वाचस्पत्यम्

पृष्ठ ००७६

अङ्गराग पु० अङ्गं रज्यतेऽनेन रन्ज--करणे घञ् । अङ्गलेपने

कुङ्कमादौ । भावे घञ् । अङ्गस्य विलेपने पु० ।

अङ्गराज पु० अङ्गानां जनपदानां राजा अच् समा० ।

अङ्गदेशाधिपे, कर्णे च तत्कथा अङ्गाधिपशब्दे दृश्या ।
अङ्गनृपादयोऽप्यत्र ।

अङ्गराज् पु० अङ्गेषु तन्नामकदेशेषु राजते राज--क्विप् ७ त० ।

अङ्गदेशाधिपे कर्णे, तद्देशराजमात्रे च ।

अङ्गरुह न० अङ्गे रोहति रुह--क्विप् ७ त० । देहजे लोमके-

शादौ । “विहङ्गराजाङ्गरुहैरिवायतैरिति” माघः ।

अङ्गलेप पु० अङ्गं लिप्यतेऽनेन लिप--करणे घञ् ६ त० ।

अङ्गरागद्रव्ये । भावे घञ् ७ त० । देहे चन्दनाद्यनुलेपने ।

अङ्गव न० अङ्गे स्वावयवे वाति अन्तर्भवति अतिशोषणात् सङ्कु-

चिताङ्गमिव भवति वा--ड ७ त० । शुष्कफले ।

अङ्गविकल त्रि० अङ्गेन विकलः । देहव्याकुलतायुक्ते ।

अङ्गविकृति पु० वि--कृ--क्तिन् अङ्गस्य विकृतिश्चालनादि-

र्यस्मात् ५ त० । (मृगीनाडा) इति ख्याते अपस्माररोगे ।
६ त० । अङ्गस्य विकारे स्त्री ।

अङ्गविक्षेप पु० वि--क्षिप--घञ् अङ्गस्य विक्षेपः चालनं यत्र

ब० । अङ्गुल्यादिविन्यासभेदेन देहचालनरूपे नृत्ये ।
तद्भेदादि यथा । “देहरुच्या प्रतीतो यस्तालमान-
समाश्रयः । सविलासोऽङ्गविक्षेपीनृत्यमित्यभिधीयते ।
ताण्डवञ्च तथा लास्यं द्विविधं नृत्यमुच्यते । पेबलि-
र्बहुरूपञ्च ताण्डवं द्विविधं मतम् । अङ्गविक्षेप
बाहुल्यं तथाभिनयशून्यता । यत्र सा पेवलिस्तस्या
देशीति नाम लोकतः । छेदनं भेदनं यत्र बहुरूपा मुखा-
बली । ताण्डवं बहुरूपन्तत् दारुणात् गलमूर्द्धतः ।
छुरितं योवतञ्चेति लास्यं द्विविधमुच्यते । यत्राभिनय-
भावाद्ये रसैराश्लेषचुम्बनैः । नायिकानायकौ रङ्गे नृत्य-
तश्छुरितं हि तत् । मधुरं बद्धलीलाभिर्नठीभिर्यत्र नृत्यते
वशीकरणविद्याभं तल्लास्यं यौवतं मतम् । गेयादुत्तिष्ठते
वाद्यं वाद्यादुत्तिष्ठते लयः । लयतालसमारब्धं ततोनृत्यंप्रव-
र्त्तते इति सङ्गीतदामोदरः । भावे घञ् । अङ्गचालने ।

अङ्गविद्या स्त्री अङ्गरूपा व्याकरणादिशास्त्ररूपा विद्या

ज्ञानसाधनम् । ज्ञानसम्पादके व्याकरणादिशास्त्रे ।
प्रश्नकाले अङ्गानां देहावयवानां चेष्टादिना शुभाशुभबोधके
ज्योतिरङ्गे शास्त्रे च । सा च विद्या वृहत्संहितायां दर्शिता
यथा “अथाङ्गान्यूर्वोष्ठस्तनवृषणपादं च दशना भुजौ
हस्तौ गण्डौ कचगलनखाङ्गुष्ठमपि यत् । सशङ्खं कक्षांस-
श्रवणगुदसन्धीति पुरुषे, स्त्रियां भ्रूनासास्फिग्वलिकटिसु-
लेखाङ्गुलिचयम् ॥ जिह्वा ग्रीवा पिण्डिके पार्ष्णियुग्मं
जङ्घे नाभिः कर्णपाली कृकाटी । वक्त्रं पृष्ठं
जत्रुजान्वस्थिपार्श्वं हृत्ताल्वक्षी मेहनोरस्त्रिकं च ॥
नपुंसकाख्यं च शिरो ललाटम् आश्वाद्यसंज्ञैर-
परैश्चिरेण । सिद्धिर्भवेज्जातु नपुंसकैर्नो रूक्षक्षतै-
र्भग्नकृतैश्च पूर्बैः ॥ स्पष्टे वा चालिते वापि पादा-
ङ्गुष्ठेऽक्षिरुग् भवेत् । अङ्गुल्यां दुहितुः शोकं शिरो-
धत्ते नृपाद्भयम् ॥ विप्रयोगमुरसि स्वगात्रतः कर्पटा
हृतिरनर्थदा भवेत् । स्यात्प्रियाप्तिरभिगृह्य कर्पटं
पृच्छतश्चरणपादयोजितुः ॥ पादाङ्गुष्ठेन विलिखेद्भूमिं
क्षेत्रोत्थचिन्तया । हस्तेन पादौ कण्डूयेत्तस्य दासीमया
च सा ॥ तालभूर्जपटदर्शनेऽंशुकं चिन्तयेत्कचतुषास्थिभस्म-
गम् । व्याधिराश्रयति रज्जुजालकं वल्कलं च समवेक्ष्य
बन्धनम् ॥ पिप्पलीमरिचशुण्ठिवारिदैर्लोध्रकुष्थवसनाम्बु
जीरकैः । गन्धमांसिशतपुष्पया वदेत् पृच्छतस्तगरकेण
चिन्तनम् । स्त्रीपुरुषदोषपीडितसर्वाध्वसुतार्थधान्यतनया-
नाम् । द्विचतुःषट्पदक्षितीनां विनाशतः कीर्त्तितैर्दृष्टैः ॥
न्यग्रोधमधूकतिन्दु कजम्बूप्लक्षाम्रबदरिजातिफलैः । धनकन-
कपुरुषलोहांशुकरूप्योदुम्बराप्तिरपि करगैः ॥ धान्यपरि-
पूर्णपात्रं कुम्भः पूर्णः कुटुम्बवृद्ध्विकरौ । गजगोशुनां
पुरीषं धनयुवतिसुहृद्विनाशकरम् ॥ पशुहस्तिमहिषपङ्कज-
रजतव्याघ्रैर्लभेत सन्दृष्टैः । अविधननिवसनमलयज
कौशेयाभरणमङ्घातम् ॥ पृच्छा वृद्धश्रावकसुपरिव्राड्
दर्शने नृभिर्विहिता । मित्रद्यूतार्थभवा गणिकानृपसूति-
कार्थकृता ॥ शाक्योपाध्यायार्हतनिर्ग्रन्थिनिमित्तनिगमकै-
वर्तैः । चौरचमूपतिबणिजां दासयोधापणस्थबध्यानाम् ॥
तापसे शौण्डिके दृष्टे प्रोषितः पशुपालनम् । हृद्गतं
पृच्छकस्य स्यादुञ्छवृत्तौ विपन्नता ॥ इच्छामि प्रष्टुं
भण पश्यत्वार्यः समादिशेत्युक्ते । संयोगकुटुम्बोत्या लाभै-
श्वर्योद्गता चिन्ता ॥ निर्दिशेति गदिते जयाध्वगा,
प्रत्यवेक्ष्य मम चिन्तितं वद । आशु सर्वजनमध्यग त्वया
दृश्यतामिति च बन्धुचौरजा ॥ अन्तःस्थेऽङ्गे स्वजन
उदितो वाह्यजे बाह्य एवं पादाङ्गुष्ठाङ्गलिकलनया
दासदासीजनः स्यात् । जङ्घे प्रेष्यो भवति भगिनी
नाभितो हृत्स्वभार्या पाण्यङ्गुष्ठाङ्गुलिचयकृतस्पर्शने
पृष्ठ ००७७
पुत्रकन्ये ॥ मातर जठरे, मूर्द्ध्नि गुरुं, दक्षिणवामकौ ।
बाहू भ्राताथ तत्पत्नी स्पृष्ट्वैवं चौरमादिशेत् ॥ अन्तरङ्ग-
मवमुच्य वाह्यगस्पर्शनं यदि करोति पृच्छकः । श्लेष्ममूत्र-
शकृतस्त्यजन्नधः पातयेत्करतलस्थवस्तु चेत् ॥ भृशमवना-
मिताङ्गपरिमोटनतीऽप्यथवा, जनधृतरिक्तभाण्डमवलोक्य च
चौरजनम् । हृतपतितक्षतास्मृतविनष्टविभग्नगतोन्मुषित-
मृताद्यनिष्टरवतो लभते न हृतम् ॥ निगदितमिदं यत्तत्
सर्वं तुषास्थिविषादिकैः सह मृतिकरं पीडार्तानां समं
रुदितक्षुतैः । अवयवमपि स्पृष्टान्तःस्थं दृढ़ं मरुदाहरेद्
अतिबहु तदा भुक्त्वान्नं संस्थितः सुहितो वदेत् ॥ ललाट-
स्पर्शनाच्छूकदर्शनाच्छालिजौदनम् । उरःस्पर्शात् षष्टि-
कान्नं ग्रीवास्पर्शे च यावकम् ॥ कुक्षिकुचजठरजानुस्पर्शे
माषाः पयस्तिलयवाग्वः । आस्वादयतश्चौष्ठौ लिहतो
मधुरं रसं ज्ञेयम् ॥ विस्पृक्के स्फोटयेज्जिह्वामम्ले वक्त्रं
विकूणयेत् । कटुतिक्तकषायोष्णैर्हिक्केत्, ष्ठीवेच्च सैन्धवे ॥
श्लेष्मत्यागे शुष्कतिक्तं तदल्पं, श्रुत्वा क्रव्यादं प्रेक्ष्य वा
मांसमिश्रम् । भ्रूगण्डौष्ठस्पर्शने शाकुनं तद् भुक्तं तेने-
त्युक्तमेतन्निमित्तम् ॥ मूर्धगलकेशहनुशङ्खकर्णजङ्घं वस्तिं
च स्पृष्ट्वा । गजमहिषमेषशूकरगोशशमृगमांससयुग्भुक्तम् ॥
दृष्टे श्रुतेऽप्यशकुने गोधामत्स्यामिषं वदेद्भुक्तम् । गर्भिण्या-
गर्भस्य च निपतनमेवं प्रकल्पयेत्प्रश्ने ॥ पुंस्त्रीनपुंसकाख्ये
दृष्टेऽनुमिते पुरःस्थिते स्पृष्टे! तज्जन्म भवति पानान्न-
पुष्पफलदर्शने च शुभम् ॥ अङ्गुष्ठेन भ्रूदरं वाङ्गुलिं वा
स्पृष्ट्वा पृच्छेद्गर्भचिन्ता तदा स्यात् । मध्वाज्याद्यैर्हेमरत्न-
प्रबालैरग्रस्थैर्वा मातृधात्न्यात्मजैश्च ॥ गर्भयुता जठरे करगे
स्याद् दुष्टनिमित्तवशात्तदुदासः । कर्षति तज्जठरं यदि
पीठो त्पीड़नतः करगे च करेऽपि । घ्राणाया दक्षिणेद्वारे
स्पृष्टे मासोत्तरं वदेत् । वामे द्वौ कर्ण एवं मा द्विच-
तुर्घ्नः श्रुतिस्तने ॥ वेणीमूले त्रीन् सुतान् कन्यके द्वे
कर्णे पुत्रान् पञ्च हस्ते त्रयं च । अङ्गुष्ठान्ते पञ्चकं
चामुपूर्व्या पादाङ्गुष्ठे पार्ष्णियुग्नेऽपि कन्याम् ॥ सव्या-
सव्योरुसंस्पर्शे सूते कन्यासुतद्वयम् । स्पृष्टे ललाटमध्यान्ते
चतुस्त्रितनयान् वदेत् ॥ शिरोललाटभ्रूकर्णगण्डहनुरदा
गलम् । सव्यापसव्यस्कन्धश्च हस्तौ चिबुकनालकम् ॥
उरः कुचं दक्षिणमप्यसव्यं हृत् पार्श्वमेबं जठर कटिश्च ।
स्फिक् पायुसन्ध्यू रुयुगं च जानू जङ्घे च पदाविति कृत्ति-
कादौ ॥ इति निगदितमेतद्गात्रसंस्पर्शलक्ष्म प्रकटमभि-
मताप्त्यै वीक्ष्य शास्त्राणि सम्यक् । विपुलमतिरुदारो
वेत्ति यः सर्वमेतन्नरपतिजनताभिः पूज्यतेऽसौ सदैव ॥
इति वृहत्संहितायामङ्गविद्या प्रकरणम् । “वास्तुविद्या-
ङ्गविद्या चेति” गर्गः । अङ्गविद्याया व्याख्यानो ग्रन्थः
ऋगयना० अण् । आङ्गविद्यस्तद्व्याख्यानग्रन्थे ।

अङ्गविधि पु० अङ्गस्य प्रधानोपकारिणः विधिः विधानम् ।

गुणविध्यपरपर्य्याये विधिभेदे । तथाहि इष्टसाधनता-
कार्य्यत्वादिबोधकवाक्यं विधिः । स च प्रमाणान्तरैर-
प्राप्तस्यैव बोधकतयोत्पत्तिविधिः “विधिरत्यन्तमप्राप्तौ”
इत्युक्तेः । तथा च प्रमाणान्तराप्राप्तकर्म्मणि इष्टसाधनता-
कार्य्यतादिबोधकं वाक्यं प्राथमिकप्रवृत्तिजनकप्रतीतिजन-
कत्वात् उत्पत्तिविधिः । यत्र तु प्राप्तस्यैव कर्म्मणी-
ऽनुवादेन तस्य द्रव्यदेवतादौ इष्टसाधनतादिकं बोध्यते
सोऽयमङ्गविधिः सच स्वविषये प्राथमिकप्रवृत्तिजनकप्रतीति-
जनकत्वात् विधिरेव । किन्तु प्रधानविधिविधेयकर्म्मणी-
ऽङ्गबोधकतया अङ्गविधिरित्येव विशेषः यथा, अग्निहोत्रं
जृहोतीत्युत्पत्तिविधिवाक्येन प्राप्तस्याग्निहोत्रस्य
गुणविधानाय प्रवृत्तं दध्ना जुहोतीति वाक्यं प्राप्ताग्नि-
होत्रानुवादेन दधिकरणत्वमात्रं बोधयत् दध्नि इष्ट
साधनताबोधनेन तत्र प्रवर्त्तयतीति दध्ना जुहोतीति वाक्यं
गुणविधिरङ्गविधिरिति च उच्यते । एवमन्यान्युदाहा-
र्य्याणि । तच्चाङ्गं क्वचित् कालः क्वचित् द्रव्यं क्वचित्
देवतादि इति नानाविधम् अतएवोक्तं “कार्म्मासन्निहितं
नैव बुद्धौ विपरिवर्त्तते । शब्दात्तु तदुपस्थानमुपादेये गुणो-
भवेदिति” भट्टैः । विवृतञ्चैतत् रघुनन्दनेन प्रमाणान्तरा-
सन्निहितं कर्म प्रथमं बुद्धौ न विषयीभवति प्राथमिकी
शब्दादेव तस्य कर्मण उपस्थितिरिति उपादेये विधेये
कर्म्मणि तिथ्यादिर्गुण इति” ।

अङ्गवैकृत न० विकृतस्य भावः विकृत + अण् अङ्गेन अङ्ग-

चेष्टया वैकृतं हृदयभावो ज्ञाप्यते यत्र बहु० । आकार
इति ख्यातायाम्--हृदयगतभावावेदेकचेष्टायाम् । ६ त० ।
अङ्गस्य विकारे न० ।

अङ्गवैगुण्य न० अङ्गस्य प्रधानोपकारिणः वैगुण्यमन्यथाकरणम् ।

प्रधानकर्म्माङ्गीभूतद्रव्यादेरन्यथाकरणे यद्दोषनिवारणार्थं
विष्णुस्मरणं कर्त्तव्यतया विहितं “यदमाङ्गं कृतं कर्म्म
जानता वाप्यजानता साङ्गं भवतु तत् सर्वं हरेर्नामानु-
कीर्त्तनादिति” स्मृतिः । अतएव श्राद्धादिपद्धतौ कर्म्मान्ते
यत् किञ्चिदङ्गवैगुण्यं जातं तद्दोषप्रशमनाय विष्णुस्मरणमहं
करिष्ये इत्यभिलापवाक्यम् ।
पृष्ठ ००७८

अङ्गशुद्धि स्त्री शुद्ध्यतेऽनया इति शुध--करणे क्तिन् ६ त० ।

स्नानादौ देहसंस्कारसाधने । भावे क्तिन् । देहशोधने ।

अङ्गस् न० अनज--असुन् कुत्वञ्च । पक्षिणि इत्युज्ज्वलदत्तः ।

अङ्गसंस्कार पु० अङ्गं संस्क्रियतेऽनेन सम्--कृ + करणे घञ्

सुट् । देहसंशोधनादिसंस्कारकारणे स्नाने गोधूमचूर्णा-
दिनाङ्गमर्द्दने च । भावे घञ् ६ त० । अङ्गस्य संस्कारे
विलेपनादौ । अङ्गं सस्करोति सम् + कृ--कर्त्तरि अण्
६ त० । देहसंस्कारके नरमात्रे त्रि० ।

अङ्गसंस्क्रिया स्त्री ६ त० । अङ्गसंस्कारे ।

अङ्गस्पर्श पु० अङ्गस्य अशौचिदेहस्य इतरैः स्पर्शस्तद्योगता ।

इतरकर्त्तृकस्पर्शयोग्यतायाम् । अशौचिनाम् देहस्पर्शनिषेधे
“चतुर्थेऽहनि कर्त्तव्यमस्थिसञ्चयनं द्विजैः । ततः
सञ्चयनादूर्द्ध्वमङ्गस्पर्शो विधीयते” इति दक्षस्मृतौ चतुर्थ-
दिवसे अशौचिदेहस्य स्पर्शयोग्यताभिधानात् चतुर्थदिवसे
देहस्पर्शयोग्यता । एतच्च “यावद्गोत्रमसंस्पृश्य” मित्याद्युक्त-
व्यतिरिक्तविषयं महागुरुनिपाते पुत्रादिभिन्नविषयञ्च
तच्चाङ्गास्पृश्यत्वशब्दे वक्ष्यते ।

अङ्गहार पु० अङ्गं ह्रियते चाल्यतेऽत्र हृ--आधारे घञ् ६ त० ।

अङ्गुल्यादिविन्यासभेदेन नृत्ये । तच्चाङ्गविक्षेपशब्दे दर्शि-
तम् । भावे घञ् ६ त० । अङ्गस्य हरणमात्रे पु० ।

अङ्गहानि स्त्री अङ्गस्य प्रधानोपकारिणः कर्म्मणः हानिः

प्रधानकर्म्मोपयोगिनः गुणादेरन्यथा सम्पादनेऽसम्पादने च ।
“दैवाद् भ्रमात् प्रमादाच्चेदङ्गहानिः प्रजायते ।
स्मरणादेव तद्विष्णोः संपूर्णं स्यादिति श्रुतिरिति” पुरा० ।

अङ्गहारि पु० अङ्गानि ह्रियन्ते अत्र हृ--बा० णि । अङ्ग-

हारार्थे स्थले रङ्गभूमौ ।

अङ्गहीन त्रि० अङ्गेन हीनम् । साधनीभूतद्रव्यकालाद्यङ्ग-

करणशून्ये कर्म्मणि “अङ्गहीनं क्रियाहीनं विधिहीनञ्च
यद् भवेत् । सत् सर्व्वं पूर्णतामेतु भास्करस्य प्रसादतः”
इति स्मृतिः । “अङ्गहीनो दहेद्राष्ट्रं मन्त्रहीनस्तु ऋत्वि-
जम् । यजमानमदक्षिण्यो नास्ति यज्ञसमो रिपुः” इति
पुरा० । विकले, छिन्नदेहे च त्रि० । अङ्गेन देहेन हीनः
रहितः । कामे पु० । तस्यानङ्गत्वात्तत्त्वम् । अङ्गं हीनं
यथोचितप्रमाणादल्पं यस्य । हस्तपादाद्यववयवस्य
यथोचितपरिमाणाभावयुक्ते त्रि० । “धान्यचौरोऽङ्गहीनत्वमा-
तिरेक्यञ्च मिश्रक इति” मनुः । वा परनिपातेऽहीनाङ्गो-
ऽप्यत्रार्थे । अङ्गस्य हीनतायां कारणमुक्तं सुश्रुते ।
“द्विहृदयाञ्च नारीं दौहृदिनीमाचक्षते । दौहृदविमान-
नात् कुब्जं कुणिं खञ्जं जडं वामनं विकृताक्षमनक्षं वा
नारी सुतं जनयति । तस्मात् सा यद्यदिच्छेत्तत्तस्यै
दापयेत् । लब्धदौहृदा हि वीर्य्यवन्तं चिरायुषञ्च पुत्त्रं
नजयति ॥ भवन्ति चात्र ॥ इन्द्रियार्थांस्तु यान्यान् सा भोक्तु-
मिच्छति गर्भिणी । गर्भाबाधभयात्तांस्तान् भिषगाहृत्य
दापयेत् । सा प्राप्तदौहृदा पुत्त्रं जनयेत गुणान्थितम् ।
अलब्धदौहृदा गर्भे लभेतात्मनि वा भयम् ॥ येषु येष्वि-
न्द्रियार्थेषु दौहृदे वै विमानना । जायेत तत् सुतस्यार्त्ति-
स्तस्मिंस्तस्मिंस्तथेन्द्रिये” इति ॥

