← वाचस्पत्यम् वाचस्पत्यम्/अ
तारानाथ भट्टाचार्य
वाचस्पत्यम्/आ →
पृष्ठ ००३५
वाचस्पत्यम् ।

पु० अवति रक्षति अतति सातत्येत्र तिष्ठतीति वा अव--अत--

वा ड । विष्णौ “अकारोविष्णुरुद्दिष्टौकारस्तु महेश्वरः ।
मकारस्तु स्मृतोब्रह्मा प्रणवस्तु त्रयात्मक” इति । अस्य
(विष्णोः) अपत्यम् अत इञ् इः (कामः) अस्य (विष्णोः)
पत्नी ङीप् ई (लक्ष्मीः) ।

अव्य० अव--प्रीणनादौ ड स्वरादिपाठादव्ययत्वम् । अभावे,

प्रतिषेघे स्वल्पेऽर्थे अनुकम्पायां, सम्बोधने, अ अनन्त! ।
अधिक्षेपे, अ पचसि त्वं जाल्म! । “उपसर्गस्वरविभक्ति-
प्रतिरूपकाश्चेति” स्वरादिगणसूत्रे अ इति सिद्धान्त-
कौमुद्यामुदाहृतं मनोरमायाञ्च अ संबोधने अधिक्षेपे
निषेधे चेति व्याख्यातम् । “अभावे नह्यनोन” इत्यमर-
टीकायां नञादेशोऽयमित्युक्तम् । स च आदेशः नखनमुच्या-
दिभिन्नशब्दघटके उत्तरपदस्थे हलादौ शब्दे परे भवति ।
स तु नञर्थे एव स्थानितुल्यार्थकत्वादादेशस्य । नञर्थाश्च
तत्सादृश्यमभावश्च तदन्यत्वं तदल्पता ।
अप्राशस्त्यं विरोधश्च नञर्थाः षट् प्रकीर्त्तिताः ॥
इत्युक्तेः षड्विधाः । तत्र अब्राह्मणैत्यादौ ब्राह्मणसादृश्य-
वत्त्वेन क्षत्त्रियादीनां बोधकता, अघटमित्यादौ
घटाभावस्य, अपटैत्यादौ पटभिन्नस्य, अनुदरा कन्येत्यादौ
अल्पोदरत्वस्य, अपशवो वै अन्ये गोऽश्वेभ्यैत्यादौ गवाश्व-
भिन्नपशूनामप्राशस्त्यस्य, असुरः असितैत्यादौ च सुरसित
विरोधस्य बोधकता । तत्रायं विशेषः नञः सर्व्वत्र अभावे
भेदे च शक्तिः सादृश्योदौ तु निरूढ़लक्षणा । तत्र
अघटमित्यादौ अव्ययीभावे, अधन इत्यादौ बहुव्रीहौ भाव
कृदन्तोत्तरपदके “अभेदः अज्ञानमित्यादौ” नञ्तत्पुरुषे च
अभावबोधकता । भावकृदन्तभिन्नोत्तरपदनञ्तत्पुरुषे तु
अघट इत्यादौ भिन्नत्वबोधकतेति । अत्रेदं बोध्यम् ।
समासे हलदौ उत्तरपदे नञः स्थाने अ इत्यादेशविधानेन
समासएवास्य नञर्थकस्य ऐत्यस्य प्रयोगः नान्यथा, सम्बो-
धनाद्यर्थकस्य तु पृथक्प्रयोगः किन्तु “नञोनलोपस्तिङि
क्षेपे” इति वार्त्तिकेन तिङन्तपदे परेऽपि नञादेशस्य विधा-
नात् तस्यैव पृथक्प्रयोगः । अधिकं नञ्शब्दार्थावसरे
वक्ष्यते । अजीवनिरित्यादौ अधिक्षेपार्थकता अजस्रमित्यादौ
उप० स० । तस्य च क्रियायोगात् प्रतियेधार्थकता ।

अऋणिन् त्रि० न ऋणी नञ् त० ऋकारस्यात्र हल्त्वा-

भ्युपगमात् न नुट् नलोपमात्रम् । ऋणिभिन्ने, ऋणशून्ये, ।
दिवस्याष्टमे भागे शाकं पचति यो नरः ।
अऋणी चाप्रवासी च स वारिचर! मोदते इति भारतम्
हल्त्वानाश्रयणे नुटि अनृणीत्यपि तत्रैवार्थे ।

अंश विभाजने अद० चु० उभ० । अंशयति ते आंशिशत् त ।

अङ्कापयतीतिवत् आपुकि अंशापयतीत्येके । अच् अंशः
उ--अंशुः णिनि अंशी क्त अंशितः ।

अंश पु० अंश--भावेऽच् । विभागे “सकृदंशो निपतति सकृत्-

कन्या प्रदीयते । सकृदाह ददानीति त्रीण्येतानि सकृत्
सकृदिति स्मृतिः । कर्म्मणि अच् । विभाज्ये “द्वावंशौ
प्रतिपद्येत विभजन्नात्मनः पितेति” “द्व्यंशहरोऽर्द्धहरो वा
पुत्रवित्तार्ज्जनात् पितेति” च स्मृतिः । संख्यासूचकाङ्कविभाज्ये
तथाङ्के, च “अन्योन्यहाराभिहतौ हरांशाविति” अंशाहति-
श्छेदबधेन भक्तेति” भजेच्छिदोऽशैरथ तैर्विमिश्रैरिति
च लीला० । करणे अच् । अवयवे “अंशुरंशुष्टे देव!
सोमाप्यायस्वेति” यजु० । अंशुरंशुः सर्व्वोप्यवयव इति
वेददीपः । “अंशिनः स्वांशगात्यन्ताभावं प्रति मृषात्मतेति”
वेदान्तपरि० । “अंशो नानाव्यपदेशादिति” शारीरक
सूत्रम्, जीवस्य निरवयवब्रह्मावयवत्वाभावमाशङ्क्य भाष्य-
कृता अंश इवेति व्याख्यातम् । तत्समानार्थकं “ममैवांशो
जीवलोके जीवभूतः सनातन” इति गीतावाक्यम् । “चतु-
र्द्दश्यष्टमांशे च क्षीणो भवति चन्द्रमाः अमावास्याष्टमांशे
च ततः किल भवेदणुरिति, स्मृतिः । विशेषावयवे, राशि-
चक्रस्य षष्ट्युत्तरशतत्रयधा विभाजके भागे, राशेस्त्रिंशद्धा
पृष्ठ ००३६
विभाजके अवयवे, “अक्षस्याशाः समाख्याताः षष्ट्युत्तर-
शतत्रयमिति “क्षेत्रं होरा च द्रेक्वाणं नवांशोद्वादशांशकः ।
त्रिंशाशश्चेति विज्ञेयः षड्वर्ग इति च ज्योतिषम् नवमितो-
ऽंशः (राशेत्रिंशभागः) नवांशः एवं द्वादशांशादयः ।
स च अंशः षष्टिकलात्मकः कला तु षष्टिविकलात्मिका ।
नवमिर्विभक्ते राशेः त्रिंशात्मके नवांशे च । “द्विभर्त्तृका
मेषनवांशके स्यात्” इत्युपक्रम्य “निःस्वा मृगांशे” इति,
“विगुणा घटांशे” इति च व्यवहारचमत्कारः । ६, १,
२०३ पा० सू० वृषादिषु पाठात् अस्य आद्युदात्तत्वम् ।

अंशक त्रि० अंश--ण्वुल् । विभाजके । स्त्रियाम् अंशिका ।

ज्ञातौ दायादे पु० अंश + स्वार्थे कन् । अंशशब्दार्थे
“त्रिंशांशकस्तथा राशे र्भाग” इत्यभिधीयते इति ज्योतिषम्
नवमिते राशित्रिंशभागात्मके नवांशे, “द्विभर्तृका मेषनवांशके
स्यात् इत्युपक्रम्य” “वृषांशके सा पशुशीलयुक्तेति” सिंहां-
शके सा पितृवाससंस्थितेति, च ज्यो० सौरदिने न० ।

अंशल त्रि० अंश + बलोपाधिके मत्वर्थे लच् । बलवति । अंशं

लाति ला + क । अंशग्राहके त्रि० ।

अंशसवर्ण्णन न० समानोवर्ण्णः योगवियोगयोग्यता सवर्ण्णः ततः

करणार्थे णिचि भावे ल्युट् सवर्णनम् अंशयोः अतुल्य-
च्छेदयोः राश्योः समच्छेदकरणम् ६ त० । लीलावत्युक्ते
अतुल्यच्छेदराश्योः योगवियोगयोग्यतासम्पादके समच्छेद-
साधने क्रियाविशेषे, तत्रादावंशसवर्णनमित्युक्तम्य “अन्योन्य-
हाराभिहतौ हरांशौ राश्योः समच्छेदविधानमेवमिति
लीलावत्यामुक्तम् ।

अंशहर त्रि० अंशं हरति हृ--अच् । अंशहारके “द्व्यंशहरो-

ऽर्द्धहरो वा पुत्रवित्तार्ज्जनात् पितेति” स्मृतिः । अनुद्यमने
एव हृञोऽच् इति नियमात् अन्यत्र अण् । भारहारः ।

अंशावतरण न० ६ त० । भारते आ० प० ६४ अ० उक्ते

देवानां स्वस्वभागविशेषेण वासुदेवआदिरूपेण पृथिव्यामा-
विर्भावेन नरदेहग्रहणरूपे अवतरणे ।

अंशिन् त्रि० अंश--णिनि । अंशकारके “पुनर्विभागकरणे

सर्व्वे वा स्युः समांशिन” इति स्मृतिः अंश + मत्वर्थे इनि ।
अवयविनि । “अंशिनः स्वांशगात्यन्ताभाव प्रति मृषात्मतेति”
वेदान्तपरिभाषा ।

अंशु पु० अंश--मृग० कु । किरणे सूत्रे सूक्ष्मांशे प्रकाशे

प्रभायां वेगे च “अंशवोऽत्र पतिता रवेः किमु”? इत्युद्भटः
“सूर्य्यांशुभिर्भिन्नमिवारविन्दमिति” कुमा० । तत्र स्वपर-
प्रकाशकस्य तेजःपदार्थस्य समन्तात् प्रसृतः स्पर्शयोग्यः
किञ्चिन्निविडः सूक्ष्मांशविशेषः किरणः, स च प्रायशः
सूर्य्यस्य, तस्य तेजसा प्रदीप्तचन्द्रादेश्च । तदपेक्षया अल्प-
स्थानप्रसारी किञ्चिद्विरलः स्पर्शायोग्यः तेजःसूक्ष्मांशः
प्रभा, सा च रत्नादिवस्तुनः । चन्द्रादेस्तु अन्यापेक्षयाऽधिक-
प्रसृतत्वात् किरणसम्भवः अतएव तत्र शीतांशुः सितकिरण
इत्यादिप्रयोगः । स्पर्शयोग्यः तेजःपदार्थस्य किरणादपि
निविडः सूक्ष्मांशः आतपः, किरणापेक्षया अतिविरल-
प्रसारी स्पर्शायोग्यः परप्रकाशसाधनमतिसूक्ष्मांशविशेषः
आलोकः । प्रभायाम् आलोके वा न स्पर्शोऽनुभूयते ।
तत्र अंशुशब्दस्य किरणवाचित्वे सहस्रांशुः उष्णांशुः
शीतांशुरित्यादयः । प्रभापरत्वे रत्नांशुः नखांशुरित्या-
दयः । “अजस्रमाश्रावितवल्लकीगुणक्षतोज्ज्वलाङ्गुष्ठनखांशु-
भिन्नयेति” “द्विजावलीबालनिशाकरांशुभिरिति” च
माघः । सूत्रांशपरत्वे अंशुकं पट्टांशुकं चीना-
शुकमित्यादयः । प्रकाशपरत्वे उपांशु उपहृतप्रकाश-
त्वाच्चास्य गुप्तत्वं प्रतीयते तच्चार्थिकम् । सूक्ष्मविभागपरत्वे
प्रांशुः प्रोन्नतावयवत्वा च्चास्य दीर्घत्वं प्रतीयते तच्चा-
र्थिकम् इति ।

अंशुक न० अंशवः सूत्राणि विषयोऽस्य अंशु + ऋश्यादि०

क । वस्त्रे । “यत्रांशुकाक्षेपविलज्जितानामिति” कुमारः ।
सूक्ष्मवस्त्रे उत्तरीयवस्त्रे पत्रे (तेज पात) शुक्ल-
वस्त्रे च । अंशु + स्वार्थे कन् । अंशुशब्दार्थे पु० ।

अंशुधर पु० धृ--अच् ६ त० । सूर्य्ये अंशुभृदादयोऽप्यत्र

किरणादिधारके वेगधारके च त्रि० ।

अंशुपट्ट न० अंशुना सूक्ष्मसूत्रेण युक्तं पट्टम् । सूक्ष्मसूत्र

घटितपट्टवस्त्रे । “श्रीफलैरंशुपट्टानामिति” विष्णु० ।

अंशुपति पु० ६ त० । सूर्य्ये, तस्य सर्व्वतेजस्विनां किरणा-

धायकत्वात् चन्द्रादिग्रहादौ तेजोदायकत्वाच्चास्य तथात्वम्
अतएवोक्तं वृहत्सहितायाम् “सलिलमये शशिनि
रवेदीर्धितय” इति “मूर्त्तित्वे परिकल्पितः शशिभृत” इति
वृहज्जातके च । “अम्बिं वावादित्यः सायं प्रविशतीति”
“उद्यन्तं वावादित्यमग्निरनुसमारोहतीति” च श्रुतौ
अग्नौ सूर्य्यांशुप्रवेशाभिधानम् । अत एव माघे तस्य
त्विषां पतित्वेन तस्यास्तमये तासामनुमरणार्थं ज्वलनप्रवेश
उक्तः । यथा “रुचिधाम्नि भर्त्तरि भृशं विमलाः
परलोकमभ्युपगते विविशुः । ज्वलनं त्विष इति” । एवं
अंशुस्वामी त्विट्पतिप्रभृतयोऽप्यत्र ।
पृष्ठ ००३७

अंशुमत् पु० अंशु + अस्त्यर्थे मतुप् । सूर्य्ये, अंशुशाल्यादयो-

प्यत्र । सूर्य्यवंश्ये असमञ्जःपुत्रे दिलीपजनके राजभेदे
तत्कथा रा० आ० ४३ अ० । अंशुमति पदार्थमात्रे त्रि० ।

अंशुमती स्त्री० अंशु सूक्ष्मंपत्रमस्याः अंशु + मतुप् + ङीप् ।

शालपर्ण्याम् (शालपान्) ।

अंशुमत्फला स्त्री० अशुमानिव रक्तं फलं मोचकं यस्याः

जातिवाचकत्वेऽपि फलान्ततया न ङीष् अजा० टाप्,
अंशुमानिव समन्तात् प्रसृतं फलतीति फल--अच् वा ।
कदलीवृक्षे ।

अंशुमालिन् पु० अंशुभिर्मलते संबध्नाति मल--णिनि ३ त०,

अंशवः मालेव ततः अस्त्यर्थे इनि वा । सूर्य्ये, द्वादश
संख्यायाञ्च । किरणादिजालवति त्रि० स्त्रियां ङीप् ।

अंशुल पु० अंशुंप्रभां बुद्धिप्रतिभां लाति ला--क । चाणक्ये

मुनौ, मुनिमात्रे च । अंशुग्राहके त्रि० ।

अंशुहस्त पु० अंशुः किरणोहस्त इव जलाद्याकर्षणसाधनं

यस्य । सूर्य्ये । “शरैरुस्रैरिवोदीच्यान् उद्धरिष्यन्
रसानिवेति” रघौ सूर्य्यकिरणानां रसाकर्षकत्वस्य दृष्टा-
न्तविधयोक्तत्वादस्य किरणस्य रसाकर्षकत्वाद्धस्तत्वम् । तस्य
च सहस्रांशूनां रसाकर्षकत्वमग्रे सहस्रांशुशब्दे वक्ष्यते ।

अंश्वादि पु० । ब० । स्वरविशेषार्थं पाणिनिगणपाठोक्ते शब्द-

समूहे, “प्रतेरंश्वादयस्तत्पुरुषे” (६, ३, १९३ पा०) स च
गणः अंशु जन, राजन्, उष्ट्र, खेटक, अजिर, आर्द्रा
श्रवण, कृत्तिका अर्द्धपुर ।

अंस विभाजने अद० चु० उभ० अंसयति ते आंसिसत् त ।

आपुकि अंसापयतीत्येके । वि + विश्लेषकरणे प्रच्यावने च
“व्यंसयामास तत् सैन्यमिति” भारतम् । अच् अंसः ।

अंस पुं अंस--कर्म्मभावादौ अच् । अंशशब्दार्थे, स्कन्धे च ।

“अंसनिषक्तबाहुः” “अंसारोपिचापेनेति” शान्तोऽपि
स्कन्धे ।

अंसत्र न० अंसं स्कन्धं त्रायते त्रै--क । स्कन्धावरके कवचभेदे ।

अंसकूट पुंन० अंसः कूट इव वृहत्त्वात् । वृहत्स्कन्धे “राज-

न्योच्चांसकूटक्रथनपटुरटद्घोरधारः कुठार इति प्रबोध०

अंस(से)भार पु० अंसे धृतः भारः शा० त० वा अलुक् ।

स्कन्धधृतभारे ।

अंस(से)भारिक त्रि० अंस(से) भारेण हरति भस्त्रा० ष्ठन् । स्कन्धभारहारके, स्त्रियां ङीष् ।

अंसल त्रि० अंस + बलोपाधिके अस्त्यर्थे लच् । बलवति ।

अंस्य त्रि० अंसे भवः अंस + यत् । स्कन्धभवे, “ये अंस्या ये

अङ्ग्याः सूचिका” इति वेदः । अंस--कर्म्मणि यत् ।
विभाज्ये त्रि० ।

अंह भासने अद० उभ० । अंहयति ते आञ्जिहत् त ।

अंहति स्त्री० हन्ति दुरितमनया हन--अति, अंहादेशः । दाने ।

अंहस् न० अमति गच्छति प्रायश्चित्तेन अम--असुन् हुक् च ।

पापे “मुञ्चन्त्वंहस” इति वेदः स्वधर्म्मत्यागे “लोभोऽनृतं
चौर्य्यमनार्य्यमंहो ज्येष्ठा च माया कलहश्च दण्ड” इति
भागवते कलिं प्रति परीक्षिद्वाक्यम् अंहः स्वधर्म्मत्यागः इति
श्रीधरस्वामिरघुनन्दनादयः ।

अंहिति स्त्री० अहि--क्तिन् ग्रहादित्वात् इट् । दाने ।

अंहु त्रि० अहि--मृग० कु । पापकारिणि । “आ वोऽर्वाची

सुमतिर्ववृत्यादंहोश्चिद्या” इति (य० ८, ७) “अंहोः”
पापकारिणः हननशीलस्येति वेददीपः ।

अंहुर त्रि० अहि--मद्गुरादि० उरच् । गतियुक्ते “सप्त मर्य्यादाः

कवयस्ततक्षुस्तासामेकामिदमभ्यंहुरो गात्” इति वेदः ।

अंह्रि पु० अंहति गच्छत्यनेन अहि--वङ्क्र्यादि० क्रिन् । पादे

वृक्षादीनां मूले, तेन अंह्रिपो वृक्षः । चतुःसंख्यायाञ्च ।

अंह्रिप पु० अंह्रिणा मूलेन पिबति सिक्ततोयम् पा--क ।

वृक्षमात्रे ।

अंह्रिस्कन्ध पु० अह्रेः स्कन्धैव । गुल्फे अङ्गुष्ठाङ्गुलिमध्यभागस्य उपरिभागे च ।

अक वक्रगतौ भ्वा० प० घटादि । अकति आकीत् । अकयति ।

अक न० न कम् सुखम् गुणवचनस्य नञ्योगे विरो-

ध्यर्थाभिधायिता न० त० । दुःखे । नास्ति कं सुखं
यस्मात् । पापे । नाकशब्दे अकं दुःखं पापं वा ।

अकच पु० अकाय दुःखाय चायते चाय--ड । केतुग्रहे

तस्य चोदयेन लोकोपप्लवस्य शास्त्रप्रसिद्धिः केतुशब्दे
विस्तरः । “उपप्लवाय लोकानां धूमकेतुरिवोत्थित इति कुमा० ।
नास्ति कचोयस्य । केशशून्ये (टाकरोगयुक्त) त्रि० ।

अकडम न० अ, क, ड, म, इत्यादिक्रमेण आद्यकोष्ठादौ वर्ण्णसमु-

दायोऽस्त्यत्र अच् । ग्राह्यगोपालमन्त्रस्य शुगाशुभविचारो-
पयोगिनि चक्रभेदे । तत्स्वरूपं यथा रुद्रयामले--“रेखाद्वयं
पूर्ब्बपरे मध्ये रेखाद्वयं लिखेत् । चतुष्कोणे चतूरेखाऽकडमं
चक्रमण्डलम् । भ्रामयित्वा महावृत्तं निर्म्माय वर्णमालिखेत् ।
अकारादिक्षकारान्तान् क्लीवहीनान् लिखेत्ततः । एकैकक्र-
मतो लेख्यान्मेषादिकवृषान्तकान् । वामावर्त्तेन गणयेत् क्रमशो
वीरवल्लभ! । दक्षमार्गेण गणयेन्नामादिवर्णकादिकान् ।
मेषादितोहि नामान्तं क्रमशः मन्त्रपण्डितः । सिद्धसाध्य-
सुसिद्धारीन् पुनः सिद्धादिकान् पुनः । नवैकपञ्चमे सिद्धः
साध्यः षड्दशयुग्मके । सुसिद्धस्त्रिमुनौ रुद्रे वेदाष्ट-
द्वादशे रिपुः” इति । (क्लीववर्ण्णाः ऋ ॠ ऌ ॡ वर्ण्णाः)
“गोपालेऽकडमं स्मृतमिति” तत्रैवोक्तम् । एतच्च गोपाल-
मन्त्रविषये सिद्धादिचक्रत्वेन व्यवह्रियते ।
पृष्ठ ००३८

अकथह न० अ, क, थ, ह, इत्यादिवर्णसंघक्रमेण वर्णसमुदायो-

ऽस्त्यस्मिन् अच् । तन्त्रोक्तमन्त्रग्रहणार्थं तत्तन्मन्त्राणां शुभा-
शुभविचारोपयोगिनि चक्रभेदे तत्स्वरूपं यथा रुद्रयामले ।
“वक्ष्येऽकथहचक्राख्यं सर्व्वचक्रोत्तमोत्तमम् । यस्य विचार-
मात्रेण कामरूपी भवेन्नरः ॥ तत्प्रकारं वीरनाथ ।
क्रमशः क्रमशः शृणु । चतुरस्रे लिखेत् वर्ण्णन् चतुः-
कोष्ठसमन्विते ॥ चतुःकोष्ठ--चतुकोष्ठचतुर्गृहसमन्वितम् ।
मन्दिरं षोड़शं प्रोक्तं सर्व्वकर्म्मार्थसिद्धिदम् ॥
चतुरस्रं लिखेत् कोष्ठं चतुष्कोष्ठसमन्वितम् । पुनश्चतुष्कं तत्रापि
लिखेद्धीमान् क्रमेण तु ॥ सर्व्वेषु गृहमध्येषु प्रादक्षिण्य
क्रमेण तु । अकारादिक्षकारान्तान् लिखित्वा गणयेत्-
ततः ॥ चन्द्रमग्निं रुद्रवर्णं नवमं युगलन्तथा ॥ वेदमङ्कं
दश रसं वसुं षोड़शमेव च । चतुर्दशं भास्करं च सप्त पञ्च-
दशेति च ॥ वह्नीन्दु कोष्ठगं वर्णपञ्चाशैकं मयोदितम् ।
एतदङ्कस्थितान् वर्णान् गणयेत् तदनन्तरम् ॥ नामाद्यक्षर-
मारभ्य यावत् मन्त्रादिमाक्षरम् । चतुर्भिः कोष्ठैरेकैकमिति
कोष्ठचतुष्टयम् ॥ पुनः कोष्ठगकोष्ठेषु सव्यतो नामकादितः ।
सिद्धः साध्यः सुसिद्धोऽरिः क्रमशो गणयेत् वशी ॥ सिद्धः
सिध्यति कालेन साध्यस्तु जपहोमतः । सुसिद्धो ग्रहणाज्-
ज्ञानी शत्रुर्हन्ति चिरायुषम् । सिद्धस्तु बान्धवः प्रोक्तः
साध्यः सेवक उच्यते । सुसिद्धः पोषकः प्रोक्तः शत्मुर्घातक
उच्यते । सिद्धकोष्ठस्थिता वर्णा बान्धवाः सर्वकामदाः ।
जपेन बन्धुः सिद्धः स्यात् सेवकोऽधिकसेवनात् ॥ पुष्णाति
पोषकोऽभीष्टं घातको नाशयेत् ध्रुवम् । सिद्धो यथोक्तकालेन
द्विगुणात् सिद्धसाध्यकः ॥ तत्सुसिद्धोऽर्द्धजप्येन सिद्धारि-
र्हन्ति बान्धवान् । साध्यसिद्धो द्विगुणतः साध्यसाध्यो
निरर्थकः ॥ तत्सुसिद्धो द्विघ्नजपात् साध्यारिर्हन्ति
गोत्रजान् । सुसिद्धसिद्धोऽर्द्धजपात् तत् साध्यो द्विगुणाधि-
कात् । तत्सुसिद्धो ग्रहादेव सुसिद्धारिः सगोत्रहा ॥
अरिसिद्धः सुतान् हन्यात् अरिसाध्यस्तु कन्यकाः ।
तत्सुसिद्धस्तु पत्नीघ्नस्तदरिर्हन्ति साधकमिति” ॥ एतच्च सर्ब्ब-
मन्त्रेषु सिद्धादिचक्रत्वेन व्यवह्रियते ।

अकनिष्ठ पु० अके वेदनिन्दारूपे पापे निष्ठाऽस्य । बुद्धे ।

न० त० । कनिष्ठभिन्ने ज्येष्ठे मध्यमादौ च त्रि० ।

अकनिष्ठप पु० अकनिष्ठान् बुद्धान् पातीति पा--क । बुद्धा-

धिपभेदे । न० त० । कनिष्ठभिन्नपालके त्रि० ।

अकम्पित पु० कम्पितं बुद्धिवृत्तेश्चालनं तन्नास्ति यस्य । बुद्ध-

भेदे । कपि--कर्त्तरि क्त न० त० । सङ्कल्पितवस्तुभ्योऽनुपरते
दृढ़ाध्यवसाये त्रि० । भावे क्त न० व० । कम्पनशून्ये त्रि० ।

अकरण न० कृ--भावे ल्युट् अर्थाभावे न० त० । करणा-

भावे निवृत्तौ “अकरणे प्रत्यवायानुबन्धित्वं नित्यत्वमिति”
मीमांसकादयः । “अकरणात् मन्दकरणं श्रेय” इति स्मार्त्ताः
अकरणञ्च न्यायादिमते करणाभावः, मीमांसकवेदान्तिमते
निवृत्तिः । अत एव अष्टस्यां मांसं नाश्नीयादित्यादौ
सर्वत्र निषेधसमभिव्याहृतक्रियाविषयकनिवृत्तावेव विध्यर्था-
न्वयः इत्युक्तं मीमांसकैः । शङ्कराचार्य्येण च
“नासतो विद्यते भावोनाभावो विद्यते सत” इति गीता
श्लोकभाष्ये महता प्रबन्धेन सत्पदार्थादभावोत्पत्ति
निरस्यता निषेधस्य निवृत्तिरूपत्वमुररीकृतम् । निवृत्तिश्च
प्रवृत्तिविरोधी भावरूपोधर्मविशेषः । नास्ति करणं देहे-
न्द्रियादिकमस्य । सर्व्वकरणशून्ये परात्मनि पु० ।
“अपाणिपादोजवनोग्रहीतेत्यादि” श्रुतौ तस्य सर्वकरण-
शून्यत्वमुक्तम् ।

अकरणि स्त्री० नञ् + कृ--आक्रोशे अनि । करणं मा

भूदित्याक्रोशात्मके शापे । “तस्याकरणिरेवास्तु” इति ।

अकरा स्त्री० अकं दुःखं सेवनात् लोकानां राति गृह्णाति

नाशयतीति रा--क । आमलक्याम् । नास्ति करोऽस्य ।
करशून्ये त्रि० । न करोति कृ--अच् न० त० । कारक-
भिन्ने करणशीलभिन्ने निवृत्तिपरे च त्रि० ।

अकरुण त्रि० नास्ति करुणा यस्य यत्र वा । दयाशून्ये

दैन्यशून्ये च ।

अकर्कश त्रि० न कर्कशः । कार्कश्यविरोधिमृदुत्ववति कोमले

अकर्ण्ण त्रि० नास्ति कर्ण्णोऽस्य । श्रवणेन्द्रियशून्ये “पश्यत्य-

कर्ण” इति श्रुतिः । सर्पे पु० तस्य चक्षुषैव श्रवणात्तदि-
न्द्रियशून्यत्वम् । राधेयः कर्ण्णः तछून्ये त्रि० । “अनर्जुन
मकर्णं वा जगदद्येति निश्चितमिति” भारतम् ।

अकर्त्तन त्रि० उच्चस्थं फलं कर्त्तितुं शीलमस्य कृत--युच्

न० त० । उच्चविरोधिह्रस्वत्ववति स्वर्वे । कृत--भावे
ल्युट् न० ब० । छेदनाकर्त्तरि त्रि० ।

अकर्त्तव्य त्रि० कृ--कर्म्मादौ तव्य न० त० । करणानर्हे

निषिद्धे पदार्थे । भावे क्त न० ब० । क्रियाशून्ये कूटस्थे
चैतन्ये न० । “न मे पार्थास्ति कर्त्तव्यं त्रिषु लोकेषु
किञ्चनेति” गीतायामीश्वरस्य सर्वक्रियानिषेधात् तथात्वम् ।

अकर्त्तृ त्रि० कर्त्तृ + न० त० । कर्त्तृभिन्ने कर्त्तृसदशे कारके

“अकर्त्तरि च कारके” पा० । कर्तृभिन्ने, क्रियाशून्ये च
“पुरुषोऽकर्त्ता भोक्ता” चेति सांख्यमतम् ।
पृष्ठ ००३९

अकर्म्मक त्रि० नास्ति कर्म्म यस्य ब० कप् । व्याकरणोक्ते

कर्म्मशून्ये धातौ, “लः कर्म्मणि च भावे चाकर्म्मकेभ्य इति”
पा० । “फलव्यापारयोरेकनिष्ठतायामकर्म्मक इति” हरिः ।
स्त्रियां टापि कापि अतैत्त्वम् अकर्म्मिका । “प्रसिद्धेर-
विवक्षातः कर्म्मणोऽकर्मिका क्रियेति” हरिः ।

अकर्म्मण्य त्रि० न कर्म्मने प्रभवति कर्म्मन् + यत् न० त० ।

कर्म्मानर्हे “अकर्म्मण्यं तिथिमलं विद्यादेकादशीं विनेति”
ति० त० ।

अकर्म्मन् अनुपलम्भादिवत् अर्थाभावे न० त० । कर्म्माभावे

“कर्म्मणोह्यपि बोद्धव्य बोध्यव्यञ्च विकर्म्मणः ।
अकर्म्मणश्च बोद्धव्यं गहना कर्म्मणोगतिरिति” गीता
अकर्म्मणः अक्रियाया इति तद्भाष्यम् । दुष्टं कर्म्म अप्राशस्त्ये
न० त० । दुष्टकार्य्ये अकर्म्मादावभिरत इति स्मृतिः ।
न० ब० । कार्य्यशून्ये त्रि० “अकर्म्मा दस्युरभित” इति वेदः ।

अकल पु० नास्ति कलाऽवयवोऽस्य । निरंशे परमात्मनि

“चिन्मयस्याद्वितीयस्य निष्कलस्ये” त्युक्तेस्तस्य तथात्वम् ।
गीतादिकलाशून्ये, अवयवशून्ये च त्रि० ।

अकल्कन त्रि० कल्कनं दम्भः न० ब० । दम्भरहिते “अकल्कनो

निरारम्भः” इति गीता । वैद्यकोक्तौषधपाकविशेषः कल्कनं,
तच्छून्ये च । नास्ति कल्कोऽस्य ब० कप् । अकल्ककोऽ-
प्यत्र । अत एव गीतायामकल्कक इत्यपि क्वचित् पाठः ।

अकल्का स्त्री० न कल्कः मलोयस्य न० ब० । निर्मलत्वेन

शुभ्रायां ज्योस्नायाम् । मलादिशून्ये त्रि० ।

अकल्य त्रि० कलासु साधुः कला + यत् कल्यः निरामयः

न० त० । अस्वास्थ्यवति । कल्यते इति कल--यत् कल्यं
कल्पनीयं मिथ्याभूतं न० त० । सत्ये “अपि त्वनीनयदप-
नीताशेषशल्यमकल्यसन्ध इति दशकु० । अकल्यसन्धः
सत्यसन्ध इत्यर्थः ।

अकवा त्रि० न कव्यते वर्ण्यते कव--आ न० त० । अवर्ण्णनीये

“प्र प्रजायन्ते अकवा महोभिरिति” वेदः ।

अकस्मात् अव्य० न कस्मात् किञ्चित्कारणाधीनत्वं यत्र

अलुक् स० । कारणानधीने अतर्कितोपनते । “कथमय-
मकस्माद्गगनचारिणामाकाशे करुणध्वनिः श्रूयते” इति
नाटकम् “सामान्यलक्षणा कस्मादकस्मात् परिलुप्यते” इति
पक्षधरः । “अकस्मात् नगरोपान्ते कथं धूमायते चितेति”
हास्या० । पा० चार्वादिगणे तथा पाठाच्च न पञ्चम्या लुक्
तेन आपतितभवाद्यर्थे ठञि टिलोपे आकस्मिक इति ।

अकाण्ड त्रि० न० त० । अनवसरे अनुचितकाले “तातस्त-

मकाण्डे एव प्राणहरप्रतीकारमुपप्लवमिति” काद० । अस्य
नि० एतदन्तत्वमिति केचित् । ब० । स्कन्धशून्ये वृक्षे पु० ।

अकाम त्रि० न कामयते काम--णिङ्--अच् । इच्छाशून्ये

“नाकामो दातुमर्हतीति” स्मृतिः । कामनाविषयफलाननु-
सन्धायिनि । “अकामो विष्णुकामोवेति” स्मृतिः स्मर-
विकारशून्ये च । “भयादकामाऽपिहि दृष्टिविभ्रममिति”
शकु० ।

अकामतस् अ० अकाम + पञ्चम्यास्तसिल् । अनिच्छात इत्यर्थे

“अकामतः कामचारे चौरवद्दण्डमर्हतीति” स्मृतिः ।

अकाय पु० नास्ति कायोऽस्य । कायशून्ये राहौ तस्य चामृता-

हरणकाले विष्णुना च्छिन्नमस्तकत्वेऽपि अमृतप्राशनेन
अमरणमित्यनुसन्धेयम् । “अमृतास्वादनविशेषाच्छिन्नमपि शिरः
किलासुरस्येदम् । प्राणैरपरित्यक्तं ग्रहतां यातं वदन्त्येके
इति” वृहत्स० । देहशून्ये त्रि० । परमात्मनि पु० ।
निष्कलस्याशरीरिणैत्युक्तेस्तस्य तथात्वम् ।

अकार पु० अ + स्वरूपार्थे कार । अस्वरूपे वर्णे एवमिकारा-

दयोऽपि तत्तद्वर्णस्वरूपेषु । कारः करणंन० ब० । क्रिया-
रहिते त्रि० ।

अकारण त्रि० नास्ति कारणं हेतुरुद्देश्यं वा यस्य । हेतु-

रहिते उद्देश्यरहिते च “किमकारणमेव दर्शनं विलपन्त्यै-
रतये न दीयते” इति कुमा० “ततोऽकारणवैरी नः
“कारणादपरे परे इति” नैषधम् । निष्प्रयोजने च । न०
त० । कारणभिन्ने “अकारणगुणोत्पन्ना” इति भाषा० ।

अकारिन् त्रि० कृ--णिनि न० त० । कर्त्तृभिन्ने, करणान्निवृत्ते च ।

अकार्पण्य त्रि० नास्ति कार्पर्ण्यं यस्य । दैन्यशून्ये, कृपणता-

शून्ये च ।

अकार्य्य न० अप्रशस्तं कार्य्यम् अप्राशस्त्य्ये न० त० ।

कुत्सितकार्य्ये निषिद्धकार्य्ये च । “अकार्य्यमिव पश्यामि
स्वमांसमिव भोजने” । “किमकार्य्यं कदर्य्याणामिति”
हितो० । कर्त्तव्यभिन्ने त्रि० ।

अकाल पु० अप्राशस्त्ये न० त० । अप्रशस्तकाले विहितकर्म्मसु

पर्य्युदस्तयाऽभिहिते गुरुशुक्राद्यस्तकालादौ, स च मलमास,
गुरुशुक्रबाल्यवृद्धत्वास्तमय, सिंहमकरान्यतरगुरुस्थिति, पूर्ब्ब-
राश्यनागतातिचारिगुरुकवत्सर, पूर्ब्बराशिसंक्रमिष्यमाणाति
चारिगुरुकपक्षत्रय, वक्रगुरुकाष्टाविंशतिदिवस, भूमिकम्पा-
द्यद्भुतसप्ताह, सिंहादित्य, गुर्वादित्य, पौषमासचतुष्टयान्य-
पृष्ठ ००४०
तमैकद्वित्रितदधिकान्यतमदिनवृत्त्याकालिकवृष्ट्युत्तरैकत्रिसप्ता-
हान्यतमदिनादि, रूपो मलमासतत्त्वाद्युक्तः तत्तद्विहित-
कर्म्मसु पर्य्युदस्ततयाऽभिहितः कालः एतत्प्रमाणानि सप्रति
प्रसवं मलमासतत्त्वमुहूर्त्तचिन्तामण्यादौ द्रष्टव्यानि “अकाले
वीक्षितो विष्णुर्हन्ति पुण्यं पुराकृतमिति” पु० । अप्राप्तः
अनुचितः कालः शा० त० । अप्राप्तकाले “नाकाले म्रियते
कश्चित् प्राप्ते काले न जीवतीति” पुराणम् । “अकाल-
जलदोदय” इति रघुः । “अकालमृत्युहरण” मिति
तन्त्रम् । “वर्त्त्याधारस्नेहयोगात् यथा दीपस्य संस्थितिः ।
विक्रियापि हि दृष्टैवमकाले प्राणसंक्षय” इति याज्ञ० ।
“अकालजन्तु विरसं न धान्यं गुणवत् स्मृत” मिति,
वैद्य० । “नाकालवृष्टौ कुर्व्वीत व्रतबन्धशुभ्रक्रियामिति”
स्मृतिः अनुचितकाले वृष्टाविति तदर्थः । “वरमे-
काहुतिः काले नाकाले लक्षकोटयः इति ति० त० ।
नास्ति कालोपाधिजन्यजातमत्र । जन्यशून्ये प्रलये ।
“अकालकालमेघमेदुरेति काद० । अप्राप्तः कालो यस्य
प्रादिभ्यः धातुजस्येति ब० अन्त्यलोपश्च । अप्राप्तकाले
अनुचितकाले पदार्थे त्रि० । कालः कृष्णः न० त० । कृष्ण-
विरुद्धशुभ्रवर्णे पु० । कृष्णविरोधिशुभ्रत्ववति त्रि० ।

अकिञ्चन त्रि० नास्ति किञ्चन यस्य मयूर० त० । निर्धने,

“अकिञ्चनः सन् प्रभवः स सम्पदा” मिति कुमा० । दरिद्रे,
“अकिञ्चने किञ्चननायिकाङ्गके किमारकूटाभरणेन न
श्रिय” इति नैषधम् ।

अकिञ्चनता स्त्री० अकिञ्चनस्य भावः तल् । संन्यासाङ्गे सर्व्व-

द्रव्यत्यागरूपे यमविशेषे “व्रतं दानं परिव्रज्या तपस्या
नियमस्थितिः । अहिंसाऽसूयतास्तेयब्रह्माकिञ्चनता यम”
इति स्मृतिः ब्रह्म वेदमन्त्रः ईश्वरमननं वेत्यर्थः ।
निर्द्धनत्वे च । भावे त्व । तत्रैवार्थे न० । “स्थाने भवानेकनरा-
धिपः मन्नकिञ्चनत्वं मखजं व्यनक्तीति” रघुः ।

अकिञ्चिज्ज्ञ त्रि० न किञ्चित् जानाति ज्ञा--क अश्राद्ध-

भोजीतिवत् असमर्थस० । किञ्चिदनभिज्ञे, किञ्चिद्ज्ञान-
शून्ये, अल्पज्ञाने, ज्ञानशून्ये च ।

