वाग्व्यवहारादर्शः
चारुदेवशास्त्री

वाग्व्यवहारादर्शः
( A Mirror To Sanskrit Usage )





सोऽयं
वाक्यपदीयस्य संस्स्कर्त्रा श्रीगान्धिचरितानुवादकलाप्रस्तावतरङ्गिणी-
शब्दापशब्दविवेक-वाक्यमुक्तावली-व्याकरणचन्द्रोदयोपसर्गार्थ-
चन्द्रिकादीनामनेकेषां ग्रन्थानां निर्मात्रा व्याकरण-
महाभाष्यस्य विवरीत्रा श्रीरामकृष्णतनुजनुषा
श्रीचारुदेवेन शास्त्रिणा प्रणीतः ।




मोतीलाल बनारसीदास
दिल्ली :: पटना :: वाराणसी

पृष्ठम्:वाग्व्यवहारादर्शः.djvu/२

विषयानुक्रमणी
( पूर्वार्द्धः)

१. वाग्व्यवहारे शिष्टप्रामाण्यम्..........................................................१
२. व्यवहारः प्रधानमुपसर्जनं व्याकरणम्............................................३
३. वाक्ये क्रियापदपरिहारः..............................................................३
४. वाक्ये पदक्रमः..........................................................................५
५. लिङ्गसंख्ये..............................................................................८
६. धातोः सकर्मकत्वाकर्मकत्वे.......................................................१२
७. कारकाणां विवक्षापारतन्त्र्यम्.....................................................२०
८. लभेर्ण्यन्तकस्य द्विकर्मकत्वम्...................................................२३
९. अपादानत्वस्य विवक्षाऽविवक्षे....................................................२५
१०, यानादीनां करणत्वविवक्षा.......................................................२६
११. धात्वर्थवशा कारकपरिवृत्तिः......................................................२७
१२. अर्पयतिप्रयोगे विभक्तिनानात्वम्...............................................२८
१३. पादयतेः प्रयोगे विभक्तिवैचित्र्यम्..............................................२९
१४. अस्थाने पञ्चम्याः प्रयोगः......................................................३०
१५. शेषे षष्ठी..............................................................................३१
१६. उपपदविरहेऽपि तद्योगशिष्टा विभक्तिः.........................................३३
१७. उपपदयोगेऽशिष्टोऽपि विभक्तिनियमादिः......................................३४
१८. भावलक्षणा सप्तमी.................................................................३४
१९. विभक्त्यन्तरचिन्ता...............................................................३५
२०. इतः षण्मासात्पूर्वं बलवद् भूरकम्पतेति वाक्ये षण्मासादिति पञ्चम्या दूषणम् , पूर्वशब्दस्य चार्थविपर्यासकृत्त्वमिति तन्निरासश्च......३८
२१. अद्य षण्मासा बलवद् भुवः कम्पिताया इति इतः षण्मासे (षष्ठे मासे
वा) बलवद् भूरकम्पतेति च साधुनोर्वाक्ययोर्विषयप्रविवेकः..................३९
२२. तिङन्तेन समानप्रकृतिकस्य कर्मणोऽप्रयोगः प्रायेण.....................४०
२३. उद्देश्यविधेयभावः..................................................................४१
२४. उद्देश्यविधेयभावे लिङ्गविमर्शः................................................४५

( २ )

२५. विशेषणविशेष्यभावः..........................................................४६
२६. शतृशानचोः प्रयोगविषयः....................................................४७
२७. तुमुन्प्रयोगविषयः..............................................................४९
२८. लकारार्थचिन्ता.................................................................५१
२९. समासस्येष्टत्वानिष्टत्वे........................................................५३
३०. बहुव्रीहेश्च मत्वर्थस्य च विशेषः...........................................५४
३१. क्वचित्समासनियमः...........................................................५५
३२. क्वचित्तद्धितवृत्तेः समासवृत्तिः पूर्वविप्रतिषेधेन..........................५७
३३. प्रकीर्णकम् । प्रत्येकमित्यादीनां पदानां वाक्ये प्रयोगः.............५८
३४. औपचारिकाः प्रयोगाः........................................................६३
३५. पर्यायवचनविवेकः.............................................................६९
३६. करोतिना .सर्वधात्वर्थानुवादः क्रियते....................................८६

( अथोत्तरार्द्धः)


३७. प्रायेणार्वाचां क्वचिच्च प्राचां वाचि लक्ष्यमाणा व्यवहारातिक्रमाः,
तदपाकरणं च ..................................................................९२-१७६
(अत्र पञ्चपञ्चाशदुत्तराणि षट् शतानि वाक्यानि व्यवहारतो विविच्यन्ते)
३८. प्रथमोऽनुबन्धः.................................................................१७७
३९. द्वितीयोऽनुबन्धः................................................................२०१
४०. अशुद्धशोधनं परिबृंहणं च.................................................२०९

ॐ नमः परमात्मने

नमो भगवते पाणिनये । नमः पूर्वेभ्यः पथिकृद्भ्यः । नमः शिष्टेभ्यः ।

अभिधेयाभिधानस्य वाचि वाचि व्यवस्थितः ।
प्रकारो विद्यते लोके कश्चिदेव स्वलक्षणः ॥ १ ॥
शिष्टैः प्रमाणितः सम्यक् छीलितः पूर्वसूरिभिः ।
संस्कृतेऽपि प्रकारोऽस्ति नियतोऽसौ निरूप्यते ॥ २ ॥
प्रस्मृतः प्रायशो लोको व्यवहारं तथाविधम् ।
तस्य प्रबोधनायैषा प्रवृत्ता नो निरूपणा ॥ ३ ॥
शास्त्रेष्वधीतिनो ये च ये च व्याकृतिचुञ्चवः ।
व्यवहारं व्यतीयन्ते प्राधीतैरपि ते समम् ॥ ४ ॥
अत्र सूदाहृतिस्तोमैर्व्यवहारो निरूपितः ।
प्रचरत्सु प्रयोगेषु व्यभिचारश्च दर्शितः ॥ ५ ॥

अथ वाग्व्यवहारादर्शः

 इह वयं वाग्व्यवहारमधिकृत्य किञ्चित्प्रस्तुमः । न खलु यथा तथा प्रवर्तमानो वाचो व्यवहारो नो विमर्शस्य विषयः । सामान्येन हि तेन विमृष्टेन नार्थः । न चापि यस्याः कस्याश्चिद् वाच एव स विवक्षितः । किन्तर्हि पारम्पर्यागतः शिष्टाभ्यनुज्ञातः संस्कृतव्यपदेशभाजो दैव्या वाचो विशिष्टो व्यवहार एवाभिप्रेतः । यानि यथा वा पदानि शिष्टैरुच्चार्यन्ते तानि तथैव साधूनि भवन्ति । तथा साधुत्वमभ्युपेत्य चेतरैरप्यनुवृत्यानि भवन्तीत्यत्र पृषोदरादीनि यथोपदिष्ष्टम् (६।३।१०९) इति सूत्रकारवचनमेव मानम् । यदि शिष्टाः शब्देषु प्रमाणं किमष्टाध्याय्या क्रियते । शिष्टपरिज्ञानार्थाष्टाध्यायीति भाष्यमपि सूत्राशयं स्फारं स्फारयच्छिष्टानां वाचि प्रामाण्यमङ्गीकुरुते । के पुनः शिष्टा इत्याकाङ्क्षायामित्याहुर्भगवन्तो भाष्यकाराः--आर्यावर्ते निवासे ये ब्राह्मणाः कुम्भीधान्या अलोलुपा अगृह्यमाणकारणाः किञ्चिदन्तरेण कस्याश्चिद्विद्यायाः पारङ्गतास्तत्र भवन्तः शिष्टाः। वयं तु पश्यामः शिष्टाः खलु न केवलं पृष्ठोदरप्रकारेष्वविहितलोपागमविकारेषु शब्देष्वेव प्रमाणमपि त्वन्यत्रापि वाङ्मयेऽविशेषेणेत्यत्र निरुक्ता यदि शिष्टाः शब्देष्वित्यादिर्भाष्यकृदुक्तिरेव ज्ञापिका । शास्त्रे तावत् तिङ्कृत्तद्धितसमासैरभिधानमुक्तमर्थानाम् । तद्यथा श्राद्धे शरदः (४।३।१२)


१. स्वकुटुम्बपोषणे षडहमात्रपर्याप्तधान्याः । इति शास्त्रं शरच्छब्दाच्छ्राद्धेऽभिधेये ठञं विधत्ते । तेन शारदिकशब्दश्च निष्पद्यते । श्राद्धशब्देन चोभयमुच्यते श्रद्धावत्कर्म श्रद्धावान्पुरुषश्चइह तु श्रद्धावान् पुरुषो न गृह्यते । तत्कस्मात् । अनभिधानात् । किमिदमनभिधानं नाम । शिष्टैरप्रयुक्तत्वम् । न हि शिष्टाः श्राद्धे पुरुषे विषये शारदिकशब्दं प्रयुञ्जते । महाभागास्ते सामान्येन विहितमपि ठञं तत्रार्थे नेच्छन्ति । तेन दीव्यति खनति जयति जितम् (४।४।२) । अत्र जितमित्यर्थे सामान्येन ठग्विहितः, देवदत्तेन जितमित्यत्र न भवति, अनभिधानात्। एवमङ्गुल्या खनतीत्यत्रापि न, अनभिधानादेव । तस्येदम् (४।३।१२०) इति सामान्येनाणादयो घादयश्च विधीयन्ते । अण्युपगोरिदमौपगवम् । परं देवदत्तस्यानन्तरमित्यत्र न भवत्यण्, अनभिधानात् । समानकर्तृकेषु तुमुन् (३।३।१५८) इत्यनेनेच्छार्थेषु धातुषूपपदेषु धातुमात्रात्तुमुन्विहितः । इह कस्मान्न भवति इच्छन्करोति । अनभिधानादेव । सततशब्दाद् भावकर्मणोः ष्यञ् भवति, सन्ततात्तु नेति, कस्मात् । अनभिधानादेव । इत्यलं निदर्शनाय शिष्टप्रयोगाः प्रधानमुपसर्जनं व्याकरणमित्यस्यार्थस्य । अयमत्र सारः । शिष्टैः प्रयुक्तपूर्वा एव शब्दाः शास्त्रेण संस्क्रियन्तेऽनुशिष्यन्तेऽन्वाख्यायन्ते वा । तस्माद् व्याकरणमन्वाख्यानस्मृतिरिति संविज्ञायते । तत्रापि नेदं युज्यते वक्तुं तावन्त एव शब्दाः सन्ति यावन्तश्शास्त्रेण परिगृहीता इति । अनन्वाख्याता अपि भूरय इति तेषां साधुत्वेऽपि शिष्टा एव मानम् ।

 शिष्टा एव सर्वत्र वाग्व्यवहारे प्रमाणमिति यदुक्तमधस्तात्तत् सम्प्रति प्रसिषाधयिषामः । इदं तावद् व्यवस्थितं यां वाग्वर्तनीमनुवर्तन्ते शिष्टास्तामेवानुविवृत्सति लोकः । का नाम निरवद्या वाक्यप्रणीतिरिति शिष्टपद्धतेरेव शक्यमञ्जसा विज्ञातुम् । तत्र हि त एव प्रमाणं नेतरे । तन्मुखप्रेक्षी लोको यथाजातीयकं वाग्विन्यासं ते प्रयुञ्जते तथाजातीयकमेव स प्रमाणीकुरुते । यया विधया ते तं तमर्थं सन्दृभन्ति तामेवानुकरोति लोकः । व्याकरणे च पदान्येव संस्क्रियन्ते न वाक्यानि, तेन न तदायत्तो वाक्यसाधुत्वप्रत्ययः । वाक्यं च न केवलं साध्विष्यते साधीयश्च, साधिष्ठमपि चेष्यते । इदं च तारतम्यं शिष्टप्रयोगतोऽवसातव्यं भवति नान्यतः । अनलङ्कर्मीणं तत्र व्याकरणम् । नैतदेव । एवं नाम व्यवस्थितो वाग्व्यवहारो यत्तत्रादृतो जनः शास्त्रमपि नाद्रियते । तदेतद्भगवन्तो भाष्यकारा इत्थङ्कारं निदर्शयन्ति--देवश्चेद् वृष्टो निष्पन्नाः शालयः । तत्र भवितव्यं सम्पत्स्यन्ते शालय इति । सिद्धमेतत् । कथम् । भविष्यत्प्रतिषेधात् । यल्लोको भविष्यद्वाचिनः शब्दस्य प्रयोगं न मृष्यति । कश्चिदाह देवश्चेद्वृष्टः सम्पत्स्यन्ते शालय इति । स उच्यते मैवं वोचः, सम्पन्नाः शालय, इत्येवं ब्रूहीति (३॥३॥१३३)

 व्यवहारप्राधान्यं चाचार्याचारादपि विज्ञायते । व्यवहारपारदृश्वा व्यवहारे च परमं समादृत आचार्यः स्वेन कृतामनुशिष्टिमपि नाद्रियते । तदर्हम् (५।१।११७ ) इति सूत्रे कृद्योगलक्षणां षष्ठीमनादृत्य व्यवहारानुगां तदितिद्वितीयां प्रयुङ्क्ते, न च चिन्तयते शास्त्रैकपक्षपातिनो मामधिक्षेप्स्यन्त्यन्यदयमुपदिशत्यन्यच्चाचरतीति । परं परं ह्यस्य व्यवहारे पारवश्यम् । तच्छीलनवासनावासितान्तःकरणस्तत्र भवान् कथङ्कारं तमतीयात् । द्वितीयाव्यवहारश्चार्हशब्दयोगे तथा प्रत्यष्ठाद्यथा वश्यवाचां प्राचां मुनीनां कृतिषु यत्र तत्रायत्नतः कुतो लभ्यते । इमांस्तु प्रदेशान् स्थूलोच्चयेन निर्दिशामः -न परित्यागमर्हेयं मत्सकाशादरिन्दमेति श्रीरामायणे (१।५३।१२)। पृथ्वीराज्यमर्होऽयं नाङ्गराज्यं नरेश्वरेति भारते (आदि० १९।१२)। इन्द्रत्वमर्हो राजाऽयं तपसेत्यनुचिन्त्य वै इति च तत्रैव (आदिं० ६३

 अस्य व्यवहारस्य व्यभिचारोऽपि दृश्यत आश्चर्यमिव । तथां च मनौ (३।१५०) तान् हव्यकव्ययोर्विप्राननर्हान्मनुरब्रवीदित्यत्र यथाप्राप्तं षष्ठ्याः प्रयोगः।

वांक्ये क्रियापदपरिहारः

 यद्यप्यन्वयवन्त्यर्थवन्ति च पदानि वाक्यं भवति तथापि तत्रैकेन तिङन्तेन भवितव्यमिति नियम्यते । तच्च तिङन्तं पदं न सर्वत्र श्रूयते, क्वचिद् गम्यते चापि । क्व चेदमनुक्तमपि गंस्यते । क्वास्य परिहारो न केवलं वाक्यदुष्टये न भविष्यत्युपस्कृतये चापीति शिष्टशैलीत एव शक्यमध्यवसातुम् ।
वाग्व्यवहारादर्शः

 अस्तिर्भवन्तीपरः प्रथमपुरुषोऽप्रयुज्यमानोऽप्यस्तीति भाष्याच्छक्यतेऽनुमातुमस्तेर्लट्परकस्याप्रयोगोऽपि दोषावहो न भवतीति । कोऽसौ । का प्रवृत्तिः । एको देवः सर्वभूतेषु गूढः । असाधुदर्शी किलाऽसौ । अहो मधुरमासां दर्शनम् । अपशवो वा अन्ये गोंअश्वेभ्यः पशवो गोश्वा (तै० सं० ५।२।९ ). इत्यादिष्वप्रयोगोऽस्तेर्वाक्यस्य लाघवाय भवति माधुर्याय च । भाष्यवचने ’पुरुषग्रहणमतन्त्रम् । अन्यत्राप्यस्तेस्त्यागो न दोषाय कस्त्वं भो इत्यादिषु । परं त्यागः क्वाचित्कः प्रयोगस्तु प्रायिकः । परमस्तिरयं न शक्यो वाक्योपक्रमे परित्यक्तुम् । अस्ति पुण्यकृतामधिवासो वासवावास इव वसुधामवतीर्णः ...श्रीकण्ठो नाम जनपद इति श्रीहर्षचरिते । अन्यत्रापि धात्वन्तरस्याप्यप्रयोगमनुमन्यन्ते शिष्टाः । प्रविश, पिण्डीम् । इह भुङ्क्ष्वेति त्यक्तम् । तदन्तरेण तदर्थगतेः । इति शङ्करभगवत्पादाः, इति गुरुचरणा इत्यादिषु मतोपन्यासात्मकेषु वाक्येष्वाहुर्मन्यन्ते पश्यन्ति प्रतिजानत इत्यादि तिङन्तं गम्यमानमपि वाक्यालङ्कृतये भवति । जुषन्ते हि शिष्टास्तम्प्रकारमास्वादन्ते च रसज्ञा दोषज्ञाः । यत्रापि क्वचिद्योग्यक्रियाध्याहारो न दुष्करः, किन्तर्हि निगदसमकालं तत्तत्क्रियापदं बुद्धिमुपारोहति तत्रापि परिहरन्ति तत् प्रयोगचणाः । तद्यथा--यश्च निम्बं परशुना यश्चैनं मधुसर्पिषा । यश्चैनं गन्धमाल्येन सर्वस्य कटुरेव सः ।। अत्र च्छिनतवत्यादयः क्रिया अश्रुता अपि स्फुटावगमाः । एवम्--मा भवन्तमनलः पवनो वा वारणो मदकलः परशुर्वा । वाहिनीजलभरः कुलिशं वा स्वस्ति तेऽस्तु लतया सह वृक्ष ॥ इत्यत्रापि धाक्षीदित्यादयोऽनुक्ता अपि क्रियाः स्फुटमवभासन्त इति निरवधं वचः । अस्त्येवञ्जातीयके विषये आदिकविना कृतः क्रियापदस्य परिहारः, स दृश्यताम् - शृणु मैथिलि मद्वाक्यं मासान्द्वादश भामिनि । (रा० ३।५६।२४ ) इति । अत्र प्रतीक्षिष्य् इति शेषः सहसैवोपतिष्ठते न च यत्नं प्रतीक्षते । यश्चैवंकथने विच्छित्तिविशेषस्तस्य सहृदया अभिज्ञा इति नार्थो वाग्विग्लापनेन । संभ्रमे वाक्यकारो द्विरुक्तिं पदस्य विधत्ते । रक्ष रक्ष व्याघ्रो मामाघ्रातुमिच्छति । परं संभ्रमे तिङन्तपदपरिहारोऽपि दृश्यते । आपस्तावत् । इमा आपः। आसनं तावत् । इदमासनम् । इदमत्र तत्वं बोध्यम् । क्रियोच्चारो हि विलम्बयत्यर्थप्रतीतिं निर्दिश्यमानार्थप्रतिपत्तिं च । इष्यते चाकालहीनं प्रवृत्तिः । सा च लघुनैव न्यासेन


१. इदमत्र बीजं, बोध्यम्--सर्वपदार्थेषु चास्ति वाक्यशक्तिः । वृक्ष इत्युक्तेऽस्तीति गम्यते । न सत्तां पदार्थो व्यभिचरतीति ( योगभाष्ये ३।१७ ) ।
२. पिंण्डीमिति कर्मणा योग्यक्रियाक्षेपात् प्रकरणयवशाद् भुजिक्रियायाः प्रतीतेः सा नोक्ता ।
प्रविशेति क्रियापेक्षं कर्म गृहं नोक्तम् । उभयत्र वाक्यार्थे वाक्यैकदेशप्रयोगः ।

३: अनुष्ठानम् ।
वाक्ये पदक्रमः

शक्या न गुरुणेति सुग्रहं सुधीभिः । आपस्तावदाह्रियन्तामित्यधिककालोच्चार्यं वाक्यं समाहितस्येष्टं स्यान्न संभ्रान्तस्य । एवमपि निरनुक्रोशस्य पुत्रौ, मा चापलम् इति कुन्दमालायां सीतावचने, मा विमर्शो वसुमती भरताय प्रदीयताम्. इति श्रीरामायणे (२।३४।४४) ऽप्युक्तहेतुकृत एव क्रियापदपरिहारः। भारतेऽपि तद्धेतुकः स दृश्यते—त्वरमाणस्ततो भृत्यानासनानीत्यचोदयत् ( उद्योग० ९४।४४) । अत्रासनानि त्वर्यमाणानीच्छन् क्रियापदं परिहरति कुशलः प्रयोक्ता । क्वचिद् बलवदुक्तिकत्वाभिप्रायेण क्रियामभ्यावर्तयन्ति शिष्टा वाक्यभेदं च प्रयोजयन्तीति प्रसङ्गादुच्यते । तद्यथा भारते—अस्मान्वेत्थ परान्वेत्थ वेत्थार्थान् वेत्थ भावितुम् ( उद्योग० ७२।९२)।

 क्वाचित्कः क्रियापदपरिहारो दर्शितः । कर्तृकर्मणोरपि परिहारः क्वाचित्को व्यवहारमनुपततीति प्रसक्तानुप्रसक्तं प्रदर्श्यते- यद्यस्तमिते व्रतमुपेयात् (आप० श्रौ० ४।१।३।५ )। अत्र सूर्य इति नोक्तम् । अनुक्तौ सूत्रशैली कारंणमिति मा स्म भ्रमीः । अन्यत्रापि कर्तृपदपरिहारो दृश्यते—विद्योतमाने स्तनयत्यथो वर्षति ( गो० व्रां० पूर्वं० ३ ।१९ )। अत्र मेघ इति कर्तृपदं परिहृतम् | तदिदं बहुलं ब्राह्मणेषु । यत्र चापश्यत स वै तिरो वर्षाणि वर्षतीत्यत्र भारते ( विराट० ५।३० ) ऽपि मेघ इति कर्तृपदं पर्यहारि । श्रुत्वैव च स राजानं दर्शयामास भार्गवः (भा० आदि० ८१।१९ )। अत्रात्मानम् इति पदस्य परीहार इत्थम्भूतो व्यवहार इतिं दर्शयति । समुल्लिखद्भिरेतैर्हि त्वया शृङ्गशतैर्नृपः । क्वचिद् दृष्टोऽचलश्रेष्ठ वनेऽस्मिन्वा नलो नृपः ( भा० वन० ६४।५३ ) । अत्र द्यामिति कर्म नोक्तं, प्रसिद्धेः ।

वाक्ये पदक्रमः

 इत्थम्भूते वाक्ये कीदृशः पदानां क्रम इत्यधिकृत्य किञ्चिद् ब्रूमः , पात्रमाहर, आहर पात्रमित्येवं वाक्ये पदानां यथेष्टमभिसम्बन्धः क्रियते । तेनान्यत्रापि नियतः पदानां क्रमः कश्चिन्नास्तीत्युक्तं भवति । रामः सीतां परिणिनाय । सीतां रामः परिणिनाय । परिणिनाय रामः सीताम्। सीतां परिणिनाय राम इति रामकर्तृकः सीताकर्मको भूतानद्यतनपरोक्षवृत्तिः परिणय इत्यर्थो येन केनापि पदक्रमेण शक्यो वक्तुम् । अत्र वक्तृणां कामचारः । परमिदं प्रायिकम् । क्वचिन्नियतापि पदानुपूर्वी काचिदस्तीति नापलापमर्हति । तद्यथा-उपाख्यानोपक्रमः प्रायेणास्तिना क्रियते । अस्त्ययोध्यायां चूडामणिर्नाम क्षत्रिय इत्यादिः । अद्य सप्तवासरास्तस्येतो गतस्य। अद्य दशमो मासस्तातस्योपरतस्य (मुद्रा० ४ ) । व्यतीतः समयः (संवत्सरः)

सम्यग्वसतां वै पुरोत्तमे । कुर्वतां तस्य कर्माणि विराटस्य महीपतेः ॥ ( विराट
वाग्व्यवहारादर्शः

३१।२) । अत्राद्यशब्दविनाभावेऽपि निरुक्तस्य पदक्रमस्यानुसारः प्रव्यक्तः। अन्यत्रापि भारतेऽयमेव क्रमोऽनुसृतो भवति ।अष्टादश दिनान्यथ युद्धस्यास्य जनार्दन । वर्तमानस्य ॥ (शल्य७ २४।१७ ) । चत्वारिंशदहान्यद्य द्वे च मे निःसृतस्य वै ॥ .( शल्य० ३४।६ )। अत्र पद्यरचनावशादद्यशब्दस्य वाक्यादौ न्यासो न । एतद्वाक्यगतोऽपि पदक्रमो नियतप्राय इत्यवश्यमुररीकरणीयम् । अयमेव च क्रमोऽपरपञ्चालेषु (पञ्चापदेशे ) लोकभाषायामित्यस्य न्याय्यत्वे दृढं लिङ्गम् । अत्र हि संस्कृतं सर्वप्रथमं चिरतरं च प्रचचार । अत्रैव पाणिन्यादयो मुनयो जनिं लेभिरे । इदमेव च सारस्वतं धाम पूर्वे प्रपेदिरे वाच्यभिविनयस्य कामुकाः । तथा च कौषीतकिन आमनन्ति तस्मादुदीच्यां दिशि प्रज्ञाततरा वागुद्यते । उदञ्च उ एव यन्ति वाचं शिक्षितुं यो वा तत आगच्छति तस्य वा शुश्रूषन्त इति ( कौ० ७।६ ) । तस्मादिहत्या वाक्छैली प्रकृतं क्रमं चेदुपोद्बलयति नूनं बद्धभूमिरयं भवति ।

 यद्यपि ’यस्य येनास्ति सम्बन्धो दूरस्थेनापि तस्य सः’, इति व्यवहितविप्रकृष्टोऽपि सोऽवगम्यते, तथापि नेह निरवग्रहं प्रभवन्ति वक्तारो बक्तुम् । लोको हि वारयति । इच्छति च क्रमं कञ्चित् । अत एवाक्रमताऽस्थानस्थपदता संकीर्णता चेति दोष त्रितयं वाक्यगतं निर्दिशन्त्यालङ्कारिकाः । अक्रमता -यथा-कला च सा कान्तिमती कलावत्तस्त्वमस्य लोकस्य च नेत्रकौमुदी ( कुमार० ) । अत्र त्वमित्यस्यानन्तरं चकारो युक्तः । अस्थानस्थपदता यथा—हिंतान्न यः संश्रुणुते स किंप्रभुः ( किरात० ) । अत्र संशृणुत इत्यतः पूर्वे नञः स्थितिरुचिता । संकीर्णता यथा–चन्द्रं मुञ्च कुरङ्गाक्षि मानं पश्य नभोऽङ्गने । अत्र नभोऽङ्गने चन्द्रं पश्य मानं मुञ्चेति क्रमो युक्तः।

 वाक्ये षष्ठयन्तं विशेषणं विशेषणांन्तरेणाव्यवहितं विशेष्यात्पूर्वे प्रयुज्यत इति शिष्टव्यवहारः । सर्वगुणसम्पन्नंस्तस्य सुतः कस्य स्पृहां न जनयति । एकातपत्रं जगतः प्रभुत्वमिति कालिदासश्च । न ह्यत्र ‘जगत एकातपत्त्रं प्रभुत्वमित्येवं क्रमः शक्यो विपर्यासयितुम् । न ब्रूमो वृत्तभङ्गभयादिति। किन्तर्हि व्यवहारातिक्रमादिति। एवं हि' व्युत्क्रमेणोच्यमाने व्यवहारोऽतिक्रान्तो भवतीति । एवं सर्वैर्योषितां गुणै. रलंकृतेत्यनुक्त्वा योषितां सर्वैर्गुणैरलंकृतैति न युज्यते वक्तुंम् । किं च भवति यद्युच्येत । वैरस्यमुद्वेगो वा । स नेष्यते। अयमेवेष्टः पदक्रम इत्यत्र समासक्रमोऽपि ज्ञापकः । स्याद्भाण्डमश्वाभरणेऽमग्रे मूलवणिग्धने इति नानार्थवर्गेऽमरः । तत्र वणिजो धनं वणिग्धनमिति पूर्वं षष्ठीसमासः । ततः किंलक्षणं तदित्याकाङ्क्षायां मूलं च तद्वणिग्धनं चेति मूलवणिग्धनमिति विशेषणसमासः । अन्यत्रापि स एव

‘कक्ष्या प्रकोष्ठे हर्म्यादेः काञ्च्यां मध्येभबन्धने’ इति पठति । तत्रापि पूर्वम्
वाक्ये पदक्रमः

इभस्य बन्धनमिभबन्धनमिति षष्ठीसमासः, ततस्तन्मध्यशब्देन विशिष्यते । एवं मालविकाग्निमित्रे सर्वान्तःपुरचनिताव्यापारप्रतिनिवृत्तहृदयस्येति प्रयोगेऽपि पूर्वमन्तःपुरवनितानां व्यापारं इति षष्ठीसमासः, ततः सर्वशब्देन कर्मधारयः। रघुकाव्येऽपि प्रौढप्रियानयनविंभ्रमचेष्टितानीति समासोऽप्येवंक्रमस्याभिव्यञ्जकः ।

 बहुव्रीहौ समासेऽपि पदानां क्रमो वाक्यगतस्य क्रमविशेषस्य समर्थकः । वृतः श्रिया भास्वरसर्वदेहः ( रा० ३ सर्वशब्दस्य विशेष्यादव्यवहितपूर्वं निपातः, ततो विशेषणान्तरस्य भास्वरस्य चारुणश्च । सर्वोपसर्जनो बहुत्रीहिरिति यस्य कस्यैकतरस्य पूर्वनिपातो न्याय्यो भाति, न चैवं भवति । लोको नानुजानाति । वाक्येनाभिधाने प्राप्त एव समास आरभ्यत इति वाक्यगतः पदक्रम एव समास आश्रीयते, तस्यैव न्याय्यत्वात् । तेन वाक्येऽपि भास्वरः सर्वो देहोऽस्येति क्रमः । चारूणि सर्वाण्यङ्गान्यस्या इति च । तस्माद्वाक्ये सर्वादिभिः सर्वनामभिर्विशेष्यादव्यवहितपूर्वे निपतितव्यं विशेषणान्तरैश्च गुणवचनैस्ततो व्यवहितैरिति क्रमनैयत्यं भाति । एवं परमः स्वो धर्मोऽस्येति परमस्वधर्मे इति समासान्तेषु दीक्षितवचोऽपि वाक्येऽमुमेव क्रममनुमापयतीति दिक् ।

 पूर्ववाक्यगतेन यच्छब्देन सम्बध्यमान उत्तरवाक्यगतस्तच्छब्दस्तु प्रथमं प्रयुज्यते नाम, ततश्च समानाधिकरणं विशेषणान्तरम् , तद्यथा-प्रकृतिप्रत्ययार्थयोः षष्ठ्यर्थमात्रं तत्सम्बन्धिमात्रं च विवक्षितं यदपरं लिङ्गसंख्याप्रत्यक्षपरोक्षादिकं तत्सर्वमविवक्षितम् इति तस्येदम् इति सूत्रे काशिका । एवं च युजविद (३।२।६१सूत्रे) इत्यकारान्तस्योपादानाद्गणे येऽकारान्ता विदधातवो विद ज्ञाने विद विचारणे विद सत्तायामिति ते सर्वे गृह्यन्त इति लुग्विकरणपरिभाषाव्याख्यायां सीरदेवः ।

 अव्ययेषु तुपुनःखल्वादयो वाक्यादौ निषिद्धाः । तं तु देशं न पश्यामि यत्र भ्राता सहोदर (रा) इति साध्वी पदानुपूर्वी । ये पुनरधर्मेणैधते जनो न धर्मेणेति मते स्थितास्ते भ्रान्ताः । न खलु न खलु बाणः संनिपात्योऽग्रमस्मिन् । विनीतवेषेण प्रवेष्टव्यानि तपोवनानि नाम । जघान कंसं किल वासुदेवः । अर्हति किल कितव उपद्रवम् । इमानि बक्यानि त्वादयो नारभन्त इति साधूनि भवन्ति । अत्र ‘न पादादौ खल्वादयः’ इति काव्यालङ्कारसूत्रमप्यनुकूलम् । न भवति । गुणानुरागः खलानां केवलं प्रसिद्धिशरणानाम् । किल प्रस्नौति शशिमणिश्चन्द्रे न प्रियामुखे दृष्टे । इत्यत्रार्यायां किलेति पदमादौ प्रयुक्तम् । तच्चिन्यम् । जातुंशब्दोऽपि वाक्यादौ न प्रयुज्यते प्रायेण-न जातु कामः कामानामुपभोगेन

शाम्यति ( मनु० )। क्वचित्त्वादावपि शक्यमिदं प्रयोक्तुमित्यत्र . न जात्वपूर्वम्
वाग्व्यवहारादर्शः

(८|१।४७) इति पाणिनीयं सूत्रं लिङ्गम् । चेच्छब्दंश्च न वाक्यादौ प्रयुज्यत इति चेत्कृष्णं नंस्यसि स्वर्गे यास्यसीति न शक्यं वक्तुम्। इदं चात्रापरमवधेयम्- चेच्छब्दप्रयोग उत्तरवाक्ये तदा तर्हीत्यादि पदं न दीयते । कृष्णं चेन्नंस्यसि तदा ( तर्हि) स्वर्ग यास्यसीत्येवं वक्तारो व्यवहारमतियन्ति । अथ चेदिति निपातद्वयं चेदर्थे वाक्यादौ कामं प्रयुज्यते-अथ चेत्त्वरते कर्तृ दिवसं मारुताशनः । इति वसिष्ठः । हिशब्दमपि वाक्योपक्रमे नेच्छन्ति वाग्विदः सूरयः । यथा यथा हि पुरुषः शास्त्रं समधिगच्छति ( मनु० ) इत्यत्रेवान्यत्रापि पदात्परस्यैवं हिशब्दस्य योगोऽभ्यनुज्ञायते ।

लिङ्गसंख्ये

 उक्तः पदक्रमः । लिङ्गसंख्ये सम्प्रत्युच्येते । इदं तावदभ्युपेयं दुर्ग्रहो लिङ्गमेदः। अन्तर्वाणयोऽप्यत्र मुह्यन्ति । वैयाकरणाः . खलु प्रत्ययतो लिङ्गमुन्नयन्ति प्रायेण । न च सर्वत्र प्रत्ययाश्रय एव लिङ्गावसायो लोकाश्रयश्चापिं । नदी कुमारी स्त्री गौरी मतिरीहा ब्रह्मबन्धूरित्यादिषु प्रत्ययतो लिङ्गोन्नयः । अवीलक्ष्मीतरीतन्त्रीह्री- धीश्रीषु तु लोकतः । कश्चिच्छब्द एकार्थक एव नानालिङ्गको दृष्टः । तटस्तटी तटम् । कश्चिदर्थभेदे लिङ्गभेदमुपगच्छति । यथा--काननवाच्यरण्यशब्दो नपुंसकम्, महत्वविशिष्टः स एव स्त्रियां भाष्यतेऽरण्यानीति । सरस्वच्छब्दः पुंसिं समुंद्रमाह, स्त्रियां तु नदीविशेषं सरस्वतीम् । गोष्ठमिति गवां स्थानमाह, गोष्ठीतिं च संसदम् । गन्धवहः पुमान् वायुमाचष्टे, गन्धवहा स्त्री तु नासिकाम् । दुरोदर इति कितवं वक्ति, दुरोदरमिति च द्यूतम् । सर् इति कासार इत्युच्यते, सरसीति च दाक्षिणात्येषु महत्सरः । जलाशयो जलाधारो भवति; जलाशयं तूशीरम् । कुटशब्दो घटे पुंलिङ्गो गेहे तु स्त्रीलिङ्गः, कुटीति । द्रोणशब्दः परिमाणविशेषे पुल्लिङ्गः । गवादन्यां तु स्त्रीलिङ्गः द्रोणीति । तरणिर्द्युमणौ वर्तमानः पुमान् भवति, कुमार्या नौकायां न स्त्री। कुंशो दर्भो भवति, कुशं जलम्, कुशा वल्गा, कुशी च फालः । शिवः कीलो भवति । शिवा तु क्रोष्टाऽऽमलकी च । पिशुनं कुङ्कुमं भवति, पिशुनस्तु सूचकः, पिशुना तु सूचिका नारीत्यलं विस्तरेण ।

 आतश्च लोकाश्रयो लिङ्गावसायः। स्थूणेति/टायन्तं स्त्रीलिङ्गम् , गृहस्थूणमितिं चं नपुंसकम् । जलेनार्द्रमिति जलार्द्रा व्यजनविशेषः । ऊर्णेति स्त्रियां


१. ’तरणिर्द्युमणौ पुंसि च कुमारीनौकयोः स्त्रियाम्’ इति औणादिकपद्गार्णवे (२।३७३)
२. कुशी फाले कुशो दर्भे कुशा वल्गा कुशं जले–इति हैमः ।
३. शिव कीलः .क्रोष्टा भवेदामलकी शैिवेति शाश्वतः ।
४. स्थूणोर्णे नपुंसके च ! गृहशशाभ्यां क्लीबे । इति पा० लिङ्गा० ।

लिङ्गसंख्ये

नियतम् , शशोर्णमिति च क्लीबे । इह परवल्लिङ्गं द्वन्द्वतत्पुरुषयोरिति शासनमतिक्रम्यते लोकश्च प्रमाणीक्रियते ।  क्वचित्तु समानार्थत्वेऽपि प्रत्ययमात्रकृतो लिङ्गभेदो दृश्यते यदुच्यते स्वार्थिकाः प्रकृतितो लिङ्गवचनान्यतिवर्तन्तेऽपीति । तद्यथा--सन्निधिः पुमान् , सान्निध्यं नपुंसकमिति ष्यञ्कृतो भेदः । रक्षो नपुंसकम् , राक्षसः पुमान् । गायत्री स्त्री भवति, गायत्रं नपुंसकम् । अनुष्टुप् स्त्री भवति, आनुष्टुभं नपुंसकम्' इत्यण्कृतः । स्मृतयः प्रमाणं वेदांश्च प्रमाणतरा इति तरप्प्रत्ययकृतः । कुतूः स्त्री, कुतुपश्च पुमान् इति डुपच्प्रत्ययकृतः । तस्मात्पुरस्तादन्ये होत्रकाः सदः प्रसर्पन्ति पश्चाच्छावाक’ इत्यत्रैतरेयब्राह्मणे (१०।४ ) । ऋत्विक्पर्यायो होत्राशब्दो नित्यं स्त्री, तासां वै होत्राणामायतीनामाजयन्तीनामच्छावाकीयाऽहीयत इति तत्रैव (१०|४ ), स्वार्थे कन्प्रत्ययान्तो होत्रकस्तु पुमान् । कन्प्रत्ययकृतो लिङ्गभेदः।

 अन्यत्र च समानेऽपि प्रत्ययेऽर्थभेदाल्लिङ्गभेदः । तद्यथा—तयप्प्रत्ययान्तं धर्मवृत्ति स्त्रीनपुंसकयोः । वर्णानां चतुष्टयी, वर्णानां चतुष्टयम् । वेदानां त्रयी, वेदानां त्रयम् । धर्मिवृत्ति तु वाच्यलिङ्गकम्-त्रय्यः स्थितयः । त्रये लोकाः। त्रयाणि जगन्ति । धामानि त्रयाणि भवन्ति । स्थानानि नामानि जन्मानीति। ( निरुक्ते ९।२८)। चतुष्टये ब्राह्मणानां निकेताः ( काशिकायां ८।३।१०१ )।

 धातुनिर्देशे याविक्श्तिपौ तदन्तं पुंसि—अयं वृधिः। अयं पचतिः। अव्ययं नपुंसकं भवत्यव्ययीभावश्च । शोभनं श्वः । इदं तिष्ठद्गु कालः । स्तरपि मे न मनोहरसुत्त्रसत्पृषतलोचनया रहितं त्वया । ( अमरोद्धाटने स्वामी ) । अत्र मंनोहरमिति च रहितमिति च विशेष्यनिघ्नतया नपुंसकम् ।

 इदं चात्र शब्दस्वाभाव्यमालोच्यताम् । प्रतिहारीति स्त्रीलिङ्गो' द्वारपालं द्वारपालिकां चाप्याह । प्रमाणयन्ति चैतदभिधानकृतः-द्वारि द्वाःस्थे प्रतीहारः प्रतीहार्यंप्यनन्तर इति । अयं पुंव्यक्तावपि स्त्रियामिति टीकाकारो महेश्वरः ।

 एवं वन्दिशब्दो बन्दीशब्दो वा पुंव्यक्तावपि बद्धेऽर्थे स्त्रियामेव नियतः । तथा विष्टिरपि कर्मक्ररे रूढः स्त्रियामेव’ प्रयुज्यते । तथा पुंसोऽप्युद्दिश्य भण्यते— इमा विष्टय इति । शिवेति शृगालं श्रृंगालीं चापिं समं ब्रूते । आह च स्वामी- अयं शृगालेऽपि’ स्त्रीलिङ्गः । सायणोऽपि शिवा ते पापनाशिक ( इत्यत्र क्रोष्टुनामैतत् . नियतस्त्रीलिङ्गम् इत्याह । होत्रेति स्त्रियां नियतमेव ऋत्विगर्थे वर्तते । अमित्रशब्दः शत्रुपर्यायः स्त्रीपुंसयोर्नियतः । अमित्रा मित्ररूपेयं पाणिगृहीती ममेति श्रीरामायणे । हा नृशंसे ममामित्रे कैकेयि कुलपांसनि ( रा० २।६४|७६ ) । मातृरूपे ममामित्रे नृशंसे. राज्यकामुके (रा० २l७४।७ ) इति

च । तामेव तु ममामित्रां चिन्तयन् परितप्यसे इति च भारते (आ० २३३।११) ।
१०
वाग्व्यवहारादर्शः

 संख्यामधिकृत्य न बहु वक्तव्यमस्ति । एकत्वादीनां वाचिका विभक्तयो यथाविषयं प्रवर्तन्ते । परं क्वचिदेकत्वेऽपि बहुवचनं श्रूयते । कथं महाराजदशरथस्य धर्मदारा इयं कौसल्या । कष्टमभिज्ञायते सैवेयमिति । अत्र पत्न्याः कौसल्याया एकत्वेऽपि दारशब्दो बहुत्वे पुंसि प्रयुक्तः । क्वचिदात्मनि बहुमानेनापि बहुवचनं प्रयुज्यते यथोक्तं षड्गुरुशिष्येण वेदार्थदीपिकायाम् -

व्याख्येयार्थबहुत्वेन बहुमानेन चात्मनः ।
व्याख्यान्नात्मन्यथारोप्य बहुत्वं तु प्रयुज्यते ।
यथाहि निधिमासाद्य प्रयुञ्जानस्तु दृश्यते ।
एते वयं समृद्धार्था देवोऽस्मासु प्रसीदति ॥
इति ।

 वयमिह परितुष्टा वल्कलैस्त्वं दुकूलैः ( वैराग्य०, “ श्लो० ५३ ) इति राजानं प्रति यतेरुक्तिर्बहुमानगर्भितेति युज्यते बहुवचनम् । परमन्तरेणापि बहुमानमेकस्मिन्वक्तरि बहुवचनं व्यवहारानुगं भवति । इह पुष्यमित्रं याजयाम इति वर्तमाने लडिति सूत्रे भाष्यकारस्यात्मानं प्रत्युक्तिः । तन्नरं वपुषि कुञ्जरं मुखे मन्महे किमपि तुन्दिलं मह इति मल्लिनाथः । इदं च चारुतरमुदाहरणं भाष्यस्थम्-यथा यो यत्राप्रधानं भवति स आह-गुणभूता वयमत्रेति ( प्राक् क्रीताच्छः ५|१|१) । अस्मदो द्वयोश्चेति शास्त्रमप्यत्रार्थे प्रमाणम् । तेन ग्रामे नः कृत्यमिति साधयामो वयमिति प्राकृतोऽप्यर्हति वक्तुम् । सविशेषणत्वे त्वेकवचनमेव यथाप्राप्तं भवति । देवदत्तोऽहं ब्रवीमि। आत्मशब्दप्रयोगोऽप्येकत्व एव दृश्यते न्बहुत्वेऽपि व्यक्तीनाम् । तद्यथा भारते प्रयोगः—मन्यन्ते सन्तमात्मानमसन्तमपि विश्रुतम् ( प्रजागरपर्वणि ३४|४५ )। बहुधा च प्रयुञ्ज्महेऽज्ञा आत्मानं कृतिनं मन्यन्त इति । एक आत्मेति पक्ष एकवचनमुपपन्नमेव । नानात्मान इति नैयायिकादीनां पक्षेऽप्येकवचनं नायुक्तम् । प्रत्येकं वाक्यपरिसमाप्तेः । अज्ञाः प्रत्येकमात्मानं कृतिनं मन्यन्त इत्यर्थात् । यदिहात्मशब्दविषय उक्तं तदात्मवा चिनि स्वशब्देऽप्यवितथम् । एवं लपन्तोऽज्ञाः स्वस्य जाड्यमुदाहरन्ति । अत्र स्वेषामिति वदन् बाढं भवत्यपशब्दभाक् ।

 द्वयोर्द्वयोरर्थयोर्वाचकाः स्तनादयो बहुभिरभिसम्बध्यमाना अपि द्वित्वं न जहति प्रायेण । तदुक्तं वामनेन-स्तनादीनां द्वित्वाविष्टा जातिः प्रायेणेति । तद्यथा—इह स्थितानां नः श्रोत्रयोर्मूर्छति तूर्यनादः। चारैः पश्यन्ति राजानश्चक्षुर्भ्यामितरे जनाः! श्रान्ता वयम् । नाग्रतो नश्चरणौ प्रसरतः । ये बाहुभ्यां नदीं तरन्ति ते बाहुका इत्युच्यन्ते । परं नायं नियमः । इदं प्रायिकमिति वामनेनैव शब्दत उक्तम् । तेन ‘शूरबाहुषु लोकोऽयं लम्बते पुत्त्रवत्सदेति’ भारते

(शां०.९८|१७ ) बहुवचनं 'संगच्छते । तत्र शूराणां बाहवस्तेष्विति विग्रहः ।
११
लिङ्गसंख्ये

एवमन्यत्रापि-पातुकामेषु वत्सेषु मातॄणां शातितः स्तनाः (रा० २४३।१७) । तेषामक्षीणि कर्णांश्च नासिकाश्चैव मायया । निमित्तवेधी स मुनिरिषीकाभिः समार्पयत् ( भा० उद्योग० ९६।३१-३२) ॥ यतु आप्यायन्तु ममाङ्गानि वाक् प्राणश्चक्षुश्श्रोत्रमथो बलमित्युपनिषद्येकवचनं तदिन्द्रियाभिप्रायेण। इन्द्रियं नामैकं भवति, गोलके तु द्वे, अतश्चक्षुषी श्रोत्रे इति द्विवचनम् । यच्च कुमारे ( ३।६७ ) उमामुखे बिम्बफलाधरोष्ठे व्यापारयामास विलोचनानीति बहुवचनं तद् बहुत्वापेक्षम् । त्रिलोचनस्य भगवतः शिवस्य तानीति ।

 केचिच्छब्दाः पुभूम्नि नियतोः। अथ ब्रह्मचर्यं परिसमाप्य ’दारान्कुर्वीत । पत्नीपरिग्रहं कुर्यादित्यर्थः । कथं दशरथस्य धर्मंदारा इयं कौसल्येति उत्तरे रामंचरिते । अक्षतास्तिलकक्रियायां प्रशस्ताः । वरवध्वौ लाजैरवकिरन्ति कन्याः । परे स्त्रियां बहुत्वे प्रयुज्यन्ते । उक्तं चामरेण-आपः सुमनसो वर्षा अप्सरः सिकतासमाः । एते स्त्रियां बहुत्वे स्युरेकत्वेऽप्युत्तरत्रयम् ॥ इति उत्तरत्रयस्यैकत्व । उदाहरणानि-उर्वशी नामाप्सराः पुरूरवसं चकमे । प्रासे तु षोडशे वर्षे गर्दभी ह्यप्सरा भवेदिति च। एका च सिकता तैलदानेऽसमर्था खार्यप्यसमर्था इति भाष्ये । समां समां विजायत (५।२।१२) इति भगवान् सूत्रकारः। सा नः पयस्वती दुहामुत्तरामुत्तरां समाम् (ऋक्० ४|५७|७) । न स जीवति तां समाम् इति च चरके (इन्द्रियस्थाने २|१६)। सुमनःशब्दो मालतीवचनस्त्वेकत्वे प्रयुज्यतेऽनवग्रहम् । आह च सुमना मालती जातिः । कुसुमवचनत्वेऽपि बहुत्वं व्यभिचरन्दृष्टः । वेश्या श्मशानसुमना इव वर्जनीयेति मृच्छकटिकायाम् । अघ्रासातां सुमनसाविति च (२|४|७८) काशिकायाम् । वर्षाशब्दस्तु नित्यं ब्रहुत्वे । जलौकेत्याकारान्तं त्रिषु वचनेषु यथापेक्षं प्रयुज्यते । जलौक इति सकारान्तं तु बहुवचने नियतम् । पांसु शब्दः प्रायेण बहुवचनान्तः । पांसवः कस्मात् । पादैः सूयन्ते । पन्नाः शेरत इति निरुक्ते (३।१२।१९) निर्वचनदर्शनात् । व्याख्येयगतो बहुत्वे प्रयुक्त इति तस्यायमनुवाद इति मा स्म भ्रमीः । संमूढमस्य पांसुर (ऋ०१।२२।१७) इति हि तत्र मूलम् । सक्तुरपि तादृशः अत्र करम्भो दधिसक्तव इत्यमरोक्तिः प्रमाणम् । धानाचूर्णं सक्तवः स्युरिति क्षीरोद्धृतं कोषान्तरं च ।


१. सूत्रग्रन्थेऽषूपनिषत्सु च क्वचिद्दारशब्दः पुंस्येकवचने प्रयुक्तो दृश्यते- तस्मादेवं विच्छ्रोत्रियस्य दारेण नोपहासभिंञ्छेत्, ( बृहदा० ६।४।१२ ) सोऽयमतिविरलश्छान्दसः प्रयोगो लोके नानुपात्यः ।
२. वर्षाशब्दस्य बहुत्व एव प्रयोग इत्यत्र वर्षाभ्यष्ठग् (४।३।१८) इति

सूत्रकारवचोऽपि मानम् ।
१२
वाग्व्यवहारादर्शः

भारतेऽपि पुम्भूम्नि प्रयोगो दृश्यते—यवप्रस्थं तु तं सक्तूनकुर्वन्त (=अकुर्वत) तपस्विनः (आश्व० ९०।३३} धानाशब्दोऽपि प्रायेण स्त्रियां बहुत्वे । तथा चामरः पठति--धाना भृष्टयवे स्त्रिय इति । वासोदशाऽऽविश्चापि स्त्रियां बहुत्वे प्रयुज्येते । आविरिति प्रसववेदनोच्यते । यथा च चरके (शारीर० ८।३६॥) प्रयोगः-ततोऽनन्तरमावीनां प्रादुर्भाव इति । वस्तिशब्दोऽपि दशावचनः स्त्रीपुंसयोर्बहुत्वे नियम्यते ।

 क्वचित्कर्तृकर्मणोर्बहुत्वेऽप्येकवचनान्तमाख्यातपदं प्रयुञ्जते व्यवहारकोविदाः । तद्यथा—चरः शरीरावयवाः स्वभावो धातवः क्रिया । लिङ्गं प्रमाणं संस्कारो मात्रा चास्मिन्परीक्ष्यते ॥ (चरके सूत्र० २७।३३१)। उभयत्र दशाहानि कुलस्यान्नं न भुज्यते । दानं प्रतिग्रहो यज्ञः स्वाध्यायश्च निवर्तते । (मनौ ५।६१ इत्यस्यानन्तरं क्षेपकः) । तेन स्वातन्त्र्यमुपाध्यन्तरयोगों' वाक्यं च निवर्तते इति काशिकायाम् (४।२।६६) । तस्माद् ब्राह्मणराजन्यौ वैश्यश्च न सुरां पिबेदिति मनौ . (११।९३।)। आदित्यचन्द्रावनिलोऽनलश्च द्यौर्भूमिरापो हृदयं यमश्च । अहश्च रात्रिश्च उभे च सन्ध्ये धर्मश्च जानाति नरस्य वृत्तम् ॥ इति । तस्य राज्यं च कीर्तिश्च प्रतापश्चापि वर्धत इति श्रीरामायणे (४।२९/११) । यशो वीर्यं च तेजश्च प्रत्ययश्च विनाशित इति च (६।१०४|५} । अभ्याजेत्युक्ते क्रिया निर्दिष्टा, कर्तृकर्मणी गुणश्वानिर्दिष्ट इति भाष्ये (१।२।२) । सम्यग्विपाकवीर्याणि प्रभावश्चाप्युदाहृत इंति चरके (सूत्रं० २६।६६॥) । तथैव देवतया तयोः कुशलवाविति नामनी प्रभावश्चाख्यात इति चोत्तरे रामचरिते । अत्रोदाहरणेषु नपुंसकमनपुंसकेनेति शासनातिक्रमोऽपि न दोषाय । व्यवहारेणाभ्यनुज्ञानात् । अत्र वाक्येष्वत्येनैव चकारसमुच्चितेन पदेन क्रियान्वयः, अन्यत्र क्रियाऽध्याहार्येति समाधिमाहुः ।

धातोः सकर्मकत्वाऽकर्मकत्वे

 गतं लिङ्गसंख्याभ्याम् । धात्वधिकरणकं किञ्चिद् ब्रूमः । धातूनां सकर्मकाकर्मकत्वं तावन्न सुकरं प्रतिपत्तुम् । अयथाप्रतिपन्ने च तस्मिन्दुष्यति सर्वोऽपि वाक्यविन्यास इति तदिह किञ्चिद्विशदयामः । शल हुल पत्लृ गताविति धातुपाठः। पततिरयं गमेरर्थे प्रयुज्यते । अधोगमनाद्यर्थावगमनं तु प्रकरणात् । तथा च शिष्टप्रयोगाः -

 उदपप्तदसौ सूर्यः पुरु विश्वानि जूर्वन् (ऋ० १।१९१।९) । नेज्जिह्मायन्त्यो नरकं पतामेति खिलपाठः ( ऋ० १०/१०६ सूक्तस्यानन्तरम् ) । यथा महान्तमध्वानमाशया पुरुषः पतन् । स निराशो निवर्तेत कमैंतन्नस्तथो-
१३
धातोः सकर्मकत्वाऽकर्मकत्वे

पमम् ॥ इति भारते (शां० १०।११) । दिशः पपातः पत्त्रेण, वेगनिंष्क्रम्पकेतुना (रघौ १५।८४) । पपात पूर्वा जहतो विजिह्मतां.......प्रसक्तसंपातपृथक्कृतान् पथ इति च किराते (४।१८) । आश्वीनानि शतं पतित्त्वेति च काशिकायाम् (५।२।१९) । नभः पतन्त्यात्मसमं पतत्त्रिणः । यथा गमिः सकर्मकस्तथा पततिरपि । तथैव चोदाहृतम् । ऊर्ध्वगमने तु प्रायेणाकर्मकः । पक्षिणः खे पतन्ति । वेदा यो वीनां पदमन्तरिक्षेण पतताम् (ऋ० १।२५।७॥) । अपि शक्या गतिर्ज्ञातुं पततां खे पतस्त्रिणाम् इति कौटलीयेऽर्थशास्त्रे (२।३०) । अधोगमनेऽर्थेऽपि प्रायेण तथा । क्षते प्रहारा निपतन्त्यभीक्ष्णम् । ऊर्ध्वगमनेऽपि पततिः क्वचित्सकर्मको दृष्टः -उत्पपातोदङ्मुखः खमिति मेघदूते । हन्तुं कलहकारोऽसौ शब्दकारः पपांत खम् इति च भट्टौ (५।१००) इदं चात्रानुषङ्गिकमुच्यते—अनुपसृष्टोऽपि पततिरुड्डयनेऽर्थे बहुलं प्रयुज्यत इत्यभिव्यक्तं प्रागुदाहृतेषु । अत एव शत्रन्तः पतच्छब्दः पक्षिपर्यायतां गतः । तथा च किराते (६।१) प्रयोगः---परमः पुमानिव पतिं पतताम् इति । कर्मणोऽविवक्षायां सर्वोऽपि धातुरकर्मको भवति । तथा च भारते प्रयोगः–-अश्नाम्याच्छादयामीति प्रपश्यन्पापपूरुषः। नामषं कुरुते यस्तु पुरुषः सोऽधमः स्मृतः । (सभा० ५०।१७॥) यदा समेता बहवस्त्वया राजर्षयः सह । कथयिष्यन्ति.....इत्यत्र श्रीरामायणे (२।१२।४०) च । सह कथयिष्यन्ति = संकथयिष्यन्ति = संवदिष्यन्ति । भारतेऽपि कथिरविववक्षितकर्माकर्मकः प्रयुक्तः-एवं सनत्सुजातेन विदुरेण च धीमता । सार्धं कथयतो राज्ञः सा व्यतीयाय शर्वरी (उद्योग० ४७।१) ॥ तथा तौ कथयन्तौ च चिन्तयन्तौ च यत्क्षमम् (उद्योग० ११४।९) । इति च ।

 वृषु सेचनं इति सकर्मकः। कर्मणः प्रसिद्धेस्तु तन्नोच्यत इत्यकर्मको भवति । देवो वर्षति । जलमित्यनुक्तमपि गम्यते । अर्थगत्यर्थः शब्दप्रयोगः। स चेदर्थाऽन्तरेणापि शब्दं गम्यते नासौ प्रयुज्यते । अत एव जलमिति नोपादीयते । जलातिरिक्तं कर्म तु न न प्रयुज्यते । पार्थः शरान्वर्षति । क्वचित्तु प्रसिद्धमपि जलादिकं कर्मं श्रूयत एव । तद्यथा—तेन नापो यथाकालं देवो वर्षतीति चरके (विमान ३।२४) । सोऽयं लाघवं प्रत्यनादरो वक्तुः।

 दियादयोऽकर्मकाः । अल्पा एव तु सकर्मका इति कृतान्तः । तेष्वल्पेषु मध्ये पुषः पुष्टाविति प्रायेण सकर्मको दृश्यते । तथा च कवीनां प्रयोगाः—-सूर्यापाये न खलु कमलं पुष्यति स्वामभिख्याम् इति शाकुन्तले, पुपोष लावण्यमयान्विशेषान्ज्योत्स्नान्तराणीव कलांन्तराणीति च कुमारे (१।२५) । वेदे खल्वपि--नार्यमणं पुष्यति नो सखायम् (ऋ १०।११७|६) इति । परमयमपि क्वचिदकर्मक इत्यत्र पुष्यसिध्यौ नक्षत्रे (२।१।११६) इति सूत्रं लिङ्गम् । पुष्य इत्य-

.
१४
वाग्व्यवहारादर्शः

धिकरणवृत्तिः। पुष्यन्त्यर्था अस्मिन्निति पुष्यो नाम नक्षत्रम् । वेदे खल्वप्ययमकर्मको दृष्टः । तद्यथा—पुनरेता निवर्तन्तामस्मिन्पुष्यन्तु गोपतौ (ऋ० १०।१९|३॥)। अन्यत्राप्यकर्मकत्वाङ्गीकारेण व्युत्पत्तिर्दृश्यते-पुष्यति जले पुष्करः पद्मम् । पुष्णाति धान्यादिकमिति जलादिकमपि । पुष्यति शब्दोऽत्र, वाद्यमुखं चेति पुषः कित् इति सूत्रे (उणा० ४।४) नारायणः । चरके खल्वपि पुषिरकर्मको दृष्टः । स्रोतांसि रुधिरादीनां वैषम्याद्विपमं गताः । रुद्ध्या रोगाय कल्पन्ते पुष्यन्ति च न धातवः ॥ इति (चिमान० ३।२४) । स्त्रोतसा च यथा स्वेन धातुः पुष्यति धातुत इति च तत्रैव (चिकि० ८|३९) । भट्टिरपि पुषिमकर्मकं प्रयुङ्क्ते । तद्यथा—अस्त्रीकोऽसावहं श्रीमान् स पुष्यतितरां तव । पतिरित्यब्रवीत् (४।२९) । देह इहापुष्यत्सुरामिषैः (१७।३२) इति च । अत्र देहमपुष्य इति पाठान्तरम् । तत्र देहं पोषितवानसि । अन्तर्भावितण्यर्थो द्रष्टव्य इति जयमङ्गला ।

 दिवादिषु येऽकर्मकास्त एव गणान्तरेऽनूदिताः सकर्मका भवन्ति । प्रीड् प्रीताविति दिवादिष्वकर्मकः। तथा च कवीनां प्रयोगाः--तत्र सौधगतः पश्यन्यमुनां चक्रवाकिनीम् । हेमभक्तिमतीं भूमेः प्रवेणीमिव पिप्रिये ॥ इति रघौ (१५।३०) । येनैवास्मासु प्रीयते भगवान्भुवनगुरुर्मैरवाचार्य इति हर्षचरिते (पृष्ठे १०२) । प्रक्राममप्रीयत यज्वनां प्रिय इति च माघे (१।१७ ) । भारते खल्वपि-प्रीयामहे भवतां संगमेन (सभा० ५८।८॥) । परं प्रीणातीति प्रिय इति क्रैयादिकेन व्युत्पत्तिर्दर्शिता न तु दैवादिकेन । दिवादीन् व्याचक्षाणो दीक्षितो यदाह-राधो हिंसायाम् इत्येत्वाभ्यासलोपाविह न, हिंसार्थस्य सकर्मकतया दैवादिकत्वायोगाद् इति तदपि नो दर्शनं समर्थयते । रुष रिष हिंसायां दिवादी अकर्मकौ । ठावेव भ्वादी सकर्मकौ । ‘मा वो रिषत् खनिता यस्मै चाहं खनामि वः’ इति (ऋ १०।९७।२०) । अत्र रिषत् इति दिवादिरिषेर्लृड्।

मा रिषत् हिंसां मास्म प्रापदित्यर्थः । कुर्मस्त आयुरजरं यदग्ने यथा युक्तो जातवेदो न रिष्याः (ऋ १०।५२।७ ) न म्रियस इति सायणः । धर्तारस्ते मेखले मा रिषामेति च मन्त्रब्राह्मणे (१।६।२८॥)। न वा उ एतन्म्रियसे न रिष्यसि इति शुक्लयजुःसंहितायाम् (२३।१६)। श्रमेण तपसारिषंस्तस्मादृषय इति च शतपथे (६।१।१।१) । अरिषन्निति लुङि रूपम् । अतः सकर्मकत्वलाभाय णिच्प्रयोगः सूपपन्नो भवति—उदुस्र तिष्ठ प्रतितिष्ठ मा रिषो मेमं यज्ञं यजमानं च रीरिष इत्यत्र ( आप० श्रौ० ९।५।१८I९ ) । एवं ह्यायुर्न रिष्यतीति वसिष्टधर्मसूत्रे (६।१०॥ ) । रुषिः क्रोधेऽपि वर्तते । क्रोधो नाम हिंसां प्रयुङ्क्ते । क्रोधमूला हि सा । नाक्रुद्ध्वा हिनस्तीति हिंसार्थः क्रोधार्थे संक्रान्तः। क्रोधार्योऽपि
१५
धातोः सकर्मकत्वाऽकर्मकत्वे

रुष्यतिरकर्मकः । ततोऽरुष्यदनर्दच्चेति भट्टौ ( १०।४०) । मा मुहो मा रुषोऽधुनेति च (१५।१६) । तेन यायात्सतां मार्गं तेन गच्छन्न रिष्यत इति मनुवचने (४|१७८ ) तु भौवादिकस्य रिषेः कर्मणि लटि रूपम् । मीङ् हिंसायामिति दिवादिरकर्मकः । न तस्य लोमापि मीयत इत्युपनिषदि । स्थाणुं वर्छति गर्ते वा पात्यते प्रमीयते वेति च ब्राह्मणे । मीञ् क्र्यादिस्तु सकर्मकः । तद्यथा मिनाति श्रियं जरिमा तनूनाम् ( ऋ० १।१७९।१) इत्यृग्वर्णें । लौकिके साहित्ये चास्य विरलः प्रयोग इति दुर्लभान्युदाहरणानि । लीङ् श्लेषण इति दिवादिरकर्मकः । आलीयतेऽस्मिन्निस्यालयः । ली श्लेषणे क्रयादिः सकर्मकःविलिनाति घृतम् । अत्रार्थेऽयं प्रायेण विपूर्वः। पुष्यतिरकर्मकोऽपि, पुष्णातिस्तु नित्यं सकर्मकः। रैपोषं पुष्णाति । क्लिश उपतापे दिवादिरकर्मकः। तथैव चार्थनिर्देशोंऽभूत् । त्रयः परार्थे क्लिश्यन्ति साक्षिणः प्रतिभूः कुलम् ( मनौ ८।१६९) । अप्युपदेशग्रहणे नातिक्लिश्यते वः शिष्या (मालविकायाम् ) इत्यत्र चाकर्मकः। श्नाविकरणस्तु सकर्मकः। यथा-क्लिश्नाति लब्धपरिपालन वृत्तिरेवेति शाकुन्तले । एवमाराध्यमानोऽपि क्लिश्नाति भुवनत्रयमिति च कुमारे ( २।४० ) क्षुभ संचलन इति भ्वादिषु दिवादिषु क्रयादिषु च पठितः। सर्वत्राकर्मक एवेत्युक्तार्थापवादः । रघोरभिभवाशङ्कि चुक्षुभे द्विषतां मन इति रघौ (४।२१)। मन्थादिव क्षुभ्यति गाङ्गमम्भः इत्युत्तरे रामचरिते । प्राक्षुभन् कुलपर्वता इति भट्टौ ( १५।२५ )। नाक्षुभ्नाद्राक्षसो भ्रातुः शक्तेिं चोदवृहद् गुरुम् इति च (.१७।९० ) क्रमेणोदाहरणानि ।

 राघोऽकर्मकाद् वृद्धावेवेति धातुपाठः । अकर्मको राधिः श्यनं लभते वृद्ध्यादिष्वर्थेष्विति तदर्थः । न दूवे सात्वतीसूनुर्यन्मह्यमपराध्यतीत्यत्र माघे (२।४३ ) मय्यपराधमाचरतीत्यर्थः । देवदत्ताय राध्यति गर्गः । देवदत्तस्य दैवं पर्यालोचयतीत्यर्थः । हिंसायामर्थे सकर्मकः श्नुविकरणो भवति—शत्रुमपराध्नोति ( हिनस्ति ) इत्यत्र यथा । राध्र्यत्योदनः (= सिध्यति ) । राघ्नोस्योदनम् (= साध्नोति, रन्धयति)। अपपूर्वोऽयं क्वचित् श्नुविकरणोऽप्यकर्मकः। तद्यथा- पुरा स नापराध्नोति सिद्धानां क्रमवादिनाम् ( भा० वन० १५५।२० )।

 दिवादिः क्षमिरकर्मको भूवादिस्तु सकर्मकः। तथा च प्रथन्ते प्रयोगाः- सर्वथा वर्तमानस्य राज्ञः क्षन्तव्यमेव हि (भा० आदि० ४१।२४) । शिष्यस्याशिष्यवृत्तेस्तु न क्षन्तव्यं बुभूषतेत्यत्र (आदि० ७९।९) । एवं क्षान्तं मया तवेति च तत्रैव (उद्योग० १७६।५०)। अत्र क्षाम्यतेः प्रयोगोऽभ्युपेयः, अन्यथा


१. मीनातेर्निगमे (७।३।८१) इति वैदे मीनातेर्ह्रस्वः। राज्ञ इत्यादिषु षष्ठी नोपपद्येत । नकुलं सहदेवं च ’बलवीर्यसमन्वितौ । सहायं वासुदेवं च न क्षंस्यति युधिष्ठिरः (मा० उद्योग० १३९।६) । अत्र प्राप्येति पूर्वश्लोकादनुवर्तते । न क्षंस्यति क्षमावान्न भविष्यतीति यावत् । व्यक्तं क्षमिरत्राकर्मकः। स दिवादिरेव भवितुमर्हति न भ्वादिः। तत्राकर्मकत्वे सति परस्मैपदित्वं मानम् । अत एव सकर्मकत्वलाभाय णिच्प्रयोग उपपन्नो भवति- मदर्थं तमृषिं वीक्ष्य क्षमयामास भार्गवम् (जननी मे महानदी) इति भारत उद्योगपर्वणि (१७८।९२)। अत्र . भार्गवश्चक्षाम (क्षाम्यति स्म) । महानदी मे जननी भार्गवं क्षमयामास ( क्षमयति स्म ) इत्यणौ कर्तृर्णौ कर्मत्वम् । क्षमतेश्चेत्प्रयोगः स्यादनुक्ते कर्तरि तृतीया स्यात् । अन्यत्रापि भारते सकर्मकत्वलाभाय क्षाम्यतेर्णिज् दृश्यते । तद्यथा-ततो दुर्योधनो द्रोणं क्षमयामास भारत (विराट० ५१।१७) । स पुत्रस्य वचः श्रुत्वा विराटो राष्ट्रवर्धनः। क्षमयामास कौन्तेयं भस्मच्छन्नमिवानलम् (विराट० ६८|६२) इत्यत्र । त्रयोदशाहमात्रं मे राजा क्षम्यतु (=क्षाम्यतु) भाविनि (भा० विराट० २४।२९) इत्यत्र-क्षाम्यतेः श्यन्विकरणस्य तिङन्तस्याकर्मकतया प्रयोगों’ मुक्तसंशयमस्मदुक्तमुपस्तभ्नाति । क्षमतेस्तु ‘निध्नस्य मे भर्तृनिदेशरौक्ष्यं’ देवि क्षमस्वेतिं बभूव नम्रः (रघु०. १४|५८) इत्यादिषु सकर्मकतया प्रयोगः । माघस्तु क्षाम्यतिं सकर्मकं पश्यति । तथा ह्रस्य प्रयोगः मनागनभ्यावृत्त्या वा कामं क्षाम्यतु यः क्षमी । क्रियासमभिहारेण विराध्यन्तं क्षमेत कः (२।४३) ।। अत्र पूर्वार्द्ध गतायाः क्षाम्यत्विति क्रियायां विराध्यन्तमिति कर्म । क्वचिद् भौवादिकः -क्षभिरप्यकर्मकतया प्रयोगमवतरति । तद्यथा-क्षमेदशक्तः सर्वस्य शक्तिमान् धर्मकारणातू (उद्योग० ३९।६०)। ह्रियमाणे धने राजन् वयं ' कस्य क्षमेमहि (शां० ८।१३)i'कस्मै कर्मणेऽलं भवाम इत्यर्थः । पार्वतस्य क्षम त्वं वै क्षमतां पार्वतश्च. ते (द्रोण० १९८।५८) इति च ।

 गृधिलुभी उंभावप्यकर्मकौ । काव्यनाटकादिषु तिङन्तो गृधिर्विरलं प्रयुक्तः, कृदन्तस्तु बहुलम् । गर्धः, गर्धनः, गृध्नुरित्यादयः’ कृत्प्रत्ययान्ताः प्रयुज्यन्ते । गृध्यतीत्यादयस्तु क्वचिदेवास्मदादीनामविषय इति मन्त्रदृशां चिरन्तनमुनीनां च प्रयोगा उदाह्रियन्ते । यस्यागृधद्वेदने वाज्यक्षः (ऋ० १०।३४|४) । निरामिणो रिपवोन्नेषु जागृधुः (ऋ० २।२३।१६)। मा गृधः कस्य स्विद् धनम् (यजुः) इति । अत्रैकं वाक्यमिति मा स्म ते भ्रमो भूत् । मा गृध्रः, छुब्धो मा भूः इत्येकं वाक्यम् । धनं कस्य स्विदिति चापरम् । तत्रैव श्रुतेः स्वरसः । स्विदित्यनर्थको निपातः ‘प्रश्नार्थको वT । भारतकारोऽप्यत्र वाक्यभेदमूरीकुरुते । यदाह--कस्येदमिति कस्य स्वमिति वेदवचस्तथेति ( आश्व० ३२।१६)। दुर्णामा तत्र मा गृधत् ( अथर्व० ८।६।१ )। मा गृधो नो अज़ाविषु ( अथर्व० ११।३।२१) इति च । ते पत्नीष्वेव गन्धर्वा गर्धिष्यन्तीति शतपथे ( ३।९।३।२०.) । भारते खल्वपि गृधिरकर्मको दृष्टः । तद्यथा—परवित्तेषु ‘गृध्यतः (उद्योग० ७२।१८)। यदां गृध्येत्परभूतौ नृशंसः (२९|३०) इति च । प्रतिवैरं चिकीर्षन्तो गोषु गृद्धा महाबलाः (३०।२६) इति च तत्रैव । गृध्येदेषु न पण्डित इति (स्त्री० २।२५ ) । अन्योन्यमभिगर्जन्तो गोषु गृद्धाः ( विराट० ३२।२)। तस्यां गृध्यन्ति राजानः शूरा धर्मार्थकोविदाः ( भीष्म० ९।७२ ) । आचार्यो हि भृशं राजन्निग्रहे तव गृध्यतीति (द्रोण७. १११।३५) । आमिषे गृध्यमानानाम् (= गृध्यताम् ) अशुभं वै शुनाभिव ( शां० ७।१०)। एष धर्मः परमो यत्स्वकेन राज्ञा तुष्येन्न परस्वेषु गृध्येत् (वन० ४।७)। अनित्यं यौवनं रूपं जीवितं रत्नसंचयः । ऐश्वर्यं प्रियसंवासो गृध्येत्तत्र नः पण्डितः (२।४७) इति च । चरकेऽपि भारतवद् गृधिरकर्मकः । तद्यथा-स्नातानुलिप्तगात्रेऽपि यस्सिन्ध्यन्ति मक्षिकाः (इन्द्रिय० ५।१५ ) । यो हि मां पुरुषो गृध्येद्यथान्याः प्राकृताः स्त्रियः ( विराट० ९।३३ ) राजन्किमन्यज्ज्ञातीनां वधाद् गृध्यन्ति देवताः (शां० ८।२५) । इह प्रदेशयोस्तु गृध्यतिः सकर्मकः प्रयुक्तः । तच्चिन्त्यम् । भट्टिरपि गृध्यमर्थमवाप्स्यसि’ (४।५५ ) इत्यत्र गृधेः सकर्मकतामभिमन्यते । स्रोंपसर्गस्य प्रतिपूर्वस्य गृध्यतेस्तु भारतेऽनेकत्र प्रयोगेषु सकर्मकत्वमास्थितम् । तद्यथा—आघ्राय सुबहून्गन्धांस्तानेव प्रतिगृध्यति ( आश्व० ३१।९, १२, १५, १८) । तच्चेष्टम्। उपसर्गवशाद् धातूनां सकर्मकत्वापत्तेर्बहुत्र दृष्टेः । क्वचित्सोपसर्गकोऽपि गृध्यतिरकर्मकत्वं न जहाति यथा बाह्मद्रव्यविमुक्तस्य शारीरेष्वनु गृध्यत इत्यत्र भारते ( शां० १३।२) । एतेन केवलो गृध्यतिर्नियतमकर्मक इति किमु वाच्यम् ।

 लुभिरप्यकर्मकत्वे नियत इति मुक्तसंशयमुपलभस्व । असम्भवं हेममयस्य जन्मोस्तथापि रामो लुलुभे (= लुलोभ ) मृगाय । प्रायः समासन्नपराभवाणां धियो विपर्यस्ततरा भवन्तीति भारते ( सभा० ७६।५) । असम्भवं हेममृगस्य जन्म’ तथापि रामो लुलुभे मृगायेति च हितोपदेशे भारतच्छायानुकारिवचनम् । अन्यत्रापि भारते लुभिरकर्मको लक्षितः । तद्यथां य एवं नैव कुंप्यन्ते (= कुप्यन्ति ) न लुभ्यन्ति तृणेष्वपीति ( अनुशा० ५९।२२ ) । पाण्डवार्थे हि लुभ्यन्तः (उद्योग० १३०।२६) इति च । देवा अपि न लुभ्यन्ति त्वयीति (क० स० सा० ३२।९६) । लुब्धो यशसि न त्वर्थे (५५।३०) इति च ।  केचनः धातवो धातुपाठे स्पष्टमकर्मकाः पठिताः। अर्थनिर्देशो हि तथालक्षणोऽभूत् । तथापिं लोके सकर्मका अपि ते दृष्टाः । उपसर्जनं व्याकरणम् । व्यवहारः प्रधानम् । त एते भवन्ति-श्च्युतिर् क्षरणे, दु द्रु गतौ, स्रु गतौ, क्षर संचलने, स्यन्दू प्रस्रवणः इति । पटलं श्च्योतति । एतास्ता मधुनो धाराः श्च्योतन्ति सविषास्त्वयि (उ० रा० च०.३।३४ ) । अत्र श्च्युतिरकर्मकः । लोचनेनामृतश्च्युता (क० स० सा० १०१।३०४) इत्यत्र च सकर्मकः । अग्न्यातपपसम्प्रयोगाद् द्रवति घृतमित्यत्र द्रवतिरकर्मकः । रक्षांसि भीतानि दिशो द्रवन्तीत्यत्र गीतासु तु सकर्मकः । अवस्रवेदघशंसोऽवतरमित्यत्र (ऋ० १।१२९।६) स्रवतिरकर्मकः । स्रवत्यनोङ्कृतं पूर्वं पश्चात्तु विशीर्यत इति मनुवचने ( २I७४), धनाद्धि धर्मः स्रवति शैलादधि नदी यथेत्यत्र, न हि निम्बात्स्रवेत्क्षौद्रम् ( रा० २।३५।१७) इत्यत्र चाकर्मकः । तदतिक्रमे विद्याकर्म निःस्रवति ब्रह्मेति ( आप० २।५।२)। स्रवत्युदकं कुण्डिकेति भाष्ये !, वित्रेसुस्तावकाः सैन्याः शकृन्मूत्रे च.सुस्रुवुः (भा० शल्य २५।३२) 1 स्वरेण तस्याममृतस्रुतेव प्रजल्पिपतायामभिजातवाचि इति कुमारे ( १/४५ ), कुञ्जरेण स्रवता मदम् इति कथासरित्सागरे । न हि मलयगतश्चन्दनतरुः परशुप्रहतः स्रवेत् पूयम् इत्यत्र च सकर्मकः । तपः क्षरति विस्मयाद् इत्यत्र ( मनौ ४।२३७ ), तेनास्य क्षरति प्रज्ञोत्यत्र (.मनौं २I९९॥ ) च क्षरतिरकर्मकः ! आपश्चिदस्मै घृतमित्क्षरन्ति (अथर्व ७।१८।२), तस्य नित्यं क्षरत्येष पयो दधि घृतं मधु (मनौ २।१०७) । यो येनार्थी तस्य तत्प्रक्षरन्ती वाङ्मूर्ति र्मे देवता संनिधत्ताम् इत्यत्र (बा० रा० १।१४) च सकर्मकः। स्यन्दन्ते सरितः सागराय न च सर्वाः समुद्रगा भवन्ति । तीव्रं स्यन्दिष्यते मेघैः (भट्टौ १६।७ ), मत्स्या उदके स्यन्दन्ते । शिरामुखैः स्यन्दत एव रक्तम् ( नागानन्दे ५।१६ ) इत्यत्र स्यन्दतिरकर्मकः । सस्यन्दे शोणितं व्योम इत्यत्र (भट्टौ १४।९८ ) च सकर्मकः । अत्र सर्वत्र संकर्मकत्वमन्तर्भावितण्यर्थत्वादुपपादयन्ति । एवं शुच शोक इत्यनुपसृष्टः केवलोऽपि सकर्मको दृष्टोऽकर्मकश्च। तद्यथा—-अथैनमद्रेस्तनग्रा शुशोच ( रघौ २।३७) । किं शोचतेहाभ्युदये बतास्मान् ( भट्टौ ३।१२) इत्यत्र शोचतिः सकर्मकः । शोचन्ति जामयो यत्र विनश्यत्याशु तत्कुलमित्यत्र मनौ (३।५७ ) चाकर्मकः । सोपसर्गकस्तु नैयत्येन सकर्मकः । अशोच्यानन्वशोचस्त्वमित्यत्र गीतासु यथा ।

 अन्तर्णीतक्रियान्तरा अकर्मिका अपि क्रियाः सकर्मिका भवन्ति । तद्यथा- भुजर्विजितंविमांनरत्नाधिरूढः प्रतस्थे पुरीम् ( रघौ १२।१०४) । अत्र


१. धातूनामुपसर्गवशात्सकर्मकत्वाकर्मकत्वे इति । विषयोऽस्माभिरुपसर्गार्थचन्द्रिकायां वितत्य निरूपितः। स तत्रैव द्रष्टव्यः। प्रस्थानक्रियाया अकर्मकत्वेऽपि तदङ्गभूतोद्दिशिक्रियापेक्षया संकर्मकत्वम् । एवंमन्यत्रापि । ऋषयो वै सरस्वत्यां सत्रमासत इति भारते आदिपर्वणि । सत्रमुद्दिश्येत्यर्थः । यथाऽग्नेर्ज्वलत: सर्वा दिशो विस्फुलिङ्गं विप्रतिष्ठेरन् इति कौषीतकिन (३।३) आमनन्ति । अथ प्रायमुप्रवेक्ष्यामीति श्रीरामायणे । प्रायमननशनमुद्दिश्य कृतासना भविष्यामीत्यर्थः । इहैव प्रायमासिष्य इति च (४।५३।१९) । यथा स्वगृहस्थः श्वा व्याघ्रं वनगतं भषेत् ( भा० कर्ण० ) । व्याघ्रमुद्दिश्य' बुक्केदित्यर्थः।

 अस्ति च धातूनां क्रियान्तरोपसर्जनकस्त्रार्थाभिधायकत्वम् । यथा कुसूलान्पचतीत्यत्रादानगर्भः पाकोऽभिधीयत इति मंल्लिनाथः । एवं ‘रोदिम्यनाथमात्मानं बन्धुना रहितस्त्वयेति (१८।३० ) भट्टिप्रयोगे रुदेरकर्मकत्वेऽपि तदङ्गभूतज्ञानक्रियापेक्षया सकर्मकत्वम् ।

 क्वचिद् धात्वर्थ'निर्देशो विभ्रमकोऽभूदित्यवश्यप्रतिपत्तव्यम् । गृधु आकाङ्क्षायामिति दिवादिरकर्मक इति दर्शितचरम् । अर्थनिर्देशस्तु सकर्मकोऽयमिति विभ्रमयति । धनं गृध्यत्यभिकाङ्क्षतीति प्रयोगप्रसङ्गात् । एवं कृश तनूकरण इत्यर्थनिर्देशानुरोधात्सकर्मकः प्रतीयते । भवति चायं प्रायेणाकर्मक इतीहैवानुपदं व्यक्तं भविष्यंति । सप्त मेधान्पशवः पर्यंगृह्णन् स एषां ज्योतिष्माँ उत यश्चकर्श इत्याथर्वणिकाः ( अथर्वं० १२।३।१६) । तस्मादितर आत्मा मेद्यतिं च कुश्यंति चेति ब्राह्मणम् (ताण्ड्य० ५।१i७ ) । अत्रोभयत्राकर्मकता विस्पष्टा । अत एव लोके वृत्तिकर्शित इत्यादिषु सकर्मकत्वलाभायं णिच् प्रयुज्यते । कृश्यति तनूकरोत्याध्रारमिति कृशानुरित्यत्रं त्वन्तर्भावितण्यर्थः कृश्यतिर्द्रष्टव्यः ।

 तृप प्रीणने, तृप प्रीणन इत्येके । पूवों दिवादिरुत्तरस्तु स्वादिः । उभावप्यकर्मकौ । अर्थनिर्देशस्तु पूर्ववद् व्यामोहकः । प्रणनमिति तृप्तिर्ग्राह्या न तु तर्पणमपि । पितॄनतार्प्सीद् इति भट्टिप्रयोगस्तु चिन्त्यः । अन्यत्रापि भट्टौ क्लिशादिधातुविषये सकर्मकाकर्मक्रत्वसंकरो दृष्टः शदलृ शातन इति भूवादिः सर्वत्र प्रयोगेऽकर्मको दृष्टः शत्स्यन्ति ते दन्ता इत्यादौ । अत एव सकर्मकत्वलाभाय णिच्प्रयुज्यते-शादयति गाः । शातयति शत्रुणां शिरांसि । शातनमित्यर्थनिर्देशस्तु व्यामोहयति धिषणाम् ! अत एवं विशीर्णतायामयम् । शातनं तु विषयतया निर्दिश्यत इति कौमुद्यां दीक्षितः ।  यद्यपि सर्वे नवगण्यां पठिता धातवः स्वार्थे णिचं लभन्ते इति वैयाकरणाः, वथापि पूञ् पवने, ओहाक् त्यागे इति णिच्सहितौ प्राकृतेऽर्थे प्रयोगमवतरतः


१ नृपारमजौ चिक्लिशतुः संसीतौ (३।३१) इत्यत्र यथा । प्रायेण । पावयतेः प्रयोगो यथा-प्रणवो ब्याहृतयः, सावित्री. चेत्येते पंच ब्रह्मयज्ञाः अहरहर्ब्राह्मणं किल्बिषात् पावयन्ति (बौ० ध० २।५।८।१४) । न पावयिष्यन्ति हि पापमापः (बुद्धचरिते ७।३०)। यथा त्वदीयैश्चरितैरनाविलैर्महीधरः पावित एष सान्वय इति कुमारे (५।३७) । वैतानास्त्वां वह्नयः पावयन्तु इति शाकुन्तले (४/७) । अपाङ्क्त्योपहता पङ्क्तिः पाव्यते यैर्द्विजोत्तमैरिति मनौ (३।१८३) ।

 ज्ञापयतेः खल्वपि-पञ्चैतान्यो महायज्ञान्न हापयति, शक्तित इति मनौ (३।७१) । नृयज्ञं पितृयज्ञं च यथाशक्ति न हापयेत् (४।२१) इति । ऋत्विग्यदि वृतो यज्ञे स्वकर्म परिहापयेत् (८।२०६॥) इति च । नमस्कारेण मन्त्रेण पञ्चयज्ञान्न हापयेदिति (याज्ञ १।१२१) । सर्वऋतवो विवाहे माधचैत्रौ मासौ परिहाप्योत्तरं च नैदाघम् इति वाराहगृह्ये (३।१३)। द्रुतमेतु न हापयिष्यते सदृशं तस्य विधातुमुत्तरमिति च माघे (१६।३३) ।

इत्यवसिता धातुविषया चिन्ता ।

कारकाणां विवक्षापारतन्त्र्यम्'

 यदुद्गिरन्ति प्रामाणिका विवक्षातः कारकाणि भवन्तीति तत्र विमृश्यते केयं विवक्षा नामेति यामनुरुन्धन्ति कारकाणि । वक्तुरिच्छा विवक्षेति चेद्यथा यस्मै रोचेत तथैव स प्रयुञ्जीतेति प्रसङ्गः । नेत्याह । लौकिकी हि विवक्षा प्रभवति न प्रायोक्त्रीति । लोकश्चात्र शिष्टलोक एवाभिप्रेतो वाचि प्रमाणभूतः सर्वस्यावधेयवचनः । अन्यथा सर्वमिदमाकुलं स्याद्वाङ्मयम् । सङ्कीर्येरन्प्रयोगा न व्यवतिष्ठेरन्निति महाननर्थ उपनतः स्यात् । इमां कारकविषयिणीं विवक्षामधिकृत्य किंञ्चिद्विन्यस्यामो विदुषां विनोदाय । बीजादङ्कुरो जायत इत्यत्र बीजं जायमानस्य प्रकृतिरिंत्यर्थपरिग्रहेण तस्यापादानतां विवक्षामः । बीजमङ्कुरो जायत इत्यत्र परिणामधर्मपुरस्कारेण भेदापोहेन प्रकृतित्वतिरस्कारेण च तस्यैव कर्तृतामिति सर्वत्र व्यवहारे बुद्धिरेव प्रभवति । यदाऽविवक्षितमेदं जननव्यापारमभिप्रेमस्तदा मातरपितरौ पुत्रं जनयतं इति मातुः पितुश्चोभयोरपि कर्तृत्वम् । यदा कः कथं जनयतीति भेदो विवक्ष्यते तदाऽयं पिताऽस्यां मातरि बीजमाधत्ते पतति वा बीजमस्मादस्यामिंति पितुः कर्तृत्वमपादानत्वं च । पतद्बीजधारणक्रियां कुर्वती माता त्वधिकरणमेंव । तथा च शिष्टप्रयोगाः प्रथन्ते--ब्राह्मणाद्वैश्यकन्यायामसम्बष्ठो नाम जायते (मनु० १०।८) । द्विजातयः सवर्णासु जनयन्त्यव्रतांस्तु यान् इति च (मनु० १०।२०) । सा भूधराणामधिपेन तस्यां समाधिमत्यामुदपादि भव्येति कुमारे (१।२२) । न ह्यस्यः विद्यते कर्म किञ्चिदामौञ्जिबन्धनात् । वृत्त्या शूद्रसमो ज्ञेयो यावद्वेदे न जायते ॥(वसिष्ठ० ध• २।१२) सुदक्षिणायां तनयं ययाच इति रघौ । अत्र जनिक्रिया भविष्यन्ती गम्या । माऽऽत्मनः सन्ततिं द्राक्षीत्स्वेषु दारेषु दुःखित इति श्रीरामायणे भरतशपथेषु (२।७५।३६)। अदृष्टदुःखो धर्मात्मा सर्वभूतप्रियंवदः । मयि जातो दशरथात्कथमुब्छेन वर्तयेत् (२।२४।२॥) इंति च । यत्तु कथं दशरथेन त्वं जातः पापों महात्मना (रा० ४।१७।४३) इत्यत्र पितुरपादानत्वं व्यपोह्य करणत्वमभ्युपगते तच्चिन्त्यम् | अथवा जात इत्यन्तर्णीतण्यर्थकं ज्ञेयम् । तेन दशरथेनेत्यत्र कर्तर्यनुक्ते तृतीया सूपपन्ना भवति । एवं कल्याणे बत नक्षत्रे मया जातोऽसि पुत्रक (रा० २।४।४०) इत्यत्रापि ज्ञेयम् । जातो जनित इतिं तिलककारः । तज्जायाया जायात्वं यदस्यां जायते पुनरिति ब्राह्मणकृताऽधिकरणे व्युत्पत्तिरपि रूढिगतांयां विवक्षायां लिङ्गम् ।

 कर्त्रादीनि लोके प्रतिनियतविषयाणि न क्वचिदवलोक्यन्ते । अचेतनेष्वपि रथो याति नदी वहतीत्यादिषु कत्रभिलापो यतः । सर्वत्र प्राधान्यगुणाभावो वाऽस्त्येव । विवक्ष्यते हि सः।

 यथानिरूपणं शब्दप्रयोग इति शाब्दिकाः । विवक्षा हि प्रयोक्तृणां यथा यथा प्रवर्तते तथा तथा परिवर्तन्ते कारकाणीत्युक्तप्रायमपि पुरस्तादिह पल्लवयामो भूयोवैशद्याय ! तद् गच्छति पथिदूतयोः (४।३।८५) i अत्र तत्स्थेषु गच्छत्सु पन्था गच्छतीत्युच्यते । पन्था हि तत्र मुक्तसंशयमधिकरणम् । तथापि तत्र. लौकिकी विवक्षा प्रभवति येन सदप्यधिकरणत्वं न विवक्ष्यतेऽसच्च कर्तृत्वं विवक्ष्यते । एवमन्यत्रापि सतोऽविवक्षा दृश्यते । अलोमिकैडकाऽनुदरा कन्येति । अत्र लोमानि न सन्तीतिं न, उदरमेव वा नास्तीति न । असम्भवात् । तथापि तत्सत्ता न विवक्ष्यत इति नञा प्रतिषिध्यते । अभिनिष्क्रामति द्वारम् (४।३।८६) 1 द्वारमभिनिष्क्रमण क्रियायां करणं प्रसिद्धं तदिह स्वातन्त्र्येण विवक्ष्यते । दाणश्च सt चेच्चतुर्थ्यर्थे (१।३।५५) । सम्प्रपूर्वाद् दाण आत्मनेपदं भवति यदा तस्य चतुर्थर्थे तृतीयया श्रूयते योगः । कदा च चतुर्थ्यर्थै तृतीयायाः प्रयोगः । यदा सम्प्रदानं साधकतमत्वेनं विवक्ष्यते, विवक्षातः कारकाणि भवन्तीति कृत्वा, न पुनः स्वभावतः। विवक्षा च प्रायौगिकी समाश्रीयते न प्रायोक्त्री । दिवः कर्म च (१।४।४३) । करणे कर्मविवक्षा करणविवक्षा, च । इदमत्राकूतं त्यात्प्रयोक्तुः शिष्टस्य, यो ह्यक्षैर्विजिगीषतेऽक्षानप्यसौ विजिगीषते । अविजिता अक्षाः कथं देवने जयाय कल्पेरन्निति स तर्क्रयते । कर्मणः करणसंज्ञा वक्तव्या सम्प्रदानस्य च कर्मसंज्ञा । इदं दानार्थं यजिमधिकृत्य वाक्यकारेणोक्तम् । पशुना रुद्रं यजते । अयं भावः । अत्र पूजातात्पर्यकं दानमिति दीयमानेन पशुनाऽभिपूजयामि रुद्रमित्यभिप्रैति यजमानः । तेन सत्यपि दानक्रेिया निगीर्यते पूजनेनाध्यारोपितेनं । ततश्च कारकविपर्ययः सिद्धो भवत्यवाचनिकः । इयद्धि प्राभवत्यं विवक्षायां बुद्धिनिबन्धनायाः । अधिशीङ्स्थासां कर्म (१।४।४६), अभिनिविशश्च १/४/४७) इत्यादिषु विवक्षां हेतूकृत्याधिकरणस्य कर्मसंज्ञाविधानं दृश्यते । विशतेस्तु निरुपसर्गस्योपसर्गान्तरसहचरितस्य च प्रयोग उभयी विवक्षा दृश्यते । मधुनि विशन्ति मधुकराः। ग्रामं प्रविशतीति । जटाधरः सञ्जुहुधीह पावकम् इत्यत्र किराते (१।४४) ऽप्यधिकरणे कर्मत्वोपचारः ।

 कर्मणः करणभावश्चापि दृश्यते । अग्निष्टोमेन यजेत स्वर्गकामः । अग्निष्टोमाख्येन यागेन स्वर्ग भावयेदित्यर्थः । अग्निष्टोमः स्वर्गभावनायां करणं भवति । यद्यप्यसौ स्वर्गभावनां प्रति साध्यत्वेनेप्सिततमत्वादनुष्ठीयमानः कर्मत्वमनुभवति तथापि तस्य शक्तिभेदात्करणत्वं न विरुध्यते । यथा निपीयमानेन मधुना मत्त इत्यत्र कर्मत्वमनुभवतो मधुनः करणभावो भवति । अत्र व्यवहारे करणे यजः (३।२।८५) इति सूत्रं लिङ्गम् ।

 क्वचिद् गृहीत इव केशेषु मृत्युना धर्ममाचरेतं, आलाने गृह्यते हस्ती वाजी वल्गासु गृह्यत इत्यादिषु करणेऽधिकरणत्वं विवक्षन्ति लौकिकाः । तत्र तेनेदमिति सरूपे (२।२।२७) इतिं तत्र शास्त्रीयं लिङ्गम् ।

 कर्मणोऽपि कर्तृभावो दृष्टः । कर्मवत्कर्मणा तुल्यक्रियः (३।१।८७) इत्यत्र तत्प्रतिपत्तेः ।

 क्वचित्कर्मणोऽधिकरणविवक्षा यथा-ऋषिप्रभावान्मयि नान्तकोऽपि प्रभुः प्रहर्तुं किमुतान्यहिंस्रा इति रघौ (२।६२) । आर्तत्राणाय वः शस्त्रं न प्रहर्तुमनागसीति शाकुन्तले । यदां. चावयवि प्रहरतेः कर्म भवति तदाऽवयवोऽधिकरणमिति विवक्ष्यते । इन्द्रजिल्लक्ष्मणमुरसि प्रजहार । ग्रह्यादि-धातुप्रयोगेऽवयविनि कर्मणि निर्दिष्टेऽवयवेऽधिकरणत्वविवक्षा दृश्यते । तद्यथा- ततो दुर्योधनः कर्णमालम्ब्याग्रकरे नृपः (भा० आदि० १३६।२०)। जग्राह चरणे ग्राहः कुन्तीपुत्रं धनञ्जयम् इति च (भा० आदि० २१६।१०)। अवयविनि षष्ठीनिर्दिष्टे त्ववयवे ।


१. वेदाङ्गेषु क्वचित् शिक्षतिर्दानार्थकः श्रूयते । तत्प्रयोगेऽपि सम्प्रदाने द्वीितीयां पश्यामः कर्मणि च तृतीयाम्। स शन्तनुर्देवापिं शिशिक्ष राज्येनेति निरुक्ते (२।११)। संहितासुं प्रायशो यथाप्राप्तं सम्प्रदाने चतुर्थी विलोकयामः—इन्द्राय सुन्वद् ऋषये च शिक्षद् इति (ऋ० १०।२७।२२)। स मित्र मतों अस्तु प्रयस्वान् यस्त आदित्य शिक्षति व्रतेनेति च (ऋ० ३।५९।२) । मद्रं दात्रे यजमानाय शिक्षन् इत्यथर्वसंहितायाम् (९।४।१) । यजमानाय शिक्षसि सुन्वत इति च तत्रैव (२०।५५।२) । कर्मणि नाधिकरणत्वविवक्षा–तयोर्जगृहतुः पोदान् राजा राज्ञी च मागधी' इति रघौ यथा । अन्यत्रापि कर्मणोंऽधिकरणत्वविवक्षा दृश्यते--क्रोधादुक्तं सैन्धवे (= सिन्धुराजे जयद्रथे)चार्जुनेनेत्यत्र भारते (आदि० १।१९२) ।

प्रहरतेः प्रयोगे विभक्तिव्यभिचारोऽपि लक्ष्यते क्वाचित्कः-
विभेत्यल्पश्रुताद्वेदो मामयं प्रहरेदिति भारते (आदि०) ।

अन्यत्रापादानेऽप्यधिकरणत्वविवक्षा यथा बलाहके विद्योतते विद्युत् ।.बलाहकस्यापाययुक्तत्वादपादानसंज्ञा प्राप्नोति । अपादानमुत्तराणीतिः वार्तिकमत्र बाधे लिङ्गम् ।

क्वचित्सम्प्रदानधियमपोह्याधिकरणमुत्प्रेक्षन्ते कुशलाः प्रयोक्तारः । तद्यथा -

न्यायेनार्जनमर्थस्य वर्धनं पालनं तथा ।

सत्पात्रे प्रतिपत्तिश्च राजवृत्तं चतुर्विधमू ॥

 इति कामन्दकः । सममब्राह्मणे दानमिति च मनुः । दरिद्वान्भर कौन्तेय मा प्रयच्छेश्वरे धनमिति च भारते । वितरति गुरुः प्राज्ञे विद्यां यथैव तथा जड इत्युत्तरे रामचरिते । सर्वत्र चामीषु प्रयोगेषु तदस्मिन्वृद्ध्यायलाभशुल्कोपदा 'दीयते (५/१/४७) इति वचः प्रमाणम् ।

लभेर्ण्यन्तकस्य द्विकर्मकत्वम्

 प्राप्त्यर्थकोऽपि लभिः प्रायेण व्यवहारे द्विकर्मकः । इदं च तदैवोपपद्यते यदाऽयं गत्यर्थक इति प्रतिपद्येत । गत्यर्थकतामेवास्याभीच्छन्ति शिष्टा इति निदर्शनैः कैरपि व्यक्तयामः--स क्षेमधन्वानममोघधन्वा पुत्रं प्रजाक्षेमविंधान दक्षम् । क्ष्मां लम्भयित्वा--इति रघौ (१८।९) । लम्भयित्वा = प्रापय्य । मधुरैरवशानि लम्भयन्नपि तिर्यञ्चि शमं निरीक्षितैरिति किंराते (२।५५) । गोपितुं भुवमिमां मरुत्वता शैलवासमनुनीय लम्भित इति च (१६।६७) । शरीरं वासुदेवस्य रामस्य च महात्मनः । संस्कारं लम्भयामास वृष्णीनां च प्रधानत इंतिं भारते (आदि० २।३५९) ! ततः स राजा ‘संस्कारं पुत्रपत्नीमलम्भयद् इति मार्कण्डेये (२२।४६) । स्त्रीभावं चापि लम्भितेति हरिवंशे (१९।२९) । तेन पित्रा स बालोऽपि विद्याः स्नेहेन लम्भितेतेिं कथासरित्सागरे (६५।७४) । दीर्घिकासु कमलानि विकासं लम्भयन्ति शिशिराः शशिभास इति वागनीयायां काव्यालङ्कारसूत्रवृत्तौ समुद्धारः । एतानौपहारिकमोदकानार्य्यमाणवकं लम्भयेति विक्रमोर्वशीये तृतीयेऽङ्के ।

यथानिर्देशं प्राप्त्यर्थतायामुपेतायां लभेः प्रयोगेऽणौ कर्तुः प्रयोज्यकर्मत्वानापत्तेरनुक्ते कर्तरि तृतीयाश्रुतिर्नानुपपन्ना । तथा च क्वाचित्का द्वित्राः प्रयोगा दृक्पथातिथितां भजन्ते—सितं सितिम्ना सुतरां मुनेर्वपुर्विंसारिंभिः सौधमिवाथ लम्भयन्निति माघे (१।२५) । सितिमा मुनेर्वपुर्लभते । तं सितिमानं मुनेर्वपुर्लभमानं प्रयुङक्ते, लम्भयति । कर्तरि वर्तमाने शतरि लम्भयन् । दयिताभिरनन्ततेजसा मुनिनाऽसौ परिकल्प्य लम्भित इति जानकीहरणे (४।५) । दयिता अमुं (चरुं) लब्धवत्यः । मुनिर्दयिताभिश्चरुं लम्भितबान् । मुनिना दयिताभिरसौ (चरुः) लम्भितः । दयिताभिरित्यनुक्ते कर्तरि तृतीया । लम्भित इति मुख्ये कर्मणि क्तः ।

