४८
तक्रं वा दधि वा तत्र जातमर्शोहरं पिबेत्
भार्ग्यास्फोतामृतापञ्चकोलेष्वप्येष संविधिः ४९
पिष्टैर्गजकणापाठाकारवी पञ्चकोलकैः
तुम्बर्वजाजीधनिकाबिल्वमध्यैश्च कल्पयेत् ५०
फलाम्लान् यमकस्नेहान् पेयायूषरसादिकान्
एभिरेवौषधैः साध्यं वारि सर्पिश्च दीपनम् ५१
क्रमोऽय भिन्नशकृतां वक्ष्यते गाढवर्चसाम्
स्नेहाढ्यैः सक्तुभिर्युक्तां लवणां वारुणीं पिबेत् ५२
लवणा एव वा तक्रसीधुधान्याम्लवारुणीः
प्राग्भक्तान् यमके भृष्टान् सक्तुभिश्चावचूर्णितान् ५३
करञ्जपल्लवान् खादेद्वातवर्चोनुलोमनान्
सगुडं नागरं पाठां गुडक्षारघृतानि वा ५४
गोमूत्राध्युषितामद्यात्सगुडां वा हरीतकीम्
पथ्याशतद्वयान्मूत्रद्रो णेना मूत्रसङ्क्षयात् ५५
पक्वात् खादेत्समधुनी द्वे द्वे हन्ति कफोद्भवान्
दुर्नामकुष्ठश्वयथुगुल्म मेहोदरकृमीन् ५६
ग्रन्थ्यर्बुदापचीस्थौल्यपाण्डुरोगाढ्यमारुतान्
अजशृङ्गीजटाकल्कमजामूत्रेण यः पिबेत् ५७
गुडवार्ताकभुक् तस्य नश्यन्त्याशु गुदाङ्कुराः
श्रेष्ठारसेन त्रिवृतां पथ्यां तक्रेण वा सह ५८
पथ्यां वा पिप्पलीयुक्तां घृतभृष्टां गुडान्विताम्
अथवा सत्रिवृद्दन्तीं भक्षयेदनुलोमनीम् ५९
हते गुदाश्रये दोषे गुदजा यान्ति सङ्क्षयम्
दाडिमस्वर साजाजीयवानीगुडनागरैः ६०
पाठया वा युतं तक्रं वातवर्चोनुलोमनम्
सीधुं वा गौडमथवा सचित्रकमहौषधम् ६१
पिबेत्सुरां वा हपुषापाठासौवर्चलान्विताम्
दशादिदशकैवृद्धाः पिप्पलीर्द्विपिचुं तिलान् ६२
पीत्वा क्षीरेण लभते बलं देहहुताशयोः
दुःस्पर्शकेन बिल्वेन यवान्या नागरेण वा ६३
एकैकेनापि संयुक्ता पाठा हन्त्यर्शसां रुजम्
सलिलस्य वहे पक्त्वा प्रस्थार्धमभयात्वचाम् ६४
प्रस्थं धात्र्या दशपलं कपित्थानां ततोऽधतः
विशालां रोध्रमरिचकृष्णावेल्लैलवालुकम् ६५
द्विपलांशं पृथक्पादशेषे पूते गुडात्तुले
दत्त्वा प्रस्थं च धातक्याः स्थापयेद्घृतभाजने ६६
पक्षात्स शीलितोऽरिष्टः करोत्यग्निं निहन्ति च
गुदजग्रहणीपाण्डुकुष्ठोदरगरज्वरान् ६७
श्वयथुप्लीहहृद्रो गगुल्म यक्ष्मवमिकृमीन्
जलद्रो णे पचेद्दन्तीदशमूलवराग्निकान् ६८
पालिकान् पादशेषे तु क्षिपेद्गुडतुलां परम्
पूर्ववत्सर्वमस्य स्यादानुलोमितरस्त्वयम् ६९
पचेद्दुरालभाप्रस्थं द्रो णेऽपा प्रासृतैः सह
दन्तीपाठाग्निविजयावासामलकनागरैः ७०
तस्मिन् सिताशतं दद्यात्पादस्थेऽन्यच्च पूर्ववत्
लिम्पेत्कुम्भं तु फलिनीकृष्णाचव्याज्यमाक्षिकैः ७१
प्राग्भक्तमानुलोम्याय फलाम्लं वा पिबेद्घृतम्
चव्यचित्रकसिद्धं वा यवक्षारगुडान्वितम् ७२
पिप्पलीमूलसिद्धं वा सगुडक्षारनागरम्
पिप्पलीपिप्पलीमूलधानकादाडिमैर्घृतम् ७३
दध्ना च साधितं वातशकृन्मूत्रविबन्धनुत्
पलाशक्षारतोयेन त्रिगुणेन पचेद्घृतम् ७४
वत्सकादिप्रतीवापमर्शोघ्नं दीपनं परम्
पञ्चकोलाभयाक्षारयवानीविडसैन्धवैः ७५
सपाठाधान्यमरिचैः सबिल्वैर्दधिमद्घृतम्
साधयेत् तज्जयत्याशु गुदवङ्क्षणवेदनाम् ७६
प्रवाहिकां गुदभ्रंशं मूत्रकृच्छ्रं परिस्रवम्
पाठाजमोदधनिकाश्वदंष्ट्रापञ्चकोलकैः ७७
सबिल्वैर्दध्नि चाङ्गेरीस्वरसे च चतुर्गुणे
हन्त्याज्यं सिद्धमानाहं मूत्रकृच्छ्रं प्रवाहिकाम् ७८
गुदभ्रंशार्तिगुदज ग्रहणीगदमारुतान्
शिखितित्तिरिलावानां रसानम्लान् सुसंस्कृतान् ७९
दक्षाणां वर्तकानां वा दद्याद्विड्वातसङ्ग्रहे
वास्तुकाग्नित्रिवृद्दन्तीपाठाम्लीकादिपल्लवान् ८०
अन्यच्च कफवातघ्नं शाकं च लघु भेदि च
सहिङ्गु यमके भृष्टं सिद्धं दधिसरैः सह ८१
धनिकापञ्चकोलाभ्यां पिष्टाभ्यां दाडिमाम्बुना
आर्द्रि कायाः किसलयैः शकलैरार्द्र कस्य च ८२
युक्तमङ्गारधूपेन हृद्येन सुरभीकृतम्
सजीरकं समरिचं विडसौवर्चलोत्कटम् ८३
वातोत्तरस्य रूक्षस्य मन्दाग्नेर्बद्धवर्चसः
कल्पयेद्र क्तशाल्यन्नव्यञ्जनं शाकवद्र सान् ८४
गोगोधाछगलोष्ट्राणां विशेषात्क्रव्यभोजिनाम्
मदिरां शार्करं गौडं सीधुं तक्रं तुषोदकम् ८५
अरिष्टं मस्तु पानीयं पानीयं वाऽल्पकं शृतम्
धान्येन धान्यशुण्ठीभ्यां कण्टकारिकयाऽथवा ८६
अन्ते भक्तस्य मध्ये वा वातवर्चोनुलोमनम्
विड्वातकफपित्तानामानुलोम्ये हि निर्मले ८७
गुदे शाम्यन्ति गुदजाः पावकश्चाभिवर्धते
उदावर्तपरीता ये ये चात्यर्थं विरूक्षिताः ८८
विलोमवाताः शूलार्तास्तेष्विष्टमनुवासनम्
पिप्पलद्यं मदनं बिल्वं शताह्वां मधुकं वचाम् ८९
कुष्ठं शठीं पुष्कराख्यं चित्रकं देवदारु च
पिष्ट्वा तैलं विपक्तव्यं द्विगुणक्षीरसंयुतम् ९०
अर्शसां मूढवातानां तच्छ्रेष्ठमनुवासनम्
गुदनिःसरणं शूलं मूत्रकृच्छ्रं प्रवाहिकाम् ९१
कट्यूरुपृष्ठदौर्बल्यमानाहं वङ्क्षणाश्रयम्
पिच्छास्रावं गुदे शोफं वातवर्चोविनिग्रहम् ९२
उत्थानं बहुशो यच्च जयेत्तच्चानुवासनात्
निरूहं वा प्रयुञ्जीत सक्षीरं पाञ्चमूलिकम् ९३
समूत्रस्नेहलवणं कल्कैर्युक्तं फलादिभिः
अथ रक्तार्शसां वीक्ष्य मारुतस्य कफस्य वा ९४
अनुबन्धं ततः स्निग्धं रूक्षं वा योजयेद्धिमम्
शकृच्छ्यावं खरं रूक्षमधो निर्याति नानिलः ९५
कट्यूरुगुदशूलं च हेतुर्यदि च रूक्षणम्
तत्रानुबन्धो वातस्य श्लेष्मणो यदि विट्श्लथा ९६
श्वेता पीता गुरुः स्निग्धा सपिच्छः स्तिमितो गुदः
हेतुः स्निग्धगुरुर्विद्याद्यथास्वं चास्रलक्षणात् ९७
दुष्टेऽस्रे शोधनं कार्यं लङ्घनं च यथाबलम्
यावच्च दोषैः कालुष्यं स्रुतेस्तावदुपेक्षणम् ९८
दोषाणां पाचनार्थं च वह्निसन्धुक्षणाय च
सङ्ग्रहाय च रक्तस्य परं तिक्तैरुपाचरेत् ९९
यत्तु प्रक्षीणदोषस्य रक्तं वातोल्बणस्य वा
स्नेहैस्तत्साधयेद्युक्तैः पानाभ्यञ्जनबस्तिषु १००
यत्तु पित्तोल्बणं रक्तं घर्मकाले प्रवर्तते
स्तम्भनीयं तदेकान्तान्न चेद्वातकफानुगम् १०१
सकफेऽस्रे पिबेत्पाक्यं शुण्ठीकुटजवल्कलम्
किराततिक्तकं शुण्ठी धन्वयासं कुचन्दनम् १०२
दार्वीत्वङ्निम्बसेव्यानि त्वचं वा दाडिमोद्भवाम्
कुटजत्वक्फलं तार्क्ष्यं माक्षिकं घुणवल्लभाम् १०३
पिबेत्तण्डुलतोयेन कल्कितं वा मयूरकम्
तुलां दिव्याम्भसि पचेदार्द्राया: कुटजत्वचः १०४
नीरसायां त्वचि क्वाथे दद्यात्सूक्ष्मरजीकृतान्
समङ्गाफलिनीमोचरसान् मुष्ट्यंशकान्समान् १०५
तैश्च शक्रयवान् पूते ततो दर्वीप्रलेपनम्
पक्त्वाऽवलेहं लीढ्वाच तं यथाग्निबलं पिबेत् १०६
पेयां मण्डं पयश्छागं गव्यं वा छागदुग्धभुक्
लेहोऽय शमयत्याशु रक्तातीसारपायुजान् १०७
बलवद्र क्तपित्तं च स्रवदूर्ध्वमधोऽपि वा
कुटजत्वक्तुलां द्रो णे पचेदष्टांशशेषितम् १०८
कल्कीकृत्य क्षिपेत्तत्र तार्क्ष्यशैलं कटुत्रयम्
रोध्रद्वयं मोचरसं बलां दाडिमजां त्वचम् १०९
बिल्वकर्कटिकां मुस्तं समङ्गां धातकीफलम्
पलोन्मितं दशपलं कुटजस्यैव च त्वचः ११०
त्रिंशत्पलानि गुडतो घृतात्पूते च विंशतिः
तत्पक्वं लेहतां यातं धान्ये पक्षस्थितं लिहन् १११
सर्वार्शोग्रहणीदोषश्वास कासान्नियच्छति
रोध्रं तिलान्मोचरसं समङ्गां चन्दनोत्पलम् ११२
पाययित्वाऽजदुग्धेन शालद्यंस्तेनैव भोजयेत्
यष्ट्याह्वपद्मकानन्तापयस्या क्षीरमोरटम् ११३
ससितामधु पातव्यं शीततोयेन तेन वा
रोध्रकट्वङ्गकुटजसमङ्गाशाल्मलीत्वचम् ११४
हिमकेसरयष्ट्याह्वसेव्यं वा तण्डुलाम्बुना
यवानीन्द्र यवाः पाठा बिल्वं शुण्ठी रसाञ्जनम् ११५
चूर्णश्चले हितः शूले प्रवृत्ते चाति शोणिते
दुग्धिकाकण्टकारीभ्यां सिद्धं सर्पिः प्रशस्यते ११६
अथवा धातकीरोध्रकुटजत्वक्फलोत्पलैः
सकेसरैर्यवक्षारदाडिमस्वरसेन वा ११७
शर्कराम्भोजकिञ्जल्कसहितं सह वा तिलैः
अभ्यस्तं रक्तगुदजान् नवनीतं नियच्छति ११८
छागानि नवनीताज्यक्षीरमांसानि जाङ्गलः
अनम्लो वा कदम्लो वा सवास्तुकरसो रसः ११९
रक्तशालि सरो दध्नः षष्टिकस्तरुणी सुरा
तरुणश्च सुरामण्डः शोणितस्यौषधं परम् १२०
पेयायूषरसाद्येषु पलाण्डुः केवलोऽपि वा
स जयत्युल्बणं रक्तं मारुतं च प्रयोजितः १२१
वातोल्बणानि प्रायेण भवन्त्यस्रेऽतिनिःसृते
अर्शांसि तस्मादधिकं तज्जये यत्नमाचरेत् १२२
दृष्ट्वाऽस्रपित्तं प्रबलमबलौ च कफानिलौ
शीतोपचारः कर्तव्यः सर्वथा तत्प्रशान्तये १२३
न चेदेवं शमस्तस्य स्निग्धोष्णैस्तर्पयेत्ततः
रसैःकोष्णैश्च सर्पिर्भिरवपीडकयोजितैः १२४
सेचयेत्तं कवोष्णैश्च कामं तैलपयोघृतैः
यवासकुशकाशानां मूलं पुष्पं च शाल्मलेः १२५
न्यग्रोधोदुम्बराश्वत्थशुङ्गाश्च द्विपलोन्मिताः
त्रिप्रस्थे सलिलस्यैतत्क्षीरप्रस्थे च साधयेत् १२६
क्षीरशेषे कषाये च तस्मिन् पूते विमिश्रयेत्
कल्कीकृतं मोचरसं समङ्गां चन्दनोत्पलम् १२७
प्रियङ्गुं कौटजं बीजं कमलस्य च केसरम्
पिच्छाबस्तिरयं सिद्धः सघृतक्षौद्र शर्करः १२८
प्रवाहिकागुदभ्रंशरक्त स्रावज्वरापहः
यष्ट्याह्वपुण्डरीकेण तथा मोचरसादिभिः १२९
क्षीरद्विगुणितः पक्वो देयः स्नेहोऽनुवासनम्
मधुकोत्पलरोध्राम्बु समङ्गा बिल्वचन्दनम् १३०
चविकाऽतिविषा मुस्तं पाठा क्षारो यवाग्रजः
दार्वीत्वङ्नागरं मांसी चित्रको देवदारु च १३१
चाङ्गेरीस्वरसे सर्पिः साधितं तैस्त्रिदोषजित्
अर्शोतिसारग्रहणीपाण्डु रोगज्वरारुचौ १३२
मूत्रकृच्छ्रे गुदभ्रंशे बस्त्यानाहे प्रवाहणे
पिच्छास्रावेऽशसां शूले देयं तत्परमौषधम् १३३
व्यत्यासान्मधुराम्लानि शीतोष्णानि च योजयेत्
नित्यमग्निबलापेक्षी जयत्यर्शःकृतान् गदान् १३४
उदावर्तार्तमभ्यज्य तैलैः शीतज्वरापहैः
सुस्निग्धैः स्वेदयेत्पिण्डैर्वर्तिमस्मै गुदे ततः १३५
अभ्यक्तां तत्कराङ्गुष्ठसन्निभामनुलोमनीम्
दद्याच्छ्यामात्रिवृद्दन्तीपिप्पलीनीलिनीफलैः १३६
विचूर्णितैर्द्विलवणैर्गुड गोमूत्रसंयुतैः
तद्वन्मागधिकाराठगृहधूमैः ससर्षपैः १३७
एतेषामेव वा चूर्णं गुदे नाड्या विनिर्धमेत्
तद्विघाते सुतीक्ष्णं तु बस्तिं स्निग्धं प्रपीडयेत् १३८
ऋजू कुर्याद्गुदशिराविण्मूत्रमरुतोऽस्य सः
भूयोऽनुबन्धे वातघ्नैर्विरेच्यः स्नेहरेचनैः १३९
अनुवास्यश्च रौक्ष्याद्धि सङ्गो मारुतवर्चसोः
त्रिपटुत्रिकटुश्रेष्ठादन्त्यरुष्करचित्रकम् १४०
जर्जरं स्नेहमूत्राक्तमन्तर्धूमं विपाचयेत्
शरावसन्धौ मृल्लिप्ते क्षारः कल्याणकाह्वयः १४१
स पीतः सर्पिषा युक्तो भक्ते वा स्निग्धभोजिना
उदावर्तविबन्धार्शोगुल्मपाण्डूदरकृमीन् १४२
मूत्रसङ्गाश्मरीशोफ हृद्रो गग्रहणीगदान्
मेहप्लीहरुजानाहश्वासकासांश्च नाशयेत् १४३
सर्वं च कुर्याद्यत्प्रोक्तमर्शसां गाढवर्चसाम्
द्रो णेऽपा पूतिवल्कद्वितुलमथ पचेत्पादशेषे च तस्मिन्
देयाऽशीतिर्गुडस्य प्रतनुकरजसो व्योषतोऽष्टौ पलानि
एतन्मासेन जातं जनयति परमामूष्मणः पक्तिशक्तिंशुक्तं कृत्वाऽनुलोम्यं प्रजयति गुदजप्लीहगुल्मोदराणि १४४
पचेत्तुलां पूतिकरञ्जवल्काद् द्वे मूलतश्चित्रककण्टकार्योः
द्रो णत्रयेऽपा चरणावशेषेपूते शतं तत्र गुडस्य दद्यात् १४५
पलिकं च सुचूर्णितं त्र्रिजातत्रिकटुग्रन्थिकदाडिमाश्मभेदम्
पुरपुष्करमूलधान्यचव्यं हपुषामार्द्र कमम्लवेतसं च १४६
शीतीभूतं क्षौद्र विंशत्युपेतमार्द्र द्रा क्षाबीजपूरार्द्र कैश्च
युक्तं कामं गण्डिकाभिस्तथेक्षोः सर्पिःपात्रे मासमात्रेण जातम् १४७
चुक्रं क्रकचमिवेदं दुर्दाम्नां वह्निदीपनं परमम्
पाण्डुगरोदरगुल्मप्लीहानाहाश्मकृच्छ्रघ्नम् १४८
द्रो णं पीलुरसस्यवस्त्रगलितं न्यस्तं हविर्भाजने
युञ्जीत द्विपलैर्मदामधुफला खर्जूरधात्रीफलैः
पाठामाद्रि दुरालभाम्ल विदुल व्योषत्वगेलोल्लकैः
स्पृक्काकोललवङ्गवेल्लचपलामूलाग्निकैःपालिकैः १४९
गुडपलशतयोजितं निवाते निहितमिदं प्रपिवंश्च पक्षमात्रात्
निशमयति गुदाङ्कुरान् सगुल्माननलबलं प्रबलं करोति चाशु १५०
एकैकशो दशपले दशमूलकुम्भ
पाठाद्वयार्कघुण वल्लभकट् फलानाम्
दग्धे स्रुतेऽनु कलशेन जलेन पक्वेपादस्थिते गुडतुलां पलपञ्चकं च १५१
दद्यात्प्रत्येकं व्योषचव्या भयानां
वह्नेर्मुष्टी द्वे द्वेयवक्षारतश्च
दर्वीमालिम्पन् हन्ति लीढो गुडोऽय गुल्मप्लीहार्शः कुष्ठमेहाग्निसादान् १५२
तोयद्रो णे चित्रकमूलतुलार्धं
साध्यंयावत्पाद दलस्थमथेदम्
अष्टौ दत्वा जीर्णगुडस्य पलानि
क्वाथ्यंभूयः सान्द्र तया सममेतत् १५३
त्रिकटुकमिसिपथ्याकुष्टमुस्तावराङ्ग
कृमिरिपुदहनैला चूर्णकीर्णोऽवलेहः
जयति गुदज कुष्ठप्लीहगुल्मोदराणि प्रबलयति हुताशं शश्वदभ्यस्यमानः १५४
गुडव्योषवरा वेल्लतिलारुष्करचित्रकैः
अर्शांसि हन्ति गुलिका त्वग्विकारं च शीलिता १५५
मृल्लिप्तं सौरणं कन्दं पक्त्वाऽग्नौ पुटपाकवत्
अद्यात्सतैललवणं दुर्नामविनिवृत्तये १५६
मरिचपिप्पलिनागरचित्रकान् क्रमविवर्धितभागसमाहृतान्
शिखिचतुर्गुणसूरणयोजितान् कुरुगुडेन गुडान् गुदजच्छिदः १५७
चूर्णीकृताः षोडश सूरणस्यभागास्ततोऽधेन च चित्रकस्य
महौषधाद्द्वौ मरिचस्य चैकोगुडेन दुर्नामजयाय पिण्डी १५८
पथ्यानागरकृष्णाकरञ्जवेल्लाग्निभिः सितातुल्यैः
वडवामुख इव जरयति बहुगुर्वपि भोजनं चूर्णः १५९
कलिङ्गलाङ्गलीकृष्णावह्न्य पामार्गतण्डुलैः
भूनिम्बसैन्धवगुडैर्गुडा गुदजनाशनाः १६०
लवणोत्तमवह्निकलिङ्गयवांश्चिरिबिल्व महापिचुमन्दयुतान्
पिब सप्तदिनं मथितालुडितान् यदि मर्दितुमिच्छसि पायुरुहान् १६१
शुष्केषु भल्लातकमग्र्यमुक्तं भैषज्यमार्द्रेषु तु वत्सकत्वक्
सर्वेषु सर्वर्तुषु कालशेयमर्शःसु बल्यं च मलापहं च १६२
भित्त्वा विबन्धाननुलोमनाय यन्मारुतस्याग्निबलाय यच्च
तदन्नपानौषधमर्शसेन सेव्यं विवर्ज्यं विपरीतमस्मात् १६३
अर्शोतिसारग्रहणीविकाराः प्रायेण चान्योन्य निदान भूताः
सन्नेऽनले सन्ति न सन्ति दीप्ते रक्षेदतस्तेषु विशेषतोऽग्निम् १६४
इति श्रीवैद्यपतिसिंहगुप्तश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां चतुर्थे
चिकित्सितस्थानेऽशश्चिकित्सितं नामाष्टमोऽध्यायः ८

नवमोऽध्यायः
अथातोऽतीसारचिकित्सितं व्याख्यास्यामः
इति ह स्माहुरात्रेयादयो महर्षयः
अतीसारोहि भूयिष्ठं भवत्यामाशयान्वितः
हत्वाऽग्नि वातजेऽप्यस्मात्प्राक् तस्मिंल्लङ्घनं हितम् १
शूलानाहप्रसेकार्तं वामयेदतिसारिणम्
दोषाः सन्निचिता ये च विदग्धाहारमूर्च्छिताः २
अतीसाराय कल्पन्ते तेषूपेक्षैवभेषजम्
भृशोत्क्लेशप्रवृत्तेषु स्वयमेव चलात्मसु ३
न तु सङ्ग्रहणं योज्यं पूर्वमामातिसारिणि
अपि चाध्मानगुरुताशूलस्तैमित्यकारिणि ४
प्राणदा प्राणदा दोषे विबद्धे सम्प्रवर्तिनी
पिबेत्प्रक्वथितास्तोये मध्यदोषो विशोषयन् ५
भूतीकपिप्पलीशुण्ठी वचाधान्यहरीतकीः
अथवा बिल्वधनिकामुस्तनागरवालकम् ६
बिडपाठावचापथ्याकृमिजिन्नागराणि वा
शुण्ठीघनवचामाद्री बिल्ववत्सकहिङ्गु वा ७
शस्यते त्वल्पदोषाणामुपवासोऽतिसारिणाम्
वचाप्रतिविषाभ्यां वा मुस्तापर्पटकेन वा ८
ह्रीबेरनागराभ्यां वा विपक्वं पाययेज्जलम्
युक्तेऽन्नकाले क्षुत्क्षामं लघ्वन्नं प्रतिभोजयेत् ९
तथा स शीघ्रं प्राप्नोति रुचिमग्निबलं बलम्
तक्रेणावन्तिसोमेन यवाग्वा तर्पणेन वा १०
सुरया मधुना वाऽथ यथासात्म्यमुपाचरेत्
भोज्यानि कल्पयेदूर्ध्वं ग्राहिदीपनपाचनैः ११
बालबिल्वशठीधान्यहिङ्गुवृक्षाम्लदाडिमैः
पलाशहपुषाजाजीयवानीबिडसैन्धवैः १२
लघुना पञ्चमूलेन पञ्चकोलेन पाठया
शालिपर्णीबलाबिल्वैः पृश्निपर्ण्या च साधिता १३
दाडिमाम्ला हिता पेया कफपित्ते समुल्बणे
अभयापिप्पलीमूलबिल्वैर्वातानुलोमनी १४
विबद्धं दोषबहुलो दीप्ताग्निर्योऽतिसार्यते
कृष्णाविडङ्गत्रिफलाकषायैस्तं विरेचयेत् १५
पेयां युञ्ज्याद्विरिक्तस्य वातघ्नैर्दीपनैः कृताम्
आमे परिणते यस्तु दीप्तेऽग्नावुपवेश्यते १६
सफेनपिच्छं सरुजं सविबन्धं पुनः पुनः
अल्पाल्पमल्पशमलं निर्विड् वा सप्रवाहिकम् १७
दधितैलघृतक्षीरैः स शुण्ठीं सगुडां पिबेत्
स्विन्नानि गुडतैलेन भक्षयेद्वदराणि वा १८
गाढविड् विहितैः शाकैर्बहुस्नेहैस्तथा रसैः
क्षुधितं भोजयेदेनं दधिदाडिमसाधितैः १९
शाल्योदनं तिलैर्माषैर्मुद्गैर्वा साधु साधितम्
शठ्या मूलकपोतायाः पाठायाः स्वस्तिकस्य वा २०
सूषायवानीकर्कारुक्षीरिणीचिर्भटस्य वा
उपोदकाया जीवन्त्या वाकुच्या वास्तुकस्य वा २१
सुवर्चलायाश्चुञ्चोर्वा लोणिकाया रसैरपि
कूर्मवर्तकलोपाकशिखितित्तिरिकौक्कुटैः २२
बिल्वमुस्ताक्षिभैषज्य धातकीपुष्पनागरैः
पक्वातीसारजित्तक्रे यवागूर्दाधिकी तथा २३
कपित्थकच्छुराफञ्जी यूथिकावटशेलुजैः
दाडिमीशणकार्पासीशाल्मलीनां च पल्लवैः २४
कल्को बिल्वशलाटूनां तिलकल्कश्च तत्समः
दध्नः सरोऽम्ल सस्नेहः खलो हन्ति प्रवाहिकाम्
मरिचं धनिकाऽजाजी तिन्तिडीकं शठी विडम्
दाडिमं धातकी पाठा त्रिफला पञ्चकोलकम् २६
यावशूकं कपित्थाम्रजम्बूमध्यं सदीप्यकम्
पिष्टैः षड्गुणबिल्वैस्तैर्दध्नि मुद्गरसे गुडे २७
स्नेहे च यमके सिद्धः खलोऽयमपराजितः
दीपनः पाचनो ग्राही रुच्यो विम्बिशिनाशनः २८
कोलानां बालबिल्वानां कल्कैः शालियवस्य च
मुद्गमाषतिलानां च धान्ययूषं प्रकल्पयेत् २९
एकध्यं यमके भृष्टं दधिदाडिमसारिकम्
वर्चःक्षये शुष्कमुखं शाल्यन्नं तेन भोजयेत् ३०
दध्नः सरं वा यमके भृष्टं सगुडनागरम्