अकिञ्चित्कर त्रि० न किञ्चित् करोति कृ--अच् असमर्थ

स० । किञ्चिदकारके क्रियाशून्ये, निष्प्रयोजने च ।

अकुण्ठ त्रि० नास्ति कुण्ठा यस्य । प्रतिबन्धशून्ये, कर्म्म

दक्षे च ।

अकुतोभय त्रि० नास्ति कुतोऽपि भयं यस्य मयू० स० ।

कुतश्चिदपि भयशन्ये ।

अकुप्य न० गुप्यते निस्वताव्यञ्जकतया--लज्जाकरत्वात् गुप--क्यप्

नि० कस्य पः कुप्यं रैत्यादि न० त० । स्वर्णे, रूप्ये च ।

अकुमार त्रि० न कुमारः । अतीतकौमारावस्थे तरुणे ।

अकुल त्रि० अप्रशस्तं कुलमस्य न० ब० । अप्रशस्तकुले

“कुलान्यकुलतां यातीति” मनुः ।

अकुशल त्रि० न कुशलं मङ्गलमस्य । मङ्गलविरोध्यमङ्गलयुक्ते ।

न० त० । कुशलविरोधिनि अभद्रे न० । दक्षभिन्ने त्रि० ।

अकूपार पु० न कूपमृच्छति ऋ--अण् । वृहत्कच्छपे । न कु

पृथ्वीं पिपूर्त्ति पृ--पालनपूरणयोः अण् बा० दीर्घः, न कुत्-
सितं पारं गन्तव्यदेशो यस्य वा, पृ० दीर्घः । महापारे
समुद्रे, दूरगामिनि सूर्य्ये च पु० । पृ० । अकूवारोऽप्यत्र ।

अकृत त्रि० कृ--कर्म्मणि क्त न० त० । कृतभिन्ने अन्यथाकृते ।

“कृताकृतावेक्षणादौ ब्रह्मा ऋत्विक् नियुज्यते” इति याज्ञिक-
प्रसिद्धिः । “अकृतव्यूहाः पाणिनीया” इति परिभाषा ।
न कृतो व्यूहः विशेषेण ऊहोयैः विनाशोन्मुखं दृष्ट्वा
कृतमपि कार्य्यं नाशयन्तीति तदर्थः सि० कौ० । बलपूर्ब्ब-
कृते ऋणलेख्यपत्रादौ च “सर्व्वान् बलकृतानर्थानकृतान्
मनुरब्रवीदिति” मनुः । “बलात् कुरुत पापानि सन्तु
तान्यकृतानि वः । सर्व्वान् बलकृतानर्थानकृतान् मनुर-
ब्रवीदिति” नैषधम् । पुत्रिकात्वेन अकल्पितायां दुहितरि
स्त्री । “अकृता वा कृता वापि यं विन्देत् सदृशात्
सुतमिति” स्मृतिः । भावे क्त अभावार्थे न० त० । करणा-
भावे निवृत्तौ “नैव तस्य कृतेनार्थो नाकृतेनेह कश्चनेति”
गीता ।

अकृतज्ञ त्रि० न कृतं जानाति ज्ञा--क असम० स० ।

कृतोपकारास्मारके, कृतघ्ने, “आत्मारामाः पूर्णकामाः
अकृतज्ञा गुरुद्रुह” इति भागवतम् ।

अकृतिन् त्रि० कृतमनेन कृत + इनि न० त० । कार्य्याक्षमे

क्रियासु पाटवरहिते ।

अकृत्य न० कृ--क्यप् अप्राशस्त्ये न० त० । दुष्टकार्य्ये चौर्य्या-

दिकरणे । न कृत्यमस्य न० ब० । कर्म्मरहिते त्रि० ।

अकृत्रिम त्रि० न कृत्रिमः न० त० । कृत्रिमभिन्ने स्वभावसिद्धे ।

“कृत्रिमाकृत्रिमयोर्मध्ये कृत्रिमे कार्य्यसंप्रत्यय” इति
परि“भाषा अकृत्रिमस्नेहरसानुविद्धमिति” ।

अकृत्वा अ० न कृत्वा न + कृ--क्त्वा । करणानन्तर्य्ये “अकृत्वा

कुलसन्ततिमिति” मनुः ।

अकृष्टपच्य त्रि० अकृष्टे क्षेत्रे पच्यते पच--क्यप् ७ त० ।

हलाद्यकृष्टक्षेत्रे पच्यमाने नीवारादौ शस्ये ।
पृष्ठ ००४१

अकृष्ण पु० नास्ति कृष्णः मलो यस्य । निष्कलङ्के चन्द्रे

“चन्द्रमा वै ब्रह्माऽकृष्ण” इति श्रुतिः । न० त० । कृष्णत्व-
विरोधिशुभ्रत्वे पु० । तद्वति, शुद्धे च त्रि० ।

अकृष्णकर्म्मन् त्रि० न कृष्णं शुद्धं कर्म्म यस्य । शुद्धकर्म्मकारिणि पुण्यशीले ।

अकेतु पु० नास्ति केतुश्चिह्नं यस्य । चिह्नरहिते अज्ञाने,

“केतुं कृण्वन्नकेतवे” इति वेदः य० (२९, ३७) अकेतवे
अज्ञानायेति वेददीपः । चिह्नध्वजाभ्यां रहिते त्रि० ।

अकौशल त्रि० न--कुशलः अकुशलस्ततो भवादौ अण् आद्य-

चो वा न वृद्धिः । अकुशलभवादौ । आद्यचो वा वृद्धौ
आकौशलोऽप्यत्र । कुशलस्य भावः अण् + न० त० ।
असौष्ठवे न० ।

अक्का स्त्री अक--क, अच्यते इत्यक् अन्व--क्विप् गतिः तस्यै कायति कै क वा । मातरि जनन्याम् ।

अक्त त्रि० अज्यते अन्ज--कर्म्मणि क्त । कृताञ्जने, “अक्तं

रिहारणां व्यन्तु वय इति” “अक्ताः शर्करा उपदधा
तीति” च श्रुतिः परिमिते, व्याप्ते, सङ्कुले च ।

अक्तु पु० अन्ज--तु नि० । रात्रौ, तदुपलक्षिते तमसि च “रुद्रं

दिवा वर्द्धया रुद्रमक्तौ” इतिवेदः ।

अक्त्र न० अन्ज--बा० क्त्र । वर्म्मणि ।

अक्र त्रि० अन्चु गतौ रक् । स्थिरे । “उदु स्वरुर्नवजा नाक्रः” इतिवेदः ।

अक्रम त्रि० नास्ति क्रमः परिपाटी पादः क्रमणं वाऽस्य ।

परिपाटीशून्ये त्यक्तक्रमे एककाले । “तच्चार्थक्रियाचारित्वं
क्रमाक्रमाभ्यां व्याप्तं न च क्रमाक्रमाभ्यामन्यः प्रकारः
समस्तीति” सर्व्वद० पादशून्ये आक्रमणशून्ये च । क्रम-
भावे घञ् अभावार्थे न० त० । क्रमणाभावे पु० ।
अव्ययीभावः । क्रमाभावे अव्य० ।

अक्रान्ता स्त्री न क्रम्यते स्म कण्टकावृतत्वात् क्रम--क्त न०

त० । वृहत्याम् । क्रान्तभिन्ने विष्णुना क्रान्ते च त्रि० ।

अक्रतु त्रि० नास्ति क्रतुर्यज्ञः संकल्पोवा यस्य । यज्ञरहिते

संकल्परहिते च परमात्मनि पु० “न्यक्रतून्यर्थिनो मृध्रवाच”
इति वेदः ।

अक्रिया स्त्री० अभावार्थे न० त० । क्रियाभावे “प्रधानस्या-

क्रिया यत्र साङ्गं तत् क्रियते पुनः । तदङ्गस्याक्रियायान्तु
नावृत्तिर्न च तत्क्रियेति” “अक्रिया त्रिविधा प्रोक्तेति” च
स्मृतिः । न० ब० । कर्म्मशून्ये गुणादौ च त्रि० ।
सर्वकर्म्मशून्ये परमात्मनि पु० ।

अक्रूर त्रि० न क्रूरः । क्रूरभिन्ने सरले, स्वनामप्रसिद्धे वृष्णिवंश्ये क्षत्त्रियभेदे पु० ।

अक्रोध पु० न क्रोधः अभावार्थे न० त० । क्रोधाभावे यमभेदे

अहिंसा क्षान्तिरक्रोधः सत्यास्तेयापरिग्रहा” इति पुरा-
णम् । “अक्रोधं शिक्षयन्त्यन्ये क्रोधना ये तपीधना इति
नैष० न० ब० । क्रोधशून्ये त्रि० ।

अक्लम पु० न क्लमः अभावार्थे न० त० । श्रमाभावे । न०

ब० । श्रमशून्ये त्रि० ।

अक्लिष्ट क्लिश--भावे क्तन० ७ ब० । क्लेशरहिते कर्म्मादौ । क्लिश-

कर्त्तरि क्त न० त० । श्रान्तभिन्ने त्रि० ।

अक्लेश पु० अभावार्थे न० त० । क्लेशाभावे । न० ब० । क्लेशशून्ये त्रि० ।

अक्ष व्याप्तौ संहतौ च भ्वा० प० वेट् । अक्षति अक्ष्णोति

आक्षीत् आष्टाम् आक्षिष्टाम् आनक्षे । क्त अष्टः क्तिन्
अष्टिः शतृ अक्ष्णुवन् इ अक्षि--कनिन् अक्ष ।

अक्ष न० अश्नुते व्याप्नोति विषयान् स्ववृत्त्या संयोगेन वा

अश--स । इन्द्रिये, “अक्षाणि पण्डितजना विदुरिन्द्रि-
याणि” उ० नेत्रे, अधोक्षज इति । तुत्थे (तुँते) सौवर्चले
च । ज्योतिषोक्ते राशिचक्रावयवभेदे । “शङ्कुर्नरोना
कथितः सएव स्वार्द्धाद्रवेर्या विषुवद्दिनार्द्धे । नतिः
पलोऽक्षश्च सएव तज्ज्ञैस्तत्रोन्नतिर्यास्य सएव लम्ब इति”
सिद्धान्तशिरोमणिगणिताध्यायोक्ते विषुवद्दिनार्द्धे खार्द्धापेक्षया
नतिरूपे पलांशभेदे पु० । एतद्विवरणम् भास्कराचार्य्येण
प्रमिताक्षरायां स्वयमेव कृतम् । यथा “निरक्षदेशे (लङ्का-
विभागे) यदेव विषुवन्मण्डलं तदेव सममण्डलं ततः
क्षितिजादन्यदुन्मण्डलं नाम वलयं नास्ति तत्र ध्रुवौ च
क्षितिजसंज्ञे, अथ निरक्षदेशात् द्रष्टा यथा यथा
उत्तरतो गच्छति तथा तथा उदक्ध्रुवमुन्नतं पश्यति
तथा यैर्भागै र्ध्रुवौन्नतस्तैरेव भागैः अक्षसंज्ञैः स्वस्वस्तिकात्
दक्षिणतोविषुवन्मण्डलं नतं पश्यतीति” । “चन्द्राश्वि १२
निघ्ना पलभार्द्धिता च लङ्कावधिः स्यादिह दक्षिणोऽक्ष” इति
भास्वती । “उदग्दिशं याति यथा यथा नरस्तथा तथा
स्यान्नतमृक्षमण्डलम् । उदग्ध्रुवं पश्यति चोन्नतं क्षितेस्तद-
न्तरे योजनजाः पलांशका इति सिद्धान्त शि० गोलाध्यायः
यदि भूपरिधि (४९६७) योजनैश्चक्रांशाः (३६०) लभ्यन्ते
तदापसारयोजनैः किमिति, यद्यृक्षपरिधिना (३६०)
भूपरिधिः (४९६७) लभ्यते तदा अक्षांशैः किमिति, त्रैराशिकेन
फलं निरक्षदेशलङ्कास्वदेशयोरन्तरयोजनानि स्युरिति, सुयमेव
प्रमिताक्षरायां व्याख्यातम्, तथैव गोलाध्यायोक्तं दर्शितम् ।
“योजनसंख्या भांशै (३६०) र्गुणिता स्वपरिधि (४९६७)
हृता भवन्त्यंशाः (अक्षांशाः) । अक्षांशेभ्यो भूमौ
कक्षायां (ऋक्ष ३६० कक्षायाम्) वा योजनानि
च व्यस्तमिति” । व्यस्तमिति भूपरिधिगुणिता भांशहृता
पृष्ठ ००४२
अक्षसंख्या (योजनसंख्या) भवतीति । निरक्षदेशात्
क्षितिचतुथांशे किल मेरुस्तत्र नवतिः पलांशाः
(अक्षांशाः) इति च तत्रैवोक्तम् । पाशके कर्षपरिमाणे
च न० विभीतकवृक्षे (वयडा) तुषे, आत्मनि रुद्राक्षे सर्पे
जातान्धे गरुडे च पु० । तत्र रुद्राक्षे अक्षमाला ।
कर्षे अनुभवति धाराभिरक्षमात्राभिरिति, विभीतके “यथा
वै द्वे आमलके, द्वे वा कौले द्वौ वाक्षौ इति” श्रुतिः ।
व्यवहारे अक्षदर्शकः । रावणसुतभेदे पु० । तत्कथा
रामा० सु० ४३ अ० ।

अक्षक पु० अक्षैव कायाति कै--क । तिनिशवृक्षे । स्वार्थे-

कन् । अक्षशब्दार्थे प्रकृतिलिङ्गम् ।

अक्षकूट पु० अक्षस्य चक्षुषः कूटैव । नेत्रतारायां, स्वार्थे कन् । तत्रैव ।

अक्षक्षेत्र न० अक्षनिमित्तं क्षेत्रम् शा० त० । ज्योतिषोक्तेषु

अक्षसाधनार्थं क्षेत्रतया कल्पितेषु अक्षप्रवेषु अष्टसु क्षेत्रेषु ।
तानि च सिद्धान्तशिरोमणौ गणिताध्याये दर्शितानि यथा ।
“भुजोऽक्षभा कोटिरिनाङ्गुलोना कर्णोऽक्षकर्णः १ खलुमूलमेतत्
क्षेत्राणि यान्यक्षभवानि तेषां विद्येव मानार्थयशःसुखा-
नाम् ॥ लम्बज्यका कोटिरथाक्षजीवा भुजोऽत्र कर्णस्त्रि-
भुजे २ त्रिभज्या । कुज्या भुजः कोटिरपक्रमज्या कर्णो-
ऽग्रका च त्रिभुजं तथेदम्३ ॥ तथैव कोटिः समवृत्तशङ्कु-
रग्रा भुजस्तद्धृतिरत्र कर्णः ४ । भुजोऽपमज्या समना चकर्णः
कुज्योनिता तद्धृतिरत्र कोटिः ५ ॥ अग्रादिखण्डं कथिता च
कोटिरुद्वृत्तना दोः श्रवणोऽपमज्या ६ । उद्वृत्तना कोटि-
रथाग्रकाग्रखण्डं भुजस्तच्छ्रवणः क्षितिज्या ७ ॥ खण्डं
यदूर्द्ध्वं समवृत्तशङ्को र्यत्तद्धूतेस्तावथ कोटिकर्णौ । अग्रादि-
खण्डं भुज ८ एवमष्टौ क्षेत्राण्यमून्यक्षभवानि तावत् ॥”
क्षेत्राणि दर्शयेत्, “तत्र दक्षिणोत्तरमण्डले विषुवद्वृत्तसम्पा-
तादधो यावाँल्लम्बः क्षितिजसमसूत्रपर्य्यन्तः सा तत्र कोटिः,
लम्बनिपातकुमध्ययोरन्तरं साऽक्षज्या तत्र भुजः, भूमध्या-
ल्लम्बाग्रगामिसूत्रं त्रिज्या सा तत्र कर्णः, इदमप्यक्षक्षेत्रम्,
इष्टाहोरात्रवृत्त यत्र क्षितिजे लग्नं तस्य प्राक् स्वस्ति-
कस्य चान्तरमग्रा (चापांशाः) तेषां ज्याऽग्रा तावती च
प्रत्यक्क्षितिजे अग्राग्रयोर्निवद्धं सूत्रमुदयास्तसूत्रम्
अहोरात्रवृत्तोन्मण्डलसम्पातस्य प्राच्यपरसूत्रस्य च यदन्तरं सा
क्रान्तिज्या, सा तत्र कोटिः, अग्रा कर्णः, तदग्रयोरन्तरं
सा कुज्या स भुजः इदमक्षक्षेत्रं, तथाहोरात्रवृत्तसममण्डल-
सम्पातादधोवलम्बः, समवृत्तशङ्कुः सा कोटिः, अग्रा भुजः,
अहोरात्रवृत्ते ज्याखण्डकं तद्धृतिः कर्णः, इदमक्षक्षेत्रं,
तथा कृज्योनिता तद्धृतिरहोरात्रवृत्ते ज्यार्द्वं सा कोटिः,
उन्मण्डले क्रान्तिज्या स भुजः, समवृत्तशङ्गुः कर्णः, इदमक्ष-
क्षेत्रम्, तथाहोरात्रोन्मण्डलयोः सम्पातादवलम्ब उन्मण्डल-
शङ्गुः स भुजः, उन्मण्डलवृत्ते क्रान्तिज्या कर्णः, उन्म-
ण्डलशङ्क मूलस्य प्राच्यपरसूत्रस्य च यदन्तरं तदग्रादि-
खण्डं सा तत्र कोटिः, इदमक्षक्षेत्रं, तथोन्मण्डलशङ्कः कोटिः,
शङ्कुमूलोदयास्तसूत्रदोरन्तरमग्राग्रखण्डं स भुझः, कोटि-
भुजाग्रयोरन्तरसूत्रं सा कुज्या स तत्र कर्णः, इदमक्षक्षेत्रं,
तथोन्मण्डलशङ्कना हीनः समशङ्कुस्तत्समशङ्कोरूर्द्ध्वं खण्डं
सा कोटिः, कुज्योना तद्धृतिस्तद्धृतेरूर्द्ध्वखण्डं स कर्णः,
अग्रादिखण्डं स भुजः, इदमक्षक्षेत्रम् एतान्यष्टौ तावत्कथि-
तानि एवमन्यान्यपि भवन्ति ।

अक्षज न० अक्षात् इन्द्रियसन्निकर्षात् जायते जन--ड ।

इन्द्रियविषयसन्निकर्षोत्पन्ने प्रत्यक्षज्ञाने वज्रे अस्थिरूपा-
यवजातत्वात्तस्य तन्नामत्वम् । प्रागुक्ताक्षार्थजाते त्रि० ।
ज्योतिषोक्ते अक्षभवे क्षेत्रादौ च ।

अक्षणिक त्रि० न क्षणिकं न० । स्थिरे निश्चले च । “हरि-

वीक्षणाक्षणिकचक्षुषेति” माघः । अक्षणिकचक्षुषा स्थिर-
दृष्ट्या स्तिमितनेत्रयेत्यर्थः इति मल्लिनाथः ।

अक्षण्वत् त्रि० अक्षअस्यास्ति मतुप् मस्य वः । नेत्रयुक्ते “पश्य-

दक्षण्वान्न विवेद” इति “अक्षण्वन्तःकर्म्मवन्तः समर्था”
इति च वेदः ।

अक्षत पु० ब० न क्षताः । “अक्षताश्च यवाः प्रोक्ता इति का०

स्मृत्युक्ते यवे । नपुंसकमिति केचित् “दूर्वाक्षतानि” चेति
पुराणम् । तण्डुले, “अक्षतैर्नार्च्चयेद्विष्णुं न तुलस्या विना-
यकमिति” तन्त्रम् । शस्यमात्रे न० । क्षययुक्तभिन्ने
उत्कर्षान्विते अविदारिते च त्रि० । “अक्षता वा क्षता वा
पीति” मनुः । क्षण--भावे क्त न० त० । क्षयाभावे न० ।
“अक्षतञ्चारिष्टं चा स्तु” इति श्राद्धविप्रसमीपे कृतकर्म्मणो-
ऽक्षयप्रार्थना ।

अक्षदर्शक पु० अक्षाणामृणादानादिव्यवहाराणां दर्शकः

दृश--ण्वुल् ६ त० । विवादनिर्णेतरि धर्म्माधिकरणाध्यक्षे ।
द्यतदर्शके त्रि० ।

अक्षदृश् पु० अक्षान् व्यवहारान् पश्यति दृश--क्विन् कुत्वम् ।

अक्षदर्शकशब्दार्थे । अक्षार्थद्रष्टरि त्रि० ।

अक्षदेविन् त्रि० अक्षैर्दीव्यति दिव--णिनि ३ त० । पाशकादि-

द्यूतक्रीड़ाकारके ।

अक्षद्य त्रि० अक्षैर्दीव्यति दिव--क्विप् ऊठ् । पाशकादिद्यूतकारके ।

पृष्ठ ००४३

अक्षद्यूत न० अक्षैर्द्यूतम् ३ त० । पाशकादिक्रीड़ायाम् ।

अक्षद्यूतादि पु० ब० । “निर्वृत्तेऽक्षद्यूतादिभ्य” इति पाणिन्युक्ते

ठक्प्रत्ययनिमित्ते शब्दसमूहे । अक्षद्यूत, जानुप्रहृत-
जङ्घाप्रहृत जङ्घाप्रहत, पादस्वेदन, कण्टकमर्द्दन, गतानु-
गत, गतागत--यातोपयात, अनुगत इति । अक्षद्यूतेन
र्निवृत्तम् आक्षद्यूतिकं वैरमित्यादि ।

अक्षधर पु० अक्षं चक्रं रथावयवं तत्कीलकमिव कण्टकं वा

धरति धृ--अच् ६ त० । विष्णौ चक्रे शाखोटकवृक्षे च
चक्रधारकमात्रे त्रि० ।

अक्षधुर् स्त्री० अक्षस्य चक्रस्य धूरग्रं भारोवा ६ त० न अ समा० । चक्राग्रे चक्रभारे च ।

अक्षधूर्त्त त्रि० अक्षे तद्देवने धूर्त्तः । द्यूतकुशले द्यूत-

कारिणि च (जुयारि) ।

अक्षधूर्त्तिल पु० अक्षस्य शकटस्य धूर्त्तिं भारं लाति ला--क । शकटवाहनकर्त्तरि वृषे ।

अक्षन् न० अक्ष--बाहु० कनिन् । नेत्रे “दक्षिणेऽक्षन् इति

वृह० उप० “भद्रं कर्णेभिः शृणवाम देवा भद्रं पश्ये-
माक्षभिर्यजत्रा” इति वेदः ।

अक्ष(क्षि)पटल न० अक्ष्णः नेत्रस्य पटलमिवाच्छादकत्वात् ।

नेत्रस्यावरके कोशभेदे नेत्ररोगभेदे (छानि) च । पटलस्थ-
रोगभेदादि शुश्रुते उक्तं यथा
“मसूरदलमात्रान्तु पञ्चभूतप्रसादजाम् । खद्योतविस्फुलि-
ङ्गाभां सिद्धां तेजोभिरव्ययैः ॥ आवृतां पटलेनाक्ष्णोर्वा-
ह्येन विवराकृतिम् । शीतसात्म्यां नृण्णां दृष्टिमाहुर्नयन
चिन्तकाः ॥ रोगांस्तदाश्रयान् घोरान् षट् च षट् च
प्रचक्ष्महे । पटलानुप्रविष्टस्य तिमिरस्य च लक्षणम् ॥
शिराभिरभिसम्प्राप्य विगुणोऽभ्यन्तरे भृशम् । प्रथमे पटले
दोषो यस्य दृष्टौ व्यवस्थितः ॥ अव्यक्तानि स रूपाणि
सर्व्वाण्येव प्रपश्यति । दृष्टिर्भृशं विह्वलति द्वितीयं पटलं
गते । मक्षिकाः मशकान् केशान् जालकानि च पश्यति ।
मण्डलानि पताकाश्च मरीचीः कुण्डलानि च ॥ परिप्लवांश्च
विविधान् वर्षमभ्रं तमांसि वा । दूरस्थान्यपि रूपाणि
मन्यते च समीपतः ॥ समीपस्थानि दूरे च दृष्टेर्गोचर-
विभ्रमात् । यत्नवानपि चात्यर्थं सूचीपाशं न पश्यति ॥
ऊर्द्धं पश्यति नाधस्तात्तृतीयं पटलं गते । महान्त्यपि च
रूपाणि च्छादितानीव वाससा ॥ कर्णनासाक्षियुक्तानि
विपरीतानि वीक्षते ॥ यथादोषञ्च रज्येत दृष्टिर्द्दोषे
बलीयसि ॥ अधःस्थिते समीपस्थं दूरस्थञ्चोपरिस्थिते । पार्श्व-
स्थिते तथा दोषे ऽपार्श्वस्थानीव पश्यति ॥ समन्ततः स्थिते
दोषे सङ्कुलानीव पश्यति । दृष्टिमध्यगते दोषे स एकं मन्यते
द्विधा ॥ द्विधास्थिते त्रिधा पश्येद्बहुधा चानवस्थिते । तिमि-
राख्यः स वै दोषश्चतुर्थपटलङ्गतः ॥ रुणद्धि सर्वतो दृष्टिं
लिङ्गनाशः स उच्यते । तस्मिन्नपि तमोभूते नातिरूढे
महागदे ॥ चन्द्रादित्यौ सनक्षत्रावन्तरिक्षे च विद्युतः ।
निर्मलानि च तेजांसि भ्राजिष्णूनि च पश्यति ॥ स एव
लिङ्गनाशस्तु नीलिकाकाचसंज्ञितः” इति ।
अक्षाणां व्यवहाराणां पटलमस्त्यस्य अच् ६ त० । अक्ष-
दर्शके धर्म्माध्यक्षे पु० ।

अक्षपरि अव्य० अक्षेण पाशकेन विपरीतं वृत्तम् । अक्ष-

शलाकेत्यादिना परिणा अव्य० । पाशकक्रीड़ायां यथा
गुटिकापाते जयोभवति तद्विपरीतपातने ।

अक्षपाटक पु० अक्षे व्यवहारे पाटयति दीप्यते पट दीप्तौ-

ण्वुल् । व्यवहारनिर्णेतरि धर्म्माध्यक्षे ।

अक्षपाद पु० अक्षं नेत्रं दर्शनसाधनतया जातः पादोऽस्य ।

न्यायसूत्रकारके गौतमे मुनौ, स हि स्वमतदूषकस्य व्यासस्य
मुखदर्शनं चक्षुषा न कर्त्तव्यमिति प्रतिज्ञाय पश्चात्
व्यासेन प्रसादितः पादे नेत्रं प्रकाश्य तं दृष्टवानिति
पौराणिकी कथा । “अक्षपादप्रणीते च काणादे सांख्य-
योगयोः । त्याज्यः श्रुतिविरुद्धोऽर्थ इति” पद्मपुराणम् ।

अक्षपीड़ा स्त्री० अक्षमिन्द्रियं रसनारूपं पीड़यति आस्वा-

दनात् पीड--अच् । यवतिक्तालतायाम् । पीड--भावे अङ् +
६ त० । इन्द्रियपीडायाम् ।

अक्षम त्रि० न क्षमते क्षम--अच् न० त० । असमर्थे ।

क्षम--भावे अङ् अभावार्थे न० त० । क्षमाभावे ईर्ष्या-
याम् स्त्री । “अक्षमा भवतः केयमिति” भारतम् ।
न० ब० । क्षमारहिते त्रि० ।

अक्षमाला स्त्री अक्षाणां रुद्राक्षाणां माला । रुद्राक्ष

वीजग्रथितमालायाम् । अकारादिक्षकारान्तः अक्ष स्तत्कृता
तत्प्रतिनिधीभूता वा माला शा० त० । एकपञ्चाशद्वर्ण-
मालायाम् तत्प्रतिनिधीभूतायां स्फटिकादिग्रथितायाम्
वाह्यमालायाञ्च “शोष्यमाणपुष्करवीजं ग्रथ्यमनाक्ष
मालमिति” काद० । “विभान्तमच्छस्फटिकाक्षमालयेति” माघः ।
तद्विवरणम् । “क्रमोत्क्रमगते माला मातृकार्णे क्षमेरुके ।
लावसानैः साष्टवर्गैरन्तर्यजनकर्म्मणीति” सनत्कुमारीये ।
“पद्मवीजादिभिर्माला वहिर्यागे शृणुष्व ताः । रुद्राक्षशङ्ख-
पद्माक्षपुत्रजीवकमौक्तिकैः । स्फाटिकैर्मणिरत्नैश्च सुवर्णै
र्विद्रुमैस्तथा । रजतैः कुशमूलैश्च गृहस्थस्याक्षमालि-
केति” तन्त्रसारे एतत्विस्तारस्ततएवागन्तव्यः । अक्षस्य
पृष्ठ ००४४
नक्षत्रचक्रस्य मालेव भूषणत्वात् । अरुन्धत्यां, सा हि
उत्तरस्यां दिशि गगने सप्तर्षिमण्डलचक्रे वसिष्ठसमीपे-
मालारूपेण वर्त्तते सर्व्वेभ्यश्च उज्वलत्वात्तस्या मालारूपेण
स्थितत्वाच्च नक्षत्रचक्रभूषणत्वम् ।

अक्षय त्रि० नास्ति क्षयोऽस्य । क्षयरहिते सर्व्वदा वर्त्तमाने

“गयायामक्षयवटे पितॄणां दत्तमक्षयमिति” वायुपुराणम्
“अभिजिद्रोहिणोदये यदत्र दीयते जन्तोस्तदक्षयमुदा-
हृतमिति” स्मृतिः । परमात्मनि पु० । क्षयोवासः,
तच्छून्ये अनिकेतने संन्यासिनि, दरिद्रे च । अक्षयं पुण्य-
मत्रास्ति अच् । अक्षयपुण्यसाधने तिथिभेदे च “अमा वै
सोमवारेण रविवारेण सप्तमी । चतुर्थी भौमवारेण अक्ष-
यादपि चाक्षयेति” भविष्यपुराणम् ।

अक्षयतृतीया स्त्री कर्म्म० । वैशाखशुक्लपक्षतृतीयायाम् ।

“वैशाखे मासि राजेन्द्र! शुक्लपक्षे तृतीयिका । अक्षया सा
तिथिः प्रोक्ता कृत्तिकारोहिणीयुता । तस्यां दानादिकं
सर्व्वमक्षयं समुदाहृतमिति” । “या शुक्ला कुरुशार्द्दल! वैशाखे
मासि वै तिथिः । तृतीया साक्षया लोके त्रिदशैरभिवन्दि-
तेति” च भविष्यपुराणम् । “वैशाखस्य सिते पक्षे तृतीयाऽ-
क्षयसंज्ञितेति” स्कन्दपुराणम् ।

अक्षय्य त्रि० क्षेतुं शक्यं क्षि--यत् नि० न० त० । क्षयानर्हे ।

अक्षये च “तेषां पिण्डो मया दत्तोह्यक्षय्यमुपतिष्ठतामिति” वायु०

अक्षय्योदक न० नक्षय्य मक्षय्य मुदकं यत्र श्राद्धे पिण्ड-

दानानन्तरं देये मधुतिलमिश्रिते उदके । “अक्षय्योदक
दानन्तु अर्घ्यदानवदिष्यते । षष्ठ्यैव नित्यं तत् कुर्य्यात् न
चतुर्थ्या कदाचनेति” छन्दोगप० ।

अक्षर न० न क्षरतीति क्षर--चलने अच् न० त० ।

परमब्रह्मणि कूटस्थे चैतन्ये “अक्षरं परमं ब्रह्मेति” गीता ।
क्रियाशून्ये त्रि० जीवे परमात्मनि च पु० । “क्षरः सर्वाणि
भूतानि कूटस्योऽक्षर उच्यते इति “यस्मात् क्षरमतीतो-
ऽहमक्षरादपि चोत्तमः । अतोऽस्मि लोके वेदे च प्रथितः
पुरुषोत्तम इति” च गीता । क्षरणशून्ये स्थिरे त्रि० ।
अश्रुते व्याप्नोति वेदादिशास्त्राणि अश--सरन् । अकारादि-
वर्णे न० “अक्षराणामकारोऽस्मि द्वन्द्वःसामासिकस्य चेति”
गीता । वर्णस्मारकलिपिसन्निवेशे, “अक्षरं वर्णनिर्म्माणं
वर्णमप्यक्षरं विदुः । अक्षरं न क्षरं विद्यादश्नोतेर्वा
सरेऽक्षरमिति” उज्ज्वल० । उदके मोक्षे च न० ।

अक्षरचण त्रि० अक्षरेण वर्णविन्यासलिप्या वित्तः अक्षर +

चणप् । लेखनाजीवके ।

अक्षर(चु)चञ्चु त्रि० अक्षरेण वर्णविन्यासलिप्या वित्तः अक्षर + चु(च)ञ्चुप् । लेखनाजीवके ।

अक्षरच्छन्दस् न० अक्षरेण वर्णसंख्यया कृतं छन्दः । वर्ण-

वृत्ते “छन्दस्तु द्विविधं प्रोक्तं वृत्तं जातिरिति द्विधा वृत्त-
मक्षरसंख्यातं जातिर्मात्राकृता भवेदिति” छन्दोम०
तस्य च तत्कृतत्वात्तथात्वम् । अक्षरं निश्चलं छन्दोऽभि-
प्रायोऽस्य ब० । परमेश्वरे पु० दृढाध्यवसाये त्रि० ।

अक्षरजननी स्त्री अक्षराणां जननीव । लेखन्याम् (कलम्) ।

अक्षरजीवक त्रि० अक्षरेण तल्लिपिलेखनेन जीवति

जीवण्वुल् ३ त० । अक्षरलेखनोपजीवके ।

अक्षरतूलिका स्त्री अक्षराणां तल्लिपिलेखानां तूलिकेव

साधनत्वात् । लेखन्याम् (कलम्) ।

अक्षरन्यास पु० अक्षराणि तत्स्मारकाकारविशेषा न्यस्यन्ते

अत्र + नि + अस--आधारे घञ् ६ त० । लिप्याम्,
पत्रिकायाम् । भावे घञ् ६ त० । अक्षरस्मारकरेखा-
द्याकारविशेषलेखने, हृदयाद्याधारस्पर्शपूर्ब्बकं तत्तदक्ष-
राणां स्मरणोच्चारणरूपे तन्त्रप्रसिद्धे वर्ण्णन्यासे, “सविन्दून्
वा न्यसेदेतान् निर्विन्दून् वा यथाक्रममिति” तन्त्रम् ।
विस्तारः मातृकाशब्दार्थे द्रष्टव्यः । अक्षरविन्यासो-
ऽप्युक्तार्थेषु ।

अक्षरजीविक त्रि० अक्षरं तल्लिपिलेखनं जीविका वर्त्तनोपयोऽस्य । लिपिलेखनोपजीविनि ।

अक्षरजीविन् त्रि० अक्षरेण तल्लिपिलेखनेन जीवति

जीवणिनि ३ त० । अक्षरलेखनेन वृत्तिनिर्वाहकारके । स्त्रियां
ङीप् ।

अक्षरमुख त्रि० अक्षराणि तन्मयानि शास्त्राणि वा मुखे

यस्य । शास्त्राभिज्ञे अक्षराभिज्ञे च ६ त० । अकाररूपे वर्णेन०

अक्षरशस् अव्य० अक्षरमक्षरमिति वीप्साथ कारके शस् ।

प्रत्यक्षरमित्यर्थे, “पच्छ अक्षरशः इति” गृह्यम् ।

अक्षरसंस्थान न० अक्षराणां तत्स्मारकरेखाविशेषाणां

संस्थानमत्र ब० । वर्ण्णस्मारक--रेखाविशेषयुक्त--लिप्याम् ।
“लिखिताक्षरसंस्थानमित्यमरः” ।

अक्षराङ्ग न० अक्षराणामङ्गं तत्स्मारकरेखाविशेषाणामवयवः

६ त० । लिप्याम्, लेखनसाधनद्रव्ये च ।

अक्षराज पु० अक्षेण तत्क्रीडया राजेव । द्यूतासक्ते ।

अक्षरी स्त्री अश्नुते गगनाभोगं मेघैः अश--सरन् गौ०

ङीष् । वर्षायाम्

अक्षवती स्त्री अक्षा पाशकाः साधनत्वेन विद्यन्तेऽत्र अक्ष +

मतुप् मस्य वः ङीप् । द्यूतक्रीड़ायाम् ।
पृष्ठ ००४५

अक्षवाट पु० अक्षाणां पाशकक्रीडानां वाटः वासस्थानम् ।

द्यूतस्थाने, पाशकाधारे फलके च । अक्षस्य रथचक्र
क्षुण्णस्थानस्येव वाटः । मल्लभूमौ तत्र हि रथचक्रक्षुण्ण-
पांशुसदृशपांशुमत्त्वात् तत्सदृशत्वम् ।

अक्षविद् त्रि० अक्षं पाशकक्रीडां व्यवहारं वा वेत्ति

विदक्विप् । अक्षविद्याभिज्ञे व्यवहाराभिज्ञे च अक्षवेत्त्रादयो
ऽप्यत्र । स्त्रियाम् अक्षवेत्त्री ।

अक्षविद्या स्त्री ६ त० । पाशकादिद्यूतविद्यायाम् ।

अक्षवृत्त न० अक्षं राशिचक्ररूपं वृत्तं वेष्टनाकारं कोण

शून्यं क्षेत्रम् । राशिचक्ररूपे वृत्तक्षेत्रे । अक्षे पाशक
क्रीडायां वृत्तः व्यापृतः ७ त० । पाशकक्रीडासक्ते “यदक्ष-
वृत्तमनु दत्तं न एतदिति” श्रुतिः ।

अक्षशौण्ड पु० अक्षेषु तत्क्रीडायां शौण्डः प्रवीणः ७ त० । द्यूतक्रीडाकुशले ।

अक्षसूत्र न० अक्षस्य जपमालायाः सूत्रम् । जपमालाश्रय

साधने सूत्रे “साक्षसूत्रकमण्डलुरिति” पुराणम् ।

अक्षाग्रकीलक न० अक्षस्य रथनाभिक्षेत्रस्याग्रनद्धं कीलकम् ।

६ त० । चक्रनाभिक्षेत्राग्रप्रोते कीलके ।

अक्षानह् न० अक्षे चक्रे आनह्यते बध्यते आ +

नहक्विप् । चक्रसंबद्धे काष्ठभेदे । “अक्षानहो नह्यतनोत
सौम्या” इति वेदः ।

अक्षान्ति स्त्री० क्षम--क्तिन् विरोध्यर्थे न० त० ।

ईर्ष्यायां, क्रोधे च । न० ब० । क्षमाशून्ये त्रि० ।

अक्षारलवण त्रि० क्षारेण उषरमृत्तिकया निर्वृत्तं अण्

क्षारं कृत्तिमं लवणं न० त० । अकृत्रिमलवणे “मुन्य-
न्नानि पयः सोमोमांसं यच्चानुपाकृतम् । अक्षारलवणञ्चै-
वेति” मनुः । “चतुर्थकालमश्नीयादक्षारलवणं तथेति”
मनुः अक्षारलवणमकृत्रिमलवणमितिप्राय० रघु० । क्षार-
लवणभिन्ने सैन्धवलवणे न० । “नैतस्यां रात्रावन्नं
पचेयुस्त्रिरात्रमक्षारलवणान्नाशिनः स्युर्द्वादशरात्रं
महागुरुष्विति, आश्वनायनगृह्यम् । अक्षारलक्षणं क्षार-
मृत्तिकादि--कृतलवणभिन्नं सैन्धवं सम्भारि चेति शु०
रघु० । “गोक्षीरं गोघृतञ्चैव धान्यमुद्गास्तिलायवाः । सामुद्रं
सैन्धवञ्चैव अक्षारलवणं स्मृतम्” इति स्मृत्युक्ते गोघृतादि-
द्रव्यगणे च ।