 इदं प्रयोगद्वैविध्यं काव्यालङ्कारसूत्रवृत्तिकृद्वामन इत्यङ्कारं व्यवस्थापयितुं समीहते–लभेर्गत्यर्थत्वाण्णिाच्यणौ कर्तुः कर्मत्वाकर्मत्वे (४।८) अस्त्ययं लभिर्यः प्राप्त्युपसर्जनां गतिमाह । अस्ति च यो गत्युपसर्जनां प्राप्तिम् इति । सत्यं धात्वर्थस्य प्राप्त्युपसर्जनगतित्व एव’ गतिबुद्धिप्रत्यवसानार्थेत्यादिना शासनेन द्विकर्मकता सिध्येत्, प्राप्तौ प्रधानार्थत्वे त्वणि कर्तुणौ प्रयोज्यकर्मताया असिद्धिरिंति द्विकर्मकता न प्रसिध्येत् । परं क्व प्रधानं गतिः क्व चोपसर्जनमिति ‘कः कथमवसास्यति ? इहैव चाधस्तादुपन्यस्तेषु द्विकर्मकताया उदाहरणेषु गतेः प्राधान्यं कस्य नाम भासते ? गतिनान्तरीयिका प्राप्तिः, सर्वा प्राप्तिर्गतिपूर्विकेति त्वन्यत् । गतिः कारणं प्राप्तिश्च कार्यमित्यनयोः कार्यकारणभावः सम्बन्धः । कारणस्य प्राधान्याद् गतिरेव प्रधानत्वेन प्रकृतेऽभ्युपेयते शिष्टैः । शिष्टाश्व व्यवहारे प्रमाणम् । वस्तुगतं गतिप्राधान्यं स्यान्मा वा भूत् । विवक्ष्यते हि तच्छिष्टैरिति तदस्ति । विवक्षैव चेन्नियामिका वामनोक्ता व्यवस्था व्याख्यानमात्रतां नातिरिच्यते । नैषा प्रयोगनिर्माणपद्धतेः प्रदर्शिका भवति । तेनेयमकिञ्चित्करीति नार्थोऽनया । प्रयोगेषु लंभेर्ण्यन्तस्य द्विकर्मकता यत्र तत्र प्रथते, अनुक्ते कर्तरि तृतीया तु विरलं प्रयुज्यते। तेन लभेर्गेत्यर्थतामेवाभिप्रयन्ति शिष्टा इति शक्यं मुक्तसंशयं वक्तुम् ।

 किं चायमर्थ आपेर्व्यवहारतोऽप्युपोद्वलितो भवति । आपिरयं लभिना समानार्थकः सर्वत्र णौ द्विकर्मको दृष्टः। तद्यथा—वसतिंं प्रिय कामिनां प्रियास्वदृते प्रापयितुं क ईश्वर इति कुमारे (४।११) । स त्वं रथी तद्व्यपदेशनेयां प्रापय्य वाल्मीकिपदं त्यजैनाम् इति रघौ (१४|१४५) नक्तं.... भीरुरयं त्वमेव तमिमं राधे गृहं प्रापयेत्यमरुशतके । अभिमन्युतनयं परीक्षितमुद्ररादुपरतमेव निर्गतमुत्तराप्रलापोपजनितकृपो भगवान् वासुदेवो दुर्लभानसून्प्रापितवानिति कादम्बर्याम् । सपत्नीः प्रापयन्त्यब्धिं सिन्धवो नगनिम्नगा इति च माघे (२।१०४) । एवं यद्यापिर्नैयत्येन द्विकर्म्मकस्तर्हि लभिः कस्माद् द्विकर्मकत्वं व्यभिचरेत्? व्यवहारवैषम्यं च कथं घटामञ्चेत् ? एकत्र द्विकर्म्मकतायां पक्षपातोऽपरत्र नेति कथं युज्येत ? तस्माच्छिष्टदर्शनं जुषमाणैरस्माभिर्लभेर्गतिर्मुख्योऽर्थः प्राप्तिस्तु गौण इत्यवश्यंमभ्युपेयमन्यथा प्रयोगव्यवस्थितिर्न स्यात् ।

 क्वचिदभिव्यक्ततरमप्यपादानत्वमुपेक्ष्य कारकान्तरं विवक्षन्ति सन्तः। देवदत्तः प्राणान्मुमोच । देवदत्तः प्राणैर्मुमुचे । इह देवदत्तस्य प्राणैः समं वियोग इति नितान्तमुक्तानम् । वियोगश्चोभयनिष्ठ इति वियोक्तारं वियुज्यमानं चार्थ समं निश्रयते । इदं च नितरां विवक्षानिघ्नं तयोः कतरस्यावधिभावः कल्प्येतेति । यदि नाम प्राणा ध्रुवोऽर्थोऽवधिरिति वा कल्प्येरंस्तदा देवदत्तस्य वियोक्तृता वियोगे कर्तुताऽर्थादापद्यते । तेन प्राणशब्दात्पञ्चम्या भवितव्यम् । परं मुच्लृमोक्षण इत्ययं धातुः सकर्मकः । तत्प्रयोगे कर्माकाङ्क्षितं भवति । अपादानमुत्तराणि कारकाणि बाधन्त इति वंचनादपादानत्वं प्रबाध्य कर्मविवक्षायां प्राणानिति द्वितीया । अथ देवदत्तोऽवधिरित्यभ्युपेयते तदोक्तरीत्या तस्यापादानतां प्रबाध्य युञ्जतेः कर्मत्वेन तत्रोक्ते कर्मणि प्रथमा । प्राणैरिति चानुक्ते कर्तरि तृतीया सूपपन्नेति सर्वमवदातम् । मुचेः कर्मकर्तरि प्रयोगे तु प्राणादेरपादानत्वमविहतं तिष्ठति। यज्ज्ञात्वा मोक्ष्यसेऽशुभादिति गीतासु । मुच्यते सर्वपापेभ्य इति चानेकत्र पुराणे। मोक्ष्यसे स्वयमेव मुक्तो भविष्यसीत्यर्थः । कस्मादित्याकाङ्क्षयामाह--अशुभात् । अत्रापादानबाधप्रसङ्ग एव नास्तीति न दुरवधारं सुधीभिः। स प्राणान्मुमोच, तम्प्राणा मुमुचुरिति वाक्यद्वयमभिप्रायभेदेनादौ प्रयुयुजिरे विवेक्तारो वक्तारः, कालान्तरे तु समानार्थकमेतदिति साङ्कर्येणेत्यवकल्पयामः । अत्र शास्त्रपारावारपारीणाः प्रमाणमिति नातोऽतिरिक्तं संहामहे वक्तुम् ।

 विवक्षया कर्तृकर्मादिव्यवहारः सर्व इति प्रसाधितं पुरस्तान्निदर्शिताश्च ते ते प्रदेश यथाविवक्षमुपप्लवमानानां कारकाणाम् । तथापीदमत्रावधेयम् । न हि प्रयोक्त्रा निरवग्रहं यथा तथा.शक्यं विवक्षितुम् । नेह तस्य स्वश्छन्दः प्रवर्त्तते । विवक्षा हि कुलवधूरिव न लौकिकीं प्रयोगमर्यादामतिक्रामति । विवक्षायाश्च नियतत्वात्सत्यप्यपाये धनुषा विध्यतीति भवति, न धनुषो विध्यतीति । व्यधनक्रियायां धनुष्करणं न, अपि तु निःसरतां’ शराणामेव करणत्वमिति प्रथमवैयाकरणानामपि न न विदितम् । तथापि परमार्थे निरूपयंस्तथा च प्रयुञ्जानो लोके द्वेष्यतां यांति । कंसपात्र्यां भुङ्क्त इत्येव प्रयोगो न तु कंसपात्र्या इति । कंसपात्र्या उद्धृत्यैव त्वोदनं भुङ्क्ते । तेन तस्या अपादानता सिद्धा। तामविवक्षित्वाऽधिकरणतैवाभ्युपेयते। अपादानविवक्षया: पञ्चमीं प्रयुञ्जानों बाढं भवत्यपशब्दभाक् ।


१. अचिरोपसम्पन्नोऽचिरादेव गुरुमुपश्लिष्टो वैयाकरणॉ व्याकरणस्याध्येता प्रथमवैयाकरणः । अत्रार्थे प्रथमोऽचिरोपसम्पत्तौ (६।२।५६) इति स्वरसूत्रं मानम् ।  अन्यत्रापि विवक्षानैयत्यं दृश्यते । गतिवचनानां धातूनां प्रयोगे यानस्य करणत्वमेव विवक्ष्यते न जातु चिदधिकरणत्वम् । रथेन यातीत्युच्यते न तु’ रथे यतीति । तथा च ऋग्वर्णः-हिरण्ययेन सविता रथेन । देवों याति भुवनानि पश्यन् ॥ (ऋ० १।३५।२) । यद्यपि रथोऽधिकरणशक्तिरिति नापह्नूयते । यानशब्दो हि करणसाधनः । अपरे यानपर्यायवाचिनोऽपि . करणतां न जहति । तथा चात्मनः पदं विमानेन विगाहमानः (१३।१॥) इति रघुकारस्य प्रयोगः । अष्टाध्याय्यां तत्र तत्र तल्लिङ्गोपलम्भ इमां प्रयोगपद्धतिं समर्थयते । वह्यं करणम् (३।१।१०२) । वहत्यनेनेति वह्यं वाहनम् । करणे यत्प्रत्ययान्तं निपात्यते । दाम्नीशसयुयुजस्तुतुदसिसिचमिहपतदशनंहः करणे (३।२।१८२) इत्यनेन च पत्लृधातोः करणे ष्ट्रणा पत्त्रमिति व्युत्पाद्यते । पतति गच्छत्यनेनेति पत्त्रं वाहनम् । यानमात्रस्य करणत्वमैकान्तिकमित्यत्र चरति (४।४।८) इति शास्त्रमपि द्रढीयो मानम् । हस्तिना चरति हास्तिकः । शकटेन चरति शाकटिकः । यो गत्यर्थधातूनधिकृत्योक्तो नियामस्तस्य वह्यादयो धाञादयश्च गुमनीया भवन्ति । किं च न केवलं मुख्यं यानमपि तूपचरितयानभावा अपि भावाः करणत्वेन व्यवह्रियन्ते न च व्यभिचारं सहन्ते । स्कन्धेन भारं वहतीत्यत्र स्कन्धे यानत्वाध्यारोपेण करणत्वमेवाभिप्रयन्ति न कदाचिदधिकरणत्वम् । तेन स्कन्धे भारं वहतीत्यपप्रयोगः । अत्रार्थे कवीनां प्रयोगा उपोद्बलकाः केचिन्निदर्श्यन्ते । वहेदमित्रं स्कन्धेन यावत्कालविपर्ययः (तमेव चागते काले भिन्द्याद् घंटमिवाम्भसि ॥ ) इति पञ्चतन्त्रे । शरत्तारागणतारं हारमुरसा दधानम् इति हर्षचरिते ( पृ० ११४) । प्रश्रयमिवानम्रेण मौलिना पाण्डुरमुष्णीषमुद्वहतेति च (पृ० ६२) । गामधास्यत्कथं नागो मृणालमृदुभिः फणैरिति कुमारे (६।६८॥) । सर्वपुष्पमयीं दिव्यां शिरसा धारयन् स्रजम् इति श्रीरामायणे (६।२२।१९) । अङ्केनादाय वैदेहीं पपात भुवि रावणः। ( ३।५१।१९ ।।) इति च । रत्नभूता च कन्येयं.....धृता गर्भण वै मयेति हरिवंशे (२।४१) । दघुः शिरोभिर्भूपाला देवाः पौरन्दरीमिवेति रघौ (.१७|७९ ) । धार्याण्यास्येन वैशद्यरुचिसौगन्ध्यमिच्छता । जातीकटुकपूगानां लवङ्गस्य फलानि च ॥ इति चरके( सूत्र ५।७६ ) । मध्येन सा वेदिविलग्नमध्या-वलित्रयं चारु बभार बालेति कुमारे (१।३९ ।।) । गुणानुरागेण शिरोभिरुह्यते नराधिपैर्माल्यमिवास्य शासनम् ( १।२१॥) इति किराते । योद्धारोऽबिभरुः शान्त्यै साक्षतं वारि मूर्धभिरिति भट्टौ (१७।५३ ) । तथेति शेषामिव भर्तुराज्ञामादाय मूर्ध्ना मदनः प्रतस्थ इति च कुमारे (३।२२॥) । वहति सलिलोद्रारमुच्चैर्विमानैर्मुक्ताजालग्रथितमलकं कामिनीवाभ्रवृन्दम् इति मेधे (१।६४) । अत्रोदाहरणेषु गतिर्वा प्रापणं वा नाथों येन करणस्यावकाशः स्यात् । धारणमेव तु सर्वत्राभिप्रेयते । तेनाधिकरणत्वं प्राप्नोति । करणं चेह नितान्तमसत् । अधिकरणं च परमार्थसत् । तथापि करणत्वमेव विवक्षन्ति शिष्टा इति न बह्वन्वाख्येयम् ।

 अन्यत्रापि विवक्षानियमो दृश्यते । रश्मिष्विवादाय नगेन्द्रसक्तां निवर्तयामास नृपस्य दृष्टिमिति रघौ ( २।२८) गृहीत इव केशेषु मृत्युना धर्ममाचरेत् इति हितोपदेशे, केशेषु जग्राह याज्ञसेनीं दुःशासनः, . शिरस्युपजिघ्रत्यम्बा डिम्भम् , कण्ठे गृह्णाति प्रियां कान्त इत्यत्र रश्मीनां केशशिरःकण्ठस्य चाधिकरणता लोके नियता । अन्यथा सम्भाव्य विभक्त्यन्तरं प्रयुञ्जानो जनोभ्रंशते व्यवहारवर्तन्या अक्षिगतश्च लोकस्य भवति । तेन यथात्र लोके समुदाचारो रक्षणीयः, श्रौती स्मार्तो वा व्यवस्थितिरास्थेया तथा वाङ्मयेऽपि लोकप्रतिष्ठितः शिष्टजुष्टो व्यवहारः सततं शीलनीयः साभिनिवेशं चानुसरणीयः ।

 धातूनामर्थान्तरसङ्क्रामादपि व्यतियन्ति कारकाणि। यथा सिञ्चतेः क्षरणेऽर्थे द्रवद्रव्यस्य कर्मत्वमार्द्रीकरणे च करणत्वम् । यथा मेघोऽमृतं सिञ्चति । सिचतीवामृतैर्वपुरिति । तथा किरतेर्वेिक्षेपेऽर्थे रजआदीनां कर्मत्वं व्याप्तौ तु करणत्वमवस्थितम् । यथा रजः किरति वातः । रजसाऽवकिरति वातो वाटिकाम् । एवं ददातिकर्मणा सम्बद्धस्य न सर्वत्र सम्प्रदानता । न हि ददातिः सर्वत्र परस्वत्वापाद पूर्वके द्रव्यत्यागे वर्तते । दीयन्तां पक्षद्वाराणि (विद्धशालभञ्जिकायाम्); कवाटं देहीत्यत्र च पिधानेऽपि दृश्यते । ते गृहेऽरग्निमददुः । घ्नतः पृष्ठं ददाति । पूर्वत्र वाक्ये गृहस्य सम्प्रदानत्वं न । ददातिरिह निक्षेपे वर्तते, तस्य चाधिकरणापेक्षा । अपरत्र हननं कुर्वतोऽपि तन्न । ददातिरत्र सन्निधापने वर्तते । तत्सम्बन्धापेक्षया घ्नत इति षष्ठी साध्वी । शकि शङ्कायामिति भ्वादिषु पठ्यते । शङ्का च भयम् । तेनाधर्माच्छङ्कते साधुरिंत्यपादानतऽधर्मस्य सिद्धा । स एवाङ्पूर्व उत्प्रेक्षायां वर्तते । तत्र कर्मत्वमेवेष्यते । यथा धर्मेऽप्यधर्ममाशङ्कते मूढः । सन्नन्तो गुपिर्निन्दायां पठ्यते । स .यदा निन्दापूर्विकायां निवृत्तौ विवक्ष्यते तदा पापाज्जुगुप्सत इत्यपादानता निर्बाधा । यदा तु केवलायां निन्दायां प्रयुक्तिस्तदा कर्मत्वमेवानवद्यं शिष्टजुष्टं प्रसिध्यति । यथा-यदा बुध्यति बोद्धव्यं लोकवृत्तं जुगुप्सते (भा० वन० २१२।८ ) । किं त्वं मामजुगुप्सिष्ठा इति भट्टौ (१५।१९ ) । जुगुप्सेरन्न चाप्येनमिति याज्ञवल्क्यस्मृतौ ( ३।२९६ ) i स्वर्गस्त्रीपूर्वनिर्माणं निजमेवा जुगुप्सतेति कथासरित्सागरे द्वितीये वेताले । जनापवादमात्रेण न जुगुप्सेत चात्मनीति काव्यमीमांसायां कविरहस्ये दशमेऽध्याये । अत्र निन्दाविषयविवक्षया कर्मत्वबाधेनात्मनीति वैषयिकी सप्तमी । यद्वा तद्वा भवतु । भार्गवस्तादृशानि तु वीररत्नानि न जात्या जुगुप्सत इति बालरामायणे द्वितीयेऽङ्के। त्वं नोऽद्य जुगुप्ससे (= गर्हसे ) इति भारते ( द्रोण० १९७।१३ )।

 प्रपूर्वो हरतिराहनने वर्तते । यदा चायं प्रासनेऽभिप्रेयते तदेन्द्रो वृत्राय वज्रं प्राहरद् इति ताण्ड्यब्राह्मणे (१४|४|५)। न प्रमत्ताय भीताय विरथाय प्रयाचते । व्यसने वर्तमानाय प्रहरन्ति मनीषिणः ।। इति च भारते ( द्रोण० १४३।८ ) । अत्र क्रियया यमभिप्रैति सोऽपि सम्प्रदानमिति वचनेनेन्द्रस्य प्रमत्तादीनां च सम्प्रदानता सूपपादा । क्रियार्थोपपदस्य च कर्मणि स्थानिन इति वा विभक्तिः संमर्थनीया ।

 यजतिर्देवपूजासंङ्गतिकरणदानेषु पठितः। देवान्यजते । यज्ञाहरणेऽपि वर्तते । अश्वमेधेन यजते । तत्र विशेषाकाङ्क्षायामश्वमेधे द्रव्यबुद्धिं विधाय करणत्वेन तत्परिग्रहो व्याख्येयः । अश्वमेधबुद्धया द्वारीभूतयेति वा नेयम् । जयतिः परोपसृष्टोऽभिभवे वर्तते । तथा चारीन्पराजयत इत्यादौ कर्मकारकमुपपद्यते । यदा चासहने प्रयुज्यते तदाऽसोढोऽर्थोऽपादानम् । अध्ययनात् पराजयते प्रमत्तश्छात्रः ।

 अर्पयतिप्रयोगे कारकनानात्वं दृश्यते तदपि तत्तदर्थविवक्षयोपपाद्यं भवति । त्वदीयं वस्तु गोविन्द तुभ्यमेव समर्पये इत्यर्पयतिर्ददात्यर्थे प्रयुक्त इति युज्यते युष्मदः सम्प्रदानत्वम् । अर्पयतिर्नाम कथमिममर्थमर्पयतीति तावद् विमृश्यम् । ऋ गतिप्रापणयोरिति धातुर्णिच्सहकारेण प्रापणमर्थमाचष्टे, केवलस्तु गतिं वा प्राप्तिं वा । धातुपाठे गतिप्रापणयोरित्यर्थनिर्देशे प्रापणमिति प्राकृतेऽर्थे वर्तमानाद् आप्लृ व्याप्ताविति धातोर्ल्युटि रूपं न तु हेतुमण्ण्यन्तस्य ।‘अर्तेर्हेतुमति णिचि प्रापणं नयनमर्थः । यश्चार्थः परत्र संक्रम्यते परं प्राप्यते स परस्मै सम्प्रदीयत इवेत्यर्थविवक्षया चतुर्थ्योपयिक्येव। अन्यत्र तं देवाः सर्वे अर्पितास्तदु नात्येति कश्चनेति कठोपनिषदि । सिंहो मतिविभ्रममिवार्पितो न किञ्चिदप्युदाहृतवान् इति तन्त्राख्यायिकायाम् । इत्यादिष्वर्पितशब्दो मुख्यया वृत्या गभितार्थाभिधायीति गत्यर्थत्वादणि कर्तुः णौ कर्मत्वम् । तच्च प्रयोज्यं कर्म क्तेनोक्तमिति देवशब्दात् सिंहशब्दाच्च प्रथमा । तच्छब्दान्मतिविभ्रमशब्दाच्चानुक्ते कर्मणि द्वितीया । दानार्थविवरक्षाविरहान्नेह चतुर्थी ।

 क्वचित्सप्तम्यपि दृश्यते । अवगच्छति मूढचेतनः प्रियानाशं हृदि शल्यमर्पितम् इति रघौ (८।८८) । अपथे पदमर्पयन्ति हीति च (९।७४)। सीतामर्पय नन्तव्ये कोशदण्डात्मभूमिभिरिति च भट्टौ (९।१३६ ) अपेयित्वेश्वरे प्रह्णः प्रमना विरमाम्यहम् इति चेहैवं ग्रन्थान्ते । ईश्वरप्रणिधानं तस्मिन्परमगुरौ सर्वकर्मार्पणम् इति योगभाष्ये। अत्रेयं सप्तम्युपपत्तिः । यद्धि यं प्राप्यते द्रव्यं तत्तदन्तिकं प्राप्यते तत्सन्निकर्षे संनिधाप्यत इवेत्यर्थविवक्षायां सामीपिकेऽधिकरणे सप्तम्यपि साम्प्रेतम् । न्यासार्थविवक्षायां शुद्धेऽधिकरणेऽपि सा दृश्यते । काठिन्यं स्थाविरे काये भवता सर्वमर्पितम् इति कुमारे ( ६।७३) । ततो भीष्मः शरानष्टौ ध्वजे पार्थस्य वीर्यवान्। समार्पयत्...... ( भा० विराट ६६।६) ॥ क्वचिदन्यत्र तृतीयापि विलोक्यते । तेषामक्षीणि कर्णाश्व नासिकाश्चैव मायया । निमित्तवेधी स मुनिंरिषीकाभिः समार्पयत् ॥ इति भारते - ( उद्योग० ९६/३१ ) । अत्र : समार्पयदित्यस्य समगमयदित्यर्थग्रहादिषीकाभिरित्यत्र सहार्थे तृतीयोपन्नैवः । कश्चिदाह--समार्पयदित्यस्याविध्यदित्यर्थ इति । तन्न । समयोजयद् आच्छादयदिति वा शब्दमर्यादया लभ्योऽर्थः । अविध्यदिति त्वार्थिकोऽर्थः । आतश्चायमेव शब्दार्थः । भारद्वाजस्ततो भीमं षड्र्विंशत्या समार्पयत् । भूयश्चैनं महाबाहुः शरैः शीघ्रसवाकिरत् ॥ (भीष्म० ९४/१६) इत्यत्र पूर्वार्धगतस्य समार्पयच्छब्दस्योत्तरार्द्धगतेनावाकिरच्छब्देनानुवाददर्शनात् । इदमपरमत्र द्रढीयो मानम्--अलातचक्रवद्राजन् शरजालैः ससार्पयदिति भारते ( आश्व० ७७।३० )। अत्रालातचक्रोपमानेन कविधृतेन समर्पयतेराच्छादनमेवार्थं इति दृढं व्यवसितं भवति । अलातचक्रं नाम वेष्टयति न तु विध्यतीति सुविदितोऽर्थः ।

 विनाऽपि समं केवलस्याप्यर्पयतेः प्रयोगे सहार्थे तृतीया दृश्यते । तद्यथा-- स शरैरर्पितः क्रुद्धः सर्वगात्रेषु राघव इति (रा० ३।२८।१९ )। द्रुमाणां विविधैः पुष्पैः परिस्तोमैरिवार्पितम् इति च (रा० ४।१।८)। पुष्पैर्युक्तमित्यर्थः । भारतेऽपि नकुलं पञ्चभिर्बाणैर्बाह्वोरुरसि चार्पयत् इति ( कर्ण० ४८।३४ ) । कारकत्वाविवक्षायां तु षष्ठ्यपि दृश्यते--मातः मार्गलग्नं कस्य समर्पयामि गृहमयूरकम् इति श्रीहर्षचरिते (पृष्ठे १६४) ।

पद्यतेः प्रयोगे विभक्तिवैचित्र्यम्

 इदं चान्यदप्येतज्जातीयकं परीक्ष्यमाणं भूयसे विनोदाय भविष्यति’ विदाम् । पद गताविति धातोः प्रतिपूर्वस्य ण्यधिकस्य प्रयोगेऽपि विभक्तिवैचित्र्यं दृश्यत आकूतकरम् । हेतौ प्रतिपादयतेः प्रापणमर्थो मुख्यया वृत्येति गत्यर्थत्वादणि कर्तुः कर्मत्वे ब्राह्मणानिति वक्ष्यमाणपद्ये कर्मणि द्वितीया नापूर्वा । सर्वरत्नानेि राजा यथाहं प्रतिपादयेत् । ब्राह्नमणान्। वेदविदुषो यज्ञार्थं चैव दक्षिणाम्। इति ( मनौ० ११।४ )। अयशो जीवलोके च त्वयाऽहं प्रतिपादितः (रा० २I७४।६ )। अत्र क्तेनोक्ते कर्मणि प्रथमा । एतां मालां च तारां च कपि. राज्यं च शाश्वतम् । सुग्रीवो वालिनं हत्वा रामेण प्रतिपादितः ॥ इति च ( रा० ६।२८।३२ ) । अत्रापि पूर्ववत्कर्मणि प्रथमेति विज्ञेयम् । सत्कृत्य चैनं प्रीतात्मा राज्यार्धं प्रत्यपादयत् इति भारते ( आदि० १६८।७२ ) । प्रतिपादनं वितरणमित्यर्थग्रहात्प्रतिपादयतिप्रयोगे विप्रादीनां सम्प्रदानताऽपि शिष्टानामिष्टा । गुणवते कन्या प्रतिपादनीयेति शाकुन्तले । अर्थिभ्यः प्रतिपाद्यमानमनिशं प्राप्नोति वृद्धिं पराम् इति च भर्तृहरौ (२।१६ ) । युधि निर्जित्य पार्थेन द्रोणाय प्रतिपादितेति भारते ( आदि० १३८।७७ ) । प्रतिपादयतिश्च कथं वितरणमर्थमवतरतीति जिज्ञासायामर्पयतिविषये यदुक्तं पुरस्तात्तदिहाप्यवितथं विज्ञेयम् । क्वचिदन्यत्र सप्तम्यपि दृश्यतेऽर्पयतिवत् । धनानि तु यथाशक्ति विप्रेषु प्रतिपादयेत् इति मनौ ( ११।६) । तत्र यद्रिक्थजातं स्यात्तत्तस्मिन्प्रतिपादयेद् इति च (९|१९० ) । अत्रार्पयतिवत्सामीपिकेऽधिकरणे सप्तमी साध्वी । अपि वा सम्प्रदानेऽपि क्वचित्सप्तमीमिच्छन्ति शिष्टा इत्यदुष्टा ।

अस्थाने पञ्चम्याः प्रयोगः

 केचिद् व्याकरणं प्राधीता यस्य सकाशात्किञ्चिच्छ्रूयते ज्ञायते वा तमपादानमिच्छन्ति पञ्चमी च ततो व्यवहरन्ति । तद्रभसात् । उपयोगे नियमपूर्वके विद्याग्रहणे सत्येवाख्यातुरुपदेष्टुरपादानता भवति न त्वन्यत्र । अन्यत्र तु षष्ठीमेव प्रयुञ्जते शिष्टाः । तद्यथा-—राजा देवत्वमापन्नो भरतस्य . यथाश्रुतम् इति श्रीरामायणे (३।६६।४) । रामस्तस्य तु विज्ञाय सीतासक्तां प्रियां कथाम् इति ( ३।६७।२१ ) । अथ रामः प्रसन्नात्मा श्रुत्वा वायुसुतस्य हेति (६।१८।१ )। निशम्य रामागमनं नृपात्मजः कपिप्रवीरस्य तदद्भुतोपमम् (६।१२५।४६ ) इति च । राजानं धर्मगोप्तारं धर्मो रक्षति रक्षितः । इति मे श्रुतमार्याणां त्वां तु मन्ये न रक्षति इति च भारते ( वन० ३०।८ ।। ) ॥ विचित्रवीर्थस्तु नृपो निशम्य विदुरंस्य तदिति च (आदि० २००।१८ )। सर्वं शृणुत तं विप्राः सर्वं कीर्तयतो ममेति (मनु० ३।३६) । दिवौकसां कथयतामृषिभिर्वै श्रुता कथा । कामव्यसनसंयुक्ता पौराणी शशिनं प्रति ॥ इति चरके ( चिकित्सा० ८/३) । इदानीमहमागन्तुकानां श्रुत्वा पुरुषविशेषकौतूहलेनाग तोऽस्मीमामुज्जयिनीम् इति चारुदत्ते ( अङ्के २ ) । वेदे खल्वपि--इति शुश्रुम धीराणां ये नस्तद् विचचक्षिरे (शुक्लयजु० ४०।१०) । कारकत्वविवक्षायां तु ऊर्ध्र्वबाहुर्विरौम्येष न च कश्चिच्छृणोति माम् (व्यासोक्तिः) । इत्यत्र श्रुवः कर्मणि द्वितीया ।


१ अध्येतुमारब्धाः । आदिकर्मणि क्तः ।

शेषे षष्ठी'

 क्वचित्कारकस्याविवक्षा सम्बन्धत्य चैव विवक्षा । त्वया तु मम न श्रुतम् (भा० आदि० १५७|२६ ) यथा वा मातुः स्मरतीति । मातृसम्बन्धिस्नेहादिकं स्मरतीत्यर्थः। यदा कश्चिन्मातृविश्लेषदुःखमश्नुवानः शिशुमपरं वाऽम्बया सस्नेहातिरेकं लाल्यमानं सदयं वाऽवेक्ष्यमाणमालोकते तदा मय्यप्य म्बैवमाचरदिति भवति तस्य मातुः स्मरणम् । यदा चाऽकृत्या संवांदिनीं योषां रथ्यया यान्तीं निशाम्य सादृश्यप्रत्ययेन प्रतिबुद्धसंस्कारो मातरमेव स्मरति साक्षात्, मातृमूर्तिरेवास्योपतिष्ठते चेतसि, तदा भवत्येव कर्मकारक- स्यावकाशः । एवमन्यत्रापि । शुकनासस्यापि मनोरमायां तनयो जातः । अन्यत्र जनकस्य कर्तृत्वेऽपादानत्वे ‘ या सत्यप्यत्र तदविवक्षायां कस्येत्याकाङ्क्षायां शेषे षष्ठी । एवमेव क्षेत्रमन्यस्याधिं कृत्वा किमपि गृहीत्वा पुनरप्यन्यस्याधाय किमपि गृह्णातीति मिताक्षरावाक्येऽधिकरणस्याविवक्षायां शेषे षष्ठी । प्रियः सुकृत्प्रिय इन्द्रे मनायुः प्रियः सुप्रावीः प्रियो अस्य सोमी (ऋ ४|२५|५) । अत्रैकत्राधिकरणविवक्षया सप्तमी ‘श्रूयत इन्द्र इति, अपरत्र सम्बन्धमात्रविव- क्षायामस्येति षष्ठी । व्यायामक्षुण्णगात्रस्य पद्भ्यामुद्वर्तितस्य च । व्याधयो नोप सर्पन्ति वैनतेयमिवोरगाः ॥ इति काशिकायामुद्धारे व्याधयो व्यायामक्षुण्ण- गात्रस्य पुरुषस्य सन्निधिमपि नाधिगच्छन्ति, संस्पर्शनन्तु दूरापेतमिति विवक्षया शेषे षष्ठी । तुरीये तु चरणे कर्मविवक्षातो द्वितीया। प्रायेण नरश्रेष्ठ ज्येष्ठाः पितृषु वल्लभाः। मातॄणां च कनीयांस इत्यत्र रामायणीये (१।६१।१९) वाक्येऽप्येकत्रा धिकरणविवक्षया सप्तमी, अपरत्र कारकत्वाविवक्षया षष्ठी । ।

 प्रभ्वादीनां योगे चतुर्थी षष्ठी च दृश्येते । तत्रालमर्थे चतुर्थी, स्वाम्येऽधिकारे वा षष्ठीति विवेकः। प्रभवति मल्लो मल्लायेत्यवालमर्थे चतुर्थाः, प्रभवति स्वस्य कन्यकाजनस्य महाराज इत्यत्र मालतीमाधवे स्वाम्ये षष्ठ्या दर्शनात् । विधिरपि न येभ्यः प्रभवति इति भर्तृहरिप्रयोगे त्वलमर्थता कथञ्चित्समर्थनीया । स्वाम्ये सप्तम्यपि दृश्यते । प्रभवन्त्योऽपि हि भर्तृषु कारणकोपा मनस्विन्य इति मालविकायाम् । प्रभुः प्रथमकल्पस्य योऽनुकल्पेन वर्तत इत्यत्र मनुवाक्ये त्वलमर्थेऽपि षष्ठी । प्रभवत्यनुशासने देवी इति वेणीसंहारेऽलमर्थेऽपि सप्तमी । भारतेऽपि तत्रार्थे सप्तमी दृश्यते। तद्यथा--न हि तेजस्विनां शापास्तेजःसु प्रभवन्ति वै । इति ( अनुशासने, ८५॥१५॥ )।

 फलानां सुहित इति करणेः शेषविवक्षया षष्ठी । शेषविवक्षैव च नियता सुहितार्थयोगे करणस्येत्याहुरिति कामसूत्रटीकायां जगद्धरः । पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन ( २।२।११) इति करणस्य शेषविवक्षायां लिङ्गमप्यस्ति । अत्र काश्चिद्दिश-उपन्यस्यन्ते-नाग्निस्तृप्यति काष्ठानां नापगानां महोदधिरिति भारते (अनुशासन० ३८|२५॥)। अग्निस्तृप्यति नो काष्ठैर्नापगाभिर्महोदधिरिति तु क्वाचित्कः पाठ आगन्तुकोऽसम्प्रदाय इति वेद्यम् । वेदेऽपि करणाविवक्षायां षष्ठी दृश्यते‌--अनुकामं तर्पयेथामिन्द्रावरुण राय आ (ऋ० १।१७।३ ) । इन्द्र सोमस्य वृषभस्य तृप्णुहि (ऋ० २।१६।६ ) इति च । मन्दानः शिप्रयन्धसः ( अथर्व० २०।५३।२)। मन्दानस्तृप्यन्निति यावत्। हिरण्यवर्णा अतृपं यदा वः । (३।१३।६ ) इति च । तृम्पन्तु होत्रा मध्व इति ( ७।१५) वाजसनेयके। वाग्देवी जुषाणा सोमस्य तृप्यतु इति च (८।३७ )। सूत्रेष्वपि --अहरहर्नयमानो गामश्वं पुरुषं पशुम् । वैवस्वतो न तृप्यति सुराया इव दुर्मदी ॥ ( महाभाष्ये २।२।२९)। अतृप्तिश्चान्नस्य (आप० ध० २।१।३):.भारतेऽपि-—चिरस्य दृष्ट्वा दाशार्ह राजानः सर्व एव ते । अमृतस्येव नातृप्यन्प्रेक्षमाणा जनार्दनम् ॥ ( उद्योग० ९४|५१)। नाभुञ्जानो भक्ष्यभोज्यस्य तृप्येत् (२९।६ ) इति च । कामानामवितृप्तस्त्वं सृञ्जयेह मरिष्यसि इति चान्यत्र (द्रोण० ५५।३६)। गव्यस्य तृप्ता मांसस्येति (कर्ण० ४४।२७ ) । न हि तृप्तास्मि कामानां ज्येष्ठा मामनुमन्यताम् (आदि० १२५।२५) । अवितृप्तः सुगन्धस्य समन्ताद् व्यचरद्वनम् इति वामनपुराणे (२१।३२)। अतृप्तोऽस्म्यद्य कामानाम् इति च भागवते (९।१८।३७ ) । मद्बाणानां तु वेगेन हतानां तु रणाजिरे । अद्य तृप्यन्तु मांसादाः (रा० ६।५७।१८-१९)। सदोद्गारसुगन्धीनां फलानामाशिता इति च भट्टौ ( ७।३८ )। आशितास्तृप्ता इत्यर्थः । अपां हि तृप्ताय न वारिधारा स्वादुः सुगन्धिः स्वदते तुषारेति सन्दृभञ्छ्रीहर्षोऽप्यत्रानुकूलः। माघस्तु अथवा श्रेयसि केन तृप्यत इति करणमवज्ञायाधिकरणत्वमाद्रियते। तदस्य स्वातन्त्र्यमिति किमु तत्र वक्तव्यम् ।

 पूर्णशब्दयोगे पूरयतेश्चापि प्रयोगे करणस्य शेषविवक्षा दृश्यते प्रायेण । तद्यथा--सम्पूर्णा कृतविद्यानां गुहा केसरिणामिव ( रा० १।६।२१)। हृदाः पूर्णा रसालस्य दध्नः श्वेतस्य चापरे (रा० २।९१|७३ )। नन्दः प्रमुदितो मेने आत्मानं पूर्णमाशिषाम् इति भागवते (१०।८।२०॥)। यथा क्षेत्रिकः केदारादपां पूर्णात्केदारान्तरं पिप्लावयिषुः समं निम्नं निम्नतरं वा नापः पाणिनापकर्षत्या वरणं त्वासां भिनत्तीति योगभाष्ये (४।३) । स एष हृदः कामानां पूर्णो यन्मनः (जै०उ०ब्रा० १।५८।३)। तस्येयं पृथ्वी सर्वा वित्तस्य पूर्णा स्यात् (तै० उ० २।८)।


१. दिश उदाहरणानि । अपामञ्जली पूरयित्वा ( आश्व० गृ० १।२०) । पूर्णं रक्तासवानां यममहिष महाशृङ्गमादाय पतगाविति (यो० वा० उ० ८१।१०२). दासी घटमपां पूर्णं पर्यस्येत्प्रेतवत् पदा (मनौ ११।१८३)। चर्मावनद्धं दुर्गन्धि पूर्ण मूत्रपुरीषयोः (६।७६ ) इति च । नवं शरावं सलिलस्य पूर्णमिति । कौटलीयेऽर्थशास्त्रे (१०।१३१ )। ओदनस्य ‘पूर्णाश्छात्राः विकुर्वत इति सूत्रे (१।२।३५ ) काशिकायाम् । स्निग्धद्रवपेशलानामन्नविशेषाणां भिक्षाभाजनं परिपूर्णं कृत्वेति तत्राख्यायिकायाम् ( मित्रसम्० कथा० १ )। तं च खादिराणामश्वकर्णादीनां वा काष्ठानां पूरयित्वा प्रदीपयेत् इति च चरके (सूत्र० १४।४६ ) । तुषाणां स्थालीं पूरयित्वेति ( आप० श्रौ० ८।२।८।१२) आसेचनवन्ति पयसः पूरयतीति (का० श्रौ० २६।७।३२ )। पूर्णा वामेन तिष्ठन्तेति ( ७।६२।२) शौनकीयाः पठन्ति, पूर्णा वामस्य तिष्ठन्तेति पैप्पलादाः । सोऽयं शाखाभेदे पाठभेदः पूर्ण शब्दविषये प्रायिकतां षष्ठ्या वक्तीति नितान्तमुत्तानम् । शौद्धिकं दधिमधुघृतजला क्षतानां नवं पात्रं पूरयित्वेति च शङ्खलिखितस्मरणम् । ऋक्षु खल्वपि--पूर्णं आहावो मदिरस्य मध्वः (१०।११२।६ ) ।

 भरितशब्दयोगेपि षष्ठी दृश्यते भारते । तद्यथा—सन्ति निष्कसहस्रस्य भाण्डिन्यो२उदङ्कपाट्यांशः भरिताः शुभाः । इति ( सभा० ६०।२) । पूर्णार्थकवर्धितशब्दप्रयो गेऽपि षष्ठीं प्रयुञ्जते मन्वादयः स्मर्तारः--पाणिभ्यां तूपसंगृह्य स्वयमन्नस्य वर्धितम् ( मनु० ३।२२४)।

उपपदविरहेपि तद्योगशिष्टा विभक्तिः

 तैस्तैरुपपदैर्योगे तास्ता विभक्तीरनुशास्ति शास्त्रकारः । अन्तरेणाप्युपपदं सा सा दृश्यते । त इमे कालपूगस्य महतोस्मानुपागताः (भा० सभा° ३५।२४)। कस्यचित्त्वथ कालस्य, ततः कतिपयाहस्य, तच्छ्रुत्वेत्यत्र भारते ( वन० २५९।८, १६०।१५, उद्योग० १८९।१८ )। अथ दीर्घस्य कालस्य ( आदि० १५।५ ) । चिरस्य वाच्यं न गतः प्रजापतिः । भगवन्निमामाज्ञाकरीं वो गन्धर्वेण विवाह विधिनोपयम्य कस्यचित्कालस्य बन्धुभिरानीताम् इत्यादौ शाकुन्तले च पश्चा दित्युपपदं परिहृतम् । एति जीवन्तमानन्दो नरं वर्षशतादपीति रामायणप्रयोगे प्यूर्ध्वमित्याद्युपपदमपेक्षितं सदप्युपेक्षितम् । परं नैष उपपदपरिहारोऽन्यत्रापि


१. पूर्णाः सुहिता इत्यर्थ इति न्यासः । २. कुण्डिन इति पाठान्तरम् । ३ शक्योऽतिदेष्टुम् । अत्र विषये भगवतः सूत्रकारस्य स्वं वचः प्रमाणं प्रथमम्-- स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात् । अत्र प्राक् उपपदं नोपात्तम्१उदङ्कपाट्यांशः

 क्वचिच्चोपपदयोगे विभक्तिनियमो व्यवहारत एवावसेयो भवति न शास्त्रतः। अनन्तरशब्दयोगे षष्ठ्यपि दृश्यते पञ्चमी चापि । सुखस्यानन्तरं दुःखं दुःखस्या नन्तरं सुखम् । सुखदुःखे मनुष्याणां चक्रवत् परिवर्त्ततः (भा० शां० (२५।२३) ॥ सर्गशेषप्रणयाद्विश्वयोनेरनन्तरम् इत्यत्र कुमारे(६।९)ऽनन्तरशब्दयोगे विश्व योनेरिति सम्बन्धमात्रे षष्ठी । तस्यानन्तरमिति भाष्ये दर्शनात् । अन्यत्रापादान त्वविरहेपि पञ्चमी यथा–नीलादनन्तरश्चैवधृष्टकेतुर्महाबलः (भा० भीष्म० ५६।१३)। तत्र लोकेऽयमथशब्दो वृत्तादनन्तरस्य प्रक्रियार्थे दृष्ट इति प्रथमसूत्रे शाबरभाष्ये दर्शनात् । अथातो धर्मजिज्ञासा वेदाध्ययनादनन्तरमित्याचार्याः । कविः कालिदासोपिषु राणपत्त्रापगमादनन्तरमिति ।

 अन्तरन्तराभ्यन्तरमध्यैर्योगे प्रायेण सप्तमी दृश्यते । यथा--उत्क्षेपणादिषु गमनादीन्यन्तर्भवन्तीति पृथङ् नोक्तानि । अविद्यायामन्तरे वर्त्मानाः स्वयं धीराः पण्डितंमन्यमाना इति मुण्डकोपनिषदि । अभ्यन्तरोहं लोके न त्वहं लोक इति भाष्ये । गुणेषु मध्ये प्रसादो नाम गुणः सर्वस्य प्रियः । प्रभृति योगे पञ्चमी दृश्यते । तत्र कार्तिक्याः प्रभृत्याग्रहायणी मात्र इति भाष्यकारप्रयोग एव मानम् । पुराशब्दयोगेपि व्यवहारे पञ्चमी दृश्यते । तद्यथा— गर्भाधानमृतौ पुंसः सवनं स्यन्दनात्पुरा (याज्ञ० १।१० ) ॥

भावलक्षणा सप्तमी

 शास्त्रे येयं भावलक्षणेति विश्रूयते सप्तमी तत्राप्यस्ति वक्तव्यम् । तत्रावदधतां विपश्चितः । यस्य च भावेन भावलक्षणम् ( २।३।३७ ) इति हि तत्र विधायकं शास्त्रम् । कोऽस्य विषयः । यदा निर्ज्ञातकाला क्रिया अनिर्ज्ञातकालाया अपरस्याः क्रियायाः कालपरिच्छेदाय भवति सोऽस्य विषयः । क्रियां ह्यत्र लक्षणं क्रियान्त रस्य । लक्षणं चेहानुमापकं व्याप्तिग्राहकं लिङ्गं न गृह्यते यथा धूमोग्नेः, किन्तर्हि ज्ञापकमात्रमिति सर्वं भाष्यादौ स्पष्टम् । इदं तु न विस्पष्टं किं यस्यैकस्य क्रिया लक्षणं विवक्षिता तस्यैव क्रियान्तरं चेल्लक्ष्यं भवति, भवत्यनेन सूत्रेण तंत्र सप्त म्युताहो नेति । नेत्याह मान्यः कोषकृच्छ्रीशिवराम आपटेः । इदमेव च सम्यग्दर्शनम् । पूर्वं सूरयस्त्वत्र न संशिश्यिरेऽतो नात्र निर्णयमूचिरे । भाषावृत्तिकारः पुरुषोत्तम एवैकः प्रकृतसूत्रं वर्णयन्स्माह--यस्य च क्रिययाऽन्यस्य क्रियान्तरं


१. वेदे खल्वपि-यतो न पुनरायाति शाश्वतीभ्यः समाभ्यः (अथर्व० ६।७५।२। अत्रो र्ध्वपदपरिहारेपि समाभ्य इत्यत्र पञ्चमी । लक्ष्यते ततः सप्तमी स्यादिति । ईदृश एव शिष्टव्यवहारः । शिष्टाश्च वाचि प्रमाणमिति तदनुग्रहलाभाय तदविरोधेन सूत्राणि व्याख्येयानि ।

 अयमर्थः। यस्य कर्तुः कर्मणो वा क्रिया क्रियान्तरस्य लक्षणं भवति स चेत्कर्ता कर्म वा क्रियान्तराश्रयात्कर्तुः कर्मणो वा भिद्येत, तत्रैव सप्तमी स्यात्, अभेदे तु मा भूदिति । तेन शयानेन देवदत्तेन भुज्यते इत्यत्र न भवति । अत्र यद्यपि शयनं लक्षणं भोजनं च लक्ष्यं, तथापि यः शयिता स एव भोक्तेति लक्ष्य लक्षकयोः क्रियाक्रियान्तरयोः कर्त्रभेद इति प्रकृतसूत्रस्याविषयः। हते दशास्ये विभीषणो लङ्काराज्येभिषिषिचे रामेणेन्यत्र कर्माश्रयया हननक्रियया विभीषणा भिषेचनक्रिया लक्ष्यते रामकर्तृकेति विषयोऽयं सूत्रस्य । अत एव ‘ततस्तैस्तथाऽ नुष्ठिते तं धनरहितमवलोक्यापरे चत्वारोऽपि मुक्ताः’ इति पञ्चतन्त्रे मित्रभेदपाठो न दुष्यति । क्रियाक्रियान्तरयोरनुष्ठानमोचनयोर्लक्ष्यलक्षकयोर्भिद्येते आश्रयभूते कर्मणी। कर्त्रभेदस्त्वकिञ्चित्करः । न हि कर्तृसम्बन्धिनोः क्रिया-क्रियान्तरयोरत्र लक्ष्यलक्षकभावोऽभिप्रेतः । एवं कस्यचित्प्राथमकल्पिकस्य रामे वनं प्रतिष्ठमाने स पितुः प्रतिज्ञानमेव मनस्यकरोन्नान्यत्किञ्चिद् इत्यत्र सप्तमीप्रयोगं सूत्राशय विदो न सहन्ते बलवच्च गर्हन्ते । धृतराष्ट्रस्य विदिते पाण्डवा वञ्चिताः परैः इत्यत्र भारतप्रयोगे धृतराष्ट्रस्येति षष्ठी कथमिति चेदुच्यते--अत्र विदितमिति भावे क्तान्तम् । वेदनं विदितम् । धृतराष्ट्रस्येति तत्सम्बन्धे शैषिकी षष्ठी । विदिते इत्यधिकरणे सप्तमी ज्ञेया न भावलक्षण इति सर्वमवदातम् ।

विभक्त्यन्तरचिन्ता

 इयमपि द्वितीयाप्रयुक्तिश्चिन्त्यताम् । चतुर्दशीमष्टमीं वा रामं पश्यन्ति तापसा इति भारते । अथ कल्यमुत्थायेत्यादि च रामायणे । इहोभयत्राप्यत्यन्त संयोगोऽसन्नपि विवक्ष्यतेऽन्यथा द्वितीयानुपपत्तिः स्फुटैव । यद्यपि चतुर्दश्या अष्टम्याश्चैकदेशे तापसा रामं पश्यन्ति न तु सर्वरात्रम्, दर्शनं हि क्षणिकं भवति, तथापि रामदर्शन-समुत्सुकास्तापसाः सर्वो रात्रिं पश्यन्तीव रामम् । एवं ह्यासेचनकं पावनं च तदूपमिति विवक्षया तथा प्रयुङ्क्ते कविः। एवं दर्शनक्रियया रात्रेः कालस्याभिव्याप्तिर्व्याख्याता भवति । द्वितीयस्मिन्नपि प्रयोग उत्थानपूर्विकया चेष्टया व्याप्तिर्विवक्ष्यते सर्वस्य कल्यस्येति द्वितीया सुवचा । क्रियाश्वान्तर्णीत क्रियन्तरा अपि प्रयुज्यन्त इति धातूनां सकर्मकाकर्मकत्वप्रकरण इहैवोक्तमधस्तात् । एवं ततो द्वादश वर्षाणि प्रवेष्टव्यं वने पुनरिति भारतप्रयोगे प्रवेशनक्रियया तत्पूर्विका वासक्रियाऽभिधीयते । अन्यथा प्रवेशनस्य क्षणिकत्वात्कथनङ्कारं तेन द्वादश समा व्याप्येरन्, अव्याप्तेश्च कथं नाम वर्षशब्दादत्यन्तसंयोगे विहिता द्वितीयोपपत्तिमती स्यात् । एवमन्यत्रापि भारते—-आत्मनो हि वयं दोषाद् विनष्टाः शाश्वतीः समाः ( शां० ७।३२ ) इत्यत्र नाशलक्षणायाः क्रियायाः क्षणिकत्वेपि तद्विशिष्टाया अवस्थाया अभिधानादस्तिं तया शाश्वतीनां समानामभिव्याप्तिरित्यत्यन्त संयोगे द्वितीया सूपपन्ना भवति । एवमादिविषये चतुर्थी प्रयुञ्जानो बाढं भवत्यप शब्दभागिति शश्वत्स्मार्यम् । इहोदाहरणेषु कथंचिद्द्वितीयानिर्वाहेपीमासु दिक्ष्व न्त्यसंयोगस्यात्यन्तमसत्वाद्द्वितीयाप्रयुक्तिः सर्वथा दुःसमाधानेति व्यवहारमात्रं तत्र शरणम्—ते प्रवृतिं पृच्छन्ति ममेमां व्युषितां (=व्युष्टा) निशाम् (भा० उद्योग० १९४।२) । इमां व्युषितां निशाम् इत्यद्य प्रभातकाल इत्याह । इमां तु रजनीं प्राप्तामप्रभातां सुदुर्मते । निहत्य पितरं (भा० द्रोण० १६०।३६)॥ यावदियं रजनी प्रभाता भवति ततः प्रागित्यर्थः। अनतीतामिमां रात्रिं यदि त्वां वीरमा निनम् । न हन्यां नरके घोरे पतेयं वृष्णिपांसन ( द्रोण० १५६।७-८) । अस्या वर्तमानाया रात्रेरत्ययादर्वागित्यर्थः । यदीमां रजनीं व्युष्टां न हि हन्मि परान्रणे ( शल्य० ३०।२१) यावदियं रजनी व्युच्छति तावत् । श्वोभूत इत्यर्थः ।

 अयमपि सप्तमीप्रयोगः परीक्ष्यः परीक्षकैः—एताभ्यां रंस्यसे सार्धं वस वै मयि बाहुकेति भारते ( वन० ६७|७ ) नाब्राह्मणे गुरौ शिष्यो वासमात्यन्तिकं चरेदिति मनौ (२-२४२)। याच्ञा मोघा वरमधिगुणे नाधमे लब्धकामेतिं मेघे । अस्ति मे त्वयि प्रार्थनेति चान्यत्र भारते । अत्र सर्वत्र सामीपिकेधिकरणे सप्तमी बोध्या । सप्तम्यैव च शिष्टा एतमर्थमभिदधति । तदेषां शीलम् । नव्यास्तु यदि पथि विपथे वा वर्तयामः स पन्था इत्यभिमन्यमाना मत्पार्श्वे वस, गुरोः सन्निधौ वसति, अस्ति मे त्वत्तः प्रार्थनेत्येवं विवक्षितमर्थमर्पयन्ति । यद्यपि पार्श्वादिप्रयोगे कश्चिद्दोषो न, गुणोपि सुतरां न । अधिकपदत्वं तु भवति, स रुचिविषयः शारदा नामेव न विशारदानाम् ।

 अयमपि तृतीयाव्यवहारोऽनुचिन्त्यताम्-निमन्त्रयामास तदा फलमूला शनादिभिः ( भारते वन० २७८।३३ )। भरतं केकयीपुत्रमातिथ्येन न्यमन्त्रयत् ( रा० २।९१।१ )। स्थानिनो देवाः स्थानैरुपनिमन्त्र्यन्ते भो इहास्यताम् इह रम्यतामिति (योगभा० ३।५१) । लक्ष्म्या निमन्त्रयाञ्चक्रे तमनुच्छिष्टसम्पदा ( रघौ १२।१५ )। अत्र सर्वत्र तादर्थ्ये सत्यपि हेतुतृतीयां प्रयुञ्जते शिष्टा न चतुर्थीम् । तेन भोजनेन निमन्त्रयते विप्रमिति वक्तव्यं न तु भोजनायेति ।

 इदं चेह मीमांस्यं किं शक्यं नाम ब्राह्मणेभ्यो ब्राह्मणान्वा भोजनं परिवेविष्टे परिवेषयति वेति वक्तुम् । नेत्याह । यद्यत्र परिवेषणं समर्पणं निवेदनं वेत्यनेन समानार्थकं स्यात् स्यात्तत्र चतुर्थीप्रक्लृप्तिः | न च परिवेषयतीत्यस्याभ्यवहारयतीत्यर्थो यद् भोजनमिति कर्मणि द्वितीया साध्वी स्यात् । तत् किं नाम परिवेषणं भवति ? व्याप्तिः। भोजना त्वार्थिकी । परिपूर्वो विष्लृधातुः स्वार्थमजहदेव भोजनामाह । सा किल व्याप्तिर्भोजनार्था भवतीति परिवेषणं भोजनेत्युपचारः । केन चात्र व्यप्तिरभिप्रेयते। अन्नेन भोजनेन वा । यो नाम भोजयितुमिष्टः स परिविष्यते । तेन ब्राह्मणान्भोजनेन परिवेविष्टे (परिवेषयति ) इत्येव शिष्टजुष्टः प्रकारः । प्रकारान्तरं तु दुरुपपादमव्यवहृतपूर्वं चेति परिहेयम् । प्रकृते प्रकारे भारतं प्रमाणम्। तथा च ब्राह्मणान्परिवेष्टुमिच्छामीतिं ( आदिपर्वणि ३।९७ ) । पूर्णे शतसाहस्रे विप्राणां परिविष्यताम् (=परिविष्यमाणानाम् ) इति च (सभा० ४९।३१) प्रयोगः । सूत्राणि खल्वपीमं व्यवहारं प्रमाणयन्ति । एवं ह्यग्निवेशसूत्रे (१।१)स्मर्यते--आपूर्यमाणपक्षे पुष्ये नक्षत्रे विशेषेण पुंनामधेये युग्मान्ब्राह्मणानन्नेन परिविष्येत्यादि । असकृदावृत्तश्चैष ब्राह्मणानित्यादिः पाठः सूत्र इत्यस्य यादृच्छिकत्वं वारयति, अपपाठकल्पनां च व्यपोहति । ब्राह्मणानन्नेन परिवेषयेद् इति भारद्वाजगृह्यसूत्रे (१।६॥) चापि । यद्वा अतिथिपतिरतिथीन्परिविष्येति च शौनकसंहितायाम् (९।६।५३ ) ।

 इदमपरविधं विमृश्यम् । 'तीन दिन से मेह बरस रहा है' अस्य वाक्यस्य किमात्मकं संस्कृतमिष्यते । (अद्य) त्रीणि वासराणि वर्षति देव इत्येवास्य संस्कृतं शिष्टजुष्टं विभावयामः। अत्रार्थे पञ्च वर्षाण्यहं वीरं सत्यसन्धं धनञ्जयम् । यन्न पश्यामि बीभत्सुं तेन तप्ये वृकोदर ॥ इति भारते (वन० १४१।७)। इयन्ति वर्षाणि तया सहोग्रमभ्यस्यतीव व्रतमासिधारम् (१३।७६) इति रघुवंशे । दश वर्षाणि सततमयं नः शास्ति भार्गवः (४।५।१२) इति देवीभागवते । भयाद्यस्य महाबाहो न शेते बहुलाः समा इति च भारते (द्रोण० १३१।६॥)। स विगाढरसो विलासिनां परिहासः स्मरणीयतां गतः। पुरिं नः परमेधतेऽधुना गणरात्रं परिदेवितध्वनिः ॥ इति चाभिनन्दकृते रामचरिते (३३।२० )। अत्र गणरात्रमित्यत्यन्तसंयोगे द्वितीया । इत्यादिषु रचनासंवादात् । अद्य कतिपयान्यहानि नैवागच्छति,अद्य बहूनि दिनानि नावर्तते इति च उभयाभिसारिकायां धूर्त्तविटसंवादे च सन्निवेशसादृश्याच्च । प्रकृते वासराणीत्यत्र द्वितीयाऽत्यन्तसंयोगे । कालो ह्यत्र वर्तमानकालिक्या क्रियया साकल्येनाभिव्याप्त इति तदुपपत्तिः। नायमर्थो विभक्त्यन्तरेण शक्यो वक्तुमिति न तिरोहितं सताम् । वाक्यभेदेन त्वयमर्थः प्रकान्तरेणापि शक्यो वक्तुम्--अद्य (इदम्, इत इति वा ) तृतीयं वासरं यद्वर्षति देवः । अत्रार्थे प्रमाणमप्युपस्तम्भकमस्ति । चतुर्दशमिदं वर्षं यन्नापश्यमरिन्दम इति भारते ( उद्योग०


 १. यमोऽपरिवेषणे इति गणसूत्र व्याख्यायां परिवेषण भोजनेति दीक्षितः । स आर्थिकोऽर्थ इति वेद्यम् । ९०।७०) । इतश्चतुर्दशं वर्षयन्नापश्यं युधिष्ठिरम् इति च ( उद्योग० ९०।४७)। संवत्सरः किञ्चिदूनो न निष्क्रान्ताहमाश्रमात् (भा० वन० २९६।२६) । केचिदुक्तेर्थे ऽद्य त्रीणि वासराणि वर्षतो देवस्येति संस्कृतं साधु पश्यन्ति । तन्न । अत्रानुकृतौ कालः प्रधानं क्रिया चोपसर्जनम् । वर्षणं हि कृत्प्रत्ययेन शत्रा कालसम्बन्धितयोक्तमिति व्यक्तमप्रधानम् । मूलहिन्दीवाक्येतु विपर्ययेणार्थोपन्यास इति मूलच्छाययोर्बिम्बप्रतिबिम्बभावो नास्ति ।

 इदं चापरमेतज्जातीयकं विवेच्यम् । ( आज से ) छः मास पूर्व एक भीषण भूकम्प आया, महमूद ने भारतवर्ष पर सहस्र वर्ष पूर्व आक्रमण किया, तथा दो सप्ताह पूर्व मुसलाधार वृष्टि हुई–-इत्यमीषां वाक्यानां किंरूपेणाञ्जसेन संस्कृतेन भवितव्यमिति । केचिदिमानीत्थं परिवर्तयन्ति संस्कृतेन--इतः षण्मासान्पूर्वं बलवद्भूरकम्पत, इतो वर्षसहस्रपूर्वं महमूदो भारतभुवमाचक्राम, इतः सप्ताहद्वयं पूर्वं धारासारैरवर्षद् देव इति । अपरे इतः षड्भ्यो मासेभ्यः पूर्वं बलवद्भूरकम्पत, इतो वर्षसहस्रात्पूर्वं महमूदो भारतभुवमाचक्राम, इतः सुप्ताहद्वयात्पूर्वं धारासारैरवर्षद् देव इति । इतरे च षण्मासा अतीता यदा बलवद्भूरकम्पत, वर्षसहस्रमतिक्रान्तं यदा महमूदो भारतभुवमाचक्राम, सप्ताहद्वयं गतं यदा धारासारैरवर्षद् देव इत्येवमुक्तमर्थमनुवदन्ति । सर्वोऽयं प्रकारो दुष्ट इति नाभिनन्दनीयो विदुषामिति सङ्ग्रहेणोपपादयामः । प्रकारत्रितये प्रथम: प्रकारस्त्वापाततोप्यरम्यः सुतराञ्च जघन्यः । इह षण्मासान् इत्यादिषु यथा द्वितीयाऽनन्वयिनी तथां प्रथमापि । द्वितीया ह्यत्यन्तसंयोगे विहिता । अत्यन्तसंयोगश्चात्र नेष्टः । तेन कुतोत्र द्वितीया सूपपादा स्यात् । सर्वथाऽनन्वितं पदकदम्बकमिहोपन्यस्तमिति वाक्यमपि न भवति । मूलानुकारिता तु दूरोत्सारिता । द्वितीयस्मिन्प्रकारे इतः षण्मासात् ( षड्भ्यो मासेभ्यः ) पूर्वमित्यादि सर्वथा संस्कारवत्तथापि विवक्षितमर्थं नार्पयतीति नैषाऽनुकृतिरनवद्या भवति । इदमत्रावद्यम् । मूले समयस्यैकोऽवधिरभिप्रेतः, संस्कृतच्छायायां त्ववधिद्वयं व्यक्तमुदितं भवति । द्विःपञ्चमीप्रयोगात् । यश्च क्रियाविशेषाभिव्याप्तः कालोऽत्यगान्नासौ परिच्छिन्नः । अत्र वाक्येषु त्विदमादिरर्थः प्रतीतिं याति । भूकम्पादिव्यतिकरो नामाऽयं मासषट्कादिकालात्यये नाभूदिति । ततः पूर्वं कदाऽभूदिति न सुज्ञानमस्ति । वक्तुश्च नैषां विवक्षेत्ययमपि प्रकारो हेयः । तृतीयस्मिन्प्रकारेपि दोषं विभावयामः । अत्र पूर्वत्र वाक्ये कालात्ययो निर्दिष्टः ।


१. अयमादिरस्य इति इदमादिः । आदिशब्दः प्रकारे । २. इममेव प्रकारमसाम्प्रतं साम्प्रतिका आ कन्यान्तरीपादा च काश्मीरेभ्यो वर्तमाना विपश्चितो जुषन्ते न च प्रत्यवायमीक्षन्त इति विस्मयसमीचीनो नः खेदः । स किमवधिकः किंक्रियापेक्ष इति च नोक्तम् । यत्तदोर्नित्यसम्बन्धात्तदेत्यध्याहार्यं भवति । उत्तरत्र च क्रियोक्ता स्वातन्त्र्येण, न तु पूर्ववाक्यगतकालावधित्वेन । तेनोभयोर्वाक्यार्थयोरवध्यवधिमद्भावो नावगतो भवति । स च मूलवाक्येऽभिसन्धित्सितो वक्त्रेति दूरं सान्तरे छाया च मूलं चेति न दुरवधारं सुधीभिः ।

 तेनापहाय दुष्टमेतत्प्रकारत्रितयं निर्दुष्टमिदं प्रकारद्वयं परिगृह्णन्तु सन्तः । (१) अद्य षण्मासा भुवः कम्पितायाः । अद्य वर्षसहस्रं महमूदस्य भारतभुवमाक्रान्तवतः । अद्य सप्ताहद्वयं धारासारैर्वृष्टस्य देवस्य । (२) इतः षट्सु मासेषु ( षष्ठे मासे ) बलवद्भूरकम्पत । इतो वर्षसहस्रे (सहस्रतमे वर्षे ) महमूदो भारतभुवमाचक्राम । इतः सप्ताहद्वये ( चतुर्दशेऽहनि ) धारासारैरवर्षद् देव इति । अत्र प्रथमे प्रकारे षण्मासाः, वर्षसहस्रम्, सप्ताहद्वयमित्यतीतं कालं परिच्छिन्दन्ति । तत्र च सर्वत्रातीताः सन्तीत्यादेः क्रियाया गम्यमानायाः कर्तृतया प्रथमान्तानीमानि निर्दिष्टानि । भुव इत्यादौ षष्ठी शैषिकी । अयं च प्रकारः समा द्वादश तस्येह वेदानभ्यस्यतो मुनेः इति भारते ( सभा० ) प्रयोगेण समर्थनां लभते । द्वितीयस्मिन्प्रकारे इत इति पञ्चम्यर्थे तसिप्रत्ययान्तम् । पञ्चमी च यतश्चाध्वकालनिर्माणं तत्र पञ्चमीति वार्तिकेन कालमाने विहिता । ‘षट्सु मासेषु’ इत्यादिषु ‘षष्ठे मास’ इत्यादिषु च सप्तमी तु कालात्सप्तमीति वचनानुसारिणी । इतः स्थानेऽद्येत्यपि प्रयुज्यते । तत्र चायमस्मादह्न इत्यर्थमाचष्टेऽधिकरणवृत्तिरपि । तथा च कवेः प्रयोगः-- अद्य प्रभृत्यवनताङ्गि तवास्मि दास इति । अयं च द्वितीयः प्रकारो भारतेनानुगृह्यते शाबरभाष्येण च । पितृलोकं गतः पाण्डुरितः सप्तदशेऽहनि ( आदि० १२६।२९) । प्रतीयते हि गाव्यादिभ्यः सास्नादिमानर्थः । तस्मादितो वर्षशतेप्यस्यार्थस्य सम्बन्ध आसीदेव । ततः परेण ततश्च परतरेणेत्यनादिता इति शाबरभाष्ये । श्रीरामायणेप्यस्य व्यवहारस्यानुग्राहकं वचो दृश्यते—-मन्त्रं कृत्वा प्रसुप्तोऽयमितत्तु नवमेऽहनीति (६।६०।१७ )।

प्रकारद्वयस्य विषयप्रविवेकः

 इदं चात्र सम्प्रधार्यम् । किमेतौ प्रकारौ स्वच्छन्दतो यत्र तत्र शक्यावास्थातुमुत यथायथं प्रतिनियतविषयाविति । बाढं प्रतिनियतविषयाविति ब्रूमः । प्रथमः प्रकारस्तु क्वचिदेव सङ्गतः स्यात् । तत्र हि कालविशेषस्यातिक्रान्तस्य विशेषणीभूता क्रिया कृत्प्रत्ययान्तेन षष्ठ्यन्तेनोच्यत इति कालापेक्षया प्रव्यक्ता तस्या

गौणता । तस्माद्यत्रैवंविधः क्रियाकालयोर्गुणप्रधानभावोऽभिप्रेयते तत्रैवैष प्रकार औपयिको नेतरत्र । यत्र तु क्रिया प्राधान्येन विवक्ष्यते तिङा चोच्यते तत्र कालनिर्देशः सप्तम्यैव युक्त इति द्वितीय एव प्रकारस्तत्र युक्तरूप इति पश्यामः ।

प्रकारान्तरसंभवः

 इतो व्यतिरिक्तमपि प्रकारान्तरं संभवति । इतः षड्भिर्मासैः पूर्वं भूरकम्पत । इतो वर्षसहस्रेण पूर्वं महमूदो भारतभुवमाचक्राम । इतः सप्ताहद्वयेन पूर्वं धारासारैरवर्षद् देव इति । अत्र वाक्येषु षड्भिर्मासैरित्यादिषु या तृतीया सा कम्पनादिक्रियायाः पूर्वतामवच्छिनत्ति । मासपूर्वः, वर्षपूर्व इत्यादयः समासाः पूर्वसदृशसमोनार्थकलहनिपुणमिश्रश्लक्ष्णैरिति शास्त्रेणाभ्यनुज्ञायन्ते । समासविधानाच्च लिङ्गान्मासेन पूर्व इति वाक्येपि पूर्वशब्दयोगे तृतीया साध्वीत्यास्थीयते । तेन मत्तो नवभिर्मासैः पूर्वो देवदत्त इति दोषलेशैरस्पृष्टं वचः । इदमत्र तत्त्वम् । पूर्वशब्देन योगेऽस्मच्छब्दात्पञ्चमी, तेनैव च योगे मासशब्दात्तृतीया । अवध्यर्थे पञ्चमी, अवच्छेदे तृतीयेति विभक्तिभेदः । यदि मासेन पूर्व इति निरस्तसमस्तदोषः प्रकारस्तर्हि षड्भिर्मासैः पूर्वं भूरकम्पतेत्यादि वाक्यं कथं दोषास्पदं स्यात् । अत्र पूर्वमिति कम्पनक्रियां विशिनष्टि मासैरिति च पूर्वतां क्रियाया अवच्छिनत्ति । नात्र दोषस्तोकं विभावयामः । अप्रहत एष वाचां पन्था इति न शिष्यान्परिग्राहयामः । सर्वथा निर्वद्योप्ययं प्रकारो न तावत् प्रमाणकोटिं निविशते यावन्न शिष्टप्रयोगैः समर्थनां लभते ।

इत्यवसितः कारकविचारः ।

 अयमपि शिष्टव्यवहारो विमृश्यताम् | तिङन्तेन समानप्रकृतिकं कर्म न प्रयुयुक्षन्ते प्रायेण यावन्न पदान्तरेण तद्विशेषयन्ति । अर्थपौनरुक्त्यात् । न हि शिष्टा वाचं ब्रवीति, शपथं शपते, भोजनं भुङ्क्ते, गीतं गायति, वर्षं वर्षति, संभारान् संबिभर्ति, फलानि फलतीत्यादि प्रयुञ्जते पुनरुक्तिदोषभयात्। सविशेषणत्वे तु रोचयन्ते प्रयोगम्--जीवत्वसुखजीविकाम् (भा० वन० ६३।१७ )। इयं राजर्षिभिर्याता पुण्यकृद्भिर्युधिष्ठिर । मन्वादिभिर्महाराज तीर्थयात्रां भयावहा ॥ (भा० वन० ९२।१०) । नादान्नदति चाद्भुतान् (१७८|२१) इति च । अन्धः स्यादन्धवेलायां बाधिर्यमपि चाश्रयेत् । कुर्यात् तृणमयं चापं शयीत मृगशायिकाम् ॥ ( भा० आदि० १४०।१२)। जहास स्वनवद् हासम् (भा० सभा० ४५।१७) । शुचिस्मितां वाचमवोचदच्युत इति माघे । शिवभक्तिरियं नो मनोरथदुर्लभानि फलानि फलतीति हर्षचरिते । वाङ्मयमधुवर्षमवर्षत् इत्यन्यत्र । पापान्संसृत्य संसारान् इति च (मनु० १२।७०) । अनित्यां वसतिं वसेत् इति वासिष्ठधर्मसूत्रे (१०।१२)। तस्माद्राज्ञा निधातव्यो ब्राह्मणेष्वक्षयो निधिरिति मनौ (७।८३॥)। अजिह्मामशठां शुद्धां जीवेद् ब्राह्मणजीविकाम् इति च (४।११ )। मधुरं गायति गीतमित्यन्यत्र । क्वचित्तु विशेषणविरहेपि तथा प्रयुञ्जते--कच्चित्ते मन्त्रितो मन्त्रो न राष्ट्रं परिधावतीत्यत्र (भा० सभा० ५।३०) यथा । तत्र धातुः क्रियासामान्ये भवतीति कल्प्यं भवति । एवमन्यत्रापि-- स निश्चयेन योक्तव्यो योगो निर्विण्णचेतसा इति गीतासु (६।२३)। व्यूहौ च व्यूह्य संरब्धाः सम्प्रहृष्टाः प्रहारिण इति भारते ( भीष्म० ६९।३ )। उपधानं कुरुश्रेष्ठं फाल्गुनोपधत्स्व मे (भीष्म० १२०।४१) इति च । उक्तलक्षणं कर्तृपदं तु बाढमिच्छन्ति । चौरस्य रुजति रोगः । चौरस्यामयत्यामय इति च काशिकायाम् (२।३।५४ )। यत्र क्रियामात्र उदिते कर्मणि चानुदितेऽर्थो न पूर्यते तत्रार्थवान् कर्मणः प्रयोग इति न वार्यते । को भवता दायो दत्तः । को भवता लाभो लब्ध इति ।

 इदं चापि व्यवहारानुबन्धि किञ्चिदवधानेनानुगृह्यताम् । यत्र खलु विशेषणमहिम्ना विशेष्यार्थलाभस्तत्र शक्यं विशेष्यमप्रयोक्तुम् । तद्यथा सागराम्बरेति समुद्रवसनामुर्वीमाह । विषाक्ते दिग्धलिप्तकावित्यमरात्केवलौ दिग्धलिप्तकशब्दौ विषसम्पृक्तशरवचनौ परिगृह्येते । भारते प्रयोगोपि दृश्यते—-दिग्धहस्तं मृग इव स एनस्तस्य विन्दति ( उद्योग० ३९।२७ )। उष्णानि कृष्ण वर्तन्ते इति भारतप्रयोगेऽप्युष्णानीति निदाघाहा उच्यन्ते । अजर्यं संगतमिति जीर्यतेर्नञ्पूर्वात्संगते संगमने कर्तरि यत्प्रत्ययो निपात्यते । अजर्यमार्यसंगतम् । परं केवलोऽप्यजर्यशब्दस्तादृशे संगते प्रयुज्यते । मृगैरजर्यं जरसोपदिष्टमदेहबन्धाय पुनुर्बबन्धेति रघौ ( १८।७ )। क्वचिन्नाम्नापि केवलेन तत्कर्मिका क्रिया लक्ष्यते । नागपृष्ठेऽश्वपृष्ठे च परिनिष्ठित इत्यत्र नागपृष्ठारोहणेऽश्वपृष्ठारोहणे च परं प्रावीण्यमुपगत इत्यर्थोऽभिधित्सितः ।

उद्देश्यविधेयभावः

 अवसितः कारकादिविचारः । इदानीं वाक्य उद्देश्यस्य कर्तृतां वा स्याद्विधेयस्य वा । अपि वाऽन्यत्रार्थानुरोधात्किमुद्देश्यस्य कर्मत्वमिष्यतामुताहो विधेयस्येति विचारमवतारयामः । यद्युद्देश्यस्य कर्तृता तदा कर्तृवाचिनि तिङि धातोरुद्देश्यमनुसरन्ती पुरुषवचने भविष्यतः । अथ विधेयस्य कर्तृता तदा तदेव ते अनुरोत्स्यतः । एवमेकैकस्य कर्मत्वविवक्षायां तत्तदनुरोधात् धातोः पुरुषवचने, क्तान्तात्प्रातिपदिकाच्च लिङ्गसंख्याविभक्तयो भविष्यन्ति । अस्मिन् गालोडिते प्रवृत्तानां वैदिकं लौकिकं च साहित्यं शीलयतां नः प्रायश उद्देश्यस्य कर्तृत्वाभिप्रायानि यथाविवक्षं कर्मत्वाधिगमकानि वा वाक्यानि दृक्पथमवतरन्ति । तानि


१. रात्राह्नाहाः पुंसीति पुंस्त्वम् । २. गालोडितं वाचां विमर्शः । स्थूलोच्चयेनोच्यन्ते—समुद्रः स्थः कलशः सोमधानः ( ऋक् ६।६९।६ )। यदग्ने स्यामहं त्वं त्वं वा घा स्या अहम् । स्युष्टे सत्या इहाशिषः ॥ (ऋक् ८।४४।२३ ) । यत्र ब्रह्म च क्षत्रं च उभे भवत ओदनः (कठ उ० ) । आत्मेत्येवोपासीत । अत्र सर्व एकं भवन्ति ( बृहदारण्यके उ० १।४।७ )। ता यदा सहस्रं सम्पेदुः ( छा० उ० ४।४।५ )। सत्त्वं ज्ञानं तमोऽज्ञानं रागद्वेषौ रजः स्मृतम् ( मनु० १२।२५)। अत्र रजो रागद्वेषौ स्मृतम् इत्यत्रान्वये रागद्वेषाविति विधेयम् । स एते पञ्चपशवोऽभवत् ( श० ब्रा० ६।२।१।३ ) । अप्यर्थकामौ तस्यास्तां धर्म एव मनीषिणः ( रघौ १।२५ )। कन्या शिखण्डिनी जाता पुरुषो वै निवेदिता ( भा० उद्योग० १९१।२ ) । एषोऽस्मि कामन्दकी संवृत्तः ( मालती० ) । पुरुषो ह नारायणोऽकामयत । अहमेवेदं सर्वं स्यामिति ( श० ब्रा० १३।६।१।१॥ )। ते ह व्याघ्रो वा वृको वा वराहो वा कीटो वा पतङ्गो वा दंशोः वा मशको वा यद् यद् भवन्ति तदाभवन्ति ( छां० उ० ६।९।२ ) । बालानां तु शिखा प्रोक्ता काकपक्षः शिखण्डक इति हलायुधः । भारः स्याद् विंशतिस्तुला इत्यमरः । विवेकपादपस्यैव भोगमोक्षौ फले स्मृतौ इति च योगवासिष्ठे ( २।११।५८ )। शब्दार्थौ मूर्तिराख्यातौ जीवितं व्यङ्ग्यवैभवमिति विद्यानाथः । अत्रोदाहृतीनामियत्तापरिच्छेदो नास्ति ।

 उद्देश्यस्य कर्तृकर्मत्वे परिगृह्य प्रचुरं पुरा प्रयुञ्जते प्रज्ञाः । विधेयस्य कर्तृकर्मत्वपरिग्रहस्त्वल्पः क्वाचित्कः । बाढं प्रयस्यद्भिरस्माभिः कियन्तिचिदेवोदाहरणानि पारितानि पर्येषितुम् । तानीहानुक्रामामो विमर्शाय विपश्चिताम् । यस्मिन्सर्वाणि भूतान्यात्मैवाभूद्विजानत इति शुक्लयजुषि (४०।७ )। ते समानीतमात्रे तु शकले भरतर्षभ । एकमूर्तिधरो वीरः कुमारः समपद्यत ॥ इति भारते ( सभा १७।४१ )। त्रीणि वर्षसहस्राणि त्रेतायुगमिहोच्यत इति, अन्नं प्रजापतिश्चोक्त इति, अश्वमेधो महायज्ञः प्रायश्चित्तमुदाहृतम् इति च भारते ( वन० १८८।२३।, २००।३८, शान्ति० ३३।३८ )। अक्षौहिण्यो दशैका च कौरवाणामभूद्बलम् ( उद्योग० १५५।२७ ) इति च । त्रिंशत्कला मुहूर्तः स्यात्, पणानां द्वे शते सार्धे प्रथमः साहसः स्मृतः । ते षोडश स्याद्धरणम्, प्राणायामा ब्राह्मणस्य त्रयोऽपि विधिवत्कृताः । व्याहृतिप्रणवैर्युक्ता विज्ञेयं परमं तपः ॥ श्रुतिस्तु वेदो विज्ञेयो धर्मशास्त्रं तु वै स्मृतिः, ग्री कृष्णले समधृते विज्ञेयो रौप्यमाषकः । सप्त प्रकृतयो ह्येता सप्ताङ्गं राज्यमुच्यते इति भृगुप्रोक्तायां मनुसंहितायाम् (१।६४, ८।१३८, ८।१३६, ६।७०, २।१०१, ८।१३५, ९।२९४ )। इन्द्रियाणि मनो बुद्धिरस्याधिष्ठानमुच्यत इति गीतासु ( ३|४० )। आम्नाये स्मृतितन्त्रे च लोकाचारे च सूरिभिः । शरीरार्धं स्मृता नारी


३. असाकल्येन । ( बृहस्पतिः )। विषयो विशयश्चैव पूर्वपक्षस्तथोत्तरः । सिद्धान्तश्चेति पञ्चैते शास्त्रेऽधिकरणं स्मृतम् ॥ ओंकारपूर्विकास्तिस्रो महाव्याहृतयोऽव्ययाः । त्रिपदा चैव सावित्री विज्ञेयं ब्रह्मणो मुखम् ॥ (मनु. २।८१)। एको भिक्षुर्यथोक्तस्तु द्वौ भिक्षू मिथुनं स्मृतम् । त्रयो ग्रामः समाख्यात ऊर्ध्वं तु नगरायते ॥ इति दक्षस्मृतौ ( ७।३४ )। सुवर्णपिण्डः खदिराङ्गारसवर्णे कुण्डले भवत इति पस्पशायां भाष्ये । द्वौ द्वौ माघादिमासौ स्यादृतुरित्यमरः । द्वौ द्वौ मासावृतुः स्मृत इति क्षीरस्वामिनोद्धृतं कात्यवचनम् । आचितो दशभाराः स्युरिति चामरः । पक्षसी तु स्मृतौ पक्षाविति पचिवचिभ्यां सुट् चेत्युणादिसूत्रव्याख्यायां दीक्षितोद्धृतः कोषः । भिन्नो भयाद्वा शोकाद्वा ध्वनिः काकुरुदाहृतेति श्रीहर्षचरिते प्रथमोच्छ्वासे शङ्करोद्धृतकोषः । अक्षरेभ्यः संस्कारः संस्कारार्थप्रतिपत्तिरिति सम्भवत्यर्थप्रतिपत्तावक्षराणि निमित्तमिति शाबरभाष्ये (१।१।५)। मिथुनं परिकल्पितं त्वया सहकारः फलिनी च नन्विमाविति रघौ (८।६१)। यत्र द्वे ऋचौ प्रग्रथनेन तिस्रः क्रियन्त इति काशिकायाम् (४।२।५५ )। तत्र पूर्वं द्वे अक्षरे एकमक्षरं क्रियत इति क्षैप्रसंयोगैकाक्षरीभावान् व्यूहेत् इति सूत्रव्याख्यायां वेदार्थदीपिकायां षड्गुरुशिष्यः । साक्षिणः साधनं प्रोक्तं दिव्यं न च लेख्यकमिति मिताक्षरायाम् ( २।२२)। अग्न्यधिष्ठानमग्नस्य ग्रहणाद् ग्रहणी मता । इति चरके ( चिकि० १५।५३ )। खादयश्चेतनाषष्ठा धातवः पुरुषः स्मृतः । इति च ( शारीर० १।१६ )। कार्तिकस्य दिनान्यष्टावष्टावग्रहणस्य च । यमदंष्ट्रा समाख्याता अल्पाहारः स जीवति ॥ इति शार्ङ्गधरसंहितायाम् (१।२।२४)। कोषो दण्डो बलं चैव प्रभुशक्तिः प्रकीर्तिता । इति मिताक्षरायाम् । शब्दाः समानानुपूर्व्या यमकं कीर्तितं पुनः ( विष्णुधर्म० पु० ३।१४।२)। एवमग्रेऽपि श्लोके कतिपयपदान्येव म्लेच्छभाषा भवति न सर्वः श्लोक इति भारतभावदीपे नीलकण्ठः । अतप्ततण्डुला धौताः परिमृष्टा घृतेन च । खण्डयुक्तेन दुग्धेन पाचिताः पायसं भवेत् ॥ इष्टापूर्ते द्विजातीनां सामान्यो धर्म उच्यते ( लि० स्मृ० श्लोक ६ )। यथार्थकथनाचारः सत्यं प्रोक्तं द्विजातिभिरिति ( कूर्म० उत्तरा० ११।१६ )। आहारमकरोद्राजा मूलानि च फलानि चेति ( भा० आदि० २२३।३८ )। ये स्राक्त्यं मणिं जना वर्माणि कृण्वत इति शौनकसंहितायाम् ( ८।५।७ )। ननु यदि पदान्येव संहितानि वाक्यमुच्यत इत्युवटभाष्योपक्रमे । आपो ह श्लेष्म प्रथमं संबभूवेति ( आप० श्रौ० ६|४|१४।७ )।

 अत्र दुष्करं व्यवस्थापयितुम् । एवं हि प्रतिभाति प्राय उद्देश्यविधेययोः प्राधान्याप्राधान्यविवक्षाया व्यवस्थितिर्नास्ति । तत्र खलु कामचारः प्रयोक्तॄणाम्। यत्रोद्देश्यस्य प्राधान्यं विवक्षन्ति वाग्विदस्तत्र तस्य कर्तृकर्मत्वे भवतोऽन्यत्र विधेयस्य । वाक्ये विधेयस्य प्राधान्यं तावन्न्यायप्राप्तम् । यत्किञ्चिदुद्दिश्य यत्किमपि विधातुमेव तत्प्रणीतेः । वाक्यार्थः क्रियेति सा प्रधानं वाक्ये तदङ्गभूतं चान्यदपि तत्समकक्षमेव । तथापि न ह्युपपत्तिमान्सर्वः प्रयोगप्रकारः, रुचिवशश्चापि कश्चिद् भवति । उद्देश्यस्य प्राधान्यं प्रायेण रोचयन्ते शिष्टा इति किं कुर्मः । यदि तर्कयामहे यत्र हि विधेयं संज्ञा भवति (संज्ञि वा ), यथाऽन्नं प्रजापतिश्चोक्तः, त्रिंशत्कला मुहूर्तः स्याद् इत्यादिषु, यत्र वाऽजहल्लिङ्गानि पदानि विधेयानि भवन्ति, यथा मिथुनं परिकल्पितं त्वयेत्यादिषु, तत्र विधेयस्य प्राधान्यं विवक्षन्ति तदनुरोधाच्च कर्तृकर्मत्वेन तत्प्रतीच्छन्तीति तदपि न व्यवतिष्ठते, तत्राप्युभयथा प्रयोगा दृश्यन्ते । भारः स्याद् विंशतिस्तुला इत्युद्देश्यस्य कर्तृत्वेऽमरप्रयोगः । आचितो दश भाराः स्युरिति च तस्यैव विधेयस्य कर्तृत्वे । प्राची बालविडाललोचनरुचां जाता च पात्रं ककुप् इत्यत्र बालरामायणे, हारः स एव प्राभृतमत्रजात इत्यत्र विद्धशालभञ्जिकायां चाजहल्लिङ्गपदोपात्ते विधेयेऽप्युद्देश्यस्य कर्तृत्वम् । तथापीदं व्यवसितं भाति पात्रप्रमाणभाजनस्थानास्पदादिषु विधेयेषूद्देश्यस्यैव कर्तृतेति । तेन वेदाः प्रमाणं सन्तीत्येव साधु, न तु वेदाः प्रमाणमस्तीति । एवं पात्रादिष्वपि बोध्यम् । इदं चाभासते क्वचित्क्रियापदस्य सान्निध्यमप्युद्देश्यविधेययोः कर्तृत्वकर्मत्वयोर्व्यवस्थापकं भवति । यथा ‘एवमग्रेऽपि श्लोके कतिपयपदान्येव म्लेच्छभाषा भवति न सर्वः श्लोक' इति नीलकण्ठप्रयोगे म्लेच्छभाषेति विधेयं तिङन्तस्य संनिहितमिति तस्य कर्तृत्वम् । उद्देश्यं हि विधेयेन व्यवायात् ततो विप्रकृष्टमिति न तस्य तत् । यदि च विपर्ययेणोद्देश्यं तिङन्तादव्यवहितपूर्वं स्यात् तदा तस्यैव कर्तृत्वमभिमतं स्याद् वाक्यं चैवंविन्यासं स्यात्-- म्लेच्छभाषा कतिपय-पदान्येव भवन्तीत्यादि । एवमपि संभवत्यर्थप्रतिपत्तावक्षराणि निमित्तम् इति शाबरभाष्ये संभवतीत्येकवचनं विरुध्येत । एतच्च दृढतरं प्रतिभाति यत्र विधेयं विकृतिवाचकं कृभ्वस्तीनां च प्रयोगः, च्वेश्चाप्रयोगस्तत्र विधेयस्यैव प्राधान्यविवक्षया कर्तृत्वकर्मत्वे व्यवस्थिते । अत्र सुवर्णपिण्डः खदिराङ्गारसवर्णे कुण्डले भवत इति भाष्यमेव लिङ्गम् । तत्र नागेशोक्तिरप्यस्मदुक्तस्योपस्तम्भिका-खदिराङ्गारसवर्णे कुण्डले भवत इति प्रयोगादच्व्यन्ते विकृतेः कर्तृत्वं बोध्यमिति । तथा चैतरेयब्राह्मणे 'तादृशे विषये विकृतेः कर्तृता दृश्यते-- तेषां ( देवानां ) या एव घोरतमास्तन्व आसंस्ता


१. विकारो जन्मनः कर्ता प्रकृतिर्वेति संशये । भिद्यते प्रतिपत्तॄणां दर्शनं लिङ्गदर्शनैः ॥ कलृपि सम्पद्यमाने या चतुर्थी सा विकारतः । सुवर्णपिण्डे प्रकृतौ वचनं कण्डलाश्रयम् ॥ ( वाक्य० ३।७।११४-१५ )। एकधा समभरंस्ताः सम्भृता एष देवो (रुद्रो) भवत् इति (३।३३ ) । स उद्गीथोऽङ्गारा भवन्तीति चच्छान्दोग्योपनिषदि ( २।१२।१) । यस्मिन्सर्वाणि भूतान्यात्मैवाभूद् विजानत इति यजुषि तु तात्त्विकस्य विकारस्याभावेऽपि विकारविवक्षायामात्मनो विधेयस्य कर्तृत्वे व्याख्येयम् । परमयमप्युत्सर्गो नाऽनास्कन्नोऽपवादेन । स (प्रजापतिः) एते पञ्च पशवोऽभवदिति शतपथे (६।२।१।३), अत्र सर्व एकं भवन्तीत्यत्रोपनिषत्प्रयोगे चोद्देश्यस्य कर्तृत्वदर्शनात् । तेनान्तर्वाणयो निब्रु वन्तु किमत्र कामचार एवाभ्यनुज्ञात आहोस्विद् व्यवस्थितिरपि काचिदस्तीति ।

 विधेयस्येतिना परिच्छेदे तस्यैव कर्तृत्वकर्मत्वे व्यवस्थिते इत्यपि न शक्यं मुक्तसंशयं वक्तुम् । कालादिकृता वस्तुधर्मा वयःप्रभृतयोऽवस्थेत्युच्यत इति ककुदस्यावस्थायां लोप इति सूत्रे काशिकायां विधेयस्य कर्मत्वमस्तीति नापह्नूयते । योगभाष्ये तूभयथा दृश्यते । तद्यथा—-सर्वभूमिषु सर्वविषयेषु सर्वथैवाविदितव्यभिचाराः सार्वभौमा महाव्रतमित्युच्यन्ते (२।३१)। एकविषयाणि त्रीणि साधनानि संयम इत्युच्यत इति च तत्रैव (३।४) । तत्र लम्बाम्बरः कल्पतरव एव वैजयन्तीति संभाव्यत इति कुमारे (६।४१) मल्लिनाथः ।

उद्देश्यविधेयभावे लिङ्गविमर्शः

 इदमिह प्रसङ्गाद् विमृश्यते-- यत्र वाक्य उद्देश्यविधेययोरेकत्वमापादयन्ती द्वे सर्वनामनी प्रयुज्येते तत्र किं कस्य लिङ्गमुपादत्त इति । अत्राह तत्रभवान् कैयटः--उद्दिश्यमानप्रतिनिर्दिश्यमानयोरेकत्वमापादयन्ति सर्वनामानि पर्यायेण तल्लिङ्गमुपाददत इति । क्षीरस्वामी खल्वपि स्माह--सर्वनाम्नामुद्दिश्यमानविधीयमानयोर्लिङ्गग्रहणे कामचार इति (अमरोद्घाटने)। यदि यच्छब्द उद्देश्यलिङ्गं गृह्णाति तदा तच्छब्द उद्देश्यलिङ्गमेव गृह्णीयाद् विधेयलिङ्गं वेति कामचारः । तथापि विधेयलिङ्गानुसरणं प्रायिकं पश्यामः । मायेत्सा ते यानियुद्धान्याहुरित्यृग्वर्णः (ऋ०१०।५४।२)। अधर्मः क्षत्रियस्यैषयद्व्याधिमरणं गृहे(भा० भीष्म०१७।११)। मातुस्तु यौतकं यत् स्यात् कुमारीभाग एव सः (मनु० ९।१३१)। शैत्यं हि यत्सा प्रकृतिर्जलस्येति कालिदासः । तत्तस्य किमपि द्रव्यं यो हि यस्य प्रियो जन इति भवभूतिः । छिद्राण्येतानि विप्राणां येऽनध्यायाः प्रकीर्तिताः ( )। यान्यासामन्तरालानि विदिशः प्रदिशश्च ता इत्यमरमालायाम् । यदेते धनमित्याहुः


१. कश्चिदाह--विशेष्यवाचकपदसमानवचनकत्वमाख्यातस्येति तेन वृक्षः पञ्चनौका भवतीत्यादौ प्रकृतिविकृतिस्थलेऽथ एको द्वौ जायते इत्यादावुभयार्थाभेदारोपस्थले चाख्यातस्यैकवचनतोपपन्ना भवति । प्राणाः ह्येते बहिश्चराः । तक्रेण पक्वं यत्क्षीरं सा भवेत् तक्रकूर्चिका । इह बहु शक्यमुदाहर्तुम् । परं क्वचित्तच्छब्द उद्देश्यलिङ्गमपि ह्रांति । तद्यथा- शरीरसाधनपेक्षे नित्यं यत्कर्म तद्यम इत्यमरः। स वीराशंसनं युद्धभूमिर्याति- भयप्रदेति च सः। यदधमर्णेनोत्तमर्णाय मूलधनातिरिक्तं देयं तद् वृद्धिरिति काशिकायाम् (५।१।४७ )। यदसंदिग्धमप्रयोजनं च न तप्रेक्षावत्प्रपित्सागोचर इति साङ्ख्यतत्वकौमुद्यां वाचस्पतिमिश्रः । यदावेदयते राज्ञे तद् भाष्येत्यभिधीयत इति मिताक्षरा । तदनन्तरं गवयो गवयपदवाच्य इति ज्ञानं यज्जायते तदुपमि तिरिति न्यायमुक्तावल्यां विश्वनाथः। प्रणामादिभिराशिषं वच्यसनो गुर्वादिर्य त्प्रतिसंभाषते तत्प्रत्यभिवाद इति लघुशब्देन्दुशेखरे स्वरसन्धौ नागेशः । क्वचिच्च यच्छब्दोऽपि विधेयलिङ्गमनुसरति । तद्यथा -श्लेष्म वा एतद्यज्ञस्य यद्दक्षिणा ( ताण्ड्य ब्रा। १६।१।१३ ) । मुखं व एतत्संवत्सरस्य यत्फाल्गुनी पौर्णमासी (शाङ्कायन ब्रा०५।१) । क्वचिद्यच्छब्दो नपुंसकं प्रयुज्यतेऽनपेक्ष्य विधेयलिङ्गम् । तद्यथां सैषाऽनस्तमिता देवता यद्वायुः (बृ० उ० १।५।२२) इहोद्देश्यलिङ्ग स्यापि नानुसारः । क्वचित्तु यच्छब्दोऽपिं विधेयलिङ्गमनुविधत्ते वचनं च । तद्यथा प्रकाशमेतत्तास्कर्यं अदेवनसमाह्वयौ ( मनु० ९।२२२ )। इति कामचारः सुष्ठूपदर्शितो भवतीति विरम्यते ।

विशेषणविशेष्यभावः

 उक्त उद्देश्याविधेयभावः । विशेषणविशेष्यभावः सम्प्रत्युपक्रम्यते । भेदकं विशेषणं भेद्यं विशेष्यमिति सामान्येन तयोर्लक्षणम् । यदनेकप्रकारवद्वस्तु प्रकारान्तरेभ्यो व्यवच्छिद्यैकत्र प्रकारे व्यवस्थाप्यते तद् भेद्यम् । सर्वार्थः स्वरूपेण सामान्यतो ज्ञातोऽपि स्वगतेन विशेषेण पुनरनिर्ज्ञातो भवति । तस्य च येन निर्ज्ञातस्वरूपेण गुणवचनादिना योगो भवति स्वस्य रूपस्य परिच्छेदाय तद्भेदकं विशेषणम् । तच्च परार्थमिति गौणं भवति । तथा चोक्तं वाक्यपदीये

        विशेष्यं स्यादनिर्ज्ञातं निर्ज्ञातोऽर्थो विशेषणम् ।
        परार्थत्वेन शेषत्वं सर्वेषामुपकांरिणाम् ॥ (३।१४।७ ) इति ।

 क्वचिद् विशेषणविशेष्ययोः कामचारः । यत्रोभावपि गुणशब्दौ वा क्रियाशब्दौ वा, गुणक्रियाशब्दौ वा तत्रैकतरं विशेषणं भवतीतरच्च विशेष्यम् । तथा च पर्यायेणोपसर्जनभावः । तद्यथा खञ्जकुब्जः । कुब्जखञ्जः । पाचकपांठकः । पाठक पाचकः । खञ्जपाचकः । पाचकखञ्ज इत्यादि ।

 विशेषणमप्रधानमित्युक्तम् । द्वयोरप्रधानयोः प्रधानापेक्षावतोर्नास्ति परस्परो पकारित्वमिति परस्परमनभिसम्बन्धः । उक्तं हि भाष्ये -न ह्युपाधेरुपाधिर्भवति न वा विशेषणस्य विशेषणम् ( १।३।२) इति । यदि तयोरपि गुणप्रधानभावः स्यात् तदा विशेषणत्वं न स्यात् । तयोर्विशेष्ये द्रव्य एवैकस्मिन्नन्वयो न परस्परम् । तेनास्मद्गुरुचरणा महान्तो विद्वांस सन्तीत्त्यत्र महत्वेन विद्वत्त्वं न शक्यते विशेषयितुम् । महान्त इति च विद्वांस इति चोभयं गुरुचरणानामेव विशेषणम्। इष्यते च महत्त्वं विद्वत्वं विशिंष्यादिति । तेन नेदं विवक्षितमर्थमर्प यतीति दुष्टो न्यासः । एवं च एते एतावन्तः साधवो यद् द्विषत्यपि दयां कुर्वन्ती- त्यपि विवक्षितार्थासमर्पणादपप्रयोगः । तेनास्मद्गुरुचरणा महद्विद्वांसः इति वक्तव्यम् । तत्र समासे व्यासे वा न कश्चिद् भेदः। उभयथा महदिति क्रिया विशेषणम् । सुप्सुपेति समासः । महद्यथा स्यात्तथेति विग्रहः । विस्पष्टपदुरितिवत् । स्थितस्य गतिश्चिन्तनीयेति चेत् । विद्वांस इति भावप्रधानो निर्देश इति कल्प्यताम् । स च महत्त्वेन विशेष्यताम् । महद् विद्वत्त्वमेषामिति महाविद्वांसः । यथा विशारद इत्यत्र शारद इति भावप्रधानो निर्देशः । विनष्टं शारदत्वम प्रतिभत्वमप्रौढत्वं वास्येति विशारद इति व्युत्पादयन्ति । परं च वाक्यमित्थं विपरिणमनीयम्-एते तथा साधवो यथा द्विषत्यपि दयां कुर्वन्तीति ।

शतृशानचोः प्रयोगविषयःः

 परिणता विशेषणविशेष्यभावचिन्ता । इदानीं शतृशानचोः प्रयोगविषयं चिन्तयामः । 'लटः शतृशानचावप्रथमासमानाधिकरणे ( ३।२।१२४) इति शास्त्रमप्रथमान्तेन सामानाधिकरण्ये सति शतृशानचौ लडादेशौ शास्ति । व्यव स्थित विभाषा चेयमिति वृत्तिकारादयः । तेन क्वचित् प्रथमासामानाधिंकरण्ये- प्यादेशौ दृश्येते इति सन् ब्राह्मणः, विद्यमानो ब्राह्मणः, अधीयानो ब्राह्मण इति भवति । पक्षेऽस्ति ब्राह्मणः, विद्यते ब्राह्मणः अधीते ब्राह्मण इति च । प्रथमान्तेन सामानाधिकरण्ये शतृशानचौ यन्नेच्छति सूत्रकारस्तत्रायमस्याभिप्रायो लक्ष्यते-लडादेशौ शतृशानचौ कृतौ । तेन कृत्तद्धितसमासाश्चेति शत्रन्तं शान जन्तं वा शब्दस्वरूपं प्रातिपदिकं भवतीति शब्दशक्तिस्वाभाव्याद् विशेषणं भूत्वा वर्तमानकालिकगत्यादिक्रियायाः कर्तारं कर्म वा यथाविवक्षमाह । न तु तिङन्तवद् देवदत्तादिकर्तृकवर्तमानकालिकगत्यादिक्रियामिति विधेयत्वेन तस्य प्रयोगोऽनुपपन्न इति । अनुपपन्नत्वेपि क्वचिद्भ्यनुज्ञायते व्याकरणस्यान्वाख्यान- स्मृतित्वात् इति व्यवस्थितविभाषामाश्रयतां व्याख्यातॄणामाशयः । तथा च क्वाचिकाः प्रयोगाः श्रुतिस्मृत्योः ‌- मैत्रेयीति होवाच याज्ञवल्क्य उद्यास्यन्वा अरेऽहमस्मात्स्थानादस्मि इति (वृ० उ० २|४|१ )। स यदोत्क्रमिष्यन् भवति


२. कृत्प्रत्ययौ । नैतं घोषं शृणोतीति (श० ब्रा० १४|८|१०।१ )। स्तेनो हिरण्यस्य सुरां पिबंश्च गुरोस्तल्पमांबसन्ब्रह्महा च । एते पतन्ति चत्वारः पञ्चमश्चाचरंस्तैरिति ( छा० उ० ५।१०|९ )। यक्ष्यमाणो ह वै भगवन्तोऽहमस्मि (५|११|५) इति च । यो वै युवाप्यधीयानस्तं देवाः स्थविरं विदुः ( मनौ २|१५६ ) | सूत्रोदाहरणानि तु पचन्तं देवदत्तं पश्य, पचमानेन देवदत्तेन कृतम्, याचमानाय भिक्षुकाय देहि, शिशोर्वदनकमलं पश्यन्त्याः किमपि प्रह्लादते चित्तं जनन्याः, न हन्यते हन्यमाने शरीरे इत्यादीनि निर्बाधं प्रसरन्ति ।