अङ्गाङ्गिभावः पु० अङ्गस्य अङ्गिनश्च भावः । गौणमु-

ख्यभावे उपकार्य्योपकारकभावे च यथा दर्शादीन् प्रति
प्रयाजादीनामङ्गत्वं, प्रयाजदींश्च प्रति दर्शादीनामङ्गित्वम् ।
“अङ्गाङ्गिभावमज्ञात्वा कथं सामर्थ्यमन्वय” इति च मीमा० ।

अङ्गाधिप पु० अङ्गस्य देशभेदस्य अधिपः । अङ्गदेशाधिपे

प्रसिद्धतया कर्णे तस्य तद्राज्यप्राप्तिः भारते आ० ।
“यद्ययं फाल्गुनो युद्धे नाराज्ञा योद्धुमिच्छति । तस्मादेषो-
ऽङ्गविषये मया राज्येऽभिषिच्यते ॥ वैशम्पायन उवाच ।
ततस्तस्मिन् क्षणे कर्णः सलाजकुसुमैर्घटैः । काञ्चनैः
काञ्चने पीठे मन्त्रविद्भिर्महारथः । अभिषिक्तोऽङ्गराज्ये
स श्रिया युक्तो महाबल इति सच देशः मगधदेशस्थगिरि-
ब्रजात् सन्निकृष्टः पूर्ब्बस्यां दिशि स्थितः । सभापर्व्वणि
मगधदेशवर्णने गिरिव्रजमुपवर्ण्य “अङ्गवङ्गादयश्चैव राजानश्च
महाबलाः । गौतमाश्रममभ्येत्य रमन्तेस्म पुरार्जुनेति”
अङ्गवङ्गनृपाणां सन्निकृष्टत्वमुक्तम् । भीमप्राच्यदिग्विजये च
“विजित्य युधि कौन्तेयो मागधानभ्ययाद्बली ॥ दण्डञ्च
दण्डधारञ्च विजित्य पृथिवीपतीन् । तैरेव सहितः सर्व्वै-
र्गिरिब्रजमुपाद्रवत् । जारासन्धिं सान्त्वयित्वा करे च
विनिवेश्य ह । तैरेव सहितः सर्व्वैः कर्णमभ्यद्रवद्बली ॥
स कम्पयन्निव महीं बलेन चतुरङ्गिणा । युयुधे पाण्डव-
श्रेष्ठः कर्णेनामित्रघातिना ॥ स कर्णं युधि निर्ज्जित्य वशे
कृत्वा च भारत । ततो विजिग्ये बलवान् राज्ञः पर्व्वत-
वासिनः ॥ अथ मोदागिरौ चैव राजानं बलवत्तरम् ।
पाण्डवो वाहुवीर्य्येण निजघान महामृधे इति” ॥ एवञ्च
गिरिव्रजात् पूर्ब्बं मोदागिरेः पश्चात् स देशः । वृहत्-
संहितायान्तु तस्य भारतवर्षे आग्नेय्यां स्थितिरुक्ता । यथा
“अग्नेय्यां दिशि कोशल कलिङ्गवङ्गोपवङ्गजठराङ्गा” इति ।
अङ्गस्य ज्योतिःशास्त्रोक्तलग्नस्य अधिपः । लग्नाधिपे पु० ।
“अङ्गाधिपे बलनि सर्व्वविभूतिसम्पदिति” ज्योति० ।
पृष्ठ ००७९

अङ्गाधीश पु० ६ त० । अङ्गदेशाधिपे कर्णे लग्नाधिपे च

“अङ्गाधीशः स्वगेहे बुधगुरुकविभिः संयुत” इति
जातकम् । अङ्गाधीश्वरादयोऽप्यत्र ।

अङ्गार अस्त्री० अङ्ग--आरन् । अर्द्धदग्धे--अग्निसंक्रान्ते

अग्निशून्ये वा (आङार) इति प्रसिद्धे काष्ठखण्डे । “घृत-
कुम्भसमा नारी तप्ताङ्गारसमः पुमानिति” “ज्वलदङ्गार-
सन्निभमिति” “अङ्गारे शतधौतेऽपि मालिन्यं नैव
गच्छतीति” । “उष्णो दहति चाङ्गारः शीतः कृष्णायते
करमिति” च पुरा० । “असौ वावादित्योऽग्निर्दिशो-
ऽङ्गारा” इति छा०ब्रा० । “व्यङ्गारे भुक्तवज्जने” इति
स्मृतिः । “अङ्गिरा अङ्गार” इति यजु० । “येऽस्याङ्गारा
आसंस्तेऽङ्गिरसोऽभवन्निति” ऐत० ब्रा० । भौमग्रहे पु०
रक्तवर्णे न० तद्वति त्रि० । पाशा० यत् अङ्गार्य्या स्त्री तत्सङ्घे ।

अङ्गारक अस्त्री अङ्गार + स्वार्थे कन् । अङ्गारे “अङ्गारकस्त्वव-

न्त्याञ्चेति” पुरा० । “अष्टावङ्गारके तथेति” ज्योतिषम् ।
“अङ्गारके कुमारञ्चबुधे नारायणं तथेति” पुरा० । अस्य
चारो यथा
“यद्युदयर्क्षाद्वक्रं करोति नवमाष्टमसप्तमर्क्षेषु । तद्वक्रमुष्ण-
मुदये पीडाकरमग्निवार्त्तानाम् ॥ द्वादशदशमैकादशनक्ष-
त्राद्वक्रितः कुजोऽश्रुमुखम् । दूषयति रसानुदये करोति
रोगानवृष्टिं च ॥ व्यालं त्रयोदशर्क्षाच्चतुर्दशाद्वा विपच्यते
ऽस्तमये । दंष्ट्रिव्यालमृगेभ्यः करोति पीडां सुभिक्षं च ॥
रुधिराननमिति वक्रं पञ्चदशात् षोड़शाच्च विनिवृत्ते
तत्कालं मुखरोगं सभयं च सुभिक्षमावहति ॥ असिमुशलं
सप्तदशादष्टादशतोऽपि वा तदनु वक्रे । दस्युगणेभ्यः
पीडां करोत्यवृष्टिं सशस्त्रभयम् ॥ भाग्यार्यमोदितो यदि
निवर्त्तते वैश्वदैवते भौमः । प्राजापत्येऽस्तमितस्त्रीनपि
लोकान्निपीड़यति ॥ श्रवणोदितस्य वक्रं पुष्ये मूर्धाभि-
षिक्तपीडाकृत् । यस्मिन्नृक्षेऽभ्युदितस्तद्दिग्व्यूहान् जनान्
हन्ति ॥ मध्येन यदि मघानां गतागतं लोहितः करोति
ततः । पाण्ड्यो नपो विनश्यति शस्त्रोद्योगाद्भयमवृष्टिः ॥
भित्त्वा मघां विशाखां भिन्दन् भौमः करोति दुर्भिक्षम् ।
मरकं करोति घोरं यदि भित्त्वा रोहिणीं याति ॥
दक्षिणतो रोहिण्याश्चरन् महीजोऽर्घवृष्टिनिग्रहकृत् ।
धूमायन् सशिखो वा विनिहन्यात् पारियात्रस्थान् ॥
प्राजापत्ये श्रवणे मूले तिसृषूत्तरासु शाक्रे च । विचरन्
घननिवहानामुपघातकरः क्षमातनयः ॥ चारोदयाः
प्रशस्ताः श्रवणमघादित्यमूलहस्तेषु । एकपदाश्विविशाखा-
प्राजापत्येषु च कुजस्य ॥ विपुलविमलमूर्त्तिः किंशुकाशोक
वर्णः स्फुटरुचिरमयूखस्तप्तताम्रप्रभाभः । विचरति यदि
मार्गं चोत्तरं मेदिनीजः शुभकृदवनिपानां हार्त्तिदश्च
प्रजानाम् ॥” इति वृहत्संहिता ।
तस्य भक्तिदेशादि ग्रहभक्त्यध्याये तत्रैवोक्तं यथा
“शोणस्य नर्मदाया भीमरथायाश्च पश्चिमार्धस्थाः ।
निर्विन्ध्या वेत्रवती सिप्रा गोदावरी वेणा ॥ मन्दा-
किनी पयोष्णी महानदी सिन्धुमालतीपाराः । उत्तर
पाण्ड्यमहेन्द्राद्रिविन्ध्यमलयोपगाश्चोलाः ॥ द्रविडविदेहा
न्ध्राश्मकभासापुरकौङ्कणाः समन्त्रिशकाः । कुन्तलकेरल-
दण्डककान्तिपुरम्लेच्छसङ्करजाः ॥ नासिक्यभोगवर्धन-
विराटविन्ध्याद्रिपार्शगा देशाः । ये च पिबन्ति सुतोयां
तापीं ये चापि गोमतीसलिलम् ॥ नागरकृषिकरपारत-
हुताशनाजीविशस्त्रवार्त्तानाम् । आटविकदुर्गकर्वटबधक-
नृशंसावलिप्तानाम् ॥ नरपतिकुमारकुञ्जरदाम्भिकडिम्भा-
भिघातपशुपानाम् । रक्तफलकुसुमविद्रु मचमूपगुडमद्य-
तीक्ष्णानाम् ॥ कोशभवनाग्निहोत्रिकधात्वाकरशाक्यभिक्षु-
चौराणाम् । शठदीर्घवैरबह्वाशिनां च वसुधासुतोऽधिपतिः”
इति । अङ्गारमिव इवार्थेकन् । रक्तवर्णत्वात् कुरण्टकवृक्षे,
(भीमराज) इति ख्याते--भृङ्गराजवृक्षे च पु० । अल्पार्थे
कन् । विस्फुलिङ्ग इति विख्याते--अङ्गारक्षुद्रांशे न० ।
“दूर्वा लाक्षा हरिद्रे द्वे मञ्जिष्ठा सेन्द्रवारुणी । वृहती सैन्धवं
कुष्ठं रास्ना मांसी शतावरी । आरनालाढकेनैव तैलप्रस्थं
विपाचयेत् । तैलमङ्गारकं नाम सर्वज्वरविनाशनमिति”
चक्रदत्तवैद्यकोक्ते तैलभेदे न० ।

अङ्गारकारिन् त्रि० अङ्गारं करोति कृ--णिनि । काष्ठं दुग्ध्वा विक्रयार्थमङ्गारकारके ।

अङ्गारकमणि पु० अङ्गारकस्यप्रियः मणिः । प्रबाले तस्य

च रक्तवर्ण्णत्वात् तत्प्रियत्वं “माणिक्यं भास्करे
देयं चन्द्रे मुक्तां प्रदापयेत् प्रबालञ्च कुजे दद्या” दित्यादिना
तत्कृताशुभप्रतीकाराय प्रबालदानोक्तेः तत्प्रियत्वम् ।

अङ्गारकुष्ठक पु० अङ्गारवर्णं कुष्ठमिव कन् । हितावलीनाम-

कौषधिभेदे ।

अङ्गारधानी स्त्री अङ्गाराणि धीयन्तेऽस्याम् धा--आधारे

ल्युट् ङीप् । (आङठा) इति ख्याते अङ्गाराधान-
पात्र्याम् स्वार्थे कन् । अङ्गारधानिकाप्यत्रैव ।

अङ्गारपरिपाचित न० अङ्गारेण (ज्वलदग्निव्याप्तकाष्ठखण्डेन)

परिपाच्यते परि + पच--स्वार्थे णिच्--क्त ३ त० । (कवाव)
इति प्रसिद्धे--पक्वमांसादौ ।
पृष्ठ ००८०

अङ्गारपर्ण्ण न० अङ्गारमिव पर्णमस्य । वनभेदे । अस्त्यर्थे

अच् । तत्स्वामिनि चित्ररथगन्धर्व्वे पु० । भारते
चैत्ररथे प० । चित्ररथगन्धर्वस्य अर्ज्जुनादीन् प्रति उक्तिः ।
“आरात्तिष्ठत मा मह्यं समीपमुपसर्पत । कस्मान्मां
नाभिजानीत प्राप्तं भागीरथीजलम् । अङ्गारपर्णं
गन्धर्व्वं वित्त मां स्ववनाश्रयम् । अहं मानी तथेर्षुश्च
कुवेरस्य प्रियः सखा । अङ्गारपर्णमित्येवं ख्यातं चेदं वनं
ममेति” ।

अङ्गारपात्री स्त्री ६ त० अङ्गारधान्याम् (आङ्टा) इति ख्यातपात्रे ।

अङ्गारपुष्प पु० अङ्गारमिव लोहितवर्णं पुष्पं यस्य ब० ।

(जिँयापुति) इति ख्याते इङ्गुदीवृक्षे ।

अङ्गारमञ्जरी स्त्री अङ्गारा रक्तवर्णा मञ्जरी ब० समासान्त-

कबभावाह्रस्वत्वे संज्ञात्वात् । (करम्चा) इति ख्याते
रक्तकरञ्जवृक्षे ।

अङ्गारवल्ली स्त्री अङ्गारा इव रक्तफलत्वात् रक्तावल्ली कर्म्म० ।

रक्तवर्णफलयत्याम् (कुँच) इति प्रसिद्धायाम् गुञ्जालतायां
करञ्जवृक्षे च । स्वार्थे कन् । अङ्गारवल्लिका तत्रैव ।

अङ्गारवेणु पु० अङ्गारवर्णोवेणुः । वंशभेदे । तज्जाते ठक् अनुश-

तादि० द्विपदवृद्धिः । आङ्गारवैणुकं, तज्जाते त्रि० ।

अङ्गारशकटी स्त्री शक्नोति वोढुं शकटम्, अल्पं शकटं,

शकटी, घष्ट्यादिवत् अल्पार्थे ङीप् अङ्गारस्य शकटी ६ त० ।
(आङ्टा) (धुनाचीति) च प्रसिद्धे अङ्गाराधारे पात्रभेदे ।

अङ्गारावक्षेपण न० अङ्गारमवक्षिप्यतेऽनेन करणे ल्युट् ।

अङ्गारक्षेपणसाधने पात्रे । भावे ल्युट् । अङ्गारक्षेपणे ।

अङ्गारि स्त्री अङ्गार + मत्वर्थे ठन् पृषोदरादित्वात् कलोपः ।

अङ्गाराधारे (आङ्टा) इति प्रसिद्धे पात्रभेदे ।

अङ्गारिका स्त्री अङ्गार विद्यतेऽस्याः अङ्गार + मत्वर्थे ठन्

टाप् । (आङ्टा) इति ख्याते अङ्गारपात्रे ।

अङ्गारिणी स्त्री० अङ्गार + मत्वर्थे इनि । अङ्गारधानिकायाम्

(आङ्टा इति) ख्याते पात्रे । अङ्गारवति त्रि० ।

अङ्गारित पु० अङ्गारमिवाचरतीति अङ्गार + क्विप् ततः कर्त्तरि

क्त । पलाशकलिकायाम् । अङ्गारं करोतीत्यर्थे णिचि
कर्म्मणि क्त, अङ्गार + तारका० इतच् वा । दग्धप्राये
काष्ठादौ त्रि० ।

अङ्गारीय त्रि० अङ्गारेभ्य एतानि प्रकृतिरूपार्थे अङ्गार + छ । अङ्गारप्रकृतिभूते काष्ठादौ ।

अङ्गिका स्त्री अङ्गम् आच्छादयति अङ्ग + इनि--स्वार्थे कन्

स्त्रियां टाप् । (आङ्राखा) इति प्रसिद्धे कञ्चुकवस्त्रे ।

अङ्गिन् त्रि० अङ्ग + इनि । अवयवविशिष्टे, देहवति च ।

“येनाङ्गविकार इति” सूत्रस्य “येनाङ्गेन विकृतेनाङ्गिनो-
विकार इति” वृत्तिः । अङ्गिनं नाङ्गबाधेन हन्यादपि
कदाचनेति” मीमा० । प्रधाने, “एकएव भवेदङ्गी शृङ्गारो
वीर एव वेति” “ये रसस्याङ्गिनो धर्म्माः शौर्य्यादय
इवात्मन इति” च साहि० ।

अङ्गिरस् पु० अङ्गति अगि--गतौ असि इरुट् । ब्रह्मणोमानस-

पुत्रे स्वनामख्याते मुनिभेदे । भारते वन० मार्क०
“ब्रह्मणो मानसाः पुत्त्रा विदिताः षण्महर्षयः मरीचि-
रत्र्यङ्गिसौ पुलस्त्यः पुलहः क्रतुः” इति
“त्वमग्ने प्रथमोऽङ्गिरा ऋषिर्देवानामिति” श्रुतौ अग्ने-
रङ्गिरस्त्वमुक्तं तत्कथा भारते वन० मार्क० ।
“यदा क्रुद्वो हुतवहस्तपस्तप्तुं वनं गतः ॥ तदा च
भगवानग्निः स्वयमेवाङ्गिराभवत् । सन्तापयंश्च प्रभया नाशयं
स्तिमिराणि च ॥ पुराङ्गिरा महावाहो! चचार तप उत्त-
मम् । आश्रमस्थो महाभागो हव्यवाहं विशेषयन् ।
तथा स भूत्वा तु तदा जगत् सर्व्वं व्यकाशयत् ॥ तपश्चरं-
स्तु हुतभुक् सन्तप्तस्तस्य तेजसा । भृशं ग्लानश्च तेजस्वी
न स किञ्चित् प्रजज्ञिवान् ॥ अथ सञ्चिन्तयामास
भगवान् हव्यवाहनः । अन्योऽग्निरिह लोकानां ब्रह्मणा
संप्रकल्पितः ॥ अग्नित्व विप्रनष्ट हि तम्पमानस्य मे
तपः । कथमग्निः पुनरहं भवेयमिति चिन्त्य सः ।
अपश्यदग्निवल्लोकांस्तापयन्त महामुनिम् ॥ सोऽपासर्प-
च्छनैर्भीतस्तमुवाच तदाङ्गिराः । शीघ्रमेव भवस्याग्निस्त्वं
पुनर्लोकभावनः । विज्ञातश्चासि लोकेषु त्रिषु संस्थान-
चारिषु ॥ त्वमग्निः प्रथमं सृष्टो ब्रह्मणा तिमिरापहः ।
स्वस्थानं प्रतिपद्यस्व शीघ्रमेव तमोनुद! ॥ अग्निरुवाच ।
नष्टकीर्त्तिरहं लोके भवान् जातो हुताशनः । भवन्त-
मेव ज्ञास्यन्ति पावकं न तु मां जनाः ॥ निक्षिपाम्यह-
मग्नित्वं त्वमग्निः प्रथमो भव । भविष्यामि द्वितीयोऽहं
प्रजापत्यक एव च ॥ अङ्गिरा उवाच । कुरु पुण्यं
प्रजासर्गं भवाग्निस्तिमिरापहः । माञ्च देव! कुरुष्वाग्ने!
प्रथमं पुत्त्रमञ्जसा ॥ मार्कण्डेय उवाच । तच्छुत्वाङ्गिरसो
वाक्यं जातवेदास्तथाकरोत् । राजन् वृहस्पतिर्नाम
तस्याप्यङ्गिरसः सुतः इति” ॥
तस्य च यथा अग्निपुत्त्रत्वं येन येन रूपेण च आविर्भाव-
स्तथोक्तमग्निशब्दे । अग्नौ च । “शिवो भव प्राजापत्यो
मानुषीभ्यामङ्गिरः इति य० अङ्गिरोमिः ऋषिभिः
सम्पादितत्वात् अङ्गसौष्ठवाद्वा अङ्गिरा अग्निरूपः
पृष्ठ ००८१
हे अङ्गिरः! अग्निरूपेति” वेददीपः । अङ्गिरसः गोत्रा-
पत्यम् शिवा० अण् । आङ्गिरसः बहुषु लुक् ।
अङ्गिरसस्तद्गोत्रापत्ये ब० व० । “सर्व्वे सान्ता अदन्ताः
स्युः” इत्युक्तेः पृ० सलोपे अङ्गिरशब्दोऽप्यत्र,
“येनानवग्वे अङ्गिरे” इति वेदः । मन्वत्रिविष्णुहारीत
याज्ञवल्क्योशनोऽङ्गिरा इति याज्ञ्य० “एवं त्यक्त्वा शरीरं
तु परमे तपसि स्थितः । भृग्वङ्गिरादिभिर्भूयस्तप-
साप्यायितस्तदेति” भार० ।

अङ्गिरस्वत् पु० अङ्गिरा अग्निः सहायत्वेन विद्यतेऽस्य मतुप्

मस्य वः सान्तत्वात् न पदत्वम् । वायौ “यमाय त्वाङ्गिर-
स्वते पितृमाते स्वाहेति” यजुः । “अङ्गिरोयुक्ताय वाता-
येति” वेददीपः ।

अङ्गीकार पु० अनङ्गम् अस्वोपकरणं अस्वकीयम् अङ्गं क्रियते

अङ्ग + च्वि + कृ--घञ् । स्वीकारे अभ्युपगमे । “अङ्गीकुरु
दृशोर्भङ्गीमङ्गीभवतु मन्मथ” इति “नवाङ्गी कुरङ्गीदृगङ्गी-
करोत्विति” जगन्नाथः । “अङ्गीकुर्वन् स्वमाहात्म्यं भृशं
जज्वाल पावक” इति पुरा० ।

अङ्गीकृत त्रि० अङ्गीति च्व्यन्तं तत्पूर्ब्बकात् कृञः क्त ।

स्वीकृते “अङ्गीकृतं सुकृतिनः परिपालयन्ती” तिचौरपञ्चा-
शिका । “नाङ्गीकृतमुत्सृजन्तीति” नीतिसा० ।

अङ्गु पु० अगि--उन् । पाणौ हस्ते “अङ्गुष्ठः” ।

अङ्गुरि(री) स्त्री अङ्ग--उलि--रलयोरेकत्र स्मरणात्

रत्वम् । (आङ्गुल) इति प्रसिद्धायाम् हस्तपादशाखायाम्
वा ङीप् । अत्रैवार्थे “अङ्गुरीवोरगक्षतेति” रघुः ।