अक्षावपन न० अक्षान् पाशकान् आवपति क्षिपत्यस्मिन्

आ + वप--आधारे ल्युट् ६ त० । पाशकपातनाधारे फलके ।

अक्षावली स्त्री ६० त० । जपसाधन--रुद्राक्षवीजावलौ

जपमालायाम् “रक्षावलीमिवाक्षावलीं कण्ठेनोद्वहन्ती” तिकाद० ।

अक्षावाप त्रि० अक्षान् पाशकान् आवपति क्षिपति आ +

वप--अण् उप० स० । द्यूतकारके, तदध्यक्षे च ।

अक्षि न० अश्नुते विषयान् अश--क्सि । नेत्रे, इन्द्रियमध्ये

तस्यैव विषयदेशं प्राप्य विषयग्राहकत्वं सर्व्ववादिसस्मतमन्ये-
षान्तु सर्वमते न तथात्वमतोऽस्य विषयव्यापकता । एतदन्त
बहुव्रीहेः स्वाङ्गपरत्वे षजन्तता पद्माक्षः पद्माक्षी, अस्वाङ्ग-
परत्वे अजन्तता दीर्घाक्षा वेणुयष्टिः, अव्ययीभावे अजन्तता
प्रत्यक्षं समक्षमित्यादि तत्पुरुषे ऽस्वाङ्गपरत्वेऽजन्तता गवाक्षः ।
इदञ्च शब्दादिषु वाह्येन्द्रियग्राह्यविशेषगुणेषु मध्ये
रूपस्यैव ग्राहकतया तैजसं नेत्रगोलकेऽधिष्ठितं किञ्चित्
वस्तु । तैजसत्वाच्चास्य सूर्य्यादिकिरणवदाशुदूरपर्य्यन्ता-
नुधावनमागमनञ्च । तच्च परमाणुतुल्यमिति नैयायि-
दयः तदपेक्षया स्थूलमिति सांख्यादयः । उभयमते-
ऽपि न तस्य प्रत्यक्षयोग्यता । तदाधारगोलके द्वे वाह्ये
आन्तरणि च चत्वारि कोशवत् पटलानि, मांसादयः पञ्चांशाः,
पक्ष्मादीनि पञ्च मण्डलानि षट् सन्धयश्च सन्ति । तद्विरणं
यथा “विद्याद्द्व्यङ्कुलबाहुल्यं स्वाद्भुष्ठोदरसम्मितम् । द्व्यङ्कुलं
सर्व्वतः सार्द्ध्वं भिषग्नयनवुद्बुदम् ॥ सुवृत्तं गोस्तनाकारं
सर्ब्बभूतगुणोद्भवम् । पलं भुवो, ऽग्नितो, रक्तं, वातात् कृष्णं,
सितं जलात् ॥ आकाशादश्रुमार्गाश्च जायन्ते नेत्रवुद्बुदे ।
दृष्टिञ्चात्र तथा वक्ष्ये यथावादीद्विशारदः ॥ नेत्रायामत्रि-
भागन्तु कृष्णमण्डलमुच्यते । कृष्णात् सप्तममिच्छन्ति दृष्टिं
दृष्टिविशारदाः ॥ मण्डलानि च सन्धीर्श्च पटलानि च
लोचने । यथाक्रमं विजानीयात् पञ्च षट् च षडेव च ॥
पक्ष्मवर्त्मश्वेतकृष्णदृष्टीनां (५) मण्डलानि तु । अनुपूर्ब्बन्तु
तन्मध्याश्चत्वारोऽन्ये यथोत्तरम् ॥ पक्ष्मवर्त्मगतः सन्धिर्वर्त्म
शुक्लगतोऽपरः । शुक्लकृष्णगतस्त्वन्यः कृष्णदृष्टिगतोऽपरः ॥
ततः कनीनकगतः षष्ठश्चापाङ्गगः स्मृतः । द्वे वर्त्मपटले
विद्याच्चत्वार्य्यन्यानि चाक्षणि । जायते तिमिरं येषु
व्याधिः परमदारुणः । तेजोजलाश्रितं वाह्यं तेष्वन्यत्
पिशिताश्रितम् ॥ मेदस्तृतीयं पटलमाश्रितन्त्वक्षि चापरम् ।
पञ्चमांशसमं दृष्टेस्तेषां बाहुल्यमिष्यते इति शुश्रुते ॥

अक्षिक पु० अक्षाय चक्रावयवाय हितम् ठन् । रञ्जनद्रुमे

(आतैच) ।

अक्षिकूटक न० अक्ष्णः कूट इव कन् । नेत्रगोलके नेत्रतारायाञ्च ।

अक्षिगत त्रि० अक्ष्णि गतः सर्व्वदाभावनावशादक्ष्यसन्नि-

कृष्टोऽपि उपस्थित इव । द्वेष्ये शत्रौ नेत्रगोचरे च ।
“त्वयि किलाक्षिगते नयनैस्त्रिभिरिति नै० ।

अक्षितर न० अक्षीव तरति तॄ--अच् । जले निर्म्मलत्वान्नेत्र तुल्यत्वम् ।

अक्षिभू स्त्री अक्ष्णः भूर्विषयः । चक्षुर्गोचरे प्रत्यक्षे, सत्ये

नेत्रदृष्टवस्तुन एव सत्यतासंवादितया तस्य सत्यत्वम् ।
“सत्यस्याक्षिभुवो यथा, इति श्रुतिः ।
पृष्ठ ००४६

अक्षिभेषज न० ६ त० नेत्ररोगविशेषनिवारके पट्टिकालोध्रवृक्षे ।

अक्षिभ्रुव न० भ्रुवौ च अक्षिणी च समा० द्व० । राजदन्तादि०

अक्षिशब्दस्य बह्वच्कत्वेऽपि पूर्ब्बनि० अच्समा० । भ्रूनेत्र-
संघाते “सौमित्रिरक्षिभ्रुवमुज्जिहान” इति भट्टिः ।

अक्षिव पु० अक्षि वातिं प्रीणाति अञ्जनेन वा--क । (सजना)

शोभाञ्जनवृक्षे सामुद्रलवणे च ।

अक्षिविकूणित न० अक्ष्णः विकूणितं लज्जादिना सम्यक्

प्रसाराभावात् सङ्कोचोय त्र । अपाङ्गदर्शने कटाक्ष पाते

अक्षीव न० न क्षीवते माद्यति क्षीव--क, क्त वा न० त० ।

शोभाञ्जने (सजना) सामुद्रलवणे च । मत्तभिन्ने त्रि० ।
बान्तोयमित्यन्ये ।

अक्षु न० अक्ष--उ । शीघ्रे । “जूर्णो मक्षुवाहंसोयजत्रा” इति वेदः ।

अक्षुध्य त्रि० अक्षुधे हितम् अक्षुध् + यत् । क्षुधाभावसाधने

द्रव्ये । “अक्षुध्या अतृष्यास्ते गृहामास्मद्बिभीतनेति” वेदः ।

अक्षेत्र न० अप्रशस्तं क्षेत्रं न० त० । शस्यानुत्पादके क्षेत्रे

उपदेशानर्हे शिष्ये, अपात्रे च । “अक्षेत्रे वीजसुत्-
सृष्टमन्तरैव विनश्यतीति” पुरा० ।

अक्षेत्रविद् त्रि० क्षेत्रं देहतत्त्वं तत्त्वतो न जानाति विद--क्विप्

अस० स० । क्षेत्रतत्त्वानभिज्ञे आत्मत्वेन देहाभिमानिनि
जीवे । “अक्षेत्रविद् क्षेत्रमिदं ह्यप्राट् प्रैति क्षेत्रविदा-
नुशिष्ट” इति वेदः ।

अक्षेत्रिन् पु० क्षेत्रं शस्योत्पत्तिस्थानं कलत्रं वा मत्वर्थे इनि

न० त० । क्षेत्रस्वामिभिन्ने । “येऽक्षेत्रिणो वीजवन्तः
परक्षेत्रे प्रवापिन इति” स्मृतिः ।

अक्षोट पु० अक्ष--ओट् अक्षस्यविभीतकस्येव उटानि पर्ण्णान्यस्य

वा । पर्व्वतीयपीलुभेदे (आस्वरोट) स्वार्थे कन् तत्रैव ।

अक्षोड पु० अक्ष--ओड अक्षः विभीतक इव ओडति पत्रैः

संहन्यते उड--अच् वा । पर्व्वतीयपीलुवृक्षे (आखरोट)
स्वार्थे कन् तत्रैव ।

अक्षोभ्य त्रि० क्षोभ्यते विचाल्यते क्षुभ--णिच् कर्म्मणि यत् न०

त० । भ्रमयितुमशक्ये “इक्ष्वाकुबलमक्षोभ्यमिति” पुरा० ।
तन्त्रोक्ते द्वितीयविद्यामन्त्रीपासके तद्देवतायाः शिरसि
नागरूपेण स्थिते ऋषिभेदे पु० । “अक्षोभ्योऽस्याऋषिः
प्रोक्त, इति तन्त्रम् ।

अक्षोभ्यकवच न० अक्षोभाय हितमक्षोभ्यं कर्म्म० ।

तन्त्रोक्ते कवचभेदे तच्च तन्त्रसारे द्रष्टव्यम् ।

अक्षौहिणी स्त्री ऊहः समूहः संविकल्पकज्ञानं वा सोऽस्या-

मस्ति इनि, अक्षाणां रथानां सर्व्वेषामिन्द्रियाणाम् “वा
ऊहिनी णत्वं वृद्धिश्च । रथगजतुरङ्गपदाति--संख्याविशेषा-
न्विते सेनासमूहे । “अक्षौहिण्यामित्यधिकैः सप्तत्या चाष्टभिः
शतैः । संयुक्तानि सहस्राणि गजानामेकविंशतिः ।
एवमेव रथानान्तु संख्यानं कीर्त्तितं बुधैः । पञ्चषष्टिः
सहस्राणि षट् शतानि दशैव तु । संख्यातास्तुरगास्तज्ज्ञै-
र्विना रथ्यतुरङ्गमैः । नॄणां शतसहस्रं तु सहस्राणि न
वैवतु । शतानि त्रीणिचान्यानि पञ्चाशच्च पदातय इति ।
रथाः २१८७० । गजाः २१८७० । रथवाहकाश्व-
भिन्नाः अश्वाः ६५६१० । पदातयः १०९३५० ।

अक्ष्ण त्रि० अश्नुते व्याप्नोति अश--क्स्न । व्यापके अखण्डे

काले न० अक्ष्णया दक्षिणेऽंसे श्रेण्यां श्रेण्यामंसे, इति वेदः ।

अखट्ट पु० खट्ट--अच् न० त० । पियालवृक्षे (पियासाल)

अखट्टि स्त्री खट्ट--इ न० त० वा ङीप् । अशिष्ट्व्यवहारे ।

अखण्ड त्रि० खडि--घञ् न० त० । संपूर्णे, सकले

“अखण्डसाम्राज्यपतितत्वमेतीति” जातकम् खण्डभिन्ने पु० न० ।

अखण्डन पु० न खण्ड्यते निरवयवत्वात् खडि--ल्युट् न० त०

खण्डनानर्हे परमात्मनि, पूर्ण त्रि० ।

अखण्डित त्रि० खडि--क्त न० त० । सम्पूर्णे, “खण्डितभिन्ने च ।

अखण्डितर्त्तु पु० अखण्डितः ऋतुः तत्सम्पत् पुष्पादि-

प्रसवरूपा यत्र पुष्पादि--सर्वसम्पद्युक्ते ऋतुकाले ।

अखलीकार पु० न खलः अखलस्तस्य कारः अखल +

च्वि--कृ--घञ् । सप्रयोजनताविधाने अखलान्यथासम्पादने ।

अखेटिक पु० न खेटत्यस्मात् खिट--भये षिकन् । वृक्षमात्रे ।

अखात पु० न० खन--क्त न० त० । देवखाते, मनुष्याद्यखाते

च । खातभिन्ने त्रि० । “खातमखातमुत सक्तमिति” वेदः ।

अखाद्य त्रि० खाख--अर्हार्थे ण्यत् न० त० । भोजनानर्हे

गोमांसादौ, भक्ष्यभिन्ने च ।

अखिद्र त्रि० खिद--रक् न० त० । खेदरहिते “मरुतोयातेमखि

द्रयामभिरिति” वेदः ।

अखिन्न त्रि० खिद--भावे क्त त० ब० । क्लेशरहिते अनाया-

ससाध्ये कर्म्मणि खेदरहिते कर्त्तरि च । कर्त्तरि क्त
न० त० । अक्लिष्टे ।

अखिल त्रि० न खिल्यते न कणशआदीयते खिल--क

न० त० । समग्रे । खिलाभिन्ने कृष्टभूम्यादौ स्त्री ।
नास्ति खिलमवशिष्टं यस्य शेषशून्ये “वेदोऽखिलोधर्म्म-
मूलं स्मृतिशीले च तद्विदामिति” मनुः । तेन सिंहासं
पैत्र्यमखिलं चारिमण्डलमिति” रघुः । “न निशाखिल-
यापि वापिका प्रससाद ग्रहिलेव मानिनीति” नै० ।
पृष्ठ ००४७

अग इदित् गतौ भ्वादि० पर० । अङ्गति । आङ्गीत् ।

ल्युट् अङ्गनम् असुन् अङ्गः ।

अग वक्रगतौ भ्वादि० पर० घटादि । अगति आगीत् । अगयति ।

अग पु० न गच्छतीति गम--ड न० त० । वृक्षे, पर्व्वते, च ।

गमनाकर्त्तरि शूद्रादौ त्रि० । न गच्छति वक्रगत्या
पश्चिमम् । सूर्ये तस्य हि वक्रगत्यभावः ज्योतिषप्रसिद्धः ।
“वक्रशीघ्रगतिश्चैव भवेत् भौमादिपञ्चके” इत्युक्तेः आर्य्यभट्ट
मते तु पृथिव्याएव गतिमत्त्वेन दिनरात्रिसम्भवात् सूर्य्यस्य
न गतिमत्त्वम् । सप्तसंख्यायाञ्च कुलाचलानां सप्तत्वेन
तेषाञ्च प्राधान्यात् “प्रधानेन व्यपदेशाभवन्तीति” न्यायात्
तथात्वम् ।

अगच्छ पु० गम--बा० श न० त० । वृक्षे ।

अगज न० अगात् पर्वतशिलातो जायते जन--ड । शिला-

जतुद्रव्ये । पर्वतजातमात्रे त्रि० ।

अगण्य त्रि० गणयितुमशक्यम् गण--शक्यार्थे यत् न० त० ।

गणयितुमशक्ये असंख्ये । “गुणैरगण्यैरतिशीलशालिभि-
रिति” । अर्हे यत् न० त० । गणनानर्हे, अकिञ्चित्करे त्रि० ।

अगति स्त्री गम--क्तिन् न० त० । उपायाभावे । बहु० ।

गतिशून्ये, उपायशून्ये च त्रि० । स्वार्थे कन्, शेषाद्वा कप्
तत्रैवार्थे त्रि० “मामगतिकमिति” शङ्कराचार्य्यः ।

अगद पु० नास्ति गदी रोगी यस्मात् ५ ब० । औषधे

६ ब० । “औषधान्यगदोविद्या दैवी च विविधा स्थितिः ।
तपसैव प्रसिध्यन्तीति” पुराणम् । रोगशून्ये त्रि० ।
गद--भाषणे अच्--न० त० । अकथके त्रि० ।

अगद नीरोगत्वे कण्ड्वा० पर० । अगद्यति आगद्यीत्--आगदीत् ।

अगदङ्कार पु० अगदं करोति अगद + कृ--अण् मुम् च ।

वैद्ये ।

अगम पु० न गच्छतीति गम--अच् न० त० । वृक्षे । अगन्तरि त्रि० ।

अगम्य त्रि० न--गन्तुमर्हति गम--यत् न० त० । गमनानर्हे

“अगम्या सा भवत्तत्र यत्राभूत् स महारण इति” चण्डी ।
अन्त्यजातिस्त्रियां स्त्री । “अगम्यां च स्त्रियं गत्वेति”
“अगम्यागमनञ्चैव जातिभ्रंशकराणि षडिति” च स्मृतिः
दुर्बोध्ये “योगिनामप्यगम्योऽसाविति” पुराणम् ।”

अगरी स्त्री नास्ति गरो विषं यस्याः ५ ब० गौ० ङीष् । मूषिक-

विषहारिणि देवताडवृक्षे । विषहारिणि द्रव्यमात्रे त्रि० ।

अगरु न० न गिरति गॄ--उ न० त० । स्वनामप्रसिद्धे अगुरु-

चन्दने । “कौसुमस्रजमेताञ्च चन्दनागरुचर्चितामिति”
दुर्गापूजामन्त्रः “चन्दनागुरु” इति पाठान्तरम् ।

अगर्हित त्रि० न० त० । निन्दितभिन्ने शुद्धे, “यत्किञ्चित्-

स्नेहसंयुक्तं भक्ष्यं भोज्यमगर्हितमिति” स्मृतिः ।

अगस्ति पु० अगं विन्ध्याचलम् अस्यति अस्--क्तिच्

शकन्ध्वादि० । अगस्त्यनामके मुनौ । अगस्त्यस्यापत्यानि बहुषु
यञोलुक् । तद्गोत्रापत्येषु ब० व० । तत्सम्बन्धित्वात् दक्षिण्यां
दिशि । अगस्त्यजन्मकथा च । “तयोरादित्ययोः सत्रे
दृष्ट्वाप्सरसमुर्व्वशीम् रेतश्चस्कन्द तत् कुम्भे न्यपतद्वाशतीवरे
तेनैव तु मूहूर्त्तेन वीर्य्यवन्तौ तपस्विनौ, अगस्त्यश्च वशिष्ठश्च
तावृषी संबभूवतुः । बहुधा पतितं रेतः कलसे च जले
स्थले । स्थले वशिष्ठस्तु मुनिः संभूवर्षिसत्तमः । कुम्भे-
त्वगस्त्यः सम्भूतः जले मत्स्यो महाद्युतिः । उदियाय
ततोऽगस्त्यः क्षणमात्रे महातपाः इति” पुराणम् । तस्य
च विन्ध्याचलस्तम्भनकथा काशीखण्डेऽनुसन्धेया । वृहत्-
सहिंतायामस्य गगनमण्डले दक्षिणस्यां तारारूपेण स्थिति-
रुक्ता तच्च अगस्त्यचारशब्दे द्रष्टव्यम् ।

अगस्तिद्रु पु० अगस्तिप्रियः द्रुर्वृक्षः शाक० त० । वकवृक्षे ।

अगस्तिवृक्षादयोप्यत्र ।

अगस्त्य पु० अगं विन्ध्याचलं स्त्यायति स्तभ्राति स्त्यै--क ।

अगस्त्यनामके मुनौ । अगस्त्यचरितामाशां प्रतस्थे दिग्-
जिगीषयेति” रघुः । यस्का० यञ् । आगस्त्यस्तदपत्ये ।

अगस्त्यगीता स्त्री अगस्त्येन गीता विद्याभेदः । भारते

शान्तिपर्वणि प्रसिद्धे विद्याभेदे ।

अगस्त्यचार पु० अगस्त्यस्य नक्षत्ररूपेण दक्षिणस्थस्य चारः

शुभाशुभसूचकगत्यादि । वराहसंहितोक्ते अगस्त्यनामक-
नक्षत्रस्य उदयादौ । यथा “विन्ध्यमस्तम्भयद्यश्च तस्योदयः
श्रूयताम्” इत्युपक्रम्य । “उदये च पुनेरगस्त्यनाम्नः कु--समा-
योगमलप्रदूषितानि । हृदयानि सतामिव स्वभावात्
पुनरम्बूनि भवन्ति निर्मलानि ॥ पार्श्वद्वयाधिष्ठितचक्रवाकामा-
पुष्णती सस्वनहंसपङ्क्तिम् । ताम्बूलरक्तोत्कषिताग्रदन्ती
विभाति योषेव सरित्सहासा ॥ इन्दीवरासन्नसितोत्पला-
न्विता सरिद्भूमत्षट्पदपङ्क्तिभूषिता । सभ्रूलताक्षेपकटाक्ष-
वीक्षणा विदग्धयोषेव विभाति सस्मरा ॥ इन्द्रोः पयोदवि-
गमोपहितां विभूतिम् द्रष्टुं तरङ्गवलया कुमुदं निशासु ।
उन्मीलयत्यलिनिलीनदलं सुपक्ष्म वापी विलोचनमिवा-
सिततारकान्तम् ॥ नानाविचित्राम्बुजहंसकोककारण्डवा-
पूर्णतडागहस्ता । रत्नैः प्रभूतैः कुसुमैः फलैश्च भूर्यच्छती
पृष्ठ ००४८
वाघमगस्त्यनाम्ने ॥ सलिलममरपाज्ञयोञ्झितं यद्घन-
परिवेष्टितमूर्त्तिभिर्भुजङ्गैः । फणिजनितविषाग्निसम्प्रदुष्टं
भवति शिवं तदगस्त्यदर्शनेन ॥ स्मरणादपि पापमपा-
कुरुते किमुत? स्तुतिभिर्वरुणाङ्गरुहः । मुनिभिः कथितोऽस्य
यथार्घविधिः कथयामि तथैव नरेन्द्रहितम् ॥ संख्या-
विधानात् प्रतिदेशमस्य विज्ञाय सन्दर्शनमादिशेज्ज्ञः ।
तच्चोज्जयिन्यामगतस्य कन्यां भागैः स्वराख्यैः स्फुट-
भास्करस्य ॥ ईषत्प्रभिन्नेऽरुणरश्मिजांलैर्नैशेऽन्धकारे दिशि
दक्षिणस्याम् । सांवत्मरावेदितदिग्विभागे भूपोऽर्घमुर्व्यां
प्रयतः प्रयच्छेत्” ॥ इत्युक्त्वान्ते उपसहृतं यथा “दृश्यते स
किल हस्तगतेऽर्के रोहिणीमुपगतेऽस्तमुपेतीति” ।

अगस्त्यसंहिता स्त्री अगस्त्यनिर्मिता संहिता । रामचन्द्र-

विष्णुवामनादिपूजेतिकर्त्तव्यताबोधके शास्त्रभेदे ।

अगस्त्योदय पु० अगस्त्यस्य नक्षत्ररूपेण दक्षिणस्थस्य उदयः ।

अगस्त्यनक्षत्रोदये तस्य च नक्षत्रस्य दक्षिणस्थितत्वेन
उत्तरदिग्वासिनां सर्वदा दर्शनयोग्यता नास्ति, तस्योदयश्च
भाद्रशेषे भवति “यस्तु भाद्रपदे मासि उदिते कलसोद्भवे
इति” पुराणम् । तद्विवरणम् अगस्त्यचारशब्दे दर्शितम् ॥
तस्योदयेजलादीनां प्रसन्नत्वं “प्रससादोदयादम्भः कुम्भयो-
नेर्महौजसः इति” रथावुक्तम् ।

अगाध त्रि० गाध--प्रतिष्ठायाम् घञ्--न० ब० । अतिगभीरे ।

छिद्रे न० । गाधः निम्नसीमा स नास्ति यस्येति ।
नीचसीमारहिते “सास्म्यगाधे भये मग्नेति” पुरा० दुर्बोधे
च । “अगाधस्यानघागुणा” इत्यमरः ।

अगाधजल पु० अगाधं जलमत्र । अतिगभीरजले ह्रदे ।

अगार न० अगम् न गच्छन्तमृच्छति प्राप्नोति अग

+ ऋअण् । गृहे । “तत्रागारं धनपतिगृहानिति मेघ० ।

अगिर पु० न गीर्य्यते दुःखेन गॄ--बा० क न० त० । स्वर्गे ।

अगिरौकस् पु० अगिरः स्वर्ग ओकोवासस्थानं यस्य । देवे ।

अगु पु० न गौः किरणोऽस्य । राहुग्रहे सूर्य्यालोकाभावे

तमसि । गोशून्ये त्रि० ।

अगुण पु० न० त० । गुणविरोधिनि दोषे । “तद्वः सर्वं प्रवक्ष्यामि

प्रसवे च गुणागुणमिति” स्मृतिः न० ब० । गुणरहिते त्रि०
“भक्तिप्रीतिप्रणयसहितं मानदम्भाद्यपेतं चेतोऽस्माकं गुणवद-
गुणं गोदुहां देहमेतत्” इत्युद्धवदूतः ।

अगुरु न० न गुरुर्यस्मात् । स्वनामप्रसिद्धे, अगुरुचन्दने

“धूपैश्चागुरुगन्धिभिरिति” शिंशपा वृक्षे (शिशु) च । गुरु-
भिन्ने, उपदेशकशून्ये त्रि० । गुरुवर्ण्णभिन्ने लघुवर्ण्णे पु०
“अगुरुचगुष्कं भवति गुरू द्वौ घनकुचयुग्मे, शशिवदना-
साविति” श्रुतबोधः । गौरवरहिते गौरवविपरीतलाघव-
वति त्रि० ।

अगुरुशिंशपा स्त्री अगुरुःसारो यस्याः तादृशी शिंशपा

मध्यपदलोपित० । (शिशु) इति प्रसिद्धे शिंशपावृक्षे ।

अगूढ़गन्ध न० न गूढ़ो गन्धो यस्य ६ ब० । हिङ्गुद्रव्ये । तन्नि-

र्यासस्योत्कटगन्धत्वात्तथा । अगुह्यसौरभे द्रव्यमात्रे त्रि० ।

अगृभीत त्रि० न गृहीतम् छान्दसत्वात् हस्य भः ।

अगृहीते, “जयजय जह्यजामगृभीतगुणामिति, भाग० श्रु० ।

अगौकस् पु० अगः पर्वत ओकः स्थानं यस्य । शरभे पशौ

पर्वतवासिनि त्रि० ।

अग्नामरुत् पु० द्वि० द्व० आनङ् । एकहविरुद्देश्ययो

स्तन्नाम्नोर्देवयोः । तौ देवते अस्य अण् । आग्निमा-
रुतं हविः ।

अग्नाविष्णु पु० द्वि० द्व० आनङ् । एकहविर्भोक्त्रोस्तन्नामकयोर्देवयोः ।

अग्नायी स्त्री अग्नि + ऐङ्--ङीष् । अग्नेर्योषिति स्वाहा

ख्यायाम् । “वरुणानी नचाग्नायी तस्याः सिमन्तिनी
समेवि” भट्टिः । सा च दक्षकन्या तस्याश्चाग्निप्रियताकथा
महाभारते “दक्षस्याहं प्रिया कन्या स्वाहा नाम
महाभुज! ॥ बाल्याद् प्रभृति नित्यञ्च जातकामा हुताशने
स न मेकामनां पुत्त्र! सम्यग् जानाति पावकः । इच्छामि
शाश्वतं वासं वस्तुं पुत्त्र! सहाग्निना । स्कन्द उवाच ।
हव्यं कव्यञ्च यत् किञ्चिद्द्विजा० नामाथ संस्कृतम् ।
होष्यन्त्यग्नौ सदा देवि! स्वाहेत्युक्त्वा समुद्धृतम् । अद्य
प्रभृति दास्यन्ति सुवृत्ताः सत्पथे स्थिताः । एवमग्निस्त्वया
सार्द्धं सदा वत्स्यति शोभने”! वन० मार्क० प० ।