 इदमत्र चिन्त्यम्–वृत्तिकरादयः प्रथमासामानाधिकरण्ये क्वचिदेवं शतृ शानचाविति मते स्थिताः | दृश्यन्ते च तत्रापि वितताः प्रयोग इति कोऽत्र समाधिः । तथा च केचित्स्थूलमुन्चीयन्ते–उत स्वः पश्यन् न ददर्श वाचमुत त्वः शृण्वन्न श्रुणोत्येनाम् ( ऋ० २०|७१|४)। कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समा इति यजुषि (४०|२ )। जायमानो वै ब्राह्मणस्त्रिभिर्ऋणैर्ऋणवाँ जायत इति ब्राह्मणम् । स यः श्रद्दधानो यजते तस्येष्टं न क्षीयते ( कौ० ७|४ ) इति । जानन्नपि हि मेधावी जडवल्लोक आचरेत् इति मनौ ( २|११०)। प्रयुञ्जानः एव खलु भवानाह सन्ति शब्दा अप्रयुक्ता इति ( भाष्ये ) । ययौ मृगाध्यासितशाद्वलानि श्यामायमानानि वनानि पश्यन्नं इति रघौ (२|१७ ) । आनन्दं ब्रह्मणो विद्वान्न बिभेति कुतश्चनेति (तै० उ० २|९ ) । ततश्चित्रीयमाणोऽसौ हेमरत्नमयो मृग इति भट्टौ (५|४८ )। एवमनुष्ठिते चत्वारोऽपि ते परस्परमनेकप्रकारगोष्ठीसुखमनुभवन्तस्तिष्ठन्तीति पञ्चतन्त्रे मित्रभेदे षोडश्यां कथायाम् । गुरूनुपद्रवांस्त्वरमाणश्चिकित्सेत् , जघन्यमितरान् इति । चरके ( सूत्र० ३।१७)। तस्य चेत् केशलोमान्यायम्यमानानि प्रलुच्येरन्न च वेदये- युस्तं परासुरिति विद्यात् इति च (इन्द्रिय ३|६ )। प्राचीं दिशं निषेवन्तः सदा देवाः सदानव इति ( व० पु० ४२।२२ )। निषेवन्तः = निषेवमाणाः । कार्याणि घटयन्नासीद् दुर्घटान्यपि हेलयेति राजतरङ्गिण्यां (४|३६४ )। इदं क्वाचित्कमिति कोऽसंमूढः प्रतीयात् । भाष्यकारस्य तु व्यवस्थितविभाषा नाभिमता । तत्र भवान् नन्वोर्विभाषेत्यतो विभाषामनुवर्तयति येन प्रथमासामानाधिकरण्ये विभाषा शतृशानचाविच्छति, उदाहरति च पचन् , पचति । पचमानः प्रचत इति । न वयं लक्षणैकचक्षुष्का लक्ष्यैकचक्षुष्का वा । लक्ष्यलक्षणे उभे अपेक्षामहे । लक्ष्ये त्विदं निभाल्यामहे यत्र शत्रन्तं शानजन्तं वा शब्दरूपमात्मनैव विधेयं न तु विधेयान्तरमस्ति तत्र क्वचिदेव, प्रथमासामानाधिकरण्ये शतृशानचौ भवतो यथा चोदाहृतम् । येन देवदत्तः पचन् ( अस्ति ) इत्यादिः र्भाष्यकारेणाभ्यनुज्ञातोऽपि विरलः प्रयोगः । यत्र च खलु तद् विधेयांशो भवति | न तु सवः विधेयं तत्राप्रतिहतः प्रयोगप्रसर इति । तस्मात् कटं कुरुते । देवो वर्षति । रावणो हन्यते । ते भुञ्जते । वयं विचरयामं इत्यादीनां स्थाने कटं कुर्वाणोऽस्ति । देवो वर्षन्नस्ति । रावणो हन्यमानोऽस्ति । ते भुञ्जानाः सन्ति। वयं विचारयन्तः स्म इत्यादि व्यवहाराननुपातीति परिहरणीयमिति मतं नः । कथं वात्र सूरयः पश्यन्ति ।

तुमुन्प्रयोगविषयः

 उक्तौ शतृशानचौ ।.तुमुन्नधिक्रियते । इदमिह विचार्यते भिन्नकर्तृकत्वेऽपि तुमुन्प्रयोगः शास्त्रस्य संमत उत नेति । शास्त्रे तुमुन्विधायिका पञ्चसूत्री समस्ति । तत्र समानकर्तृकेषु तुमुन्नित्येकं वर्जयित्वा शिष्टेषु समानकर्तृकत्वमुपाधिर्नाश्रितः। तेन स्थाने शङ्कितं तद्विहितस्तुमुन् भिन्नकर्तृकत्वेऽपि स्यादिति । कालसमयवेलासु तुमुन् (३।३।१६७ ), अक्रियार्थोपपदेषु शकधृषज्ञाग्लाघटरभलभक्रमस- हार्हास्त्यर्थेषु तुमुन् ( ३|६|६५ ), पर्याप्तिवचनेष्वलमर्थेषु ( ३।४|६६ ), इति, त्रिषु सूत्रेषु तावत्समानकर्तृकतोपाधिना नार्थ इति वचनं नापेक्षते ।. तुमुण्वुलौ, क्रियायां क्रियार्थायामित्येकं तु सन्देहास्पदम् । अत्र विसंवदन्ति चिवरीतारः । भाषावृत्तिटीकाकृत्सृष्टिधर आह-समानकर्तृकेषु तुमुन्निष्यते । अयं ( तुमुण्ण्वुलाविति विहितः) तु भिन्नकर्तृकत्वेऽपि स्यादिति मस्करिणो वस्तुं कुटिं घटयति . । गृही सुतेन भोक्तुं मांसं क्रीणातीति । भट्टोजिदीक्षितप्रभृतयस्तु नैतत्सहन्ते । आह च प्रौढमनोरमायां भट्टोजि:-तुमुण्ण्वुलाविति विधिरपि भिस्नकर्तृकेषु नेष्यते । पुत्रं भोजयितुमागच्छतीति वक्तव्ये पुत्रेण भोक्तुमित्यप्रयोगात् । सेयं . व्यवस्था शब्दशक्तिस्वाभाव्याद् बहुलग्रहणाद्वा सिद्धेति । समानकर्तृकेष्विति स्पष्टार्थमेवेति भाव इति हरिदीक्षितो नागेशश्च । व्यवहारदर्शनादपीदमैव मतं समर्थितं भवति । व्यवहारश्च प्रायिको गृह्यते । भवतु नाम क्वाचित्को व्यभिचारोऽनवधानकुतः, नं तेन किंचिच्छिद्यते । तेन न दास्यामि समादतुं सोमं कस्मैचिदप्यहम् इत्यत्र भारतप्रयोगे ( आदि० ३५|९ ) पि भिन्नकर्तृकतायां तुमुन् । यद्यर्थिता निर्हृतवाच्यशल्यान्प्राणान् मया धारयितुं चिरं व इति ( रघौ १४|४२ ) । ‘‘गुरुणा हि मेदिनी । भोक्तुमेव भुजनिर्जितद्विषा न प्रसाधयितुमस्य कल्पिता इति च (१९|३ ) । न मृष्यति मां जीवितुं वसन्तबन्धुरिति दशकुमारचरिते (उ० २, पृ० १२९ ) । न कोऽपि निर्गन्तुं प्रवेष्टुं वानुमोद्यत इति मुद्राराक्षसे ( अं० ५ ) | श्रुत्वा विस्फूर्जथुप्रख्यं निनादं परिदेविनी । मत्वा कष्टश्रितं रामं सौमित्रिं गन्तुमैज़िहत् (भट्टौ ५|५३ )। इत्यादिषु कर्तृभेदेऽपि तुमुनः प्रयोगश्चिन्त्य एवेति स्थितिः । तस्मादनुजानीहि मां गमनायेति भवति न त्वनुजानीहि मां गन्तुमिति । एवं सा भृत्यं कूपाज्जलमाहर्तुमादिशत्, गुरुः शिष्यं चापलं कर्तुं न्यषेधत् । स स्वामिनं हन्तुं भृत्यानचोदयत्, इत्याद्यनुक्त्वा क्रमेण स भृत्यं कूपाज्जलमाहरेत्यादिशत् । गुरुः शिष्यं मा स्म चापलं करोरिति न्यषेधत् । स स्वामिहत्यायै भृत्यानचोदयत् इत्याद्येव वक्तव्यम् । तथा च श्रीरामायणे प्रयोगः - गमनायान्यदेशस्य चोदयन्त्यृषयोऽद्य माम् ( रा० २।११६।१८) ।

 क्वचिच्छास्त्रेणाविहितोऽपि तुमुन् महाकविभिः प्रयुज्यते । अगृहीतहेतिष्वशिक्षितो मे भुजः प्रहर्तुमिति श्रीहर्षचरिते बाणप्रयोगः । अत्र केन तुमुन्विधिः । न तावत् शकधृषज्ञाग्लाघटरभलभेत्यादिना शास्त्रेण | तत्रार्थशब्दस्यास्तिनैव सम्बन्धस्वीकारादन्येषु स्वरूपगृहीतेष्वेवायं विधिर्न पुनः पर्यायवचनेष्वपि । न च तृमुण्ण्वुलाविति सूत्रेण शक्यमिह तुमुन्विधातुम् । अक्रियार्थोपपदत्वात्प्रहरतेः । न हि शिक्षणं प्रहरणार्थे भवति किन्तर्हि प्रहरणविषयकं प्रहरणकर्मकम् । यदा तत्तदर्थे स्यात्किल तदा किं शिक्ष्यत इति प्रश्नस्य किमु उत्तरं स्यात् । अयमत्र समाधिः प्रतिभाति । शिक्षतिरिहाविवक्षितकर्माऽकर्मकः प्रयुक्तः । तथा सति प्रहरणार्थो शिक्षेति न दुर्घटोऽर्थः । तेन क्रियार्थोपपदत्वात्तुमुण्ण्वुलावित्यनेनं तुमुन्संगतो भवति ।

 इदं चेह विमृश्यं बाष्पश्च न ददात्येनां द्रष्टुं चित्रगतामपि (शाकुन्त ६।२२), स्मर्तुं दिशन्ति न दिवः सुरसुन्दरीभ्य इति च किराते (५|२८ )। अत्र तुमुन्केन । उभयत्र भिन्नकर्तृकत्वे तुमुन्निति नातीव तिरोहितम् । पूर्वत्र वाक्ये ददातिक्रियायाः कर्ता बाष्पः । दृशिक्रियायाश्च वाक्यबहिर्भूतो दुष्यन्तः । उत्तरत्र चापि स्मरणं सुरसुन्दरीकर्तृकम् । दिशिश्च लताभवनादिकर्तृक इति परिस्फुरति कर्तृभेदः । सुरसुन्दरीभ्य इत्यत्र क्रियाग्रहणमपि कर्तव्यमित्युपसंख्यानात्सम्प्रदानतायां चतुर्थीं । ता एव स्मरणकर्त्र्य इति वस्तुसन्नप्यर्थो न विवक्षितः कविना । तथा चोक्तं हरिणा वाक्यपदीये

शक्तिमात्रासमूहस्य विश्वस्यानेकधर्मणः।
सर्वदा सर्वथा भावात्क्वचित्किंचिद्विवक्ष्यते ॥ ३/७/२ इति ।

 एतज्जातीयके तुमुन्प्रयोगे कः समाधिरिति शास्त्रपारावारपारंगताः पारयन्ति वक्तुम् ।

 तुमुनोर्थः क्वचिदपि न निर्दिष्टः शास्त्रे । अनिर्दिष्टर्थाश्च प्रत्ययाः स्वार्थे भवन्ति । स्वार्थश्च धातूनां भाव एवेति तुमुन् भावे पर्यवस्यति । तत्रेदं चिन्त्यते किं भावाभिधायि तुमुन्नन्तं शब्दरूपं वाक्ये कर्तृतया व्यवहार्ये भवति यथा घञन्तं ल्युडन्तं वाऽहोस्विन्नेति । नेत्याह कोषकारः शिवराम आपटेः। न हिं भवति प्रातर्विहर्तुमारोग्यकरमिति । परमत्राप्यनेकान्तः । तथा च भारते कर्तृतायां प्रयोगाः --क्षमं ते जीवतो गन्तुम् ( वन० २२३।११) इति | दुष्करं गन्तुमिति च (३|८०|५८ भं० सं० सं०)' वक्तुं नायाति राजेन्द्र एतयोर्नियमस्थयोः । अर्वाङ् निशीथात् (समा० २१।३३) इति च । व्युष्टिरेषा परा स्त्रीणां पूर्वं भर्तुः परां गतिम् | गन्तुं ब्रह्मन्सपुत्राणामिति धर्मीविदो विदुः ॥ (आदि० १५८।२२) न न्याय्यं निहतं शत्रुं भूयो हन्तुं नराधिप (शंल्य० ११५।१८) दुःखं नूनं कृतान्तस्य गतिं ज्ञातुं कथञ्चनेति (शल्य० ९|१६) इति । न नप्तारं न्याय्यं शप्तुमेवमिति च श्रीरामायणे (६|३८|२८) रामाय यौवराज्यं मे दातुमत्रैव रोचते इति गोरीसियो सम्पादिते श्री रामायणे (२।२।४) प्रतिकर्तुं प्रकृष्टस्य नापकृष्टेन युज्यत इति च (४|१७|७ )

लकारार्थचिन्ता

 पर्यवसितचिन्तस्तुमुनः प्रयोगः । इदानीं लकारार्थे चिन्ता प्रवर्तयामः । भगवता सूत्रकारेण वर्तमाने लड् विहितः, व्यवहारे त्वन्यत्रापि स दृश्यते। किं करोमि क्वगच्छामि । अत्र किं प्राप्तवसरं कर्तव्यं क्व वा मे गमनं हितमिति वक्तुरात्मनि सम्प्रश्न इति लोट् प्राप्तः । तं व्यवर्त्य लटमेव प्रयुञ्जते प्रयोगचणाः। ननु गच्छामि भोः, ननु करोमि भो इत्यत्र ननुरनुज्ञैषणायाम् । अनुजानीहि मां गमनं प्रतीत्यादिरर्थः । अनुज्ञा चेहेष्यते, प्रार्थ्यते इति प्रार्थनायां लोटि प्राप्ते लट्प्रयुक्तिर्व्यवहारमात्रनिबन्धनां । अङ्ग कूज वृषलं । इदानीं ज्ञास्यसि जाल्मेत्यत्रं प्रातिलोम्ये गम्यमाने तिडन्तमनुदात्तं भवतीति : ‘प्रत्युदाहृतं काशिकायाम् (८।१।३३ ) । तत्र कूजनमनभिप्रेतमसौ कुर्वन्प्रतिलोमो भवतीत्यर्थः । तस्मात् कूजेति लड़र्थे लोट्प्रयोग इति प्रव्यक्तम् । वर्तमाने लट् इति वर्तमानकालिक क्रियावृत्तेर्धातोर्लट् विहितः,शीलोपहितेऽपि धात्वर्थे स भवति । तद्यथा इमामुग्रातपवेलां प्रायेण लतावलयवत्सु मलिनीतीरेषु सखखीजना शकुन्तला गमयतीति शाकुन्तले ( तृतीयेऽङ्के ) । लकारान्तराण्यपि लडर्थे दृश्यन्ते

          कुतो धर्मक्रियाविघ्नः सतां रक्षितरिं त्वयि ।
          तमस्तपति , घर्माशौ कथमाविर्भविष्यति ।

 इति कालिदासप्रयोगे लड़र्थे लृट्. स्पष्टः । अत्र पूर्वत्र वाक्ये दार्ष्टान्तिके वर्तमानता क्रियायाः स्पष्टेति तत्साम्यादुत्तरवाक्ये दृष्टान्तेपि वर्तमानतैवेष्टा । तत्र च लृट् प्रयुक्तः कविना । सोऽसन्देहं वर्तमान एव व्याख्येयः गत्यन्तराभावात् । एवं प्रत्येकं विनियुक्तात्मा कथं न ज्ञास्यसि प्रभो इत्यत्र कुमारे (२।३१ ) भविष्यति ज्ञानक्रियाया अनभिप्रेतत्वाद् ‘अन्तरात्मासि देहिनाम्’ इत्यनेनासंगतेश्च वर्तमानतैवाभिप्रेतेति व्यक्तम् । तेनात्रापि लडर्थे लृड् व्यवहारानुपातीति प्रति पत्तुमुचितं शासनादृतेऽपि । एवमहो कामस्य वामत्वं यो गतामपि दुर्लभाम्। स्मारयिष्यति कल्याणीं कल्याणतरवादिनीम् ( रा५ ४।१।६८ ॥ इत्यत्र, सकुण्डलं सकवचं दीर्घबाहुं महारथम् । कथमादित्यसदृशं मृगी व्याघ्रं जनिष्य तीति । भारते ( कर्ण० ३४|६०-६१ ) । यदि विप्रस्य भगिनी व्यक्तमन्या भविष्यतीति स्वप्ननाटके (६|१४) ऽपि लडर्थे लृट् । एवं भारतेऽपि व्यक्तं दुरे विराटस्य राजधानी भविष्यति (५|६ ) इत्यादिषु सर्वत्र बौद्धः शब्दार्थ इति ते तेऽर्था बुद्धिमुपगन्तारो न त्विदानीं बुद्धिमुपगता इति भविष्यन्ती सत्ता तेषामिति युज्यते लृट् । अयं च व्यक्ततर आस्वाद्यतरश्च लडर्थे लोट्प्रयोगः -ब्रह्मणो वा एतद्विजये महीयध्वम् इति केनोपनिषदि । पूजित महान्तो भवथेत्यर्थः,सर्वस्य सम्प्रतिपत्तेः । तद् ब्रूत वत्साः किमतःप्रार्थयध्वमिहागता इति कुमारे (२|२८)। न भ्रातरो न च पिता नैव त्वं मधुसूदन । ये मां विप्रकृतां क्षुद्रैरुपेक्षध्वं विशोकवत् इति च भारते (वन० १२|२५-२६)। उपेक्षध्वम् उपेक्षध्वे । अत्रैवं भाषणे व्यवहार एव निबन्धनं न शास्त्रम् । क्वचिसल्लडर्थे लि़ड़मपि व्यवहरन्ति यया —इच्छेयं च गदाहस्तं राजन्द्रष्टुंॱ वृकोदरम् इति भारते (उद्योगं० ५५|३६)। अस्याश्च वाचो भङ्गया इच्छार्थेषु विभाषा वर्तमाने इति सूत्रानुग्रहोऽस्तीति नात्रोपपादनान्तरेणार्थः ।

 इदमपि लृट्प्रयोगे वैचित्र्यं विमर्ष्टव्यम् । अक्षमोऽसि सितासिते विवेक्तुमिति व्यक्तम् ,, नो चेद् दग्धं पूपशकलं नात्स्यसि ( नहीं तो जले हुए पूप का टुकड़ान खाता) इति । त्वन्नियोगाद्रामदर्शनार्थं प्रस्थितः कथमन्तरा निवर्तिष्ये ( कैसे, बीच में लौट आता ) (प्रतिमा० षष्ठेऽङ्के )। अन्यथाः कथं त्वामर्चनीयं नार्चयिष्यामः ( मालविका० ) । अन्यथा कथं देवी स्वयं धारितं 'नूपुरयुगलं परिजनस्यानुज्ञास्यति इति च । सन्ध्ययाप्यनुगतं रवेर्वपुर्वन्द्यमस्तशिखरे समर्पितम् । येन पूर्वमुदये पुरस्कृता नानुयास्यति कथं तमापदि ।। इति च कुमारे (८|४४) । यद्यहं गात्रसंस्पर्शं रावणस्य गता बलात्। अनीश कि, करिष्यामि विनाथा विवशा सती ॥ इति रामायणे (५|३७|६३ ) हनुमन्तं प्रति सीताया वचनम् । अत्र' पूर्ववाक्ये यदिशब्दः सिद्धार्थानुवादे, न हेतौ । यथा नोलूकोऽपि विलोकते यदि दिवा सूर्यस्य किं दूषणम् इत्यत्र । अत्रैवमर्थं लृट् दृश्यते न च शिष्यते । लृटैव चैवमादिरथोभिधीयते विचक्षणैरितीह समुपन्यस्तैरुदाहरणैरेव सुज्ञानम् । न च हेतुहेतुमद्भावे लि़ङो लृङो वाऽत्र विषय इति शक्यशङ्कम् । लिङस्तावद्धेतुहेतुमद्भावे सति भविष्यन्नेव कालो विषयः । इह च वाक्येष्वतीता क्रियोच्यते न भविष्यती । सापि व्यामिश्र न शुद्धा । शक्नोत्यर्थोपहितेऽर्थे वर्त- मानाद्धतोस्त्र लृड् दृश्यते, नानुपहिते । अत्रोदाहरणेषु हेतुहेतुमद्भाव एव नास्ति । न ह्यत्र क्वचिद्धेतुवाक्यं श्रूयते । सिद्धार्थानुवादकमेव तु’ वाक्यं यत्र तत्रोच्चार्यते । हेतुहेतुमद्भावाभावे क्रियातिपत्तेविचार एव नोदयते । यद्यपीह सर्वत्रः पूर्ववाक्येषु तात्पर्यग्रहद्धेतुत्वे पर्यवस्यत्यर्थः,तथापि हेतुत्वं शब्दोक्तं नास्तीति लिङो लृङो वा नैष विषय इति विशदं विपश्चिताम् ।

 सन्देहाक्रान्ते भूतेऽर्थे वर्तमानाद्धातोर्लृट् प्रयोग एव शिष्टाभ्यनुज्ञातोऽवि हितोऽपीत्यपि दिङ्मात्रमुदाहरामः- न भविष्यति हन्त साधनं किमिवान्यत्प्रह रिष्यतो विधेः ( रघौ ८I४४ ) तदयमपि त्वष्टुः कुन्दे भविष्यति चन्द्रमा इति ( अनर्घ० २I८०) । श्रीरामायणे खल्वपि-हता मृता वा नष्टा वा भक्षता वा भविष्यति इति (२|६०|८) यथा च नो मतिर्वीर विषपीतो भविष्यति (.भा०.१|१२८|६१ )। अगोपाश्चागताः गावः कचस्तात न दृश्यते । व्यक्तं हतो मृतो वापि कचस्तात भविष्यति इति च ( १|७६|३२ )। बौद्धः शब्दार्थ इति विषपीतत्वादेर्बुद्धथनुपारोहाद् भविष्यत्कालतेति लृट् प्रयोगोपपत्तिमाहुः ।

समासस्येष्टत्वानिष्टत्वे

 उक्तो लकारार्थविशेषः । इदानीं समासमधिकृत्य किञ्चिद् ब्रूमः । न वयं समासशास्त्रमुदाहृत्य “समासाश्रयविधिं वा निरुच्य कृतित्वमात्मनोऽभिलष्यामः । उक्तः स विषयो भगवता सूत्रकार्येण विवृतश्च वृत्यादिभिः । इदं तु विशिष्य विवक्षामः समासः क्वेष्यते क्व च नेष्यते इति । क्व समासेनैवार्थाभिधेयः क्व च व्यासेनैवेति । सत्यमिष्टं हि विदुषां लोके समासख्यासधरणमिति द्वावेव वाचां मार्गौ प्रथेते । तत्र कदा कस्य परिग्रह इति तावद् विवेच्यम् । अस्थाने क्रियामाणे समासे पदानामनिष्टो गुणप्रधानभावः प्रसज्यते । वाक्यप्रसादोऽपि बहुधा विलीयते । इदं तावत् कालिदासीयं वाक्यं विचिन्त्यताम्--जन्म यस्य पुरोर्वंशे युक्तरूपमिदं तवेति । अत्र पुरुपदस्य यत् प्राधान्यं न तत् समासे सत्यवतिष्ठते। समासगतोऽयं शब्द, “ सम्बन्धमात्रमाह, नातोतिरिक्तं किंचित् । वाक्यगतस्तु स साभिप्रायं विशेषणं याख्यायते । बहुविधश्चाभिप्रायस्तत्र लक्ष्यते । अयं नाम वंशो यस्य कस्य न भवति किन्तर्हि प्रथां गतस्य पितृभक्तस्य पुरोः, योऽयमात्मनो सौख्यं तृणीकृत्य स्वं यौवनं जनकाय ययातयेऽददात्, जरा च 'तदीयां पर्यगृह्णात्। अत एवात्र प्रणिगदन्ति भाषामर्मज्ञाः

          सम्बन्धेमाजमर्थानां समासो ह्यवबोधयेत् ।
          नोत्कर्षेमपकर्ष वा वाक्यात्तूभयमप्यदः । इति (व्यक्ति० २|१७) ।

 एवमन्यत्रापि वाक्ये स्वातन्त्र्येण प्रयुक्तं पदं समासे गुणभावं भजते । यथा स तस्य स्वो भावः प्रकृतिनियतत्वादकृतक इति भवभूतिप्रयोगे .स्व इति पदस्य यत् प्राधान्यं न तत् स्वभाव इति पदैक्ये भवति । स्वस्य भावः, स्वश्चासौ भावश्चेत्युभयथापि स्वशब्द उपसर्जनम् । भाव एव च प्रधानम् । एवं योऽभि वादितविप्रस्तु नाशिषं सम्प्रयच्छतीति मनुवाक्ये (; ) ऽभिवादितेन विधेयेन सह समासेऽनिष्टो गुणप्रधानभावः फलति । विधेयं, प्रधानं भवति विशेषणं तु गौणम्- तेन यस्तु विप्रोऽभिवादितः सन्नित्यादि व्यासेन वक्तव्यम् । अन्यत्रापि परिहार्योऽस्थाने समासो दृश्यते । तद्यथा—सर्वं परिक्षेप्यतपश्च मत्वेति बुद्ध- चरिते (७|३४) । तथापि तृष्णा रघुनन्दनस्य विनाशकाले विपरीतबुद्धिरिति हितोपदेशे । पूर्वत्र तपः परिक्षेप्य मत्वेति व्यस्तं वचः शोभनं स्यात् । परि क्षेप्यमिति विधेयं समासे विशेषणतां यातीति गुणी भवति । उत्तरत्रापि स एव दोषः । विनाशकाले बुद्धिर्विपरीतो भवतीति विवक्षितम् । न तु वैपरीत्यवि शिष्टबुद्धिः कश्चित्पूर्वप्रकृत इहास्ति ।

 इदं चात्र समासवृत्तिमधिकृत्य विशिष्टमवधारणीयम् । यद्यपि मत्वर्थे बहुव्रीहि विधिरित्यभ्युपगमस्तथापि यो यावाश्चार्थो मत्वर्थीयैस्तद्धितैराख्यायते नासौ बहुव्री हिणेति वेदनीयम् । आतपवन्ति शिखराणि हिमवत इत्युक्ते योर्थः प्रतीयते यावान्वा नासौ तावन्वा सातपानि शिखराणीत्युक्तेः। भूमनिन्दाप्रशंसासु नित्ययोगे इति वचनात्पूर्वत्र नित्य आतपयोगोपीङ्गितो भवति । अपरत्र कादाचित्कताऽऽतपस्य स्यान्नित्यता वेति नियतं नास्ति । अतएव रवत्प्रतिषेधाच्चेति वार्तिके नित्ययोग प्रतिपादनाय बहुव्रीहिर्न कृतो गुरोरंरस्येतीति कैयटः। तथा चैकादश्याः सांख्यकारि काया व्याख्यायां श्री वाचस्पतिमिश्रः प्रसवधर्मि-प्रसवधर्मो यः सोऽस्यास्तीति प्रसवधर्मि । प्रसव्धमेति वक्तव्ये मत्वर्थीयः प्रसवधर्मस्य नित्ययोगमाख्यातु- मित्याहुः। एवं सधनो वणिक् इत्युक्ते बहुधनो वाभिप्रेतः स्यादल्पधनो वेति व्यवसितिर्नास्ति । धनवान् इत्युक्ते तु बहुधन एव गम्यते नैयत्येन । नित्योदकी नित्ययज्ञोपवीतीत्यत्रोदकेन यज्ञोपवीतेन च नित्यं संसर्गवान् अभिधीयते । नित्योदकःनित्ययज्ञोपवीतं इति बहुव्रीहिणां तु केवलं सत्ताभिधीयते न तु संसर्गः । क्वचिद्रूढिवशान्मत्वर्थीयान्तस्य बहुव्रीहेश्चार्थान्तरं भवति । नार्थवान् इति परतन्त्रो भवति, सनाथ इति सुशोभितः । अयं चात्र नञ्समासे विशेषो बोध्यः । ‘नञ् ( २|२|६) इति हि सामान्येन नञ्समासविधिः । उदाहरति च वृत्तिकारः - न ब्राह्मणोऽब्राह्मणः ।


१. अभिवादितस्तु यो विप्रो नाशिषं संप्रयच्छति ।
   श्मशाने जायते वृक्षो गृध्रकङ्कोपसेवितः ॥
   इत्येष पाठस्तु क्वावाचिको निर्दुष्टः एकाक्षराधिक्यं तु भवति प्रथमे चरणे i
२. एतज्जातीयकमन्यदर्थं दिदृक्षुभिरस्मत्कृतेः प्रस्तावतरङ्गिण्या उपोद्घातों द्रष्टव्यः ।

न वृषलोऽवृषल इति । अत्र ब्राह्मणभिन्नस्तत्सदृशः क्षत्रियादिर्गृह्यते । अब्राह्मण-

मानयेत्युक्त नहि लोष्टमानीयं कृती भवति । सामान्येन प्रतिषेधवचनोऽपि नञ् क्वचित् पर्युदासमाह क्वचिच्च प्रसज्यप्रतिषेधम् । यत्र पदार्थान्तरस्य प्रतिषिध्य मानस्य प्रधानत्वं विधेयतया मुख्यत्वं प्रतिषेधस्य नञर्थस्याप्रधानता उद्देश्यता- वच्छेदकतयाऽमुख्यत्वं स पर्युदासः । तत्र पर्युदासे नञ् समस्यते । तथैव चोदाहृतम् । यत्र तु पदार्थान्तरस्योद्देश्यतयाऽप्राधान्यं नञर्थस्य च विधेयतया प्राधान्यं स प्रसज्यप्रतिषेधः । तत्र नञर्थस्य क्रियायामन्वयः । तत्र समासो नेष्यते । उत्तरपदार्थप्रधानस्तपुरुष इति समासेऽभावोऽप्रधानं स्यात् । क्वचित्तु प्रसज्य प्रतिषेधेऽपि-समासो भवत्येवेत्यत्र आदेच उपदेशेऽशितीति निर्देशो ज्ञापकः। शिति तु नेत्यर्थः । तथा च कविप्रयोगा:-अरत्नालोकसंहार्यमवार्यं सूर्यरश्मिभिः । दृष्टिरोधकरं यूनां यौवनप्रभवं तमः ॥ ( काव्यादशे २|१९७ )। रंत्नालोकेन संहार्ये नेति विधेयम् , सूर्यरश्मिभिर्वार्ये , नेति च । उभयत्र क्रियया' नञः सम्बन्धः । एवं कादम्बर्यामपि निसर्गत एवाभानुभेद्यमरनालोकोच्छेद्यमप्रदीप प्रभापनेयमतिगहनं तमो यौवनप्रभवम्। अशिशिरोपचारहार्योऽतितीव्रो दर्पदाह ज्वरोष्मा । सततममूलमन्त्रगम्यो विषमो विषयविषास्वादमोहः, नित्यमस्नान शौचवध्यो रागमलावलेप इति । अकिञ्चिदपि कुर्वाणः सौख्यैर्दुःखान्यपोहतीत्युत्तरे रामचरिते । किंचिद् अपि न कुर्वाण इति क्रियया .नञः सम्बन्धः विधेयांशश्चायमिति स्पष्टः प्रसज्यप्रतिषेधः । तथापि नञ्समासः ।

 क्वचित्समासेनैवार्थोऽभिधेयो न व्यासेन । यदा विषधरजातिविशेषो विवक्ष्यते तदा कृष्णसर्प इति समासोक्तिराश्रीयतेः न तु कृष्णः सर्प इति व्या सोक्तिः । एवं हरीतक्यामलकं विभीतकमिति त्रितयं समुदितं 'त्रिफला' इत्येक पदेनाभिधीयते न तु त्रीणि फलानीति वाक्यघटकेन पदद्वयेन । तथा शुण्ठी पिप्पलीमरिचानां समुदायः त्रिकटु’ इत्युच्यते न तु त्रीणि.कटूनीति । अमृतसर समित्युच्यते समासेन नगरनामधेयं न त्वमृतस्य सर इति वाक्येन । वाक्यार्थः क्रियेति वाक्येन संज्ञाया अनवगमात् । एवं चतुश्शालमिति..योऽर्थ उच्यते नासौ चतस्रः शाला इति वाक्येन । चतुः शालमिति चतसृषु दिक्ष्वेकत्रावस्थि तानां शालानां संनिवेशविशेष उच्यते ।

 केचिच्छब्दा अर्थविशेषे वर्तमानाः समासेन्तर्भूता एव प्रयुज्यन्ते । आह च स्युरुत्तरपदे त्वमी। निभसंकाशनीकाशप्रतीकाशोपमादय इति ( अमर० शूद्रवर्गे)। सदृशवचना निभादयोऽत्र गृह्यन्ते । तेन ताराधिपनिभानना (सीता ); आकाशनीकाशं ,काशसंकाशम् इत्यादेः स्थाने ताराधिपेन निभमाननं यस्याः, आकाशेन नीकाशम् ,काशेन संकामित्यादि नः शक्यते वक्तुम् । उत्तरपदे ऽमी इत्याह । उत्तरपदम् इति च समासचरमावयवे रूढम् । तेन वाक्ये निभादीनां सुदृशवचनानामप्रयोग इति स्थितम् ।

 कार्त्स्न्येSवधारणे च वर्तमानो मात्रशब्दो नित्यं समासचरमावयव इति प्रयुज्यते न तु वाक्ये स्वातन्त्र्येण । तद्यथा - नहि रोगमात्रस्यैका चिकित्सा भवति । सर्वस्य रोगस्येत्यर्थः । नहि ज्ञातमात्रो धर्मोऽभ्युदयाय भवति । ज्ञातमात्रः = केवलं ज्ञातः ।

 समासगताः केचिच्छब्दा अपूर्वार्थवाचका भवन्ति , । तद्यथा संख्याशब्दानां वृतिविषये पूरणार्थत्वं दृश्यते । त्रिभागशेषासु निशासु च क्षणं निमील्य नेत्रे सहसा व्यबुध्यतेति कुमारे (५/५० )। त्रिभागस्तृतीयो भागः शेषो यासां तासु । आददीताय षड्भागं प्रनष्टाधिगतान्नृपः । इति मनौ (८/३३)। एवं शतांशः, सहस्रांश ईत्यादिषु बोध्यम् । शततमोंशः, सहस्रतमोंश इत्यर्थात् । संख्याशब्दानां वृत्तिविषयेवीप्सार्थत्वमपि लक्ष्यते । तद्यथा-सप्तपर्णः । सप्तच्छदः । सप्त सप्त पर्णानि वृन्तेऽस्येति विग्रहात् । मात्रशब्दो वृत्तौ तुल्यप्रमाणेऽपि वर्तते तद्यथा भिक्षामात्रं न ददाति याचितः। भिक्षयास्तुल्यप्रमाणमित्यर्थः। क्वचिच्च समासो नैवेष्यते ।. महत्कष्टं श्रितं इत्येव भवति न तु महत्कष्ट श्रित इति । उक्तं हि सविशेषणानां वृत्तिर्न वृत्तस्य वा विशेषणं नेति तेन ऋद्धस्य राज्ञः पुरुष इति भवति न च ऋद्धस्य राजपुरुष इति। भारतस्य प्रतिकोणं श्रीसुभाषस्य यशो गीयत इत्यत्र वाक्ये प्रतिकोणमिति दुर्घटः समासः । पूर्वपदार्थ- प्रधानोऽव्ययीभाव इत्यव्ययार्थः प्रधानम् । स चेह वीप्सा । तस्यासत्त्वभूतस्यः भारतस्येति षष्ठयन्तं विशेषणं न युज्यते । कोणशब्दश्च भारतमपेक्षत इति सापेक्षः । सापेक्षमसमर्थः भवतीति भारतस्य कोणे कोणे इति व्यासेनैव वक्तव्यम्। नष्टस्य शिशोरन्वेषणार्थं सम्प्रस्थिता रक्षिणः इत्यत्र वाक्येऽन्वेषणमिति नष्टस्य शिशोरिति पदे अपेक्षते तेनासमर्थम् । असमर्थस्य च तस्यार्थशब्देन समासोऽनुपपन्नः। तस्मान्नष्टस्य शिशोरन्वेषणायेति वक्तव्यम् । विशेषणं विशेष्येण बहुलमित्यभ्यनुज्ञातोऽपि समासः क्वचिन्नेष्यते । वृक्षः शिंशपा मेरुर्महीभृद् इत्यादिषु विशेषणसमासो नोपपद्यते । शिंशपावृक्षः मेरुर्महीद इति न शक्यते वक्तुं समासेन । कुत एतदिति चेदुच्यते यत्र पूर्वोत्तरपदे प्रत्येकं विशेषणविशेष्यभूते भवतस्तत्रैवायं समासो भवतीति ज्ञापनाय सूत्र उभयोरुपादानमिति न्यासः ।

 अन्यत्र क्वचिच्छास्त्रेणैव प्रतिषिद्धः समासः । फलानां तृप्त इति भवति, न फलतृप्त इति । नृपाणामुत्तम इति भवति न नृपोत्तम इति । पञ्चमश्छात्राणा मिति भवति न च्छात्रपञ्चम इति । सर्वस्य विदितमिति भवति न सर्वविदि तमिति ।

 इदं चात्र सविशेषमवधीयमानमिच्छामः वाचि शिक्षमाणैः । न हि संख्याशब्दाः समस्यन्ते सङ्ख्येयेन अन्यत्र’ संज्ञायाः समाहाराच्च । सप्तर्षय इति संज्ञा पञ्चाम्रा इति च । तेन विंशतिर्गावः शतं स्त्रियः, सप्ततिश्छात्राः, एकशत मध्वर्युशाखाः चतुष्षष्टिः कला इत्यादि व्यासेनैव शक्यं वक्तुं न तु विंशतिगाव ( टचिं विंशतिगवाः) इत्यादिना समासेन । समाहारे तु वाच्ये विंशतिगवमित्यादि - द्विगुः स्यात् ।

 इदमिहः सम्प्रधार्यम् अस्य सूक्ष्मतराणि वस्त्राण्येत्यर्थे वृत्तौ चिकीर्षितायां किमातिशायिकस्तद्धितः पूर्वं क्रियतां पश्चात्समास उत विपर्ययेण । अत्र वाक्यकार आह-पूर्वपदातिशय आतिशायिकाद् बहुव्रीहिः सूक्ष्मवस्त्रतराद्यर्थः । तेन पूर्वं सूक्ष्माणि वस्त्राण्यस्येतिविग्रहके बहुव्रीहौ निर्वृत्ते पश्चातरप् सिद्धो भवति । अतिश्येन सूक्ष्मवस्त्र इति सूक्ष्मवस्त्रतरः । स्वार्थे तरप् | सूक्ष्म शब्द एव सूक्ष्मतरे वर्तते, पदार्थैकदेशेनान्वयः । वेदे खल्वपि–यथा भूमिर् मृतमना मृतान्मृतमनस्तरा (अथर्व० ६।१८।२) । एवम् अल्पाच्तरम् (२।२।३४), व्योर्लघु प्रयत्नतरः शाकटायनस्य (८।३।१८) इत्यादय आचार्यप्रयोगा व्याख्यातां भवन्ति। भारतेष्येतद्व्यवहारस्यानुग्राहकाः प्रयोगा उपलभ्यते-अस्ति राजा मया कश्चिदल्पभयतरो भुवि ( बन०.५२।५० ) । महादोषतरतत्र घातको न तु स्वादकं इति च तत्रैव ( अनुशा० ११५।४६ ) क्वो नु स्वन्ततरो मयेति च तत्रैव {शल्य०.६४I२१ )। स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वयेति च तत्रैव( द्रोण ५५|४९ )। वैदिके साहित्ये तु बहुव्रीहेरन्यत्राप्येष क्रम आस्थितो दृश्यते ‌- गर्दभः पशूनां भारहारितम इत्यत्र ब्राह्मणे । क्वचिल्लौकिकेपि--सोऽस्मत्तश्चिरजाततर (भा० बन० १९९I७ ) ।

 इदं चात्र प्रसक्तानुप्रसक्तमुच्यते। एकशतमिति मध्यमपदलोपी समासो भवति। एकाधिकं शतमेकशतम् । एवं द्विशतं त्रिशतं षोडशशतमित्यादीनां द्व्यधिकं शतं त्र्यधिकं शतं षोडशाधिकं शतमित्यर्थो न तु द्वे शते त्रीणि शतानीत्यादिः ।


१. शक्तैर्बुभूक्षुभिः
२. मरीच्यव्यङिगरः पुलस्त्यपुलहृक्रतुवसिष्ठाः सप्तर्षयः ।
३. अश्वत्थ पिचुमर्द एको द्वौ चम्पकौ त्रीणि च केसराणि । सप्ताथ तालां नव
   नारिकेलाः पञ्चाम्ररोपी नरकं न याति । अत्र श्लोके परत्राः परिगणिताः
४. एकाशादिषुदशन्तासु संख्यास्वयमर्थस्तद्धितवृत्यापि पार्यते वक्तुम्एकादशं
   शतम् ( एकादश अधिका अस्मिन्शते १११) i द्वादशं सहस्रम् (द्वादश अधुिका.
   अस्मिन्सहस्रे ।

अथ प्रकीर्णकम्

 इदानीं यत्र प्रयोगेषु विभ्रमन्त्यविपश्चितः सन्दिहते च विपश्चितस्ते कतिपये समुच्चित्य व्याख्यायन्ते, साध्वी प्रयोगविधा च प्रदर्श्यते ।

 प्रत्येकमिति यथार्थे वीप्सायामव्ययीभाव इति सर्वस्य विदितोर्थः । अव्ययीभावश्च नपुंसकं भवतीति प्रत्येकं नपुंसकमित्यपि नाविदितम् । इदं च नाञ्जसा वेद लोको वाक्येऽस्य कथं प्रयोग इति स विमृश्यते । अपि शक्यं नाम "फलाय निमितोपि नहि प्रत्येकं पादपः फली भवति" इति वाक्यं प्रणेतुम् ? नेत्याह । वीप्सायामर्थेsव्ययीभावः क्रियाविशेषणमेव भवितुमर्हति । वीप्साया ( व्याप्तेः ) विषयः पादपश्च बहुवचनान्त एव, अन्यथा वीप्सा द्योतिता न स्यात् । तस्मात् फलाय निमिता अपि पादपा नहि प्रत्येकं फलिनो भवन्तीत्येव साध्वी वाक्यप्रणीतिः । असमासे तु वीप्सायां व्याप्यमानं पदं द्विरुच्यते । द्विरुक्तिर्वीप्साया द्योतिका भवति यथा ग्रामे ग्रामे काठकं कालापकं चाधीयत इत्यत्र । स्पष्टप्रतिपत्यर्थं प्रयोगनिदर्शकानि वाक्यान्तराण्युदाहरामः -- येऽत्र पुर्यां साङ्गवेदविदस्ते प्रत्येकं निमन्त्रयितव्याः । अत्र त्रिंशच्छात्राः सप्तम्यां श्रेण्याम्, प्रत्येकं छात्रेभ्यः पारितोषिकाणि प्रदीयन्ताम् । विदितोऽयमर्थः प्रत्येकं विदुषाम् । षष्ठयर्थविवक्षया प्रत्येकस्येति न शक्यं वक्तुम् । अदन्तादव्ययीभावात्सुब्लुङ् न भवति, तस्य सुपोऽमादेशो भवति, तृतीयासप्तम्योस्तु स बहुलम् । प्रत्येकशब्दस्येत्थम्भूते प्रयोगे भाष्यकारव्यवहारो मानम्प्रथमम् देवदत्तयज्ञदत्तविष्णुमित्रा भोज्यन्तामित्युक्ते , न पुनरुच्यते प्रत्येकमिति, अथ च प्रत्येकं भोज्यन्ते ( १|२|१ )। अथर्वभाष्ये (८|६|१७) उद्धर्षिप्रभृतीनि प्रत्येकं योगरूढान्यसुरनामानीति सायणप्रयोगोप्येतं व्यवहारं समर्थयते । ताण्ड्यब्राह्मणभाष्येऽपि (१२|१२|६) एषैव प्रतीची प्रत्यञ्चती प्रत्येकं स्तोमानि प्राप्नुवतीति तस्यैव प्रयोग उक्तमर्थं भूय उपोद्वलयति । कविकुलपतिः कालिदासोप्येतमेव व्यवहारमनुरुन्धे यदाह - सा पौरान्पौरकान्तस्य रामस्याभ्युदयश्रुतिः । प्रत्येकं ह्लादयामासेति (रघु० १२।३)। अपरेषु निपातनेषु तु प्रत्येकं विभक्ति निर्देशः (काशिका ७|२|३४ सूत्रे) । जघन्यास्ते प्रत्येकं विनेयाः पूर्वसाहसम् ( ना० स्मृ० ) । ते सर्वे प्रत्येकं पणशतं दण्डार्हा भवन्ति ( मिता० याज्ञ०-२|२३५-२३७) ।

 वरमित्यनव्ययं मनाक्प्रिये नपुंसकम् । अव्ययमिति तु केषाञ्चिद्विभ्रमः । अत्रार्थेऽस्य प्रचुरः प्रयोगः । याच्ञा मोघा वरमधिगुणे नाधमे लब्धकामेति मेघदूते । समुन्नयन्भूतिमनार्यसङ्गमाद्वरं विरोधोपि समं महात्मभिः (किरात० १|८) । एकवचनान्तत्वं च नियतम् - वरं हि भुक्तानि तृणान्यरण्ये तोषं परं रत्नमिवोपगृह्य । सहोषितं श्रीसुलभैर्न चैव दोषैरदृश्यैरिव कृष्णसर्पैः || (बुद्धचरिते ९|५३) असत्यपि वाक्यभेदे वरमिति नपुंसकैकवचनं प्रयुञ्जते प्रयोगकुशलाः-निःश्वासोद्गीर्णहुतभुग्धूमधूम्रीकृताननैः। वरमशविषै: सङ्ग कुर्याश्च त्वेव दुर्जनैः ॥ इत्यत्र कामन्दके ( ३।१८ ) यथा । मनाक् प्रियमित्यर्थस्तु पूर्ववदवस्थितः । काममाशीविषैः सङ्गः कुर्यान्न तु दुर्जनैः कदाचनेति वक्तुरभिसन्धेः। अन्यत्रापि । याः प्राणान्वरमर्पयन्ति न पुनः सम्पूर्णणदृष्टिं प्रिये इति (सा० द० ५४|२२)। प्राणार्पणमिच्छेयुर्न तु प्रिये पूर्णदृष्टिनिपातनमिति तदर्थः । वरं . महत्या म्रियते पिपासया तथांषि नान्यस्य करोत्युपासनम् । तस्माद्वरं सहायं तं शकटालं. समुद्धरे इंति ( क० स० सा० ५|४ )। यदि शंकटालं समुद्धरेयं तदा वरं स्यादित्यर्थमाचष्टे । साधीयो यथा स्यात्तथेत्यथे' वरं क्रियाविशेषणमिति व्यवहरन्त्यृवृषयस्तद्यथा प्र ते' अग्नयोऽग्निंभ्यो वरं निःशोशुचन्त (ऋ०. ७|१|४) । अयं सप्तभ्य आ वरं वि वो मदे प्रान्धं श्रोणं च तारिषद् इति च (ऋ० १०|२५|११)। आ पहि क्षेम उत योगे वरं नः (ऋ० ७|५४|३)। क्षेमे रक्षा नोऽभीष्टायोगे, त्वभीष्टतरेति विवक्षत्यृषिः| वरमिति प्रत्युतार्थेऽपि क्वचित्प्रयोगमवतरद्दृष्टंम्--शठस्तु समंयं प्राप्य नोपकारं हि मन्यते । वरं तैमुपकर्तारं दोषदृष्ट्या च दूषयेदित्यत्र यथा । उत्कृष्टे गुणवत्तरे वार्थे वर्तमानो वरशब्दो विशेषणं विशेष्यनिघ्नं भवति-हिरण्यभूमिलाभेभ्यो मित्रलब्धिर्वरा यत इतुिं याज्ञवल्क्यस्मृतौ (१|३५१) दर्शनात् ।

 स्वागतशब्दप्रयोगमधिकृत्य किञ्चिद् विवक्षामः । अयं हि वाक्ये दुष्प्रयुज्यते प्रायेण । अभ्यागतस्यः स्वागतं करोति गृहीत्येवं वाक्यन्यासं साधुं मन्यन्ते साम्प्रतिकाः ।. इदं च प्रस्मरन्ति नहि स्वागतं क्रियते किन्तर्हि व्याह्वियते ।तस्मै) प्रीतः प्रीतिप्रमुखवचनं स्वागतं व्याजहारेति मेघे तथा दर्शनात् । स्वागतमिति स्वागतशब्दपदार्थकः शब्दः । स चोच्चारणक्रिययान्वेति न क्रियान्तरेण ॥ स्वागतं स्वाधीकारान्प्रभावैरवलम्ब्य वः । युगपद् युगबाहुभ्यः प्राप्तेभ्यः प्राज्यविक्रमाः ॥ (कुमारे २|१८)। स्वागतमिति संभाजनपर्यायो नं । स्वागतेन यथार्हेण (रा० ६।१११।३१)। अत्रापि स्वागतेन स्वागतशब्दोच्चारणेनेत्ययंमेवार्थः । भारतेपिं स्वागतमुच्यते न तु क्रियते इति स्पष्टमवगम्यते— तथं च स्वागतेनोक्तौ. ( तौ) विष्टरे संनिपींदतु ( उद्योग० ११३|२ ) इत्यत्र प्रयोगः । तं स्वयम् । स्वागतेनादृतवती इति (क० स० सा० ) इयंत्रापि स्वागतशब्दः सत्क्रियां नाह । आदृतवतीत्यनुपदं प्रयुज्यमानस्य क्तवस्त्वन्तस्य वैयर्थ्र्यप्रसक्तः। बाढं स्वागतशब्दोच्चारणेन सत्क्रियते स यस्मै स्वगतमित्यु- च्चार्यते शब्दः। न तु स खाक्षात्सत्क्रियावचनः येन स्वागतं करोतीत्युपपद्यत । श्रीमद्भागवते (१०।३९। ४) स्वागतमिति निर्विघ्नं सुखमित्यर्थे क्रियाविशेषणं प्रयुक्तम्--तातसौम्यागतः कश्चित् स्वागतं भद्रमस्तु वः । पदवाक्यव्यवहारे भागवतकारस्यं स्वच्छन्दः प्रवर्तत इत्येतदास्थितं व्यवहारं ’ नातिसूक्षेत् ।  सर्वनाम्ना निर्देशः प्रायेणःसत्त्वभूतस्यार्थस्य क्रियते । अतः एव सर्वनाम्ना प्रत्यवमर्शयोग्यत्वं द्रव्यत्वमिति वैयाकरणाः प्रतिपन्नाः । क्वचिंत्तु ईदमा क्रियमा- .णक्रियानिर्देशो दृश्यते--इदं गम्यते । इदं कविभ्यः पूर्वेभ्यो नमोवाकं प्रशारस्मह इति भवभूतिप्रयोगः ।

 ण्यन्तस्य् वृतेः प्रयोगो नानार्थको व्यवहरतोऽवसेयः । ण्यन्तको. वृतिः सकर्मको भवतीतिं न वेदनीया विज्ञाः । व्यवहारे .यदर्थवैचित्र्यं तत्र तेषामपि विविदिषोदियाद्रिति तद्वर्ण्यते-केन वृत्तिं वर्त्तयसि (कल्पयसि)। कृपणं वर्तयिष्यामि कृपणैः सह जीविकाम् ( भा० शल्य० ५॥२५ )। सोऽधिकारमभिक कुलोचितं काश्चन स्वयमवर्त्तयत् समाः (रघु० १९I४)। अत्र वर्तिराचरणेऽनुष्ठाने वर्तते । पुष्करे तु ततः शेषं कालं वर्तितवान् प्रभुः ( भा० आदि० २२१|१४) । अत्र वर्तिर्यापने वर्तते । हन्त ते वर्तयिष्यामि इतिहासं पुरातनम् इत्यनेकत्र भारते । हन्त ते वर्तयिष्यामि वज्रनाभवधं नृप ( हरिवंशे . २|९१|४ )। तत्र ते वर्तयिष्यामि यथा युद्धमवर्तत (भा० द्रोण० १३५।२८)। अत्र वर्तिर्वर्णन माचष्टे । ज्योतींषि वर्तयति च प्रविभक्तरश्मि: (शकुन्तले ९|६ ) । अत्र वर्तयतिः परिवर्तने भ्रमणे दृष्टः । रामोपि सह वैदेह्या, वने वन्येन वर्तयन् (रघु० १२|८० )। वर्तयन् = वृतिं कुर्वन् । कर्णो भृशं :न्यश्वसदश्रुः वर्तयन् (भा० द्रोण० २|८)। अत्र वर्तिमोचने वर्तते ।

 xxष्टा गतिनिवृत्ताविति भूवादिः प्रसिध्यति । मुख्येऽर्थे प्रसिध्यन्तितमां प्रयोगा इति न त उदाहार्यां भवन्ति । गौणेऽर्थे प्रवृत्तोऽयं धातुश्चमस्करोति -चेतः। रेणुकाया: सुत इव मूलेष्वपि न तिष्ठतीति कामन्दके (९|४६) प्रयोगे तिष्ठतिः क्रियाविरामे वर्तते । मूलावर्हणेप्यस्य प्रवृत्तिर्न विरमतीत्यर्थः । तिष्ठाद्रोगो अयं तवेत्यथर्वश्रुतौ (६|४४|१)। अत्र रुधिरस्रवात्मको रोगस्तथा तिष्टतु यथा न स्रवतु, विरमतुं. स्रुतिरित्यर्थः ।

 वसतेरपि गौणेऽथे प्रयोगः सुतरां रुच्यो भवतीति स न्यस्यते—निश्चित्य यः प्रक्रमते नान्तर्वसति कर्मणः । अबन्ध्यकालो वश्यात्मा स वै पण्डित उच्यते (भा ० उ० |३३|२४। अत्र वंसतिर्वेिरामे वर्तते । कर्म प्रारभ्य मध्ये नं विरमति, कर्मान्तं यातीत्यर्थः । मूर्धिनि त्वां वासयेयं वै संशयो मे न विद्यते (भा० विराट् ९|२२)। अत्र वासिः स्थापने वर्तते ।

 गर्ह्याधीनौ च वक्तव्यावित्यमरः पठति । वाच्यो वचनीयो .वक्तव्यः इति शब्द त्रितयेन.गर्ह्य उच्यते। अथावाच्यः सर्वैः स्वमतिपरिणामावधि: गिरन्निति महिम्नः स्तोत्रे वाक्यो गर्ह्य' इत्यनर्थान्तरम्। एवं सद्वृत्तमतिक्रान्तो वक्तव्यतां..याति लोक इत्यत्रापि.गर्हणीयो भवतीत्यर्थः । अत्रार्थे' प्रयन्ते प्रयोग इति न प्रपञ्च्यन्ते। तुमुन्नन्तोपि ब्रवीतिर्गर्हमाह-सम्बन्धावनतं पार्थ न मां त्वं वक्तुमर्हसि ( भा० द्रोण० -१९७|४१)। अधीनेऽर्थे काशिद् दिशः समर्प्यन्ते --काम-वक्तव्य- हृदयेति श्रीरामायणे ( ३।२|२५ )। साहं त्वद्दर्शनाद् विप्र कामवक्तव्यतां गतेति मार्कण्डेयपुराणे (६१ |४७)। विषयसुखेनापि परां - प्रमादवक्तव्यतां व्रजति लोक इति, ब्रह्मजातके (१) ।

 प्रष्टव्यत्व उत्तरदायित्वे वक्तव्यता शब्दप्रयोगो दृश्यते यथा-दिवा वक्तव्यता पाले रात्रौः स्वामिनि तद्गृहे । योगक्षेमेऽन्यथा चेतु पालो वक्तव्यतामियात् । इत्यत्र मनौ ( ८.२३०) ।

 प्रदक्षिणमित्यव्ययमंनव्ययं च । उभयथा हि प्रयोगा दृश्यन्ते--कुर्यात् प्रदक्षिण देवमृद्गोविप्रवनस्पतीन् इत्यत्र याज्ञवल्क्ये (१|१३३ ) प्रदक्षिणमव्ययम् । मृद्गां देवतां विप्रं घृतं मधु चतुष्पथम् । प्रदक्षिणानि कुर्वीत प्रज्ञातांश्च वनस्पतीन् ॥ ( मनु० ४।३९ )। अत्र प्रक्षिणमित्यनव्ययम् ।

 प्रायेण ण्यन्तकः साधिगमेरथे प्रयुज्यत इति साहित्यदर्पणे विश्वनाथः । साधनार्था या गतिम्तां साधनाशब्देनाह गतेः प्रयोजनवतीत्वाख्यापनाय । साधंयामोवयम् । गच्छाम इत्यर्थः । प्रायिक एष व्यवहार इति तेनैव व्यक्तमु दितम् । अतः क्वचिद् गमेः साधेश्च युगपत्प्रयोगो दृश्यते—स्वस्त्यस्तु ते गमिष्यामि साधयिष्यामि शोभने (भा० वन० २०६|४७ ) । अत्र साधिर्गमिव्यतिरिक्तां शुद्धां साधनां निष्पादनमाह ।

 उत्तममध्यमाधमा इत्यत्रोत्तमशब्दो वरिष्ठमाह । सोऽयमर्थः सर्वलौकिको विच्छित्तिविधुरश्च । उत्तममित्यन्यमप्याह । तथा च पाणिनीयं शासनम् उत्तमैकाभ्यां च (५|४|९०)। उत्तमशब्दोऽन्त्यवचनः पुण्यशब्दम् अहः सर्वैकदेशेति सूत्रांन्ते वर्तमानम् आचष्टे । उत्तममहर्मासान्तो भवति । उत्तमं व्यसनं प्राप्तः ( भा० कर्णं० २८|८ ) इत्यत्रोतमशब्दो महत्तमेन समानार्थः ।श्रुत्वा निनदमुत्तमम् ( भा० शल्य ४|४ )। अंत्रोत्तममुच्चैस्तमं तारतमम् इत्यनर्थान्तरम् । साऽयुत्तमसंविग्नेत्यत्र रामायणीये प्रयोग उत्तमशब्दो भृशार्थकः ।

श्रुणोतिराकर्णनमात्रव्यतिरिक्ते प्यर्थे प्रयोगमवतरन्दृष्टः स्वदतेतराम् । न क्षत्रियो वै सूतानां शृणुयाच्च कथंचन (भा० कर्ण० ३२|४८) । अत्र शृणुयाद्वचनकरः स्यादित्यर्थः। येषां श्रोष्यन्ति पाण्डवाः (भा० द्रोण० ८५|३१)। -अत्र वच इति शेषः । स्वीकरिष्यन्तीति चार्थः ।

 पृच्छतिर्द्धिकर्मेति प्रसिध्यतितरामिंति न तद्विषये किमपि विशिष्यं वक्तव्यमस्ति । अकथितंकर्मणोऽप्रयोगेऽपि प्रधानकर्मण एव प्रयोग आस्वाद्यताम् -स चालोक्य ध्वजिनीं पाण्डवानां धनञ्जयं त्वर या पर्यपृच्छत (भा० कर्ण० ३७|४५)। धनञ्जयविषयां पृच्छामकरोत् क्वासौ धनञ्जयः कथं वा वर्तत इत्यपृच्छदित्यर्थः । एवं ब्रवीतिरेपिं तथाजातीयकेऽर्थे प्रयुक्तः) यो मे ब्रूयाद् धनन्जयम्। क्वांवतिष्ठते धनञ्जय इति मां वेदयेत् ।

 अन्तरशन्दोऽवकृशादिनानार्येषु पठितोऽमरेण । मध्यं चास्यैकतमोर्थः । तत्र चायं वर्तमानो यत्र विषयेण सहैकार्थतां याति सोऽस्य रुच्यतमः प्रयोगः । मिथो भेदांश्च भूतानामासन्कर्णार्जुनान्तरे' ( भा० कर्ण० ८७|३३ ) | कर्णार्जुनविषय इत्यर्थः ।

 स्वस्ति शब्दो लोकेऽययं वेदे तु कृतव्ययमपि दृश्यते । यूयं पात स्वस्तिभिः सदा नः ( ऋ० ७|३४|२५)। स्वस्तये वायुमुपब्रवामहै (ऋ० ५|५१|१२)। स्वस्ति गोब्राह्मणेभ्य इत्यादिषु लौकिकेषु प्रयोगेषु स्वरतीति कल्याणं वक्ति । स्वाहां स्वधा शची चैव स्वस्ति कुर्वन्तु ते सदा ( भा० द्रोण० ९५|४४ )। अंत्र स्वस्तीति कल्याणवचनं द्वितीयार्थेऽव्ययम् । स्वस्ति सञ्जय सधय (भा० शल्यं० २९|४० )। अत्र स्वस्तीति क्रियाविशेषणम् । क्षेमेण गच्छेत्यर्थः। वेदे खल्वपि क्रियाविशेषणं दृश्यते—सो अस्नातॄनपारयत् स्वस्ति (ऋ० २।१५|५ )। न नूनं स्वस्ति पार्थाय यथा नदति शङ्खराट् ( भा० ) । पार्थस्यः क्षेमो नेत्याशङ्क्यत इत्यर्थः । आशिषि लिङ्लोटोरभावे स्वस्तिशब्दप्रयोगों नूनमाकूतकरः ।

 तादर्थ्येऽर्थेऽप्यमरोऽन्तरं ' पठति--अन्तरमवकाशावधिपरिधानान्तधिभेदंतादर्थ्ये । तादर्थ्येऽस्य प्रयोगे विशिष्यावधेयं सुधीभिः। अत्रार्थेऽमरोद्धाटने स्वाम्याह-ओदनान्तरस्तण्डुल इति लोके प्रयोग इति । अत्रान्तरशन्दस्य पुंसि प्रयोगोऽसाधुरिति मम भाति । अन्तरं हि क्लीबत्वे नियतम् । ओदनायेत्योदनान्तरम् इत्यस्वपदविग्रहो मयूरव्यंसकादिस्तत्पुरुषः । अवैभि कार्यान्तरमानुषस्यत्यत्र रघौ (१६|८२) कार्याय कार्यवशान्मानुषो मानुषदेहमापन्नः, तस्येत्यर्थः । शरीर स्पर्शसुखान्तराय निपेततुर्मूर्धनिं तस्य सौम्ये . (हे वारिधूरे ) इति बुद्धचरिते (१|१६)। सुखायेति सुखान्तरम् । तस्मै । तौ वृषाविव नर्दन्तौ बलिनौ वासितान्तरे ( भा० आदि० १०२|४१) वासिंतायाः करेण्वाः कृते ( अर्थाय ) इत्यर्थः। अन्तरमित्यन्तरेणार्थमभिदधदपि पठ्यते--न चैतदिष्टं भगवान्यादवोचन्मदन्तरम् इत्यत्र श्रीरामायणे ।

 अन्तर्धावर्थेऽन्तरशब्दः प्रातिपदिकाद्धात्वर्थे बहुलमिष्ठचञ्चेति वचनाण्णिच्सहितः प्रयोगमवतरति न केवलः--मेघैरन्तरितः प्रिये तव मुखच्छायानुकारी शशीत्यत्र यथा ।

 मध्यवचनोऽन्तरशब्दो येऽन्तरं यान्ति कार्येषु ( भा० अनुशा० २३|७५ ) इत्यादिषु तात्पर्यंतोंऽन्तरायमाह । अन्तरं यान्ति अन्तराया भवन्ति, विघ्नमा चरन्तीत्यर्थः।

औपचारिकाः प्रयोगाः

 तत्र तत्र मुख्येऽर्थे व्यवहारनिरूपणायां कृतायां संप्रति गौणेऽर्थे व्यवं हारमवतारयामः ।

 इदं हि प्रतिपन्नप्रायं विमर्शकैः शाब्दिकैरन्यैश्च विदग्धैर्मुख्येर्थे ‘ प्रयोगा न तया स्वदन्ते यथा गौणेथे एकस्यान्यंस्यान्यत्र गुणक्रियाध्यासात्सादृश्यसमाश्रयेण प्रवर्तन्ते तत्र तत्रोपचाराः कवीनाम् । अग्निर्माणवक इत्युक्तिर्यथार्थवती रुचि करी च न तथा. तेजस्वी माणवक इति । निमीलन्ति पङ्कजानि, उन्मीलन्ति कुमुदानि । अत्र चक्षुर्धर्मो निमेषोन्मेषे पङ्कजेषु कुमुदेषु चाध्यस्य संकोचविकासौ तथोच्येते । तथा चोच्यमानौ रम्यतरौ प्रतीयेते । क्वचितु मुख्येर्थे ग्राम्यत्वं गौणे च मनोज्ञत्वमुद्भवतीत्यनुभूतिः सुचेतसाम् । तथा चोदाहरत्याचार्यदण्डी

                निष्ठयूतोद्गीर्णवान्तादिः . गौणवृत्तिव्यपाश्रयम् ।
                अतिसुन्दरमन्यत्र ग्राम्यकक्षां विगाहते । इति

 मुख्येर्थे' निष्ठयूतादिश्रुतय उच्चारिता उद्वेगाय भवन्ति श्रोतृणाम् । यावता निष्ठेवनादिकाः क्रिया जुगुप्सावहा भवन्ति, इमाश्च ताः स्मारयन्ति पुरः सन्निघापयन्तीवेति भवन्त्युद्वेजिकाः ।. अनिरुद्धप्रसरतादिं सामान्यधर्ममादायान्यत्राविष्करणादावर्थे प्रयुक्तास्तु सौभाग्यमधिकं वहन्ति । तथा निष्ठ्यूतश्चरणोपभोगसुलभो लाक्षारसः’ केनचित् । वागस्या अमृतमुद्गिरति नयने च स्नेहं वमतः । सत्यमियं वामा। चन्द्रः सुधोद्गारीति किमत्र चित्रमित्यादि ।

 औपचारिकाः प्रयोगः सुभगंकरणा निबन्धस्य रम्यतरतामस्यापादयन्तीति च्छात्रप्रबोधाय कानपीहानुक्रमामो विवृत्य च सनाथयामः-

 'पुनरुक्तवस्तुविरसः सर्गक्रमो वेधस’ इति । पुनरुक्तं हि मुख्यया वृत्याऽसकृदुक्तं व्यर्थं वचो भवति । लक्षणया पुनः पूर्वेण संमानमनपेक्षितमर्थमात्रमाहं । "व्यापारैः पुनर्युक्तभूतविषयैः" इति च भर्तृहरौ। ' रे रे पुनरुक्ताकार दुराचार निशाचरे'ति बालरामायणे । ‘भत्खरिणस्तु परगुणेषु वाचंयमा’ इति । वाचंयमो मुनिर्भवति । मुनिश्च मितवाक्तूष्णीं ‘भवति मननात् । तेन वाचंयम इति तूष्णीमर्थ उपचर्यते । ‘कविसार्थः समग्रोपि तमेनमनुगच्छति ’’ इति । ‘अप्रतिभस्य पदार्थसार्थः परोक्ष एवेति’ च । सार्थशब्दो मुख्यया वृत्या वणिगा दीनां सरतां समूहमाह । अत्र तु लक्षणया समूहमात्रम् । ‘कुरु मामम्ब कृतार्थसार्थवाहम्’ इति । सार्थवाहो हि यातां वणिजां नेतारमाहं मुख्ययां वृत्या, तत्साधर्म्यादन्योपि कश्चिदयातामपि . सत्तमस्तथोच्यते । ‘मंन्महे किमपि तुन्दिलं महः' । तुन्दिलमिति तुन्दिभमाह मुख्यया वृत्या । तुन्दं जंठरं प्रवृद्धमस्यास्तीति व्युत्पत्तेः । अतिशायनेत्र मत्वर्थीयः। अन्यदपिं यत्किञ्चिदतिशयितप्रमाणं प्रवृद्धं वा भवति तदपि तुन्दिलं भवति गौण्या वृत्या। ‘न. स्वप्नानुभवस्य कश्चिदपरः सत्रह्मचारी ममेति.' । सब्रह्मचारी नाम समानशाखाध्यायी भवति, एतादृशयोर्द्वयोः साहचर्यमनुक्तमपि गम्यते, तेनान्योपि समानकर्मा सहचरस्तथोच्यतो लक्षणया । हे. व्यसनसब्रह्मचारिन्, यदि न गुह्यं तदा श्रोतुमिच्छामि’ (मुद्रा०. ६) इह कृच्छ्रे संविभागी तथा सम्बोध्यते । ‘अयं मे सखा दुःखसब्रह्मचारीति कया गिरा तं स्तवीमि' । प्रजल्पितायामभिजातवाचीति कुमारे । अत्राभिजातशब्दो लक्षणया सुकुमारार्थपर्यवसायी । ‘नेत्र विप्रोषिताज्जनं मुखम्’। प्रीतिनिर्वासितत्रपाः। अत्र विप्रवसननिर्वासने चेतनधर्मावञ्जने त्रपायां चाध्यारोप्येते । असंनिहितेर्थे च विप्रोषितनिर्वासितशब्दावुपचर्येते । 'विस्मृतनिमेषेण चक्षुषा । अत्र विस्मृतपदेन विगतार्थतोच्यते । यद्धि विस्मृतं भवति तन्मनसोऽपेतं भवति । तत्सादृश्यादन्यदपि यदपेतं भवति तदुच्यते विस्मृतमिति । अपि वाऽन्तःकरण धर्म विस्मरणं चक्षुष्यध्यस्य तथोच्यते, तथा ह्युच्यमानमावर्जकं भवति । ‘तं व्यतिकरं निशम्य हृष्यन्ति नो लोमानि।' अत्र मनोधर्मी हर्षो लोमस्वध्यस्यते । अथवा यंत उंदञ्चन्ति लोमानि तंतो हृष्यन्तीवेति जायतेऽनुमा । त्वद्दृष्टेरितिंथी भवन्तु पञ्चालाः । अतिथिरभ्यागतो भवति । अतिथय इवातिथय इत्यौपमिकः प्रयोगैः अतिथिरूपगन्ता भवति । इमे पञ्चालास्त्वद्दृष्टेः पात्रीभवन्त्वित्यर्थः। ‘प्रत्यूषेषु स्फुटितकमलामोदमैत्रीकषायः' इति मेघे । अत्र मैत्रीशब्दो लक्षणया संसर्गमाह । प्रसिद्धं हि मित्रयोः साहचर्यम् । ‘प्रसन्नो ब्राह्मणशेषः' इंति शतपथे सायणः। प्रसन्नः प्रसादगुणवान् विंशद इत्यर्थः । यथा प्रसन्नं मनोऽकलुषं भवति तथा स्पष्टाक्षरार्थ: सन्दर्भः प्रसन्नो भवति । विमंला आपश्च प्रसन्नो भवन्ति । ‘भवति हरिणलक्ष्मा येन तेजोदरिद्रः। अत्र दरिद्रः इति क्षीणो हीनो वाऽभिधीयते । एवं मध्यो दरिद्रातीत्यत्र कृशमुदरमित्यर्थः । ‘मुष्टिग्राह्यं तमः' । अत्र मुष्टिग्राह्यमिति गौण्या वृत्या’ सान्द्रार्थमाचष्टे । यद्धि शक्यते मुष्टिना ग्रहीतुं तत्संश्लिष्टावयंवं घनं भवति i 'पाणिप्रणयी कोदण्डदण्डः' । अत्र प्रणयिशब्देन लक्षणय सम्बद्ध उच्यते । ‘आसन्नसखीमुखेन’। अत्रासन्नशब्द आप्तं विस्रम्भभाजं वाऽऽह । यो ह्यासन्नो भवंति सोभ्यन्तरीक्रियते विस्रम्भालापेष्विति लोकप्रसिद्धेः । ‘नेदिष्ठो धर्मार्थसंहितासु’ इति दशकुमारचरिते । अत्र नेदिष्ठो निपुण इत्यत्रार्थे लाक्ष- णिकः । यथाभ्यन्तरो निपुणार्थस्तथा नेदिष्ठ - इत्यंत्रार्थान्तरसंक्रमक्रमो न दुरूहः । ‘उन्निद्राणि .कुमुदानि, प्रबुद्धानि पङ्कजानि' । अत्रोभयत्र चक्षुष्क्रियाध्यासाद्भाक्तः प्रयोगः कामपि प्रीतिमावहति ? ‘महासेनेन दुःस्वप्नः स वञ्चितः' । अत्र वञ्चितो विसंवादितो विप्रलब्धो वा भवति मुख्यया वृत्त्या । लक्षणया तु विफलीकृत इत्यर्थः । ‘अथ निर्मक्षिकं भद्र मधु पातुं मनोरथः' । अत्र निर्मक्षिकमित्यस्य निर्विघ्नमिति लक्ष्योऽर्थः । मक्षिकाणामभाव/इति मुख्यार्थप्रतिपत्तेः। ‘कांचिद् वेलामुपास्य’ । अत्रोपासा प्रतीक्षाऽभिप्रेता । यः किलं प्रतीक्षते स चिरमेकत्रोपास्त इति साधर्म्यात् प्रतीक्षणार्थलब्धिः । तद्वक्त्रं यदि मुद्रिता शशिकथा’। अत्र मुद्रिता प्रतिबद्धेन्यनर्थान्तरम् । अस्तं गतेति यावत् । यद्धि मुद्रितं भवति न तदुद्धांटयितुं शक्यते यथा मुद्रित लेखः । एवं व्याख्यायमानायां स्मृतौ श्रुतिर्व्याकुप्येत्’ । व्याकोपोऽत्र विरोध इति गृह्यते । कुपितो हितेनं विरोधमाचरति यस्मा असौ प्रकुप्यति । ‘दरिद्र्यं हि पर्यायो मरणस्य’ इति मृच्छकटिकायाम् । पर्याय इतिं पर्यायवचन इत्यस्य स्थाने संक्षिप्तं वचः स च तुल्यार्थकोऽपरः शब्दो भवति मुख्यया वृत्त्या । इह लक्षणया तुल्यार्थे पर्यवसित: । ‘वपुरिव यौवनबन्ध्य मङ्गनायाः। अत्र फल्गून्यवचनो बन्ध्यशन्दः शून्यमात्रे भाक्तः । ‘महाब्शापोमुक्तः' । न हि शापो मुच्यते, उच्चार्यते हि -स: । परं तदुच्चारणसमकालं जलाञ्जलिमुर्च्यते, तेन. तत्साहचर्याच्छापोपि मुच्यत इति व्यवह्रियते । एवं सति वेदमधीत्य स्नायादिति स्मृतिरनुगृहीता भवति। अत्रानुग्रहः समर्थना भवति । यो ह्यनुगृहीतो भवति स उपस्तब्धो भवति । ‘कर्मपरमवशं नं विप्रंकुर्युविंभुमपि यदमी स्पृशन्ति भावाः' इति-कुमारे । अत्र स्पर्शेनं स्पर्शपूर्वको विकार उच्यते । अत एव कर्तरि घञन्तः स्पर्शशब्दो रोगवचनः । ‘‘ममंणि स्पृशति । अत्र स्पर्शविशेषस्तोदनं व्यधनं वाभिप्रर्यते । 'बाष्पदुर्दिनान्धकारितदृष्टिः' । अत्र दुर्दिनशब्देन लक्षणया वर्षमुच्यते मुख्यया वृत्या तु दुर्दिनं मेघाच्छन्नमहराह । 'गन्धवदगन्धमादनमित्यागन्तुकः पाठः' । प्रक्षिप्त इत्यर्थः । असाम्प्रदायिक इति वा । यो हि सम्प्रदायादागतः स परम्परीणऽनागन्तुकः। आगन्तुकशब्दो नवं बाह्यं सद्य आगतं चार्थमाह । `दारुणं तमुदन्तं निशम्य साक्षिणोपि मोहिता किमुत ज्ञातयः। अत्र साक्षिण इत्यनेन. लक्षणया तटस्था उच्यन्ते । यथा व्यवहारेऽर्थिप्रत्यर्थिनोः कतरो जयतीत्यत्रानादरः साक्षिणां तत्र तेषां ताटस्थ्यांत्, एवमन्येपि तटस्थः साक्षिणं उच्यन्ते सादृश्यात् । ज्येष्ठे भ्रातरि ध्रियमाणे मृगेन्द्रा सनमारोहन्यवीयान्खलु खट्वारूढो भवेत् । खट्वारोहणं विमार्गप्रस्थानस्योपलक्षणम् । सर्वे एवाविनीतः खट्वारूढ इत्युच्यते, मुख्यया वृत्या तु योऽकाले तल्पं गच्छति ब्रह्मचर्यै च भ्रंशयति स खट्वारूढ इत्यभिधीयते | ऋणैः किल/समा घ्रातः पुरुषो-जायते त्रिभिः' । समाघ्राणं ( समन्ताद्घ्राणं ) लक्षणयाऽऽक्रमंण मासादनं वाह । नियमंविधित्वपक्षस्तु वज्रहस्तेनापि नोपहस्तचितुं पार्यते । अपहस्तयते हस्तेन निरस्यतीत्यनर्थान्तरम् । अत्र निरसनमात्र उपचर्यतेऽतितरां च शोभते। क्रिया हि द्रव्यं विनयति ना द्रव्यभू' । द्रव्यमयं माणवकं इति च । ‘द्रव्यं च भव्ये (५|३।१०४)इति द्रव्यशब्दो भव्येऽर्थेनिपातितः। अयं चास्य गौणोर्थ इति तत्त्वम् । द्रव्यं हि गुणक्रियाधारो भवतीति काणादाः । तत्साम्याद् यदि. कश्चिद् गुण्यः कर्मटश्च भवति स उच्यते द्रव्यमिति । ‘माणिक्यावलिकान्तिदन्तु- रतरैभूर्षासहस्त्रोत्करैः’। अत्र दन्तुर शब्देनोत्कट उद्भूतो वाऽर्थ उच्यंते लक्षणया । उन्नतदन्त इति त्वभिधया । 'कियज्जलमनुभवतीयं कलशी’। अत्रानुभवति: । संभवतिना समानार्थकः। यद्धि येनेन्द्रियेणानुभूयते स तस्य विषयो भवति, जलमपि कलशीकर्तृकाया धारणक्रियाया विषय इति कलशी जलमनुभवंतीत्युच्यते साधर्म्यात् । 'अस्य ग्रन्थस्य सुप्रणीतया कयापि टीकया साचिव्यं करणीयम् । साचिव्यशब्दः साह्यं साहाय्यं वाऽऽचष्टे गौण्या वृत्त्या। सचिवो हि राज्ञा सचते संगच्छते सम्मन्त्रणार्थमिति तथोच्यते । ‘ईश इत्ययमनन्यचुम्बित श्चन्द्रस्चूड तदपि त्वयि ध्वनिः’। ‘चुबि वक्त्रसंयोगे इति पठितो धातुरंत्र संयोग मात्रे लाक्षणिकः । ‘इदमुज्जृम्भते बिम्बं भानोः'। अत्रोज्जृम्भत उद्गच्छतीत्यनर्थान्तरम् । जृम्भणे हि श्वासोद्र्गतिर्भवति गात्राणां चोर्ध्र्वमुखो विनामः । तेनोद्गमनसामान्यमादाय प्रयोगः।

.

 इवतुल्यादय उपमावाचकाः प्रसिद्धाः । अन्येपि गौणवृत्तिव्यपाश्रयेणौपम्यमाहुः । ते कतिपयेऽत्रानुक्रम्यन्ते प्रबन्धचारुत्वस्य प्रकर्षाय। ‘चक्षुर्मेचकमम्बुजं विजयते वक्त्रस्य मित्रं शशी'। 'कुवलयच्छायांमुषा चक्षुषा’। सम्प्रव्येणेक्षणानां तिमिरभरसखी वर्तते वेषलीला। ’ केनान्येन विलङ्घ्यते विधिगतिः पाषाण रेखसखी। यवसूचिसूत्रसुहृदः सुधांशोः कराः’। ‘सब्रह्मचारी नवमेघरुच्याः'। ‘गङ्गावर्तसनाभिर्नाभिः' । ‘भ्रू सूत्रस्य सनाभि मन्मथधनुः।' 'कटाक्षविक्षेपाः शिशुशफरफालप्रतिभुवः' ।

              जमदग्निप्रतिच्छन्दः सरूपो यः किरीटिनः ।
              सम्मितो रघुनाथस्य शिवराजो विराजते ॥ इति ।

 निस्त्रिशः खङ्गो भवति । निर्गतस्त्रिंशतोऽङ्गुलिभ्य इति व्युत्पत्तेः । स इवेति नित्रिंशःक्रूरः !

 त्यक्त्वा सन्तापजं शोकं दंशितो भव कर्माणि (भा०शान्ति० २२|९) । दंशितो ‘व्यूढकङ्कट . इत्यमरः । । अत्र तूद्यतः सज्ज इत्यर्थः। विदुरो धृतराष्ट्राय गान्धार्याः पाण्डवारणिः । न्यवेदयेतां तत्सर्वं कुमाराणां विचेष्टितम् ॥ इति भारतपद्ये ( आदि० १|३४,|३५) पांण्डवारणिशब्देन पाण्डव मातोच्यते । यथारणिरग्नेर्योनिस्तथा कुन्ती पाण्डवानामिति : तद्धर्मारोपेण तथोच्यते ।

 मण्डलानि विचित्राणि यमकानीतराणि चेति भारतपद्ये (वन० १९I८) यमकशब्दः सुद्दशमाह । यमौ यमजौ ह्याकारादिना तुल्यौ भवतः । इवार्थे कः ।   संवाससमयो जीर्ण इति भारतस्ये’ श्लोकचरणे (आदि० १५५|४०): जीर्णशब्दो लक्षणयाऽतिक्रान्तमाह ।

 निवातम् इति मुख्यया वृत्त्या वाताभावं निबद्धवातं वा प्रदेशमाह । र्थाः कुड्यनिवातमित्यत्र । गौण्या. तु निराबाधं पार्श्वमाह--राजनिवाते वसति । सुखं मातृनिवातम् इति वाते वातत्राणे (६|२|८) इति स्वरसूत्रे काशिकायाम् । वेदे खल्वपि–निवात एषांमभये स्यामेति (तै० सं० ५|७|२|४ ) । अन्यत्र (अथर्व० ६|५५|२ ) निवातमिति । विशेषणमपि प्रयुक्तं दृश्यते—निवात इदः शरणे स्यामेति ।

 दुर्दिनमिति मेघाच्छन्नेऽहनि रूढम् । उपचाराद्वर्षेपि वर्तते— मंददुर्दिनश्रीः (रघु ० ५|४७ )। मदस्रुतिसन्ततिर्विवक्षिता। अन्यत्र वृष्टयान्धकारितेपि लक्ष्यते--सम्प्राप्ते दुर्दिने काले दुर्दिनं भाति वै नभ इति हरिवंशे (३५७२) । पांसुवर्षेण पतता दुर्दिनं च नभोऽभवदिति (रा० ६।९०|२९)। मकरन्द दुर्दिंना••• ‘उद्यानभूमय इति प्रबोधचन्द्रे ।'बाष्पदुर्दिनाक्षी’ इति दशकुमारचरिते ।

 नेत्रं नयनं शरीराङ्गमुच्यते । नीयतेऽनेनेति । तद्धर्मारोपादन्योपि पित्रादिर्नेत्र- मुच्यते । तथा च भारते प्रयोगः–‘त्वन्नेत्राः सन्तु ते पुत्राः (२|२४८६) । अत्रे ऋर्षेर्गोत्रांपत्यं स्त्री आत्रेयीति व्यपदिश्यते । यथा सा पुमन्तरेणागम्या भवति तथा सद्यो दृष्टरजा रंजस्वलापीति. सधर्म्याद्रजस्वलाऽऽत्रेयीत्युच्यते। तथा चर्तुमतीपर्यायान्पंठत्यमरेः-रजरवला । स्त्रीधर्मिण्येपि चात्रेयी मलिनी पुष्पवत्यपि ।

 कात्यायनी त्यर्धवृद्धां काषायवसनामधवामाह रूढ्या । मुख्यया वृत्या तु कतस्यर्षेर्युवापत्यमाह । औपमिकोऽयं प्रयोगः । कात्यायनीव कात्यायनी, ऋषिपत्न्याकारत्वात् ।

 ककुदमिति प्रधानादिष्वर्थेषु पठति . कोषकारः, तथा ह्यमरे पाठः-प्राधान्ये राजलिङ्गे च वृषाङ्गे ककुदोऽस्त्रियाम् इति । वस्तुतो वृषाङ्गमिति मुख्योऽर्थ औपः चारिकौ चेतरौ । वृषाङ्गगतमौन्नत्यमादाय ककुदस्यान्यत्र प्रयोगः । शैलश्रुृङगेपि तद्धर्म्यात्प्रयोग उपपन्नो भवति । त्रिककुत्पर्वते इति' पाणिनीय शासने यथा । अयं हि प्रधानेर्थे' भारतगतः प्रयोगः--ककुदं सर्वयोधानां धाम सर्वधनुष्मताम् (६|४९८ ) ।

 युद्धातिथ्यं प्रदास्यामि यथाप्राणं निशाचर ( रा०-३।५०|२८) । आतिथ्यं यथाऽभ्यागतस्य क्रियत एवं युद्धेन त्वां सत्करिष्यामीति विवक्षितोऽर्थः । आति- थ्यसकारसदृशः सत्कार आतिथ्यशब्देनोच्यते ।

 शारदः शरद्भवमाह मुख्यया वृत्त्या । कोषकारास्तु शारदं प्रत्यग्राप्रतिभयोः पर्यायमाहुः । तथा चामरः पठति-द्वौ तु शारदौ प्रत्यग्राप्रतिभाविति शरंद्युपेतायां शाम्यति रजः, आश्यायते पङ्क: प्रसीदति -सलिलम् , निर्धौतमिव विभाति गगनमिति शारदं सर्वं नवमियं भवति । तेन शारदशब्दो नूतनमर्थमुपसङ्क्रान्तः । शारद इव शारद इत्यौपमिकं प्रयोगः । अत एव सद्योरज्जूद्धृतं प्रत्यग्रमनुपहतमुदकं रज्जुशारदमुच्यते ।

 अपपूर्वो राधिरपक्रियायामागस्करणे प्रतिकूलाचरणे वा रूढः । अतः यस्मिन्कस्मिन्नपि पूजार्हेऽपराद्ध शकुन्तला। ( शाकुन्तले ४ )।अपराद्धोसि तत्र भवतः कण्वस्य. ( शाकुंतले ७ ), किम्पुनरसुरावलेपेन भवतीनामपराद्धम् (विक्रमोर्वशीये १ ) इत्यादयः प्रयोगः प्रथन्ते । अत्रापराधिरपक्रियादिचेतन घममाह । निमित्तादपराद्धे षोर्धानुष्कस्येव वल्गितम् इति माधवाक्ये (२।२७) sसावचेतन इंषावध्यारोपित इति चारुत्वमारोपितः प्रयोगः । अत्र निर्मित्तादित्यतिरिक्तम् अनर्थकम् । अपराद्धपृषत्कोऽसौ लक्ष्याद्यश्च्युतसायक इत्यमरे निमित्ता च्च्युतिलक्षणस्यापराधस्यापराद्धशब्देनैवावगतेः । अपराद्धाsभिषेकवेलोपाध्यायस्येति विक्रमोर्वशीयेऽपराद्धेत्यतिक्रान्तेत्याह । मुख्यया वृत्त्या त्वपराद्धा हिंसिता भवंति । मनोज्ञ , इति मुख्यया वृत्त्या मनसो ज्ञातारमाह तथा च भारते प्रयोगः- तथैव सहदेवोऽयं सततं त्वमनुव्रतः । न जातु विनिवर्तेत मनोज्ञो ह्यहमस्य वै ( वन० १४०।१४) । अभिरूपोऽर्थोपि द्रष्टुमानसं प्रविश्य जानातीवेति मनोज्ञ उच्यते ।

 अन्यत्रापि चेतनधर्मस्याचेतने सङ्क्रान्तिर्लक्ष्यते सुभगा- न मे मूढा दिशः पाप त्वदर्थं में विलम्बितम् ( भा० वन० १५७|४८) । अत्र वक्त्रां स्वगतो मोहों दिंक्षूपचरितः ।

 अन्तरमवकाशो भवति कालकृतो वा दिक्कृतो वा । तेननन्तरमित्यनवकाशमव्यवहितमाह । अव्यवहितेर्थे प्रथन्ते प्रयोगाः | प्रातिवेश्य इत्यनन्तरगृहवासी भवति । राम इति दशरथस्यानन्तरापत्यम् । यच्चाव्यवहितं भवति तदत्यन्ताय संनिहितं भवति । तेनानन्तरशब्देन सामीप्यं लक्ष्यते । तेन च सौलभ्यम् । तथा च प्रयोगःप्राज्ञस्यनन्तरा वृत्तिरिह लोके परत्र च (भा० वन० २०९|४३)। अदूरवर्तिनी सुलभेत्यर्थः। काये चानन्तरोऽभवत् (भा० वंन० २८०|७ ) इत्यत्रानन्तरः संलग्न इत्यनर्थान्तरम् ।

 ‘दाण्डजिनिको दाम्भिको भवति । तत्कस्मात् । दण्डश्चार्जिनं च दण्डा जिंनम् । यतीनां लक्ष्मभूतमुपकरणम् । तच्च दम्भार्थमपि सेव्यत इति दम्भार्थं सङ्क्रान्तम् `दण्डाजिनेन दम्भेनान्विच्छत्यर्थानिति दाम्भिकः। गौणर्थकदेव दण्डाजिनशब्दात्प्रत्ययविधिरित्यपि स्थितमाकरे ।

 न हि सहजेन प्रातिभेनालंकृताः पूर्ववासनानुगृहीता एव सुकृतिनः सिध्यन्तिं प्रसन्नगम्भीरेषु वाचां गुम्फेषु,किन्त्वपरेपि वाक्परिशीलनप्रसिताः कामपि सिद्धिम- धिगच्छन्तीत्यभिप्रायकं श्रीदण्डिनो वचः समुद्धृत्य प्रकृतमुपसंहरामः--

          “न विद्यते यद्यपि पूर्ववासनागुणानुबन्धि प्रतिंभानमद्भुतम् ।
          श्रुतेन यत्नेन च वागुपासिता भुवं करोत्येव कमप्यनुग्रहम् ॥" इति ॥




पर्यायवचनंविवेकः

 पर्यायवचनविंवेकश्चिरस्य लुप्त इति व्यवहरे मुह्यति लोकः । यत्र तत्र प्रयोगसाङ्कर्यमक्षिलक्षीभवतीति व्यंवहारनिरूपणेऽस्मिन्ग्रन्थे पर्यायविवेचनमवसरप्राप्तमिति तदारभ्यते—

 के नाम पर्यायवचनाः। ये पर्यायेणार्थं ब्रुवन्ति ते पर्यायवचनाः । पर्यायो नाम परिपाटी क्रमः । इदमुक्तं भवति—ये शब्दा असंनियुक्ता असहोच्चारिता एकार्थस्य वाचकास्ते पर्यायवचनाः समाख्यायन्ते । इदं चातोर्थादापद्यते य एकार्थका इति कोषेषु पठिता. लोके वा तथात्वेन परिगृहीतास्ते चेद्युगपद्वाक्ये प्रयुक्ताः स्युर्नैकार्थकाः स्युः । अवश्यं तत्र विशेषेण केनापि भवितव्यमनिर्ज्ञातेन। अर्थगंत्यर्थो हि शब्दप्रयोगः । अर्थस्य चैकेन सम्प्रत्ययादितरस्य वैयर्थ्यप्रसङ्ग. इति सुव्यवस्थितः पर्यायवचनानां सममप्रयोगः ।

 विभूर्माद्रा प्रभूः पित्राऽश्वोसि हयोस्यत्योसि मयोस्यर्वासि संप्तिरसि वाज्यंसि वृषासि नृमणा असीति वाजसनेयके (२२|१९) श्रूयते । अत्राश्वो नाम चतुष्पाज्जातिविशेषः कैरपि नामंभिस्तोष्टूय्यते हयादिभिरिति विवरीतारः । यंदिं चेहाश्वेन संनियुक्तानां हयादीनामत्यन्तायाविशेषस्तदा नार्थोsनेनाश्वस्तवेन । यदि हयादयोऽभ्युक्चीयमाना अर्थाभ्युच्चयाय न प्रक्ल्पेरंस्तदाऽनुलंपितमेतत्प्रलपितमिवं स्यात् । न ह्यश्वोऽस्यश्वोस्यश्वोसीति सांभ्रेडमुद्यमानं वचः स्वंदंते नाम, न वा वाक्सरणीं लौकिकीमनुसरति । तेनात्राश्वजात्यनतिक्रमेपि हयांदीनां ‘गुणक्रियाविशेषाद्विशेषोऽभिघित्सितः। यस्तावदश्व आशीयोध्वानमतिंयाति चिरतरं च प्रयाति न च क्लमथं याति स इयो वाऽत्यो वेत्युच्यते । यंश्च संगरेषु रथस्य वोढा सन्नरीन् हिनस्ति स उच्यतेऽर्वेति । यः पुनः सैन्येन संपति संगच्छते. स सप्तिरितिं व्यपदिश्यते । यश्च वीर्यवान् पुष्कलबीजशक्तिः स वाजीति वा वृषेति वाभिलप्यते । एवं व्याक्रियमाणे तस्मिन् यजुषि सर्वे सुस्थं भवति । प्रत्यर्थं शब्दनिवेशाद्यावतमर्थानामभिधानं तावतां प्रयोगो न्याय्य इति भाष्योक्तदिशाऽर्थाधिक्ये शब्दाधिक्यं च निर्दुष्टं भवति ।

 इहाम्नायवचने हयादीनां यः परस्परमर्थभेदः स ' गच्छता कालेन तिरोहितोऽभूदिति ते हयादयोऽस्वार्थे निर्विंशेषं प्रयुक्तास्सन्तः पर्यायतामयुः । गुणवचनेषु तु बहुलमेतदभूदिति शक्यं न्यक्षेण निदर्शयितुम् । वेदे तावद् वाजिशब्दोऽत्यविशेषणमश्वविशेषणं वा प्रयुक्तः-अत्यं न वजिनम् ( ऋ० १।१२९।२), अश्वं न वाजिनम् (ऋ० ७|७।१ ) इत्यत्र यथा । एवं सप्तिशब्दप्ययं विशिंषन्दृष्टः :- अत्यं न सप्तिम् (ऋ० ३।२२।१ ) यथा । मह्युर्वीपृथिव्यादीनां मिथो विशेषण विशेष्यभावेन दाशतये . प्रायिकः प्रयोगः । तद्यथा—उर्वीं पृथ्वीम् (ऋ० ७॥ ३८|२ ), ग्रथेयं पृथिवी मही दाधार (ऋ० १०/६०i९ ), उनत्ति भूमेिं पृथित्रीमुत द्याम् (ऋ० ५|८५|४ )। कालेनोर्व्यादीनि विशेषणानि विशेष्यार्थं समर्पयन्ति पृथिव्यादिभिः पर्यायवचन्तामगुः ।. अध्वरशब्दो लोके यज्ञपर्याय इति परिगृहीतो वेदे यज्ञो विशेषणं दृश्यते । तद्यथाग्नेयं यज्ञमध्वरं विश्वतः परिभूरसि ( ऋ० १|१|४ ) । न ध्वरति न हिनस्तीत्यर्थयोगादध्वशब्दोऽहिंसकमाह । यस्मात्सर्वोपि यज्ञोऽविशेषेण यजमानभवति, तमपायात्पाति, न हिनस्तीति यावत, तस्मात्सोऽध्वरोऽभूत् । स्वेनैव च विशेष्यार्थमर्पयन्यज्ञपर्यायतामयात् । लोकेपि चैवं.बहुधा विलोक्यते | तद्वथा । सानुमानितिं पर्वतपर्यायः .पर्वतनमस्वमरादिभिः पठ्यते । अयमपि पुरा पर्वतविशेषणमपि प्रयुयुजे, उत्तुङ्गशिखरं चाचचक्षे । तथा चादिकवेः प्रयोगः—आपगाश्च महानूपाः सानुमन्तश्च पर्वताः ( रा० २|४८|१० )। विहङ्ग इति पक्षिनामसु पठ्यते । अयमपि विहायसा गच्छतीत्यर्थसमाश्रयेण पक्षिविंशेषणं प्रयुज्यते पुरा । तद्यथा । तां विनाथ विहङ्गोऽसौ पक्षी प्रणदितस्तदा (रा ० ४|१| ५५ )। अंशुमानितिं ‘सूर्यनामसु पठ्यतेऽभिधीनकोषेषु । पुरा सूर्यविशेषणत्वेनाप्यस्य प्रयोगो बभूवेति स्पष्टं श्रीरामायणे। तद्यथा । उद्यतोंशुमतः काले खं प्रभेव विवस्वत :(२|३९|१८) इति । शाखी विटपी पल्लाशीति वृक्षनामसु पठ्यन्ते । अमी चापि शब्दा वृक्षविशेषणभावेन प्रचुरं प्रयोगमवातरन्निति शक्यते निदर्शयितुम् । तथा च भारते प्रयोग:-पलाशिनं शाखिनं च तथा विटपिनं पुनः | तं दृष्ट्वा जीवितं ,वृक्षं काश्यपेन महात्मना - ( आ० आस्तीक पर्वणि ४३।१०।११) ॥ गहनमिति दुष्प्रवेशार्थमभिधाय वनमात्राभिधानेपि शक्तं भवति । उभयथा हि, प्रयोगा दृश्यं न्ते । एवं चात्र क्रम xx प्रतिभाति-आदौ केवलं यौगिकांश्शब्दाः कालपर्ययेण योगरूढो भवन्ति । तत्र विशेष्यसाहचर्ये तद्धेतुका प्रसिद्धिर्वा निबन्धनं भवति ।

 क्वचिदुपमानान्यपि केवलानि प्रयुक्तान्युपमेंयैः सहैकार्थतां यान्ति विंशोष्योणि वा विशोषणैरिति विपरीतोपि क्रमो लक्ष्यते । घनं इति मेघपर्यायेषु पठ्यते । तथा चामरेण तेऽनुक्रम्यन्ते–घनजीमूतमुदिरजलमुग्धूमयोनयं इति । मूतौ' घन (३।३।७७ ) इति घनशब्दः पाणिनीये निपातितः । मूर्तिश्चास्यार्थो निर्दिष्टः। मूर्तिर्नाम काठिंन्यंम् । यदा च धर्मशब्देन धर्मी भण्यते तदा घनं दधीत्यपि भवति|

कठिनं

संशीनमित्यर्थश्व । यथार्थान्तरं दध्यादि घनं भवति तथाऽभ्रमपि । तादृशं संश्लिष्टावयवेऽम्मये जीमूते विवक्षितेऽभ्रघन इति प्रयोगोऽभूदिति शक्यमनुमातुम् । पश्चांत्साहचर्येण निरूढिं गतेर्थे घनशब्दः केवलोऽभ्रपरिहारेणापि तदर्थं प्रवृत्तोऽभिधातुम् । इयं चानुमाऽऽदिकवेः प्रयोगेण समर्थ्यत इति सर्वे निर्विचिकित्सं स्थितं भवति । तथा श्रीरामायणे (५|५७|२८) प्रयोगः-तमभ्रघनसंकाशमा पतन्तं महाकपिम् । अभ्रं घंन इवेति विग्रहो द्रष्टव्यः । घन इत्यस्य कठिनतंघात इति चार्थः । अभस्य घनो मूर्तिरित्येवमपि शक्यं विग्रहीतुम् । यथानन्दघन इति वा सैन्धवघन इति वा । तत्रापि षष्ठ्यन्तं विशेषणं भवतीति विशेषणमन्तरेणापि केवलो घनशब्दो घनं सान्द्रमभ्रमाह । तथा चेदानीन्तनाः' पञ्चनदीयाः कुङ्कुम- केसर इत्यस्य स्थाने केसर इत्येव व्यवहरन्ति विशेषणपरिहारेण ।

 क्वचिद्विशेषवाची शब्दः सामान्यवाचिना समं प्रयुक्तः केवलं विशेषणार्थे पर्यवस्यति । तद्यथा । कान्तारो हि महारण्यमाह प्रथमया वृत्या । परं वनेन संनियुक्तों दुष्प्रवेश इत्येवार्थमर्पयति । तथा च भगवतो वाल्मीकेः प्रयोगः-बहुदोषं हि कान्तरं वनमित्यभिधीयते ( रा० २|२८|५ )।

 सामान्यस्य विशिष्टार्थोपसङ्क्रमोपि दृश्यते। गरुदिति पक्षनाम् । गरुत्मानिति पक्षिप्रर्यायः । तथा चामरः-नीडोद्भवा गरुत्मन्तः पित्सन्तो नभसंगसा इति समानार्थकान्परिपठति । पक्षिसामान्यवचन एष गरुत्मच्छब्र्दः कालपरिवासेन पक्षिविशेषे सुपर्णे रुढिं गतोऽतिशयविवक्षया । अपशवो वान्ये गो अश्वेभ्यः। पशवो गोश्वा इति ब्राह्मणे चात्र वचनभङ्ग्यनुसृता भवति । एवं ह्यभिप्रयन्ति तत्र वक्तारः--अयमेको गरुत्मान्यो जविष्टः पतताम् अन्ये गरुत्मन्तोप्यगरूत इवेति ।

 विपरीतोपि क्रमो लक्ष्यते वाहिनी पृतना चमूरनीकिनीत्यादयः सैन्यविशेषस्य नामधेयानि सन्तोपि विशेषाविवक्षायां सेनासामान्यमभिदधानाः परस्परं पर्याया भवन्ति ।

 एवं पर्यायाणां विकासे दिङ्मात्रं प्रदर्शिते तेषां प्रतिनियतविषयतामधिकृत्य किञ्चिदुच्यते--आह च भाष्यकारः-नियतविषया शब्दा दृश्यन्ते । तद्यथा । समाने रक्ते वर्णा गौर्लोहित इति भवत्यश्वः . शोण इति। समाने च काले वर्णे गौः, कृष्णः इति भवत्यश्वो हेम इति । समाने .च शुक्ले वर्णे गौः श्वेत इति भवत्यश्वः कर्क इति ।. रक्तादयः शब्दाः शोणादिभिः समानार्था. विविच्यन्ते सूरिभिः। तथा च बन्धुजीवजपासन्ध्याच्छायावर्णे मनीषिभिः । शोणरोहितरक्तानां प्रयोगः परिकीर्तितः । इति भागुरिमुदाहरंत्यमरव्याख्यायां सर्वानन्दः - इन्धनं त्वेध इध्ममेधः समिस्त्रियामित्यमर इन्धनादीनां पर्यायवचनतायामपि समिदिध्म योस्तु होमीय इन्धन. एव बहुलः प्रयोग इति वाग्योगविदः ।

 आभिधानिकैः पर्यायवचनतया संपठिताः शब्दा येनाभिप्रायेण तथा पठिता- स्तमित्थ्ङ्कारमम्यूहन्ति प्राञ्चः -तमालपत्रतिलकचित्रकाणि , विशेषकमित्यत्रामरें तमालपत्रादीनां चतुर्णो पर्यायत्वमन्तरेणं तमलपत्राक्रुति कस्तूर्या ललाटे तमालपत्रम् । तिलकाकृति तिलकम् । चित्रकं नानावर्णम् । विशिनष्टि विशेषकम् । इत्थं तिलकभेदा एते । पर्यायत्वं त्वदूरविप्रकर्षादिति स्वामी स्माह । अन्यत्र च आकारस्त्विङ्ग इङ्गितमित्यमरं व्याचक्षाणः स एवाह। इङ्गिताकाराभ्यां भावज्ञान मित्यादौ गोबलीवर्दन्यायेन इङ्गितं चेष्टितम् आकृतिग्रहणभाकारों, मुखरागादिरिति कौटिल्यो व्याख्यत् । अयं त्वनयोराशयज्ञापकत्वादैक्यं मन्यत इति . ।