सुरां वा यमके भृष्टां व्यञ्जनार्थं प्रयोजयेत् ३१
फलाम्लं यमके भृष्टं यूषं गृञ्जनकस्य वा
भृष्टान्वा यमके सक्तून् खादेद्व्योषावचूर्णितान् ३२
माषान् सुसिद्धांस्तद्वद्वा घृतमण्डोपसेवनान्
रसं सुसिद्धपूतं वा छागमेषान्तराधिजम् ३३
पचेद्दाडिमसाराम्लं सधान्यस्नेहनागरम्
रक्तशाल्योदनं तेन भुञ्जानः प्रपिबंश्च तम् ३४
वर्चःक्षयकृतैराशु विकारैः परिमुच्यते
बालबिल्वं गुडं तैलं पिप्पलद्यं विश्वभेषजम् ३५
लिह्याद्वाते प्रतिहते सशूलः सप्रवाहिकः
वल्कलं शाबरं पुष्पं धातक्या बदरीदलम् ३६
पिबेद्दधिसरक्षौद्र कपित्थ स्वरसाप्लुतम्
विवद्धवातवर्चास्तु बहुशूलप्रवाहिकः ३७
सरक्तपिच्छस्तृष्णार्तः क्षीरसौहित्यमर्हति
यमकस्योपरि क्षीरं धारोष्णं वा प्रयोजयेत् ३८
शृतमेरण्डमूलेन बालबिल्वेन वा पुनः
पयस्युत्क्वाथ्य मुस्तानां विंशतिं त्रिगुणेऽम्भसि ३९
क्षीरावशिष्टं तत्पीतं हन्यादामं सवेदनम्
पिप्पल्याः पिबतः सूक्ष्मं रजो मरिचजन्म वा ४०
चिरकालानुषक्ताऽपि नश्यत्याशु प्रवाहिका
निरामरूपं शूलार्तं लङ्घनाद्यैश्च कर्षितम् ४१
रूक्षकोष्ठमपेक्ष्याग्निं सक्षारं पाययेद् घृतम्
सिद्धं दधिसुरामण्डे दशमूलस्य चाम्भसि ४२
सिन्धूत्थपञ्चकोलाभ्यां तैलं सद्योऽतिनाशनम्
षड्भिः शुण्ठ्याः पलैर्द्वाभ्यां द्वाभ्यां ग्रन्थ्यग्निसैन्धवात् ४३
तैलप्रस्थं पचेद्दध्ना निःसारकरुजापहम्
एकतो मांसदुग्धाज्यं पुरीषग्रहशूलजित् ४४
पानानुवासनाभ्यङ्गप्रयुक्तं तैलमेकतः
तद्धि वातजितामग्र्यं शूलं च विगुणोऽनिलः ४५
धात्वन्तरोपमर्देद्धश्चलो व्यापी स्वधामगः
तैलं मन्दानलस्यापि युक्त्या शर्मकरं परम् ४६
वाय्वाशये सतैले हि विम्बिसी नावतिष्ठते
क्षीणे मले स्वायतनच्युतेषु
दोषान्तरेष्वीरण एकवीरे
को निष्टनन्प्राणिति कोष्ठशूली
नान्तर्बहिस्तैलपरो यदि स्यात् ४७
गुदरुग्भ्रंशयोर्युञ्ज्यात्सक्षीरं साधितं हविः ४८
रसे कोलाम्लचाङ्गेर्योर्दध्नि पिष्टे च नागरे
तैरेव चाम्लैः संयोज्य सिद्धं सुश्लक्ष्णकल्कितैः ४९
धान्योषणविडाजाजीपञ्च कोलकदाडिमैः
योजयेत्स्नेहबस्तिं वा दशमूलेन साधितम् ५०
शठीशताह्वाकुष्ठैर्वा वचया चित्रकेण वा
प्रवाहणे गुदभ्रंशे म्रूत्राघाते कटिग्रहे ५१
मधुराम्लैः शृतं तैलं घृतं वाऽप्यनुवासनम्
प्रवेशयेद्गुदं ध्वस्तमभ्यक्तं स्वेदितं मृदु ५२
कुर्याच्च गोःफणाबन्धं मध्यच्छिद्रे ण चर्मणा
पञ्चमूलस्य महतः क्वाथं क्षीरे विपाचयेत् ५३
उन्दुरुं चान्त्ररहितं तेन वातघ्नकल्कवत्
तैलं पचेद्गुदभ्रंशं पानाभ्यङ्गेन तज्जयेत् ५४
पैत्ते तु सामे तीक्ष्णोष्णवर्ज्यं प्रागिव लङ्घनम्
तृड्वान् पिबेत् षडङ्गाम्बु सभूनिम्बं ससारिवम् ५५
पेयादि क्षुधितस्यान्नमग्निसन्धुक्षणं हितम्
बृहत्यादिगणाभीरुद्विबला शूर्पपर्णिभिः ५६
पाययेदनुबन्धे तु सक्षौद्रं तण्डुलाम्भसा
कुटजस्य फलं पिष्टं सवल्कं सघुणप्रियम् ५७
पाठावत्सकवीजत्वग्दार्वीग्रन्थिकशुण्ठि वा
क्वाथं वाऽतिविषाविल्ववत्सकोदीच्यमुस्तजम् ५८
अथवाऽतिविषामूर्वा निशेन्द्र यवतार्क्ष्यजम्
समध्वतिविषाशुण्ठीमुस्तेन्द्र यवकट्फलम् ५९
पलं वत्सकबीजस्य श्रपयित्वा रसं पिबेत्
यो रसाशी जयेच्छीघ्रं स पैत्तं जठरामयम् ६०
मुस्ताकषायमेवं वा पिबेन्मधुसमायुतम्
सक्षौद्रं शाल्मलीवृन्तकषायं वा हिमाह्वयम् ६१
किराततिक्तकं मुस्तं वत्सकं सरसाञ्जनम्
कटङ्कटेरी ह्रीबेरं बिल्वमध्यं दुरालभा ६२
तिला मोचरसं रोध्रं समङ्गाकमलोत्पलम्
नागरं धातकीपुष्पं दाडिमस्य त्वगुत्पलम् ६३
अर्धश्लोकैः स्मृता योगाः सक्षौद्रा स्तण्डुलाम्बुना
निशेन्द्र यवरोध्रैलाक्वाथः पक्वातिसारजित् ६४
रोध्राम्बष्ठाप्रियङ्ग्वादिगणांस्तद्वत् पृथक् पिबेत्
कट्वङ्गवल्कयष्ट्याह्वफलिनीदाडिमाङ्कुरैः ६५
पेयाविलेपीखलकान् कुर्यात्सदधिदाडिमान्
तद्वद्दधित्थविल्वाम्रजम्बुमध्यैः प्रकल्पयेत् ६६
अजापयः प्रयोक्तव्यं निरामे तेन चेच्छमः
दोषाधिक्यान्न जायेत बलिनं तं विरेचयेत् ६७
व्यत्यासेन शकृद्र क्तमुपवेश्येत योऽपि वा
पलाशफलनिर्यूहं युक्तं वा पयसा पिबेत् ६८
ततोऽनु कोष्णं पातव्यं क्षीरमेव यथाबलम्
प्रवाहिते तेन मले प्रशाम्यत्युदरामयः ६९
पलाशवत्प्रयोज्या वा त्रायमाणा विशोधनी
संसर्ग्यां क्रियमाणायां शूलं यद्यनुवर्तते ७०
स्रुतदोषस्य तं शीघ्रं यथावह्न्यनुवासयेत्
शतपुष्पावरीभ्यां च विल्वेन मधुकेन च ७१
तैलपादं पयोयुक्तं पक्वमन्वासनं घृतम्
अशान्तावित्यतीसारे पिच्छाबस्तिः परं हितः ७२
परिवेष्ट्य कुशैरार्द्रैराद्रवृन्तानि शाल्मलेः
कृष्णमृत्तिकयाऽलिप्य स्वेदयेद्गोमयाग्निना ७३
मृच्छोषे तानि सङ्क्षुद्य तत्पिण्डं मुष्टिसम्मितम्
मर्दयेत्पयसः प्रस्थे पूतेनास्थापयेत्ततः ७४
नतयष्ट्याह्वकल्काज्यक्षौद्र तैलवताऽनु च
स्नातो भुञ्जीत पयसा जाङ्गलेन रसेन वा ७५
पित्तातिसारज्वरशोफगुल्मसमीरणास्रग्रहणीविकारान्
जयत्ययं शीघ्रमतिप्रवृत्तिं विरेचनास्थापनयोश्च बस्तिः ७६
फाणितं कुटजोत्थं च सर्वातीसारनाशनम्
वत्सकादिसमायुक्तं साम्बष्ठादि समाक्षिकम् ७७
नीरुङ्निरामं दीप्ताग्नेरपि सास्रं चिरोत्थितम्
नानावर्णमतीसारं पुटपाकैरुपाचरेत् ७८
त्वक्पिण्डाद्दीर्घवृन्तस्य श्रीपर्णीपत्रसंवृतात्
मृल्लिप्तादग्निना खिन्नाद्र सं निष्पीडितं हिमम् ७९
अतीसारी पिबेद्युक्तं मधुना सितयाऽथवा
एवं क्षीरिद्रुमत्वग्भिस्तत्प्ररोहैश्च कल्पयेत् ८०
कट्वङ्गत्वग्घृतयुता स्वेदिता सलिलोष्मणा
सक्षौद्रा हन्त्यतीसारं बलवन्तमपि द्रुतम् ८१
पित्तातिसारी सेवेते पित्तलान्येव यः पुनः
रक्तातिसारं कुरुते तस्य पित्तं सतृड्ज्वरम् ८२
दारुणं गुदपाकं च तत्र छागं पयो हितम्
पद्मोत्पलसमङ्गाभिः शृतं मोचरसेन च ८३
सारिवायष्टिरोध्रैर्वा प्रसवैर्वा वटादिजैः
सक्षौद्र शर्करं पाने भोजने गुदसेचने ८४
तद्वद्र सादयोऽनम्लाः साज्याः पानान्नयोर्हिताः
काश्मर्यफलयूषश्च किञ्चिदम्लः सशर्करः ८५
पयस्यर्धोदके छागे ह्रीबेरोत्पलनागरैः
पेया रक्तातिसारघ्नी पृश्निपर्णीरसान्विता ८६
प्राग्भक्तं नवनीतं वा लिह्यान्मधुसितायुतम्
बलिन्यस्रेऽस्रमेवाजं मार्गं वा घृतभर्जितम् ८७
क्षीरानुपानं क्षीराशी त्र्यहं क्षीररोद्भवं घृतम्
कपिञ्जलरसाशी वा लिहन्नारोग्यमश्नुते ८८
पीत्वा शतावरीकल्कं क्षीरेण क्षीरभाजनः
रक्तातिसारं हन्त्याशु तया वा साधितं घृतम् ८९
लाक्षानागरवैदेहीकटुका दार्विवल्कलैः
सर्पिः सेन्द्र यवैः सिद्धं पेयामण्डावचारितम् ९०
अतीसारं जयेच्छीघ्रं त्रिदोषमपि दारुणम्
कृष्णमृच्छङ्खयष्ट्याह्वक्षौद्रा सृक्तण्डुलोदकम् ९१
जयत्यस्रं प्रियङ्गुश्च तण्डुलाम्बुमधुप्लुता
कल्कस्तिलानां कृष्णानां शर्करापाञ्चभागिकः ९२
आजेन पयसा पीतः सद्यो रक्तं नियच्छति
पीत्वा सशर्कराक्षौद्रं चन्दनं तण्डुलाम्बुना ९३
दाहतृष्णाप्रमोहेभ्यो रक्तस्रावाच्च मुच्यते
गुदस्य दाहे पाके वा सेकलेपा हिता हिमाः ९४
अल्पाल्पं बहुशो रक्तं सशूलमुपवेश्यते
यदा विबद्धो वायुश्च कृच्छ्राच्चरति वा न वा ९५
पिच्छाबस्तिं तदा तस्य पूर्वोक्तमुपकल्पयेत्
पल्लवान् जर्जरीकृत्य शिंशिपाकोविदारयोः ९६
पचेद्यवांश्च स क्वाथो घृतक्षीरसमन्वितः
पिच्छा सुतौ गुदभ्रंशे प्रवाहणरुजासु च ९७
पिच्छाबस्तिः प्रयोक्तव्यः क्षतक्षीणबलावहः
प्रपौण्डरीकसिद्धेन सर्पिषा चानुवासनम् ९८
रक्तं विट्सहितं पूर्वं पश्चाद्वा योऽतिसार्यते
शतावरीघृतं तस्य लेहार्थमुपकल्पयेत् ९९
शर्करार्धांशकं लीढं नवनीतं नवोद्धृतम्
क्षौद्र पादं जयेच्छीघ्रं तं विकारं हिताशिनः १००
न्यग्रोधोदुम्बराश्वत्थशुङ्गानापोथ्य वासयेत्
अहोरात्रं जले तप्ते घृतं तेनाम्भसा पचेत् १०१
तदर्धशर्करायुक्तं लेहयेत्क्षौद्र पादिकम्
अधो वा यदि वाऽप्यूर्ध्वं यस्य रक्तं प्रवर्तते १०२
श्लेष्मातिसारे वातोक्तं विशेषादामपाचनम्
कर्तव्यमनुबन्धेऽस्य पिबेत्पक्त्वाऽग्निदीपनम् १०३
बिल्वकर्कटिकामुस्त प्राणदाविश्वभेषजम्
वचाविडङ्गभूतीकधनिकामरदारु वा १०४
अथवा पिप्पलीमूलपिप्पलीद्वयचित्रकम्
पाठाग्निवत्सकग्रन्थितिक्ताशुण्ठीवचाभयाः १०५
क्वथिता यदि वा पिष्टाः श्लेष्मातीसारभेषजम्
सौवर्चलवचाव्योषहिङ्गु प्रतिविषाभयाः १०६
पिबेच्छ्लेष्मातिसारार्तश्चूर्णिताः कोष्णवारिणा
मध्यं लीढ्वा कपित्थस्य सव्योषक्षौद्र शर्करम् १०७
कट्फलं मधुयुक्तं वा मुच्यते जठरामयात्
कणां मधुयुतां लीढ्वा तक्रं पीत्वा सचित्रकम् १०८
भुक्त्वा वा बालबिल्वानि व्यपोहत्युदरामयम्
पाठामोचरसाम्भोदधातकीबिल्वनागरम् १०९
सुकृच्छ्रमप्यतीसारं गुडतक्रेण नाशयेत्
यवानीपिप्पलीमूलचातुर्जातकनागरैः ११०
मरिचाग्निजलाजाजीधान्यसौवर्चलैः समैः
वृषाम्लधातकीकृष्णाबिल्वदाडिमदीप्यकैः १११
त्रिगुणैः षड्गुणसितैः कपित्थाष्टगुणैः कृतः
चूर्णोऽतीसारग्रहणीक्षयगुल्मगलामयान् ११२
कासश्वासाग्निसादार्शःपीनसारोचकान् जयेत्
कर्षोन्मिता तवक्षीरी चातुर्जातं द्विकार्षिकम् ११३
यवानीधान्यकाजाजीग्रन्थिव्योषं पलांशकम्
पलानि दाडिमादष्टौ सितायाश्चैकतः कृतः ११४
गुणैः कपित्थाष्टकवच्चूर्णोऽय दाडिमाष्टकः
भोज्यो वातातिसारोक्तैर्यथावस्थं खलादिभिः ११५
सविडङ्गः समरिचः सकपित्थः सनागरः
चाङ्गेरीतक्रकोलाम्लः खलः श्लेष्मातिसारजित् ११६
क्षीणे श्लेष्मणि पूर्वोक्तमम्लं लाक्षादि षट्पलम्
पुराणं वा घृतं दद्याद्यवागूमण्डमिश्रितम् ११७
वातश्लेष्मविबन्धे वा स्रवत्यति कफेऽपि वा
शूले प्रवाहिकायां वा पिच्छाबस्तिः प्रशस्यते ११८
वचाबिल्वकणा कुष्ठशताह्वालवणान्वितः
बिल्वतैलेन तैलेन वचाद्यैः साधितेन वा ११९
बहुशः कफवातार्ते कोष्णेनान्वासनं हितम्
क्षीणे कफे गुदे दीर्घकालातीसारदुर्बले १२०
अनिलः प्रबलोऽवश्यं स्वस्थानस्थः प्रजायते
स बलीसहसा हन्यात्तस्मात्तं त्वरया जयेत् १२१
वायोरनन्तरं पित्तं पित्तस्यानन्तरं कफम्
जयेत्पूर्वं त्रयाणां वा भवेद्यो बलवत्तमः १२२
भीशोकाभ्यामपि चलः शीघ्रं कुप्यत्यतस्तयोः
कार्या क्रिया वातहरा हर्षणाश्वासनानि च १२३
यस्योच्चाराद्विना मूत्रं पवनो वा प्रवर्तते
दीप्ताग्नेर्लघुकोष्ठस्य शान्तस्तस्योदरामयः १२४
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां चतुर्थे
चिकित्सितस्थानेऽतीसारचिकित्सितं नाम नवमोऽध्यायः ९

दशमोऽध्यायः
अथातो ग्रहणीदोषचिकित्सितं व्याख्यास्यामः
इति ह स्माहुरात्रेयादयो महर्षयः
ग्रहणीमाश्रितं दोषमजीर्णवदुपाचरेत्
अतीसारोक्तविधिना तस्यामं च विपाचयेत् १
अन्नकाले यवाग्वादि पञ्चकोलादिभिर्युतम्
वितरेत्पटुलघ्वन्नं पुनर्योगांश्च दीपनान् २
दद्यात्सातिविषां पेयामामे साम्लां सनागराम्
पानेऽतीसारविहितं वारि तक्रं सुरादि च ३
ग्रहणीदोषिणां तक्रं दीपनग्राहिलाघवात्
पथ्यं मधुरपाकित्वान्न च पित्तप्रदूषणम् ४
कषायोष्णविकाशित्वाद्रू क्षत्वाच्च कफे हितम्
वाते स्वाद्वम्लसान्द्र त्वात्सद्यस्कमविदाहि तत् ५
चतुर्णां प्रस्थमम्लानां त्र्यूषणाच्च पलत्रयम्
लवणानां च चत्वारि शर्करायाः पलाष्टकम् ६
तच्चूर्णं शाकसूपान्नरागादिष्ववचारयेत्
कासाजीर्णारुचिश्वासहृत्पाण्डुप्लीहगुल्मनुत् ७
नागरातिविषामुस्तं पाक्यमामहरं पिवेत्
उष्णाम्बुना वा तत्कल्कं नागरं वाऽथवाऽभयाम् ८
ससैन्धवं वचादिं वा तद्वन्मदिरयाऽथवा
वर्चस्यामे सप्रवाहे पिबेद्वा दाडिमाम्बुना ९
विडेन लवणं पिष्टं बिल्वचित्रकनागरम्
सामे कफानिले कोष्ठरुक्करे कोष्णवारिणा १०
कलिङ्गहिङ्ग्वति विषावचासौवर्चलाभयम्
छर्दिहृद्रो गशूलेषु पेयमुष्णेन वारिणा ११
पथ्यासौवर्चलाजाजीचूर्णं मरिचसंयुतम्
पिप्पलद्यं नागरं पाठां सारिवां बृहतीद्वयम् १२
चित्रकं कौटजं क्षारं तथा लवणपञ्चकम्
चूर्णीकृतं दधिसुरातन्मण्डोष्णाम्बुकाञ्जिकैः १३
पिबेदग्निविवृर्द्ध्य्थं कोष्ठवातहरं परम्
पटूनि पञ्च द्वौ क्षारौ मरिचं पञ्चकोलकम् १४
दीप्यकं हिङ्गु गुलिका बीजपूररसे कृता
कोलदाडिमतोये वा परं पाचनदीपनी १५
तालीसपत्रचविकामरिचानां पलं पलम्
कृष्णातन्मूलयोर्द्वे द्वे पले शुण्ठी पलत्रयम् १६
चतुर्जातमुशीरं च कर्षांशं श्लक्ष्णचूर्णितम्
गुडेन वटकान् कृत्वा त्रिगुणेन सदा भजेत् १७
मद्ययूषरसारिष्टमस्तु पेयापयोनुपः
वातश्लेष्मात्मनां छर्दिग्रहणीपार्श्वहृद्रुजाम् १८
ज्वरश्वयथुपाण्डुत्वगुल्म पानात्ययार्शसाम्
प्रसेकपीनसश्वासकासानां च निवृत्तये १९
अभयां नागरस्थाने दद्यात्तत्रैव विड्ग्रहे
छर्द्यादिषु च पैत्तेषु चतुर्गुणसितान्विताः २०
पक्वेन वटकाः कार्या गुडेन सितयाऽपि वा
परं हि वह्निसम्पर्काल्लघिमानं भजन्ति ते २१
अथैनं परिपक्वामं मारुतग्रहणीगदम्
दीपनीययुतं सर्पिः पाययेदल्पशो भिषक् २२
किञ्चित्सन्धुक्षिते त्वग्नौ सक्तविण्मूत्रमारुतम्
द्व्यहं त्र्यहं वा संस्नेह्य स्विन्नाभ्यक्तं निरूहयेत् २३
तत एरण्डतैलेन सर्पिषा तैल्वकेन वा
सक्षारेणानिले शान्ते स्रस्तदोषं विरेचयेत् २४
शुद्धरूक्षाशयं बद्धवर्चस्कं चानुवासयेत्
दीपनीयाम्लवातघ्नसिद्धतैलेन तं ततः २५
निरूढं च विरिक्तं च सम्यक्चाप्यनुवासितम्
लघ्वन्नप्रतिसंयुक्तं सर्पिरभ्यासयेत्पुनः २६
पञ्चमूलाभया व्योषपिप्पलीमूलसैन्धवैः
रास्नाक्षारद्वयाजाजी विडङ्गशठिभिर्घृतम् २७
शुक्तेन मातुलुङ्गस्य स्वरसेनार्द्र कस्य च
शुष्कमूलककोलाम्लचुक्रिकादाडिमस्य च २८
तक्रमस्तु सुरामण्डसौवीरकतुषोदकैः
काञ्जिकेन च तत्पक्वमग्निदीप्तिकरं परम् २९
शूलगुल्मोदरश्वासकासा निलकफापहम्
सबीजपूरकरसं सिद्धं वा पाययेद्घृतम् ३०
तैलमभ्यञ्जनार्थं च सिद्धमेभिश्चलापहम्
एतेषामौषधानां वा पिबेच्चूर्णं सुखाम्बुना ३१
वाते श्लेष्मावृते सामे कफे वा वायुनोद्धते
अग्नेर्निर्वापकं पित्तं रेकेण वमनेन वा ३२
हत्वा तिक्तलघुग्राहिदीपनैरविदाहिभिः
अन्नैः सन्धुक्षयेदग्निं चूर्णैः स्नेहैश्च तिक्तकैः ३३
पटोलनिम्बत्रायन्तीतिक्ता तिक्तकपर्पटम्
कुटजत्वक्फलं मूर्वा मधुशिग्रुफलं वचा ३४
दार्वीत्वक्पद्मकोशीरयवानी मुस्तचन्दनम्
सौराष्ट्र्यतिविषाव्योषत्वगेलापत्रदारु च ३५
चूर्णितं मधुना लेह्यं पेयं मद्यैर्जलेन वा
हृत्पाण्डुग्रहणीरोगगुल्मशूलारुचिज्वरान् ३६
कामलां सन्निपातं च मुखरोगांश्च नाशयेत्
भूनिम्बकटुकामुस्तात्र्यूषणेन्द्र यवान् समान् ३७
द्वौ चित्रकाद्वत्सकत्वग्भागान् षोडश चूर्णयेत्
गुडशीताम्बुना पीतं ग्रहणीदोषगुल्मनुत् ३८
कामलाज्वरपाण्डुत्वमेहारुच्यतिसारजित्
नागरातिविषामुस्तापाठाबिल्वं रसाञ्जनम् ३९
कुटजत्वक्फलं तिक्ता धातकी च कृतं रजः
क्षौद्र तण्डुलवारिभ्यां पैत्तिके ग्रहणीगदे ४०
प्रवाहिकार्शोगुदरुग्रक्तोत्थानेषु चेष्यते
चन्दनं पद्मकोशीरं पाठां मूर्वां कुटन्नटम् ४१
षड्ग्रन्थासारिवास्फोतासप्त पर्णाटरूषकान्
पटोलोदुम्बराश्वत्थवटप्लक्षक पीतनान् ४२
कटुकां रोहिणीं मुस्तां निम्बं च द्विपलांशकान्
द्रो णेऽपा साधयेत्तेन पचेत्सर्पिः पिचून्मितैः ४३
किराततिक्तेन्द्र यववीरा मागधिकोत्पलैः
पित्तग्रहण्यां तत्पेयं कुष्ठोक्तं तिक्तकं च यत् ४४
ग्रहण्यां श्लेष्मदुष्टायां तीक्ष्णैः प्रच्छर्दने कृते
कट्वम्ललवणक्षारैः क्रमादग्निं विवर्धयेत् ४५
पञ्चकोलाभयाधान्यपाठा गन्धपलाशकैः
बीजपूरप्रगाढैश्च सिद्धैः पेयादि कल्पयेत् ४६
द्रो णं मधूकपुष्पाणां विडङ्गं च ततोऽधतः
चित्रकस्य ततोऽध च तथा भल्लातकाढकम् ४७
मञ्जिष्ठाऽष्टपलं चैतज्जलद्रो णत्रये पचेत्
द्रो णशेषं शृतं शीतं मध्वर्धाढकसंयुतम् ४८
एलामृणालागुरुभिश्चन्दनेन च रूषिते
कुम्भे मासं स्थितं जातमासवं तं प्रयोजयेत् ४९
ग्रहणीं दीपयत्येष बृंहणः पित्तरक्तनुत्
शोषकुष्ठकिलासानां प्रमेहाणां च नाशनः ५०
मधूकपुष्पस्वरसं शृतमर्धक्षयीकृतम्
क्षौद्र पादयुतं शीतं पूर्ववत्सन्निधापयेत् ५१
तत्पिबन् ग्रहणीदोषान् जयेत्सर्वान् हिताशनः
तद्वद्द्रा क्षेक्षुखर्जूरस्वरसानासुतान् पिबेत् ५२
हिङ्गुतिक्तावचामाद्री पाठेन्द्र यवगोक्षुरम्
पञ्चकोलं च कर्षांशं पलांशं पटुपञ्चकम् ५३
घृततैलद्विकुडवे दध्नः प्रस्थद्वये च तत्
आपोथ्य क्वाथयेदग्नौ मृदावनुगते रसे ५४
अन्तर्धूमं ततो दग्ध्वा चूर्णीकृत्य घृताप्लुतम्
पिबेत्पाणितलं तस्मिन् जीर्णे स्यान्मधुराशनः ५५
वातश्लेष्मामयान् सर्वान् हन्याद्विषगरांश्च सः
भूनिम्बं रोहिणी तिक्तां पटोलं निम्बपर्पटम् ५६
दग्ध्वा माहिषमूत्रेण पिबेदग्निविवर्धनम्
द्वे हरिद्रे वचा कुष्ठं चित्रकः कटुरोहिणी ५७
मुस्ता च छागमूत्रेण सिद्धः क्षारोऽग्निवर्धनः
चतुष्पलं सुधाकाण्डात्त्रिपलं लवणत्रयात् ५८
वार्ताककुडवं चार्कादष्टौ द्वे चित्रकात्पले
दग्ध्वा रसेन वार्ताकाद्गुटिका भोजनोत्तराः ५९
भुक्तमन्नं पचन्त्याशु कासश्वासार्शसां हिताः
विसूचिकाप्रतिश्यायहृद्रो गशमनाश्च ताः ६०
मातुलुङ्गशठीरास्नाकटुत्रय हरीतकी
स्वर्जिकायावशूकाख्यौ क्षारौ पञ्चपटूनि च ६१
सुखाम्बुपीतं तच्चूर्णं बलवर्णाग्निवर्धनम्
श्लैष्मिके ग्रहणीदोषे सवाते तैर्घृतं पचेत् ६२