अङ्गुरीय न० अङ्गुरौ भवम् अङ्गुरि + छ बालमूलादित्वात्

वा लत्वाभावः । अङ्गुलिभूषणे (आङ्गुटीति) प्रसिद्धे ।

अङ्गुरीयक न० अङ्गुरीय + स्वार्थे कन् । अङ्गुलिभूषणे (आङ्गु-

टीति) ख्याते भूषणभेदे ।

अङ्गुल पु० अङ्ग--उल । हस्तपदशास्वायाम् (आंगुल) इति

ख्यातायाम् । वात्स्यायनमुनौ च । “यवोदरैरङ्गुलमष्टसंख्यै-
रिति” भास्कराचार्य्योक्ते अष्टयवोदरपरिमाणेतु न० । अङ्गौ
पाणौ लीयते वा ड । अङ्गुष्ठे न० । “समन्तादङ्गुलोत्सेधं
हस्तमात्रं तु स्थण्डिलमिति” पुरा० ।

अङ्गुलि स्त्री अङ्ग--उलि । हस्तपदशाखायाम् (आङ्गुल)

इति ख्यातायाम् । अङ्गुलिं ग्रन्थिभेदस्य छेदयेत् प्रथमे
ग्रहे” इति स्मृतिः (हात शुडा) इति ख्याते गजकर्णि-
कावृक्षे, गजशुण्डाग्रे च । पुंस्त्वमपि “संवृताधरोष्ठमङ्गु-
लिनेति” शकु० ।

अङ्गुलितोरण न० अङ्गुलेः तोरणमिव कृतम् । चन्द-

नादिद्वारा कृते ललाटस्थार्द्धचन्द्राकृतितिलके ।

अङ्गुलित्र न० अङ्गुलिं त्रायते त्रै--क ६ त० । (चामा-

टीति) प्रसिद्धे ज्याकर्षणकृतखेदवारणार्थम् अङ्गुलिबद्धे
चर्म्मणि “बद्धगोधाङ्गुलित्रे” इति भट्टिः ।

अङ्गुलित्राण अङ्गुलिस्त्रायतेऽनेन त्रै--क ६ त० । (चामाटीति)

प्रसिद्धे ज्याकषणकृतस्वेदनिवारणार्थम् अङ्गुलिबद्धे चर्मणि ।

अङ्गुलिमुद्रा स्त्री अङ्गुलेः मुदं राति रा--क ६ त० ।

धारयितुर्नामाक्षरमुद्रासहिते (आङ्गुटीति) प्रसिद्धे अङ्गुली-
भूषणे । “उपहितस्मृतिरङ्गुलिमुद्रयेति” शकु० ।

अङ्गुलिमोटन न० अङ्गुल्योर्मोटनं मर्दनं यत्र ब० । अङ्गुलि

द्वयमर्दनजाते (तुड़ि) इति प्रसिद्धे शब्दे ।

अङ्गुलिषङ्गा स्त्री अङ्गुलौ सङ्गो यस्याः षत्वम् ७ ब० । (याउ)

इति प्रसिद्धे अङ्गुलिसंलेपकारके यवागूद्रव्ये ।

अङ्गुलिसंज्ञा स्त्री अङ्गुल्या संज्ञा संङ्केतज्ञापनद् । अङ्गु-

लिचेष्टाभेदेन अभीष्टकर्मणि देये सङ्केतविशेषे “मुखार्पितैका-
ङ्गुलिसंज्ञयैवेति” कुमा० ।

अङ्गुलिसन्देश पु० अङ्गुल्या अङ्गुलिध्वनिना सन्दिश्यते

सम् + दिश--भावे घञ् । अङ्गुलिध्वनिद्वारा संज्ञादाने ।

अङ्गुलिस्फोटन न० अङ्गुल्योः स्फोटनं ताड़नं यत्र ७ ब० ।

(तुड़ि) इति प्रसिद्धे अङ्गुलिद्वयमर्दनजाते शब्दे ६ त० ।
अङ्गुलिस्फोटनमात्रे च ।

अङ्गुली स्त्री अङ्गुलि + वा ङीप् । अङ्गुलिशब्दार्थे “च्युतमपि

लब्धपदं यदङ्गुलीष्विति” शकु० “तर्जयन्नङ्गुलीभिरिति” ।

अङ्गुलीपञ्चक न० अङ्गुलीनां पञ्चकम् पञ्चसंख्या । हस्त-

स्थानामङ्गुलीनां समुदाये ताश्च अङ्गुष्ठतर्जनीमध्यमानामिका
कनिष्ठाः ।

अङ्गुलीय न० अङ्गुरीयकवत् वा रत्वाभावः । (आंगुटीति)

प्रसिद्धे अङ्गुलिभूषणे । “तव सुचरितमङ्गुलीय! नूनमिति”
शकु० । इवार्थे कन् । तत्तुल्यपरिणाहवत्त्वात्तत्रैव न० ।

अङ्गुलीसम्भूत पु० अङ्गुल्यां सम्भूतः ७ त० । नखे ।

अङ्गुलीसम्भूतमात्रे त्रि० ।

अङ्गुल्यादि पु० ६ त० । पाणिन्युक्ते इवार्थे विहितकन्प्रत्यय-

निमित्ते शब्दगणसमूहे । सच गणः “अङ्गुलि भरुज बभ्रु
वल्गु मण्डर मण्डल शष्कुली हरि कपि मुनिरुह खल
उदश्वित् गोणी उरस् कुलिश इति । अङ्गुलीव + कन्
अङ्गुलीयकमित्यादिः ।
पृष्ठ ००८२

अङ्गुष्ठ पु० अङ्गौ पाणौ प्राधान्येन तिष्ठति स्था--क ७ त०

षत्वम् । वृद्धाङ्गुलौ । “अम्बाम्बेति” सूत्रेऽङ्गुशब्दप्रयोगात्
अङ्गुशब्दः हस्तवाचीतिज्ञापितम् । “अङ्गुष्ठोदरमध्ये
तु यवो यस्य विराजते” इति सामु० ।

अङ्गुष्ठमात्र त्रि० अङ्गुष्ठ + परिमाणार्थे मात्रच् । अङ्गुष्ठ-

मध्यपर्वपरिमिते । “अङ्गुष्ठमात्रोह्यवरोऽपि दृष्ट” इति
श्रुतिः । “अङ्गुष्ठमात्रं पुरुषं निश्चकर्ष बलाद्यम” इति
भारतम् । “अङ्गुष्ठाङ्गुलमानन्तु यत्र यत्रोपदिश्यते ।
तत्र तत्र वृहत्पर्वग्रन्थभिर्मिनुयात् सदेति” कात्या० ।

अङ्गूष पु० अगि--ऊषन् । नकुले वाणे च ।

अङ्घस् न० अङ्घते नरकमनेन अघि--गतौ असुन् । पापे “युष्म-

च्छासनलङ्गनाङ्घसि मया मग्नेन नाम स्थितमिति” वेणी० ।

अङ्घारि पु० ऋ--इण् ६ त० पृ० । दीप्तिशीले । “कविरसि

“अङ्घारिरसीति” यजु० । “अङ्घारिर्दीप्तिशील इति”
वेददीपः ।

अङ्घि पु० अघिगतौ--इन् । पादे, वृक्षमूले च ।

अङ्घ्रि पु० अघि--गतौ करणे क्रिन् । चरणे, वृक्षमूले,

“अधारि पद्मेषु तदङ्घ्रिणा घृणेति नै० । अङ्घ्रिपः (पादपः)
छन्दसां चतुर्थभागे च । “प्रथमाङ्घ्रिसमोयस्येति” वृत्त० ।

अङ्घ्रिप पु० अङ्घ्रिणा मूलेन पिबति सिक्तजलम् पा--क

३ त० । वृक्षमात्रे ।

अङ्घ्रिपर्ण्णिका स्त्री अङ्घ्रौ मूले तदारभ्य वा पर्णमस्याः

जातौ ङीप् स्वार्थे कन् । सिंहपुच्छाकारपुष्पवति (चाकु-
लिया) इति ख्याते वृक्षे । काभावे अङ्घ्रिपर्णीत्यपि तत्रैव ।

अङ्घ्रिवल्लिका स्त्री अङ्घ्रेरारभ्य वल्लीव पर्णवत्त्वेन, ततः

स्वार्थे के ह्रस्वे टाप् । सिंहपुच्छाकारपुष्पवतिं (चाकुलिया)
इति प्रसिद्धे वृक्षे । काभावे ॥ अङ्घ्रिवल्लीत्यपि तत्रैव ।

अच अविस्पष्टकथने गतौ च उभय० भ्वादि० सक० सेट् क्त्वा

वेट् । अचति ते । आचीत् आचिष्ट । क्त अक्तः क्त्वा
अचित्वा--अक्त्वा “स्वाहायज्ञमित्यङ्गुली अचते” इति
कात्या० । “अचतेसङ्कोचयति” इति वेददीपः ।

अच(अन्चु) गतौ पूजायाञ्च प० सक० सेट् । तत्र अच

इदित् ञोदिच्च (अन्चु) अव्यक्तशब्दे च । अञ्चति आञ्चीत्
अन्चु--गतौ अच्यात् पूजायामञ्च्यात् । क्त अक्तः
पूजायामुभयोः अञ्चितः अचि--वर्त्तमाने क्त अञ्चितः ।
अन्चु--क्त्वा अञ्चित्वा--अक्त्वा अचि--अञ्चित्वा । “अयमञ्चति
पञ्चशरानुचर” इति सा० टी० । प्र + प्रकर्षे पूर्ब्बदिक्-
कालवृत्तौ च प्राञ्चति प्राङ्(पूर्ब्बकालः) प्राची (पूर्ब्बा दिक्)
परा + प्रतिगतौ, आभिमुख्याभावे, पश्चाद्भावे, वहिर्भावे च
पराञ्चति (परागच्छति) पराङ् (वाह्यः) । अप +
अपसरणे अपाञ्चति । सम् + सुन्दरगमने, यथोचित-
गमने च समञ्चति सम्यङ् । अनु + पश्चाद्गतौ । अन्व-
ञ्चति अन्वङ् । उद् + ऊर्द्ध्वगमने, उत्तरदिग्वृत्तौ च
उदञ्चति (उद्गच्छति) “उदञ्चद्रोमाञ्चमिति” उदङ् देशः
उदीची (उत्तरा दिक्) । परि + समन्ताद्गतौ । पर्य्यञ्चति ।
प्रति + प्रतीपगतौ, पश्चाद्गतौ, पश्चाद्वर्त्तित्वे च प्रत्यञ्चति
(प्रतीपं गच्छति) । प्रत्यङ्, प्रतीची (पश्चिमा दिक्) । आत्मनि
व्याप्त्यर्थकप्रतिना योगात् प्रत्यक्शब्दः तस्य सर्वविषय-
व्यापकत्वात् प्रत्यक्त्वम् । नि + न्यूनीभावे न्यञ्चति न्यङ्
न्यग्भावः न्यक्कारः । अव + अधोगतौ, दक्षिणदिग्वृत्तौ
च । अवाञ्चति अवाङ् (अघोमुखः) अवाची (दक्षिणा दिक्)
यथा च उत्तरदक्षिणयोः ऊर्द्धाघोभावस्तया अवाक्शब्दे
वक्ष्यते ।

अच गतौ पूजायाम् इदित् उभ० सक० सेठ् क्त्वा वेट् ।

अञ्चति ते आञ्चीत् आञ्चिष्ट । क्त्वा अङ्क्त्वा--अञ्चित्वा ।
उपसर्गात् अन्चुवत् । “न्यञ्चते प्रत्यहं मोहो यस्मान्न्यञ्चन्ति
चारय” इति कविर० ।

अचक्षुस् त्रि० न० ब० । मन्दनेत्रे, नेत्रहीने च ।

“सचक्षुरचक्षुरिव सकर्ण्णोऽकर्ण्ण इवेति” श्रुतिः । न० त० ।
चक्षुर्भिन्ने न० ।

अचतुर त्रि० न सन्ति चत्वारि यत्र नि० अच्समा० ।

चतुःसंख्याशून्ये । चतुरोनिपुणः न० त० । दक्षभिन्ने
अपटौ त्रि० ।

अचपल त्रि० न चपलः । चापल्यविरोधिस्थैर्य्ययुक्ते ।

अचर त्रि० न चरति चलति--चर--अच् न० त० । चरत्व-

विरोधिस्थैर्य्यवति स्थावरे स्थितिशीले पृथिव्यादौ “चरा-
णामन्नमचरमिति” मनुः । चलनशून्ये त्रि० ।
ज्योतिषोक्ते मेषकर्कटतुलामकरराशिरूपचरराशिभिन्नेषु
स्थिरराशिषु वृषसिंहवृश्चिककुम्भराशिषु न० ।

अचरम त्रि० न० त० । अन्तिमत्वविरोधिमध्यत्वाद्यवस्थावति

“वयस्यचरमे” इति पा० । अचरमं वयः कौमारादि ।

अचल पु० न चलः ॥ (गोंज) इति ख्याते शङ्कौ । पर्व्वते,

“अचलाः सागराः ग्रामाः प्रासादधवला गृहाः धारितं च
त्वयासर्वमिति” पृथिवीप्रार्थनामन्त्रः । “अचलएष भवानिव
राजते” इति माघः । पृथिव्यां स्त्री । भूमेरचलत्वा-
दिकमुक्तं सि० शि० गो० “भूमेः पिण्डः शशाङ्कज्ञक-
विरविकुजेज्यार्किनक्षत्रकक्षावृत्तैर्वृत्तो वृतः सन् मृद-
पृष्ठ ००८३
निलसलिलव्योमतेजोमयोऽयम् । नान्याघारः स्वशक्त्यैव
वियति नियतं तिष्ठतीहास्य पृष्ठे निष्ठं विश्वं च शश्वत्सद-
नुजमनुजादित्यदैत्यं समन्तात् । सर्वतः पर्वतारामग्राम-
चैत्यचयैश्चितः । कदम्बकुसुमग्रन्थिः केसरप्रकरैरिव ।
यथोष्णतार्कानलयोश्च, शीतता विधौ, द्रुतिः के,
कठिनत्वमश्मनि । मरुच्चली भूरचला स्वभावतो यतो
विचित्रा वत वस्तुशक्तयः । आकृष्टशक्तिश्च मही तया यत्
खस्थं गुरु स्वाभिमुखं स्वशक्त्या । आकृष्यते तत्पततीव भाति
समे समन्तात् क्व? पतत्वियं खे” इति । आर्य्यभट्टमते तु
अस्याश्चलत्वेऽपि अचलाः पर्वताः सन्त्यत्र अस्त्यर्थेऽचि ।
अचलवत्त्वात् स्वकक्षातो वहिर्गमनाभावाद्वा
अचलत्वम् । तेन च तस्याश्चलत्वं दृष्टान्तविधयोक्तं तच्च विस्तरतो
भूगोलशब्दे वक्ष्यते । चलनशून्ये त्रि० “तस्मात्त्वमचलोभ-
वेति” कलसस्थापनमन्त्रः । “तस्मान्मम गृहे नित्यं लक्ष्मि!
त्वमचला भवेति” पुरा० । “समाधावचला बुद्धिरिति,
गीता, अचला भक्तिरीश्वरे” इति पुरा० । न चलति
स्वभावात् । शिवे पु० तस्य स्थाणुत्वात् तथात्वम् ।
ब्रह्मणि न० । “निष्कलं निष्क्रियं शान्तमिति” श्रुत्या अस्य
सर्वक्रियाशून्यत्वोक्तेरचलत्वम् । आत्मनि पु० “नित्यः
सर्वगतः स्थाणुरचलोऽयं सनातन” इति गीता ।

अचलकन्या स्त्री अचलस्य हिमाचलस्य कन्या । पार्वत्यां, सा

हि हिमाचलेन मेनायामुत्पादिता । तत्कथा च “प्रसूति-
रभवत्तस्य मेनायाः कन्यका सुतेति” शिवपुराणे प्रपञ्चेन
दर्शिता । तन्मूलं कुमारे चोक्तम् “अथावमानेन पितुः प्रयुक्ता
दक्षस्य कन्या भवपूर्ब्बपत्नी । सती सती योगविसृष्टदेहा
तां जन्मने शैलबधूं प्रपेदे । सा भूधराणामधिपेन
तस्यां समाधिमत्यामुदपादि भव्येति” इति अचलसुता-
दयोप्यत्र ।

अचलकीला स्त्री अचलाः कीला इव यस्याः । पृथिव्याम् ।

अचलस्य सुमेरोः कील इव, अचलः कीलैवाव-
ष्टम्भकत्वाद्वा । किष्कम्भपर्वतेषु मन्दरादिषु पु० । ते च
सुमेरुमुपवर्ण्य, “विष्कम्भशैलाः खलु मन्दरोऽस्य सुगन्धशैलो
विपुलः सुपार्श्व इति” सि० शि० गो० दर्शितास्तेषां स्वरू-
पादि तत्तच्छब्दे वक्ष्यते ।

अचलजा स्त्री अचलात् हिमालयात् जायते जन--ड ५ त० ।

पार्व्वत्यां, तत्कथा पूर्ब्बशब्दे उक्ता । पर्वतजातमात्रे
त्रि० अचलजातादयोऽप्यत्र ।

अचलत्विष् पु० अचला बहुप्रक्षालनेनापि मालिन्यानपगमात्

स्थिरा त्विट् कान्तिर्यस्य । कोकिले । स्थिरकान्तिमति
त्रि० । कर्म्मधा० । स्थिरायां कान्तौ स्त्री ।

अचलद्विष् पु० अचलेभ्यः द्वेष्टि द्विष--क्विप् ४ त० । इन्द्रे

तस्याचलपक्षच्छेदकत्वात्तथात्वं तत्कथा गोत्रभिच्छब्दे
वक्ष्यते । अचलरिप्वादयोऽप्यत्र पु० । पर्व्वतजाते त्रि० ।

अचलपति पु० ६ त० । हिमाचले । यथा तस्य तत्पतित्वं

तथाचलराजशब्दे वक्ष्यते ।

अचलभ्रातृ पु० बौद्धभेदे ।

अचलराज पु० अचलानां राजा अच् समा० । हिमाचले

“शैलानां हिमवन्तं च नदीनाञ्चैव सागरम् । गन्धर्व्वाणा-
मधिपतिं चक्रे चित्ररथं विधिरिति” ब्रह्मपुराणे तस्या-
चलराजत्वमुक्तम् अचलाधिपादयोप्यत्र ।

अचापल न० चपलस्य भावः अण् न० त० । चाञ्चल्यविरोघि-

स्थिरतायाम् । ब० । चाञ्चल्यशून्ये स्थिरे त्रि० ।

अचापल्य न० चपलस्य भावः ष्यञ् न० त० । चाञ्चल्य

विरोधिस्थिरतायाम् व० । ब० । चाञ्चल्यशून्ये त्रि० ।

अचिक्कण त्रि० न चिक्कणः । चिक्कणताविरोधिरूक्षत्ववति ।

अचित्त त्रि० नास्ति चित्तं यस्य । चित्तशून्ये चेतना

रहिते “अचित्तहस्तिधेनोष्ठगिति” अचित्ताददेशकाला
ट्ठगिति” च पा० । स्थावरादीनान्तु न चित्तशून्यत्वं
किन्तु विशिष्टचेतनाराहित्यमेवेति अचेतनशब्दे वक्ष्यते ।

अचिन्तनीय त्रि० चिन्तयितुं अनुमापकहेत्वभावेन तर्क-

यितुमशक्यः चिति--शक्यार्थे कर्म्मणि अनीयर् न० त० ।
अनुमापकहेत्वभावेन तर्कयितुमशक्ये । “अचिन्तनीय
स्तु तव प्रभाव इति” रघु० । तदर्थे यत् । अचिन्त्योऽ-
प्युक्तार्थे त्रि० “अचिन्त्याव्यक्तरूपाय निर्गुणाय गुणात्मने
समस्तजगदाधारमूर्त्तये ब्रह्मणे नमः” इति सूर्य्य० ।

अचिन्तित त्रि० न चिन्तितः । पूर्ब्बरूपादिकारणानु-

सान्धानादिकमन्तरेण अतर्किते “विधेर्नियोगादेतन्मे
अचिन्तितमुपस्थितमिति” पुरा० ।

अचिर न० न चिरम् । अल्पकाले, अल्पकालस्थायिनि

वस्तुमात्रे त्रि० । “अचिरेणैव कालेन वंशनाशो भवेद्-
ध्रुवमिति पुरा० । अचिरांशुः अचिरप्रभा अचिरद्युतिः ।

अचिरत्विष् स्त्री अचिरा अल्पकालस्थायिनी त्विट् कान्ति-

रस्याः । विद्युति । अल्पकालकान्तियुक्ते त्रि० ।

अचिरद्युतिः स्त्री अचिरा अल्पकालस्थायिनी द्युतिर्यस्याः ।

विद्युति । अल्पकालस्थायिद्युतिमति त्रि० । कर्म्म० ।
अल्पकालस्यायिन्यां कान्तौ स्त्री ।
पृष्ठ ००८४

अचिरप्रभा स्त्री अचिरा अचिरस्थायिनी प्रभा यस्याः ।

विद्युति । “च्युता दिवः स्थास्नुरिवाचिरप्रभेति” भट्टिः ।
अल्पकालस्थायिप्रभावति त्रि० । कर्म्म० । अचिरायां
दीप्तौ स्त्री ।

अचिरभास् स्त्री अचिरा अल्पकालस्थायिनी भाः यस्याः ।

विद्युति । अल्पकालस्थायिदीप्तिमति त्रि० ।

अचिररोचिस् स्त्री अचिरं रोचिर्यस्याः । विद्युति । अचिर-

कान्तिमति त्रि० । कर्म्म० । अचिरकान्तौ न० ।

अचिरस्य अव्य० चिरस्येत्यव्ययेन न० त० । स्वल्पकाले ।

अचिरांशु स्त्री अचिरा अंशवोऽस्याः । विद्युति । “अचि-

रांशुसमप्रभेति” पुरा० । अल्पकालस्थायिकिरणवति त्रि० ।
कर्म्म० । अचिरकिरणे पु० ।

अचिरात् अव्य० अचिरम् अततीति क्विप् । शीघ्रे, अविलम्बे च ।

अचिराभा स्त्री अचिरा आभा यस्याः । विद्युति ।

अचिराय अव्य० न चिराय । स्वल्पकाले शीघ्रे च ।

अचिरेण अव्य० चिरेणेत्यव्ययस्य न० त० । अल्पकाले

शीघ्रे च ।

अचिष्णु(ष्टु) त्रि० अच--गतौ बा० इष्णु(ष्टु)च् । गमनशीले ।

“त्वष्टा दधच्छुयमिन्द्राय वृष्णेऽपाकोऽचिष्णु(ष्टु)रिति” यजु०
अचि(ष्टु)ष्णुः सर्व्वगत इति वेददीपः ।