अग्नि पु० अङ्गति ऊर्द्ध्वं गच्छति अगि--नि नलोपः । अग्नौ

स्वनामप्रसिद्धे तेजोभेदे, तेजसि आकाशाद्वायुर्वायो-
रग्निरग्नेरापोद्भ्यः पृथिवी, इति” श्रुतिः । तत्र
तेजःपदार्थस्तावद्द्विविधः सूक्ष्मः स्थूलश्च । सूक्ष्म-
वायुसंभूतः सूक्ष्मवायुसंभूतः सूक्ष्मः पञ्चीकृतस्तु
स्थूलः “तासां त्रिवृतं त्रिवृतमेकैकां करोतीति”
श्रुतौ त्रिवृत्करणस्य पञ्चीकरणस्याप्युलक्षणत्वम् ।
पञ्चीकरणप्रकारश्च पञ्चीकरणशब्दे वक्ष्यते । तथा
च भूतान्तराष्टमभागमिश्रितेन स्वस्वार्द्धभागेन उत्पन्नः
पञ्चीकृतः । तस्य च पञ्चात्मकत्वेऽपि “वैशेष्यात्तद्वाद
इति” शारीरकोक्तेः भूयस्त्वात् तैजसत्वव्यवहारः ।
सोऽयं स्थूलो वह्निः प्रकारान्तरेण त्रिविधः भौमः
पृष्ठ ००४९
दिव्यः जाठरश्चेति भेदात् । तत्र पार्थिवकाष्ठादि
प्रभवः भौमः महानसाद्यग्निः, जलवाय्वादिभवः दिव्यः
विद्युदुल्कावज्रादिः । उभावपि ऊर्द्ध्वज्वलनस्वभावः । उदरे
भवस्तृतीयः । त्रयोऽप्यमी स्वसंयुक्तपाकदाहप्रकाशन
समर्थाः । सर्व्वेऽप्यमी लोके शास्त्रे च वह्न्यादिशब्देन
व्यवह्नियन्ते तेषां विशेषगुणाः शब्दस्पर्शरूपाणि “योयो-
यावतिथश्चैषां स स तावद्गुणः स्मृतः” इति मनुना
भूतमध्ये तृतीयस्य तेजसः त्रिगुणत्वमुक्तं व्यक्तमुक्तं
महाभारते शब्दः स्पर्शश्च रूपञ्च तेजसोऽथ गुणास्त्रय-
इति “अत एव “वह्नौ भृगभुगध्वनिरिति” पञ्चदश्यामुक्तम्
वह्नेश्च तेजोजलभूम्यात्मकत्वेन लोहितशुक्लरूपत्वम् अत
एव छान्दोग्ये त्रिवृत्करणानन्तरम् वह्नेस्त्रिरूपत्वमुक्तं
यथा “यदग्नेः रोहितं रूपं तेजसस्तद्रूपं, यच्छुक्लं
तदपां, यत् कृष्ण तदन्नस्येति” विवृतञ्चैतद्भाष्यकृता “यत्त-
द्देवतानां त्रिवृत्करणमुक्तं तस्यैवोदाहरणमुच्यते ।
उदाहरणं नामैकदेशप्रसिद्ध्याशेषप्रसिद्ध्यर्थमुदाह्रियत इति ।
तदेतदाह यदग्नेः त्रिवृत्कृतस्य रोहितं रूपं प्रसिद्धं लोके
तदत्रिवृत्कृतस्य तेजसो रूपमिति विद्धि । तथा यच्छुक्लं
रूपमग्नेः तदपामत्रिवृत्कृतानामेव यत् कृष्णं तस्यैवाग्नेः
रूपं तदन्नस्य पृथिव्या अत्रिवृत्कृताया इति विद्धीति” ।
अत एव तत्तच्छास्त्रकाव्यादिषु वह्नेररुणरूपतया वर्णनं
दृश्यते । अग्निमूर्त्तिध्याने च अरुणरूपत्वमनुपदं दर्शयि-
ष्यते । लोके चारुणत्वेनैव प्रत्यक्षेणासावुपलभ्यते एवञ्च
नैयायिकोक्तं तेजसः शुक्लभास्वररूपत्वं प्रत्यक्षवेदविरुद्धत्वा-
दुपेक्ष्यमेव । तत्र भौमदिव्ययोः प्रायशोलोकसिद्धत्वेन दिव्य-
स्याग्रे दिव्यशब्दे वक्ष्यमाणत्वाच्च जाठरे वह्नौ विशेषो-
ऽभिधीयते । “नाभेरुर्द्धं हृदयादधस्तादामाशयमाचक्षते
तद्गतं सौरं तेजः पित्तमित्याचक्षते” इति भाष्यविवरणे
आनन्दगिरिः वैद्यकवचनत्वेनोवाच । अत एव तस्य कौक्षेय
इति संज्ञा । छान्दोग्ये च “य हृदयस्य नाड्यस्ताः
पिङ्गलाश्चाणिम्नस्तिष्ठन्ति शुक्लस्य नीलस्य पीतस्य लोहितस्ये
त्यसौ वा आदित्यः पिङ्गलः एष शुक्ल एष नील एष पीत
एष लोहित इति” । व्याख्यातञ्चैतत् भाष्यकृता ।
“अथ या एता वक्ष्यमाणा हृदयस्य पुण्डरीकाकारस्य ब्रह्मो-
पासनस्थानस्य सम्बन्धिन्यो नाड्यो हृदयमांसपिण्डात्सर्वतो
विनिःसृता आदित्यमण्डलादिरश्मयस्ताश्चैताः पिङ्गलस्य
वर्णविशेषविशिष्टस्याणिम्नः सूक्ष्मरसस्य रसेन पूर्णास्तदाकारा
एव तिष्ठन्ति वर्त्तन्त इत्यर्थः । तथा शुक्लस्य नीलस्य पीतस्य
लोहितस्य च रसस्य पूर्णा इति सर्वत्राध्याहार्य्यम् ।
सैरेण तेजसा पित्ताख्येन पाकाभिनिर्वृत्तेन कफेनाल्पेन
सम्पर्कापिङ्गलं भवति, सौरं तेजः पित्ताख्यम् । तदेव
वातभूयस्त्वान्नीलं भवति । तदेव च कफभूयस्त्वाच्छुक्लं,
कफेन समतायां पित्तम्, शोणितबाहुल्येन लोहितम् ।
वैद्यकाद्वा वर्णविशेषा अन्वेष्टव्याः । कथं भवतीति? श्रुति-
स्त्वाहादित्यसम्बन्धादेव, तत्तेजसो नाड़ीष्वनुगतस्यैते वर्ण
विशेषा” इति । कथमसौ वाऽदित्यः पिङ्गलो”? वर्णत एष
आदित्यः शुक्लोऽप्येष नील एष पीत एष लोहित आदित्य
एव, तस्य चान्नरसस्य धात्वन्तरसम्पर्कवशात् वर्णविशेष”
इत्यानन्दगिरिः । अस्यैवजाठरस्य पिपासाहेतुत्वं छान्दोग्ये
उक्तं यथा “अथ यत्रैतत् पुरुषः पिपासति नाम तेज
एवैतत् पीतं नयते इति” । व्याख्यातञ्च भाष्यकृता द्रवकृतस्या-
शितस्यान्नस्य नेत्र्यः आपोऽन्नशुङ्गं देहं क्लेदयन्त्यः शिथि-
लीकुर्य्युः अब्बाहुल्यात्, यदि तेजसा न शोष्येत ।
नितराञ्च तेजसा शोष्यमाणास्वप्सु देहभावेन परिणममानासु-
पातुमिच्छा पिपासा पुरुषस्य जायते तदा “पुरुषः पिपा-
सति नाम, तदेतदाह “तेज एव तत्तदा पीतमबादि
शोषयत् देहलोहितादिभावेन नयते परिणमयतीति” । तस्य
रसपाकप्रकारमाह योगार्ण्णवे । “आयुष्यं भुक्तमाहारं
स वायुः कुरुते द्विधा संप्रविश्यान्नमध्यन्तु, पृथक् किट्टं
पृथग् जलम् (किट्टम् अन्नमलभेदम्) । अग्नेरूर्द्ध्वं
च संस्थाप्य तदन्नं च जलोपरि । जलस्याधः स्वयं प्राणः
स्थित्वाग्निं धमते शनैः (धमते संधुक्षयति) वायुना
ध्मायमानोऽग्निरत्युष्णं कुरुते जलम् । अन्नं तदुष्णतोयेन
समन्तात् पच्यते पुनः । द्विधा भवति तत् पक्वं पृथक् किट्टं
पृथग् रसम् । रसेन तेन ता नाडीः प्राणः पूरयते पुनः ।
प्रत्यर्पयन्ति सम्पूर्ण्णारसानि ताः समन्तत इति” । एवं
रसपाकोत्तरं धातुपाकोऽभिहितः पदार्थादर्शे । यथा “त्वग-
सृग्मासमेदोऽस्थिमज्जशुक्राणि धातवः । सप्त स्युस्तत्र
चोक्ता त्वक् रक्तजोदरवह्निना । पक्काद्भवेदन्नरसादेवं रक्ता-
दिभिस्तथा । स्वस्वकोशाग्निना पाकात् प्रजायन्ते त्वगा-
दय इति” । एतम्मूलमेव “तस्य षोढा शरीराणि षट् त्वचो
धारयन्ति चेति” याज्ञवल्क्यवचनव्याख्यायां मिताक्षराकृता
स्पष्टमुक्तम् यथा तस्यात्मनोयानि जरायुजाण्डजादीनि
शरीराणि तानि प्रत्येकं षट्प्रकाराणि रक्तादिषड्धातुपरि-
पाकहेतुभूतषडग्निस्थानयोगित्वेन । तथाहि अन्नरसो-
जाठरवह्निना पच्यमानी रक्ततां प्रतिपद्यते, रक्तः स्वकोश-
पृष्ठ ००५०
स्थाग्निना पच्यमानं मांसत्वम्, मांसञ्च स्वकोशस्थानलपरि-
पक्कं मेदस्त्वम्, मेदोऽपि स्वकोशवह्निना पक्कमस्थिताम्,
अस्थ्यापि स्वकोशशिखिपरिपक्कं मज्जत्वम्, मज्जापि
स्वकोशपावकपरिपच्यमानं चरमधातुतया परिणमते इति”
जाठरस्य प्रकारान्तरेण पाचनादिदशविधकर्म्मकारित्वात्
दशविधत्वमुक्तं पदार्थादर्शे यथा “भ्राजकोरञ्जकश्चैव क्लेदकः
स्नेहकस्तथा धारको बन्धकस्यैव द्रावकाख्यश्च सप्तमः ।
व्यापकः पाचकश्चैव श्लेष्मको दशधा मत इति” ।
वैद्यकेचास्य चतुर्विधकार्य्यविशेषकारित्वाच्चातुर्विध्यमुक्तम् ।
विषमश्च समस्तीक्ष्णो मन्दश्चेति चतुर्विधः । कफपित्तान
लाधिक्यात् तत्साम्याज्जाठरोऽनलः । विषमो वातजान्
रोगान्, तीक्ष्णः पित्तसमुद्भवान्, करोत्यग्निस्तथामग्दो
विकारान् कफसम्भवान् । समाः समोऽग्निरशितमात्राः
सम्यक् पचत्यसौ” इति ॥ अग्नेरतितीक्ष्णत्वे भस्मकसंज्ञा
स हि सम्यगाहाराभावे शोणितादिधातूनपि पाचयित्वा
आशु देहं नाशयतीति रक्षितः आहस्म । अघिकं कायशब्दे
वक्ष्यते । वाह्यस्य भौमस्याग्नेः कर्म्मविशेषे नामान्युक्तानि
विधानपारिजाते । यथा
“लौकिके पावकोह्यग्निः प्रथमः परिकीर्त्तितः । अग्निस्तु-
मारुतो नाम गर्भाधाने प्रकीर्त्तितः ॥ पुंसवे चमसो नाम
शोभनः शुभकर्म्मसु । (शुङ्गकर्म्मणीति रघु०) । तच्च सीमन्ता-
न्तर्गतकर्म्मभेदः । सीमन्ते ह्यनलो नाम प्रगल्मो
जातकर्म्मणि ॥ पार्थिवो नामकरणे प्राशनेऽन्नस्य वै शुचिः ।
सभ्यनामा तु चूड़ायां ब्रतादेशे समुद्भवः ॥ गोदाने सूर्य्य-
नामा स्यात् केशान्ते याजकः स्मृतः । वैश्वानरो विसर्गे
स्याद्विवाहे वलदः स्मृतः ॥ चतुर्थीकर्म्मणि शिखी
धृतिरग्निस्तथाऽपरे । (अपरे कर्म्मणि) आवसथ्यस्तथा-
धाने वैश्वदेवे तु पावकः । ब्रह्माग्निर्गाहपत्ये स्याद्दक्षिणा-
ग्निरथेश्वरः । विष्णुराहवनीये स्यादग्निहोत्रे त्रयोमताः
लक्षहोमेऽभीष्टदः स्यात् कोटिहोमे महाशनः । एके घृता-
र्चिषां प्राहुरग्निध्यानपरायणाः ॥ रुद्रादौ तु मृड़ो नाम
शान्तिके शुभकृत्तथा । आदिशब्दात् लघुरुद्रशतरुद्रातिरुद्रा-
लक्ष्यन्ते । (पूर्णाहुत्यां मृड़ो नामेति रघु०) । पौष्टिके
वरदश्चैव क्रोधाग्निश्चाभिचारके । वश्यार्थे वशकृत् प्रोक्तो
वनदाहे तु पोषकः । उदरे जठरी नाम क्रव्यादः शवभक्षणे ।
समुद्रे वाडवो ह्यग्निर्लये संवर्त्तकस्तथा ॥ सप्तविंशति-
सख्याता अग्नयः कर्मसु स्मृताः । तं तमाहूय होतव्यं
यो यत्र विहितोऽनलः ॥ अन्यथा विफलं कर्म सर्व्वं तद्राक्ष-
सम्भवेत् । आदित्यादिग्रहाणां च साम्प्रतं ह्यग्निरुच्यते ॥
आदित्ये कपिलो नाम पिङ्गलः सोम उच्यते । धूमकेतु
स्तथा भौमे जठरोऽग्निर्बुधे स्मृतः ॥ वृहम्पतौ शिखी नाम
शुक्रे भवति हाटकः । शनैश्चरे महातेजा राहौ केतौ हुता-
शनः इति ॥” यज्ञादौ तु पञ्च भेदाः “आवसथ्याहवनीयौ
दक्षिणाग्निस्तथैव च । अन्वाहार्य्यो गार्हपत्य इत्येते पञ्च
वह्नयः” इति शा० राघ० । “पञ्चाग्नयो ये च त्रिणाचि-
केता” इति श्रुतिः । अग्नेर्ध्येयरूपं यथा “रुद्रतेजःसमुद्भूतं
द्विमूर्द्धानं द्विनासिकम् । षण्नेत्रं च चतुःश्रोत्रं त्रिपादं सप्त-
हस्तकम् । याम्यभागे चतुर्ह्रस्तं सव्यभागे त्रिहस्तकम् ।
स्रुवं स्रुचञ्च शक्तिं च अक्षमालां च दक्षिणे । तोमरं
व्यजनं चैव घृतपात्रन्तु वामके । बिभ्रतं सप्तभिर्हस्तैर्द्विमुखं
सप्तजिह्वकम् । दक्षिणञ्च चतुर्जिह्वं त्रिजिह्वमुत्तरं मुखम् ।
द्वदशकोटिमूर्त्त्याख्यं द्विपञ्चाशत्कलायुतम् । स्वाहास्वधा-
वषट्कारैरङ्कितं मेषवाहनम् । रक्तमाल्याम्बरधरं रक्तं
पद्मासनस्थितम् ॥ रौद्रं तु वह्निनामानं वह्निमावाह-
याम्यहम्” । इति रुद्रकल्पः । अग्नेर्भौतिकत्वेऽपि कर्म्मा-
ङ्गहोमसाधनतया एवं ध्यातव्यता ।
अग्न्यभिमानिनि चेतनाधिष्ठिते शरीरादावशि उपचारात्
अग्निशब्दप्रयोगः । अग्न्यधिष्ठातरि देवभेदे “अग्निं दूतं
वृणीमहे होतारं विश्ववेदस” मित्यादौ वेदे तस्यैव आह्वान-
पूर्वकोपास्यत्वमुक्तम् । तदधिष्ठितदेहभेदेऽपि, स एव विश्व-
नराज्जन्मासाद्य अग्निलोकाधिपत्यं चकारेति काशीखण्डे
उक्तं तत्कथा वैश्वानरशब्दे वक्ष्यते । अग्निदेवताके कृत्ति-
कानक्षत्रे “अश्वियमदहने” त्यादिना ज्योतिषे कृत्तिका-
नक्षत्रस्य तत्स्वामिकत्वोक्तेः तद्देवताके प्रतिपत्तिथौ वह्ने-
स्तदाधिपत्यं तिथिशब्दे वक्ष्यते । तस्य बहुत्वेऽपि
वेदत्रयभेदेन दक्षिणाग्निगार्हपत्याहवनीयनामतया प्राधान्येन
त्रित्वात् “प्रधानेन व्यपदेशा भवन्तीति” न्यायात्
तत्संख्यासदृशसंख्याके त्रित्वसंख्यान्विते, स्वोदयात् स्वाग्नि-
लब्धं (३०) “यद्भुक्तं भोग्यं रवेस्त्यजेदिति” नीलकण्ठः ।
चित्रकवृक्षे (चिते) स्वर्ण्णे तस्य तत्तेजोजातत्वात्तथा तत्
कथा अग्निरेतःशब्दे वक्ष्यते भल्लातकवृक्षे (भेला) निम्बुक
वृक्षे (नेवु) पित्ते धातौ तस्य तदुत्पन्नत्वात्तथा यथा च
तस्य तदुत्पन्नत्वं तथोक्तं प्राक् । तत्स्वामिके अग्निकोणे
च । एवमग्निवाचकाः सर्वेऽपि शब्दाः कृत्तिकानक्षत्रादौ
वर्त्तन्ते । वित्तं ब्रह्मणि कार्य्यसिद्धिरतुला शक्रे हुताशे
भयमिति तिथित० । “हुताशे अग्निकोणे” अनलविधुशता-
पृष्ठ ००५१
ख्येति” ज्योतिषम् । (अनलः कृत्तिका) एवं यथायथमुदा-
हार्य्यम् ।
अग्न्यभिमानिनश्च देवाः कुत उत्पन्नाः? कस्मिन् कस्मिन् ।
कर्म्मणि? वा तेषामधिष्ठातृत्वं तदुक्तं भारते ।
अङ्गिराउवाच कुरु पुण्यं प्रजासर्गं भवाग्निस्तिमिरापहः । माञ्च
देव! कृरुष्वाग्ने! प्रथमं पुत्त्रमञ्जसा ॥ तच्छ्रुत्वाऽङ्गिरसो वाक्यं
जातवेदास्तदाऽकरोत् । राजन्! । वृहस्पतिर्नाम तस्याप्यङ्गि-
रसः सुतः । ज्ञात्वा प्रथमजं तन्तु वह्नेराङ्गिरसं सुतम् ।
उपेत्य देवा पप्रच्छुः कारणं तत्र भारत । स तु पृष्ट-
स्तदा देवैस्ततः कारणमब्रवीत् । प्रत्यगृह्णंस्तु देवाश्च
तद्वचोऽङ्गिरसस्तदा । तत्र नानाविधानग्नीन् प्रवक्ष्यामि
महाप्रभान् । कर्म्मभिर्ब्बहुभिः ख्यातान्नानार्थान् ब्राह्मणे-
ष्विह । व० मार्क० स० २१६ अध्या०
ब्रह्नणो यस्तृतीयस्तु पुत्त्रः कुरुकुलोद्वह! । तस्याभवत् शुभा
भार्य्या प्रजास्तस्याञ्च मे शृणु । वृहत्कीर्त्तिर्वृहज्ज्योतिर्वृह-
द्ब्रह्मा वृहन्मनाः । वृहन्मन्त्रो वृहद्भासस्तथा राजन्!
वृहस्पतिः । प्रजासु तासु सर्व्वासु रूपेणाप्रतिमाऽभवत् । देव!
भानुमती नाम प्रथमाऽङ्गिरसः सुता । भूतानामिव सर्वेषां
तस्यां रागस्तदाऽभवत् । रागाद्रागेति यामाहुर्द्वितीया-
ऽङ्गिरसः सुता । यां कपर्द्दिसुतामाहुर्दृश्यादृश्येति देहिनः ।
तनुत्वात् सा सिनीबाली तृतीयाऽङ्गिरसः सुता । पश्यत्य-
र्च्चिष्मती भाभिर्हविर्भिश्च हविष्मती । महामखेष्वाङ्गि-
रसी दोप्तिमत्सु महामते! । महायतीति विख्याता सप्तमी
कथ्यते सुता । यान्तु दृष्ट्वा भगवर्ती जनः कुहुकुहायते ।
एकानंशेति तामाहुः कुहूमङ्गिरसः सुताम् । ३१७ अ०
वृहस्पतेश्चान्द्रमसी भार्य्याऽभूद्या यशस्विनी । अग्नीन्
साऽजनयत् पुत्रान् षडेकाञ्चापि पुत्त्रिकाम् । आहुति-
ष्वेव यस्याग्नेर्हविषाज्यं विधीयते । सोऽग्निर्वृहस्पतेः पुत्त्रः
शंयुर्नाम महाव्रतः । चातुर्म्मास्येषु यस्येष्ट्यामश्वमेधेऽग्रजः
पशुः । दीप्तो ज्वालैरनेकाभैरग्निरेषोऽथ वीर्य्यवान् ।
शंयीरप्रतिमा भार्य्या सत्याऽसत्याऽथ धर्म्मज! ॥ अग्निस्तस्य
सुतो दीप्तस्तिस्रः कन्याश्च सुव्रताः प्रथमेनाज्यभागेन पूज्यते
योऽग्निरध्वरे । अग्निस्तस्य भरद्वाजः प्रथमः पुत्त्र उच्यते
पौर्ण्णमास्येषु सर्वेषु हविषाज्यं स्रुचोद्यतम् । भरतो
नामतः सोऽग्निर्द्वितीयः शंयुतः सुतः । तिस्रः कन्या
भवन्त्यन्या यासां स भरतः पतिः । मरतस्तु सुतस्तस्य
भरत्येका च पुत्त्रिका । भरतो भरतस्याग्नेः पावकस्तु
प्रजापतेः । महानत्यर्थमहितस्तथा भरतसत्तमः । भर-
द्वाजस्य भार्य्या तु वीरा वीरस्य पिण्डदा । प्राहुराज्येन
तस्येज्यां सोमस्येव द्विजाः शनैः । हविषा यो द्वितीयेन
सोमेन सह युज्यते । रथप्रभूरथाध्वानः कुम्भरेताः स
उच्यते । सरंय्वां जनयन् सिद्धिं भानु भाभिः
समावृणोत् । आग्नेयं मानयन्नित्यमाधाने ह्येष षूयते । यस्तु
न च्यवते नित्यं यशसा वर्च्चसा श्रिया । अग्निर्निश्च्य-
वनो नाम पृथिवीं स्तौति केवलम् । विपाप्मा कलुषैर्मुक्तो
विशुद्धश्चार्च्चिषा ज्वलन् । विपापोऽग्निः सुतस्तस्य सत्यः
समयधर्म्मकृत् । अक्रोशतां हि भूतानां यः करीति हि
निष्कृतिम् । अग्निः स निष्कृतिर्नाम शोभयत्यभिसे-
वितः । अनुकूजन्ति येनेह वेदनार्त्ताः स्वयं जनाः ।
तस्य पुत्त्रः स्वनो नाम पावकः स रुजस्करः । यस्तु विश्वस्य
जगतो बुद्धिमाक्रम्य तिष्ठति । तं प्राहुरध्यात्मविदो
विश्वजिन्नामपावकम् । अन्तरग्निः स्मृतो यस्तु भुक्तं पचति
देहिनाम् । स जज्ञे विश्वभुङ्नाम सर्वलोकेषु भारत! ।
ब्रह्मचारी यतात्मा च सततं विपुलव्रताः । ब्राह्मणाः
पूजयन्त्येनं पाकयज्ञेषु पावकम् । पवित्रा गोतमी नाम
नदी यस्याऽभवत् प्रिया । तस्मिन् कर्म्माणि सर्वाणि
क्रियन्ते धर्म्मकर्तृभिः । वडवाग्निः पिबत्यम्भो योऽसौ
परमदारुणः । ऊर्द्ध्वभागूर्द्ध्वभाङ् नाम कविः प्राणाश्रित-
स्तु यः । उदग्धारं हविर्यस्य गृहे नित्यं प्रदीयते ।
ततः स्विष्टं भवेदाज्यं स्विष्टकृत् परमः स्मृतः । यः
प्रशान्तेषु भूतेषु मन्युर्भवति पावकः । क्रुद्धस्य तरसा जज्ञे
मन्यन्ती चाथ पुत्त्रिका । स्वाहेति दारुणा क्रूरा सर्वभूतेषु
तिष्ठति । त्रिदिवे यस्य सदृशो नास्ति रूपेण कश्वन
अतुल्यत्वात् कृतो देवैर्नाभ्रा कामस्तु पावकः । संहर्षा-
द्धारयन् क्रोधं धन्वी स्रग्वी रथे स्थितः समये नाशयेच्छत्रू
नमोघो नाम पावकः । उक्थो नाम महाभाग । त्रिभि-
रुक्थैरभिष्टुतः । महावाचन्त्वजनयत् समाश्वासं हि यं
विदुः । २१८ अ०
काश्यपो ह्यथ वाशिष्ठः प्राणश्च प्राणपुत्त्रकः । अग्निरा-
ङ्गिरसश्चैव च्यवनस्त्रिसुवर्च्चकः । अचरत् स तपस्तीव्रं
पुत्त्रार्थे बहुवार्षिकम् । पुत्त्रं लभेयं धर्म्मिष्ठं यशसा
ब्रह्मणा समम् । महाव्याहृतिभिर्ध्यातः पञ्चभिस्तैस्तदा
त्वथ । जज्ञे तेजो महार्चिष्मान् पञ्चवर्णः प्रभावनः ।
समिद्धोऽग्निः शिरस्तस्य बाहू सूर्य्यनिभौ तथा । त्वङ्नेत्रे
च सुवर्ण्णाभे कृष्णे जद्ध्वे च भारत! । पञ्चवर्णः स तपसा
कृतस्तैः पञ्चभिर्जनैः । पाञ्चजन्यः श्रुतो देवः पञ्चवंश-
पृष्ठ ००५२
करस्तु सः । दश वर्षसहस्राणि तपस्तत्वा महातपाः ।
जनयत् पावकं घोरं पितॄणां स प्रजाः सृजत् ।
वृहद्रथन्तरं मूर्द्ध्नो वक्त्राद्वा तरसा हरौ । शिवं नाभ्यां
बलादिन्द्रं वाय्वग्नी प्राणतोऽसृजत् । बाहुभ्यामनुदात्तौ च
विश्वाभूतानि चैव ह । एतान् दृष्ट्वा ततः पञ्च पितॄणा-
मसृजत् सुतान् । वृहद्रथस्य प्रणिधिः कश्यपस्य
महत्तरः । भानुरङ्गिरसो धीरः पुत्रो वर्च्चस्य सौभरः ।
प्राणस्य चानुदात्तस्तु व्याख्याताः पञ्चविंशतिः । देवान्
यज्ञमुषश्चान्यान् सृजत् पञ्चदशोत्तरान् । सुमीममतिभीमञ्च
भीमं भीमबलाबलम् । एतान् यज्ञमुषः पञ्च देवानां
ह्यसृजत्तपः । सुमित्रं मित्रवन्तञ्च मित्रज्ञं मित्रवर्द्धनम्
मित्रधर्म्माणमित्येतान् देवानभ्यसृजत्तपः । सुरप्रवीरं
वीरञ्च सुरेशं सुरवर्च्चसम् । सुराणामपि हन्तारं पञ्चैतान
सृजत्तपः । त्रिविधं संस्रिता ह्येते पञ्च पञ्च पृथक्
पृथक् । मुष्णन्त्यत्र श्रिता ह्येते स्वर्गतो यज्ञयाजिनः ।
तेषामिष्टं हरन्त्येते निघ्नन्ति च महद्धविः । स्पर्द्धया
हव्यवाहानां निघ्नन्त्येते हरन्ति च । द्यां वहिर्वै
तदादानं कुशलैः संप्रवर्त्तितम् । तदेते नोपसर्पन्ति यत्र
चाग्निः स्थितो भवेत् । चिताग्नेरुद्वहन्नाज्यं पक्षाभ्यां
तत् प्रवर्त्तितम् । मन्त्रैः प्रशमिता ह्येते नष्टं मुष्णन्ति
यज्ञियम् । वृहदुकथस्तपसैव पुत्त्रो भूमिमुपाश्रितः ।
अग्निहोत्रे हूयमाने पृथिव्यां सद्भिरिज्यते । रथन्तरश्च
तपसः पुत्त्रोऽग्निः परिपठ्यते । मित्रविन्दाय वै तस्मै
हविरध्वर्य्यवो विदुः । मुमुदे परमप्रीतः सह पुत्त्रैर्महा-
यशाः । २१९ अ०
गुरुभिर्नियमैर्जातो भरतो नाम पावकः । अग्निः पुष्टि-
मतिर्नाम तुष्टः पुष्टिं प्रयच्छति । भरत्येष प्रजाः सर्वा-
स्ततो भरत उच्यते । अग्निर्यश्च शिवो नाम शक्तिपूजा-
परश्च सः । दुःखार्त्तानाञ्च सर्वेषां शिवकृत् सततं शिवः ।
तपसस्तु फलं दृष्ट्वा सम्प्रवृद्धं तपो महत् । उद्धर्तुकामो
मतिमान् पुत्त्रो जज्ञे पुरन्दरः । ऊष्मा चैवोष्मणो जज्ञे
सोऽग्निर्भूतेषु लक्ष्यते । अग्मिश्चापि मनुर्नाम प्राजापत्य-
मकारयत् । शम्भुमग्निमथ प्राहुर्ब्राह्मणा वेदपारगाः ।
आवसथ्यं द्विजाः प्राहुर्द्दीप्तमग्निं महाप्रभम् । ऊर्ज्ज-
स्करान् हव्यवाहान् सुवर्णसदृशप्रभान् । ततस्तपो ह्यजनयत्
पञ्च यज्ञसुतानिह । प्रशान्तोऽग्निर्महाभाग । परिश्रान्तो
गवाम्पतिः । असुरान् जनयन् घोरान्मर्त्यांश्चैव
पृथखिधान् । तपसश्च मनुं पुत्त्रं भानुञ्चाप्यङ्गिराः सृजत् ।
वृहद्भानुन्तु तं प्राहुर्ब्राह्मणा वेदपारगाः । भानोर्भार्य्या
सुप्रजा तु वृहद्भासा तु सूर्य्यजा । असृजेतान्तु षट् पुत्त्रान्
शृणु तेषां प्रजाविधिम् । दुर्ब्बलानान्तु भूतानामसून्
यः सम्प्रयच्छति । तमग्निं बलदं प्राहुः प्रथमं भानुतः
सुतम् । यः प्रशान्तेषु भूतेषु मन्युर्भवति दारुणः ।
अग्निः स मन्युमान्नाम द्वितीयो भानुतः सुतः । दर्शे च
पौर्ण्णमासे च यस्येह हविरुच्यते । विष्णुर्नामेह योऽग्निस्तु
धृतिमान् नाम सोऽङ्गिराः । इन्द्रेण सहितं यस्य
हविराग्रयणं स्मृतम् । अग्निराग्रयणो नाम भानोरेवान्वयस्तु
सः । चातुर्म्मास्येषु नित्यानां हविषां यो निरग्रहः ।
चतुर्भिः सहितः पुत्त्रैर्भानोरेवान्वयस्तु सः । निशा त्वज-
नयत् कन्यामग्नीषोमावुभौ तथां । भानोरेवाभवद्भार्य्या
सुषुवे पञ्च पावकान् । पूज्यते हविषाग्रेण चातुर्म्मास्येषु
पावकः । पर्जन्यसहितः श्रीमानग्निर्वैश्वानरस्तु सः ।
अस्य लोकस्य सर्व्वस्य यः प्रभुः परिपठ्यते । सोऽग्नि-
र्व्विश्वपतिर्नाम द्वितीयो वै मनोः सुतः । ततः स्विष्टं
भवेदाज्यं स्विष्टकृत् परमस्तु सः । कन्या सा रोहिणी
नाम हिरण्यकशिपोः सुता । कर्म्मणाऽसौ बभौ भार्य्या
स वह्निः स प्रजापतिः । प्राणानाश्रित्य यो देहं प्रवर्त्त
यति देहिनाम् । तस्य सन्निहितो नाम शब्दरूपस्य
साधनः । शुक्लकृष्णगतिर्द्देवो यो बिभर्त्ति हुताशनम् ।
अकल्भषः कल्मषाणां कर्त्ता क्रोधाश्रितस्तु सः । कपिलं
परमर्षिञ्च यम्प्राहुर्यतयः सदा । अग्निः स कपिलो नाम
साङ्ख्ययोगप्रवर्त्तकः । अग्रं यच्छन्ति भूतानां येन भूतानि
नित्यदा । कर्म्मस्विह विचित्रेषु सोऽग्रणीर्वह्निरुच्यते ।
इमानन्यान् समसृजत् पावकान् प्रथितान् भुवि । अग्नि-
होत्रस्य दुष्टस्य प्रायश्चित्तार्थमुल्वणान् । संस्पृशेयुर्यदा-
ऽन्योऽन्यं कथश्चिद्वायुनाऽग्नयः । इष्टिरष्टाकपालेन कार्य्या
वै शुचयेऽग्नये । दक्षिणाग्निर्यदा द्वाभ्यां संसृजेत तदा
किल । इष्टिरष्टाकपालेन कार्य्या वै वीतयेऽग्नये ।
यद्यग्नयो हि स्पृश्येयुर्निवेशस्था दवाग्निना । इष्टिरष्टा-
कपालेन कार्य्या तु शुचयेऽग्नये । अग्निं रजस्वला वै
स्त्री संस्पृशेदग्निहोत्रिकम् । इष्टिरष्टाकपालेन कार्य्या
दस्युमतेऽग्नये । मृतः श्रूयेत यो जीवः परेयुः पशवो
यदा । इष्टिरष्टाकपालेन कार्य्या सुरमतेऽग्नये । आर्त्तो न
जुहुयादग्निं त्रिरात्रं यस्तु ब्राह्मणः । इष्टिरष्टाकपालेन
कार्य्या स्यादुत्तराग्नये । दर्शञ्च पौर्ण्णमासञ्च यस्य तिष्ठेत्
प्रतिष्ठितम् । इष्टिरष्टाकपालेन कार्य्या रतिकृतेऽग्नये ।
पृष्ठ ००५३
सूतिकाऽग्निर्यदा चाग्निं संस्पृशेदग्निहोत्रिकम् । इष्टि-
रष्टाकपालेन कार्य्या चाग्निमतेऽग्नये । २२० अध्या०
आपस्य दुहिता भार्य्या सहस्य परमा प्रिया । भूपति-
र्भुवभर्त्ता चाजनयत् पावकं परम्! भूतानाञ्चापि सर्वेषां
यं प्राहुः पावकं पतिम् । आत्मा भुवनभर्त्तेति सान्वयेषु
द्विजातिषु । महताञ्चैव भूतानां सर्वेषामिह यः पतिः ।
भगवान् स महातेजा नित्यं चरति पावकः । अग्नि-
र्गृहपतिर्नाम नित्यं यज्ञेषु पूज्यते । हुतं वहति यो
हव्यमस्य लोकस्य पावकः । अपां गर्भो महाभागः सत्त्व-
भुग्यो महाद्भुतः । भूपतिर्भुवभर्त्ता च महतः पतिरुच्यते ।
दहन्मृतानि भूतानि तस्याग्निर्भरतोऽभवत् । अग्निष्टोमे
च नियतः क्रतुश्रेष्ठो भरस्य तु । स वह्निः प्रथमो नित्यं
देवैरन्विष्यते प्रभुः । आयान्तं नियतं दृष्ट्वा प्रविवेशार्ण्णवं
भयात् । देवास्तत्रांधिगच्छन्ति मार्गमाणा यथादिशम् ।
दृष्ट्वा त्वग्निरथर्वाणं ततो वचनमब्रवीत् । देवानां वह हव्यं,
त्वमहं वीर! सुदुर्ब्बलः । अथ त्वं गच्छ मध्वक्षं प्रियमेतत्
कुरुष्व मे । प्रेष्य चाग्निरथर्वाणमन्यं देशं ततोऽगमत् ।
मत्स्यास्तस्य समाचख्युः क्रुद्धस्तानग्निरब्रवीत् । भक्ष्या वै
विवधैर्भावैर्भविष्यथ शरीरिणाम् । अथर्वाणं तथा चापि
हव्यवाहोऽब्रवीद्वचः । अनुनीयमानो हि भृशं
देववाक्याद्धि तेन सः । नैच्छद्वोढुं हविः सर्वं शरीरञ्चापि
सोऽत्यजत् । स तच्छरीरं सन्त्यज्य प्रविवेश धरान्तदा ।
भूमिं स्पृष्टाऽसृजद्धातून् पृथक् पृथगतीव हि । पूयात्
स गन्धं तेजश्च अस्थिभ्यो देवदारु च । श्लेष्मणः स्फटिकं
तस्य पित्तान्मारकतं तथा । यकृत् कृष्णायसं तस्य त्रिभि-
रेष प्रभुः प्रजाः । नखास्तस्याभ्रपटलं शिराजालानि
विद्रुमम् । शरीराद्विविधाश्चान्ये धातवोऽस्याभवन्नृप! । एवं
त्यक्त्वा शरीरञ्च परमे तपसि स्थितः । भृग्वङ्गिरादिभि-
र्भूयस्तपसोत्थापितस्तदा । भृशं जज्ज्वाल तेजस्वी तपसा-
प्यायितः शिखी । दृष्ट्वा ऋषिं भयाच्चापि प्रविवेश
महार्णवम् तस्मिन्नष्टे जगद्भीतमथर्व्वाणमथाश्रितम् ॥ अर्च्चया
मासुरेवैनमथर्व्वाणं सुरादयः । अथर्व्वा त्वसृजल्लोका-
नात्मनालोक्य पावकम् । मिषतां सर्व्वभूतानामुन्ममाथ
महार्णवम् । एवमग्निर्भगवता नष्टः पूर्ब्बमथर्वणा । आहूतः
सर्वभूतानां हव्यं वहति सर्वदा । एवं त्वजनयद्धिष्ण्यान्
वेदीक्तान् विविधान् बहून् । विचरन् विविधान् देशान्
भ्रममाणस्तु तत्र वै । सिन्धुं नदं पञ्चनदं देविकाऽथ
सरस्वती । गङ्गा च शतकुम्भा च सरयूर्गण्डसाह्वया
चर्म्मण्वती सती चैव भेध्या मेधातिथिस्तदा । ताम्रावती
वेत्रवती नद्यस्त्रिस्रोऽथ कौशिकी । तमसा नर्मदा चैव नदी
गोदावरी तथा । वेण्णीपवेण्णा भीमा च वद्धवा चैव भारत ॥
भारती सुप्रयोगा च कावेरी मुर्मुरा तथा । तुङ्गवेणा
कृष्णवेणा कपिला शोण एव च । एता नद्यस्तु धिष्ण्यानां
मातरो याः प्रकीर्त्तिताः । अद्भुतस्य प्रिया भार्य्या तस्य पुत्त्री
विभूरसिः । यावन्तः पावकाः प्रोक्ता सोमास्तावन्त एव तु ॥
अत्रेश्चाप्यन्वये जाता ब्रह्मणो मानसाः प्रजाः । अत्रिः
पुत्त्रान् स्रष्टुकामांस्तानेवात्मन्यधारयत् । तस्य तद्व्रह्मणः
कायान्निर्हरन्ति हुताशनाः एवमेते महात्मानः कीर्त्तिता-
स्तेऽग्नयो मया ॥ अप्रमेया यथोत्पन्नाः श्रीमन्तस्तिमिरा-
पहाः । अद्भुतस्य तु माहात्म्यं यथा वेदेषु कीर्त्तितम् ।
तादृशं विद्धि सर्व्वेषामेको ह्येष हुताशनः । एक एवैष
भगवान् विज्ञेयः प्रथमोऽङ्गिराः । बहुधा निःसृतः
कायात् ज्योतिष्टोमकतुर्य्यथा । इत्येष वंशः सुमहानग्नीनां
कीर्त्तितोमया । योऽर्चितो विविधैर्मन्त्रैर्हव्यं वहति
देहिनाम् । भा० व० मार्क० २२१ अध्या० ।
सास्य देवतेति--ढक् आग्नेयमग्निदेवताके हविरादौ त्रि० ।
अग्निना दृष्टं माम ढक् । आग्नेयं साम । आग्नेयी ऋक्
त्रि० । अग्नये हितं ढक् । आग्नेयमौषधम् त्रि० ।
लौकिकप्रयोगानुसारेण “अङ्गेर्नलोपश्चेति” औणादिकसूत्रेण
अग्निशब्दस्य व्युत्पत्तिर्दर्शिता वैदिकप्रयोगे तु अग्निशब्दस्य
प्रवृत्तिनिमित्तभेदोपयोगिन्यो यास्केन बह्व्यो व्युत्पत्तयो-
दर्शिताः । यथा “अथातोऽनुक्तमिष्यामोऽग्निः पृथिवीस्थानस्तं
प्रथमं व्याख्यास्यामोऽग्निः कस्मादग्रणीर्भवत्यग्रं यज्ञेषु
प्रणीयतेऽङ्गं नयति संनममानोऽक्नोपनो भवतीति स्थौला-
ष्ठीविर्न क्नोपयति न स्नेहयति त्रिभ्य आख्यातेभ्यो जायत
इति” शाकपूणिरितादक्ताद्दग्धाद्वा नीतात्स खल्वेतेरकार-
मादत्ते गकारमनक्तेर्वा दहतेर्वा नीः परस्तस्यैषा भवतीति”
अग्निमीले इति” । अस्यायमर्थः । सामान्येन सर्व-
देवतानां लक्षणस्याभिहितत्वादनन्तरं थतः प्रतिपदं
विशेषेण वक्तव्यत्वमाकाङ्क्षितमतोऽनुक्रमेण वक्ष्यामः । तत्र
पृथिवीलोके स्थितोऽग्निः प्रथमं व्याख्यास्यंते । कस्मात्-
प्रवृत्तिनिमित्तादग्निशब्देन देवताभिधीयत? इति प्रश्नस्या-
ग्रणीरित्यादिकमुत्तरम् । देवसेनामग्रे स्वयं नयतीत्य-
ग्रणीः । एतदेकमग्निशब्दस्य प्रवृत्तिनिमित्तम् । तथा च
ब्राह्मणान्तरम् । “अग्निर्वै देवानां सेनानीरिति” ।
एतदेवाभिप्रेत्य बह्वृचा मन्त्रब्राह्मणे आमनन्ति । “अग्नि-
पृष्ठ ००५४
र्मुखं प्रथमो देवतानामिति” मन्त्रः । “अग्निर्वै देवानामवम
इति” ब्राह्मणम् । तया तैत्रिरीयाश्चामनन्ति । “अग्नि-
रग्रे प्रथमो देवतानामिति” मन्त्रः । “अग्निरवमो देवताना-
मिति” च । वाजमनोयिनस्त्वेवमामनन्ति । “स वा
एषोऽग्रे देवतानामजायत तस्मादग्निर्नामेति” । यज्ञेष्वग्निहो-
त्रेष्टिपशुसोमरूपेष्वग्रं पूर्ब्बदिग्वर्त्याहवनीयदेशं प्रति
गार्हपत्यात्प्रणीयत इति द्वितीयं प्रवृत्तिनिमित्तम् । सन्न-
ममानः सम्यक् स्वयमेव प्रह्वीभगवन्नङ्गं स्वकीयं शरीरं
नयति काष्ठदाहे हविःपाके च प्रेरयतीति तृतीयं प्रवृत्ति-
निमित्तम् । स्थूलाष्ठीविनामकस्य महर्षेः पुत्रो निरुक्त-
कारः कश्चिदक्नोपन इत्यग्निशब्दं निर्वक्ति । तत्र न
क्नोपयतीत्युक्ते न स्नेहयति किन्तु काष्ठादिकं रूक्षयतीत्युक्तं
भवति । शाकपूणिनामको निरूक्तकारो धातुत्रयादग्नि-
शब्दनिष्पत्तिं मन्यते । इतः इण् गतौ इति धातुः ।
अक्तोऽन्जु व्यक्तिम्नक्षणगतिषु इति धातुः । दग्धो दह
भस्मीकरणे इति धातुः । नीतो णीञ् प्रापणे इति
धातुः । अग्निशब्दो ह्यकारगकारनिशब्दानपेक्षमाण
एतिधातोरुत्पन्नादयनशब्दादकारमादत्ते । अनक्तिधातु-
गतस्य ककारस्य गकारादेशं कृत्वा तमादत्ते । यद्वा दहति
धातुजन्याद्दग्धशब्दाद्गकारमादत्ते । नीरिति नयतिधातुः
स च ह्रस्वो भूत्वा परो भवति । ततो धातुत्रयं मिलि-
त्वाग्निशब्दो भवति । यज्ञभूमिं गत्वा स्वकीयमङ्गं नयति
काष्ठदाहे हविःपाके च प्रेरयतीति समुदायार्थः । तस्या
ग्निशब्दार्थस्य देवताविशेषस्य प्राधान्येन स्तुतिदर्शनायैषाग्नि-
मीले इत्यृगभतीति” ऋग्वेदभाष्ये माधवाचार्य्यः
एतस्य वैश्यनरादिशब्दप्रवृत्तिनिमित्तदर्शनेनानेकास्तुतयो
यास्केन दर्शितास्ताश्च तत्तच्छब्दावसरे दर्शयिष्यन्ते ।

अग्निक पु० अग्निवत् कायति मकाशते कै--क । इन्द्रगोपकीटे ।

अग्निकण पु० अग्नेः कणः ६ त० । अग्निच्युतक्षुद्रांशे ।

अग्निकर्म्मन् न० अग्नौ कर्म्म ७ त० । होमे अग्निहोत्रादौ

“अग्निकर्म्म ततः कृत्वेति” स्मृतिः अग्निकार्य्यादयोऽ-
प्यत्रं न० ।

अग्निकला स्त्री ६ त० अग्नेरवयवभेदे । सा च दशविधा तासाञ्च

यादिलान्तवर्णदेवतात्वं यथोक्तं शारदातिलके । “धूम्रा-
र्च्चिरूष्मा ज्वलिनी ज्वालिनी विस्फुलिङ्गिनी । सुश्रीः
सुरूपा कपिला हव्यकव्यवहे अपि । यादीनां दशवर्णानां
कला धर्म्म प्रदा अमूः” इति ।

अग्निकारिका स्त्री अग्निं करोति आषत्ते करणे कर्त्तृ-

त्वोपचारात् कर्त्तरि ण्वुल् । अग्न्याधानसाधनेअग्नी-
ध्रायामृचि । सा च अग्निं दूतं पुरोदधे, इत्याद्या
यजुर्वेदे एवमन्यवेदेऽप्यनुसन्धेया ।

अग्निकाष्ठ न० अग्नेः उद्दीपनं काष्ठम् शा० त० । अगुरुकाष्ठे ।

अग्निकुक्कुट पु० अग्नेः कुक्कुटैव रक्तवर्णस्फुलिङ्गवत्त्वात् ।

ज्वलदग्निव्याप्ततृणपुञ्जे (नुडा) इति ख्याते ।

अग्निकुण्ड न० अग्नेराधानार्थं कुण्डम् । अग्न्याधानार्थे

स्थानभेदे तत्स्थानविवरणं कुण्डशब्देऽनुसन्धेयम् ।

अग्निकुमार पु० ६ त० । कार्त्तिकेये तस्याग्निरेतोजातत्वमुक्तं

महाभारते वनपर्वणि २२३ अध्याये सप्तर्षिपत्नीरूपदर्शनात्
जातस्मरविकारस्याग्नेस्तेषां गार्हपत्य--प्रवेशेन अनिशं तद्दर्श-
नेन जाताधिकविकार तयानिर्वेदपूर्ब्बकं वनगमनमुपक्रम्य,
“स्वाहा तं दक्षदुहिता प्रथमं कामयत्तदा ॥ सा तस्य छिद्र
मन्वैच्छच्चिरात् प्रभृति भाविनी । अप्रमत्तस्य देवस्य न
चापश्यदनिन्दिता ॥ सा तं ज्ञात्वा यथावत्तु वह्निं वनमुपा
गतम् । तत्त्वतः कामसन्तप्तं चिन्तयामास भाविनी ॥
अहं सप्तर्षिपत्नीनां कृत्वा रूपाणि पावकम् । कामयि-
ष्यामि कामार्त्ता तासां रूपेण मोहितम् ॥ एवङ्कृते प्रीति
रस्य कामावाप्तिश्च मे भवेत् ॥ २२३ अध्या०
मार्कण्डेय उवाच । शिवा भार्य्या त्वङ्गिरसः शीलरूप-
गुणान्विता । तस्याः सा प्रथमं रूपं कृत्वा देवी जनाधिप ।
जगाम पापकाभ्यासं तञ्चोवाच वराङ्गना ॥ मामग्ने!
कामसन्तप्तां त्वं कामयितुमर्हसि । करिष्यसि न चेदेवं मृतां
मामुपधारय ॥ अहमङ्गिरसो भार्य्या शिवा नाम हुताशन! ।
शिष्टाभिः प्रहिता प्राप्ता मन्त्रयित्वा विनिश्चयम् ॥ अग्नि-
रुवाच । कथं मां त्वं विजानीषे कामार्त्तमितराः कथम् ।
यास्त्वया कीर्त्तिताः सर्व्वाः सप्तर्षीणां प्रियाः स्त्रियः ॥
शिवोवाच । अस्माकं त्वं प्रियो नित्यं बिभीमस्तु वयं तव ।
त्वच्चित्तमिङ्गितैर्ज्ञात्वा प्रेषितास्मि तवान्तिकम् ॥ मैथुनायेह
संप्राप्ता कामं प्राप्तुं द्रुतं चर । यातरो मां प्रतीक्षन्ते
गमिष्यामि हुताशन! ॥ मार्कण्डेय उवाच । ततोऽग्नि-
रुपयेमे तां शिवां प्रीतिमुदायुतः । प्रीत्या देवी समायुक्ता
शुक्रं जग्राह पाणिना ॥ व्यचिन्तयन्ममेदं ये रूपं द्रक्ष्यन्ति
कानने । ते ब्राह्मणीनामनृतं दोषं वक्ष्यन्ति पावके ॥
तस्मादेतद्रक्षमाणा गरुडी संभवाम्यहम् । वनान्निर्गमन-
ञ्चैव सुखं मम भविष्यति ॥ मार्कण्डेय उवाच । सुपर्णी
सा तदा भूत्वा निर्जगाम महावनात् । अपश्यत् पर्वतं
श्वेतं शरस्तम्बैः सुसंवृतम् ॥ दृष्टिविषैः सप्तशीर्षैर्गुप्तं
पृष्ठ ००५५
भोगिभिरद्भुतैः । रक्षोभिश्च पिशाचैश्च रौद्रैर्भूतगणैस्तथा
राक्षसीभिश्च संपूर्णमनेकैश्च मृगद्विजैः ॥ सा तत्र सहसा
गत्वा शैलपृष्ठं सुदुर्गमम् । प्राक्षिपत् काञ्चने कुण्डे शुक्रं
सा त्वरिता शुभा ॥ शिष्टानामपि सा देवी सप्तर्षीणां
महात्मनाम् । पत्नीस्वरूपकं कृत्वा कामयामास पावकम् ॥
दिव्यं रूपमरुन्धत्याः कर्त्तुं न शकितं तया । तस्यास्तपः
प्रभावेन भर्तृशुश्रूषणेन च ॥ षट्कृत्वस्तत्र निक्षिप्तमग्ने-
रेतः कुरूत्तम! । तस्मिन् कुण्डे प्रतिपदि कामिन्या स्वाहया
तदा ॥ तत् स्कन्नं तेजसा तत्र संवृतं जनयत् सुतम् ।
ऋषिभिः पूजितं स्कन्नमनयत् स्कन्दतां ततः । षट्शिरा
द्विगुणश्रोत्रो द्वादशाक्षिभुजक्रमः । एकग्रीवैकजठरः
कुमारः समपद्यत ॥ वन० मा० स० २२३ अध्यायः
अग्निकुमारत्वेऽपि तस्य रुद्रकुमारत्वं तदप्युक्तं तत्रैव
“ततो ब्रह्मा सहासेनं प्रजापतिरथाब्रवीत् । अभिगच्छ
महादेवं पितरं त्रिपुरार्द्दनम् ॥ रुद्रेणाग्निं समाविश्य
स्वाहामाविश्य चोमया । हितार्थं सर्व्वलोकानां जातस्त्वम
पराजित! ॥ उभायीन्याञ्च रुद्रेण शुक्रं सिक्तं महात्मना
अस्मिन् गिरौ निपतितं मिञ्जिकामिञ्चिकं ततः ॥ सम्भूतं
लोहितोदे तु शुक्रशेषमवापतत् । सूर्य्यरश्मिषु चाप्यन्य
दन्यच्चैवापतद्भुवि । आसक्तमन्यद्वृक्षेषु तदेवं पञ्चधापतत् ॥
इति २२४ अध्याये । अग्नितनयाग्निसुतादयोऽप्यत्र ।

अग्निकेतु पु० अग्नेः केतुरिव । धूमे तस्याग्निप्रभवत्वेन

तच्चिह्नीभूतत्वम् गगने उद्धूयमानत्वात् तत्पताकत्वञ्च ।

अग्निकोण पु० अग्नेः अग्निदेवताकः कोणः अन्तरालदिक्

६ त० । अग्निदैवत्ये पूर्ब्बदक्षिणयोर्मध्ये दिग्भागे ।
“इन्द्रोवह्निः पितृपतिर्नैरॄतोवरुणोमरुत् । कुवेरईशः
पतयः पूर्ब्बादीनां दिशां क्रमात्” इत्युक्तेः तस्य पूर्ब्बदक्षिण-
दिशोर्मध्यदिक्पतित्वम् । उपचारात् तत्स्वामिनोऽग्ने-
र्वाचका अपि अत्रैव । “प्रतिपत् नवमी पूर्ब्बे रामरुद्रौ च
पावके” इति ज्योतिषे “शक्रे हुताशे भयमिति” च अग्नि-
कोणपरतया पावकादिशब्दः प्रयुक्तः ।

अग्निगर्भ पु० अग्निरिव जारको गर्भोऽस्य । अग्निजारवृक्षे ।

अग्निर्गर्भेऽस्य । सूर्य्यकान्तमणौ (आतसि) तस्य सूर्य्य-
किरणसम्पर्कात् अग्न्युत्थापकत्वात्तथात्वम् । अग्निमन्थन
काष्ठरूपारणौ च । अग्निः स्थितो गर्भेऽस्याः ।
शमीलतायाम् स्त्री । “अग्निगर्भां शमीमिवेति” रघुः । शम्या
गर्भेऽग्निस्थितिकथा भा० आनुशा० प० ८५ अध्याये
“रुद्रस्य रेतःप्रस्फन्नमग्नौ निपतितञ्च यत् तत्तेजोऽग्निर्मह-
द्भूतं द्वितीयममिव पावकम् । बधार्थं देवशत्रूणां गङ्गायां
जनयिष्यतीति” ब्रह्मवाक्यानन्तरं कार्त्तिकेयोत्पत्त्यर्थमन्वि-
माणस्य कुतश्चित् कारणेन गुप्तस्याग्नेः “नष्टमात्मनि संलीनं
नाधिजग्मुर्हुताशनमित्यनेन” देवैस्तस्यानासादने उक्ते
नानास्थानेऽन्वेषणात् परिशेषे शमीगर्भे प्राप्तिरुक्ता, यथा
“अश्वत्थान्निर्गतोवह्निः शमीगर्भमुपाविशदिति” । शमीगर्भे-
चास्य स्थितिं कथयतः शुकस्य जिह्वापरिवृत्तिरूपशापदान-
मुक्त्वा देवैस्तस्मै वरान् दत्त्वा शमीगर्भे बह्निरलक्ष्य त
इत्युक्त्वा च “इत्युक्त्वा तं शमीगर्भे बह्निमालक्ष्य देवताः तदे
वायतनं चक्रुः पुण्यं सर्व्वक्रियास्वपि । ततः प्रभृति
चाग्निः स शमीगर्भेषु दृश्यते । उत्पादने तथोपायमधि-
जग्मुश्च मानवा” इति ।
अग्नेः सकाशात् गर्भोऽस्याः पृथिव्यां स्त्री । वह्निना
गङ्गायामासिक्तगर्भस्य धारयितुमशक्यस्य पृथिव्यां सुमेरौ
गङ्गया निक्षेपणमुक्तं तत्रैव । “सा वह्निना वार्य्यमाणा
देवैरपि सरिद्वरा । समुत्सर्ज तं गर्भं मेरौ गिरिवरे
तदेति, उक्त्वा “तेजसा तस्य गर्भस्य भास्करस्येव रश्मिभिः
यद्द्रव्यं परिसंसृष्टं पृथिव्यां पर्व्वतेषु च तत् सर्वं काञ्चनी
भूतं समन्तात् प्रत्यदृश्यत । पृथिवी च तदा देवी ख्याता
वसुमतीति च स तु गर्भो महातेजाः गाङ्गेयः पावकोद्भवः
दिव्यं शरवणं प्राप्य ववृधेऽद्भुतदर्शन इति भा० आनु०
८५ अ० । अतएव श्रुतौ “यथाग्निगर्भा पृथिवी यथा
द्यौरिन्द्रेण गर्भिणी” इत्युक्तम् । अग्निरिव गर्भोमध्यभागो-
ऽस्याः । अग्निदीप्तायां महाज्योतिष्मतीलतायाम् स्त्री ।