 अयमत्र -निष्कर्षः। ये खल्वभिधानकोषेषु . समानार्थका इति परिपठिताश्र्शब्दास्ते नात्यन्ताय समानार्थका भवितुमर्हन्ति, भिद्यते हि तेषामथः कयापि कलयेति । यथेक्षुक्षीरगुडादीनां माधुर्यं सान्तरं सदपि .न तथा विभाव्यते न वा वाचा प्रणिगद्यते भेदस्यांतिसौक्ष्म्यात्, तथा समानार्थकानामप्यवान्तरो विशेषो भवति, न च लक्ष्यते, सौक्ष्म्यादिति तलक्षणे प्रकृतो यत्नः । तत्र च न वयमुत्प्रेक्षा- मात्रसचिवाः प्रमाणान्तरनिरपेक्षाः प्रवर्तितुमंर्हामः । तथाजातीयका नः प्रवृत्तिः प्रजानां प्रीतये प्रतीतये वा न स्यात् । तेन संस्कृतं वाड्मयमवगाहमवगाहं यद्यत्प्र- कृतोपयोगि शिंष्टवचनं पश्यामस्तत्तदिह समामनामःयथावसरं यथामनीषं विमर्श च निजं प्रवर्तयामः ।

 सत्यं तथ्यमृतं सम्यगमूनिं त्रिषु तंद्वतीत्यमरे सत्यऋते समानार्थके पठिते । ऋतं वदिष्यामि । सस्यं वदिष्यामीत्यत्र तैत्तिरीयोपनिषदि तु स्पष्टं नानार्थे। तत्र ऋतं यथाशास्त्रं यथाकर्तव्यं बुद्धौ सुपरिनिश्चितमर्थम् । सत्यमिति वाचका याभ्यां सम्पद्यमान इति शाङ्करं भाष्यम्। ‘कोर्हंति मनुष्यः सर्वं सत्यं वदितुम् । सत्यसंहिता वै देवा अनृतसंहिता मनुष्या इत्यैतरेयब्राह्मणे (१|६ )ऋतं वाच दीक्षा । सत्यं दीक्षेत्यैतरेयब्राह्मणश्रुतिं व्याचक्षाण ऋतसत्ये इत्थं निरूपयाञ्चकार भट्टभास्करः मानसमर्थतथात्वमृतम् । वाचिकमर्थतथात्वं सत्यमिति । गोविन्दस्वामी तु यथार्थवादित्वमृतम् । यथार्थदृष्टवादित्वं सत्यमित्येवं प्रोवाच ।

 यशः कीर्तिः समज्ञा चेत्यमरेण यशःकीर्तिशब्दौ पर्यायवचनौ समुपन्यस्तौ । साहित्ये तु वाक्येषु समं प्रयुक्तौ दृश्येते इति पर्यायता. विहन्यते । तथा च जैमिनीयोपनिषदि प्रयोगः--तस्मात्तप्यमानस्य भूयसी कीर्तिर्भवति भूयों यश इतेि ( २|१|१३ ) । श्रीरामायणेप्यनेकत्र सहप्रयोगो विलोक्यते । तद्यथा । तेने हास्यतुला कीर्तिर्वंशस्तेजश्च वर्धते ( २|२|३३ ) । तत्र तिलककारो रामः कीर्तिः शौर्यादिजा यशो दानादिजा प्रसिद्धिरिति तयोर्विशेषमाह । अन्यत्र च रामायणे न साम्ना शक्येते कीर्तिर्न साम्ना शक्यते यशः (६।२।१६ ) इत्यत्र पद्येऽसावेवं विविड्त्ते--कीर्तिदेशान्तरख्यातिः यशः स्वदेशख्यांतिरिंतिं । अत्रैकतरं व्याख्यानं प्रमाणमुभयं वाऽनुभयं वेति नार्हामो वक्तुम् । मनुसंहितायामप्येतयोः साहचर्येण प्रयुक्तिरुपलभ्यते । तद्यथा । इन्द्रियाणि यशः स्वर्गमायुः कीर्ति प्रजा: पशून् (११|४० ) इति । तत्र जीवतः ख्यातिंरूपं यशः । मृतस्य ख्याति रूपां कीर्तिमिति कुल्लूकंव्याख्यानम् नेदं सर्वत्र घटत इति न वेद्यो विदां वराः | तथा हि भगवद्गीतासु अकीर्तिःचापि भूतानि कथयिष्यन्ति तेऽव्ययामिति पद्ये. जीवत्.एवाकीर्तिर्मरणान्मरणदुःखादपि सुदुःसहा भवतीति निगदत एव स्पष्टा प्रतिपत्तिः । मृतस्य सतःसम्भावितस्य जनस्याकीर्तेर्मरणातिरेकोऽकिञ्चित्कर इति तदुक्तिरनर्थिका स्यात् । यावद्धि प्रथते लोके पुरुषस्य यशो भुवि । तावत्तस्याक्षया कीर्तिर्भवतीति :विनिश्चिता (भा० शा ० ५४|३२)। इति पद्यं व्याचक्षाणो भारतभावदीपकारो नीलकण्ठ आह--यशः परचितचमत्कृतिजनको गुणौघः । कीर्तिः साधुतयाऽन्यैः कथनम् इति । इह यत्नेनोद्भावितो भेदो प्यभेद एव पर्यवस्यतीति नातितिरोहितं सूक्ष्मदृशाम् ।

 परीवादपवादौ प्रायेण पर्यायौ परिगृह्येते । तत्रापि सहप्रयोगः पर्यायत्वापघातको दृश्यते । तथा च श्रीरामायणे .प्रयोगः - 'परिवदोऽपवादो व राघवे नोपपद्यते (२ | १२ |२७ )' । तत्र रामष्टीकाकार एवं तयोर्भेदं निर्ब्रूते --परिवादो कार्यकरणंनिमित्तं समूलमयशः । अपवादोऽसूयाकत्पितं निर्मूलमयशः । गुरोर्यत्र. परीवादो निन्दा वापि प्रवर्तत इत्यत्र मनौ विद्यमानदोषस्याभिधानं परिवादः इति कुल्लूकः। परिवादः सम्भूतदोषानुकथनम् । निन्दाऽविधमानानां दोषाणा- मभिधानमिति च मेधातिथिः |  दीप्तिकान्तिद्युतयोऽदूरविप्रकर्षात्पर्यायाःवस्तुतस्तु भिन्नार्था इत्यत्र शिष्टप्रयोगाः प्रमाणम् । तथा च भारत आदिपर्वणि तत्तद्विषयतापच्छेिदेन तेषां प्रयोगः--- दीप्तिकान्तिद्युतिगुणैः सूर्येन्दुज्वलनोपम ( १८|३: ) इति । अन्यत्र च भीष्मपर्वणि-उभौ चन्द्रार्कसदृशौ कान्त्या दीप्त्या च भारत (११|३० ) इति । अन्यत्रापि काव्यनाटकेषु सूर्यादीनां दीप्त्यादिभिरव्यभिचरित: सम्बन्धो विलोक्यते प्रयोगनियमश्च विज्ञायते । तद्यथा । उच्चैः सर्वैः समग्रस्त्वमिंव दीप्यते सप्तसप्तिरिति विक्रमोर्वशीये । कला च सा कान्तिमती कलावत्त इतेि च कुमारे । अत्र तेजस्तारतम्यमेव विषयभेदे हेतुः । सूर्यस्य तेजश्चक्षुरुपहन्तीत्यसह्यं भवति, तदुच्यते दीप्तिरिति । चन्द्रस्य प्रभा कमनीया भवतीतिं साऽभिधीयते कान्तिरिति । ज्वलनो नामार्चिष्मान्भवति, विरम्य विरम्य च ज्वलत्येधेनेति पुनः पुनः प्रीणितः सन्निति स उच्यते द्योतत इति । यथा तारका द्योतन्ते यथा वा विद्युद्विद्योतत इति । ताभिः सामान्यं किञ्चिदादाय सूर्यचन्द्रयोः प्रकाशां विशेषं कञ्चिदाख्यातुं तथा प्रयोगो भारते । नायं नियमः सूर्यादीनां कर्तृतायां तत्सम्बन्धे वा दीप्यतिंप्रभृतीनां धातूनामेव प्रयोगो भवतीति, धात्वन्तरप्रयोगस्य बहुलदर्शनात् । न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतोभान्ति कुतोऽयमग्निरित्यत्रैकेन भातिना सूर्यादीनामन्वयदर्शनात् ।

 कोपक्रोधवभिन्नार्थाविति प्रायेणाभ्युपेयते । तदुनुपपन्नम् । क्रुधद्रहेर्ष्यासूयार्थानां यं प्रति कोप (१|४|३७ ) इति सूत्रे भाष्ये नानार्था एते कुपौ त्वेषां सामान्यम् । न ह्यकुपित: क्रुध्यतीत्युक्तम् । तत्र कोपक्रोधंयोर्विशेषमभिप्रैति भाष्यकारः । तं च विशेषमित्थमुन्नयति कैयट:—ननु.कोपः क्रोध एवेति भेदाः भावात्कथं पौर्वापर्यम् । एवं तर्हि प्रथमामनुभूतां कोपावस्थां द्वितीयां चोद्भूतां विकृतवाक्कायव्यापारानुमीयमानामाश्रित्यैतदुक्तमित्यदोषः । एतच्च "प्रतिकूलेषु तैक्ष्ण्यस्य प्रकर्षः क्रोध उच्यते’ इत्यभियुक्तोक्त्या बलवत्समथ्र्यते । क्रोधो विक्षिप्तचित्ततेति शान्तिपर्वणि (२१३|४) नीलकण्ठमणितिरप्यत्रानुगुणां । अमर्षरोषावपि विविच्येते अर्थतो विचक्षणैः। मालतीमाधवे(पृष्ठे ९० तमे )ऽमर्षरोषाविति द्वन्द्वनिर्देशः समुपलभ्यते । तत्र टीकाकारो जगद्धर इत्थं विशेषं निर्वक्ति--अमर्षरोषौ अक्षमाक्रोधौ । यद्वा स्थिरक्रोधतात्कालिककोपौ यथाहु–क्रोधः कृतापराधेषु स्थिरोऽमर्षत्वमश्नुते रोषस्तात्कालिकः कोप इति इदं च. निरवधं भाति । क्षणे रुष्टः क्षणे तुष्टो रुष्टस्तुष्टः क्षणे क्षण इति हितोपदेशस्थे पद्ये वाक्यार्थे विमृश्यमाने - रोषस्तात्कालिकः . कोपो भवतीति ने दुष्करमुन्नेतुम् ।  मित्रं सखा सुहृदिति समानर्थकानि नामानि परिपठतेि कोषकारः। विंशेषज्ञास्त्वत्र विशेषं विजानन्तिं । प्रथते च प्राचामुक्तिः-अत्यागसहनो बन्धुः सदैवानुगतः सुहृत् । एकक्रियं भवेन्मित्रं समप्राणः सखा मतः ॥ इति । यदत्र मित्रलिलक्षयिषयोक्तं तत् तन्मित्रमापदि सुखे च समक्रियं यद् इति हर्युक्त्या संवादात्सष्टूपपन्नं भवति । भारते शांन्तिपर्वणि (१७४।२८) असुहृत्ससुह्रच्चापि सशत्रुर्मित्रवानपीति पठ्यते । तत्र मित्रसुहृदोर्मेदेनोपादानमिति व्यक्तम्। तं च भेदमित्थं विवृणोति भावप्रदीपे नीलकण्ठः सुहृत्प्रत्युपकारमनपेक्ष्योपकारकर्ता मित्रं प्रत्युपकारमपेक्ष्योपकारकतृ ।इदमत्रावश्यवाच्यं सुहृच्छब्द संनियोगेन मित्रशब्द इदमर्थाभिधायी भवति सुहृच्छब्दार्थपारिशेष्यात् । न तु मित्रशब्दः सर्वत्र प्रत्युपकारम्पेक्षयोपकर्तरि रूढः । यच्च प्राचीनैः सुखिशब्दमुद्दिश्य समप्राणः सख मत इति परिभाषितं तत्ववचिदेवावितथम् । बाढं शाकुन्तले षष्ठेङ्के 'मंधुकरिकायाः परभृतिकां सखीं प्रति ‘एकमेव नौ जीवितं द्विधा स्थितं शरीरम्’ इत्युक्तिस्तस्यार्थस्य पोषिका भवति । प्रायशश्च सखिशब्दः सहचरमाह सहायं वा । तथा च कवीनां प्रयोगाः—बनेचराणां वनितासखानाम् इति कुमारे (१।१० ), सचिवसख इति रघौ (४।८७ )। मरुत्सखाभमिति च । समानं ख्यातीति सुखेति व्युत्पत्तेर्ययोर्द्वयोः शीलादि समानं भवति तयोरेव सखिभाव इत्यभ्युपगमाच्च समानावस्थितिकाः समानव्यवस्थितिकाश्च परस्परं सखायो भवन्ति । अयं चार्थो भारत आदिपर्वणि द्रोणोद्देश्यया द्रुपदोक्त्या सााधीयः समर्थ्र्यते । एवं हि सोऽवादीत्-नऽश्रोत्रियः, श्रोत्रियस्य नारथी रथिनः सखा। नाराजा पार्थिवस्यापि सखिपूर्वं किमिष्यते ( १६६।१५ ) इति ।

 गर्वोभिमानोहंकारो मानश्चित्तंसंमुन्नतिरिति पर्यायवचनाः। तत्र गर्वमधिकृत्य पूर्वाचार्यवाक्यमुदाहरति सर्वानन्दः--गर्वो नाम कुलैश्वर्यरूपविद्याबलादिभिः । इष्टार्थविषयप्राप्तेर्जायते नीचगोचरः ॥ इतिः भारते शान्तिपर्वणि ( २१३।४)। क्रोधात्काममवाप्याथ लोभमोहौ च मानवाः मानदर्पावहंकारमहंकारात्ततः क्रियाः। इति स्मर्यते । तथा मानदर्पाहंकाराणां पृथङ् निर्देशोर्थभेदस्य ‘प्रकल्पक इत्यभिव्यक्तम् । तमर्थभेदमित्थमुद्भावयति नीलकण्ठः--मान आत्मनि पूज्यताबुद्धिः। दर्प उच्छॄङ्खलत्वम् । अहंकारः परेषां तुच्छीकरणमिति । यश्चात्र् मानशब्दार्थ उक्तः स व्युत्पत्तिलभ्य इति प्रमाणान्तरं नापेक्षते । अभिमानोपिं विशिष्टः स एव । दर्पशब्दोऽपि यथातथं व्याख्यातः कन्दर्पो दर्पकोऽनङ्ग इति कामनमनि। कामाविष्टो हि दृप्यत्युच्छृङ्खलो भवतीति सार्वलौकिकम् ।

 तर्जनं भर्त्सनं च समानाभिधेये इति भूम्ना व्यवह्रियेते । तथा च तर्ज भर्त्स भर्त्सन इति । अत्रापि विशेषः कश्चित् समस्ति । श्रीरामायणेऽनयोः सहप्रयोग- ., ५ दृष्टेः। तद्यथा । तर्जापयति मां नित्यं भर्त्सापयति चासकृत् (६।३३।१ ) इति । तत्रैवं विंविङ्क्ते तिलककारः-अवाचिकी भीषिका तर्जनम् । वाचिकी तु स मर्त्सनमिति । इदं च हृदयङ्गमम् । तथा हि भष भर्त्सन् इंतिं पठ्य्ते न तु भष तर्जन इति । आगन्तुमुपसर्पन्तं निशाम्य वाचा भीषयते श्वा न तु कायव्यापारेण । प्रदेशिनी नामाङ्गुलिस्तर्जनीतुि संज्ञान्तरेणोच्यते न तु भर्सनीति विभीषिकायां वाग्व्यवहाराभावात् । अत एवामरः शब्दवित्तम् xxxपपाठे-भर्त्सनं त्वपकारगीरिति ।

 केयूरमङ्गदं तुल्ये इत्यमरे पर्यायवचनतया पठिते। परं रामायणे भारते चानयोः सहप्रयोगदर्शनान्नैते समानार्थके इति शक्यमध्यवसातुम् । रामायणे तावत्--अङ्गदानि च चित्राणि केयूरणि शुभानि चेति दृश्यते । तत्राङ्गदं बाहु- मूलघार्ये भूषणम् ।केयूरं तदधोभागस्थमिति तिलककारः। भारत उद्योगपर्वणि चाप्येनयोर्भेदेनोपादानं विलोक्यते । तद्यथा । अङ्गदैः पारिहायैश्च केयूरैश्च विभूषि- तान् ( १६२|१६ ) इति । तत्रैव भीष्मपर्वण्यङ्गदकेयूरयोः साहचर्येण पाठस्तयोः पर्यायतां व्याहन्ति--काञ्चनाङ्गदकेयूरैः कामुकैश्च महरंथाः, (१७|१७) इति ।

 विलापः प्ररिदेवनमिति परस्परेण समानार्थकं. द्वयं कोषेषु । अत्रापि विशेषः कश्चिदस्ति स वक्तव्यः । परिदेवनमिति चौरादिकाद् दिव परिकूजन इति धातोर्व्युत्पद्यते कूजनं रोदनं चास्यार्थः । कूजति रोदितीत्यनर्थान्तरम् । अङ्गात्प्रातिलोम्ये (८|१|३३) इति सूत्रे अङ्ग कूज वृषल, इदानीं ज्ञास्यसि जाल्मेति प्रत्युदाहरणे तदर्थावगतेः । विलाप इति तु लप व्यक्तायां वचीत्यस्मात्तेनैतयोरर्थभेदः स्फुटः । तथा चैतयोः पृथगर्थतया रामायणे प्रयोगः—-विलपितपरिदेवनाकुलं व्यसनगतं तदभूत्सुदुःखितम् (२|३९|४१) । तत्र विलपितं रामगुणकैकेयीदुर्गुण- प्रतिपादकं वाक्यम् । परिदेवनं रोदनमिति रामकृताः विवृतिः।

 पिशुनसूचकौ संमार्थकौ प्रतिपद्येते । तथा च धातुपाठः षूच पैशून्य इति । भृगुप्रोक्तायां मनु संहितायां तु भिन्नार्थकतया प्रयुक्तौ। पिशुनः पौतिनासिक्यं सूचकः पूर्तिवक्त्रताम् ( ११|५० ) इति । तत्र पिशुनो' विद्यमानदोषाभिधायी । सूचकोऽविद्यमनंदोषाभिधायक इति कुल्लूको विशेषमाविष्करोति ।

 सिकताशर्कराबलुकानां प्रायेण व्यतिकीर्यन्ते प्रयोगाः अस्तीहं सामान्यं भेदश्च । भारते शान्तिपर्वणि भूमिपाषाणसिकताशर्कराबालुकाभस्मशायिन इति प्रयोगों लक्ष्यते । तत्र सिकता: सूक्ष्मपाषणपांसवः। शर्करा कर्कर-सहिता मृत् । बालुका लघूपलमिश्रः सिकता एवेति भारतभावप्रदीपे नीलकण्ठः ।  मुत्प्रीतिः प्रमदो हर्ष इति हर्षनामस्वमरः । मुत्प्रमोदयोस्तु प्रत्ययो भिद्यते न प्रकृतिः । तेनानवकाशोऽर्थभेदः। प्रमोदामोदयोश्चाप्युपसर्गो भिद्यते केंवलं न प्रकृतिर्न वा प्रत्ययः। तस्मात्तयोरप्यर्थवैशिष्ट्यं न । इदानीं विचार्यते प्रीर्तिहर्ष- प्रमोदानां परस्परं को विशेष इति । इदानीं तावदभ्युपेयं प्रीतिर्नाम सामान्यस्तोष इति । अस्ति खलु मोदंहर्षयोर्भद इति श्रीरामायणे ‘न चाहृष्यन्न चामोदन् वणिजो न प्रसारयन्( २|४८|४) इत्यत्र स्पष्टा । तत्र हर्षेः शारीरो मुखविकासादिरूपः । मोद आन्तरो हर्ष इत्येवं विविनक्ति रामायणतिलके रामः। परं नायं विवेकः साधुर्भवतीति प्रलीमः। चरके विमानस्थानेऽनुमानज्ञेयान् भावान्प्रकृत्याह तत्र क्रोधमभिद्रोहेण,. शोकं दैन्येन, हर्षमामोदेन, प्रीतिं तोषेण "---विद्यात् । आमोदो गीतवादित्राद्युत्सवकरणम् । तोषो मुखनयनप्रसादादिः, तेन प्रीतिस्तोषमात्रम् । हर्षस्तु प्रीतिविशेषों मनउद्रेककारक इति चक्रपाणिंर्व्याचष्टे । इय मेव च साध्वी व्यमूव्या । मूल.आमोदेत लि्ङ्गेन हर्षमनु मिमीतीतेत्युक्तेः। यदि नाम हर्षो रामस्याभिमतः शारीरो मुखविकासादिरूपः स्यान्नासावनुमेयः स्यात् । प्रत्यक्षमुपलब्धेः । आमोदे हर्षलिङ्गत्वमपि नोपपत्तिमत्स्यात् । तेन रामोक्ती रभसोक्तिरिति नादृत्या भवति ।

 हेमशब्दो.हिरण्यस्य पर्याय इति स्वीकारः. तथा चामर--हिरण्यं हेमहाटकमिति । चरके विमानस्थाने तु भेदेनैतयोरुपादानम् । तत्र मांल्यदामदीपहिरव्यहेमरजतादि समासोक्तया पठितम्, व्याख्यातं च चक्रेण हिरण्यशब्देनाघटितं हेमंगृह्यते, हेमशब्देन च घटितमिति । तथा सत्यप्यंमरे प्रयोगसाङ्कर्यं दृश्यते यदाह--हेमरूप्ये कृताकृते इति । मन्ये वृत्तानुरोधादेवं प्रयुङ्क्त कोषकारः ।

 कुम्भघटयोरपि न प्रायेण सुग्रहो विशेषः ।+ अस्त्रि च स इति तं दिदर्शयिषामः । चरके सूत्रस्थाने इदानीं तावत्संभारान् - विविधानपि समासेनोपदेक्ष्याम इत्युपक्रम्य तांस्तानर्थान्परिगणयन् कुम्भघटौ साहचर्येण पठत्या चार्यः । तत्राह टीकांकारश्चक्रपाणिः--कुम्भो दृढावयवोऽपमुखो घट इति ।

 अनर्थकापार्थकयोरपि समानार्थकाभिमतयोर्विशेषं सुधियः स्वदन्ताम् । चरके विमानस्थाने वाक्यदोषान्परिगणयति ग्रन्थकारः । तत्रानर्थकमपार्थकं चेति दोषद्वयमपि कीर्तयति । स्वयमेव च व्याख्याति । तद्यथा । अनर्थकं नाम द्वचनमक्षरग्राममात्रमेव स्यात् पञ्चवर्गवन्नार्थतो गृह्यतें । अपार्थकं नाम यदर्थवच्च परस्परेण चायुज्यमानार्थकम् । यथा चक्रनक्रवंशवज्रनिशाकरा इति ।

 इदं चाकूतकरं भविष्यति विदुषां घृतिधैर्ययोरप्यर्थभेदः समस्तीति । भारते शान्तिपर्वणि चरके च तयोर्भेदेनोपादानं दृश्यते । भारते तावत्- तेजो धैर्यं क्षमा -शौचमनुरागः स्थितिर्धृतिः । परीक्ष्य च गुणान्नियमिति (८३।२१) स्मर्यते । तत्र धैर्यं महत्यामप्यापदि चित्तस्यानवसादः। धृतिर्धारणसामर्थ्र्यमिति विशेषमुन्मेषयति नीलकण्ठः। साध्विदं विवेचनमिति भाति । धीरस्य धृतिमतः कर्मधैर्यं भवति । धृतिस्तु वृत्तिविशेषः, तेन धृतिधैर्ययोर्जन्यजनकभावः सूपपन्नो भवति । धृतिः कारणं धैर्यं कार्यमिति । इदं चान्यत्र शान्तिपर्वणि” (.१६२|१९) धृतिर्नाम सुखे दुःखे यया नाप्नोति विक्रियामिति वचनेन भूयः पोषमेति । चरके विमानस्थानेऽनुमेयार्थाननुक्रामन्नह -धैर्यमविषादेन, धृतिमलौल्येन विद्यादिति । तत्र धैर्यं विपद्यपि मनसोऽदैन्यमिति चक्रपाणिः । अत्र धैर्यं नामः विषादप्रतिरोधी गुणः, धृतिश्च चापलप्रतियोगिनीति विशेषो विवक्षितो भाति ।

 दरी तु कन्द्रो वा स्त्रीत्यमरोऽपठीत् । अत्राप्यर्थविशेषोस्ति रामायणे संनियोगेन प्रयोगदर्शनात् । तद्यया । विचरन्ति वनान्तेषु तानि द्रक्ष्यसि राघवसरित्प्रस्रवणप्रस्थान् दरीकन्दरनिर्झरान् ॥ इति । तत्र दरी पाषाणनिभेदः कन्दरा गिरिगुहेति विशेषमुत्पश्यति तिलककारः । इमं च विशेषं कवयो नाद्रियन्त इत्यन्यदेतत् । तथा च वैराग्यंशतके भर्तृहरिः कन्दरवचनं दरीशब्दं प्रयुङ्क्ते-- एका नारी सुन्दरी व दरी वेति

 अश्रुबाष्पयोरिति पर्याययोरपि सुस्थितो विभेदः । कण्ठः स्तम्भितबाष्पवृत्ति कलुष इत्यत्र शकुन्तलेऽश्रुणः पूर्वावस्था वाष्पमिति राघवभुट्टः। नेदमुत्प्रेक्षात्रम् । रामायणेऽश्रुबाष्पयोः संहप्रयोगोपलम्भात् । तद्यथा । अश्रूणि मुमुचुः सर्वे बाष्पेण पिहितानना इति ( २|४८|३ ) । अन्यत्रापि रामायणे ( २|९९|२ ) बाष्पकृतः कण्ठरोध उदीरितः । तद्यथा । बाष्पैः पिहितकण्ठैश्च प्रेक्ष्य रामं यशस्विनमिति । तेनाश्रुप्रवाहोश्रुपातो वा भवति न जातु ब्राष्पप्रवाहो बाष्पपातो वेति । मेघदूते ( १|१२) तु स्नेहव्यक्तिश्चिरविरहजं मुञ्चतो बाष्पमुष्णमिति वाष्पाशृणोरभेदेन प्रयोगश्चिन्त्यः ।

 विषगरौ समनार्थौ प्रतिपन्नौ । तथा चामरः--;क्ष्वेडरतु गरलं विषमितिः । पठति । गरगरलयोस्तु न विशेषः कश्चिदस्ति श्यामश्यामलवत् । अन्यत्र लिङ्गभेदात् । इदं तु विमृश्यं विषगरयोः सोस्त्युत नेति । अस्तीति ब्रूमः । तयोः साहचर्येण प्रयोगदर्शनात् । चरके सूत्रस्थाने तस्यायुर्वेदस्याङ्गान्यष्टौ । तद्यथा । कायचिकित्सा शालाक्यं शल्यापहर्तृकं विषगरवैरोधिकप्रशमनं भूतविद्याकौमारभृतकंरसायनानि वजीकरणम् इति । तत्र गरः कालान्तरंप्रकोपि विषम् इति चक्रपाणिर्व्याचष्टे । तत्रैव चान्यत्र जठरामगरार्दिता इति पाठं विवृण्वानः स एव गरः कृत्रिमं विषमित्याह ।  तूणोपासङ्गतूणीरनिषङ्गः इषुधिर्द्वयोरित्यमरे पर्यायवचनाः। भरते त्वेषां भेदेनोपादानम् । तथा चोद्योगपर्वणि ( १५५|३ ) सानुकर्षाः सतूणीराः सवरूथा: सतोमराः सोपासङ्गाः सशक्तीकाः सनिषङ्गाः सहर्ष्टय इति पाठः। तत्र नीलकण्ठ एवं भेदमभ्यूहति-तूणीरो रथवाह्यो बाणकोशः । महानिषङ्ग इति यावत् । उपासङ्गा हयगजवाह्यास्तृणाः । निषङ्गाः पत्तिवाह्याः त एवेति । विराटपर्वणि (६०|२०|२१) तु स इत्थं प्रविवेकं तनुते ततो निषङ्गे महातूणीरे पतिते सति उपासङ्गात् क्षुद्रतूणीरात्स्वदेहवाह्यादिति ।

 पुमानाक्रीड उद्यानमित्याक्रीडोद्याने समानार्थके अभ्युपेयेते । एते अपि विशिष्येते । सृप्रयोगदर्शनात् । तथा च रामायणे पाठः देवाक्रीडशताकीर्णा देवोद्यानयुतां नदीम् (२|५०|१५ ) इति । तत्र देवानामाक्रीडैः क्रीडापर्वतैरिति तिलकम् ।

 अटव्यरण्यं विपिनं काननं गहनं वनमिति वनंनामस्वमर: । एषां गहनमिति दुष्प्रवेशार्थमभिधाय दुष्प्रवेशं वनमभिधातुं प्रावृतदिति पर्यायवचनं बभूवेत्यधस्ताद् दर्शितम् । इतरेषामप्यदूरविप्रकर्षात् पर्यायत्वम् । सहप्रयोगो हि दृश्यते । तथा च श्रीरामायणे प्रयोगः-दुष्प्रतीकमरण्येस्मिन् किं तात वनमागत इति (२।१००।५) । तत्रारण्यं गजाद्युपभोग्यम् । वनमाम्रादियुतं मनुष्यभोग्यमिति तिलककारो रामः । अन्यत्रापि रामायणे–शोभयिष्यन्ति काकुस्थमटव्यो रम्यकानना (२|४८|१० ) इत्यटवीकाननयोः सहप्रयोगः । तत्र रम्यकाननाश्चारुवृक्षसघा इत्येवमर्थापयति रामः ।

 वल्ली तु व्रततिर्लतेत्यनर्थान्तरमिति कोषकृतः । परं वल्लीलंतयोः सहप्रयोग- दर्शनान्नेमे पर्यायाविति गम्यते । तथा च भारते भीष्मपर्वणि प्रयोगः –वृक्षगुल्म लतावल्ल्य इति' तंत्र लता बृक्षाद्यारूढा गुडूच्यादयः । वल्ल्यो भूमिप्रसारा वर्षमात्रस्थायिन्य इति विशेषमभिव्यनक्ति नीलकण्ठः। बलीवीरुधोस्तु व्यक्ततरो भेदः । एतयोरपि रामायणे (४|४८|०१ ) सप्रयोगः । तद्यथा । न चांत्र वृक्षानौषध्यो न वलयो नापि वीरुध इति । तत्र वल्लयो वृक्षांद्याश्रितः । वीरुधो भूम्याधारा इति तिलके रामः । तदिदं नीलकण्ठीयेन व्याख्यानेन विरुध्यते ।

तीक्ष्णनिशितौ पर्यायवचनाविति प्रतीतौ । तावपि भिन्नार्थकाविति शक्यं प्रतिपत्तुम् । तथा हि भारते भीष्मपर्वणि भेदेनैतयोरुपादानम्-सायकेन सुपीतेन तीक्ष्णेन निशितेन च (४५|४८ ) इति । तत्र तीक्ष्णेन सूक्ष्मधारेण, निशितेन शांणोल्लीढेनेति नीलकण्ठः ।

 स्थपतिः कारुभेदेऽपीत्यमरे मूल एव स्थपतिः कालविशेष इत्युक्तम् । विवृतं च स्वामिना कारुविशेषो मुख्यतक्षेति । तेन स्थपतिर्वर्धकिंमात्रं न भवति । तथा च श्रीरामायणे कर्मान्तिकाः स्थपतयः पुरुषा यन्त्रकोविदाः । तथा.वर्धकयश्चैवेति भेदेनोपदानं विशेषमिममुपस्तभ्नाति । स्थपतयो रथादिकर्तारः प्रधानवर्धकयः, वर्धकयस्तक्षाण इति च तत्र तिलकम् ।

 स्यान्मया शाम्बरीत्यमरं व्याचक्षाणः स्वामीं ‘इन्द्रजालं तु - कुसृतिः कुहकं कुहिका चेति’ कोषान्तरमुदाहरति - पर्यायान्तरसमुच्चिचीषया । मायाकारस्तु प्रातिहारिक इत्यत्र च मूले प्रातिहारिक ऐन्द्रजालिंक इत्याह । भिद्यन्ते च मायादयो मिथ इति च विवक्षामः । तत्रैष वाक्ये भेदेनोपादानमेव प्रमाणम् । तथा च भारत उद्योगपर्वणि प्रयोगः-न माया हीन्द्रजालं वा कुहिका वापि भीषणेति (१६०|११८)। तत्रार्जुनमिश्रष्टीकाकारो मायाऽऋतदर्शिनी कापि विद्या विश्वरूपादिदर्शनरूपा । इन्द्रजालं मन्त्रौषधादिभिश्चक्षुरादिप्रतिबन्धेनान्यथा प्रतिभानम् । कुहिका हस्तलाघवेनान्यथा दर्शनमिति ग्रन्थेन मायादीनामन्योन्यं भेदं ब्रवीति ।

 न्यासनिक्षेपयोः को विशेष इत्यपि जिज्ञासास्पदम् । वात्स्यायनीये कामसूत्रे. न्यासनिक्षेपयोर्वाक्ये सहप्रयोग एवार्थविशेषे मानम् । तथा च तत्र पाठः- प्रसृते च परिचये तस्या हस्ते न्यासं निक्षेपं च निदध्यादिति । न्यासाः स्थाप्याश्चिरकालग्राह्याः । निक्षेपोऽल्पकालग्राह्य इति च तत्र जगद्धरष्टीकाकारः ।

 सगोत्रबान्धवज्ञातिबन्धुस्वस्वजनाः समा इत्यमर एवां समानार्थत्वमातिष्ठते। तत्र नहि सर्वे बन्धुवः सगोत्र भवन्ति । सप्तमे पुरुषे सपिण्डताविनिवृत्तौ सगोत्रता संंवर्तते । बन्धुबान्धवयोस्तु नार्थमेदः कश्चित्, रूपभेद एव केवलःस्वार्थिकप्रत्ययकृतः । सम्बन्धिशब्दोपि बन्धुपर्यायो भवतीति व्यामुह्यति जनः । भिद्यन्ते च ज्ञातिसम्बन्धिबान्धवा इत्यत्र मनुसंहिता प्रमाणम् । एतं हि तत्र स्मर्यते— बालवृद्धातुरै वैद्यज्ञातिसम्बन्धिबान्धवैः (४|१७९ )। ‘तत्र ज्ञातयः पितृपक्षाः । सम्बन्धिनो जामातृश्यालकादयः । बान्धवा मातृपक्षा’ इति कुल्लूक:। भारतेपि शान्तिपर्वणि (१३८|३० ) ‘ये च सम्बन्धिबान्धवा' इति सम्बंन्धिबान्धवयोर्भेदेन ग्रहः ।

 इंदमिह विमृश्यमानं स्वदिष्यते विमर्शकेभ्यः पूगश्रेणिव्रातानां परस्परं किमन्तरमिति । पूगान्च्योऽग्रामणीपूर्वादिति (५|३|११२ ) सूत्रे नानाजातीया अनियतवृत्तयोऽर्थकामप्रधानाः सङ्घाः पृगा इति काशिका । व्रातच्फ्ञोरस्त्रीयाम् (५|३|११३) इति सूत्रे च नानाजातीया . अनियतवृत्तयः उत्सेधजीविनः सङ्घा व्राता इति सैव । श्रेण्यादयः कृतादिभिः ( २|१|५९ ) इति सूत्रे भाष्यप्रदीपे एकशिल्पपण्याश्रयणेन जीविनां सङ्घः श्रेणिरिति कैयटः। एतदेव कारुः शिल्पी संहतैस्तैर्द्वयोः श्रेणिः सजातिभिरित्यमरवचनमनुरुन्धे । राज्याङ्गानि प्रकृतयः पौराणां श्रेणयः इत्यत्र चामर एकमुख्यः सजातीयसमूहः श्रेणिरिति त्वामिकृतमुदघाटनम् ।

 प्रायेणालिङ्गनपरिष्वङ्गावेकार्थौ प्रतिपद्येते। तदप्यदूरविप्रकर्षान्न त्वत्यन्ताभेदादिति . श्रीरामायणे' सस्वजे गाढमालिंड्य (६|१०१|४६ ) इति वचनं प्रमाणम् । मन्ये बाहुभ्यां कृतस्यावेष्टनस्यालिङ्गनमिति नाम । वक्षसोपपीडनस्य च परिष्वङ्ग इति । 'परिरम्भ आश्लेष उपगूहनमित्येतेऽपि परिष्वङ्गेण समाः।

 इदमिह विचार्यतेऽशनभोजनभक्षणखादनानि .समानार्थानि भवन्त्याहोस्विन्ना: नार्थानीति । तत्राशनभोजनै अभिन्नार्थे इत्यभ्युपगमः अभ्यवहरणसामान्यं च ब्रूतः यत्राभ्यवहार्यं विशिष्य नोच्यते तत्राश्नातिः प्रयुज्यते भुज़िर्वा। यथाऽऽशितः कृताहारस्तृप्त इत्युच्यते। यथा वाश्नीतपिबता वर्तत इत्यत्र । भुक्ता ब्राह्मणा इत्यत्र च। दुर्गस्त्वाह–लोकेपि हि नातिकठिने नातिद्रवेऽश्नातिशब्दः प्रसिद्धः । अश्नाति पायसमिति। (नि० ४|१९|६)।भक्षणखादने तु खरविशदस्यार्थस्याभ्यवहरणे वर्तेते।

 खांदृ भक्षण इति साधुरर्थनिर्देशः । तथा च नीरिकारवचनम्-न परेणाहृतं भक्ष्यं व्याघ्रः खादितुमिच्छतीति । समुञ्चये सामान्यवचनस्येति सूत्रे (३|४|५ ओदनं भुङ्क्ष्व, सक्तून् पिब, धानाः खादेत्येवायमभ्यवहरतीति काशिकोदाहरणेपि भुजिखाद्योरौपयिकः प्रयोगः । भक्षिभुजी अप्यत्यन्तमेकार्थौ न | भक्ष्यतां भुज्यतां नित्यं दीयतां रम्यतामितिगीयतां पीयतां चेति शब्दश्चासीद् गृहे गृहे (भा० आदि० २०९।३१) ॥ अत्र पद्ये भक्षिभुज्योः साहचर्यमेवैकार्थ्यै बारयति । पौर्णिनीयाष्टके संस्कृतं भक्षाः (४|२|१६ ), हितं भक्षाः (४|४|६५ ) इत्यत्रं च भ्राष्ट्रो संस्कृता भ्राष्ट्रा अपूपाः, अपूपभक्षणं हितमस्मा इत्यापूपिक इत्युदाहृत्योरपि यत्र दन्तव्यापारपूर्वकं निगरणं तत्र भक्षणव्यवहार इति विशदम् । खरविशदंमंभ्य वहार्य भक्ष्यमिति च काशिका । जिह्वाव्यापारमात्रेण यद्ग्राह्यं पायसादि तंद्भोज्यम् |परं भक्षणमन्यत्राप्यतिदिश्यत इति नानुपेक्ष्यम् भोज्यं भक्ष्य {७|३।६९) इति पाणिनीयं शासनम् । इह भक्ष्यमभ्यवहार्यमात्रमिति काशिका अंब्भक्षोः वायुभक्ष इति भाष्यप्रयोगे पि भक्षयतिरभ्यवहरतिना समानार्थः। खादतिस्तु नाऽशने सामान्ये क्वचिदिष्यते, शब्दस्वाभाव्यादिति विबुधा विभावयन्तु । अतएव संगच्छते चरके सूत्रस्थाने (२८|३ )ऽशितपीतलीढखादित- प्रभवाश्चांस्मिन्शरीरे व्याधयो भवन्तीत्यशितखदितयोः पृथङनिर्देशः ।

 गिरिपर्वतौ पर्यायवचनाविति कोषकारः अथर्वसंहितायां (६|९७|३ ) त्वेतयोः साहचर्येण प्रयोगः -यथेयं पृथिवी मही दाधारं पर्वतान् गिरीन् इति । अवश्यं तर्ह्याभ्यां विविक्तांर्थभ्यां भाव्यम् । विविनक्ति चेत्थमाचार्यः सायणः-- पर्वता महाशैलाः । गिरयस्तत्पर्यन्तवर्तिन इति |  भुजबाहू प्रवेष्टो ' दोरित्यमरपाठे दोर्बाहू पर्यायौ । परमिमावपि सान्तरौ, शौनकीया. ह्यस्नौ समभिव्याहारेणाधीयते तद्यथा-मित्रश्च वरुणश्चांसौ त्वष्टा चार्यमा च दोषणी महादेवो बाहू इति । अंससंसक्तदंशो दोः, ततः परो बाहुरितेि तद्व्याख्यातारः ।

 देवखातबिले गुहा गह्वरंमित्यमरः पठति । परं नैते गुहागह्वरे एकार्थे भवत्ः। गुहा गिरीणां गिरिगह्वराणीति साहचर्येण भारते ( वन० १७७|५) पाठदर्शनात् । गुहाऽल्पप्रमाणं दरी| गह्वरं महती दरीत्येवं नीलकण्ठः पर्यायतां व्यपोहति ।

 रत्नं मणिर्द्वयोरित्यत्र मणिरत्नयोः समानाभिधेयतामभीच्छत्यमरः । परं नैते समानाभिधेये भवतः। अस्त्यत्र विशेषः। मणिकाञ्चनरत्नानीत्यत्र भारते (आदि० १|१३२) सम्पाठात् । मणयो विषरोगादिहरा दिव्योपलाः। रत्नानि वज्रवैदूर्यादीनीति, नीलकण्ठकृतो, विवेकः ।

 हेतुकारणे पर्यायाविंति प्रायोवादः। परमेतयोरपि नात्यन्ताय पर्यायता । हेतुभिः कारणैश्चैव यथा यज्ञो भवेन्न स इत्यत्र. भारते ( आदि० ३७|१५) युगपत् प्रयोगदर्शनात् । हेतुभिर्विप्रशापामोघत्वादिभिः । कारणैस्तन्मूलैर्विप्रावज्ञादिभिरिति तत्र नीलकण्ठीयं विवरणम् ।

 क्षत्तृ स्रङ्ग्रहीत्रोः पर्यायत्वं प्रसिध्यति, तदपि न सत्प्रतिष्टम् । नमः क्षतृभ्यः संग्रहीतृभ्यश्च वो नम इत्यत्र ( १६|२६) वाजसनेयके युगपत्प्रयोगदर्शनात्। क्षत्तारो रथाधिष्ठातारो रथस्वामिनः| सङ्गहीतारः सारथय इति विवेक उवटे ।

 प्रायेण स्तेनतस्करौ पर्यायवचनावभ्युपेयेते। न चेदं साम्प्रतम् । वाजसनेयकें ( ११|७७ ) ये स्तेना ये च तस्करा इत्यत्रोभयोः सह प्रयोगदृष्टेः। स्तेना गुप्तचौराः । तस्कराः प्रकटचौरा इत्येवमेतौ महीधरो भिनत्ति । सायणस्तु अप स्तेनं वासो गोअजमुत तस्करम् (१९|५०|५ ) इत्यथर्व श्रुतिव्याख्यायामाह--स्तेनतस्करयोः पर्यायत्वे व्यवहार्यद्रव्यगौरवेण पृथंगपहननमुक्तम् इति ।

 तनुत्रं वर्मं दंशनम् । उरश्छदः कङकटको जगरः कवचोऽस्त्रियाम् इत्यमरे वर्मकवचयोः पर्यायवचनत्वं प्रव्यक्तम् । वाजसनेयके ( १६|२५ ) नमो बिल्मिने च कवचिने च नमो वर्मिणे च वरूथिने चेत्यत्र सहप्रयोगात्तद् विघटते पटस्यूतं कर्पांसगर्भ देहरक्षकं कवचम् । वर्म लौहम् इति हि तद्विघटनपरं भाष्यम् ।

 जवनाशुगयोरैकार्थ्य प्रयात्प्रत्येति लोकः । सोऽस्य भ्रमः । भारते (सभा० २७|२८ ) जवनानाशुगांश्चैव करार्थं समुपानयद् इत्यत्रोभयोः सम्पाठदर्शनांत् । इत्थं चानयोर्भेदं विवृणोति टीकाकृन्नीलकण्ठः-जवनान् धावने शीघ्रान् । आशुगान् यदृच्छया चलनसमर्थान् । रक्षतिर्गोपायतिना समानार्थ इति प्रत्यायितों लोकः, परं नैषावस्तुस्थितिः । स मा रक्षतु स मा गोपायतु इत्यथर्वसंहितायां शौनकीयायामुभयोः सहxx प्रयोगो पलम्भात् । अत्र सायण इत्थं भाषते--अत्र रक्षणगोपनयोरहितनिवारणहितकरणं- रूपपालनभेदेन भेदो द्रष्टव्यः ।

 ओजोऽसि ओजो मंयि धेहि । वीर्यमसि वीर्यं मयि धेहि । सहोऽसि सहो मयि धेहि इतेिं यजुष्कण्डिकायां (२८|५) ओज आदीनां बलवाचकत्वेप्यस्त्यवान्तरभेदः । ओज इन्द्रियबलं भवति । वीर्यं शरीरम् । सहो मानसम् . इति व्याख्याति महीधर: । ओजो दीप्तिर्बलं वीर्यं प्रसह्यकरणं सह इति;तु षड्गुरुशिष्यः ।

 अवनत्राणयोः समानेपि पालनेथेऽस्ति कश्चिदवान्तरो भेदः । त्रातारमिन्द्र- मवितारमिन्द्रमित्यत्राथर्वणे द्वयोर्युगपच्छ्रवणात्। अयमसौ सायणोद्भावितो भेदः- त्राणं नाम उपस्थितेभ्यो भयहेतुभ्यो रक्षणम् । अवनं तूदेष्यतां निरोधः। स्तेनस्ताय्योरपि पर्यार्थत्वेनाभिमतयोर्निर्निर्वक्तव्यों भेदः ( १६|२१ ) यजुष्कण्डिकां व्याचक्षाणो महीधर आह—गुप्तचौरा' द्विविधा भवन्ति,रात्रों गृहे खातादिना द्रव्यहर्तारः, स्वीया एव वाहार्निशमज्ञाता हर्तारश्च । पूर्वे स्तेना उत्तरे स्तायवः ।

 कुत्सा निन्दा च गर्हणे इत्यमरे कुत्सागर्हयोः पर्यायवचनताऽभ्युपेयते। भारते वनपर्वणि (२०७|२३ ) न कुत्सयाम्यहं किं चिन्न गर्हे बलवत्तरम् इत्यत्र कुत्सागर्हयोः .सांकमुदीरणात्सा विघटते । कुत्सागर्हे इत्थं विविनक्ति नीलंकण्ठष्टीकाकारः- कुत्सा विद्यमानंदोषसंकीर्तनम् । गर्हाऽविद्यमानदोषांरोप इति | सेयमसुदुत्प्रेक्षा । वस्तुतः कुत्साऽवक्षेपणं परस्य न्यक्करर्णं लघूकरणं भवति । कुत्स्यमानः सदोषः स्याददोषो वेत्यनादरः । अवक्षेपणे कन् (५|३|९५) इत्यत्र 'ब्याकरणकेन नाम त्वं गर्वितः' इत्युदाहरणम् । अजेर्व्यघञपोः (२|४|५६ ) इति सूत्रे भाष्ये वैयाकर्णसूतयोरेष संवादः स्थितः-- एवं हि कश्चिद् वैयाकरण आह--कोऽस्य रथस्य प्रवेतेति । सूत आह-आयुष्मन्नहं प्राजितेति । वैयाकरण आह—अपशब्द इति । सूत आह-प्राप्तिज्ञो देवानां प्रियो न त्विष्टि्ज्ञः । इष्यत एतद्रुपमिति । वैयाकरण आह-अहो नु खल्वनेन् दुरुतेन बाध्यामह इति। सूत आह-न खलु वे्ञ्: सृतः सुवतेरेव सुतः। कुत्सा प्रयोक्तव्या। दु:सूतेनेति वक्तव्यम् । नात्र कुत्सा विद्यमानदोषविषया; सूतस्य निर्दुष्टत्वात् । लघूकरणं तुच्छत्वापादनमेवाभिप्रेयते । गर्हा नामासद्दोषविषया भवतीत्यपि न । गर्हायां लडपिजात्वोः(३|३|१४२ ) इत्यत्र गर्हायां गम्यमानायां सर्वलकारापवादो लङ् विधीयते । उदाहरति च काशिकाकारः-- अपि तत्रभवान् वृषलं याजयति जातुः तत्रभवान् वृषलं याजयति, गर्हामहे । अहो अन्याय्यमेतत् । अत्रदोषवतो: याजकस्य गर्हा नः त्वदोषस्यं ।

 कृपानुकम्पादयः पर्याया इत्याभिधानिकाः तथा चामरे पाठः --कारुण्यं करुणा घृणाकृपा दयाऽनुकम्पा स्यादनुक्रोशोपि इति । भारते त्वेषां, समानवाक्ये सम्पाठात्पर्यायत्वमंदूरविप्रकर्षादित्यनावृतं गम्यते । अयं हि भारते स्थितः पाठ्ः-- कृपाऽनुकम्पा करुण्यमानृशंस्यं च भारत ।“ कुरुषे तद् विशिष्यते (उद्योग० ९५|६)। कृपादीनिंर्त्थ व्यंविंचन्नीलंकंण्ठंः -- कृपा परस्य सुखार्थे यत्नः । अनुकम्पा परदुःखदर्शने त्रासः । कारुण्यं परदुःखप्रहणार्थो यत्नः । आनृशंस्यं परदुःखाप्रदानम् इति।

 कुलवंशयो: प्रायेण पर्यायवचनतां प्रतियन्ति लोकाः। स एष विभ्रमः। -भारते अवल्गुकारिणं , सत्सु कुलवंशस्य नाशनम्( उद्योग० १३३|२९) इत्यत्र+ युगपत्प्रयोगदर्शनात् । तत्रायं.नीलकण्ठकृतः प्रविवेकः कुलं ज्ञातयः । वंशः सोमसूर्यादि मूलोत्पत्तिस्थानम्

 चिन्ताशोकौ पृथुगर्थौ.पार्थगर्थ्ये. चिन्ताशोकपरायण इति भारते ( द्रोण० १|५) प्रयोग एव मानम् । इत्थं चेमौ विविनक्ति भारतभावदीपे नीलकप्ठः-- चिन्ता ध्येयविबषये मनोवृत्तिप्रवाहः शोक इष्टस्य पुनः पुनर्मनसि निवेशनमिति ।

 रुधिरशोणिते कोषेषु पर्यायौ पठितौ । इदमष्यदूरविप्रकर्षान्न त्वैकान्त्येनैकार्थ्यात् । रुधिरौघवतीं कृत्वा नदीं शोणितंकर्दमाम् इति भारते द्रोण७ (१४१|२५) पठ्यते । अत्र रुधिरमोघ इत्युक्तम्, शोणितं च कर्दमूः। ततोऽनुमिन्मो घनं (संशीनं) रक्तं शोणितं भवति, तरलं च रुधिरमिति ।

 सत्त्वौबलवीर्याणि पर्यायाः पठिताः कोषेषु, न त्वेषां पर्यायत्वं व्यवतिष्ठते । तमप्रतिमसत्वौजोबलवीर्यसमन्वितम् इत्यत्र भारते ( द्रोण० १|१ ) एषां सम्पाठात् । तत्रायं विवेको नीलकण्ठकृतः—सत्वं धैर्यं महत्यपि दुःखकारणे वैक्लव्यराहित्यम् । ओजो मनसं बलम् । बलं शरीरदार्ढ्यम् । वीर्यं समुत्साहादिहेतुः । क्वचित्समन्वितम् इत्यस्य स्थाने पराक्रमम् इति पाठः। तत्र पराभवसामंर्थ्यमिति टीकाकारः । अन्यत्रापि द्रोणपर्वणि (४२|४२ ) अत्यद्भुतमहं मन्ये बलं शौर्यं च सैन्धवेतंस्य प्रब्रूहि मे वीर्यम् इत्याहतम् । अत्र बलं सामथ्र्यम् शारीरमिति विवक्षितम् । शौर्यमुत्साह:| वीर्यं प्रभाव 'इत्येवमर्थापयते सः | अंनुपदमुक्तेन वीर्यं समुत्साहादिहेतूरित्यनेनं विरोधों न शङ्कनीयः । समुत्साहस्य प्रभावहेतुकत्वात् । चारप्रणिधी प्रायेण पर्यायौ भतौ । भिद्यते त्विमावर्थतः । भारते (शां० ५८|५) चारश्च प्रणिधिश्चेति साहचर्येण पाठात् । तत्र चारो गुप्तस्पशः । प्रणिधिः स्पष्टः स्पश इति टीकाकरः'।

 प्रणिपाताभिवादने मिंथो विशिष्येते इति प्रतिपन्नप्रायंम् । भारते (शल्य० ६२|१६) कृताञ्जलिः सप्रणयं प्रणिपत्याभिवाद्य चेति पाठः। प्रणिपात उपसङग्रहणं विधिवच्चरणग्रहणं भवति । अभिवादनं तु वाचा नमउक्तिः अभि वादये देवदत्तोहं भो इत्यादिः ।

 हेतुकारणे अपि नाद्यन्तं समानार्थके । हेतुकारणयुक्तैश्च वाक्यैः कालसमीरितैः ( भा० शुल्य० ६१४२ ) इत्यत्रोभयोः साहचर्येण पाठोपलम्भात्। तत्र हेतवो दृष्टा अपराधाः । कारणान्यवश्यम्भावीनि इति विशेषः ।

 पर्यायाविति परिगृहीतौ मध्यस्थोदासीनावपि भिद्यते । उदासींनगणानां च मध्यस्थानां च भारतेत्यत्र (भारत आश्रम० ६|१) भेदस्य स्फुटमभिप्रेतत्वात् । तत्रोदासीनो नैकत्र पक्षपाती मतः । मध्यस्थश्च ततोऽन्यो द्वयोरपीष्टाकाङ्क्षी ' अन्यत्र माध्यस्थ्यमौदासीन्यान्न व्यतिरिच्यते । तथा च कविकुलपतेः प्रयोगः-- अभ्यर्थनाभङ्गभयेन साधुर्माध्यस्थ्यमिष्टेप्यवलम्यतेऽर्थे (कुं० सं० १|५२)।

 प्रकृतं निबन्धं भाष्यकारकृतेन पर्यायार्थप्रविवेकेण पर्यवसाययामः । आर्शसांयाँ भूतवच्चेति सूत्रे (३।३।१३२) भाष्य आशंसासंभावनयोरंविंशेषादिष्टा व्यवस्था न प्रकल्पेतेति दोषमुद्भाव्याहं भगवान्भाष्यकार:-'न वा संभावनावयवत्वादाशंसायाःसंभावनावयवात्मिकाssशंसाआशंसा नम प्रधारितोऽर्थोऽभिनीतश्चानभिनीतश्चसंभावनं नाम प्रधारितोऽर्थोऽभिनीत एवेति । अत्र कैयटः-- आशंसासंभावनयोरिति । आशंसासंभावनयोरर्थभेदाभावादविशेषे इत्यर्थः । आशंसानागतवस्तुवाञ्छा । संभावनमपि भाविवस्तूत्प्रेक्षणमिति भावः । न वेति । अवयवशब्दः पृथग्भाववाची । संभावनात्पृथगेवाशंसेत्यर्थः । प्रधारितोर्थ इति । इदं मे भूयादितिं मनसा विषयीकृतोर्थः। अभिनीत इति । कारणयोग्यतवशाच्छंक्यप्राप्तिरित्यर्थः । ततोन्योऽनमिनीत इति । अन्ये त्वप्रधारित इति पठन्ति । अनिर्धारितोऽवश्यंभावितयाऽनिश्चित इत्यर्थः । संभावनं चासति विंधुरप्रत्ययोपनिपाते भवितव्यमनेनार्थेनेति ज्ञानमित्यनयोर्भेद इति ।

इति पर्यायवचनविवेकोऽपवृक्तः।

करोतिना संर्वधात्वर्थानुवादः क्रियते

 व्यवहारं किं जानीमो यदि करोतेः प्रयोगनानात्वं न विजानीमः । व्यवहारनिरूपणे चास्मिन्प्रन्थे, करोत्यर्थविचारो न न प्रसक्त इति तमवतारयामः।

 अनेकार्था धातव इति वैयाकरणाः प्रतिपन्नाः धातुपारायणेष्वर्थनिर्देशः प्रकारपरतया कृतो नार्थपरिगणनाय । तत्रैको मुख्योऽर्थों, गौणान्यर्थान्तराणीति नावश्यं व्यवतिष्ठते । अवतेरेकोनविंशतानर्थेषु गुणप्रधानभावकल्पना शास्त्र पारीणेनापि विदुषा न शक्या, समर्थयितुम् । अनिर्दिष्टेष्वर्थेषु प्रवृत्ता धातवः क्रियासामान्यादेव क्रियान्तरे वर्तन्त इत्यपि प्रायिकम् । क्वचित्प्रयोजनवशादुपचारः समाश्रीयते नाम । उपचर्यमाणा हि धातवः किमपि कामनीयकं भजन्ते । उन्मीलति चक्षुरिति मुख्यार्थे प्रयोगो न तथा स्वदते यथा. ‘उन्मीलन्ति वेदना' इति भाक्तः। सर्वथानेकार्थता धातूनां नापलापमर्हति वपतिर्बीजसन्ताने पठितःलवनेऽपि वर्तते केशान्वपतीति । दिशतिरतिसर्जने पठित उच्चारणेऽपि वर्तते सन्दिशति वाचम् इति । शंसु स्तुतावितिः पठितः शंसतिहिंसायामपि दृश्यते नृञ्शंसति हिनस्तीति नृशंस इति व्युत्पत्तेः । इयं चानेकार्थता नापरिच्छुिना । न हि सर्वो धातुरनेकार्थो न चैकः सर्वार्थः। कश्चिदेव निर्दिष्टार्थमतिरिच्य प्रवृत्तो दृष्टः । अल्पीयांसस्तर्ह्यनेकार्थतायाः प्रदेशाः । तदेतत्करोतिव्यतिरिक्तधातुविषयं न करोतिं क्रोडी करोति । करोतेस्तु वाचामगोचरो महिमा । सर्वे : सर्वार्थवाचका: ( शब्दाः) इति यदाचार्याः संगृणते तत्करोतिविषये सुतरामवितथं प्रत्यक्ष मुपलब्धेः । करोतिर्हि संर्वे धात्वन्तरवाच्यमर्थमभिधातुमीष्टे । तत्रेयमुपपत्तिः--

 करोतिर्हि.क्रियासामान्यवाची शक्तः क्रियाविशेषं धात्वन्तरवाच्यमभिधातुम् । यथा लिङ्गसर्वनाम नपुंसकम् एवं क्रियासर्वनाम करोतिः।भिन्नानि लिङ्गानि नपुंसकेनैकेन समाख्यायन्ते । यथा--'न तच्छास्त्रं न तच्छिल्पं न सा विद्या न सा कला:। न तत्कर्म न योगो वा नाटके यन्न दृश्यते ॥', इत्यत्र यच्छुशब्देन नपुंसकेनान्पुंसकानामभिधानम् । देवदत्तः पठति, यज्ञदतः शृणोति, विष्णुमित्रो व्याख्याति तत्रागन्तुक कश्चदनुयुङ्क्ते किमिमे कुर्वन्तीति: । अत्र करोतिना पठतिशृणोतिव्याख्यातीनामनुवादः क्रियते । इदं हि वस्तुस्वाभाव्यं यत् सामान्येन विशेषाभिधानं विशेषेण वा सामान्यभिधानम् । चरतिर्गमनसामान्ये पठितोऽर्जनपूर्वेके गमनेऽपि वर्तते, भिक्षां चरतीति, अर्जयंश्चरतीत्यर्थः । वदतिर्व्यक्तायां


१. तत्र तनूकरणे तक्ष ( ३।१।७६ ) इति सूत्रे लिङ्गम् ।’ वेः पादविहरणे (१।३।४१ )
   इति च

वाचि पठितो भासनोपाधिकायामपि तस्यां दृश्यते वदते शास्त्रेः वादीति ।

विपरीतोऽपि क्रमो लक्ष्यते मंत्रिःगुप्तपारिभाषणेः इति पठितः परिभाषणमात्रेऽपि वर्तते, किं मन्त्रयसे मित्र । शंसु स्तुताविति विशिष्टे कीर्तने पठितः शंसतिः कीर्तनमात्रेऽपि वर्तते सुतजन्म शंसति. नृपायेति यथा । वद् व्यक्तायां वाचि इति पठितो वदतिरव्यक्तायामपि दृश्यते वदति वीणेति । शप आक्रोशे इति पठितः शपतिः करोत्यर्थेऽपि वर्तते, यथा “वसिष्ठश्चापि शपथं शेषे पैजवने नृपे ( मनु० ८|११० ) इत्यत्र ।

 करोतिना सामान्यार्थकेन यथा विशेषाभिधानं भवति तथा दिङ्मात्रमिह दर्शयामः । वितरति गुरूः प्राज्ञे विद्यां यथैवं तथा जडे । न च खलु तयोर्ज्ञाने शक्तिं करोत्यपहन्ति वेति भवभूतिपद्ये करोतिरभूतप्रादुर्भावे । अत्र करोतिरुत्पाद- यतिना समानार्थः । एवमेव भयं करोतीत्यत्र आदिकर्मण्यपि वर्तते--चक्रे शोभयितुं पुरीमित्यत्र श्रीरामायणे ( २|७|१० ) यथा काष्ठं भस्म करोति, स्वर्णे कुण्डलं करोति । अत्र कृञ् विकरणे वर्तते । कुरु पदानि घनोरु शनैः शनैः । करिष्यसि पदं पुनराश्रमेऽस्मिन् , शनैः शनैः श्यामिकया कृतं पदम्। आकृति विशेषेष्वादरः पदं करोतीत्यादिषु करोतिर्निक्षेपणार्थमाह । अश्मानमितः कुरु । करोतिरत्र स्थापने वर्तते । दशम्यामुत्थायं पिता नाम करोतीत्यत्र गृह्ये करोतिः प्रयोगे निर्देश वा वर्तते । एवं ह्येष व्यवहार उपागतो रूढिं यदत्र लोंको धात्वन्तर प्रयोगं न मृष्यति प्रायेण। ब्रह्मणः प्रणवं कुर्यादादावन्ते च सर्वदेति मनुवाक्ये करोतिरुच्चारणे वर्तते । मन्त्रादौ मन्त्रान्ते चोङ्कारमुच्चारयेदिति तदर्थः । पदं मिथ्या कारयते । अत्र मिथ्योपपदात्कृञोऽभ्यास (१।३|७१.) इत्यात्मनेपदम् । असकृदुच्चारयतीति चार्थः । शब्ददर्दुरं करोतीत्यत्र पाणिनीयेऽनुशासने करोति: प्रकृतिप्रत्ययादिविभागेन शाने वर्तते । शब्दं करोति प्रकृतिप्रत्ययादिविभागेन जानातीति शाब्दिकः। कलापिवैशम्पायनान्तेवासिभ्यश्चेति सूत्रव्याख्याने प्रत्यक्ष कारिणो गृह्यन्ते न तु शिष्यशिष्या इति वृत्तिकारः। अत्र करोतिरध्ययने वर्तत इति पदमञ्जरी | ऋषयश्चक्रिरे धर्मे योऽनूचानः स नो महानिति (मनु० २।१५४) अत्र करोतिर्व्यवस्थापने वर्तत इति मेधातिथिः । विचर्चिकातः कुरु, पदौ कुरु । अत्र करोती रोगापनयने उन्मर्दने च यथासंख्यं वर्तते इति भाष्ये स्पष्टम् । उदकं करोति पितृभ्य इत्यस्य पितृभ्यः सलिलं निवपतीत्यर्थः। तथा च 'गीतासु प्रयोगः-पतन्ति पितरो ह्योषां लुप्तपिण्डोदकक्रियाः इति । पतितस्योदकं कायें सपिण्डैर्बान्धवैर्बहिरिति च मनौ (११|१८२): कृतोदक उपयुक्तजल आचान्तः स्नातश्चोच्यते । अत्र करोतिरूपयोगे वर्तते ।

 कुत्रो द्वितीयतृतीयशम्बबीजात्कृषाविति सूत्रे (पा० ५|४|५८॥ करोतिः कर्षणे वर्तते । बीजाकरोति क्षेत्रम् । बीजावापेन सह कुषति क्षेत्रमित्यर्थः।तथा च मनुसंहितायां याज्ञवल्क्यस्मृतौ च प्रयोगाः 'अकृतं च कृतात्क्षेत्रात् (१०|११४); फांलाहतमपि क्षेत्रं न कुर्याद्यो न कारयेत्(२।१५८)॥ इतिं | पदकार इत्यत्र करोतिरवग्रहे वर्तते । पदान्यवगृह्णाति च्छिनत्तीति तद्व्युत्पत्तेः । स्तम्बशकृतोरिन् (३|२|२४) इत्यत्रानुवृत्तः कृञ् विसगें वर्तते । शकृत्करैिर्वत्सः, शकृद्विसृजतीत्यर्थः। एवमेव मूत्रपुरीषं करोतीति मनुप्रयोगे । आज्ञां करोति, वचनं करोतीत्यादिषु कृञनुवृत्तौ वर्तते । दारान्कुर्वीत सिद्धये कृतदारःदारकर्म, दारक्रिये त्यादिषु करोतिः परिग्रहणे .स्वकरणे वर्तते । शूलात्पाक (५|४|६५) इत्यनेन निष्पन्ने शूलाकरोति मांसमिति प्रयोगे करोतिः पचने वृर्तते । तथा च कृताकृता स्तण्डुलाः ( याज्ञ० १/२८६ ); कृतान्नम् , अकृतान्नमितिप्रभृतयः प्रयोगाः प्रथन्ते । समयाच्च यापनयामिति (५|४|६०) डाचं शास्ति करोतिना योगे करोतिं च यापनया समानार्थमाचष्टे । संमया करोति, कालं यापयतीति यावत् । प्राप्तमवसरमतिक्रमयन्नेवंमुच्यते । समापनेपि वर्तते । तथा च श्रीरामायणे (२|६४|५२) प्रयोगः-- एवं त्वं पुत्रशोकेन राजन्कालं करिष्यसीति । मरिष्यसीत्यर्थः । भारतसंहितायामपि यापने प्रयोगः-- चक्रुस्तेनाभ्यनुज्ञाता दश वर्षाणि पञ्च चेति । प्रतीक्षणेपि वर्तते-- करोतु:क्षणं मदर्थे, क्षणं कुर्वित्यत्र | सत्यादशषथ (पा ० ५|४|६६ ) इत्यत्र सत्यं करोति ब्राह्मण इति प्रत्युदाह्रियते । व्यक्तमत्र करोति शपत इत्यनर्थान्तरम् । क्वचित् करोतिरभिमर्शने वर्तते न च प्रशब्दं द्योतकमपेक्षते । तद्यथा—अभिषह्य तु यः,कन्यां कुर्याद् दर्पेण मानव इति स्मृतिः (मनु० ८|३६७ ) मानितः कुरुतेऽस्त्रणि शक्रसद्मनि भारत इत्यत्र भारते (वन० १६२|२२ ), चकाराङ्गिरसां श्रेष्ठाद् धनुर्वेदं गुरोस्तदेत्यत्र ( शां० २।५), यां विद्यां कुरुते गुरावित्यत्रापस्तम्बे ( १|७|१२) च करोतिः शिक्षणे विद्योपादने वर्तते । तन्मूलामतिमहततीं कथामकरोत् ( दशकु पृ०.१७३ ) इत्यत्र करोतिराख्याने वर्तते । सत्सङ्गतिः कथय किं न करोति-पुंसाम् (भर्तृ० २|२३ ) । करोति = साधयति । कण्ठे हारमकरोत् ( कादम्बरी )|अकरोत् = अधात्, अधारयत् । अध्यक्षान् विविधान्कुर्यात्तत्र तत्र विपश्चितः (.मनु० ७/८१)! कुर्यात् = नियुञ्जीत.) कुरु करे गुरुमेकमयोधनम् । यथा काष्ठानि करोति गोमयानिं करोति इत्यादाने करोतिशब्दो भवति । एवमिहापि द्रष्टव्यम्--मी० शा० भाष्ये ४।२|६| ॥ सोऽपि यत्नेन संरक्ष्यो घर्मो राजकुतश्च यः .( याज्ञ ० २|१८६ ) । राजकृतः = राजविहितः। कृधि, रत्नं यजमानाय सुक्रतो त्वं हि रत्नधा असि (ऋ० ७|१६|६ ); कृधि = देहि. । यत्र शुल्को न क्रियते अबलेन बलीयसे - ( अथर्व०.३|२९|३ )। अत्र करोतिर्दाने वर्तते । यां विद्यां कुरुते गुरौ {१/७/१२)।अत्र करोतिध्ययने

वर्तते। बह्वीः समा अकरमन्तरस्मिन् 

(ऋ० १०|१२४|४) इत्यत्र करोतिर्निवासे वर्ततेः!सत्यं:करोति ब्राह्मणः । करोतिरिह शपेरर्थे वर्तते । न चकार भयं प्राप्ते भये महति मारिष ( भा० द्रोण० १०२|२३ ) । अत्र करोतिरनुभवे वर्तते । इदं लतावेश्म विविक्तमत्र ते पादौ करोमि यदि तन्वि ताम्यसि (रामचरिते ४|४६ ) करोमि = संवाहयामि । चक्रुरस्त्रं)महावीर्याः कुमाराः परमाद्भुतम् (भा० आदिं० १३४|२४ ) । चक्रुः = प्रादश्चक्रुः। करोमि कामं कं तेऽद्य प्रवृणीष्व यथेच्छसि (भा० ४|४३७)। व्रीडां न कुरुषे कथम् (भा० सभा० २|४५|१८)। कुरुषे संवेत्थ । भगवंश्चिरेण पात्रमासाद्यते । भवांश्च गुणवानतिथिस्तदिच्छे श्राद्धं कर्तुं क्रियतां क्षण इति (भा० आदिं० ३।११४)। दीयतां मे समय इत्याह । पूषा ते ग्रन्थिं ग्रथ्नात्विति ग्रन्थि करोति । ( आप० श्रौ० १|२|४|१० )। करोति बध्नातीत्य- नर्थान्तरम् । क्रियतेऽभ्यर्हणीयाय सुजनाय कृताञ्जलिः । ततः सांधुतरः कार्यों दुर्जनाय हितार्थिना ( शुक्र० १|१६५ )। क्रियते = वध्यते ! ते सर्वे चक्रुरश्रूणि (हरि० ३।२६।२२) । मुमुचुरित्यर्थः । कामकारेण दण्डं तु यः कुर्यादविचक्षणः ( भा० शां० ८५/२४)। कुर्यात् = प्रणयेत् , धारयेत् । स्मृतस्त्वया पुनर्विप्र करिष्यामि च दर्शनम् ( भा० अनु० १४|६२ )। 'इह करोतिर्दाने वर्तते । तिङन्तान्क्रुञः प्रयोगान् रसंवत्तमेनोदाहरणेन पर्यावंसाययामः । नखान्करोति; कृन्तति, कल्पयतीति तदर्थः । परःसहस्रसंवत्सरात्ययेऽद्याप्येवं ब्रूमो लोकवाचेतीय- मेवास्य रसवत्ता ।

 भूयांसो हृदयङ्गमाः कृत्प्रयोगाः कुञोनेकार्थतां ब्रुवते । अनवसरोद्य तद्व्याख्यानस्य कालान्तरे तद्भवितेति व्याक्षेपो विषह्यः । तथाप्येकद्वान्प्रयोगानप्रदर्श्य न, विरन्तुमीश्महे, अपरितोषात् । कर्मशब्दो व्यायामेपि वर्तते इत्यत्र कर्मबेषाद्यत् इति सूत्रं लिङ्गम् । तत्र कर्मणा सम्पादि शोभि शरीरं कर्मण्यमिति वृत्तिः । कर्म व्यायाम इति पदमञ्जरी । चिकित्सापिं कर्मोच्यतेः। दंशच्छेदः पूर्वकर्मेति श्रूयत इति मालविकाग्निमित्रे । कर्माध्ययने वृत्तमिति सूत्रे कर्मशब्दोऽपचारपर इति पदमञ्जरी । स्तेयमपि कर्म भण्यते । तथा च कृत्वा शरीरपरिणाहसुखप्रवेशं शिक्षाबलेन च बलेन च कर्ममार्गमिति चारुदत्ते प्रयोगः । कारा बन्धनालयो भवति क्रियते बध्यते लोकोऽत्रेति व्युत्पत्तेः । षिद्भिदादिभ्यो्ङ् (पा० ३|३|१०४) इति सूत्रे. कारा वन्धन इति गणसूत्रम् । स्पष्टं करोतिरत्र बन्धने वर्तते । तथा चाञ्जलिं करोतीत्यत्र । मणिकारो' वैकटिक इत्यत्र करोतिः परीक्षायां वर्तते । कर्मण्या क्रोशे कृञः खमुञ् (३|४|२५)। अत्र करोतिरुचारणो वर्तते । चोरङ्कारमाक्रोशति । चोरशब्दमुच्चर्येत्यर्थः । करणमृणं प्रमाणयंल्लेखो भवति । स दत्त्वा निर्जितां वृद्धि करणम् परिवर्तयेद् इत्यत्र मानवे धर्मशास्त्रे (८|१५४) यया । कृत्याशब्दः


१: अयं निबन्धो लवपुरे सरस्वतीसमाजे वाचितः । क्थवन्तो यतुशब्दगतमर्थमाह। तथा हि--तानि “कृत्याहतानीव विनश्यन्ति समन्तत इति (३|५८)मनुवचनम् । कारिका यातनाकृत्योरिति प्रायेणामरे पाठः । क्वचित्काकारिका यातनावृत्योरिति पठ्यते । तथा च कारिके वृतियातने इति त्वामिधृतं दुर्गवचनमप्यनुकूलम् । कारिका विवरणश्लोकः। एवमिह करोतिंर्व्याख्याने वर्तत इति नात्र शङ्काशूकोऽपि । णिजधिकः करोतिः शिक्षणे वर्तते । तथां चामरः--कारितशिक्षिते इति । स्यादचण्डी तु सुकरेत्यमरे सुकरां सुखेन विनेयेत्यनर्थान्तरम् । तेन व्यक्तं करोतिरत्र विनयने वर्तते । मयि जीवति राजेन्द्र न भयं कर्तुमर्हसि । ( भा० द्रोणं० १३|१२) । न भयं कर्तुमर्हथ (हरि ० :२|५०|३९)। अत्र करोतिरनुभवे वर्तते । सत्यंकारकृतं द्रव्यं द्विगुणं प्रतिपादयेत् ( यज्ञ ० २|६१ )। केशाञ्जानाम्यहं कर्तुम् (भा० विराट० ९|१८ । कर्तुम्= प्रसाधयितुम् । कृतानि प्रथमेनाह्ना योजनानिं चतुर्देश (रा० ६।२२।६४) कृतानि = अतिक्रान्तानि । अभ्यागच्छन्सुराः ': सर्वे तमःफलंचिकीर्षवः (रा ० १|६३|१) अत्र करोतिदाने वर्तते । अंस्त्रार्थमगमं पूर्वे धनुर्वेदचिकीर्षया ( भा० १|१३१|४० ) इत्यत्र करोतिः शिक्षणे वर्तते । बालाविमौ सुचपलावक्रियाविति सर्वथा(हरि० २|२८|२४) इत्यत्राक्रियावित्यशिक्षावित्याह। वयं संवें सोत्सुकः कृतक्षणास्तिष्ठामः। इह करोतिः प्रतीक्षणे वर्तते । राज्ये सुतं कृत्वा (मार्कण्डेय पु० १०९|३७( कृत्वा = अभिषिच्य )| कुद्धलुब्धभीतावमनिनस्तु परेषां कृत्याः ( भैद्याः)( कौ०' अर्थ० १|१३ )। प्रतिज्ञां कर्तुमिच्छामि तदनुज्ञातुमर्हसि (श० १|६८|१०)। कर्त्तुम् = पूरयितुम् ( कतकः )। राजन् कुर्यात्कर्णमापदि (भ० शा० ९३|७)। करणम् = आपन्निवारणं कर्म। हित्वां वेदकृताः श्रुतीः (भा० शां० २|६५|७)। वेदंकृताः वेद आम्नाताः। प्रतीक्षमाणस्तं मासं सीताधिगमने कृतः ( रा० ४|४५|४) । यो में कृतंस्त्वया कालस्तमाकाङ्क्षे (प्रतीक्षे ) जगत्पते (भा० उद्योग १५|९) । कृतः = निंयतः, प्रतिश्रुत: । स्वागतेनागतं कृत्वा (भा० शां० ३५७|५) (कृत्वा = संत्कृत्य)। कृतकौतूहलस्तेषु मुक्तश्र्चर यथासुखम् (भा० शां० २८८|११)। कृतकौतूहलः = छिन्नौत्सुक्यः। आक्रियतें व्यज्यतेऽनयेत्याकृतिः संस्थांनमुच्यते (पा ० ४।१।६३ इत्यत्रं न्यासंः ) नृम्णानिं कृण्वंन् (= कुर्वन् ) बहवे जनाय (ऋ १०|१०३|८ )। कृण्वंन् = ददत् । क्रियांशब्दोऽमरेणं नवस्वर्थेषु पठित:--

          आरम्भो निष्कृतिः शिक्षा पूजनं सम्प्रधारणम् ।
          उपायः कर्म चेष्टा च चिकित्सा च नव क्रिया: ॥ इति ।

 अत्र क्रमेणोदाहरणानैि-- ओरम्भे तावत्-सर्वाः क्रियाः मंत्रमूला नृपाणाम् । निष्कृतौ–महापातकिनां पुंसां भवेत्प्राणांतिक क्रियाः । शिक्षायाम्--किया हि द्रव्यं विन्यति नाद्रव्यमिति कौटल्यः, क्रिया हि वस्तूपहिता प्रसीदतीति कालिदासश्च । विद्ययामपि दृश्यते—शिष्टा क्रिया . कस्यचिदात्मसंस्थेति मालविकायाम् । पूजने-अग्निक्रिया । संप्रधारंणे' (विचारे )—क्रियांं विना को हि जानाति कृत्यम् । उपाये-सामादिकाः क्रियाः ! चेष्टायाम् स्तम्भे निष्क्रियो जन्तुः प्रलये गतचेतनः । चिकित्सायाम्-- पुनर्ज्वरे समुत्पन्ने क्रिया पूर्वज्वरानुगा । उभयत्र चरकः । अर्थान्तरेपि दृश्यते । आह च गर्भाधानादिसंस्कारेपिं वर्तत इति । स गुरुर्यः क्रियां कृत्वा वेदमस्मै प्रयच्छति । और्ध्वदेहिकेपि प्रयुज्यते अतो न रोदितव्यं हि क्रियाः कार्याः प्रयत्नत इति ।

          करोतेर्व्याक्रियां नूतनां निर्मितां स्वमनीषया।
          अर्पयित्वेश्वरे प्रह्वः प्रमना विरमाम्यहम् ॥ . "
          सतोऽत्र प्रांर्थये गुण्यान्गुणंगृह्यान्विमत्सरान् ।
          सानुग्रहं प्रवृत्तास्ते विमृशन्तु क्रियामिमाम् ।

इति व्यवहारनिरूपणीयः पूर्वार्द्धः।

_____

अथोत्तरार्द्धः

 अथेदानीं प्रायेणार्वाचां क्वचिच्च प्राचां वाचि लक्ष्यमाणान्व्यवहरव्यति- क्रमाननुक्रम्य तत्परीहारान्सोपपत्तिकं निर्दिशामो येन सुरगवीयं व्यवहारानुपातिनी निर्दूषणा स्यात्।

१-काऽपि न काप्यर्थवती वाऽनर्थिका वा चेष्टाऽवश्यं क्रियते प्राणिभिः | एष
  निसर्गः|
२ -मनुष्यो हैि ब्रह्मणा सर्वमर्थजातं तद्धितायैव सृष्टमिति मनुते ।
इयमस्याहोपुरुषिका ।
३-कोऽपि क्रियानेव दुष्टः स्याद् भगवन्तं त्रातारमुपस्थितश्चेत् तरति संसारार्णवम्।
४-सावित्र्या तुल्यगुणाऽऽदर्शपत्नी भवतीति प्रायो वादः।
५-कुलूतस्य कम्बला गुणाढ्याश्चिरतरमुपयोज्या भवन्ति ।
६-ह्यः सायं महती वर्षाऽभवत् ;'आप्लाव्यं’ च किमंप्यभवन्नद्याः ।



१–कापीति विशेषणद्विरुक्तय नार्थः । नशब्दधश्चाघिको वाक्यार्थविपर्यासकृत् ।
  क्रिययाभिसम्बन्धात् । वाक्ये पृथक् श्रूयमाणो नञ् क्रिय्यैवाभि सम्बध्यत
  इति नियमांत् । तस्मात् काप्यर्थवत्यनर्थिका वेति वक्तव्यम् ।
२-स्वहिताय मद्धितांयेति वा वक्तव्यम् । तदिति परोक्षे विजानीयादिति
  वचनात्तच्छब्दः परोक्षभूतमर्थं परामृशेन्न प्रत्यक्षं संनिहितम् । प्रत्यक्षश्च
  मनुष्यस्य स्वः। तेन स्वशब्देनोत्मानं निर्दिशेद् अस्मच्छब्देन वा । तस्य
  हिताय तद्धितायेति वोच्यमानेऽसंनिहितस्य कस्यचिद्धितायेति विज्ञायेत ।
  तन्मा विज्ञायीति यथोक्तं निर्देष्टव्यम् ।
३-न ह्यपाधेरुपाधिर्भवति विशेषणस्य वा विशेषणम् इति भाष्योक्तेः कियानिति
  दुष्ट इत्येतन्न विशिष्यात् । न चैषा संस्कृते भाषितभङ्गिः । विप्रदुष्टोऽपि
  चेत्स्यात्, सुदुराचारोऽपि चेत्स्याद् इति वा वक्तव्यम्।
४-तुल्यगुणा स्त्री पत्नीनामादर्शो भवतीत्येवं व्यवहारोऽनुसृतो भवति । आदर्शो
  हिं दर्पणो भवति । आदर्श इवादर्श इत्यौपमिकः प्रयोगः ।
५-कुलूता नाम क्षत्रियाः, तेषां निवासो जनपदः कुलूताः । यथाऽङ्गाः, बङ्गाः,
  कलिङ्गाः । तेन कुलूतानामिति वक्तव्यम् ! एकवचनं तु दुष्टम् ।
६-वर्षा इति प्रावृडर्थे स्त्रियां बहुत्वे प्रयुज्यते न चेह प्रावृङर्थः संगच्छत
  इति महती वृष्टिरिति वक्तव्यम् । वर्षशब्दो वा पुन्नपुंसृकयोः प्रयोक्तव्यः ।


१. स्वभावः । २• आप्लाव एवाप्लाव्यम् ।

 ७–तस्मा अहमेकाशां त्रिंशतं रूप्यकानदाम् ।
 ८-षड् वर्षाणि पूर्वमहं भवन्तं काश्मीरेष्वपश्यम् ।
 ९-मध्यदिनार्कसन्तप्तः स:प्रच्छायशीतलं तरुतलमाश्रितः ।
१०-देवश्चेद् वृष्टः, सम्पत्स्यन्ते. शालयः ।
११-पञ्चविंशतिः शतानि वत्सराणामतीतानि यदा गौतमवंशे सिद्धार्थं जज्ञे ।
१२–मन्त्रिभिरसकृत्संमन्त्र्य बिग्रहीतुमनीशा वसुमतीशाः निदानतः सन्धिपात्रं लिखन्ति ।



 ७–त्रिंशच्छब्दोत्र संख्येये वर्तते । संख्येयं च रूप्यका: । तथापि सख्यां सर्वस्य भेदिकेति वचनाद् एकादशाधिकेनैकादशोत्तरेण वा विशेषणेन त्रिंशत्संख्यां विशेष्यत इति तेन तद्गते लिङ्गसंख्ये उपादानीये इति एकादशाधिकामेकादशोत्तरां वा त्रिशतं च रूप्यकानिति निर्दुष्टं स्यात् । व्यवहारस्त्वस्य नास्ति ।एकादश च त्रिशतं च रूप्यकानिति वा व्यासेन बक्तव्यम् । एकादशं
शत मेकादशं सहस्रमिति च शक्यते वक्तुम् । तदस्मिन्नधिकमिति दशान्तङ्कः ।
शतसहस्रयोरेवेष्यत इत्युक्तम् । तेनं प्रकृते डप्रत्ययस्याप्रसङ्गः ।
८-इतो वर्षषट्केऽहमित्यादि व्यवहारानुपातीति पूर्वार्द्धे वितत्य निदर्शितमिति तत एवावधार्यम् ।
 ९–मध्ये भवं माध्यन्दिनम् । मध्यो मध्यं दिनण् चास्मादिति वार्तिकेन.माध्यन्दिनमिति सिध्यति । तेन मध्याह्नर्कसन्तप्त इति वाच्यम् । मध्यन्दिनशब्दोऽप्यस्ति शिष्टप्रयुक्तः, मध्यन्दिनसवनादिषु दर्शनात् । तेन मध्यन्दिनार्कसन्तप्त इति वा वाच्यम् ।
१०-सम्पन्ना शाल्य इति वक्तव्यम् । कुत इति चेल्लोक: सम्पत्स्यन्ते शालय इत्येवं जातीयकं व्यवहारं न मृष्यतीति ।
११-यत्तदोर्नित्यः सम्बन्ध इति यदा व्यतीतानि तदेति सम्बन्धः ( एवं प्रतिपद्यमानमपि वाक्यं नेष्टार्थमर्पयति किन्तर्हि विपरीतमर्थमेव गमयति ) । यदि प्रकृते विक्रमवत्सराः खिष्टवत्सरा वाऽभिप्रेताः, ध्रुवं वत्सरविशेषा एव विवक्षितास्तदाऽद्भक्तनोऽयं सिद्धार्थ इत्यापद्यते । तेन इतः पञ्चविंशतौ शतेषुवत्सराणामित्येवं वक्तव्यम् । अत्रार्थे विस्तरस्तु पूर्वार्द्धे द्रष्टव्यः ।
१२-निदानं वादिकारणमित्यमरः । 'अन्तार्थे तु नायं क्वापि ' प्रयुक्तः संस्कृते, पचरंन्त्यां हिन्द्यां तु तत्रार्थे कामं प्रयुज्यते ।


१. अन्ते इत्यभिप्रैति ।

१३–विवक्षितमर्थमुपनिबध्नता च्छात्रेण स्वशब्दानामर्थो न कार्यः ।
१४-सिद्धहस्तोऽयमोषधिनिर्माणेऽगदङ्कारः
१५–आत्मतृप्तस्य मानवस्य बाह्यानामर्थानां कलयाप्यावश्यकता
   नास्ति ।
१६-निर्धनस्य निधनस्य च का विशेषतेति वेत्य चेत्कामं निर्बृहि ।
१७–नवोढोऽयं युवाऽतिमात्रमनुरज्यते वध्वाम् ।
१८-श्रीरामस्य जीवने बह्वयः शिक्षा मिलन्ति ।
१९-पूर्णिमायां एषा रजनी । अहो अभिव्यक्ता चन्द्रिका
   तरुच्छिद्रप्रोत किमपि
   रमयत्यन्तरङ्गम् ।
२०–सहस्रदिव्ययुगांनामेकं ब्राह्मं दिनं भवति ।



१३-अर्थं ब्रवीत्यर्थं वक्तीत्यादेः प्रायशो दर्शनात् सर्वधात्वर्थानुवाद्यपि
   करोतिनेंह
   प्रयोगमर्हति ।
१४–ओषध्यः फलपाकान्ताः सस्यविशेषः । न हि तां निर्मीयन्ते ।
   औषधं तु
   निर्मायते |ओषधिसङ्करः स भवति । तेनौषधनिर्माण इति
   वक्तव्यम् ।
१५-अवश्यंभाव आवश्यकम्। आवश्यकेनैव
   मोंवस्योक्तत्वात्तल्प्रत्ययेन नार्थः ।
   दुर्लभश्चायमावश्यकताशब्दः संस्कृते वाङ्मये । प्रकृतेऽपेक्षाशब्द
   एवापेक्ष्यते।
१६–विशेष इति भावे घञ्न्तः । तेनापरो भावप्रत्ययो नापेक्ष्यते ।
   तस्माद्विशेषतेत्यपशब्दोऽव्यवाहार्यः।
१७–स्त्री नामोढा भवति । पुरुषस्तु वोढा । वहनक्रियायां पुरुषस्य
   कर्तृत्वं स्त्रियाश्च
   कर्मत्वं प्रसिद्धम् । परिवेत्ताऽनुजोऽनूढे ज्येष्ठे
   दारपरिग्रहादित्यत्रानूढै
   इत्यत्रोत्तरपदलोपो द्रष्टव्यः। अनूढोऽनूढ़दार इत्यर्थः । एवं
   परिणयनक्रियायमपि
   द्रष्टव्यम् । तेन सद्यः कृतदारः अचिरकृतविवाह इति वा
   वक्तव्यम् ।
   तत्राचिरं कृतो विवाहो येनेति विग्रहः ।
१८-नेदं संस्कृतम् । संस्कृताभासं ह्येतत् । श्रीरामचरिते बहु
   शिक्षणीयमस्तीत्येवं
   वक्तव्यम् ।
१९–अद्य. पूर्णिमेति वक्तव्यम्। पूर्णिमा पौर्णमासीति च
   शुक्लपक्षान्त्या तिथिर्भवति ।
२०-सहस्रं दिव्ययुगानीति वक्तव्यम् । अष्टादश निमेषास्तु काष्ठा
   त्रिंशत्तु ता
   कला इत्यादिषु संज्ञासंज्ञिनोः सामानाधिकरण्येन
   प्रयोगदर्शनात्। षष्टीतुः
   दुरुपपादा । क्वचित् संज्ञासंज्ञिभावमविवक्षित्वा करणे तृतीयां
   प्रयुञ्जते वाचि
   कोविदाः, द्वौ द्वौ मार्गदिमासौ स्याद्दतुस्तैरयनं त्रिभिरित्यमरे
   यथा ।
   अत्रभवतीति शेषः ।


१. वैद्यः।

२१-आचरित एष पन्था नूनं भव्याय भविंष्यंति
   भावुकांनां
२२-यो हि सीता रामं परिणिनायेत्याह न स
   परिणयशब्दार्थमञ्जसा वेंद
२३-राजवृत्तं बुभुत्सुना प्रजापालनादिरूपकर्तव्यकलापो वेद्यः ।
२४-तुच्छान्यपि तृणानि गुणत्वमापन्नानि मत्तदन्तिनोपि
   बन्धहेतुर्भवन्ति ।
२५-सर्वे तेषां मनोरथास्तमसि दृष्टिरिंव नश्यन्ति।
२६-कामलोभमदमात्सर्यादयो ह्यन्तःशत्रवो
   विग्रहिणामं
२७-चेत्कृष्णं नंस्यसि स्वर्ग यास्यसि ।
२८-जन्मजन्मान्तरकृतान्येनांसिं न फलविधुराणि भवन्ति ।
२९-न यूनां गोचर मन्तरेण सुखं नाम ।



२१-भावुकशब्दः सहृदयार्थे न कश्चित् संस्कृते वाङ्मये प्रयुक्तपूर्वः ।
   भावुकं
   कल्याणं भवति । तथा चामरः-भावुकं भविकं भव्यं कुशलं
   क्षेममस्त्रियामिति
   पठति।
२२–परिणयनम् हि पुरुषकर्तृकम् भवति स्त्रीकर्मकं च । पुरुषः
 परिणेता भवति,
   स्त्री परिणीता । अग्नि परितो नयनं परिणयनम् । आदौ
   परिणयो विवाहाङ्गमभून्न
   तु सर्वो विवाहविधिः । तथा च श्रीरामायणे प्रयोगः--अगृह्णां
   यच्च
   ते पाणिमग्निं पर्यणयं च यत् ॥ (२|४२|८) } इति ।
२३-प्रजापालनादिकर्तव्यकलाप इति वक्तव्यम् । रूपशब्देन
   गडुभूतेन नार्थः ।
२४-हेतुश्च हेतुश्च हेतुश्चेति हेतवः। तृणानि बन्धहेतवो भवन्तीत्येव
   शोभनम् ।
२५-तमसि दृष्टय इवेति वाच्यम् । उपमानोपमेययोर्लिङ्गवचनयोः
   साम्यमिष्यते ।
   दृग्वचनः पुल्लिङ्गशब्दो नास्तीतिः लिङ्गभेदस्तावद्
   दुष्परिहरः, वंचनं तु
   शक्यं समीकर्तुम् ।
२६–विग्रहशब्दः शरीरवचनोस्तीति नैतावता विग्रहिशब्दोपि
   शरीरिवचनः समस्तीति
   युज्यते कल्पयितुम् । तत्रार्थं तत्प्रयोगादर्शनात् ।
   विग्रहवच्छब्दत्वा कारवान्
   मूर्तिमान् शरीरबद्ध इत्यर्थे कामं प्रचरति ।
२७-चेच्छब्दं वाक्यादौ न प्रयुञ्जते शिष्टास्तस्मात्कृष्णं
   चेन्नंस्यसीत्यादि वक्तव्यम्।
२८–अनेकजन्मकृतानीत्येवं वक्तव्यम् । प्रस्तुते समासे पूर्वपदं
   जन्माऽविशेषितं
   तिष्ठति, इदमाऽनिर्देशात् । इदंजन्मजन्मान्तरेत्यादि वा
   वक्तव्यम् ।
२९-इन्द्रियेणासम्बद्ध इन्द्रियेणासहचरितो वा गोचरशब्दो विषयार्थे,
   लक्षणयां
   तदुपभोगे वा प्रयुक्तो न दृश्यते । केवलस्य गवादन्यां
   प्रवृत्तिदर्शनाद् इति
   परिहार्यः ।


१. सहृदयानामित्यर्थे विवक्षति । २. तत्वतः, यथार्थ्येन । ३.देहिनामित्यर्थे प्रयुक्तम् ।

४. इन्द्रियार्थम् ।

३०-पतिपातननिर्भरा स्त्रीहामुत्र च नश्यति । ।
३१-पदार्थविद्यां व्यज्ञास्यश्चेत्तर्हि नैवमज्ञवदवक्ष्यः ।
३२-विरहदारुणवेदनाविदारितहृदयाः कामिनो न सहन्ते
   सर्वजनमनोभिरामामपि चन्द्रिकाम् ।
३३-स एष पुरुषः कतिकृत्वः प्राणिति चापानिति चाहोरात्राभ्याम् ।
३४-छात्रत्रयेभ्यो विभज्यन्तामेतानि फलानि ।
३५-सर्वेषु जीवितेषु पुरुषेष्वात्मार्थे मा न भूम
   भूयास्मेत्याशीरवस्थिता.।
   तामिमामभिनिवेशमाचक्षते शास्त्रकाराः ।
३६-महात्मभिरपि सममनर्थकं द्विषन्ति मलीमसधियः ।
३७-केचिन्मन्दास्त्वरिततंरमध्ययनात्परिग्लाना
   गुरुकुलात् समावर्तन्ते ।



३०-पतिंपतनैकरतेति युज्यते वक्तुम्। निर्भरशब्दोऽतिशये सातिशये
   च वर्तते ।
३१-पूर्ववाक्ये चेच्छब्दप्रयोगे उत्तरवाक्ये तर्हिशब्दो न प्रयुज्यते
   इति वाचो
   व्यवहारः । तमतिक्रामन्दुष्येदिति सोऽनुसर्तव्यः।
३२-दारुणविरहवेदनाविदारितंहृदया इत्येवं समासो निर्दोषः स्यात्।
   विंरहे वेदना विरहवेदना, सेदानीं भूयो विशिष्यते दारुणेति ।
   विरह इंति स्वरूपावच्छेदे संनिपत्योपकारकमिति संनिकृष्टं
   विशेषणं, दारुणेति चारादिति विप्रकृष्टम्।
३३-अहश्च रात्रिश्च समाहृते अहोरात्रः । तेनैकवचनं प्रयोक्तव्यम् ।
   अहोरात्रेणेति
   वक्तव्यम् ।
३४-छात्रत्रयायेति वक्तव्यम् । त्रयेभ्यश्छात्रेभ्य इति वा । त्रयवयवा
   अस्येति
   त्रयम् | त्रयशब्दः संख्यायां संख्येये च वर्तते । यदा
   संख्यायां वर्तते
   तदायमेकवचने प्रयुज्यते ।
३५–संर्वेषु जीवत्सु जीवेषु वा पुरुषेषु इति वक्तव्यम् ।
   वर्तमनप्रत्ययेन शत्राऽयमर्थो
   युज्यते वक्तुं न तु भूते निष्ठाप्रत्ययेन । अच्प्रत्ययान्तेन
   जीवशब्देन वा
   वक्तव्यंः । न च जीवितशब्दोऽत्रार्थे प्रयुक्तपूर्वः । नपुंसके भावे
   त्वस्य बहुलः
   प्रयोगः ।
३६-द्विष अंप्रीताविति सकर्मकः । तथा च.कुमारे प्रयोगः ।
   द्विषन्ति मंन्दाश्चरितं
   महात्मनामिति । तेन महात्मनो द्विषन्तीति वक्तव्यम् ।
३७-पर्यादयो ग्लानाद्यर्थे चतुर्थेति । वचनाल्लिङ्गाद् ग्लायतिना
   योगे चतुर्थी
   व्यवहारानुपातिनी भवति । तेनाध्ययनाय परिग्लाना इति
   वक्तव्यम् ।


१. मूढाः ।

३८-किं न पश्यन्ति तत्र भवन्तो भवन्तोऽक्षोदक्षमो'यमर्थ इति ।
३९-अहो नवमल्लिकासंसर्गी शोभनगन्धी प्रातस्तनः समीरो विनोदयति नः परिखेदम् ।
४० सोऽवनिपो मर्यादाव्यतिक्रम्य नित्यं कोशानव्ययीत् तेनासम्मतोऽभूत्प्रजानाम्।
४१-स्वसांसारिकाणि सुखानि तृणवत् त्यक्त्वा स महाभागो जनताया उपक्रियायामरमत।
४२–समयोऽद्य जलदागमस्येति सर्वं स्थगितमम्बुदैरम्बरम् ।
४३-देवदत्तोऽवरतो द्वादश वत्सरान् विप्रावसत् ।



३८-तत्र भवान् इति पदसमुदायः पूज्यवचन इति काव्यनाटकादीनां व्याख्यातार:। एतमर्थमाश्रित्य केचिदाधुनिकास्तत्रभवन्त इत्यतोऽनन्तंरं भवन्त इति
   सर्वनाम् प्रयुञ्जते । सैषा तेषामसमीक्ष्यकारिता । साहित्ये तु ततः परं नाम्न एव प्रयोगो दृश्यते । तत्र भवान् कालिदास इत्यादौ यथा । तत्रपदसंनिधाने
   पूज्यार्थाभिधानेऽपि भवच्छब्दः सर्वनामत्वं न जहाति । सर्वनाम्नो द्विरुक्तिस्तु न दृष्टाऽन्यत्र वीप्सायाः । तेन द्वितीयं भवन्त इति पदं त्याज्यम् ।
३९-नवमल्लिकया संसर्ग इति नवमल्लिकासंसर्गः, सोऽस्यास्तीतिः नवमल्लिकासंसर्गी । शोभनों गन्धोऽस्येति शोभनगन्धः। इनिना नार्यः ।
४०-व्यय गताविति भ्वादिः। तस्माल्लुङि अव्ययीदिति रूपम् । वित्तसमुत्सर्गश्वार्थो विवक्षितः । तं नायमलं गमयितुम् । तेन व्यय वित्तसमुत्सर्गे इति चुरादेर्लुङि अवव्ययत् इति वक्तव्यम् ।
४१-सांसारिकाणि स्वस्य सुखानीति वक्तव्यम् । स्वशब्दस्य सुखानीत्यनेन सम्बन्ध इति तेनैव समसनमर्हति न सांसारिकाणीत्यनेन । समासार्हत्येप्यसमास एव वरम्।
४२-अद्येत्यधिकरणवृत्त्यव्ययम् , तेन नेदं समय इति प्रथमान्तेन समनाधिकरणम्। समयोऽयं जलदांगमस्येति तु युज्यते । अद्य जलदागम इति च युज्यतेतराम् ।
४३-यंद्यप्यवरत इत्यत्राद्यादित्वात्सार्वविभक्तिकेन तसिना रूपसिद्धिः सुशका,अवरतोऽवरानित्येवं व्याख्यानं च सुकरं तथापि प्रकृतेऽर्थासङ्गतिर्दुष्परिहरा। न ह्यवरान् द्वादशवत्सरानित्युक्ते विवक्षितोर्थः प्रतीयते । भवन्तु नाम केचन ( द्वादशसंख्याकाः) अवरे वत्सराः केचिच्च परे, तैरिह नार्थ:। तेन द्वादशावरान् वत्सरानिति वक्तव्यम् । समासेन तु संख्याया द्वादशात्मिकाया
   अवरत्वं गम्यते । अयमेव च' वक्तुरभिप्रायः । तत्र द्वादश अवरे यत्र तानिति विग्रहः समासेनैवंविधमर्थमभिदधते शिष्टाः प्रायेण । तथा च प्रयोगः त्र्यवरा परिषञ्ज्ञेयेति ( मनु०.१२।११२ )



   १. परीक्षानिकर्षं न सहते । २. अपाकरोति, दूरे करोति । ३. छन्नम् ।

४४–वत्स कथय किं तवायुः । अङ्ग.नाहं ज्यौतिषिकः ।
४५-तत्प्रेमरसपूरेण पूरितो मम हृद्ह्रदः। काव्यकल्पनकुल्यानां स्यन्दते कैतवादिव ।
४६-द्वाभ्यामर्धाभ्यां रूप्यकं भवति ।
४v-सर्वस्वमाहुतिमाददिरे राष्ट्रसेवापरायणाः ।
४८-महात्मनिर्दिष्टेन मार्गेण देशस्य भूमानं चिन्तयिष्यन्ति चेन्नेतारः फलिष्यन्तिं
   नो मनोरथाः ।
४९–स्वराज्यं जन्मसिद्धो मेऽधिकार इति श्रीतिलकः प्रत्यजानीत ।
५०-श्रीराजेन्द्रश्च राष्ट्रपतिः स्थितधीः स्थिरमनाश्चाभूदित्युभ्युपगमो लोकस्य ।
५१-शरणं तेऽहमुपागत इति त्रायस्व मां विभो ।