धान्वन्तरं षट्पलं च भल्लातकघृताभयम्
बिडकाचोषलवणस्वर्जिकायावशूकजान् ६३
सप्तलां कण्टकारीं च चित्रकं चैकतो दहेत्
सप्तकृत्वः स्रुतस्यास्य क्षारस्यार्धाढके पचेत् ६४
आढकं सर्पिषः पेयं तदग्निबलवृद्धये
निचये पञ्चकर्माणि युञ्ज्याच्चैतद्यथाबलम् ६५
प्रसेके श्लैष्मिकेऽल्पाग्नेर्दीपनं रूक्षतिक्तकम्
योज्यं कृशस्य व्यत्यासात्स्निग्धरूक्षं कफोदये ६६
क्षीणक्षामशरीरस्य दीपनं स्नेहसंयुतम्
दीपनं बहुपित्तस्य तिक्तं मधुरकैर्युतम् ६७
स्नेहोऽम्ललवणैर्युक्तो बहुवातस्य शस्यते
स्नेहमेव परं विद्याद्दुर्बलानलदीपनम् ६८
नालं स्नेहसमिद्धस्य शमायान्नं सुगुर्वपि
योऽल्पाग्नित्वात्कफे क्षीणे वर्चः पक्वमपि श्लथम् ६९
मुञ्चेत्पट्वौषधयुतं स पिबेदल्पशो घृतम्
तेन स्वमार्गमानीतः स्वकर्मणि नियोजितः ७०
समानो दीपयत्यग्निमग्नेः सन्धुक्षको हि सः
पुरीषं यश्च कृच्छ्रेण कठिनत्वाद्विमुञ्चति ७१
स घृतंलवणैर्युक्तं न रोऽन्नावग्रहं पिबेत्
रौक्ष्यान्मन्देऽनले सर्पिस्तैलं वा दीपनैः पिबेत् ७२
क्षारचूर्णासवारिष्टान् मन्दे स्नेहातिपानतः
उदावर्तात्तु योक्तव्या निरूहस्नेहवस्तयः ७३
दोषातिवृद्ध्या मन्देऽग्नौ संशुद्धोऽन्नविधिं चरेत्
व्याधिमुक्तस्य मन्देऽग्नौ सर्पि रेव तु दीपनम् ७४
अध्वोपवासक्षामत्वैर्यवाग्वा पाययेद्घृतम्
अन्नावपीडितं बल्यं दीपनं वृंहणं च तत् ७५
दीर्घकालप्रसङ्गात्तु क्षामक्षीणकृशान्नरान्
प्रसहानां रसैः साम्लैर्भोजयेत्पिशिताशिनाम् ७६
लघूष्णकटुशोधित्वाद् दीपयन्त्याशु तेऽनलम्
मांसोपचितमांसत्वात्परं च बलवर्धनाः ७७
स्नेहासवसुरारिष्ट चूर्णक्वाथहिताशनैः
सम्यक् प्रयुक्तैर्देहस्य बलमग्नेश्च वर्धते ७८
दीप्तो यथैव स्थाणुश्च बाह्योऽग्नि सारदारुभिः
सस्नेहैर्जायते तद्वदाहारैः कोष्ठगोऽनलः ७९
नाभोजनेन कायाग्निर्दीप्यते नातिभोजनात्
यथा निरिन्धनो वह्निरल्पो वाऽतीन्धनावृतः ८०
यदा क्षीणे कफे पित्तं स्वस्थाने पवनानुगम्
प्रवृद्धं वर्धयत्यग्निं तदाऽसौ सानिलोऽनलः ८१
पक्त्वाऽन्नमाशु धातूंश्च सर्वानोजश्च सङ्क्षिपन्
मारयेत्स्यात्स ना स्वस्थो भुक्ते जीर्णे तु ताम्यति ८२
तृट्कासदाहमूर्च्छाद्या व्याधयोऽत्यग्निसम्भवाः
तमत्यग्निं गुरुस्निग्धमन्दसान्द्र हिमस्थिरैः ८३
अन्नपानैर्नयेच्छान्तिं दीप्तमग्निमिवाम्बुभिः
मुहुर्मुहुरजीर्णेऽपि भोज्यान्यस्योपहारयेत् ८४
निरिन्धनोऽन्तरं लब्ध्वा यथैनं न विपादयेत्
कृशरां पायसं स्निग्धं पैष्टिकं गुडवैकृतम् ८५
अश्नीयादौदकानूपपिशितानि भृतानि च
मत्स्यान् विशेषतः श्लक्ष्णान् स्थिरतोयचराश्च ये ८६
आविकं सुभृतं मांसमद्यादत्यग्निवारणम्
पयः सहमधूच्छिष्टं घृतं वा तृषितः पिबेत् ८७
गोधूमचूर्णं पयसा बहुसर्पिःपरिप्लुतम्
आनूपरसयुक्तान् वा स्नेहांस्तैलविवर्जितान् ८८
श्यामात्रिवृद्विपक्वं वा पयो दद्याद्विरेचनम्
असकृत् पित्त हरणं पायसप्रति भोजनम् ८९
यत्किञ्चिद्गुरु मेद्यं च श्लेष्मकारि च भोजनम्
सर्वं तदत्यग्निहितं भुक्त्वा च स्वपनं दिवा ९०
आहारमग्निः पचति दोषानाहारवर्जितः
धातून् क्षीणेषु दोषेषु जीवितं धातुसङ्क्षये ९१
एतत्प्रकृत्यैव विरुद्धमन्नंसंयोगसंस्कारवशेन चेदम्
इत्याद्यविज्ञाय यथेष्टचेष्टा
श्चरन्ति यत्साऽग्निबलस्य शक्तिः ९२
तस्मादग्निं पालयेत्सर्वयत्नै
स्तस्मिन्नष्टे याति ना नाशमेव
दोषैर्ग्रस्ते ग्रस्यते रोगसङ्घै
र्युक्ते तु स्यान्नीरुजो दीर्घजीवी ९३
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां चतुर्थे चिकित्सितस्थाने ग्रहणीदोषचिकित्सितं नाम दशमोऽध्यायः १०

एकादशोऽध्यायः
अथातो मूत्राघातचिकित्सितं व्याख्यास्यामः
इति ह स्माहुरात्रेयादयो महर्षयः
कृच्छ्रे वातघ्नतैलाक्तमधोनाभेः समीरजे
सुस्निग्धैः स्वेदयेदङ्गं पिण्डसेकावगाहनैः १
दशमूल बलैरण्डयवाभीरु पुनर्नवैः
कुलत्थकोल पत्तूरवृश्चीवोपलभेदकैः २
तैलसर्पिर्वराहर्क्षवसाः क्वथितकल्कितैः
सपञ्चलवणाः सिद्धाः पीताः शूलहराः परम् ३
द्र व्याण्येतानि पानान्ने तथा पिण्डोपनाहने
सह तैलफलैर्युञ्ज्यात्साम्लानि स्नेहवन्ति च ४
सौवर्चलाढ्यां मदिरां पिबेन्मूत्ररुजापहाम्
पैत्ते युञ्जीत शिशिरं सेकलेपावगाहनम् ५
पिबेद्वरीं गोक्षुरकं विदारीं सकसेरुकाम्
तृणाख्यं पञ्चमूलं च पाक्यं समधुशर्करम् ६
वृषकं त्रपुसैर्वारुलट्वाबीजानि कुङ्कुमम्
द्रा क्षाम्भोभिः पिबन् सर्वान् मूत्राघातानपोहति ७
एर्वारुबीजयष्ट्याह्वदार्वीर्वा तण्डुलाम्बुना
तोयेन कल्कं द्रा क्षायाः पिबेत्पर्युषितेन वा ८
कफजे वमनं स्वेदं तीक्ष्णोष्णकटुभोजनम्
यवानां विकृतीः क्षारं कालशेयं च शीलयेत् ९
पिबेन्मद्येन सूक्ष्मैलां धात्रीफलरसेन वा
सारसास्थिश्वदंष्ट्रैलाव्योषं वा मधुमूत्रवत् १०
स्वरसं कण्टकार्या वा पाययेन्माक्षिकान्वितम्
शितिवारकबीजं वा तक्रेण श्लक्ष्णचूर्णितम् ११
धवसप्ताह्वकुटजगुडूची चतुरङ्गुलम्
केम्बुकैलाकरञ्जं च पाक्यं समधु साधितम् १२
तैर्वा पेयां प्रवालं वा चूर्णितं तण्डुलाम्बुना
सतैलं पाटलाक्षारं सप्तकृत्त्वोऽथवा स्रुतम् १३
पाटलीयावशूकाभ्यां पारिभद्रा त्तिलादपि
क्षारोदकेन मदिरां त्वगेलोषकसंयुताम् १४
पिबेद्गुडोपदंशान्वा लिह्यादेतान् पृथक् पृथक्
सन्निपातात्मके सर्वं यथावस्थमिदं हितम् १५
अश्मन्यप्यचिरोत्थाने वातबस्त्यादिकेषु च
अश्मरी दारुणो व्याधिरन्तकप्रतिमो मतः १६
तरुणो भेषजैः साध्यः प्रवृद्धश्छेदमर्हति
तस्य पूर्वेषु रूपेषु स्नेहादिक्रम इष्यते १७
पाषाणमेदो वसुको वशिरोऽश्मन्तको वरी
कपोतवङ्कातिबलाभल्लूकोशीरकच्छकम् १८
वृक्षादनी शाकफलं व्याघ्र्यौ गुण्ठस्त्रिकण्टकः
यवाः कुलत्थाः कोलानि वरुणः कतकात्फलम् १९
ऊषकादिप्रतीवापमेषां क्वाथे शृतं घृतम्
भिनत्ति वातसम्भूतां तत्पीतं शीघ्रमश्मरीम् २०
गन्धर्वहस्तबृहतीव्याघ्री गोक्षुरकेक्षुरात्
मूलकल्कं पिबेद्दध्ना मधुरेणाश्मभेदनम् २१
कुशः काशः शरो गुण्ठ इत्कटो मोरटोऽश्ममित्
दर्भो विदारी वाराही शालिमूलं त्रिकण्टकः २२
भल्लूकः पाटली पाठा पत्तूरः सकुरण्टकः
पुनर्नवे शिरीषश्च तेषां क्वाथे पचेद्घृतम् २३
पिष्टेन त्रपुसादीनां बीजेनेन्दीवरेण च
मधुकेन शिलाजेन तत्पित्ताश्मरिभेदनम् २४
वरुणादिः समीरघ्नौ गणावेलाहरेणुका
गुग्गुलुर्मरिचं कुष्ठं चित्रकः ससुराह्वयः २५
तै कल्कितैः कृतावापमूषकादिगणेन च
भिनत्ति कफजामाशु साधितं घृतमश्मरीम् २६
क्षारक्षीरयवाग्वादि द्र व्यैः स्वैः स्वैश्च कल्पयेत्
पिचुकाङ्कोल्लकतकशाकेन्दीवरजैः फलैः २७
पीतमुष्णाम्बु सगुडं शर्करापातनं परम्
क्रौञ्चोष्ट्ररासभास्थीनि श्वदंष्ट्रा तालपत्रिका २८
अजमोदा कदम्बस्य मूलं विश्वस्य चौषधम्
पीतानि शर्करां भिन्द्युः सुरयोष्णोदकेन वा २९
नृत्यकुण्डकबीजानां चूर्णं माक्षिकसंयुतम्
अविक्षीरेण सप्ताहं पीतमश्मरिपातनम् ३०
क्वाथश्च शिग्रु मूलोत्थः कदुष्णोऽश्मरि पातनः
तिलापामार्ग कदलीपलाशयवसम्भवः ३१
क्षारः पेयोऽविमूत्रेण शर्करास्वश्मरीषु च
कपोतवङ्कामूलं वा पिबेदेकं सुरादिभिः ३२
तत्सिद्धं वा पिबेत्क्षीरं वेदनाभिरुपद्रुतः
हरीतक्यस्थिसिद्धं वा साधितं वा पुनर्नवैः ३३
क्षीरान्नभुग्वर्हिशिखामूलं वा तण्डुलाम्बुना
मूत्राघातेषु विभजेदतः शेषेष्वपि क्रियाम् ३४
बृहत्यादिगणे सिद्धं द्विगुणीकृतगोक्षुरे
तोयं पयो वा सर्पिर्वा सर्वमूत्रविकारजित् ३५
देवदारुं घनं मूर्वां यष्टीमधु हरीतकीम्
मूत्राघातेषु सर्वेषु सुराक्षीरजलैः पिबेत् ३६
रसं वा धन्वयासस्य कषायं ककुभस्य वा
सुखाम्भसा वा त्रिफलां पिष्टां सैन्धवसंयुताम् ३७
व्याघ्रीगोक्षुरकक्वाथे यवागूं वा सफाणिताम्
क्वाथे वीरतरादेर्वा ताम्रचूडरसेऽपि वा ३८
अद्याद्वीरतराद्येन भावितं वा शिलाजतु
मद्यं वा निगदं पीत्वा रथेनाश्वेन वा व्रजेत् ३९
शीघ्रवेगेन सङ्क्षोभात्तथाऽस्य च्यवतेऽश्मरी
सर्वथा चोपयोक्तव्यो वर्गो वीरतरादिकः ४०
रेकार्थं तैल्वकं सर्पिर्बस्तिकर्म च शीलयेत्
विशेषादुत्तरान् बस्तीन् शुक्राश्मर्यां तु शोधिते ४१
तैर्मूत्रमार्गे बलवान् शुक्राशयविशुद्धये
पुमान् सुतृप्तो वृष्याणां मांसानां कुक्कुटस्य च ४२
कामं सकामाः सेवेत प्रमदा मददायिनीः
सिद्धैरुपक्रमैरेभिर्न चेच्छान्तिस्तदा भिषक् ४३
इति राजानमापृच्छ्य शस्त्रं साध्ववचारयेत्
अक्रियायां ध्रुवो मृत्युः क्रियायां संशयो भवेत् ४४
निश्चितस्यापि वैद्यस्य बहुशः सिद्धकर्मणः
अथातुरमुपस्निग्धशुद्धमीषच्च कर्शितम् ४५
अभ्यक्तस्विन्नवपुषमभुक्तं कृतमङ्गलम्
आजानुफलकस्थस्य नरस्याङ्के व्यपाश्रितम् ४६
पूर्वेणकायेनोत्तानं निषण्णं वस्त्रचुम्भले
ततोऽस्याकुञ्चिते जानुकूर्परे वाससा दृढम् ४७
सहाश्रयमनुष्येण बद्धस्याश्वासितस्य च
नाभेः समन्तादभ्यज्यादधस्तस्याश्च वामतः ४८
मृदित्वा मुष्टिनाऽक्रामेद्यावदश्मर्यधोगता
तैलाक्ते वर्धितनखे तर्जनीमध्यमे ततः ४९
अदक्षिणे गुदेऽङगुल्यौ प्रणिधायानुसेवनि
आसाद्य बलयत्नाभ्यामश्मरीं गुदमेढ्रयोः ५०
कृत्वाऽन्तरे तथा बस्तिं निर्वलीकमनायतम्
उत्पीडयेदङ्गुलिभ्यां यावद्ग्रन्थिरिवोन्नतम् ५१
शल्यं स्यात्सेवनीं मुक्त्वा यवमात्रेण पाटयेत्
अश्ममानेन न यथा भिद्यते सा तथाऽहरेत् ५२
समग्रं सर्पवक्त्रेणस्त्रीणां बस्तिस्तु पार्श्वगः
गर्भाशयाश्रयस्तासां शस्त्रमुत्सङ्गवत्ततः ५३
न्यसेदतोऽन्यथा ह्यासां मूत्रस्रावी व्रणो भवेत्
मूत्रप्रसेकक्षणनान्नरस्याप्यपि चैकधा ५४
बस्तिभेदोऽश्मरीहेतुः सिद्धिं याति न तु द्विधा
विशल्यमुष्णपानीयद्रो ण्यां तमवगाहयेत् ५५
तथा न पूर्य तेऽस्रेण बस्तिः पूर्णे तु पीडयेत्
मेढ्रान्तः क्षीरिवृक्षाम्बु मूत्रसंशुद्धये ततः ५६
कुर्याद्गुडस्य सौहित्यं मध्वाज्याक्तव्रणः पिबेत्
द्वौ कालौ सघृतां कोष्णां यवागूं मूत्रशोधनैः ५७
त्र्यहं दशाहं पयसा गुडाढ्येनाल्पमोदनम्
भुञ्जीतोर्ध्वं फलाम्लैश्च रसैर्जाङ्गलचारिणाम् ५८
क्षीरिवृक्षकषायेण व्रणं प्रक्षाल्य लेपयेत्
प्रपौण्डरीकमञ्जिष्ठायष्ट्याह्वनयनौषधैः ५९
व्रणाभ्यङ्गे पचेत्तैलमेभिरेव निशान्वितैः
दशाहं स्वेदयेच्चैनं स्वमार्गं सप्तरात्रतः ६०
मूत्रे त्वगच्छति दहेदश्मरीव्रणमग्निना
स्वमार्गप्रतिपत्तौ तु स्वादुप्रायैरुपाचरेत् ६१
तं बस्तिभिर्न चारोहेद्वर्षं रूढव्रणोऽपि सः
नगनागाश्ववृक्षस्त्रीरथान्नाप्सु प्लवेत च ६२
मूत्रशुक्रवहौ बस्तिवृषणौ सेवनीं गुदम्
मूत्रप्रसेकं योनिं च शस्त्रेणाष्टौ विवर्जयेत् ६३
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायांचतुर्थे
चिकित्सितस्थाने मूत्राघातचिकित्सितं नामैकादशोऽध्यायः ११

द्वादशोऽध्यायः
अथातः प्रमेहचिकित्सितं व्याख्यास्यामः
इति ह स्माहुरात्रेयादयो महर्षयः
मेहिनो बलिनः कुर्यादादौ वमनरेचने
स्निग्धस्य सर्षपारिष्टनिकुम्भाक्षकरञ्जजैः १
तैलैस्त्रिकण्टकाद्येन यथास्वं साधितेन वा
स्नेहेन मुस्तदेवाह्वनागरप्रतिवापवत् २
सुरसादिकषायेण दद्यादास्थापनं ततः
न्यग्रोधादेस्तु पित्तार्तं रसैः शुद्धं च तर्पयेत् ३
मूत्रग्रहरुजागुल्मक्षयाद्या स्त्वपतर्पणात्
ततोऽनुबन्धरक्षार्थं शमनानि प्रयोजयेत् ४
असंशोध्यस्य तान्येव सर्वमेहेषु पाययेत्
धात्रीरसप्लुतां प्राह्णे हरिद्रां माक्षिकान्विताम् ५
दार्वीसुराह्वत्रिफलामुस्ता वा क्वथिता जले
चित्रकत्रिफलादार्वीकलिङ्गान् वा समाक्षिकान् ६
मधुयुक्तं गुडूच्या वा रसमामलकस्य वा
रोध्राभयातोयदकट्फलानां पाठाविडङ्गार्जुनधन्वनानाम्
गायत्रिदार्वीकृमिहृद्धवानां कफे त्रयः क्षौद्र युताः कषायाः७
उशीररोध्रार्जुनचन्दनानां पटोलनिम्बामलकामृतानाम्
रोध्राम्बुकालीयकधातकीनांपित्ते त्रयः क्षौद्र युताः कषायाः८
यथास्वमेभिः पानान्नं यवगोधूमभावनाः ९
वातोल्बणेषु स्नेहांश्च प्रमेहेषु प्रकल्पयेत्
अपूपसक्तुवाट्यादिर्यवानां विकृतिर्हिता १०
गजाश्वगुदमुक्तानामथवा वेणुजन्मनाम्
तृणधान्यानि मुद्गाद्याः शालिजीर्णः सषष्टिकः ११
श्रीकुक्कुटोऽम्ल खलकस्तिलसर्षपकिट्टजः
कपित्थं तिन्दुकं जम्बूस्तत्कृता रागषाडवाः १२
तिक्तं शाकं मधु श्रेष्ठा भक्ष्याः शुष्काः ससक्तवः
धन्वमांसानि शूल्यानि परिशुष्काण्ययस्कृतिः १३
मध्वरिष्टासवा जीर्णाः सीधुः पक्वरसोद्भवः
तथाऽसनादिसाराम्बु दर्भाम्भो माक्षिकोदकम् १४
वासितेषु वराक्वाथे शर्बरीं शोषितेष्वहः
यवेषु सुकृतान् सक्तून सक्षौद्रा न् सीधुना पिबेत् १५
शालसप्ताह्वकम्पिल्ल वृक्षकाक्षकपित्थजम्
रोहीतकं च कुसुमं मधुनाऽद्यात्सुचूर्णितम् १६
कफपित्तप्रमेहेषु पिबेद्धात्रीरसेन वा
त्रिकण्टकनिशारोध्र सोमवल्कवचार्जुनैः १७
पद्मकाश्मन्तकारिष्ट चन्दनागुरुदीप्यकैः
पटोलमुस्तमञ्जिष्ठामाद्री भल्लातकैः पचेत् १८
तैलं वातकफे पित्ते घृतं मिश्रेषु मिश्रकम्
दशमूलशठीदन्तीसुराह्वं द्विपुनर्नवम् १९
मूलं स्नुगर्कयोः पथ्यां भूकदम्बमरुष्करम्
करञ्जौ वरुणान्मूलं पिप्पल्याः पौष्करं च यत् २०
पृथग् दश पलं प्रस्थान् यवकोलकुलत्थतः
त्रींश्चाष्टगुणिते तोये विपचेत्पादवर्तिना २१
तेन द्विपिप्पलीचव्यवचानिचुलरोहिषैः
त्रिवृद्विडङ्गकम्पिल्लभार्गीविश्वैश्च साधयेत् २२
प्रस्थं घृताज्जयेत्सर्वांस्तन्मेहान् पिटिका विषम्
पाण्डुविद्र धिगुल्मार्शःशोषशोफगरोदरम् २३
श्वासं कासं वमिं वृद्धिं प्लीहानं वातशोणितम्
कुष्ठोन्मादावपस्मारं धान्वन्तरमिदं घृतम् २४
रोध्रमूर्वाशठीवेल्लभार्गीनत नखप्लवान्
कलिङ्गकुष्ठक्रमुकप्रियङ्ग्वतिविषाग्निकान् २५
द्वे विशाले चतुर्जातं भूनिम्बं कटुरोहिणीम्
यवानीं पौष्करं पाठां ग्रन्थिं चव्यं फलत्रयम् २६
कर्षांशमम्बुकलशे पादशेषे स्रुते हिमे
द्वौ प्रस्थौ माक्षिकात्क्षिप्त्वा रक्षेत्पक्षमुपेक्षया २७
रोध्रासवोऽय मेहार्शःश्वित्रकुष्ठारुचिकृमीन्
पाण्डुत्वं ग्रहणीदोषं स्थूलतां च नियच्छति २८
साधयेदसनादीनां पलानां विंशतिं पृथक्
द्विवहेऽपा क्षिपेत्तत्र पादस्थे द्वे शते गुडात् २९
क्षौद्रा ढकार्धं पलिकं वत्सकादिं च कल्कितम्
तत्क्षौद्र पिप्पलीचूर्णप्रदिग्धे घृतभाजने ३०
स्थितं दृढे जतुसृते यवराशौ निधापयेत्
खदिराङ्गारतप्तानि बहुशोऽत्र निमज्जयेत् ३१
तनूनि तीक्ष्णलोहस्य पत्राण्यालोहसङ्क्षयात्
अयस्कृतिः स्थिता पीता पूर्वस्मादधिका गुणैः ३२
रूक्षमुद्वर्तनं गाढं व्यायामो निशि जागरः
यच्चान्यच्छ्लेष्ममेदोघ्नं बहिरन्तश्च तद्धितम् ३३
सुभावितां सारजलैस्तुलां पीत्वा शिलोद्भवात्
साराम्बुनैव भुञ्जानः शालीन् जाङ्गलजै रसैः ३४
सर्वानभिभवेन्मेहान् सुबहूपद्र वानपि
गण्डमालार्बुदग्रन्थिस्थौल्यकुष्ठभगन्दरान् ३५
कृमिश्लीपदशोफांश्च परं चैतद्र सायनम्
अधनश्छत्रपादत्ररहितो मुनिवर्तनः ३६
योजनानां शतं यायात्खनेद्वा सलिलाशयान्
गोशकृन्मूत्रवृत्तिर्वा गोभिरेव सह भ्रमेत् ३७
बृंहयेदौषधाहारैरमेदोमूत्रलैः कृशम्
शराविकाद्याः पिटिकाः शोफवत्समुपाचरेत् ३८
अपक्वा व्रणवत्पक्वाः तासां प्राग्रूप एव च
क्षीरिवृक्षाम्बु पानाय वस्तमूत्रं च शस्यते ३९
तीक्ष्णं च शोधनं प्रायो दुर्विरेच्या हि मेहिनः
तैलमेलादिना कुर्याद्गणेन व्रणरोपणम् ४०
उद्वर्तने कषायं तु वर्गेणारग्वधादिना
परिषेकोऽसनाद्येन पानान्ने वत्सकादिना ४१
पाठाचित्रकशार्ङ्गष्टासारिवाकण्टकारिकाः
सप्ताह्वं कौटजं मूलं सोमवल्कं नृपद्रुमम् ४२
सञ्चूर्ण्य मधुना लिह्यात्तद्वच्चूर्णं नवायसम्
मधुमेहित्वमापन्नो भिषग्भिः परिवर्जितः ४३
शिलाजतुतुलामद्यात्प्रमेहार्तः पुनर्नवः ४३-२
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां चतुर्थे
चिकित्सितस्थानेप्रमेहचिकित्सितं नाम द्वादशोऽध्यायः १२

त्रयोदशोऽध्यायः
अथातो विद्र धिवृद्धिचिकित्सितं व्याख्यास्यामः
इति ह स्माहुरात्रेयादयो महर्षयः
विद्र धिं सर्वमेवामं शोफवत्समुपाचरेत्
प्रततं च हरेद्र क्तं पक्वे तु व्रणवत्क्रिया १
पञ्चमूलजलैर्धौतं वातिकं लवणोत्तरैः
भद्रा दिवर्गयष्ट्याह्वतिलै रालेपयेद्व्रणम् २
वैरेचनिकयुक्तेन त्रैवृतेन विशोध्य च
विदारीवर्गसिद्धेन त्रैवृतेनैव रोपयेत् ३
क्षालितं क्षीरितोयेन लिम्पेद्यष्ट्यमृतातिलैः
पैत्तं घृतेन सिद्धेन मञ्जिष्ठोशीरपद्मकैः ४
पयस्याद्विनिशाश्रेष्ठायष्टीदुग्धैश्च रोपयेत्
न्यग्रोधादिप्रवालत्वक्फलैर्वा कफजं पुनः ५
आरग्वधादिना धौतं सक्तुकुम्भनिशातिलैः
लिम्पेत्कुलत्थिकादन्तीत्रिवृच्छ्यामाग्नितिल्वकैः ६
ससैन्धवैः सगोमूत्रैस्तैलं कुर्वीत रोपणम्
रक्तागन्तूद्भवे कार्या पित्तविद्र धिवत्क्रिया ७
वरुणादिगणक्वाथ मपक्वेऽभ्यन्तरोत्थिते
ऊषकादिप्रतीवापं पूर्वाह्णे विद्र धौ पिबेत् ८
घृतं विरेचनद्र व्यैः सिद्धं ताभ्यां च पाययेत्
निरूहं स्नेहबस्तिं च ताभ्यामेव प्रकल्पयेत् ९
पानभोजनलेपेषु मधुशिग्रुः प्रयोजितः
दत्तावापो यथादोषमपक्वं हन्ति विद्र धिम् १०
त्रायन्तीत्रिफलानिम्बकटुकामधुकं समम्