अचेतन त्रि० चेतना ज्ञानम् न० ब० । चेतनाशून्ये ।

चितल्यु न० त० । ज्ञानविशिष्टभिन्ने । ज्ञानञ्च द्विविधं
विषयाकारमनोवृत्तिरूपं तत्फलितचैतन्यरूपञ्च तत्र वृत्तिरूपं
ज्ञानं चित्तस्यैव धर्म्मः “कामः संकल्पो विचिकित्सा श्रद्धाऽ-
श्रद्धा धृतिरधृतिर्ह्रीर्धीर्भीरित्येतत् सर्व्वं मन एवेति” श्रुतौ
तस्य चित्तधर्म्मत्वावगमात् । द्वितीयं तदुज्ज्वलितचैतन्यमात्म-
धर्म्मः । प्रकाशरूपचैतन्यस्य सर्वदा स्थितावपि वृत्तिसह-
कारेणैव तद्गताज्ञाननिवारणे चैतन्यं समुज्ज्वलति नान्यथा
अतएव “बुद्धिवृत्तिचिदाभासौ द्वावेतौ व्याप्नुतो घटम् ।
तत्राज्ञानं धिया नश्येदाभासात्तु घटः स्फुरेत्” इत्युक्तमिति
वेदान्तिनः । सांख्यास्तु विषयोपरक्ता वृत्तिश्चितौ प्रति-
विम्बति तेनैव विषयावभासः “तस्मिंश्चिद्दर्पणे स्फारे
समस्ता वस्तुदृष्टयः । इमास्ताः प्रतिविम्बन्ति सरसीव
तटद्रुमा” इति मन्यन्ते । नैयायिकास्तु सांख्यवेदान्तिमतसिद्धं
यत् वृत्तिरूपं ज्ञानं तत्स्थानीयमात्मनश्चैतन्यमुररीचक्रुः ।
तादृशवृत्तौ तत्स्थानीयज्ञाने च आत्ममनःसंयोगादयः
कारणानि । आभ्यन्तरसुखादिविषयग्रहणे मनःकरणम्,
इन्द्रियाणि तु स्वस्वग्राह्यविपयग्रहणे करणानि, “इन्द्रि-
यार्थसन्निकर्षोत्पन्न ज्ञान प्रत्यक्षमिति” गौतमसूत्रे “प्रति-
विषयाध्यवसाय इति” सांख्यसूत्रे च तथैव स्वस्वविषयेष्वि-
न्द्रियाणां ग्राहकता उक्ता । तच्च तत्तच्छब्दावसरे दर्शयि-
ष्यते । एवञ्च आभ्यन्तरे सुखादौ मन इव, वाह्येषु शब्दा-
दिषु श्रोत्रादीनि असाधारणकारणानि । मनस्तु वाह्येषु
सर्वत्र साधारणकारणमिति भेदः । एवञ्च ज्ञानकारणेन्द्रि-
यशून्ये एवाचेतनशब्दस्य प्रवृत्तिः । अतएवोक्तं “सेन्द्रियं
चेतनं द्रव्यं निरिन्द्रियमचेतनमिति” । एवञ्च वृक्षादीना-
मपि अन्तःकरणादिमत्त्वमस्त्येव । अन्यथा सुखदुःखानुभवो
न स्यात् । तेषां हि खकर्म्मानुसारिदुःखभोगार्थमेव पापेनैव
स्थावरत्वप्राप्तिः । अतएव “महापातकजान् घोरान्
नरकान् प्राप्य दारुणान् । कर्मक्षयात् प्रजायन्ते महापात-
किनस्त्विह” इत्युपक्रम्य “तृणगुल्मलतात्वञ्च क्रमशो
गुरुतल्पगः” इति याज्ञवल्क्येन चेतनस्यैव पापावशेष-
भोगार्थं तृणादिरूपेण जन्मोक्तम् “शरीरजैः कर्म्मदोषैर्याति-
स्थावरतां नर” इति च सामान्यतः शारीरिकपापात्
वृक्षादिरूपस्थावरजन्म तेनैवोक्तमतस्तेषां दुःखभोगर्थमेव
वृक्षादिरूपत्वप्राप्तौ इन्द्रियाभावे कथङ्कारं ते दुःखमनुभ-
वेयुरित्यवश्यं तेषु इन्द्रियादिमत्त्वमस्त्येव । अतएव पद्मं
सरोऽन्तर गच्छति, शाखा च्छिन्नापि चेतनसंयोगात् पुनः
प्ररोहतीत्युपलभ्यते । अतएव च श्रुतौ “अथ जीवो यां
जहाति सा शुष्यती” त्युक्तम् । तेन तेषां जीवसंबन्धोऽस्त्येव
किन्तु विशिष्टचेतनाशून्यत्वादेव तेषु अचेतनत्वव्यवहार इति
भेदः । पदार्थादर्शे “देहश्चतुर्विधो ज्ञेयो जन्तोरुत्पत्ति-
भेदतः । उद्भिज्ज ऊष्मजोऽण्डोत्थश्चतुर्थस्तु जरायुज” इति
स्थावराणां देहसम्बन्ध उक्तः । “चेतनाधिष्ठिते भोगायतन-
निर्म्माणमन्यथा पूतिभावप्रसङ्ग” इति सांङ्ख्ये च चेतन-
सम्बन्धे एव भोगायतनरूपदेहोत्पत्तिरुक्ता । तेषाञ्च भोगा-
यतनदेहवत्त्वेऽपि सर्वेन्द्रियस्थानगोलकादेरभावात् न दर्श-
नादि किन्तु त्वाचप्रत्यक्ष घ्राणजप्रत्यक्ष च भवत्येव अतएव
अग्न्यादिखरतरकिरणस्पर्शे तेषां शुष्कता, ओषधि-
विशेषजधूमादिसम्पर्के च तद्घ्राणात् पुष्पफलोत्पत्तिः ।
अत एव तेषां द्वीन्द्रियत्वेन व्यवहारः यथोक्तम् “पञ्चे-
न्द्रिया मनुष्याद्याः सर्पाद्याश्चतुरिन्द्रियाः । त्रीन्द्रियाः
कृमिकीटाद्या द्वीन्द्रिया वृक्षजातय” इति । मनसो
विद्यमानत्वेऽपि हृदयरूपविशिष्टस्थानाभावात् न स्पष्ट-
मवबोधः । सुश्रुते हि हृदयस्थानमुपवर्ण्य “तद्धृदयं
विशिष्टचेतनाश्रयमित्युक्तम्” तेन तेषां विशिष्टचेतनाश्रय-
पृष्ठ ००८५
हृदयस्थानशून्यत्वात् विशिष्टचेतनावत्त्वं नास्ति
सुखदुःखानुभवमात्रं तु तेषां जायते एवेति विशेषः
तेनैव स्वस्वकर्म्मफलानुरूपदुःखानुभवात् स्वस्वकर्म्मफलभाक्-
त्वम् इति सुस्थितम् । चेतनाशून्ये पदार्थमात्रे त्रि० ।
“अचेतनं चेतनावदिव लिङ्गमिति” सा० का० ।
तत्तद्विशेषज्ञानशून्ये च । “तन्तु दुःखाभिसन्तप्तं
विलपन्तमचेतनमिति पुरा० । अत्र दुःखानुतप्तत्वेन
तदनुभवस्योक्तेः तथाभूतेऽपि चेतने अचेतनत्वोक्तिः
विवेकज्ञानशून्यत्वपरत्वेनैव, एवमन्यत्रापि । “अहङ्कारलये
सुप्तौ भवेद्देहोऽप्यचेतन” इत्युक्तिस्तु देहस्य चैतन्यप्रकाशा-
वच्छेदकतया, जागरे स्वप्ने च चैतन्यमुपचर्य्य सुषुप्तौ
अवच्छेद्याहङ्काररूपमनसो लयात् कथमवच्छेदकत्वं?
स्यादित्यतीऽचेतनत्वमित्येवंपरा । अन्यथा “शरीरस्य न
चैतन्यं मृतेषु व्यभिचारतः” इत्युक्तेः देहे सदा
चैतन्याभावस्य सिद्धत्वात् सुषुप्तौ तथात्वकथननर्थकं स्यात् ।
सुषुप्तावपि इन्द्रियाणां मनसश्च विशिष्टव्यापारराहित्येन
लयत्वोपचारः किन्तु आत्मनि तदापि चैतन्यमस्त्येव ।
“आनन्दभुक् चेतोमुखः प्राज्ञ” इति श्रुतेः सुखमहमस्वाप्सं न
किञ्चिदवेदिषमिति” सुप्तोत्थितस्य परामर्शाच्च आनन्दा-
नुभवस्य तत्रापि सत्त्वात् सुतरां देहस्य तदनुभवज्ञानाव-
च्छेदकत्वमस्त्येवेति विशेषः । विस्तरस्तु सुषुप्तिशब्दे वक्ष्यते ।

अचेतस् त्रि० न चेतति चित--असुन् न० त० । चेतनाशून्ये

अचेतने घटादौ, तत्तद्विषयज्ञानरहिते च । “गतसंज्ञम-
चेतसमिति” पुरा० । नास्ति चेतोऽस्य । चित्तरहिते त्रि० ।

अचेतान त्रि० चित--शानच् वेदे न मुक् न० त० ।

चैतन्यरहिते “अचेतानस्य मा पथो वि द्रुक्षः इति” वेदः ।

अचेष्ट त्रि० नास्ति चेष्टा यस्य । चेष्टारहिते । चेष्टा च “आत्म-

जन्या भवेदिच्छा--इच्छा जन्या भवेत् कृतिः । कृतिजन्या
भवेच्चेष्टा चेष्टाजन्या भवेत्क्रिया” इत्युक्तेः यत्नसाध्या क्रिया-
जनकव्यापाररूपा । चेतनाधिष्ठितदेहेष्वेव कर्म्मविशेषः न
तदनधिष्ठिते तथा च यस्मिन् देहे आत्मनो यत्नो भवति
तद्देहावच्छेदेनैव चेष्टा जायते नान्यस्मिन् सा च उद्यम-
रूपैव । मनोवायुभिन्नद्रव्यस्य न स्वतःक्रिया सम्भवति
किन्तु गुरुद्रव्याद्याघातनोदनादिनैव क्रिया भवति
ना यथा । तथा च हस्तादिचालनदर्शनात् तत्कारणी-
भूतनोदनादिकमनुमीयते तच्च नीदनम् आत्मकर्तृकमेव
अन्यस्यानुपलब्धेः । अधिकं चेष्टाशब्दे वक्ष्यते ।

अचेष्टता स्त्री अचेष्टस्य भावः । चेष्टाराहित्ये ।

अचैतन्य त्रि० नास्ति चैतन्यं चेतना यस्य । चैतन्य-

शून्ये । “अचैतन्यमिदं विश्वं दैवं चैतन्यमेव यदिति” ।
न० त० । चैतन्यभिन्ने न० ।

अच्छ अव्य० न च्छ्यति दृष्टिं सम्मुखत्वात् छो--क न० त० ।

आभिमुख्ये । “अच्छा नृचक्षा असरत् पवित्रे इति” वेदः ।
“अच्छ गत्यर्थवदेष्विति” सूत्रे “अच्छगत्य अच्छोद्य इत्यु-
दाहृत्य अभिमुखं गत्वा अभिमुखमुक्त्वेति” व्याकृतम्
सि० कौ० ।

अच्छ त्रि० न छ्यति दृष्टिम्, छो--क न० त० । स्वच्छे निर्म्मले ।

निर्मले हि वस्तुनि दृष्टिः प्रसरति न तु समले आभ्यन्तर-
पर्य्यन्तं धावतीति निर्मलस्यैव तदप्रतिबन्धकत्वात्तथात्वम् ।
“स्वच्छन्दोच्छलदच्छकच्छकुहरेति काव्यप्र० । स्फटिके
पु० । न छाति भक्षयति नाशितसत्त्वं” छा--भक्षणे क
न० त० । भल्लूके पु० । अच्छभल्लुकैत्येकं नामेत्यन्ये ।

अच्छन्दस् त्रि० नास्ति अध्येयत्वेन छन्दोवेदोऽस्य तुक् ।

वेदाध्ययनशून्ये अनुपनीते बालके, सर्व्वथा तच्छून्ये
शूद्रादौ च । नास्ति छन्दो वृत्तानुसारी, परिमितमात्रा-
क्षरादिसन्निवेशविशेषो यत्र ७ व० तुक् । छन्दःशून्ये
गद्यात्मके, चूर्ण्णके वा शब्दसमूहे । नास्ति छन्दोभिप्रायो
यस्य ब० तुक् । अभिप्रायशून्ये । वा कपि । अच्छ-
न्दस्कोऽप्युक्तार्थेषु ।

अच्छावाक पु० अच्छं निर्म्मलम् अच्छ आभिमुख्येन वा वक्ति

शंसति वच--कर्त्तरि संज्ञायां घञ् (निपातस्य चेति) दीर्घः ।
शंसनकर्त्तरि होतृसहकारिणि सोमयागसम्बन्धिनि ऋत्विग्-
भेदे । स च आश्वलायनेन दर्शितः । “प्रागपि सोमेनैके,
इत्युपक्रम्य, “तस्यर्त्विजः, चत्वारस्त्रिपुरुषाः, तस्य तस्योत्तरे
त्रयः, होता, मैत्रावरुणोऽच्छावाकोग्रावस्तुत्, अध्वर्युः, प्रति-
प्रस्थिता नेष्टोन्नेता, ब्रह्मा, ब्राह्मणाच्छंस्याग्नीध्रः पोता,
उद्गाना, प्रस्तोता प्रतिहर्त्ता सुब्रह्मण्य इति, एतेऽहीनैकाहैर्या-
जयन्ति, एत एवाहिताग्नय इष्टप्रथमयज्ञा गृहपतिसप्तदशा
दीक्षित्वा समाप्याग्नींस्तन्मुखाः सत्राण्यासते” इति । “अस्या-
यमर्थः, दर्शपूर्णमासाभ्यामिष्ट्वा पश्चाद्वा तद्यजमानः पुरस्ताद्वा
सोमेन यजेत तस्य सोमयागस्य होताध्वर्य्युर्ब्रह्मोद्गातेति चत्वारः
ऋत्विजो मुख्याः ते च प्रत्येकं त्रिभिः त्रिभिः पुरुषैरुपेता
अतस्तस्य तस्य एकैकस्योत्तरे त्रयः पुरुषा भवन्ति, त एते
होत्रादिनामकाः षोड़शर्त्विजो द्विरात्रादिभिरहीनसंज्ञकै-
रग्निष्टोमादिभिरेकाहसंज्ञकैर्याजयन्ति । एतएव होत्रादयः
षोड़शर्त्विजः स्वयमप्याहिताग्नयः प्रथमयज्ञेनाग्नोमे-
पृष्ठ ००८६
नेष्ट्वा गृहपतिसंज्ञकेन सप्तदशसंख्यापूरकेण सहिता द्वाद-
शाहादिसत्रार्थं दीक्षित्वा स्वस्वसम्बन्धिनोऽग्नीनेकत्र स्थाप-
यित्वा तत्प्रधानाः सत्राण्युपतिष्ठेयुः इति” माष्यम् ।
“यदच्छावाकमनुसन्तिष्ठते इति” ता० ब्रा० । अच्छावाक-
शब्दोऽस्त्यत्र छ । अच्छावाकीयम् तच्चब्दयुक्ते सूक्तभेदे, तच्च
सूक्तम्” अच्छावाक! वदस्वेत्युक्तोऽच्छा वो अग्निमवस इति
तृचमन्वाहेत्यादिना” दर्शितम् । अच्छावाकस्येयम् यत् ।
अच्छावाक्या । अच्छावाकर्त्विक्--पाठ्यायामृचि । “एषा
होत्रा यदच्छावाक्या” इति ता० ब्रा० । “अच्छा-
वाक्या अच्छावाकसम्बन्धिनी होत्राशंसनरूपा क्रियेति”
तद्भाष्यम् ।

अच्छावाकसामन् न० अच्छावाकेन गेयं साम । “य एक इद्वि-

दयत इति तृचे गेये सामभेदे एतस्यैव नामान्तरमुद्वंशीय
मिति” “त्रैककुभं चोद्वंशीयञ्चान्ततः प्रतिष्ठाप्ये इति”
ताण्ड्य० ब्रा० । “त्रैककुभं ब्रह्मसाम भवति, उद्वंशीय-
मच्छावाकसामेति, “य एक इद्विदयते इति” तृचे गेयं
साम उद्वंशीयमेते सामनी इति” तद्भाष्यम् ।

अच्छावाकीय न० अच्छावाकस्य ऋत्विग्भेदस्य कर्म्म भावो

वा “होत्राभ्य” इति छ । शंसनरूपे अच्छावाककर्म्मणि,
तद्भावे च ।

अच्छिद्र त्रि० न छिद्रं तत्तत्कार्य्येषु प्रमादादिना स्खलनं, रन्ध्रं

वा यत्र । प्रमादादिना स्खलनरहिते । “अच्छिद्रेण
विचेतव्या देशाः सगिरिकन्दरा” इति रा० । “यज्ञच्छिद्रं
तपश्छिद्रं यच्छिद्रं पूजने मम अच्छिद्रमस्तु तत्सर्वमिति”
“अच्छिद्रं तु भवत्वेतत् सर्वेषाञ्च शिवाय नः” इति च
पुरा० । “तत्तथा क्रियतां राजन् यथाऽच्छिद्रः क्रतुर्भवे-
दिति” भार० । रन्ध्ररहिते च ।

अच्छिन्न त्रि० छिद--भावे क्त न० ब० । खण्डनरहिते, छेदन

रहिते, सन्तते च “वसुधारां प्रकुर्वीत अच्छिन्न घृतधारयेति”
पुरा० । कर्मणि क्त न० त० । छिन्नभिन्ने त्रि० ।

अच्छिन्नपत्र पु० अच्छिन्नं सन्ततं पत्रमस्य । शाखोटकवृक्षे

सन्ततपत्रयुक्तवृक्षमात्रे च । अच्छिन्नपर्णादयोऽप्यत्र ।

अच्छेदिक त्रि० छेदनं नार्हति ठन् । छेदनानर्हे ।

अच्छेद्य त्रि० न छेत्तुमर्हति छिद--अर्हार्थे कर्म्मणि यत् ।

छेदनानर्हे । आत्मनि पु० “अच्छेद्योऽयनदाह्योऽयमक्ले-
द्योऽशोष्य एव चेति” गीता । आत्मनश्च अवयवाभावात्
अवयवद्वैधीकरणरूपच्छेदनानर्हत्वात् तथात्वम् ।

अच्छोद न० अच्छं निर्म्मलमुदकं यस्य उदादेशः । हिमालय

प्रदेशस्थे कादम्बरी प्रसिद्धे सरोवरभेदे । “आह्लादनं दृष्टेः,
अच्छोदं नाम सरो दृष्टवानिति” काद० । नदीभेदे स्त्री ।
अग्निष्वात्तादीन् प्रक्रम्य, “एतेषां मानसी कन्या अच्छोदा
नाम निम्नगा” इति पुरा० ।

अच्युत पु० खरूपसामर्थ्यान्न च्युतो न च्यवते न च्यविष्यते

वा च्यु--कालसामान्ये कर्त्तरि क्त न० त० । परमेश्वरे
“शास्वतं शिवमच्युतमिति” श्रुतिः । “यस्मान्न च्युत-
पूर्ब्बीऽहमच्युतस्तेन कर्म्मणेति” भगद्वाक्यम् । “तेन च्युत्यभाव
रूपप्रवृत्तिमित्तेने” त्यानन्दगिरिः । तदवतारभेदे वासुदेवे
“इयमच्युतलीलाढ्या सद्वृत्ता जातिशालिनीति” छन्दोमञ्जरी
अच्युतस्य लीला अच्युता अभ्रष्टा लीला च । षड्भाव-
विकाररहिते च “अच्युतः प्रथितः प्राण” इति सहस्र
नामभाष्ये तथैव व्याख्यातम् । नारायणे च “गरुडमूर्त्ति-
रिवाच्युतस्थितिरमणीयेति” काद० । अच्युतस्य विष्णोः
स्थितिः अच्युता अचञ्चला च स्थितिरिति तदर्थः ।
चलनरहिते अभ्रष्टे स्थिरे त्रि० । “अक्षितमसि अच्युतमसीति”
वेदः । द्वादशसर्गयुक्ते काव्यभेदे पु० हेमचन्द्रः । न
च्योतति क्षरति च्युत--क न० त० । क्षरणशून्ये त्रि० ।

अच्युताग्रज पु० अच्युतस्य वासुदेवस्य उपेन्द्रस्य वा अग्रजः

६ त० । बलदेवे । वसुदेवाज्जन्मकाले बलदेवस्य
ततोऽग्रजननात् तथात्वम् । इन्द्रे । कश्यपाज्जन्मकाले च
अदित्यामग्रोत्पन्नत्वात् तस्य तथात्वमिति भेदः । तयोश्च
तदग्रजत्वं सङ्कर्षणशब्दे इन्द्रावरजशब्दे च वल्यते ।

अच्युताङ्गज पु० अच्युतस्य वासुदेवस्य अङ्गजः । कृष्णपुत्त्रे

प्राधान्यात् कामदेवे ।

अच्युतात्मज पु० ६ त० कामदेवे । स हि रुक्मिण्यां कृष्णात् जात इति भा० १० स्कन्धे ।

अच्युतावास पु० अच्युतेन ओष्यतेऽत्र आ--वस--आधारे घञ्

६ त० । अश्वत्थवृक्षे । “अश्वत्थः सर्ववृक्षाणामि” त्युक्ते-
स्तस्य तत्रोपस्यत्वात्तदावासत्वम् ।

अच्युति स्त्री च्यु--क्तिन् न० त० । क्षरणाभावे । बहु० । च्युतिशून्ये त्रि० ।

अज षतौ क्षेपणे च भ्वादि० पर० सक० सेट् । अजति ।

अवैषीत्--आजीत् । तृच् अजिता--वेता । घञ् ।
आजः । “अजन्ति वह्निं सदनान्यच्छ” इति वेदः ।