४४-आयुर्जीवितकाल इत्यमरः । तेनायुः पृष्टः कश्चिन्नाहं ज्यौतिषिक इति
     युक्तमाह । अत्र प्रष्टाऽपराध्यति न प्रतिवक्ता । तेन वयः प्रच्छनीयम्
     नाऽयुः ।
४५-काव्यकल्पनकुल्या एव कैतषमिति रूपकम् । काव्यकल्पनकुल्याभ्यः कैतवादिति
    व्यस्तरूपकसमाश्रयेण वक्तव्यं समासेन वा मयूरव्यंसकादिना
    काव्यकल्पनकुल्याकैतवादिति रूपेण ।
४६-द्वौ द्वौ मार्गादिमासौ स्यादृतुस्तैरयनं त्रिभिरित्यमरे
   सामानाधिकरण्यवैयधिकरण्याभ्यां संज्ञासंज्ञिनोर्निर्देश
   इतीहाप्युभयथा शक्यं निर्देष्टुम्--द्वाभ्यामर्धाभ्यां द्वावर्धौ वेति ।
   तेन नात्र कश्चिद्दोषः ।
४७-आङपनेयः । ददिर इति वक्तव्यम् । आदानं ग्रहणं भवति न तु
   वितरणम् ।
४६-भूमेति वहोरिमनिचि रूपम् | बहुत्वं चार्थः । भूतिमिति तु वक्तव्यम् ।
४९-स्वर् इति स्वर्गनाम । तस्य राट्, तत्र राजत इति वा स्वाराड् इन्द्रः । तस्य
   भावः कर्म या स्वाराज्यम् । प्रकृते सोऽर्थो न विवक्षितं इति स्वस्य राज्यं
   स्वराज्यमित्येव साधु ।
५०-स्थितधीः स्थिरमना इति समानार्थौ शब्दौ । समानार्थौ च न सह प्रयुज्येते
   इत्येकतरः शक्योऽप्रयोक्तुम् ।
५१-शरणं गृहरक्षित्रोरिति रक्षितृवचनः शरणशब्दः। तेन त्वां शरणमुपागतोऽहमित्येवं
   वक्तव्यम् ।



१. इत्ययं सम्बोधने । २.अर्धशब्दो रूप्यकार्धस्य रूढिरिति पूरणार्द्धाट्ठन् (५|१|४८ )
   इत्यत्र काशिका ।. ३. भूतिं विवक्षति ।

५२-दीर्घनिद्रायां प्रसुतोऽयं-देशः कदा नु जागरिता ।
५३-अहो सुन्दरी प्रकृतिः । सुवासिनी वधूरिव प्रियङ्करैषा ।
५४-य इमे मनागपि परकृतमपकृतं न सहन्ते तेऽहिंसाव्रतिनः
   कथमुच्यन्ते ।
५५–क्षमा विक्रमस्यालङ्कारः परमोत्तम इति भण्यते ।
५६-इदं नृशंसं कर्म यत्कदर्थनं कुशानाम् ।
५७-प्रतिशोधभावनासंम्पर्केणैव दुष्यत्यहिंसा ।
५८–न हि हिंसयैव जातु कश्चिज्ज्यायसो हिंसकात् सिद्धेिमवाप्नोति ।
५९-नैराश्यं परमं सुखसित्यद्यापि निष्क्रियं वचनं मुनीनाम् ।
६०-न द्विष्याद्भूतमात्रेण महाजनेन जनेन वा ।



५२-दीर्घं निद्राणः । (चिरं प्रसुप्तः ) इति वक्तव्यम् ।.दीर्घनिद्रायामिति सप्तमी
    बाढं दुरुपपादा। यदि चावश्यं सप्तमी प्रयोक्तव्या तदा दीर्घनिद्रायां
    वर्तमान इति वाच्यम् ।
५३-प्रकृतिरिति जगन्निदानं यत्साङ्ख्याः प्रधानमित्याचक्षते । सा चात्मेव
    सूक्ष्माऽतीन्द्रियेति न दृष्टेर्गोचरः। यद् दृश्यते सा विकृतिः, स सर्गः । तेन
    अहो सुन्दरः सर्ग इति वक्तव्यम् ।
५४-अहिंसायां व्रतमहिंसाव्रतम् । तदस्त्येषामित्याहिंसाव्रतिन इति मत्वर्थीय इनौ
    सिद्धम् । व्यधिकरणबहुव्रीहिस्वीकारे त्वहिंसाव्रता इत्येव शोभनम् ।
५५-परमोत्तमे इति पर्यायौ। तत्पर्यायाणां पर्यायत्वं यत्पर्यायेणाथं ब्रुवन्तीति ।
    आतश्च पर्यायवचना। इत्युच्यन्ते । तेन परम इति वोत्तम इति वा भणितव्यम् ।
५६-नॄन्शंसति हिनस्तीति वृशंसो घातुक उच्यते । (धातूनामनेकार्थत्वा
    च्छंसतिरिह हिंसायां वर्तते ) । इदं च पुरुषविशेषणं भवति न कर्मविशेषण
    मिति व्यवहारः । तेन नृशंसस्य कर्मेति वक्तव्यं नृशंसत्यमिति वा ।
५७-यद्यपि वैरशोधनं वैरनिर्यातनमित्यनर्थान्तरं प्रसिद्धं तथापि प्रतिशोधशब्दः
    शोधनशब्दो वा तत्रार्थेऽप्रसिद्ध इति परिहार्यः ।
५८-ज्यायसि हिंसके सिंध्यतीत्येवं वक्तव्यम् । ज्यायांसं हिंसकमासाद्येत्यर्थमाश्रित्य
    तु सर्वे यथास्थितं समञ्जसम् । तत्र ल्यब्लोपे कर्मण्युपसंख्यानमिति पञ्चमी ।
५९-अननुष्ठितमननुवृत्तमनाचरितमिति वा वक्तव्यम् । क्रिययांऽसहचरितमिति
    वा । निष्क्रियं निश्चेष्टं भवति ।
६०-द्विष अप्रीताविति संकर्मकः । तेन न भूतमात्रं द्विष्यादिति वक्तव्यम् ।
{{rule|15em|align=left}
१. वैरशोधनमभिप्रैति । २. अननुष्ठितमिति विवक्षति ।

६१-प्रजाया अपत्यनिर्विशेषं शासनमनुशासति शास्त्रकाराः
६२-परार्थे प्राणान् सिसृक्षवो लोके नृतमा मताः ।
६३-परमार्थप्रियोऽसौ कस्य न प्रियः ।
६४-इतः प्राग्घोरे सन्तमसे निलीनाः कठोरेषु बन्धनेषु बद्धा
   आर्याश्चिरमसीदंस्त्रातारं चाक्रन्दन् ।
६५-न वयं परकृतानां सुकृतैनसां प्रतिभुवः।
६६-यथा द्विरेफोऽन्तरारामेषु भ्राम्यन्पुष्पाणां मध्ववचिनोति तथा संत्यं मार्गिता
   जनः सम्प्रदायानां सत्यमादत्ते ।
६७-न वाचां विषयो धर्मः क्रियात्मक एव स भवति ।
६८-अयं पन्थाः समाजस्य व्यक्तेश्च समं हिताय भवति ।
६९-उपोषणे रत ईश्वरसंविध उपासीनः शक्तिमनल्पां लभते ।



६१–जनवचनः प्रजाशब्दः प्रायेण बहुवचने प्रयुज्यते । सन्ततिवचनस्तु
    यथापेक्षमेकत्वेऽपि दृश्यते प्रजाः प्रजानाय पितेव पासीति कालिदासे यथा।
६२-सृज विसर्गे इत्ययं धातुर्विपूवः समुत्पूर्वो वा त्यागे प्रसिद्धो न केवल
    इति विसिसृक्षवं इति वक्तव्यम् ।
६३-परार्थेप्रिय इति वक्तव्यम् । परमार्थस्तु भूतार्थो भवति, तत्त्वमिति यावत् ।
    परमः पुरुषार्था वा परमार्थः यं परमं पुमर्थमाहुरपवर्गम् । स च प्रकृते
    नापेक्ष्यते ।
६४- निलीना इति प्रच्छन्नस्तिरोहिता उच्यन्ते । प्रविष्टा अवगाढा इति वा
    वक्तव्यम् । सन्तमसमित् िच द्वितीयान्तं प्रयोज्यम् ।
६५- सुकृतदुष्कृतानामिति वक्तव्यमुपक्रमसाम्याय ।
६६– अस्ति कारकत्वविवक्षेति पुष्पाणि पुष्पेभ्यः इति वा वक्तव्यं सम्प्रदायान्
    सम्प्रदायेभ्य इति च । सम्बन्धाचिख्यासा तु नातीव युक्तेति षष्ठी नोपपद्यते ।
    गुरुपूर्वानुक्रमेण शिष्यप्रशिष्येभ्यो दीयमान उपदेशः संम्प्रदायो भवति । प्रकृते
    तु मतविशेषाभिनिविष्टानां समुदायो विवक्षितः, तेन सम्भदायशब्दोंऽस्थाने ।
६७–न हि शास्त्रचोदनाया अभ्युपगममात्रं धर्मः, तदनुष्ठानं तु स भवतीत्येवं
    वक्तव्यः । यथास्थिते तु वागतीतोर्थो धर्म इत्यर्थः प्रतीयते ।
६८-समाजस्येत्यपनीय समष्टेरिति वक्तुमुचितम् । अनन्तरं भक्तेरित्युक्तत्वात् ।
    व्यक्तिसमष्टयोश्च साहचर्यस्य प्रसिद्धत्वात् ।
६९-ईश्वरमुपासीत इत्येव वक्तव्यम् । सविधस्योपेनैव गतार्थत्वात्



१- मुमुक्षव इत्यर्थं प्रयोगः । २- अत्र ताच्छील्ये तृन् ।

७०-ये नाम जगति दुर्विधा दुर्गता दरिद्रिा निःस्वाश्च सन्ति तेषां देयत ।
७१-यो हि प्रतीक्ष्यान्प्रतीक्षते स सुखमनुत्तमं लभंते ।
७२-अन्धं तमः प्रविष्टः पुमान् पुरेशां प्रकाशाय याचेत।
७३-इमाः प्रान्तभाषा राष्ट्रभाषया नेष्यन्ते स्वपदात् प्रच्यावयितुम् ।
७४-ब्रह्मचर्यमुपस्थेन्द्रियनियाम' एवं न भवति, सर्वेन्द्रियविजयः स उच्यते ।
७५-दम्पती परिणीतायां दशायां यदि संयमेन तिष्ठतस्तदा
  ब्रह्मचारिणावेव भवत इति शास्त्रम् ।
७६-आतुर्यमायतिरसंयतेरिति वैद्याः ।
७७–स सर्वं जीवनं दरिद्रेभ्योऽन्नमदात्।
७८–व्रातीनानां दारिद्रयपरितापः प्राचीनः श्रूयमाणः
   सनातनश्च दृश्यमानः ।



७०-निःस्वस्तु दुर्विधो दीनो दरिद्रो दुर्गंतोऽपि स इत्यमराद्
   दुर्विधादयः पर्यायवचना इति न युगपत्प्रयोगमर्हन्ति ।
७१-प्रतीक्ष्यः पूज्य इत्यनर्थान्तरम् । प्रतिपूर्वस्येक्षेस्तिङि तु न पूजनमर्थः क्वचिद्
    दृश्यते । तेनाभिपूजयतीति वक्तव्यम् ।
७३-प्रकाशं याचेतेत्येवंन्यासो निर्दोषः स्यात् । ।
७३-प्रान्त: सीमान्तो भवति न तु प्रदेशो जनपदो वा विषयो वा । हिन्दीमनुसरंस्त्वेवं प्रयुङ्क्तेऽप्रगल्भः ।
७४-स इति विधेयप्राधान्यात्पुस्त्वेन निर्देशः । तेन नात्र कश्चिद्दोषः ।
७५-जाया च पतिश्चेति दम्पती भवतः । तयोरेकः परिणेता भवति, 'परा तु परिणीता । परिणीता दशेत्यपार्थकम् । विवाहपूर्वकमेव दाम्पत्यमित्यव्यभिचारात्परिणीतादि विशेषणमंनर्थकम् । कामं गृहस्थौ गृहिणौ वा सन्तावपीत्येवं विशेषणयोगो न वार्यते ।
७६-आयतिरुत्तरकालो भवति प्रभावोऽपि । तेन प्रकृते फलं विपाकः परिणतिरिति वा वाच्यम् ।
७७-जीवनं जीवितं प्राणो भवति । न तु जीवनकालः। आयुर्जीवनकाल इति कोषात्सर्वमायुरिति वक्तव्यम् ।
७८-प्राचीनः श्रूयते, सनातनश्च दृश्यत इति वक्तंव्यम् । लटः शतृशानचावप्रथमासमानाधिकरणे इत्यप्रथमान्तेन सामानाधिकरण्ये लटः शतृशानचावादेशौ विहितौ । तेनेह न प्रसज्येते । विस्तरस्त्वत्रार्थे पूर्वार्द्धे द्रष्टव्यः ।



१. पूजयतीत्यत्रार्थे प्रयुक्तम् । २. नियमः। ३. शरीरायासंजीविनाम्

७९–अद्यापि. सामयोऽसाविति निशम्य चिन्तितं मे चेतः ।
८०-इयं-हृदयसंकीर्णता नाम । नेयं सम्भाव्यते त्वयि ।
८१ -एकसत्तात्मके राज्ये प्रजाः स्युरुपपीडिताः।
८२–प्रीत्यां च सहयोगे च राष्ट्रस्य संश्रयो भवति ।
८३-यत्र प्रजायाः प्रजया प्रजायै च शासनं भवति तद्रामराज्यमिति तद्विदः ।
८४-न तत्र समाजभयं न शासितृभयमिति सुखैकवसतिस्तद्धाम भवति ।
८५-सततं सहसंवर्धिताः सहोषिताः सतीर्थ्याश्च वयमिति भवत्स्वस्मासु च को विशेषः ?
८६-तदपि क्रदनं भवत्यत्राह्यं च यत्रान्यायार्जितं किमपि संगतं भवति ।



७९-चिन्ता-सञ्ज्ञाताऽस्येति चिन्तितमिति शक्यव्युत्पत्तिकोप्ययं शब्दोत्रार्थं पूर्वैः
    सूरिभिरप्रयुक्त इति संचिन्तमिति वक्तव्यम् । चिति स्मृत्यामित्यस्मात् क्ते तु
    चिन्तितं में चेत इत्यस्य चिन्ताकर्म चिन्ताविषय इत्यर्थः स्यात् । सकर्मकः
    स धातुरिति कर्मणि निष्ठा वेदितव्या । कर्मणोऽविवक्षायां वा भावे निष्ठायां
    चिन्तितं मे चेतसेति साधु स्यात् ।
८०-संकोचे क्षुद्रतायां वा संकीर्णतेत्यशक्तम् । संकीर्णे संकरवृत्प्रकीर्णमिति
    यावत् । लोकभाषायां तु कामं क्षुद्रुतां संकीर्णतां व्यवहरन्ति ।
८१-एकसत्तात्मक इति पदे सत्तापदं शक्त्याभिधायीत्यभिमानः । संस्कृते
    नायमस्यार्थ इत्यभ्युपगमः । तेन चिन्त्योयं व्यवहारः । एकाधिकारिणि राज्य
    इत्येवं न्यासोऽनवद्यः स्यात् । एंकाधिकारिके राज्य इति वा शेषाद्
    विभावेति कपि समासान्ते ।
८२-संश्रयणं संश्रीयत इति वा संश्रयः ।उभयथापि प्रीत्यामिति सहयोग इति च
    सप्तम्यौं नोंपपद्येते । प्रीतिः सहयोगच राष्ट्रस्य संश्रय इत्येवं व्यवहरणीयम् ।
८३-जनवचनः प्रजाशब्दः स्त्रियां भूम्नि प्रयुज्यते प्रायेणेत्युक्तमधस्तात् । तेन
    प्रजानामित्यादि वक्तव्यम् ।
८४ -सुखस्यैका वसतिर्निवासस्थानमित्यर्थे न कश्चिदोषः ।
८५-भवतामस्माकं च को विशेष इत्येवं वक्तव्यम् । भेदे षष्ठ्येव व्यवहारानुगेति
    वाग्योगविदः । तव च मम च समुद्रपल्वलयोरिवान्तरम् इति मालविकायां यथा ।
८६-अन्यायार्जितेन यत् संगतं भवतीति वक्तव्यम् । संगतं संपृक्तम् ।



१. हृदयक्षुद्रतामभिप्रैति ।

८७-साधैकशतवर्षाणि दासत्वे भयदे स्थिता. नतरां निर्वृतिं प्रापन्नाय भारतभूमिजाः|
८८–यदि पुरुषो दिवं गतायां पत्न्यामपरां वोढुमर्हः किमिति स्त्री नापरं पूरुषं वोढुमर्हेत् ।
८९–पारस्परिकः कलहः कुटुम्बिनां नाशायैव भवतीति किमु
   वाच्यम् ।
९०-सा नाम राष्ट्रवाग् भवितुर्महति या सर्वेषां कृते सममुपयुक्ता
   स्यात्।
९१-मातरि संस्कृते वाचि विद्यमानायां कथं नाम
   हिन्द्याद्यास्तद्दुहितरस्तत्पदमभिषेक्तुमर्हेयुः।
९२–यथा प्राचि काले इह देश आचारप्राधान्यमासीतथेदानीमपि ।
९३–यदि नाम तत्तद्ग्रन्थाध्यापनं संस्कृत एव भवेत्तदा च्छात्रा
   बहूपकृताः स्युः ।
९४–यदि वयमप्यत्र न प्रणिदध्याम विकारं च
   परमार्थतो न विद्याम तदा कोऽन्योत्रवधास्यति ।



८७-एकशतमित्येकाधिकं शतमित्यर्थं रूढम् । तेन सार्ध शतं
   वर्षाणीति व्यासेन वक्तव्यम् ।
८८-स्त्री नामोह्यते न तु वहति । वहनस्य पुरुषकर्तृकस्वस्य
   प्रसिद्धेः। तेन नापरं पतित्वे वरीतुमिति युज्यते वक्तुम् ।
८९-परस्परं कलह इत्येव शोभनं वचः ।
   पारस्परिकशब्दस्याधुनिकैः कल्पितत्वात् ।
   न हि यतस्ततस्तद्वितमुत्पद्य नूत्नाः शब्दा निर्मेया
   वैयाकरणत्वं च स्वस्य प्रख्याप्यम् ।
९०-उपयोगवती, उपयोगिनी, औपकोरिकीति वा प्रयोज्यम्।
   उपयुक्तेति तु गृहीता, आत्ता, विनियुक्तेति वा भवति ।
९१-तत्पदेऽभिषेकमर्हेयुरित्येवं वाच्यम् । न हि पदं
   नामाभिषिच्यते, किं तर्हि पदे कश्चित्तदर्होऽभिषिच्यते ।
९२-अत्र प्रागित्येव पर्याप्तम् । काले इत्यनेन नांर्थः ।
   एवमन्यत्रापि प्रातःकाले सायंकाल इत्यादौ कालशब्दोऽप्रयोज्यः ।
९३-संस्कृतेन भवेदित्येव साधु। वाग्घि करणं द्वारमध्यापनस्येति
   तृतीयैव युक्ता। यद्वाचाऽनभ्युदितमित्यादिषु तथा दर्शनात् ।
९४-प्रणिदध्यामेत्यत्र मन इति कर्मापेक्ष्यते । केवलस्य
   चिन्तनेऽप्रयुक्तेः । बाढं ल्युडन्तस्य तत्रार्थे तदन्तरापि प्रयोगो
   दृश्यते । तदेतच्छब्दस्वाभाव्यम् ।



१.-मनो दधाम ।

 ९५-गुरुणा कुशलप्रश्ने कृते सति तमित्थमुत्तरयति दिलीपः ।
 ९६-एतच्छुत्वा मुखं विकृत्य नासां संकोच्य स सदर्पमुदतरत् ।
 ९७-दिलीपस्य सुदक्षिणाया रघुर्नाम पुत्ररत्नमजनि।
 ९८-कल्याणे बत नक्षत्रे मया जातोऽसि पुत्रक ! (श्रीरामायणे ).
 ९९–प्रायः पञ्चसहस्त्री शरदां व्यतीयाय यदा कुरुपाण्डवानां भारतोपनिबद्धः संगरो
     बभूव ।
१००-विदितमेतद्विदुषां संस्कृतरत्नाकरोऽयं सप्तत्रिंशद्वर्षेभ्य आरभ्य साहित्यजुघः
     प्रीणयन्वर्तते ।
१०१-भवद्विधानां साहाय्ये निर्भरमादधतो वयमिह कर्मणि प्रवर्तामहे ।



 ६५-गुरुणा कृतं कुशलप्रश्नमुत्तरयतीति वक्तव्यम् । भावलक्षणयाः सप्तम्या नैष
     विषय इति पूर्वार्द्धे सविस्तरं निगदितमिति तत एवावधार्यम् ।
 ९६-तृ प्लवनतरणयोरुत्पूर्वः पारगमने वर्तते न तु प्रतिवचने ।
    तेनोत्तरशब्दात्तत्करोतीत्यर्थे णिचि लङि ‘उदतरयत्’ इति साधु स्यात् । अटि
     कर्तव्य उपसर्गः पृथक् क्रियते ।
 ९७-दिलीपात् सुदक्षिणायामिति व्यवहारः। सम्बन्धमात्रविवक्षायां दिलीपस्येति
      षष्ट्यपि नासाध्वी । पूर्वार्द्धे चायं विषयः कारकाधिकरणे वैतत्येन निरूपित
      इति तत एव विशेषोऽवसेयः ।
 ९८–मयेति करणविवक्षया तृतीया । करणविवक्षा चैवंजातीयके विषये नान्यत्र
      दृष्टेत्युक्त्वा वाचि स्वतन्त्र महर्षय इति भूयोविमर्शं विरमयामः ।
 ९९–यदा यस्मिन्काले इत्यनर्थान्तरम् । यदेति पूर्ववाक्येनाभिसम्बध्यत उत्तरवाक्येन
    वा । उभयथापि विवक्षितोर्यो न गम्यते । यदा पञ्चसहस्रया शरदां
      व्यत्ययोऽभूतदा संगरोऽभूदिति नतरां विवक्ष्यते । अयं च शरद्व्यत्ययः
      किंसम्बन्धिक इति नोच्यते । संगरसम्बन्धी चासौ न भवति । संगरो हि
      स्वतन्त्रो व्यतिकरो वर्ण्यते सति तस्मिञ्छरद्व्यत्यये । तस्मादद्य प्रायः पञ्च
      सहत्री शरदां कुरुपाण्डवानां संगरस्य ‘भूतस्येति वक्तव्यम् । इतपञ्चसु
      शरत्सहस्त्रेष्विति वा वाच्यंम्। एंवं शिष्टव्यवहारोऽनुसृतो भवति ।
१००-आरभ्ययोगे . भाष्यकारादिप्रयोगात्पञ्चमी साध्वी ! व्यवहारस्तु दुष्यति ।
      व्यवस्थायां वर्तमान एवारभ्यशब्दः पञ्चमीं प्रयोजयति । इह व्यवस्था
      नार्थः । सप्तत्रिंशद्वर्षाणिः हि प्रीणनक्रिययाऽभिव्याप्तानीति तंतोऽत्यन्त
      संयोगे द्वितीयेष्यते । तेन सप्तत्रिंशतं वर्षाणीति वक्तव्यम् ।
      अयमित्यस्यानन्तरमद्यशब्दः प्रयोक्तव्योर्थाभिव्यक्तये ।
१०१- निर्भरशब्दो भरेण संमानार्थः। साहाय्यमवलम्बमिच्छन्तः, साहाय्ये लम्बमानो
      इति वा वक्तव्यम् ।



१. लम्बमाना इत्यर्थो विवक्षितः ।

१०२-सर्वमिदमालोच्यार्जुनो निर्णिनाय यत्स “ शस्राणि संन्यसिष्यति प्रहरत्स्वपि
      द्विषत्सु न प्रहरिष्यतीति।
१७३-अस्थिमज्जामांसमेदसां सन्निपात एव मनुष्यो न, ततः परम्परोऽबाह्य
      आत्मैव वस्तुतस्तद्व्यपदेशभाक् ।
१०४-मनुष्यता नाम संसर्गे निर्भरा, यादृशैः संसृज्यते मनुष्यंस्तादृशः स भवति ।
१०५-यद्यत्र श्लोके किञ्चित्काठिन्यमनुभवसि, तदा विस्रब्धं ब्रूहि। भूयोऽपि ते
      निर्वक्ष्यामि ।
१०६-सकृच् श्रद्धितेष्व्युप्रतारयस्त्सु भूयोपि विश्वस्यते लोकेन ।
१०७–भगवन्तमादिगुरुं सर्वविद्याप्रदातारं प्रार्थयामहे यद् विश्वनाथः स्वकृपया
      नः सन्मार्गो प्रेरयतु ।



१०२– यत्स इत्याद्युत्तरवाक्येनार्जुनकर्तृकं शत्रसंन्यासादिकर्मकं निर्णयं विवक्षति ।
      स च निर्णयोर्जुनमुखेरितैः शब्दैरेव वक्तव्य इति वाग्व्यवहारः -अर्जुनश्च तं
      निर्णयं वक्ष्यमाण - आत्मानं परोक्षार्थवृत्तिना तच्छब्देन न परामृशेत् ।
      आत्मा हि सर्वस्य संनिहित इत्यस्मच्छब्दं प्रयुञ्जीत, अयं जन इति वा
      ब्रुवीत । तेन अहं शस्त्राणि संन्यसिष्यामीत्यादि प्रयोक्तव्यम् । यच्छब्दश्च
      परिहार्य इतिशब्दश्चान्ते कार्यः।
१०३- परोवरपरम्परपुत्रपौत्रमनुभवति (५|२|१०)इति सूत्रे वृत्तौ प्रत्ययसंनियोगेन
      परपरतराणां परम्परभावो निपात्यते । अत्र च स्वप्रत्ययो नास्तीति
      परम्परशब्दोऽसिंद्धः । परम्परेति स्त्रियमव्युत्पन्नं प्रातिपदिकमस्ति । तंच्च
      प्रबन्धं वक्तीति न प्रकृते युज्यते । तेन ततः परः, परतर इति वा वक्तव्यम् ।
१०४– संसर्गे आयत्तेति वक्तव्यम् । निर्भरो भरो भवति.तद्वान् सातिशयो वेत्यसकृदुक्तम् ।
१०५- काठिन्यं दुर्बोधता न भवति, किंतर्ह्यन्तःसारता दृढता क्रूरता चेति ।
      तेन दुर्वोधं दुरवगमं वेति वक्तव्यम् ।
१०६– श्रद्धा संजाताऽस्येति श्रद्धित इति व्युत्पतिसंभवेपिं नास्य साधुत्वं व्यवतिष्ठते।
      प्रयोगादर्शनात् । विवक्षितार्थस्य चासमर्पणाद्धेयोऽयं प्रयोगः ।
१०७– यथास्थिते भगवानादिगुरुः कश्चिदन्यो विश्वनाथश्चान्यं इति विरुद्धार्थ
      प्रतीतिर्जायमाना’ न वार्यते । यदि च स भगवान् विश्वनाथ इति.सम्बोध्येत
      तदा विरोधोऽपेयात् । एवं तर्हि वक्तव्यम्-अये विश्वनाथ प्रेरय नः
      सन्मार्गे इति । यदिति स्वकृपयेतिं च त्याज्यम्। प्रार्थनायां लोटैव तस्यार्थ
      स्योक्तत्वात् । न हि शिष्टाः प्रार्थनायां लोटं प्रयुञ्ज़ानाः क्रुपयेत्यादि प्रयुञ्जते ।
       शिष्टाश्च वाचि प्रमाणम् । *



१. कृतविश्वसेष्विति चिकथयिषति ।

१०८–युवयोरप्युपरि पतति मङ्गलवचनप्रभाव इति लक्ष्यतें ।
१०९-सर्वमिदं जगत् ब्रह्मणोन्तर्निविष्टमित्यविसंवादी वादः ।
११०-नेदमुश्मो व्याकरणाधीत्यामेव शश्वद्रतः स्याः, विषयान्तराण्यपि
    ते यथाकालं समादरणीयानि ।
१११-बलाहकतत्येव करिघट्या तमसाच्छाद्यत इव काननम् ।
११२–कस्य धन्यस्यानर्घमौक्तिकमयीयं रत्नमांलेति न विद्मः ।
११३-अपस्किरते वृषो भूमिं हृष्टः ।
११४–परार्थं यत्नतो निघ्नन् स्वार्थतोपि हीयते मूढः ।
११५-सोऽस्मत्तश्चिरजाततरः । विंशत्या वर्षैर्हि पूर्वः।
११६-सुभगे प्रातस्तने काले सर्व एव विहारमासेवतेऽन्यत्राधन्यात् ।



१०८-युवयोरपिं मङ्गलवचनं प्रभवतीति लक्ष्यत इत्येवं वाग्व्यवहारानुसारो
    भवति । युवयोरिंति षष्ठी शैषिकी।
१०९-ब्रह्मण्यन्तर्निविष्टमिति सप्तम्येव व्यवहारानुपातिनी ।
११०–वशोर्भाषायां प्रयोगो वार्तिककारमतेन साधुरिति कैयटः। तेन नात्र
    दोषगन्धोपि ।
१११-अत्र करिशब्दः सुत्यजः करिणां घटना घटेति कोषाद् धटाशब्देनैव
    तदर्थगतेः। तथापि लोके लाघवं प्रयनादर इंति मंहोकवयोऽपि करिघटा
    गजघटेत्यादि प्रयुञ्जते किमुत कवयः ।
११२-मालाशब्दो ग्रथितेषु माल्येषु रूढ-इति रत्नहार इति वक्तव्यं मौक्तिकमय
    इंतिं च विशेषणं देयं ।
११३–अपस्किरते विलिखत्युत्किरतीत्यनर्थान्तरम् । कर्मसव्यपेक्षं चेदम्
    क्रियापदम्, तयापि भूम्यादि कर्म गम्यत एव न तु शब्देनोच्यते । एष
    व्यवहारः । सोऽनुविधेयः ।
११४–अपादाने चाह्रीयरुहोरितिं जहातेः पर्युदासादपादाने पञ्चम्यास्तासिर्न
    प्राप्नोतीति , स्वार्थत इति दुष्टम् इति चेन्मैवम् । मन्त्रो हीनः स्वरतो
    वर्णतो वेत्यत्रेव प्रकृतेऽपि तृतीयायास्तसिः । स्वरेण वर्णेन वेत्यर्थः ।
११५-चिरजाततर इति साधु। अल्पाच्तर् इतिवत् । चिरतरं जात इति चार्थः ।
    पूर्वं बहुत्रीहिः क्रियते पश्चात्तरप् । विस्तस्तु ५७ तमें पृष्टे द्रष्टव्यः ।
११६-प्रातर्नाम का भवति । प्रातरात्मैव कालो विवक्षितः ।,न हि तत्र भवं
    कालान्तरमस्ति येन ट्युल् स्यात् । एवं साम्प्रतिके समये, अधुनातने काले
    इत्यादयो विक्षिप्तप्रयुक्ताः प्रतिक्षिप्ता वेदितव्या:।



१. विलिखति, उत्किरति ।

११७-स्वयं भीष्ममुखाद् व्यासः प्रशस्त्येवं युधिष्ठिरम् ।
११८-न जातु पापानि कदापि कर्तुर्मूलानि न कर्त्स्यन्ति ।
११९-शतानांकुरूणां पञ्चानां च पाण्डवानां सन्धौ महान्तं यत्नमातिष्ठदं जनार्दनः।
१२०-प्रथीय सीयमाख्यायिकां राजस्थाने ।
१२१-कर्माणि प्रविभङ्क्ष्यन्ते स्वभावप्रभवैर्गुणैः ।
१२२-बहवोऽस्य परिजना अमिताश्च परिच्छदा इत्यराजाऽपि राजमात्रोऽसौ ।
१२३-अकिञ्चनः समलोष्टाश्मकाञ्चनो यतिः प्रशस्यते ।
१२४-ते च मे च साधारणोऽत्रार्थेऽभिलाषः, तथापि विरोधो न युक्तः ।
१२५–ये स्वयं सत्पथेन यान्ति परांश्च सत्पथे निनीषन्ति ते धन्याः।
१२६–अद्यत्वे प्रबलो जातिभेदः। अद्यत्वे हिन्दवो न मिथो विवहन्ति नच समश्नन्ति ।



११७-भीष्ममुखेन शास्तीति वक्तव्यम् । प्रशासनं निर्देश इत्युत्तरे रामचरिते
      वीरराघवः | भीष्ममुखेनेति करणे तृतीया । पञ्चमी तु सर्वथाऽस्थाने ।
११८-जातुशब्दे सति कदापीत्यतिरिच्यते । तेनैकतरं शक्यं विहातुम् ।
११९-शतस्य कुरूणामिति वाच्यम् । संख्येये वर्तमानः शतशब्दो नपुंसकैकवचने
      नियतः ।
१२०- प्रथीयसीति पृथुशब्दादीयसुनिं रूपम् । पृथुशब्दश्च विशालापरंपर्यायो न
      प्रसिद्धपर्यायः । तेन प्रथिततरेति वाच्यम् ।
१२१-प्रविभङ्क्ष्यन्त इति भुञ्जो आमर्दन’ इत्यस्माल्लृटि कर्मणि रूपम्।
    प्रविभागश्च विवक्षितः। तेन प्रविभक्ष्यन्त इति वक्तव्यम् ।
१२२-बहुरस्य परिजनः, अभितश्च परिच्छद इत्येवमेकत्वमाश्रित्य वक्तव्यम् ।
      परिजनपरिच्छदावेकत्वे बहुत्वमाचक्षाते शब्दशक्तिस्वाभाव्यात् ।
१२३-समलोष्टाश्मकाञ्चनः इति वक्तव्यम् । लोष्ट इति शब्दो न तु लोष्ठः ।
१२४- न चवाहाहैवयुक्ते इति युष्मदस्मदादेशौ ते मयेकवचने प्रतिषिध्येते । तत्र
      च मम चेति वक्तव्यम् ।
१२५-सत्पथेन निनीषन्तीति वक्तव्यम् । प्रजासु कः केन पथा प्रयातीति कविकुलपतेः
    शाकुन्तले प्रयोगः पथस्तृतीयां युक्तां स्मारयति ।
१२६-मिथो दारकर्म नाभिनन्दन्तीति वाच्यम् । विवहन्तीत्यस्याः क्रियायाः पुरुषाः
      कर्तारः, स्त्रियश्च कर्माणीति प्रसिद्धम् । उभयं च कण्टरवेण नोक्तम्।
      हिन्दवश्चोंक्ताः कर्तारः । ते च स्त्रीपुरुंषोभयस्वरूपा इत्ययुक्तं तेषां कर्तृत्वम् ।
      अथवा कर्माविवक्षायां विवाहं कुर्वन्तीत्यर्थे यथास्थितमपि साधु ।



      १. प्रथिततरा, प्रसृतरतरोत्वर्थो विवक्षित: ।
      २. रा्ज्ञो मात्रा परिच्छद इति राज्ञमात्रा । राजमात्रेव मात्राऽस्येति राजमात्रः ।।

१२७-अज्ञं हि बालमित्याहुः पितेत्येव तु मन्त्रदम् (मनु० २|१५३) ।
१२८-सूर्यवंशिन एवैके ह्यपरे सोमवंशिनः।
१२९-संभूयते यत्प्राक् तेषां कश्चित्कलिरभूत् ।
१३०–ये मतमिदं मदीयं नानुमन्वते ते स्वार्थाद् हास्यन्ते ।
१३१-द्वाभ्यां त्रिभिर्वाऽपत्यानां तुष्येतां दम्पती नाधिकानि कामयेयाताम् ।
१३२-गुरुर्हि कुमारं यज्ञसूत्रेणोपवाय ब्रह्मणः समीपं नयतीति केचिदुपनयनार्थं
      वर्णयन्ति । तदसाम्प्रदायिकम् ।
१३३–यदि सर्वे सम्भूय दारिद्रयदलनाय समुद्युज्येरस्तदाऽयं नो देशोऽचिरेण
      कामपि समृद्धिमियात् ।
१३४-केचिदेव कुर्वते शास्त्राण्याविः ,बहवस्तु संवृण्वतं एवार्थं शास्त्रोक्तं विवरीतारः।
१३५-स्कन्धेन भारं वहतीति भवति न तु स्कन्धे भारं वहतीति पूज्या गुरुचरणाः ।



१२७-निपातेनाप्यभिहिते कर्मणि न कर्मविभक्तिरिति बालमित्यत्र द्वितीया
      नोपपद्यते। पितेत्यत्र त्वनुपपन्ना द्वितीया परिहृता स्मृतिकारेणेति साधु कृतम् ।
१२८-सूर्यवंश एषामस्तीति सूर्यवंशिन इति व्युत्पत्तिसम्भवेऽपि नायं शब्दः
      प्रयुक्तपूर्व इत्युपेक्ष्यः । सूयवंश्याः सूर्यवंशीया इति वा ।
१२९-संभाव्यत इति वक्तव्यम् । संभवतीति वा । शुद्धात्संभवतेर्भावे कर्मणि वा
      प्रत्ययोऽस्थाने ।
१३०-अनुमन्यन्ते इति प्रयोक्तव्यम्} भन ‘ज्ञान इति दैवादिकस्यैवानुपूर्वस्य
      प्रयोगमिच्छन्ति शिंष्टा. न तु मनु अवबोधन इति तानादिकस्यापिः ।
१३१-द्वाभ्यामपत्याभ्यां त्रिभिर्वेति वक्तव्यम् । विंशतिप्रभृतयः संख्यावचनाः
      संख्यायां संख्येये च वर्तन्ते न तु द्वयादयोऽपि । इमे तु संख्येय एव
      नियम्यन्ते व्यवहारेण ।
१३२-अत्र वेञः स्थाने व्येञ् प्रयोक्तव्यः। उंपव्यायेति च वक्तव्यम् ।
    आच्छाद्येत्यर्थस्य विवक्षितत्वात् ।
१३३-सम्भूयेति पदेनैव समुत्थानस्य गम्यमांनंत्वात्समुद्युज्येरन्नित्यत्र समित्यधिकम् ।
१३४-साक्षात्प्रभृतीनिं चेत्यत्राविः शब्दः पठितः । तेन गतिसंज्ञाऽभावपक्षे न
      कश्चिद्दोषः । गतेरेव धातोः प्राक्प्रयोगनियमात् ।
१३५-अत्र पूज्या इति त्याज्यम् । गुरुचरणा इति वृत्यैव तस्य गतार्थत्वात् । ।

१३६-सुग्रीवस्याज्ञां शिरोधार्यो विधाय हनुमदादयो वानराः
    सीतामन्वेष्टुं निर्ययुः।
१३७ –शार्मण्यानां वाड्मये “बहूपादेयमस्तीति तत्रत्यानां
     केषांचिदुपाख्यानानां
     संस्कृतेन परिवर्तनांयतत्परोऽभूवम् ।।
१३८–पटुपटुरपि समुद्युक्तोपि काठिन्यैः कैरपि व्याहतो नेष्टेऽसौ
    विद्यावते कालेन परिसमापयितुम् ।
१३९-भवद्वचनाङ्गीकारे दोषा अपि केचन परापतन्ति ।
१४०–अप्यस्ति ते लवणस्तोकः? अस्ति मे लवणस्य प्रयोजनम् ।
१४१–अयं शब्दो धातुद्वाभ्यां शक्यो व्युत्पादयितुम् ।
१४२-इदानीं तद्वंशीयान् नामादेशं संख्याति
   ग्रन्थकारः ।
१४३-समैरेयाणि पञ्च काचपात्राणि, विंशतिः
   कुक्कुटीनां पंञ्चाजी, मिष्टान्नं वाससी च समानीयन्ताम् ।



१३६ -शिरसा धृत्वा, शिरसाऽऽदायेति वा वक्तव्यम् ।
१३७– परिवर्तने तत्परः, परिवर्तनतत्पर इति वा वाच्यम् ।
     तत्परे प्रसितांसक्तावित्य्मरात्तत्परशब्दस्तात्पर्येणासक्तमाह ।
    आसक्तिश्च विषयमाकाङ्क्षतीति
    परिवर्तन इंति वैषयिकी सप्तमी साध्वी । विग्रहस्तु तत् परं
    प्रधानमस्येति
    तत्परः। परिवर्तनतत्पर इति व्या वा. वाच्यम्।
१३८- विघ्नैः कैरपि व्याहत इति वाच्यम् । काठिंन्यशब्दो हि
    तत्रार्थेऽशक्तः । पटुपटुरिति पटुप्रकारो भवति न त्वतिपटुः ।
    प्रकारे गुणवचमस्येति द्विरुक्तिः । कर्मधारयवदुत्तरेष्विति
    कर्मधारयवद्भावः
१३९-परापूर्वः पततिः प्रत्यावर्तने वर्तते । तेन आपतन्तीति
    वक्तव्यम्, उद्भवन्तीति वा ।
१४०-अस्ति मे लवणेन प्रयोजनमित्येव व्यवहारः ।
१४१-धातुद्वयादितिं वक्तव्यम् । अत्र द्वयशब्दः संख्यायां वर्तते न
    संख्येय इत्येकवचनमेव युज्यते ।
१४२-सम्पूर्वस्य ख्या प्रकथन इत्यस्य तिङि प्रयोगो नेति
    न्यासकारः। तेन संचष्ट इति वक्तव्यम् । भूयानत्र
    प्रक्रमभङ्गः । नैकः कश्चित्प्रकारः समाश्रितः ।
    प्रक्रमसांम्याय विंशतिः कुक्कुट्यः, पञ्चाजा मिष्टान्नं
     वाससी च समानीयन्तामित्येवं वक्तव्यम् ।



      १. विद्य व व्रतं चेति । २. नामग्राहम्। नाम्न्यादिशिग्रहोरिति णमुल् ‘
      ३.समद्यानि ॥ ४ पञ्चानामजानां समाहारः ।

१४४–कः खल्वीष्टे भगवतो विधेरुपरि १
१४५-केचिद् बहिष्ट उग्रदर्शना अन्तश्च करुणामसृणाः ।
१४६–काश्चित्कला विकला व प्राणं बलेन प्रसह्य बहिरेव निरुन्ध्यात् ।
१४७-द्वावपीमान् यमनियमाननुतिष्ठेन्न केवलान्नियमान् ।
१४८-सौम्य ! कालोऽयं ते गृहाश्रममुपसंक्रमितुम् । तेनात्मानं परिणीय मातरि
      पितरि च साधु वर्तमानश्चिरं सुखं जीव ।
१४९-निघण्टुनिरुक्ते सार्थके अध्येये ।
१५०-युष्मानहं पृच्छामि, आचष्टां भवान् मदुक्ते क्व विरोधोस्तीति।
१५१-गृह्य प्रोक्तानां कर्मणां यथाययमनुष्ठानं तदैव सम्भवति यदा यजमानोऽपि
      कालाक्षरिको भवति ।



१४४-उपरिशब्दोऽतिरिक्तः। स त्याज्यः । अधीगर्थदयेशां कर्मणीति कर्मणि
      शेषत्वेन विवक्षिते षष्ठी । कर्मणि तु द्वितीया स्यादेव ।
१४५-अत्र तसिना नार्थः । अन्तः शाक्ता बहिः शैवा' इत्यत्र यथा ।
१४६–प्राणानिति बहुत्वे प्रयोगो व्यवहारमनुपतति । जातौ वैकवचनं व्याख्येयम् ।
      यथा मानवे धर्मशास्त्रे प्रयोगः--तथेन्द्रियाणां नश्यन्ति दोषाः प्राणस्य
      निग्रहात् ( मनु० ६|७१) इति ।
१४७-द्वयानपीमान् इति वक्तव्यम् उभयानिति वा । द्वयमुभयं चैकत्वे बहुत्वे च
      प्रयुज्येते । द्वये प्राजापत्या देवाश्चासुराश्चेत्यादौ यथा । द्विशब्दस्तु द्वित्व-
      परिच्छिन्नमर्थमाह । यमास्तु पञ्च भवन्ति नियमाश्चापि । ते समुदिता | दश
      भवन्ति । तेन द्वावपीमान् यमनियमान् इत्युन्मत्तप्रलपितम् ।
१४८– आत्मानं निवेश्येति वक्तव्यम् । कन्यां हि पुरुषः परिणयति नात्मानम् ।
      परिणयमधिकृत्य बहूक्तमधस्तादिति नेह भूयो वचो वितन्यते । निवेशो हि
      दारकर्मपूर्वको गार्हस्थ्यप्रवेशः । दौ:ष्यन्तिमप्रतिरथं तनयं निवेश्येत्यत्र
      शाकुन्तले यथा ।
१४९- नहि निघण्टुनिरुक्ते अनर्थके अपि कदाचिद्भवतो येन सार्थके इति
      विशेषणमर्थवत्स्यात् । तेन सार्थकमिति क्रियाविशेषणं योज्यम् ।
१५०– पूर्ववाक्ये युष्मानिति बहुवचनम् । युष्मदर्थस्य बहुत्वविशिष्टस्योत्तरवाक्य
      एकवचनान्तेन भवच्छब्देन प्रत्यवमर्शों न युक्तः । तेन भवन्त अचक्षतामिति
      वाच्यम् ।
१५१- यथायथमिति यथास्वमित्यर्थे वर्तते । यथातथमिति तु वक्तव्यम् ।

१५२-एवं खेलाभिर्विविधाभिर्व्यत्येति शिशूनांशैशवम् ।
१५३-यदोद्वाहकालः संनिकृष्यतेऽर्थाद् ब्रह्मचर्यस्य समाप्तौ वर्षमवशिष्यते
    मासषट्कं वा तदा भविष्यतोर्वधूवरयोः कुमारयोश्चरितपरीक्षां प्रक्रमेत गुरुजनः ।
१५४–सर्वे लोकाः स्वे स्वे लौकिके कर्मणि पुरुषार्थिनो भवेयुः पारलौकिके च
      यतेरन् ।
१५५– संन्यस्तो हि यदृच्छालाभसन्तुष्टः स्यान्न प्रतिग्रहं कामयेत न वा संग्रहं रोचयेत ।
१५६- द्विजानां चाधीनाः शूद्रा विसृष्टा अपि दास्यान्न मुच्यन्त इति मनुः ।
१५७- न्यूनतो न्यूनं दर्शविद्वपुरुषाणां सभा घर्मादिकं व्यवस्थापयेत् ।
१५८–परेषांमधीनतायां वर्तमाना वयं किं शक्ता आत्मश्रेयः सम्पादयितुम् ?



१५२- शिशूनां भाव एव शैशवं भवति, नान्यत्किञ्चित् । तेन शिशूनामिति वा
      त्याज्यं शैशवस्य स्थाने वय इति वा प्रयोज्यम् । सामान्यवचनः कालशन्दो
      वा प्रयोक्तव्यः ।
१५३-अर्थादिति पञ्चम्यन्तं पदं मध्येद्वाक्यं पदान्तरेणासंसृष्टं न संस्कृते प्रयुज्यते,
      लोकभाषायां तु बाढं व्यवह्रियते । तेन अर्थादित्यस्य स्थानेऽयमर्थ इति
      वक्तव्यम् । अथवाऽपिवेत्यादयो निपातसमुदायास्तु विकल्पं पक्षान्तरमाहुरिति
      नेह प्रयोगमर्हन्ति । समाप्तेर्वर्षमवशिष्यत इति शेषे षष्ठी
      व्यवहारानुपातिनी न तु सप्तमी, अधिकरणस्यासत्त्वात् ।
१५४- पुरुषार्थ इति पुरुषस्यार्थो भवति यस्तेनेह जीवता साध्यः ।
      धर्मार्थकाममोक्षाश्च चत्वारः पुरुषार्थाः । अत एव चतुर्वर्ग
      इत्याख्यायन्ते । पुरुषार्थ उद्योगो न भवति । तत्र पौरुषं
      पुरुषकार इति च प्रवर्तते, तेनोद्योगिन उद्यमिन इतेि वा वक्तव्यम् ।
१५५- संन्यस्तलोकः संन्यस्तसंकल्पः संन्यस्तकर्मेत्यर्थेऽत्र संन्यस्तशब्दः प्रयुक्तः ।
      अत्रोत्तरपदलोपो द्रष्टव्यः । स वर्णिलिङ्गी विदितः समाययौ युधिष्ठिरं
      द्वैतवने वनेचर इति किराते विदितशब्दे यथा ।
१५६- द्विजाधीना इत्येवं समासवृत्या वक्तव्यम् । अध्युत्तरपदादेव प्रातिपदिकात्खो
      विधीयते न तु स्वतन्त्रादधिशब्दाद्येनाधीनमिति पृथक्पदं स्यात् ।
      वाक्यं वक्तर्यधीनं हीति वाक्यकारवचनप्रामाण्याद् द्विजेष्वधीनाः इति
      व्यस्तमपि न दोषाय । प्रयोगस्तु विरलः ।
१५७- दशावराणां विंद्वत्पुरुषाणामिति वक्तव्यम् । विवृताञ्जातीयिका
      रचना पूर्वत्रेति नार्थ इह विस्तरेण ।
१५८– परैः परवन्तो वयम् इति वा । परदास्ये वर्तमाना इति या वक्तव्यम् ।
      अधीनतेति प्रयोगो नास्ति ।

१५९-अयं पत्रहारोऽत्र भवतां विपश्चितां सेवायां प्रेष्यते प्रार्थयते च
    यथाशक्यमनुगृह्यतासेष इतैि ।
१६०-प्रभो ! तंव शरणं गतोहम्। पाहि माम् । गत्यन्तरं मे
    नास्ति ।
१६१-यदि च्छात्राणां भोजनाच्छादनप्रबन्धः प्रकल्प्येत तदा ते
    वीतचिन्ता एकायनगता अध्ययनं वर्तयेयुः ।
१६२–अनिर्वर्णनीयं परकलत्रमित्याहुः
    विनयाभिकाङ्क्षया च चक्षुषां नेक्षेतं परस्त्रिय इति च ।
१६३-सर्वो लोकः स्वस्य कर्मकलापस्य फलमश्नात्यद्य
    वाब्दशतान्ते वा ।
१६४-ब्रह्मचारिणः संविदं करयेदाचर्यः—नाहं मधुमांसे अशिष्यामीति ।
१६५-इदं तथाल्पीयो मृष्टमन्नं यथा निषद्यास्थेभ्यः सर्वेभ्यो विभक्तं
    सत् सर्षपमात्रमपि न समेष्यत्येकस्य भागे ।



१५९-अत्र भवत्सु विपश्चिस्विति वक्तव्यम् । अत्र
    सामीपकेऽधिंकरणे सप्तमी बोध्या । इत्थमेवायमर्थोऽभिधीयते
    इति वाग्योगविदः। सेवायामिति
     निमित्तसप्तमी स्यात् । तथा सत्यत्र भवतां सेवानिमित्तं
    सेवायै प्रेष्यत इत्यर्थः प्रतीयेत, न चायं प्रत्यायिययिषितः।
    छायैषा लोकभाषाप्रकारस्येति संस्कृताभासमिदं न संस्कृतम् ।
१६०-अहं त्वां शरणं (= रक्षितारं} गतोऽस्मीति वक्तव्यम् । शरणं गृहरक्षित्रो-
      रित्यमरप्रामाण्याच्छरणं रक्षितृ भवति न तु रक्षणम्
 इत्यसकृदुक्तोऽयमर्थः
      पुरस्तात् ।
१६१- प्रबन्ध इति सातत्ये वर्तते यथा नानद्यतनवत् क्रियाप्रबन्धसामीप्ययोरिति
      सूत्रे । संविधायां तु नास्य वृत्तिः । आधुनिकैः कैश्चित् परम्परागतमर्थमुपेक्ष्य
      संविधेति नूत्नोर्थः कल्पितः । स नार्हति प्रमाणकोटिमाटीकितुम् ।
१६२- 'सरागया च दृष्ट्या’ इति वक्तव्यम् । विषयशब्दो हीन्द्रियविषयेण
      समानार्थकः । तस्मात्तेन नार्थः।
१६३- अश्नात्यभ्यवहरतीत्यनर्थान्तरम् । तेनानुभवति, समश्नुते संवेत्तीति वा ।
      वक्तव्यम् ।
१६४- ब्रह्मचारिण इति पञ्चम्यन्तम् । युज्यते च ब्रह्मचारिणं ब्रह्मचारिणेति वा
      वक्तुम् । हृक्रोरन्यतरस्यामिति करोतेरणौ कर्तुर्वा णौ कर्मत्वम् ।
१६५- यथा विभक्तं सत्सर्षपमात्रमपि नैकैकस्याभिध्यात् । अभिरभागे इति भागेर्थे
      उपसर्गसंज्ञा समवस्थितेति एकैकस्येति शेषे षष्ठी साध्वी ।
      उपसर्गप्रादुभ्यामस्तिर्यच्पर इति षत्वम् । प्रीतिर्वा प्रयोक्तव्यः । तत्र भागेर्थेऽपि
      कर्मप्रवचनीयता । एकैकं प्रति स्यात् ।



१. एकाग्रमनसः । २. अनिमालनीयम् ।

१६६-तथा वर्तस्व यया ते जीवनमादर्शः स्याल्लोकस्य ।
१६७–न हि कारणं विना कार्योत्पतिः संभवाः।
१६८–अस्मदादयोऽधीत्यैव गुरुभ्यो विद्वांसो भवामो नानधीत्य ।
१६९-किमित्येषां पुराणवचनानामनर्थं कुरुषे ? ,नैतत्वय्युपपद्यते ।
१७०–आगतेषु दुर्दिनेषु मित्राण्यप्यमित्रायन्ते ।
१७१-ननु जगतः समुत्पत्तौ कियन्ति वर्षाणि गतानि।
१७२-सागरस्य पुरतः पानीयपृषताः कियन्तः ?
१७३–यदि नाम सूर्यः परिक्रामेत्तदाऽहोरात्रः सहस्त्राणां वर्षाणां जायेत ।
१७४-फलासङ्गं परिहाय प्रवृत्तो न कर्मसु लिप्यते नरः।



१६६– यथा ते वृत्तिर्वर्तनं वेति वक्तव्यम् । जीवनं तु प्राणधारणं
     भवति ।
१६७- संभवनं संभवः । ऋदोरप् इत्यप् । न ह्ययं पचाद्यजन्तो
     येन संभवतीति संभवः पुंसि, संभवेति च स्त्रियां
     साधु स्यात् । तेन संभविनीति वक्तव्यम् ।
     संभवोऽस्या अस्तीति तद्व्युत्पत्तेः ।
१६८– वयम् आदयो येषामित्यस्मदादयः । न
     ह्यस्मदादिशब्दस्यास्मदर्थः ।
     तेनास्मद्युत्तम इत्यस्याप्रसङ्गात् भवन्तीति प्रथमपुरुषप्रयोग
     एव साधुः ।
१६९= पुराणवचनान्यन्यथाऽर्थापयस इति वक्तव्यम् ।
१७०- मेघच्छन्नेऽहनिं दुर्दिनमित्यमरवचनाद् दुर्दिनमित्यभ्रिते
      वासरे रूढम्। तेन
      समुपस्थिते विषमे समय इति वक्तव्यम् ।
१७१- समुत्पन्नस्य जगतः, समुत्पत्तेरिति वा वक्तव्यम् ।
     उभयत्र शैषिकी षष्ठी ।
     अधिकरणस्यासत्त्वात्सप्तमी नोपपद्यते ।
१७२– पानीयपृषताः सागरस्य के इत्येवं व्यवहारोऽनुगतो भवति ।
     तथा च कुमारे प्रयोगः—कुर्यां हरस्यापि पिनाकपाणेर्धैर्यच्युतिं
     के मम धन्विनोऽन्ये
      ( ३|१० ) इति ।
१७३– तदाऽहोरात्रो वर्षसहस्त्रैर्जायेतेत्येवं वक्तव्यम् । ’ अहोरात्रो वर्षसहस्राणि ,
      जायेतेत्येवं सामानाधिकरण्येन वा ।
१७४- फलासङ्गं परिहाय प्रवृत्ते नरे न कर्म लिप्यत इत्येवं
     वक्तव्यम् । कर्मकर्तरि
     प्रयोगः । कर्मलेपो हि पुरुषे कर्तरि भवति । तथा च
     वाजसनेयिनः पठन्ति--
    एवं त्वयि नान्यथेतोस्ति न कर्म लिप्यते नर इति । कर्म
    पुरुषं कर्तारं लिम्पतीति तेन कर्मणrऽसौ लिप्यते । तस्मात्
    फलासङ्गं विहाय प्रवृत्तो नरो
    न कर्मभिर्लिप्यत इत्येवमपि शक्यं वक्तुम् । भवति च
    तथाजातीयकः प्रयोगो गीतासु—न मां कर्माणि लिम्पन्तीति ।
    लिप्यते न स पापेन पद्मपत्रमिवाम्भसेति च ।
    अन्यत्राप्येवंजातीयकः प्रयोगो लिपेः ।
    लिम्पतीव तमोऽङ्गानीति मृच्छकटिकायां काव्यादर्शे च !



६. पृषतो बिन्दुः। पूषन्तिबिन्दुपृषता इत्यमरः ।।

१७५-यतो मोक्षादावृत्तिर्नास्ति तस्मिंश्चकारावासे च को विशेष इति
    चोदयति कश्चित्
१७६–नाहं व्याकरणमधिकरोमि, किञ्चिदेवास्य वेद ।
१७७-एवं कपूयाचरणा अप्यात्मनो धर्मभ्रष्टान्न
    मन्यन्ते ।
१७८-एवं पुण्यपापे समाचरञ्जन्ममरणेषु गतागतं कुरुते जनः ।
१७९–अतिशोभेते खल्वस्योपानहौ चरणयोः परिहिते ।
१८०-इह भारते पञ्चसहस्रवर्षेभ्यः प्राक् किमपि मतं नसीदन्यत्र
    वैदिकात् ।
१८१–कदापि कदापि स्वप्नेऽभूतपूर्वानर्थान् सम्पश्यति जनः ।
१८२-भवतोधिकपण्डितैः श्रीशङ्करप्रभृतिभिर्जगन्मिथ्येति
    प्रतिपाद्यते, तद्भवांस्तत्र किं विप्रतिपद्यते ?



१७५-तस्य च कारावासस्य चेत्येवं वक्तव्यम् । षष्ठ्या हि
    भेदनिर्देशः क्रियत इति पारम्पर्यागतो व्यवहारः, स मान्यः।
१७६-अधिकरोमीत्यस्य स्वीकरोमीत्यर्थः । वशे करोमीति यावत् ।
    तेन न कश्चिद्दोषः । अस्ति चाधिकरोतेरत्रार्थे वृत्तिः--
    “भवादृशादधिकुर्वते रतिं निराश्रया हन्त हतां मनस्वितेति
   किराते (१|४३ ) ।।
१७७–आत्मानं धर्मभ्रष्टं न मन्यन्त इत्येवं न्यांसो
    व्यवहारानुगतः स्यात् । एको नः सर्वेषामात्मा नित्यो
    विभुश्चेति कृत्वैकत्वे प्रयोगमिच्छन्ति । प्रत्येकं
    वाक्यपरिसमाप्तेर्वा तथाविधो व्यवहारः। निदर्शितं चैतद्
    विस्तरेण पुरस्तात्।
१७८-जायस्व म्रियस्वेत्येवऽयं संसरतीति वक्तव्यम् ।
१७९-उपानहौ हि बध्येते न परिधीयेते । नहि ते शाटकादिवत्
    परिधानं भवतः।अत एव प्रतिमुक्तोपानत्कोऽवमुक्तोपानत्क
    इत्यादयः प्रयोगाः प्रथन्ते ।सूत्रकारोऽप्युपानद्वन्धनमिच्छति
    युदाह-अनुपदसर्वान्नायानयं बद्ध-भक्ष यति-नेयेषु (५|२|९ )
    इति । उदाहृतं च वृत्तिकारेण–अनुपदं बद्धांनु-पदीना उपानद्
    इति । तेन बद्धे अधिनद्ध वेति वक्तव्यम् ।
१८०-पञ्चसहस्रमिति समासः पञ्चाधिकं सहस्रमाह न तु पञ्च
    सहस्राणीति विदितं विदुषाम् । तेन पञ्चभ्यो वर्षसहस्त्रेभ्य
    इति वक्तुमुचितम् । तदपि सदोषं विवक्षितार्थासमर्पणात् ।
    न हि ततः पूर्वे वैदिकेतरन्मतं “ नासीदिति
    विवक्षति । तेनेतः पञ्चसु वर्षसहस्रेष्विति वक्तव्यम् ।
    असकृच्चायमर्थो विवृत
    इति नेह वितन्यते ।
१८१-संस्कृते कदापिः कदचिदिति चावृत्तिप्रतीतये, न द्विरुच्येते ।
    आवृत्तेर्वाक्यार्थेन्तर्भावात् ।
१८२- पण्डिततरैरिति तरबन्तं प्रयोज्यम् ।



१• कुत्सितचरिताः।

१८३-या विक्षेपावरणशक्तिद्वययुता माया सा किं न मन्यते युष्माभिः ।
१८४-सामान्या हि शैवाः शाक्तैः । उभावपि भस्म रुद्राक्षाश्च धारयतः ।
१८५-नाधमें मनः कुर्यान्मृत्युरपि कथं नोपासीदेत् ।
१८६–भोज़राजात् पञ्चाशदुत्तरैकशतसंवत्सरानन्तरं वैष्णवं मतं प्रावर्ततेति सत्या-
      थप्रकाशकारः । तद्विचारासहम् ।
१८७– वासु ! अन्यत्रास्तु ते भावबन्धः; नाहं परिवृढस्त्वामुद्वोढुम् ।
१८८- धृष्टोऽसौ प्रेष्यः, ममादेशं मस्तके न निदधाति ।
१८९-विवेकं विना वैराग्यं वैराग्यमन्तरेण विज्ञानं विज्ञानादृते च शान्तिः
      सुदुर्लभा ।
१९०–दानं दीयतां पुण्यं च क्रियतामिति शास्त्राणि प्रचोदयन्ति ।
१९१–अस्या वार्ताया मिथ्याभवने कः सन्देहः ?



१८३: मन ज्ञाने मनु अवबोधन इति धातू । तयोः स्वीकारो नार्यः । तत्रानुपूवों
      मन्यतः प्रयुज्यते ।
१८४- उभयेऽपीति वक्तव्यम् । उक्तोपपत्तिः पूर्वत्र ।
१८५- मृत्युरस्युपनमेच्चेदित्येवं न्यासो निरस्तसमस्तदोषः स्यात् । नैषा विधा
      संस्कृते समाद्रियते या लोकभाषायामास्थीयते । अस्ति च प्रातिस्विको
      वाचां मार्गः । स वेदितव्यः । स शीलयितव्यः । उपपूर्वः सदिश्च
      गुर्वादेरुपश्लेषे रूढो न शक्यो यत्र तत्र कामतः प्रयोक्तुम् । उपसेदि-
      वान्कौत्सः पाणिनिम् । उपलिष्टवान् इत्यर्थः ।
१८६- पञ्चाशदुत्तरे वत्सरशते ( अंध्यर्धे वत्सरशते इति वा ) वक्तव्यम् । एक
      शतमित्येकाधिकं शतं भवति न तु शतम् इत्यसकृदवोचाम ।
१८७– परिवृढ इति स्वामी भवति न तु समर्थः । तेनायं प्रयोगोऽसाम्प्रतम् ।
१८८- ममादेशं शिरसा ने वहतीति वक्तव्यं मूर्धा नादत्त इति वा । तृतीयैवाऽत्र
      व्यवहारानुपातिनीति पूर्वार्धे वितत्य निदर्शितम् ।
१८९– अत्र विनार्थकानां बहूनां निपातानां प्रयोगः स्वाभाविक वाग्धोरणीं
      विहन्ति । तेन सर्वत्र विनेति निपातः प्रयोक्तव्यः ।
१९०- दीयतामित्येव पर्याप्तम् । दानशब्देनोच्चारितेन को नाम नूत्नोर्थं उपज़न्यते
      येन सोऽपेक्ष्येत ।
१९१–अस्या वार्ताया मिथ्यात्वे इति वक्तव्यम् । इदं मिथ्येत्यत्र कः सन्देह
      इति वा ।



१« हे कन्ये हे बाले ।

१९२–अपि कीदृशमपि , मुरुचरणाः . पापमाचरेयुस्तथाऽपि नावमन्तव्या इति वल्लभमतानुगाः ।
१९३-एताः कथाः कल्पनया कल्पिताः, क एनाः प्रतीयात्
१९४–आकस्मिकं मातृनिधनं श्रुतवतस्तस्य शोकस्य पारावारो नासीत् ।
१९५–तत्र पत्त्रे प्रथमे दश श्लोका विनष्टाः, तेनैकादशेनेहोद्धरामः ।
१९६–कस्मिश्चिदेकस्मिन्नगरे परं मैत्रकं गतौ द्वौ वणिजौ निवसतः ।
१९७-जिज्ञासाभराक्रान्तः स कियतामेव विपश्चितां सकाशमयासीत् ।
१९८–केनाकारिता यूयमिहागता इत्यनुयुक्तास्ते तूष्णीफाः संवृत्ताः।
१९९-एकशतमध्वर्युशाखा न तु शतम् । यो हि शतमित्यर्थं एकशतमिति प्रयुङ्क्ते स न वेद समासार्थम् ।
२००–भक्ता भक्तिप्रह्राः सन्तो गोस्वामिनश्चरणं स्पृशन्ति ।



१९२- एकोऽपिरतिरिक्त, स त्याज्यः । यद्यपि गुरुचरणा गरीयः किमपि पापमाचरेयुरित्येष संस्कृतस्वरसः ।
१९३- कल्पनयेत्यपास्यम् । गतार्थवात् । स्वकपोलकल्पिता इति च वक्तव्यम् ।
१९४– पारावार इत्यकूपारः समुद्र इत्यदिनां समानार्थः । तेन शोकस्य पारावारें नास्तामिति वक्तव्यम्। पारावारे परार्वाची तीरे इत्यमरात्पारावारे नपुंसके । पारं च अवारं चेति पारावारे ।
१९५– एकादशप्रभृतीनुद्धराम इति वक्तव्यम् । एकादशेनेति तृतीयान्तमस्थाने । लोकभाषाच्छायैषेति व्यवहारं विविदिषुणाऽत्रावधेयम् ।
१९६- अत्रैकस्मिन्नित्यधिकम्। नगरे इत्यनेनैवैकत्वस्योक्तत्वात्।
१९७– कियच्छब्दः संख्याप्रश्ने प्रयुज्यते । एवोनर्थकः । बहूनामिति तु प्रयोक्तव्यम् ।
१९८-तूष्णीक इति तूष्णींशीलो भवति न तु तूष्णीं वाग्यामो वा । प्रकृते। तच्छील्यं नार्थ इति तूष्णीं मौनिन इति वा वक्तव्यम्।
१९९- एकशतमित्येकाधिकं शतं भवति । मध्यमपदलोपी समासोऽयम् । एकं च शतं चाध्वर्युशाखा इति सम्प्रदायः । ।
२००– चरणादिशब्दाः प्रायेण द्वित्व एव प्रयोगमर्हन्ति । न च चरणः स्पृश्यते किन्तर्हि चरणौ स्पृश्येते । उपसंग्रहणविघावुभयोः. स्पर्शस्य विहितत्वात् । वामेन (हस्तेन) वामः स्पर्ष्टव्यो दक्षिणेन च दक्षिण इत्युक्तत्वात् ।



१• श्रद्दध्यात् ।

२०१–परं कुत आगच्छेदियती बुद्धिरेषां सकाशम् ।
२०२-संनिहिते मृगाधिपे मृगव्यकुशलास्ते भयभीता दिशो भेजुः ।
२०३-यदोत्कृष्ठवर्णा कुमारी निकृष्टवर्णेन पाणिग्रहणं करोति स
    प्रतिलोमविवाहो भवति, गर्ह्यते च शास्त्रकारैः ।
२०४–कामं कियत्यपि महत्यधिकारपदे नियुक्तः स्यात्, अवश्यं मानाद् हीयते । यदि कौसृतिको भवति ।
२०५-जनानंा मण्डलीनां मण्डली तमुपतिष्ठति प्रष्टव्यं च पृच्छति ।
२०६-मुक्तात्मानो ज्ञानवन्तो भवन्ति न वा, भवन्तीति
    चेदङ्गीकुरुषेऽन्तःक्रियावत्वं स्वयमेवाभ्युपगतं भवति,
    नाङ्गीकुरुषे चेत् तेषां जडाभिन्नत्वमापतति ।
२०७-अहो परिजनस्य कियान् महान् प्रमादः, देवीं देवताद्वितीयां विजने परित्यजति।



२०१–परं कुतो बुद्धिरियत्येषु जायेत इति, बुद्धिरेतावत्येषामुत्पद्येतेति वा वक्तव्यं ।
२०२-भीता इत्येव वक्तव्यम् । भयशब्देन नार्थः । अर्थप्रतिपत्त्यर्थं हि शव्दप्रयोगः, सोऽर्थो भीता इत्युक्ते प्रतिपन्न इति शब्दान्तरमप्रयोजनकम्।
२०३-उपयामकामंः पुरुषो विधिवत् स्रियाः पाणिं गृह्वाति, अत एव
    निर्वृत्ते विधौ सा पाणिग्रहीतीति व्यपदिश्यते । न च सा
    पुरुषस्य पाणिग्रहणेऽधिक्रियते। तस्मान्निकृष्टवर्णेन ( सह )
    पाणिग्रहणं करोतीति वाक्यं दुष्टम् । निकृष्टवर्णेन (कर्तरि
    तृतीया) पाणिग्रहणं (पाणिपीडनमिति वा) प्राप्नोति ।
    निकृष्टवर्णेन पाणि ग्राहयतेिं, निकृष्टवर्णेनोदुह्यत इति वा वक्तव्यम् ।
२०४- महत्यधिकारे नियुक्तोऽपि चेत्स्यात् इत्येवं वक्तव्यम् । एषा संस्कृते शैली शिष्टानाम् । एकेन वा वाक्येन महत्यधिकारे नियुक्तोपि कौसृतिकोऽवश्यं मानाद् हीयत इति वक्तव्यम् ।
२०५- बह्वयो जनानां मण्डल्यस्तमुपतिष्ठन्तीत्यादि निर्दुष्टः प्रकारः । समुदायस्य समुदायिनोऽवयवा भवन्ति न तु समुदायानांसमुदायो नाम कश्चिदर्थोऽस्ति ।
२०६– भवन्ति चेदित्यादेर्ग्रन्थस्य स्थाने आद्येर्न्तः क्रियावत्वमभ्युपगतं भवति, अन्त्ये जडाभिन्नत्वमापततीति वक्तव्यम् । आद्ये इत्यस्य स्थाने यदि पूर्वः पक्षः,अन्त्ये इत्यस्य च यद्युत्तर इति च शक्यं वक्तुम् । सोऽपि वाचि प्रतियत्नः ।
२०७– अहो परिजनस्य प्रमाद इत्येवं स्वप्ननाटके पाठः । एतमेवार्थमाधुनिकोsन्यथा प्रत्याययति वाक्पद्धतेरपरिचयात् । प्रमादस्य महत्त्वं त्वहो इति निपातेनैवाभिहितम् । कियत्त्वेन च महत्वं विशेषयितुमिष्टम् , तद्वैशिष्ट्यमप्यहो इत्यनेनैवोक्तम् । शब्दशक्तिस्वाभाव्यात् । अनरूपमुपक्रियते निपातैः उच्चाषचेष्वर्थेषु निपतन्तीतिः



      १. मृगया । '२. एकाकिनीम् । देवता परमेश्वर एंव द्वितीया यस्यास्ताम्। आत्मवा । द्वितीयाम्, छायाद्वितीयामिति चापरं प्रकारद्वयम् ।

२०८--शाम्यतु तावत्सोयमनर्थकः प्रलापः ।
२०९--महादुष्करो मोक्षः, स्मृतिश्चैतमर्थमभिवदति---अनेकजन्मसंसिद्धस्ततो
     याति परां गतिम् इतुिं ।
२१०-- तस्मान्मुखपिधातृम्य आर्हृतेभ्यस्तथाऽकुर्वाणाः श्रेयांसः।
२११-- वाताहता दीपार्चिर्निर्वाणमेष्यति, तेन दीयन्तां'
      द्वाराणि ।
२१२--दूरादावसथात्पादावसेचनमितिलघुशङ्कार्थं दूरं
     गच्छेदित्यर्थादापद्यते ।
२१३--यच्वर्म हस्तयोः संवस्त्रयन्तिमृगयवः स हस्तावापो
     ऽभिधीयते ।
२१४--सुमन्त्रेण ग्राहितसन्देशो रामः स्वपितुर्भवनं जगाम ।
३१५--एकदैवं संयोगः समजनि यच्चिरस्य मार्गितश्चिरन्तनो में सखा मया
      समापत्यापथि दृष्टः ।



२०८-प्रलापोऽनर्थकं वच इत्यमरात् प्रलापोऽनर्थक एव भवतीत्यव्यभिचारा-
    द्विशेषणमपार्थकम् ।
२०९–- अतिदुर्लभः सुदुर्लभः, सुदुरापः, दुष्प्रलम्भ इत्येतेषु यः कोऽपि शन्दः
      कामतः प्रयोज्यः । करोतिनां सर्वधात्वर्थानुवादः क्रियतं इति पक्ष-
      समाश्रयेणत्वतिदुष्कर इत्यपि न दोषाय |
२१०- अत्र पिधातृशब्दस्तृन्नन्तो न तु तृजन्त।ताच्छील्यस्य विवक्षितत्वात् ।
     न लोकाव्ययनिष्ठाखलर्थतृनाम् इति कृद्योगलक्षणायां षष्ठ्यां निषिद्धायां
      मुखं पिघातृभ्य इति स्यात् । तत्र द्वितीयासमासस्य प्राप्तिरेव नेति
      द्वितीया समासो न । अकुर्वाणा इत्यत्र ताच्छील्ये चानश् बोध्य:।
     मुखं पिंदधद्भ्यस्तदपिदधानाः श्रेयांस इति न्यासः शोभनतरः स्यात्।
२११- निर्वाणतामेष्यति, निर्वाणा भविष्यति, ‘ निर्वास्यतीति वा वक्तव्यम् ।
      निर्वाणं हि निष्पूर्वाद् वातेर्निष्ठयां रूपम्
३१२-मूत्रार्थे मूत्रणेच्छायां वा लघुशङ्काशब्दो न क्वपिं कविभिः प्रयुक्तपूर्वो।
      दृश्यते लोके बाढं प्रचरितोपीति लेखे नादरणीयः ।
२१३ - मुण्डमिश्रश्लक्षणेत्यादिसूत्रे वस्त्रात्समाच्छादन इति पठितम् । साभाच्छादनेयो वस्त्रशब्दस्तस्माण्णिजित्यर्थः । संवस्त्रयति वस्त्राच्छादनं करोतीत्यर्थः। तेन प्रकृते संवस्त्रयतीति प्रयोगो न संगच्छते । चर्म हस्तयोर्बध्नन्त्यासजन्तीति वा वक्तव्यम् ।
२१४- पितुर्भवनमिति वक्तव्यम् । पित्रादयः सम्बन्धिशब्दास्तत्र सम्बन्धाख्यायकःस्वशब्दो नपेक्ष्यते न च दीयते । मातरं नमति, पितरं नमतीत्यादौ यथा ।
२१५- -एकदा दैवान्क्चिरस्येत्यादि वक्तव्यम् । संयोगशब्दो व्यतिकरवृत्तिर्न । संयोगः सम्पर्कःसंनिकर्ष इत्यनर्थान्तरम् । संशब्दं परिहृत्य दैवयोगादिति वा
      वक्तव्यम्।



          १-१ पिधोयन्तामित्यर्थः । २. पादप्रक्षालनम् । ३• आच्छादयन्ति । ४१.सङगमनेन ।

२१६– अयि पाठकाः । तांस्तान् विषयान्विशदयन्ती चिरं चकासतीयं पत्त्रिका
      भवद्भ्यो रोचते न वेति व्यक्तमुद्यताम् ।
२१७-इदं नाम भवद्दृष्टावपेक्ष्यं स्यान्मम तु सर्वथोपेक्ष्यम्'।
२१८-कृश्चीना यीशुं प्रभुं पाप्मनां क्षन्तारं पावकं च मन्यन्ते ।
२१९ -यजमानायाशीर्वादं कृत्वा प्रातिष्ठन्त यथास्वं गृहाणि याज्ञिकाः।
२२०- ह्यः पाठशाले किमिति नोपातिष्ठथा इति पृष्टोऽसौ मौनमभवत् ।
२२१- इदं ते वचनं स्वापोत्स्वप्नोपमम् । व्याहतत्वात्।
२२२–तत्र महति जन्येऽश्वारोहणां संख्या विंशतिकोटिरासीत् ।



२१६–पाठकोऽध्यापको भवति । पाठयतेर्ण्वुलि रूपम् । यद्यपि पठतेरपि ण्बुलि
      शक्यमिदं रूपं व्युत्पादयितुं प्रयोगस्तु पठितरि न भवति । तेन पठका इति वक्तव्यम्। पठतीति पठः । पचाद्यच् । स एव पठकः । स्वार्थे कन् तथा च भारते प्रयोगः---पठकाः पाठकाश्चैव ये चान्ये शास्त्रचिन्तका:।
      सर्वे व्यसनिनो मूर्खा यः क्रियावान् स पण्डितः ॥ (वनपर्वणि यक्ष-युधिष्ठिरसंवादे ) ।
२१७-भवदृष्ट्यापेक्ष्यमिति वक्तव्यम् । परिहाय वा दृष्टिशब्दं भवत इति
      षष्ठयैवार्थाभिधानं साधीयः । तत्र सम्बन्धे षष्ठी वेदितव्या ।
२१८-अन्यद्धि प्रवृत्तिनिमित्तं शब्दानामन्यत्र व्युपत्तिनिमित्तमितिं पुनातीति
      पावक इति व्युत्पत्तिलभ्येऽर्थे सत्यपि पावकशब्दोऽग्निमेवाह न
      त्वर्थान्तरम्। तेन पावनं पवित्रं वेति वक्तव्यम् ।
२१९--आशिषमुच्चार्य यजमानमाशिषाऽऽशास्येति वा वक्तव्यम् ।
२२०– मौनमिति भावप्रत्ययान्तम् । मुनेर्भावो मौनम् । तेन मौनी समभवदिति वक्तव्यम्, मौनमातिष्टदिति वा ।
२२१-- स्वापोत्स्वप्नोपममित्यस्य स्थाने उत्स्वप्नायितमिवेति वक्तव्यम् । उत्स्वप्नशब्दो बहुव्रीहिः उत्पन्नः स्वप्नोऽस्येति, न तूत्त्पन्नश्चासौ स्वप्नश्चेत्युत्स्वप्न इति प्रादिस्तत्पुरुषः । उत्स्वप्न इवाचरतीत्युत्स्वप्नायत इति प्रयोगः । तत्र बहुव्रीह्यर्थ एव घटत इति व्यक्तम् । सर्वथोत्स्वप्नशब्दः स्वतन्त्रो न प्रयुज्यत इति प्रयोगचुञ्चवः।
२२२-अश्वारोहा विंशतिः कोटय आसन् इत्येवं वक्तुमुचितम् । विंशतिकोटिरिति
      समासोंषि दुर्घटः । विंशतिः कोटयः समाहृताः, विंशतेः 'कोटीनां समाहार इति वा विग्रहं विंशतिकोटीति द्विगुर्नपुंसकं स्यात् ।



      १. उच्यताम् । २. पावयितारमित्यर्थो विवक्षितः ।

२२३-युष्माभिस्तेषामेकतमसिमन्वञ्चकेनेव व्यवहृतम् ।
२२४-घृण्यमिदं कर्म त्वया कथमकारीति नः बुद्धिमुपारोहति ।
२२५–परमात्मनः शपथेनाचक्षे न जात्व् इदमकरवम् ।
२२६-आगतस्य गुरोश्चरणौ धृत्वा भक्तया मौलिमवनमयति शिष्यः ।
२२७–शासनमतिक्रामतोऽपि तस्य न किंमपि कर्तुं शशाक ।
२२८-यः कर्मफलासङ्गं परित्यज्य प्रवर्तते विमुच्यतेसौ सुकृतदुरिताभ्याम् ।
२२९-लोकस्यं विदितोऽसौ पारिपन्थिकः पञ्चदश संवत्सरान्यावत् कारायां
      संयतोऽभूत् ।
२३०-विधानमर्मज्ञोऽयं न्यायाधीशो नैकत्रं पक्षपाती । तेन सर्वो लोक एनं ।
      महयति



२२३-वञ्चकैरिव व्यवहृतमिति वक्तव्यमुपमानोपमेययोर्वचनसाम्याय । वतिर्वा प्रोंक्तव्यः । वञ्चकवद् व्यवहृतमिति ।
२२४-घृणार्हमिति तु वक्तव्यम् । तदर्हतीत्यधिकारे (५|१|६३ ) घृणाशब्दाद्यत्प्रत्ययविधेरसत्त्वात्
२२५-परमात्मना शपे न जात्विदमकरवम् इत्येवं वक्तव्यम् । सत्येन शापयेद्वि-
      प्रमित्यादिप्रयोगाल्लिङ्गातृतीयैव साध्वी।
२२६-चरणौ गृहीत्वेति वक्तव्यम् । स्पृशतिरपि शक्यः प्रयोक्तुम् | धृञ् धारणे
      इंतिं धातुस्तु नात्रार्थे प्रयुक्तंपूर्वः ।
२२७- क्रुद्धः किं मां करिष्यतीत्यादिषु भारते ( वनं० २०६।२४) मामिति
      द्वितीयादर्शनाप्रकृतेपि शासनमतिक्रामन्तं तं न किमपि कर्तुं शशाकेति
      व्यवहारानुगं स्यात् । वेदे च बहुलं द्वितीया दृश्यत इत्यन्यत्र वितत्य दर्शितम् । नागानन्दे तु ( द्वितीयेऽङ्के ) भगवन् कुसुमायुध। तेन त्वं रूपशोभया निर्जितोसि तस्य त्वया न किमपि कृतमिति नायिकोक्तौ
      षष्ठीप्रयोगः । स व्यवहारविस्मरणज इति नानुवृत्यः ।
२२८ -सुकृतदुष्कृताभ्यामिति वक्तव्यम् । सुकृतदुष्कृते हि प्रतियोगिनी ।
२२६–" यावच्छब्दमन्तरेणाप्यत्यन्तसंयोगलक्षणयां द्वितीययैवार्थलाभात्
     किं तेन ।
९३०–न्यायाधीश इत्याधुनिकैः कल्पितः शब्द इति न समादरमर्हति । अत्रायेंऽ
      क्षदशक प्राड्विवाक आधिकरणिक इतिं वा प्रयोज्यम् ।



      १. पूजयेति ।

२३१-ऋषीयो दीर्घसन्ध्यत्वात्सहस्रवर्षाणामायुर्लेभिरे किल ।
२३२-यत्सत्यं हिन्दुभ्योऽपि महत्तराः प्रतिमार्चका मौहम्मदाः ।
२३३-–ते हि द्वेषप्रयुक्ता अचौरमपि तं चौर इत्यभियुयुजिरे
२३४-या भाषा सर्वेषामुत्तममध्यमानामधिकारिणां कृत उपयुक्ता स्यात् सा
      परिग्राह्या ।
२३५–कस्येह संततं सुखमिति पृष्टः शास्त्रविच्छिष्यः साटोपमुदतरत् ।
२३६–अयं साम्प्रतं गम्भीरनिंद्रायां सुखं शेत इति मैनं बूबुधः ।
२३७–पाकिस्तानस्था दिवो वा रात्रौ वा भारतस्य विरुद्धं विषमुद्वमन्ति ।



२३१- सहस्रं वर्षाण्यायुरिति वक्तव्यम् । आयुर्जीवनकालः । स विशेष्यते ।
      विशेषणेन च समानाधिकंरणेन भवितव्यम्। नात्र सम्बन्धो विवक्ष्यते येन
      षष्ठी साम्प्रतिकी स्यात् ।
२३२- महत्तराः प्रतिंमार्चका इत्यस्य स्थाने प्रतिमार्चकतरा इति वक्तव्यम् ।
      अर्चक इति क्रियाशब्दः । योतिशयेनार्चति" सोऽर्चतितराम् , स एव
      कृदन्तात् तद्धितवृत्याऽर्चकतर इत्युच्यते ।
२३३– अचौरमपि तं चौर्येणाभियुयुजिर इत्येवं वक्तव्यम् । अभिपूर्वो
      युजिर्दोषेण योजनायां वर्तते, धनाद्यागमस्य कुतस्त्यतापृच्छायां च। यो
      नामाभियुक इत्युच्यते स पृष्टो भवति, दोषेण योजितो वा ।
      तस्मादचौरमपि चौर इत्यभियुयुजिर इत्यपार्थो न्यासः । तं
      चौर्येणाभियुयुजिर इत्येवं वक्तव्यम् ।
२३४- उपयोगिनी, उपयोगवती, उपकारिका, औपकारिकीति वा वक्तव्यम् ।
      कृत इति शक्यमुपेक्षितुम् ।
२३५- अत्र कृतः प्रतिसंस्कारः पूर्वत्रेति नेह पुनरुच्यते ।
२३६-न हि संस्कृते गभीरं निद्राणो गम्भीरं निद्रातीति वा क्वचिद् व्यवह्रियते ।
      गाढत्वेन पुनर्विशेष्यते निद्रा । गाढं निद्राणः । गाढा निद्रेति । गाढ-
      निद्रया (उपलक्षितः) सुखं शेत इति वक्तव्यम् , अयं गाढं प्रसुप्त
      इति वा ।
२३७– दिवा वा दोषा वेति वक्तव्यम् । अयं हि श्रेयान्न्यास: ।
      प्रतियोगिनोरर्थ-योरव्ययेनैवाभिधानात् । भारतस्य विरोधे, भारतस्य
      विरोधाय, भारतं प्रतीति वा वक्तव्यम् । तत्र विरोधे इति
      निमित्तसप्तमी । विषमुद्वमन्तीत्यस्य बहूनपशब्दान् प्रयुञ्जते बलवन्निन्दन्तीत्यर्थः।



      २. चौरत्वं तत्रारोपयामासुरित्यर्थः।

२३८-गङ्गाधरेणाहल्याया आवेदितं यत्तया राज्यंहिताय कश्चिद्बालो दत्तक
      इति स्वीकार्यः ।
२३९-संस्कृतस्यानिवार्यतासम्पादनोपलक्ष्ये शिक्षामन्त्रिणो विद्वत्समाजेन सभाजनीयाः ।
२४०–संस्क्रुतपण्डितान्विहाय नान्येऽस्योपरिं विचारयन्तीति खेदः ।
२४१-स्थाने तथाकथितायामस्यां सभ्यतायां सत्यामेव्रंकृष्णकर्माणो मनुष्याः ।
२४२–परीक्षामुत्तीर्णानां छात्राणां प्रत्येकं पुरस्कारेण संभावयिष्यते।
२४३-विसंस्थुले मन्त्रिमण्डले भवति नाम प्रजासु द्रोहस्योद्ग्रीविकावसरः ।।



२३८ गङ्गाधरेणाहल्यायै यदावेदितं तत्तन्मुखेरितैरेव शब्दैराख्येयमिति शैलीं शीलयन्ति शिष्टाः। गङ्गाधरश्च संनिहितां पुरोवर्तिनीमहल्यां युष्मच्छब्देन परामृशेन्न तु परोक्षार्थवृतिना तच्छब्देन । तेन त्वया राज्यहिताय कश्चिद्बालो दत्तक इति स्वीकर्य इत्येवं न्यासः कार्यः ।
२३९- संस्कृतस्यावश्याध्येयतासम्पादनेन निमित्तेनेत्यादि वक्तव्यम् । न हि निमित्तेर्थ उपलक्ष्यमिति पुरा प्रयुञ्जते वाग्योगविदः। अनिवार्यताशब्दश्च विवक्षितमर्थं नासन्देहं स्फोरयतीति पराकरणीयः । अनिष्टं नाम वार्यते नत्विष्टम् ।
२४०- नान्ये इदं विचारयन्तीति वक्तव्यम् । अनुकृतिरियं लोकभाषाया बालेष्वेवोपपद्यते न प्रौढेषु ?
२४१-सत्यां सभ्यताभासायामस्यां सभ्यतायामित्येवं वक्तव्यम् । तथाकथितशब्द आधुनिकैर्भाषान्तरस्यानुकुर्वंद्भिः कल्पित इति नादृत्यः । तथाशब्दो हि सत्यापरपर्यायः, तथागतः सुगत इत्यत्र वितथम् इत्यत्र वा यथा । तेनायं विवक्षितमर्थं विपर्यासयतीति परिहार्यः ।
२४२- परीक्षामुत्तीर्णाश्छात्राः प्रत्येकं' पुरस्कारेण सम्भावयिष्यन्त इति वक्तव्यम् । प्रत्येकमिति वीप्सायामव्ययीभावः । अव्ययीभावश्च क्रियविशेषणमिति प्रयुज्यंतें, शब्दशक्तिस्वभाव्यात्, न तु कर्त्रादिकारकत्वं भजते ।
२४३- उद्ग्रीवं करोतीत्युग्रीवयति । णिच्। धात्वर्थनिर्दिशे ण्त्रुल्वक्तव्य इत्युद्ग्रीवयतेर्ण्वुल् । तेनोद्ग्रीविकेति सिद्धम् । उद्ग्रीवीकरणमर्थो न तूद्ग्रीवीभवनम् | तेन प्रकृतेऽसङ्गतिर्विस्पष्टा । तस्माद् उद्ग्रीविकेति प्रयोगो न युज्यते । द्रोहोदयावसर इति तु वक्तव्यम् अभ्युत्थानावसर इति वा । द्रोहस्यात्मन उद्ग्रीविकेत्येवमात्मन इत्यध्याहृत्यं वा समाधेयम् ।



      १. अस्थिरे ।

२४४-चक्रवत्परिवर्तन्ते दुःखानि च सुखानि चेति सुखस्य ध्रुवो नास्ति ।
२४५-किमित्यनधीतव्याकरण इवान्यथोच्चरसि शब्दान् ।
२४६-पितृपादेषु स्वर्यातेषु देवदत्तो, गार्हस्थ्यधुरां वोढु' बाध्योऽभवत् ।
२४७-विद्यालये किं पृच्छयते, तत्र उर्दूभाषायाः प्राधान्यं नापूर्वं किञ्चिदस्ति ।
२४८-अत्रत्यो जनोऽपरिणीतां स्वसन्ततेः शैशवापक्रान्तिं द्रष्टुमपि नालम् ।
२४९-सिन्धुसंविधे बिन्दुमात्राणि संस्कृतज्ञानां राजसेवास्थानानीति ह्रसति प्रतिं-
      वत्सरं संस्कृतच्छात्राणां संख्या ।
२५०-अहो अभिरूपोऽयं सुमनगुच्छकः ।
२५१-यावत्पर्यन्तं नायमात्मानं वेद तावत्पर्यन्तं नाऽस्यार्थः शास्त्रज्ञानेन ।
२५२-पुनर्दुर्दुरूढास्ते यत्नशतेनापिं न शक्येरन्ननुनेतुम् ।
२५३-शुक्लं कर्म नियमेनोदर्ककल्याणाय कल्पते ।



२४४- सुखस्य ध्रौव्यं नास्तीति वक्तव्यम् । भावे प्रत्यय इष्यत इति भावे ष्यञ्
      कृतः ।
२४५–णिजधिक उत्पूर्वश्चरतिः प्रयोक्तव्यः । शब्द उच्चरति तमन्य उच्चारयति ।
      भाष्येपि णिजधिक एवोच्चरतिः प्रयुक्तः । येनोच्चारितेन सस्नालाङ्गूल-
      ककुदखुरविषाणिनां सम्प्रत्ययो भवति स शब्द इति ।
२४६–देवदत्तोऽकामोपि सन् ( अवशोऽपि सन्, अनिच्छन्नपि).गार्हस्थ्यधुरामव-
      हदित्येवं वक्तव्यम् । नेदृशेऽर्थे बाधतिः प्रयुज्यते ।
२४७–का कथा विद्यालयस्येत्येवं वक्तव्यं किन्तु कथ्येत विद्यालयस्येति वा ।
२४८-अकृतविवाहायाः स्वसन्ततेः शैशवापक्रान्तिमित्यादि वक्तव्यम् । परिणीत-
      शब्दमधिकृत्य बहूक्तमधस्तात् ।
२४९-सिन्धुं प्रति बिन्दवों यथेति वक्तव्यम् ।
२५०-सुमनोगुच्छक इत्येव संस्कृतम् । सुमन इति सकारान्तं प्रातिपदिकम् ।
२५१-यावत् तावदित्येते पदे प्रयोक्तव्ये केवले, नार्थः समस्तेन व्यस्तेन वा
   पर्यन्तशब्देन। अत्र नयनयोर्मुकुलत्वेन रूपणं व्यर्थं दरनिमीलितेतिविशेषणेनैव
    तदर्थगतेः ।
२५२-पुनः शब्दः पक्षान्तरे वर्तमानो वाक्यादौ न' प्रयुज्यते । दुर्दुरूटा इति च
    वक्तव्यम् । दुर्दुरूटाः पुनरित्येवं न्यासः कायैः।
२५३- कल्याणोदर्कायकल्पत इंतिं तुं युक्तं वचः स्यात् । उदर्कः
     फलमुत्तरमित्यमरः । तेनोदर्कोऽन्तो न भवति ।

२५४-सुकृतिना सावकेन स्रवदंश्रुसम्पाताः किं समुत्सार्यन्ते शिशव:।
२५५-विनयिनि गुणाः, गुणाच्छ्रीः श्रीमत्याज्ञा, ततो राज्यम् ।
२५६-विद्यागृहीतेर्लगनोत्साहादयः साधनानि ।
२५७-नायमर्थो जनसाधारणस्य गोचरः । बिशेषज्ञा अप्यत्र मुह्यन्ति ।
२५८-धन्याः खलु शिष्यशिक्षासक्षणां विचक्षणा गुरवः ।
२५९-संस्कृत-संख्यावन्तो हि प्रकृत्यैव स्निग्धया दयितयेवाऽकिञ्चनतया सोत्कण्ठं
      कण्ठे गृहीता भवन्ति ।
२६०-अध्ययनमधीयानानां युञ्जानानां च न बह्वन्तरमस्ति । उभये हि कार्य-
      तात्पर्येण दुष्करं कुर्वन्ति ।
२६१ अस्मिन्वस्तुनि गुणा एते, एते च दोषा एतस्मिन्निति विमृश्य हेयोपादेये
      अवधारयेत् ।



२५¥-पितरि सावकशब्दोऽप्रसिद्धः । न च प्रकृतिप्रत्ययपरिचयोऽस्तीति नूत्ना
    अप्रयुक्ताः शब्दाः कल्प्याः ।
२५५-विनयिनि गुणाः, गुणिनि श्रीः, श्रीमत्याज्ञा, आज्ञापके च राज्यम् इत्येवं
    प्रक्रमसाम्यं भवति ।
२५६-लगनमिति भ्वादेर्लगतेर्ल्युटि रूपम् । प्रयोगस्त्वस्य धातोरत्यर्थे
    विरलोऽर्वाक्तनश्च । अत्रार्थे व्यसनमासङ्गोऽभिनिवेशो वा प्रयोक्तव्यः ।
२५७.जनसामान्यस्येति वक्तव्यं जनसमष्टेरिति वा । जनसाधारणं तु जनैः
      साधारणं भवति ।
२५८ सक्षण इति निर्व्यापारस्थितिको भवति न तु सव्यापारः । क्षण उत्सव
      इत्यप्यर्थो न सुष्ठु संगच्छते । अनुप्रासंप्रिय एव कश्चिद्रमसादेवमाहार्थ
      साङ्गत्यमनपेक्षमाणः । शिष्यशिक्षापरायणा इति तु वक्तव्यम् ।
२५९ -संस्कृतज्ञा इति वक्तव्यं संस्कृतं विद्वांस इति वा । संख्य गणना विचारो
      विवेकश्च भवति । तद्वान्संख्यावान् विचारवान् विवेकी विमर्शकः ।
      अमरेण तु पंण्डितपर्यायत्वेन संख्यावानिति पठितम् । प्रविवेकेण
      पर्यायवचनाः प्रयोक्तव्या न साङ्कर्येण ।
२६०- अध्ययनमित्यधिकम् । अधीयानानामित्येव पर्याप्तम् ।
     अथवाऽधीङ्क्रियाविशेषे पठितोपीह क्रियासामान्ये वर्तते । यथा शपथं
     शपत इत्यत्र शपिः । तेन न कश्चिद्दोषः । परं नैतत् प्रायिकम् ।
२६१–अस्मिन्वस्तुन्येते गुणा एते च दोषा इतीत्येवं -वक्तव्यम् । न हि मुधा
     स्वाभाविकः पदक्रमोऽन्यथनीयः, अनपेक्षितं वा पदं प्रयोजनीयम् ।



      १. जनकेन ।

२६२- इदानीमाविष्काराणां समाप्तिप्रायमभूदिति स्पष्टो ह्रसिमा विज्ञानस्यं ।
२६३- यया शिक्षाभासया शिक्षितम्मन्यो जनो दिनस्य द्विर्भोक्तुमपि न लभते सा
     नार्हति समादरम् ।
२६४– यत्सत्यं गुरुकृपाकटाक्षप्रसादभूतं तस्य परीक्षोत्तरणम् , अन्यथा न तेन तत्र
     प्रभूयेत ।
२६५– एवं वृद्धिमुपेयुषि कर्मकरविरोधे यत्किञ्चिद् वेतने वैशिष्ट्यं कर्तुमापत्येत ।
२६६- एवं विषयेष्वनेकेष्वभिविनीयमाना नैकत्रापि पूर्णरूपेण साकल्यमुपसी-
      दन्ति
२६७-यस्माद् हिन्दवो दुराचारान्निष्क्रियान् भिक्षाकान्महीयन्ते तस्मादहर
     हर्हीयन्ते ,



२६२-प्रायेण समाप्तिरभूदिति वक्तव्यम् । आविष्काराः समाप्तप्राया इति वा ।
      प्रायो भूम्न्यन्तगमने । समाप्तेः प्रायो भूमा बाहुल्यमिति समाप्तिप्रायः ।
      अत्र क्लीबत्वं कुतः स्यात् ।
२६३- शिक्षाभासया यया शिक्षया“‘सा नार्हति समादरमेिति वक्तव्यम् ।
     शिक्षाया आभास इवाभासोऽस्या इति शिक्षाभासा । अथवा शिक्षावद्
     आभासत इति शिक्षाभासा । पचाद्यच् । यथा हेतुवदाभासत इति
     हेत्वाभासः ।
२६४–अत्र प्रसाद इति कृपया गतार्थ इति प्रसादभूतमित्यपनीय ।
     फलितमित्यादि पदं देयम् ।
२६५–कर्तुमापत्येतेत्यस्य स्थानेऽकामेनापिं क्रियेत, अवशमपि क्रियेत,
     अनिच्छयापि क्रियेतेति वा वक्तव्यम् । कर्तुमित्यादिन्यासे
     लोकभाषानुकरणरभसादापत्येतेति भावे कर्मणि वा लकारः कथं युज्येतेति
     नेक्षितं प्रयोक्त्रा । आपततेरर्थोपि तस्यानवगतः । स सद्यः पतने
     प्रतिभाने वा वर्तते । सोर्थश्च प्रकृते न संगच्छत इत्यनुदितस्पष्टम् ।
२६६-भूयानत्रातिक्रमः। विषयेऽनेकस्मिन्नित्येव साधु। अनेकमन्यपदार्थे”(२|४|२४)
     इति चात्र लिङ्गम् । तथा च प्रयोगः -तद्भवस्तत्समो देशीस्यनेकः
      प्राकृतक्रमः ( काव्यादर्शे १|३३ ) इति । पूर्णरूपेण साकल्यमिति
      चैकार्थाभिधायि पदद्वयम् । केवलं विभक्ती भिन्ने, तेन पूर्णरूपेणेति
     शक्यं परिहर्तुम् । उपसीदन्तीति च प्राप्नुवन्तीत्यर्थेऽशक्तम् । विवृतोस्यार्थों
      विशेषात्पूर्वत्रेति नेह भूयो वितन्यते ।
२६७- महयन्तीति वक्तव्यम् । महीङ कण्ड्वादिः पूजालाभे वर्तते न पूजने ।



      १. कर्मकरा भृतिभुजः । ये मृता अन्यस्य कृते कर्म कुर्वन्ति ।
      २.आसादयन्तीत्यर्थं विवक्षति । ३. भिक्षाशीलान्। षाकन् प्रत्ययः ।.
      ४.पूजयन्तीत्यर्थं विवक्षति ।

२६८-विदुषां द्वाराऽस्य निर्णयः कार्यः ते हि प्रमाणमेवञ्जातीयकेष्वर्थेषु ।
२६९-विद्वांसो हि विविघाभिर्विधाभिः सम्मानमर्हन्ति ।
२७०-तत्र प्रदेशे सर्वत्र क्षारं जलं सुलभमभूत् , नैकोऽपि बिन्दुरासीद्यो लवणसान्न
    स्यात् ।
२७१-नेदं तिरोहितं जनस्य मन्दाक्षस्यापि ।
२७२–मनुष्यो हि तेषु तेष्वर्थेषु लुब्धस्तृषितो मृगो मरीचिमिव पश्यन्सहसा
    प्रधावति ।
२७३-न हि कश्चित्सहजं स्वभावमतिक्रमितुमलम्।
२७४-संस्कृतं नाम जननी, हिन्दी च तदात्मजेति कथं सत्यां जनन्यां तदात्मजा
      राष्ट्रसिंहासनमधिकरोतु



२६८-विद्वांस एवं द्वारं इति रूपकम् ।, समस्तरूपके विद्वद्द्वारेति वक्तव्यम् ,
      व्यस्तरूपके च विद्वद्भिर्द्वारेति । षष्ठ्या नार्थः ।
२६९-विशिष्टा. विभिन्न विधा यस्य सम्मानस्य स विविधः । तत्र विविधं
      सम्मानमर्हन्तीति वक्तव्ये विविघाभिर्विधाभिः सम्मानमर्हन्तीति वाक्प्र-
      पञ्चेन न किमपि कार्यम् । वाग्डम्बर एव स भवति ।
२७०= च्विंविषये सातिर्विधीयते विकल्पेन कार्त्स्न्ये गम्यमाने । अत्र च्विविषयोऽ
      भूततद्भाव एव नास्ति । कार्त्स्न्यमभिविधिर्वास्ति न वेति विचार एव
      नोन्मिषति । लवणो न स्यादिति तु वक्तुमुचितम् ।
२७१- मन्दाक्षम् इति ह्रियि रूढमिति मन्ददृष्टेर्मन्ददर्शनंस्येति वा वक्तव्यम् ।
२७२- मरीचिकामिवेति वक्तव्यम् । मरीचिरिव मरीचिका । इवार्थे प्रतिकृतौ
      कन् ।
२७३- स्वस्य भावः स्वभावः । स सहजः सहभूरेव भवतीति नार्थो विशेषणेन ।
      संभवव्यभिचाराभ्यां स्याद्विशेषणमर्थवद् इत्युक्तेः । इह च व्यभिचारो
      नास्ति ।
२७४- यदि सिंहासनमधिकरोत्वित्यस्य सिंहासनं स्वीकरोत्वित्यर्थस्तर्हि न दोषः ।
     यदि चाघिकारो नियोग इत्यर्थमाचष्टे तर्हि सिंहासनेऽधिक्रियेतेत्येव निर्दोषं
     स्यात् ।