त्रिवृत्पटोलमूलाभ्यां चत्वारॐऽशा पृथक् पृथक् ११
मसूरान्निस्तुषादष्टौ तत्क्वाथः सघृतो जयेत्
विद्र धीगुल्म वीसर्पदाहमोहमदज्वरान् १२
तृण्मूर्च्छाच्छर्दिहृद्रो गपित्ता सृक्कुष्ठकामलाः
कुडवं त्रायमाणायाः साध्यमष्टगुणेऽम्भसि १३
कुडवं तद्र साद्धात्रीस्वरसात्क्षीरतो घृतात्
कर्षांशं कल्कितं तिक्तात्रायन्तीधन्वयासकम् १४
मुस्तातामलकीवीराजीवन्तीचन्दनोत्पलम्
पचेदेकत्र संयोज्य तद्घृतं पूर्ववद्गुणैः १५
द्रा क्षा मधूकं खर्जूरं विदारी सशतावरी
परूषकाणि त्रिफला तत्क्वाथे पाचयेद्घृतम् १६
क्षीरेक्षुधात्रीनिर्यासप्राणदाकल्कसंयुतम्
तच्छीतं शर्कराक्षौद्र पादिकं पूर्ववद्गुणैः १७
हरेच्छृङ्गादिभिरसृक् सिरया वा यथान्तिकम्
विद्र धिं पच्यमानं च कोष्ठस्थं बहिरुन्नतम् १८
ज्ञात्वोपनाहयेत् शूले स्थिते तत्रैव पिण्डिते
तत्पार्श्वपीडनात्सुप्तौ दाहादिष्वल्पकेषु च १९
पक्वः स्याद्विद्र धिं भित्त्वा व्रणवत्तमुपाचरेत्
अन्तर्भागस्य चाप्येतच्चिह्नं पक्वस्य विद्र धेः २०
पक्वः स्रोतांसि सम्पूर्य स यात्यूर्ध्वमधोऽथवा
स्वयं प्रवृत्तं तं दोषमुपेक्षेत हिताशिनः २१
दशाहं द्वादशाहं वा रक्षन् भिषगुपद्र वान्
असम्यग्वहति क्लेदे वरुणादिं सुखाम्भसा २२
पाययेन्मधुशिग्रुं वा यवागूं तेन वा कृताम्
ऊर्ध्वं दशाहात्त्रायन्तीसर्पिषा तैल्वकेन वा
शोधयेद्बलतः शुद्धः सक्षौद्रं तिक्तकं पिबेत् २४
सर्वशो गुल्मवच्चैनं यथादोषमुपाचरेत्
सर्वावस्थासु सर्वासु गुग्गुलुं विद्र धीषु च २५
कषायैर्यौगिकैर्युञ्ज्यात्स्वैःस्वैस्तद्वच्छिलाजतु
पाकं च वारयेद्यत्नात्सिद्धिः पक्वे हि दैविकी २६
अपि चाशु विदाहित्वाद्विद्र धिः सोऽभिधीयते
सति चालोचयेन्मेहे प्रमेहाणां चिकित्सितम् २७
स्तनजे व्रणवत्सर्वं न त्वेनमुपनाहयेत्
पाटयेत्पालयन् स्तन्यवाहिनीः कृष्णचूचुकौ २८
सर्वास्वामाद्यवस्थासु निर्दुहीत च तत्स्तनम्
इति विद्र धिचिकित्सितम्
अथ वृद्धिचिकित्सितम्
शोधयेत्त्रिवृता स्निग्धं वृद्धौ स्नेहैश्चलात्मके २९
कौशाम्रतिल्वकैरण्डसुकुमारकमिश्रकैः
ततोऽनिलघ्ननिर्यूहकल्कस्नेहैर्निरूहयेत् ३०
रसेन भोजितं यष्टितैलेनान्वासयेदनु
स्वेदप्रलेपा वातघ्नाः पक्वे भित्त्वा व्रणक्रियाम् ३१
पित्तरक्तोद्भवे वृद्धावामपक्वे यथायथम्
शोफव्रणक्रियां कुर्यात् प्रततं च हरेदसृक् ३२
गोमूत्रेण पिबेत्कल्कं श्लैष्मिके पीतदारुजम्
विम्लापनादृते चास्य श्लेष्मग्रन्थिक्रमो हितः ३३
पक्वे च पाटिते तैलमिष्यते व्रणशोधनम्
सुमनोरुष्कराङ्कोल्लसप्तपर्णेषु साधितम् ३४
पटोलनिम्बरजनीविडङ्गकुटजेषु च
मेदोजं मूत्रपिष्टेन सुस्विन्नं सुरसादिना ३५
शिरोविरेकद्र व्यैर्वा वर्जयन् फलसेवनीम्
दारयेद्वृद्धिपत्रेण सम्यङ्मेदसि सूद्धृते ३६
व्रणं माक्षिककासीससैन्धेवप्रतिसारितम्
सीव्येदभ्यञ्जनं चास्य योज्यं मेदोविशुद्धये ३७
मनः शिलैलासुमनोग्रन्थिभल्लातकैः कृतम्
तैलमाव्रणसन्धानात्स्नेहस्वेदौ च शीलयेत् ३८
मूत्रजं स्वेदितं स्निग्धैर्वस्त्रपट्टेन वेष्टितम्
विध्येदधस्तात्सेवन्याः स्रावयेच्च यथोदरम् ३९
व्रणं च स्थगिकाबद्धं रोपयेत् अन्त्रहेतुके
फलकोशमसम्प्राप्ते चिकित्सा वातवृद्धिवत् ४०
पचेत्पुनर्नवतुलां तथा दशपलाः पृथक्
दशमूलपयस्याश्व गन्धैरण्डशतावरीः ४१
द्विदर्भशरकाशेक्षु मूलपोटगलान्विताः
वहेऽपामष्टभागस्थे तत्र त्रिंशत्पलं गुडात् ४२
प्रस्थमेरण्डतैलस्य द्वौ घृतात्पयसस्तथा
आवपेद् द्विपलांशं च कृष्णातन्मूलसैन्धवम् ४३
यष्टीमधु कमृद्वीकायवानीनागराणि च
तत्सिद्धं सुकुमाराख्यं सुकुमारं रसायनम् ४४
वातातपाध्वयानादि परिहार्येष्वयन्त्रणम्
प्रयोज्यं सुकुमाराणामीश्वराणां सुखात्मनाम् ४५
नृणां स्त्रीवृन्दभर्तॄणामलक्ष्मीकलिनाशनम्
सर्वकालोपयोगेन कान्तिलावण्यपुष्टिदम् ४६
वर्ध्मविद्र धिगुल्मार्शोयोनिमेढ्रा निलार्तिषु
शोफोदरखुडप्लीहविडिवबन्धेषु चोत्तमम् ४७
यांयाद्वर्ध्म न चेच्छान्तिं स्नेहरेकानुवासनैः
बस्तिकर्म पुरः कृत्वा वङ्क्षणस्थं ततो दहेत् ४८
अग्निना मार्गरोधार्थं मरुतः अर्धेन्दुवक्रया
अङ्गुष्ठस्योपरि स्नाव पीतं तन्तुसमं च यत् ४९
उत्क्षिप्य सूच्या तत्तिर्यग्दहेच्छित्त्वा यतो गदः
ततोऽन्यपार्श्वेऽन्ये त्वाहुर्दहेद्वाऽनामिकाङ्गुलेः ५०
गुल्मेऽन्यैर्वातकफजे प्लीह्नि चायं विधिः स्मृतः
कनिष्ठिकानामिकयोर्विश्वाच्यां च यतो गदः ५१
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां चतुर्थे
चिकित्सितस्थाने विद्र धिवृद्धिचिकित्सितं नाम त्रयोदशोऽध्यायः१३
चतुर्दशोऽध्यायः
अथातो गुल्मचिकित्सितं व्याख्यास्यामः
इति ह स्माहुरात्रेयादयो महर्षयः
गुल्मं बद्धशकृद्वातं वातिकं तीव्रवेदनम्
रूक्षशीतोद्भवं तैलैः साधयेद्वातरोगिकैः १
पानान्नान्वासनाभ्यङ्गैः स्निग्धस्य स्वेदमाचरेत्
आनाहवेदनास्तम्भविबन्धेषु विशेषतः २
स्रोतसां मार्दवं कृत्वा जित्वा मारुतमुल्बणम्
भित्त्वा विबन्धं स्निग्धस्य स्वेदो गुल्ममपोहति ३
स्नेहपानं हितं गुल्मे विशेषेणोर्ध्वनाभिजे
पक्वाशयगते बस्तिरुभयं जठराश्रये ४
दीप्तेऽग्नौ वातिके गुल्मे विबन्धेऽनिलवर्चसोः
बृंहणान्यन्नपानानि स्निग्धोष्णानि प्रदापयेत् ५
पुनः पुनः स्नेहपानं निरूहाः सानुवासनाः
प्रयोज्या वातजे गुल्मे कफपित्तानुरक्षिणः ६
बस्तिकर्म परं विद्याद्गुल्मघ्नंतद्धि मारुतम्
स्वस्थाने प्रथमं जित्वा सद्यो गुल्ममपोहति ७
तस्मादभीक्ष्णशो गुल्मा निरूहैः सानुवासनैः
प्रयुज्यमानैः शाम्यन्ति वातपित्तकफात्मकाः ८
हिङ्गुसौवर्चलव्योषविड दाडिमदीप्यकैः
पुष्कराजाजिधान्याम्लवेत सक्षारचित्रकैः ९
शठीवचाजगन्धैलासुर सैर्दधिसंयुतैः
शूलानाहहरं सर्पिः साधयेद्वातगुल्मिनाम् १०
हपुषोषणपृथ्वीकापञ्च कोलकदीप्यकैः
साजाजीसैन्धवैर्दध्ना दुग्धेन च रसेन च ११
दाडिमान्मूलकात्कोलात्पचेत्सर्पिर्निहन्ति तत्
वातगुल्मोदरानाह पार्श्वहृत्कोष्ठवेदनाः १२
योन्यर्शोग्रहणीदोष कासश्वासारुचिज्वरान्
दशमूलं बलां कालां सुषवीं द्वौ पुनर्नवौ १३
पौष्करैरण्डरास्नाश्वगन्धा भार्ग्यमृताशठीः
पचेद्गन्धपलाशं च द्रो णेऽपा द्विपलोन्मितम् १४
यवैः कोलैः कुलत्थैश्च माषैश्च प्रास्थिकैः सह
क्वाथेऽस्मिन्दधिपात्रे च घृतप्रस्थं विपाचयेत् १५
स्वरसैर्दाडिमाम्रात मातुलुङ्गोद्भवैर्युतम्
तथा तुषाम्बुधान्याम्लशुक्तैःश्लक्ष्णैश्च कल्कितैः १६
भार्गीतुम्बुरुषड्ग्रन्था ग्रन्थिरास्नाग्निधान्यकैः
यवानकयवान्यम्ल वेतसासितजीरकैः १७
अजाजीहिङ्गुहपुषाकारवी वृषकोषकैः
निकुम्भकुम्भमूर्वेभपिप्पली वेल्लदाडिमैः १८
श्वदंष्ट्रात्रपुसैर्वारुबीज हिंस्राश्मभेदकैः
मिसिद्विक्षारसुरस सारिवानीलिनीफलैः १९
त्रिकटुत्रिपटूपेतैर्दाधिकं तद्व्यपोहति
रोगानाशुतरान् पूर्वान् कष्टानपि च शीलितम् २०
अपस्मारगदोन्माद मूत्राघातानिलामयान्
त्र्यूषणत्रिफलाधान्यचविकावेल्लचित्रकैः २१
कल्कीकृतैर्घृतं पक्वं सक्षीरं वातगुल्मनुत्
तुलां लशुनकन्दानां पृथक्पञ्चपलांशकम् २२
पञ्चमूलं महच्चाम्बुभारार्धे तद्विपाचयेत्
पादशेषं तदर्धेन दाडिमस्वरसं सुराम् २३
धान्याम्लं दधि चादाय पिष्टांश्चार्धपलांशकान्
त्र्यूषणत्रिफलाहिङ्गुयवानीचव्यदीप्यकान् २४
साम्लवेतससिन्धूत्थदेवदारून् पचेद्घृतात्
तैः प्रस्थं तत्परं सर्ववातगुल्मविकारजित् २५
षट्पलं वा पिबेत् सर्पिर्यदुक्तं राजयक्ष्मणि
प्रसन्नया वा क्षीरार्थः सुरया दाडिमेन वा २६
घृते मारुतगुल्मघ्नः कार्यो दध्नः सरेण वा
वातगुल्मे कफो वृद्धो हत्वाऽग्निमरुचिं यदि २७
हृल्लासं गौरवं तन्द्रां जनयेदुल्लिखेत्तु तम्
शूलानाहविबन्धेषु ज्ञात्वा सस्नेहमाशयम् २८
निर्यूहचूर्णवटकाः प्रयोज्या घृतभेषजैः
कोलदाडिमघर्माम्बुतक्रमद्याम्लकाञ्जिकैः २९
मण्डेन वा पिबेत्प्रातश्चूर्णान्यन्नस्य वा पुरः
चूर्णानि मातुलुङ्गस्य भावितान्यसकृद्र से ३०
कुर्वीत कार्मुकतरान् वटकान् कफवातयोः
हिङ्गुवचाविजयापशुगन्धादाडिमदीप्यकधान्यकपाठाः
पुष्करमूलशठीहपुषाग्निक्षारयुग त्रिपटुत्रिकटूनि ३१
साजाजिचव्यं सहतित्तिडीकं सवेतसाम्लं विनिहन्ति चूर्णम्
हृत्पार्श्वबस्तित्रिकयोनिपायुशूलानिवाय्वामकफोद्भवानि ३२
कृच्छ्रान् गुल्मान् वातविण्मूत्रसङ्गंकण्ठे बन्धं हृद्ग्रहं पाण्डुरोगम्
अन्नाश्रद्धाप्लीहदुर्नामहिध्मावर्ध्माध्मानश्वासकासाग्निसादान् ३३
लवणयवानीदीप्यककणनागरमुत्तरोत्तरं वृद्धम्
सर्वसमांशहरीतकीचूर्णं वैश्वानरः साक्षात् ३४
त्रिकटुकमजमोदा सैन्धवं जीरके द्वे
समधरणधृतानामष्टमो हिङ्गुभागः
प्रथमकवलभोज्यः सर्पिषा संप्रयुक्तो
जनयति जठराग्निं वातगुल्मं निहन्ति ३५
हिङ्गुग्राबिडशुण्ठ्यजाजि विजयावाट्याभिधानामयै
श्चूर्णः कुम्भनिकुम्भमूलसहितैर्भागोत्तरं वर्धितैः
पीतः कोष्णजलेन कोष्ठजरुजो गुल्मोदरादीनयं
शार्दूलः प्रसभं प्रमथ्य हरति व्याधीन् मृगौघानिव ३६
सिन्धूत्थपथ्या कणदीप्यकानां
चूर्णानि तोयैः पिबतां कवोष्णैः
प्रयाति नाशं कफवातजन्मा
नाराचनिर्भिन्न इवामयौघः ३७
पूतीकपत्रगज चिर्भटचव्यवह्नि
व्योषं च संस्तरचितं लवणोपधानम्
दग्ध्वा विचूर्ण्य दधिमस्तुयुतंप्रयोज्यं
गुल्मोदरश्वयथुपाण्डुगुदोद्भवेषु ३८
हिङ्गुत्रिगुणं सैन्धवमस्मात्त्रिगुणं च तैलमैरण्डम्
तत्त्रिगुणरसोनरसं गुल्मोदरवर्ध्मशूलघ्नम् ३९
मातुलुङ्गरसो हिङ्गु दाडिमं बिडसैन्धवम् ४०
सुरामण्डेन पातव्यं वातगुल्मरुजापहम्
शुण्ठ्याः कर्षं गुडस्य द्वौ धौतात्कृष्णतिलात्पलम् ४१
खादन्नेकत्र सञ्चूर्ण्य कोष्णक्षीरानुपो जयेत्
वातहृद्रो गगुल्मार्शोयोनिशूलशकृद्ग्रहान् ४२
पिबेदेरण्डतैलं तु वातगुल्मी प्रसन्नया
श्लैष्मण्यनुबले वायौ पित्ते तु पयसा सह ४३
विवृद्धं यदि वा पित्तं सन्तापं वातगुल्मिनः
कुर्याद्विरेचनीयोऽसौ सस्नेहैरानुलोमिकैः ४४
तापानुवृत्तावेवं च रक्तं तस्यावसेचयेत्
साधयेच्छुद्धशुष्कस्य लशुनस्य चतुष्पलम् ४५
क्षीरोदकेऽष्टगुणिते क्षीरशेषं च पाचयेत्
वातगुल्ममुदावर्तं गृध्रसीं विषमज्वरम् ४६
हृद्रो गं विद्र धिं शोषं साधयत्याशु तत्पयः
तैलं प्रसन्ना गोमूत्रमारनालं यवाग्रजः ४७
गुल्मं जठरमानाहं पीतमेकत्र साधयेत्
चित्रकग्रन्थिकैरण्डशुण्ठीक्वाथः परं हितः ४८
शूलानाहविबन्धेषु सहिङ्गुबिडसैन्धवः
पुष्करैरण्डयोर्मूलं यवधन्वयवासकम् ४९
जलेन क्वथितं पीतं कोष्ठदाहरुजापहम्
वाट्याह्वैरण्डदर्भाणां मूलं दारु महौषधम् ५०
पीतं निःक्वाथ्य तोयेन कोष्ठपृष्ठांसशूलजित्
शिलाजं पयसाऽनल्पपञ्चमूलशृतेन वा ५१
वातगुल्मी पिबेत् वाट्यमुदावर्ते तु भोजयेत्
स्निग्धं पैप्पलिकैर्यूषैर्मूलकानां रसेन वा ५२
बद्धविण्मारुतोऽश्नीयात्क्षीरेणोष्णेन यावकम्
कुल्माषान् वा बहुस्नेहान् भक्षयेल्लवणोत्तरान् ५३
नीलिनीत्रिवृतादन्तीपथ्याकम्पिल्लकैः सह
समलाय घृतं देयं सबिडक्षारनागरम् ५४
नीलिनीं त्रिफलां रास्नां बलां कटुकरोहिणीम्
पचेद्विडङ्गं व्याघ्रीं च पालिकानि जलाढके ५५
रसेऽष्टभागशेषे तु घृतप्रस्थं विपाचयेत्
दध्नः प्रस्थेन संयोज्य सुधाक्षीरपलेन च ५६
ततो घृतपलं दद्याद्यवागूमण्डमिश्रितम्
जीर्णे सम्यग्विरिक्तं च भोजयेद्र सभोजनम् ५७
गुल्मकुष्ठोदरव्यङ्गशोफपाण्ड्वामयज्वरान्
श्वित्रं प्लीहानमुन्मादं हन्त्येतन्नीलिनीघृतम् ५८
कुक्कुटाश्च मयूराश्च तित्तिरिक्रौञ्चवर्तकाः
शालयो मदिरा सर्पिर्वातगुल्मचिकित्सितम् ५९
मितमुष्णं द्र वं स्निग्धं भोजनं वातगुल्मिनाम्
समण्डा वारुणी पानं तप्तं वा धान्यकैर्जलम् ६०
स्निग्धोष्णेनोदिते गुल्मे पैत्तिके स्रंसनं हितम्
द्रा क्षाभयागुडरसं कम्पिल्लं वा मधुद्रुतम् ६१
कल्पोक्तं रक्तपित्तोक्तं गुल्मे रूक्षोष्णजे पुनः
परं संशमनं सर्पिस्तिक्तं वासाघृतं शृतम् ६२
तृणाख्यपञ्चकक्वाथे जीवनीयगणेन वा
शृतं तेनैव वा क्षीरं न्यग्रोधादिगणेन वा ६३
तत्रापि स्रंसनं युञ्ज्याच्छीघ्रमात्ययिके भिषक्
वैरेचनिकसिद्धेन सर्पिषा पयसाऽपि वा ६४
रसेनामलकेक्षूणां घृतप्रस्थं विपाचयेत्
पथ्यापादं पिबेत्सर्पिस्तत्सिद्धं पित्तगुल्मनुत् ६५
पिबेद्वा तैल्वकं सर्पिर्यच्चोक्तं पित्तविद्र धौ
द्रा क्षां पयस्यां मधुकं चन्दनं पद्मकं मधु ६६
पिबेत्तण्डुलतोयेन पित्तगुल्मोपशान्तये
द्विपलं त्रायमाणाया जलद्विप्रस्थसाधितम् ६७
अष्टभागस्थितं पूतं कोष्णं क्षीरसमं पिबेत्
पिबेदुपरि तस्योष्णं क्षीरमेव यथाबलम् ६८
तेन निर्हृतदोषस्य गुल्मः शाम्यति पैत्तिकः
दाहेऽभ्यङ्गो घृतैः शीतैःसाज्यैर्लेपो हिमौषधैः ६९
स्पर्शः सरोरुहां पत्रैः पात्रैश्च प्रचलज्जलैः
विदाहपूर्वरूपेषु शूले वह्नेश्च मार्दवे ७०
बहुशोऽपहरेद्र क्तं पित्तगुल्मे विशेषतः
छिन्नमूला विदह्यन्ते न गुल्मा यान्ति च क्षयम् ७१
रक्तं हि व्यम्लतां याति तच्च नास्ति न चास्ति रुक्
हृतदोषं परिम्लानं जाङ्गलैस्तर्पितं रसैः ७२
समाश्वस्तं सशेषार्तिं सर्पिरभ्यासयेत्पुनः
रक्तपित्तातिवृद्धत्वात्क्रियामनुपलभ्य वा ७३
गुल्मे पाकोन्मुखे सर्वा पित्तविद्र धिवत्क्रिया
शालिर्गव्याजपयसी पटोली जाङ्गलं घृतम् ७४
धात्री परूषकं द्रा क्षा खर्जूरं दाडिमं सिता
भोज्यं पानेऽम्बु बलया बृहत्याद्यैश्च साधितम् ७५
श्लेष्मजे वामयेत्पूर्वमवम्यमुपवासयेत्
तिक्तोष्णकटुसंसर्ग्या वह्निं सन्धुक्षयेत्ततः ७६
हिङ्ग्वादिमिश्च द्विगुणक्षारहिङ्ग्वम्लवेतसैः
निगूढं यदि वोन्नद्धं स्तिमितं कठिनं स्थिरम् ७७
आनाहादियुतं गुल्मं संस्वेद्य विनयेदनु
घृतं सक्षारकटुकं पातव्यं कफगुल्मिनाम् ७८
सव्योषक्षारलवणं सहिङ्गुबिडदाडिमम्
कफगुल्मं जयत्याशु दशमूलशृतं घृतम् ७९
भल्लातकानां द्विपलं पञ्चमूलं पलोन्मितम्
अल्पं तोयाढके साध्यं पादशेषेण तेन च ८०
तुल्यं घृतं तुल्यपयो विपचेदक्षसम्मितैः
विडङ्गहिङ्गुसिन्धूत्थयावशूकशठीविडैः ८१
सद्वीपिरास्नायष्ट्याह्वषड्ग्रन्थाकणनागरैः एतद्भल्लातकघृतं कफगुल्महरं परम् ८२
प्लीहपाण्ड्वामयश्वासग्रहणीरोगकासजित्
ततोऽस्य गुल्मे देहे च समस्ते स्वेदमाचरेत् ८३
सर्वत्र गुल्मे प्रथमं स्नेहस्वेदोपपादिते
या क्रिया क्रियते याति सा सिद्धिं न विरूक्षिते ८४
स्निग्धस्विन्नशरीरस्य गुल्मे शैथिल्यमागते
यथोक्तां घटिकां न्यस्येद्गृहीतेऽपनयेच्च ताम् ८५
वस्त्रान्तरं ततः कृत्वा छिन्द्याद्गुल्मं प्रमाणवित्
विमार्गाजपदादर्शैर्यथालाभं प्रपीडयेत् ८६
प्रमृज्याद्गुल्ममेवैकं न त्वन्त्रहृदयं स्पृशेत्
तिलैरण्डातसीबीजसर्षपैः परिलिप्य च ८७
श्लेष्मगुल्ममयस्पात्रैः सुखोष्णैः स्वेदयेत्ततः
एवं च विसृतं स्थानात् कफगुल्मं विरेचनैः ८८
सस्नेहैर्बस्तिभिश्चैनं शोधयेद्दाशमूलिकैः
पिप्पल्यामलकद्रा क्षाश्यामाद्यैः पालिकैः पचेत् ८९
एरण्डतैलहविषोः प्रस्थौ पयसि षड्गुणे
सिद्धोऽय मिश्रकः स्नेहोगुल्मिनां स्रंसनं हितम् ९०
वृद्धिविद्र धिशूलेषु वातव्याधिषु चामृतम्
पिबेद्वा नीलिनीसर्पिर्मात्रया द्विपलीनया ९१
तथैव सुकुमाराख्यं घृतान्यौदरिकाणि वा
द्रो णेऽम्भसः पचेद्दन्त्याः पलानां पञ्चविंशतिम् ९२
चित्रकस्य तथा पथ्यास्तावतीस्तद्र से स्रुते
द्विप्रस्थे साधयेत्पूते क्षिपेद्दन्तीसमं गुडम् ९३
तैलात्पलानि चत्वारि त्रिवृतायाश्च चूर्णतः
कणाकर्षौ तथा शुण्ठ्याः सिद्धे लेहे तु शीतले ९४
मधु तैलसमं दद्याच्चतुर्जाताच्चतुर्थिकाम्
अतो हरीतकीमेकां सावलेहपलामदन् ९५
सुखं विरिच्यते स्निग्धो दोषप्रस्थमनामयः
गुल्महृद्रो गदुर्नामशोफानाहगरोदरान् ९६
कुष्ठोत्क्लेशारुचिप्लीह ग्रहणीविषमज्वरान्
घ्नन्ति दन्तीहरीतक्यः पाण्डुतां च सकामलाम् ९७
सुधाक्षीरद्र वं चूर्णं त्रिवृतायाः सुभावितम्
कार्षिकं मधुसर्पिर्भ्यां लीढ्वा साधु विरिच्यते ९८
कुष्ठश्यामात्रिवृद्दन्तीविजयाक्षारगुग्गुलून्
गोमूत्रेण पिबेदेकं तेन गुग्गुलुमेव वा ९९
निरूहान् कल्पसिद्ध्य्क्तुआन् योजयेद्गुल्म नाशनान्
कृतमूलं महावास्तुं कठिनं स्तिमितं गुरुम् १००
गूढमांसं जयेद्गुल्मं क्षारारिष्टाग्निकर्मभिः
एकान्तरं द्व्यन्तरं वा विश्रमय्याथ वा त्र्यहम् १०१
शरीरदोषबलयो र्वर्धनक्षपणोद्यतः
अर्शोश्मरीग्रहण्युक्ताः क्षारा योज्याः कफोल्बणे १०२
देवदारुत्रिवृद्दन्तीकटुका पञ्चकोलकम्
स्वर्जिकायावशूकाख्यौ श्रेष्ठापाठोपकुञ्चिकाः १०३
कुष्ठं सर्पसुगन्धां च द्व्यक्षांशं पटुपञ्चकम्
पालिकं चूर्णितं तैलवसादधिघृताप्लुतम् १०४
घटस्यान्तः पचेत्पक्वमग्निवर्णे घटे च तम्
क्षारं गृहीत्वा क्षीराज्यतक्रमद्यादिमिः पिबेत् १०५
गुल्मोदावर्तवर्ध्मार्शोजठर ग्रहणीकृमीन्
अपस्मारगरोन्मादयोनिशुक्रामयाश्मरीः १०६
क्षारागदोऽय शमयेद्विषं चाखुभुजङ्गजम्
श्लेष्माणं मधुरं स्निग्धं रसक्षीरघृताशिनः १०७
छित्त्वा भित्त्वाऽशयात् क्षारः क्षरत्वात्क्षारयत्यधः
मन्देऽग्नावरुचौ सात्म्यैर्मद्यैः सस्नेहमश्नताम् १०८
योजयेदासवारिष्टान्निगदान् मार्गशुद्धये