अज दीप्तौ इदित् चुरादि० उभय० सेट् अक० । अञ्जयति

ते । आञ्जिजत् त ।

अज पु० न जायते जन ड न० त० । ईश्वरे, “न जातो न

जनिष्यते” इति श्रुतेः “न हि जाती न जायेऽह न
जनिष्ये कदाचन । क्षेत्रज्ञः सवभूतानां तस्मादहसजःस्मृतः”
पृष्ठ ००८७
इति भार० । जीवे च “अजोनित्यः शाश्वतोऽयं पुराणो
न हन्यते हन्यमाने शरीरे” इति गीता । “जहात्येनां
भुक्तभोगामजोऽन्य इति” श्रुतिः । स हि स्वीपाधिभूत
बुद्धिनिष्ठकर्म्मभिरारब्धदेहमधिष्ठाय बुद्धिनिष्ठकर्त्तृत्वादिक-
मात्मन्यभिमन्यमानः जीव इति व्यवह्रियते “न जायते
म्रियते वा कथञ्चित् नायं भूत्वा भविता वा न भूय” इति
गीतायां तस्य जन्मादिशून्यत्वमुक्तं तच्च “जायते अस्ति वर्द्धते
विपरिणमते अपक्षीयते नश्यतीति” यास्कोक्तषड्भाव-
विकाराणामुपलक्षणमाद्यन्तयोः जन्मनाशरूपविकारयो
रभावकथनेन तदन्तःपातिनामपि सन्दंशपतितन्यायेन ग्रहणा-
वश्यम्भावात् । स च ब्रह्माभिन्न एवेति वेदान्तिमतम् बुद्धिरूपो-
पाधीनां नानात्वात् न सर्वव्यवहारसाङ्कर्य्यम् । बहव इति
साङ्ख्यादयः “जन्मादिव्यवस्थातः पुरुषबहुत्वमिति” पुरुष-
स्योपाधिभूतबुद्धिभेदेऽपि “उपाधिर्भिद्यते न तु तद्वानिति”
सूत्रेण उपाधिभेदेऽपि उपहितस्यैकत्वेन न भेदः, विशिष्ट-
स्यानतिरिक्ततया न जन्मादिव्यवस्थेति पुरुषबहुत्वमङ्गी-
चक्रुः कर्त्तृत्वादिकं बुद्धिगतमपि स्वोपाहितचैतन्ये एव
प्रतिविम्बति तेन तदविविक्तचैतन्ये तदवभासात् पुरुषस्य
भोगः, “चिदवसानोभोग इति” सूत्रे तथैव प्रतिपादनात्
एवञ्च यावत्यः बुद्धिव्यक्तयस्तावन्त एव पुरुषाः स्वस्वोपाधिकृतं
कर्म्मादिकं स्वकर्त्तृकतया अभिमन्यमानास्तत्प्रयुक्तं
सुखदुःखादिकमात्मीयत्वेन अभिमन्यमानाः भोक्तारैति व्यव-
ह्रियन्ते अतएवोक्तम् “बुद्धेर्भोग इवात्मनीति” । “कामः
संकल्पो चिकित्सा श्रद्धाऽश्रद्धा धृतिरधृतिर्ह्रीर्धीर्भीरित्येतत्
सर्वं मन एवेति” श्रुतेः ज्ञानादिवृत्तीनां मनोजन्यत्वात्
मनोधर्म्मत्वम् सांख्यवेदान्तिनोस्तुल्यम् जीवस्य विभुत्वाङ्गी-
कारेऽपि स्वोपाधिबुद्ध्यधिष्ठानदेह एव विशेषसंयोगात्
तत्रैव आत्मत्वाभिमानः नान्यदेहेषु, तेषां स्वभोगार्थं
स्वोपाधिबुद्धिकृतकर्म्मारब्धत्वाभावात् । एवं सुखदुःखानुस-
न्धानमपि स्वोपाधिकृतकर्म्मविशेषादेवेति तत्तद्भेदव्यवस्थेति ।
ज्ञानकारणमनसाञ्च पुरुषभेदेन भिन्नत्वात् न परानुसन्धा-
नेनापरस्यानुसन्धानप्रसङ्ग इति सांख्यभेदान्तयोस्तुल्यम् ।
विशिष्टस्यातिरिक्तत्वानतिरिक्त एव तयोर्विसंवादः । नैया-
यिकवैशेषिकादयस्तु ज्ञानादयो जीवधर्म्माः जीवाश्च
वहवः नित्या विभवश्च कर्त्तृत्वं भोक्तृत्वञ्च जीवाना-
मेव धर्म्मः, तेषां विभुत्वेऽपि स्वादृष्टारब्धदेहेष्वेव संयोग-
विशेषः सएव जन्म, तद्वियोगश्च सरणमित्येव विशेषः न तु
स्वतो जन्मनाशाविति स्वीचक्रुः । तेन तन्मतेऽपि न अज-
त्वव्याघातः । एवं सर्व्वदर्शनाङ्गीकृतसरणावजत्वम् ।
माध्वास्तु जीवस्याणुत्वमीश्वरादुत्थितत्वञ्च “एतस्यैव
विस्फुलिङ्गाव्युच्चरन्तीति” श्रुतेस्तत्रैव तात्पर्य्यात् “बाला
ग्रशतधारस्य शतधा कल्पितस्य च । भागो जीवः स
विज्ञेय” इत्युक्तेश्च जीवस्याणुत्वम् अणुत्वेऽपि तेषां सर्व्व-
देहगतसुखाद्यनुसन्धानं गुणद्वारैव, यथा गृहैकदेशस्थितं
कस्तूरीप्रभृतिसुगन्धि द्रव्यं सौरभेण सर्वं गृहमामोदयति एवं
हृदयस्थं विस्फुलिङ्गरूपं चैतन्यं सर्वदेहगतं प्रकाशं कुर्वत्
शब्दादीन् विषयांश्चावभासयत् सर्वव्यापीत्युच्यते न तु
स्वरूपतः “अणोरणीयान् महतो महीयानिति” श्रुतेः
स्वरूपगुणाभ्यां अणुत्वमहत्त्वयोः सम्भवपरतायामेव तात्-
पर्य्यात् । अजत्वव्यपदेशस्तु भूतारब्धत्वाभावकृतं गौणमतो-
ऽत्र अजशब्दो भाक्त एव इत्युररीचक्रुः । चार्वाकमते
तु आत्मनो नाजत्वं देहाकारपरिणतभूतचतुष्टयस्यैव
तेषां मते जीवत्वात् तद्विवरणं चेतनशब्दे वक्ष्यते ।
सौगतादिमते तु जीवानां संविदनतिरिक्ततया सर्व-
संविदनुस्यूतत्वात् जन्मान्तरभाविनः अपवर्गरूपफलादेः
स्वीकाराच्च नित्यत्व, नित्यत्वाच्च अजत्वमिति भेदः ।
“सत्वं रजस्तम इति प्रकृते र्गुणास्तैर्युक्तः परः पुरुष एक
इहास्य धत्ते । स्थित्यादये हरिविरिञ्चिहरेति संज्ञा” मित्यु-
क्तेश्च ईश्वरस्यैव खोपाधिमायागतसत्वरजआद्युपाधिभिः
जन्मस्थितिनाशनरूपकार्य्यकरणार्थमायाविर्भावात् अजस्वरू-
पाननतिरेकात् तेषामजत्वं तेन ब्रह्मणि, विष्णौ, हरे च
पु० । न जायते इत्यजा । सांख्यमतसिद्धप्रधानापरपर्य्याये
साम्यावस्थापन्नसत्वरजस्तमोरूपगुणत्रयात्मके स्त्री । “अजा-
मेकां लोहितशुक्लकृष्णवर्णाः सरूपाः बह्वीः प्रजाः
सृजमानामिति” श्रुतिः । सत्वादिगुणानुसारेण श्वेतादिरूप-
युक्तबहुकार्य्यस्रष्टृत्वाच्च तस्याः नानावर्ण्णत्वमिति सांख्याः ।
वेदान्तिनस्तु एतां श्रुतिं तेजोऽबन्नरूपपरतया व्याचक्रुः ।
तथा हि “हन्ताहमिमास्तिस्रो देवता अनेन जीवेना-
त्मनानुप्रविश्य नामरूपे व्याकरवाणीति” तेजोऽबन्नाभि-
मानिनीस्तिस्रो देवता अनुप्रविश्येत्युक्तेः प्रक्रान्ततेजोऽ-
बन्नानामेव भौतिकसृष्ट्युपादानत्वावगमात् तासामेव
प्रकृतित्वेन अजत्वम्, तासाञ्च लोहितादिरूपाणि तत्प्रक-
रणशेषे उक्तानि “यल्लोहितं रूपं तत्तेजसो रूपं, यच्छुक्लं
तदपां, तत् कृष्णं तदन्नस्येति” । एवञ्चोक्तश्रुत्युक्तलोहिता-
दिरूपाणामेवेह श्रुतौ प्रप्त्वभिज्ञानात् अजाशब्देन तेजोऽ-
बन्नरूपप्रकृतेर्ग्रहणमिति” तेन अजामित्यादिश्रुतौ अजा-
पृष्ठ ००८८
शब्देन तादृशप्रकृतिरेव बोध्यते । तथा च तादृश्यां तेजो-
बन्नाभिमानिदेवतायां स्त्री । अजाशंब्दीक्ता नानागुणाः
सन्त्यस्य अच् । छागे तस्य नानावर्ण्णत्वात्तथात्वम् । छाग्यां
स्त्री जातित्वेऽपि अजादित्वात् टाप् । “अजागलस्तन-
च्छायेति” ज्योतिषम् । द्वादशधा विभक्तस्य राशिचक्रस्य
मेषरूपे प्रथमे राशौ “जीवार्किभानुजेज्यनां क्षेत्राणि
स्युरजादयैति” ज्योतिषम् तस्य मेषरूपत्वेऽपि मेषस्य
अजतुल्याजाधिष्ठितरूपाभ्यां तत्त्वम् । मेषे च अजेन ब्रह्मणा
दक्षयज्ञभङ्गसमये मेषरूपधारणेन पलायमानत्वात्
अजाधिष्ठितरूपवत्त्वात् मेषस्य उपचारात् अजत्वम् । माक्षिक-
धातौ पु० । जननशून्ये गगनादौ त्रि० । आत् विष्णो-
र्जायते इति । चन्द्रे कामे, च पु० । “चन्द्रमा मनसो
जात इति” श्रुतौ विष्णोर्मनीजन्यत्वाच्चन्द्रस्य अजत्वम् ॥
कामस्य वासुदेवात् रुक्मिण्यां जातत्वं भागवते प्रसिद्धम्
दशरथपितरि रघुराजपुत्त्रे रामचन्द्रस्य पितामहे सूर्य्य-
वंश्ये नृपभेदे च । तस्याजत्वञ्च अजरूपब्रह्मणो मूहूर्त्त-
जातत्वात् यथोक्तं रघौ “ब्राह्म्ये मूहूर्त्ते किल तस्य देवी
कुमारकल्पं सुषुवे कुमारम् । अतः पिता ब्रह्मण एव
नाम्ना तमात्मजन्मानमजं चकारेति” तच्चरितञ्च तत्रैव
पञ्चमाद्यष्टमसर्गान्ते द्रष्टव्यम् । छागतुल्याकारवत्त्वात्
औषधिविशेषे स्त्री । तल्लक्षणं “अजास्तनाभकन्दा तु
सक्षीरा क्षुपरूपिणी । अजा महौषधी ज्ञेया शङ्खकुन्दे-
न्दुपाण्डरेति” वैद्यकम् । ऋषिभेदे पु० । गर्गा० यञ् ।
आज्यः तदपत्ये । बहुषु लुक् । अजाः । नड़ा० फक् ।
आजायनः तद्गोत्रापत्ये । उपमानतया पूर्व्वनिर्द्देशे
तदन्तपादस्य नान्त्यलोपः । अजपादः स्त्रियान्तु कुम्भप०
ङीप् अन्त्यलोपः पदादेशश्च । अजपदीति भेदः ।
एकादशरुद्रमध्ये प्रथमे रुद्रे पु० । तद्विवरणम् अजैकपादशब्दे
दश्यम् ।

अजकण पु० अजस्य कर्ण इव पर्ण्णं यस्य! छागतुल्य

लम्बायमानपत्रयुक्ते (साल) इति ख्याते वृक्षे मरिचवृक्षे
च । ६ त० छागकर्णे ।

अजकर्ण्णक पु० अजकर्ण इव कायति पत्रद्वारा प्रकाशते कै--क । (साल) इति ख्याते वृक्षे ।

अजकव अस्त्री० अजी विष्णुः को ब्रह्मा तौ वाति

त्रिपुरासुरबधद्वारानेन वा + करणे क ६ त० ।
शिवधनुषि । शिवो हि अनेनैव धनुषा त्रिपुरासुरस्य बधेन
विष्णुं ब्रह्माणं च प्रीणितवान् इति तस्य धनुषोऽजकवत्वम्
अजकौ अवतीति । अजकावमप्यत्र । “धनुष्यजगवं
युग्यमजकावमजीकवमिति” शब्दार्णवः । अजकं छागं वाति
प्रीणाति वा--क । (वावुइ इति) ख्याते वर्वरीवृक्षे पु० ।
तद्भक्षणे तस्य प्रीत्याधिक्यात्तथात्वम् ।

अजका स्त्री अजस्य विकारः अवयवः गलस्तनः पुरीषं वा

कन् । अजागलस्थे स्तनाकारे मांसखण्डे, तत्पुरीषे च ।

अजकाजात पु० ५ त० । अजकेव जातः । “अजापुरीषप्रतिमो

रुजावान् सलोहितो लोहितपिच्छिलास्रः । विदार्य्य
कृष्णं प्रचयोऽभ्युपैति तं चाजकाजातमिति व्यवस्येदिति”
वैद्यकोक्ते रोगभेदे ।

अजकाव न० अजका अजागलस्तनैव वाति प्रकाशते

वा--क । अजागलस्तनाकारकाष्ठावयवयुक्ते मैत्रावरुणे
यज्ञीयपात्रभेदे, “अजकावं दुर्दृशीकं तिरोदधे” इति
वेदः । अजैव अजका तत्पुरीषं वा तद्वत् वाति प्रकाशते
वा--क । अजकाजाताख्ये रोगभेदे पु० । शिवधनुषि न० ।

अजक्षीर न० अजायाः क्षीरं ६ त० पुंवद्भावः । छागीस्तन्य-

दुग्धे “अजक्षीरेण पाचयेदिति” वैद्यकम् ।

अजग न० अजं विष्णुं गच्छति शरत्वेन गम--त । शिवधनुषि ।

अजेन ब्रह्मणा गम्यते गीयते वा कर्म्मणि गम--ड--गै--क
वा । विष्णौ पु० । अजेन गच्छति, अजं छागं यज्ञाङ्गत्वेन
वा गच्छति गम--ड । वह्नौ पु० । प्रज्ञा० स्वार्थे अण्
आजगमपि शिवधनुषि “स्थाणोर्धनुष्याजगमित्यमरमाला ।

अजगन्धा स्त्री अजस्य गन्ध इव गन्धोऽस्याः । (वनजोयान)

इति ख्यातायां वनयामान्याम् अजमोदायाम् ।

अजगन्धिका स्त्री अजस्य गन्ध इव गन्धो यस्याः ब० कप्,

कापि अत इत्त्वम्, अजस्य गन्ध इव गन्धः अस्त्यस्य ठन्
वा । (वावुइ इति) प्रसिद्धे वर्वरीशाके ।

अजगन्धिनी स्त्री अजस्य मेषस्य गन्धी लेशः एकदेशः

शृङ्गमिति यावत् सोऽस्याः फलाकारेणास्तीति अजगन्ध +
इनि ङीप् । (गाडरशिङ्गा) इति प्रसिद्धे अजशृङ्गीवृक्षे ।

अजगर पु० अजं छागं गिरति गलति गॄ--अच् । वृहत्सर्पे ।

अजगरं अगस्त्यशापात् वृहत्सर्पभावापन्नं नहुषमधिकृत्य
कृतो ग्रन्थः अण् । आजगरम अजगरकथायाम् न० । तच्च
वनपर्व्वणि आजगरोपाख्यानरूपम् ।

अजगव पु० अजगो विष्णुः शरत्वेन त्रिपुरासुरबधकाले-

ऽस्यास्ति अजग + अस्त्यर्थे व । शिवधनुषि “शिवोऽप्यजगवं
चापं विधुन्वन् तरसा रणे” इति पुरा० ।

अजगाव पु० अजगं विष्णुमवति अव--अण् उप० स० । शिवधनुपि ।

अजघन्य त्रि० न जघन्यः अधमः न० त० । अधमभिन्ने

श्रेष्ठे च । “त्वष्टा च द्वादशोविष्णुरजघन्योजघन्यज”
इति भार० ।
पृष्ठ ००८९

अजजीविक त्रि० अजएव क्रयविक्रयादिभ्यां पालनादिना

वा जीविका जीवनोपायोऽस्य । छागक्रयविक्रयादिना
जीविकावति ।

अजटा स्त्री नास्ति जटा शिफा यस्याः । (भुंइआमला)

इति प्रसिद्धे शिफारहिते वृक्षभेदे । पृ० । अजडाप्यत्र

अजडा स्त्री अजडयति स्पर्शमात्रादङ्गमर्द्दनार्थं चालयति

अजड + णिच्--ततः अच् । (आल्कुशीति) प्रसिद्धे वृक्षे-
जडभिन्ने जाड्यविरोधिचाञ्चल्यवति त्रि० ।

अजथ्या स्त्री अजानां समूहः अज + थ्यन् स्त्रीत्वात् टाप् ।

अजसमूहे । तद्वन्नानावर्णत्वात् स्वर्णयूथिकायाञ्च ।

अजदण्डी स्त्री अजस्य ब्रह्मणोदण्डोऽस्याः ५ ब० गौरा०

ङीष् । ब्रह्मदण्डीवृक्षे ब्रह्मणो यज्ञार्थदण्डस्य तदीयकाष्ठेन
करणात्तथात्वम् ।

अजदेवता पु० ६ त० । छागाधिदेवे वह्नौ “रौद्री धेनुर्विनि-

र्द्दिष्टा छाग आग्नेय उच्यते” इति शु० विष्णुध० ।

अजननि स्त्री न + जन--आक्रोशे अनि । आक्रुश्यमाने

जन्माभावे । “तस्याजननिरेवास्तु जननीक्लेशकारिणीति”
माघः । वा ङीप् अजननीत्यप्यत्र । अर्थाभावे अव्ययी० ।
जनन्याअभावे अव्य० ।

अजन्मन् पु० नास्ति जन्म यत्र । जन्मनिवृत्तौ मोक्षे “तस्मात्

सयोगादधिगस्य योगमजन्मनेऽकल्पत जन्मनीरु” रिति
रघुः । ६ त० । जन्मरहिते त्रि० ।

अजन्य स्त्री लौकिकहेतुभिर्न जन्यते जन--णिच्--यत् न० त० ।

शुभाशुभसूचकेदैवकृते भूकम्पादावुत्पाते । जन्यभिन्ने त्रि० ।

अजप पु० अस्पष्टं जपति निन्दार्थे नञ्, जप--अच् । कुपाठके

अजं पाति रक्षति पा--क ६ त० । छागपालके त्रि० ।

अजपति पु० ६ त० । छागश्रेष्ठे, मेषराशिपतौ मङ्गले च ।

अजपथ पु० अजस्य तच्चरणयोग्यः पन्थाः अजेन ब्रह्मणा

निर्मितः पन्था वा अप्समा० । छागचरणयोग्यपथे
गगनस्थे पथाकारे सेतौ च (यमनाला) छायापथे ।

अजपथ्य त्रि० अजपथ इव देवपथा० इवार्थे यत् । सङ्कीर्णपथे

नगनसेतुतुल्ये च ।

अजपद पु० अजस्येव पदं चरणोऽस्य । अजैकपान्नामके रुद्रभेदे ।

अजपा स्त्री प्रयत्नेन न जप्या अप्रयत्नोच्चारितत्वात्

जपकर्म्मणि अच् । श्वासप्रश्वासयोः वहिर्गमनागमनाभ्याम्
अक्षरनिष्पादनरूपेजपे, स च हंसः, सोहमित्याकारस्यैव,
तदाकारमन्त्रे च । “उच्छ्वासैरेव निश्वासैर्हंस इत्यक्षरद्वयम्
तस्मात् प्राणश्च हंसाख्य आत्माकारेण संस्थितः । नाभे-
रुच्छ्वस्य निश्वासात् हृदयाग्रे व्यवस्थितः । षष्टिश्वासै
र्भवेत् प्राणः षट् प्राणानाडिका मता । षष्टिर्नाड्यस्त्वहोरा-
त्रम् जपसंख्याक्रमोमतः । एकविंशतिसाहस्रं षट्शता-
धिकमीश्वरि! । जपति प्रत्यहं प्राणी सान्द्रानन्दमयीं
पराम् । विना जपेन देवेशि! जपो भवति मन्त्रिणः ।
अजपेयं ततः प्रोक्ता भवपाशनिकृन्तनीति” तन्त्रम् ।

अजपाद पु० अजस्य पाद इव पादोऽस्य हस्त्या० न अन्त्या-

कारलोपः । रुद्रभेदे तद्देवताकत्वात् पूर्ब्बभाद्रपदनक्षत्रे
च । पाच्छब्देन तु समासे अजपादपि उक्तार्थे पु० ।

अजपाल त्रि० अजान् छागान् पालयति पा + णिच्--अण्

६ त० । छागपालके ।

अजबन्धु पु० अजस्य बन्धुरिव मूर्खत्वात् । अजतुल्यमन्दबुद्धौ ।

“सिलाची नाम कानीना अजबन्धुः पिता तवेति” ।

अजभक्ष पु० अजैर्भक्ष्यतेऽसौ भक्ष--कर्म्मणि घञ् ६ त० ।

(वावुइ इति) प्रसिद्धे वर्वरीघृक्षे तत्पत्रं हि
अजैरतिप्रीतितो भक्ष्यते ।

अजमार पु० अजं मारयति विक्रयार्थं मृ--णिच्--अण् उप० ।

(कषाइ) इति अजमांसविक्रयोपजीवे, तत्प्रधानदेशे च ।
भवादौ कुर्व्वा० ण्य । आजमार्य्यस्तद्भवादौ त्रि० ।