अग्निगृह न० अग्निकार्य्यार्थं गृहं शा० त० । होमार्थे

गृहे ६ त० । श्रौतस्मार्त्ताग्निकृत्याधारे गृहे न । अग्न्य-
गारादयोऽप्यत्र । “वसंश्चतुर्थोऽग्निरिवग्न्यगारे” इति रघुः ।

अग्निग्रन्थ पु० अग्निप्रतिपादकः ग्रन्थः शा० त० । अग्नि

होमादि--प्रतिपादके शास्त्रे “अग्निग्रन्थपर्य्यन्तमधीते”
सि० कौ० अग्निग्रन्थः अग्निप्रतिपादकः ग्रन्थ इति
तत्त्वबो० । एवमेव मत्कृतसरलायामुक्तम् ।

अग्निघृत न० अग्न्युद्दीपनं घृतं शा० त० । वैद्यकोक्ते

घृतभेदे यथा चक्रदत्तः ।
“पिप्पलीपिपलीमूलं चित्रको हस्तिपिप्पली । हिङ्गुचव्या-
ऽजमोदा च पञ्चैव लवणानि च ॥ द्वौ क्षारौ हवुषा चैव
दद्यादर्द्धपलोन्मितान् । दधिकाञ्जिकशुक्तानि स्नेहमात्रा-
समानि च । आर्द्रकं सरसं प्रस्थं घृतप्रस्थं विपाचयेदिति ।
एतदग्निघृतं नाम मन्दाग्नीनां प्रशस्यते इति” ॥
पृष्ठ ००५६
“भल्लातकसहस्रार्द्धं जलद्रोणे विपाचयेत् । अष्टभागावशे-
षञ्च कषायमवतारयेत् । घृतप्रस्थं समादाय कल्कानीमानि
दापयेत् । व्यूषणं पिप्पलीमूलं चित्रको हस्तिपिप्ली ॥
हिङ्गुचव्याजमोदा च पञ्चैव लवणानि च । द्वौ क्षारौ
हवुषा चैव दद्यादर्द्धषलीन्मितान् ॥ दधिकाञ्चिकशुक्तानि
स्नेहमात्रासमानि च । आर्द्रकं सरसञ्चैव शोभाञ्जनरस-
न्तथा ॥ तत् सर्व्वमेकतः कृत्वा शनैर्मृद्वग्निना पचेत् ।
एतदग्निघृतं नाम मन्दाग्नीनां प्रशस्यते” इति च ।

अग्निचयन पु० अग्निश्चीयते आधीयते अनेन चि--करणे ल्युट्

६ त० । अग्न्याधानसाधने मन्त्रभेदे, भावे ल्युट् ६ त० ।
अग्न्याधाने न० ।

अग्निचित् त्रि० अग्निं चितवान् चि--भूतार्थे क्विप् । मन्त्र-

पूर्ब्बककृतवह्निस्थापने अग्निहोत्रिणि । भावे क्विप् ।
अग्न्याधाने ।

अग्निचित्या स्त्री अग्नेश्चित्या चि--भावे क्यप् नि० स्त्रीत्वम् ।

अग्निचयने अग्न्याधाने “उपविशेदग्निपुच्छस्य साग्निचि-
त्यायामिति” गृह्यम् । “चित्याग्निचित्ये” चेति पा० ।

अग्निचित्वत् त्रि० अग्निचित् अग्निचयनमस्त्यस्मिन् मतुप्

मस्य वः तान्तत्वान् न पदत्वम् । अग्निचयनयुक्तेषु यज्ञेषु
“अध्वरेष्वग्निचित्वत्स्विति” भट्टिः स्त्रियां ङीप् ।

अग्निज पु० अग्नये अग्न्युद्दीपनाय जायते सेवनात् प्रभवति

जन--ड ४ त० । अग्निजारवृक्षे । अग्नेर्जायते जन--ड
५ त० । स्वर्णे न० । कार्त्तिकेये पु० । तत्कथाऽग्नि-
कुमारशब्दे द्रष्टव्या । अग्निजातमात्रे त्रि० “अग्निजा-
औषधिजा सहीनामिति श्रुति” “अग्नीश्वरस्य भक्तानां न
भयं विद्युदग्निजमिति” काशीखण्डः ।

अग्निजन्मन् पु० अग्नेर्जन्माऽस्य ५ त० । कार्त्तिकेये तद्विवरणम्

अग्निकुमारशब्देऽनुसन्धेयम् । स्वर्णे न० ।

अग्निजार पु० जारयति जृ--णिच्--कर्त्तरि अण् अग्निरिव

जारः । स्वनामख्याते वृक्षे, औषधभेदे च । रस्य लत्वे
अग्निजालोप्यत्र ।

अग्निजिह्व त्रि० अग्निर्जिह्वास्वादसाधनं यस्य । अग्निमुखे

देवे “ये अग्निजिह्वा उत वा यजत्रा” श्रुतिः अग्निरेव
जिह्वाऽस्य । वराहमूर्त्तिधारणकाले विष्णोर्वराहरूपे
“अग्निजिह्वो दर्भरोमेति वराहरूपवर्णने विष्णुः । ६ त० ।
अग्निजिह्वायां स्त्री सा च सप्तविधा तासां नामानि यथा
“कराली घूमिनी श्वेता लोहिता नीललोहिता सुवर्ण्णा
पद्मरागा च जिह्वाः सप्त विभावसोरिति” कथं तासा-
मग्निमुखे स्थितिस्तच्च अग्निशब्दे तद्ध्याने दर्शितम् अग्ने-
र्जिह्वेव शिखाऽस्याः ब० । लाङ्गलीवृक्षे स्त्री ।

अग्निज्वाला स्त्री अग्नेर्ज्वालेव शिखाऽस्याः । गजपि-

प्पलीवृक्षे । (विषलाङ्गला) ६ त० । अग्निशिखायाम् ।

अग्नितप् त्रि० अग्निना तप्यते तप--क्विप् । अग्निना तपस्या-

कारके “परावीरास एतनमर्य्यास भद्रजानयः । अग्नितपो
यथा सथेति, श्रुतिः ।

अग्नितपस् त्रि० अग्निभिः सम्मुखस्थसूर्य्यसहितचतुर्दिक्स्थ

पावकैस्तप्यते तप--असुन् ३ त० । “ग्रीष्मे पञ्चाग्निमध्यस्थ”
इति स्मृत्युक्ततीव्रतपस्याकारके । तपतीति तपाः अग्निरिव
तपाः । अग्निसदृशोष्णस्पर्शवति । “यदा बलम्य-
पीयतोजसुंभेद्वृहस्पतिरग्नितपोभिरर्कैरिति” श्रुतिः ।

अग्नितेजस् त्रि० अग्नेरिब तेजोऽस्य । अग्नितुल्यतेजस्के

पदार्थे “अग्निलोकेऽग्नितेजस, इति काशी० । “विष्णोः
क्रमोऽसि सपत्नहा पृथिवीसंश्रितो अग्नितेजा इति”
श्रुतिः । ६ त० । अग्नेस्तेजसि न० ।

अग्नित्रय न० त्र्यवयवं त्रयं त्रि + अयट् ६ त० ।

यथाविधानेन कृताधाने अग्नित्रितये । पित्रादीन्यपक्रम्य
“एतएव त्रयोलोका एतएव त्रयोऽग्नयः । पिता
गार्हपत्याग्निर्माता दक्षिणाग्निः, आचार्य्य आवहनीय
इति” विष्णूक्ते गार्हपत्यदक्षिणाग्न्यावहवनीयवह्नित्रयरूपे
पित्रादौ च । अस्य वा स्त्रीत्वे ङीप् अग्नित्रयीत्यप्यत्र ।

अग्निद त्रि० अग्निं गृहादौं दाहार्थं ददाति दा--क ।

गृहादौ दाहार्थं वह्निदायके आततायिभेदे “अग्निदोग-
रदश्चैव शस्त्रपाणिर्धनापहः । क्षेत्रदारापहारी च षडेते
आततायिन इति” स्मृतिः ।

अग्निदग्ध त्रि० अग्निना अग्न्येष्टिविधानेन दग्धः

दहकर्म्मणि क्त । शास्त्रविधानेन संस्कृताग्निना कृतदाहे “अग्नि-
दग्धाश्च ये जीवा येऽप्यदग्धाः कुले ममेति, वायु पु० ।
अग्निना कृतदाहे पदार्थमात्रे त्रि० । “अग्निदग्धाविमौ-
पक्षाविति” रामा० ।

अग्निदमनी स्त्री अग्निर्दम्यते अनया दम--णिच्--करणे

ल्युट् ६ त० ङीप् । कण्टकारिकातः क्षुद्रे--कण्टका-
वृते गुच्छस्थक्षुद्रफलवति (गणियारी) इति ख्याते
क्षुपभेदे ।

अग्निदातृ स्त्री० अग्निं विधानेन ददाति दा--तृच् । अन्त्येष्टि-

विधानेन दाहकारके “यश्चाग्निदाता प्रेतस्य पिण्डं दद्यात्
सएव हि” इति स्मृतिः । स्त्रियां ङीप् ।
पृष्ठ ००५७

अग्निदीपन त्रि० अग्नि जठरस्थानलं दीपयति दीप--णिच्-

ल्यु ६ त० । जठरानलोद्दीपके पदार्थमात्रे औषधभेदे न० ।

अग्निदीप्ता स्त्री अग्निर्जठरानलोदीप्तः सेवनात् यस्याः ।

ज्योतिष्मतीलतायाम् ।

अग्निदूत पु० अग्निर्दूत इव यस्मिन् यस्य वाऽवाहकत्वात् ।

अग्न्याधानानन्तरमाहूतदेवके यज्ञादौ, “यमं ह “यज्ञो गच्छ-
त्यग्निदूतो अरं कृत” इति वेदः तत्राहूते देवे च अतएव
यज्ञे अग्नेर्दूतत्वमग्निस्थापने मन्त्रे “अग्निं दूतं पुरोदधे
इति ‘अग्निं दूतं वृणीमहे इति’ च श्रुतावुक्तम् ।

अग्निदेवा स्त्री अग्निर्देवोऽस्याः । कृत्तिकातारायाम् “अश्वि-

यमदहनशशिकमलजशूलभृददितिजीवफणिपितर इति”
ज्योतिषे अश्विन्यादीनां क्रमशोऽश्व्यादिदेवतात्वकथनात्
तत्क्रमात् कृत्तिकाया अग्निदैवत्यम् ।

अग्निध् पु० अग्निं दधाति मन्त्रविधिना स्थापयति धा--क्विप्

नि० आलोपः ६ त० । अग्न्याधानकर्त्तरि । “अध्वर्य्युं
वा मधुपाणिं सुहस्तमग्निधं वा धृतदक्षं दमूनसमिति” वेदः ।

अग्निधान न० अग्निर्विधिना धीयतेऽस्मिन् धा--आधारे ल्युट्

६ त० । अग्निहोत्रगृहे “पदं कृणुते अग्निधाने” इति
वेदः ।

अग्निनक्षत्र न० ६ त० । अग्निदैवत्ये कृत्रिकानक्षत्रे अग्नितारावह्नितारकादयोऽप्यत्र ।

अग्निनयन न० अग्नेर्नयनं मन्त्रविधिना संस्कारः नी--भावे

ल्युट् ६ त० । अग्निसंस्काररूपे विधिना अग्निप्रणयने
६ त० । अग्निनेत्रे न० ।

अग्निनिर्यास अग्नेः जठरानलस्येव दीपको निर्यासोऽस्य । अग्निजारवृक्षे ।

अग्निनेत्र पु० अग्निर्नेता हुतहविःप्रापयिता यस्य अच् समा० ।

देवतामात्रे । “हव्यं वहति देवानामिति” श्रुतौ हि तस्य
देवेभ्यो हव्यवाहकत्वमुक्तम् । ६ त० । वह्निनयते न० ।

अग्निपद न० ६ त० । अग्न्याधानस्थाने अग्निबोधकशब्दे च ।

तत्र दीयते इत्यर्थे व्युष्टादित्वात् अणि आग्निपदम् ।

अग्निपरिक्रिया स्त्री अग्नेः परिक्रिया परिचर्य्या परि +

कृभावे श ६ त० । अग्निचर्य्यायां होमादिकरणे ।

अग्निपर्व्वत पु० अग्निसाधनं पर्व्वतः । स्वतः अग्निसम्पादके पर्व्वतभेदे ।

अग्निपुच्छ पु० न० अग्नेरग्न्याधानस्थानस्य पुच्छ इव ।

आहिताग्निस्थानात् पृष्ठभागे । “दक्षिणत आवहनीयस्योप-
विशेदग्निपुच्छस्य साग्निचित्यायामिति” गृह्यम् ।

अग्निपुराण न० अग्निना प्रोक्तं पुराणम् । वेदव्यास प्रणी-

तेषु अष्टादशसु महापुराणेषु मध्येऽष्टमे वह्निनोक्ते
पुराणभेदे तद्विवरणं यथा ।
“आग्नेयमष्टमं स्मृतमिति” भागवते । “परमग्निपुराणञ्च
रुचिरं परिकीर्त्तितम् । चतुर्द्दश सहस्राणि परं पञ्चशता-
धिकम्” इति ब्रह्मवैवर्त्ते । तत्राभिधेयसंक्षेपः ।
भगवतोऽवतारः, सृष्तिप्रकारः, विष्णुपूजा, अग्निपूजा,
मुद्रादिलक्षणम्, दीक्षा, अभिषेकः, मण्डपलक्षणम्
कुशमार्जनाविधिः, पवित्रारोपः, देवतायतनादिनिर्म्माणप्रकारः,
शालग्रामलक्षण--पूजे, देवप्रतिष्ठानियामकदीक्षा, देवप्रति-
ष्ठाविधिः, व्रह्माण्डस्वरूपं, गङ्गादितीर्थमाहात्म्यं, द्वीपवर्णनम्
ऊर्धाधोलोकवर्णना, ज्योतिश्चक्रस्वरूपम् । युद्धजयोपाय-
षट्कर्म्मविधानम्, यन्त्रमन्त्रौषधप्रकारः कुब्जिकार्चनाविधिः,
कोटिहोमचिधानम्, ब्रह्मचर्य्यधर्म्मः, श्राद्धकल्पः ग्रहयज्ञः,
वैदिकस्मार्त्तकर्म्मणी, प्रायश्चित्तम्, तिथिभेदे व्रतभेदः,
वारव्रतनक्षत्रव्रते, मासव्रतम्, दीपदानविधिः, नूतनव्यूहा
रम्भादि, नरकनिरूपणम्, दानब्रतम्, नाडीचक्रम्, सन्ध्या-
विधिः, गायत्र्यर्थः, शिवस्तोत्रं, राज्याभिषेकः, राजधर्म्मः,
राजाध्येयशास्त्रम्, शुभाशुभशकुनादि, मण्डलादि,
रणदीक्षाविधिः, श्रीरामनतिः, रत्नलक्षणम्, धनुर्विद्या, व्यव-
हारविधिः, देवासुरयोर्युद्धम्, आयुर्वेदः, गजादिचिकित्सा,
पूजाप्रकारः । शान्तिविधिः, छन्दःशास्त्रम्, साहित्यं,
शिष्टानुशासनम्, सृष्ट्यादिप्रलयवर्णने, शारीरकरूपं,
नरकवर्णनम्, योगः, व्रह्मज्ञानम्, पुराणमाहात्म्यञ्च ॥
एते विषयाः संक्षेपेण दर्शिता विस्तरस्तस्त्रैव द्रष्टव्यः ॥

अग्निप्रणयन न० अग्नेः प्रणयनं मन्त्रपूर्ब्बकं संस्कारः

प्र + नी--भावे ल्युट् ६ त० । शास्त्रोक्तविधानेन
वह्निसंस्कारभेदे “दक्षिणत आहरनीयेऽवस्थितस्याग्नेः
सौमिकायामुत्तरवेद्यां नयनं यदस्ति तदेतदग्निप्रणयन-
मिति” गृह्यम् ।

अग्निप्रस्कन्दन न० ६ त० । यथाविधानमग्निकार्य्यरूपहोमा-

करणे “प्रजाश्च यौवनं प्राप्य विनशिष्यन्त्यनो! तव ।
अग्निप्रस्कन्दनपरस्त्वञ्चाप्येवं भविष्यसीति, स्वपुत्रमनुं प्रति
ययातिवाक्यम् भार० आदि प० ।

अग्निप्रस्तर पु० अग्निं प्रस्तृणाति स्तृ--अच् अग्नेर्वा प्रस्तरः ।

(चक्मकीति) ख्याते वह्युत्थापके प्रस्तरखण्डे ।

अग्निबाहु पु० अग्नेर्बाहुरिव दीर्घशिखत्वात् । धूमे ।

अग्निभ न० अग्निरिव भाति भा--क । स्वर्ण्णे अग्नितुल्यवर्णत्वा-

त्तस्य तथात्वम् । वह्नितुल्यवर्णपदार्थे त्रि० । भ० नक्षत्रं
६ त० । अग्निदैवत्ये कृत्रिकानक्षत्रे न० ।

अग्निभू पु० अग्नेर्भवति भू--क्विप् । कार्त्तिकेये अग्निकुमार

शब्दे तदुद्भवकथा । अग्निसम्भवे त्रि० । स्वर्णे न०
हृस्वान्तः । अग्निभवादयोऽप्यत्र ।
पृष्ठ ००५८

अग्निभूति पु० अग्निरिव भूतिः तेजस्वित्वादैश्वर्य्यमस्य ।

बौद्वभेदे ६ त० । पावकविभूत्यां तद्वीर्य्ये च स्त्री । ६ ब० ।
वह्निसम्भवे त्रि० ।

अग्निभ्राजस् त्रि० अग्निरिव भ्राजते भ्राज--असुन् । वह्नि-

तुल्यदीप्तियुक्ते । ‘अग्निभ्राजसोविद्युतो गर्भस्त्य इति’ वेदः ।

अग्निमणि पु० अग्नेरुत्थापकोमणिः शा० त० । सूर्य्यादि-

तैजसद्रव्यसम्पर्कात् अग्न्युत्थापके सूर्य्यकान्ताभिधे मणौ
(आतसी) (चक्मकीति) ख्याते प्रस्तरे च ।

अग्निमत् पु० अग्निराधानादस्त्यस्य मतुप् । यथाविधानेनाहि-

ताग्निके साग्निके द्विजे “दारास्वग्निं विनिःक्षिप्य प्रवसे-
दनग्निमान् द्विजः” इति स्मृतिः ।

अग्निमथ् पु० अग्निं मथ्नाति अरणिद्वयघर्षणेन निष्पादयति

मन्थ--क्विप् नलोपः । अग्न्याधानार्थमरणिद्वयघर्षणेन
वह्निसम्पादके याज्ञिके । करणे क्विप् । अग्निमन्थसाधने
मन्त्रे, अरणिकाष्ठे च त्रि० ।

अग्निमन्थ पु० अग्निर्मथ्यतेऽनेन मन्थ--करण घञ् ।

गणिकारीवृक्षे (गणियारि) तत्काष्ठयोर्घर्षणे हि आशु
बह्निरुद्भाव्यते । तन्मन्थनसाधने मन्त्रे च । करणे ल्युट्
६ त० । अग्निमन्थनोऽप्युक्तार्थे त्रि० स्त्रियां ङीप् ।

अग्निमान्द्य न० अग्नेर्जठरानलस्य मान्द्यं पाचनकुण्ठता ।

धातुवैषम्येण जठरानलस्य पाचनशक्तिराहित्ये “अग्नी-
श्वरस्य भक्तानां न विद्युदग्निजं भयम् अग्निमान्द्यभयं
नैवेति” काशीखण्डः । अग्निमान्द्येऽजीर्णता स्यात्
तत्राल्पभोजनं कार्य्यं यथा । ‘मुहुर्मुहुरजीर्णेऽपि भोज्य-
मस्योपकल्पयेत् इति चक्र० । तत्कारणमुक्तम् । स्नेहपीतस्य
वान्तस्य विरिक्तस्य स्रुतासृजः । निरूढस्य च कायाग्निर्मन्दो
भवति देहिनः ॥ सोऽन्नैरत्यर्थगुरुभिरुपयुक्तैः प्रशाम्यति ।
अल्पोमहद्भिर्बहुभिश्छादितोऽग्निरिवेन्धनैः ॥ सचाल्पै-
र्लघुभिश्चान्नैरुपयुक्तैर्विवर्द्धते । काष्ठैरणुभिरल्पैश्च सन्धु-
क्षित इवानलः ॥ हृतदोषप्रमाणेन सदाहारविधिःस्मृतं
इति सुश्रुते ।

अग्निमारुति अग्निश्च मरुच्च तयोरपत्य वाह्वादेराकृति

गणत्वादिञ् ततो वृद्धिः देवताद्वन्द्वे च आनङं बाधित्वा
‘इद्वृद्धाविति’ इति “देवताद्वन्द्वे च” इति द्विपदवृद्धौ पृ०
पूर्ब्बपदस्य हुस्वः । अगस्त्ये मुनौ तस्य च कल्पान्तरे
ताभ्यामुत्पत्तिरनुसन्धेया ।

अग्निमुख पु० अग्निर्मुखमिव यस्य । देवे । हुतद्रव्यं हि देवै-

रग्निरूपमुखद्वारेणैवाश्यते । “हव्यं वहति देवानामिति”
श्रुतेस्तत्रैव तात्पर्य्यात् । “अग्निमुखा वै देवा” इति
“अग्निर्मुखं प्रथमं देवतानायिति च” श्रुतिः । अग्निर्मुखे-
ऽग्रेऽस्य । देवे, “अग्निरग्रे प्रथमं देवानामिति” श्रुतौ वह्ने
रेव देवानामग्रोत्पत्तेस्तथात्वम् । यथा चाग्नेर्देवमुखत्वं
तदादित्वञ्च तथाऽग्निशब्दे निरुक्तव्याख्याने ऋग्वेदभाष्ये प्राक्
दर्शितम् अग्निधिकमग्निहोत्रशब्दे वक्ष्यते । अग्निर्मुखं
प्रधानमुपास्यो यस्य । अग्निहोत्रिणि द्विजे । अग्निः दाहक-
त्वात् शापाग्निर्मुखे यस्य । विप्रे “वाग्वज्रा वैविप्रा” इति
श्रुतौ तेषां वाग्वज्रत्वकथनात् अग्निमुखत्वम् । अग्निरिव
स्पर्शात् दुःखदायकं मुखमग्रमस्य । भल्लातकवृक्षे (भेला)
चित्रकवृक्षे च । तन्निर्य्यासस्पर्शेन हि देहे क्षतोत्पत्तेस्तयो-
स्तथात्वम् । अग्नेः जठरानलस्य मुखं द्वारम् । वैद्य-
कोक्ते चूर्णभेदे न० यथा “हिङ्गुभागो भवेदेको वचा
च द्विगुणा भवेत् । पिप्पली त्रिगुणा चैव शृङ्गवेरं
चतुर्गुणम् ॥ यमानिका पञ्चगुणा षड्गुणा च हरीतकी ।
चित्रकं सप्तगुणितं कुष्ठञ्चाष्टगुणं भवेत् ॥ एतद्वातहरं
चूर्णं पीतमात्रं प्रसन्नकृत् । पिबेद्दध्ना मस्तुना वा सुरया
कोष्णवारिणा ॥ सोदावर्त्तमजीर्णञ्च प्लीहानमुदरन्तथा
अङ्गानि यस्य शीर्य्यन्ते विषं वा येन भक्षितम् ॥ अर्शो-
हरं दीपनञ्च श्लेष्मघ्नं गुल्मनाशनम् । कांसं श्वासं
निहन्त्याशु तथैव यक्ष्मनाशनम् ॥ चूर्णमग्निमुखं नाम न
क्वचित् प्रतिहन्यते” इति चक्रदत्तः ।

अग्निमुखी स्त्री अग्निरिव मुखमग्रं यस्याः गौरादित्वात्

ङीष् । (भेला) भल्लातकवृक्षे, लाङ्गलिकावृक्षे (विषलाङ्गला)
अग्निरेव मुखं मुखत्वेन कल्पितं यस्याः गौरा० । गायत्री-
मन्त्रे । “कदाचिदपि नो विद्वान् गायत्रीमुदके
जपेत् । गायत्र्यग्निमुखी यस्मात्तस्मादुत्थाय तां जपेदिति”
गोभिलः । तस्याश्च “सोऽकामयतं यज्ञं सृजेयेति स मुखत-
एव त्रिवृतमसृजत तं गायत्री छन्दोऽन्यसृज्यताग्निर्देवता
ब्राह्मणोमनुष्योवसन्तऋतुस्तस्मात् त्रिवृत् स्तोमानां मुखं,
गायत्री च्छन्दसामग्निर्देवानमिति” श्रुतौ । अग्निना समंप्रजा-
पतिमुखजातत्वात् तथात्वम् । अस्मिश्च पक्षे । अग्नेरिव
मुखं प्रजापतिमुखं मुखमुत्पत्तिद्वारमस्या इति विग्रहः
गौरा० । गायत्रीमन्त्रश्च गायत्रीशब्दे वक्ष्यते । विप्रे
तु पु० । अग्निरिव उत्तप्त मुखं यस्याः गौ० ङीष् ।
पाकशालायाम् स्त्री अग्निर्मुखमाद्यो यस्य अग्निप्रभृतौ देवे त्रि० ।
पृष्ठ ००५९

अग्निरक्षण न० अग्निः रक्ष्यतेऽनेनात्र वा रक्ष--ल्युट् ।

राक्षसादिभ्योऽग्निरक्षाकारके मन्त्रभेदे, अग्निहोत्रे, अग्नि-
होत्रगृहे च । भावे ल्युट् । अग्न्याधाने ।

अग्निरजस् पु० अग्निरिव रज्यते दीप्यते रन्ज् असुन् नलोपः ।

रक्तवर्णे इन्द्रगोपनामककीटे । ६ त० । अग्निवीर्य्ये,
स्वर्णे च न० ।

अग्निरहस्य त्रि० ग्नेः रहस्यं तदुपासनाद्यङ्गजातमत्र ।

अनलोपसनाबोधके शास्त्रे अग्निकल्पे ।

अग्निरुहा स्त्री अग्निरिव रोहति रुह--क । मांसादन्यां

तदङ्कुरस्य वह्नितुल्यवर्णतयोत्पन्नत्वात् तथात्वमस्याः ।

अग्निरूप त्रि० अग्नेरिव रूपं वर्णोऽस्य, अग्निरिव रूप्यते

ऽसौ रूप--कर्म्मणि अच् वा । वह्नितुल्यवर्णे अग्निसदृश-
मान्ये च ६ त० । अग्नेर्वर्णे अग्निशब्दोक्ते वह्नेर्ध्येयरूपे
च न० ।

अग्निरेतस् न० ६ त० । अग्निशुक्रे, तज्जातत्वात् सुवर्णे च

तत्कथा च प्रस्कन्नरुद्रशुक्रस्य अग्निसंक्रान्तस्याग्निना देवता
प्रार्थनया गङ्गयामाहितस्य तया च वोढुमसमर्थया “समु-
त्ससर्ज्ज तं गर्भं मेरौ गिरिवरे तदेत्यनेन” मेरौ पातने कृते
तस्य तेजसैव मेरुस्थं सर्व्वं वस्तु सुवर्ण्णीकृतं यथोक्तमानु-
शासनिके प० भा० । “तेजसा तस्य गर्भस्य भास्करस्येव
रश्मिभिः यद्द्रव्यं परिसंसृष्टं पृथिव्यां पर्व्वतेषु च ।
तत् सर्व्वं काञ्चनीभूतं समन्तात् प्रत्यदृश्यत” इति । अन्ते च
“तस्मात् सुवर्णं माङ्गल्यं रत्नानामुत्तमोत्तमम् । सहजं
कार्त्तिकेयस्य वह्नेस्तेजः परं मतमिति” ८६ अध्याये ।

अग्निलोक पु० ६ त० । अग्न्यधिष्ठिते मेरुशृङ्गाधःस्थे भुवन-

भेदे । स च । ‘सद्रत्नकाञ्चनमयं शिखरत्रयं च मेरोर्मुरारि-
कपुरारिपुराणि तेषु । तेषामधःशतमखज्वलनान्तकानां रक्षो
ऽम्बुपानिलशशीशपुराणि चाष्टौ” इति सि० शि० गोलाध्याये
दर्शितः । अयमेव पक्षः युक्तियुक्तः । पुराणे तु अन्त-
रीक्षएव तस्य स्थितिरुक्ता । काशीखण्डे, विमान-
यानेन गच्छता शिवशर्म्मणा पृष्टाभ्यां विष्णुदूताभ्यां
सूर्य्यलोकादूर्द्धं शक्रपुरीवर्णनोत्तरं तद्दक्षिणस्याम् अग्नि-
लोको वर्णितः यथा
“एतस्या दक्षिणे भागे येयं पूर्दृश्यते शुभा । इमामर्चि-
ष्मतीं पश्य वीतिहोत्रपुरीं शुभाम् । जातवेदसि ये भक्ता
स्ते वसन्त्यत्र सुव्रताः । अग्निप्रवेशं कुर्य्युर्ये दृढसत्वा
जितेन्द्रियाः । स्त्रियो वा सत्वसम्पन्नास्ते सर्व्वत्राग्नितेजसः ।
अग्निहोत्ररताविप्रास्तथाग्निब्रह्मचारिणः । पञ्चाग्नि-
व्रतिनो येवै तेऽग्नेलोकेऽग्नितेजसः । शीते शीतापनुत्त्यै
यस्त्विघ्मभारान् प्रयच्छति । कुर्य्यादग्नीष्टिकां वापि स
वसेदग्निसन्निधौ । अनाथस्याग्निसंस्कारं यः कुर्य्याद्वा
दयान्वितः । अशक्तः प्रेरयेदन्यान् सोऽग्निलोके महीयते ।
जठराग्निविवृद्ध्व्यै योदद्यादाग्नेयमौषधम् । मन्दाग्नये
स पुण्यात्मा वह्निलोके वसेच्चिरम् । यज्ञोपस्करवस्तूनि
यज्ञार्थं द्रविणन्तु वा । यथाशक्ति प्रदद्याद्यो ह्यर्च्चिष्मत्यां
वसेत् स वै । अग्निरेको द्विजातीनां निःश्रेयसकरः परः ।
गुरुर्देवो व्रतं तीर्थं सर्व्वमग्नेर्विनिश्चितम् । अपावनानि
सर्व्वाणि वह्निसंसर्गतः क्वचित् । पावनानि भवन्त्येव
तस्मात् स पावकः स्मृतः । अपि वेदं विदित्वा यस्त्यक्त्वा
वै जातवेदसम् । अन्यत्र बध्नाति रतिं ब्राह्मणो न स
वेदवित् । अन्तरात्मा ह्ययं साक्षान्निश्चितो ह्याशुशुक्षणिः ।
मांसग्रासान् पचेत् कुक्षौ स्त्रीणां नो मांसपेशिकाम् ।
तैजसी शाम्भवी मूर्त्तिः प्रत्यक्षा दहनात्मिका । कर्त्त्री
हन्त्री पालयत्नी विनैनां किं विलोक्यते । चित्रभानु
रयं साक्षान्नेत्रं त्रिभुवनेशितुः । अन्धन्तमोमये लोके
विनैनङ्कः प्रकाशकः । धूपप्रदीपनैवेद्यपयोदधिघृतैक्षवम् ।
एतद्भुक्तं निषेवन्ते सर्व्वे दिवि दिवौकसः” इति ।

अग्निवत् त्रि० अग्निरस्त्यस्य अग्नि + मतुप् वेदे मस्य वः ।

साग्निके विप्रे, “यपुर्ययस्तु चरुरग्निवाँ इव” इति वेदः ।
तुल्यार्थे वति । अग्नितुल्यक्रियायादौ अव्य० ।

अग्निवधू स्त्री ६ त० । स्वाहायाम् दक्षकन्यायाम् । अग्नायीशब्दे

विवरणं द्रष्टव्यम् ।

अग्निवर्चस् त्रि० अग्नेर्वर्च इव बर्चो दीप्तिरस्य । अग्नि-

तुल्यदीप्तिमति, “स्यन्दनेनाग्निवर्चसा” इति भार० ।
६ त० । अग्नितेजसि न० ।

अग्निवर्द्धक त्रि० अग्नेर्जठरानलस्य वर्द्धकः वृध + णिच्--

ण्वुल् । जठराग्न्युद्दीपके औषधभेदे, पथ्याहारे च ।

अग्निवर्ण्ण त्रि० अग्नेर्वर्ण इव वर्णो रूपं यस्य । अग्नितुल्य-

वर्णे, “ब्राह्मणस्तु सुरां पीत्वा अग्निवर्ण्णां सुरां पिबेदिति”
स्पृतिः । सूर्य्यवंश्ये नृपतिभेदे पु० तत्कथा रघौ १९ स० ।
६ त० । अग्नेः रूपे पु० ।

अग्निवल्लभ पु० अग्नेर्वल्लभः सुखेन दाह्यत्वात् । सालवृक्षे । अग्निप्रिये त्रि० ।

अग्निवासस् न० अग्निरिव शुद्धं वासो वस्त्रम् । अग्नितुल्य-

शुद्धे वस्त्रे । ६ ब० । तादृग्वस्त्रवति त्रि० ।

अग्निवाह पु० अग्निं वाहयति गमयति अनुप्नापयति वा वाहेः

अण् । छागे, धूमे च । वह्निवाहकमात्रे त्रि० ।
पृष्ठ ००६०

अग्निवाहन न० ६ त० । छागे, “रक्तं जटाधरं वह्निं कारयेद्धूम्र-

वाससम् । ज्वालामालाकुलं सौम्यं त्रिनेत्रं श्मश्रुधा-
रिणम् । चतुर्वाहुं चतुर्द्दन्तं देवेशं वायुसारथिम् ।
चतुर्भिश्छगलैर्युक्ते वायुचिह्ने रथे स्थितम्” इति पुराणे
छागवाहनत्वमुक्तम् ।

अग्निविद् पु० अग्निं विन्दते विन्द--क्विप् । अग्निहोत्रिणि

साग्निके । अग्निरहस्यं वेत्तीति विद--क्विप् । अग्नि-
रहस्यशास्त्राभिज्ञे पु० ।

अग्निविन्दु पु० अग्नेर्विन्दुरिव । विस्फुलिङ्गे अग्निकणे ।

अग्निवीज न० ६ त० । अग्नेर्वीजे तद्रेतोजातत्वात् उपचारात्

स्वर्णे । “रुद्रतेजःसमुद्भूतं हेम वीजं विभावसोरिति” स्वर्ण-
दानमन्त्रः । तत्कथा अग्निरेतःशब्दे द्रष्टव्या । तन्त्रीक्ते
रकारवर्णे “अग्निवीजं समुद्धृत्य मुखवृत्तसमन्वितमिति”
तन्त्रम् ।

अग्निवीर्य्य न० आनेर्वीर्य्यम् । वह्निरेतसि, तत्पराक्रमे च । तद्वी-

र्य्यजातत्वादुपचारात् स्वर्णे । ब० । अग्नितुल्यपरक्रमवति त्रि०

अग्निशरण न० ६ त० । अग्न्याधानगृहे अग्निहोत्रगृहे ।

अग्निशर्म्मन् त्रि० अग्निरिव शृणाति तीव्रकोपत्वात् शॄ--मनिन् ।

तीव्रकोपान्विते । ऋषिभेदे पु० । वाह्वादि० इञि आग्नि-
शर्म्मिः तदपत्ये । नडादि० फक् । आग्निशर्म्मायणः
तद्गोत्रापत्ये ।

अग्निशाला स्त्री अग्नीनां शाला गृहम् । अग्न्याधानस्थाने

अस्या वा नपुंसकत्वम् । “हविर्धानमग्निशालं पत्नीनां
सदनम्” इति वेदः ।

अग्निशिख पु० अग्नेरिव अग्निरिव वा शिखा यस्य ।

कुङ्कुमवृक्षे, कुसुम्भवृक्षे, अग्नितुल्यशिखे--जाङ्गलीवृक्षे च ।
अग्नितुल्यजटावति त्रि० । अग्निशिखेव शिखाऽग्रमस्य ।
लाङ्गलिकावृक्षे स्त्री (विषलाङ्गला) अग्नितुल्याग्रभागे
त्रि० “वाणैरग्निशिखैरिवेति” पुरा० । स्वर्णे कुसुम्भपुष्पे
च न० । ६ त० । अग्निज्वालायां स्त्री “शरैरग्निशिखोपमै
रिति, भार० ।

अग्निशुश्रूषा स्त्री ६ त० । वह्नेः विधानेन सेवोपयोगिनि होमे ।

अग्निशेखर पु० अग्निरिव शेखरमग्रं यस्य । कुङ्कुमवृक्षे,

कुसुमवृक्षे, जाङ्गलीवृक्षे च । अग्नितुल्याग्रवति त्रि० ।

अग्निष्टुत् पु० अग्निःस्तूयतेऽत्र स्तु--आधारे क्विप् षत्वम् ।

अग्निष्टोमस्य विकृतिभूते एकाहसाध्ये यागभेदे ।
सामसहिताभाष्ये संशयपूर्वकं तच्च कर्म्मान्तरमिति सायणा-
क्षार्य्येण निर्णीतम् यथा । “उक्त्वाग्निष्टुतमेतस्य वारव-
न्तीय--साम हि । रेवतीष्वृक्षु कृत्वेति श्रुतं
पशुफलाप्तये । रेवत्यादिर्गुणः कर्म्म पृथग्वा पूर्ब्बवद् गुणः ।
रेवती--वारवन्तीय--सम्बन्धाख्यः पशु--प्रदः । साम्नो-
ऽत्र फल--कर्म्मभ्यां सम्बन्धे वाक्य--भिन्नता । तेनीक्त-
गुण--संयुक्तमन्यत् कर्मोच्यते फले” ॥ “त्रिवृदग्निष्टोमस्तस्य
वायव्यासु ऋक्षु एकविंशाग्निष्टोम--साम कृत्वा ब्रह्म-
वर्चस--कामो यजेत”--इत्यस्य सन्निधौ श्रूयते--“एतस्यैव
रेवतीषु वारवन्तीयमग्निष्टोमसाम कृत्वा पशु--कामोह्येतेन
यजेत” इति । “अस्यायमर्थः । प्रकृतौ तृतीयसवने
अर्भिव--पवमानस्योपरि यज्ञायज्ञीयं साम गीयते,
तेन च साम्ना अग्निष्टोमयागस्य समाप्यमानत्वादग्नि-
ष्ठोम सामेत्युच्यते, तच्च प्रकृतौ “यज्ञायज्ञीयो वा अग्नये”
इत्याद्याग्नेयीष्वृक्षु गीयते अस्मिंस्त्वग्निष्टुति ब्रह्मवर्चस-
कामेन वायव्यास्वृक्षु तत् साम गातव्यम्, तच्च प्रकृताविवैक
विंश--स्तोम--युक्तम् । पशुकामस्य तु “रेवतीर्नः सधमादे”
इत्यादिषु रेवतीष्वृक्षु “वारवन्तीयं” साम गायेदिति,
तत्र रेवतीनामृचां वारवन्तीयनामकेन सास्रा यः सम्बन्धः
सोऽयं पशु--फलायाग्निष्टुति विधीयते, एतस्यैवेति प्रकृत-
परामर्शकेनैतच्छब्देनान्य--व्यावर्त्तकेनैवकारेण चाग्निष्टुतः
समर्प्यमाणत्वात् यथा पूर्ब्बाधिकरणे इन्द्रियफलाय प्रकृता-
ग्निहोत्रे दधि--गुणोविहितः तद्वत्, इति प्राप्ते, ब्रूमः-
विषमो दृष्टान्तः, दध्नोहोम--जनकत्वं न शास्त्रेण
बोधनीयं तस्य लोकतोऽवगन्तुं शक्यत्वात् । फल--सम्बन्धः
एकएव शास्त्रबोध्यः इति न तत्र वाक्यभेदः, इह तु
रेवत्यृगाधारकवारवन्तीय--साम्रोऽग्निष्टुत्--कर्म्म--साधनत्वं फल
साधनत्वं चेत्युभयस्य शास्त्रैक--बोध्यत्वाद् दुर्वारोवाक्य--भेदः
तेन पशुफलकं यथोक्तगुण--विशिष्ट--कर्म्मान्तरमत्र विधी-
यते । एतच्छद्बः एवकारश्च विधीयमान--कर्म्मान्तर--विषयतया
योजनीयौ इति” । “यजेत वाश्वमेधेन स्वर्जिता गोसवेन
वा । अभिजिद्विश्वजिद्भ्यां वा त्रिवृताग्निष्टुतापि वा”
इति स्मृतिः ।