शालयः षष्टिका जीर्णाः कुलत्था जाङ्गलं पलम् १०९
चिरिबिल्वाग्नितर्कारी यवानीवरुणाङ्कुराः
शिग्रुस्तरुणबिल्वानि बालं शुष्कं च मूलकम् ११०
बीजपूरकहिङ्ग्वम्ल वेतसक्षारदाडिमम्
व्योषं तक्रं घृतं तैलं भक्तं पानं तु वारुणी १११
धान्याम्लं मस्तु तक्रं च यवानीविडचूर्णितम्
पञ्चमूलशृतं वारि जीर्णं मार्द्वींकमेव वा ११२
पिप्पलीपिप्पलीमूलचित्रकाजाजिसैन्धवैः
सुरा गुल्मं जयत्याशु जगलश्च विमिश्रितः ११३
वमनैर्लङ्घनैः स्वेदैः सर्पिःपानैर्वि रेचनैः
बस्तिक्षारासवारिष्टगुलिकापथ्यभोजनैः ११४
श्लैष्मिको बद्धमूलत्वाद्यदि गुल्मो न शाम्यति
तस्य दाहं हृते रक्ते कुर्यादन्ते शरादिभिः ११५
अथ गुल्मं सपर्यन्तं वाससाऽन्तरितं भिषक्
नाभिवस्त्यन्त्रहृदयं रोमराजीं च वर्जयन् ११६
नातिगाढं परिमृशेच्छरेण ज्वलताऽथवा
लोहेनारणिकोत्थेन दारुणा तैन्दुकेन वा ११७
ततोऽग्निवेगे शमिते शीतैर्व्रण इव क्रिया
आमान्वये तु पेयाद्यैः सन्धुक्ष्याग्निं विलङ्घिते ११८
स्वं स्वं कुर्यात्क्रमं मिश्रं मिश्रदोषे च कालवित्
गतप्रसवकालायै नार्यै गुल्मेऽस्रसम्भवे ११९
स्निग्धस्विन्नशरीरायै दद्यात्स्नेहविरेचनम्
तिलक्वाथो घृतगुडव्योषभार्गीरजोन्वितः १२०
पानं रक्तभवे गुल्मे नष्टे पुष्पे च योषितः
भार्गीकृष्णाकरञ्जत्वग्ग्रन्थिकामरदारुजम् १२१
चूर्णं तिलानां क्वाथेन पीतं गुल्मरुजापहम्
पलाशक्षारपात्रे द्वे द्वे पात्रे तैलसर्पिषोः १२२
गुल्मशैथिल्यजननीं पक्त्वा मात्रां प्रयोजयेत्
न प्रमिद्येत यद्येवं दद्याद्योनिविरेचनम् १२३
क्षारेण युक्तं पललं सुधाक्षीरेण वा ततः
ताभ्यां वा भावितान्दद्याद्योनौ कटुकमत्स्यकान् १२४
वराहमत्स्यपित्ताभ्यां नक्तकान् वा सुभावितान्
किण्वं वा सगुडक्षारं दद्याद्योनौ विशुद्धये १२५
रक्तपित्तहरं क्षारं लेहयेन्मधुसर्पिषा
लशुनं मदिरां तीक्ष्णां मत्स्यांश्चास्यै प्रयोजयेत् १२६
बस्तिं सक्षीरगोमूत्रं सक्षारं दाशमूलिकम्
अवर्तमाने रुधिरे हितं गुल्मप्रभेदनम् १२७
यमकाभ्यक्तदेहायाः प्रवृत्ते समुपेक्षणम्
रसौदनस्तथाऽहारः पानं च तरुणी सुरा १२८
रुधिरेऽतिप्रवृत्ते तु रक्तपित्तहराः क्रियाः
कार्या वातरुगार्तायाः सर्वा वातहराः पुनः १२९
आनाहादावुदावर्तबलासघ्न्यो यथायथम् १२९॥१२
इतिश्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां चतुर्थे
चिकित्सितस्थाने गुल्मचिकित्सितं नाम चतुर्दशोऽध्यायः १४

पञ्चदशोऽध्यायः
अथात उदरचिकित्सितं व्याख्यास्यामः
इति ह स्माहुरात्रेयादयो महर्षयः
दोषातिमात्रोपचयात्स्रोतोमार्ग निरोधनात्
सम्भवत्युदरं तस्मान्नित्यमेनं विरेचयेत् १
पाययेत्तैलमैरण्डं समूत्रं सपयोऽपि वा
मासं द्वौ वाऽथवा गव्यं मूत्रं माहिषमेव वा २
पिबेद्गोक्षीरभुक् स्याद्वा करभीक्षीरवर्तनः
दाहानाहातितृण्मूर्च्छापरीतस्तु विशेषतः ३
रूक्षाणां बहुवातानां दोषसंशुद्धिकाङ्क्षिणाम्
स्नेहनीयानि सर्पींषि जठरघ्नानि योजयेत् ४
षट्पलं दशमूलाम्बुमस्तुद्व्याढकसाधितम्
नागरत्रिपलं प्रस्थं घृततैलात्तथाऽढकम् ५
मस्तुनः साधयित्वैतत्पिबेत्सर्वोदरापहम्
कफमारुतसम्भूते गुल्मे च परमं हितम् ६
चतुर्गुणे जले मूत्रे द्विगुणे चित्रकात्पले
कल्के सिद्धं घृतप्रस्थं सक्षारं जठरी पिबेत् ७
यवकोलकुलत्थानां पञ्चमूलस्य चाम्भसा
सुरासौवीरकाभ्यां च सिद्धं वा पाययेद्घृतम् ८
एभिः स्निग्धाय सञ्जाते बले शान्ते च मारुते
स्रस्ते दोषाशये दद्यात्कल्पदृष्टं विरेचनम् ९
पटोलमूलं त्रिफलां निशां वेल्लं च कार्षिकम्
कम्पिल्लनीलिनीकुम्भभागान् द्वित्रिचतुर्गुणान् १०
पिबेत्सञ्चूर्ण्य मूत्रेण पेयापूर्वं ततो रसैः
विरिक्तो जाङ्गलैरद्यात्ततः षड्दिवसं पयः ११
शृतं पिबेद्व्योषयुतं पीतमेवं पुनः पुनः
हन्ति सर्वोदराण्येतच्चूर्णं जातोदकान्यपि १२
गवाक्षीं शङ्खिनीं दन्तीं तिल्वकस्य त्वचं वचाम्
पिबेत्कर्कन्धुमृद्वीकाकोलाम्भोमूत्रसीधुभिः १३
यवानी हपुषा धान्यं शतपुष्पोपकुञ्चिका
कारवी पिप्पलीमूलमजगन्धा शठी वचा १४
चित्रकोऽजाजिकं व्योषं स्वर्णक्षीरी फलत्रयम्
द्वौ क्षारौ पौष्करं मूलं कुष्ठं लवणपञ्चकम् १५
विडङ्गं च समांशानि दन्त्या भागत्रयं तथा
त्रिवृद्विशाले द्विगुणे सातला च चतुर्गुणा १६
एष नारायणो नाम चूर्णो रोगगणापहः
नैनं प्राप्याभिवर्धन्ते रोगा विष्णुमिवासुराः १७
तक्रेणोदरिभिः पेयो गुल्मिभिर्बदराम्बुना
आनाहवाते सुरया वातरोगे प्रसन्नया १८
दधिमण्डेन विट्सङ्गे दाडिमाम्भोभिरर्शसैः
परिकर्ते सवृक्षाम्लैरुष्णाम्बुभिरजीर्णके १९
भगन्दरे पाण्डुरोगे कासे श्वासे गलग्रहे
हृद्रो गे ग्रहणीदोषे कुष्ठे मन्देऽनले ज्वरे २०
दंष्ट्राविषे मूलविषे सगरे कृत्रिमे विषे
यथार्हं स्निग्धकोष्ठेन पेयमेतद्विरेचनम् २१
हपुषां काञ्चनक्षीरी त्रिफलां नीलिनीफलम्
त्रायन्तीं रोहिणीं तिक्तां सातलां त्रिवृतां वचाम् २२
सैन्धवं काललवणं पिप्पलद्यं चेति चूर्णयेत्
दाडिमत्रिफलामांसरसमूत्रसुखोदकैः २३
पेयोऽय सर्वगुल्मेषु प्लीह्नि सर्वोदरेषु च
श्वित्रे कुष्ठेष्वजरके सदने विषमेऽनले २४
शोफार्शःपाण्डुरोगेषु कामलायां हलीमके
वातपित्तकफांश्चाशु विरेकेण प्रसाधयेत् २५
नीलिनीं निचुलं व्योषं क्षारौ लवणपञ्चकम्
चित्रकं च पिवेच्चूर्णं सर्पिषोदरगुल्मनुत् २६
पूर्ववच्च पिबेद्दुग्धं क्षामः शुद्धोऽन्तराऽन्तरा
कारभं गव्यमाजं वा दद्यादात्ययिके गदे २७
स्नेहानेव विरेकार्थे दुर्बलेभ्यो विशेषतः
हरीतकीसूक्ष्मरजःप्रस्थयुक्तं घृताढकम् २८
अग्नौ विलाप्य मथितं खजेन यवपल्लके
निधापयेत्ततो मासादुद्धृतं गालितं पचेत् २९
हरीतकीनां क्वाथेन दध्ना चाम्लेन संयुतम्
उदरं गरमष्ठीलामानाहं गुल्मविद्र धी ३०
हन्त्येतत्कुष्ठमुन्मादमपस्मारं च पानतः
स्नुक्क्षीरयुक्ताद्गोक्षीराच्छृतशीतात् खजाहतात् ३१
यज्जातमाज्यं स्नुक्क्षीरसिद्धं तच्च तथागुणम्
क्षीरद्रो णं सुधाक्षीरप्रस्थार्धसहितं दधि ३२
जातं मथित्वा तत्सर्पिस्त्रिवृत्सिद्धं च तद्गुणम्
तथा सिद्धं घृतप्रस्थं पयस्यष्टगुणे पिबेत् ३३
स्नुक्क्षीरपलकल्केन त्रिवृताषट्पलेन च
एषां चानु पिबेत्पेयां रसं स्वादु पयोऽथवा ३४
घृते जीर्णे विरिक्तश्च कोष्णं नागरसाधितम्
पिबेदम्बु ततः पेयां ततो यूषं कुलत्थजम् ३५
पिबेदूक्षस्त्र्यहं त्वेवं भूयो वा प्रतिभोजितः
पुनः पुनः पिबेत्सर्पिरानुपूर्व्याऽनयैव च ३६
घृतान्येतानि सिद्धानि विदध्यात्कुशलो भिषक्
गुल्मानां गरदोषाणामुदराणां च शान्तये ३७
पीलुकल्कोपसिद्धं वा घृतमानाहभेदनम्
तैल्वकं नीलिनीसर्पिः स्नेहं वा मिश्रकं पिबेत् ३८
हृतदोषः क्रमादश्नन् लघुशाल्योदनप्रति
उपयुञ्जीत जठरी दोषशेषनिवृत्तये ३९
हरीतकीसहस्रं वा गोमूत्रेण पयोनुपः
सहस्रं पिप्पलीनां वा स्नुक्क्षीरेण सुभावितम् ४०
पिप्पलीवर्धमानं वा क्षीराशी वा शिलाजतु
तद्वद्वा गुग्गुलुं क्षीरं तुल्यार्द्र करसं तथा ४१
चित्रकामरदारुभ्यां कल्कं क्षीरेण वा पिबेत्
मासं युक्तस्तथा हस्तिपिप्पलीविश्वभेषजम् ४२
विडङ्गं चित्रको दन्ती चव्यं व्योषं च तैः पयः
कल्कैः कोलसमैः पीत्वा प्रवृद्धमुदरं जयेत् ४३
भोज्यं भुञ्जीत वा मासं स्नुहीक्षीरघृतान्वितम्
उत्कारिकां वा स्नुक्क्षीरपीतपथ्याकणाकृताम् ४४
पार्श्वशूलमुपस्तम्भं हृद्ग्रहं च समीरणः
यदि कुर्यात् ततस्तैलं बिल्वक्षारान्वितं पिबेत् ४५
पक्वं वा टिण्टुकबलापलाशतिलनालजैः
क्षारैः कदल्यपमार्गतर्कारीजैः पृथक्कृतैः ४६
कफे वातेन पित्ते वा ताभ्यां वाऽप्यावृतेऽनिले
बलिनः स्वौषधयुतं तैलमेरण्डजं हितम् ४७
देवदारुपलाशार्कहस्ति पिप्पलिशिग्रुकैः
साश्वकर्णैः सगोमूत्रैः प्रदिह्यादुदरं बहिः ४८
वृश्चिकालीवचाशुण्ठीपञ्च मूलपुनर्नवात्
वर्षाभूधान्यकुष्ठाच्च क्वाथैर्मूत्रैश्च सेचयेत् ४९
विरिक्तम्लानमुदरं स्वेदितं साल्वणादिभिः
वाससा वेष्टयेदेवं वायुर्नाध्मापयेत्पुनः ५०
सुविरिक्तस्य यस्य स्यादाध्मानं पुनरेव तम्
सुस्निग्धैरम्ललवणैर्निरूहैः समुपाचरेत् ५१
सोपस्तम्भोऽपि वा वायुराध्मापयति यं नरम्
तीक्ष्णाः सक्षारगोमूत्राः शस्यन्ते तस्य बस्तयः ५२
इति सामान्यतः प्रोक्ताः सिद्धा जठरिणां क्रियाः
वातोदरेऽथ बलिनं विदार्यादिशृतं घृतम् ५३
पाययेत ततः स्निग्धं स्वेदिताङ्गं विरेचयेत्
बहुशस्तैल्वकेनैनं सर्पिषा मिश्रकेण वा ५४
कृते संसर्जने क्षीरं बलार्थमवचारयेत्
प्रागुत्क्लेशान्निवर्त्यं च बले लब्धे क्रमात्पयः ५५
यूषै रसैर्वा मन्दाम्ललवणैरेधितानलम्
सोदावर्तं पुनः स्निग्धस्विन्नमास्थापयेत्ततः ५६
तीक्ष्णाधोभागयुक्तेन दाशमूलिकबस्तिना
तिलोरुबूकतैलेन वातघ्नाम्लशृतेन च ५७
स्फुरणाक्षेपसन्ध्यस्थिपार्श्वपृष्ठत्रिकार्तिषु
रूक्षं बद्धशकृद्वातं दीप्ताग्निमनुवासयेत् ५८
अविरेच्यस्य शमना बस्तिक्षीरघृतादयः
बलिनं स्वादुसिद्धेन पैत्ते संस्नेह्यसर्पिषा ५९
श्यामात्रिभण्डीत्रिफलाविपक्वेन विरेचयेत्
सितामधुघृताढ्येन निरूहोऽस्य ततो हितः ६०
न्यग्रोधादिकषायेण स्नेहबस्तिश्च तच्छृतः
दुर्बलं त्वनुवास्यादौ शोधयेत्क्षीरबस्तिभिः ६१
जाते चाग्निबले स्निग्धं भूयो भूयो विरेचयेत्
क्षीरेण सत्रिवृत्कल्केनोरुबूकशृतेन वा ६२
सातलात्रायमाणाभ्यां शृतेनारग्वधेन वा
सकफे वा समूत्रेण सतिक्ताज्येन सानिले ६३
पयसाऽन्यतमेनैषां विदार्यादिशृतेन वा
भुञ्जीत जठरं चास्य पायसेनोपनाहयेत् ६४
पुनः क्षीरं पुनर्बस्तिं पुनरेव विरेचनम्
क्रमेण ध्रुवमातिष्ठन् यत्तः पित्तोदरं जयेत् ६५
वत्सकादिविपक्वेन कफे संस्नेह्य सर्पिषा
स्विन्नं स्नुक्क्षीरसिद्धेन बलवन्तं विरेचितम् ६६
संसर्जयेत्कटुक्षारयुक्तैरन्नैः कफापहैः
मूत्रत्र्यूषणतैलाढ्यो निरूहोऽस्य ततो हितः ६७
मुष्ककादिकषायेण स्नेहबस्तिश्च तच्छृतः
भोजनं व्योषदुग्धेन कौलत्थेन रसेन वा ६८
स्तैमित्यारुचिहृल्लासे मन्देऽग्नौ मद्यपाय च
दद्यादरिष्टान् क्षारांश्च कफस्त्यानस्थिरोदरे ६९
हिङ्गूपकुल्यं त्रिफलां देवदारु निशाद्वयम्
भल्लातकं शिग्रुफलं कटुकां तिक्तकं वचाम् ७०
शुण्ठीं माद्रीं घनं कुष्ठं सरलं पटुपञ्चकम्
दाहयेज्जर्जरीकृत्य दधिस्नेहचतुष्कवत् ७१
अन्तर्धूमं ततः क्षाराद्बिडालपदकं पिबेत्
मदिरादधिमण्डोष्णजलारिष्टसुरासवैः ७२
उदरं गुल्ममष्ठीलां तून्यौ शोफं विसूचिकाम्
प्लीहहृद्रो गगुदजानुदावर्तं च नाशयेत् ७३
जयेदरिष्टगोमूत्र चूर्णायस्कृतिपानतः
सक्षारतैलपानैश्च दुर्बलस्य कफोदरम् ७४
उपनाह्यं ससिद्धार्थकिण्वैर्बीजैश्च मूलकात्
कल्कितैरुदरं स्वेदमभीक्ष्णं चात्र योजयेत् ७५
सन्निपातोदरे कुर्यान्नातिक्षीणबलानले
दोषोद्रे कानुरोधेन प्रत्याख्याय क्रियामिमाम् ७६
दन्तीद्र वन्तीफलजं तैलं पाने च शस्यते
क्रियानिवृत्ते जठरे त्रिदोषे तु विशेषतः ७७
दद्यादापृच्छ्य तज्ज्ञातीन् पातुं मद्येन कल्कितम्
मूलं काकादनीगुञ्जाकरवीरकसम्भवम् ७८
पानभोजनसंयुक्तं दद्याद्वा स्थावरं विषम्
यस्मिन् वा कुपितः सर्पो विमुञ्चति फले विषम् ७९
तेनास्य दोषसङ्घातः स्थिरो लीनो विमार्गगः
बहिः प्रवर्त ते भिन्नो विषेणाशु प्रमाथिना ८०
तथा व्रजत्यगदतां शरीरान्तरमेव वा
हृतदोषं तु शीताम्बुस्नातं तं पाययेत्पयः ८१
पेयां वा त्रिवृतः शाकं मण्डूक्या वास्तुकस्य वा
कालशाकं यवाख्यं वा खादेत्स्वरससाधितम् ८२
निरम्ललवणस्नेहं स्विन्नास्विन्नमनन्नभुक्
मासमेकं ततश्चैव तृषितः स्वरसं पिबेत् ८३
एवं विनिर्हृ ते शाकैर्दोषे मासात् परं ततः
दुर्बलाय प्रयुञ्जीत प्राणभृत्कारभं पयः ८४
प्लीहोदरे यथादोषं स्निग्धस्य स्वेदितस्य च
सिरां भुक्तवतो दध्ना वामबाहौ विमोक्षयेत् ८५
लब्धे बले च भूयोऽपि स्नेहपीतं विशोधितम्
समुद्र शुक्तिजं क्षारं पयसा पाययेत्तथा ८६
अम्लस्रुतं बिडकणाचूर्णाढ्यं नक्तमालजम्
सौभाञ्जनस्य वा क्वाथं सैन्धवाग्निकणान्वितम् ८७
हिङ्ग्वादिचूर्णं क्षाराज्यं युञ्जीत च यथाबलम्
पिप्पलीनागरं दन्तीसमांशं द्विगुणाभयम् ८८
बिडार्धांशयुतं चूर्णमिदमुष्णाम्बुना पिबेत्
विडङ्गं चित्रकं सक्तून् सघृतान् सैन्धवं वचाम् ८९
दग्ध्वा कपाले पयसा गुल्मप्लीहापहं पिबेत्
तैलोन्मिश्रैर्बदरकपत्रैः सम्मर्दितैः समुपनद्धः ९०
मुसलेन पीडितोऽनु च याति प्लीहा पयोभुजो नाशम्
रोहीतकलताः कॢप्ताः खण्डशः साभया जले ९१
मूत्रे वाऽसुनुयात्तच्च सप्तरात्रस्थितं पिबेत्
कामलाप्लीहगुल्मार्शःकृमिमेहोदरापहम् ९२
रोहीतकत्वचः कृत्वा पलानां पञ्चविंशतिम्
कोलद्विप्रस्थसंयुक्तं कषायमुपकल्पयेत् ९३
पालिकैः पञ्चकोलैस्तु तैः समस्तैश्च तुल्यया
रोहीतकत्वचा पिष्टैर्घृतप्रस्थं विपाचयेत् ९४
प्लीहाभिवृद्धिं शमयत्येतदाशु प्रयोजितम्
कदल्यास्तिलनालानां क्षारेण क्षुरकस्य च ९५
तैलं पक्वं जयेत्पानात्प्लीहानं कफवातजम्
अशान्तौ गुल्मविधिना योजयेदग्निकर्म च ९६
अप्राप्तपिच्छासलिले प्लीह्नि वातकफोल्बणे
पैत्तिके जीवनीयानि सर्पींषि क्षीरबस्तयः ९७
रक्तावसेकः संशुद्धिः क्षीरपानं च शस्यते
यकृति प्लीहवत्कर्म दक्षिणे तु भुजे सिराम् ९८
स्विन्नाय बद्धोदरिणे मूत्रतीक्ष्णौषधान्वितम्
सतैललवणं दद्यान्निरूहं सानुवासनम् ९९
परिस्रंसीनि चान्नानि तीक्ष्णं चास्मै विरेचनम्
उदावर्तहरं कर्म कार्यं यच्चानिलापहम् १००
छिद्रो दरमृते स्वेदाच्छ्लेष्मोदरवदाचरेत्
जातं जातं जलं स्राव्यमेवं तद्यापयेद्भिषक् १०१
अपां दोषहराण्यादौ योजयेदुदकोदरे
मूत्रयुक्तानि तीक्ष्णानि विविधक्षारवन्ति च १०२
दीपनीयैः कफघ्नैश्च तमाहारैरुपाचरेत्
क्षारं छागकरीषाणां स्रुतं मूत्रेऽग्निना पचेत् १०३
घनीभवति तस्मिंश्च कर्षांशं चूर्णितं क्षिपेत्
पिप्पली पिप्पलीमूलं शुण्ठी लवणपञ्चकम् १०४
निकुम्भकुम्भत्रिफला स्वर्णक्षीरीविषाणिकाः
स्वर्जिकाक्षारषड्ग्रन्थासातलायवशूकजम् १०५
कोलाभा गुटिकाः कृत्वा ततः सौवीरकाप्लुताः
पिबेदजरके शोफे प्रवृद्धे चोदकोदरे १०६
इत्यौषधैरप्रशये त्रिषु बद्धोदरादिषु
प्रयुञ्जीत भिषक् शस्त्रमार्तबन्धुनृपार्थितः १०७
स्निग्धस्विन्नतनोर्नाभेरधो बद्धक्षतान्त्रयोः
पाटयेदुदरं मुक्त्वा वामतश्चतुरङ्गुलात् १०८
चतुरङ्गुलमानं तु निष्कास्यान्त्राणि तेन च
निरीक्ष्यापनयेद्बालमललेपोपलादिकम् १०९
छिद्रे तु शल्यमुद्धृत्य विशोध्यान्त्रपरिस्रवम्
मर्कोटैर्दंशयेच्छिद्रं तेषु लग्नेषु चाहरेत् ११०
कायं मूर्ध्नोऽनु चान्त्राणि यथास्थानं निवेशयेत्
अक्तानि मधुसर्पिर्भ्यामथ सीव्येद्वहिर्व्रणम् १११
ततः कृष्णमृदाऽलिप्य बध्नीयाद्यष्टिमिश्रया
निवातस्थः पयोवृत्तिः स्नेहद्रो ण्यां वसेत्ततः ११२
सजले जठरे तैलैरभ्यक्तस्यानिलापहैः
स्विन्नस्योष्णाम्बुनाऽकक्षमुदरे पट्टवेष्टिते ११३
बद्धच्छिद्रो दितस्थाने विध्येदङ्गुलमात्रकम्
निधाय तस्मिन्नाडीं च स्रावयेदर्धमम्भसः ११४
अथास्य नाडीमाकृष्य तैलेन लवणेन च
व्रणमभ्यज्य बध्वा च वेष्टयेद्वाससोदरम् ११५
तृतीयेऽह्नि चतुर्थे वा यावदाषोडशं दिनम्
तस्य विश्रम्य विश्रम्य स्रावयेदल्पशो जलम् ११६
विवेष्टयेद्गाढतरं जठरं वाससा श्लथम्
निःस्रुते लङ्घितः पेयामस्नेहलवणां पिबेत् ११७
स्यात्क्षीरवृत्तिः षण्मासांस्त्रीन् पेयां पयसा पिबेत्
त्रींश्चान्यान् पयसैवाद्यात् फलाम्लेन रसेन वा ११८
अल्पशोऽस्नेहलवणं जीर्णं श्यामाककोद्र वम्
प्रयतो वत्सरेणैवं विजयेत जलोदरम् ११९
वर्ज्येषु यन्त्रितो दिष्टे नात्यदिष्टे जितेन्द्रि यः
सर्वमेवोदरं प्रायो दोषसङ्घातजं यतः १२०
अतो वातादिशमनी क्रिया सर्वत्र शस्यते
वह्निर्मन्दत्वमायाति दोषैः कुक्षौ प्रपूरिते १२१
तस्माद्भोज्यानि भोज्यानिदीपनानि लघूनि च
सपञ्चमूलान्यल्पाम्लपटुस्नेहकटूनि च १२२
भावितानां गवां मूत्रे षष्टिकानां च तण्डुलैः
यवागूं पयसा सिद्धां प्रकामं भोजयेन्नरम् १२३
पिबेदिक्षुरसं चानु जठराणां निवृत्तये
स्वं स्वं स्थानं व्रजन्त्येषां वातपित्तकफास्तथा १२४
अत्यर्थोष्णाम्ललवणं रूक्षं ग्राहि हिमं गुरु
गुडं तैलकृतं शाकं वारि पानावगाहयोः १२५
आयासाध्वदिवास्वप्नयानानि च परित्यजेत्
नात्यच्छसान्द्र मधुरं तक्रं पाने प्रशस्यते १२६
सकणालवणं वाते पित्ते सोषणशर्करम्
यवानीसैन्धवाजाजीमधुव्योषैः कफोदरे १२७
त्र्यूषणक्षारलवणैः संयुतं निचयोदरे
मधुतैलवचाशुण्ठीशताह्वा कुष्ठसैन्धवैः १२८
प्लीह्नि बद्धे तु हपुषायवानीपट्वजाजिभिः
सकृष्णामाक्षिकं छिद्रे व्योषवत्सलिलोदरे १२९
गौरवारोचकानाहमन्दवह्न्यति सारिणाम्
तक्रं वातकफार्तानाममृतत्वाय कल्पते १३०
प्रयोगाणां च सर्वेषामनु क्षीरं प्रयोजयेत्
स्थैर्यकृत्सर्वधातूनां बल्यं दोषानुबन्धहृत् १३१
भेषजापचिताङ्गानां क्षीरमेवामृतायते १३१॥१२
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां चतुर्थे
चिकित्सितस्थाने उदरचिकित्सितं नाम पञ्चदशोऽध्यायः १५

षोडशोऽध्यायः
अथातः पाण्डुरोगचिकित्सितं व्याख्यास्यामः
इति ह स्माहुरात्रेयादयो महर्षयः