अजमीढ पु० अजोमीढः यज्ञे सिक्तः यत्र ब० । (आजमीर)

प्रसिद्धे देशे । राजनि अण् । आजमीढः तद्देशाधिपे
प्रसिद्धतया युधिष्ठिरे ।

अजमुख पु० अजस्य मेषस्य मुखमेव मुखत्वेन कल्पितमस्य ।

दक्षे प्रजापतौ, तस्य हि शिवद्वेषे मुखेन शिवनिन्दाकरणात्
दक्षयज्ञे शिवाज्ञया वीरभद्रेण तस्योत्पाटने कृते पश्चात्
शिवप्रसादने पुनरुत्पादनाय वीरभद्रे नियोजिते अजमुखे-
नैव तन्मुखं कल्पितं तच्च काशीखण्डे विवृतं यथा । “वीर-
भद्रोऽपि तत् सर्व्वं सर्व्वाज्ञां प्रतिपद्य च । विना दक्षस्य
वदनं यथापूर्ब्बमकल्पपयत् । ईश्वरं ये हि निन्दन्ति ते
मूकाः पशवो ध्रुवम् ततो मेषमुखं दक्षं वीरभद्रोऽव्यकल्प
यदिति” ।

अजमोदा स्त्री अजस्य मोद इव मोदो गन्धो यस्याः अजं

मोदयति आनन्दयति मोदि--अण् वा । अजगन्धवत्यां,
वनयमान्याम् यमानीमात्रे च ।

अजम्भ पु० नास्ति जम्भो दन्तोऽस्य ब० । भेके सूर्य्ये च ।

दन्तशून्ये त्रि० । अजातदन्ते अवस्थाभेदे च ।
पृष्ठ ००९०

अजय पु० वीरभूमिनगरसन्निधाने (अजय) इति नामके

नदविशेषे इति कल्पद्रुमः । तन्मूलं मृग्यं संस्कृतशास्त्रे तन्न-
दस्य कुत्राप्यनुल्लेखात् । अजेन छागेन याति या--क ३ त० ।
छागवाहने अग्नौ पु० । जि--अच् न० त० । जयाभावे
“लाभालाभी जया जयाविति” गीता । ब० । जयशून्ये त्रि० ।
अव्ययी० । जयाभावे अव्य० । नास्ति जयो मादकत्वे-
नास्याम् । (सिद्धि, भाङ्ग) इति च प्रसिद्धनामिकायाम्
विजयायाम् स्त्री ।

अजय्य त्रि० जि--शक्यार्थे यत् न० त० । जेतुमशक्ये दुर्जये

शत्रौ पणे च । “दैवैरजय्यान् दितिजान् विजिग्ये” इति
भार० । “तत्राजय्यं जिगाय तान्” इति मुग्ध० ।

अजरा त्रि० नास्ति जराऽस्याः । (घृतकुमारी) इति प्रसिद्धे

वृक्षे तस्य जराभावात्तत्त्वम् । अव्ययीभावे अच् समा०
अजरसम् जराभावे अव्य० । नास्ति जरा यस्य, देवे । तेषां
षड्भावविकारमध्ये जायतेऽस्ति वर्द्धते इति तिसृणामेव
दशानां सद्भावात् तदुत्तरवर्त्तिनीनां “विपरिणमते अपक्षीयते
नश्यतीति” तिसृणामभावादजरत्वम् । जराशून्ये त्रि० ।
“अजरामरवत् प्राज्ञो विद्यामर्थांश्च चिन्तयेदिति” नीति० ।
ब्राह्मणजातौ स्त्री । “सा सत्या साऽजरामरेति पुरा० । न
जीर्य्यति क्षीयते जॄ--अच् न० त० । परब्रह्मणि न० ।
वृद्धदारकनामवृक्षभेदे पु० । गृहगोधिकायाम् स्त्री ।

अजर्य्य न० न जीर्य्यति न + जॄ--कर्त्तरि यत् । सौहार्द्दे “तेन

सङ्गतमर्य्येण रामाजर्य्यं कुरु द्रुतमिति” भट्टिः ।

अजलम्बन न० अज इव लम्ब्यते गृह्यते कृष्णवर्णत्वात् कर्म्मणि

ल्युट् । स्रोतोऽञ्जने ।

अजलोमन् पु० अजस्य लोमेव लोम (मञ्जरी) यस्य

ब० । (शूकशिम्बो) इति ख्याते अजलोमवन्मञ्जरीविशिष्टे
वृक्षभेदे । वा डाप् वा ङीप् च । अजलोमा--अजलोमी
चेत्यप्यत्र स्त्री ।

अजवस् पु० जु--असुन् न० त० । वेगशून्ये । “अजवसो जविनीभिर्विवृश्चन्” इति वेदः ।

अजवस्ति स्त्री अजस्य बस्तिरिव वस्तिरस्य । ऋषिभेदे ।

गृष्ट्या० अपत्यार्थे ढञ् । आजवस्तेयः तदपत्ये पु० स्त्री ।
स्त्रियाम् आजवस्तेयी । यस्कादिपाठात् बहुषु लुकि ।
अजवस्तयः तदपत्येषु ।

अजवाह पु० अजं वाहयति यत्र आधारे घञ् ६ त० ।

देशभेदे । कच्छादि० भवाद्यर्थे अण् । आजवाहः तद्देश
जातादै त्रि० ।

अजवीथी स्त्री अजेन ब्रह्मणा निर्म्मिता वीथी पदं शा० त० ।

गगनसेतुरूपे (यमनाला) इति ख्याते छायापथे । यामा-
रभ्य अगस्त्यस्थानपर्य्यन्तं पितृयानपथः । “पितृयानोऽज-
वीथ्याश्च यदगस्त्यस्य चान्तरमिति” पुरा० ।

अजशृङ्गी स्त्री अजस्य मेषस्य शृङ्गमिव फलमस्याः व० ।

(गाड़लशिङ्गा) इति प्रसिद्धे मेषशृङ्गतुल्यफलवत्यां
मेषशृङ्ग्याम् ।

अजस्तुन्द न० अजस्य तुन्दमिव तुन्दमस्मिन् तन्नगरवासिना-

मित्यर्थात् सुट् । नगरभेदे । “अजस्तुन्दं नाम
नगरमिति” सि० कौ० ।

अजस्र न० न + जस र । सन्तते विच्छेदरहिते । तथाभूतका-

लस्थायिनि वस्तुमात्रे त्रि० । “अजस्रमाश्रावितवल्लकीगु-
णेति” माघः “अजस्रदीक्षाप्रयतस्य मद्गुरोरिति” रघुः ।

अजहत्स्वार्था स्त्री न जहत् स्वार्थोयाम् हा--शतृ

न० ब० । स्वार्थापरित्यागेन परार्थावबोधिकायां लक्षणा-
याम् । यथा श्वेतो धावतीत्यादौ श्वेतगुणापरित्यागेन
तद्वति लक्षणा । “जहत्स्वार्थाजहत्स्वार्थे द्वे वृत्तीं ते
पुनस्त्रिधा” इति हरिः ।

अजहल्लिङ्ग पु० न जहत् लिङ्गं यम् हा--शतृ न० व० ।

नियतलिङ्गके विशेष्यस्यान्यलिङ्गकत्वेऽपि स्वलिङ्गात्यागेन
स्वलिङ्गपरे विशेषणशब्दे । तथा चान्यत्र विशेषणस्य
विशेष्यानुसारिलिङ्गत्वनियमेऽपि अस्य न तथा नियमः ।
यथा वेदः श्रुतिर्वा प्रमाणम् ।

अजहा स्त्री न जहाति शूकान् । हा--श न० त० । (आल्कुशीति) ख्याते वृक्षे ।

अजागर पु० जागरयति जागरः न जागरो यस्मात् ५ ब० ।

सेवनेन निद्राराहित्यकारके “यदपेक्षयाऽन्यस्मिन् जागरण-
कर्त्तृत्व नास्ति” तादृशे (भीमराज) इति ख्याते भृङ्गराजे ।
“भृङ्गराजः सुजागर” इति रभसवाक्यात् तस्यात्यन्त-
निद्राराहित्यकारित्वम् ।

अजाजि(जी) स्त्री अजेन छागेन वीयते गन्धोत्कटत्वात्

त्यज्यते अज--इन् वीभावाभावः ६ त० । सर्वभक्षेणापि
छागेन गन्धोत्कटतया त्यज्यमाने, (जीरा) इति प्रसिद्धे
जीरके वृक्षे । काकोदुम्बरिकावृक्षे च (पेयारा) ॥

अजाजीव पु० अजेन तद्रक्षणपोषणादिना तत्क्रयविक्रया-

दिना वा आजीवति आ + जीव--अच् ३ त० । छाग
पालके तत्क्रयविक्रयाभ्यामाजीविनि च ।

अजातककुद् पु० न जातं ककुदमंसकूटं यस्य न--ब०

ककुदशब्दस्यान्त्याकारलोपः । अपूर्णककुदि अल्पवयस्के
गवादिवत्से ।
पृष्ठ ००९१

अजातदन्त त्रि० न जातो दन्तोऽस्य, यस्मिन् वयसि वा ।

दन्तजननशून्ये, अवस्थाभेदे च । “अजातदन्ता ये केचिद् ये
च गर्भे प्रपीड़िता” इति वायुपुरा० । “अजातदन्तमरणे
पित्रोरेकाहमिष्यते” इति शु० कूर्म्मपुरा० । तत्कालश्च
नृणां षण्मासाभ्यन्तरमिति शुद्धितत्त्वे सपञ्चं निरूपितम् ।
पश्वादीनान्तु प्रधानदन्तोत्पत्त्यभावे एवाजातदन्तत्वव्यवहारः
(आदाँता) इत्यादि लोके प्रसिद्धिः । स च प्रायेण द्विवर्षो-
त्तरकालपर्य्यन्त्तः ।

अजातपक्ष त्रि० न जातौ उड्डयनसामर्थ्ययुक्तौ पक्षावस्य ।

अनुद्भिन्नपक्षके पक्षिणि । “अजातपक्षाः शकुना इवाबभु-
रिदि भार० ।

अजातशत्रु पु० जातस्य जन्तुमात्रस्य न शत्रुः अश्राद्धभोजी-

त्यादिवत् नञो व्य वहितेन शत्रुशब्देनान्वयात् असमर्थ-
समासः, न जातः शत्रुरस्य वा । युधिष्ठिरे राजनि । “न
द्वेष्टि यज्जनमतस्त्वमजातशत्रुः, इति” वेणी० । एवमजा-
तारिरपि तत्रैव । “हन्त जातमजातारेः प्रथमेन त्वयारिणे-
ति” माघः ।

अजाति स्त्री जन--क्तिन् न० त० । अनुत्पत्तौ ।

ब० । जातिशून्ये, न्यायोक्ते--जात्यादौ, नित्ये च त्रि० ।

अजादनी स्त्री अजैस्तृप्त्याद्यतेऽसौ अन्येन दुःखस्पर्शत्वेऽपि

अजै--राद्यते इति अद--कर्म्मणि ल्युट् ६ त० । दुरा-
लभा इति (विचिति) इति च प्रसिद्धे स्पर्शेन दुःखदायके
वृक्षभेदे ।

अजादि पु० ६ त० । ङीब्बाधकटाब्निमित्ते पाणिन्युक्ते

शब्दसमूहे स च गणः । एडका, कोकिला, चटका,
अश्वा मूषिका, बाला, होड़ा, वत्सा, पाका,
मन्दा विलाता, पूर्ब्बापहाणा, अपरापहाणा (सम्भस्त्राजि-
नशणपिण्डेभ्यः फलात्) । (सदच्काण्डप्रान्तशतैकेभ्यः
पुष्पात्) । (मूलान्नञः) (शूद्रा चामहत्--पूर्व्वा जातिः)
ज्येष्ठा कनिष्ठा मध्यमा (पुंयोगेऽपि) क्रुञ्चा उष्णिहा
देवविशा दंष्ट्रा ।

अजानि पु० नास्ति जाया यस्य ब० जायाया निङादेशः जायारहिते ।

अजानिक त्रि० अजेन तद्विक्रयपालनादिना आनो जीवनम्

अस्त्यस्य ठन् । अजाजीविनि । तस्य कर्म्म भावो वा
पुरोहिता० यक् । आजानिक्यम् तत्कर्म्मणि तद्भावे
च न० ।

अजानेय पु० अजेऽपि विक्षेपेऽपि आनेयो यथास्थानं प्राप-

णीय आरोही येन अज--विक्षेपे अप् वीभावाभावः आ +
नी--कर्म्माण यत् ततः ३ ब० । बहुशस्त्रप्रहारप्रतिरोधेऽपि
निर्भयेन यथास्थानमारोहिणः प्रापके अश्वे, उत्तमाश्वे च
निर्भये त्रि० ।

अजान्त्री स्त्री अजस्यान्त्रमिव अन्त्रं तदाकारवती मञ्जरी

अस्याःगौ० ङीष् । नीलवुह्नायाम् (नीलवोना) ।

अजापक्क न० “छागशकृद्रसमूत्रक्षीरैर्दध्ना च साधितं सर्पिः ।

सक्षारं यक्ष्महरं काशश्वासोपशान्तये परममिति” चक्र-
दत्तोक्ते घृतभेदे न० ।

अजापालक त्रि० अजान् आपालयति आ + पा--णिच् ण्वुल् उप० । अजपालके, तेनाजीवके च ।

अजि त्रि० अजति अज--इन् व्यभावः । गतिशीले । पदाजिः ।

भावे इन् । गतौ, क्षेपे च स्त्रियां वा ङीप् ।

अजित त्रि० न० त० । जितभिन्ने पराजितभिन्ने । जिधातो-

र्द्विकर्म्मकत्वात् अनिर्जितशत्रौ, अपराजितदेशादौ चास्य
प्रवृत्तिः एकस्य कर्म्मणोऽविवक्षायामन्यस्य विवक्षायां तत्रैव
कर्म्मणि क्तः । भूरिप्रयोगस्तु अनिर्ज्जितशत्रावेव तथा च
“गौणे कर्म्मणि दुह्यादे” रित्युक्तेः गौणकर्म्मणएवाभि-
धाननियमात् तस्यैव जयकर्म्मतायां क्तेनाभिधातुं योग्य-
त्वम् । “न च तेऽस्त्यजितं किञ्चिदिति पुरा०, नास्त्येषा-
मजितो देश” इत्यादौ गौणकर्म्मणोऽविवक्षयैव जयप्राप्त
देशादौ जितशब्दप्रयोगात् ततोगञ्समास इति भेदः ।
रागादिभिर्जितत्वाभावात् शिवे, विष्णौ, बुद्धे, च पु० ।

अजिन न० अजति क्षिपति रजआदि, आवरणेन अज--इनच्

न व्यादेशः । चर्म्मणि, चर्म्मावृतत्वादेव रजआदीनां न
देहप्रवेश इत्यतश्चर्म्मणोरजोविक्षेपसाधनत्वात्तथात्वम् ।
“चेलाजिनकुशोत्तरमिति” स्मृतिः । “ऐणेनाजिनेन ब्राह्मण-
मिति” गृह्यम् । “गजाजिनं शोणितविन्दुवर्षि चेति”
“अथाजिनाषाढ़धर इति” च कुमा० । अदूरभवादावर्थे
कृशा० छण् । आजिनीयः तददूरभवादौ त्रि० ।

अजिनपत्रा(त्री) (त्रिका) स्त्री अजिनं चर्मेव सुश्लिष्टं

पत्रं पक्षो यस्याः ब० । (चाम्चिका) इति प्रसिद्धे पक्षिभेदे
गौ० ङीष् (त्री) तत्रार्थे । ततः स्यार्थे के ह्रस्वे यापि-
पत्रिकापि तत्रार्थे ।

अजिनफला स्त्री अजिनं चर्मविकारत्वात् भस्त्रा इव फलं

यस्याः अजिनपूर्ब्बकत्वेन जातिलक्षणं ङीपं बाधित्वा अजा०
टाप् । (टेपारी) इति प्रसिद्धे, भस्त्राकारफले वृक्षभेदे ।

अजिर न० अज--किरन् वीभावाभावः । (उटान) इति ख्याते

चत्वरे । शीघ्रगन्तरि त्रि० । “श्येना अजिरा इति”
ता० ब्रा० “अजिराः क्षिप्रगमनशीला इति” भाष्यम् अत
एव क्षिप्रनाम्नि निरुक्ते अजिरमिति पठितम् शीघ्रवेगव-
पृष्ठ ००९२
त्त्वात् नद्यां स्त्री । निरुक्ते च अजिरेति नदी नाम्निपठितम्
ऋषिभेदे पु० तदपत्यम् शुभ्रा० ढक् । आजिरेयः
तदपत्य पु० स्त्री । उत्करा० छ । अजिरीयः तत्सम्ब-
न्धिनि त्रि० ।

अजिरादि ब० पाणिनिना संज्ञायां मतुपि दीर्घविघौ

पर्य्युदस्ते शब्दसमूहे सच गणः अजिर, स्वदिर, पुलिन,
हंस, कारण्डव, चक्रवाक इति । अजिरवती । तद्भिन्ने
तु अमरावतीति ।

अजिह्म त्रि० हा--मन् द्वित्वालोपौ ततः न० त० । सरले

“अजिह्मामशठां शुद्धां जीवेद्ब्राह्मणजीविकामिति” पुरा० ।

अजिह्मग पु० अजिह्मं सरलं गच्छति गभ--ड । वाणे ।

“वेगवद्भिरजिह्मगैरिति” । सरलगामिनि त्रि० । “व्रजेद्दि-
शमजिह्मग” इति ।

अजिह्व पु० जि--वन् हुक् च जिह्वा रसना सा नास्ति यस्य

ब० । भेके । तेषां जिह्वाशून्यत्वमुक्तं भारते आनु० ।
“उवाच देवान् मण्डूको रसातलतलोत्थितः । रसातलतले
देवा! वसत्यग्निरिति प्रभो! । सन्तापादिह सम्प्राप्तः पावक
प्रभवादहम् । स संसुप्तो जले देवा! भगवान् हव्यवाहनः ।
अपः सं सृज्य तेजोभिस्तेन सन्तापिता वयम् । तस्य दर्श-
नमिष्टं वो यदि देवा! बिभावसोः । तत्रैनमधिगच्छध्वं
कार्य्यं वो यदि वह्निना । गम्यतां साधयिष्यामो वयं ह्यग्नि-
भयात् सुराः! । एतावदुक्त्वा मण्डूकस्त्वरितो जलमाविशत् ।
हुताशनस्तु बुबुधे मण्डूकस्य च पैशुनम् । शशाप स
तमासाद्य न रसान् वेत्स्यसीति वै । तं वै संयुज्य शापेन
मण्डूकं त्वरितो ययौ । अन्यत्र वासाय विभुर्न चात्मा-
नमदर्शयत् । देवास्त्वनुग्रहञ्चक्रुर्मण्डूकानां भृगूत्तम! ।
यत्तच्छृणु महाबाहो! गदतो मम सर्वशः । अग्निशापाद-
जिह्वापि रसज्ञानवहिष्कृताः । सरस्वतीं बहुविधां
यूयञ्चीच्चारयिष्यथ । विलवासगतांश्चैव निराहारानचेतसः ।
गतासूनपि संशुष्कान् भूमिः सन्धारयिष्यति । तमोघना-
यामपि वै निशायां विचरिष्यथ इति” । जिह्वाशून्ये त्रि० ।

अजीकव अज्या शरक्षेपणेन कं ब्रह्माणं वाति प्रीणाति वा--क ।

शिवधनुषि ।

अजीगर्त्त अज्यै गमनाय गर्त्तमस्य । सर्पे । वाह्वा० इञ् । आजीगर्त्तस्तदपत्ये पुंस्त्री ।

अजीर्ल न० जॄ--भावे क्त न० त० । जठरानलमान्द्येन भुक्ता-

न्नादेरपाके, न० ७ ब० । रोगभेदे । “भवेदजीर्णं प्रति
यस्य शङ्का स्निग्धस्य जन्तोर्बलिनोऽन्नकाले । पूर्ब्बं
सशुण्ठीमभयासशङ्कः संप्राश्य भुञ्जीत हितं हि पथ्यमिति”
चक्र० । “अजीर्णे भेषजं वारि जीर्णे बारि बलप्रदमिति”
वैद्यकम् । कर्त्तरि क्त जीर्णोवृद्धः । तद्भिन्ने त्रि० ।

अजीव त्रि० नास्ति जीवो जीवनं वा यस्य । जीवरहिते

घटादौ, मृते, जन्तुमात्रे च ।

अजीवनि स्त्री न + जीव--अनि । आक्रुश्यमाने जीवनाभावे

निन्दितजोवने च “अजीवनिस्तव भूयात्” इति मुग्ध० ।
“तस्य भूयादजीवनिरिति” ।

अजुर त्रि० अज--कुरच् व्यभावः । वेगशीले बलवति “अवक्र-

क्षिणं वृषभं यथाजुरमिति” वेदः ।

अजेय त्रि० जेतुमशक्ये जि--यत् न० त० । जयायोग्ये ।

अजेयाख्ये घृते न० । “पिवेद्घृतमजेयाख्यमिति” वैद्यकम् ।

अजैकपाद(द्) पु० अजस्य छागस्य एकः पाद इव पादो

यस्य उपमा० ब० न पादस्यन्त्याकारलोपः । रुद्रविशेषे,
तद्देवताके पूर्ब्बभाद्रपदनक्षत्रे च । पाच्छब्देन समासे
अजैकपादपि तत्रार्थे । “वीरभद्रश्च १ शम्भुश्च २ गिरीशश्च ३
महायशाः । “अजैकपाद (४) हिर्बुध्नः ५ पिनाकी ७
चापराजितः ७ । भुवनाधीश्वरश्चैव ८ कपाली च ९
विशाम्पते! स्थाणु १० र्भर्गश्च ११ भगवान् रुद्रास्त्वेका-
दश स्मृता” इत्युक्तेषु एकादशसु रुद्रेषु मध्ये चतुर्थे रुद्रे ।
अन्यत्र तु अजैकपादर्हिर्बुध्ना ३ विरूपाक्षश्च ४ रेवतः ५ ।
हरश्च ६ बहुरूपश्च ७! त्र्यम्बकश्च ८ सुरेश्वरः ९ । रुद्रा
एकादश प्रोक्ता जयन्त १० श्चापराजितः ११ इत्येवं
तद्भेदाः । एतेषामेव ध्यानानि वक्ष्यन्ते । तेन अज
इति नामान्तरं एकपादिति च नामान्तरमिति द्रष्टव्यम् ।
“तेन अजनामा महारुद्रम्” इत्यादि अजस्य ध्यानम् ।
“एकपादाभिधो विप्रेत्यादि” एकपादस्य ध्यानमिति वक्ष्यते