अग्निष्टुभ् पु० अग्निस्तुभ्यतेऽत्र क्विप् षत्वम् । यज्ञभेदे ।

अग्निष्टोम पु० अग्नेः स्तोमः स्तुतिसाधनं तृचसमुदायो-

ऽवसानेऽत्र । यागविशेषे स च यागः ताण्ड्यमहा-
ब्राह्मणे षष्ठाध्याये “प्रजापतिरकामयत बहु स्यां प्रजा-
येयेति सएतमग्निष्टोममसृजत” इत्युपक्रम्य “एष वाव
यज्ञोयदग्निष्टोम” इति “एकस्मा अन्यो यज्ञः कामाया-
ह्रियते सर्व्वेभ्योऽग्निष्टोम” इति चाग्निष्टोमं स्तुत्वा “द्वादश
पृष्ठ ००६१
स्तोत्राण्यग्निष्टोम” इत्यादिना सप्रपञ्चं दर्शितः । अग्निष्टोम
शब्दस्य व्युत्पत्तिर्भाष्यकृता सायणाचार्य्येण दर्शिता यथा
“यज्ञायज्ञीय इत्यस्यामाग्नेय्यामुत्पन्नेन अग्नेष्टोमसाम्ना
समाप्ते रग्निष्टोम इति नाम सम्पन्नमिति” । तद्विधानपरिपाटी
च वौधायनीये केशवस्वामिना दर्शिता तत एव साऽवगन्तव्या ।
ताण्ड्ये षष्ठाध्याये च “अग्निष्टोमे द्वादश स्तोत्राणि द्वादश
शस्त्राणी” त्युक्त्वा अष्टमाध्यायपर्य्यन्तं यानि स्तोत्राणि
शस्त्राणि वा प्रयोज्यानि तान्यभिहितानि तानि च तत
एवावगन्तव्यानि तेषां स्वरूपादि तत्तच्छब्दार्थे वक्ष्यते
तत्र अप्रगीतमन्त्रसाध्या स्तुतिः शस्त्रं प्रगीतमन्त्रसाध्या तु
स्तोत्रमिति तयेर्भेदः । एकाहसाध्ये अग्निष्टुन्नामके यज्ञे
च तत् प्रमाणम् अग्निष्टुच्छब्दे । अग्निष्तोमस्य व्याख्यानः
कल्पः ठक् । आग्निष्टोमिकः अग्निष्टोमबोधककल्पे ।

अग्निष्टोमसाम न० अग्निष्टोमे अवसाने विहितं

साम गानविशेषः । अग्निष्टोमयज्ञसमापके तृतीय-
सवने विहिते “यज्ञायज्ञीय” इत्यस्यामाग्न्येय्यामृचि
गीयमाने सामवेदे “प्रकृतौ (अग्निष्टोमे) तृतीयसवने आर्भव-
पवमानस्योपरि यज्ञायज्ञीयं साम गीयते तेन च साम्ना
अग्निष्टोमस्य समाप्यमानत्वादग्निष्टोमसामेत्युच्यते इति सा०
भा० । “ब्रह्मणो वा एष रसो यद्यज्ञाज्ञीयं स्तुवन्ति
ब्रह्मणएव रसे यज्ञं प्रतिष्ठापयन्तीति” ताण्ड्यब्राह्मणम्
तच्च साम यज्ञायज्ञीयशब्दे वक्ष्यते ।

अग्निष्ठ पु० अग्नौ स्थातुमर्हति स्था--क षत्वम् । वह्नौ स्थिति

योग्ये लौहमये कटाहादिपात्रे ।

अग्निसंस्कार पु० अग्निना संस्कारः मन्त्रपूर्ब्बकदाहः ।

विधानेन अग्निकृतदाहे । “अनाथस्याग्निसंस्कारं यः
कुर्य्याद्वा दयान्वितः” इति काशी० ।

अग्निसङ्काश त्रि० अग्निरिव सङ्काशते काश--दीप्तौ अच् ।

अग्नितुल्यवर्ण्णे तत्तु ल्यतेजस्के च ।

अग्निसम्भव पु० अग्निरिव सम्भवति सम् + भू--अच् ।

अरण्यकुसुम्भे । ५ त० स्वर्णे न० । अग्निसम्भूतमात्रे त्रि० ।

अग्निसहाय पु० अग्निना सह अयते अय--अच् ३ त० ।

वायौ, धूमे च । अग्निसहायधूमवद्वर्णवत्त्वात् शीघ्रगति-
त्वाच्च वनकोपते च ।

अग्निसाक्षिक त्रि० अग्निःसाक्षी यत्र कप् । वह्निं साक्षीकृत्य

कृते कर्म्मणि । “सख्यं कृत्वाग्निसाक्षिकमिति” रामा० ।

अग्निसार न० अग्नौ सारो यस्य अत्यन्तानलोत्तापनेऽपि

सारांशादहनात् । रसाञ्जने ६ त० । वह्निसारे तु अस्त्री ।

अग्निस्तम्भ पु० अग्निः दाहशक्तौ निरुध्यते अनेन । अग्नि-

दाहनशक्तिनिरोधके मन्त्रे, ओषधे च । ६ त० । अग्ने-
र्दाहशक्तिप्रतिरोधे पु० ।

अग्निष्वा(स्व)त्त पु० ब० व० अग्नितः (श्राद्धीयविप्रकर-

रूपानलात् सुष्ठु आत्तं ग्रहणं येषां आ--दा--क्त षत्वमिति
बहवः । मरीचिपुत्रे पितृगणविशेषे । “अग्निष्वा(स्वा)त्ताः
वर्हिषदः ऊष्मपा आज्यपास्तथेति” मनुः । तैत्ति-
रीयब्राह्मणे तु अन्यथा निरुक्तं यथा “अग्निष्वात्ता-
नृतुमतो हवामहे । नराशंसे सोमपीथं य आशुः ।
ते नो अर्वन्तः सुहवा भवन्तु । शन्नो भवन्तु
द्विपदे शं चतुष्पदे” इति “अग्निष्वात्ता अग्निष्वात्त-
नामकाः पितरः पितृविशेषाः । ते च चातुर्मास्यगतपितृ-
यज्ञब्राह्मणे स्पष्टमभिहिताः, “ये वा अयज्वानो गृहमेधिन
स्वे पितरोऽग्निष्यात्ता” इति । मनुष्यजन्मन्यग्निष्टोमादिया-
गमकृत्वा स्मार्त्तकर्म्मनिष्ठाः सन्तो मृत्वा च पितृत्वं गताः ।
तानग्निष्वात्तान्” इति तद्भाष्ये माधवाचार्य्यः ।

अग्निहुत् पु० अग्निं हुतवान् हु--क्विप् ६ त० । कृताग्नि-

हवने अग्निहोत्रिणि ।

अग्निहोत्र न० अग्नये हूयतेऽत्र हु--त्र ४ त० । मन्त्रक-

रणवह्निस्थापनपूर्ब्बतदुद्देश्यकहोमे । अग्निहोत्रसम्बन्धित्वात्
हविषि, वह्नौ पु० । काञ्चिदाख्यायिकामुपक्रम्य अग्नि-
होत्रशब्दनिरुक्तिविधानाद्युक्तं तैत्तिरीयब्राह्मणे “सोऽग्नि-
रबिभेत् आहुतिभिर्वैतमाप्नोतीति स प्रजापतिं पुनः
प्राविशत् तं प्रजापतिरब्रवीत् जायस्वेति सोऽब्रवीत् किं
भागधेयमभिजनिष्य इति तुभ्यमेवेदं हूयाता इत्य-
ब्रवीत् सएतद्भागधेयमभ्यजायत । यदग्निहोत्रम्” इति
पुरा प्रजापतेस्तापं दृष्ट्वा पलायनादुपरतोऽग्निः प्रजापतेस्त्व-
पक्रम्यागत एव, ततः प्रजापतिस्तस्मिन्नग्नौ पूर्ब्बोक्तं घृतं
स्वाहाकारेण यामाहुतिं प्रथममजुहोत् । तदाहुतिसामर्थ्येन
पुरुषमसृजत । तथा द्वितीयाद्याहुतिभिः अश्वादीनसृजत ।
ततः प्रजानां पुनरुत्पत्तेः स्वस्य प्रजापतित्वं सुस्यितम् ।
तदानीमग्निर्भीतोऽभूत् । तस्यायमभिप्रायः । प्रजापतिः
पुनः पुनराहुतिभिरेव मां प्राप्नोति न तु भागं प्रयच्छति ।
तास्त्वाहुतीर्देवा एव गृह्णन्ति । तस्माद्भागरहितः सेवितुं न
शक्नोमीति विचार्य्य पूर्ब्बवत् पलायनमकृत्वा तस्मिन् प्रजा-
पतावेव प्रविष्टः । स च प्रजायस्वेति पुनः पुनरग्निमब्रवीत्
सचाग्निस्तदुदर एव स्थित्वा भागरहितोऽहं क्षुधितः सेवितुं
न शक्नोमि भागो मेऽपेक्षितः । किं भागमभिलक्ष्याह-
पृष्ठ ००६२
मुत्पत्स्य इत्युक्तम् । अग्निना उक्तः प्रजापतिरिदमग्नि-
होत्रगतं हविस्तुभ्यमेव हूयाता इति भागं दत्तवान् ।
ततोऽग्निहोत्रहविःस्वरूपं भागधेयमभिलक्ष्याग्निरुत्पन्नः ।
तस्मादग्नये होत्रं होमोऽस्मिन् कर्म्मणीति बहुव्रीहिव्यु-
त्पत्त्या अग्निहोत्रमिति कर्म्मनाम । अग्नये होत्रमिति
तत्पुरुषव्युत्पत्त्या हविर्नाम” इति तद्भाष्यम् । तत्कालश्च तत्रै-
वोक्तः “तद्धूयमानमादित्यीऽब्रवीत् । मा हौषीः । उभयोर्वै
नावेतदिति सोऽग्निरब्रवीत् । कथं नौ होष्यन्तीति ।
सायमेव तुभ्यं जुहवन् प्रातर्मह्यमित्यब्रवीत् । तस्मा-
दग्नये सायं हूयते सूर्य्याय प्रातः” इति । तद्धविरग्न्यर्थं
प्रजापतिना हूयमानं दृष्ट्वा मा हौषीरित्येवमादित्यो निवार
यामास । हेतुञ्चैवमवीचत् । योऽयमग्निर्यश्चाहं
तयोरुभयोरावयोरेतद्धविः, न त्वेकस्याग्नेः इति । तदानी-
मुभयोर्भागव्यवस्था जाता । अग्मिना पृष्टा या कालभेदेन
व्यवस्था तामुवाच । तस्मादग्नये सायं जुहुयात्, सूर्याय
प्रातर्जुहुयात्” इति तद्भाष्यम् ।
तच्च नित्यं काम्यञ्च “यावज्जीमग्निहोत्रंजुहोतीति” श्रुत्या
नित्यस्य “उपसद्भिश्चरित्वा मासमेकमग्निहोत्रं जुहोतीति”
श्रुत्या च काम्यस्य विधानमुक्तम् । अस्य यजुर्वेदोक्तत्वेऽपि
सर्ववेदिभिः कर्त्तव्यता “यन्नाम्नातं स्वशाखायां
पारक्यमविरोधि च विद्वद्भिस्तदनुष्ठेयमग्निहोत्रादि कर्म्म-
वदिति” छन्दोग० प० कात्या० । “अग्निहोत्रं त्रयोवेदा
स्त्रिदण्डो भस्मधारणम् । बुद्धिपौरुषहीनानां जीवि-
केति वृहस्पतिरिति” चार्वाकमतम् ।

अग्निहोत्रहवनी स्त्री अग्निहोत्रोऽग्निः हविर्वा हूयतेऽनया

हुकरणे ल्युट् ६ त० । अग्निहोत्रहविर्ग्रहण्यामृचि ।

अग्निहोत्रहुत् पु० अग्निहोत्रमग्निं जुहोति स्महु--क्विप

६ त० । कृताग्निहोत्रे “यत्र सुहृदा सुकृतामग्निहोत्र
हुतां यत्र लोक” इति, श्रुतिः ।

अग्निहोत्रिन् पु० अग्निहोत्र + मत्वर्थे इनि । अग्निस्थापन-

पूर्बकं प्रातरादिकाले अग्निहोत्रहोमकर्त्तरि साग्निके ।

अग्नीध् पु० इध्यते इन्ध--भावे क्विप् ६ त० । अग्न्युद्दीपने

“अग्नीधः शरणे रण् भञ्चेति” कात्या० वा० ।
शरणार्थे रणि आग्नीध्रः । कर्त्तरि क्विप् । अग्न्या-
धानकर्त्तरि ।

अग्नीध्र पु० अग्निम् आदधाति धृ--क दीर्घः । वह्न्याधान-

कारके ब्रह्मापरपर्य्याये ऋत्विग्भेदे । अग्निं धारयत्यस्मै
सम्प्रदाने घञर्थे क दीर्घः । अग्निकृत्ये होमादौ पु० ।

अग्नीन्द्र पु० द्वि० द्वन्द्व० इन्द्रपरत्वान्नात् । एतन्नामकयो

रेकहविर्भोक्त्रोर्देवयोः ।

अग्नीन्धन त्रि० अग्निरिध्यतेऽनेन इन्ध--ल्युट् ६ त० ।

मन्त्रभेदे । स्त्रियां टित्त्वात् ङीप् । भावे ल्युटि । अग्नि
कृत्ये न० ।

अग्नीय त्रि० अग्नेरदूरभवं स्थानादि--उत्करा० छ । वह्निसन्निकृष्टस्थाने ।

अग्नीवरुण पु० द्वि० द्वन्द्व० ईत् । एतयोरेकहविर्भोक्त्रो-

र्देवयोः ।

अग्नीषोम पु० द्वि० द्वन्द्व० ईत् षत्वञ्च । एतन्नामकयोरेक

हविर्भोक्त्रोर्देवयोः । “अग्नीषोमीयं पशुमालभेतेति” श्रुतिः ।

अग्नीषोमप्रणयनी स्त्री अग्नीषोमौ प्रणीयेते संस्क्रियेते

अनया अत्र वा प्र + नी--करणे आधारे वा ल्युट् ङीप् ।
तयोः संस्कारिकायामृचि पात्र्याञ्च । भावे ल्युट् । तयोः
संस्कारे न० ।

अग्नीषोमीय त्रि० अग्नीषोमौ देवते अस्य छ । तद्देवताके

पश्वादौ कपालरूपपात्रादिसंस्कृते हविर्भेदे च “अग्निषो-
मीयमेकादशकपालं निर्वपतीति” “योऽग्नीषोमीमयस्य
पशोरश्नातीति” च श्रुतिः ।

अग्न्यगार न० अग्नेः अग्निहोत्रसंबन्धिवह्नेरगारं ६ त० ।

अग्निहोत्रगृहे “वसंश्चतुर्थोऽग्निरिवाग्न्यगारे” इति रघुः ।
अग्निगृहादयोप्यत्र ।

अग्न्याधान न० अग्नेराधानम् आ--धाञ्--ल्युट् ६ त० ।

वेदमन्त्रद्वारा वह्निस्थापने । ७ बहु० । अग्निहोत्रयागे ।

अग्न्याधेय पु० अग्निराधेयो येन । अग्निहोत्रिणि साग्निके

द्विजे तत्प्रकारश्च “पुण्यमेवादधीताग्निमित्युपक्रम्य कात्या-
यनसंहितायां दर्शितः कल्पग्रन्थे च विस्तरी द्रष्टव्यः ।

अग्न्यालय पु० अग्नेरालयः आ + ली--आधारे अच् ६ त० ।

वेदमन्त्रद्वारा वह्निस्थापनयोग्ये गृहे, तदाधारे--कुण्डे,
स्थण्डिले च ।

अग्न्याहित पु० अग्निराहितो येन आ + धाञ्--कर्म्मणि क्त, वा

परनिपातः । अग्निहोत्रिणि साग्निके द्विजे ।

अग्न्युत्पात पु० अग्निना दिव्यानलेन कृत उत्पातः (अनिष्ट-

सूचकोपद्रवः) उद् + पत--घञ् ३ त० । आकाशस्थानल
विकारसूचितोपद्रवे, उल्कापातादावशुभसूचके, धूमकेतुकृत-
विकारे च । स च नाभस उत्पातः उल्कादिरूपः पञ्च
विधः धिष्ण्योल्काशनिविद्युत्ताराभेदात् । तेषां लक्ष-
णादिकं फलसहितम् वृहत्संहितायामुक्तं ३३ अ० यथा
“दिवि भुक्तशुभफलानां पततां रूपाणि यानि तान्युल्काः ।
पृष्ठ ००६३
धिष्ण्योल्काशनिविद्युत्तारा इति पञ्चधा भिन्नाः ॥
उल्का पक्षेण फलं तद्वद्धिष्ण्याशनिस्त्रिभिः पक्षैः ।
विद्युदहोभिः षड्भिस्तद्वत्तारा विपाचयति ॥ तारा
फलपादकरी फलार्धदात्री प्रकीर्त्तिता धिष्ण्या । तिस्रः
सम्पूर्णफला विद्युदयोल्काशनिश्चेति ॥ अशनिः स्वनेन
महाता नृगजाश्वमृगाश्मवेश्मतरुपशुषु । निपतति विदा-
रयन्ती धरातलं चक्रसंस्थाना ॥ विद्युत्सत्वत्रासं जनयन्ती
तटतटस्वना सहसा । कुटिलविशाला निपतति जीवे-
न्धनराशिषु ज्वलिता ॥ धिष्ण्या कृशाल्पपुच्छा धनूंषि
दश दृश्यतेऽन्तराभ्यधिकम् । ज्वलिताङ्गारनिकाशा द्वौ
हस्तौ सा प्रमाणेन ॥ तारा हस्तं दीर्घा शुक्ला ताम्राब्ज-
तन्तुरूपा वा । तिर्यगधश्चोर्ध्वं वा याति वियत्युह्य-
मानेव । उल्का शिरसि विशाला निपतन्ती वर्धते प्रत-
नुपुच्छा । दीर्घा भवति च पुरुषा भेदा बहवो भवन्त्यस्याः ।
प्रेतप्रहरणखरकरभनक्रकपिदंष्ट्रिलाङ्गलमृगाभाः ।
गोधाहिधूमरूपाः पापा या चोभयशिरस्का ॥ ध्वजझष-
करिगिरिकमलेन्दुतुरगसन्तप्तरजतहंसाभाः । श्रीवत्सव-
ज्रशङ्खस्वस्तिकरूपाः शिवसुभिक्षाः ॥ अम्बरमध्याद्बह्व्यो
निपतन्त्यो राजराष्ट्रनाशाय । बम्भ्रमती गगनोपरि विभ्र-
ममाख्याति लोकस्य ॥ संस्पृशती चन्द्रार्कौ तद्विसृता वा
सभूप्रकम्पा च । परचक्रागमनृपबध--दुर्भिक्षावृष्टिभयजननी
पौरेतरघ्नमुल्कापसव्यकरणं दिवाकरहिमांश्वोः । उल्का
शुभदा पुरतो दिवाकरविनिःसृता यातुः ॥ शुक्ला रत्का
पीता कृष्णा चोल्का द्विजादिवर्णाभा । क्रमशश्चैतान्
हन्युर्मूर्धोरःपार्श्वपुच्छस्थाः ॥ उत्तरदिगादिपतिता विप्रा-
दीनामनिष्टदा रूक्षा । ऋज्वी स्निग्धाखण्डा नीचोपगता
च तद्वृद्ध्यै ॥ श्यामा वारुणनीलाऽसृग्दहनासितभस्मनिभा
रूक्षा । सन्ध्यादिनजा वक्रादलिता च परागमभयाय ॥
नक्षत्रग्रहधाते तद्भक्तीनां क्षयाय निर्दिष्टा । उदये घ्नती
रवीन्दू पौरेतरमृत्यवेऽस्ते वा ॥ भाग्यादित्यधनिष्ठामूले-
षूल्काहतेषु युवतीनाम् । विप्रक्षत्रियपीडा पुष्यानिलविष्णु
देवेषु ॥ ध्रुवसौम्येषु नृपाणामुग्रेषु सदारुणेषु चौराणाम् ।
क्षिप्रेषु कलाविदुषां पीडा साधारणे च हते ॥ कुर्वन्त्येताः
पतिता देवप्रतिमासु राजराष्ट्रभयम् । शक्रोपरि नृपतीनां
गृहेषु तत्स्वामिनां पीड़ाम् ॥ आशाग्रहोपघाते तद्दे-
श्यानां खले कृषिरतानाम् । चैत्यतरौ सम्पतिता सत्कृति-
पीडां करोत्युल्का ॥ द्वारि पुरस्य पुरक्षयमथेन्द्रकीले जन
क्षयोऽभिहितः । ब्रह्मायतने विप्रान् विनिहन्याद्गोमिनो
गोष्ठे ॥ क्ष्वेडास्फोटितवादितगीतीत्क्रुष्टस्वना भवन्ति यदा ।
उल्का निपातसमये भयाय राष्ट्रस्य सनृपस्य ॥ यस्याञ्चिरं
तिष्ठति खेऽनुषङ्गो दण्डाकृतिः सा नृपतेर्भयाय । या
चोह्यते तन्तुधृतेव खस्था या वा महेन्द्रध्वजतुल्यरूपा ॥
श्रेष्ठिनः प्रतीपगा तिर्यगा नृपाङ्गनाः । हन्त्यधोमुखी
नृपान् ब्राह्मणानथोर्द्धृगा ॥ वर्हिपुच्छरूपिणी लोकसङ्क्षया
वहा । सर्पवत् प्रसर्पिणी योषितामनिष्टदा ॥ हन्ति
मण्डला पुरं छत्रवत् पुरोहितम् । वंशगुल्मवत् स्थिता
राष्ट्रदोषकारिणी ॥ व्यालसूकरोपमा विस्फुलिङ्गमालिनी ।
खण्डशोऽथ वा गता सस्वना च पापदा ॥ सुरपतिचाप-
प्रतिमा राज्यं नभसि विलीना जलदान् हन्ति ।
पवनविलोमा कुटिलं याता न भवति शस्ता विनिवृत्ता वा ॥
अभिभवति यतः पुरं बलं वा भवति भयं तत एव
पार्थिवस्य । निपतति च यथा दिशा प्रदीप्ता
जयति रिपूनचिरात्तया प्रयातः” ॥ तत्कारण-
मुक्तं गर्गसंहितायाम् “अतिलोभादसत्याद्वा नास्ति-
क्याद्वाप्यधर्म्मतः । नरापचारान्नियतमुपसर्गः प्रवर्त्तते ।
ततोऽपराधान्नियतमपवर्जन्ति देवताः । ताः सृजन्त्यद्भुतां-
स्तांस्तु दिव्यनाभसभूमिजान् । त एव त्रिविधा लोके
उत्पाता देवनिर्म्मिताः । विचरन्ति विनाशाय रूपैः संबो-
धयन्ति च” इति । अनिष्टसूचकरूपभेदाश्च वृहत्संहिता-
वाक्ये प्राक् दर्शिताः । तल्लक्षणं काश्यपेन सामान्यत उक्तम्
“वृहच्छिखा च सूक्ष्माग्रा रक्तनीलशिखोज्ज्वला । पौरु-
षेय प्रमाणेन उल्का नानाविधा स्मृतेति” ।

अग्न्युद्धार पु० अग्नेःआधनार्थमुद्धारः अरणिमन्थनेन उत्था-

पनम् । अरणिद्वयघर्षणेनानलोत्पादने । तत्प्रकारस्तु
“अश्वत्थो यः शमीगर्भः प्रशस्तीर्वीसमुद्भवः । तस्य या प्राङ्-
मुखी शाखा वोदीची वोर्द्धगापि वा ॥ अरणिस्तन्मयी प्रोक्ता
तन्मय्येवोत्तरारणिः । सारवद्दारवञ्चत्रमोविली च प्रश-
स्यते ॥ संसक्तमूलो यः शम्याः स शमीगर्भ उच्यते ।
अलाभे त्वशमीगर्भादुद्धरेदविलम्बितः ॥ चतुर्विंशतिरङ्गुष्ठ-
दैर्व्यं षड़पि पार्थिवम् । चत्वार उच्छ्रये मानमरण्योः
परिकीर्त्तितम् ॥ अष्टाङ्गुलः प्रमन्थः स्याच्चत्रं स्याद्द्वाद-
शाङ्गुलम् । ओविली द्वादशैव स्यादेतन्मन्थनयन्त्रकम् ॥
अङ्गुष्ठाङ्गुलमानन्तु यत्र यत्रोपदिश्यते । तत्र तत्र वृहत्-
पर्व्वग्रन्थिभिर्म्मिनुयात् सदा ॥ गोबालैः शणसंमिश्रैस्त्रि-
वृत्तममलात्मकम् । व्यामप्रमाणं नेत्रं स्यात् प्रमय्यस्तेन
पावकः ॥ मूर्द्धाक्षिकर्णवक्त्राणि कन्धरा चापि पञ्चमी ।
पृष्ठ ००६४
अङ्गुष्ठमात्राण्येतानि द्व्यङ्गुष्ठं वक्ष उच्यते ॥ अङ्गुष्ठमात्रं
हृदयं त्र्यङ्गुष्ठमुदरं स्मृतम् । एकाङ्गुष्ठा कटिर्ज्ञेया द्वौ
वस्तिर्द्वौ च गुह्यकम् ॥ ऊरू जङ्घे च पादौ च चतुस्त्र्येकै
र्यथाक्रमम् । अरण्यवयवाह्येते याज्ञिकैः परिकीर्त्तिताः ॥
यत्तद्गुह्यमिति प्रोक्तं देवयोनिस्तु सोच्यते । अस्यां यो
जायते वह्निः स कल्याणकृदुच्यते ॥ अन्येषु ये तु मथ्नन्ति
ते रोगभयमाप्नुयुः । प्रथमे मन्थने त्वेष नियमो नोत्तरेषु
च ॥ उत्तरारणिनिष्पन्नः प्रमन्थः सर्ब्बदा भवेत् । योनि-
सङ्करदोषेण युज्यते ह्यन्यमन्थकृत् ॥ आर्द्रा सशुषिरा
चैव घूर्णाङ्गी पाटिता तथा । न हिता यजमानानामर-
णिश्चोत्तरारणिः ॥ परिधायाऽहतं वासः प्रावृत्य च
यथाविधि । बिभृयात् प्राङ्मुखो यन्त्रमावृता वक्ष्यमाणया ॥
चत्रव्रध्नप्रमन्थाग्रं गाढं कृत्वा विचक्षणः । कृत्वोत्तराग्रा
मरणिं तद्व्रध्नमुपरि न्यसेत् ॥ चत्राधः कीलकाग्रस्थामोवि-
लीमुदगग्रकाम् । विष्टम्भाद्धारयेद् यन्त्रं निष्कम्पं प्रयतः
शुचिः” इति कात्या० स० ॥

अग्न्युपस्थान न० अग्निरुपस्थीयतेऽनेन उप + स्था ल्युट् ६ त० ।

वह्नेरुपासनमन्त्रे । स्त्रियां ङीप् । भावे ल्युट् ६ त० ।
वह्नेरुपासने न० ।

अग्र न० अङ्ग--रक् नलोपः । उपरिभागे, शेषभागे, आलम्बने

पूर्ब्बभागे, उत्कर्षे समूहे च । प्रधाने, अधिके,
प्रथमे च त्रि० । तत्र पूर्ब्बभागे अग्रकायः “अथा-
ग्रहस्ते मुकुलीकृताङ्गुलाविति” कुमा० । ऊर्द्ध्वे “शृङ्गाणि
यस्याग्रसरोरुहाणि इति” कु० । आलम्बने, “मनुमेका-
ग्रमासीनमिति” मनुः प्रधाने “अथाग्रमहिषी राज्ञ” इति
प्रथमे अग्रहायणेष्टिरिति । पुरोऽर्थे, अग्रसरः । शेषभागे,
“हर्म्म्याग्ररूढ़ेषु तृणाङ्कुरेष्विति” रघुः । “सूच्यग्रेण न
दातव्यं विना युद्धेन केशवेति” “बालाग्रशतभागस्य शतधा
कल्पितस्य चेति” “आराग्रमात्रोह्यपरोऽपि दृष्टः इति”
च श्रुतिः । अधिके “अथाग्ररयशालिनेति” । शृङ्गे,
“कैलासाग्रसमासीनमिति” तन्त्रम् उत्कर्षे, अग्रादग्रं रोहतीति
ता० ब्रा० अग्रमुत्कर्षमिति माधवाचार्य्यः अधिके
“साग्रं वर्षशतमिति” रामा० अक्षरूपपलपरिमाणे
(ज्योतिषोक्तस्य अक्षरूपपलस्य परिमाणार्थेऽंशभेदे)
च । अक्षक्षेत्रसाधनार्थायां सिद्धान्तशिरोमण्युक्तायाम्
अक्षक्षेत्रकर्णेन गुणितायां स्वकोट्या हृतायां क्रान्ति-
ज्यायां स्त्री । “क्रान्तिज्यके कर्णगुणे विभक्ते कोट्या
भुजेनाप्तमिताग्रका स्यात्” इति सि० शि० ।
“क्रान्तिज्या अक्षश्रुतिकर्णेन गुणिता द्विः स्थाप्या
एकत्र स्वकोट्या भक्ता सती अग्रा भवतीति” प्रमिता० ।
“रेखा प्राच्यपरा साध्या विषुवद्भाग्रगा तथा । इष्टच्छाया-
विषुवतीर्मध्यमग्राभिधीयते” इति सूर्य्यसिद्धान्तपारिभाषिते-
ऽर्थे च स्त्री । विवृतञ्चैतत् रङ्गनाथेन यथा “अथाग्राज्ञानार्थ-
माह । तस्मिंश्चतुरस्रे पूर्वापररेखात उत्तरभागे विषुवद्भा-
ग्रगाक्षभागप्रदेशस्थाक्षभाङ्गुलान्तरितेत्यर्थः । प्राच्यपरा रेखा
पूर्ब्बापररेखानुकारा रेखा तथा सर्वतस्तुल्यान्तरेण यथेष्ट-
च्छायाक्षरेखाभुजान्तरेण कार्य्या । अनन्तरमिष्टच्छायाविषु-
वतीरिष्टच्छायाक्षरेखाक्षभाग्ररेखयोरित्यर्थः । मध्यं
चतुरस्रेऽङ्गुलात्मकमन्तरालं सर्वतस्तुल्यम् । अग्रा कर्णवृत्ताग्रो-
च्यते । अत्रोपपत्तिः । भुजस्य कर्णवृत्ताग्रा पलभा-
संस्कारेणाग्रा उक्ता तद्दक्षिणगोले पलभाधिकोत्तरभुजसद्भावेन
पलभोनी भुजोऽग्रेति, प्राच्यपरसूत्रादुत्तरभागेऽक्षभाग्ररेखा
भुजमध्ये भवतीति द्वयो रेखयोरन्तरमग्रा पलभोनभुज-
रूपा । एवमुत्तरगोल उत्तरभुजस्य पलभाल्पत्वाद्भुजोन-
पलभाग्रेति पलभारेखा प्राच्यपरसूत्रादुत्तरभागस्था
भुजरेखातोऽप्यग्रान्तरेणोत्तरदिशीति द्वयो रेखयोरन्तरं भुजो-
नपलभारूपं कर्णवृत्ताग्रा । एवं दक्षिणभुजस्य पलभोना-
ग्रात्वात् पलभायुतोऽग्रेति प्राच्यपरसूत्राद्भुजाग्रापलभाग्रा-
रेखयोः क्रमेण याम्योत्तरत्वात् तयोरन्तरालं पलभाभुजैक्य-
रूपमग्रा पलभायाः शङ्कुतलानुकल्पत्वात् सदोत्तरत्वं छाया-
सम्बन्धाद्युक्तम्” इति । “अग्रशब्दस्यावयवरूपैकदेश-
परत्वे हस्ताग्रं तद्वत्परत्वे अग्रहस्त” इति यथोक्तम्
वामनेन, “हस्ताग्राग्रहस्तयोर्गुणगुणिनोर्भेदादिति” ।
अग्र + भवाद्यर्थे यत् । अग्र्यः । घ अग्रियम् । कुशाग्रमिव
छ । कुशाग्रीयः । इवार्थे शाखादि० य अग्र्यः ॥ अग्रः
ऋषिभेदस्तद्गोत्रापत्ये नडादि० फक् । आग्रायणः ।
तत्तदर्थेषु ।

अग्रकाय पु० अग्रः कायः अवयवावयविनोरभेदात् अग्रहस्तवत् कर्म्म० । देहपूर्ब्बभागे ।

अग्रग त्रि० अग्रे गच्छतीति गस--ड ७ त० । पुरोगामिनि ।

अग्रगण्य त्रि० अग्रे गण्यते गण--यत् ७ त० । अग्रगणनीये,

प्रधाने च ।

अग्रगामिन् त्रि० अग्रे गच्छति गम--णिनि ७ त० । पुरो-

गामिनि । “प्रष्ठोऽग्रगामिनीति” पा० । अत्राणत्व-
निर्देशात् अग्रगामिनेत्यादौ न णत्वम् । स्त्रियां ङीप् ।

अग्रज पु० अग्रे पुरस्तात् जायते जन--ड । अग्रजाते

ज्येष्ठभ्रातरि “जगादाग्रे गजाग्रजम्” इति माघः ।
ज्येष्ठभगिन्यां स्त्री । वर्णेषु मध्ये अग्रजातत्वात्
विप्रे ।
पृष्ठ ००६५

अग्रजङ्घा स्त्री अग्रा जङ्घा अवयवावयविनोरभेदात् क० स० । जङ्घाग्रभागे ।

अग्रजन्मन् पु० अग्रे जन्म यस्य जन--मनिन् व्यधि० बहु० ।

ज्येष्ठभ्रातरि, विप्रे च । अग्रजातमात्रे त्रि० । अग्रात्
प्रधानाङ्गात् मुखात् जन्मास्य व्य० ब० । ब्रह्मणोमुखोत्-
पन्ने विप्रे, तस्य तन्मुखोत्पत्तिश्च ताण्ड्यमहाब्राह्मणे
उक्ता यथा “सोऽकामयत यज्ञं सृजेयेति स मुखत एव
त्रिवृतमसृजत तं गायत्रीच्छन्दोऽन्वसृज्यताग्निर्द्देवता
ब्राह्मणोमनुष्यो वसन्त ऋतुस्तस्मात्त्रिवृत् स्तोमानां मुखं,
गायत्री च्छन्दसाम्, अग्निर्देवतानां, ब्राह्मणो मनुष्याणां,
वसन्त ऋतूनां, तस्माद्ब्राह्मणो मुखेन वीर्य्यङ्करोति
मुखती हि सृष्टः” इति । व्याख्यातञ्चैतत् भाष्ये “सः
प्रजापतिरकामयत् किमिति”? सर्व्वसाधकं यज्ञं सृजे येति
स एतमग्निष्टोममपश्यत् तमाहरदित्युक्तस्यैवेदं विवरणं सः
प्रजापतिः मुखत आत्मनो मुखादेव त्रिवृतमावृत्ति-
त्रयसाध्यमेतन्नामकंस्तोममसृजत तं त्रिवृतमनु पश्चाद्गायत्री-
छन्दः गायत्रं नाम छन्दोऽसृज्यत तदनु अग्निर्देवताऽ-
सृज्यत तमनु मनुष्यी ब्राह्मणोऽसृज्यत तथा तमनु
वसन्ताख्यश्च ऋतुरसृज्यत यस्माद्यदेते मुखतएव सृष्टाः तस्मादेते
त्रिवृदादुयः स्वस्वजातीयानां मध्ये मुख्या अभवन् त्रिवृदा-
दीनां मुख्यानां मध्ये ब्राह्मणस्य मुख्यत्वप्रयुक्तं वीर्य्यं
लोकसिद्धं दर्शयति तस्मान्मुखसृष्टत्वेन मुख्यत्वात् ब्राह्मणो मुखे-
नेदानीमपि वीर्य्यं स्वाध्यायप्रवचनादिजन्यं सामर्थ्यङ्करोति
तस्मादित्युक्तं विवृणोति हि यस्माद्ब्राह्मणो मुखतः सृष्ट-
स्तस्मादित्यर्थः ॥ एवमुक्तमर्थं यो वेद सोऽपि मुखेन वीर्य्यं-
ङ्करोति मुखसाध्येन स्वाध्यायप्रवचनादिनैवाभीष्टं साधयति
इत्यर्थः” इति । “ब्राह्मणोऽस्य मुखमासीति” पुरुषसूक्तम् अत
एव विप्रस्य मुखजातत्वेन मुखसाध्यस्वाध्यायाभ्यसने एव
वीर्य्यं भवतीत्यप्युक्तम् अतएव मनुना “वेदमेव सदाभ्यस्ये” दित्यु-
क्तम् हारीतसंहितायां तु “षट् कर्म्माणि, निजान्याहुर्ब्राह्म-
णस्य महात्मनः । तैरेव सततं यस्तु वर्त्तयेत् सुखमेधते
अध्यापनं चाध्ययनं याजनं यजनं तथा । दानं प्रति
ग्रहश्चेति षट् कर्म्माणीति चोच्यते” इति “वेदञ्चैव सदाभ्यस्येत्
शुचौ देशे समाहितः धर्म्मशास्त्रं तथा पाठ्यं ब्राह्मणैः शुद्ध-
मानसैः वेदवत् पठितव्यञ्च श्रोतव्यञ्च दिवानिशि
श्रुतिहीनाय विप्राय स्मृतिहीने तथैव च दानं भोजन
सन्यच्च दत्त कुलविनाशनम् । तस्मात् सर्वप्रयत्नेन वेद
शास्त्रं पठेत्„ द्विज इति” च । “सत्त्वप्रधाना वप्राः स्युरिति
भारतोक्तेः विप्रस्य सत्वप्रधानतया “ब्राह्मणक्षत्त्रियविशां
शूद्राणाञ्च परन्तप! । कर्म्माणि प्रविभक्तानि स्वभावप्रभवै-
र्गुणैः । शमोदमस्तपः शौचं क्षान्तिरार्जवमेव च । ज्ञानं
विज्ञानमास्तिक्यं ब्रह्मकर्म्म स्वभावजमिति” गीतायां
सात्विकधर्म्माएवास्य स्वाभाविका इत्युक्तम् । विवृतञ्चैतत्
श्रीधर स्वामिना “तत्र ब्राह्मणस्य स्वाभाविकानि कर्म्माण्याह
शम इति, शमश्चित्तोपरमः (वाह्यविषयान्निवर्त्तनम्)
दमोवाह्येन्द्रियोपरमः (स्वस्वविषयान्निवर्त्तनम्) तपः पूर्ब्बोक्तं
(सगुणब्रह्मोपासनादि) शौचं वाह्यमाभ्यन्तरञ्च । क्षान्तिः
(शीतोष्णादिद्वन्द्वसहिष्णुता) आर्जवम् अवक्रता (वाह्या-
भ्यन्तरयोः कापठ्याभावः) ज्ञानं शास्त्रीयं विज्ञानमनुभवः
आस्तिक्यम् अस्ति परलोक इति निश्चयः । एतत् शमादि
ब्राह्मणस्य स्वभावात् जातं कर्म्मेति” । “मुखजातादयोप्यत्र
अग्रे प्रथमं जन्म यस्य । चतुर्मुखे ब्रह्मणि, “यो वै ब्रह्माणं
विदधाति पूर्बं यश्चास्मै प्रहिणोति वेदमिति” “हिरण्य
गर्भः समवर्त्तताग्रे” इति च श्रुतौ परब्रह्मसकाशात् तस्य
प्रथमोत्पत्तिरुक्ता, तदुतपत्तिप्रकारस्तु मनुना “सोऽभिध्याय
शरीरात् स्वात् सिसृक्षुर्बहुधा प्रजाः । अप एव ससर्जादौ
तासु वीजमवासृजत् । तदण्डमभवद्धैमं सहस्रांशुसमप्रमम्
तस्मिन् जज्ञे स्वयं ब्रह्मा सर्वलोकपितामह” इत्यनेनोक्तः ।

अग्रजात पु० अग्रे जातः जन--क्त ७ त० । ज्येष्ठम्रातरि,

विप्रे च । ज्येष्ठभगिन्यां स्त्री । पूर्व्वजातमात्रे त्रि० ।

अग्रजाति पु० अग्रा श्रेष्ठा जातिर्यस्य, जन--क्तिन् कर्म० । विप्रे ।

अग्रजिह्वा स्त्री अग्रा जिह्वा अग्रहस्तवत् क० । जिह्वाग्रभागे ।

अग्रणी त्रि० अग्रे नीयतेऽसौ णी--क्विप् ७ त० णत्वम् । प्रभौ

श्रेष्ठेच । अग्रं नयति देवेभ्य इति । वह्नौ पु०
यथाचास्याग्रणीत्वं तथाग्निशब्दे निरुक्तव्याख्यायामुक्तम् ।