पाण्ड्वामयी पिबेत्सर्पिरादौ कल्याणकाह्वयम्
पञ्चगव्यं महातिक्तं शृतं वाऽरग्वधादिना १
दाडिमात्कुडवो धान्यात्कुडवार्धं पलं पलम्
चित्रकाच्छृङ्गबेराच्च पिप्पल्यर्धपलं च तैः २
कल्कितैर्विंशतिपलं घृतस्य सलिलाढके
सिद्धं हृत्पाण्डुगुल्मार्शःप्लीहवातकफार्तिनुत् ३
दीपनं श्वासकासघ्नं मूढवातानुलोमनम्
दुःखप्रसविनीनां च वन्ध्यानां च प्रशस्यते ४
स्नेहितं वामयेत्तीक्ष्णैः पुनः स्निग्धं च शोधयेत्
पयसा मूत्रयुक्तेन बहुशः केवलेन वा ५
दन्तीफलरसे कोष्णे काश्मर्याञ्जलिमासुतम्
द्रा क्षाञ्जलि वा मृदितं तत् पिबेत पाण्डुरोगजित् ६
मूत्रेण पिष्टां पथ्यां वा तत्सिद्धं वा फलत्रयम्
स्वर्णक्षीरीत्रिवृच्छ्यामाभद्र दारुमहौषधम् ७
गोमूत्राञ्जलिना पिष्टं शृतं तेनैव वा पिबेत्
साधितं क्षीरमेभिर्वा पिबेद्दोषानुलोमनम् ८
मूत्रे स्थितं वा सप्ताहं पयसाऽयोरजः पिबेत्
जीर्णे क्षीरेण भुञ्जीत रसेन मधुरेण वा ९
शुद्धश्चोभयतो लिह्यात्पथ्यां मधुघृतद्रुताम्
विशालाकटुकामुस्ताकुष्ठदारुकलिङ्गकाः १०
कर्षांशा द्विपिचुर्मूर्वा कर्षार्धांशा घुणप्रिया
पीत्वा तच्चूर्णमम्भोभिः सुखैर्लिह्यात्ततो मधु ११
पाणडुरोगं ज्वरं दाहं कासं श्वासमरोचकम्
गुल्मानाहामवातांश्च रक्तपित्तं च तज्जयेत् १२
वासागुडूचीत्रिफलाकट्वी भूनिम्बनिम्बजः
क्वाथः क्षौद्र युतो हन्ति पाण्डुपित्तास्रकामलाः १३
व्योषाग्निवेल्लत्रिफलामुस्तैस्तुल्यमयोरजः
चूर्णितं तक्रमध्वाज्यकोष्णाम्भोभिः प्रयोजितम् १४
कामलापाण्डुहृद्रो गकुष्ठार्शोमेह नाशनम्
गुडनागरमण्डूरतिलांशान् मानतः समान् १५
पिप्पलीद्विगुणान् दद्याद्गुटिकां पाण्डुरोगिणे
ताप्यं दार्व्यास्त्वचं चव्यं ग्रन्थिकं देवदारु च १६
व्योषादिनवकं चैतच्चूर्णयेद् द्विगुणं ततः
मण्डूरं चाञ्जननिभं सर्वतोऽष्टगुणेऽथ तत् १७
पृथग्विपक्वे गोमूत्रे वटकीकरणक्षमे
प्रक्षिप्य वटकान् कुर्यात्तान् खादेत्तक्रभोजनः १८
एते मण्डूरवटकाः प्राणदाः पाण्डुरोगिणाम्
कुष्ठान्यजरकं शोफमूरुस्तम्भ मरोचकम् १९
अर्शांसि कामलां मेहान् प्लीहानं शमयन्ति च
ताप्याद्रि जतुरौप्यायोमलाः पञ्चपलाः पृथक् २०
चित्रकत्रिफलाव्योषविडङ्गैः पालिकैः सह
शर्कराष्टपलोन्मिश्राश्चूर्णिता मधुना द्रुताः २१
पाण्डुरोगं विषं कासं यक्ष्माणं विषमं ज्वरम्
कुष्ठान्यजरकं मेहं शोफं श्वासमरोचकम् २२
विशेषाद्धन्त्यपस्मारं कामलां गुदजानि च
कौटजत्रिफलानिम्बपटोलघन नागरैः २३
भावितानि दशाहानि रसैर्द्वित्रिगुणानि वा
शिलाजतुपलान्यष्टौ तावती सितशर्करा २४
त्वक्क्षीरीपिप्पलीधात्रीकर्कटाख्याः पलोन्मिताः
निदिग्ध्याः फलमूलाभ्यां पलं युक्त्यात्रिजातकम् २५
मधुत्रिपलसंयुक्तान् कुर्यादक्षसमान् गुडान्
दाडिमाम्बुपयःपक्षिरसतोयसुरासवान् २६
तान् भक्षयित्वाऽनु पिबेन्निरन्नो भुक्त एव वा
पाण्डुकुष्ठज्वरप्लीहतमकार्शोभगन्दरम् २७
हृन्मूत्रपूतिशुक्राग्निदोष शोषगरोदरम्
कासासृग्दरपित्तासृक्शोफगुल्मगलामयान् २८
मेहवर्ध्मभ्रमान् हन्युः सर्वदोषहराः शिवाः
द्रा क्षाप्रस्थं कणाप्रस्थं शर्करार्धतुलां तथा २९
द्विपलं मधुकं शुण्ठीं त्कक्क्षीरीं च विचूर्णितम्
धात्रीफलरसद्रो णे तत्क्षिप्त्वा लेहवत्पचेत् ३०
शीतान्मधुप्रस्थयुताद् लिह्यात्पाणितलं ततः
हलीमकं पाण्डुरोगं कामलां च नियच्छति ३१
कनीयःपञ्चमूलाम्बु शस्यते पानभोजने
पाण्डूनां कामलार्तानां मृद्वीकामलकाद्र सः ३२
इति सामान्यतः प्रोक्तं पाण्डुरोगे भिषग्जितम्
विकल्प्य योज्यं विदुषा पृथग्दोषबलं प्रति ३३
स्नेहप्रायं पवनजे तिक्तशीतं तु पैत्तिके
श्लैष्मिके कटुरूक्षोष्णं विमिश्रं सान्निपातिके ३४
मृदं निर्यापयेत्कायात्तीक्ष्णैः संशोधनैः पुरः
बलाधानानि सर्पींषि शुद्धे कोष्ठे तु योजयेत् ३५
व्योषबिल्वद्विरजनीत्रिफला द्विपुनर्नवम्
मुस्तान्ययोरजः पाठा विडङ्गं देवदारु च ३६
वृश्चिकाली च भार्गी च सक्षीरैस्तैः शृतं घृतम्
सर्वान् प्रशमयत्याशु विकारान् मृत्तिकाकृतान् ३७
तद्वत्केसरयष्ट्याह्वपिप्पली क्षीरशाड्वलैः
मृद्द्वेषणाय तल्लौल्ये वितरेद्भावितां मृदम् ३८
वेल्लाग्निनिम्बप्रसवैः पाठया मूर्वयाऽथवा
मृद्भेदभिन्नदोषानुगमाद्योज्यं च भेषजम् ३९
कामलायां तु पित्तघ्नं पाण्डुरोगाविरोधि यत्
पथ्याशतरसे पथ्यावृन्तार्धशतकल्कितः ४०
प्रस्थः सिद्धो घृताद्गुल्मकामलापाण्डुरोगनुत्
आरग्वधं रसेनेक्षोर्विदार्यामलकस्य वा ४१
सत्र्यूषणं बिल्वमात्रं पाययेत्कामलापहम्
पिबेन्निकुम्भकल्कं वा द्विगुडं शीतवारिणा ४२
कुम्भस्य चूर्णं सक्षौद्रं त्रैफलेन रसेन वा
त्रिफलाया गुडूच्या वा दार्व्या निम्बस्य वा रसम् ४३
प्रातः प्रातर्मधुयुतं कामलार्ताय योजयेत्
निशागैरिकधात्रीभिः कामलापहमञ्जनम् ४४
तिलपिष्टनिभं यस्तु कामलावान् सृजेन्मलम्
कफरुद्धपथं तस्य पित्तं कफहरैर्जयेत् ४५
रूक्षशीतगुरुस्वादुव्यायाम बलनिग्रहैः
कफसम्मूर्च्छितो वायुर्यदा पित्तं बहिः क्षिपेत् ४६
हारिद्र नेत्रमूत्रत्वक्श्वेत वर्चास्तदा नरः
भवेत्साटोपविष्टम्भो गुरुणा हृदयेन च ४७
दौर्बल्याल्पाग्निपार्श्वार्तिहिध्माश्वासा रुचिज्वरैः
क्रमेणाल्पेऽनुषज्येत पित्ते शाखासमाश्रिते ४८
रसैस्तं रूक्षकट्वम्लैः शिखितित्तिरिदक्षजैः
शुष्कमूलकजैर्यूषैः कुलत्थोत्थैश्च भोजयेत् ४९
भृशाम्लतीक्ष्णकटुकलवणोष्णं च शस्यते
सबीजपूरकरसं लिह्याद्व्योषं तथाऽशयम् ५०
स्वं पित्तमेति तेनास्य शकृदप्यनुरज्यते
वायुश्च याति प्रशमं सहाटोपाद्युपद्र वैः ५१
निवृत्तोपद्र वस्यास्य कार्यः कामलिको विधिः
गोमूत्रेण पिबेत्कुम्भकामलायां शिलाजतु ५२
मासं माक्षिकधातुं वा किट्टं वाऽथ हिरण्यजम्
गुडूचीस्वरसक्षीरसाधितेन हलीमकी ५३
महिषीहविषा स्निग्धः पिबेद्धात्रीरसेन तु
त्रिवृतां तद्विरिक्तोऽद्यात्स्वादु पित्तानिलापहम् ५४
द्रा क्षालेहं च पूर्वोक्तं सर्पींषि मधुराणि च
यापनान् क्षीरबस्तींश्च शीलयेत्सानुवासनान् ५५
मार्द्वीकारिष्टयोगांश्च पिबेद्युक्त्याऽग्निवृद्धये
कासिकं चाभयालेहं पिप्पलद्यं मधुकं बलाम् ५६
पयसा च प्रयुञ्जीत यथादोषं यथाबलम्
पाण्डुरोगेषु कुशलः शोफोक्तं च क्रियाक्रमम् ५७
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां चतुर्थे
चिकित्सितस्थाने पाण्डुरोगचिकित्सितं नाम षोडशोऽध्यायः १६

सप्तदशोऽध्यायः
अथातः श्वयथुचिकित्सितं व्याख्यास्यामः
इति ह स्माहुरात्रेयादयो महर्षयः
सर्वत्र सर्वाङ्गसरे दोषजे श्वयथौ पुरा
सामे विशोषितो भुक्त्वा लघु कोष्णाम्भसा पिबेत् १
नागरातिविषादारुविडङ्गेन्द्र यवोषणम्
अथवा विजयाशुण्ठीदेवदारुपुनर्नवम् २
नवायसं वा दोषाढ्यः शुद्ध्यै मूत्रहरीतकीः
वराक्वाथेन कटुकाकुम्भायस्त्र्यूषणानि वा ३
अथवा गुग्गुलुं तद्वज्जतु वा शैलसम्भवम्
मन्दाग्निः शीलयेदामगुरुभिन्नविबद्धविट् ४
तक्रं सौवर्चलव्योषक्षौद्र युक्तं गुडाभयाम्
तक्रानुपानमथवा तद्वद्वा गुडनागरम् ५
आर्द्र कं वा समगुडं प्रकुञ्चार्धविवर्धितम्
परं पञ्चपलं मासं यूषक्षीररसाशनः ६
गुल्मोदरार्शःश्वयथुप्रमेहान्श्वासप्रतिश्यालसकाविपाकान्
सकामलाशोषमनोविकारान् कासं कफं चैव जयेत्प्रयोगः ७
घृतमार्द्र कनागरस्य कल्कस्वरसाभ्यां पयसा च साधयित्वा
श्वयथुक्षवथूदराग्निसादैरभिभूतोऽपि पिबन् भवत्यतरोगः ८
निरामो बद्धशमलः पिबेच्छ्वयथुपीडितः
त्रिकटुत्रिवृतादन्तीचित्रकैः साधितं पयः ९
मूत्रं गोर्वा महिष्या वा सक्षीरं क्षीरभोजनः
सप्ताहं मासमथवा स्यादुष्ट्रक्षीरवर्तनः १०
यवानकं यवक्षारं यवानीं पञ्चकोलकम्
मरिचं दाडिमं पाठां धानकामम्लवेतसम् ११
बालबिल्वं च कर्षांशं साधयेत्सलिलाढके
तेन पक्वो घृतप्रस्थः शोफार्शोगुल्ममेहहा १२
दध्नश्चित्रकगर्भाद्वा घृतं तत्तक्रसंयुतम्
पक्वं सचित्रकं तद्वद्गुणैः युञ्ज्याच्च कालवित् १३
धान्वन्तरं महातिक्तं कल्याणमभयाघृतम्
दशमूलकषायस्य कंसे पथ्याशतं पचेत् १४
दत्त्वा गुडतुलां तस्मिन् लेहे दद्याद्विचूर्णितम्
त्रिजातकं त्रिकटुकं किञ्चिच्च यवशूकजम् १५
प्रस्थार्धं च हिमे क्षौद्रा त्तन्निहन्त्युपयोजितम्
प्रवृद्धशोफज्वरमेहगुल्मकार्श्यामवाताम्लकरक्तपित्तम्
वैवर्ण्यमूत्रानिलशुक्रदोषश्वासारुचिप्लीहगरोदरं च १६
पुराणयवशाल्यन्नं दशमूलाम्बुसाधितम् १७
अल्पमल्पपटुस्नेहं भोजनं श्वयथोर्हितम्
क्षारव्योषान्वितैर्मौद्गैः कौलत्थैः सकणै रसैः १८
तथा जाङ्गलजैः कूर्मगोधाशल्यकजैरपि
अनम्लं मथितं पाने मद्यान्यौषधवन्ति च १९
अजाजीशठिजीवन्तीकारवी पौष्कराग्निकैः
बिल्वमध्ययवक्षारवृक्षाम्लै र्बदरोन्मितैः २०
कृता पेयाऽज्यतैलाभ्यां युक्तिभृष्टा परं हिता
शोफातिसारहृद्रो गगुल्मार्शोल्पाग्निमेहिनाम् २१
गुणैस्तद्वच्च पाठायाः पञ्चकोलेन साधिता
शैलेयकुष्ठस्थौणेयरेणुका गुरुपद्मकैः २२
श्रीवेष्टकनखस्पृक्कादेवदारु प्रियङ्गुभिः
मांसीमागधिकावन्यधान्यध्यामकवालकैः २३
चतुर्जातकतालीसमुस्तागन्ध पलाशकैः
कुर्यादभ्यञ्जनं तैलं लेपं स्नानाय तूदकम् २४
स्नानं वा निम्बवर्षाभूनक्तमालार्कवारिणा
एकाङ्गशोफे वर्षाभूकरवीरककिंशुकैः २५
विशालात्रिफलारोध्रनलिका देवदारुभिः
हिंस्राकोशातकीमाद्री ताल पर्णीजयन्तिभिः २६
स्थूलकाकादनीशाल नाकुलीवृषपर्णिभिः
वृद्ध्य्र्द्धिहस्तिकर्णैश्च सुखोष्णैर्लेपनं हितम् २७
अथानिलोत्थे श्वयथौ मासार्धं त्रिवृतं पिबेत्
तैलमेरण्डजं वातविडिवबन्धे तदेव तु २८
प्राग्भक्तं पयसा युक्तं रसैर्वा कारयेत्तथा
स्वेदाभ्यङ्गान् समीरघ्नान् लेपमेकाङ्गगे पुनः २९
मातुलुङ्गाग्निमन्थेन शुण्ठीहिंस्रामराह्वयैः
पैत्ते तिक्तं पिबेत्सर्पिर्न्यग्रोधाद्येन वा शृतम् ३०
क्षीरं तृड्दाहमोहेषु लेपाभ्यङ्गाश्च शीतलाः
पटोलमूलत्रायन्तीयष्ट्याह्व कटुकाभयाः ३१
दारु दार्वी हिमं दन्ती विशाला निचुलं कणा
तैः क्वाथः सघृतः पीतो हन्त्यन्तस्तापतृड्भ्रमान् ३२
ससन्निपातवीसर्पशोफदाह विषज्वरान्
आरग्वधादिना सिद्धं तैलं श्लेष्मोद्भवे पिबेत् ३३
स्रोतोविबन्धे मन्देऽग्नावरुचौ स्तिमिताशयः
क्षारचूर्णासवारिष्टमूत्रतक्राणि शीलयेत् ३४
कृष्णापुराणपिण्याकशिग्रुत्वक्सिकतातसीः
प्रलेपोन्मर्दने युञ्ज्यात्सुखोष्णा मूत्रकल्किताः ३५
स्नानं मूत्राम्भसी सिद्धे कुष्ठतर्कारिचित्रकैः
कुलत्थनागराभ्यां वा चण्डाऽगुरु विलेपने ३६
कालाजशृङ्गीसरलबस्त गन्धाहयाह्वयाः
एकैषिका च लेपः स्याच्छ्वयथावेकगात्रगे ३७
यथादोषं यथासन्नं शुद्धिं रक्तावसेचनम्
कुर्वीत मिश्रदोषे तु दोषोद्रे कबलात्क्रियाम् ३८
अजाजिपाठाघनपञ्चकोलव्याघ्रीरजन्यः सुखतोयपीताः
शोफं त्रिदोषं चिरजं प्रवृद्धं निघ्नन्ति भूनिम्बमहौषधे च ३९
अमृताद्वितयं सिवाटिकासुरकाष्ठं सपुरं सगोजलम्
श्वयथूदरकुष्ठपाण्डुताकृमिमेहोर्ध्वकफानिलापहम् ४०
इति निजमधिकृत्य पथ्यमुक्तं क्षतजनिते क्षतजं विशोधनीयम्
स्रुतिहिमघृतलेपसेकरेकैर्विषजनिते विषजिच्च शोफ इष्टम् ४१
ग्राम्याब्जानूपं पिशितमबलं शुष्कशाकं तिलान्नं
गौडं पिष्टान्नं दधि सलवणं विज्जलं मद्यमम्लम्
धाना वल्लूरं समशनमथो गुर्वसात्म्यं विदाहि
स्वप्नं चारात्रौ श्वयथुगदवान् वर्जयेन्मैथुनं च ४२
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां चतुर्थे
चिकित्सितस्थाने श्वयथुचिकित्सितं नाम सप्तदशोऽध्यायः १७

अष्टादशोऽध्यायः
अथातो विसर्पचिकित्सितं व्याख्यास्यामः
इति ह स्माहुरात्रेयादयो महर्षयः
आदावेव विसर्पेषु हितं लङ्घनरूक्षणम्
रक्तावसेको वमनं विरेकः स्नेहनं न तु १
प्रच्छर्दनं विसर्पघ्नं सयष्टीन्द्र यवं फलम्
पटोलपिप्पलीनिम्बपल्लवैर्वा समन्वितम् २
रसेन युक्तं त्रायन्त्या द्रा क्षायास्त्रैफलेन वा
विरेचनं त्रिवृच्चूर्णं पयसा सर्पिषाऽथवा ३
योज्यं कोष्ठगते दोषे विशेषेण विशोधनम्
अविशोध्यस्य दोषेऽल्पे शमनं चन्दनोत्पलम् ४
मुस्तनिम्बपटोलं वा पटोलादिकमेव वा
सारिवामलकोशीरमुस्तं वा क्वथितं जले ५
दुरालभां पर्पटकं गुडूचीं विश्वभेषजम्
पाक्यं शीतकषायं वा तृष्णावीसर्पवान् पिबेत् ६
दार्वीपटोलकटुकामसूर त्रिफलास्तथा
सनिम्बयष्टीत्रायन्तीः क्वथिता घृतमूर्च्छिताः ७
शाखादुष्टे तु रुधिरे रक्तमेवादितो हरेत्
त्वड्मांसस्नायुसंक्लेदो रक्तक्लेदाद्धि जायते ८
निरामे श्लेष्मणि क्षीणे वातपित्तोत्तरे हितम्
घृतं तिक्तं महातिक्तं शृतं वा त्रायमाणया ९
निर्हृतेऽस्रे विशुद्धेऽन्तर्दोषे त्वङ्मांससन्धिगे
बहिःक्रियाः प्रदेहाद्याः सद्यो वीसर्पशान्तये १०
शताह्वामुस्तवाराहीवंशार्तगल धान्यकम्
सुराह्वा कृष्णगन्धा च कुष्ठं चालेपनं चले ११
न्यग्रोधादिगणः पित्ते तथा पद्मोत्पलादिकम्
न्यग्रोधपादास्तरुणाः कदलीगर्भसंयुताः १२
बिसग्रन्थिश्च लेपः स्याच्छतधौतघृताप्लुतः
पद्मिनीकर्दमः शीतः पिष्टं मौक्तिकमेव वा १३
शङ्खः प्रवालं शुक्तिर्वा गैरिकं वा घृतान्वितम्
त्रिफलापद्मकोशीर समङ्गाकरवीरकम् १४
नलमूलान्यनन्ता च लेपः श्लेष्मविसर्पहा
धवसप्ताह्वखदिरदेवदारु कुरण्टकम् १५
समुस्तारग्वधं लेपो वर्गो वा वरुणादिकः
आरग्वधस्य पत्राणि त्वचः श्लेष्मातकोद्भवाः १६
इन्द्रा णिशाकं काकाह्वा शिरीषकुसुमानि च
सेकव्रणाभ्यङ्गहविर्लेपचूर्णान् यथायथम् १७
एतैरेवौषधैः कुर्याद्वायौ लेपा घृताधिकाः
कफस्थानगते सामे पित्तस्थानगतेऽथवा १८
अशीतोष्णा हिता रूक्षा रक्तपित्ते घृतान्विताः
अत्यर्थशीतास्तनवस्तनु वस्त्रान्तरास्थिताः १९
योज्याः क्षणे क्षणेऽन्येऽन्ये मन्दवीर्यास्त एव च
संसृष्टदोषे संसृष्टमेतत्कर्म प्रशस्यते २०
शतधौतघृतेनाग्निं प्रदिह्यात्केवलेन वा
सेचयेद्घृतमण्डेन शीतेन मधुकाम्बुना २१
सिताम्भसाऽम्भोदजलैः क्षीरेणेक्षुरसेन वा
पानलेपनसेकेषु महातिक्तं परं हितम् २२
ग्रन्थ्याख्ये रक्तपित्तघ्नं कृत्वा सम्यग्यथोदितम्
कफानिलघ्नं कर्मेष्टं पिण्डस्वेदोपनाहनम् २३
ग्रन्थिवीसर्पशूले तु तैलेनोष्णेन सेचयेत्
दशमूलविपक्वेन तद्वन्मूत्रैर्जलेन वा २४
सुखोष्णया प्रदिह्याद्वा पिष्टया कृष्णगन्धया
नक्तमालत्वचा शुष्कमूलकैः कलिनाऽथवा २५
दन्ती चित्रकमूलत्वक् सौधार्कपयसी गुडः
भल्लातकास्थि कासीसं लेपो भिन्द्याच्छिलामपि२६
बहिर्मार्गाश्रितं ग्रन्थिं किं पुनः कफसम्भवम्
दीर्घकालस्थितं ग्रन्थिमेभिर्भिन्द्याच्च भेषजैः २७
मूलकानां कुलत्थानां यूषैः सक्षारदाडिमैः
गोधूमान्नैर्यवान्नैर्वा ससीधुमधुशार्करैः २८
सक्षौद्रै र्वारुणीमण्डै र्मातुलुङ्गरसान्वितैः
त्रिफलायाः प्रयोगैश्च पिप्पल्याः क्षौद्र संयुतैः २९
देवदारुगुडूच्योश्च प्रयोगैर्गिरिजस्य च
मुस्तभल्लातसक्तूनां प्रयोगैर्माक्षिकस्य च ३०
धूमैर्विरेकैः शिरसः पूर्वोक्तैर्गुल्मभेदनैः
तप्तायोहेमलवणपाषाणादि प्रपीडनैः ३१
आभिः क्रियाभिः सिद्धाभिर्विविधाभिर्बले स्थितः
ग्रन्थिः पाषाणकठिनो यदि नैवोपशाम्यति ३२
अथास्य दाहः क्षारेण शरैर्हेम्नाऽपि वा हितः
पाकिभिः पाचयित्वा वा पाटयित्वा तमुद्धरेत् ३३
मोक्षयेद्बहुशश्चास्य रक्तमुत्क्लेशमागतम्
पुनश्चापहृते रक्ते वातश्लेष्मजिदौषधम् ३४
प्रक्लिन्ने दाहपाकाभ्यां बाह्यान्तर्व्रणवत्क्रिया
दार्वीविडङ्गकम्पिल्लैः सिद्धं तैलं व्रणे हितम् ३५
दूर्वास्वरससिद्धं तु कफपित्तोत्तरे घृतम्
एकतः सर्वकर्माणि रक्तमोक्षणमेकतः ३६
विसर्पो न ह्यसंसृष्टः सोऽस्रपित्तेन जायते
रक्तमेवाश्रयश्चास्य बहुशोऽस्र हरेदतः ३७
न घृतं बहुदोषाय देयं यन्न विरेचनम्
तेन दोषो ह्युपस्तब्धस्त्वग्रक्तपिशितं पचेत् ३८
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां चतुर्थे
चिकित्सितस्थाने विसर्पचिकित्सितं नामाष्टादशोऽध्यायः १८

एकोनविंशोऽध्यायः
अथातः कुष्ठचिकित्सितं व्याख्यास्यामः
इति ह स्माहुरात्रेयादयो महर्षयः
कुष्ठिनं स्नेहपानेन पूर्वं सर्वमुपाचरेत्
तत्र वातोत्तरे तैलं घृतं वा साधितं हितम् १
दशमूलामृतैरण्डशार्ङ्गेष्टामेष शृङ्गिभिः
पटोलनिम्बकटुकादार्वीपाठा दुरालभाः २
पर्पटं त्रायमाणां च पलांशं पाचयेदपाम्
द्व्याढकेऽष्टाशशेषेण तेन कर्षोन्मितैस्तथा ३
त्रायन्तीमुस्तभूनिम्ब कलिङ्गकणचन्दनैः
सर्पिषो द्वादशपलं पचेत्तत्तिक्तकं जयेत् ४
पित्तकुष्ठपरीसर्पपिटिकादाह तृड्भ्रमान्
कण्डु पाण्ड्वामयान् गण्डान् दुष्टनाडीव्रणापचीः ५
विस्फोटविद्र धीगुल्म शोफोन्मादमदानपि
हृद्रो गतिमिरव्यङ्गग्रहणीश्वित्र कामलाः ६
भगन्दरमपस्मारमुदरं प्रदरं गरम्
अर्शोऽस्रपित्तमन्यांश्च सुकृच्छ्रान् पित्तजान्गदान् ७
सप्तच्छदः पर्पटकः शम्याकः कटुका वचा
त्रिफला पद्मकं पाठा रजन्यौ सारिवे कणे ८
निम्बचन्दनयष्ट्याह्व विशालेन्द्र यवामृताः
किराततिक्तकं सेव्यं वृषो मूर्वा शतावरी ९
पटोलातिविषामुस्तात्रायन्तीधन्व यासकम्
तैर्जलेऽष्टगुणे सर्पिर्द्विगुणामलकीरसे १०
सिद्धं तिक्तान्महातिक्तं गुणैरभ्यधिकं मतम्
कफोत्तरे घृतं सिद्धं निम्बसप्ताह्वचित्रकैः ११