      १. अधितिष्ठत्वित्यभिप्रैतिः।

२७५–पठिताया अङ्गनया विषये न बहुवक्तव्यमस्ति । सा हि -किमपि गृहकृत्यं न रोचयते ।
२७६-पुरुषार्थचतुष्टयस्य यथायथं सम्पत्तिरजनीति कृतार्थे न जीवितम्।
२७७-अपेक्ष्यते नाम विपश्चितामपि सङ्घभावः येन क्रियात्मकं किमपि कार्ये सम्पद्येत ।
२७८-इहदेशजानामायुः प्रायेण विंशतिवर्षतस्त्रिंशद्वर्षपरिमितं भवति ।
२७९-अत्र पाठशाले रूप्यकाणां विंशतिर्दक्षिणा प्रतिमासं मिलति प्रत्येकं छात्राय व्ययाय ।
२८०ः -चारित्रवताऽऽदर्शज्ञानिना गुरुणा भाव्यम् ।



२७५–पठितमस्या अस्तीति पठिता । अर्श् आदिभ्योऽच् । एवं व्युत्पत्तिसंभवेऽपि दुर्लभोऽस्य प्रयोगः । व्याक्रियन्ते शब्दा व्याकरणेन न तु क्रियन्ते'इत्यसकृदुक्तमधस्तात्' । तेन नहि यत्र तत्रार्शआदित्वं कल्पयित्वा नूत्नाः शब्दाः कार्याः।(२|३ ) किरातटीकायां मल्लिनांथेन द्रौपदींमधिकृत्यापठितेत्युक्तम्-अत एवेयमपठितापि साधु वक्तीति युज्यते विस्मय इत्यर्थ इति ।
तत्र अविद्यमानं पठितं पठनं यंस्याः सेति विग्रहः। पठिताशब्दस्तु
पाठवत्यर्थे न क्वचित्प्रयुक्तपूर्वः । तेन पठितवत्याः श्रुतवत्याः साक्षराया इति वा वक्तव्यम् ।
२७६–यथायथं यथास्वं भवति । तस्माद् यथातथमिति वक्तव्यम् ।
२७७–कार्यं नाम क्रियात्वं न, व्यभिचरति, तेन क्रियात्मकमिति विशेषणं व्यर्थम्। किमपि साध्यं साध्येतेति शब्दान्तरैरपि सोर्थः शक्योभिधातुम् ।
२७८-आयुर्विंशतिवर्षावरं त्रिंशद्वर्षपरं भवतीति वक्तव्यम् । यथास्थिते त्वर्थ एव कश्चिन्नास्ति ।
२७९-मिल संगमन इति तुदादिः। अयमकर्मकः । अस्य संगतिमात्रमर्थः न तु लब्धिः । रूप्यकाणां विंशति दक्षिणामेकैकश्छात्रो लभते इत्येवं न्यासः कार्यः । अव्ययीभावाः क्रियां विशिंषन्तिः । तेनच्छात्राः प्रत्येकं ( यथा स्यात्तथा ) लभन्त इति वक्तव्यम् , एकैकश्छात्रो लभत इति वा ।
२८०-ज्ञानिनामादर्शेन गुरुणा भवितव्यम् । आदर्शो दर्पणो भवति । आदर्श इवादर्श इत्यौपमिकः प्रयोगः । यत्र स्वरूपं यथावद् दृश्यते स आदर्शः ।किंलक्षणा ज्ञानिनो भवन्तीति तत्र भवति गुरौ द्रष्टव्यम्भवतिं। नृपतीनामदर्श इत्यादेश च कादम्बर्यादिषु दर्शनादयमेव प्रकारः शिष्टजुष्ट इति संदेहानवकाशः ।



      १. अत्र वैकल्पिकी तत्पुरुषस्य नपुंसकता ।

२८१-इदं चाध्यापकैरध्यायिभिश्च समं स्मरणीयमुभयांलङ्कारो बोधोपजन इति ।
२८२-तस्य जनसेवाकार्यकलापैः सह विद्यायामपि सविशेषांऽभिरुचिरभूत् ।
२८३-अत्रत्यं सर्वं चिकित्सादिकार्यमेकस्य महावैद्यस्य संरक्षणे भवति।
२८४–पुत्रा हि पितरौ जीवद्दशायां प्रीणयेयुः, उपरतयोस्तयोर्भक्तया श्रद्धया वां न कश्चिदर्थः।
२८५-हंसकारण्डवादिपदाभिधेयाः के नाम पक्षिण इति केचिद् भाग्यवन्त एव परिचिताः स्युः ।
२८६-नेदानीं सन्त्युपयुक्ता ग्रन्था इति न सारवद्वचः ।
२८७-बद्धानामप्यपराद्धानां सर्वा आवश्यकताः पूरणीया भवन्ति राजभिः ।
२८८-कौटलीयार्थशास्त्रप्रभृतीन् ग्रन्थान् विलोक्य परं विस्मयन्ते युरोपीया राजनीतिकाः ।



२८१–अध्यापकैरध्यायकैश्चेति न्यासः शोभनतरः स्यात् ।
२८२–जनसेवाकार्यकलापेष्ववेति वक्तव्यम् । यथास्थिते तु कार्यकलापानां विद्या याश्च साहचर्यं गम्यते तच्च न विवक्ष्यते । अपिशब्दश्चैवं व्यतिरिक्तो भवति। कार्यकलापाश्चाभिरुचेर्विषयो न भवन्ति । कार्यकलापैः सहाभियचिरियन्वये त्वस्थाने सहशब्दः । नहि सहशब्दो विषयं वक्ति, किन्तर्हि साहचर्यम्।
२८३–वैद्यस्य संरक्षणे भवतीत्यपास्य वैद्येन संरक्षितं वर्तते । संरक्षण इति सप्तमी किमर्थिका । वैद्ये च महच्छब्द उपपदं न देयम् । तथा चोक्तम्-“शंखे तैले तथा मांसे वैद्ये ज्यौतिषिके द्विजे । यात्रायां पथि निद्रायां महच्छब्दो न दीयते ॥ इति ।
२८४– जीवद् दशायां इत्यस्य जीवतोर्दशेत्येव विग्रहः । का सेति च नोक्तम् । पितरौ जीवन्तौ जीवौ वा प्रीणयेयुरिति वक्तव्यम् ।
२८५- इति परिचितवन्तः स्युः । परिचिनोतेः कर्तरि क्तवतुः। परिचिता इत्यत्र कर्मण्येव क्तः, स चार्थमभिवाञ्छितं नार्पयति ।
२८६- उपयोगिनो ग्रन्था इति वक्तव्यं। उपयुक्ता नियमपूर्वकधीता
     भवन्त्युपयोगं वा येन केन प्रकारेण नीताः ।
२८७- आवश्यकतेति शब्द एव नास्तीत्यसकृदुक्तमघस्तात् । तेनेह अपेक्षितमर्थजातं संविधेयं कल्प्यमिति वा वक्तव्यम् ।
२८८– राजनैतिका इत्यत्रोभयपदवृद्धिर्दुर्लभा । अनुशतिकादिषु राजनीतिशब्द स्यान्तर्भावे प्रमाणविरहात् । ठकुठञो चापि दुर्लभौ । तेन राजनीतिशब्दात् तदधीते तद्वेदेत्यण् प्रसक्तः, अनिष्टरूपप्रसङ्गश्च । तस्मान्नीतिविदो नृपनीतिविदो वेति वक्तव्यम् ।



      १. ज्ञानवृद्धिः।

२८९-सकृल्लुप्तप्रचारा भाषा कोषव्याकरणबलेन भूयः प्रवर्तयितुमशक्यम् ।
२९०–आसीदयोध्यायां शतक्रतोरवमानं नेच्छुर्दिलीपसूनू राघववंशप्रवर्तको राजा रघुर्नाम ।
२९१- यत्सत्यं महाराजो दिलीपो नृपाणां ककुदिति व्यपदेशमर्हति ।
२९२-तत्राभिनये प्राध्यापकाः सूत्रधारस्य पात्रं वहन्ति ।
२९३-प्रायेण पुत्राः पितरावतिवर्तन्ते, स्वच्छन्दश्चैवानुवर्तन्ते ।
२९४–गोपशिशुभिः सह संगतः खेलति नन्दकिशोरः ।
२९५–पूर्वाः कविकृतीराधार्यकिमपि प्रणेतुं प्रयतिष्ये ।
२९६-धर्मः प्रभवत्यर्थकामयोरुपरीति शास्त्रम् ।



२८९~वाक्यादावेव सामान्योपक्रमेऽशक्यमिति शक्यं विलिङ्गवचनमपि प्रयोक्तुं न तु मध्येऽवसाने वा । तेन शक्येति वाच्यम् ।
२९०–वाक्ये नञ् प्रसज्यप्रतिषेधे वर्तते क्रियापदेन चान्वेतीत्यवमांनमिच्छुर्दिलीपसूनुः श्रीरघुनासीदित्यर्थः स्यात् । सोऽनिष्ठः । अथावश्यसमाधेयं नेच्छुरिति नशब्देन सुप्सुपासमासोभ्युपेयताम् ।
२९१-ककुदमिति शब्दोऽकारान्तः क्लीबे । तस्यावस्थायां गम्यमानायां लोपः शिष्यते न तु यत्र तत्रोनियमेन । तेन ककुदं नृपाणां नृपतिककुदमिति वा वाच्यम् ।
२९२-सूत्रधारस्य वेषं परिह्णन्तीति सूत्रधारभूमिकायां वर्तन्त इति वा वक्तव्यम्। पात्रं त्वभिनेता पुरुषो भवति अभिनेत्री स्त्री वा । सूत्रधारस्य पात्रं वहन्तीत्यनर्थकः पदसन्दोहः ।
२९३- इच्छावचनश्छन्दशब्दोऽदन्तः । तेन स्वच्छंन्दमनुवर्तन्त इति वक्तव्यम् ।
२९४– अत्र सहार्थस्य संगत इत्यत्र सम्शब्देनैव गमितत्वात्सहशब्दो व्यतिरिक्तः,स हेयः ।
२९५- आङ्पूर्वो धृञ् धारण इति धातुराश्रयदाने आधाने वर्तते न त्वाश्रयणे । स्वार्थे णिच् । अनड्वान् दाधार पृथिवीमुत द्याम् (अथर्व० ४।११।१) इत्यत्र यथा । कविकृतिभ्य आश्रयं दत्वा, तदाधारो भूत्वेति विपरीतार्थोपलब्धिः । बहराधारावायानामुपसंख्यानमित्यत्र आध्रियतेस्मिन्नित्याधार इति व्युत्पत्तिः काशिकायाम् ।
२९६- धर्मोऽर्थकामयोः प्रभवतीत्येव पर्याप्तम् । तत्र शेषे षष्ठचैवोपर्यर्थस्य गमितत्वात् ।



      १. आधारीकृत्येति विवक्षति ।

२९७-मातरिशूरो देवेंदत्तो नूनमपारीणः प्रधनभुवि शत्रुभिर्योद्धुम् ।
२९८–दयालो रक्ष रक्ष कृच्छ्रिणो नः । नित्यं हि स्वशरणान् रक्षसि ।
२९९-ऐषमः श्रीजवाहरलालः कांग्रेससदसो मनोनीतः सभापतिः,प्रप्ताधिकारोऽसौ कां नीतिमनुसरिष्यतीति विविदिषति लोकैः ।
३००-ये चक्षुष्मन्तोप्यचक्षुष इव पथो भ्रंशिष्यन्ते ते संकटेषु.घटिष्यन्ते
३०१-एवमाचरतो मे लोमाऽपिःन वक्रीभूतम् ।
३०२- यदा प्रभृति वैदेशिकराजसत्तयाऽस्मिन्देशेऽधिकृतं तदा प्रभृत्येव विजृम्भितं दारिद्रयेण ।



२९७- पारीण इति शक्यं द्विधा व्युत्पादयितुम् । राष्ट्रावारपाराद्घखावित्येतद्विहितेन शैषिकेण खप्रत्ययेन, अवारपरात्यन्तानुकामं गामीत्यनेन वा खप्रत्ययेन । पूर्वत्र खप्रत्ययस्य तत्र जातः, तत्र भवः,तत्र प्रायभवः तत्र संभृत इत्यादयोऽर्थाः। पारीणः पारे जात इत्यादिरर्थः,। स च नेह घटत इत्युपेक्ष्यः । उत्तरत्र पारं गमिष्यतीति पारीणं इत्येवार्थः, नत्वर्थान्तरमस्ति । तेन पारीण इति प्रभुः समर्थो वा न भवति । न चायमत्रार्थे प्रयुक्तपूर्वः । तस्मादप्रभुरक्षम इति वा प्रयोज्यम् ।
२९८- शरणं गृहरक्षित्रोरिति वचनाच्छरणं रक्षितृजन उच्यते । तेन शरणागतानिति वक्तव्यम् ।
२९९- काङ्ग्रेससदखा पतिरिति वृतः ( पतित्वे वा वृतः ) प्राप्ताधिकारोऽसावित्यादिर्विन्यासोऽपहतदोषः स्यात् । काङ्ग्रेससदसः सभापतिंरित्येवं विन्यासे एकत्र सदःशब्दोऽपरत्र सभाशब्दः किमपि स्खलति श्रवणयोः। मनोनीत इति सर्वथा दुरूहम् । लोकभाषाज्ञैरिदानीमेव कल्पितमिदं संस्कृतज्ञानां नार्हति मात्रयापि समादरम् ।
३००- घट चेष्टायामिति भूवादिषु पठ्यते । तस्य पतनमर्थस्तु न क्वांपिं दृष्ट इति निराकृत्यमेतत् ।
३०१- लोमापि नामीयतेत्येवं वचनं व्यवहारानुगं भवति । तत्र मीङ् हिंसायामिति दिवादिरकर्मको धातुः ।
३०२- राजसत्ता राजभाव इत्यनर्थान्तरम् । तेन नात्र दोषः । अस्मिन्देशेऽधिकृतमिति तु दुष्टम् । अधिकरणं नाम नियुक्तीकरणम् , अधिकारवत्त्वसम्पादनं प्रसहनं स्वीकरणं वा भवति । अधिकारलाभस्त्वस्य नार्थः राजसत्ता देशेधिकृता, देशमधिकृतवतीति वा वक्तव्यम् ।



      १. अशक्त इत्यर्थेत्र प्रयुक्तम् । २. नाम्ना निर्दिष्टोऽनधिष्ठितकार्यासन' इति विवक्षति ।
      ३. निपतिष्यन्तीत्यभिप्रैतम् ।

३०३-सत्यायुःशेषे यदि नरं सर्पोऽपि दशति चेन्न तस्य प्राणा उत्क्रामन्ति .
३०४–इदमत्र नो हार्दम् । न प्रयत्नादिरन्तव्यम् , अनिर्वेदः श्रियो मूलमिति च स्मर्तव्यमिति ।
३०५–एतेनास्माकं पुस्तकानां पूज्यतासमयस्य ध्यानमायाति ।
३०६-शतक्रोशमितविप्रकृष्टेभ्यः प्रदेशेभ्यो वेदपारगं तं विपश्चित्तमुपासीदन् विद्यार्थिनः ।
३०७- स एकाकी कार्यमिदं सम्भालयितुं नाशकत् ।
३०८-भुव्याकृष्टिशक्तेरुपज्ञायाः श्रेयः श्रीन्यूटनस्येति नार्य्याः सहन्ते ।
३०९-दशवर्षावस्थायामेव श्रीशङ्करः शास्त्रौघमवेदीत् ।



३०३– अत्र यदीति च चेदिति च समानाभिधेये प्रयुक्ते । एकतरं तु शक्यं परिहर्तुम्। तेन यदिशब्द एव परिहार्यःचेच्छब्दस्तु रंक्ष्यो लाघवाय । सति यदौ तदेति वक्तव्यं भविष्यति ।
३०४– हार्दमित्यभिप्रायार्थेऽशक्तम् । हार्दमिति हृदिस्थं भवति । प्रेमा, वा ।तमो हार्दं निवारयन् इति सायणः । प्रेमा न प्रियता हार्दमित्यमरः । तेनायं नो हृद्गतोऽभिप्राय इति वक्तव्यम् ।
३०५– एतेन वयं पुस्तकानां पूज्यतासमयं स्मारिता भवाम इत्येवं वक्तव्यम् । एतेन पुस्तकपूज्यतासमयोऽस्मत्स्मृतिविषयतां नीयत इत्येवं वा वाच्यम् ।
३०६- शतं क्रोशान्विप्रकृष्टेभ्यः प्रदेशेभ्य इति. शतात्क्रोशेभ्य इति वा वाच्यम् । प्रदेशेभ्य इति चावाच्यम् । पूर्वत्र कालाष्वनोरत्यन्तसंयोगे इति द्वितीया ।
३०७- सम्भालयितुमिति चिन्त्यम् । भल आभण्डने चुरादिरनुदात्तेत् । आभण्डनं निरूपणम् । प्रकृते तु नायमर्थः संगच्छते । इमं कार्यभारं वोढुमिति वक्तव्यम् ।
३०८- आकृष्टिशक्तेरुपज्ञातेति उपज्ञाया इति वा प्रशस्यः श्रीन्यूटन इत्येवं वक्तव्यम् । अत्रोपज्ञाया_इति हेतौ पञ्चमी । श्रेयः शब्दो मोक्षेण समानार्थकः । तथा ह्याह-मुक्तिः कैवल्यनिर्वाणश्रेयोनिःश्रेयसामृतमिति । यत् किञ्चित्
प्रशस्यतरं तदपि श्रेयः । उपज्ञाया श्रेय इति तु नार्थं कमप्यर्पयति ।
३०९- दशवर्ष एवेति वक्तव्यम् , वयसा दशहायन इति वा । दशवर्षावस्थेति दुर्घटः समासः ।



      १. अभिप्राय. इत्यभिप्रैति । २. वोदुमिति विवक्षति ।
      ३ प्रशस्तिरित्यर्थं प्रयुक्तम् ।

३१०-तेन महाजनेन धनराशिरपि पुष्कलोऽर्जितः यत्परिणामस्वरूपोऽयं विद्यालयः।
३११-शास्त्रेषु परं प्रावीण्यं गतः स आचार्यचरणाद् विद्यावाचस्पतिरितिं पदं लेभे ।
३१२ –ज्योतिष्मत्याः पत्रिकायाः स्वातन्त्र्याङ्कस्थगने शासितृणां कोऽभिप्राय इति
नं सुज्ञानम् ।
३१३- इतः पेरेसनामकं नगरं गतः स श्रेष्ठी रत्नानां व्यापारमकरोत्किल ।
३१४- आनुषङ्गिकं पथि स्खलितः स भग्नपादोऽजनि-- ।
३१५- क्व पातिव्रती ते क्व च लीलाऽपरासाम् ।
३१६- अधिमरणविष्टरं शयानः पिता पुत्त्रानेवमनुशशास ।
३१७- अयमहं महतः कालस्य कृते मौनमालम्बे ।



३१० यत्परिणाम इत्येव । स्वरूपशब्देन नार्यः । यत्परिणामभूत इति तु शक्यं वक्तुम् ।
३११- आचार्यचरणेभ्य इति वक्तव्यम् । तत्पुरुषे समास उत्तरपदं चरणशब्दो बहुत्वे वर्तमानः पूजावचनो भवति न त्वेकत्वे ।
३१२- स्थगनमावरणं भवति न रोधनं प्रतिषेधनं वा। प्रत्यादेशनमित्ति तु वक्तव्यम् । यथा विक्रमोर्वशीये जलदसमयं प्रत्यादिशामीति पुरूरवस उक्तिः ।
३१३- व्यापारशब्दः कार्यासङ्गमेवाह न तु क्रयविक्रयव्यवहारम् । तेन रत्नानां व्यवाहरदिति वक्तव्यम् । व्यवहृपणोः समर्थयोरिति कर्मणः शेषत्वविवक्षायां षष्ठी । कर्मणि तु द्वितीया स्यादेव । रत्नानि व्यवाहरदिति ।
३१४- अनुषङ्गादागतमानुषङ्गिकम् । अनुषङ्गः प्रसङ्गः परम्परासम्बन्धः । अत्र तेनार्थेन नार्थः । तस्माद् दैवाद्, यदृच्छयेति.वा वक्तव्यम् ।
३१५- न हि ष्यञः षित्वासुलभो ङीष् सर्वत्र समुत्पाद्यः । न हि भवति ब्राह्मणस्य भावः कर्म वा ब्राह्मणीति। एवमत्रापि ङीष्सौलभ्येऽपि पातिव्रत्यमित्येव प्रयोक्तव्यम् । व्याक्रियन्ते हि शब्दा व्याकरणेन न तु क्रियन्ते ।
३१६- अधिमृत्युशय्यमित्येव ऋजुर्न्यासः । न ब्रूमः स्वस्य कोपपरिचयो न घोष्य इति । शब्दाडम्बरस्तु परिहार्यः ।
३१७- कृते इत्यस्थाने । तस्य कारणादित्येवार्थः। स च प्रकृते नोपपद्यते । षष्ठ्यपि च । तदर्थस्यानुपलम्भात् । तेन महान्तं ’
कालं मौनमालम्ब्य इत्येवं वक्तव्यम् । अत्यन्तसंयोगे द्वितीया ' यावच्छब्दो वा प्रयोज्यः, तद्योगेपि द्वितीयोपपतिर्मती भविष्यति । चतुर्थ्या अपि प्रसङ्गो न । तादर्थ्यविरहात् ।



      १. निरोधेर्थे प्रयुक्तम् । २. यदृच्छयेत्यर्थं विवक्षति । ३. पातिव्रत्यम्।

३१८- यावान् सिद्धान्तस्य सम्बन्धः स वादिप्रतिवादिभ्यां स्वयं विनिश्चयः। नास्माकं पक्षपरिग्रहो युक्तः ।
३१२–पदव्यो वृण्वन्ति प्रथितयशसं त्वामुपनताः ।
३२०-गभीरार्थप्लुतेयं भाष्यटीका, क एनां कुर्यादन्यत्र हरेः ।
३२१-इदानीमिङ्गालहीरकयोर्मूलत ऐक्यं विज्ञाय मानवो हर्षगद्गदो भवति ।
३२२-सोऽधिकारिपदमधिकृत्य स्वानवाधीरयद् गौरवं च स्वस्यालघयत् ।
३२३-रघुः किल सर्वस्वदक्षिणं विश्वजितं यज्ञं चकार ।
३२४-पश्यतामेव नो गोब्राह्मणस्य रक्षकास्तद्धातका अभूवन् ।
३२५-सर्वा च शिक्षाप्रणाली परीक्षासु निर्भरतामापद्यते ।



३१८- कः सिद्धान्त इति तु, सिद्धान्तस्तु वादिप्रतिवादिभ्यमित्यादि वा वक्तव्यं व्यवहारानुगमाय । पूर्वत्र विकल्पे विनिश्चेयमित्यनुषज्जनीयम् ।
३१९- वृणत इति वाच्यम् । वृङ संभक्ताविति xयादिः प्रयोक्तव्यः । सम्यग् भजनं संभक्तिः । वृञ् वरण इति स्वादिस्तु प्रांयेणाङ्पूर्वः प्रयुज्यते प्रच्छादनं चाह। सम्पूर्वोपि तमेवार्थं ब्रूते ।
३०- केवलः प्लवतिस्तंरणे वर्तते । यल्लघु तत् प्लवते । उडुपस्तु प्लवः. कोलः इति, कोषः । आङ्पूर्वस्त्वभिषेचने वर्तमानः सकर्मको भवति । तेन गभीरार्थप्लुतेति वक्तव्यम् ।
३२१- हर्षपरीत इत्यर्थे. हर्षगद्गद इति पदमशक्तम्। गद्गद इति वाचि स्खलनं वाक्सङ्गो वा भवति । सगद्गदं ब्रवीति । सगद्गदया वाचा ब्रवीति ।
३२२- अधिकारिपदमधिष्ठायेति तु साधीयः स्यात् । अध्यास्येति वा प्रयोक्तव्यम् ।
      
३२३- यज्ञमाजहार, यज्ञे वितेने इति वा प्रयोज्यम् । अत्राङ्पूर्वो हरतिर्वा प्रयुज्यते विपूर्वस्तनोतिर्वा । विश्वजिता यज्ञेनेजे इति वा तृतीयाप्रयोगो व्यवहारानुपाती ।
      
३२४- नात्रानादराधिक्यमभिप्रेयते भावलक्षण इति षष्ठया अप्रसङ्गः । अचिरप्रवृत्तोयं रक्षकपूर्वैः कृतो गोब्राह्मणधात इत्येव विवक्षितं न त्वस्माननादृत्य स प्रवृत्त इत्यर्थः । तेन भांवलक्षणा सप्तमी साधुः स्यांत् । पश्यत्स्वस्मास्विति ।
३२५- परीक्षासु लम्बते,‘परीक्षाः संश्रयत इति वा वक्तव्यम् । निर्भरशब्दस्य तु नायमर्थ इत्यसकृदवोचाम । अत्रार्थेऽयं गरवत्परास्यः ।



      १. उपाधयः । २. वारयन्ति । ३. हर्षपरवश इत्यर्थ इत्यभिमन्यते। ४ परीक्षैकसमाश्रया भवतीति विवक्षति ।

३२६-प्रतिपक्षिणों दुरुत्तरेऽप्यभ्युपगमवादेन तदङ्गीकृत्य प्रकारान्तरेण व्यवस्थापने दुर्जनतोषन्यायः प्रवर्तते ।
३२७–लोकाः खलु लोभस्य संमुखे धर्मस्य बलिं ददति प्रायेण ।
३२८-गतो वनं श्वो भवितेति रामः शोकेन देहे जनतातिमात्रम् । ( भट्टौ ३११)
३२४- अहो बतानर्थसङ्घोऽस्मानुपनतः कथमतो निर्मोक्षः स्यात् ।
३३०- क्रूरं तस्य समाचारमाकर्णितवतो मे चक्षुषः शोणितमवतरति ।
३३१-धूमबहुलास्तमस्विन्यो घटा गगनं स्थगयन्ति ।
३३२–स समयः कथं कथमपि निष्क्रान्तः वयं च प्रासराम ।
३३३-जीविकासमस्या दैनन्दिनं जटिलायमानेव दृश्यते ।



३२६- प्रतिपक्षिणो दुष्टमप्युत्तरमभ्युपगमवादेनाङ्गीकृत्य प्रकारान्तरेण तस्य व्यवस्थापन इत्यादिरुपन्यासोऽनवद्यः स्यात् । दुरुत्तर इति भावलक्षणा सप्तमी प्रयुक्ता । न तु विषयसप्तमीति विस्पष्टम् भावलक्षणायाश्व सप्तम्या नैष विषयः । तत्र हि यस्य -भावेनान्यस्य तद्व्यतिरिक्तस्य भावो लक्ष्यते तत्र सप्तमी विधीयते । अत्र दुरुत्तरसद्भावेन स्वस्यैवाङ्गीकाररूपो भावो लक्ष्यते । प्रपञ्चितोऽयं विषयः पूर्वार्द्ध इति तत एव विशेषोऽवधार्यः ।
३२७-लोभाय धर्मं बलिं ददतीति वक्तव्यम् । सुमुखे इति व्यर्थम् । धर्मस्येति षष्ठी दुरूपपादा । धर्म एव बलिर्न तु धर्मसम्बन्धी कश्चिद् बलिर्नाम ।
३२८-गत इति भूतकालः श्वो भवितेति भविष्यत्कालेन सम्बध्यमानः साधुः ।
धातुसम्बन्धे प्रत्ययः( ३।४।१ ) ।
३२९-समैर्वर्गः सङ्घसार्थो तु जन्तुभिरित्यमरात्सङ्घ इति प्राणिसमुदाये रूढः । तेनानर्थसंनिपात इति वक्तव्यम् ।
३३०-चक्षुषी क्रोधताम्रे भवत इति वा रोषारुणिते इति वा वक्तव्यम् ।
३३१-करिणां घटना घटेति कोषात्करिसमुदाय एष शब्दो रूढः: मेघमालायां सु कादम्बिनीति प्रयुज्यते । तेन तमस्विन्यः कादम्बिन्य इति. निर्देष्टं स्यात् ।
३३२- निष्कान्त इति निःसृतो बहिर्गत उच्यते । अतीतोऽतिक्रान्तो व्यपगत इत्यादिष्वन्यतमं प्रयोज्यम् ।
३३३-समस्येव समस्येत्यौपमिकः प्रयोगः साधुः । दैनन्दिनमिति तु न क्वचित्प्रयुक्त-पूर्वम् इति नादृत्यम् । दिने दिने, दिनाद् दिनम् अनुदिनमिति वा वक्तव्यम् ।



      १. अनुदिनभित्यर्थं विवक्षति ।

३३४-पारक्या नो वल्लभां धरां स्ववशे कृत्वा चिरं रेमिरे ।
३३५–सेयं हृदयसंकीर्णता नाम निरनुक्रोश पिशाची | इयं निसूदनीया ।
३३६-अयं चालसानां स्वभावो यत्त उपस्थितस्यावसरस्य लाभं न गृह्णन्ति ।
३३७–कृपापीयूषलेशार्थं पदाब्जे ते निलीनोऽहम्।।
३३८–सूक्ष्मोऽयमर्थः सर्वस्य प्रेक्षणं नेयात् ।
३३९-नात्र भोजनादिविषये कापि सुविधा समस्ति तेन नचिरात् स्थानमिदं
      त्यक्ष्यमः ।
३४०–कथनस्येदं तात्पर्यं-सर्वस्यार्थिनः समर्थस्याध्ययनेऽधिकारो न त्वध्यापने ।



३३४-श्रेयान्स्वधर्मो विगुणः पारक्यात्स्वनुष्ठितादित्यत्र भनौ दर्शनात्पारक्यशब्दोऽष्टाध्याय्यामव्युत्पादितोऽपि साधुः । शिष्टप्रयोगात् । परं पारक्यः परकीयो भवति, न तु पर इति प्रकृते प्रयोगोऽस्थाने। परे इति तु वक्तव्यम्।
३३५-संकीर्ण प्रकीर्णे व्यतिकीर्णे संमिश्रमित्यनर्थान्तरम् । संकुचिंते तु नास्य प्रयोगः । तेन सोऽयं हृदयसंकोच इति वक्तव्यम् । उपमानेन लिङ्गसाम्याय "तु सेयं हृदयसंकुचिततेति संकुचितहृदयतेति वा वक्तव्यम् ।
३३६-उपस्थितमवसरमुपयोगं तं नयन्ति इत्येवं शिष्टशैल्यनुविहिता भवति । अवसरस्य लाभं गृह्ण्न्तीत्यस्यावसरं लभन्त इत्येवार्थः।
३३७–पदाब्जे इत्येकवचनं न युक्तम् । पदादीनां द्वित्वाविष्टr‘जातिः प्रायेणेति द्विवचनमेव युक्तम् । निलीन इति तिरोहितो भवति । पदाब्जे अभिलीन इति वक्तव्यम् । पदाब्जे इति द्वितीयाद्विवचनम् । अभिपूर्वो लीड् सकर्मक, यथा भुजतरुवनं मण्डलेनाभिलीन इत्यत्र मेघदूते । आश्रितश्चार्थः।
३३८- प्रेक्षामिति वक्तय्यम् । प्रेक्षेति बुद्धिपर्यायः । तथा चामरेपाठ:--प्रेक्षोपलब्धिश्चित्संवित्प्रतिपज्ज्ञप्तिचेतना इति । प्रेक्षणशब्दस्तु तत्राप्रसिद्धः।
३३९- शोभने विधा सुविधा भवति, न तु सौकर्यम् । केचित्सौविध्यमिति,सौकर्यार्थे सांधु पश्यन्ति। तन्न। सुकरमित्यर्थे. सुविधानमिति, भवति, न तु सुविधम् । आतो युच् (३।३।१२८) इति खलर्थे युच्॥ तेनासति सुविधशब्दे सौविध्यमिति भावप्रत्ययान्तं सुतरां दुर्लभम् । सुविधाशब्दात् स्वार्थे ष्यञि सौकर्यं नार्थ इति सुविधासौविध्ये उभे अपि हेये। सौकर्य मित्येव प्रयोगार्हम् । किमपि सौलभ्यं नास्तीति तु श्रेयान् वाचां मार्गः ।
३४०- कथनस्येदं तात्पर्यम् इत्यपूर्वः , संस्कृते प्रकारः। एतदुक्तं भवतीति प्रयोज्यम् । अयमर्थ इति वा ।



      २. परे इत्यर्थ.इत्यभिमन्यते। "२. हृदयसंकोचं इत्यर्थे प्रयोगः ।

३४१-आङ्गलाः खलु महाकवेः शेक्स्पीयरस्य कृते समस्तं साम्राज्यमपि वारयितुं पारयन्ते ।
३४२-सुखसंवादमिमं श्रुत्वा सर्वे ते प्राहृष्यन् धन्यं चात्मानमकलयन् ।
३४३-शिशिरर्तुस्ततोपि रात्रेः समंयः।
३४४-व्याधस्तदानीं किञ्चिदग्रेऽवर्धत गुल्मकतिरस्कृतं चापश्यत् कण्ठीरवम् ।
३४५-साहित्यं खल्वस्माकमव्यक्तभावान्व्यक्तीकृत्य प्रभावयत्यस्मान् ।
३४६–चरणचपेटभिस्तस्य चपलतां चूर्णयामास ।
३४७-वत्स! मा भैषीरिति मुहुर्मुहुरुच्चैरुच्चचार तातः ।
३४८-नित्यं तिग्मानि तपांसि तपन्नयं यतिरिदानीं त्वगस्थिभूतः ।
३४९-यत्सत्यमियं भारतसंहिता वेदैः समितो ज्ञाननिधिरस्ति ।



३४१~वारयितुमिति वृड्. संभक्तावित्यस्मात्तुमुनि रूपम् । अर्थस्तुं विवक्षितो नार्यते । तेन हारयितुमिति वक्तव्यम् ।
३४२ -कुशलवृत्तान्तमिमं श्रुत्वेति, वक्तव्यम् । संवादः संलापो भवति नोदन्तः
३४३- प्रथमं तावच्छिशिरस्तत्रापि रात्रिरिति शिष्टजुष्टः प्रकारः । यथा शिशिरर्तुरित्यत्र ऋतुशब्दोतिरिक्तस्तथा रात्रेः समय इत्यत्र समयशब्दः । रात्रिः समय एव तु भवति । किं च रात्रेरिति षष्ठ्यपि दुःसमाधानां ?
३४४- अवर्धतेत्यपास्य प्राक्रामत् , प्रासरद् इति वा वक्तव्यम्। वृधिस्तु नात्रार्थे प्रयुज्यते ।
३४५- प्रभावयति प्रभून् शक्तिमतः करोतीत्यर्थ इति नेह कश्चिद्दोषः ।
३४६- चरणाघातैरिति वक्तव्यम्। चरणावताडनैर्वा। चपेटश्चपेटा वा विस्तृ ताङ्गुलौ करे वर्तते । तथा चामरः --पाणौ चपेटप्रतलप्रहस्ता विस्तृताङ्गुलाविति । न हि भवति करचपेट इति । कुतश्चरणचपेटः ।
३४७- उच्चैरुच्चारयामासेति वक्तव्यम् । उच्चरतिस्तूर्ध्वगतौ वर्तते—उच्चरति बाष्प इति । अतिक्रमणे च—धर्ममुच्चरत इति । प्रभाषणे तु णिजधिक एवोत्पूर्वश्चरतिर्वर्तते न केवलः । व्यक्तवाचां समुच्चारण इतिं चात्रं लिङ्गम् ।
३४८- तपांसि तप्यमानं इत्येवोचितम् । अर्जयन्नित्यर्थः। तपस्तपःकर्मकस्यैवेति कर्मकर्तरि यक् , लटः शानच्च । कर्मकर्तर्येव तपेरत्रार्थे . प्रयोगो भवति न तु शुद्धे कर्तरि । तपस्तपतीति प्रयोग एव नास्ति ।
३४९- वेदैः संमितो ज्ञाननिधिरस्ति इत्येवं वक्तव्यम् । संमितस्तुल्यो भवति न तु समिलः | समितः संगतो भवति ।



       १. उपदेत्यर्पयितुमित्यर्थमर्पयिषति ।
       २. प्रासरत् इत्यर्थं विवक्षति ।
       ३. तुल्य इत्यर्थ इहं प्रयोगः ।

३५०-ईश्वराणां रोगितायामत्यशनमेव परं निदानम्
३५१–कदाचिद्ववर्षायामपिं न वर्षति वारिवाहः, सोऽवग्रहो भवति ।
३५२-एवं प्रसरत्यपिं परितः प्रत्यूहपरिसरे स धीरो निश्चयं नाहारयत् ।
३५३-इयं विंशतिशती क्रियमाणैर्महाहवसंभारैः संत्रासयति लोकम् ।
३५४-यवनानौदेवनागंर्यन्यतरलिपिभ्यां व्यवहारोस्त्विति कामचारमिच्छन्ति
केचित् ।
३५५-अनुकूलमवसरं लब्धुं वासरान् कांश्चिदक्षिपत्स: ।
३५६-दुर्गतानां विंरलभोज्यानां गेहकेषु क्षैरैकपायिनः शिशवो मोघमेव याचन्ते दुग्धम् ।
३५७-न कुर्यात् परमेश्वरो यत्कस्यचिद्भाग्ये परीक्षा संपतेत् ।



३५०- परं कारणमिति वक्तव्यम् । निदानं त्वादिकारणम् इति परत्वेन तस्य विंशेषणमनर्थकम् ।
३५१- वर्षास्विति वक्तुमुचितम् । आपः सुमनसोवंर्षा -अप्सरःसिकतासमाः । एते स्त्रियां बहुत्वे स्युरित्यमरवचनाद्वर्षाशब्दो नित्यं बहुवचनान्त एवं प्रयोगस्य विषयः । तत्र चायं प्रावृषि वर्तते न वर्षे । वर्षाभ्यष्ठक् इति सूत्रे बहुवचनप्रयोगोप्यत्रार्थे लिङ्गम् ।
३५२- पर्यन्तभूः परिसर इत्यमरः । विघ्नविसर इति तु वाच्यम् । अनुप्रासेनापहृतधीस्त्वन्यथा वक्तिं ।
३५३- इयं विंशतितमी ( विंशी इति वा ) शताब्दीत्येवं बक्तव्यं । विंशतेः शतानां समाहार इति विंशतिशती । एवं संख्यैव , केवला प्रत्याय्यते न तु संख्येयमपि किंचित् ।
३५४– यवनानीदेवनागयोरन्यतरया लिप्येत्यादि वक्तव्यम् । अन्यतरशब्दे एक वचनमेव युक्तम् । द्वयोर्मध्ये यः कश्चिदेकोऽन्यतरशब्दवाच्यो भवति ।
३५५- वासरानक्षपयत्स इति वक्तव्यम् । क्षै क्षये इति णिच्सहंकारेण प्रयुञ्जते वाक्यज्ञाः ।.क्षिपतिः क्षिप्यतिर्वा नात्रार्थे व्यवह्रियते ।
३५६- एकं पातुं शीलं येषां ते एकपायिनः क्षीरस्यैकपायिन इति क्षीरैकपायिणः । शिवभागवतवत्समासः। कुमति चेति नित्यं णत्वम् ।
३५७- मा स्म देवः ( वेधा इति वा,) कस्यचिंल्ललाटे परीक्षां भवित्रीं : लिखत् इत्येवं विन्यातो निरस्तसमस्तदोषो जायते । अयमेव च यवहारः ।



      १. कारणामात्रेर्थे प्रयोगः ।
      २. प्रावृषि
      ३. विघ्नव्रजे क्यर्थमभिमन्यते ।

३५८–वयमन्येषां परीक्षां परिगृह्णीमः स्वं तु न परीक्षामहे।
३५९–परमेश्वरो नः प्रत्येककार्याणि परीक्षते।
३६०–अपि युक्तं नाम कालिदासतोऽश्वघोषस्य पराचीनत्वं कल्पयितुम्१
३६१–पादुके परिधेहि, गन्तुं च सज्जो भव।
३६२–कष्टंं च कार्यं किशोरं च वयः । किं नु मे वत्सः करोतु।
३६३- सोऽयं द्र्व्यलालसोऽपि परकाष्टाया आसीत् ।
३६४–कालिदासस्य सूक्तिष्वेकद्द्वे एवात्र संगृह्येते निदर्शनाय।
३६५–एतत्प्रसङ्गेन मथुरागतानां च नो यमुनास्नानं द्वारकाधीशदर्शनं च सहजं जातम्।
३६६–एतेनाप्लावेन बहवो ग्रामा ग्रामटिकाश्चावहन्।



३५८–वयमन्यान्परीक्षामहे न त्वात्मानमित्येवं वक्तव्यम्।
३५९–परमेश्वरो नः कार्याणि प्रत्येकं परीक्षत इत्येवं न्यासः कार्यः। प्रत्येकमिति वीप्सायामव्ययीभावः। अव्ययीभावाश्च क्रियाविशेषणानि भवन्ति प्रायेणेत्यसकृदवोचाम। प्रत्येक (शब्द) प्रयोग विषयो न्यक्षेण निरूपितः पूर्वार्द्धे।
३६०–प्राचीनत्वमिति वक्तव्यम्। पराचीनत्वं तु वैमुख्यं भवति।
३६१–इदं पुनरुक्तम् । इदं विमृष्टं प्राक् ।
३६२–कैशोरं कैशोरकं या वय इति वक्तव्यम्। बाल्यं च वय इत्येवं वा।
३६३– यद्यप्यमरे लालस इति शब्दो लालसया समानार्थकः पठितः। तद्यथा—कामोऽभिलापस्तर्षश्च सोत्यर्थं लालसाद्वयोः। यादवस्तु लालसशब्दं सतृष्णपर्यायेषु पठति। तद्यथा—लोलुपो लोलुभो लोलो लालसो लम्पटोऽपि चेति। तस्माद्द्रव्यलालस इति सप्तमीसमासो न तु व्यधिकरणो बहुत्रीहिः। तेन नात्र कश्चिद्दोषः। परकाष्ठायां इति षष्ठी तु दुष्यति। परया काष्ठयेति तु वक्तव्यम्। तस्य द्रव्ये लालसायाः परा काष्ठाऽऽसीद् इति वाक्यान्तरं वाऽऽश्रेयम्।
३६४–एकदा एवात्र संगृह्यन्त इत्येवं वाच्यम् । एका वा द्वे वेत्येकद्वाः (बहु त्रीहिः)। सर्वनाम्नो वृत्तिमात्रे पुंवद्भावः।
३६५–समं जातम् इति वा सह जातमिति वा वाच्यम्। संहजमिति स्वाभाविकेऽर्थे रूढम्।
३६६–अत्र कर्मणि लङि ओह्यन्तेति वक्तव्यम्। कर्तरि तु न्यस्यन्दन्तेत्यर्थः स्यात्।

३६७- तदाऽहं द्विविधायां पतिता । न चेन्नाभिकुलं यामि रुग्णा ममाम्बा
      मामभिशपेत् , यामि चेत् पतिदेवो रुष्येत् ।
३६८- ह्यो मे मित्रस्य वसुमित्रस्य तीव्रसंवेगः शीतको ज्वरः समायात् ।
३६९– ततः कस्यचित्कालस्य तस्याभिप्रायो मे हृदयङ्गमोऽभूत् ।
३७०– नाट्यप्रेक्षणेन. मनोविनोदमन्तरा न कश्चिदर्थ इति केचित्।
     तदापातरमणीयम् ।
३७१- सम्प्रीत्या भुज्यमानानि न नश्यन्ति कदाचन । धेनुरुष्ट्रो बहन्नश्वो यश्च
     दम्य प्रयुज्यते (मनुः ८।१४६ ) ॥
३७२- दायस्य दशांशान् कृत्वा दशभ्यः पुत्रेभ्यः समं विभजेत् ।
३७३- न हि मुनित्रयीणां समान आविर्भावकालः शक्य आस्थातुम् ।
३७४– न हि सर्वस्यं समानः सन्मानो युज्यते ।



३६७- द्वैधीभावे इति वक्तव्यम् , संकटे इति वा । द्विविधाशब्दस्तु नात्रार्थे
     प्रयुक्तपूर्वो दृष्टः । द्वितीया विधा द्विविधा स्याद् । संख्यावचनानां वृत्तौ
     पूरणप्रत्ययान्तार्थे वृतिीर्दृष्टेति द्वयवयवा विधा वा ।
३६८- मित्रं ज्वरोऽग्रहीदिति वक्तव्यम् । एष व्यवहारः। श्वेतकेतुं ह किलासो
     जग्राहेत्युपनिषदि । मित्रं ज्वरोऽविन्दतेति वा।
३६९- हृदयंगमं संगतं भवति वचश्चेत्तद्भवति । क्व नु ते हृदयङ्गमः सखा
     इत्यत्र कुमारसम्भवे (४|२४ ) हृदयङ्गमो हृद्य इत्येवं व्याख्यातं
     मल्लिनाथेन। तेनाभिप्राथो हृदयं गतोऽभूदिति वक्तव्यम् ।
३७०- विनोदं विहायेति वक्तव्यम् । अन्तराऽन्तरेणविनादयः शब्दा
     असान्निध्यं विरहमभावं वाऽऽहुः । प्रकृते विनोदव्यतिरिक्तं प्रयोजनं
     नास्तीत्यर्थः।
३७१- सामान्योपक्रममिदं विशेषाभिधानमिति भुज्यमानानीत्यत्र नपुंसकत्वं
     न दोषाय । यथा–-न च देहवता शक्यं त्यक्तुं कर्माण्यशेषत इत्यत्र
     शक्यशब्दे सामान्योपक्रमान्नपुंसकत्वमेकत्वं च ।
३७२- दायं दशांशान्कृत्वेति वक्तव्यम् । अथान्धकारं गिरिगह्वराणां
    दंष्ट्रामयूखैः शकलानि कुर्वंन्निति रघुवंशप्रयोगेन्घकारशब्दे यथा द्वितीया
    तथा प्रकृतेऽपि दायशब्दे द्वितीयैव युक्ता ।
३७३-मुनित्रय्या इति वक्तव्यम् । त्रयशब्देऽवयवे तयपोऽयच् ! अयं
    संख्यायां संख्येये च वर्तते । यदा संख्यायां तदा स्वभावत एकत्वे
    वर्तते ।
३७४- सम्मानोऽस्तीति वक्तव्यम् । सन्मानस्तु सतां मानो भवति ।



      १• दम्यवत्सतरौ समौ ।

३७५-नासीराधिकारस्य प्रश्नो नूनं जीवनमरणयोः प्रश्नं आसीत् ।
३७६-भृशमहमाभारी तेषामिति संकार्तज्ञ्यं निवेदयामि ।
३७७–तत्र काले प्रजाभ्यः कीदृशा: कियन्तश्च दण्डा अदीयन्तेति गौतमधर्मसूत्रादिभ्यः शक्यं विज्ञातुम् ।
३७८-सर्वांस्तास्ता भाषाः संस्कृतवाच एवोपजीव्या:।
३७९-नहि सर्वेर्थाश्चाटुकारानुवर्तनाभ्यामेव सुसाधा भवन्ति ।
३८०-तस्यापमानोपर्यपमानो भवति तथापि नासौ स्वमाचारं समाधत्तें ।
३८१–परं त्वया तु मद्वार्ताऽमननस्य शपथ एव कदाचिद्धृतः ।
३८२–सा कोपनप्रकृतिरासीदिति मतविसंवादं मनागपि नासहिष्ट ।



३७५- नासीराधिकारान्वयव्यतिरेकायते नो जीवनमरणे इति व्यवस्थितमासीत् । एवमुच्यमानं संस्कृतवाग्व्यवहारमनुविधत्त इति मन्ये । कथं वा दोषज्ञा मन्यन्ते ?
३७६- बह्वहं तेभ्यो धारयामीति कृतवेदितया निवेदयामि । एवं हि शिष्टा अभिप्रायं प्रवेदयेयुः । आभारति तु संस्कृते ऋणिनि न कंचित्प्रयुज्यते । कार्तज्ञ्यमिति साध्वपि परुषाक्षरमिति परिहरेयुर्वाङ्माधुरीं स्पृहयन्तः ।
३७७–न हि दण्डो दीयत इति व्यवहारः । दण्डो नाम प्रणीयते धार्यते निपात्यते वा ! तेन प्रजासु कीदृश दण्डा प्राणीयन्त, अधार्यन्त, न्यपात्यन्तेति वा वक्तव्यम् ।
३७८-एवं विपरीतमुक्तं भवति । संस्कृतवाचमेवोपजीवन्तीति तु वक्तव्यम् ।
३७९-चाटु करोतीति चाटुकारः । अयमर्थस्तु प्रकृतेऽसङ्गतः । चाट्वनुवर्तनाभ्यामिति तु वाच्यम् ।
३८०--उत्तरोत्तरमपमान्यमानोऽप्यसौ न स्वमाचारं समाधत्त इत्येवं वक्तव्यम् । सर्वत्र प्रचरद्भाषाछायेयं भवत्युत परिशुद्धमकृतकं संस्कृतमित्यत्र प्रतिजागरितव्यम्
३८१-त्वया तु नाहं ते वचोऽङ्गीकरिष्यामीति शप्तमिव भातीत्येवं वक्तव्यम् । शपथं शपत इतं चं क्वाचित्कः प्रयोगः । शपथं धरतीति तु न क्वचिदपि श्रुतः ।
३८२ कोपनाऽऽसीदित्येव पर्याप्तम् । ताच्छील्ये युच् । तेनैव प्रकृतिशब्दो गतार्थः।



      १. उपकृत इत्यथों विवक्षितः ।।

३८३-प्रायः परीक्षामनुत्तीर्णस्योत्साहः स्वाहा भवति ।
३८४–स पुत्रीभिः समं तथा मृदु व्यवाहरद् यथा ताः स्वशिरसि समारोपयत् ।
३८५-सर्वमन्यं विहाय त्वामेव स्वस्य रक्षितारमचैषम्, तत्कुतो नाभ्युपपद्यसे माम् ।
३८६-इदानीं स मौक्तिकीं स्रजमजहात् पौष्पीं चाधात् ।
३८७-गाण्डीवमुक्तः स शरः सद्य एव द्विषतः कार्मुकस्य प्रत्यञ्चामुदकृन्तत् ।
३८८-इदानीमग्रिमकर्तव्याय संनह्यताम् ।
३८९-तदानीं संस्कृतं गद्यं सर्वसाधारणे व्यवह्रियमाणमासीत् ।
३९०-मुख्यार्थे वान्तादीन् ग्राम्याञ्शब्दाञ्शिष्टा लेखका नाद्रियन्ते ।
३९१-समयात्पता मां संक्षेपायानुरुन्धे, बहु च विवक्षे ।



३८३-उत्साहोऽवसीदतीत्येवं वक्तव्यम् । स्वाहा दैवहविर्दाने इत्येमराद् दीयमानं हविः स्वाहा न, येन प्रकृतः प्रयोगः साधुः स्यात् । लक्षणया देवतासम्प्रदाने हविषि प्रयोग इति चेदनग्नौ तत्कथम् । न ह्यत्राग्निः श्रूयते । न चाध्याहारो युज्यते ।
३८४-यथा ता'इष्टानिष्टयोः समं तस्या अवधेयवचना अभूवन्नित्येवं वक्तव्यम् ।
२८५-रक्षितारमवरयमिति वाऽवृणि इति वा वक्तव्यम् । पूर्वस्मिन्प्रयोगे वर ईप्सायामिति चुरादिर्धातुरुत्तरस्मिंश्च वृङ् संभक्ताविति क्रियादिः । चिञ्चयने इति धातुर्वरणे न वर्तते ।
३८६-मुक्तामयं हारमजहात्पौष्पीं स्रजं चाधादित्येवमुपन्यासः साधुः स्यात् । हारशब्दो मुक्तामंन्तरेणापि मौक्तिकसरमाह स्रक् च माला भवति । माला च ग्रथितं माल्यमाह । तेन पौष्पीमिति विशेषणं विस्पष्टार्थम् ।
३८७–संस्कृते प्रत्यञ्चाशब्दो नास्ति । मौर्वी ज्या शिञ्जनी गुण इत्येत एवामरेण स्वे नामलिङ्गानुशासने पठिताः ।
३८८-अनन्तरकर्तव्यायेति वाच्यम् ।
३८९–ा गद्यं सर्वसाधारणमासीत् , गद्येन व्यवहारो वा सर्वेषां साधारण आसीदिति वक्तव्यम् ।
३९०–शिष्टा ग्रन्थकारा इति वक्तव्यम् । लेखकस्तु लिपिकरो भवति । तत्रैवार्थेऽस्य रूढिः ।
३९१-अनुरुन्धे इत्यस्यानुसरत्यनुबध्नातीति वार्थः। अनो रुध कामे इति तु दिवादिरात्मनेपदी । अनुरुध्ये कामये इत्यनर्थान्तरम् । समयाल्पता मां बलात्संक्षेपं करयतीतेि वक्तव्यम् । मां संक्षेपाय बलवत्प्रेरयतीति वा वाच्यम् ।



      १. शिञ्जानीत्यर्थं प्रयोगः । २. विवशीकरोतीत्यर्थे प्रयोगः ।

३९२-इदं प्रधनं नगरम् इदं च निंर्धनम् ।
३९३-ग्राम्यत्वादयो दोषा इमां दैवीं वाचं स्प्रष्टुमपि न समर्थयन्ते ।
३९-धनकामुका भगवन्तं कमलिनं.न तथाऽराधयन्ति यथा कमलाम् ।
३९५–राजसूयं यियक्षुर्युधिष्ठिर इन्द्रप्रस्थे महतः संभारांश्चकार ।
३९६-जितकाशिनो रामस्य लङ्कातोऽयोध्याप्रस्थाने ननन्दुर्वानरसैन्यानि ।
३९७-अम्ब इयमद्य भिक्षा प्राप्तेति बहिर्द्वामर्जुनेनोक्ता कुन्ती समं विभज्य भुज्यतामिति सहसोक्तवती । ततः सा भिक्षा वधूद्रौपदीस्युपलभ्य महत्यसमञ्जसेपतिता ।
३९८-बन्ध्यः स पुरुषो यस्य सुतो न जातः ।



३९२-प्रधनमिति युद्धनामसु पठितम् । तद्यथा —युद्धमायोधनं जन्यं प्रधनं प्रविदारणम् इत्यमरे पाठः' । तेन सधनं महाधनं धनीति वा वक्तव्यम् ।
३९३-समर्थयत इत्यस्य चिन्तयतीति वार्थः , उपोद्बलयतीति वा । न समर्थाः न प्रभवः, न प्रभवन्तीति वा वाच्यम् ।
३९४– धनकामुकाः इत्यदुष्टम् । कमेर्भाषायामनिषेध इति षष्ठीसमासः । कमलेति लक्ष्म्या नाम । साऽस्यास्तीति कमली । व्रीह्यादित्वादिनिः । एवं व्युत्पत्तिसौष्ठवेऽपि कमलीति विष्णुं नाभिधत्ते, तेनेदं परिहार्यम् । कोषकारा अपि नेदं तत्रार्थे पठन्ति । वैयाकरणेन शब्दा व्युत्पाद्या नोत्पाद्याः ।
३९५-राजसूयेन यियक्षुर्युधिष्ठिर इत्येवं व्यवहरणीयम् i राजसूये यागे साधनभूतद्रव्यबुद्धिं विघाय तृतीयोपपाद्यते ।
३९६–अयोध्यां प्रति प्रस्थान इति वक्तव्यम् । अयोध्याप्रस्थानमिति तु दुर्घटः समासः ।
३९७–असमञ्जसे पतितेत्यस्य स्थानेऽनौचित्यसंकटे पतितेति वक्तव्यम् । समञ्जसमिति न्यायो भवति । अन्नेपन्यायकल्पास्तु देवारूपं समञ्जसम् इत्यर्परः । असमञ्जसं चान्यायः । सोऽर्थश्च नात्र घटत इति अनौचित्यसंकटे
प्रतितेति वक्तव्यम् ।
३९८- बन्ध्योऽफलोऽवकेशी चेत्यमरे.वनौषधिवर्गे पाठः । ऋतावपि फलरहितो वृक्षो बन्ध्य उच्यते । तत्साम्यादृतुमत्यपि या स्त्री न प्रजायते, निरपत्या भवति सा बन्ध्येति कीर्त्यते । पुरुषे तु नायमभिलापो दृश्यते । अनपत्य इत्येव तु युज्यते वक्तुम् ।



१. विष्णुमित्यर्थमभिप्रैति॥
२. जिताहवस्य ।
३. अनौचित्यसंकटे इत्यथे इत्यभिमन्यते ।

३९९-इमानि दिवसानि मनो मे किमप्युच्चाटितमिवास्ति ।
४००–आदर्शविनीता इमे परिचारकाः।
४०१-अनुबन्धं निपुणं निरीक्ष्य पादोत्थानं विधेयं सुधीभिः ।
४०२–अथ केन मूल्येनेमे ग्रन्थाः परिक्रीताः ?
४०३-विदेशे त्वेकस्मिन्नेव दिवसे केषाञ्चन वार्तापत्त्राणामनेकधा प्रकाशनं भवति ।
४०४–मया गीर्वाणवाण्येव निजपाठ्या स्वीकृता, अर्थलाभस्तु न मनसि कृतः।
४०५न्महतां प्रभावेस्तु सद्य एव दृष्टिपथं गोचरयति, न तु चिराय निह्नुतस्तिष्ठति ।
४०६-शिक्षाशुकक्षमापणेनानुग्रहीष्यन्ति मामाचार्यचरणाः।
४०७-अत्रावसरेऽध्यापका अपि भाषणानि ददुरध्यायका ” अपि ।
४०८- यत्सनिर्बन्धं समर्प्यमाणं वसुन्धराधिपत्यं रामेण पद्भ्यां निहतं सा परा सीमा धैर्यस्य ।



३९९-उदासीनमुद्विग्नं वेति वक्तव्यम् । 'चट स्फुट भेदने इति चुरादिषु पठ्यते ।
    उच्चाटनं हिंसनं भवति ।
४००-विनयादर्शा इमे परिचारका इति व्यवहार्यम् । विनयंस्यादर्शा इति वा
    विनयमादर्शयन्तीति वा विग्रहः ।
४०१-निरीक्ष्य प्रक्रमः कार्य इत्येवं व्यवहारोऽनुगतो भवति ।
४०२-नियतकालभृत्यास्वीकरणं परिक्रयणं भवति न तु क्रयणमात्रम् । तेन परिं
    परिवज्र्य केवलं क्रीता इति वक्तव्यम् ।
४०३–अनेकधेत्यपास्य बहुधाऽसकृदिति वा प्रयोज्यम् । अनेकधेत्यत्र धाप्रययः
    प्रकारे । बहुधेत्यत्रं तु अविप्रकृष्टकालिकक्रियाभ्यावृत्तिगणने धाप्रत्ययः।
४०४–स्वपाट्यात्मपाठ्येति वा वक्तव्यम् । निजशब्दस्तु स्वीकीयार्थकः । निजं
    सहजं भवति, अत एव तात्पर्यत आत्मीयं तदुच्यते ।
    नास्य स्वशब्दवत्सर्वनामत्वमस्ति । न चायमात्मपर्यायवचनः
४०५-दृष्टिपथं गोचरयतीत्येवं विपरीतमुक्तं भवति । दृष्टिपथं गोचरं विषयं
    करोतीत्यर्थः प्रतीयते । दृष्टिपथस्य गोचरो भवतीति तु विवक्षितम् । अतो
    दुष्टो न्यासः ।
४०६-शिक्षाशुल्काद् विमोक्षणेनेति वक्तव्यम् । न हि शिक्षाशुल्कं नामाऽऽगो.
    भवति यत्क्षम्येत । क्षमापणमिति त्वपप्रयोगः । आपुकोऽप्राप्तेः ।
४०७-भाषणानि चक्रुरिति वाच्यम् । भाषणं नाम क्रियते न च दीयते ।
४०८-चरणेनावताडितमिति वाच्यम् । द्विवचनेन नार्थः । बहुवचनमपि शक्यं
    प्रयोक्तुम् । नैसर्गिकी सुरभिणः कुसुमस्य सिद्धा मूघ्निं स्थितिर्न
    चरणैरवताडनानीत्यत्र भवभूतिप्रयोगे यथा । वसुंधराधिपत्ये
    पाष्णैिर्दत्त इत्यपि शिष्टजुष्टा सृतिः ।



      १. असकृत् इत्यर्थं प्रयोगः ।
      २. आत्मना पठनीयेत्यर्थ गमयितुमिच्छति ।
      ३. दृष्टिपथस्य विषयो भवतीत्यर्थं प्रयोगः।
      ४. अध्येतारः॥
      ५. साग्रहम् ।

४०९-रघूः किल विश्वजिन्नामनं, यज्ञं व्यधात्ख्यातिं च विस्तृतामगात् ।
४१०-केचिज्जीवा घ्राणशक्तिर्नास्त्येव, परे तु प्रवृद्धा तां दधति ।
४११-तथाकथितानामस्पृश्यानामुद्धारे सम्प्रति साभियोगा राजमन्त्रिणः ।
४१२ -केचित्कतिपयसूत्रार्थग्रहणमात्रेण स्वान् गुरुदेशीयान् समर्थयन्ते ।
४१३-वातेरितैरुलोलैः कल्लोलैराकुलो भवति कासारः।
४१४-लुण्टाकेन धनिकस्य कण्ठो घोटितः सर्वस्वं चापहृतम् ।
४१५-लुठितसर्वस्वंः .श्रेष्ठी शुचा परिदुर्बलः कैरपि दिवसैः प्राणैरमुच्यत ।
४१६–काप्यभिख्या तदानीमभूत्पूर्णशशाङ्कस्य शारद्याश्चन्द्रिकायाः ।
४१७ नागरिकेण साम्प्रदायिकः पक्षपातो यत्नेन वारणीयः।



४०९- यज्ञमाहार्षीदिति वक्तव्यम् , व्यतानीदिति वा ।
४१०-केषुचिज्जीवेषु घ्राणशक्तिर्नास्त्येव, परेषु सा प्रवृद्धा लक्ष्यत इत्येवं वक्तव्यम् ।
     रक्षतिर्हि नात्रार्थे प्रयुज्यते । इदंजातीयकेष्वधिकरणनिर्देश एव
      व्यवहारानुपाती ।
४११- रूढ्याऽस्पृश्यानामिति वक्तव्यम् । तथाकथितोनामिति विशेषणं तु विपेरी-
     तार्थमाह । तथा शब्दो हि सत्यवचनः, यथा वितथशब्दे
     अस्पृश्या इति तेषां मिथ्याभिलाप इति विवक्षति ।
४१२-स्वशब्द ‘आत्मवचन एकत्वे प्रयुज्यत आत्मवत् । एको नः सर्वेषामात्मेति,
    प्रत्येकं वाक्यपरिसमाप्तिरिति वैकत्वमुपपन्नम् ।
४१३-ऊर्मिषु महसूल्लोलकल्लोलावित्यमरादुल्लोलकल्लोलौ समानाभिधेयौ ।
    तेन लोलैः कल्लोलैरिति वक्तव्यम् ।
४१४-घुट परिवर्तने भौवादिक आत्मनेभाषः । घुट प्रतिघाते तौदादिकः
    परस्मैभाषः। एतयोर्द्वयोरप्यर्थः प्रकृते न सङ्गच्छत इति दुष्प्रयुक्तम् । तेन
    कण्ठो बलवन्निरुद्ध इति वक्तव्यम् । कण्ठो निपीडित इति वा ।
४१५-रुठि लुठि स्तेय इति भ्वादिषु पठितौ । लुठ विलोडन इति तुदादिषु ।
    प्रकृते स्तेयं विवक्षितमितिं लुण्ठितसर्वस्व इति वक्तुमुचितम् ।
४१६-पूर्णस्य शरच्छशाङ्कस्य चन्द्रिकाया इति वक्तव्यम् ।
    अल्पोर्थो बहुश्च शब्दडम्बर इति शारदानां वाचि लक्ष्यते न
    विशारदानाम्
४१७-सम्प्रदायादागतं साम्प्रदायिकं भवति । सम्प्रदायश्च गुरुशिष्यपरम्परयागत-
    मनुशासनम् । तेनैकतमस्मिन्निकाये इति वक्तव्यम् । अथ सधर्मिणां
    स्यान्निकाय इत्यमरः । एकधर्मवतां समूहो निकाय इत्युच्यत इति तदर्थः।



      १- सोद्योगाः।
      २- गुरुकल्पान् ।

४१८-निहन्ता वैरकारांणां सतांबहुकंरःसदा। ( भट्टौ ५|७८ );
४१९-पूर्वे प्राणात्यये निपुणं परित्रातास्तैरिति तदीयमाभारमद्यपि शिरोभिर्वहाम: ।
४२०-नहि विद्यार्थिनां चरितशोधनं केवलमध्यापकेषु
    लम्बतेऽभिभावकेष्वपि
४२१-एतेनेदं निःसरति यद्दैवपुरुषकारावुभावपि कार्यसिद्धौ कारणतां यातः ।
४२२-तस्मात्प्रजारञ्जने युक्तः स्याः, ते परमम् धनं यश एवेतिः यतः।
४२३-ते च मे च साधारणमिदं कृत्यम् ।
४२४-तिमिरगहनो जायते सर्तोवऽन्तः ।
४२५-आदत्स्वं मित्र सुमते तव वैदिके माम् ।
४२६-विपत्सहनं नाम वीरस्य सहज: स्वभावोऽस्ति ।



४१८-बहु कार्यं करोतीति दिवा-विभेति सूत्रेण टः । शुद्धयौगिकश्चायं शब्द:
    कविना प्रयुक्तः। तथापि खलप्वि अस्य रूढिः । तथा च काषः--
    खलपूः स्याद् बहुकर इति । रूढिश्च बलीयसी
    योगादिति बहुकरशब्दो बलात्खलप्वं स्मारयति । तदनिष्टम् ।
    तत्परिहार्यम् । सतां बहूपकारक’ इति तु वक्तव्यम् ।
४१९-तदीयमुपकारभारं शिरसा वहाम इति वक्तव्यम् । आभार इत्यप्रयुक्तम् ।
४२०-मातापित्रादिषु तदवेक्षकेष्वपीति वक्तव्यम् । अभिपूर्वो भवतिर्न्यक्करणे
    बाधने वा वर्तते न तु रक्षणेऽवेक्षणे वा ।
४२१–इदमतोर्थादापद्यत इत्येवं वक्तव्यम् । अयं तह्यार्थिकोऽर्थ इति वा वक्तव्यम्।
४२२–पदात्पर एव निघातयुष्मदस्मदादेशा भवन्तीति वाक्यादौ व इत्यादेशो न
     प्राप्नोति।
४२३- न चवाहाहैवयुक्ते इत्यनेन चकारयोगे युष्मदस्मदादेशौ ते में
     इत्येतौ न प्रसज्येते । तव च मम चेति वक्तव्रयम् ।
४२४- अन्तर् इत्यधिकरणवृत्ति मध्यमाह । नेदमन्तरङ्गाभिधाने शक्तम् । अन्तः
    शब्दोऽव्ययम् । तेन तद्विशेषणं:नपुंसकं युज्यते तिमिरगहनमिति ।
    सर्वमन्तर्गृहमिति वक्तव्यम् ।
४२५–वैदिकं ते स्वमतं मां परिग्राहयेति वक्तव्यम् । न हि मते कश्चिदादीयते
    किं तर्हि मतं किमपि कश्चिदादत्ते ।
४२६-स्वस्य भावः स्वभावः। स सहज एव भवतीति, व्यभिचारभावादनर्थकं
    विशेषणम् । भवभूतिस्तु स तस्य स्वो भावः प्रतिनियतत्वादकृतक
    इति विशेषणमपि प्रयुङ्क्ते । तत्तस्य स्वं:दर्शनम् । वयं तु पश्यामः
    सोऽनर्थको वाक्प्रपञ्च इति ।




       १. संरक्षकेष्विति विवक्षितम् ।

४२७-इतो वनान्ताद्धूम्र उद्गच्छतीति वसतिस्तत्र संभाव्यते ।
४२८-शैत्येन हर्षादिना च रोमाञ्चपुलका जायन्ते ।
४२९-केचित्परमतनिन्दया स्वमतप्रशंसया च प्रजासु विरोधवह्निं दहन्ति ।
४३०-गतः स्वर्गे सम्राडितिं कुटिललोकैर्मुखरितम् ।
४३१-कृतेष्वप्यतिमात्रायां युद्धसम्भारेषु देशो देशान्तरात् त्रस्यत्यस्य भूयो बलं
    स्यादिति ।
४३२-अज्ञा अपि स्वेषां दुष्कृतानां फलं नेच्छन्ति भोक्तुम्।
४३३-प्राणिमात्राणि सुखमात्मन इच्छन्ति न दुःखमिति भूतनिसर्गः ।
४३४-मया मौखिकमुत्तरितः प्रश्नः। तेन प्रासदन्प्राश्निकाः।
४३५–तदानीमयं नो देशः.सुवर्णमयोर्थात्त्सम्पत्तिशाली बभूव।
४३६-इमे लोकाः प्रक्षिप्त इति यदात्थ तत्कथं जानातीति पृष्टोऽसौ जोषमभजत्।



४२७-धूम्र धूमवद्भवति न तु धूमः । उद्गच्छतीत्यपास्याऽऽक्रामतीतिं प्रयोज्यम् ।
४२८-रोमाञ्चपुलकौ समानार्थकौ । समानार्थकाश्च पर्यायेणार्थे ब्रुवन्ति न तु
     युगपत् । तेन रोमाञ्चो जायत इत्येवं साधुः । बहुवचनेन नार्थः।
४२९-दह भस्मीकरण इति धातुः । नात्र भस्मीकरणमर्थः । तेन ज्वलयन्ति
    ज्वालयन्तीति वा वक्तव्यम् ।
४३० मुखरो वाचालो भवति । मुखरयति शब्दवन्तं करोतीत्यर्थे न तु शब्दयति
     शब्दमुच्चारयतीत्यर्थः । तेन कुटिललोकैः शब्दितं व्याहृतं वेति वक्तव्यम् ।
४३१-अतिमात्रयाऽतिमात्रमिति वा साधु स्यात् । पूर्वत्र प्रकृत्यादित्वातृतीया ।
४३२-स्वस्य दुष्कृतानामिति वक्तव्यम् । आत्मवाची स्वशबंद एकत्वे प्रयुज्यते
    नियमेन । स्वस्येति कर्तरि षष्ठी । आत्मीयवचनतायां शेषे षष्ठयां
    बहुवचनेऽपि न दोषः ।
४३३-प्राणिमात्रमिति वक्तव्यम् । कृत्स्नाः प्राणिनः प्राणिमात्रम् । मात्रं
    कार्त्स्न्येऽवधारण इत्यमरः ।
    मात्रशब्देनैकवचनान्तेनैव कात्स्न्यऽभिहिते बहुवचनेन नार्थः ।
४३४-मुखेनोत्तरित इति वक्तव्यं वाचेति वा(न तु लेखेन)i तद्धितेन नार्थः।
४३५–स्वर्णमयः सम्पत्तिशाली वा बभूवेति वक्तव्यम् । अर्थादिति ल्यब्लोपे
    कर्मण्युपसंख्यानमिति
    पञ्चम्यां साधु । तथापि मध्येवाक्यमेवंप्रयोगो न दृश्यते ।
४३६-तूष्णीमर्थे सुखे जोषमिति नानार्थवर्गेऽमरः । जोषमिति तूष्णीं
    भवति न तु तूष्णीम्भाव:।
    तेनाऽभजदित्यनेनानन्वितं मवति । तेन जोषमास्तेति वक्तव्यम् ।

४३७-श्रीविष्णुदिगम्बराणां रागपरिवाहिणा गायनेन समं सभाकार्यमारब्धम् ।
४३८-एष हि मनुष्यस्वभावः परेषां हास्यास्पदतासाधने त्रुटिं न स्थापयंन्ति ।
४३९-ऋषिमुनीनां शक्तया सह स्वशक्तिर्न जातु तोलनीया।
४४०-वृद्धो नाम मन्ददृष्टिरपिं कर्णाभ्यां पश्यति, क्षीणश्रवणशक्तिरपि नेत्राभ्यां
    श्रुणोति । अर्थात् प्रकृतिरस्य क्षीणामेकेन्द्रियशक्तिमपरस्मिन्निन्द्रियेंऽशतोऽर्पयतिं ।
४४१-न चैवंविधं रूपकं कुत्रचिदन्यत्र दृष्टमिति पूर्वमेवोपरिष्टान्निगदितम् ।
४४२-शुचि मृदुलधवलसूक्ष्मवसनमास्तीर्य जलार्द्रापवनैरात्मानं निर्वापय
४४३–संसारे चिरं संसरत्सुगतो महात्म दुखान्तं गवेषमाणो
    दयादाक्षिण्यादिधर्ममनुतिष्ठन्नन्तेऽपवृज्यते
{{rule||
४३७-गायनो गायुको भवति । गायति शिल्पमस्येति गायनः ! ण्युट् चेति
    ण्युट् । तस्माद् गानेन गीतेनेति वा वक्तव्यम् ।
४३८-मनुष्याणां स्वभावो यत्ते परेषां हास्यास्पदतायाः साधने यत्नं न शेषयन्तीति
    वक्तव्यम् । सर्वनाम्नां प्रधानपरामर्शित्वमिति मनुष्याणां स्वभाव
    इत्यसमासेन निर्देशः कार्यः । तच्छब्देन मनुष्याः परीमृश्येरन्यथा।
४३९-ऋषिमुनीनां शक्त्या स्वशक्तिर्न जातु तुलनीयेति वक्तव्यम् । अत्र सहशब्देन
    नार्थः। अत्रार्थे तुलां करोति च तुल्यतीति प्रयोगो भवति न तु तुल
    उन्माने इत्यस्य’चौरादिकस्य । तथा च मेघदूते प्रयोग: –
    प्रसादस्त्वां तुलयितुमलं, यत्र तैस्तैर्विशेषैरिति
४X४-अर्थादिति पदं वाक्यादौ पदान्तरेणानन्वितं स्वातन्त्र्येण न प्रयुज्यते । तेन
    अयमर्थ इति वा एतदुक्तं भवतीति वा वक्तव्यम् ।
४४१-ग्रन्थपत्त्राणां पूर्वपूर्वेषामधस्तान्निवेशादुत्तरोत्तरेषां चोपरिष्टाद् इति यत्पूर्वपत्नेषु
    विन्यस्तं तदधस्तादुक्तं भवति यदुत्तरपत्रेषु तदुपरिष्टादिति व्यपदिश्यते ।
    अत्र च किञ्चिदुक्तपूर्वं तेनाधस्तान्निगदितमिति वक्तुमुचितम् ।
४४२-वसनमाच्छाद्य, वसनं निवस्येति वा वक्तव्यम् । यद्यपि स्तृञ् आच्छादने
    इति स्तृणोतिराच्छादने पठितस्तथापि शय्यामांस्तृणोतीत्यादिषु प्रयुज्यते
    न तु परिधनेस्य प्रवृत्तिः ।
४४३-संसरतिर्योन्यन्तरोपसंक्रमणे रूढः । ये देहाद् देहान्तरं गच्छन्ति ते संसारिणः।
    परिक्रामेन् इति पर्यटन्निति वा वक्तव्यम् । गवेषु मार्गणे इति
    चुरादिष्वदन्तः पठितः । तेन णिचि गवेषयोमाणे इति साधु स्यात् ।



       १ जलयुक्तव्यञ्जनस्य जलार्द्रेति संज्ञा ।
       २ शीतलय ।
       ३ अपवगं लभते ।

४४४–असन्तुष्टा इवास्मान्महतोऽपि प्रयत्नाते महीयांसं यत्नमातिष्ठंन् सिद्धये ।
४४५-को हि मतिमानतितरलतरङ्गभङ्गसमाकुलमध्युषितविकरालनक्रचक्रवालं
     व्याप्तवाडवानलं पारावारमुत्सहेत बाहुक उत्तरीतुम् ।
४४६-को नु समुत्तितीर्षुरसहायः पारं गन्तुं पारयति ?
४४७-व्यसनेष्वतिप्रसङ्गात्स दिने दिने दीनाद् दीनतरामवस्थां प्रतिपद्यते।
४४८-बङ्गेषु नवद्वीपमण्डलान्तर्गते प्रथिते कृष्णनगरे वर्षमेकमतीतं प्रमथनाथो नाम
    कश्चिद् ब्राह्मणः प्रतिवसति स्म ।
४४९-धन्यः स देवदत्तो यः प्राणपणैरयिं नित्यमापननर्तिप्रशमनं चक्रे ।
४५०-नहि तेन तस्य सुभाषितस्यार्थः प्रत्यक्षीकृतः स्वानुभवेन ।



४४४-महत्यप्यस्मिन् प्रयत्नेऽसन्तुष्टा इत्येवं वक्तव्यम् । प्रयत्नो ह्यसन्तोषस्य विषय
     इति वैषयिक्या सप्तम्या भवितव्यम् । प्रयत्नेऽलंबुद्धयो नेत्यर्थः ।
४४५-विकरालनक्रचक्रवालाध्युषितमिति कर्मणि क्ते स्यात् । पारावारो हि
    नक्रचक्रवालेनाध्युष्यते । उपान्वध्याङ्वस इत्याधारस्य कर्मत्वम् ।
    यद्यध्युषितमित्यत्र गत्यर्थाकर्मकेति सूत्रेण कर्तरि क्त इति पश्यसि
    तदा यथास्थितेऽपि न दोषः । सूत्रकारो ह्यधिपूर्वस्य वसेराधारस्य कर्मसंज्ञा
    शास्ति । तेनात्र कर्मणि क्तं इति प्रतीतिर्बलवती भवति । बाहुभ्यां तरतीति
    बाहुकः । नौद्व्यचष्टन् इति ठस्तद्धितः । तंरणमिह प्लवनम् ।
४४६-को न्वसहायः समुत्तरीतुमलम् .इत्येवमल्पाक्षरतरं वाक्यं प्रयुञ्जीत प्राज्ञः ।
    वृथा वाचं न तन्वीत ।
४४७–स दिने दिने दीनतरामवस्थां प्रतिपद्यत इति वक्तव्यम् । दीनादितिं हेयम् ।
    दीनादित्यत्र पुंस्त्वं नपुंसकत्वं वा कथम् । न हि ब्रूमः स पटो: पटुतरो
    भवतीति । किन्तर्हि स पटुर्भूत्वा पटुतरो भवतीति ।
४४८-इतो वर्षे बङ्गेषु नवद्वीपमण्डलान्तर्गते प्रथिते कृष्णनगरे प्रमथनाथ
    इत्यादिरूपन्यास एव निरस्तसमस्तदोष आश्रेयः । वर्षमेकं व्यतीतमिति
    मध्येवाक्यंमनन्वितं गडुभूतं पदकदम्बकम् ।
४४९-प्राणपणेनापि नित्यमित्यादि वक्तव्यम् । प्राणाः पण इत्येकवचनं श्रेयः।
    पण इति ग्लहो भवतैि । प्राणाः पणत्वेन रूप्यन्ते तेन युक्तमेकवचनम् ।
४५०-न हि तेन तस्य सुभाषितस्यार्थे लोकव्यवहारेऽनुभूत इत्येवं वक्तव्यम् ।
    स्वस्यानुभवः स्वानुभवः। स्वस्येति कर्तरि षष्ठी । अनुभवो नाम ज्ञानं
    भवति प्रत्यक्षं च ज्ञानविशेषः। तेन यथास्थिते ज्ञानेन प्रत्यक्षज्ञानं लब्धमित्यर्थः
    प्रत्यायितो भवति। न चैष प्रत्यायिययिषित इत्यलमनेन वाग्ङम्बरेण।



       १ बाहुभ्यां तरतीति ।

४५१-महाभागो. राजराजो नलो दुरोदरवशं गतो राज्याद्विच्युतोभूत् ।
४५२-तदवनतेः साम्प्रतं साक्षात्वात्तत्रानुमानमनवकाशम् ।
४५३-गताः संप्रति विक्रमादिनृपतयो देववाण्याः परिपोषकाः । इदानीमन्यासां प्रष्टारः सन्ति न त्वस्याः ।
४५४-महानेष गभीरो विषयो विशेषतो मादृशां विषये ।
४५५–तनय एव पितुः स्नेहसर्वस्वमधिकरोति
४५६-नहि धिषणोप्येतावताऽनेहसा शक्तो दुरूहाणीमानि शास्त्ररहस्यानि यथायथमाकलयितुम् ।
४५७-वल्गां संनियम्य मन्दीकुरु रथवेगम् ।
४५८–स्वयं च संस्कृतस्य राष्ट्रभाषारागमालपसि, सुतांश्च पारसीकादिभाषा अध्यापयसीत्यहो वचःकर्मणोर्विभेदः ।
४५९-हन्त कुत्र: मतान्धः श्रद्धाजड आर्यविद्वेषी क्षुद्रहृदयोऽवरङ्गजीवः कुत्र चोदारधीर्न्यायप्रियः सर्वत्र सम शिवराजो महाराजः ।



४५१-राजराज इति कुबेरस्य रूढिः। तथा चामरः-—
मनुष्यधर्मा धनदो राज'राजो धनाधिप इति । तेन परमराजो महाराज इति वा वक्तव्यम् ।
४५२–साक्षात्प्रत्यक्षतुल्ययोरित्यमरे साक्षाच्छब्दः प्रत्यक्षपर्यायः पठितः । तथापि लक्ष्येषु क्रियाविशेषणत्वेन प्रयुक्तों दृश्यंते न तु विशेषणमात्रत्वेन। साक्षाद् द्रष्टरि संज्ञायाम् (५|२|९१ ) इत्यत्री सूत्रे यथा । तेन प्रत्यक्षत्वादितिं वक्तव्यम् ।
४५३-अन्यासामादर्तारो मानयितार इति वा वक्तव्यं । अवेक्षका इति वा ।
४५४-मदृशामित्येव । विषये इति तु परिहार्यम् । सम्बन्धमात्रं तुं विवक्षितं न वैषयिकमधिकरणम् ।
४५५-स्नेहसर्वस्वमीष्ट इति वक्तव्यम् ! स्नेहसर्वस्येऽधिक्रियत इति वा ।
४५६-यथातथमिति वक्तव्यम् । यथायथं यथास्वमिति भवति । यथा,ते यथायथं गृहाणि सम्प्रस्थिताः' । स्वं स्वं गृहं प्रतिगन्तुं प्रवृत्ता इत्यर्थः।
४५७-वल्गेति रश्मिवद्बहुत्व एव प्रयुज्यते । तथा च प्रयोगः---
    आलाने गृह्यते हस्ती वाजी वल्गासु गृह्यत इति ।
६५८–राष्ट्रभाषात्वार्हता गायसीत्येव संक्षिप्तं वचो निर्देष्टं च । किं च राग इति गीतेन समानार्थको नः । आङ्पूवों लपिरपि संबोधने वर्तते नोच्चारणे ।
४५९-वैषम्ये गम्ये द्वै क्वौ प्रयुज्येते, न तु कुत्रशब्दो द्विरुच्यते । तथा चोक्तं दौ क्वौ महदन्तरं सूचयत इति । तत्कस्मादिति चेत् । व्यवहारे परतन्त्रा वयं न स्वतन्त्राः ।
फलकम्:वule
       १. दुरोदरं द्यूतम्
       २. ईष्ट इत्यर्थ इत्यभिमानः
       ३. धिषणो बृहस्पतिः | धिषणा बुद्धिः।

४६०–समराङ्गणे पुरुराजेनैकैकशतहस्तव्यवधाने द्विद्विशतं दन्तिनःस्थापिताः ।
४६१-एकतो निसर्गात्तामसी भाद्ररजनी, तादुपरी द्विगुणं त्रिगुणं वा संघटितेन नीलघटासंस्तरेण निबिडमाच्छाद्यतं वियदङ्गनम् ।
४६२-मन्त्रिभवनं सुपरिष्कृत्य समरज्यत सुदृश्येन वर्णेन ।
४६३-मन्दमारुतान्दोलितां काषायरागिणी महाराष्ट्रपताका
    कामप्यभिख्यामपुष्यत् ।
४६४-जीविकार्थमांहिण्डमानांनां संस्कृतज्ञानां
    न कोऽपि वार्ता पृच्छति ।
४६५–वयमेतान् दिष्ट्यावादेन भूयो भूयः संवर्धयाभहे ।
४६६–अस्य देशस्य नाम,स्वतन्त्रदेशानां सूचीतो व्यवाञ्छिद्यत चिराय ।



४६०-हस्तशतव्यवहिता द्वे द्वे शते हस्तिनः संस्थापिता इत्येवं वक्तव्यम् । हस्तशतान्तरां हस्तशतांतरिता इति वा । द्विशतमिति द्वयधिकं शतमियस्मिन्नर्थे प्रयुज्यते न शतद्वये ।. संख्याशब्दाः क्वचिद् वृत्तौ वीप्सायां वर्तन्ते सप्तपर्णादिवत्, तेन द्विशब्दस्य द्विः प्रयोगो नापेक्ष्यते ।
४६१-एकतस्तावन्निसर्गात्तामसी भाद्ररजनी, अपरतो नीलनीरधरपटलसंस्तरेणे त्यादि वक्तव्यम् । घटाशब्दो मेघमालां नाहेत्युक्तमधस्तात् ।
४६२-मन्त्रिभवनं परिष्कृत्य समरज्यत सुदर्शनेन रागेणेत्येवं वक्तव्यम् । रागेण हि रज्यतेऽर्थः, ‘तेन रक्तं रोगादि’ति लिंङ्गात् । रंक्तस्याकारो वर्णः। रागजन्यो हि स भवति न तु रजनसाधनम् ।
४६३-कषायेण रक्ता काषायी । तत्र रागशब्देन नार्थः । किं च
    रागो रजनसाधनं वा भवति लौहित्यं वा, न जातु वर्णः
४६४-वार्ता प्रवृतिवृत्तान्त उदन्त इति पर्यायः । वार्ता पृच्छति वृत्तान्तं जिज्ञासत इत्यर्थः । तेन न कश्चिद्दोषः ।
४६५–दिष्टयेत्यव्ययं क्रियाविशेषणत्वेन प्रयुज्यते सहर्षमिति चार्थः । तेन वादेन नार्थः । वर्धने वाक्प्रयोगोन्तर्भूतः । वर्धयामो वृद्धिमाशंसामह इत्यर्थः । तत्र सम्शब्दोऽस्थाने । संवर्धनं हि. पोषणं भवति जलादिना पादपादीनां पयआदिंना वा शिशुकादीनम् । तङव्ययुक्तः । अणावकर्मकाश्चित्तवत्कर्तृकादिति परस्मैपदमेव युक्तम् ।
४६६–अत्र व्यवच्छिदिर्यवच्छेदनपूर्वकेऽपनयने वर्तत इति सूच्या अपादानता । अपादाने चाहीयरुहोरिति तसिः ।



       १. पर्यटताम् ।

४६७-विद्याकेन्द्रं वाराणस्येव परिगृह्यतां तावत् । कति वा तत्र
    राजप्रवर्तिता:सन्ति संस्कृतविद्याशाला यत्रेतिहासगणितादीनां
    सामान्यात्सामान्यमपि ज्ञानं कार्यते ।
४६८-सहसैव मुसलधारावर्षणमवर्षीन्मघवा ।
४६९-स हि नित्यं सतर्कस्तिष्ठति, न क्षणमपि प्रेमाद्यति । सोस्य
    महान् गुणः।
४७०-न तादृशं शौर्यमौदार्यं वा सम्प्रति संमस्ति सर्वे तत्
    कथावशिष्टं वर्तते ।
४७१-साधारणसभ्यानामेव किम् , वन्यानामपि वर्तमानकाले
    सभ्यशिरोमणेिमन्यानामपि जातीनामयमेव देशः शिक्षागुरुः।
४७२-कैवल्यप्राप्तिरीश्वरेच्छायतना, न
    पुरुषयत्नतन्त्रेति भक्ताः ।
४७३-शकटवाहनादिकमभ्यासितस्तुरगः शिक्षित इत्युच्यतेः ।



४६७–वाराणसीमेवाधिकृत्य प्रस्तूयतां विचार इत्येवं वक्तव्यम् ।
    वाराणस्येव तावच्चिन्त्यतामिति वा श्रेयो वचः। परिग्रहः
    स्वीकारो भवति । समानमेव सामान्यम् । नहि
    सामान्यात्सामान्यतरं नाम किञ्चिदस्ति येन
    सामान्यादित्यत्र पंचमी विभक्ते इति पञ्चम्युपपद्येत ।
४६८-धारासारैर्वर्षीद् देव इति वक्तव्यम् । मुसलशब्दो
    धारायामुपमानमुपमेयं वा न युज्यत इति व्यवहारः ।
४६९-जागरूक इति वक्तव्यम् । सतर्क इति जागरूक
    इत्यर्थेऽप्रयुक्तम् ।
४७०-कथाशेषतां यातमित्येवमुपन्यसितव्यम् । कथा शेषोऽस्येति
    कथाशेषम् ( बहुव्रीहिः ); तस्य भावस्तत्ता, ताम् ।
    कथायामवशिष्टमित्येवं विग्रहे कथावशिष्टमित्यपि निर्दुष्टं
    भाति, तथापि प्रयोगोस्य नेति परिहार्यमेतत् ।
४७१-पुर वन्यानामधुना सभ्यशिरोमणिंमन्यानामप्ययमेव देशः
    शिक्षागुरुः किमुत सामान्येन सुभ्यानाम् इत्येवं वक्तव्यम् ।
    तत्र सामान्येनेति
    प्रकृत्यादित्वात् तृतीयौपसंख्यानिकी ।
४७२-आयतनमिति स्थानमुच्यते देवतायतनादिषु दर्शनात् ।
    ईश्वरेच्छायत्तेति तु वक्तव्यम् ।
४७३-शकटीवाहनाद्यभेयासं कारितस्तुरग इत्येवं वक्तव्यम् । अभ्यासः
    परिशीलनं क्रियाभ्यावृत्तिर्भवति । तेनाभिपूर्वोऽस्यतिर्ज्ञानार्थको
    न, येन णिचि कर्तुः कर्मत्वं स्यात् ।



       १. शृणु सेचने इत्यस्माल्लुकिं रूपम्
       २. जागरूक इति विवक्षति ।
       ३ ईश्वरायत्ता इत्यर्थ' विवक्षति।

४७४-इदानीमनेन वीरेण तथा पराक्रान्तं यथा न समग्रेपि निजस्यायुषि ।
४७५-पुत्त्रस्य युद्धात्पलायनं मनस्विन्या जनन्या हृदये शल्यमिव प्रविध्यत ।
४७६-शर्वर्या निबिडेऽन्धकारे न ददर्श हस्तो हस्तम् ।
४७७-वत्सेऽलं लज्जया । उद्घाटयावगुण्ठनम् । प्रत्यभिजानातु त्वां भर्ता ।
४७८-खलोल्लापान् बहूञ्छ्रावं श्रावं स उत्तमं खेदमापेदे, तदुत्तरे चैवमूचे ।
४७९-पूर्वे केपि राजापसदाः प्रजानामुपरि भयानकमत्याचरन् ।
४८०-सेयं कौरवी चमूर्भीष्माध्यक्षतायां परं पराक्रस्यते किल ।
४८१-पुत्रजन्मनि पितुर्हर्षातिशयः शरीरे न मीयते ।
४८२–भगवता सृष्टेष्वतिविस्मयास्पदीभूतेषु वस्तुषु सुतरां प्रभाववद् इदमुदरं नाम ।



४७४–आयुर्जीवनकाल इत्यसकृदुक्तम् । तेनायुः शब्दोऽस्थाने निःकृस्नेप्यतीते वयसीति वक्तव्यम् । नेतः पूर्वे कदाचिदित्येवं वा।
४७९-हृदयं शल्येनेवाविध्यतेति वक्तव्यम् । शल्यं हि विध्यति न तु स्वयं विध्यते ॥
७६-एकोऽपरं नान्वभवत इति, एकः संदेशे स्थितमपरं नालोकतेति वा, न प्राजानादिति वा वक्तव्यम्
४७७-अपनयावगुण्ठनमित्येवोचितं वक्तुम् | अवगुण्ठनं नाम न किञ्चिदुद्घाटनीयं भवति ।
४७८–तदुत्तरे इत्यादेर्वाक्यखण्डस्य् स्थाने तांश्चैव प्रत्युवाचेति वक्तव्यम् ।
४७९-प्रजास्वत्याचारा बभूवुरिति वक्तव्यं प्रजासु दारुणवृत्तयो वेति । अतिक्रान्त आचारमित्यत्याचारः। इदं प्रायेण विशेषणमिति. प्रयुज्यंते न तु विशेष्यमिति । आचरतिः सकर्मकः। उपमानादाचारे (३|१|१०) इत्यत्र शिष्यं पुत्त्रमिवाचरति पुत्रीयति शिष्यमित्युदाहृतत्वात्। अतिक्रम्य
मर्यादामाचरन्नित्यत्याचरन् । तेन कर्मणि द्वितीयां साम्प्रतिकी स्यात् ।
४८०-भीष्माध्यक्षा, भीष्मेणाधिष्ठितेति वा वक्तव्यम् ।
४८१-शरीरे न मातीति वक्तव्यम् । मा माने आदादिकोऽकर्मकः, से प्रयोक्तव्यः।
ममुस्तत्र न कैटभद्विषस्तपोधनाभ्यागमसंपदो मुद इत्यत्र माघे यथा ।
४८२-विस्मयास्पदेषु वस्तुष्विति वक्तव्यम् अभूततद्भावे च्विः । अभूततद्भावश्च नेह विवक्षित इति च्विना नार्थः।
    पदास्पदस्थानभाजनादीन्यजहल्लिङ्गान्येकत्वमतिक्रामन्त्यपि दृष्टानि
भवादृशा एव भवन्ति भाजनान्युपदेशानामित्यत्र कादम्बर्यां तथा दर्शनात् ।



       १. वि वृद्धं, भृशम् ।
       २ क्षुल्लका राजानः।

४८३-पवनः:वरागवाही रथ्यासु वहन् रजस्वलो भवति।
४८४-अयमर्थः सर्वजनीन इत्येतदर्थे जिज्ञासा नोदेति ।
४८५-तेषां परिवारे निजाभ्यस्तास्तास्ताः भाषाः प्रचरन्ति ।
४८६-सुकृतिनस्ते पूर्णमायुरुपभुज्य पुत्त्रपौत्रादीनां सत्तायां सुखं नाकमारुरुहुः।
४८७-अनेनैव सर्वे स्थालीपुलाकं परीक्षितं स्यात् । नार्थो विस्तरेण ।
४८८-लोके शास्त्रे च सूर्यस्याब्जिनीपतिः सहस्रकिरण इत्यादीनि
    नामधेयान्यधिविन्दामः तान्युपपादनामर्हन्ति ।
४८९-स्पष्टविनिवेदनाय क्षमां:चेद् दास्यन्ति सन्तः
 स्वमभिप्रायममायं वक्ष्यामि ।



४८३-रजःकृष्यासुतिपरिपदो वलच् इति रज इति
   प्रातिपदिकाद्वलचि रूपसिद्धिः । इतिकरणो विषयनियमार्थः
   सर्वत्र सम्बध्यते । तेनेह न भवति रजोस्मिन्ग्रामे विद्यत
   इतीति काशिकावचनात्स्त्री रजस्वल भवतीति
   प्रयोगः, न तु पवनः पन्था व रजस्वलो भवति ।
४८४-आत्मन्विश्वजनभोगोत्तरपदात्खः (५|१|९) इत्यत्र
   सर्वजनाट्ट्ञ् खश्चेति वार्तिकं पठितम् । तेन सर्वेजनीन इति
   सिध्यति, अर्थस्तु न संगच्छते । तत्र तस्मै
   हितमेित्यधिकृतम् । तेन सर्वेभ्यो जनेभ्यो हित: सर्वजनीन
   इति भवति सार्वजनिक इति वा । प्रतिजनादिभ्यः
   खलु (४/४/९९ ) इत्यत्रापि 'गणे सर्वजनशब्दः पठितः।
   तत्र साधुरिति तत्राधिकांरः । तेन सर्वस्मिज्जने साधुः
   सार्वजनीन इति भवति । सर्वेषां विदित इति च विवक्षितोऽर्थः ।
४८५-परिवारः परिजनो भवति; न तु कुटुम्बम् । निजशब्द
    आत्मीयवचनः, न त्वामवचनः ।
४८६-पुत्त्रपौत्रादिषु जीवत्स्विति वक्तव्यम् । जीवेष्विति वा ।
४८७-स्थालीपुलाकन्यायेनेति वक्तव्यम् । स्यापुलाक़स्तुच्छधान्ये
    इत्यमरः । यथास्थिते त्वनन्वयो विस्पष्ट: ।
४८८-नामधेयानि विन्दाम इत्येव साधु । अधिवेदनं नांम
    परिणीतायां जीवन्त्यां भार्यायामपरस्या वेदनम् ।
   तत्रैवार्थेधिपूर्वो विन्दतिर्वर्तते ।
४८९-स्पष्टविनिवेदनं चेत्क्षंस्यन्ते ( क्षमिष्यन्ते ) सन्तः
   इत्यादिरूपन्यास एवास्तङ्गतदोषः, तादर्थ्ये चेह नास्तीति
   चतुर्थ्यप्रसक्ता।



       १. सर्वेषां विदितः, सार्वलौकिक इत्यर्थे प्रयोग:।
       २- कुड्म्ब इति विवक्षति ,

४९०–नानाविष्कारगर्विष्ठानां राष्ट्राणां संमुखे क्रतमद्वा - वर्तमानमिदं
    भारतवराकम् ।
४९१-सेयमनपायिनी स्मृतिमुद्रेतिहासप्रेमिणां हृदयान्नोपमृष्टा भवेत् ।
४९२-यावदेव संभाजेश्चित्रवधस्य संवादः पुण्यपत्तनमाससाद तावदेवः प्रचण्ड: क्रोधानलः प्रजासु ।
४९३-धर्मवेदेरुपरि लोमहर्षण किमपि काण्डमभ्यनीयतेति पप्रथे प्रवादः ।
४९४-महान् खलु राज्ञि प्रजानां विश्रम्भोऽभूत् ।
४९५-यच्छक्तया सकला जीविन इमे जीवा विभान्ति, भूम्यादयश्च विधृतास्तृिष्ठन्ति तं विभुं परमेश्वरमुपास्स्व ।
४९६-स्वामिप्राणपरित्राणाय तुरुष्कवीरेर्निंजशरीराणा राशयः कृताः ।
४९७-पदानि नाम संस्कृत्य संस्कृत्योत्सृज्यन्ते । तानि शक्यन्ते यथाकामं पौर्वापर्येणान्वेतुम् ।



४९०-राष्ट्राणां किं वेति वक्तव्यं संमुखे इति त्याज्यम् । अत्र षष्ट्येव पर्याप्ता विवक्षितमर्थमर्षयितुम् । वराकं भारतमित्येवं व्यासेन वक्तव्यम् ।
४९१-इतिहासप्रणयिनामिति वक्तव्यम् । प्रेमन्निति नकारान्तं पुंनपुंसकयोः। तत्र इनिदुर्लभः । अदन्तात्तद्विधेः । व्रीह्यादिषु चास्य पाठो नास्ति । प्रमृष्टा भवेदिति साधु स्यात् । उपपूर्वस्य मृजेस्तत्रार्थे प्रयोगादर्शनात् । हृदयादिति पञ्चमीमपेक्ष्य व्यवगता स्यादिति प्रयोज्यम् ।
४९२-चित्रवधस्य वार्तेति वक्तव्यम् । न हि संवादो वृत्तान्तपर्यायः समस्ति
४९३-काण्डोऽस्त्री दण्डबाणार्ववर्गावसरवरिष्वित्यमरः । प्रकृते च नैकतमोऽप्यर्थो घटते । नाटकमिति तु वक्तव्यम् । हर्षशोकादयो अभिनीयन्ते, नाटकं तु प्रयुज्यते, प्रयोगेणाधिक्रियत इति वा । तेन प्रायुज्यतेति वक्तव्यम् ।
४९४-विस्रम्भ इति तु वक्तव्यम् । विश्रम्भ इति तु प्रमादो भवति ।
४९५-जीविनं इति विशेषणं व्यर्थम् । जीवशब्देनैव गतार्थत्वात् । जीवतीति जीवः । जीवपुत्रो ममाचार्य इत्यादिषु जीवत्पुत्र इत्यर्थोपलब्धेश्च ।
४९६–स्वशरीराणि शवराशीकृतानीति वक्तव्यं स्वशरीराणि शवराशयः कृतानीति वा । षष्ठ्या तु नार्थः।
४९७–पौर्वापर्येणानुगमयितुम् इति वक्तव्यम् । पदं पदान्तरेणान्वेतीति व्यवहारः । कश्चित्पदं पदान्तरेणानुयद् अनुगमयति ।



       १. विश्वास इत्यर्थ इति विश्वसिति ।

४९८-इदमिदानीं भूयस्तरां विचारणीयम् ।
४९९–परैराक्रान्ता भयभीतास्ते मातरि पुरूषा कान्दिशीका बभूवुः ।
५००-माङ्गलिको जन इष्टदेवतामभिध्योयः कृत्यं प्रक्रमते ।
५०१-अत्र विद्यालये शिक्षकाणां संख्या त्रिंशदस्ति ।
५०२–कस्यचित्किमपि नो हरणीयं.मर्मवाक्यमपि नोच्चरणीयम् ।
५०३-अहो विनयोऽस्याश्छात्रायाः । को न्वस्या गुरुः स्यात् ।
५०४–स्वार्थसाधनभावनया कृतं महत्तरमपि कर्म श्रीगीतायाः सिद्धान्ते क्षुद्रमस्ति ।
५०५-सर्वधर्मान् परित्यज्येति गीतार्थे विसेष्मीयते लोको भगवान् सर्वधर्माणां परित्यागार्थं वक्तीतिं ।



४९८-भूयो विचारणीयमित्येव पर्याप्तम् । प्रकर्षवतोऽपि प्रकर्षविवक्षास्तीति चेद्यथान्यासं साधु ।
४९९-भीतां इत्येव पर्याप्तम् । भयशब्देन नार्थः ।
५००-अभिष्या तु परस्य विषये "स्पृहेत्यमरात् परकीयेर्थे ममायं स्यादिति संकल्पः। तेनेष्टदेवताप्रध्यायेति वक्तव्यम् ।
५०१-अत्र विद्यालये त्रिंशत्संख्याकाः शिक्षकाःअत्र विद्यालये त्रिशच्छिक्षका इति वा वक्तव्यम् ।
५०२–वाच उद्गरण उत्पूर्वश्चरतिर्णिजधिक: . प्रयोगमवतरति । तत्र
    व्यक्तवाचां समुच्चारणे इति सूत्रकारप्रयोगः, येनोच्चारितेन सास्नालङ्लककुद खुरविषाणिनामर्थासम्प्रत्यय इत्यादि भाष्यकारप्रयोगश्च मानम् ।
५०३-केचित् क्वचिण्णेप्यण्कार्यमिच्छन्तीति वचनसमाश्रयेण, णान्ताच्छात्रशब्दान्ङीपं कृत्वा छात्रीमितिस्त्रियामेिच्छन्ति । अपरे ङीपि दृढतरमांनं नास्तीति टापि च्छात्रेति व्यवहार्ये पश्यन्ति । वस्तुत श्छात्रशब्दः स्त्रियामप्रवृत्तपूर्व इति नाधुनातनैर्बलात्तत्र प्रवर्त्यः। यथाऽलक्षणमप्रयुक्ते" इति वार्तिकमप्रयुक्ते
लक्षणप्रवृतिं,वारयति । तेन शिष्याया इति वक्तृव्यम् ।
५०४-श्रीगीतायाः सिद्धान्त इति व्युदस्य वाक्यान्ते ‘इति गीतासु निर्णीतोर्थ इत्येवं न्यसनीयम् , ‘इति गीतासिद्धान्त’ इत्येवं वा । गीताशब्दं प्रायेण भूम्न्येव प्रयुञ्जते पुरा प्रयोगचणाः। उपनिषदो हि भगवता गीता इति गीता इत्युपनिषद्विशेषणमिति. युज्यते बहुवचनम् ।
५०५-परित्यागं ब्रवीतीति वक्तव्यम् । अर्थशब्देन नार्थः ।



       १-१ मातरि शूराः, गेहेनर्दीनः तत्पुरुषः समासः ।
       २: भयाद्रणाद द्रुताः।

५०६- स्वानि वर्णाश्रमकर्माणि मल्लक्ष्येणैव प्रवर्तयेत्यनुशास्ति गीतास्वर्जुनं कृष्णः ।
५०७- यत्र भूभागे एकजातेरेकधर्मस्य
       समानसभ्यतासंस्कृतिमाषाणां च जना
       वसन्ति स भूभागस्तज्जाते राष्ट्रमुच्यते ।
५०८- अवलोक्य स्तनौ वध्वां गुञ्ज़ाफलविभूषितौ ।
       निश्वस्य रोदितुं लग्ना कुतोा व्याधकुटुम्बिनी ।
५०९- क्लीबपर्यायवचनंस्तृतीयप्रकृतिरिति वा साधु स्यात्
      तृतीयाप्रकृतिरिति चेति विवेचय ।
४१०- श्रीमधुसूदनसरस्वतीपदोऽपि भक्तिंरसतत्वं विस्तरेण
      व्यवर्णयत् ।
५११- इन्द्रदत्तो देवदत्तस्य वक्षसि प्रहरति विशिखेन ।
५१२– पञ्चकृत्वः पचतीति भवति, पञ्च पाका इति च, उत्तरत्र
      कृत्वसुच्कुतो न ?,
५१३- रुणाद्धि मौनस्य मिषेण वाणीम् । ( नैषधे ३|३०).