अग्रतस् अव्य० अग्रे अग्राद्वा अग्र + तसिल् । पूर्व्ववृत्तौ, पूर्व्व-

भागावधिके च ।

अग्रतःसर त्रि० अग्रतः सरति गच्छति सृ--ट ७ त० । अग्रगामिनि । स्त्रियां ङीप् ।

अग्रदानिन् पु० अग्रेदानं उद्देश्यत्वेकास्त्यस्य अग्रदान + इनि

प्रेतोद्देशेन यद्दानं दीयते तत्प्रतिग्राहिणि “अग्रदानीति”
ख्याते विप्रे । “लोभी विप्रस्य शूद्राणामग्रे दानं
गृहीतवान् । ग्रहणात्तिलदानानामग्रदानी बभूव स”
इति पुरा० ।

अग्रदानीय पु० अग्रे दानमर्हति छ । अग्रदानिविप्रे ।

अग्रनख पु० अग्रो नखः अग्रहस्तवत् क० । नखाग्रे ।

पृष्ठ ००६६

अग्रनासिका स्त्री अग्रा नासिका अग्रहस्तवत् क० ।

नासिकाग्रभागे ।

अग्रन्थिक पु० नास्ति ग्रन्थिर्वस्त्रग्रन्थिः ससारबन्धग्रन्थिर्वाऽस्य ।

निर्ग्रन्थिके मुक्तकच्छे जैनभेदे आत्मज्ञे च “भिद्यते
हृदयग्रन्थि” रित्यनेन तस्य संसारग्रन्थिशून्यत्वोक्तेस्तथा-
त्वम् । ग्रन्थिशून्ये त्रि० ।

अग्रपर्णी स्त्री अग्रे पर्णं यस्याः जातित्वात् ङीप् ।

(आल्कुशीति) ख्याते वृक्षे ।

अग्रपूजा स्त्री अग्रे पूजा । प्राथमिकपूजायाम् । “अग्रे-

पूजामिह स्थित्वा गृहाणेमामिति” पुरा० ।

अग्रभाग पु० भज्यते इति भागः एकदेशः भज--घञ्

अग्रः पूर्ब्बः भागः कर्म्म० । श्राद्धादौ प्रथममुद्धृत्य देये
द्रव्ये अवयविनः शेषभागे च । यथा शराग्रभागः ।

अग्रभुक् त्रि० अग्रे देवपित्रादिभ्योऽदत्त्वा भुङ्क्ते

भुजक्विप् ७ त० । औदरिके ।

अग्रभू पु० अग्रे भवति उत्पद्यते भू--क्विप् ७ त० । पूर्बजाते

ज्येष्ठभ्रातरि विप्रे च ज्येष्ठभगिन्यां स्त्री । पूर्बजाते त्रि० ।

अग्रमहिषी स्त्री कर्म० । प्रधानस्त्रियाम् । “अथाग्रमहिषी

राज्ञ” इति ।

अग्रमांस न० अग्रं प्रधानं भक्ष्यत्वेन मन्यते मन्--स, दीर्घः

कर्म्म० । हृदयस्थे पद्माकारे (फुलका) इति नामके मांसे ।
केचित् व्युक्वाग्रमांसमेकं नामेत्याहुः । (अग्रमास) इति
प्रसिद्धे रोगभेदे च ।

अग्रमुख न० अग्रं मुखम् अग्रहस्तवत् कर्म्म० । मुखाग्रे ।

अग्रयण न० अग्रमयनात् उत्तरायणात् णत्वम् शक० तत्विधा

नकालोऽस्य अच् । मार्गे मासि साग्निककर्त्तव्येनवशस्येष्टि-
रूपे यज्ञभेदे । निरग्निकर्त्तव्ये नवान्नश्राद्धे च । “अकृता-
ग्रयणञ्चैव धान्यजातं द्विजोत्तमेति” वर्ज्ज्यान्ने स्मृतिः ।
“अकृताग्रयणमकृतनवशस्येष्टिश्राद्धं यथायोग्यं साग्नि-
कनिरग्निपरमिति” श्राद्धतत्त्वे रघुनन्दनः ।

अग्रयान न० अग्रे यानं यस्य या--ल्युट् संज्ञात्वेऽप्यणत्वम् ।

पुरोगामिनि सैन्ये । अग्रगामिमात्रे त्रि० ।

अग्रयायिन् त्रि० अग्रे यास्यति या--णिनि ७ त० । पुरो-

गामिनि “पुत्त्रश्च ते रणशिरस्ययमग्रयायीति” श्रेष्ठेच ।

अग्रयीधिन् पु० अग्रे स्थित्वा युध्यति युध--णिनि ७ त० ।

मैन्यानामग्रे स्थित्वा योद्धरि ।

अग्रलोहिता स्त्री अग्रमुपरिभागः लोहितं यस्याः ब० । चिल्लोति प्रसिद्धे शाकभेदे ।

अग्रवोज पु० अग्रं शाखाग्रं वीजमुत्पादकं यस्य । छिन्नाग्र-

तरुखण्डरूढे (कलम) इतिप्रसिद्धे काण्डजाते कुरण्ट-
कादिवृक्षे ।

अग्रसन्धानी स्त्री अग्रे फलोत्पत्तेः प्राक सन्धीयते ज्ञाय-

तेऽबया कार्य्यं सम् + धा--करणे ल्युट् ङीप् । यमपञ्जि-
कायाम् । यत्र हि प्राणिवर्गस्य प्राग्भवीयकर्म्मानुसारेण
शुभाशुभसूचकं सर्व्वं लिख्यते सा यमपञ्जिका, । कैश्चित्
यमपट्टिकेति सां कथ्यते । अग्रसन्धानकारिणि त्रि० ।

अग्रसन्ध्या स्त्री अग्रं सन्ध्यायाः, “सर्वोऽप्येकदेशः कालवाचिना

समस्यते, इत्युक्तेः एक० त० । सन्ध्यापूर्ब्बसमये । अग्रा
पूर्ब्बा सन्ध्या इति कर्म० । प्रातःसन्ध्यायाम् “कर्कन्धूना-
मुपरि तुहिनं रञ्जयत्यग्रसन्ध्येति” शकुन्तला ।

अग्रसर त्रि० अग्रे सरति गच्छति सृ--ट ७ त० । अग्र-

गामिनि । “युद्धायाग्रसरोऽभवदिति” स्त्रियां ङीप् ।

अग्रसारा स्त्री अग्रं शीर्षमात्रं सारोऽस्याः । फलशून्य-

शिखायां मञ्जर्य्याम् । अगात् अगमारभ्य सारोऽस्य ।
वंशादौ पु० ।

अग्रह पु० ग्रहः परिग्रहः न० त० । परिग्रहाभावे । बहु० ।

परिग्रहशून्ये सन्यासिप्रभृतौ, ज्ञानशून्ये त्रि० ।

अग्रहर त्रि० अग्रे ह्रियते दीयतेऽसौ अग्र--हृ--अच् । अग्र-

देये वस्तुनि, भागाग्रे पु० अग्र--हृ--कर्त्तरि अच् । अग्रहा-
रिणि त्रि० “प्राग्रहरः कुमार” इति ।

अग्रहस्त पु० अग्रश्चासौ हस्तश्चेति गुणगुणिनोरभेदात् कर्म्म० ।

हस्तस्याग्रभागे “अथाग्रहस्ते मुकुलीकृताङ्गुलाविति” कु० ।

अग्रहायण पु० अग्रः श्रेष्ठः हायनोव्रीहिरत्र णत्वम् ।

मार्गशीर्षे मासि । तस्य च “मासानां मार्गशीर्षोऽस्मीति”
गीतायां भगबद्विभूतिरूपत्वोक्तेः श्रेष्ठधान्यवत्त्वाच्च तथात्वम् ।

अग्रहायणेष्टि स्त्री अग्रा प्राथमिकी हायननिमित्ता इष्टिः ।

नवशस्येष्टौ यागभेदे ।

अग्रहार पु० अग्रं प्रथमं ह्रियते उत्पन्नशस्यादुद्धृत्य स्थाप्यते

हृ--कर्म्मणि घञ् । क्षेत्रोत्पन्नशस्यादुद्धृत्य ब्राह्मणी
द्देशेन स्थाप्ये धान्यादौ गुरुकुलादावृत्तव्रह्मचारिणे देये
क्षेत्रादौ, ग्रामभेदे च “स कस्मिश्चिदग्रहारे कालों नामैक-
स्येति” दशकु० । अग्रं हरति--अण् । अग्रहारके त्रि० ।

अग्राक्षि न० अग्रञ्च तदक्षि नेत्रं चेति गुणगुणिनो-

रभेदात् कर्म्म० स्वाङ्गपरत्वात् नाच्समा० । नेत्राग्रे
अपाङ्गे “अग्राक्ष्णा वीक्षमाणस्तु तिर्य्यग्भ्रातरमब्रवी-
दिति रामा० ।

अग्राणीक न० अग्रञ्च तदनीकं चेति गुणगुणिनोरभेदात्

कर्म्म० णत्वम् । अग्नयायिसैन्ये । “अग्राणीकं रघुव्याघ्रौ
राक्षसानां बभञ्जतुः इति” रामा० ।
पृष्ठ ००६७

अग्रायणीय न० अग्रं श्रेष्ठमयनं ज्ञानं तत्र साधु छ ।

बौद्धागमसिद्धे प्रवादभेदे “उत्पादपूर्ब्बमग्रायणीयमथ
वीर्य्यता प्रवादः स्यात् इति” हेमचन्द्रः ।

अग्रावलेहित न० अग्रं प्रथमभाग उद्धत्यावलेहितमास्वादितं

यस्य । श्राद्धाद्यर्थप्रस्तुतान्नादग्रभागमुद्धत्यास्वादनेन श्राद्धं
दानाद्यनर्हताप्रयीजकदोषदुष्टे अन्नादौ “द्विःस्विन्नं
परिदन्धञ्च तथैवाग्रावलेहितमिति” श्राद्धवर्ज्ये ब्रह्मपुरा-
णम् “अग्रावलेहितं श्राद्धार्थोपकल्पितं सकृदुपभुक्ताग्र-
भागमिति” रघु० ।

अग्रासन न० अग्रमर्घादिदानात् पूर्ब्बं कल्पितमासनम् ।

श्राद्धान्नभोजनार्थे अर्घदानादितोऽग्रे कल्पिते विप्रस्योपवेश-
नार्थे आसने “मामग्रासनतोऽवकृष्टमवशमिति” मुद्रा० ।

अग्राह्य त्रि० ग्रह--ण्यत्--न० त० । ग्रहणायोग्ये शिवनिर्म्मा-

ल्यादौ प्रतिग्रहायोग्ये तिलाश्वादौ च । “अग्राह्यं
शिवनिर्म्माल्यं पत्रं पुष्पं फलं जलमिति” पुरा० । “ब्राह्मणः
प्रतिगृह्णीयाद्वृत्त्यर्थं साधुतस्तथा । अव्यश्वमपि मातङ्ग-
तिललौहांश्च वर्ज्जयेत् । कृष्णाजिनहयग्राही न भूयः
पुरुषोभवेत् । शय्यालङ्कारवस्त्रादि प्रतिगृह्य मृतस्य
च । नरकान्न निवर्त्तन्ते धेनुं तिलमयीं तथा” । तथा
“ब्रह्महत्या सुरापानमपि स्तेयं तरिष्यति । आतुराद्-
यद्गृहीतन्तु तत् कथं? वै तरिष्यति” । “एतदादिद्रव्या-
दानं गहीतुर्दोषजनकम्” इति रघु० । “अयाचिताहृतं
ग्राह्यमपि दुष्कृतकर्मणः । अन्यत्र कुलटाषण्डपतिते यो
द्विषस्तथेति” मनुः । तेन कुलटादिद्रव्यम् अग्राहम् ।
शौचादौ कर्म्मणि अनुपादेयमृत्तिकायाम् स्त्री । “अन्तर्जले
देवगृहे वल्मीके मूषिकस्थले । कृतशौचावशिष्टे च
अग्राह्याः पञ्च मृत्तिका” इति स्मृतिः । अविचारणीये
त्रि० “अग्राह्यस्त्वनिवेदित” इति स्मृतिः । आवेदन-
कालेऽनिवेदितः पश्चात् निवेदितोऽपि व्यबहारे न विचार-
णीयः इति तदर्थः ।

अग्रिम पु० अग्रे भवः अग्र + डिमच् । ज्येष्ठभ्रातरि । श्रेष्ठे,

उत्तमे च त्रि० । “वीराणामग्रिमो भूत्वा युयुधे पार्थिवैः
सहेति” पुरा० ।

अग्रिय पु० अग्रे भवः अग्र + घ । ज्येष्ठभ्रातरि । श्रेष्ठे,

उत्तमे, अग्रजातमात्रे च त्रि० । “सन्ध्या अग्रिया
भवन्तीति ता० बा० ।

अग्रीय पु० अग्रे भवः अग्र + छ । ज्येष्ठभ्रातरि । श्रेष्ठे, उत्ते

च त्रि० । “अग्रीयभागं ददतेऽस्य दैत्या” इति वेदः ।

अग्रु(ग्रू) स्त्री अगि--क्रु नलोपः वा ऊङ् । नद्यामङ्गुल्याञ्च ।

निरुक्ते तन्नाम्नोरेतस्या उक्तेस्तदर्थत्वम् । “जनीयन्तोन्यग्रुव”
इति वेदः ।

अग्रेग त्रि० अग्रे गच्छतीति गम--ड अलुक् स० । पुरोगन्तरि ।

अग्रेगा त्रि० अग्रे गच्छति गम--विट् अलुक् स० । पुरोगन्तरि ।

अग्रेग त्रि० अग्रे गच्छतीति गम--डू अलुक् स० । पुरो-

गामिनि सेवके ।

अग्रेदिषिषु(षू) पु० दिधिं धैर्य्यं स्यति निरस्यति, सो--कू

षत्वम् दिधिषूः द्विरूढा पुनर्भूयोषित् अग्रे गणनीया दिधि-
षूर्यस्य अलुक् स० कबभावः पृ० वा ह्रस्वः । पुनर्भूविवाहका-
रिणि । प्रागनूढज्येष्ठभगिन्याः प्रागूढकनिष्ठभगिन्यां स्त्री ।
“ज्येष्ठायां यद्यनूढायां कन्यायामुह्यतेऽनुजा । सा चाग्रे-
दिधिषूर्ज्ञेया पूर्व्वा तु दिधिषूः स्मृतेति, मनुः एतत्पक्षे
च अग्रे ज्येष्ठाविवाहात् पूर्ब्बं दिधिषूः ज्येष्ठाविवाहकाला
सहनरूपधैर्य्यलोपकारिणीति विग्रहः । दीर्घान्त एवायम् ।

अग्रेदिषिषूपति पु० ६ त० । अनूढज्येष्ठायां भगिन्याम्

सत्यां कनिष्थायाभगिन्या वोढरि “यश्चाग्रेदिधिषूपति-
रिति” स्मृतिः ।

अग्रेपा त्रि० अग्रे स्थित्वा पाति पा--क्विप् अलुक् स० ।

पुरतो भूत्वा पालके “अग्रेपा ऋभवो मन्दसाना” इति वेदः ।

अग्रेपू त्रि० अग्रे कृत्वा पूयते पू--क्विप् अलुक् स० । पुरः

पवित्रकारके “सोमस्य राज्ञो भक्षयन्ति तेनाग्रेपुव” इति वेदः ।

अग्रेवण वनस्याग्रं--राज० पूर्ब्ब० । अलुक् स० णत्वम्, नि०

एदन्तत्वम् । वनाग्रभागे ।

अग्रेसर त्रि० अग्रे सरति सृ--ट--अलुक् स० । पुरोगामिनि । स्त्रियां ङीप् ।

अग्रेसरिक त्रि० सृ--भावे--अप् अलुक् स० अग्रे सरे अग्र

गतौ प्रसृतः ठन् । पुरोगामि--सेवके ।

अग्रोपहरणीय त्रि० अग्रमुपह्रियते यस्मै उप + हृ--सम्प्रदाने

अनीयर् । श्राद्धाद्यर्थमुपकल्पितस्यान्नादेरग्रे दानोद्देश्ये
वास्तुदेवादौ । अग्रे उपह्रियते कर्म्मणि अनीयर् । प्रथम-
दानार्हे द्रव्ये ।

अग्र्य पु० अग्रेजातः यत् । ज्येष्ठे भ्रातरि ।

श्रेष्ठे त्रि० “दृश्यते त्वग्र्यया बुद्ध्येति” गीता ।

अघ इदित् गतौ भ्वादि० आत्म० सक० सेट् । अङ्घते ।

आङ्घिष्ट । क्रि--आङ्घिः असुन् अङ्घः ।

अघ पापकरणे अदन्तचुरा० उभय० अक० । अघयति--ते ।

आजिघत् त । अच्--अघम् अघः ।
पृष्ठ ००६८

अघ न० चुरा० अघ--भावे अच् । पापे “हरत्यघं सम्प्रति

हेतुरैष्यत” इति माघः । कर्त्तरि अच् । पापकारके त्रि०
“अघायुरिन्द्रियारामो मोघं पार्थ! स जीवतीति” गीता
अघं हेतुत्वेनास्त्यस्य अर्शा० अच् । व्यसने दुःखे च न० तयोः
पापजन्यत्वात्तत्त्वम् । तत्र व्यसने “कच्चित् मृगीणामनघा
प्रसृतिरिति” रघु । “अनघा अव्यसनेति” मल्लिनाथः ।
“न वर्द्धयेदघाहानीति” “अघाहेषु निवृत्तेषु सुस्नाताः
कृतमङ्गला इति” च स्मृतिः अघस्य व्यसनस्य इष्टवियोग-
रूपस्य तज्जन्यदुःखस्य वा अहानि अघाहाइति तदर्थः ।
दुःखे, “उपप्लुतमघौ घेन नात्मानमवबुध्यते इति” दुःखौघे-
नेत्यर्थः “दयालुमनघस्पृष्टं पुराणमजरं विदुरिति” माघः ।
परदुःखेन दुःखित्वे एव तत्प्रहरणाय दयालोरिच्छा, ईश्वस्य
तु दयालुत्वेऽपि न दुःखस्पर्शः आनन्दस्वरूपत्वादिति,
तत्तात्पर्य्यार्थः “स्वयशांसि विक्रमवतामवतां न बधूष्वघानि
इति भा० । अघानि व्यसनानीत्यर्थः । पूतनावकासुरयो-
र्भ्रातरि असुरभेदे पु० । “कृष्णचरितमिवाघनाशन
मिति” श्लेषः । एतत्कथा चाघनाशनशब्दे दृश्या ।

अघकृत् त्रि० अघं पापं सततं करोति कृ--कर्त्तरि ताच्छी-

लादिषु वाक्विप् ६ त० । पापकारिणि, सततपापशीले च ।

अघन त्रि० न० त० । निविडताविरुद्धशैथिल्ययुक्ते ।

अघनाशन त्रि० अघं नाशयति नश--णिच्--ल्यु ।

पापनाशके जप्यदानादौ “जपेत् सर्व्वाघनाशनमिति” स्मृतिः ।
स्त्रियां ङीप् । अघस्यासुरभेदस्य नाशनः । श्रीकृष्णे,
स हि अजगररूपेण जिघांसन्तं तं हतवान् तत्कथा
भागवते “अथाघनामाभ्यपतन्महासुरस्तेषां सुखक्रीड़न-
वीक्षणाक्षमः । नित्यं यदन्तनिजजीवितेप्सुभिः पीता-
मृतैरप्यमरैः प्रतीक्ष्यते ॥ दृष्ट्वार्भकान् कृष्णमुखानघासुरः
कंसानुशिष्टः स वकीवकानुजः । अयन्तु मे सोदरनाशकृ-
त्तयोर्द्वयोर्घ्नमेनं सवलं हनिष्ये । एते यदस्मत्सुहृदोस्तिलापाः
कृतास्तदा नष्टसमा व्रजौकसः । प्राणे गते वर्ष्मसु कानुचिन्ता
प्रजासवः प्राणभृतोहि संयते ॥ इति व्यवस्याजगरं वृहद्वपुः
स योजनायाममहाद्रिपीवरम् । धृत्वाद्भुतं व्याप्तगुहाननं तदा
पथि व्यशेत ग्रसनाशया खलः” ॥ इत्थम् अघनामकेऽसुरे
स्थिते तदुदरे गोवत्सवत्सपालेषु गतेषु स्वयमपि हरिः प्रविश्य
अत्यन्तं स्वदेहवर्द्धनेन तं हतवान् इत्यप्युक्तम् । “तच्छ्रुत्वा-
भगवान् कृष्णस्त्वव्ययः सार्भवत्सकम् । चूर्णीचिकीर्षो-
रात्मानं तरसा ववृधे गले ॥ ततोऽतिकायस्य निरुद्ध-
मार्गिणीह्यदीर्णदृष्टेर्भ्रमतस्त्वितस्ततः । पूर्णोन्तरङ्गे पवनो-
निरुद्धोमूर्द्ध्वन्विनिर्भिद्य विनिर्गतो वहिः” इति ॥ “कृष्ण-
चरितमिवाघनाशनमिति” श्लेषः ।

अघभोजिन् त्रि० अघं पापफलकं भुङ्क्ते भुज--णिनि ६ त० ।

देवपित्रतिथ्युद्देशामावेन स्वार्थपाचके । “अघं स केवलं
भुङ्क्ते यः पचत्यात्मकारणात्” इति विष्णुः । “भुञ्जते
ते त्वघं पापा ये पचन्त्यात्मकारणात्” इति गीता ।

अघमर्षण न० अघं पापं मृष्यते उत्पन्नत्वेऽपि नाशनेन

कर्म्माक्षमत्वात् सह्यतेऽनेन मृष--ल्युट् ६ त० । उत्पन्न-
पाषनाशार्थं जप्ये मन्त्रभेदे तच्च द्रुपदादिवेत्यादि, ऋतञ्च
सत्यञ्चेत्यादि आपोहिष्ठेत्यादि सूक्तञ्च । तच्च अन्तर्जले
जप्यम् तत्फलञ्चोक्तं ब्राह्मणसर्वस्वे । यथा “बौधा-
यनः “ऋतञ्च सत्यञ्चाद्यघमर्षणम् त्रिरन्तर्जले जपन्
सर्वस्मात् पापात् प्रमुच्यते” । योगियाज्ञवल्क्यः “हत्वा
लोकानिमांस्त्रीन् हि त्रिः पठेदघमर्षणम् । यथाश्वमेधा-
बभृथमेवं तन्मनुरब्रवीत्” इति । हारीतः “पातकोपपा-
तकमहापातकानामेकतमसन्निपातेऽघमर्षणमेव जपेत्” इति ।
वृहद्विष्णुः “यथाश्वमेधः क्रतुराट् सर्वपापापनोदनः ।
तथाघमर्षणं सूक्तं सर्वपापप्रणाशनम्” इति । योगियाज्ञ-
वल्क्यः “स्नानमब्दैवतैर्मन्त्रैर्मार्जनं प्राणसंयमः ।
अघमर्षणसूक्तेन अश्वमेधावभृत्समम्” इति । शङ्खः “जलनि-
मग्नः प्राणान् संयम्य त्रिरावृत्ताघमर्षणसूक्तेन स्नायात्
नास्त्यघमर्षणात् परमन्तर्ज्जले” इति । गौतमः
“अन्तर्जलेऽघमर्षणं त्रिरावर्त्तयन् सर्वपापेभ्यो मुच्यते” इति ।
अत्रिः “अपि चापसु निमज्जित्वा त्रिः पठेदघमर्षणम् ।
यथाश्वमेधावभृथं तथैतन्मनुरब्रवीत्” इति । वशिष्ठः “अपि
चाप्सु निमज्जानः त्रिः पठेदघमर्षणम् । यथाश्वमेधा-
वभृथं तादृशं मनुरब्रवीत्” इति । आपस्तम्बः “अपि
चाप्सु निमज्जित्वा त्रिः पठेदघमर्षणम्” । यथाश्व-
मेधयज्ञो हि मनुस्तादृशमाह नत्” इति । बौधायनः
“त्रिरात्रं चाप्युपवसन् त्रिरह्नाभ्युपयन्नपः । प्राणानम्बुनि
संयम्य त्रिः पठेदघमर्षणम् । “यथाश्वमेधाबभृथ-
मेवं तन्मनुरब्रवीत्” इति । योगियाज्ञवल्क्यः “त्र्यहं
चोपवसेद् यस्तु त्रिरह्नाभ्युपयन्नपः । मुच्यते पातकैः
सर्वैः जत्वा त्रिरघमर्षणम्” इति । रहस्ये वृहन्मनुः
“मातरं भगिनीं गत्वा मातृस्वसारं स्नुषां सखीं
सनाभ्याञ्च अगम्यागमनं कृत्वा अघमर्षणम् अन्तर्जले त्रिरा-
वर्त्य एतस्मात् पापात् पूतो भवतीति” । तथा “गुरुतल्पगमनं
कृत्वा अधमर्षणमन्तर्ज्जले त्रिरावर्त्य एतस्मात् पापात् पूतो
पृष्ठ ००६९
भवतीति” । अत्र पापगौरवमाकलय्य संयतेन मास्येकं यावत्
जलमवगाह्याघमर्षणसूक्तं त्रिरावर्त्य स्नातव्यम् । तथा च
लघुयमः “महापातककर्त्तारश्चत्वारश्च विशेषतः । अग्निं
प्रविश्य शुद्ध्यन्ति स्नात्वा वाघ इति क्रतौ । रहस्यकरणे चैव
मासमभ्यस्य पौरुषम् । अघमर्षणञ्च वा सूक्तं शुध्येच्चान्त-
र्जलेस्थितः” इति । वृहद्यमः “अथ ब्रह्महत्यां कृत्वा प्राचीं
वा उदीचीं वा दिशमुपनिष्क्रम्य प्रभूतेनेन्धनेनाग्निं प्रज्वा-
ल्याघमर्षणं चाष्टसहस्रमावर्त्य जुहुयात् तस्मात् प्रापात् पूतो
भवतीति” । हारीतश्च “अन्तर्ज्जले त्रिरावर्त्य मुच्यते
ब्रह्महत्ययेति” । वृद्धापस्तम्बः “अकार्य्यकरणे चैव
अभक्ष्यस्य च भक्षणे । अघमर्षणसूक्तेन पीत्वापः शुध्यते नरः” ।
वशिष्ठः “मनसा पापं कृत्वा अघमर्षणं जपेत्” इति ।
वृद्धापस्तम्बः “क्षत्रियागमने वैश्यागमने चैव तापसीम् ।
त्रिरावर्त्य विशुद्धः स्यात् शूद्रागाम्यघमर्षणम्” इति ।
तापसीमिति तापसीम् ऋचमित्यर्थः शङ्खलिखितौ
“ब्रह्महा “त्रिरात्रिपोषितोऽन्तर्जलेऽधमर्षणं त्रिरावर्त्त-
येत्” इति । याज्ञवल्क्यः त्रिरात्रोपोषितोजप्त्वा
ब्रह्महा त्वघमर्षणम् । अन्तर्जले विशुद्ध्येत्तु दत्त्वा गान्तु
पयस्विनीम्” इति । प्रकाशविषये षौधायनः “तीर्थं गत्वा
ततः शुचिरात्मा उदकान्ते स्थण्डिले उद्धृत्य सकृच्छिन्नवाससा
सकृत् पूर्णेन पाणिना आदित्याभिमुखः अघमर्षणमध्याय-
मधीयीत इति” ।
षडङ्गन्यासं कृत्वा वामहस्ते जलं निधाय दक्षिणहस्तेन
जलमाच्छाद्य ह यं रं लं वं इति त्रिरभिमन्त्र्य मूलमु-
च्चरन् गलितोदकविन्दु भिस्तत्वमुद्रया सप्तधा मूर्द्धानमभ्युक्ष्य
शेषजलं दक्षिणहस्ते समादाय तोजोरूपं ध्यात्वा इड़याकृष्य
देहान्तःपापं प्रक्षाल्य कृष्णवर्णं तज्जलं ध्यात्वा पिङ्गलया
विरेच्य पुरः कल्पितवज्रशिलायां फडिति मन्त्रेण
पापपुरुषस्वरूपं तज्जलं निःक्षिपेदित्यघर्षणम् इति तन्त्र-
सारे तान्त्रिकाघमर्षणमुक्तम् तत्प्रमाणं तु तत्रैवावगम्यम् ।

अघमार त्रि० अघं मारयति मृ--णिच्--अण् उप० ।

पापनाशके देवादौ, “यमोमृत्युरघमारो निरृत”
इति वेदः ।

अघरुद त्रि० अघं रोदिति स्वकर्म्माक्षमतया यस्मात्

रुदअपादाने क्विप् ६ त० । पापापनोदनहेतौ, पापनाशने
मन्त्रे । “मा त्वाघरुदोरुदन्” इति वेदः । अघे व्यसने
रोदिति न तु तत्प्रतीकाराय घटत रुद + कर्त्तरि क्विप् ।
रोदनेनैव व्यसनोत्तारके तत्प्रतीकारार्थमनुद्यते त्रि० ।

अघर्म्म पु० न० त० । उष्मविरोधिशीते तद्वति त्रि० । “अघर्म्म

काल” इति काद० ।

अघल त्रि० अघं लाति गृह्णाति नाशयतीति ला--क । पापा-

पनोदके । “ऋत्योर्ये अघलादूता” इति वेदः ।

अघवत् त्रि० अघमस्त्यस्य मतुप् मस्य वः । पापवति सम्बो-

धने अघोः--अघवन् । “अघोयजेति” मुग्धबोधम् ।

अघविष पु० अघं व्यसनकारि--विषं यस्य । सर्पे ।

अघशंस पु० अघमनिष्टं शंसति इच्छति शंस--अण्

उपस० । अनिष्टसंपादके चौरे “अपाघशंसंनुदतामराति
मिति” वेदः । भावे अच् ६ त० । व्यसनसूचने पु० ।

अघशंसिन् त्रि० अघं शंसति सूचयति शंस--णिनि ६ त० ।

व्यसनसूचके “व्यसनाशंसाकर्त्तरि “वचः क्रूरं मयोक्त-
मघशंसिनेति । स्त्रियां ङीप् ।

अघायु त्रि० अघं पापं परव्यसनं वा कर्त्तुमिच्छति अघ +

क्यच्--उ । पापाचरणेच्छावति, परव्यसनचिकीर्षके च ।
“त्वा वृका अधायवोविदन्” इति यजु० । परस्याघं
कर्तुमिच्छन्तीति वेददीपः । अघमायाति आ + या उ
६ त० । हिंसानिरते । “बधोऽघायूनामिति” ता० ब्रा० ।

अघायुस् त्रि० अघं पापसाधनसायुरस्य । सर्व्वावस्थासु

पापकारके “अघायुरिन्द्रियारामोमोघं पार्थेति” गीता ।

अघारिन् त्रि० अघं व्यसनमृच्छति ऋ--णिनि । व्यसनयुक्ते

स्त्रियां ङीप् । “अघारिणीविकेश्योरुदत्य” इति वेदः ।

अघासुर पु० कर्म्म० । असुरभेदे अघनाशनशब्दे तत्कथा ।

अघाह पु० अघस्थ व्यसनस्याहः अचसमा० । व्यसनदिने

अशौचदिने “अघाहं नैव वर्द्धयेदिति” “अघाहेषु निवृत्तेषु
सुस्नाताः कृतमङ्गलाः । आशौच्याद्विप्रमुच्यन्त इति”
च स्मृतिः ।

अघोर त्रि० न घोरः भयानकः । भयानकभिन्ने सौम्यरूपे

“या ते रुद्र! “शिवा तनूरघोरा पापकासिनी” इति वेदः ।
“अघोरा सौम्या अत एव पापकासिनी शिवा च इति”
वेददीपः । नास्ति घोरो यस्मात् । अतिभयानके त्रि० ।
रुद्रमूर्त्तिभेदे पु० । “ईशानाघोरनामानौ, वामदेवस्ततः
परम् । सद्योजात इति प्रोक्तः क्रमशोऽर्चनकर्म्मणीति
पुरा० । अघोरः शिव उपास्यत्वेनास्त्यस्याम्
अघोर + अच् । भाद्रकृष्णचतुर्द्दश्यां स्त्री । “भाद्रे मास्य-
सिते पक्षे ह्यघोराख्या चतुर्दशी । तस्यामाराधितः स्थाणु-
र्नयेच्छिवपुरं ध्रुवमिति” पुरा० ।
पृष्ठ ००७०

अघोष पु० नास्ति घोषोऽस्यात्र वा । वर्ण्णोत्पादनार्थे वाह्य

प्रयत्नभेदे तत्प्रयत्नयुक्तेषु वर्णेषु च । ते च वर्णाः “खयां
यमाः खयः + कँपौ विसर्गः शर एव च । एते श्वासानु-
प्रदाना अघोषाश्चेत्युक्ताः वेदितव्याः । विवरणं मत्कृत-
शब्दार्थरत्ने सूचीपत्रे द्रष्टव्यम् । शब्दशून्ये त्रि० ।

अघोषवत् त्रि० अघोषः वर्ण्णोच्चारणवाह्यप्रयत्नः अस्त्यस्य

मतुप् मस्य वः । “खयां यमाः--स्वय + कँपौ विसर्गः
शरएचेत्युक्तेषु वर्णेषु ।

अघ्न्य पु० न हन्ति सृष्टिकर्तृत्वात् न + हन--यक् निपातनात्

साधु । प्रजापतौ । न हन्यते स्त्रीहत्यायाः, “अबष्याञ्च
स्त्रियं प्राहुस्तिर्य्यग्योनिगतामपीति” निषिद्धत्वात् कर्म्मणि
नि० । हननकर्म्मताशून्यायां स्त्रियां गवि स्त्री ।
अघ्न्या “गवां पतिरघ्न्य” इति वेदः । “पतिं वो अघ्न्या-
नामिति” वेदः “गावः प्राश्नन्त्यघ्न्या इति” च वेदः ।

अघ्रेय त्रि० न घ्रातुं शक्यः अर्हः वा घ्रा--शक्याद्यर्थे यत् न०

त० । घ्राणानर्हे दुर्गन्धे वस्तुमात्रे, मद्ये न० । “मदिरा-
घ्राणमात्रेण ब्राह्मण्यादेव हीयते” इति स्मृतौ मद्यस्य घ्राण-
निषेधात् तस्य तथात्वम् ।

अङ्क(न्क) संख्याकरणे चिह्रयुक्तकरणे अदन्तचुरादि० उभ०

सक० सेट् । अङ्कय--ति ते आञ्चिक--त्--त । अङ्का-
पयति ते इति केचित् । “प्रेयांसमाङ्कयदसौ न विधौ
कलङ्क” इत्युद्भटः । “पुक् चेत्यङ्कापयत्यपीति”
कामधेनुः । अच् अङ्कः । क्त अङ्कितः ल्युट् अङ्कनम्
असुन् अङ्कः ।

अङ्क पु० न० अङ्क--करणे, कर्त्तरि वा अच् । चिह्ने “रतिवल-

यपदाङ्के चापमासज्य कण्ठे” इति कुमा० । कलङ्के,
“एको हि दोषो गुणसन्निपाते निमज्जतीन्दोः किरणेष्वि-
वाङ्क” इति कुमा० । दृश्यकाव्याङ्गभेदे तल्लक्षणं यथा
“प्रत्यक्षनेतृचरितो रसभावसमुज्ज्वलः । भवेदगूढशब्दार्थः
क्षुद्रचूर्णकसंयुतः ॥ विच्छिन्नावान्तरैकार्थः किञ्चित्संलग्न-
विन्दुकः । युक्तो न बहुभिः कार्य्यैर्वीजसंहृतिमान् न च ॥
नानाविधानसंयुक्तो नातिप्रचुरपद्यवान् । आवश्यकानां
कार्य्याणामविरोधाद्विनिर्म्मितः ॥ नानेकदिननिर्व्वर्त्यकथया
सम्प्रयोजितः । आसन्ननायकः पात्रैर्युतस्त्रिचतुरैस्तथा ॥
दूराह्वानं बधो युद्धं राज्यदेशादिविप्लवः । विवाहो भोजनं
शापोत्सर्गौ मृत्यूरतन्तथा ॥ दन्तच्छेद्यं नखछेद्यमन्यद् व्रीडा-
करञ्च यत् । शयनाधरपानादि नगराद्युपरीधनम् ॥
स्नानानुलेपने चैभिर्वर्जितो नातिविस्तरः । देवीपरि-
जनादीनाममात्यबणिजामपि ॥ प्रत्यक्षचित्रचरितैर्युक्तो
भावरसोद्भवैः । अन्तनिष्कान्तनिखिलपात्रोऽङ्क इति
कीर्त्तितः” इति सा० ॥ दृश्यकाव्य रूपकभेदे च पु० । यथा
“नाटकमथ प्रकरणं भाणव्यायोगसमवकारडिमाः ।
ईहामृगाङ्कवीथ्यः प्रहसनमिति रूपकाणि दश” इति विभज्य
“उत्सृष्टिकाऽङ्क एकाङ्कोनेतारः व्यापृता नराः । रसोऽत्र
करुणः स्थायी बहुस्त्रीपरिदेवितम् ॥ प्राख्यातमितिवृत्तञ्च
कविर्बुद्ध्या प्रपञ्चयेत् । भाणवत् सन्धिवृत्ताङ्गान्यस्मिन्
जयपराजयौ ॥ युद्धञ्च वाचा कर्त्तव्यं निर्वेदवचनं बहु” ।
इति लक्षितम् “इमञ्च केचित् नाटकाद्यन्तःपात्यङ्कपरिच्छे-
दार्थम् उत्सृष्टिकाङ्कनामानम्” आहुः । अन्ये तु “उत्क्रान्ता
विलोमरूपा सृष्टिर्यत्रेति उत्सृष्टिकाङ्कः” इति सा० ।
पर्व्वते, समीपे, युद्धभूषणे, देहे, अपराधे, स्थाने, चित्रयुद्धे
परम्परासम्बद्धे चिह्ने च पु० । क्रोड़े पु० न० “अनन्य-
नारीकनीयमङ्कमिति” कुमा० । “अङ्के निधाय तं बालं
पुनः संस्कारमर्हतीति” स्मृतिः । “पुनरङ्काश्रयणी भवामि
ते” इति कुमा० । “प्रेम्णोपकण्ठं मुहुरङ्कभाजो रत्ना-
वलीरम्बुधिराबबन्धेति” माघः । “अङ्कः समीपम् उत्सङ्गश्च”
इति मल्लिनाथः । एकत्वादिसंख्याबोधकरेखासन्निवेशे-
“अङ्कयुतिः किल सङ्कलिताख्येति” लीला० ।
नवसंख्यायाञ्च पु० ।

अङ्कतन्त्र न० अङ्कानामेकादिपरार्द्धान्तसंख्याबोधकरेखाविशेषाणां

प्रतिपादकम् तन्त्रं शास्त्रम् । अङ्कशास्त्रे व्यक्ताव्यक्तरूपे,
पाटीगणितवीजगणितादौ ।

अङ्कति पु० अन्च--गतौं अति कुत्वम् । वाते । पूजनार्थात्

कर्म्मणि अति । ब्रह्मणि, अग्नौ, अग्निहोत्रिणि च ।
गन्तरि त्रि० स्त्रियाम् वा ङीप् अङ्कती च ।

अङ्कधारण न० ६ त० । चिह्नधारणे तप्तमुद्रादिवैष्णवचिह्नधारणे

च । धृ--णिच् भावे युच् । अङ्कधारणाप्यत्र स्त्री ।

अङ्कन न० अङ्क--करणे ल्युट् । अङ्कनसाधनद्रव्ये गदा (गनीति)

प्रसिद्धे । भावे ल्युट् । चिह्नकरणमात्रे न० । “अन्यत्राङ्कनल-
क्ष्मभ्यां वाहनिर्म्मोचने” इति स्मृतिः । अङ्कनं त्रिशूलादि-
चिह्नकरणमिति प्रा० रघु० । भावे युच् । अङ्कनाष्यत्र स्त्री ।

अङ्कपादव्रत न० ब्रतभेदे ।

अङ्कपालि स्त्री पा--अलि ६ त० वा ङीप् । क्रोड़प्रान्ते ।

अङ्केन पालयतीति पालि--इ ३ त० । उपमातरि (धाइमा)
इति प्रसिद्धायाम् । अङ्कस्य पालिरिव । आलिङ्गने ।

अङ्कपाली स्त्री अङ्कपालि + ङीप् । अङ्कपालिशब्दार्थे वेदि-

काख्यगन्धद्रव्ये च ।
पृष्ठ ००७१

अङ्कपाश पु० अङ्कः पाश इव बन्धनेनेव पातनहेतुरत्र । लीला-

वत्युक्ते एकाद्यङ्कानां स्थानविनिमयेन संख्याभेदबोधके,
तदैक्यसंख्यासङ्कलनोपयोगिनि च प्रक्रियाभेदे “स्थानान्तमेका-
दिचयावघातः संख्याविभेदो नियतैः स्युरङ्कैः । भक्तोऽङ्क-
मित्याङ्कसमासनिघ्नः स्थानेषु युक्तोमितिसंयुतिः स्यादिति” ।
यथा १, २, एतयोरङ्कयोः स्थानद्वये, स्थितिः तयाः
स्थानविनिमये कति भेदा, भेदभिन्नानाञ्च संख्यैक्यमितिः
केति १ च पृष्टे अनेनैव प्रकरणेन १२, २२, एतौ द्वौ भेदौ
ऐक्याङ्कमितिः” ३३ इत्युत्तरं तच्चानेनैव भवति । “न
गुणो न हरो न कतिर्न घनः पृष्टस्तथापि दुष्टानाम् ।
गर्वितगणकबहूना स्यात् पातोऽवश्यमङ्कपाशेऽस्मिन्निति”
लीलावती ।