अज्जूका स्त्री अर्जयति या सा अर्ज्जि--ऊक, पृ० रकारस्य

जत्वम् । वेश्यायाम् । नाट्य एवास्य प्रयोगः नान्यत्र ।

अज्झटा स्त्री अजति दोषं क्षिपति अज्--क्विप् झटति

संहन्यते झट--अच् ततः कर्म्म० पृ० कुत्ववीभावाभावः ।
(भुंइ आमला) इति प्रसिद्धे वृक्षे ।

अज्झल न० अञ्चति क्विप् अक् हलति विलिखति हल--अच्

कर्म्म० पृ० न कुत्वम् । चर्म्मादिमये प्रतियोधायुधप्रति-
रोधके (ढाल) इति ख्याते फलके ।

अज्ञ त्रि० न जानाति ज्ञा--क न० त० । ज्ञानशून्ये चैतन्य-

शून्ये, विशेषज्ञानशून्ये, मूर्खे, वेदान्तिमतसिद्धाज्ञान-
रूपपदार्थवति च । तैहि अहमज्ञ इत्यनुभवस्य अज्ञानविष-
यत्वं स्वीक्रियते अज्ञानञ्च न ज्ञानाभावः किन्तु पदार्थान्तरं
पृष्ठ ००९३
तच्चाज्ञानशब्दे विस्तरेण वक्ष्यते । प्राज्ञः प्रकर्षेणाज्ञः सुषु
प्त्यवस्थापन्ने जीवे तदानीं विशेषज्ञानाभावात् प्राज्ञत्वम् ।
अचेतने, जडे, “वत्सविवृद्धिनिमित्तं क्षीरस्य यथा
प्रवृत्तिरज्ञस्येति” सांख्यका० । अल्पज्ञे, किञ्चिज्ज्ञे च ।

अज्ञात त्रि० न ज्ञातः । ज्ञानाविषयीभूते पदार्थे । “अज्ञात-

कुलशीलस्य वासोदेयो न कस्यचित्” इति हितोप० ।

अज्ञान न० न ज्ञानम् । ज्ञानाभावे, ज्ञानविरोधिनि तदभावे

“तत्राज्ञानं धिया नश्येदिति” वेदान्तिमतसिद्धे
पदार्थान्तरे च “अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तव”
इति गीता । “अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकयेति,
गुरुनतिः । अज्ञानञ्च ज्ञानाभाव इति नैयायिकाः ।
पदार्थान्तरमिति वेदान्तिनः । तथाहि अहं न जानामि
अहमज्ञ इत्यादिविशिष्टानुभवः सार्वलौकिकः स च ज्ञाना-
भवविषय इति नैयायिकैर्यदुक्तं तन्न युक्तं विशिष्टबुद्धौ विशेषण
ज्ञानस्य हेतुतायाः सर्ववादिसिद्धतया आत्मधिर्म्मिकज्ञा-
नाभावप्रकारकज्ञाने जनयितव्ये तद्विशिष्टज्ञानाभावघटक-
ज्ञानरूपस्य विशेषणस्य ज्ञानं पूर्ब्बमपेक्षितम् आत्मनि
तादृशे ज्ञाने च तदानीं सति कथङ्कारं ज्ञानाभावविशिष्ट
बुद्धिः स्यात् यस्मिन् धर्म्मिणि ज्ञानमस्ति तत्र ज्ञानाभाव-
ज्ञानस्य बाधितत्वमेव अभावबुद्धेः प्रतियोगिज्ञानरोधि-
तायाः सर्वमस्मतत्वात् । किञ्च ज्ञानाभावः किं ज्ञानसामा-
न्याभाव उत तत्प्रागभावः अथ तद्ध्वंसो वा तत्र विषयो
भवति, नाद्यः पूर्ब्बोक्तयुक्त्या ज्ञानाभावानुभवासम्भवेन
प्रत्याख्यातत्वात् । न द्वितीयः प्रागभावस्य सामान्य-
धर्म्मानवच्छिन्नप्रतियोगिताकतया तत्तज्ज्ञानप्रागभावस्यैव
विषयता वाच्या सा च न सम्भवति सामान्याकारेण
ज्ञानाभावस्यैव प्रतीयमानत्वात् अन्यथा ज्ञानवत्यपि पुरुषे
तादृशप्रतीतिः स्यात् अग्रे जनिष्यमानानन्तज्ञानप्राग-
भावानामात्मनि सत्त्वेऽपि तेषाञ्च तत्तज्ज्ञानप्रतियोगि-
कत्वेन ज्ञानसामान्यविशिष्टबुद्धौ विरोधिताभावात् । नान्त्यः
प्रागभावरीत्या तस्यापि प्रत्याख्यातत्वात् । अतस्तादृशानुभवस्य
विषयरक्षार्थं ज्ञानाभावातिरिक्तमज्ञानं कल्पनीयम् ।
तच्चानुमानेनैव । अनुमानञ्चेत्थमुक्तं प्रमेयविवरणोपन्यासे ।
विवादाध्यासितं ज्ञानं स्वप्रागभावातिरिक्तस्वविषयावरक
सविषयकवस्तुपूर्ब्बकं भवितुमर्हति प्रकाशत्वात् अन्ध-
कारे प्रथमोत्पन्नप्रदीपप्रभावदिति । यथा अन्धकारे
प्रथमोत्पन्ना प्रदीपप्रभा स्वविषयस्य घटादेरावरकतमो-
रूपपदार्थपूर्ब्बिका एवं ज्ञानमपि प्रकाशत्वसाम्यात् स्ववि-
षयस्य घटादेरावरकं कञ्चित् पदार्थं समानविषयकं नियतम्
पूर्ब्बमपेक्षते । उत्पन्ने च ज्ञाने प्रदीप्यप्रभया तम इव
तन्निवर्त्तते ज्ञानप्रागभावेन सिद्धसाधनतावारणाय स्वप्राग-
भावातिरिक्तेति विशेषणम् । तच्च अज्ञानं ज्ञानविरोधि
सत्त्वासत्त्वाभ्यामनिर्वचनीयम् । तच्च शुक्तिकाद्यज्ञानं शुक्तौ
रजतादिकमिव ब्रह्मणि प्रपञ्चमुत्पादयति । अतएव तद्भाव-
रूपं भावस्यैव भावपदार्थोपदानत्वसम्भवात् । अभावस्य तु
अधिकरणस्वरूपत्वाङ्गीकारात् न भावस्याभावोपादानत्वव्या-
घातः । तस्य भावरूपत्वेऽपि न त्रैकालिकाबाध्यत्वरूपम्
सत्त्वं तत्त्वज्ञानेन बाध्यत्वात् नापि प्रातीतिकरजतादिवद-
सत्त्वम् व्यवहारयोग्यत्वात् । अतः सदसद्भ्यामनिर्व-
चनीयं व्यवहारिकसत्त्ववत् यत् किञ्चित् भावरूपं
पदार्थान्तरमेवाज्ञानमिति सुस्थितम् । अस्य चाज्ञानस्य
द्वे शक्ती आवरणं विक्षेपश्च तत्र या कदाचित् स्ववि-
षयमावृणोति (विषयत्वसंप्राप्त्यनर्हं करोति) सा आवरण-
शक्तिः या तु स्वकार्य्यबुद्धिवृत्त्या इन्द्रियादिद्वारा
विषयदेशं प्राप्य विषयगतं स्वकारणनिष्ठवरणशक्तिं
नाशयति सा विक्षेपशक्तिः यथोक्तं “बुद्धिवृत्तिचिदाभासौ द्वावेतौ
व्याप्नुतो घटम् । तत्राज्ञानं धिया नश्येत् आभासात्तु घटः
स्फुरेदिति” । यथा च शुक्तिविषयाज्ञानं स्वविषयशुक्ति
मावृत्य स्वशक्त्यैव तत्र उत्पादितं रजतं विषयीकृत्य
तद्गतमावरणशक्तिं नाशयति एवं ब्रह्मविषयकाज्ञानं स्वश-
क्त्यैव ब्रह्मणि उत्पादितं प्रपञ्चं विषयीकृत्य तत्तदाकार-
बुद्धिवृत्तिरूपा विक्षेपशक्तिः तद्गतावरणशक्तिं निवारयतीति
दृष्टानुसारिणीयं कल्पना । अधिकमाकरे द्रष्टव्यम् । नास्ति-
विशिष्टज्ञानमस्य । विशिष्टज्ञानाभाववति अज्ञे त्रि० ।

अज्मन् स्त्री अजति गच्छति स्वर्गं दानेनानया

अजकरणे मनिन् न वीभावः । गवि, इति निरुक्तकारः ।

अञ्चति पु० न० अन्च--गतौ कर्त्तरि अति । वायौ, गन्तरि त्रि० ।

अञ्चल पु० अञ्चति प्रान्तम् अन्च--अलच् । वस्त्रप्रान्ते

“क्षीणाञ्चलमिव पीनस्तनजघनायाः कुलीनायाः” इति
“भूमौ दत्त्वा पदमिह समाधेहि चेलाञ्चलेऽस्मिन्निति
च उद्भट्टः । प्रान्तभागे “दृगञ्चलैः पश्यति केवलं
मनागिति” उद्भट्टः ।

अञ्चित त्रि० अन्च--क्त । पूजिते, आकुञ्चिते च । “अपि-

खञ्जनमञ्जनाञ्चितमिति” नैष० । “अञ्चितसव्यपाद इति”
भट्टिः । “अञ्चितः शूलपाणिरिति” पुरा० । ग्रथिते च
“अर्द्धाञ्चिता सत्वरमुत्यिताया” इति रघुः ।
पृष्ठ ००९४

अञ्जन न० अज्यतेऽनेन अन्ज--करणे ल्युट् । कज्जले ।

“अपि खञ्जनमञ्जनमञ्जनाञ्चितमिति” नैष० । “मैत्रं
प्रसाधनं स्नानं दन्तधावनमञ्जनम् । पूर्ब्बाह्णएव कुर्व्वीतेति”
स्मृतिः । “विलोचनं दक्षिणमञ्जनेन संभाव्येति” रघुः ।
अञ्जनविशेषाश्च सुश्रुते दर्शिता यथा
“चत्वार एते योगाः स्युरुभयोरञ्जने हिताः । कुब्ज-
काशोकशालाम्रप्रियङ्गुनलिनोत्पलैः ॥ पुष्पैर्हरेणुकृष्णाह्वा-
पथ्यामलकसंयुतैः । सर्पिर्मधुयुतैश्चूणै र्वेणुनाड्यामवस्थितैः ॥
अञ्जयेद् द्वावपि भिषक् पित्तश्लेष्मविभावितौ । आम्रजम्बू-
द्भव पुष्प तद्रसेन हरेणुकाम् ॥ पिष्ट्वा क्षौद्राज्यसंयुक्तां
प्रयोज्यमथ वाञ्जनम् । नलिनोत्पलकिञ्जल्कगैरिकै र्गोश-
कृद्रसैः ॥ गुड़िकाञ्जनमेतद्वा दिनरात्र्यन्धयोर्हितम् ।
रसाञ्जनरसक्षौद्रतालीशस्वर्णगैरिकम् ॥ गोशकृद्रसमंयुक्तं
पित्तोपहतदृष्टये । शीतं सौवीरकं वापि पिष्ट्वाथ
रसभावितम् ॥ कूर्म्मपित्तेन मतिमान् भावयेद्रौहितेन वा ।
चूर्णाञ्जनमिदं नित्यं प्रयोज्यं पित्तशान्तये ॥ काश्मरी-
पुष्पमधुकदार्व्वीलोध्रसाञ्जनैः । सक्षौद्रमञ्जनन्तद्वद्धितं नेत्रा-
मये सदा ॥ स्रोतोजं सैन्धवं कृष्णां रेणुकाञ्चापि
पेषयेत् । अजमूत्रेण ता वत्त्यःक्षणदान्ध्याञ्जने हिताः ॥
कालानुसारिवां कृष्णां नागरं मधुकं तथा । ताली-
शपत्रं क्षणदे गाङ्गेयञ्च शकृद्रसे ॥ कृतास्ता वर्त्तयः पिष्ट्वा-
छायाशुष्काः सुखावहाः । मनःशिलाभयाव्योषबलाका-
लानुसारिवाः ॥ सफेना वर्त्तयः पिष्टाश्छागक्षीरसम-
न्विताः । गोमूत्रपित्तमदिराशकृद्धात्रीरसे पचेत् ॥
क्षुद्राञ्जनं रसे चान्यद्यकृतस्त्रैफलेऽपि वा । गोमूत्राज्या-
णवमलपिप्पलीक्षौद्रकट्फलम् ॥ सैन्धवोपहितं युञ्ज्या-
न्निहितं वेणुगह्वरे । मेदोयकृद्घृतञ्छागं पिप्पल्यः
सैन्धवं मधु ॥ रसमामलकञ्चापि पक्कं सम्यङ्निधापयेत् ।
कोशे खदिरनिर्म्माणे तद्वत्क्षुद्राञ्जनं हितम् ॥ हरेणुमग-
धाजास्थिमज्जैलायकृदन्वितम् । शकृद्रसेनाञ्जनं वा श्लेष्म-
प्रहतदृष्टये ॥ विपाच्य गोधायकृदर्द्धपाटितं सुपूरितं
मागधिकाभिरग्निना । निषेवितं तत्सकृदञ्जनेन निहन्ति
नक्तान्ध्यमसंशयं खलु ॥ तथा यकृच्छागभवं हुताशने
विपाच्य सम्यग्मगधासमन्वितम् । प्रयोजितं पूर्ब्बवदा-
श्वसंशयं जयेत् क्षपान्ध्यं सकृदञ्जनन्नृणाम् ॥ प्लीहा
यकृच्चाप्यपभक्षिते उभे प्रकल्प्य शूल्ये घृततैलसंयुतम् । ते
सार्षपस्नेहसमायुतेऽञ्जनं नक्तान्ध्यमाश्वेव हतः प्रयोजिते ।
नदीजशिम्बीकटुकान्यथाञ्जनम्मनःशिला द्वे च निशे यकृ-
द्रसे । स चन्दनेयं गुटिकाथ वाञ्जनं प्रशस्यते वै दिवसेष्व-
पश्यताम्” इति ॥ सौवीरे, रसाञ्जने च । अञ्जनवर्णोऽस्त्यस्य ।
अर्श० अच् । ज्येष्ठदिग्गजे पु० उत्तरदिग्गजयोषिति
केशरियोषिति वानर्य्याञ्च स्त्री । “अञ्जनागर्भसम्भूतो वायु-
पुत्त्रो महाबल इति” तन्त्रम् । भावे ल्युट् । मिश्रीकरणे,
लेपने व्यक्तिकरणे मालिन्ये च न० “निरञ्जनं दिव्यमुपैति
साम्यमिति” निरवद्यं निरञ्जनमिति” च श्रुतिः । अञ्ज-
णिच्--युच् । शक्यलक्ष्यार्थातिरिक्तार्थबोधके आलङ्कारि-
कोक्ते व्यञ्जनावृत्तिरूपे शब्दशक्तिभेदे स्त्री० “अन्यार्थधी-
कृत् व्यापृतिरञ्जनेति” काव्यप्रकाशः । तत एव भावे ल्युट्
तत्रवार्थे न० ।

अञ्जनकेशो स्त्री अञ्जनमिव केशो यस्याः ५ त० ।

केशसंस्कारके हट्टविलासिनीनामके ग्रन्धद्रव्ये । यत्संयोगात्
केशस्यातीव कृष्णता स्यात् ।

अञ्जनशलाका स्त्री अञ्जनसाधनं शलाका । अञ्जन दानाथ

शालाकायाम् “ज्ञानाञ्जनशलाकयेति” गुरुनतिः ।

अञ्जनागिरि पु० अञ्जनवर्णो गिरिः किंशुका० दीर्घः ।

नीलपर्वते तद्विवरणं नीलगिरिशब्दे ।

अञ्जनाद्रि पु० अञ्जनमिव कृष्णः अद्रिः । नीलपर्वते “अञ्ज-

नाद्रिनिभां श्यामामिति” कालीध्यानम् ।

अञ्जनाधिका स्त्री अञ्जनादधिका कृष्णत्वात् ५ त० ।

(आजनाइ) इति ख्याते कीटभेदे ।

अञ्जनावती स्त्री अञ्जनं विद्यतेऽस्याः अधिककृष्णवणत्वात्

अञ्जन + मतुप् वत्वं दीर्घः । ईशानकीणस्य हस्तिन्याम् ।
कालाञ्जनवृक्षे पु० ।

अञ्जनिका स्त्री अञ्जनवर्णोऽस्त्यस्याः ठन् कापि पूर्ब्बा-

कारस्य इत्त्वम् । (आजनाइ) इति प्रसिद्धे अञ्जनाख्ये
कीटभेदे । अञ्जना स्वार्थे कन् । प्रतीकदिग्गजस्त्रियाम् ।
पुरोहि० यक् । आञ्जनिक्यम् तद्भावे न० ।

अञ्जनी स्त्री अज्यते चन्दनकुङ्कुमादिभिरसौ अनज--कर्म्मणि

ल्युट् ङीप् । कुङ्कुमाद्यनुलिप्तायाम् स्त्रियाम् । करणे
ल्युट् । कटुकावृक्षे, कालाञ्ज नवृक्षे च । “अञ्जनीदारुकाष्ठमय-
स्तम्भः मैत्रावरुणः” इति याज्ञिकाः न्याय्यायां स्त्रियाञ्च ।

अञ्जलि पु० अन्ज--अलि । संयुतकरपुटे, “श्रवणञ्जलि-

पुटपेयमिति वेणी० । “न्यायप्रसूनाञ्जलिरिति” उदयनः
कुड़वपरिमाणे च अञ्जलिपरिमितद्रव्येच “प्रकीर्णः पुष्पाणां
हरिचरणयोरञ्जलिरयमिति” वेणी० ।

अञ्जलिका स्त्री अञ्जलिरिव कायति प्रकाशते कै--क टाप् । बालमूषिकायाम् ।

पृष्ठ ००९५

अञ्जस् न० अनक्ति गच्छति मिश्रयति वाऽनेन अन्जु--गतौ

मिश्रणे च असुन् । वेगे, बले, औचित्ये च । “अञ्जस
उपसंख्यानमिति” वार्त्तिकात् तृतीयायाः अलुक् । अञ्जसा-
कृतम् । “अञ्जः समुद्रमपजग्मुराप” इति वेदः ।

अञ्जस त्रि० अन्ज--असच् । सरले अबक्रे ।

अञ्जसा अव्य० अन्ज--भावे अच् अञ्जं गतिं विलम्बं वा स्यति

सो--बा० का । विलम्बाक्षमे, शैघ्र्ये, याथार्थ्ये च । “रसोऽ-
ञ्जसा शासता रज” इति वेदः ।

अञ्जि पु० अज्यतेऽनेन अन्ज--करणे इन् । तिलकादौ चिह्ने

“अग्नयेऽनीकवते रोहिताञ्जिरनड्वानिति” य० रोहितो
रक्तोऽञ्जिस्तिलकोऽस्येति वेददीपः । “तस्मै दन्ताञ्जये इति”
भवदेवे वेदमन्त्रः ।

अञ्जिष्ठ(ष्णु) पु० अनक्ति स्वभाभिर्विश्वस् । अन्ज--इष्ठ--(ष्णु)च । सूर्य्ये ।

अञ्जी स्त्री० अञ्जि + वा ङीप् । पेषणयन्त्रे, मङ्गले च ।

अञ्जीर पु० अन्ज--बा० ईरन् (पेयारा) इति ख्याते वृक्षे ।

अट गतौ भ्वादि० सक० पर० सेट् । अटति आटीत् ।

“भो वटी भिक्षामटेति” सि० कौ । परि + परितो भ्रमणे
पर्य्यटन् ।

अट गगौ इदित् भ्वा० आत्म० सक० सेट् । आण्टते आण्टिष्ट ।

अटनि(नी) स्त्री अटति मौर्व्वीम् अट--अनि वा ङीप् ।

धनुरग्रे गुणारोपणस्थाने ।

अटरु(रू)ष पु० अटति भ्रमति अट--अच् तं रोषति हिनस्ति

रुष--क, अटैः अटद्भिर्वा रूष्यते न युज्यते रूष--क वा ।
(वासक) इति ख्याते वृक्षे ।

अटवि(वी) स्त्री अटन्ति चरमे वयसि यत्र अट--अवि वा

ङीप् । वने । विन्ध्याटवीति का० विन्ध्यगिरिसन्निकृष्ट
प्रसिद्धवनम् । “कान्तारप्रदेशेष्वटवीषु चेति” रामा० ।

अटा स्त्री अट--बा० अङ् । पर्य्यटने ।

अटाट्या स्त्री अट--यङ्--भावे अ स्त्रीत्वात् टाप् ।

परिभ्रमणे, वृथागमने च । यङ्लुकि । अटाटाप्यत्र ।

अट्ट अतिक्रमे बधे च भ्वादि० आत्म० सक० सेट् । अट्टते ।

आट्टिष्ट । दोपधोऽयं तेन अट्टिटिषते आट्टिटत् । क्विपि
अत् । टोपधस्य तु आटिट्टिषते अटिट्टत् क्विप् अट् ।

अट्ट अनादरे चुरादि० उभय० सक० सेट् । अट्टयति ते!