५०६– ममोद्देशेन, मामुद्दिश्यैवेति वा प्रयोज्यम् ।
५०७- यत्र भूभागे सजातयः सधर्माणः समसभ्यतासंस्कृतिभाषा
     लोका वसन्ति स भूभागस्तेषां राष्ट्रमुच्यते इत्येवं वक्तव्यं
     व्यवहारानुगमाय । लोकानां सभ्यतादयों भवन्ति न तु
     सभ्यतादीनां लोकाः । प्रधानं लोका उपसर्जनं
     सभ्यतादयो गुणा:।
५०८- प्रवृत्तेत्यर्थे लग्नेति पदमशक्तम् | लग्नमित्यासक्तुमाह ।
५०९- उभयं साधु । तृतीया प्रकृतिरित्यसमासः । पुंस्त्रियौ द्वे
     प्रकृती भवतः । नपुंसकं तृतीया प्रकृतिरुच्यते । समासे
     तु तृतीयप्रकृतिरित्यपि ।
     पुंवत् कर्मधारयजातीयदेशीयेष्विति पुंवद्भावः ।
५१०- उत्तरपदं पादशब्दो (चरणशब्दोपि ) बहुत्वे प्रयुक्तः
     पूजावचनो भवति
     नत्वेकत्वे । सरस्वतीपादा इति तु वक्तव्यम् ।
५११- देवदत्तं वक्षसीत्येवं वक्तव्यम् । यद्यप्यङ्गाङ्गिभावे
     सम्बन्धेऽङ्गिनोः देवदत्तादेः
     षष्टीष्यते, तथापि प्रहरणक्रियायाः कर्मत्वं तत्रेच्छन्ति
     व्यवहारकोविदाः’
     अकीर्तिते चाङ्गेऽधिकरणत्वम् । ऋषिप्रभावान्मयि .
     नान्तकोपि प्रभुः प्रहर्तुं
     किमुतान्यहिंस्त्रा इत्यादिषु तया दर्शनात्।
५१२- क्रियाभ्यावृत्तिगणने कृत्वसुज्विहितः, न तु क्रियामात्रगणन
     इति हेतोः ।
५१३– मौनमेव मिषः, तेन मौनमिषेणेति समासेनं वक्तव्यम्;
     मौनेन मिषेणेति व्यासेन वा । षष्ठ्या नार्थः भेदप्रतीतेः।

५१४-कौसल्ययाऽसावि सुखेन रामः प्राक् कैकयीतो भरतस्ततोऽभूत्। (भट्टौ १|१४|)
५१५–मायिकेस्मिन्सर्गे किं लौकिकाः किं परीक्षकाः सर्वेऽपि
   प्राणिनो दुःखं प्रतिकूलतया वेदयन्ते ।
५१६-पिपासायां लग्नायां सर्वस्य सलिलमिष्टं भवति ।
५१७–यदेवोप्यते बीजं तदेव कृत्यते न ततोन्यत् ।
५१८-महाराजेन दांनपत्त्रेस्मिन्हस्ताक्षरं कृतमिति नेदमप्रमाणम् ।
५१९-सा लक्ष्मीर्ययोपविधत्ते परेषाम् ।
५२०–हर्तुर्याति न गोचरं किमपि शं पुष्णाति सर्वात्मना
    ह्यर्थिभ्यः प्रतिपाद्यमानमनिशं प्राप्नोति वृद्धिं पराम् ।
    विद्याख्यमन्तर्धनम् ।



४१४—यद्यपि जनिक्रियायाः माताऽधिकरणं मता, कौसल्यायां
    रामोऽजायतेति व्यवहारात् , तथापि प्रसवक्रियएयां तस्याः
    कर्तृत्वं न वार्यत इति कौसल्ययेत्यनुक्ते कर्तरि तृतीया
    नासाध्वी । केकयीत इत्यत्र तु भवनक्रियां प्रति
    मातुरधिकरणता प्रसिद्धाऽप्रतिषिद्धेति सप्तम्यास्तसिः
    सार्वविभक्तिकः ।
५१५-मायिक इत्यबिद्याकार्यमुच्यते, तेन नात्र किमपि दूषणम् ।
    लौकिकाः स्युः परीक्षका वेति वक्तव्यम् ।
५१६-पिपासयां जातायामिति वक्तव्यम् । अत्रार्थे लग्नशब्दोऽशक्तः।
   लोकभाषायाः अनुकुर्वन्नेवं प्रयुङ्क्ते ।
५१७- तदेव प्ररोहतीति वक्तव्यम् । एवमेव पूर्वे व्याजहुः ।
   बीजस्य परिणामे फले लक्षणए चेदिष्टा, लूयत इति वक्तव्यम् । न हि कृतिस्तद्विषयः । प्रतिनियतविषयाः शब्दाः
५१८-हस्ताक्षरं कृतम्, इत्याधुनिको वाचां मार्गः। पूर्वे तु
   महाराजेन स्वहस्तौ दत्त इत्येवं प्रयुयुजिरे ।
५१९–ययोपकुरुत इत्येव युक्तं वक्तुम् । विपूर्वो धाञ् करोत्यर्थमाह,
   उपपूर्वस्तु स उपक्रियां नाहं । शब्दशक्तिस्वाभाव्यात् ।
५२०-ह्यर्थिभ्य इत्यत्र हि शब्द आदौ प्रयुक्तः । स दोषः । हि शब्दो वाक्यादौ न दृश्यते कविकृतिष्विति विदितं विदाम् ।

५२१- आश्रयामि यदि कल्पपादपं
       सोपि याति सहसावकेशिताम् ।
       मादृशां नयनकोणगोचरः
       सागरोऽपि मरुभूमिसोदरः ॥
५३२- उपरिष्टात्प्रेमाणं प्रदर्शयसि, हृदये च हालाहलं विषं धत्से किमेतत्सदृशं
      तेऽभिजातस्य ।
५२३-निरन्तरं वर्षता देवेन कदर्थिता यात्रिणोऽवग्रहं याचन्ते ।
५२४-तान्हसन्ति खलु चम्पकद्रुमाः फुल्लदम्भतः ।
५२५-परब्रह्मणि प्रणते सर्वे देवाः प्रणता भवन्ति ।
५२६-तदानीं सर्वेयं भारतभूश्चन्द्रगुप्तस्य सम्राजोधिकारेऽवर्तिष्ट ।
५२७-एतद्देशस्वातन्त्र्यप्रतिलब्ध्यै श्रीसुभाषः प्राणानपि पणेऽदधात् ।
५२८-पूर्वस्मात् खञ्जस्य मृगेन्द्रस्य सम्प्रति मेरुदण्डोपि विशीर्णः ।



५२१- सोदर्यः समानोदर्यं इति वा वक्तव्ये यत्सोद इत्याह
      तत्रास्य समानार्थकः सहशब्दोभिप्रेतः , तस्य बहुव्रीहौ
      पाक्षिकः सभावः सुलभः । तेन नात्र किञ्चिद् दुष्यति ।
      अकृते सभावे सहोदर इति बहुलं प्रयुज्यते । ‘तं तु देशं
      न पश्यामि यत्र भ्राता सहोदर इत्यत्र श्रीरामायणे
      यथा ।
५२२- उपरिष्टादित्यपहायं बहिरिति प्रयोज्यम् ।
५२३- अवग्रहोऽवग्राहश्च वर्षप्रतिबन्धेऽनावृष्टौ वर्तते । विरामं
     याचन्त इति तु वक्तव्यम् । तद्धि विवक्षितम् ।
५२४- फुल्लदम्भत इत्यत्र फुलमिति कुसुमपर्यायवेन प्रयुक्तम् ।
    फुल्लमिति तु
    विकसितमाह लोध्रकुसुममिव प्रफुल्लमित्यत्र यथा ।
५२५-यद्यपि गुरं नगतीत्यादिषु’ नमिः सकर्मको दृष्टस्तथापि नतः
    प्रणतः, आनत इत्यादिषु निष्ठा कर्तरि दृष्टा ।
    एवञ्जातीयको व्यवहारः । तेन परब्रह्मणि प्रणतं इत्युक्ते परं
    ब्रह्म स्वयं प्रणन्तु भवतीत्यनिष्टार्थप्रतीतिर्जायते,
    सा मा जनिष्टेति परब्रह्मणि नमस्कृते इति वक्तव्यः। सर्वे
    देवा नमस्कृता भवन्तीति च ।
५२६-यथास्थिते न दोषविशेषः । चन्द्रगुते सम्राज्यध्यभूत् इति तु
   ज्यायान् सन्दर्भणविधिः ।
५२-प्राणानामपणिष्ठेति वक्तव्यम् , प्राणान्पणी चकारेति वा ।
४२८-पूर्वम् इति वक्तव्यम् । तच्च क्रियविशेषणम्। पञ्चम्या
   नार्थः ।



       १. वर्षविराममभिप्रैति ।

५२९-दुर्विधा इमे कर्मकराः पर्णकुटीरेषुः कथं कथमपि स्वानि
    दुर्दिनानि यापयन्ति ।
४३०-चतुर्णां वर्षाणामैष बालः कामप्यपूर्वां प्रज्ञां विजृम्भयति ।
५३१-अनुस्रियेहं रक्षिवर्गेणेति दृष्ट्वा स तस्करः कान्दिशीको दिशो
    भेजे ।
५३२-किम्बलेति मां बलात्करिष्यसि जाल्मं ?
५३३-अभ्युपायश्चेच्चिन्तितोऽसेत्स्यत्कदैवाभीष्टार्थलाभेन
    भाग्यवानभविष्यम् ।
५३४-त्वमिदानीं पूर्णतो ममाधिकारे वर्तसे।
५३५-एकतस्तु नैसर्गिक एव सान्द्रारण्यनिकुञ्जपुञ्जेषु
    गाढोन्धकारः स पुनर्द्विगुणीकृतस्तमिस्रासन्तमसेन ।
५३६-कस्य नु रक्षायां भवेन्मे वत्सा वराकी ।
५३७-विविधविधरूपाणि. दधतीयं नृपनीतिः कस्यातिसन्धानाय
    नालम् ।



५२९-मेघाच्छन्नेऽहनि दुर्दिनमिति कोषाद् दुर्दिनशब्दः सांभ्रे वासरे
    रूढः। विषमाणि दिनानीति तु वक्तव्यम् ।
४३०-चतुर्वर्षोऽय बालं इत्येवं तद्धितवृत्या चित्तवति
    नित्यमिति ठञो लुकि वक्तव्यम् ).चतुर्णा वर्षाणाम्
    इति तु प्रचरल्लोकभाषाऽनुकारमात्रं संस्कृताभासम् ।
५३१-कान्दिशीकोऽभूद् इति वा वक्तव्यं दिशोऽभजतेति वा.।
    कान्दिशीको हि मुख्यया वृत्या भयाद्रणाद्द्रुतमाह । गौण्या
   तु पलायितं जनम् । तेन कान्दिशीकशब्दप्रयोगो न दुष्यति ।
५३२-किमिति प्रश्ने । बलात् प्रसंभं हठादित्यनर्थान्तरम् ।
   करोतेर्णिच् प्रयोक्तव्यः । कारयिष्यसीति प्रयोक्तव्यम् ।
५३३-कदैवत्यपनीय प्राकृतमाम् इति वाच्यमवाच्यतायै ।
५३४-पूर्णत इत्यस्य स्थाने सर्वथा, अत्यन्तमिति वा प्रयोक्तव्यम् ।
५३५-एकत इति न विवक्षितमर्थमाह, नैसर्गिकस्तावद् इत्येवं
    वक्तव्यं व्यवहारेणाऽविसंवादाय ।
५३६-कस्य नु रक्षायामित्यादिरपूर्वः संस्कृते न्यासः । कं
  शरणं यायाद् इत्येवं वक्तव्यम् । का नु रक्षकः स्याद्
   वत्साय.मे वराक्या इत्येवं वा ।
५३७-विविधविधरूपाणीत्यपास्य : वाग्डम्बरं विविधरूपाणीत्येवं
    संक्षिप्तं वचो वाच्यम् । विविधशब्देन्तर्गतो विधाशब्दो नः
    पृथक्प्रयोगमर्हति ।

५३८-आद्याद्यस्य गुणं त्वेषामवाप्नोति परः परः। (मनु० १ । २०)
५३९-महतोप्येनसो मासात्वचेवाहिर्विमुच्यते । ( मनृ० २ । ७९ )
५४०-अत्र पुस्तके केनापिचन वैजात्येन तादृश्या छात्रोपकृत्या भाव्यम् इति सङ्कल्प्यामः ।
५४१-प्रमाणान्तरानुपलभ्भादस्मिन्विषये ,जोषम्भावमेव शरणं मन्वाना तूष्णीमास्महे ।
५४२-अध्यासितं च वृषलेन वृषेण राज्ञाम् ( मुद्रा ३ । १८ )
५४३-दिनत्रयस्यावसरं निष्कास्यांस्मिन्नुत्सवे समुपतिष्ठन्तामत्रभवन्त इति प्रार्थये ।।
५४४-भोजस्य समये राजाज्ञायां सर्वासां प्रजानां कृते साक्षरत्वमनिवार्यमासीत् ।



५३८- नित्यवीप्सयोरित्यनेन शास्त्रेणाद्यस्याद्यस्येति प्राप्तम्, यथा परः पर इति वीप्सायां द्विरुक्तौ, तथापि स्मृतीनां छन्दोवद्भावात् सुपां सु-लुक्-इत्यादिना सुब्लुग् बोध्यः।
५३९- महताप्येनसेति तूचितम् । अन्यथा एकस्मिन्नेव वाक्ये विमुच्यत इति कर्मकृर्तरि शुद्धे कर्मणि च प्रयोगः स्वीकार्यो भवति । तच्चर्षिशीलेन विसंवदति ।
५४०– अत्र पुस्तकें केनचनेति वा केनापीति वा वक्तव्यम्। निपातद्वयेन नार्थ: ।
५४१- जोषमास्मह इति तु वक्तुमुचितम् । पूर्वे जोषम्भावशब्दप्रयोगात् । जोषम् इति मकारन्तमव्ययं तूष्णीमर्थेः । तथा चामरः-तूष्णीमर्थे सुखे जोपम् इति ।
५९४२- प्रायेण वृषवृषभऋषभTदयः शब्दा उत्तरपदे वर्तमाना: प्रशस्तवाचका भवन्ति । क्वाचित्कतया पृथक्त्वेनापि प्रयोगो दृश्यते । तेन वृषेण राज्ञामित्यपि निर्दुष्टम् । प्ल्वङ्गमानामृषभेण युद्धे इति श्रीरामायणे (६|५१|१) प्रयोगदर्शनात् ।
५४३- दिनत्रयं व्यापारान्तरं विहायेति संस्कृते शिष्टजुष्टः प्रकारः स जोषणीयः । नूत्नप्रकारान्तरकल्पनया नात्माऽऽयासनीयः । दिनत्रयमित्यत्यन्तसंयोगे द्वितीयाम्।
५४४- अत्र बह्वाकुलीकृतम् । भोजो राजा । तस्य समये राजाज्ञेत्युच्यमाने राजान्तरस्य सेति प्रतीतिर्भवन्ती न वार्यते । राजाज्ञायामिति सप्तम्यपि नोपपत्तिमती । कृते इत्यप्यनपेक्षितं पदम् । तच्च कारणवृति 'तादर्थ्यवृत्ति वा । अनिवार्यमित्यपि यद्वारयितुमनर्हमशक्यं वा तदाह न त्ववश्यसम्पाद्यम् । तदिदमित्थमनाकुलीक्रियताम्--श्रिभोजे वसुमती शासति सर्वाः प्रजाः साक्षराः (कालाक्षरिकाः) स्युरिति शासनमभूत् ।

५४५-इदानीन्तनो जीवनसंघर्षस्तावदतीव जटिल विषमश्वः संवृत्तः ।
५४६–परस्परैः संलपन्तो वयं तत्रैवाभुञ्ज्महि विश्रान्ति चान्वभवाम ।
५४७-तेतथा भापयितव्या यथा भविष्यति काले इतो मुखं कर्तुं नामापि न गृह्णीयुः।
५४८-उपरि शिरसो घटं धारयति ।
५४९-त्यागस्तपस्या च नः संस्कृतेरात्मा, शब्दान्तरेऽध्यात्मप्रधानेयम् ।
५५०-सर्वाणि मतमतान्तराणीह भारते वर्षे प्रचरन्ति न वार्यन्ते, मतिनानात्वं हि सहजमिति ।
५५१-यदि म्लेच्छैः सन्धोस्यामस्तदा जीवन्त एव मरिष्यामः ।



५४५- अत्र जीवनसङ्घर्ष इति पदं विवक्षितमर्थं नार्पयति । संघर्षो हि स्पर्धा पराभिभवेच्छा भवति, न त्वभियोगः ( यत्नविशेषः)। जटिलविषमे च समानार्थके पदे । तयोरेकतरं शक्यं हातुम् । तेन सर्वदोषापहतयेऽद्यत्वे प्राणयात्राऽतिविषमेति वक्तव्यम् ।
५४६- यद्यपि परस्परैरित्यत्र बहुवचने न कश्चिद्
       दोषस्तथाप्येकवचनप्रयोगो ज्यायान् । परस्परेण
       स्पृहणीयशोभं न चेद् इदं द्वन्द्वमयोजयिष्यदिति
       कुमार एकवचनप्रयोगः कविकृतो व्यवहारमनुरुन्धे ।
५४७- इतो मुखं कर्तुमित्यादेर्वाक्यस्य स्थान इत
       आगमनचिन्तामपि परिहरेयुरित्येवं
       इहागमनचिन्तामपि मा स्म काषुरित्येवं वा वक्तव्यम् ।
       तस्यार्थस्य
       नामापि न गृह्णीयादिति तमर्थमत्यन्ताय परिहरेदिति वाक्यार्थं नाभिलपति ।
       तादृश उपचारः संस्कृते न दृष्टः ।
५४८- अत्र सामीप्यं सदपि न विवक्षितम् । औत्तराधर्यमेव तु विवक्षितम् ।
       इत्युपर्युध्यधसः सामीप्य इति द्विर्वचनं न ।
५४९- संस्कृतिः संस्कार इत्यनर्थान्तरम् । अधुनातनास्तु
       तत्तच्छिक्षादिसंस्कार-
       संस्कृतायाः कस्याश्चिज्जातेराचारविचारसमुच्चयेऽस्य
       संकेतमभ्युप्रयन्ति ।
       पूर्वं .तु.सभ्यताशब्दमेवात्रार्थे प्रयुयुज़िरे। शब्दान्तरे इति
       प्रचरद्भाषानुकृतिः।
       नैषा संस्कृते भाषितभङ्गी । आत्मप्रधानेयम् इत्युक्तं
       भवति इत्येवं वक्तव्यम् ।
      अध्यात्मम् इत्यव्ययीभावः। आत्मानमधिकृत्य अध्यात्मम् । इदं च प्रधानशब्देनोत्तरपदेन दुःश्लिष्टम् ।
५५०- मतमतान्तराणीत्यत्र मतान्तरशब्दो हेयः । मतानीत्येव
       पर्याप्स्यति । नहि मतानीत्युक्ते विवक्षितोर्थोऽनभिहितो
       भवति ।
५५१- जीवन्तोपिःमरिष्याम इति विरुद्धवदाभासं विहाय जीवाः
      अपि मृता इव,
      जीवन्तोपि मृतप्राया मृतलक्षणमाप्ता इति वा वक्तव्यम् ।

५५२-मनोरमा अमी दरिद्राणां स्वप्ना मरुमरीचिकामात्रा एवावतिष्ठन्ते ।
५५३-कृत्यं महते समयोः लघीयान् ।
५५४-यदासौ शरं लक्ष्यीकरोति तदा कलहंसध्वनिरमुष्य समाधिं विघटयति ।
५९५-इह देशे सम्प्रयाध्यात्मिकी समुन्नतिरुपेक्ष्यते । परिणामतो जनतायां दयादाक्षिण्यादिगुणानां विकास उपरुध्यते ।
५५६–त्यजत वा पिपासितमिमां धरां स्वरक्तेन तर्पितां वा समाचरत।
५५७–अद्य मे प्रभातं सुप्रभातं यच्चिरकाङ्क्षितदर्शनः प्रियसुहृद् दृष्टः ।
५५८-एतस्य लक्ष्मीपुंत्रस्य कृते किं नाम दुरापं जगति ।
५५९-इह ग्रामटिकायां भिक्षाचरणाय न सन्ति बहवः ऋद्धिमन्तो जनाः।



५५२– मरुमरीचिकामात्रम् इति तु वक्तव्यम् । मात्रं कार्त्स्न्येऽवधारण इति कोषान्मात्रशब्दोऽवधारणे वर्तमानो नपुंसकत्वे नियतः । मयूरव्यंसकादिः समासः ।
४५३- अल्पीयानिति तु प्रयोक्तव्यम् । अल्पमिति महच्छब्दस्य प्रतियोगि न तु लघु ।
५५४- शरं लक्ष्यं करोतीति विपरीतमुच्यते । न हि मृगव्याधः शरं लक्ष्यीकरोति किन्तर्हि मृगम् । यदाऽसौ शरसन्धानं करोतीत्येवं वक्तव्यम् ।
५५५– परिणामत इत्यपहाय तस्यायं परिणामो जनतायां उपरुध्यत इतीत्येवं वक्तव्यम् । परिणामत इत्यस्य स्थाने 'तेन' इति प्रयोक्तव्यं लाघवाय ।
५५६- प्रायेणा्ङ्पूर्वश्चरतिरनुष्ठाने वर्तते न तु विकारेऽवस्थान्तरापादने वा । तथापि वयं नरेन्द्रं सत्यस्थं भरत चरामेति श्रीरामायणे प्रयोगदर्शनादवस्थान्तरापादनेऽस्य प्रवृत्तिर्न दोषाय ।
१५७– अद्य मे सुप्रभातमित्येव युक्तम् । प्रभातं सुप्रभातमित्यनर्थकः समभिव्याहारः। न हि प्रभातं भाति, किन्तहिं रात्रिः । रात्रिः प्रभाता (भातुमारब्धां ),रात्र्यां प्रभातम् इति वा प्रयोक्तव्ये प्रभातमित्येव प्रयुङ्क्ते संक्षेपरुचिः कुशलः प्रयोक्ता ।
५५८- 'कृते' इति कारणादित्यर्थे रूढम् । प्रकृते नायमर्थः प्रत्यायिययिषित इत्येतेन लक्ष्मीपुत्त्रेण किं नाम दुरापमित्येवं विपरिणमय्य वक्तव्यम् ।
५५९- भिक्षाचरणं हि भिक्षार्थं पर्यटनं भवति । तेन भिक्षायै, भिक्षालब्धये भैक्षार्जनाय इति वा वक्तव्यम् ।

५६०-इह हि नो युगयुगागतं दारिद्रयं यथापेयात्तथा कार्यो यत्नः।
५६१-तेभ्यो भिक्षायां प्रभूतं धनधान्यादि. भे मि दिति चिन्तयामि ।
५६२-अयि पिपीलिके, ऊढभारापि कथं सुखं पलायसे ?
५६३-शतशताशासम्भृतहृदयो भिक्षुको भिक्षार्थं नगरं प्रस्थितः ।
५६४–एतस्या आख्यायिकाया विषये काश्चन विदुषामभिमतयः ।
५६५ यस्याः (भरतभुवः ) काश्मीरभूमिः स्फुटनिटिलतटे रम्यकश्मीररेखा !
५६६-निर्वाणदीपे किमु तैलदानम् ।
५६७-कोयं नु रागस्तव भावभित्सु त्यक्तोसि यैस्तांस्त्यज मित्रवादान्



५६०-आ युगेभ्य आगतमिति वक्तव्यम् । समासे युगशब्दद्विरुक्तिर्न शास्त्रेणानुशिष्टा न च व्यवहारेणानुमोदितेति परिहार्या । असमासेनैवायमर्थो निर्वक्तव्यः, तेन युगशब्दः प्रधानं भवति । आङ्भिव्याप्तौ ।
५६१- भिक्षयेति तृतीयां प्रयोज्या। मे मिलेदिति पराणुद्य मया लभ्येतेत्येवं वक्तव्यम् । न हि मिलतेरयं विषयः ।
५६२- पलायसे इत्यस्थाने । पलायते इति भयादिना विद्रुतो भवतीत्यर्थे प्रयोगमवतरति । शीघ्रगमनमात्रे तु नास्य प्रवृत्तिर्दृष्टा । तेन 'त्वरसे' इति प्रयोक्तव्यं ।
५६३– आशाशतसंभृतहृदय इत्येवं वक्तव्यम् । समासे द्विरुक्तेर्विधायकं शास्त्रं नास्ति । आशानां बहूनि शतानीत्यर्थस्तु समासशक्त्यैव गंस्यते ।
५६४- विदुषां मतय इत्येवं निर्दुष्टं वचः स्यात् । अभिमतिरभिमान इत्यनर्थान्तरम् । अभिमानश्च मिथ्याकल्पना भवति, आत्मनि संभावना गौरवारोपो वा ।
५६५- काश्मीररेखेत्यस्य स्थाने काश्मीरजरेखा, काश्मीरजन्मरेखेति वा वक्तव्यम् । काश्मीरम् इति तु पौष्करे मूले रूढम् ।
५६६– निर्वाणे दीपे इति तु वक्तव्यम् । दीपे इति भावलक्षणा सप्तमी । दीपस्य भावो निर्वाणताप्राप्तिरिति विधेयम् । विधेयेन च समासो न । अधिकरणसप्तभ्यां तु न दोषः ।
५६७- आत्मानं ये मित्रं वदन्ति ते मित्रवादा इति व्युत्पत्तिलभ्येपि सत्यर्थे नास्यात्रार्थे प्रयोगः। मित्रब्रुवशब्द एव प्रयोक्तव्यः । यथा कश्चिद् आत्मानं ब्राह्मणं ब्रूतेऽब्राह्मणोऽपि सन् से उच्यते ब्राह्मणब्रुव इति, एवं मित्रब्रुव इति व्याख्येयम् । प्रकृते मित्रब्रुवान् इति प्रयोज्यम् ।



       १. मित्रब्रुवान् इत्यर्थे प्रयोगः ।

५६८-ते मौलिकीरनूदिता वा कृतीः प्रकाशनार्थं प्रेषयितुमनुरुध्यन्ते ।
५६९-सनातनदेव कालान्मनीषिभिरस्याऽऽस्तम्बब्रह्मपर्यन्तस्य लोकस्याध्ययने क्रियते साभिनिवेशं यत्नः ।
५७०-सर्वविश्वपरिरक्षणे विपुलशक्तिरखिलेश ।
    अन्यमना इव लक्ष्यसे, मथि पापे करुणेश ।
५७१-सेयं नः संस्कृतिर्वेदे वर्णितोषेव पुराणी युवतिः ।
५७२-स्वस्य संस्कृते रक्षायै सतत प्रयतते प्राणपणेनापि प्रत्येकं राष्ट्रम् ।
५७३-प्राध्यापकस्य श्रीभट्टाचार्यस्य सांयात्रिकत्वं दीर्घस्मिन्नध्वनि मेऽवलम्बनमभूत् ।
५७४–परं विषीदामि यतो न पारये, परस्परं संलपितुं चिराय वै ।



५६८- मूलाद् आगतं मौलं भवति । मौला मन्त्रिणः पितृपैतामहा उच्यन्ते । मूलाद् आगता कृतिरित्युक्तेनार्थः कश्चित् स्फुटति । किंलक्षणा सा भवतीति विशिष्य न ज्ञायते । मूलमनुज्झित्वा प्रवृत्तेति चेन्नायं विवक्षितोऽर्थः । तेन अयोनिजाः कृतीरिति वक्तव्यं स्वस्थोपज्ञा इति वा । प्रेषयेयुरित्यनुरुध्यत इत्येवं वाक्यशेषः कल्पनीयः । भिन्नकर्तृकतायां तुमुन्दुर्लभः। अनो रुध कामे दिवदिः। अनुरुध्यन्ते इत्यस्य प्रार्थ्यन्ते इति नार्थः । काम एषणम् इच्छा भवति, न प्रार्थना ।
५६९- सनातनशब्दः पुरातनापरपर्यायो न। सनातन इति नित्यमाह । सनाभवः सनातनः । तेन ‘सुदूरमतिक्रान्तात्कालादा' इत्येवं वक्तव्यम् । अत्राङ् अभिविधौ वेदितव्यः ।
५७०- इह बह्वाकुलीकृतम् । समानार्थकयोः सर्वविश्वशब्दयोः साकं प्रयोगो दुष्यति । प्रयोक्ता तु विश्वशब्दो जगनामेति भ्रमति । विपुलशक्तिरिति प्रातिपदिकार्थमात्रे प्रथमा प्रयुक्ता साऽपि दुष्यति, इष्यते चामन्त्रितम्, तेन विपुलशक्ते इति वक्तुमुचितम् । अन्यथा वाक्यभेदप्रसङ्गः ।
५७१– उषा इवेति वक्तव्यम् । उषस् इति स्त्रियां देवतावाचि सकारान्तम् ।
५७२– प्रत्येकं राष्ट्रमिति दुष्टम् । प्रत्येकमित्यव्ययीभावो यथार्थे वीप्सायाम् । राष्ट्राणि प्रत्येकं प्रयतन्त इत्येवं न्यसंनीयम् ।
५७३- सांयात्रिकः पोतवणिग् भवति । इममर्थमजानान एवं प्रयुङ्क्ते । समानयांत्रिकत्वमिति प्रयोक्तव्यं स्यात् ।
५७४- संलपितुमित्यनेनैव संगतयोरालाप उक्तो भवति । तेन परस्परमिति गडुभूतम् पराकृत्यम् ।

५७५-घृतां ने मां स्तौति मृतां न शोचति ।
५७६–जहीहि मागें समयो विलम्बते ।
५७७-साक्षात्सरस्वतीसधर्मेव श्रीवाचस्पतिमिश्रः ।
५७८-चतुरब्दावस्थ एष बालोऽबालप्रज्ञः कस्य न प्रियः ।
५७९-तथालब्धेन धनेन कथमपि भोजनादिव्ययं सम्पादयन्ती सा तत्रैव न्यवसत् ।
५८०-विवर्त इति दार्शनिकस्य शब्दस्य कोऽर्थ इतीदानीं विमृश्यम् ।
५८१-सरुजं चरणं विलेपनसंवाहनादिना स्वस्थमापाद्य कश्चित् कालं सुखं समविशम् ।
५८२- माघमासस्य चतुर्दशदिनाङ्के कुमारिकायाः सुलोचनायाः परिणयविधिर्निरवतर्त्यत ।



५७५- घृतामिति धृङ अवस्थाने इत्यस्य निष्ठायां टापि रूपम् । तेन नात्र किञ्चिद्दुष्यति ।
५७६-जहीहि मार्गमित्यस्य स्थाने पन्थानं देहीति युज्यते वक्तुम् । एवं व्यवहारः। स्मयोऽतिक्रामतीत्येवं वक्तव्यम् । समयातिवर्ती चेतनोऽचेतनो वा पदार्थों विलम्यतेऽवस्रंसते न तु समयः ।
५७७–अत्र साक्षात्सरस्वती श्रीवाचस्पतिमिश्र इत्युच्यतां सरस्वतीसधर्मा श्रीवाचस्पति मिश्र इति वा । साक्षात्सरस्वतीसधर्मेति त्वपार्थकं वचः । साक्षादित्यनेन सरस्वतीरूपः स इत्युच्यते, सरस्वतीसधर्मेत्यनेन च तत्सदृश इत्यर्थं विशेषः ।
५७८-चतुर्वर्षःचतुर्हायण इति वा वक्तव्यम् । अवस्थाशब्देन बाल्यदिवय उच्यते ।
५७९-भोजनादिव्ययं निर्वहन्तीत्येवं वक्तव्यम् । एवं हि . विवक्षितोर्थोऽर्पितो भवति ।
५८०-दार्शनिकः शब्द इत्यश्रुतचरः संस्कृते प्रयोगः कश्चित्कापिलः काणादो वा दार्शनिको भवति, न तु शब्दः । दर्शनेषु परिभाषित इति वा व्यवहृत इति वेति वक्तव्यम् ।
५८१-स्वस्थं सम्पाद्य स्वस्यतामापाद्येति वा वक्तव्यम् ।
५८२-चतुर्दशदिनाङ्के इति कल्पितो नूत्नो व्यवहारः परम्परीणेन व्यवहारेण विसंवदतीति नादृत्यः। ‘चतुर्दशे दिने’ इत्येवं पर्याप्स्यति । अङ्कशब्देन नार्थः ।

५८३-यानानि यूनः प्रष्ठान्ययनानि नयन्ति ।
५८४–परैरास्कन्नेस्मिन्देशे नार्यस्त्यजन्ति भूषणमोहम् ।
५८५-वयोगते किं वनिताविलासः ।
५८६-वीरस्य तस्य मृत्योः प्रतिशोधं चोनानां रक्तेन करिष्यामः ।
५८७-आबालवृद्धं सर्वेऽपि नागरिका,हार्दमभिनन्दनं प्रयच्छन्ति
     सैनिकेभ्यः।
५८८-भूयांन् कार्यविस्तरो महता कालेन सेत्स्यतीति किमत्र चित्रम् ।
५८९- यो हि पततोऽपि पतत्रिणो विशिंखस्यः स्वस्य
     लक्ष्यान्करोति स कृतपुङ्ख़ो धानुष्कः ।
५९०-सर्वेषां मुहूर्तानां शास्त्रार्थप्रतिपादक एवायमन्यतमः प्रबन्धः
     स्यादिति भ्राम्येन्मतिः केषांचित् ।
५९१-एष कर्णान्ताकृष्टमौर्विर्विश्वामित्रस्याध्वरं रक्षंस्तिष्ठति सौमित्रिः ।



५८३- पृष्ठानीत्यस्थाने प्रयोगः । प्रष्ठोऽग्रगामिनीति सूत्रेण प्रष्ठ
       इत्यग्रगन्तरि निपातितः। अग्रगतानीति तु वक्तव्यम् ।
५८४- भूषणमोहमिति मोहार्थे प्रचरक्द्भाषानिरूढं
       संस्कृतेऽभिमन्यमानः शारदप्रतिभः कश्चित्प्रयुङ्क्ते ।
       भूषणप्रियत्वमिति तु वक्तव्यम् ।
५८५– वयोगते किं वनिताविलास इत्यत्र भावलक्षणायां
       सप्तम्यामभ्युपेतायां वयसि तारुण्ये) गते(सति )इत्येवं
       व्यासेन वाच्यम् । विवृतोऽयमर्थः पूर्वत्र ।
५८६ प्रतिशोधमित्यपहाय-प्रतिकरिष्याम इत्येव प्रयोज्यम् ।
       यद्यप्यृणं शोधयति, वैरे ऋणत्वारोपेण वैरं
       शोधयतीत्युच्यते, प्रतिशोधशब्दस्य व्यस्तस्य समस्तस्य
       वा प्रयोगो न दृश्यते । प्रतिशोधे प्रतिशब्दोप्यनर्थकः ।
५८७- हार्दमिति हृदिस्थं भवति प्रेमा वा । तेन हृदयेन
       सहार्दमिति वा वक्तव्यम् ।
       अभिनन्दनं नाम क्रियते न तु दीयते । तेन कुर्वन्ति
       सैनिकानाम् इत्येवोचितम् ।
       सहार्दमभिनन्दन्ति सैनिकान् इति तु ज्यायसी विधा ।
५८८- भूयान् कार्यकलाप इति वक्तव्यम् । शब्दविषये
       विस्तरोऽन्यत्र विस्तार
       इत्यन्यदेतत् ।
५८९- पतत इति संचरतो गतिमत उड्डयमानान् इत्यर्थः ।
      लक्ष्यशरव्यादयः शब्दा
      कविकृतिष्वेकवचनान्ताः क्लीवे प्रयुज्यन्ते । कृताः
      शरव्यं हरिणा तवासुरा
      इत्यत्र यथा । तेन लक्ष्यं करोतीति वक्तव्यं ।
५९०- भ्रमिर्भौवादिकः प्रयोक्तव्यः । दैवादिकस्तु परिभ्रमणे
      वर्तते ।
५९१- कर्णान्ताकृष्टमौर्वाक इत्येवं समासान्तं कृत्वा वक्तव्यम् ।
      उपसर्जनह्रस्वत्वं बाधित्वा कब्भवति समासान्तः परत्वात् ।

५९२-वारूणीमदविशङ्कमथाविश्चक्षुषोऽभवदसाविव रागः। (शिशु)।
५९३-स्वतन्त्रतारक्षणमहामख आत्मानं , जुहुतेति विनीयते स्म
   जनता श्रीलाजपतरायेण ।
५९४–अहो अभिरामोऽस्य गुणानां ग्रामः ।
५९५-कामन्दकीयनीतिसारस्याध्ययनं कौटलीयर्थशास्त्राध्ययने
   सोपानतां करिष्यति ।
५९६–पत्रिकाभ्योपि धनोपकारो वितीर्यते।
५९७-तेन भूतकालिकीस्थितिः परिचेतुं न पार्यते ।
५९८-पूर्वैस्त्वात्मानं विजिज्ञासस्वेत्यत्र नैर्भर्यं न्यस्तम् ।



५९२-अत्राविरित्यस्य व्यवहितः प्रयोगः शङ्क्यते ।
    कविस्वातन्त्र्यादिदमिति मल्लिनाथः। गतिश्चेति सूत्रे पक्षद्वयं
    स्थितम्—धातोः प्राक्प्रयुक्तानामेव प्रादीनां निपातानां
    गतिसंज्ञेति संज्ञानियमपक्षः । गतिसंज्ञका एते धातोः
       प्रागेव प्रयोक्तव्या इति प्रयोगनियमपक्षः
    आद्येऽदोषश्चरमे तु दोषः । साक्षात्प्रभृतिष्वाविःशब्दस्य पाठाद्
    वैकल्पिक्यस्य गतिसंज्ञां । तेन पक्षे
    गतिसंज्ञाया अभाव इति व्यवहितप्रयोगो न दुष्येतीयन्ये ।
५९३- जुहुतेत्यत्र विनीयत स्म जनतेत्येवं वाच्यम् । आचार्यः
    शिष्यं शास्त्रे विनयत इति प्रयोगो न तु शास्त्रं विनयत इति । कस्यां
    कलायामभिविनीते भवत्यौ इति च
    मालविकायामभिविनयविंषयस्य सप्तम्या निर्देशोप्यस्मदुक्तं
    समर्थयते ।
५९४–गुणग्राम इति समासेनैवायमर्थोऽभिधेयः । अत एव
    वार्तिककारस्य ग्रामच्प्रत्ययस्य कल्पना ।
५९५-सोपानतां यास्यति, सोपानभावं गमिष्यतीत्येवं वा वक्तव्यम् ।. सोपानता सोपानभावो भवति, न तु सोपानकर्म । तस्य
    भावस्त्वतलाविति भावे त्वतलोर्विधेः ।
५९६-पत्रिका धनेनोपक्रियन्त इत्येवं वक्तव्यम् ।
५९७- भूतः कालोऽस्या इति भूतकाला स्थितिरिति बहुव्रीहिणा
    वक्तव्यम् । यथास्थिते त्वयं दोषः । भूतःकालोऽस्या अस्तीति
   'भूतकालिका’ इति मत्वर्थीये ठनिं टापि स्यात् ।
    भोतकालिकी इति वा स्याद्भूते काले -भवा ठञि ।
५९८-निर्भरं सातिशयं भवति। नैर्भर्यमिति भावप्रत्ययान्तमिति
    त्वाभिधानिकानामप्यविदितम् । अत्र वक्तुः कोऽभिप्राय इति
    दुष्करमुन्नेतुम्। परमः पुरुषार्थ इति निर्दिष्टम् इति
    तदभिप्रायः स्यात् ।

५९९–अद्यत्वे प्रातिस्विके पुरुषे तस्य तात्त्विकभावे च सुतरामुदास्महे ।
६००-संस्कृतवाचोभिवृद्धिमधिकृत्य निर्भरेण भाषितं सभाध्यक्षेण ।
६०१-परःसहत्रं विद्वांसस्तत्र समवेताः ।
६०२-इदं पञ्चशत्यापि वर्षाणां लुप्तमासीत् ।
६०३-मीमांसा प्रातिहार्यं भजति गुणगणं यस्य सङ्ख्याति साङ्ख्यः । ( हरिवंशे भारतप्रदीपे द्वितीयो मङ्गलश्लोकः )
६०४- जाह्नवीतीरपद्यं तु भवन्मते लगेन्नहि ।
६०५– किं पश्यसि श्रेणिभूतानि शेरते रक्षांसीतीष्यते श्रेणीभूतानीति वोभयं वेति ।
६०६- कथं तपस्यति शत्रून् इति (चान्द्रव्याकरणे १|१|३७)॥
६०७– कारागतैस्तैर्यो यातना अनुभूयन्ते नालं ता वर्णयितुं
        वाग्मिनाऽपिं ।



५९९- प्रातिस्विकमित्यसाधारणं भवति । प्रतिस्वं यथायथं
       भवमिति तद्विग्रहः। पुरुषे पुरुषे यत्स्वालक्षण्यं यच्च
       तत्त्वं तत्रेति वक्तव्यं, तथा हि विवक्षितोऽर्थाऽर्पितो
       भवति ।
६००- निर्भरं भाषितमिति वक्तव्यम् ।'निर्भरमिति
       क्रियाविशेषणम् । विस्तरेण,न्यक्षेण प्रपद्येनेति वा
       वाच्यम् ।
६०१– परस्सहत्रा इति वक्तव्यम् । सहस्रापरे इति विग्रहः ।
६०२- इतः पञ्चशत्यामपि वर्षाणामिदं लुप्तमासीदिति वक्तव्यम् ।
      यतश्चाध्वक़ालनिर्माणं तत्र पञ्चमी । अत्र इत इति
      पञ्चम्यास्तसिः । तद्युक्तोदध्वनः प्रयमासप्तम्यौ । कालात्
      सप्तमीति पञ्चशत्यामित्यत्र सप्तमी । इतः पञ्चसु
      वंर्षशतेष्वपीत्ययं न्यासः शोभनतरः ।
६०३- संख्याति साङ्ख्य इत्यत्र ‘संख्याति’ इत्यप्रयुक्तम् ।
      सम्पूर्वस्य ख्या प्रकथन इत्यस्य तिङि प्रयोगो नेति
      न्यासकारः । तेन संचष्टे इत्येव प्रयोगमर्हति ।
६०४- लगिरत्रास्थाने। नहि पद्यं लगति। संगतार्थं न स्यात्,
      अनन्वयं स्यादिति वा वक्तव्यम् ।
६०५- च्व्यर्थेऽभूततद्भावे गम्यमाने च्वौ चासति श्रेण्यादयः
     कृतादिभिरित्यनेन सभासे श्रेणिकृता इति साधु । च्यौ तु
     सति कुगतिप्रादय इति नित्यसमासे श्रेणीकृता इत्यपि
     नासाधु ।
६०६- रोमन्थतपोभ्यां वर्तिचरो: इत्यनेन तपश्चरणेऽर्थे तपस्यतीति
     भवतीति पाणिनीयाः । अर्थान्तरे तापने तु तपः
     प्रातिपदिकात्क्यङं नेच्छन्ति ते ।
६०७- अलंशब्दो हि शंक्तमाह न शक्यम् ।
       अलं भूषणपर्याप्तिशक्तिवारणवाचकम् इत्यमरः ।
      तेन नालं वर्णयितुं वाग्ग्मिनोऽपीति वक्तव्यम् ।

६०८-सेव्यते स्म प्रजाकूटैर्विशेषेण मधूत्सवः ।
६०९-उद्धाट्यतां मञ्जूषायां पिघानम् ।
६१०-भवन्तमेव च गुरुलाघवं पृच्छामि । ( श० ५ )
६११-आधिस्यन्दं प्रववृतिरे चमूचराः । ( शिशु० १|७|५० )
६१२-सप्तत्याभ्यधिकं यातं सहत्रं परिवत्सराः । (राजतरङ्गिण्याम् १|५२)
६१३- न चोपलेभे वणिजां पणायाम्। (भट्टौ ३|२७ )
६१४- शीघ्रमुच्यताम् । नितरां समुत्सुकं श्रवणविधौ मे चेतो न
     कालव्याजं सहते।
६१५-पुत्त्रोऽस्य दिष्टय तातः, समृद्धा गुरुजनाशिषः ।
६१६-को नु खल्वभिप्रायो मुनिसंगिराम् ।



६०८– प्रजाकूटैरिति कूटशब्दोऽस्थाने । कूटं राशिर्भवति ।
       प्रजागणैरिति प्रजाभिरिति वा प्रयोक्तव्यम् । यदि तु
       कुत्साऽभिधित्सिता तर्हि प्रजांपसदैरिति वक्तव्यम् ।
६०९- मञ्जूषोद्घाट्यते न तु पिधानम् । पिधानं त्वपनीयते ।
६१०- गुरुलाघवमितिं द्वन्द्वैकवद्भावे रूपम् । पूर्वपदे भावप्रधानो
       निर्देशः । गौरवं च लाघवं चेति गुरुलाघवम् ।
       संज्ञापूर्वको विधिरनित्य इति णित्त्वप्रयुक्ता
       पूर्वपदस्यादिवृद्धिर्ने ।
६११- अधिस्यदमिति. साधु । स्पदो जवे इति
       जवेर्थे स्यदशब्दो निपातित आचार्येण ।
६१२– अत्र वाक्ये सहस्रमिति संख्येये वर्तते । परिवत्सराश्च
      संख्येयाः ! तेन याता इति बहुवचनान्त प्रयोक्तव्यम् ।
६१३- पणेव्वहारार्थकाद् आयप्रत्ययः कृतो भट्टिना, तदवृत्या
      विरुध्यते । पणायान् इति पाठान्तरं जयमङ्गलायां
      टीकायां धृतम् । तत्रापि महता क्लेशेन निर्वाहः ।
६१४- कालक्षेपं सहत इत्येवं वक्तव्यम् । व्याजो हि दम्भो वा
      भवति अपदेशो वा .प्रयोक्ता त्वज़ गतिक्षेपणयोरित्यतो
       व्युत्पन्नं व्याजशब्दं व्याक्षेपेऽर्थे प्रयुङ्क्ते शुद्धयौगिकतां
       चाद्रियते, रूढिं च नाद्रियते, स दोषः ।
६१५- दिष्ट्याऽस्य पुत्त्र इत्येवमानुपूर्वीको न्यास इष्यते ।
       दिष्ट्येत्यव्ययमानन्दे वर्तते । वक्ता त्वं हर्षं
       व्यञ्जयन्नाह-पुत्रोऽस्य जात इति । तेन हर्षव्यङ्जकेन
       पदेन पूर्वे निपतितव्यम् ।
६१६- यद्यपि संगृणातिः प्रतिज्ञाने वर्तते, सम्पूर्वको गीःशब्दस्तु
      प्रतिज्ञावचनो न दृष्ट: । अनभिसंहितश्च प्रतिज्ञावचनार्थ
      इति मुनिगिराम् इत्येव वक्तव्यम् ।

६१७-तादृशेन चिरकालावस्थायिन मनसा हविष-अयजन्त इति स्वेषामेव
    परोक्षेणाभिधानम् ( अथर्व० ,७|५|३ इत्यत्र सायणः )
६१८-सद्यः प्रकाशितेनानेन ग्रन्थेनाध्येतृणां कृते महानुपकारः समपादि ।
६१९–अयं ग्रन्थः कैयटस्याधारेण कृत इत्युपादेयः ।
६२०-एकस्य प्रक्रियाग्रन्थस्योपर्यपरः प्रक्रियाग्रन्थो निरमीयत ।
६२१-शिवः सर्वैर्देवैर्निजनिजगृहानाप मखतः ।
६२२-प्रवृत्ते चावयोर्वादे प्रयाताः सप्त वासराः । (क० स० सा० ४|२३)



६१७- स्वस्येति तु वक्तव्यम् । आत्मवचनः स्वशब्द एकत्व एव
       प्रयुज्यते यथात्मशब्दः । काममात्मीयवचनो बहुत्वेपि
       प्रयुज्यते यथापेक्षम् । अत्र चात्मीयवचनत नेति
       कस्माद् बहु विजानताऽपि भाष्यकारेण’ बहुवचनं
       प्रयोजीति न विद्मः ।
६१८- सद्यः प्रकाशतेनेत्यादौ वाक्ये कृते इति गडुभूतम् । कृते
      इति कारणादित्यर्थ माचष्टे । स च प्रकृते न सङ्गच्छते ।
      अध्येतृणां महानुपकारः
      समपादीयनेनैव विवक्षितार्थलब्धिः ।
६१९- कैयटेनाधारेण निर्मित . इत्येवमुच्यमानं साधु स्यात् ।
      कैयटो ह्याधारः । तेनोपपन्नं सामानाधिकरण्यम् ।
६२०- आनन्तर्येऽर्थे उपरिंशब्दोऽशक्तः । तेनैकस्य
      प्रक्रियाग्रन्थस्यान्वपरः प्रक्रियाग्रन्थो निरमीयतेति
      वक्तव्यम् । अनुशब्दः पश्चादर्थेऽव्ययं कर्मप्रवचनीयो
      नेति षष्ठ्याः साधुत्वं नतिशङ्क्ययम् ।
६२१- अत्र वाक्ये शिव आपिक्रियायाः कर्ता । तस्यैकत्वाद्
     ग्रहस्य कर्मणोऽप्येकत्वमर्थादापन्नं भवति ।
     महामहिम्नस्तस्य गृहबहुत्वे संभवत्यपि .
     निजशब्दस्य द्विरुक्तिर्न घटामञ्चति । शिवश्च तत्सहचरिता
     देवाश्च निजनिजगृहानापुरिति विवक्षति । परं नायमर्थो
     यथास्थितेन न्यासेनार्प्यते । सहार्थेन युक्ते तृतीययोक्तानां
     देवानां कर्मण्यनन्वयः कर्तुरीप्सिततमत्वात्कर्मणः।
     तस्माद् दुष्टमिमं न्यासं निरस्य शिवः सर्वे देवाश्च
     निजनिजगृहानापुर्मखत इति निर्दुष्टं वाक्यस्वरूपं परिग्राह्यम् ।
६२२- अत्र प्रवृत्ते वाद इति भावलक्षणया सप्तम्या वासरसप्तकस्य
     प्रयाणं लक्ष्यते,वादप्रवृत्तिश्च लक्षिका । अयमर्थ --
     यदाऽऽवयोर्वादः प्रावृतत्तदा सप्तवासराः प्रयाता आसन् ।
     “वासरसप्तकस्यात्ययोभूत् । परं नैष विवक्षितोऽर्थः । कस्य
     ते सप्त वासराः प्रयाता इत्यनुदितम् ।
     सम्बन्धानुपादानादेवात्रानिष्टार्थप्रसक्तिः ।
     अतः षष्ठ्या सम्बन्धो वक्तव्यः | भावलक्षण सप्तमी च
     हातव्या । प्रवृत्तस्यावयोर्वदस्यांद्य सप्तवासरा याता इत्येवं
     वाक्यं च प्रणेतव्यम् ।

६२३-राधामाधवयोर्वियुक्तयोः सन्देशो विभिन्नानां दूतानामाधारेण प्रदत्तो
    विलोक्यते।
६२४-पुत्रस्ते मन्त्रद्रष्टरि सत्येव सुगुणामेतां मे सुतामाप्स्यति नान्यथा ।
६२५-परैः प्रवाहिते साहित्यसुधास्रोतसि गाहं गाहं केचित्समतां कथंचिल्लभन्ते।
६२६-कादम्बरीरसास्वादमत्तः प्रत्येकं सहृदयो जनो न गणयति '
     काव्यान्तररसपानम् ।
६२७-काव्ये प्राधान्यं वाग्वैदग्ध्यरूपाया वाक्चातुर्या अर्थात् कलपक्षस्यैवं वर्तते ।



६२३- अंत्र विभिन्नानां दूतानामाधारेणेत्यत्र षष्टी प्रदुष्यति ।। दूता एवाधारो न
       तु तत्सम्बद्धः सः । वस्तुत आधारशब्दोऽप्यस्थाने । दूता हि
       सन्देशहरणे करणमभिप्रेताः, तेन दूतैर्द्वारेति निरवधं स्यात् । अन्यत्र
       सन्देशह.इत्यादिषु दूताः कर्तारोऽभिप्रेयन्त इत्यन्यदेतत् ।
६२४- अत्र पुत्रो मन्त्रद्रष्टत्वसद्भावरूपायाः क्रियायाः कर्ता
       सुताप्राप्तिक्रियायाश्चापीति नायं भावलक्षणायाः सप्तम्या विषयः । यस्य
       कर्तुर्भावेनान्यस्य भावो लक्ष्यते तत्र सप्तमीति सूत्रकारहृदयम् । तेन
       वाक्यभेदेन वक्तव्यम्---
       यदा सुतस्ते मन्त्रद्रष्टा स्यात्तदा मे सुतामाप्नुयात् ।
६२५- सुधास्रोतसि गाहं गाहमित्यत्र णमुल्प्रयोगे नापराध्यति कविः। सुधास्त्रो
       तसीत्यत्र सप्तमीप्रयोगे तु मुक्तसंशयमपराद्धः। गाहू विलोडन इत्यस्य
       सकर्मकत्वे नियतत्वात् । सिंहो वनं गाहते। सलिलमवगाढो मुनिजन
       इत्यादिषु सकर्मकत्वस्य दर्शनात् ।
६२६– प्रत्येकं सहृदयो जन इत्यत्र वीप्सार्थेऽव्ययीभावस्य प्रत्येकमित्यस्य प्रयोगे
       सहृदयो जन इत्यत्रैकवचनं दुर्घटम् । दुर्घटता चास्येहैव
       प्रत्येकशब्दव्यवहारमधिकृत्य विततमुक्तेति न भूयो वितायते ।
६२७– अत्र वाक्येऽन्तरर्थाद् इत्यस्य प्रयोगो न व्यवहारमनुसरति । अर्थाद् इति
       वाक्यार्थे पदं प्रयुज्यते । इदमर्थादापद्यत इत्यर्थे च गमयति । तेन
       वाक्यान्ते शक्यमिदं प्रयोक्तुं न वाक्यमध्ये ।
       पूर्ववाक्यार्थविवरणप्रस्तावकस्यास्य
       विवरणवाक्यान्तरोपक्रमात्प्राग्युज्यते प्रयोगः । वस्तुतोऽर्थादित्यर्वाक्कालः
       प्रयोगः पूर्वे प्रज्ञास्त्वत्रार्थेऽयमर्थः, इदमुक्तं भवतीत्येवमात्मकं वाक्यं
       प्रयुयुजिरे ।

६२८-विज्ञाने कलायां चैष एव मुख्यो भेदः।।
६२९-कलाकारः कविरिव स्वस्य विचाराणां व्यक्तये किमपि
    माध्यममवश्यमङ्गीकुरुते।
६३०-अर्थसौष्ठवं निकषा शब्दसौष्ठवं नगण्यं गण्यते ।
६३१-नासौ न काम्यो न च वेद सम्यग् द्रष्टुं न सा भिन्नरुचिर्हि लोक इत्येषा
    सूक्तिः स्मृतिपथेऽवतरति ।
६३२-स्थायिभावः क्रोधो रौद्ररसे विपरिणमत इति केचित् ।
६३३-ददामि सर्वं मनसीप्सितं ते ।



६२८- अत्र वाक्ये सप्तमी दुष्यति ! भेदो नाम षष्ठ्योच्यते इति व्यवहारः ।
      तथा च मालविकायां कांलिदासस्य प्रयोगः--तव च मम च
      समुद्रपल्वलयोरिवान्तरम् । आदिकवेः कृतावपि ( ३|४७|४५)
      यदन्तरं स्यन्दनिकासमुद्रयोः। तदन्तरं दाशरथेस्तवैव
      चेत्यादावनेकस्मिन्प्रयोगे भेदिका षष्ठ्येव दृश्यते ।
६२९- माध्यमम् इति सम्प्रति प्रचरति लोके । लोकश्च करणे साधने द्वारि
      वार्थेऽस्य प्रयोगमिच्छति । साहित्ये तु विरलोऽस्य प्रयोगः । तत्रापि
      ऋग्वेदीयमध्यममण्डलर्षयो मध्यमा उच्यन्ते । मध्य्माच्छेषेऽण् । तेने
      विवेकिभिर्वाक्साधुत्वमाद्रियमाणैर्माध्यमशब्दो दूरतस्याज्यः ।
६३०- अर्थसौष्ठवं निकषेति सर्वथाऽसंस्कृतं संस्कृतवदाभासते । प्रचरन्त्या
      लोकभाषाया अनुकृतिरेषा भवति । अर्थसौष्ठवं शब्दसौष्ठवात्सुदूरेण
      प्रकृष्यते (अतिरिच्यत इति वा) इत्येवं वचनीयम् ।
६३१- इत्येषा सूक्तिः स्मृतिपथमवतरतीत्येवं वक्तव्यम् । अवतरतेः
      सकर्मकत्वात् । अवतीर्णायामिनीत्यत्र तु गत्यर्थत्वात्कर्तरि क्तो द्रष्टव्यः ।
६३२- रौद्ररसे विपरिणमत इत्यत्र सप्तमी व्यवहारं नानुपततिः । पयो
      दधिभावेन परिणमत इति प्रसिंध्यात वाग्योगविदां प्रयोगः ।
      तृतीययैवायमर्थः शक्यो वक्तुं न सप्तम्या । रौद्ररसस्याधिकरणता न
      शक्या कल्पयितुम् । अधिकरणतायामुपेतायां महाननर्थ उपनमेत् ।
      क्रोधः कर्ता, तदाश्रयो विपरिणामो रौद्ररसमाश्रयेत् । हन्त सर्वमाकुलं
      स्यात् । तेन रौद्ररसभावेनेति वक्तव्यम् ।
६३३- मनसीप्सितमिति दुष्यति । मनो हीप्सतेः कृरणमिष्यते ।
      तस्मान्मनसेप्सितमिति वक्तव्यम् ।

६३४-शताभिधानानि रवेरिमानि नित्यं स्मरेद् भूतिकामः ।
६३५–एकत्र देशे खट्वावानं प्राधीयतेऽन्यत्र च पद्यरचनेति.तत्र सहजायाः
    शक्तेर्भेदो रुचिभेदश्च कारणम् ।
६३६-योऽर्थः पुरुषेणैकेन न साध्यः स पुरुषग्रामेण सहेलं साध्यो भवति ।
६३७–तात्कालिकीमरुचिं वैरस्यं वाऽपाकर्तुं हास्यस्यावलम्बनं गृह्यते ।
६३८-प्रागैतिहासिकात्कालादद्य यावत् सुधामयी संस्कृतसाहित्यधाराऽविच्छिन्नं
    प्रवहति ।



६३४- शताभिधानानि शतं नमानीत्यनर्थान्तरम् । शतमभिधानानीत्येवं व्यासेन
       वक्तव्यम् । दिक्सङ्ख्ये संज्ञायामं ( २|१|५० ) इति
       पाणिनीयशासनेन समानाधिकरणे दिक्संख्ये संज्ञायामेव संमस्येते
       नाऽसंज्ञायाम् । यथा सप्तर्षय इत्यत्र । यथा वा पञ्चाम्रा इत्यत्र । अत्र
       सामानाधिकरण्यमस्ति,संज्ञा नास्तीति समासो दुर्लभः ।
६३५- अत्र प्राधीयत इति दुष्यति । अध्ययनं शब्दक्रियं शब्दकर्मकं च
      भवतीति व्यवहारनैयत्यम् । वानं वा पद्यरचना वा गृह्यते शिक्ष्यते न
      त्वधीयते । वेदोऽधीयते स्मृतयश्चाधीयन्ते । किं च । प्रशब्दोऽप्यस्थाने ।
      अधीङ्ः पूर्वं प्रयुक्तः प्रशव्द आदिकर्मणि वर्तते, प्राधीत इत्यत्र यथा ।
      अध्येतुमारब्धः प्राधीतः, अधीतिप्रतियोगी ।
६३६- पुरुषग्राम इत्येतद् व्यवहारो न समर्थयते । समूहवचनोऽपि ग्रामशब्द
      इन्द्रियग्रामः, गुणग्राम इत्यादिष्वेव दृश्यते, न तु यत्र तत्रासंकोचम् ।
      समासान्तः सन्नेव च समूहार्थेऽवतरति प्रयोगम् । न स्वतन्त्रा प्रकृतिः ।
      इदं शब्दस्वाभाव्यम् ।
६३७- हास्यस्यावलम्बनं गृह्यत इति दुष्टो न्यासः। हास्यमवलम्बनं गृह्यते ।
      हास्यमेवावलम्बनं न तु तत्सम्बन्धि किञ्चित् ।
६३८- किमिदं प्रागैतिहासिकात् कालात् इति । इदमुपार्थकं पदकदम्बकम ।
      ऐतिहासिको हीतिहासज्ञमाह यथा पौराणिक इति पुराणपाठिनं
      पुराणज्ञम् । प्रागिति पूर्वस्मिन्कालेर्थे सप्तम्यर्थवृतिं । ततः पूर्वस्मिन्काले
      भवः कश्चिदैतिहासिकः,तत इत्यर्थः स्यात् । एवमपि नैतत् कालं
      विशिंष्यात् । वक्तुश्च नैषा विवक्षा । आङ्गल्या
      वाचोऽनुचिकीर्षयैकपदनिर्मित्सा भ्रंशयति वक्तारं वाक्सरण्याः।
       परं नहि तद्धिताः सन्तीति ते यतस्ततः प्रकृतेः समुत्पाद्याः,
       नूतनशब्दनिर्मित्साकण्डूया च स्वस्य विनेया
      तस्मात्सन्दर्भशुद्धिमभीप्सता परत्र, बोधसङ्क्रान्तये
      दुर्लभेतिहासाच्चिरातीतात् कालादित्येवं वक्तव्यम् ।
      ऐकपद्यलाभाय तद्धितवृत्तौ नातीवाभिनिवेष्टव्यम् ।

६३९- आचार्यशुक्लेनः चिन्तामणौ साधारणीकरणविषये काश्चन मान्यता
     उपस्थापिताः, ताश्चिन्त्यन्ते ।
६४०-स एकतोऽभिनवगुप्तविश्वनाथाद्याचार्येण प्रभावितो लक्ष्यते द्वितीयतश्च
    पाश्चात्यैरालोचकैः शेण्डप्रभृतिभिः ।
६४१-अत्र किमपि नूतनमुदाहरणं प्रस्तौमि, तद् विचार्यताम् ।
६४२-विमर्शकास्तु तस्याचार्यकथनस्यैतत्तात्पर्ये निःसारयन्ति ।
६४३-शक्यं नाम सुधीभिरिममर्थं पूर्णतः प्रत्याययितुम् ?
६४४-क्रियेयं पाठकदर्शककविश्रोतृणां हृदयेषु समुद्भवति ।



६३९- काश्चन मान्यता इति हिन्द्या अनुकरणम् । मान्यूतेति शब्दो नात्रार्थे
      क्वचित्प्रयुक्तचरो दृष्टः । मतानीति प्रयोक्तव्यम् ।
६४०- अत्र वाक्येऽभिनवगुप्तविश्वनाथाद्याचार्येणेत्यत्रैकवचनं दुष्यति ।
      अभिनवगुप्तविश्वनाथौ आदी येषां तेऽभिनवगुप्तविश्वनाथाद्याचार्या इति
      बहुवचनमेव युक्तरूपं स्यात् । एकवचनं केनभिप्रायेण प्रयुक्तमिति
      नार्हामोऽभ्यूहितुम् । द्वितीयत इत्यप्यव्यवहृतम् । अत्रार्थेऽपरत इत्येव
      प्रयुञ्जते प्रयोगकुशलाः ।
६४१- प्रस्तौमीत्युपस्थापयामीति विवक्षतिं । प्रपूर्वः ष्टुञ् स्तुताविति प्रारम्भे
      वर्तते । अतः प्रस्तावोऽधिकारः प्रारम्भो भवति ।
६४२- तात्पर्यं निःसारयन्तीति वाक्यैकदेशो दुष्यति, व्यवहाराननुगमात् ।
      तात्पर्येमुन्नयन्ति, गृह्णन्ति, बुध्यन्त इति वा व्यवहारानुगतं स्यात्।
६४३- पूर्णत इत्यत्रार्थेऽपयुक्तपूर्वः प्रयोगः । पूर्वं सूरय इभमर्थमत्यन्तमिति
      शब्देन बलवद् इति शब्देन वाऽऽचचक्षिरे । बलवदपि
      शिक्षितानामात्मन्यप्रत्ययं चेत इति ( शाकुन्तले ) ।
६४४– अत्र पाठकदर्शककविश्रोतॄणामिति द्वन्द्वे पूर्वनिपातनियमानादरो दोषः ।
      कविश्रोतृपाठकदर्शकानामित्येवं न्यासो निर्दुष्टः स्यात् । तत्रापि पाठक
      शब्दमुपोद्धृत्य पठकशब्दो न्यास्यः । पाठक इत्यध्यापको भवति,
      पठकश्चाध्यायकः। तथा च भारते वनपर्वणि (३१३|१०) प्रयोगः-पठका
      पाठकाश्चैव ये चान्ये शास्त्रचिन्तकाः। सर्वे व्यसनिनोमूर्खा यः क्रियावान्
      स पण्डितः ॥:इति ।

६४५- साधारणीकरणे च मानवस्य सामाजिकी सहानुभूतिपूर्णा सौन्दर्योपासिका
     प्रकृतिः कारणम् ।
६४६– प्रत्येकं ललितकलानां सरसं भवतीति व्यवसितम् ।
६४७- कश्विदैतिहासिकोऽमरसिँहभामहदण्डिनामग्निपुराणात् पूर्ववर्तित्वं प्रति
     जानीते, अपरस्तु परवर्तित्वम् ।
६४८- इत्यन्त:प्रेरणाऽस्या निबन्धरचनायाः श्रेयोविशेषं भजते ।



६४५- समाजं रक्षति तत्सभवेतः सन्निति सामाजिक उच्यते । सदस्य
     इत्यपरपर्यायः। प्रयोगदिदृक्षया रङ्गे कृतसन्निधानो जनोऽपि
     सामाजिकशब्देनाभिलप्यते—तेन हि तत्प्रयोगादेवात्रभवतः
     सामाजिकानुपास्मह इति मालत्याम् । देवि ! सामाजिका भवाम इति
     मालविकायाम् । समाज़स्येदमिति शैषिके ठकिं प्रयोग नितान्तदुर्लभः ।
     सहानुभूतिरिति समस्तं पदमपि साहित्ये दुर्लभम् । लब्धं चेत्स्यात्सहचरितं
     संवेदनमेव ब्रूयात् । केन सहचरितं किंलक्षणं च तदिति विशिष्य न
     निर्ब्रूयात् । योऽत्र वक्तुर्विवक्षितोऽर्थः स व्यवहारे समादृतेन जनेनेत्थम्भूतेन
     न्यासेन शक्योऽर्पयितुमात्मा च श्रेयसा योक्तुम्- साधारणीकरणस्य च
     मानवस्य नैसर्गिकी सामाजिकता स्वेतरसमानानुभूतिः
     सौन्दर्योपासकता च कारणम् इति ।
६४६- ललितकलाः प्रत्येकं सरसा भवन्तीत्येवं वक्तव्यम् षष्ट्या नार्थः ।
    ललितकलाः कर्त्र्यः । प्रत्येकमिति वीप्सायामव्ययीभावः । क्रियाविशेषणं
    चैतत् । अत्र बहुतरकं पूर्वत्र व्याहृतम् ।
६४७–अत्र दाण्डिभामहामरसिंहानाम्, इत्येवं द्वन्द्वे पूर्वनिपातनियमानुरोधेन
    वक्तव्यम् । कस्य पौर्वकाल्यं कस्य चौत्तरकाल्यमिति व्यवसाय नानुपूर्वी
    निर्णेया । यस्मात्तदगमिकाऽऽनुपूर्वी समासेन न शक्या गमयितुम् । पूर्ववर्तित्वं
    अपरवर्तित्वमिति पदे अतिहाय पूर्वकालतामपरकालताम् इतीमे
    प्रयोक्तव्ये ।
६४८-श्रेय इति प्रशस्यतरं भवति विशेषणं चेत् । श्रेयः कल्याणं भवति विशेष्यं
    चेत् । प्रकृते कल्याणार्थायोगादिस्थाने श्रेयः शब्दप्रयोगः । इत्यन्तः-
    प्रेरणेमां निबन्धरचनां विशिष्य प्रयोजयति, अस्या निबन्धरचनायाः प्रधानं
    प्रयोजकं (प्रमुखं निबन्धनम् ) इत्येवं वा वक्तव्यम् ।

६४९-इति पृष्टाऽगजा तेन प्रेरिरद् विजयासखीम् ।
    सा चाह श्रुणु भो विप्र गिरिराजसुता ह्यसौ ।
६५०-प्रकुप्य विविधाः शक्तीः पार्वती समसर्जयत् ।
६५१–शिला च सा । खेरीमठेषु तद्वार्ता-स्मृतिमद्यापि यच्छति (राजत० १|२७५)।
६५२–अवतमसभिदायै भास्वताभ्युद्गतेन ( शिशु०.११|५७ ) ।
६५३-जातः कमलदेव्या यः श्रीमाञ्शक्र इवादितेः ( राजत० ४।३७२) ।
६५४-राज्याभिषेकं संभूय तत्रत्या ब्राह्मणा ददुः (राजत० १|३८५ )।
६५५-अमुना सस्यपालेन कान्दिशीकाः कृता वयम् (राजत० १|२३३ )



६४९- अगजा (पार्वती) तेन शिवेन पृष्टा विजयां सखीं (प्रैरिरद् इत्येवं
       वक्तव्यम् । यथा शिंशपा वृक्ष इत्यत्र समासो न भवति तथात्रापि
       नेष्यते । कस्मान्नेष्यत इति चेदुच्यते । यत्रोभे समानाधिकरणे पदे
       विशेषणं विशेष्यं च भवतस्तत्रैव विशेषणं विशेष्येण बहुलमित्यनेन
       समासो भवतीत्येतदभिप्रायकं सूत्रे बहुलग्रहणं करोति । शिंशपात्वं
       वृक्षत्वं न व्यभिचरति, नहि वृक्षत्वव्यतिरिक्त शिंशपात्वं नाम
       किंचिदस्ति । तेन शिंशपा विशेषणं न । वृक्षत्वं तु शिंशपात्वं
       व्यभिचरत्येव, शिंशपाया व्यतिरिक्ता अपि वृक्षा उपलभ्यन्ते यतः, तेन
       वृक्षो विशेषणम् । उभयोः शिंशपावृक्षयोर्विशेषणविशेष्योभयरूपता
       नास्तीति समासस्य विषयः । एवं प्रकृतेपि योज्यम् ।
६५०- समसर्जयदित्यपोह्य असृजदिति सृजेरनुपसृष्टस्य प्रयोग आस्थेयः।
       सम्पूर्वः सृजिः संगमने सम्पर्चने रूढ इति नाविदितं विदाम् ।
६५१- अन्यत्र राजतरङ्गिण्याः स्मृतिं यच्छतीति व्यवहारस्यानुपलम्भः तेन
      नासमभ्युपेयो भवति । तद्वार्तामद्यापिं स्मारयतीत्येव व्यवहारानुगम् ।
६५२– कविनाऽवतमसमित्यस्थाने प्रयुक्तं। क्षीणेऽवतमसं तम इत्यमरः पठति ।
       कविरस्यामरवचनस्यानभिज्ञ इति नावकल्प्यम् । स्खलनधर्माणो मनुष्या
      इत्येव शक्यं वक्तुम्। विशेषानादरेण सामान्यमेव ग्राह्यमिति मल्लिनाथः ।
      परं विशेषानादरः कस्मादिति पृच्छा दुष्प्रतिवचा ।
६५३- कमलदेव्यां जात इत्येव परम्परीणो व्यवहारः तमतिक्रामति
      प्रचरद्भाषामनुकुर्वन्कविः ।
६५४- राज्याभिषेकं ददुरित्यप्यागन्तुकोऽसाम्प्रदायिको वाग्व्यवहारः । संस्कृते
      वाङ्मये नैकत्राप्येष समाश्रितः पूर्वैः सूरिभिरिति नायमादृत्यः । राज्ये
      (राज्येन वा ) कश्चित्तदर्होऽभिषिच्यते तादृशं तमभिषिञ्चति वेत्येव
       संस्कृते भाषितभङ्गी । न चाभिषेकस्तिलको भवति यः प्रदीयेत ।
       राजीकरणे तिलकक्रियाप्यन्तर्भवतीत्यन्यदेतत् ।
६५५- कान्दिशीकशब्दप्रयोगोऽस्थाने । कान्दिशीको भयद्रुत इत्यमरः । अत्र तु
       कामप्य निर्वाच्यां दिशं गमिताः विषमस्था इत्यत्रर्थे प्रयोगः । कां दिशं
       व्रजामीत्याकुल इत्यमरोद्धाटनेत्त्वामी ।


प्रथमोऽनुबन्धः

 अवसितायामेतस्यां पुस्तिकायामिदं मे चित्तमुत्पन्नं प्रकीर्णकप्रस्तुत्य सन्देह- विभ्रमयोर्विषयभूता अल्प एव प्रयोगा समुच्चित्य व्याख्याताः । अतथाभूताः शिष्टजुष्टाः साम्प्रतिकानां भूयसाऽविदिता वेदितव्याश्च सन्ति भूरय इति तेप्यनुक्रम्य व्याख्यानीय बोधस्य कार्त्स्न्यायेति’ तेत्रानुबध्यन्ते---

 द्वन्द्वं रहस्य-मर्यादावचनेत्यादिसूत्रे (८|१|१५) दीक्षित आहान्यत्रापि विषये योगविभागाद्द्वन्द्वमिष्यते । तद् विषयान्तरमुदाहरामः-द्वन्द्वमिन्द्रेण देवताः शस्यन्ते (ऐ० ब्रा० ३|५०, श० ब्रा० १|११|१|२२) । द्वन्द्वं द्विशो द्विवर्गसम्बन्धेन । द्वन्द्वमन्ये युयुत्सवः । प्रक्रीडिताश्च ते द्वन्द्वमुपेतुर्युगपत्तदा (हरि० २|१४|१८)। भागवतकारस्तु द्वन्द्वेनेति तृतीयान्तं पठति-एवमाजावसुराः सुरेन्द्रा द्वन्द्वेन संहत्य च युध्यमानाः (८।१०|३४ )

 कोषेष्वपठितोपि कालिकेति शब्दो मेघपङ्क्तिपर्यायः श्रीरामायणे ( २|४१|१२|) श्रूयते-—कालिकाऽनिलवेगेन महोदधिरिवोत्थित इति। रात्रिविषये कालशब्दोपि तत्र स्थितः काली निशेति । तमस्विनीत्यर्थः ।

 शोकपर्यायसन्तप्तः ( रा० २|४१|१५) शोकेन पर्यायेण क्रमेण सन्तप्त इति तदर्थः । लवस्य प्रणामपर्यायः ( उत्तर० )। अनुक्रमेण प्रणामः प्रणामपर्यायः । पर्यायेण हि दृश्यन्ते स्वप्नाः कामं शुभाशुभः ( वे० सं० २|१३)| पर्यायेण कादाचित्कतया ।

 धारेरुत्तमर्णः (१|४|३५)। अत्र सूत्रे णिच्सहितस्य घृञः प्रयोगादवसीयतेऽत्र विषये ण्यन्तस्यैव धरतेः प्रयोगं व्यवहारविदो विदुः । अन्यथा मात्राल्लाघवमप्यत्याद्रियमाण आचार्योऽतिरिक्ताक्षरं पदं न प्रयुञ्जीत । आतश्च भारतेऽत्र विषये ण्यन्तस्यैव धृञः प्रयोगो दृश्यते–ऋणं धारयमाणस्य कथं सुखमनीहयेति (उ० १०७|६)| अधमर्णपर्यायो धारणकशब्दोप्यस्मदुक्तं समर्थयते ।

 त्यक्त्वा दुष्टो नष्टः पयोनिधिम् (वि० पु० ५|७|६)। इह नष्टः पलायित इत्यनेन समानार्थः । स च गौणोऽर्थः । मुख्यया वृत्या तु नष्ट इति तिरोभूतमाह ।

 वृद्धोहं संम कार्याणि समस्तानि न गोचरे (वि० पु० १|१७|७३ )। गोचरो विषयो भवतीन्द्रियविषयो वा । इइ त्वायत्ततामाह । मत्कार्याणि मत्साध्यानि न भवन्तीत्यर्थः । अत्रैवार्थे समासचरमावयवोपि गोचरशब्दः श्रूयते यया दुष्प्रापा परमा सिद्धिरगम्या कामगोचरैः ( भा० वन० २६१|२४)। कामगोचरः कामायत्तः कामवक्तव्यः ।

 सुखोच्चार्यं तु तन्नाम कुर्याद्यत्प्रवणाक्षरम (वि० पु० ३|१०|११) । प्रवणं क्रमनिम्नमुच्यते । इह प्रवणाक्षरं लघ्वक्षरान्तमुच्यते । इदं च शब्दवित्तमो व्यास इत्यस्य निदर्शनम् ।

 अन्तरशब्दमधिकृत्य किञ्चिदुक्तमधस्तात् ! अत्रानुक्तमुपन्यस्यते—भुवः संज्ञान्तरयोः (पा० ३।२|१७९ )। अत्रान्तरशब्दः प्रतिभूवचनः। भवति च याज्ञवल्क्यस्मृतौ तदर्थे प्रयोगः -अन्तरे च तयोर्यः स्यादिति (२।२३९) । क्षात्रमाचरतो मार्गमपि बन्धोस्त्वदन्तरे (भा० शां० १०|३ ) । त्वदन्तरे त्वत्तोऽन्यत्र । क्षमानुकम्पादयः क्षात्रं मार्गमाचरत्सु क्षत्रियेषु न विद्यन्ते त्वय्येव केवलं वर्तन्त इत्याह । तेन तव विरूपकरणे सुकृतमन्तरे धृतम् (पञ्चत० ४)। अन्तरे धृतं लग्नकमित्यर्पितम् इत्यर्थः । भार्यापत्योरन्तरं ज्ञातिभेदम् (भा० उ० ३५|४३ ) । अन्तरं वियोगः

 स्वीकारोऽङ्गीकारोऽभ्युपगम इति सर्वस्य विदितं बालस्यापि । इदं तु न विदितं स्वीकारो वशीकरोपि भवति, तद् वेद्यते द्रव्यमप्यस्य स्वीकरिष्यामि (यो० सू० २।३३ भा० )| वशे करिष्यामि स्वतां नेष्यामीत्यर्थः। लुब्धमुत्कोचदानेन स्वीचक्रे दण्डनायकम् (राजत० ७|११५५)। स्वीचक्रे वशे चकारेत्यर्थः ।

 तदूरीकृत्य कृतिभिर्वाचस्पत्यं प्रतायत (शिशु० २।३०) इत्यादिषूरीकृत्ये- त्यस्याङ्गीकृत्येत्यर्थः प्रतीतो न प्रत्याय्यः । अस्त्यस्यार्थान्तरं विविदिषाविषयः । एकाकी तावतो वीरनूरीकृत्य स निर्ययौ (राजत० ८|१४९८) । ऊरीकृत्य सहादय । धार्तराष्ट्रादयः पञ्च पाण्डवानूरीकृत्य पञ्चोत्तरं शतं कुरवो भवन्ति । ऊरीकृत्य = अन्तर्भाव्य। मालविकायां(५) चेत्थम्भूतः प्रयोग एतस्यार्थस्य निदर्शकः–-मौद्गल्य ! यज्ञसेनश्यालमूरीकृत्य मुच्यन्तां सर्वे बन्धनस्थाः ।

 अन्यत्रापि यदा षष्ठी मङ्गलेन भविष्यति (वामनपु० ४१|२८) । मङ्गल- वासरेणोपलक्षिता षष्ठी तिथिः, ‘मङ्गलवासरः ' षष्ठी. तिथिरिति तादात्म्ये वा प्रकृत्यादित्वातृतीया बोध्या। मङ्गलवासरस्याधिकरणत्वाभावेन तत्र सप्तमी न युक्तेति तृतीयाव्यवहारेण सुप्रतिष्ठा प्रयोगसरणी रक्षिता पुराणकारेण ।

 सरलवृद्धिश्चक्रवृद्धिरित्यादिषु धनिकधारणकयोः संव्यवहारे यो वृद्धेरर्थः स तिडन्तेन वृधिनािपि शक्यते वक्तुम् । तथा च ( याज्ञ० २।३९) मिताक्षरायां पठ्यते- तस्मिन्नेव वा पुरुषे रेकसेकाभ्यामनेकशः प्रयोगान्तरकरणे सुवर्णादिकं द्वैगुण्याद्यतिक्रम्य पूर्ववद् वर्धत् इति । अधमर्णेन सुवर्णादिप्रयोगनिमित्तां वृद्धिः प्रयोक्त्रे देया भवतीत्यर्थः ।।

 निज आत्मीयो भवतीति न न विदितम् । अहं राष्ट्रस्याभीवर्गे निजोभूयासमुत्तमः (अथर्व०-३|५|२ )। अत्रानन्यसहायो निजशब्देनोक्त इति सर्ववेदभाष्यकारः सायणः । अहो खाधुरभ्यूह आचार्यस्य । यो निज आत्मीयो मवति सोऽनन्यसाधारणो भवति, ततोऽनन्यसहाय इति न दवीयानध्यां ।

 प्रकारः सादृश्यम् इत्यत्रार्थे प्रसिद्ध:| प्रकारे गुणवचनस्य (पा० ८|१|१२) । प्रयोगस्त्वत्रार्थे न सुलभ इति स इह सन्निधाप्यते -दीर्घो हर्षनृपोदन्तः सोऽयं कोऽप्यद्भुतावहः। रामायणस्य निभृतं प्रकारो भारतस्य च (राजत० ७|१७२८)। प्रकारः सदृशः । भारते खल्वपि-यूपप्रकारा बहवो वृक्षाश्चेमे विशांपते (वन० ११०।१७ ) ।

 धू विधूनन इति तुदादिषु पठ्यते । स केवलो बीजनेपि वर्तत इति विदाङ्कुर्वन्तु सन्तः। तन्मरुतोऽधून्वन् (ऐ० ब्र० १३|१०)। अथ च एतेभ्यः प्राणाः क्रामन्ति ये यज्ञे धुवनं तन्वते ( श० ब्रा० १३|२|८|५ )। अत एव धवित्रमिति व्यजनान्तरमुच्यते । उक्तं चामरेण–धवित्रं व्यजनं तद्यद्रचितं मृगचर्मणेति । धूञः प्रयोगे व्यजनमपि क्वचिच्छ्रूयते करणम् । तद्यथा व्यजनैर्धूयमानोपि तावत् प्रज्वलते न सः (भा० सभा० ३१|२९) ।

 विन्दतेर्व्यवहारे वधीयताम् ! यद्यक्ष्यमयो विन्देत् (श० ब्रा० १३|३|८|४)। अक्षीति द्वितीयान्तम् । यदि नेत्रं रुज्येत, रोगेण ग्रस्येतेत्यर्थः । यस्य जायामार्तवं विन्देत् ( श० ब्रा० )। यस्य जायर्तुमिती स्यादित्यर्थः ।

 णिजिङ शौचपोषणयोरित्यस्य प्रायेण निष्पूर्वस्य प्रयोगो भवति, केवलस्यापि क्वाचित्क इति स दृश्यताम्--यथा निक्तस्य ( पशोः ) लोमानि शीयन्ते (श० ब्रा० १३|२|६|८)। निक्तस्याभिषिक्तस्य आर्द्रीकृतस्य । शीयन्ते पतन्ति ।

 यौतकं सुदाय इति प्रतीतोर्थः । यौतकमसाधारणं रिक्थममिं भवति । तथा च (मनु० ९|२१४.! प्रयोगः--न चादत्वा कनिष्ठेभ्यो ज्येष्ठः कुर्वीत यौतकम् । भारते खल्वपि--न तत्र संविभज्यन्ते स्वकर्मभिः परस्परम् । यदेव यस्य यौतकं तदेव तत्र सोऽश्नृते ( शां० १२९० )।।

 अनन्तरमुत्तरमव्यवहितपूर्वमव्यवहितपरं वा भवतीति प्रसिध्यत्यर्थ:। अव्यवहितमात्रे सानुषङ्गेर्थेपि भारतस्थः प्रयोगः--सुखस्यानन्तरं दुःखं दुःखस्यानन्तरं सुखम् । सुखदुःखावृते लोके नेहास्त्येकमनन्तरम् ( शां० १५३|८९)। अन्यत्ारप्यनन्तरशब्दो व्यवह्रियते--कार्ये चानन्तरोऽभवत् (भा० वन० २८०|७ ) । अनन्तरः संलग्नः । अन्तेवासीत्यत्रान्तशब्दः सामीप्यमाह । वाक्येप्यस्यास्मिन्नर्थे प्रयोगो' दृश्यते-तस्माज्जायाया अन्ते नाश्नीयात् (श० ब्रा० १०|५|२|९)।

 नाकस्माच्छ्रमश्रुलः स्यादित्यादिषु गृह्यवचनेषु कस्मादित्यकारणादित्यस्यापर- पर्यायः । नञ्ररहितस्यः कस्मादित्यस्य कारणादित्यर्थे प्रयोगो भारते, स आस्वाद्यताम्--अकस्माद्यदि वा कस्मद्वर्तन्ते सात्त्विका गुणाः ( शां० २४०|२३ ) । तत्कस्मादित्यादिषु पृच्छावाक्येषु कस्मादिति साक्षात्कारणं नाह । विशेषणमहिम्ना तु विशेष्यार्थलाभः ।

 एकाग्र एकायनगतः समाहित उच्यते, अनेकाग्रश्च तद्विपरीतः । अनैकाग्र्यमेित्यस्य व्यभिचारित्वम् अनैकान्तिकत्वमित्यर्थेपि वृत्तिर्भवति । तथा च भारते ( शां० २६०|१९ ) प्रयोगः-- आचाराणामनैकाग्र्यं सर्वेषामुपकल्पयेत्

 वृड् संभक्तावित्यस्य संभक्तेरन्यत्रापि प्रयोगो भारते– परान्वृणीते स्वान्द्वेष्टि तं.गौस्त्यजति भारत (उ० १२४|२८)। परान् वृणीते परेषु प्रीयते प्रीति-मान्भवतीत्यर्थः ।

 यथेदानीमित्यस्य कालिदासे (शा० ४ ) क इदानीमुष्णोदकेन नवमालिकां सिञ्चतीत्यत्र वाक्यालङ्कारे प्रयोगस्तया सम्प्रतिशब्दस्यापि शतपथे-- न ह्ययुक्तेन मनसा किंचन सम्प्रति शक्नोति कर्तुम् (६।३।१।१४ ) ।

 उपमावाचकस्य इवशब्दस्य सम्प्रत्यर्थेऽप्युपलभ्यते व्यवहारः । इहेव निधेहीति ( निं० ७|३१|१ )। स मृत्युमाप्नोतीत्यर्थं तं मृत्युरागच्छतीत्यपि व्यवहारानुगं भवतीति वक्ष्यमाणाच्छतपथप्रयोगादवस्यामः-नैनं पुरा कालान्मृत्युरागच्छति ( १४|५|१|१२ ) ।

 निर्मोकशब्दः. सर्वस्य विदितो मोकस्तु कस्यचित् । भिद्यते हि मोको निर्मोकात् । मोकोऽजिनं भवति । तथा च भारते प्रयोगः --कदलीमृगमोकानि ( सभा० ४९|१९)। कदलीमृगा मृगविशेषास्तेषां मोकानि अजिनानीति भारत भावदीपः ।

 कृते इति सुबन्तप्रतिरूपकमव्ययं कारणात् तदर्थमित्येतयोरर्थयोः प्रथते । कृतेनेति तृतीयान्तमपि तत्र प्रयोगमवतरद् दृष्टम्--मत्कृतेन हि तावद्य संन्तापं परमेष्यतः ( भा० वन० २९७|९५ )। ब्राह्मणोसीतिं पूज्यो मे विश्वामित्रकृतेन च ( रा० .१|७६|१ )। मर्षयामि च तत्सर्वं दुर्योधनकृतेन वै (भा० उ० १६८|१९ )।

 प्रतिपूर्वः शृणोतिरङ्गीकारे प्रसिद्धः। विप्राय गां प्रतिश्रुणोति । दास्यामीति प्रतिजानीते । दानाद्यविषये प्रतिज्ञाने 'सङ्गरेपि दृश्यते-न मे स्वर्गो बहुमतः संमानश्च सुरर्षभैः। त्वया राम विहीनस्य सत्यं प्रतिश्रुणोमि ते (रा० ६|११९|१३ )॥

 ग्रह्शब्दो हि नानार्थः। सूर्यादिषु नवसु प्रसिध्यतितमाम् । परं ग्रहोतिथिरपि । भवति । तथा च भारते प्रयोग–यथा सिद्धस्य चान्नस्य ग्रहायाग्रं प्रदीयते ( अनु० १००|६ ) ।

 यत्रद्यत्वे प्रायेण समासोतरपदेन तृतीयान्तेन रूपशब्देनारथोर्प्यते तत्र द्वितीयां पुरा प्रयुञ्जते प्राञ्चः। तद्यथा—इमाँल्लोकानुखामपश्यन् (श ० ब्रा० ६|३|३|१५)। उखारूपेणेत्यर्थः । स्नुषां प्रतीच्छ मे कन्यां भार्यां सत्यवतः(भा० वंन० २९५|१२ ) इत्यादिर्बहुलो व्यवहारो भारतादिषु, सोऽनुसर्तव्यः ।

 दोषारोपणे दोषेण वा योजनेर्थे खल्वेषा भाषितभङ्गी विलोक्यते प्राक्तनी--यथा त्वां पुरुषव्याघ्र लोको दोषेण गच्छति (भा० आदि० २०३|१५)। दोषेण युक्तं ज़ानातीत्यर्थः । गत्यर्था ज्ञानार्थकाः ! नायमर्थः स्वकपोलकल्पितो न वा क्लिष्टकल्पितः । गमिर्ज्ञानार्थं एवात्र प्रयुक्त इत्यत्रैव पूर्वार्द्धे--न चापि दोषेण तथा लोको मन्येत्पुरोचनम्। इति मन्यतेः प्रयोगो मानम् । अर्थैक्ये धातुद्वयप्रयोगः । दोषतः कं गमिष्यामि ( भा० आदि० १०८|१ )। दोषत इत्यत्र तृतीयान्तात् तसिः । य आत्मनो दुश्चरितादशुभं प्राप्नुयान्नरः। न स कालं न वा देवानेनसा गन्तुमर्हति । उक्तोऽर्थः।

 वस निवास इति धातो विंरमणेऽर्थे रुचिरः प्रयोगो भारते--निश्चित्य यः प्रक्रमते नान्तर्वसति कर्मणः (उ० ३३|२४)। न मंध्ये विरमतीत्याह ।

 स्यन्दू स्रवण इति स्यन्दनशब्दे श्रूयते धातुः । स्यन्दते याति स्यन्दन इति स्वामी । अत्रार्थे बाढमास्वादनीयः प्रयोगस्तिङि शतपथे—स होवाच सङ्ग्रहीतर्युङ्ग्धि मे, स्यन्त्स्यामि" ( ११।८।४|२ ) । स्यन्दनारूढो यास्यामीत्याह ।

 उत्तमशब्द इष्टविषयं परं महिमानमाचष्ट । इति पुरुषोत्तमादिषु शब्देषु प्रव्यक्तम् । अनिष्टविषयमपि तमाहेति व्यक्तयामः-प्रप्तोस्म्यापदमुत्तमाम् ( हरि० २|१२६|८४ )। अतिमहतीं विपदं गतोस्मीत्याह । अन्त्योऽप्युत्तमो भवति । होता प्रथमो भक्षयति यजमान उत्तमः ( आप० श्रौ० ८|१|३|१५) । आचार्यः खल्वप्याह –उत्तमैकाभ्यां च (५/४/९० )। उत्तमशब्दोऽन्त्यवचनः पुण्यशब्दमाचष्ट इति तत्र वृत्तिः ।

 स्थितो निवृत्तगतिरित्यनर्थान्तरम् । स्थितः स्थितामुच्चलितः प्रयाताम् ( रघु० २|६ ) इत्यत्र यथा । विरतः समाप्तोऽवसित इत्यत्रार्थेपि प्रयोगमवतरन्दृष्ट्– स्थितः शक्रमहस्तात श्रीमान् गिरिमहस्त्वयम् ( हरि० २|१७|११ )।  जक्ष भक्षणहसनयोरित्यदादिषु पठ्यते । भक्षणेऽर्थे प्रसिध्यन्ति प्रयोगाः , हसनेपि समुपलभ्यते शतपथस्थः-उतेव स्त्रीभिः सह मोदमानो जक्षदुतेवापि भयानि पश्यन् ( १४|७|१|१४ ) ।

 स्वृ शब्दोपतापयोर्भौवादिकः । स्वरति ध्वनतीति स्वरोऽकारादिः। संशब्दन आह्वानेपि वर्तत इति वेद्यन्ते विविदिषवः। तद्यथा——इन्द्रं स्तोमेभिर्महयन्त आयवः प्रियमेधासो अस्वरन् (अथर्व० २०|९|२ ) । प्रियमेधा मनुष्या इन्द्रं स्तोमैराह्वयन्नित्यर्थः ।

  श्विं गतिवृद्धयोर्भूवादिषु पठितः । वृद्धयर्थस्तावदुर्दश्विच्छब्दे श्वयथुशब्दे च स्पष्टमुपलभ्यते । तिडन्तस्यास्य क्व प्रयोग इत्यनुयोगः । शतपथे स स्थित इति ब्रूमः--पशुरालब्धः संज्ञप्तोऽश्वयत् तमेताभिराप्रीभिरप्रीणात् (११|८|३|५ )। अश्वयत् शून उच्छूनोऽभवदित्यर्थः ।

 गत्यर्थकस्य पतेर्भारतस्थोऽयं प्रयोगः किमपि संवननं हृदयस्य— अहोरात्राः पतन्त्येते ननु कस्मान्न बुध्यसे (शां० १७५|९ )। पतन्ति अतियान्ति ।

 टुनदि समृद्धाविति भूवादिः । नन्दति प्रसीदतीत्यत्रार्थे तु प्रचुरं प्रयुज्यते । मुख्ये समृद्धयर्थे प्रयोगोऽवदानमालायाम्-अधर्म्यमेव बलिमुद्धरन्नृपः क्षिणोति देशं न च तेन नन्दति ( जा० २३|७० )। न नन्दति न समृध्यतिं न समृद्धिमान्भवति न स्फीतो भवतीत्यर्थः ।

 वह गतिप्रापणयोः पठितः । प्रसिध्यन्ति च प्रयोगास्तयोरर्थयोः । अप्रतिबन्धेन प्रवृत्तावपि वर्तते इति तन्त्राख्यायिकागतः प्रयोगोऽयं रस्यताम्-- न शस्त्रं वहतेऽश्मनि( १|१३|१६० )। (भुवि ) हलस्य 'कर्षणेपि वर्तते, अन्यदा किल धर्मज्ञा सुरभिः सुखसम्मता । वहमानौ ददर्शोर्व्या पुत्रौ विगतचेतसौ ( रा० २|५४|१५ )।

 ददातिनार्थे विश्रूयते । व्याहरणेऽपि श्रूयते | मानुषीं वाचं ददति । ( तंन्त्रा० २|५ ) ।।

 अर्ह पूजायाम्. भूवादिश्च चुरादिश्च । तत्रार्हत्ययं कृतघ्न उपद्रवस्य ( माल०)। स्रग्विणं तल्प आसीनमर्हयेत्प्रथमं गवा (मनु० ३|३) इत्युदाहरणे । मूल्ययोग्यतायामपि शातपथी श्रुतिः--तस्माद्सीसं हिरण्यरूपं सन्न किंयचनार्हति (५|४|१|१० )। नास्य कियानप्यर्घो भवतीत्यर्थः ।

 संज्ञाकरणे दशम्यामुत्थाय पिता नाम करोतीत्यादिषु गृह्योक्तेषु,करोतेः प्रयोगः प्रथते । क्वचिद् धाञोपि स दृश्यते यथा धेह्योव मे नामेति (श० ब्रा० ६|१|३|१५) इत्यत्र ।  आखेटार्थे गमने व्यवहारत्रैविध्यं दृश्यते । तदेतदुदाहरणैर्व्यक्तिं नीयते । अय स नृपतिराखेटं जगाम । स चचार सहामात्यो मृगयां गहने वने ( भा० आदि० १७५|५) चरन्तो मृगयां हृष्टाः (रा० ३|४३|५) । मृगयां चरन्तो मृगयार्थे पर्यटन्त इत्यर्थः । सविषं - काण्डमादाय मृगयामास वै भृगम् ( भा० अनु० ५|३ ) ।

 सृज विसर्गे इत्यस्य समुत्पादने प्रेषणे क्षेपणे ( अस्त्रादीनां मोचने ) प्रथन्ते प्रयोगाः। प्रेरणायां प्रवर्तनायां चोदनायामपि विलोक्यते सृजिः--बुद्धेि द्रव्येषु सृजति विविधेषु परावरां ( भा० वन० १०१।२२) ।

 अन्तःपूर्वस्येण व्यवधानेऽर्थे सकर्मकत्वेन प्रयोगः शतपथे राजते । तत्रावधेयं व्यवहारे वैशारदीं विवित्सुभिः। संवत्सरात् सपत्नानन्तरायन् (१|५|३|४)। अन्तरायन् व्यवादघुः । इदं वै मा सोमादन्तर्यन्ति ( श० ब्रा० १|६|३|७ ) उक्तोऽर्थः ।

 अत्रापि व्यवहारेऽनधीयीताम् । तं तथा नृपशार्दूलं तप्यमानं महत्तपःशङ्करः परमप्रीत्या दर्शयमास भारत (भा० आदिं० २२३|४० )। तच्छन्दा- नुवर्तितया स्वयमेव स्वस्य दर्शनं तस्मै प्रायच्छदित्यर्थः । अत्रात्मानम् इति नोक्तम् । तस्यावचनमेव व्यवहारानुरोधि, वचनं तु तद्विरोधि । एषा वाक्सरणिरे- तस्यार्थस्य प्रवेदने प्रतितिष्ठतीति विज्ञेयम् । अन्यत्रापि भारत इत्थम्भूतः प्रयोगः-- स्मृतोऽहं दर्शयिष्यामि कृत्येष्विति सोऽब्रवीत्। (आदि० ६३|८५)।

 इत्युक्त्वा धर्मराजाय प्रेषयामास वै तदा (भा० आश्रम० ८|१०)। अत्र दूतमिति नोक्तम् । अनुक्तिरेव व्यवहारानुगा । प्राहिणोद् विदुराय वै ( भा० सभा० ४९।५० ) । इत्यत्रापि तथा । एतस्याः शैल्याः प्रचरद्भाषयाऽपि हिन्द्या संवादो लक्ष्यत आश्चर्यः ।

 शुध शौच इति दिवादेरयमपि प्रयोगः प्रयोगशुद्धयेऽवगन्तव्यः -– नहि मे शुध्यते ( = शुध्यति ) भावः कदाचिद् विनशेदपि ( भा० वन० ६०|१८)। एतदाचक्ष्व मे शीघ्रं नहि शुध्यति मे मनः ( भा० वन० १३७|५ ) नहि मे शुध्यते भावस्तं वीरं प्रति शोभने ( आदि० १२९|९ )। शुध्यति मावः - विशदो भवति शङ्कापेतो भवति, निर्वृणोति ।

 प्ारयेण ' ण्यन्तकः साधिर्गमेरर्थे प्रयुज्यत इति दर्पणकारः । ततोऽन्यत्राप्यु- पलभ्यते प्रयोगः, सोऽयमीक्ष्यताम्--कृष्णे नयो मयि बलं जयः पार्थं धनञ्जये। मागधं साधयिष्याम इष्टिं त्रय इवाग्नयः (भा० सभा० १०|३) ॥ वशे करिष्याम इत्यर्थः । द्रा कुत्सायां गताविति धातुर्निपूर्वः स्वापे संवेशे प्रसिद्धः, परं यदि निद्रायात्कामं स्वप्याद् (श.ब्रा०. ३|९|३|११) इत्यत्र निद्रा प्रमीलामाह । निद्रायात् प्रमीलितः प्रचलायितः स्यात् ।