कुष्ठोषणवचाशालप्रियाल चतुरङ्गुलैः
सर्वेषु चारुष्करजं तौवरं सार्षपं पिबेत् १२
स्नेहं घृतं वा कृमिजित्पथ्याभल्लातकैः शृतम्
आरग्वधस्य मूलेन शतकृत्वः शृतं घृतम् १३
पिबन् कुष्ठं जयत्याशु भजन् सखदिरं जलम्
एभिरेव यथास्वं च स्नेहैरभ्यञ्जनं हितम् १४
स्निग्धस्य शोधनं योज्यं विसर्पे यदुदाहृतम्
ललाटहस्तपादेषु शिराश्चास्य विमोक्षयेत् १५
प्रच्छानमल्पके कुष्ठे शृङ्गाद्याश्च यथायथम्
स्नेहैराप्याययेच्चैनं कुष्ठघ्नैरन्तराऽन्तरा १६
मुक्तरक्तविरिक्तस्य रिक्तकोष्ठस्य कुष्ठिनः
प्रभञ्जनस्तथा ह्यस्य न स्याद्देहप्रभञ्जनः १७
वासामृतानिम्बवरापटोलव्याघ्रीकरञ्जोदककल्कपक्वम्
सर्पिर्विसर्पज्वरकामलास्रकुष्ठापहं वज्रकमामनन्ति १८
त्रिफलात्रिकटुद्विकण्टकारीकटुका कुम्भनिकुम्भराजवृक्षैः
सवचातिविषाग्निकैःसपाठैःपिचुभागैर्नववज्रदुग्धमुष्ट्या १९
पिष्टैः सिद्धं सर्पिषः प्रस्थमेभिःक्रूरे कोष्ठे स्नेहनं रेचनं च
कुष्ठश्वित्रप्लीहवर्ध्माश्मगुल्मान्हन्यात्कृच्छ्रांस्तन्महावज्रकाख्यम् २०
दन्त्याढकमपां द्रो णे पक्त्वा तेन घृतं पचेत्
धामार्गवपले पीतं तदूर्ध्वाधो विशुद्धिकृत् २१
आवर्तकीतुलां द्रो णे पचेदष्टांशशेषितम्
तन्मूलैस्तत्र निर्यूहे घृतप्रस्थं विपाचयेत् २२
पीत्वा तदेकदिवसान्तरितं सुजीर्णे
भुञ्जीत कोद्र वमसंस्कृतकाञ्जिकेन
कुष्ठं किलासमपचीं च विजेतुमिच्छन्
इच्छन् प्रजां च विपुलां ग्रहणं स्मृतिं च २३
यतेर्लेलीतकवसा क्षौद्र जातीरसान्विता
कुष्ठघ्नी समसर्पिर्वा सगायत्र्यसनोदका २४
शालयो यवगोधूमाः कोरदूषाः प्रियङ्गवः
मुद्गा मसूरास्तुवरी तिक्तशाकानि जाङ्गलम् २५
वरापटोलखदिर निम्बारुष्करयोजितम्
मद्यान्यौषधगर्भाणि मथितं चेन्दुराजिमत् २६
अन्नपानं हितं कुष्ठे न त्वम्ललवणोषणम्
दधिदुग्धगुडानूपतिलमाषांस्त्यजेत्तराम् २७
पटोलमूलत्रिफलाविशालाःपृथक्त्रिभागापचितत्रिशाणाः
स्युस्त्रायमाणा कटुरोहिणी च भागार्धिके नागरपादयुक्ते २८
एतत्पलं जर्जरितं विपक्वं जले पिबेद्दोषविशोधनाय
जीर्णे रसैर्धन्वमृगद्विजानां पुराणशाल्योदनमाददीत २९
कुष्ठं किलासं ग्रहणीप्रदोषमर्शांसि कृच्छ्राणि हलीमकं च
षड्रात्रयोगेन निहन्ति चैतद्हृद्बस्तिशूलं विषमज्वरं च ३०
विडङ्गसारामलकाभयानांपलत्रयंत्रीणि पलानि कुम्भात्
गुडस्य च द्वादश मासमेष जितात्मनां हन्त्युपयुज्यमानः ३१
कुष्ठश्वित्रश्वासकासोदरार्शोमेहप्लीह ग्रन्थिरुग्जन्तुगुल्मान्
सिद्धं योगं प्राह यक्षो मुमुक्षो र्भिक्षोः प्राणान् माणिभद्रः किलेमम् ३२
भूनिम्बनिम्बत्रिफलापद्मकाति विषाकणाः
मूर्वापटोलीद्विनिशा पाठातिक्तेन्द्र वारुणीः ३३
सकलिङ्गवचास्तुल्या द्विगुणाश्च यथोत्तरम्
लिह्याद्दन्तीत्रिवृद्ब्राह्मीश्चूर्णिता मधुसर्पिषा ३४
कुष्ठमेहप्रसुप्तीनां परमं स्यात्तदौषधम्
वराविडङ्गकृष्णा वा लिह्यात्तैलाज्यमाक्षिकैः ३५
काकोदुम्बरिकावेल्लनिम्बादव्योषकल्कवान्
हन्ति वृक्षकनिर्यूहः पानात्सर्वांस्त्वगामयान् ३६
कुटजाग्निनिम्बनृपतरुखदिरासनसप्तपर्णनिर्यूहे
सिद्धा मधुघृतयुक्ताः कुष्ठघ्नीर्भक्षयेदभयाः ३७
दार्वी खदिरनिम्बानां त्वक्क्वाथः कुष्ठ सूदनः ३७-२
निशोत्तमानिम्बपटोलमूलतिक्तावचालोहितयष्टिकाभिः
कृतः कषायः कफपित्तकुष्ठं सुसेवितो धर्म इवोच्छिनत्ति ३८
एभिरेव च शृतं घृतमुख्यं भेषजैर्जयति मारुतकुष्ठम्
कल्पयेत्खदिरनिम्बगुडूचीदेवदारुरजनीः पृथगेवम् ३९
पाठादार्वीवह्निघुणेष्टाकटुकाभिर्मूत्रं युक्तं शक्रयवैश्चोष्णजलं वा
कुष्ठी पीत्वा मासमरुक् स्याद्गुदकीली
मेही शोफी पाण्डुरजीर्णी कृमिमांश्च ४०
लाक्षादन्तीमधुर सवराद्वीपिपाठाविडङ्ग
प्रत्यक्पुष्पीत्रिकटु रजनीसप्तपर्णाटरूषम्
रक्ता निम्बं सुरतरु कृतं पञ्चमूल्यौ च चूर्णं
पीत्वा मासं जयति हितभुग्गव्यमूत्रेण कुष्ठम् ४१
निशाकणानागरवेल्लतौवरं सवह्निताप्यं क्रमशो विवर्धितम्
गवाम्बुपीतं वटकीकृतं तथा निहन्ति कुष्ठानि सुदारुणान्यपि ४२
त्रिकटूत्तमातिलारुष्कराज्यमाक्षिकसितोपलाविहिता
गुलिका रसायनं कुष्ठजिच्च वृष्या च सप्तसमा ४३
चन्द्र शकलाग्निरजनीविडङ्गतुवरास्थ्यरुष्करत्रिफलाभिः
वटका गुडांशकॢप्ताः समस्तकुष्ठानि नाशयन्त्यभ्यस्ताः ४४
विडङ्गभल्लातकबाकुचीनां सद्वीपिवाराहिहरीतकीनाम्
सलाङ्गलीकृष्णतिलोपकुल्या कुडेन पिण्डी विनिहन्ति कुष्ठम् ४५
शशाङ्कलेखा सविडङ्गसारा सपिप्पलीका सहुताशमूला
सायोमला सामलका सतैला कुष्ठानि कृच्छ्राणि निहन्ति लीढा ४६
पथ्यातिलगुडैः पिण्डी कुष्ठं सारुष्करैर्जयेत्
गुडारुष्करजन्तुघ्नसोमराजीकृताऽथवा ४७
विडङ्गाद्रि जतुक्षौद्र सर्पिष्मत्खादिरं रजः
किटिभश्वित्रदद्रुघ्नं खादेन्मितहिताशनः ४८
सितातैलकृमिघ्नानि धात्र्ययोमलपिप्पलद्यः
लिहानः सर्वकुष्ठानि जयत्यतिगुरूण्यपि ४९
मुस्तं व्योषं त्रिफला मञ्जिष्ठा दारु पञ्चमूले द्वे
सप्तच्छदनिम्बत्वक् सविशाला चित्रको मूर्वा ५०
चूर्णं तर्पणभागैर्नवभिः संयोजितं समध्वंशम्
नित्यं कुष्ठनिबर्हणमेतत्प्रायोगिकं खादन् ५१
श्वयथुं सपाण्डुरोगं श्वित्रं ग्रहणीप्रदोषमर्शांसि
वर्ध्मभगन्दरपिडकाकण्डूकोठापचीर्हन्ति ५२
रसायनप्रयोगेण तुवरास्थीनि शीलयेत्
भल्लातकं बाकुचिकां वह्निमूलं शिलाह्वयम् ५३
इति दोषे विजितेऽन्तस् त्वक्स्थे शमनं बहिःप्रलेपादि हितम्
तीक्ष्णालेपोत्क्लिष्टं कुष्ठं हि विवृद्धिमेति मलिने देहे ५४
स्थिरकठिनमण्डलानां कुष्ठानां पोटलैर्हितः स्वेदः
स्विन्नोत्सन्नं कुष्ठं शस्त्रैर्लिखितं प्रलेपनैर्लिम्पेत् ५५
येषु न शस्त्रं क्रमते स्पर्शेन्द्रि यनाशनेषु कुष्ठेषु
तेषु निपात्यः क्षारो रक्तं दोषं च विस्राव्य ५६
लेपोऽतिकठिनपरुषे सुप्ते कुष्ठे स्थिरे पुराणे च
पीतागदस्य कार्यो विषैः समन्त्रोऽगदैश्चानु ५७
स्तब्धानि सुप्तसुप्तान्यस्वेदनकण्डुलानि कुष्ठानि
घृष्टानि शुष्कगोमयफेनकशस्त्रैः प्रदेह्यानि ५८
मुस्ता त्रिफला मदनं करञ्ज आरग्वधः कलिङ्गयवाः
सप्ताह्वकुष्ठफलिनीदार्व्यः सिद्धार्थकं स्नानम् ५९
एष कषायो वमनं विरेचनं वर्णकस्तथोद्धर्षः
त्वग्दोषकुष्ठशोफप्रबाधनः पाण्डुरोगघ्नः ६०
करवीरनिम्बकुटजाच्छम्याकाच्चित्रकाच्च मूलानाम्
मूत्रे दर्वीलेपी क्वाथो लेपेन कुष्ठघ्नः ६१
श्वेतकरवीरमूलं कुटजकरञ्जात्फलं त्वचो दार्व्याः
सुमनःप्रवालयुक्तो लेपः कुष्ठापहः सिद्धः ६२
शैरीषी त्वक् पुष्पं कार्पास्या राजवृक्षपत्राणि
पिष्टा च काकमाची चतुर्विधः कुष्ठहा लेपः ६३
व्योषसर्षपनिशागृहधूमैर्यावशूकपटु चित्रककुष्ठैः
कोलमात्रगुटिकाऽधविषांशा श्वित्रकुष्ठहरणो वरलेपः ६४
निम्बं हरिद्रे सुरसं पटोलं कुष्ठाश्वगन्धे सुरदारु शिग्रुः
ससर्षपं तुम्बरुधान्यवन्यं चण्डा च चूर्णानि समानि कुर्यात् ६५
तैस्तक्रपिष्टैः प्रथमं शरीरं तैलाक्तमुद्वर्तयितुं यतेत
तथाऽस्य कण्डूः पिटिकाः सकोठाः
कुष्ठानि शोफाश्च शमं व्रजन्ति ६६
मुस्तामृतासङ्गकटङ्कटेरीकासीस कम्पिल्लककुष्ठरोध्राः
गन्धोपलः सर्जरसो विडङ्गं मनः शिलाले करवीरकत्वक् ६७
तैलाक्तगात्रस्य कृतानि चूर्णान्येतानि दद्यादवचूर्णनार्थम्
दद्रूः सकण्डूः किटिभानि पामा विचर्चिका चेति तथा न सन्ति ६८
स्नुग्गण्डे सर्षपात्कल्कः कुकूलानलपाचितः
लेपाद्विचर्चिकां हन्ति रागवेग इव त्रपाम् ६९
मनःशिलाले मरिचानि तैलमार्कं पयः कुष्ठहरः प्रदेहः
तथा करञ्जप्रपुनाटबीजंकुष्ठान्वितं गोसलिलेन पिष्टम् ७०
गुग्गुलुमरिचविडङ्गैः सर्षपकासीससर्जरसमुस्तैः
श्रीवेष्टकालगन्धैर्मनःशिलाकुष्ठकम्पिल्लैः ७१
उभयहरिद्रा सहितैश्चाक्रिकतैलेन मिश्रितैरेभिः
दिनकरकराभितप्तैः कुष्ठं घृष्टं च नष्टं च ७२
मरिचं तमालपत्रं कुष्ठं समनःशिलं सकासीसम्
तैलेन युक्तमुषितं सप्ताहं भाजने ताम्रे ७३
तेनालिप्तं सिध्मं सप्ताहाद् घर्मसेविनोऽपैति
मासान्नवं किलासं स्नानेन विना विशुद्धस्य ७४
मयूरकक्षारजले सप्तकृत्वः परिस्रुते
सिद्धं ज्योतिष्मतीतैलमभ्यङ्गात्सिध्मनाशनम् ७५
वायसजङ्घामूलं वमनीपत्राणि मूलकाद्बीजम्
तक्रेण भौमवारे लेपः सिध्मापहः सिद्धः ७६
जीवन्ती मञ्जिष्ठा दार्वी कम्पिल्लकं पयस्तुत्थम्
एष घृततैलपाकः सिद्धः सिद्धे च सर्जरसः ७७
देयः समधूच्छिष्टो विपादिका तेन नश्यति ह्यक्ता
चर्मैककुष्ठकिटिभं कुष्ठं शाम्यत्यलसकं च ७८
मूलं सप्ताह्वात्त्वक् शिरीषाश्वमारा दर्कान्मालत्याश्चित्रकास्फोत निम्बात्
बीजं कारञ्जं सार्षपं प्रापुनाटंश्रेष्ठा जन्तुघ्नं त्र्यूषणं द्वे हरिद्रे ७९
तैलं तैलं साधितं तैः समूत्रैस्त्वग्दोषाणां दुष्टनाडीव्रणानाम्
अभ्यङ्गेन श्लेष्मवातोद्भवानांनाशायालं वज्रकं वज्रतुल्यम् ८०
एरण्डतार्क्ष्यघन नीपकदम्बभार्गी कम्पिल्लवेल्ल फलिनीसुरवारुणीभिः
निर्गुण्ड्य रुष्करसुराह्वसुवर्णदुग्धा श्रीवेष्टगुग्गुलु शिलापटुतालविश्वैः ८१
तुल्यस्नुगर्कदुग्धं सिद्धं तैलं स्मृतं महावज्रम्
अतिशयितवज्रकगुणं श्वित्रार्शोग्रन्थिमालाघ्नम् ८२
कुष्ठाश्वमारभृङ्गार्कमूत्र स्नुक्क्षीरसैन्धवैः
तैलं सिद्धं विषावापमभ्यङ्गात् कुष्ठजित्परम् ८३
सिद्धं सिक्थकसिन्दूरपुरतुत्थकतार्क्ष्यजैः
कच्छूं विचर्चिकां चाशु कटुतैलं निबर्हति ८४
लाक्षा व्योषं प्रापुनाटं च बीजंसश्रीवेष्टं कुष्ठसिद्धार्थकाश्च
तक्रोन्मिश्रः स्याद्धरिद्रा च लेपो दद्रू षूक्तो मूलकोत्थं च बीजम् ८५
चित्रकशोभाञ्जनकौ गुडूच्यपामार्गदेवदारूणि
खदिरो धवश्च लेपः श्यामा दन्ती द्र वन्ती च ८६
लाक्षारसाञ्जनैलाः पुनर्नवा चेति कुष्ठिनां लेपाः
दधिमण्डयुताः पादैः षट् प्रोक्ता मारुतकफघ्नाः ८७
जलवाप्यलोहकेसरपत्रप्लवचन्दनमृणालानि
भागोत्तराणि सिद्धं प्रलेपनं पित्तकफकुष्ठे ८८
तिक्तघृतैर्धौतघृतैरभ्यङ्गो दह्यमानकुष्ठेषु
तैलैश्चन्दनमधुकप्रपौण्डरीकोत्पलयुतैश्च ८९
क्लेदे प्रपतति चाङ्गे दाहे विस्फोटके च चर्मदले
शीताः प्रदेहसेका व्यधनविरेकौ घृतं तिक्तम् ९०
खदिरवृषनिम्बकुटजाःश्रेष्ठाकृमिजित्पटोलमधुपर्ण्यः
अन्तर्बहिः प्रयुक्ताः कृमिकुष्ठनुदः सगोमूत्राः ९१
वातोत्तरेषु सर्पिर्वमनं श्लेष्मोत्तरेषु कुष्ठेषु
पित्तोत्तरेषु मोक्षो रक्तस्य विरेचनं चाग्रे ९२
ये लेपाः कुष्ठानां युज्यन्ते निर्हृतास्रदोषाणाम्
संशोधिताशयानां सद्यः सिद्धिर्भवति तेषाम् ९३
दोषे हृतेऽपनीते रक्ते बाह्यान्तरे कृते शमने
स्नेहे च कालयुक्ते न कुष्ठमतिवर्तते साध्यम् ९४
बहुदोषः संशोध्यः कुष्ठी बहुशोऽनुरक्षता प्राणान्
दोषे ह्यतिमात्रहृते वायुर्हन्यादबलमाशु ९५
पक्षात्पक्षाच्छर्दनान्यभ्युपे यान्मासान्मासाच्छोधनान्यप्य धस्तात्
शुद्धिर्मूध्नि स्यात्त्रिरात्रात्त्रिरात्रात् षष्ठे षष्ठे मास्यसृङ्मोक्षणं च ९६
यो दुर्वान्तो दुर्विरिक्तोऽथवा स्यात् कुष्ठी दोषैरुद्धतैर्व्याप्यतेऽसौ
निःसन्देहं यात्यसाध्यत्वमेवं तस्मात् कृत्स्नान्निर्हरेदस्य दोषान् ९७
व्रतदमयमसेवा त्यागशीलाभियोगो द्विजसुरगुरुपूजा सर्वसत्त्वेषु मैत्री
शिवशिवसुततारा भास्कराराधनानि प्रकटितमलपापं कुष्ठमुन्मूलयन्ति ९८
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां चतुर्थे
चिकित्सितस्थानेकुष्ठचिकित्सितं नामैकोनविंशोऽध्यायः १९

विंशोऽध्यायः
अथातः श्वित्रकृमिचिकित्सितं व्याख्यास्यामः
इति ह स्माहुरात्रेयादयो महर्षयः
कुष्ठादपि बीभत्सं यच्छीघ्रतरं च यात्यसाध्यत्वम्
श्वित्रमतस्तच्छान्त्यै यतेत दीप्ते यथा भवने १
संशोधनं विशेषात्प्रयोजयेत्पूर्वमेव देहस्य
श्वित्रे स्रंसनमग्र्यं मलयूरस इष्यते सगुडः २
तं पीत्वाऽभ्यक्तनुर्यथाबलं सूर्यपादसन्तापम्
सेवेत विरिक्ततनुस्त्र्यहं पिपासुः पिबेत्पेयाम् ३
श्वित्रेऽङ्गे ये स्फोटा जायन्ते कण्टकेन तान् भिन्द्यात्
स्फोटेषु निःस्रुतेषु प्रातः प्रातः पिबेत् त्रिदिनम् ४
मलयूमसनं प्रियङ्गूं शतपुष्पां चाम्भसा समुत्क्वाथ्य
पालाशं वा क्षारं यथाबलं फाणितोपेतम् ५
फल्ग्वक्षवृक्षवल्कलनिर्यूहेणेन्दुराजिकाकल्कम्
पीत्वोष्णस्थितस्य जाते स्फोटे तक्रेण भोजनं निर्लवणम् ६
गव्यं मूत्रं चित्रकव्योषयुक्तं सर्पिःकुम्भे स्थापितं क्षौद्र मिश्रम्
पक्षादूर्ध्वं श्वित्रिणा पेयमेतत् कार्यं चास्मै कुष्ठदृष्टं विधानम् ७
मार्कवमथवा स्वादेद्भृष्टं तैलेन लोहपात्रस्थम्
बीजकशृतं च दुग्धं तदनु पिबेच्छिवत्रनाशाय ८
पूतीकार्कव्याधिघातस्नुहीनां मूत्रे पिष्टाः पल्लवा जातिजाश्च
घ्नन्त्यालेपाच्छिवत्रदुर्नामदद्रू पामाकोठान् दुष्टनाडीव्रणांश्च ९
द्वैपं दग्धं चर्म मातङ्गजं वा श्वित्रे लेपस्तैलयुक्तो वरिष्ठः
पूतिःकीटो राजवृक्षोद्भवेन क्षारेणाक्तः श्वित्रमेकोऽपि हन्ति १०
रात्रौ गोमूत्रे वासितान् जर्जराङ्गा नह्नि च्छायायां शोषयेत्स्फोटहेतून्
एवं वारांस्त्रीस्तैस्ततः श्लक्ष्णपिष्टैः स्नुह्याः क्षीरेण श्वित्रनाशाय लेपः ११
अक्षतैलद्रुता लेपः कृष्णसर्पोद्भवा मषी
शिखिपित्तं तथा दग्धं ह्रीबेरं वा तदाप्लुतम् १२
कुडवोऽवल्गुजबीजाद्धरितालचतुर्थभागसम्मिश्रः
मूत्रेण गवां पिष्टः सवर्णकरणं परं श्वित्रे १३
क्षारे सुदग्धे गजलिण्डजे च गजस्य मूत्रेणपरिस्रुते च
द्रो णप्रमाणे दशभागयुक्तं दत्त्वा पचेद्बीजमवल्गुजानाम् १४
श्वित्रं जयेच्चिक्कणतां गतेन तेन प्रलिम्पन् बहुशः प्रघृष्टम्
कुष्ठं मषं वा तिलकालकं वा यद्वा व्रणे स्यादधिमांसजातम् १५
भल्लातकं द्वीपिसुधार्कमूलंगुञ्जाफलं त्र्यूषणशङ्खचूर्णम्
तुत्थं सकुष्ठं लवणानि पञ्चक्षारद्वयं लाङ्गलिकां च पक्त्वा १६
स्नुगर्कदुग्धे घनमायसस्थं शलाकया तद्विदधीत लेपम्
कुष्ठे किलासे तिलकालकेषु मषेषु दुर्नामसु चर्मकीले १७
शुद्ध्या शोणितमोक्षैर्विरूक्षणैर्भक्षणैश्च सक्तूनाम्
श्वित्रं कस्यचिदेव प्रशाम्यति क्षीणपापस्य १८
इति श्वित्रचिकित्सितम्
अथ कृमिचिकित्सितम्
स्निग्धस्विन्ने गुडक्षीरमत्स्याद्यैः कृमिणोदरे
उत्क्लेशितकृमिकफे शर्वरीं तां सुखोषिते १९
सुरसादिगणं मूत्रे क्वाथयित्वाऽधवारिणि
तं कषायं कणागालकृमिजित्कल्कयोजितम् २०
सतैलस्वर्जिकाक्षारं युञ्ज्याद्बस्तिं ततोऽहनि
तस्मिन्नेव निरूढं तं पाययेत विरेचनम् २१
त्रिवृत्कल्कं फलकणाकषायालोडितं ततः
ऊर्ध्वांधःशोधिते कुर्यात्पञ्चकोलयुतं क्रमम् २२
कटुतिक्तकषायाणां कषायैः परिषेचनम्
काले विडङ्गतैलेन ततस्तमनुवासयेत् २३
शिरोरोगनिषेधोक्त माचरेन्मूर्धगेष्वनु
उद्रि क्ततिक्तकटुकमल्पस्नेहं च भोजनम् २४
विडङ्गकृष्णामरिचपिप्पली मूलशिग्रुभिः
पिबेत्सस्वर्जिकाक्षारैर्यवागूं तक्रसाधिताम् २५
रसं शिरीषकिणिहीपारिभद्र ककेम्बुकात्
पलाशबीजपत्तूरपूतिकाद्वा पृथक् पिबेत् २६
सक्षौद्रं सुरसादीन् वा लिह्यात्क्षौद्र युतान् पृथक्
शतकृत्वोऽश्वविट्चूर्णं विडङ्गक्वाथभावितम् २७
कृमिमान् मधुना लिह्याद्भावितं वा वरारसैः
शिरोगतेषु कृमिषु चूर्णं प्रधमनं च तत् २८
आखुकर्णीकिसलयैः सुपिष्टैः पिष्टमिश्रितैः
पक्त्वा पूपलिकां खादेद्धान्याम्लं च पिबेदनु २९
सपञ्चकोललवणमसान्द्रं तक्रमेव वा
नीपमार्कवनिर्गुण्डीपल्लवेष्वप्ययं विधिः ३०
विडङ्गचूर्णमिश्रैर्वा पिष्टैर्भक्ष्यान् प्रकल्पयेत्
विडङ्गतण्डुलैर्युक्तमर्धांशैरातपे स्थितम् ३१
दिनमारुष्करं तैलं पाने बस्तौ च योजयेत्
सुराह्वसरलस्नेहं पृथगेवं च कल्पयेत् ३२
पुरीषजेषु सुतरां दद्याद्बस्ति विरेचने
शिरोविरेकं वमनं शमनं कफजन्मसु ३३
रक्तजानां प्रतीकारं कुर्यात्कुष्ठ चिकित्सितात्
इन्द्र लुप्तविधिश्चात्र विधेयो रोमभोजिषु ३४
क्षीराणि मांसानि घृतं गुडं च दधीनि शाकानि च पर्णवन्ति
समासतोऽम्लान्मधुरान् रसांश्चकृमीन् जिहासुः परिवर्जयेत ३५
इतिश्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां चतुर्थे
चिकित्सितस्थाने श्वित्रकृमिचिकित्सितं नाम विंशोऽध्यायः २०

एकविंशोऽध्यायः
अथातो वातव्याधिचिकित्सितं व्याख्यास्यामः
इति ह स्माहुरात्रेयादयो महर्षयः
केवलं निरुपस्तम्भमादौ स्नेहैरुपाचरेत्
वायुं सर्पिर्वसामज्जतैलपानैर्नरं ततः १
स्नेहक्लान्तं समाश्वास्य पयोभिः स्नेहयेत्पुनः
यूषैर्ग्राम्योदकानूपरसैर्वा स्नेहसंयुतैः २
पायसैः कृसरैः साम्ललवणैः सानुवासनैः
नावनैस्तर्पणैश्चान्नैः सुस्निग्धैः स्वेदयेत्ततः ३
स्वभ्यक्तं स्नेहसंयुक्तैः शङ्कराद्यैः पुनः पुनः
स्नेहाक्तं स्विन्नमङ्गं तु वक्रं स्तब्धं सवेदनम् ४
यथेष्टमानामयितुं सुखमेव हि शक्यते
शुष्काण्यपि हि काष्ठानि स्नेहस्वेदोपपादनैः ५
शक्यं कर्मण्यतां नेतुं किमु गात्राणि जीवताम्
हर्षतोदरुगायामशोफ स्तम्भग्रहादयः ६
स्विन्नस्याशु प्रशाम्यन्ति मार्दवं चोपजायते
स्नेहश्च धातून् संशुष्कान् पुष्णात्याशूपयोजितः ७
बलमग्निबलं पुष्टिं प्राणांश्चास्याभिवर्धयेत्
असकृत्तं पुनः स्नेहैः स्वेदैश्च प्रतिपादयेत् ८
तथा स्नेहमृदौ कोष्ठे न तिष्ठन्त्यनिलामयाः
यद्येतेन सदोषत्वात्कर्मणा न प्रशाम्यति ९