अङ्कपूरण न० अङ्कयोस्तत्संख्ययोः पूरणं गुणनम् । अङ्कयो-

र्गुणने ।

अङ्कबन्ध पु० अङ्कस्य बन्धः । क्रोड़बन्धे । यथा पर्य्यङ्कबन्धः । परितोऽङ्कस्य बन्धनम् ।

अङ्कलोड्य पु० अङ्केन लोड्यतेऽसौ लोड--ण्यत् ७ त० ।

चिञ्चोड़वृक्षे ।

अङ्कलोप पु० अङ्कस्य वियोज्यसंख्याया इष्टसंख्यातो लोपः

वियोजनम् । इष्टसंख्यातः कस्याश्चित् संख्याया वियोजने
यथा नवाङ्कसंख्यातः पञ्चाङ्कसंख्याया वियोजने चतुः-
संख्याऽवशिष्यते । एवम् अन्यत्रापि ।

अङ्कस् न० अन्च--असुन् कुत्वम् । चिह्ने, शरीरे च ।

“पथामङ्कांस्यन्वापनीफलदिति” वेदः ।

अङ्कस न० अङ्कोऽस्मिन्नस्ति अच् । चिह्नयुक्ते । “श्येनस्येव

ध्रजतोऽङ्कसं परीति” यजुः । अङ्कसं वस्त्रमाप्रपदिकमिति ।

अङ्काङ्क न० अङ्के मध्ये अङ्काःशतपत्रादिचिह्नानि यस्य । जले

“आपो वै अङ्काङ्काः छन्द” इति, अङ्काङ्कं छन्द इति च
श्रुतिः ।

अङ्कित त्रि० अङ्क--क्त । चिह्नयुक्तीकृते,

“स्वाहास्वधावषट्कारैरङ्कितं मेषवाहनमिति” वह्निध्यानम् ।

अङ्किन् त्रि० अङ्कः आलिङ्गनस्थानत्वेन अस्यास्ति अङ्क +

इनि । अङ्केनालिङ्क्य वादनीये मृदङ्गादिवाद्यभेदे, क्रीड़-
विशिष्टे च । “षाशायामङ्गिनो ये चरन्तीति” वेदः ।

अङ्किनी स्त्री अङ्कानां चिह्नानां समूहः खलादि० इनि ङीप् ।

चिह्नसंघाते । अस्त्यर्थे इनि ङीप् । अङ्कयुक्तस्त्रियाम् ।

अङ्कुर अस्त्री० अङ्क--उरच् । वीजादभिनवोत्पन्ने, मृत्ति-

कामुद्भिद्य जाते तृणवृक्षादौ “हर्म्याग्ररूढ़ेषु तृणाङ्कुरे-
ष्वित्” रघुः । जले, शीघ्रोत्पत्तिसाधर्म्यात् रुधिरे,
लोम्नि च मुकुले च “चूताङ्कुरास्वादकषायकण्ठ” इति कुमा० ।

अङ्कुरक पु० अङ्क्यते तृणादिना सञ्चीयतेऽसौ अन्च--घुरच् ततः

क । पश्वादीनां वासस्थाने (वासा इति) ख्याते ।

अङ्कुरित त्रि० अङ्कुरः जातोऽस्य ता० इतच् । जाताङ्कुरे ।

अङ्कुश अस्त्री० अङ्क--उशच् । हस्तिचालनोपयोगिनि वक्राग्रे

लौहास्त्रभेदे (डाङश) इति ख्याते । “तिरोगतं साङ्कुश-
मुद्वहन् शिर” इति माघः । “सन्निवेश्य कुशावत्यां रिपु-
नागाङ्कुशं कुशमिति” रघुः । प्रतिबन्धे च “निरङ्कुशाः
कवय इति” मल्लिनाथः पक्षा० फक् । आङ्कुशायनः
अङ्कुशन्निकृष्टस्थाने त्रि० ।

अङ्कुशग्रह पु० गृह्णातीति ग्रह--अच् ६ त० । अङ्कुशधारिणि

निषादिनि । “अन्वेतुकामोऽवमताङ्कुशग्रह” इति माघः ।

अङ्कुशदुर्द्धर पु० दुःखेन धार्य्यते व्यवस्थाप्यते दुर्--धारि--खल्

ह्रस्वः अङ्कुशेन--दुर्द्धरः ३ त० । दुर्दान्तहस्तिनि ।

अङ्कुशधारिन् पु० अङ्कुशं धारयति धारि--णिनि । हस्तिपालके।

अङ्कुशमुद्रा स्त्री अङ्कुशाकारा मुद्रा । “ऋज्वीञ्च मध्यमां

कृत्वा तम्मध्यपर्व्वमूलतः । तर्ज्जनीं किञ्चिदाकुञ्चेत् सा
मुद्राऽङ्कुशसंज्ञितेति” तन्त्रोक्ते तीर्थावाहनाद्यर्थं कल्पिते
अङ्कुलिसन्निवेश रूपेमुद्राभेदे ।

अङ्कुशी स्त्री अङ्कुशः चित्तनागरोधनोपायः विवेकः अस्त्यस्याः

अच् गौ० । जैनीयदेवीभेदे ।

अङ्कूर पु० अङ्क--खर्जूरादित्वात् ऊरच् । अभिनवोत्पन्ने तृणवृक्षादौ ।

अङ्कूष अस्त्री० अङ्क--ऊषच् । हस्तित्रालनोपयोगिनि वक्राग्रे

लौहमयेऽस्त्रभेदे (डाङश) ।

अङ्कोट(ठ) (ल) पु० अङ्क्यते लक्ष्यते कीलाकारकण्टैः । अङ्क-

ओट (ओठ) (ओल) वा । पीतवर्णसारे गन्धयुक्तपुष्पे
दीर्घकण्टकयुक्ते रक्तवर्णफले (आकोड) इति ख्याते वृक्षे ।

अङ्कीलक पु० अङ्कोल + स्वार्थे--क । आकोड इति ख्याते वृक्षे ।

अङ्कोलिका स्त्री वल--अच् नि० संप्रसारणे--उलः अङ्काय तद्दा-

नाय उलः स्वार्थे क । आलिङ्गनक्रियायाम् ।

अङ्कोलसार पु० अङ्कोलस्य सारः ६ त० । अङ्कोटवृक्षजाते विषभेदे ।

अङ्कोल्लिका स्त्री । पृ० साधुः । अङ्कोठवृक्षे ।

अङ्क्य पु० अङ्के क्रोड़े स्थापयित्वा वाद्यतेऽसौ यत्, अङ्के साधुः

अङ्क + य वा । “सार्द्धतालत्रयायामः चतुर्द्दशाङ्गुलाननः ।
हरीतक्याकृतिर्यः स्यादङ्क्योऽङ्के स हि वाद्यते इत्युक्ते”
क्रोड़ेस्थापनपूर्ब्बकं वादनीये मृदङ्गादौ । अङ्कनीये त्रि० ।

अङ्ग चिह्नयुक्तकरणे अदन्तचुरादि उभय० सकर्म्मकः सेट् ।

अङ्गय--ति ते आञ्जिग--त् त । मतान्तरे अङ्गापयति ते ।
पृष्ठ ००७२

अङ्ग न० अस--गत्यादी वा० गन् । चित्ते (अङ्गजः कामः)

“हिरण्यगर्भाङ्गभुवमिति” देहे “हस्तेनस्पर्श तदङ्गमिन्द्र” इति
कुमा० । अङ्गशब्दस्य चेष्टावदन्त्यावयविरूपावयविवाचित्वेऽपि
तदवयवेऽपि हस्तपादादौ व्यवहारः अवयवत्वसाम्यात्
तेषाञ्च प्रत्यङ्गशब्देनापि व्यवहारः । तत्राङ्गशब्दस्य
देहार्थत्वे तदीयस्वरूपं तदवयवभेदाश्च सुश्रुते दर्शिताः ।
यथा “शुक्रशोणितं गर्भाशयस्थमात्मप्रकृतिविकार-
संमूर्च्छितं गर्भ इत्युच्यते तञ्च चेतनावस्थितं वायुर्विभ-
जति, तेज एनं पचति, आपः क्लेदयन्ति, पृथिवी
संहन्त्याकाशं विवर्द्धयति । एवं विवर्द्धितः स यदा
हस्तपादजिह्वाघ्राणकर्णनितम्बादिभिरङ्गैरुपेतस्तदा शरीर-
मिति संज्ञां लभते तच्च षड़ङ्गं शाखाश्चतस्रो, मध्यं पञ्चमं,
पष्ठं शिर इति ।
“अतःपरं प्रत्यङ्गानि वक्ष्यन्ते । मस्तकोदरपृष्ठनाभि-
ललाटनासाचिवुकवस्तिग्रीवा इत्येता एकैकाः । कर्ण-
नेत्रनासाभ्रूशङ्खांसगण्डकक्षस्तनवृषपार्श्व स्फिगजानु--बाहूरु-
प्रभृतयो द्वे द्वे, विंशतिरङ्गुलयः । स्रोतांसि च वक्ष्य-
माणानि । एष प्रत्यङ्गविभाग उक्तः ॥ तस्य पुनःसङ्ख्या-
नम् । त्वचः कला धातवो मला दोषा यकृत्प्लीहानौ
फुप्फुस उण्डुको हृदयमाशया अन्त्राणि वुक्कौ स्रोतांसि
कण्डरा जालानि कूर्चा रज्जवः सेवन्यःसङ्घाताः सिमन्ता
अस्थीनि सन्धयः स्नायवः पेश्यो मर्म्माणि शिरा धमन्यो
योगवहानि स्रोतांसि च ॥
त्वचः सप्त । कलाः सप्त । आशयाः सप्त । धातवः
सप्त । सप्त शिराशतानि । पञ्च पेशीशतानि । नव
स्नायुशतानि । त्रीण्यस्थिशतानि । द्वे दशोत्तरे सन्धि-
शते । सप्तोत्तरं मर्मशतम् । चतुर्विंशतिर्धमन्यः । त्रयो
दीषा, त्रयो मलाः । नव स्रोतांसीति समासः इति” ॥
अवयवे “शेषाङ्गनिर्म्माणविधौ विधातुरिति” कुमा० ।
अपाङ्ग इति ।
उपाये, “सर्व्वकार्य्यशरीरेषु मुक्त्वाङ्गस्कन्धपञ्चकमिति”
“मन्त्रो योधैवाधीरः सर्व्वाङ्गैः संवृतैरपीति” च माघः ।
प्रधानोपयोगिनि उपकरणे, “फलवत्सन्निधावफलं
नदङ्गमिति” मीमांसा । “प्रधानस्याक्रिया यत्र
साङ्गं तत् क्रियते पुनः तदङ्गस्याक्रियायान्त्विति”
स्मृतिः । “हस्त्यश्वरथपादातं सेनाङ्गं स्याच्चतुष्टयमिति”
सम्बोधने अव्य० । “त्वमङ्ग यस्याः पतिरुञ्झि
तक्रम” इति नैषधम् । अङ्गमस्त्यस्य अच् । अङ्गवति
“येनाङ्गविकार इति” पा० अङ्गस्याङ्गिन इत्यर्थः
अन्तिके च त्रि० । जन्मादिलग्ने न० “अङ्गाधीशः
स्वगेहे बुधगुरुकविभिः संयुतो वीक्षितो वेति” जातकम् ।
देशभेदे पु० । तस्य विवरणम् अङ्गाधिपशब्दे । “अङ्गेषु
वङ्गेषु खसेषु योज्या” इति “अङ्गवङ्गखसेष्वेवेति” च ज्योति-
षम् अङ्गानां राजा आङ्गः बह्वर्थे अङ्गाः । अङ्गदेशे भवः
अण् । आङ्गः । बह्वर्थे अङ्गाः । अङ्गेन देहेन निर्वृत्तः
ठक् । आङ्गिकः । अङ्गदेशस्तद्राजानो वा भक्तिरस्य अण्
आङ्गः । अङ्गस्येदम् अङ्गीयः । “यस्मात् प्रत्ययविधि-
स्तदादि प्रत्ययेऽङ्गमिति” पाणिनिपरिभाषिते प्रत्ययावधि-
भूते शब्दभेदे, “इणः षीध्वं लुङ्लिटां धोऽङ्गादिति” पा० ।
अङ्गादागतम् अण् । आङ्गः अङ्गनिमित्ते कार्य्ये “वर्णा-
दाङ्गं बलीय इति” परिभा० । उपकारणानि च यथा
यथमुह्यानि दिङ्मात्रमत्रोच्यते । तत्र “स्वाम्यमात्यसुहृत्
कोषो राष्ट्रं दुर्गं बलानि च राज्याङ्गानीत्युक्तानि” “स्वाम्य-
मात्यौ पुरं राष्ट्रं कोषदण्डौ सुहृत्तथा । सप्त प्रकृतयो
ह्येताः सप्ताङ्गं राज्यमुच्यते” इत्युक्तानि राज्याङ्गानि ।
दर्शादौ च प्रयाजादीनि, वैदिककर्म्मणाञ्च तत्तत्क्रिया-
कलापाः तत्तद्द्रव्याणि चाङ्गानि “साङ्गाद्धि वैदिककर्मणः
फलावश्यम्भाव इति” मीमा० । वेदस्य व्याकरणादीनि
अङ्गानि, “शिक्षा कल्पो व्याकरणं निरुक्तं छन्दसाञ्चितिः ।
ज्योतिषामयनञ्चैव वेदाङ्गानि षडेव तु इति” । एतेषाञ्च
लक्षणादिकमग्रे वक्ष्यते । एतेषां वेदार्थज्ञानोपयोगित्वा-
दङ्गत्वम् अतएव श्रुतौ “ब्राह्मणेन निष्कारणः षड़ङ्गः
सरहस्योवेदोध्येतव्य” इत्युक्तम् शिक्षायां तेषां वेदार्थज्ञनोपयो-
गित्वा दङ्गत्वं दर्शितम् यथा
“छन्दः पादौ तु वेदस्य हस्तौ कल्पोऽथ पठ्यते । ज्योतिषाम-
यनं चक्षुर्निरुक्तं श्रोत्रमुच्यते । शिक्षा घ्राणं तु वेदस्यं
मुखं व्याकरणं स्मृतं तस्माद् साङ्गमधीत्यैव ब्रह्मलोके महीयते
इति” अतो वेदार्थज्ञानोपयोगितया एतेषां ग्रन्थानां वेदाङ्ग-
त्वम् । “द्वे विद्ये वेदितव्ये” इत्युपक्रम्य “पराचापरा च
तत्रापरा ऋग्वेदो यजुर्वेदः सामवेदोऽथर्ववेदः शिक्षा कल्पी
व्याकरणं निरुक्तं छन्दोज्योतिषमिति सा परा ययाक्षर-
मधिगम्यते” इति श्रुतौ व्याकरणादीनामपरविद्यात्वेन
कीर्त्तनं “तेषाञ्च साधनभूतधर्म्महेतुत्वात् षड़ङ्गसहितानां
धर्म्मसाधनत्वेनापरविद्यात्वमिति” भाष्ये उक्तम् ।
आयुर्वेदादीनामुपवेदत्वं न्यायादीनामुपाङ्गत्वं यथा च तेषां
तथात्वं तथा तत्तच्छब्दे दर्शयिष्यते ।
पृष्ठ ००७३


तथा ज्योतिषस्याङ्गानि नानाविधानि तत्र प्राधान्यात्
त्रिविधानि यथोक्तं वराहसहितायाम् । “ज्योतिःशास्त्र-
मनेकभेदविषयं स्कन्धत्रयाधिष्ठितम् तत्कात्र्स्न्योप-
नयस्य नाम मुनिभिः सङ्कीर्त्यते संहिता । स्कन्धे-
ऽस्मिन् गणितेन या ग्रहगतिस्तन्त्राभिधानन्त्वसौं होरान्यो-
ऽङ्गविनिश्चयश्च कथितः स्कन्धस्तृतीयोऽपरः” इति ।
नरपतिजयचर्य्यायान्तु षड्विधान्याङ्गानि समासेनोक्त्वा
तेषां विस्तारो दर्शितो यथा
“स्वरचक्राणि चक्राणि भूबलानि बलानि च । ज्योतिषं
शकुनञ्चैव षडङ्गान्यत्र वच्म्यहम् ॥ यामलेषु च सर्वेषु यान्यु-
क्तानि स्वरोदये । विंशतिःस्वरचक्राणि तन्नामानि
वदाम्यहम् । मात्रावर्णो ग्रहोजीवो राशिर्भं पिण्डयोगकौ ।
द्वादशाब्दोद्भवञ्चक्रं वर्षायनर्तुमासकम् ॥ पक्षाह नाडिकं
चक्रन्तिथिवारर्क्षयोगकम् । तत्कालेन्दुफलङ्काष्ठास्वरन्देहो-
द्भवन्तथा ॥ (इति स्वरचक्रनामानि) । पूर्ब्बमुक्तेषु शास्त्रेषु
मया ज्ञातानि यानि च चतुरशीतिश्चक्राणि तेषां
नामानि वच्म्यहम् ॥ एकाशीतिपदञ्चक्रं शतपत्रं नवां-
शकम् । छत्रं सिंहासनं चक्रं कूर्म्मंपञ्चविधात्मकम् ॥
भूर्देशं नगरं क्षेत्रं गृहकूर्मञ्च पञ्चकम् । पद्मचक्रं फणी
शाख्यं राहुकालानलन्त्रिधा ॥ सूर्य्यकालानलं चक्रं चन्द्र-
कालानलन्तथा । घोरकालानलं प्रोक्तं गूढकालानलं
बलम् ॥ राशिसूर्य्यसमायोगे चक्रं कालानलं मतम् ।
संघट्टकं सप्त ज्ञेयं सप्त कालानलानि च ॥ तिथिवारञ्च
नक्षत्रं त्रिधा चैव कुलाकुलम् । कुम्भचक्वं द्विधा प्रोक्तं राशि-
नक्षत्रसम्भवम् ॥ प्रस्तारञ्चक्रवेधाख्यैः प्रभेदैस्तु चरन्द्विधा ।
भूचरं स्वेचरं, पान्यं नाडीचक्रं त्रिधा मतम् ॥ कालचक्रं
फणिद्वन्द्वं सूर्य्याख्यं चन्द्रजन्तथा । कविचक्रं द्विधा प्रोक्तं
स्थानस्वाम्यृक्षपूर्ब्बकम् ॥ खलकाख्यं द्विधा चैव कृत्तिकास्थान
भादिकम् । कोटचक्राष्टकं प्रोक्तञ्चतुरस्नादिभेदतः ॥
गजमश्वं रथं व्यूहं कुन्तं खड्गं छुरीन्धुनुः । सौरिं सेवां
नरण्डिम्भम्पक्षिमार्गायवृश्चिकम् ॥ सप्तरेखोद्भवञ्चक्रं पञ्च-
रेखेन्दुभास्करम् । त्रिविध मात्रिकाचक्रं विजयं श्येनतो-
रणम् ॥ अहिलाङ्गलवीजोप्तिवर्षाख्यं सप्तनाडिकम् ।
चक्रं सांवत्सरञ्चैव स्थानचक्रं तथैव च ॥ एतानि सर्व-
चक्राणि ज्ञात्वा युद्धं समाचरेत् । जयेदिह न सन्देहो
शक्रतुल्पेऽपि भूभुजि ॥ (इति चक्रनामानि) । स्वरोदयैश्च
चक्रैश्च शत्रुर्यत्र समीऽधिकः । तत्र युद्धे बलं ज्ञेयं भूबलैर्विज-
यार्थिनाम् ॥ तेषां नामान्यहं वक्ष्ये ख्यातानां ब्रह्मयामले
चतुरशीतिसंख्यानां यद्बलेन जयी रणे ॥ उड्डी जालन्धरी
पूर्णा कामकीलैकवीरका । शिलिन्ध्री च महामारी क्षेत्र-
पाली च वंशजा ॥ रुद्रकालानला काली कालरेखा
निरामया । जयलक्ष्मीर्महालक्ष्मीर्जया विजयभैरवी ॥
बाली योगेश्वरी चण्डी जानुबन्धककर्त्तरी । शार्दूली
सिंहली तन्वी महामाया महेश्वरी ॥ देवकोटी शिवा शक्ती
धूम्रवाणा वराटिका । त्रिमुण्डा मत्सरी धर्म्माऽमृताघृष्टा-
ऽक्षया जया ॥ दुर्मती प्रवरा गौरीकाली नरहरी बला ।
खेचरी भूचरी गुह्या द्वादशी विष्टिकेवला ॥ त्रैलोक्य-
विजया शौरी कराली वड़वापरा । रौद्री च शिशुमातङ्गी
अभेद्या दहनी मता ॥ बहुबला बर्गभूमी कपाली चानिला-
नला । चन्द्रार्कबिम्बभूमी च ग्रहभूराशिलग्नगा ॥ राहु-
काला नलीभूमी स्वरभूमि र्द्विधा मता । रुद्रस्त्रिमासिकश्चैव
राहुचाष्टविधस्तथा ॥ चन्द्रः सप्तविधः सूर्य्यश्चतुर्द्धा योगिनी
त्रिधा । कालबलन्त्रिभेदञ्च तिथिनक्षत्रवारजम् ॥
इमानि भूबलान्यत्र ज्ञात्वा यः प्रविशेद्रणे । अरयस्तस्य
नश्यन्ति मेघा वातहता यथा ॥ (इति भूबलानि) । शत्रोः
समाधिके नाम्नि स्वरैश्चक्रैश्च भूबलैः । स्थानसेनाधिके शत्रौ-
बलविज्ञानसंयुते ॥ अभङ्गे चाप्यभेदे च दुःसाध्येदुर्जये-
रिपौ । जयोपायमहं वक्ष्ये मन्त्रयन्त्रादिकं बलम् ॥
रणाभिषेचनं दीक्षा रणार्चा रणकङ्कणम् । बीरपट्टं रणेपट्टं
जयपट्टस्य बन्धनम् ॥ मेखलाकवच न्यासं मुद्रारक्षां च कङ्क-
णम् । औषधन्तिलकं घण्ठागुटिकां च कपर्द्दिकाम् ॥
योगेघटितशस्त्राणि शस्त्ररक्षाय मोहनम् । शस्त्रलेपांश्च
विविधान् वाणानाम्पिच्छबन्धनम् ॥ शम्बलङ्काहलण्ढक्कां
मुरुजम्भस्वधारणम् । मारणं मोहनं स्तम्भविद्वेषोच्चाटनं
वशम् ॥ पताकापिच्छकं यन्त्रात्परविद्याविनाशम् । शान्तिकं
निजसैन्यस्य सर्वोपद्रवनाशनम् ॥ बलान्येतानि योज्ञात्वा
संग्रामं कुरुते नृपः । असाध्यस्तस्य नैवास्ति शत्रुःको पि
महीतले ॥ (बलाबलनामानि) । गणितं व्यवहारञ्च होरा-
ज्ञानं परिस्फुटम् । त्रिस्कन्धं ज्योतिषं वक्ष्ये जयचर्य्यां
स्वरोदये ॥ खेचरानयनं स्पष्टं पञ्चाङ्गं तिथिसाधनम् ।
उदयास्तमनञ्चक्रक्रान्तिं वक्ष्ये यथामति ॥ नतोन्मतप्रमाणञ्च-
भावसन्धिप्रसाधनम् । ग्रहाणां षड़्बलं वक्ष्ये राशिभावबला-
न्वितम् ॥ राशिसंज्ञाप्रभेदञ्च खेचराणां तथैव च । नॄणां
जन्मफलं वक्ष्ये ऋक्षराश्यंशलग्नजम् ॥ फलञ्चद्रार्कयोगानां
ग्रहाणां स्वोच्चनीचकम् । आयुर्द्दायं दशाश्चैव तासा-
ङ्कालप्रवेशनम् ॥ तस्माल्लग्नं ग्रहान्स्पष्टान्दशान्तर्द्दशयोः
पृष्ठ ००७४
फलम् । ग्रहवर्गाष्टकं स्पष्टं तस्माद्दिनफलं वदेत् ॥ ताजि-
काज्जन्मलग्नस्य साधनञ्च परिस्फुटम् । वर्षमासदिवालग्नन्त-
द्दशान्तत्फलन्ततः ॥ छायोत्पत्तिं त्रिधा वक्ष्ये विषुमध्ये
दिनेष्टकम् । दिनमानं दिनं भुक्तमुदयभं घटीषु च
सिद्धच्छायात्रिषष्टिञ्च दुष्टमासप्तविंशति । लग्नोदयान्-
स्वदेशीयान् तेभ्योलग्नस्य साधनम् ॥ लग्नमानन्तथा होरा-
द्रेष्काणं सप्तमांशकम् । नवांशं द्वादशं त्रिंशम् उदये
सप्तसाधनम् ॥ तिथेः प्रकरणं वक्ष्ये वारनक्षत्रयोगजम् ।
योगाख्यं करणाख्यञ्च मुहूर्त्तान् संक्रमोद्भवम् ॥ चन्द्रतारा-
बलञ्चैव पक्षभेदेन संयुतम् । शुभाशुभांश्च योगांश्च तिथि-
वारर्क्षयोगजान् ॥ सिद्धं संवर्त्तकञ्चैव तथा वारशुभा-
शुभम् । अवमन्त्रिदिनं वक्ष्ये ततो योगन्त्रिपुष्करम् ॥
यमघण्टं यमदंष्ट्रां क्रकचार्गलपातकान् । कुमारन्तरुणं
वृद्धं शूलातिशूलयोगिनीम् ॥ वारशूलन्तथा कालं
कालवेलां परिस्फुटम् । कालहोरार्द्धयामञ्च कुलिकङ्कण्टकद्वयम् ॥
फलं ग्रहस्य धिष्ण्यस्य वत्सभार्गवयोः फलम् । दशां चान्त-
र्द्दशां स्थूलां वक्रातिचारयोः फलम् ॥ पीडास्थानानि
खेटानां ग्रहावस्थां तथैवच । भावफलं सन्धिफलं
लतावेधमुपग्रहान् ॥ शीघ्रवक्रग्रहोद्देशङ्गोचरं गोचरव्यधम् ।
विवाहञ्च प्रतिष्ठाञ्च दीक्षायात्राप्रवेशनम् ॥ वास्तुदीपो-
र्द्धविन्यासं कालविंशोपकांस्तथा । जलयोगार्थकाण्डञ्च
वर्षमासदिनार्द्धकृत् ॥ तिथ्यादिपञ्चकं खेटञ्चन्द्रन्तत्काल
सम्भवम् । अवस्थान्नष्टमुष्टिञ्च लोकचिन्तां वदाम्यहम् ॥
अङ्गस्पन्दादि सर्वाणि कालचिह्नानि यानि च । दुष्ट-
रिष्टान्यहं वक्ष्ये तथा तेषाञ्च शान्तिकम् ॥ ज्योतिरङ्गमिदं
सर्वं ये जानन्ति मनीषिणः । दीपवत्तान्विजानीयान्मोहा-
न्धकारनाशने” इति ॥
गर्गसंहितायां तु चतुविंशतिसंख्यानि अङ्गानि
उपाङ्गानि चत्वारिंशदिति ज्योतिरङ्गानि चतुःषष्टिविधान्युक्तानि
यथा “यथैव वेदस्याङ्गानि षडुक्तानि मनीषिभिः । चतुःषष्टि-
स्तथाङ्गानि ज्योतिषस्य विदुर्बुधा” इत्युपक्रम्य गणितज्ञान-
पूर्ब्बकं तज्ज्ञानमावश्यकमित्युक्त्वा तद्विभागा दर्शिता यथा
“तस्मात् कृत्स्नमधीत्याग्रे वेदाङ्गं कालसाधनम् । ज्योति-
षामयनाङ्गानि चतुःषष्टिन्ततः पठेत् । येषामग्रे कर्मगुणौ
चन्द्रलग्ने त्वनन्तरम् । नक्षत्रकेन्द्रभे चैव द्विवर्गः प्रथमः
स्मृतः । राहौ वृहस्पतौ शुक्रे, धूम्रकेतौ शनैश्चरे ।
अङ्गारके बुधेऽर्के च चारानष्टौ ततः पठेत् । चक्रेष्वन-
न्तरं चक्रं मृगचव्रं तथैव च । श्वचक्रं वातचक्रं च
चक्राङ्गेषु चतुष्टयम् । वास्तुविद्याङ्गविद्या च वायसानां
तथैव च । ज्ञेयास्तिस्रस्तु विद्यैता वृद्धगर्गमताः शुभाः ।
स्वातीयोगं तथाषाढ़ारोहिण्यायोगमेव वा । एतान् कृत्स्नान्
विजानोयात् भयोगान् वै विशेषतः । रहस्यं चेतीहाङ्गानि
चतुर्विंशतिरीरिताः । अतऊर्द्ध्वं प्रवक्ष्यामि उपाङ्गानीह
नामतः । अनुपूर्व्वाद्विवानेन चत्वारिंशद्धि नामतः ।
ग्रहकोशो ग्रहयुद्धं ग्रहशृङ्गाटकं तथा । कृत्स्नं ग्रहे-
श्वराणाञ्च ग्रहपाकास्तथैव च । विपथाश्चाग्निवर्षाश्च सेना-
व्यूहस्तथैव च । मयूरचित्रोपनिषदुपहारप्रशान्तयः ।
तत्रान्तिके तुलाकोशोद्भवन्तत्रोपधारयेत् । सर्व्वभूतहितां-
चैव तथा पुष्पलतां विदुः । उपानहोस्तथा च्छेदोवस्त्र-
च्छेदस्तथैव च । कृत्स्नोभुवनकोशश्च गर्भाधानादिकं तथा
निर्घातो भूमिकम्पश्च परिवेषास्तथैव च । ऋतुस्व-
भावाः सन्त्येवं तथोल्काश्चोपधारयेत् । सांवसरस्तथा युक्तः
शास्त्राणां देशकोभवेत् । बलाबलं तु विज्ञेयं बहु यत्र
बलं वदेत् । चतुःषष्ट्यङ्गमेतत्तु संवत्सरमुदाहृतमिति” ।
एवञ्च गणितादित्रयं प्रधानाङ्गत्वात् स्कन्धसंज्ञम् अन्यानि
तु अप्रधानान्यङ्गानीति क्वचित् संक्षेपत उक्तानि, क्वचिच्च
विस्तरत इति विशेषः । गर्गोक्तविभागाभिप्रायेणैव मुद्रा-
राक्षसे “कृतपरिश्रमोऽस्मि चतुःषष्ट्यङ्गे ज्योतिषे” इति
सूत्रधारवाक्यम् । वृहत्संहितायां तु गर्गोक्तान्येव प्रायशो-
ऽङ्गानि प्रदर्शितानि तेषां स्वरूपादिकं तत्तच्छब्देवक्ष्यते ।
दृश्यकाव्ये मुखप्रतिगर्भविमर्षोपसंहृतिरूपसन्धिपञ्चकस्य
चतुःषष्टिरङ्गानि यथोक्तं साहित्यदर्पणे “उपक्षेपः परिकरः
परिन्यासो विलोभनं । युक्तिः प्राप्तिः समाधानं विधानं
परिभावना ॥ उद्भेदः करणं भेदः एतान्यङ्गानि वै मुखे” (इति
मुखस्य १२) “विलासः परिसर्पश्च विधृतं तापसं तथा । नर्म्म
नर्म्मद्युतिश्चैव तथा प्रशमनं पुनः ॥ विरोधश्च प्रतिमुखे तथा
स्यात् पर्य्युपासनम् । पुष्पं वज्रमुपन्यासो वर्ण्णसंहार इत्यपि”
(इति प्रतिमुखस्य १३) ॥ “अभूताहरणं मार्गो रूपोदाहरणं
क्रमः । संग्रहश्चानुमानञ्च प्रार्थनाक्षिप्तिरेव च ॥ त्रोटका-
धिबलोद्वेगा गर्भे स्युर्विद्रवस्तथा (इति गर्भस्य १२) ।
“अपवादोऽथ सम्फेटो व्यवसायो द्रवो द्युतिः । शक्तिः प्रसङ्गः
खेदश्च प्रतिषेधो विरोधनम् ॥ प्ररोचना विमर्षे स्यादादानं
छादनं तथा (इति विमर्षस्य १३) । “सन्धिर्विबोधो ग्रथनं
निर्ण्णयः परिभाषणम् । कृतिः प्रमाद आनन्दः समयो-
ऽप्युपगूहनम् ॥ भाषणं पूर्ब्बवाक्यञ्च काव्यसंहार एव
च । प्रशस्तिरिति संहारे ज्ञेयान्यङ्गानि नामतः”
(उपसंहारस्य १४) ॥
पृष्ठ ००७५
चतुःषष्टिविधं ह्येतदङ्गं प्रोक्तं मनीषिभिः ।
कुर्य्यादनियते तस्य सन्धावपि निवेशनम् ।
रसानुगुणतां वीक्ष्य रसस्यैव हि मुख्यता । ६ परिच्छेदे

अङ्गकर्म्मन् न० अङ्गस्य कर्म्म मर्द्दनानुलेपनादि परिकर्म ।

मर्द्दनादिदेहसंस्कारे व्यापारे ।

अङ्गग्रह पु० अङ्गस्य रोगादिना ग्रहः ६ त० । देहवेदनायाम् ।

अङ्गज पु० अङ्गात् जायते जन--ड । पुत्त्रे दुहितरि स्त्री ।

“अङ्गादङ्गं सम्भवति पुत्त्रवद्दुहिता नृणामिति” स्मृतिः ।
देहजातमात्रे त्रि० । रुधिरे न० । रोगे पु० । लोम्नि
न० । “तवोत्तरीयं करिचर्म्म साङ्गजमिति” भार० । अङ्ग-
जन्मादयोऽप्युक्तार्थे । अङ्गं मनः तस्मात् जाते कामे पु० ।

अङ्गज्वर पु० अङ्गमङ्गम् अधिकृत्य ज्वरः । राजयक्ष्मरोगे ।

“निरवोचमहं यक्ष्म अङ्गज्वरमिति” वैद्यकम् ।

अङ्गण(न) न० अगि--गतौ अङ्ग्यते गृहान्निःसृत्य गम्यते अत्र

ल्युट् पृ० वा णत्वम् । अजिरे, चत्वरे, (उठान) इति
ख्याते स्थाने “अजनि पङ्गुरपाङ्गनिजाङ्गणभ्रमिकणेऽपीति”
नैषधम् । दन्त्यनान्तत्वमपि । “प्रकटाङ्गनोपभोगाप्यख-
ण्डितचरित्रेति” काद० । अङ्गनं चत्वरमङ्गना स्त्री
चेति तदथः । करणे ल्युट् । याने ।

अङ्गति पु० अङ्गति यात्यनेन अगि--करणे अति । वाहने

स्त्रीत्वमपीत्येके वा ङीप् । अङ्ग्यते गम्यते सेवादिना
कर्म्मणि अति । ब्रह्मणि, अग्नौ च । कर्त्तरि अति ।
अग्निहोत्रिणि पु० ।

अङ्गद न० अङ्गं दायति शोधयति दै--क । (ताड़, वाजु)

इति प्रसिद्धे बाहुभूषणे । बालिपुत्त्रे--वानरे पु० ।
सच किस्किन्ध्याधिपस्य वानरराजस्य बालिनस्तारागर्भजः
पुत्त्रस्तच्चरितं रामायणे सुन्दरलङ्काकाण्डयोर्विस्तीर्णम् ।
अङ्गदानकर्त्तरि त्रि० । दक्षिणदिग्गजकरिण्यां स्त्रीत्येके ।
अङ्गं ददाति समर्पयति दा--क । अङ्गदानकर्त्तरि त्रि०
योषिति स्त्री ।

अङ्गना स्त्री प्रशस्तमङ्गमस्ति अस्याः अङ्ग + न । अङ्गसौठववत्यां

योषिति, योषिन्मात्रे च, “अङ्गना वामनस्य स्यात्” इति
हैमोक्तेः वामनदिग्गजयोषिति च ।

अङ्गनाप्रिय पु० प्री--क ६ त० । अशोकवृक्षे तत्पुष्पेण हि

स्त्रियः स्वाङ्गं भूषयन्तीति लोकसिद्धम् । योषित्प्रियमात्रे
तु त्रि० । दक्षिणदिग्गजे वामने पु० ।

अङ्गदनिर्व्यूह अङ्गदस्य केयूरस्य निर्य्यूह इव । केयूरशीर्षस्थे

चूड़ाकारेऽग्रभागे ।

अङ्गन्यास पु० अङ्गेषु हृदयादिषु मन्त्रभेदस्य न्यासः । मन्त्र-

विशेषस्य उच्चारणपूर्ब्बकं करस्पर्शेन कर्त्तव्ये तन्त्रोक्ते न्यास-
भेदे “अङ्गन्यासं करन्यासं वीजन्यासन्तथैव चेति” तन्त्रम् ।

अङ्गपालि स्त्री अङ्गं पाल्यते सम्बध्यतेऽत्र अङ्ग--पाल--इ ।

आलिङ्गने ।

अङ्गपालिका स्त्री अङ्गं देहं पालयतीति पालि--ण्वुल् ६ त० ।

(धाइ मा) इति ख्यातायाम् उपमातरि । अङ्गपालन-
कारके त्रि० ।

अङ्गप्रायश्चित्त न० अङ्गस्य देहस्य शुद्ध्यर्थं प्रायश्चित्तम् ।

अशौचेषु पञ्चशूनाजन्यदुरितक्षयार्थं कार्य्ये “दशाहात्तु
परं सम्यक् विप्रोऽधीयीतं धर्म्मवत् । “दानञ्च विधिवद्देय
मशुभात्तारकं हि तदिति” स्मृत्युक्ते दानरूपे प्रायश्चित्ते ।

अङ्गभू पु० अङ्गात् देहात् मनसो वा भवति भू--क्विप् । पुत्त्रे,

मनोजे कामे च देहमनीजातमात्रे त्रि० । “हिरण्यगर्भा-
ङ्गभुवं मुनिं हरिः” इति माघः । नारदस्य तन्मनोजातत्वात्
ब्रह्माङ्गभूत्वम् । अङ्गानामङ्गमन्त्राणां भूः । कृताङ्गन्यासे
त्रि० । “ब्रह्माङ्गभूर्ब्रह्मणि योजितात्मेति” कुमा० ।

अङ्गमन्त्र पु० अङ्गेषु हृदयादिषु षट्सु न्यास्यो मन्त्रः ।

तन्त्रोक्ते षडदीर्घभाजि मन्त्रभेदे ।

अङ्गमर्द्द पु० अङ्गं मर्द्दयति संवाहयति मृद--णिच् अच् ६ त० ।

देहसंवाहके--सेवके । अङ्गमर्द्दनकारके त्रि० । भावे
घञ् । देहमर्द्दने पु० ।

अङ्गमर्द्दक पु० अङ्गं मर्द्दयति मृद--णिच्--ण्वुल् ६ त० ।

देहसंवाहके--सेवके । देहमर्द्दनकारके त्रि० ।

अङ्गमर्द्दिन् पु० अङ्गं मर्द्दयति मृद--णिच्--णिनि ६ त० ।

अङ्गमर्दके सेवके । अङ्गमर्दनकारके त्रि० स्त्रियां ङीप् ।

अङ्गयज्ञ पु० अङ्गीभूतः प्रधानयज्ञोपकरणीभूतः यज्ञः ।

“नवग्रहमखं कृत्वा ततः कर्म्म समाचरेदि” त्युक्ते कर्म-
मात्राङ्गे ग्रहयागादौ, दर्शाद्यङ्गे समिद्यागादौ च ते च
“समिधो यजति, तनूनपातं यजति, इड़ो यजति, वर्हि-
र्यजति, स्वाहाकारं यजति, इत्येवं पञ्चविधाः । एतेषाञ्च
सकृदनुष्ठानेनैव तन्त्रन्यायेन प्रधानयागानामाग्नेयादीना-
मुपकारितेति मीमांसा । अङ्गयागादयोऽप्यत्र । “अङ्गा-
न्ययाक्षीदभितः प्रधानमिति” भट्टिः ।

अङ्गरक्त न० यु० अङ्गेऽवयवे रक्तः रन्ज--क्त ७ त० । कम्पिल्य-

देशजाते रक्तवर्णचूर्णवति (गुड़ारोचना) इति वाणिजेषु
वैद्येषु च प्रसिद्धे वृक्षभेदे । ६ ब० रक्ताङ्गमात्रे त्रि० ।

अङ्गरक्षणी अङ्गं रक्ष्यतेऽनया रक्ष--करणे ल्युट् ६ त० ङीप् ।

लौहजालमये अङ्गरक्षणसाधने वर्म्मभेदे अङ्गरक्षणसाधन-
मात्रे त्रि० । भावे ल्युट् । देहत्राणे न० ।
"https://sa.wikisource.org/w/index.php?title=वाचस्पत्यम्/अ&oldid=85272" इत्यस्माद् पुनः प्राप्तिः