 अर्तेर्ऋच्छतेर्वा .ण्यन्तस्याण्यन्तस्य वा प्रयोगे सविशेषमवधेयं व्यवहारे कोविदैर्बुभूषुभिः। ऋ गतौ, ऋच्छ गतीन्द्रियप्रलयमूर्तिभावेष्विति धातू । इयं वै तं निरर्पयति यो निऋच्छति ( श० ब्र० ७|२|१|११ )। योऽपराध्यति परस्मै परं वा क्षिणोति तमियं दुःखेन युनक्तीत्याह । ततस्त्वमषी क्रोधसन्दीप्तनेत्रो वातात्मजः पणिना पाणिमार्च्छत् ( भा०.कर्ण० ८९|३६ )। आर्च्छत् अताडयत् । पाञ्चाल्यं त्रिभिरानर्च्छत्सात्यकिं नवभिः शरैः (भा० भीष्म० ४७|३१ )। आनर्च्छत् = आर्च्छत् = अविध्यत् । अर्जुनः पञ्चविंशत्या भीष्ममार्च्छच्छितैः शरैः (भा० भीष्म० ५२|४८) । उक्तपूर्व -एवार्थः । बहुधा भीष्ममानर्च्छु मार्गणैः क्षतमार्गणैः (भा० भीष्म ० ११८|४८) ।

 केवलोऽप्यत ऋच्छतिः समासत्तौ , समासने वाऽपि वर्तते-राज्ञश्चान्यान्रणे शूरान्बहूनार्च्छद् धनञ्जयः (भा० भीष्म० ७२|२)। स्थाणुं वर्च्छति गतं वा पात्यते (का० सर्वानु०) इत्यत्र स्थाणुना प्रतिहन्यत इत्यर्थ इति ऋच्छतिः प्रतिघाते वर्तते । भारतेपि तत्रार्थे प्रयोगः --प्रमत्तः स्थाणुमृच्छति (.सभा ६५|१९ )। ण्यन्तस्तुं प्रायेण व्यधने वर्तते । बहुलं चात्रोदाहरणम् । मा ते मर्म विमृग्वरि मा ते हृदयमर्पिपम् (अथर्व० १२|१|३५) । मा अर्पिपम् माऽपिपीडम्, मा व्यात्सम् । द्रोणं षष्ट्या महाराज बाह्वोरुरसि चार्पयत् । स विद्धो व्यथितश्चैव (भा० भीषम० १०१|४६-४७ )। व्यक्तमिहार्पयद् अविध्यदित्यनर्थान्तरम् उत्तरार्द्धे विद्ध इत्युक्ते! वार्ष्णेयं समरे क्रुद्धो नाराचेन समार्पयत्। शैनेयं स तु निर्भिद्य (भा० भीष्म १०१|४९-४९ )। इहापि समर्पयदिति निरभिनदित्यनेन समानार्थम् । अथैनं पञ्चविंशत्या क्षुद्रकाणां समर्पयत् (भा० भीष्म ० ७८|२१)। अत्र समाचिनोदिति पाठान्तरम् । नैतावता समाचयनमाच्छादनमर्थः शक्यः कल्पयितुम् । अन्यत्र सर्वत्र व्यधनार्थस्यासन्देहं प्रतीतेः । पितामहस्त्रिभिर्बाणैर्बाह्वोरुरसि चार्पयत् ( भां० भीष्म० :१०३|८)। आच्छादनमर्थस्तु नोपपद्यते । न हि त्रिभिर्बाणैराच्छादनं शक्यक्रियं भवति । अनन्तरपरस्मिन्पद्ये शिखण्डी पञ्चविंशत्या भीष्मं विव्याध सायकैरित्यत्र विव्याधेति क्रियायाः श्रवणादत्रापि व्यधनार्थ एवोचितोऽसंशयम्।

 शाम्यतिः शमे प्रसिद्धः सन्धावपि वर्तते. तद्यथा--महद् वो भयमागामिन, चेच्छाम्यथ पाण्डवैः (भा० उ० ५८|२७ ) । न शोम्यथ= न सन्धत्थ ।  अवि रबि लबि शब्दे । लबि अवस्त्रसने चेति धातुपाठः । लम्बेः प्रयोगना- नादमुदाहरामःअवधानं च तत्र दीयमानमिच्छामः । यः समुत्पतितं क्रोधं निगृह्णाति हयं यथा । स यन्तेत्युच्यते सद्भिर्न यो रश्मिषु लम्बते (भा० आदि० ७९|२)। रश्मिषु लम्बते प्रग्रहान्धारयति। जयद्रथश्च हन्तव्यो लम्बते च दिवाकरः (भा० द्रोण० १४१|३२)। लम्बते पश्चिमाशामालम्बते । शूरबाहुषु लोकोयं लम्बते पुत्रावत्सदा (भा० शा० ९८|१७ )। लम्बते श्रयते, तत्राधूतो भवति ।

 प्राप्त्यर्थो लभिः। तत्रोदाहरणं नापेक्ष्यम् । शकेरर्थेपि प्रयोगमवतरति-- कथं हि धर्मराजस्य दोषमल्पमपि ब्रुवन्। लभते परिषन्मध्ये याहर्तुमकुतोभयः ( भा० उ० ३।५ ) । लभते शक्नोति उत्सहते ।

 श्रद्दधातेः प्रयोगे कारकनानत्वं द्रष्टव्यं भवति, । श्रदस्मै धत्त स जनास इन्द्रः (ऋ० २|१२|५) । अश्रद् दघत् परलोकाय मूढः(भा० उ० २७|९ ) । य एव ब्रूयादहमदर्शमितिं तस्मा एव श्रद्दध्याम ( शं० ब्र० १।३।१।२७ ) । कः श्रद्धास्यति भूतार्थम् ( मृच्छक० ३।२४ ) । श्रद्दधे त्रिदशगोपमात्रके दाहशक्तिमिव कृष्णवर्त्मनि ( रधु० ११|४२)। कारकत्वाविवक्षायां षष्ठीमपि शैषिकीं प्रयुक्तां पश्यामः । स यद्यदर्शमित्याहाथास्य श्रद्दधति (ऐ० ब्रा० १|६) । अश्रद्दधाना धर्मस्य ते नश्यन्ति न संशयः (भा० वन° २०७|४७) । श्रद्धेस्व मम ब्रह्मन् नान्यथा कर्तुमर्हसि (भा० व० २१५|१० ) ।

 हयान्रथे युनक्ति हयैर्वा रथमित्युभयो व्यवहारः प्रतितिष्ठति । तथा च भारतगते उदाहरणे-योजयामास संहृष्टः पुनरेव रथोत्तमे (हयान् ) (द्रोण० १००॥१६ )। तान्रथान्साधुसम्पन्नान्संयुक्तान् जवनैर्हयैः (वन० २४४|४)। धूः शब्दप्रयोगे तु धुरि नियता सप्तमी--गुणानामेव दौरात्भ्याद् धुरि धुर्यो नियुज्यते । अजातकिणस्कन्धः सुखं स्वपिति गौर्गडिः । पुरुहूत द्विषो धूर्षु युक्तान् यानस्य वाजिनः (भट्ठि० ९|६७ ) {

 गुरुः प्रहर्षः प्रबभूव नात्मनि ( रघु० ३|१७ । शरीरे गुरुः प्रहर्षो न ममावित्यर्थः । भागवतकारस्तु विधान्तरेणेममर्थमाचष्टे । यदाह-- मुदा शरीरे प्रबभूव नात्मनः पाथोधिरिन्दूदयमूर्छितो यथा (१।११।६ )| अयं च वाक्य- विन्यासो वर्तमानहिंन्द्यभिधानविधयाऽनवयवेन संवदतीत्यस्यार्वाचीनत्वे लिङ्गम् । माधातुप्रयोगेपि कालिदासश्रिता सरणिरेव कविभिराश्रीयते--तनौ ममुस्तत्र न कैटभद्विषस्तपोधनाभ्यागमसम्भवा मुदः ( शिं० १|२३ ) । इत्यत्र यथा ।

 पुत्रादेः कृतकत्वेन परिग्रहे क्लृपेर्व्यवहारो व्यवस्थितः, स च समीक्षितव्यः-- तमुत्सृष्टं जले गर्भ राधाभर्ता महायशाःपुत्रत्वे कल्पयामास (भा० आदि० १११|२३ ) । धन्या सा प्रमदा या त्वां पुत्रत्वे कल्पयिष्यति ( भा० वन ० ३०८|१७ ) । अत्र पुत्रत्वे इत्यत्र सप्तम्यां सविशेषमवधेयम् । नेह विभक्त्यन्तरं प्रयुञ्जते प्रयोगचणाः ।

 चिन्तने स्मरणेऽभिधेये चिन्तयति स्मरति या व्यतिरिच्य गमिमपि व्यवहरन्ति वाग्योगविदः--हरिं मनसा जगाम ( भा० )। सा भीमं वै मनसाऽगमत् ( भा० वि० १७|४) । कर्ण राज्ञोऽगमन्मनः ( भा० कर्ण० ३१|१५ )। एकत्र मनः करणमपरत्र च कर्तृ । उभयी विवक्षा शिष्टानाम् । सा मनसि करणीया ।

 विशेर्व्यवहारेषि कारकभेदो विलोक्यते सुस्थितः । पुरन्दरस्तु तं यज्ञं दृष्ट्वोरुभयमाविशत् (भा० आदि० ५६|१४ )। अत्र पुरन्दरो विशेः कर्ता । वृत्रे विवर्धमाने च कश्मलं महदाविशत् (पुरन्दरः ) (भा० वन० १०१|८ ) { अत्रापि तथैव । पुरन्दरमुरुभयमाविशदित्येवमपि शक्यं वक्तुम् । शोकस्थान- सहस्राणि... मूढमाविशन्ति न पण्डितम् ( हितोप० १|३) अत्र मृढो विशेः कर्म । तथाजातीयकः प्रयोगः -श्रीरामायणेपि–विविशुश्च भयं सुराः (१।२१/४) । सुरान्भयमाविशद् इत्येवमपि शक्यं वक्तुम् । तथा च भारते ततो मां रोष आविशत् (भा० वन० २०|११ )। दृष्ट्वा दुर्योधनं राजन्मैत्रेयं कोप आविशत् ( भा० वन० १०|३१) ।

 नतेन मूर्धने जानुभ्यां वा भूस्पर्श इत्थम्भूतोपि प्रचरति व्यवहारो व्यवहारं विदुषाम्--जगाम शिरसाऽवनिम् ( भा० सभा० ३१|३२) । जानुभ्यां पृथिवीं गत्व (भ० अनु० १४/४२)।

 पालनेऽर्थे पठितस्य रक्षेरर्थवैचित्र्यकृतं किमपि चारुत्वं दृश्यते । विग्रहं दूरतो रक्षन् ( भा० सभा° ४६।२९) । दूरतों रक्षन् दूरे परिहरन्नित्यर्थः, वारयन्निति वा । किं जितं किं जितमिति ह्याकारं नाभ्यरक्षत (भा० सभा० ६५|४३ )। आकारं हृषीकृतं स्वाभिप्रायं तिरोधातुं संवरीतुं नाक्षमतेत्यर्थः।

 कृती छेदन इति तुदादिषु पठ्यते । अयमुद्धरणेपि वर्तते तथा च भारतस्थः-- प्रयोगः--न चास्य शल्यं कृन्तन्ति विद्धास्तत्र सभासदः (सभा० ६८|७७ ) । शल्यं कण्टकं नोद्धरन्तीत्याह ।

 वाक्यप्रबन्धे पठितस्य कथेरनुपसृष्टस्य संभाषणेऽर्थे प्रयोगो भारतस्थः-- केन साधं कथयसि (वन० १२|१०२ ) । केन संकथयसि, केन सुभाषसे, केन संलपसीत्यर्थः।

 उपजपेः प्रयोगे द्वितीयाप्रयुक्तिंरुद्वेगकर्यपीदानीन्तनानां सह्या व्यवहार- विधेयानाम् पठति च शब्दवित्तमो व्यासः -क्षप्त्तारं कुरुराजस्तु शनै: कर्णमु- पाजपंत् ( भा० वि० ६७|५४) । कर्ण उक्तवान् । उपांशु व्याहरदित्यर्थः । उपेति सामीप्यमाह । कर्णमुपेत्याजपदित्येवं व्याख्यायमाने द्वितीयोपपत्तिमती भवति ।

 स्पृशेराहननं प्रहरणमर्थो मर्मस्पृगित्यादिषु समासेषूपलभ्यते । तिङन्तस्यापि तस्यायमर्थो भारतप्रयोगे दृश्यते स्फुट:--अथ मामस्पृशन्मूर्ध्नि पादेनाधर्मपीडितः ( उ० १७|१२)। अस्पृशत् आहन् , प्राहरत्, अताडयत् ।

 रामः सीतायाः पाणिं गृह्णातीत्यर्थाभिधित्सया रामः सीतां पाणौ गृह्णातीत्येवमपि शक्यमुदाहर्तुम् इत्यत्र नित्यं हस्तेपाणावुपयमनेः (पा० १|४|७७ ) इति शास्त्रं लिङ्गम् । अन्यत्राप्युपयमनात्पाण्यादेः सप्तम्यन्ततामिच्छन्ति व्यवहारविशारदाः--तं पाणावादायोत्तस्थौ ( शं० ब्रा० १४|५|१|१५ )। ततो दुयोंधनः कर्णमालब्याग्रकरे नृपः ( भा० सभा० १३७|२० )। श्वेतकेतोः किला पुरा समक्षं मातरं पितुःजग्राह ब्राह्मणः पाणौ (भा० आदि० १२२|११-१२) अत्र विषये तृतीयाप्रयोगं न सहन्तेऽग्रकरेण पाणिनेति वा ।

 विस्मरणं स्मृतिप्रमोषमाह तत्पूर्वके सहादेयद्रव्यत्यागेपि वर्तते यथाद्यत्वे प्रचरति भाषान्तरे हिन्द्याम् । इध्म दर्भाः सुमनसः कलशश्चातिभोजनम्विस्मृतं मे तदादाय नदीतीरदिहाव्रज (भा० अनु० ७१|५ )।

 पौर्वकाल्ये क्त्वेति पाणिनीयमनुशासनम् । करणेपि स इध्यते तात्पर्यत इति समुदाह्रियते—हत्वा चैनं नामृत्तः स्यादयं मे (भा० अनु० १|२३ ) । इह करणत्वं क्त्वार्थः । अयं मे पुत्रोऽस्य हननेनामृतो न स्यादित्यर्थः । लौकिका अप्याचक्षते—भुक्त्वैव हि तृप्तो न तु पीत्वेति । भोजनेनैव तृप्तो भवति न तु पानेनेत्यर्थ इति नीलकण्ठः ।

 कृषिर्विलेखने भ्वादिश्च तुदादिश्च । समानेप्यर्थनिर्देशे विषयभेदेन प्रयोगो व्यवस्थितः, प्रतिनियतविषयाः शब्दाः । क्षेत्रं कृषतीत्येव न तु क्षेत्रं कर्षतीत्यपिकृञो द्वितीयतृतीयशम्बबीजात्कृषौ (पा० ५|४|५८) इत्यत्र शम्बा करोति । अनुलोमकृष्टं क्षेत्रं पुनः प्रतिलोमं कृषतीत्यर्थ इति काशिका। दीक्षितस्त्वत्र कर्षतीत्याह । स् प्रमादः । कर्षतेस्तु कृषेरन्यत्र कर्षणे प्रसिध्यन्ति प्रयोगाः-- अजां, ग्रामं. कर्षति, प्रसह्य सिंहः किल तां चकर्ष, महद्यशः कर्षत्यादयः । बेदे खल्वपि कृषौ कृषेस्तुदादेः प्रयोगः--शुनं सुफाला विकृषन्तु भूमिम् ( वा० सं० १२|६९ )।

 आक्रोशे पठितस्य शपतेः प्रतिज्ञानेपि समुपलभ्यते प्रयोगः शतपथे- शेपानोस्मि नमुचये न त्वा दिवा न नक्तं हनानिः(१२|७|३|१) | शेपानः प्रतिज्ञातवानस्मि, प्रतिश्रुतवानस्मि ।  वेदस्नातः व्रतस्नातः, वेदव्रतस्नात इत्यादयो वेदादिसमाप्तिनिमित्तेन स्नातः कृतस्नानो गुरुकुलात्समावृत्त इत्यर्थमाहुः । तच्च सर्वस्य निर्विशेषं विदितम् । तत्रार्थे वेदसमाप्तौ स्नातस्य समवृत्तिमन्यथाप्युपवर्णयन्ति सन्तः-- सर्ववेदेषु वा स्नानं सर्वभूतेषु चार्जवम् । उभे एते समे स्यातामार्जवं वा विशिष्यते( भा० अनु० १४२।२९) ।

 आशीः-प्रदाने वर्धस्येत्यनुक्त्वा प्रकारान्तरमपि मनोज्ञं जुषन्ते साहितीजुषः-- त्वं मया सह गत्वाद्य राजानं कुरु वर्धनम् ( भा० आश्व० १५|३२ )। राजानं वर्धनं ( वर्धनशीलं ) कुरु, राजानं वर्धयेत्यर्थः।।

 भक्तशब्दप्रयोगे किमपि विभक्तिवैचित्र्यं विलोक्यते । अद्यत्वे प्रायेण षष्ठीं प्रयुञ्जते तदात्वेपि-भक्तोसि मे सखा चेति ( गीत० ४|३ )। भारतेऽत्र विषये द्वितीयासप्तम्यावपि श्रूयेते इत्युदाहरामः --सर्वभावेन भक्तः स देवदेवं जनार्दनम् ( शां० ३३५|१७) । स भक्तो मागधं, राजा भीष्मकः परवीरहा ( सभा० १४।२२) । भक्तो नारायणं हरिम् (शां० ३३५।२१ )| भक्तोऽस्मान् ( भीमः) भक्तिमांश्चाहं तमप्यरिनिषूदनम् ( भीष्म० ७७|३०)। अयं श्वा भूतभव्येश भक्तो मां नित्यमेव हि ( महाप्रस्थान० ३|७ ) । श्रीरामायणेपि द्वितीयाप्रयुक्तिः स्थिता–ये त्वां देवं ध्रुवं भक्ताः पुराणं पुरुषोत्तमम् (६|११७|३२)। सप्तमि खल्वपि--युधिष्ठिरे भक्त इति श्रुतं मे ( भा० उ० २२।१९ ) ।

 अकारमात्रभक्तोऽयं मुगागम इति आने मुक् ( ७|२|८२) सूत्रे वृत्तिः । तत्राकारस्यावयवभूत इत्यर्थः ।

 सर्वशब्दः सम्पूर्णपर्यायः प्रसिध्यति । सर्वमायुरेति पूर्णमायुः समश्नुत इत्यर्थः । सर्वत्वं पूर्णता कार्त्स्न्यं भवति । तस्य प्रयोगः शतपथे--अथ कृष्णाजि नमादत्ते यज्ञस्यैव सर्वेत्वाय (१|१|४|१)।

 सार्धमित्यव्ययं सहार्थे वर्तत इति न वेदनीयाः शिष्याः प्राथमकल्पिका अपि । प्रयोगस्त्वस्य न सर्वो विदितः । तानालुप्य ( बालान् ) सार्धं संन्यासुः ( श० ब्रा० ३|४|१|१७ ) । सार्धे सहचरितान् संगतान् कृत्वा संन्यासुर्निदधुरित्यर्थः ।

 पुरशब्दोऽन्यमुत्तमं प्रकृष्टं प्रधानं वाह । अवस्थाविशेषणं सन्मरणमपी- त्युदाह्रियते व्यवहारस्य सर्वत्वाय--सर्वाणि सत्त्वानि खलूष्णकाले विनाम्बुना यान्ति परामवस्थाम् (का० नी० स० १६|९ )। परामवस्थां यान्ति मरणमापद्यन्त इत्यर्थः।  परमम् इत्यव्ययं बाढमित्यर्थं पठत्यमरः । स्यादमेवं परंमं मते । मतेऽर्थे । मतमभ्युपगमः । परमं तत्रावसम् इति चोदाहरति स्वामी । इदं किमुदाहरणं ग्रन्थानारूढम् । भारतस्थमिदं सुदाहरणं सेव्यताम्--ऊचुः परम मित्येवं पूजयन्तोऽस्य तद्वचः ( उ० ८५|११ )।

 मिश्रशब्दः सर्वस्य विदितः । तत्र ब्रह्मेतिहासमिश्रम् ऋङ्मिश्रं गाथामिश्रं भवति (निं० ४|६|१) । गुडमिश्रा धाना इत्यादयः प्रयोगा विदितार्थाः प्रथन्ते । सन्ति चास्य केचन प्रयोगाश्चित्रीयाकराः, ते लक्षयितव्याः । मिश्रं चानुपसर्गमसन्धौ (पा० ६।२।१५४) । अत्र ब्राह्मणमिश्रो राजेति प्रत्युदाहरणं वृत्तौ । ब्राह्मणैः सह संहित ऐकार्थ्यमापन्न इत्यर्थः। सन्धिरिति पणबन्धेनैकार्थ्यमुच्यत इति वृत्तिव्याख्यानग्रन्थः । स्वर्गस्वा मिश्रा देवेभिराध्वम् ( श० ब्रा० ९|२|३|२४ )। मिश्राः संगताः । तया चाप्यभवन्मिश्रो गर्भ चास्या दधे तथा (भा० अनु० ८५|५६)। मिश्रोऽभवत् तां संविवेश, तया सम्बभूव. मिथुनीबभूवेत्यर्थः । हरिवंशे ( ) ऽपि तत्रार्थे प्रयोगः--संज्ञप्तमश्वमाविश्य तया मिश्री बभूव सः

 दिष्ट्येति सुबन्तप्रतिरूपकमव्ययमानन्दे वर्तते । दिष्ट्या समुपजोयं चेत्यानन्द' इत्यमरः । अस्य प्रयोगो दिष्ट्याऽत्र भवान् पुत्रोत्सवेन वर्धते इत्यादिषु हर्षप्रवेदनपरेषु वाक्येषु प्रसिद्धः । तत्रैव प्रतिनियत इति भ्रमः । अन्यत्रापि प्रहर्षप्रवेदने बहुलं प्रयुज्यते । दिष्ट्या जीवन्ति ते पार्था दिष्ट्या जीवति सा पृथादिष्ट्या द्रुपदकन्यां च लब्धवन्तो महारथाः (भा० आदि० २०६|५ )। दिष्ट्या सर्वे पावकाद् विप्रमुक्ता यूयं घोरात्पाण्डवाः शत्रुसाहाः। दिष्ट्या पापो धृतराष्ट्रस्य पुत्रः सहामात्यो न सकामोऽभविष्यत् (भा० आदिं० १९१।२४)। दिष्ट्या त्वं दर्शनीयोऽथ दिष्ट्यात्मानं प्रशंससि (भा० वि० २२|४७ ) । दिष्ट्या प्राप्तोसि धर्मज्ञ दिष्ट्यां स्मरसि मेऽनघ ( भा० वन० ६|१९) । तृतीयान्तप्रयोग वर्धतिप्रयोगश्चेत्युभयमप्यतन्त्रम् ।

 उष्णीष इति पुंसां शिरोवेष्टनं भवतीत्ययमपि विभ्रमः । स्त्रीणामप्युष्णीषो भवति । तेनोष्णीष इति शिरस आवरणं भवति नावश्यं शिरोवेष्टनमेव । तथा च शतपथे प्रयोःगः---आदित्यै रास्नासीन्द्राण्या उष्णीष इति ।

 आविष्कृतः प्रकटीकृतः प्राकट्यं नीत उच्यते । आविष्कृतः क्षितौ (भा० आदि० १७२|५) । इहाविष्कृतः प्रख्यातो विश्रुतः प्रतीतः प्रसिद्ध उच्यते । तथा खनति यथाऽनाविरूपरं भवति ( भा० श्रौ० ७|८|१२ )। अनाविरप्रकाशम् । आच्छनम् । नोपरस्याविष्कुर्यात् नि० ३|५|२)। उपर इतिं यूपस्यातष्टप्रदेश उच्यते तं पासुभिर्बहिषा चाऽऽच्छादयेत् । नाविष्कुर्यात् नानावृतं कुर्यात् ।  पूर्वशब्दो न्यायनये कारणवचनः प्रसिद्धःअन्यत्रापि तदर्थकः समस्ति- विधिपूर्वं हि सर्वस्य दुःखं वा यदि वा सुखम् ( भा० आदि० २०४|१५ )। विधिदैवं च पूर्वं कारणं यत्र तद् विधिपूर्वम् । दुःखमित्यस्य विशेषणं सुखभित्यस्य च ।

 तं प्रष्टुमेतीत्यस्मिन्नर्थे तस्मिन् प्रश्नमेतीत्यादि प्रयुञ्जते पुरा वाग्योगविदः। तथा चैतरेये प्रयोगः-- ते देवेषु प्रश्नमैताम् ( ऐ० न० १३|४)। देवेष्व- गच्छतां न्यायं प्रष्टुं किंन्वत्र साध्विति ! एष व्यवहारो बहुल उपनिषत्सु ।

 एकीयशब्दस्य स्वतन्त्रप्रकृतेः समासान्तगतस्य च प्रयोग आद्रियते स्म पुरातनैः सोऽधुनातनैरपि सम्यग्ज्ञातः समादरमर्हति । अवदानमालायामार्यशूर- कृतायामयं रुचिरार्थः श्लोकः स्थितः--वाशितार्थस्वहृदयाः प्रायेण मृगपक्षिणःमनुष्याः पुनरेकीयास्तद्विपर्ययनैपुणाः- ( जा० २२|१९ )। एकीयाः केवलाः एके । अमरोद्धाटने स्वाम्यप्युद्धरति--हृदयं तद् विविङ्क्ते यद्भावमन्यच्चलं पलम् | शतैकीयाः सहृदया गण्यन्ते कथमन्यथा। शतीकीयाः शतमध्य एकसंख्यावच्छिन्नाः .।

 प्राक्छब्दार्थे के न जानते, पुरार्थे प्रयोगमपि जानन्ति समे । किम्पुनः किमुतेत्यर्थे तु विरला अस्य व्यवहारं विदुः । स वेद्यते । तदेवं तपोवनस्थानामप्यलङ्का- रस्त्यागशौर्यं प्रागेव गृहस्थानाम् (अवदा० जा० ८)। न बोधिसत्वचरितं सुखमनुमोदितु मप्यल्पसत्त्वैः प्रोगेवाचरितुम् ( अवदा० जा० ९)।

 उद्देशः प्रदेशो भवति । निमित्तं प्रयोजनं नामनिर्देशश्चापि भवतीति विदितप्रायम् । उद्देशः संक्षेपः संग्रहोपि भवतीति वेद्यम् । तथा च भारते प्रयोगः-- माहात्म्यमपि चैवोक्तमुद्दैशेन गवां प्रभो (अनु° ७२।१ )।

 अलीकमिति मिथ्यापरपर्यायः । तदलीकं तन्मिथ्येत्यर्थः । अनृतवचनेपि प्रयुज्यते विशेष्यभूतम्--एवंविधान्यलीकानि धार्तराष्टैर्दुरात्मभिः । पाण्डवेषु वनस्थेषु प्रयुक्तानि --(भा० वन० २६३|४९ )। अलीकानि असत्यवचनानि दूषणनीत्यर्थः।।

 पुरतः पुरोऽग्रत इति समानार्थाः । पुरत इति प्रागर्थेपि प्रयोगमवतरन्दृष्टः । पुरतः कृच्छ्रकालस्य धीमाञ्जागर्ति पूरुषः ( भा० आदि० २३२।१ )। कृच्छ् कालात्प्रागित्यर्थः।

 प्रभृतिशब्दोऽव्ययमनव्ययं च । कार्तिक्याः प्रतीत्यादिष्वव्ययम् । आरभ्येत्यर्थः । आदिशब्दार्थेऽनव्ययम् । विश्वामित्रप्रभुतय ऋषयः । विश्वामित्रादय इत्यर्थः । यज्ञस्य चक्षुः प्रभृतिर्मुखं च ( अथर्वं० २|३५|५) अग्निर्यंज्ञस्य प्रभृतिरादिरादिभूत इत्याह । आरम्भोपि प्रभृतिर्भवति । ता वै नानाप्रभृतयः समानोदर्काः (श० ब्रा० ८|७|१|३ )। नानाप्रभृतयः = आरम्भे नाना

 एकायनगत एकायन एकसर्ग एकाग्र इत्यनर्थान्तरम् । एकायनगत इत्यन्यत्राप्यर्थे दृश्यते--तृषार्तश्च क्षुधार्तश्च एकायनगतः पथि ( भा० आदि० १७६|५ ) । एकस्यैवायनं गमनं यत्र तत्र गतः। संकुचितमार्गे गत इत्यर्थः ।

 युक्तायुक्तशब्दयोः क्रियाविशेषणयोः प्रयोगः शतपथे, तत्रावधीयताम् वयांसि युक्तं चायुक्तं च संचरन्ति (१२|४|१|३ ) । युग्मचारीण्ययुग्मचारीणि च भवन्तीत्याह ।

 पुत्रशब्दः कन्यावचनोपि भवति । पुमांसं पुत्रं जनय तं पुमाननुजायताम् (अंथर्व० ३|२३|३ )। पुमान्पुत्रो जायते (वा० सं० ८|५.)। दुहितापि पुत्रशब्देनोच्यते इत्यतः पुमान् इति विशेष्यत इत्युवटः ।

 नित्यशब्दो ध्रुववचनोऽभीक्ष्णंवचनोऽपि प्रसिद्धः । प्रधानवचनोपि स भवतीत्युच्यते । अर्थनित्यः परीक्षेत (नि० २|१|३ )। अर्थप्रधान इत्यर्थः । धर्मनित्ये युधिष्ठिरे (भा० सभा० ३३|५ )। धर्मप्रधान इत्यर्थः । विशेषणस्य परनिपातो व्यवहारतो न शास्त्रतः। मुद्नित्यमेवास्य भोजनमित्युक्ते मुद्रप्रधानमिति ग़म्यत इति दुर्गः।

 उदर्कः फलमुत्तरमित्यमरः । अयमेवैकोऽस्यार्थ इति मा ग्रहीः । अन्येपि सन्ति केचनार्थाः शिष्टप्रमाणिताः। उदर्क उत्तरकालः। उदर्कस्तव कल्याणि कल्याणो भविता शुभे (भा वन० ६४|९२)। उदर्को भाग्योदयः । उदर्क स्तव कल्याणि तुष्टो देवगणेश्वर:(भा० आदि०.१२३|३१ )। उदर्कोऽन्तोपि भवति । ता वै नानाप्रभृतयः समानोदर्का: ( श० ब्रा० ८|७|१|३)।

 भार्यास्पर्शमप्यवर्जयदित्यर्थविवक्षया भार्या स्पर्शेप्यवर्जयदित्येवमपि व्यवहरन्ति वाग्योगविदः। अयं व्यवहारः कथासरित्सागरे (१४|४७|२७) इत्यत्र स्थितः। परवच्छब्दः पराधीनमाह । एतद्योगे विभक्तिद्वैविध्यं दृश्यं भवति प्रतिनियतविषयम् । परवन्तो वयं राजंस्त्वयि । अत्र सप्तम्याः प्रयोगः । भ्रात्रा यदित्थं परवानसि त्वम् ( रघु० १४|५९)। अत्र तृतीयायाः । यत्र पुरुषे पारवश्यं तत्रोभयीविवक्षा । अन्यत्रं तु तृतीयाप्रयुक्तिर्नियता । परवानिव शरीरोपतापेन ( मालती० ३ )। विस्मयेन परवानस्मेि ( उत्तर० ५ )। साध्वसेन परवान् ( मालती० ६) ।

 दसु उपक्षय इति धात्वर्थनिर्देशेप्युपोपसर्ग उपसर्गपूर्वस्यैवास्यः प्रयोग इति नियमद्योतकः । न वो दस्रा उपदस्यन्ति धेनवः (ऋ० ५|५६|५ )। उतो रयिः पृणतो नोपदस्यति (ऋ० १०|११७|१)। प्रजय स विक्रीणीते पशुभिश्चोपदस्यति ( अथर्व० १२|४|२ )।

 सृष्टधृतौ निश्चितौ कृतनिश्चयावपि भवतः । तथा च श्रीरामायणे प्रयोगौ--- यत्सृष्टासि मया सार्धं वनवासाय मैथिलि ( २|३०|२९)सर्गशब्दो नानार्थः । पठति चामर:--सर्गः स्वभावनिर्मोक्षनिश्चयाध्यांयसृष्टिषु । सर्गो निश्चयः । सृष्टो निश्चितवान् । रावणस्य वधे धृतः (६|१००|३९ ) । गन्तुं निश्चिनोतीत्यर्थे गमनाय मनो धरति दधातीति वेति वाक्यविन्यासोपिः व्यवहारानुगो भवति । तयां च भारते प्रयोगः–गमनाय मनो दधे (दध्रे) ( शां० २३१/६४ ) ।

 पूञ् पवन इत्यस्य विभाजने पृथक्कारणेऽर्थे पाप्मभ्यश्च पुनातु वर्धयतु च श्रेयांसि सेयं कथा (उत्तर० ७|२०) इत्यत्र प्रयोगः पृथते नाम । तदर्थकस्य शुम्भेरपि प्रयोग आथर्वणे स्थितः-- यद्रिप्रं शमलं चकृम यच्च दुष्कृतम् । आपो मा तस्माच्छुम्भन्तु( अथर्व० १२|२|४० )। पञ्चमी चात्रोभयत्र समाना।

 दानार्थस्य शिक्षेः कर्मणि तृतीयाश्रुतिः सम्प्रदाने च द्वितीयेति काचित्कश्छान्दसो व्यवहारः । सपत्नहनमृषभं घृतेन कामं शिक्षामि हविषाऽऽज्येन (अथर्व ९|२|३ ) । कामाय हविराज्यं ददामीत्यर्थः।

 राज्ये भिषिक्तः, राज्येऽभिषिच्यते इति रूढिः । क्वचित् तृतीयाचतुर्थ्यावपि प्रयुज्येते । अतो मूलं सुराणां श्रीर्यत्र शक्रोभिषिच्यते । सुरराज्येन (भा० उ० १०७|८)। अत्र राज्येन विप्राणां चन्द्रमाश्चाभ्यषिच्यते (भा० उ० १११|८)। चतुर्थी खल्वपि–येनेन्द्रं देवा अभ्यसिञ्चन्त राज्याय (आपू० श्रौ० ६|४|१४|७) ।

 परेणेति एनवन्तमशिष्टमपि शास्त्रेण बहुलं व्यवह्रियते—परेणास्मान्प्रेहि वै हव्यवाह (भा० आदि० २३२|११)। अस्मत्तः परत इत्यर्थः। किं वा मृत्योः परेण विधास्यति ( मालती० २।२ )। स्तन्यत्यागात्परेण (उत्तर० २।७ )।

 विरुद्धं प्रतिकूलमित्यनर्थान्तरम् । कर्मणि क्तः । कर्तरि तृतीयाप्रयुक्तिः शास्त्र- व्यवहारोभयानुकूलो-न प्रवेक्ष्यामि वो देशं विरुद्धं यदि मानुषैः । (भा० सभा० २८।१५)

 विहस्तव्याकुलौ समावित्यमरः। रामापरित्राणविहस्तयोध–(रघु ०. ५|४९)। नानायुधविहस्त(हरि० १३२३८) इत्यत्र तु विहस्तो विचक्षण इत्यनर्थान्तरम् ।

 सकाशशब्दः समीपवचनः सर्वस्य विदितः, राज्ञः सकाशं गच्छति, राज्ञः सकाशादागच्छतीति । ततोऽन्यत्रापि वर्तते । तथा च याज्ञवल्क्यस्मृतौ प्रयोगः- अग्नेः सकाशाद् विप्राग्नौ हुतं श्रेष्टमिहोच्यते (१|३१६ )। अग्नेः सकाशात् अग्निमपेक्ष्य, अग्न्यपेक्षया ।  संभवतिर्मिथुनीभावे वर्तमानः क्वचित् सकर्मवः , तथा च शतपथे मैत्रायण्यां संहितायां च प्रयोगः-प्रजापतिर्ह वै स्वां दुहितरमभिदध्यौ दिवं वोषसं वा मिथुन्यनया स्याम् इति तां संबभूव ( श ब्रा ० १|७|४|१ )। अग्निर्ह वाऽपोऽभिदध्यौ मिथुन्याभिः स्यामिति ताः सम्बभूव, तासु रेतः प्रसिञ्चत् ( श० ब्रा० २|१|१|५ )। अग्निर्वै वरुणं ब्रह्मचर्यमागच्छत् प्रवसन्तं तस्य जायां समभवत् ( मै० सं० १|६|१२)। अकर्मकः खल्वपि--प्रजावती पत्या संभवेह ( अथर्व० १४|२३२) । महर्षिः संविदं कृत्वा संबभूव तया सह ( भा० आदि० १७७|४४ )। संबभूव तया सार्धं मातुः प्रियचिकीर्षया (भा० आदि० १०६|६ ) । स तथेति प्रतिज्ञाय तया समभवन्मुनिः (भा० वन० ९९|२३ ) ।

 प्रत्ययशब्दोऽमरेणाधीनादिष्वर्थेषु पठितः अनुक्रान्ताश्च तेर्था इत्थम्-- प्रत्ययोऽधीनशपथज्ञानविश्वासहेतुषु । अधीनेऽर्थे किमुदाहरणम् । राजप्रत्ययाः प्रजा इति स्वामिनः स्वकपोलकल्पितमुदाहरणम् । तेन न परितोषो विदुषाम् । इदमिह भारतस्थमुदाहरणम्-- येषां स्वप्रत्ययः स्वर्गः ( अनु०-८|३ ) । स्वप्रत्ययः स्वाधीनः ।

 अभिरूपशब्दो विद्वत्पर्यायः प्रतीतः । ततोऽभिरूपान्भीष्माय ब्राह्मणानृषिः सत्तमान् (भा० आश्रम० १४|३) । अभिरूपा विद्वांसो विपश्चितः । अभिरूप भूयिष्ठा परिषत् ( शा० १ )। अभिरूपः षट्कर्मनिरतः ( गौ० ध० २|१|४४) सूत्रे हरदत्तः ।

 निःशलाकशब्दोऽमरे विजनार्थकः स्थितः । विविक्तविजनच्छन्ननि:- शलाकास्तथा रहःरहश्चोपांशु इत्येते तत्र पर्यायाः पठिताः । अत्रार्थे अरण्ये निःशलाके वा मन्त्रयेदविभावितः (मनु०. ७|१४७)। इत्यत्र पाठः। भारते तु निस्तृणोर्थेऽस्य प्रयोगः—समे देशे विविक्ते स निःशलाक उपाविशत् ( श० ३३२|१ ) ।

 करतलाभ्यां ध्वनिकरणं वक्तुंकामाः प्राञ्चः करतलध्वनिं कुर्वन्ति, करतलानि वादयन्तीत्याद्यनुक्त्वा तलान् (तलानि वा ) ददतीत्येवमाहुः । तथा च भारते प्रयोगः--ततः प्रहसिताः सर्वे तेऽन्योन्यंस्य तलान्ददुः ( वन० २३८|२४ );

 उच्चावचं नैकंभेदमित्यर्थः । उच्चावचेष्वर्थेषु निपतन्तीति निपाताः ( नि० १|४|२) इति तत्रार्थ उदाहरणम् । उदक् च अवाक् चेत्युच्चावचम् इति पृषोदरादीनि यथोपदिष्टम् (पा० ६।३।१०९ ) इति सूत्रे वृत्तिः । तत्र मुख्येऽर्थेपि प्रयोगो .भारतस्थः श्रूयताम्-उच्चावचं बलं ज्ञात्वा मध्यस्थं चापि भारत ( वि ० २९|१० )। उच्चं राजपुत्रादि । अवचं चण्डालादि । मध्यस्थं वैश्यादीति नीलकण्ठः ।

 चिञ्चनौ निपातौ सर्वनाम्ना किमादिनैव सहचरिताः प्रयोगमवतरन्तीति भ्रमः। अन्यत्रापि दृश्येते--नास्यैतां रात्रिं कुमाराश्चन पयसो लभन्ते ( आप० श्रौ० १|४|११।२) । कुमाराश्चन कुमारा अपि । तदिदं भाषितं वाक्यं . तथाचन तथैव तत् ( भा० उ० ७८|४ ) उतापवक्ता हृदयाविधश्चित् ( वा० सं० ८|२३ )। चिदप्यर्थे ।

 यमिरुपस्मे पठितः संग्रहणे रश्मिप्रग्रहणे सारथ्योपगमेपि प्रचुरं प्रयुज्यते । स्वयं यच्छ हयान्ममेति ( भा० वि० ३६।२० ) । यच्छ संगृहाण । अत एव यन्तृशब्दः क्षत्तारमाचष्टे ।

 आवश्यकार्थे. कार्यतरशब्दप्रयोगो भारते, स ग्राह्योऽवहितम्--एवं गते किं कार्यं किं च-कार्यतरं नृपाः ( कर्णं० १०|९ )।

 अकालिकशब्दस्य विलम्बासहेर्थे प्रयोगो भारते--साम्प्रतं चैव यस्कायं तञ्च क्षिप्रमकालिकम् । क्रियतां साधु संचिन्त्य ( भा० विं० २७|७)।

 बलवत्सुष्टु इति पर्यायौ पठत्यमरः । बलवदपि शिक्षितानामात्मन्यप्रत्ययं चेतः ( श० १|१ )। सुष्टु शिक्षितानाम् इत्याह । वसामेहापरां रात्रिं बलवान्मे परिश्रमः ( भा० वि० ५|६)। बलवान्मेऽध्वखेद इत्यर्थः।

 प्राचीनप्रतिचीनशब्दौ विशेषणे नपुंसकैकत्वेपि प्रयुज्येते : भिन्नलिङ्गवचनेपि विशेष्ये सति । तद्यथा प्राचीनं ग्रामादाम्राः ( भाष्ये )। प्राचीनं हिं धिष्ण्येभ्यो देवानां लोकाः प्रतिचीनं मनुष्याणाम् ( गो० ब्रा० उ० २|१७ )।

 वशशब्दः स्वतन्त्रा प्रकृतिरायत्तार्थको दृष्टः । कामक्रोधौ वशौ यस्य तं देवा ब्राह्मणं विदुः ( भा० बन० २०६|३५ ) । समासोत्तरपदं तु प्रसिध्यतितराम्— सर्वे परवशं दुःखं सर्वमात्मवशं सुखम् ( मनु०.४i१६० )।

 अवश इतिं परवशः परतन्त्र इत्यनेन समानार्थक: प्रचुरं प्रयुज्यते । कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणै: इति गीतासु ( ३|५ )। स्वतन्त्रेऽर्थेपि प्रयोगो भारते–विशन्ति चावशाः पार्थ योगाद् योगबलान्विताः (भा० शां० ३००|२४ )। नियते निश्चिते ध्रुवेर्थेपि मुद्राराक्षसे ( ६|६ )—किमस्य भवतो यथा सुहृद एव नाशोऽवशः

 आत्मशब्दः शरीरवचनोपीति न न विदितम् । आध्यात्मिकस्तापः । शारीर इत्यर्थः । श्रीरामायणे व्यक्तमारमशब्दः शरीरपरः प्रयुक्तः । तद्यथा—नृणां शतानि पञ्चाशद व्यायतानां महात्मनाम् ( १|६७|४) । महात्मनां हृष्टपुष्टशरीराणामिति कतकः। स ददर्श महात्मानं किरीटिनं । कुम्भकर्ण मंहाबलम् (रा० ६|६७|१३६)। महात्मानं महाकायम् ।

 नेदिष्ठ इति समीपतममाहेति नाविदितम् ॥ इनिप्रत्ययान्तस्तु नेदित्रिंशब्दो न सर्वस्य विदितः, स वेद्यते । .यदि दोक्षितानां कश्चिप्रमीयेत तस्य यो नेदिष्ठी स्यत्तमुपदीक्ष्य ( ता० ब्राह० ९।८।९)। नेदिष्ठी निकटौ बन्धुः ।

 अवारितमित्यनिरुद्धं भवति मुख्यया वृत्या । अनारतमविरतमिति तु गौण्या । तथा च प्रयोगाः प्रथन्ते--अवारितम् । अश्रु प्रववृते ( कथा० १३|१२६ )। निदाघकाले पानीयं यस्य तिष्ठत्यवारितं (भा० अनु०.६५|६ ) दीयतां भुज्यतां चेष्टं दिवारात्रमवारितम् ( भा० अनु० २६८६ )। निरन्तरमनन्तरायमेित्यर्थः ।

 असङ्गशब्दाऽसङ्गो वै पुरुष इत्यादिषु प्रसिद्धः प्रसिद्धार्थश्च । निष्प्रत्यूहं निरवग्रहमित्यर्थे क्रियाविशेषणं चापि व्यवह्रियते । तद्यथा—विलयमीयुरसङ्गमुपद्रवाः (अवदा० जा० १०|२७ ) ।

 भूतपूर्व इति पूर्वे भूतः पूर्वे यादृशोऽभूदिदानीं ततोऽन्यादृश उच्यते प्रायेण । आढ्यो भूतपूर्वः। इदानीमनाढ्य इत्यर्थः । नष्ट इत्यनेन समानार्थकोपि दृष्टः । बान्धवाः भूतपूर्वाश्च तत्र वासे तु का रतिः ( भा० आदि० १५७|२८)। भूतपूर्वा नष्टा इत्यर्थः ।

 सतत्त्वं हि तत्त्वेन समानार्थम् । सहशब्दोऽनर्थक उपजनः सन्नपि व्यवहारेणाभ्यनुज्ञायते । विदितात्मसतत्त्वस्य नेह नानास्ति किंचनेति स्मृतिः ।

 अर्थितेत्यर्थिनो भावो भवति । क्वचित्वतलावपि कर्मणि दृश्येते । इहार्थितेति प्रयोजनमाह--पप्रच्छागमनेऽर्थिताम् (भा० आदि०.११२|४)।

 अन्तरेणेत्यव्ययं विनार्थे मध्यार्थे च प्रसिद्धम् । मामन्तरेण किन्नु चिन्तयति गुरुः, मद्विषय इत्यर्थः । अश्वस्य मेध्यस्य शिरो निकृत्तं न्यस्तं हविर्धानमिवान्तरेण (भा० द्रोण० १४३।७१)। अत्रान्तरेणेति साक्षान्मध्यवाचि । हविर्गृहस्य मध्येऽभ्यन्तर इत्यर्थः ।

 बहुशब्द एकवचनेपि दाशतये-नृम्णानि कृण्वन् बहवे जनाय (ऋ० १०|१०२|८) । बहुभ्यो जनेभ्य इत्यर्थः ।

 अनन्तरायमित्यविध्नं भवति । निरवशेषमप्याह-ये चैवावमा ये च परमा -ये च मध्यमास्तान् सर्वाननन्तरायं प्रीणाति ( ऐ० अ० १३१३ )। कमप्येकमनवशेप्याऽपरित्यज्येत्यर्थः ।

 बन्धनं बन्धो भवति बन्धनस्थांनमपि काराख्यंम् । बन्धनानि च सर्वाणि राजमार्गे निवेशयेत् ( मनु० १|२८८ )। बन्धेनानिं काराः।  कृतकृत्यः कृतार्थो भवति यं सिद्धार्थ इत्याहुः । फलवत्प्रवृत्तिः कृतकृत्य इति व्यक्ततरमुच्यते । कृतकृत्याः पुनर्वर्णा यदि वृत्तं न विद्यते (भा० वन० १८०|३६ )। येषां कर्तव्यं नास्ति नावशिष्यते, शूद्रसधर्माणस्ते भवन्तीत्यर्थ इति नीलकण्ठः ।

 तदस्य द्वितीयं जन्मेत्यर्थे स यद् यजते तद् द्वितीयं जायते ( शं० ब्रा० ११।२।१।१) इत्येवमपि व्यवहरन्ति । तस्यां नोऽप्यसत् (श० सं० १२|३|५|१)। तस्यामस्माकमपि भागोस्त्वित्यर्थे वचनम् । भागादिशब्दपरीहारो व्यवहारमनुरुन्ध इत्याद्दत्यो नः ।

 गमनीयशब्दव्यवहारोपि शिष्टशीलितोऽवगन्तव्यः । कुण्डलाभ्यां वियुक्तोहं वर्मणा सहजेन च । गमनीयो भविष्यामि शत्रूणां द्विजसत्तम ( भा० वन० ३२०|१२ )। अरीणामासाद्यो भविष्यामि, तद्रोचरे पतिष्यामीत्यर्थः । तपोवनविरोधिनो विकारस्य गमनीयास्मि संवृत्तां ( शा ० १ )। विंकारेणाक्रान्तास्मीत्याह ।

 किंशन्दः कुत्सायां प्रथते । स किंसखा साधु न शास्ति योऽधिपम् ( कि० १|५) । अत्र समासगतः किंशब्दः कुत्सितवचनः, अन्यत्र साक्षात् कुत्सामप्याह । तत्र किं प्रतिभाति मे (भा० वन० २०८|२५) । तत्र जीववधेन प्राप्ये मांसे.मे कुत्सा निन्दा प्रतिभाति, ततो.जीवान्न हन्मीत्याह ।

 क्षणिकशब्दः सर्वस्य विदितः क्षणस्थायिवचनः । क्षणिशब्दोप्यस्ति ततो भिन्नार्थः । तं विश्रान्तं शुभे देशे क्षणिनं कल्पमच्युतम् (भा० सभा० १३|४५)। क्षणिनं सावसरं निर्व्यापारं स्थितम् ।

 मनुषीशब्दस्य स्त्रीलिङ्गस्य प्रयोगः शतपये--तस्मादिमा मनुष्यः स्त्रिय- स्तिर इवैव पुंसो जिघत्सन्ति इति ह स्माह याज्ञवल्क्यः (श० ब्रा० १|९|२|१२)। मनुष्यजातावुत्पन्ना मनुष्यः ।

 द्वारे नियक्तो दौवारिक उच्यते । द्वारमस्यास्ति रक्ष्यमित्यर्थे इन्यन्तो द्वारिशब्दोऽप्यंस्ति यस्तात्पर्यतो दौवारिकमाह--द्वारिणं तपसा ऊचू राजानं च प्रकाशय ( भा० आदि० १२६१० )। इत्यत्र भारते यथा ।

 अन्तरमिति नानार्थम् । एतदधिकृत्य किञ्चिदुक्तमधस्तात् । अन्यत् किञ्चि- दुच्यते । अन्तरमंन्तरात्मन्यपि वर्तते तद्यथा-- इत्यादि मन्त्रिणां वाक्यं न लेभे तस्य चान्तरम् ( कथा० ४०|५५ )। अन्तरात्मानं न प्राप, हृदयङ्गतं नाभूत् , चेतसि पदं न करोदित्यर्थः। छिद्रेपि वर्तते--हनुमतो वेत्ति न राक्षसोऽन्तरम् । न मारुतिस्तस्य च रक्षसोऽन्तरम्(रा० )।  }अञ्जलिदानं हि परित्यागो भवति । यस्मा अञ्जलिदीयते स विसृज्यत इत्याचारः । सूरिभिः संभृतश्रुतैः। नाञ्जलिर्दीयते जातु मानाय च गुणाय च ( राजत० ३।१३२) । मानं च गुणं च न कदाचिज्जहतीत्याह !

 वंशशब्दो नानर्थः । आह च मेदिनीकरः--वंशः पुंसि कुले वेणौ पृष्ठावयव- वर्गयोः । तत्र वर्गे समूहेऽर्थे प्रयोगः प्रदर्श्यते —रथवंशेन कदनं शत्रूणां वै करिष्यति ( भा० उ० १६४|४)।

 उक्तः प्रकीर्णकाविकरणे शेषः । अन्यत्रापि पूर्वार्द्धे शेष इष्यते वक्तुमिति स उच्यते ।

  पृ० ५ । अस्तिना वाक्योपक्रम इत्यत्रोदाहरणान्तराणीमानि संग्राह्याणेि-- अस्ति सिंहः, प्रतिवसति स्म ( पञ्चत० ४ ) । अस्त्यत्र नगरे— त्रयः पुरुषा देवस्य श्रियं न सहन्ते ( मुद्रा ० १, ५ )। अस्ति,पूर्वमहं व्योमचारी विद्याधरोऽभवम् ( कथा० २२|५६ ) । इहोदाहारणेष्वस्तिरिति प्रतिवसतीत्यादिना नान्वेति आनर्थक्यात् । अस्तीति इदमस्ति एतदस्तीति वाक्यस्यैकदेशः संक्षेपस्य कृते कृतः ।

 पृ० ९ । प्रत्ययमात्रकृतो लिङ्गभेद इत्यस्यापरमुदाहरणं पठ्यताम् –पापा ( पापा स्त्री ) कृपापात्रतरा न (अवदा० जा० २१ )।

 पृ० १६ । गृघेरकर्मकत्वेऽन्यदुदाहरणमभ्युच्चीयताम्-- राज्ये गृध्नन्त्यविद्वांसो ममत्वाहृतचेतसः ( वि० पु० ६|७|७ ) । गृध्नन्ति = गृध्यन्ति ।

 पृ० १९ । कृश्यतेरकर्मकत्व इदमपरमुदाहरणं शातपथम्-मांसान्येव मेद्यतो मेद्यन्ति मांसानि कृश्यतः कृश्यन्ति (११|१|६।३४)।

 पृ० २० । जहातेः स्वार्थे णिचीदमपरमुदाहरणं भारतस्थं ग्राह्यम्- शक्तिं न हापयिष्यन्ति ते काले प्रतिपूजिताः ( वन० ३७|८) ।

 पृ० २०। विवक्षातः कारकाणि भवन्तीत्यस्य निदर्शनभूतोऽयमपि शातपथः सन्दर्भःपठ्यताम्-- वेत्थ नु त्वं काप्य तत्सूत्रं यस्मिन्नयं च लोकः परश्च लोकः सर्वाणि च भूतानि सन्दृब्धानि भवन्ति । वायुना वै गौतम सूत्रेणाय च लोकः परश्च सर्वाणि च भूतानि सन्दृब्धानि भवन्ति(श० ब्रा० १४|६|७|२, ६) । इह वाक्ययोः.समानाभिधेये विभक्तिभेदो विवक्षामात्रनिबन्धनः ।

 पृ० २३ सम्प्रदाने सप्तम्या उदाहरणे इमे अपि संग्राह्वे-नादेयं ब्राह्मणेष्वासीद् यस्य स्वमपि जीवितम् (भा० कर्ण० ९४|४६) । निक्षेपोपनिधी नित्यं न देयौ प्रत्यनन्तरे ( मनु० ८| १८५ )।

 पृ० २४ । लभेर्ण्यन्तस्य द्विकर्मकत्व इदमुदाहरणान्तरं भारतस्यम्– विजितो बाहुयुद्धेन देहभेदं च लम्भितः (सभ० ४४|११) ।  पृ० ३१ । शेषे षष्ठ्या इदमपरमुदाहरणं , ब्राह्मणे-- तस्माद्य एव पिता पुत्राणां सूर्क्षति स श्रेष्ठो भवंति( गो० ब्रा० उ० ३|९ ) । सुर्हति आद्रियते ।

 पृ० ३२ । तृप्तार्थकपदयोगे.करणत्वशेषविवक्षायां षष्ठ्या उदाहरणान्तरम्-- मधोश्चकानश्चारुर्मदाय (अथर्व० २।५।१ )। चक तृप्तौ ।

 आशितस्तृप्त उच्यते तत्प्रयोगेऽपि करणे शेषत्वेन विवक्षिते षष्ट्या उंदाहरणान्तरम्--मेदोमज्जास्थिरक्तानां वसानां च भृशमाशिताः (भा० सौप्तिक० ८|१३९) ।

 पृ० ३३ । उपपदमन्तरेणापि तद्योगशिष्टाया विभक्तेरपरमुदाहरणद्वय- मभ्युञ्चेतव्यम्-सप्तरात्रादितो नेतो यमस्य सदनं प्रति ( भा० आदि ४|१|१४) । सप्तरात्रभ्यन्तंर इत्यर्थः । आङो मर्यादार्थस्य त्यागः ‘मर्यादाया- स्तदन्तराप्यवगतेः । तस्य सप्तरात्रात्तुं ब्रह्महत्या भविष्यति (वि० पु° ३|५|३) ।

 पृ० ३३ । पूर्णशब्दप्रयोगे करणत्वाविवक्षायां शेषे षठ्या -अपरमुदाहरण- द्वितयम्-भगस्य नावमारोह पूर्णाम् ( अथर्व० २|३६|५ )। बिभ्रत्कमण्डलुं पूर्णममृतस्य समुत्थितः ( वि० पु० १९९८) ।

 पृ० ३७ । यं कालमारभ्य क्रियाद्यापि प्रवर्तते तत्रारभ्यप्रभृत्यादिप्रयोगा- भावे द्वितीयाया व्यवहारस्याभिव्यक्तमुदाहरणान्तरम्--भर्तुर्नियोगाज्ज्येष्ठस्य संवत्सरमिदं व्रतम्चरामि ( भा० वि० ४५|१४) । अत्रात्यन्तसंयोगे द्वितीया वेदितव्या यथाऽन्यत्र ।

 पृ० ३८ वाक्यभेदे सत्यष्यत्यन्तसंयोगे कालात्प्रथमा साध्वी । कः कालस्त्वामन्विष्यामि (स्वप्न० .३ )। अनत्यन्तसंयोगेऽपि-कः कालो विरचितानि शयनासनानि (अवि० ३ )। क्तेन क्तवतुना वा क्रियोक्तावपि षष्ठीप्रयोगे तथैव-- कः कालस्तस्येतः प्रस्थितस्य

 पृ० ४०। तिङन्तेन समानप्रकृतिकस्य सविशेषणस्य कर्मणः प्रयोगो न दोषायेति प्रमाणीकुर्वद् उदाहरणान्तरम्-श्रेष्ठं सवं सविता साविषन्नः ( ऋ० १|१६४|२६) । सर्ववेदाः स येनोष्टो यज्ञः सर्वस्वदक्षिणः ( अमरः)। यष्टुकामो महायज्ञम् (रा० १|५७|१७)। अश्वमेधादयो यज्ञास्त्वयेष्टाः (मार्क० पुं० १|५|५४ )। क्वचिद्विशेषणविरहेपि तथाविधं कर्म न विरुन्धन्ति व्यवहारेण वित्ताः । उषितः स्मों वने वासं प्रतिकर्म चिकीर्षवः ( भा० वि० ५८|१८) ।

 पृ० ४५ । उद्देश्यविधेययोरेकत्वमापादयतोः सर्वनाम्नो र्लिङ्गविमर्श इदमपर- मुदाहरणमौपयिकम्-एतद्वै सर्वं तपो यदनाशकः ( श० ब्रा० ९|५|१|९ )। यच्छब्देनोद्देश्यपरामर्शकेन विधेयस्य लिङ्गग्रहः ।  पृ० ४५ ! विधेयप्राधान्याद् विधेयस्य लिङ्गग्रहे युक्तमुदाहरणान्तरम्-- वृकोदरस्यैष परिग्रहोऽग्र्यः( भा० आश्रमः २५|१२) परिग्रहः पत्नी ।

 अत्रापि व्यवहारेऽवधेयम्-वक्तुं नायाति राजेन्द्र एतेयोर्नियमस्थयोःअर्वाङ् निशीथात्परतस्त्वया सार्धं वदिष्यतः (भा० सभा०, २१|३३) । एतयो- र्वक्तुं नायातीत्यस्मिन्वाक्ये तुमुन्नन्तं वक्तुमिति पदं कर्तृ | वचनं भाषणं नायाति न संभवतीत्यर्थः । कस्य वचनमित्याकाङ्क्षायामाह--एतयोरिति । नियमस्थयो र्व्रतं चरतोः ।

 चुद संचोदने चुरादिः । संचोदनं प्रेरणं भवति । ततोऽन्यत्र पृच्छायामपि वर्तते । मानार्थो हि धातव इति । तद्यथा—किन्तु कार्यगरीयस्त्वात्ततस्त्वामहमचूचुदम् ( भा० आदिं० ४८|६ ) ! तथा च तद्राजसूत्रे भाष्यकारप्रयोगः -- अहमपीदमचोद्यं चोद्य इति ।

 औपचारिकेषु प्रयोगेषु कतिपयानीमान्यन्तः करणीयानि प्रयोगान्तराणि स्वस्य बन्धस्य चारुत्वं चिकीर्षद्भिः। यज बीजैः सहस्राक्ष त्रिवर्षपरमोषितैः ( भा० आश्व० ९१|१६ )। उषितः कृतकालपरिवासः क्वचिदवस्थित उच्यते मुख्यया वृत्या, पुराण इति तु गौण्या । चिरोषितोऽगाधजलो जलाशयो ह्रद उच्यत इत्यत्र चेतनधर्मे वासो जलाशय आरोप्यते ।

 पार्थान्हनिष्यामि ममैष भारः ( भ० उ० ६२|६ ) भारः साध्योऽर्थः । काये भारत्वारोपः। दृष्ट्वा तु सैन्धवे भारमतिमात्रं समाहितम् ( भा० द्रोण० ४७|५) । भारो हि वोढारमुपपीडयतीति विषमस्थ आहितभार” उच्यते उपचारेण ।

 निर्ममा निष्प्रतिद्वन्द्वा निर्ह्री का निष्प्रयोजनाः ( भा० अनु० ३१|१८ )। निर्ह्रीका इति दिगम्बरा उच्यन्ते । स निह्नको यस्यापत्रपा नास्ति । नग्नस्यार्हतस्यापि च सा नास्तीति साधर्म्यान्निर्ह्रीकशब्देन स उच्यते ।

 आश्चर्यतो वर्षति तत्र देवः (भा० शां०.७३|१५) आश्चर्ये विस्मयो विस्मयनीयो वार्थ उच्यते । स चानित्यः कादाचित्को भवति । अत एवाचार्येण आश्चर्यमनित्ये (६|१|१४७) इति सूत्रेणानित्येर्थे आश्चर्यमिति निपातितम् । विस्मयो भवतु मा वा भूद्यत्कदाचिदेव भवति तदाश्चर्यमित्युच्यते । तथा च प्रकृते प्रयोगः ।

 अस्ताभिलाषिणि दिने (राजत० ८|४६५ )। प्रवाताभिलाषी प्रदोषः ( राजत० ८|४६७ ) । इहोभयत्र प्रयोगे इच्छारूपचेतनधर्मो दिने प्रदोषे चारोपितः । अयमेवोपचारः । अस्तंगतप्राये सवितरि, वास्यन्मंन्दसमीरं रजनीमुखम् इत्यर्थः।  क्लिष्टं हि मुख्यया वृत्याऽऽर्त उच्यते यश्च ग्लानो मलिनश्च लक्ष्यते । तत्साधर्म्यादक्लिष्टोऽप्यनार्तोपि मलिनों मलदूषित: क्लिष्ट इत्युच्यत उपचारात् । न भाति वाससि क्लिष्टे रङ्गयोग इवाहितः (सुश्रुते २|१५७|८)।

 करोतिना सर्वधात्वर्थानुवादः क्रियत इत्यधिकृत्य शास्त्रौघात्संकलितैरुदाहरणैः करोतेरर्थनानात्वं सम्यक स्फोरितम् । तथापि कालान्तरे समुपलब्धाभ्युदाहरणान्तराणि कतिपयानीह संनिधाप्यन्ते--   तथा कुरुष्व भद्रं ते मा च शोके मनः कृथाः (रा० १|१९|१९)। मा कृथाः = मा आधिथा। मा स्म शोके मनः कृथाः ( रा० ३|६१|१९ ) । उक्तोऽर्थः । अवरं स्वाहाकारं करोति परां देवताम् (श० ब्रा० १४|१|३|२६) । पूर्वे स्वाहेति पठति ततो देवतानामधेयमुच्चारयतीत्यर्थः । इह. करोतिरुच्चारणे वर्तते । यन्तुर्वाक्यकरैर्हयैः (भा० द्रोण० ३७|२२)। इह करोतिरनुवर्तने वर्तते । उपाध्यायमधः कृवा (भा० अनु० ९३|२३ )। इह करोतिरासने उपवेशने वर्तते । अकरोत्स ततः कालं शरतल्पगतो मुनिः ( भा० आश्व० ६०|१२ ) । अकरोत् अक्षपयेत् , अनयत् । ततोऽस्याः स्वागतं कृत्वा व्यादिश्य च वरासनम् (भा० शां० ३२०|१४ )। अत्र करोतिर्व्याहरणे वर्तते ।

इति प्रथमोऽनुबन्धः ।

अथ द्वितीयोऽनुबन्धः।

 पर्यायवचनानि कानिचिदिह पूर्वार्धेऽनुकान्तानि व्याकृतानि च । तावद्भिरपरि तुष्यन्तो वयमपराण्यभ्युच्चिन्मोऽल्पानि ।

 योधास्ते महाराजन्क्रोधामर्षसमन्विताः ( भा० द्रोण० १८७|४० )। ततो दुर्योधनस्यासीन्नकुलेन समागमः । अमर्षितेन क्रुद्धस्य क्रुद्धेनामर्षितस्य चं ( भा० द्रोण० १८७|५० )। अत्र दुरुन्नयो विशेषः । यदुक्तं पुरस्तात् क्रोधः कृतापराधेषु स्थिरोऽमर्षत्वमश्नुत इति तदिहाप्यवितथं भाति ।

 उपायनप्राभृते तुल्याभिधेये मते । तत्रापि , विशेषोस्ति । स उच्यते । ठपायनं ढौकनिका स्वयमानीयते । प्राभृतं कौशलिका सखिभिः प्रहीयत इति सङ्केतकृच्छङ्करः ( हर्ष० ३ )।

 कीर्तिर्यंशं इति पर्यायौ । कीर्तिविषये नाना पश्यन्ति व्याख्याकराः। मृतस्य ख्यातिः कीर्तिरिति यत्कुल्लूकेनोक्तं तद्भारतवचनेन संमर्थनां लभते इति तदुपन्यस्यामः-- मृतस्य कीर्तिर्मर्त्यंस्य यथा माला गतांयुषः (वन० ३०१|७) । अन्यत्र भारते ( आदि० २०३|१० ) जीवतः प्रख्यातिः कीर्तिरित्यभिप्रायकं वचो लभ्यते--नष्टकीर्तेर्मनुष्यस्य जीवितं ह्यफलं स्मृतम् इति । तेनात्र विषये प्रयोक्तारो व्याख्यातारश्च. समं व्यामुग्घा इति सुवचम् ।

 अद्यत्वे बाणविशिखौ पर्यायतां गतौ दृश्येते । पुरा विशिख इति बाण- विशेषणमभूदिति निदर्शयते--ससर्ज बाणान् विशिखान्महात्मा ( भा० कर्ण० ८५|३६ ) ।

 प्रीतिहर्षावधिकृत्य किञ्चिदुक्तमधस्तात् । भूयोपि प्रीतिंहर्षानन्दान्यथा भारतभावदीपं प्रविविञ्च्महे । प्रहर्षः प्रीतिरानन्दस्त्रयंस्ते सात्विका गुणाः ( भा० आश्वं° ३१|१ )। इष्टप्राप्तिनिश्चये यत्सुखं तत्प्रहर्षः। इष्टप्राप्तौ यत्तत्प्रीतिः । इष्टभोगे यत्तदानन्द इति नीलकण्ठः । संयुक्ता: काममन्युभ्यां क्रोधहर्षसमञ्जसाः (भा० शां० ७|२० । इत्यत्र हर्षों लाभे सत्युत्फुल्लतेति च सः । यथोक्तवचनं प्रीतौ हर्षयुक्तौ द्विजोत्तमौ ( ० २।३।२२ ) । प्रीतिर्मनस ‘आनन्दः । तदुन्नायको मुखविकसादिहर्ष इति तिलकः । गतो राम इति श्रुत्वा हृष्टः प्रमुदितो नृप- (रा० १|७७|५ )। हर्षस्याधिकवस्था प्रमोद इति च सः।

 अपश्यायस्तु नीहारस्तुषारस्तुहिनं हिमम् इत्यमरे पर्यायाः परिपठिताः । सान्तर इमे | अदूरविप्रकर्षातु पर्यायत्वम् । तुषारनीहारवृतं यथा नभः (भा० कर्ण० ८९|९३ ) । अत्र तुषारनीहारयोः समभिव्याहारात् पर्यायत्वं विघटते । तुषारः सूक्ष्माः पयोदपृषताः। नीहारो हिभावरणम् ।

 नगौकोवाजिविकिरविष्किरपतत्त्रय इति पक्षिपर्यायेष्वमरः । तेन तस्य विकिरविष्किरौ पर्यायावभिमतौ । संकुसुको विकुसुको विकिरो यश्च विष्किरःभाषाज्येन नलेध्मेन क्रव्यादं शमयामसि ( ) इत्यत्र युगपत्पाठान्नैतौ पर्यायावित्यवसायः ।

 सरस्तटाकौ पर्ययाविति लोकः प्रतिपन्नः, परमिमावपि नात्यन्ताय निर्विशेषौ । कौटलीयेऽर्थशास्त्र एतयोः संम्पाठदर्शनात्--हृदस्य वाऽविशेषस्याङ्गे सरसस्तटाकस्य व पण्यपुटभेदनमंसवारिपथाभ्युपेतं कारयेत् ( २|२|२१ )। तत्र हृदस्तु सदाजलोऽगांधजलो वेति प्रसिद्धः । तटाक इह पद्माकरवचनः । सरः- शब्दो जलाशयसामान्यमाह । तटाकविषये शब्ब्दार्थाचिन्तामणाविदं स्थितम्— प्रशस्तभूमिभागस्थो बहुसंवत्सरोषितः । जलाशयस्तडागः स्यादित्याहुः शास्त्रकोविदाः ॥

 यवागूरुष्णिका श्राणा विलेपी तरला ‘च सेत्यमरः पठति । अस्ति चैषां विशेषः । आह च-सिक्थैर्विरहितो मण्ड़: पेया सिक्थसमन्विता । विलेपी बहुसिक्था स्याद् यवागूर्विरलद्रवा ।||इति

 उल्वजरायू पर्यायाविति विभ्रमन्ति केचित् । यथा उल्वमित्यनवगमः जरायु इत्यवगमः ( नि०.६|३५)। इति दुर्गः । तन्न । उत्तरं वा उल्वाज्जरायु इत्यै- तरेये ( ऐ० ब्रा० १|३ ) भेदस्य स्फुटमुक्तत्वात् । भेदे प्रयोगश्च—-मेरुरुल्वमभृतस्य जरायुश्च महीधराः ( अमरटीकायां सर्वानन्दः ) । षड्गुरुशिष्योपि स्फुटतरं भेदमेतयोराह–उल्वेन वेष्टितो गर्भस्तञ्जराय्वभिवेष्टितम् इति । शतपथे (३|२|१|११) अन्तरं वा उल्वं जरायुणो भवतीत्यत्र व्यक्ततरो भेदः ।

 दर्वीः कम्बिः खजाका चेत्यमरे पाठःखजां च दर्विं च करेण धारयन् ( भा० वि० ८|१ ) इति खजादव्यः सम्पाठदर्शनान्नैते अत्यन्तमेकार्थिके । इत्थं च ते भिनत्ति नीलकण्ठः --खजा मन्थनदण्डः, हस्ताकारः पिष्टविकारप्रम थनार्थो वा दण्डः। दवीं शाकादिपरिवेषणार्था । व्यञ्जनाद्यवघट्टमकाष्ठम् । सूपादिपरिवेषणार्था लौहमयी खजा । कटाहादन्ननिः सारणार्था दवीति भेद इत्यर्जुनमिश्रः ।

 दीप्तिकान्त्यादिविषये किञ्चिदुक्तमधस्तात् । तत्र दर्पणकारस्य.कान्तिरेवाति- विस्तीर्णा दीप्तिरित्यभिधीयते ( सां० द० ३|१३१) इति वचोपि भेदनिर्ज्ञानाय ग्राह्यम् ।  रोषक्रोधौ विविञ्चद्भिरस्माभिः किञ्चिदुक्तं तत्रोज्ज्वलाकारस्य हरदत्तमिश्रस्य वच उपकारकमादेयम्-रोषः क्रोधस्यैव कियानपि भेद्रो मित्रादिषु प्रतिकूलेषु मनसो वैलोम्यमात्रकार्यकरः ( आप० ध० १|२३|५ )।

 अश्रुबाष्पयोभेदमधिकृत्य यदुक्तमधस्तात्तत्रेदं भूयो वेद्यम् । श्रीरामायणेऽ- न्यत्रैतयोरभेदेनापि प्रयोगः श्रितः -कौसल्या ध्यसृजबाष्पं प्रणालीव नवोदकम् ( २|६२|१० ) ।

 असुप्राणयोर्भेदमभ्युपयन्त्यृषयः । तथा. चाथर्वसंहितायां शौनकीयाः पठन्ति--प्राण प्राणं त्रायस्वासो असवे मृड ( अथर्वं० १९|४४|४)।

 तन्द्रालस्ये पर्यायाविति प्रतिपन्नप्रायम् । याज्ञवल्क्ये ( ३|१५८) तन्द्रालस्यवर्जनमिति स्मर्यते । अवश्यं भेदोभिप्रेतः स्मृतिकारस्य । शब्दस्पर्शादिविषयेषु श्रोत्रादीन्द्रियाणां प्रवृत्तिनिरोधस्तन्द्रा निद्रानुकारिणीआलस्यमनुत्साह इति मिताक्षरायां स भेदः उक्तः ।

 मार्गाध्वपन्थानोऽमरे पर्यायाः परिपठिताः। परं दाशतये साहचर्येण पाठात्पथ्यध्वनोर्भेदो वसीयते । वेत्था हि वेधो अध्वनः पथश्च देवाञ्जसा अग्ने यज्ञेषु सुक्रतो (ऋ० ६।१६३ ) । तत्राध्वनो महामार्गान्, पथः क्षुद्रमार्गानित्येवं भेदं व्यनक्ति सायणः ।

 वर्तनिपन्थानावपि भिद्येते । भेजे पंथो वर्तनिं पत्यम।नः (ऋ० ७|१८|१६ )। वर्तनिः पलायनमार्ग इति सायणः ।

 स्युर्मौहूत्तिकमौहूर्तज्ञानिकार्त्तान्तिका इत्यमरे दैवज्ञपर्यायाः पठिताः । तेषां कार्तान्तिकनैमित्तिकमौहूर्तिकव्यञ्जनाः (कौ० अ० १|१३|९ )। कार्तान्तिक़दीनां मिंथो भेदमित्थमुद्भावयति गणपतिः शास्त्री-कृतान्तो दैवं पूर्वकर्म तद्वेदिनः कार्तान्तिकाः । शुभाशुभशकुनज्ञा नैमित्तिकाः । त्रिकालावृत्तज्ञा मौहूर्तिकाः ।

 कोपक्रोधौ विवेचितौ । तत्र ततः कोपसमाविष्टो विश्वामित्रो महामुनिःस्त्रुवमुद्यम्य सक्रोधः( रा० १|६०|१२ ) इति रामायणीयं वचनं व्याचक्षाणस्तिलककार आह--कोपस्यैवाधिकावस्था क्रोधः। तदिदमुक्तपूर्वस्योपोद्वलकम् ।

 गर्वाभिमानादिविषये किंचिदुक्तमधस्तात् । अभिमानविषये इदमधिकं ज्ञेयम्-अभिमानो नामात्मन्यविद्यमानगुणारोप इति ।

 सभासमाजैौ पर्यायाविति सम्प्रतिपन्नो लोकः । तावपि सान्तरौ । सभाः समाजांंश्चागन्ता ( आप० ध० १|१|३|१२) । द्यूतादिस्थानं सभा, उत्सवादिषु समवायः समाज-इति हरदत्तष्टीकाकारः ।  वनकानने अपि भिन्नार्थके । ततो बहून्यपश्येतां काननानि वनानि च ( हरि० २|२८|७० )। काननान्यरोपितवृक्षाणि । वनानि रोपितवृक्षाणीति नीलकण्ठः ।

 श्रेणिगणयोर्भेदः । श्रेणीनां च गणानां च मञ्चा भान्त्यचलोपमाः (हरि २|२९|५ )। श्रेणीनामनेकजातीनामप्येकशिल्पोपजीविनाम् । गणानामेकजातीनाम् इति नीलकण्ठः।

 प्रोक्षणाभ्युक्षणावोक्षणानि भिद्यन्ते । तथा च गृह्यासङ्ग्रहे भाष्ये (१|१०३ ) प्रोक्षणादय इत्थं विविच्यन्ते--उत्तानेनैव हस्तेन प्रोक्षणं समुदाहृतम् । न्यञ्चताऽभ्युक्षणं प्रोक्तं तिरश्चाऽवोक्षणं मतम् इति।

 विवाहश्वोद्वाहश्चैकार्थाविति प्रायोवादः । विशिष्येते ह्येतौ । कन्यसंस्कारो विवाहः। वरसंस्कार उद्वाहः ( लौ० गृ० २५|१९ इत्यत्र देवपालः )।

 अस्ति पताकाध्वजयोर्भेदः । श्रीमद्भागवते चित्रध्वजपताकाग्रैरन्तः प्रतिहतातपम् ( १|११|१३ ) ।अत्रोभयोः साहचर्येण पाठः पर्यायत्वं वारयति । गरुडादिचिह्निता ध्वजाः । जयप्रदयन्त्राङ्किताः पताका इति श्रीधरः। पताका वैजयन्ती स्यादिति ब्रुवन्नमरोप्यत्रानुकूलः ।

 स्युर्मागधास्तु मगधा वन्दिनः स्तुतिपाठका इत्यमरे पाठः। चत्वार एकार्था इत्येक इति स्वामी । नटनर्तकगन्धर्वाः सूतमागधवन्दिनः (भा० पु० १|११|२०) । तत्रैतानित्यं विविनक्ति श्रीधरः--सूताः पौराणिकाः प्रोक्ता मागधा वंशशंसकः । वन्दिनस्त्वमलप्रज्ञाः प्रस्तावसदृशोक्तयः ॥ । इति ।

 उपसर्गमात्रेण भिन्नावृद्धिसमृद्धिशब्दौ कलया भिन्नार्थाविति हरिवंशे- ऋद्धिं सम्मृद्धिं विपुलांश्च भोगान् (१|४१|१७४) इतिं सम्पाठाद् व्यक्तिमेति । अयं चानयोर्भेदो नीलकण्ठोद्भावितः-- ऋद्धिर्धर्मफलभूता सम्पत्तिः। समृद्धियोंगैश्वर्यम् इति ।

 भेषजौषधे समानार्थे अभिमते भिद्येते नांम । औषधं द्रव्यसंयोगं ब्रुवते दीपनादिकम् । हतव्रततपोदानं शान्तिकर्म च भेषजम् ॥ ( का० सं०' इन्द्रिय० औषध० श्लो० ४ )

 कर्तनच्छेदने नात्यन्तायाभिंन्ने। केशरोमनखश्मश्रु न च्छिन्द्यान्नापि कर्तयेत् । ( ल० वि० स्मृ० ३|१० )। अत्रोभयोः साहचर्येणोक्तिरभेदं वारयति । कर्तनं विकर्तनमग्रभागस्यापनयनम् भवति । छेदनं तु लुञ्चनं मूलत उद्धरणम् ।

 अपवर्गमुक्ती नानार्थे । अपवर्गाश्च युक्तानां कैवल्यं चात्मवेदिनाम् (भा० अनु० १६|३६ )। इत्यत्र भेदेनोपादानात् । अपवर्गः क्रमंमुक्तिस्थानं ब्रह्मलोकाख्यम्।

कैवल्यं मुख्या मुक्तिरिति नीलंकण्ठः ।

अथ द्वितीयोऽनुबन्धः

 नागपन्नगौ भिन्नार्थौ। सुरसाऽजनयन्नागान् राम कद्रूश्च पन्नगान् ( रा० ३|१४|२८) इत्यत्रोभयोः साहचर्यात् । तत्रेत्थं भेदमुद्भावयति कतक-निर्विषा नागास्तदन्ये पन्नगा इति । नागा बहुफणः सर्पाः, तदन्ये पन्नगा इति तु तीर्थः।

 उद्देश-निर्देशावपि मिथो विशिष्येते । आह च कौटल्यः--समासवक्यमुद्देशः। विद्याविनयहेतुरिन्द्रियजयः । व्यासवाक्यं निर्देशः । कर्णत्वगक्षिजिह्वाघ्राणेन्द्रियाणां शब्दस्पर्शरूपरसगन्धेष्वप्रतिपत्तिरिन्द्रियजयः ( कौ० अ० १५|१|१८० )।

 आघोरणहस्तिपकौ समानार्थौ न । चिकित्सकनीकस्यारोहकाधोरणहस्तिपकौपचारिक औपस्थायिकवर्ग ( कौ० अ० २।३२।४८)। इत्यत्र तयोः समभिव्याहारात् । आधोरणः शास्त्राभिज्ञः कर्मकुशलः । हस्तिपको हस्तिरक्षी इति गणपतिः शास्त्री ।

 विधेयो विनयग्राही 'वश्यः प्रणेय'• 'इत्यादयः समा इत्युक्तममरेण । श्रीरामायणे तु त्वं तस्य भव वश्यश्च विधेयश्च सदाऽनघ ( २|३०|९ ) इति पाठो विधेयवश्ययोर्भेदंं ब्रवीति । वश्य इष्टानुवर्ती । विधेयो नियोजय इति तिलक: । वश इच्छा तं गतो वश्य इति व्युत्पत्तिरपि रूढमर्थं समर्थयते ।

 क्वचिच्छिष्यान्तेवासिनोर्भेदेनोपादानम् । याज्ञवल्क्ये व्यवहाराध्याये अभ्युपेत्यशुश्रूषाप्रकरणोपक्रमे मिताक्षरायां शिष्यान्तेवासिभृतका इति नारदवचनंमुद्धृतम् । तत्र शिष्यो वेदविद्यार्थीं । अन्तेवासी शिल्पशिक्षार्थीति विज्ञानेश्वरो व्याख्याति ।

 कूटकपटे भिन्ने । साटोपकूटकपटानृतजन्मभूमेरिति (मृच्छ० ५|३६) इत्यत्र स्थितम् । तत्र टीकाकार आह--निह्नवप्रांकट्यभेदात्कूटकपटयोर्भेद इति । निह्नुतं छलं कूटं प्रकटं छलं कपटमिति तदर्थः ।

 निक्षेपोपनिधी अपि भिद्यते कयापि कलयेति प्रदर्श्यते । असंख्यातमविज्ञातं समुद्रं यन्निधीयते । तज्जानीयादुपनिधिं निक्षेपं गणितं विदुः ॥ इति नारदवचनमुद्धृतं मिताक्षरायाम् (२|६५) । वासनस्थमनाख्याय हस्तेऽन्यस्य यदर्प्यते । द्रध्यं तदौपनिधिकं प्रतिदेयं तथैव तत् ॥ इति वचनन्तरमपि तत्रोपन्यस्तम् ।

 सदः सत्परिषद सभा च भिद्यन्ते परस्परम् । न तत्सदः सपरिषत्सभा च सा (भा० शां० २२६|१८ )|अत्र सदआदीनां सहपाठ एव' तत्र मानम् । अयमत्र विवेको नीलकण्ठप्रवर्तितः--श्रौतस्मार्तलौकिकंन्यायान्ययविवेचका जनसमाजाः सदःपरिषत्समांख्या इति ।

 पापपांप्मांनौ समानर्थाविति भ्रान्त्या साङ्कर्येण प्रयुज्येते । एवमाध्वा विपपो विपाप्मा सर्वमेनो हन्ति ( गौ० घं० ३|९|१६ ) इत्यत्रैकवाक्ये तयोः पाठादर्थभेदोऽनपलाप्यः । विहिताकरणजन्यपापहीनो विपापः, निषिद्धाचरणजन्यपापहीनो त्रिपाप्मेत्युज्ज्वलायां हरदत्तः ।

 चालनी तितउ: पुमान्, इत्यमरानुसारेण चालनीतितऊ पर्यायौ । तन्न । अस्ति विशेषस्तयोः। क्षुद्रच्छिद्रसमोपेतं चालनं तितउः स्मृतमिति कात्य इति शब्दार्थचिन्तामणिः ।  भुजिष्य इति दासार्थे पठितोऽमरेण । परं भुजिष्या सामान्या दासी न भवति याज्ञवल्क्ये (२|२९०) तयोः पार्थक्येनोपादानात् । अवरुद्धासु दासीषु भुजिष्यासु तथैव चेति तत्र स्मर्यते । पुरुषनियतपरिग्रहा भुजिष्या इति मिताक्षरा ।

 शुक्तरूक्षपरुषः समानाभिधेया नेति तेषां शुक्त रुक्षाः परुषा वाचो न ब्रूयादित्यत्र (बौ० २।३।६।२०) वाग्विशेषणत्वेन श्रवणात् । शुक्ताः शोककारिण्यः, यथाऽविघवां बिधवेति, रक्षा अविद्यमाने दोषो दोषख्यापिकाः, यथा श्रोत्रियं सन्तमश्रोत्रिय इति । परुषास्तु विद्यमाने दोषे गुणख्यापिकाः यथाऽन्धं चक्षुष्मानिति इति गोविन्दस्वामी ।

 सभासंसदौ मिथो भिन्नौ । दासोस्मीति त्वया वाच्यं संसत्सु च सभासु च' ( भा० वि० ३३|५९ ) इत्यत्र भेदेन श्रवणात् । संसद् गोष्ठी । सभा राजसभेत्यर्जुनमिश्रः ।

 सक्त्यभिष्वङ्गयोरपि भेदः स्थितः । गीतासु (१३|९ ) असक्तिरनभिष्वङ्गः पुत्रदारगृहादिष्विति पठ्यते. । तत्र सक्तिः पुत्रदौ ममतातिमात्रम् । अभिष्वङ्गस्तेन सह तादात्म्याभिमानोऽयमेवाहमितीत्येवं नीलकण्ठ एतयोर्भेदं निर्वक्ति ।

 मेघपर्जन्यावसङ्करेण स्थितौ साहित्ये । गर्जितेन च मेघानां पर्जन्यनिनदेनं च ( हरि० २|१८|१९ ) इत्यत्रोभयोः पार्थक्येन श्रयणात् । ऋग्वेदे (४|२७|२ ) यत्पर्जन्यः स्तनयन् हन्ति दुष्कृतः इत्यत्र पर्जन्यस्तननेन दुष्कृतां हननं श्रूयते तेनेवसीयते पर्जन्यः स्तनयित्नुर्ह्रादिनीयुक्तो मेघोऽभिधीयत इति ।

 पर्णशालोटजोऽस्त्रियामित्यमरे पर्यायौ । श्रीरामायणे ( २|९९|४ )। भ्रातुः वर्णकुटीं श्रीमानुटजं च ददर्श ह इत्यत्र पर्णकुट्या उटजस्य च युगपत्पाठः पर्यायत्वे विहन्ति । एवं हि तयोर्मेदमुद्भावयति रामस्तिलककारः--पर्णप्राधान्येन निर्मिता कुटी शाला पर्णकुटी । उटजं सभित्तिकवाटं दारुबद्धं गृहम् ।

 कारुः शिल्पीत्यभेदं मन्यते जनः | अस्तीह भेद इति मिताक्षरायां (३।२७) समुद्धृतेन कारवः शिल्पिनो वैद्या दासीदासास्तथैवेति प्रचेतोवचनेनोन्नीयते । तत्र कारवः सूपकारादयः। शिल्पिनश्वित्रकारचैलनिर्णेजकादय इति ज्ञानेश्वरः ।

 सूतक्षतृसंग्रहीतारः समानाभिधेयाः प्रसिद्धाः । पञ्चविंशे ब्राह्मणे (१९|१|४) अष्टौ वै राष्ट्रं समुद्यच्छन्ति राजभ्राता च राजपुत्रश्च पुरोहितश्च महिषी च सूतश्च ग्रामणी च क्षत्ता च सङ्ग्रहीता चेत्यत्रैते साकं श्रूयन्ते तेनेमे नानाभिधेयाः सिध्यन्ति ।

 तीक्ष्णनिशितावपि भिद्येते । सायकेन सुपीतेन तीक्ष्णेन निशितेन च (भा० भीष्म० ४५|४८ ) इत्यत्रैतयोः सहपाठः पर्यायत्वं विघटयति । यः शाणोल्लीढः संस्तीक्ष्णः संजातः स निशितः, अन्यस्तीक्ष्णः ।

 अभितापसन्तापावपि भिद्येते । तथा हि भेदपरस्तयोः प्रयोगः श्रीरामायणे ( २।१८|१३ )–शारीरो मानसो वापि कञ्चिदेनं न बाधते । सन्तापो वाऽभितापो वा दुर्लभं हि सदा सुखम् ॥ मूलेनैव विशेष उक्त इति नार्थो व्याक्रिययां ।

 कालान्तकयमाः पर्याया अभिमताः । परं नैतदस्ति । सान्तरा इमे । एकत्र सहप्रयोगदर्शनात् । विराधे राक्षसे तस्मिन् कालान्तकयमोपमे (रा० ३।३।१५) । इत्थमत्र विशेषं वक्ति “ तिलककारः -प्राणतनुमनः संहारप्रधानाः संहाररुद्रस्य मूर्त्तयः ! तत्सदृशे ।

 अङ्गदकेयूरयोर्विशेष उक्तः । तत्रोदाहरणान्तरं भारतस्थमुपन्यस्यते- अङ्गदैः परिहार्यैश्च केयूरैश्च विभूषितान् ( उ० १६२|१६ )। पारिहार्य आवापकः कटकः।

 निधिशेवधी पर्यायौ मतौ । पठति ह्यमरः—निधिर्ना शेवधिरिति । परमाथर्वणे (१२।३।४६ ) एतयोः साहचर्येण पाठात्सविशेषाविमावित्यवधारयामः । निधिर्न्यासो भवति शेवधिश्च भाण्डागारं कोषो वा।

 वातपवमानमातरिश्वानः पर्याया अभिमताः । परमेते मिथो भिद्यन्ते समभिव्याहारदर्शनात् । मातरिश्वा च पवमानश्च विपथवाहौ वातः सारथिः (अथर्व० १५|२|७)। मातरिश्वेति वायुसामान्यं गृह्यते । यः शोधकोऽभिप्रेतः स पवमान उच्यते । वेगेन वान्स एव वातो व्यपदिश्यते ।

 शकुनशकुनिशकुन्ताः पक्षिण समानाभिधेया अभिमताः । शकुन्तान् पक्षिणो ब्रूमः ( अथर्वे ० ११|८|८) इत्यत्र शकुन्तान् शकुनभूतान् इत्येवमर्थापयते सायणः ।

 होलज्जे समानार्थे इत्यभिमानः । भिद्यते ते परस्परम् । क्रोधादह्रीस्ततोऽलज्जा वृत्तं तेषां ततोऽनशत् (भा० वन० ९४।८) । अत्राह नीलकण्ठः--अह्रीः अकार्यं प्रवृत्तिः । ततोऽलज्जा लज्जा निन्द्यतादोषाद्भयं तस्य नाश इति ।

 क्वचितसमानार्थकानामेकत्र श्रवणे समादरं हेतुं पश्यन्ति विंवरीतारो न च तान्भेत्तुं प्रयस्यन्ति । तदपि विमर्शमर्हति । याभिः सोमो मोदते’ हर्षते च (इ० १०|३०|५ )। पुनरुक्तिरादरार्थेति सायणः । समर्थमेकं पर्याप्तं कौरवाणां -विनिग्रहे ( भा० उ० ५७|५३ ) । समर्थादयः पर्यायाः । सहप्रयोगस्तु सामर्थ्यातिशयद्योतनायेति नीलकण्ठः । अस्ति सूक्ष्मो-मेदः, तद्विभावनेऽविभवस्तेषामित्येवाचरमः पक्षः ।

 वीणावल्लकीविपञ्च्यः पर्यायाः पठिता अमरेण । भारते (अनु० ७९|२६ ) वीणानां वल्लकीनां चेति साहचर्येण, पाठदर्शनान्नियतं भिन्नार्था इमाः। भेदं तु सङ्गीतेऽभ्यन्तरा विद्युः ।

 किरीटमुकुटे तुल्यार्थके अभिमते। इदमपि चिन्त्यम् । अनेकत्र साहित्य एतयोः सम्पाठदर्शनान्नैते अस्यन्तमभिन्नार्थे इत्यवधारयामः। हारैः किरीटैर्मुकुटैरुष्णीषैः किङ्किणीगणैः ( भा० द्रो० १८७|४८)। किरीटमाला मुकुटाश्च शुभ्राः (भा० कर्ण० ९४।१९ )। किरीटापीडमुकुटैरङ्गदैरपि मण्डिताः (इरि० २|८४|१४)। किरीटी वज्रघृग्धन्वी मुकुटी बद्धकुण्डलः (भा० अनु० ४०|२९)। अत्र विवरीतारस्तूष्णीकामासते, वयमपि प्रमाणविरहे नेश्महे किमपि वक्तुमिति विरमाम।

इति पर्यायवचनविवेकेऽनुबन्धः ॥

            यद्वशे वर्तते नित्यं यदिङ्गं यच्च नेङ्गति ।
            यद्भासा भासते विश्वं कैतपूर्यश्च कीर्त्यते ॥ १॥
            यत्प्रसादात्प्रसिध्यन्ति कर्माणि दुष्कराण्यपि ।
            तस्मिन्महेश्वरे प्रह्वः कृतिमेतां समर्पये ॥२॥ ( युग्मम् )
            कृत्यामास्वादमास्वदमेतस्यां वर्तनिं नवाम् ।
            नवार्थस्यातिसन्तृप्ताः सम्प्रेष्यन्ते, विपश्चितः ॥३॥
            इति प्रत्ययितो याचे प्रश्रितस्तान् विमत्सरान् ।
            सानुग्रहं प्रवृत्तास्ते विमृशन्तु क्रियामिमाम् ॥४॥
            तावताऽऽकलयिष्येहं कृतितामात्मनः पराम् ।
            विमर्शो लब्धवर्णानां यतस्तोषं प्रसूयते ॥५॥
इति श्रीचारुदेवशास्त्रिणः कृतिषु वाग्व्य्व्ह्रादर्शो नामाऽयङ्ग्रन्थः समाप्तिमापत् ।

शुभं भूयादध्यायकानामध्यापकानां च ॥


_____

'

अशुद्धशोधनं परिवृंहणं च

पृष्ठे पङ्कौ अशुद्दम् शुद्दम्
३ १२ नरेश्वरेति नरेश्वर इति
" " १९|१२ १३७|१७
९ ९ पश्चाच्छावाक पश्चादच्छावाक
१५ २१ दुवे दूये
२५ १२ युञ्चतेः मुञ्चतेः
३९ १३ मुनेः (सभा०) मुने (आदि० १७७।१५)
६० ३० गिरन् गृणन्
७७ १२ व्यामूख्या व्याख्या
७८ १९ २|९९|२ २|९९|३९

 वृषु सेचने इति धातुरुपचारेण पोषणेपि वर्तते । तथा च भारते ( शां० २३८|१८) प्रयोगः—-यथा सर्वाणि भूतानि वृष्टिर्भौमानि वर्षति ।

 ण्यन्तस्य वृतेः प्रयोगेषूक्तपूर्वेष्वयमप्यन्तः करणीयो दाशतये प्रयोगः- प्रतिब्रवाणि वर्तयते अश्रु ( ऋ० १०|९५|१३ । वर्तयते मुञ्चते

 रथः स्यन्दन इति सर्वस्य विदितोऽर्थः । सूर्यमाधत्थो दिवि चित्र्यं रथम् (ऋ०.५|६३|७ )। परि यत्कविः काव्या भरते शूरो न रथो भुवनानि विश्वा ( ऋ० ९|९४|३ )। इह रथो रथस्य प्राजितोक्तः । एवमेते रथाः सप्त राजनन्यान्निबोध मे (भा० सभा० १४|५८ )। अत्र रथो योध इत्यनर्थान्तरम् । अत एव महारथो महायोध उच्यते । मनोरथशब्दे रथशब्दो रते रमणस्य वाचकः । अयमेवार्थः आथर्वणश्रुतौ -रथजितां राथजितेयीनामप्सरसाम् ( ६।१३०।१ ) ।

 केनायं मत्तः श्रेयानित्यर्थं सोऽयं कस्मादतीव मामिति (भा० शां० ९८|१०) श्रेयान्व्यवहारः श्रेयः।

 अनन्तरशब्दविषय इदमतिरिक्तं वेद्यम्--प्राज्ञस्यानन्तरा वृत्तिरिह लोके परत्र च (भा० वनं० २०९|४३ ) । अनन्तरा संनिहिंता सुलभेत्यर्थः ।

 अनुपसृष्टोपि वचिर्निन्दायां दृश्यत इत्यत्र निदर्शनान्तरे–वृत्तिविज्ञानवान्धीरः कस्तं वा वक्तुमर्हति ( भा० शां० १३२|६ ) । वक्तव्या मारिषान्ये तु न वक्तव्यास्तु सादृशाः ( भा० कर्ण० ४९|५७ ) ।  शक विभाषितो मर्षण इति दिवादिः सकर्मकः। मर्षणमिह प्रसहनम् । न वाक्यमात्रेण वयं हि शक्यः ( भा० बन० २६८।१२)। शक्याः प्रसह्याः, अभिभवनीयाः । न ह्युपायेन ते शक्याः पाण्डवाः कुरुवर्धन ( भा। आदि० २०। २।१ )। शक्या अभिभवनीयाः वशे कार्याः ।

 अर्पयतेरनुपसृष्टस्य सोपसर्गस्य वा व्यधनमर्थ इत्यत्र पुष्कलं प्रमाणान्तरम्-- इदं धनुर्लक्ष्यभिमे च बाणाः शृण्वन्तु मे नृपतयः समेताः । छिद्रेण यन्त्रस्य समर्पयध्वं शरैः शितैर्व्योमचरैर्दशार्धैः ( भा० आदिं० १८५|३५ )।

 गन्धशब्दो बह्वर्थः। अस्ति योल्पवचनः । धृतगन्धि भोजनम् । अस्ति यो गर्वे वर्तते । केनाप्तगन्धो माणवकः । अभिभूत इत्यर्थः । अस्ति यो बंन्धुत्वे सम्बन्धे वा वर्तते । सर्वाः सगन्धेषु विश्वसिति । मात्रेऽथैपि भाष्ये प्रयुक्त इति वेदनीयं सुधीभिः-यावान्व्याकरंणे पदगन्धोस्ति ( पा० २।१।१ ) । थावता चेदानीं पदगन्धोस्ति पदविधिरयं भवति (पा० ३।१।९२ ) ।

 ऋषेस्तस्योटजस्थस्य कालोऽगच्छन्निशानिशम् ( भा० शां० ११७|६ ) । निशानिशं बहुरात्रम् । एकशेषे कर्तव्ये द्वन्द्वः कृत इति व्यवहारः प्रधानम् । भारद्वाजश्रोतसूत्रे( ६|९|१ )ऽनुजावर इति पदं पितरि प्रेते योऽनुजातः पुत्रस्तत्रार्थे प्रयुक्तम् ।

 तिष्ठतेः प्रयोगेषूक्तपूर्वेष्विदमपि प्रयोगद्वितयमन्तःकरणीयम्– अपश्यतां प्रियान्पुत्रांस्तेषां शोको न तिष्ठति (भा० शां० १५३।२५ )। न तिष्ठति न विरमति । तिसृणां वसतीनां स्थानं परमदुष्करम् (भा० बन० २९६|५ )। भोजनत्रयनिरोध इत्यर्थः।

 यत्राद्यत्वे प्रायेण समयो मे नास्तीति व्यवहरन्ति तत्र व्यवहरविशारदाः पूर्वे क्षणो मे नास्तीति व्यवजह्रः । क्षणो हि निर्व्यापारस्थितिं वक्ति । प्रहा्लदस्वब्रवीद् विप्रं क्षणो नास्ति द्विजर्षभ । त्रैलोक्यराज्यसक्तस्य ततो नोपदिशामि ते (भा० शां० १२४|२९) ।

 अन्यत्पदं पादान्तरं भवति । अपदान्तरं त्वविलम्बितम् । भीमसेनमिदं वाक्यमपदान्तरमब्रवीत् ( भा० वन० ३४|४)।

 उचितमिति समवेतं युक्तम् अभ्यस्तमित्याह । स्वभावसिद्धमप्याह । तथा च श्रीरामायणे , प्रयोगः—-उचितं च महाबाहुर्न जहौ हर्षमात्मवान् (२|१९|३७ ) ।

 कञ्चिद् दोषेण गच्छतीत्यादौ गमिर्ज्ञानार्थ इति सप्रमाणमुक्तम्( पृ० १८३ )। तत्रेदम्प्रमाणान्तरं संगृह्यताम्--न दोषेणावगन्तव्या कैकयी भरत त्वया (रा० २|९२|३०)। इह स एवार्थोऽवगामिनोक्तः । अवस्तदर्थस्य द्योतकः ।

 दोषेण गन्तुं दोषेण मन्तुम् इत्युभयो व्यवहार: प्रदर्शितचरः । दोषेण शङ्कितुमित्यपि सुव्यवहरमिति प्रदर्श्यते-- न मामर्हसि कल्याण दोषेण परिशङ्कितुम् ( भा० वन० ७६|२६ )।

 विनार्थे बहिः शब्दः शतपथे —स बहिष्पवित्राद् गृह्णाति (४|१।१|३) । समासः क्रियतामातिशायिकस्तद्धितो वेति सम्प्रधारणायां या व्यवस्थोक्ता (पृ० ५७) तां पुष्णती वैदिकी सूदाहृतिरियमा दीयताम्-- अजानेवालभेरंस्ते हि सुश्रपतरा भवन्ति (श० ब्रा० ५|५|४|१)|

 मन्यतेरपि मानयतेरर्थे प्रयोग:-निहन्मैन दुरात्मानं योऽयमस्मान्न मन्यते ( भा० आदि ० .१८९|३ ।।

 यर्हि वाक् प्रवदेत्तर्हि होतव्यमित्येकेषाम् (भा० श्रौ० ६।९|८)। यदा वयसां विरावः यदा शकुनिप्रवाद इत्यर्थे प्रयोगः ।

 अहमात्मीयो न भविष्यामि ( मृच्छ० ८)। जीविताद् हास्ये, कालं । करिष्यामीत्याह ।

 नाकश्च स्वर्गश्च पर्यायावभिमतौ । सान्तरौ च तौ । ‘तथा च शौनकीया आमनन्ति-ऊध्वों नाकस्याधिरोह विष्टपं स्वर्गो लोक इति यं वदन्ति (अथर्व० ११|१|७ ) ।

_____

"https://sa.wikisource.org/w/index.php?title=वाग्व्यवहारादर्शः&oldid=144411" इत्यस्माद् प्रतिप्राप्तम्