मृदुभिः स्नेहसंयुक्तैर्भेषजैस्तं विशोधयेत्
घृतं तिल्वकसिद्धं वा सातलासिद्धमेव वा १०
पयसैरण्डतैलं वा पिबेद्दोषहरं शिवम्
स्निग्धाम्ललवणोष्णाद्यैराहारैर्हि मलश्चितः ११
स्रोतो बद्ध्वाऽनिलं रुन्ध्यात्तस्मात्तमनुलोमयेत्
दुर्बलो योऽविरेच्यः स्यात्तं निरूहैरुपाचरेत् १२
दीपनैः पाचनीयैर्वा भोज्यैर्वा तद्युतैर्नरम्
संशुद्धस्योत्थिते चाग्नौ स्नेहस्वेदौ पुनर्हितौ १३
आमाशयगते वायौ वमितप्रतिभोजिते
सुखाम्बुना षड्धरणं वचादिं वा प्रयोजयेत् १४
सन्धुक्षितेऽग्नौ परतो विधिः केवलवातिकः
मत्स्यान्नाभिप्रदेशस्थे सिद्धान्बिल्वशलाटुभिः १५
बस्तिकर्म त्वधोनाभेः शस्यते चावपीडकः
कोष्ठगे क्षारचूर्णाद्या हिताः पाचनदीपनाः १६
हृत्स्थे पयः स्थिरासिद्धम् शिरोबस्तिः शिरोगते
स्नैहिकं नावनं धूमः श्रोत्रादीनां च तर्पणम् १७
स्वेदाभ्यङ्गनिवातानि हृद्यं चान्नं त्वगाश्रिते
शीताः प्रदेहा रक्तस्थे विरेको रक्तमोक्षणम् १८
विरेको मांसमेदःस्थे निरूहाः शमनानि च
बाह्याभ्यन्तरतः स्नेहैरस्थिमज्जगतं जयेत् १९
प्रहर्षोऽन्न च शुक्रस्थे बलशुक्रकरं हितम्
विबद्धमार्गं दृष्ट्वा तु शुक्रं दद्याद्विरेचनम् २०
विरिक्तं प्रतिभुक्तं च पूर्वोक्तां कारयेत्क्रियाम्
गर्भे शुष्के तु वातेन बालानां च विशुष्यताम् २१
सिताकाश्मर्यमधुकैः सिद्धमुत्थापने पयः
स्नावसन्धिशिराप्राप्ते स्नेहदाहोपनाहनम् २२
तैलं सङ्कुचितेऽभ्यङ्गो माषसैन्धवसाधितम्
आगारधूमलवणतैलैर्लेपः स्रुतेऽसृजि २३
सुप्तेऽङ्गे वेष्टयुक्ते तु कर्तव्यमुपनाहनम्
अथापतानकेनार्तमस्रस्ताक्षमवेपनम् २४
अस्तब्धमेढ्रमस्वेदं बहिरायामवर्जितम्
अखट्वाघातिनं चैनं त्वरितं समुपाचरेत् २५
तत्र प्रागेव सुस्निग्धस्विन्नाङ्गे तीक्ष्णनावनम्
स्रोतोविशुद्धये युञ्ज्यादच्छपानं ततो घृतम् २६
विदार्यादिगणक्वाथदधिक्षीररसैः शृतम्
नातिमात्रं तथा वायुर्व्याप्नोति सहसैव वा २७
कुलत्थयवकोलानि भद्र दार्वादिकं गणम्
निःक्वाथ्यानूपमांसं च तेनाम्लैः पयसाऽपि च २८
स्वादुस्कन्धप्रतीवापं महास्नेहं विपाचयेत्
सेकाभ्यङ्गावगाहान्नपाननस्यानुवासनैः २९
स हन्ति वातं ते ते च स्नेहस्वेदाः सुयोजिताः
वेगान्तरेषु मूर्धानमसकृच्चास्य रेचयेत् ३०
अवपीडैः प्रधमनैस्तीक्ष्णैः श्लेष्मनिबर्हणैः
श्वसनासु विमुक्तासु तथा संज्ञां स विन्दति ३१
सौवर्चलाभयाव्योषसिद्धं सर्पिश्चलेऽधिके ३१॥१२
पलाष्टकं तिल्वकतो वरायाःप्रस्थं पलांशं गुरुपञ्चमूलम्
सैरण्डसिंहीत्रिवृतं घटेऽपा पक्त्वा पचेत्पादशृतेन तेन ३२
दध्नः पात्रे यावशूकात्त्रिबिल्वैः सर्पिःप्रस्थं हन्ति तत्सेव्यमानम्
दुष्टान् वातानेकसर्वाङ्गसंस्थान् योनिव्यापद्गुल्मवर्ध्मोदरं च ३३
विधिस्तिल्वकवज्ज्ञेयो रम्यकाशोकयोरपि ३४
चिकित्सितमिदं कुर्याच्छुद्धवातापतानके
संसृष्टदोषे संसृष्टं चूर्णयित्वा कफान्विते ३५
तुम्बरूण्यभया हिङ्गु पौष्करं लवणत्रयम्
यवक्वाथाम्बुना पेयं हृत्पार्श्वार्त्यपतन्त्रके ३६
हिङ्गु सौवर्चलं शुण्ठी दाडिमं साम्लवेतसम्
पिबेद्वा श्लेष्मपवनहृद्रो गोक्तं च शस्यते ३७
आयामयोरर्दितवद्बाह्याभ्यन्तरयोः क्रिया
तैलद्रो ण्यां च शयनमान्तरोऽत्र सुदुस्तरः ३८
विवर्णदन्तवदनः स्रस्ताङ्गो नष्टचेतनः
प्रस्विद्यंश्च धनुष्कम्भी दशरात्रं न जीवति ३९
वेगेष्वतोऽन्यथा जीवेन्मन्देषु विनतो जडः
खञ्जः कुणिः पक्षहतः पङ्गुलो विकलोऽथवा ४०
हनुस्रंसे हनू स्निग्धस्विन्नौ स्वस्थानमानयेत्
उन्नामयेच्च कुशलश्चिबुकं विवृते मुखे ४१
नामयेत्संवृते शेषमेकायामवदाचरेत्
जिह्वास्तम्भे यथावस्थं कार्यं वातचिकित्सितम् ४२
अर्दिते नावनं मूर्ध्नि तैलं श्रोत्राक्षितर्पणम्
सशोफे वमनं दाहरागयुक्ते सिराव्यधः ४३
स्नेहनं स्नेहसंयुक्तं पक्षाघाते विरेचनम्
अवबाहौ हितं नस्यं स्नेहश्चोत्तरभक्तिकः ४४
ऊरुस्तम्भे तु न स्नेहो न च संशोधनं हितम्
श्लेष्माममेदोबाहुल्याद्युक्त्या तत्क्षपणान्यतः ४५
कुर्याद्रू क्षोपचारश्च यवश्यामाककोद्र वाः
शाकैरलवणैः शस्ताः किञ्चित्तैलैर्जलैः शृतैः ४६
जाङ्गलैरघृतैर्मांसै र्मध्वम्भोरिष्टपायिनः
वत्सकादिर्हरिद्रा दिर्वचादिर्वा ससैन्धवः ४७
आढ्यवाते सुखाम्भोभिः पेयः षड्धरणोऽथवा
लिह्यात्क्षौद्रे ण वा श्रेष्ठाचव्यतिक्ताकणाघनान् ४८
कल्कं समधु वा चव्यपथ्याग्निसुरदारुजम्
मूत्रैर्वा शीलयेत्पथ्यां गुग्गुलुं गिरिसम्भवम् ४९
व्योषाग्निमुस्तत्रिफलाविडङ्गैर्गुग्गुलुं समम्
खादन् सर्वान् जयेद्व्याधीन् मेदःश्लेष्मामवातजान् ५०
शाम्यत्येवं कफाक्रान्तः समेदस्कः प्रभञ्जनः
क्षारमूत्रान्वितान् स्वेदान् सेकानुद्वर्तनानि च ५१
कुर्याद्दिह्याच्च मूत्राढ्यैः करञ्जफलसर्षपैः
मूलैर्वाऽप्यर्कतर्कारीनिम्बजैः ससुराह्वयैः ५२
सक्षौद्र सर्षपापक्वलोष्ट वल्मीकमृत्तिकैः
कफक्षयार्थं व्यायामे सह्ये चैनं प्रवर्तयेत् ५३
स्थलान्युल्लङ्घयेन्नारीः शक्तितः परिशीलयेत्
स्थिरतोयं सरः क्षेमं प्रतिस्रोतो नदीं तरेत् ५४
श्लेष्ममेदःक्षये चात्र स्नेहादीनवचारयेत्
स्थानदूष्यादि चालोच्य कार्या शेषेष्वपि क्रिया ५५
सहचरं सुरदारु सनागरं क्वथितमम्भसि तैलविमिश्रितम्
पवनपीडितदेहगतिः पिबन् द्रुतविलम्बितगो भवतीच्छया ५६
रास्नामहौषधद्वीपि पिप्पलीशठिपौष्करम्
पिष्ट्वा विपाचयेत्सर्पिर्वातरोगहरं परम् ५७
निम्बामृतावृषपटोल निदिग्धिकानां भागान् पृथक् दश पलान् विपचेद्घटेऽपाम्
अष्टांशशेषितरसेन पुनश्च तेन प्रस्थं घृतस्यविपचेत्पिचुभागकल्कैः ५८
पाठाविडङ्गसुरदारु गजोपकुल्या द्विक्षारनागरनिशामिशि चव्यकुष्ठैः
तेजोवतीमरिचवत्सकदीप्यकाग्नि रोहिण्यरुष्करवचा कणमूलयुक्तैः ५९
मञ्जिष्ठयाऽतिविषया विषया यवान्या संशुद्धगुग्गुलुपलैरपि पञ्चसङ्ख्यैः
तत्सेवितं विधमति प्रबलं समीरं सन्ध्यस्थिमज्जगतमप्यथ कुष्ठमीदृक् ६०
नाडीव्रणार्बुद भगन्दरगण्डमाला जत्रूर्ध्वसर्वगद गुल्मगुदोत्थमेहान्
यक्ष्मारुचिश्वसनपीन सकासशोफ हृत्पाण्डुरोगमद विद्र धिवातरक्तम् ६१
बलाबिल्वशृते क्षीरे घृतमण्डं विपाचयेत्
तस्य शुक्तिः प्रकुञ्चो वा नस्यं वाते शिरोगते ६२
तद्वत्सिद्धा वसा नक्रमत्स्यकूर्मचुलूकजा
विशेषेण प्रयोक्तव्या केवले मातरिश्वनि ६३
जीर्णं पिण्याकं पञ्चमूलं पृथक् च
क्वाथ्यं क्वाथाभ्यामेकतस्तैलमाभ्याम्
क्षीरादष्टांशं पाचयेत्तेन पानाद्वाता
नश्येयुः श्लेष्मयुक्ता विशेषात् ६४
प्रसारिणीतुलाक्वाथे तैलप्रस्थं पयःसमम्
द्विमेदामिशिमञ्जिष्ठाकुष्ठरास्नाकुचन्दनैः ६५
जीवकर्षभकाकोली युगलामरदारुभिः
कल्कितैर्विपचेत्सर्व मारुतामयनाशनम् ६६
समूलशाखस्य सहाचरस्य तुलां समेतां दशमूलतश्च
पलानि पञ्चाशदभीरुतश्च पादावशेषं विपचेद्वहेऽपाम् ६७
तत्र सेव्यनखकुष्ठहिमैला स्पृक्प्रियङ्गुनलिकाम्बुशिलाजैः
लोहितानलदलोहसुराह्वैः कोपनामिशितुरुष्कनतैश्च ६८
तुल्यक्षीरं पालिकैस्तैलपात्रं सिद्धं कृछ्रान् शीलितंहन्ति वातान्
कम्पाक्षेपस्तम्भ शोषादियुक्तान् गुल्मोन्मादौपीनसं योनिरोगान् ६९
सहाचरतुलायास्तु रसे तैलाढकं पचेत्
मूलकल्काद्दशपलं पयो दत्त्वा चतुर्गुणम् ७०
अथवा नतषड्ग्रन्थास्थिराकुष्ठसुराह्वयात्
सैलानलदशैलेयशताह्वारक्तचन्दनात् ७१
सिद्धेऽस्मिन् शर्कराचूर्णादष्टादशपलं क्षिपेत्
भेडस्य सम्मतं तैलं तत्कृच्छ्राननिलामयान् ७२
वातकुण्डलिकोन्मादगुल्मवर्ध्मादिकान् जयेत्
बलाशतं छिन्नरुहापादं रास्नाष्टभागिकम् ७३
जलाढकशते पक्त्वा शतभागस्थिते रसे
दधिमस्त्विक्षुनिर्यासशुक्तैस्तैलाढकं समैः ७४
पचेत्साजपयोर्धांशं कल्कैरेभिः पलोन्मितैः
शठीसरलदार्वेला मञ्जिष्ठागुरुचन्दनैः ७५
पद्मकातिबलामुस्ता शूर्पपर्णीहरेणुभिः
यष्ट्याह्वसुरसव्याघ्र नखर्षभकजीवकैः ७६
पलाशरसकस्तूरी नलिकाजातिकोशकैः
स्पृक्काकुङ्कुमशैलेय जातीकटुफलाम्बुभिः ७७
त्वक्कुन्दरुककर्पूरतुरुष्क श्रीनिवासकैः
लवङ्गनखकङ्कोल कुष्ठमांसीप्रियङ्गुभिः ७८
स्थौणेयतगरध्याम वचामदनकप्लवैः
सनागकेसरैः सिद्धे दद्याच्चात्रावतारिते ७९
पत्रकल्कं ततः पूतं विधिना तत्प्रयोजितम्
कासंश्वासं ज्वरं छर्दिं मूर्च्छां गुल्मक्षतक्षयान् ८०
प्लीहशोषावपस्मारमलक्ष्मीं च प्रणाशयेत्
बलातैलमिदं श्रेष्ठं वातव्याधिविनाशनम् ८१
पाने नस्येऽन्वासनेऽभ्यञ्जने च स्नेहाः काले सम्यगेते प्रयुक्ताः
दुष्टान् वातानाशु शान्तिं नयेयुर्वन्ध्या नारीः पुत्रभाजश्च कुर्युः ८२
स्नेहस्वेदैर्द्रुतः श्लेष्मा यदा पक्वाशये स्थितः
पित्तं वा दर्शयेद्रू पं बस्तिभिस्तं विनिर्जयेत् ८३
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां चतुर्थे
चिकित्सितस्थानेवातव्याधिचिकित्सितं नाम एकविंशोऽध्यायः२१

द्वाविंशोऽध्यायः
अथातो वातशोणितचिकित्सितं व्याख्यास्यामः
इति ह स्माहुरात्रेयादयो महर्षयः
वातशोणितिनो रक्तं स्निग्धस्य बहुशो हरेत्
अल्पाल्पं पालयन् वायुं यथादोषं यथाबलम् १
रुग्रागतोददाहेषु जलौकोभिर्विनिर्हरेत्
शृङ्गतुम्बैश्चिमिचिमाकण्डूरुग्दूयनान्वितम् २
प्रच्छानेन सिराभिर्वा देशाद्देशान्तरं व्रजत्
अङ्गग्लानौ तु न स्राव्यं रूक्षे वातोत्तरे च यत् ३
गम्भीरं श्वयथुं स्तम्भं कम्पं स्नायुसिरामयान्
ग्लानिमन्यांश्च वातोत्थान् कुर्याद्वायुरसृक्क्षयात् ४
विरेच्यः स्नेहयित्वा तु स्नेहयुक्तैर्वि रेचनैः
वातोत्तरे वातरक्ते पुराणं पाययेद्घृतम् ५
श्रावणीक्षीरकाकोलीक्षीरिणीजीवकैः समैः
सिद्धं सर्षभकैः सर्पिः सक्षीरं वातरक्तनुत् ६
द्रा क्षामधूकवारिभ्यां सिद्धं वा ससितोपलम्
घृतं पिबेत्तथा क्षीरं गुडूचीस्वरसे शृतम् ७
तैलं पयः शर्करां च पाययेद्वा सुमूर्च्छितम्
बलाशतावरीरास्नादशमूलैः सपीलुभिः ८
श्यामैरण्डस्थिराभिश्च वातार्तिघ्नं शृतं पयः
धारोष्णं मूत्रयुक्तं वा क्षीरं दोषानुलोमनम् ९
पैत्ते पक्त्वा वरीतिक्तापटोलत्रिफलामृताः
पिबेद्घृतं वा क्षीरं वा स्वादुतिक्तकसाधितम् १०
क्षीरेणैरण्डतैलं च प्रयोगेण पिबेन्नरः
बहुदोषो विरेकार्थं जीर्णे क्षीरौदनाशनः ११
कषायमभयानां वा पाययेद्घृतभर्जितम्
क्षीरानुपानं त्रिवृताचूर्णं द्रा क्षारसेन वा १२
निर्हरेद्वा मलं तस्य सघृतैः क्षीरबस्तिभिः
न हि बस्तिसमं किञ्चिद्वातरक्तचिकित्सितम् १३
विशेषात्पायुपार्श्वोरुपर्वास्थि जठरार्तिषु
मुस्ताधात्रीहरिद्रा णां पिबेत्क्वाथं कफोल्बणे १४
सक्षौद्रं त्रिफलाया वा गुडूचीं वा यथातथा
यथार्हस्नेहपीतं च वामितं मृदु रूक्षयेत् १५
त्रिफलाव्योषपत्रैलात्वक्क्षीरीचित्रकं वचाम्
विडङ्गं पिप्पलीमूलं लोमशां वृषकं त्वचम् १६
ऋद्धिं लाङ्गलिकीं चव्यं समभागानि पेषयेत्
कल्येलिप्त्वाऽयसीं पात्रीं मध्याह्ने भक्षयेदिदम् १७
वातास्रे सर्वदोषेऽपि परं शूलान्विते हितम्
कोकिलाक्षकनिर्यूहः पीतस्तच्छाकभोजिना १८
कृपाभ्यास इव क्रोधं वातरक्तं नियच्छति
पञ्चमूलस्य धात्र्या वा रसैर्लेलीतकीं वसाम् १९
खुडं सुरूढमप्यङ्गे ब्रह्मचारी पिबन् जयेत्
इत्याभ्यन्तरमुद्दिष्टं कर्म वाह्यमतः परम् २०
आरनालाढके तैलं पादसर्जरसं सृतम्
प्रभूते खजितं तोये ज्वरदाहार्तिनुत्परम् २१
समधूच्छिष्टमञ्जिष्ठं ससर्जरससारिवम्
पिण्डतैलं तदभ्यङ्गाद्वातरक्तरुजापहम् २२
दशमूलशृतं क्षीरं सद्यः शूलनिवारणम्
परिषेकोऽनिलप्राये तद्वत्कोष्णेन सर्पिषा २३
स्नेहैर्मधुरसिद्धैर्वा चतुर्भिः परिषेचयेत्
स्तम्भाक्षेपकशूलार्तं कोष्णैर्दाहे तु शीतलैः २४
तद्वद्गव्याविकच्छागैः क्षीरैस्तैलविमिश्रितैः
निःक्वाथैर्जीवनीयानां पञ्चमूलस्य वा लघोः २५
द्रा क्षेक्षुरसमद्यानि दधिमस्त्वम्लकाञ्जिकम्
सेकार्थं तण्डुलक्षौद्र शर्कराम्भश्च शस्यते २६
प्रियाः प्रियंवदा नार्यश्चन्दनार्द्र करस्तनाः
स्पर्शशीताः सुखस्पर्शा घ्नन्ति दाहं रुजं क्लमम् २७
सरागे सरुजे दाहे रक्तं हृत्वा प्रलेपयेत्
प्रपौण्डरीकमञ्जिष्ठा दार्वीमधुकचन्दनैः २८
सितोपलैरकासक्तु मसूरोशीरपद्मकैः
लेपो रुग्दाहवीसर्परागशोफनिबर्हणः २९
वातघ्नैः साधितः स्निग्धः कृशरो मुद्गपायसः
तिलसर्षपपिण्डैश्च शूलघ्नमुपनाहनम् ३०
औदकप्रसहानूपवेसवाराः सुसंस्कृताः
जीवनीयौषधैः स्नेहयुक्ताः स्युरुपनाहने ३१
स्तम्भतोदरुगायाम शोफाङ्गग्रहनाशनाः
जीवनीयौषधैः सिद्धा सपयस्का वसाऽपि वा ३२
घृतं सहचरान्मूलं जीवन्ती छागलं पयः
लेपः पिष्टास्तिलास्तद्वद्भृष्टाः पयसि निर्वृताः ३३
क्षीरपिष्टक्षुमां लेपमेरण्डस्य फलानि वा
कुर्याच्छूलनिवृत्त्यर्थं शताह्वां वाऽनिलेऽधिके ३४
मूत्रक्षारसुरापक्वं घृतमभ्यञ्जने हितम्
सिद्धं समधु शुक्तं वा सेकाभ्यङ्गे कफोत्तरे ३५
गृहधूमो वचा कुष्ठं शताह्वा रजनीद्वयम्
प्रलेपः शूलनुद्वातरक्ते वातकफोत्तरे ३६
मधुशिग्रोर्हितं तद्वद्बीजं धान्याम्लसंयुतम्
मुहूर्तलिप्तमम्लैश्च सिञ्चेद्वातकफोत्तरे ३७
उत्तानं लेपनाभ्यङ्गपरिषेकावगाहनैः
विरेकास्थापन स्नेहपानैर्गम्भीरमाचरेत् ३८
वातश्लेष्मोत्तरे कोष्णा लेपाद्यास्तत्र शीतलैः
विदाहशोफरुक्कण्डूविवृद्धिः स्तम्भनाद्भवेत् ३९
पित्तरक्तोत्तरे वातरक्ते लेपादयो हिमाः
उष्णैः प्लोषोषरुग्रागस्वेदावदरणोद्भवः ४०
मधुयष्ट्याः पलशतं कषाये पादशेषिते
तैलाढकं समक्षीरं पचेत्कल्कैः पलोन्मितैः ४१
स्थिरातामलकीदूर्वापयस्या भीरुचन्दनैः
लोहहंसपदीमांसीद्वि मेदामधुपर्णिभिः ४२
काकोलीक्षीरकाकोलीशत पुष्पर्द्धिपद्मकैः
जीवकर्षभजीवन्तीत्वक् पत्रनखबालकैः ४३
प्रपौण्डरीकमञ्जिष्ठासारिवैन्द्री वितुन्नकैः
चतुष्प्रयोगं वातासृक्पित्तदाहज्वरार्तिनुत् ४४
बलाकषायकल्काभ्यां तैलं क्षीरसमं पचेत्
सहस्रशतपाकं तद्वातासृग्वातरोगनुत् ४५
रसायनं मुख्यतममिन्द्रि याणां प्रसादनम्
जीवनं बृंहणं स्वर्यं शुक्रासृग्दोषनाशनम् ४६
कुपिते मार्गसंरोधान्मेदसो वा कफस्य वा
अतिवृद्ध्याऽनिले शस्तं नादौ स्नेहनबृंहणम् ४७
कृत्वा तत्राढ्यवातोक्तं वातशोणितिकं ततः
भेषजं स्नेहनं कुर्याद्यच्च रक्तप्रसादनम् ४८
प्राणादिकोपे युगपद्यथोद्दिष्टं यथामयम्
यथासन्नं च भैषज्यं विकल्प्यं स्याद्यथाबलम् ४९
नीते निरामतां सामे स्वेदलङ्घनपाचनैः
रूक्षैश्चालेपसेकाद्यैः कुर्यात्केवलवातनुत् ५०
शोषाक्षेपणसङ्कोच स्तम्भस्वपनकम्पनम्
हनुस्रंसोऽदितं खाञ्ज्यं पाङ्गुल्यं खुडवातता ५१
सन्धिच्युतिः पक्षवधो मेदोमज्जास्थिगा गदाः
एते स्थानस्य गाम्भीर्यात्सिध्येयुर्यत्नतो नवाः ५२
तस्माज्जयेन्नवानेतान् बलिनो निरूपद्र वान्
वायौ पित्तावृते शीतामुष्णां च बहुशः क्रियाम् ५३
व्यत्यासाद्योजयेत्सर्पिर्जीवनीयं च पाययेत्
धन्वमांसं यवाः शालिर्विरेकः क्षीरवान् मृदुः ५४
सक्षीरा बस्तयः क्षीरं पञ्चमूलबलाशृतम्
कालेऽनुवासनं तैलैर्मधुरौषधसाधितैः ५५
यष्टीमधुबलातैलघृतक्षीरैश्च सेचनम्
पञ्चमूलकषायेण वारिणा शीतलेन वा ५६
कफावृते यवान्नानि जाङ्गला मृगपक्षिणः
स्वेदास्तीक्ष्णा निरूहाश्च वमनं सविरेचनम् ५७
पुराणसर्पिस्तैलं च तिलसर्षपजं हितम्
संसृष्टे कफपित्ताभ्यां पित्तमादौ विनिर्जयेत् ५८
कारयेद्र क्तसंसृष्टे वातशोणितिकीं क्रियाम्
स्वेदाभ्यङ्गरसाः क्षीरं स्नेहो मांसावृते हितम् ५९
प्रमेहमेदोवातघ्नमाढ्यवाते भिषग्जितम्
महास्नेहोऽस्थिमज्जस्थे पूर्वोक्तं रेतसाऽवृते ६०
अन्नावृते पाचनीयं वमनं दीपनं लघु
मूत्रावृते मूत्रलानि स्वेदाश्चोत्तरबस्तयः ६१
एरण्डतैलं वर्चःस्थे बस्तिस्नेहाश्च भेदिनः
कफपित्ताविरुद्धं यद्यच्च वातानुलोमनम् ६२
सर्वस्थानावृतेऽप्याशु तत्कार्यं मातरिश्वनि
अनभिष्यन्दि च स्निग्धं स्रोतसां शुद्धिकारणम् ६३
यापना बस्तयः प्रायो मधुराः सानुवासनाः
प्रसमीक्ष्य बलाधिक्यं मृदु कार्यं विरेचनम् ६४
रसायनानां सर्वेषामुपयोगः प्रशस्यते
शिलाह्वस्य विशेषेण पयसा शुद्धगुग्गुलोः ६५
लेहो वा भार्गवस्तद्वदेकादशसिताशितः
अपाने त्वावृते सर्वं दीपनं ग्राहि भेषजम् ६६
वातानुलोमनं कार्यं मूत्राशयविशोधनम्
इति सङ्क्षेपतः प्रोक्तमावृतानां चिकित्सितम् ६७
प्राणादीनां भिषक्कुर्याद्वितर्क्य स्वयमेव तत्
उदानं योजयेदूर्ध्वमपानं चानुलोमयेत् ६८
समानं शमयेद्विद्वांस्त्रिधा व्यानं तु योजयेत्
प्राणो रक्ष्यश्चतुर्भ्योऽपि तत्स्थितौ देहसंस्थितिः ६९
स्वं स्वं स्थानं नयेदेवं वृतान् वातान् विमार्गगान्
सर्वं चावरणं पित्तरक्तसंसर्गवर्जितम् ७०
रसायनविधानेन लशुनो हन्ति शीलितः
पित्तावृते पित्तहरं मरुतश्चानुलोमनम् ७१
रक्तावृतेऽपि तद्वच्च खुडोक्तं यच्च भेषजम्
रक्तपित्तानिलहरं विविधं च रसायनम् ७२
यथानिदानं निर्दिष्टमिति सम्यक् चिकित्सितम्
आयुर्वेदफलं स्थानमेतत्सद्योऽतिनाशनात् ७३
चिकित्सितं हितं पथ्यं प्रायश्चित्तं भिषग्जितम्
भेषजं शमनं शस्तं पर्यायैः स्मृतमौषधम् ७४
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां चतुर्थे चिकित्सितस्थाने
वातशोणितचिकित्सितं नामद्वाविंशोऽध्यायः २२
समाप्तं चेदं चतुर्थं चिकित्सितस्थानम्