आटिट्टत् ।

अट्ट पु० अट्टयति अनाद्रियतेऽन्यद्यत्र अट्ट--आधारे घञ् ।

प्रासादस्योपरिगृहे, प्राचीरोपरिस्थसैन्यगृहे, च यत्र स्थिता
हि नरा अन्यान् हीनतया नाद्रियन्ते, यस्मिन् वसतश्च
अन्योत्कर्षेऽनादरः । उच्चे भृशे च त्रि० अन्ने “अट्टशूला
जनपदाः शिवशूलाश्चतुष्पथा” इति भार० “अट्टमन्नं शूल
विक्रेयं येषामिति” नीलकण्ठः शुष्के च न० । क्षौमवस्त्रे
प्रासादे च पु० “सुधाधवलाट्टहासेति” काद० । “ददृशे
नगरी लङ्का साट्टप्राकारतोरणेति” रामा० । गृहशब्दे
प्रासादलक्षणादि वक्ष्यते ।

अट्टट्ट अव्य० अट्टोऽनादरः अट्टप्रकारः अट्टस्य गुणवाचितया

प्रकारे द्वित्वम् शकन्ध्वादि० पररूपम् । अत्युच्चे,
“अट्टट्ट हासमशिवं शिवदूती चकार हेति” चण्डी

अट्टन न० अट्ट्यतेऽनाद्रियते रिपुरनेन अट्ट--करणे ल्युट् ।

चक्राकारफलकास्त्रे । भावे ल्युट् । अनादरे न० ।

अट्टस्थली स्त्री अट्टप्रधाना स्थली शा० त० । प्रासादप्रधाने

देशभेदे धूमा० बुञ् । आट्टस्थलकः तद्देशभवे त्रि० ।

अट्टहास पु० अट्टेनातिशयेन हासः हस--घञ् ३ त० ।

उच्चहासे ।

अट्टहासक पु० अट्टहास इव कायति कै--क । कुन्दवृक्षे तस्य

शुभ्रपुष्पत्वात् उच्चहासतुल्यत्वम् ।

अट्टहासिन् पु० अट्टमुच्चैर्हसति हस--णिनि । शिवे । उच्चहासिनि त्रि० ।

अट्टाट्ट पु० अट्टट्टवत् न पररूपम् । अत्युच्चे सर्व्वोत्कर्षे

अनादराधिक्ये ।

अट्टालक पु० अट्ट इव प्रासादगृहमिव अलति पर्य्याप्तो

भवति अल--अच् । प्रासादोपरिस्थे गृहे । स्वार्थे कन् ।
तत्रार्थे “गोपुराट्टालकवतीं हर्म्यप्राकारशोभनामिति” रा० ।

अट्टालिका स्त्री अट्टाल + स्यार्थे कन् । इष्टकादिनिर्मिते

राजगृहे ।

अट्टालिकाकार पु० अट्टालिकां करोति रचयति कृ--अण्

उप० । (राज) प्रासादकारके “कुलटायां च शूद्रायां
चित्रकारस्य वीर्य्यतः । भवेदट्टालिकाकारः पतितो
जारदोषत” इत्युक्ते सङ्कीर्णजातिभेदे ।

अठ गतौ भ्वादि० पर० सक० सेट् । अठति । आठीत् ।

अठ गतौ इदित् आ० भ्वादि० सक० सेट् । अण्ठते ।

आण्ठिष्ट ।

अड अद्यमे भ्वादि० पर० सक० सेट् । अडति आडीत् ।

अड व्याप्तौ स्वादि० पर० अक० सेट् । येद एवास्य प्रयोगः ।

अड्णोति । आडीत् ।

अड्ड अभियोगे, समाधाने च भ्वादि० पर० सक० सेट् । अड्डति ।

आड्डीत् । दोधपधोऽयम् अड्डिडिषति आड्डिडत् । क्विप्
अत् । डोपधस्य तु आडिड्डिषति आडिड्डत् अट्
पृष्ठ ००९६

अण शब्दे भ्वादि० पर० अक० सेट् । अणति । आणीत् ।

अण जीवने दिवा० आत्म० अक० सेट् । अण्यते आणिष्ट ।

अण(न)क त्रि० अणति यथेच्छम् नदति अण--अच् ततः

कुत्सायाम् क । अधमे, निन्दिते च । “पापाणके कुत्-
सितैरिति पा०” । अणक कुलालः सि० कौ० । दन्त्यमध्य-
श्चायमित्यन्ये ।

अणव्य त्रि० अणोः सूक्ष्मशस्य चीनादिकस्य भवनं क्षेत्रम्

अणु + यत् । चीनकादिसमुत्पत्तियोग्ये (सुनाभूभि) क्षेत्रे ।

अणि पु० स्त्री अणति शब्दायते अण--इन् । (आरा) इति

ख्याते रथचक्राग्रस्थिते कीलके, सूच्याद्यग्रभागे च । स्त्रीत्वे
वा ङीप् । अत्र आदेर्दीर्घतापीष्यते । तेन आणिः आणी ।

अणिमन् पु० अणोर्भावः अणु + इमनिच् । सूक्ष्मत्वे सूक्ष्म-

परिमाणे, ऐश्वर्य्यभेदे च यद्वशात् सूक्ष्मीभूय सर्व्वत्र गन्तुं
शक्नोति । ऐश्वर्य्याणि च । “अणिमा लघिमा प्राप्तिः
प्राकाम्यं महिमा तथा । ईशित्वं च वशित्वञ्च तथा कामा-
वसायिता” इत्युक्तानि । एतेषां स्वरूपाणि ऐश्वर्य्यपदार्थ-
निरूपणे वक्ष्यन्ते । “यथा केशः सहस्रधा भिन्नस्तावताणि-
म्नेति” वेदः ।

अणिष्ठ त्रि० अतिशयेन अणु--इष्ठन् । अणुतरे अतिसूक्ष्मे ।

“अन्नमशितं त्रेधा विधीयते तस्य यः स्थविष्ठो धातुस्तत्-
पुरीषं, यन्मध्यस्तन्मासं, योऽणिष्ठस्तन्मन” इति छा० उ० ।

अणीमाण्डव्य पु० अणी शूलाग्रं तच्चिह्नितः माण्डव्यः ।

तन्नामके मुनिभेदे । तस्य तत्प्रोतत्वकथा भार० आ० प० ।
“बभूव ब्राह्मणः कश्चिन्माण्डव्य इति विश्रुतः । धृतिमान्
सर्व्वधर्म्मज्ञः सत्ये तपसि च स्थितः ॥ स आश्रमपदद्वारि
वृक्षमूले महातपाः । ऊर्द्ध्वबाहुर्म्महायोगी तस्थौ
मौनब्रतान्वितः ॥ तस्य कालेन महता तस्मिंस्तपसि वर्त्ततः ।
तमाश्रमपदं प्राप्रा दस्यवो लोप्त्रहारिणः ॥ अनुसार्य्य-
माणा बहुभी रक्षिभिर्भरतर्षभ! । ते तस्यावसथे लोप्त्रं
दस्यवः कुरुसत्तम! । निधाय च भयाल्लीनास्तत्रैवानागते
बले ॥ तेषु लीनेष्वथो शीघ्रं ततस्तद्रक्षिणां बलम् ।
आजगाम ततोऽपश्यंस्तमृषिं तस्करानुगाः । तमपृच्छं
स्वतो राजंस्तथावृत्तं तपोधनम् । कतमेन पथा याता
दस्यवो द्विजसत्तम! । तेन गच्छामहे ब्रह्मन्! पथा शीघ्रतरं
वयम् ॥ तथा तु रक्षिणां तेषां ब्रुवतां स तपोधनः । न
किञ्चिद्वचनं राजन्नब्रवीत् साध्वसाधु वा ॥ ततस्ते
राजपुरुषा विचिन्वानास्तमाश्रमम् । ददृशुस्तत्र लीनास्तांश्चौरां
स्तद्द्र व्यमेव च ॥ ततः शङ्का समभवद्नक्षिणां तं मुनिं प्रति ।
संयम्यैनं ततो राज्ञे दस्यूंश्चैव न्यवेदयन् ॥ तं राजा सह
तैश्चौरैरन्वशाद्बध्यतामिति । स रक्षिभिस्तैरज्ञातः शूले
प्रोतो महायशाः ॥ ततस्ते शूल आरोप्य तं मुनिं रक्षिण
स्तदा । प्रतिजग्मुर्महीपालं धनान्यादाय तान्यथ ॥
शूलस्थः स तु धर्म्मात्मा कालेन महता ततः । निराहारो
ऽपि विप्रर्षिर्म्मरणं नाभ्यपद्यत । धारयामास च प्राणा-
नृषींश्च समुपानयत् ॥ शूलाग्रे तप्यमानेन तपस्तेन
महात्मना । सन्तापं परमं जग्मुर्म्मुनयस्तपसान्विताः ॥ ते
रात्रौ शकुना भूत्वा सन्निपत्य तु भारत! । दर्शयन्तो
यथाशक्ति तमपृच्छन् द्विजोत्तमम् ॥ श्रोतुमिच्छामहे
ब्रह्मन्! किं पापं कृतवानसि । येनेह समनुप्राप्तं शूले
दुःखभयं महत् ॥ वैशम्पायन् उवाच । ततः स मुनि-
शार्दूलस्तानुवाच तपोधनान् । दोपतः कं गमिष्यामि
न हि मेऽन्योऽपराध्यति ॥ तं दृष्ट्वा रक्षिणस्तत्र तथा
बहुतिथेऽहनि । न्यवेदयंस्तथा राज्ञे यथावृत्तं नराधिप! ॥
श्रुत्वा च वचनं तेषां निश्चित्य सह बन्धुभिः । प्रसाद-
यामास तदा शूलस्थमृषिसत्तमम् ॥ राजोवाच । यन्मयाप-
कृतं मोहादज्ञानादृषिसत्तम! । प्रसादये त्वां तत्राहं न मे
त्वं क्रोद्धुमर्हसि ॥ एवमुक्तस्ततो राज्ञा प्रसादमकरोन्मुनिः ।
कृतप्रसादं राजा तं ततः समवतारयत् ॥ अवतार्य्य च
शूलाग्रात्तच्छूलं निश्चकर्ष ह । अशन्नुवंश्च निष्क्रष्टुं शूलं
मूले स चिच्छिदे ॥ स तथान्तर्गतेनैव शूलेन व्यचरन्मुनिः ।
तेनातितपसा लोकान् विजिग्ये दुर्लभान् परैः ।
अणीमाण्डव्य इति च ततो लोकेषु गीयते” इति ॥

अणीयस् त्रि० अतिशयेन अणुः अणु + ईयसुन् । अणुतरे

अतिसूक्ष्मे “अणीरणीयान् महतो महीयान् इति”
श्रुतिः । स्त्रियां ङीप् ।

अणु त्रि० अण--उन् । क्षुद्रे, सूक्ष्मपरिमाणवति, द्रव्ये, लेशे

च । (चिना, काङनी, श्यामा) प्रभृति सूक्ष्मधान्ये पु० ।
“अनणुषु दशमांशोऽणुष्वथैकादशांश” इति लीला० ।
अणुशब्दोहि परिमाणविशेषवाची । तत्र परिमाणस्य
चतस्रोविधा स्थृलसूक्ष्मदीर्घह्रस्वत्वरूपाः “अथादेशोनेतिनेति”
इत्युपक्रम्य “अस्थूलमनण्वह्रस्वमदीर्घमित्यादि” श्रुत्या
चतुर्विधपरिमाणस्यैव ब्रह्मणि निषेधेन परिमाणचातु-
र्विध्यलाभः एतन्मूलकमेव शारीरकभाष्ये, वैशेषिकसूत्रे,
न्यायकदल्याञ्च उक्तभेदमादायैव परिमाणचातुर्विध्यमुक्तम् ।
तत्रारम्भकद्रव्यभूयस्त्वाभूयस्त्वाभ्यां स्थूलसूक्ष्मत्वे ह्रस्वदीर्घत्वे
तु तत्तच्छब्दे वक्ष्येते । एवञ्च सूक्ष्मपदार्थे आरम्भकाल्प-
पृष्ठ ००९७
त्वात् अणुत्व यत्र चारम्भकद्रव्यान्तरं नास्ति स
तादृशपरिमाणवत्त्वात् परमाणुरित्युच्यते । एवञ्च
अणुशब्दस्य शुक्लादिशब्दवत् अणुत्वपरिमाणविशिष्टद्रव्य-
वाचकत्वम् । अणुत्वञ्च सूक्ष्मत्वम् अतिसूक्ष्मत्वञ्च ।
तत्र सूक्ष्मपरत्वेन सर्षपचीनकादिद्रव्याणामारम्भकद्रव्याल्प-
त्वात् तत्र प्रवृत्तिः । तदभिप्रायेणैव “अनणुषु दशमांशोऽ-
णुष्यथैकादशांश” इति लीला० । श्रुतौ च “अणोर-
णीयानिति” निर्द्देशः । अतिसूक्ष्मपरत्वे च “नित्या स्यादणु
लक्षणेति” भाषा० तस्य नित्यत्वञ्च आरम्भकावयवा
भावात् “अनित्या च भवेदन्या सैवावयवयोगिनीति”
भाषापरिच्छेदेऽवयवयोगेनैवानित्यत्वकथनात् परमाणोस्तद-
भावेनैव नित्यत्वं भङ्क्योक्तमिति नैयायिकाः । वेदा-
न्तिनस्तु सूक्ष्मभूतानामपि ब्रह्मण उत्पत्तिमुररीचक्रुः ।
यथा च एतन्मतयीः युक्तायुक्तत्वे तथा आरम्भवादशब्दे
वक्ष्यते । सूक्ष्मार्थग्राहित्वेन अणुबुद्धिरित्यादौ,
अणुर्जीव इत्यादौ च दुर्ज्ञेयत्वेन तत्रैतस्य भाक्तत्वम् । एवञ्च
अणुत्वपरिमाणरूपगुणमादाय तद्वत्येवास्य प्रवृत्तिः तेन
तत्र त्रि० स्त्रियान्तु गुणवचनतया वा ङीप् । अण्वी ।
“अण्व्योमात्राविनाशिन्यो दशार्द्धानाञ्च यः स्मृता इति
मनुः । “अस्थूलमनणु इत्यादि” श्रुतिः अत्र नञ्तत्पुरुष
समासनिष्पन्नस्य अनणुशब्दस्य “परवल्लिङ्गं द्वन्द्वतत्पुरुषयो-
रिति” पाणिन्युक्तेः परवल्लिङ्गत्वेन अणुशब्दस्यापि नपुंसकत्व
मित्यवसीयते । अधिकं परमाणुशब्दे वक्ष्यते ।

अणुक त्रि० अणुप्रकारः अणु--स्थूला० कन् । अणुप्रकारे

स्वार्थे कन् । अणुशब्दार्थे चीनकादिधान्ये पु० ।

अणुत्व न० अणोर्भावः । अणुपरिमाणे ।

अणुधर्म्म पु० अणुः सूक्ष्मो दुर्विज्ञेयो धर्म्मः । “दुर्बोधे धर्म्मे

“नहि सुबोधीप्यणुरेष धर्म्म इति” पुरा० ।

अणुभा स्त्री अण्वी सूक्ष्मा भा दीप्तिर्यस्याः ब० । विद्युति ।

अणुमात्र त्रि० अणुः परिमाणमस्य अणु + मात्रच् । अल्प-

परिमाणे “स अणुमात्रेण न संबध्यते” इति शारीरकभा०।

अणुरेवती स्त्री अणुः सूक्ष्मा रेवती तारेव । दन्तिवृक्षे ।

अणुवीक्षण न० अणुः सूक्ष्मो वीक्ष्यतेऽनेन करणे ल्युट् ।

सूक्ष्मपदार्थदर्शनसाधने यन्त्रभेदे, भावे ल्युट् । सूक्ष्म-
पदार्थालोचने न० ।

अणुव्रीहि पु० कर्म० । सूक्ष्मधान्ये श्यामादौ चीनकादौ च ।

अण्ड न० अमन्ति संप्रयोगं यान्ति अनेन अम--ड टवर्गादि-

त्वेऽपि डस्य नेत्त्वम् । पुंसोऽवयवभेदे मुष्के, पक्षिडिम्बे,
“तदण्डमभवद्धैमं सहस्रांशुसमप्रभमिति” मनुः । “ब्रह्मा-
ण्डभाण्डोदरभ्राम्यदिति” वीर० । वीर्य्ये च । स्वार्थे
कन् । तत्रैव । अस्मिन् कुक्कुट्यादीनां पुंवत् । कुक्कुटाण्डम् ।

अण्डकटाह न० अण्डं ब्रह्माण्डं कटाहमिव प्राणिजात-

कृतकर्मपाकसाधनत्वात् । शुभाशुभकर्मपाकसाधने ब्रह्माण्ड
गोलके । “तद्ब्रह्माण्डकटाहसंपुटतटे” इति सि० शि० गो० ।

अण्डकोटरपुष्पी स्त्री० अण्डमिव कोटरे मध्ये पुष्पं यस्याः

जातित्वात् ङीप् । नीलवुह्नावृक्षे ।

अण्डकोष(श) पु० अण्डस्य मुष्कस्य कोष(शः) इवावरकत्वात् ।

अण्डाकारे चर्म्मावृते पुंचिह्नभेदे ।

अण्डज पु० अण्डात् डिम्बात् जायते जन--ड । अण्डजाते

पक्षिणि, सर्पे, मत्स्ये, (कांकलास) इति ख्याते कृकलासे
च । अण्डजातमात्रे त्रि० । मृगनाभिकस्तूर्य्यान्तु स्त्री
“अण्डजास्तु पक्षिणः सर्पा नक्रा मत्स्याः कच्छपा”
इत्यादयः सर्व्व एवाण्डजातत्वात् “अण्डजाः । तेषा-
मुत्पत्तिप्रकारः पदार्थादर्शे दर्शितो यथा “अण्डतो
वर्त्तुलीभूताच्छुक्रशोणितसंयुतात् कालेन भिन्नात् पूर्ण्णात्मा
निर्गच्छन् प्रक्रमिष्यतीति” । अण्डजातादयोऽप्यत्र ।

अण्डालु पु० अण्डः अस्त्यस्य अण्ड + आलुच् । डिम्ब-

विशिष्टे मत्स्ये ।

अण्डिर पु० अण्डः पुमवयवभेदः अस्यास्तीति अण्ड--ईरन् ।

विशिष्टसामार्थ्यवति पुरुषे, समर्थे च ।

अत वन्धने इदित् भ्वा० पर० सक० सेट् । अन्तति । आन्तीत्

“समन्तति कपोत इव गतधिमिति” वेदः ।

अत बन्धने भ्वादि० पर० सक० सेट् । अतति । आतीत् ।

अत प्रापणे, सातत्ये, गतौ च भ्वादि० पर० सक० सेट् ।

अतति । आतीत् । क्त अतितः । इन् (पदातिः)
“अतिथिरभ्यतति गृहान् प्रति” इति वेदः ।

अत् अव्य० अत--क्विप् । आश्चर्य्ये । ऊर्य्यादि० । अद्भुतम् ।

अतक पु० अतति सततं गच्छति अत--कन् । पथिके ।

अतट पु० तट्यते आहन्यतेऽम्भसा इति तटं जलाधातस्थानं

तन्नास्ति यस्य ब० । (आड़रीरि) प्रसिद्धे आलम्बनस्थान-
शून्ये, “मनोरथानामतटप्रपाताः” इति । पर्व्वताद्युच्च-
स्थाने, भूमेरधोभागे च ।

अतथोचित त्रि० न तथारूपमुचितं यस्य । यस्य यद्रूप-

मुचितं तद्विरोधिरूपापन्ने ।
पृष्ठ ००९८

अतद्गुण पु० “तद्रू पाननुहारस्तु हेतौ सत्यप्यतद्गुण इति”

दर्पणोक्ते अर्थालङ्कारभेदे, “हन्त सान्द्रेण रागेण भृतेऽपि
हृदये मम । गुणगौर! निषण्णोऽपि कथं? नाम न रज्य-
सीति । अत्रातिरक्तहृदयसंबन्धात् उचितमपि रक्तत्वं
न निष्पन्नमिति हेतुसद्भावेऽपि तद्रूपाननुहरणात्तथात्वम् ।

अतद्गुणसंविज्ञान पु० न तस्य गुणीभूतस्य सम्यक् ज्ञानं

यत्र । शाब्दिकोक्ते बहुव्रीहिभेदे । यथा लब्धकर्ण्ण-
मादायेत्यादौ गुणीभूतकर्ण्णादेरपि धर्म्मिद्वारा आनयनेऽन्वय-
स्तथा दृष्टसमुद्रमानयेत्यादौ गुणीभूतस्य समुद्रस्य
नानयनेऽन्वयः इत्यतः लम्बकर्ण्णैत्यादिस्तद्गुणसंविज्ञानः
दृष्टसमुद्र इत्यादिश्च अतद्गुणसंविज्ञानः बहुव्रीहिरिति
भेदः । एवमुदाहरणान्तराणि ज्ञेयानि ।

अतन्त्र त्रि० न तन्त्रं कारणं तदधीना विवक्षा वा यस्य ।

कारणानधीने विवक्षाशून्ये च । “ह्रस्वग्रहणमतन्त्रमिति”
सिद्धान्तकौ० ।

अतन्द्र त्रि० नास्ति तन्द्रा निद्रा, तत्सदृशम् आलस्यं वा यस्य । निद्रारहिते, अनलसे च ।

अतन्द्रित त्रि० तन्द्रा जाताऽस्य तार० इतच् न० त० ।

अजातनिद्रे अनलसे च “अतन्द्रिता सा स्वयमेव वृक्ष-
कान्” इति कुमा० ।

अतप्ततनु(नू) त्रि० न तप्ता पयोव्रतादिना तनुरस्य ।

पयोव्रतादिना देहकार्श्यकारके । दीर्घान्तपाठोप्यत्रैव “विश्वतो-
ऽतप्ततनूर्न तदाम” इति ता० ब्रा० । न तप्ता तप्तमुद्रया
तनुरस्य । तप्तमुद्रया अकृतचिह्ने त्रि० “नातप्ततनुरिति” श्रुति
स्तत्परतयैव वैष्णवैर्व्याख्याता ।

अतर्क त्रि० तर्क्यतेऽनेन तर्कस्तर्कहेतुः स नास्ति यस्य । निर्हेतुके, तर्कहीने च ।

अतर्कित त्रि० न तर्कितम् । तर्कहेतुव्यापारानुसन्धानेन

हठादागते, अनुमितभिन्ने च । “अतर्कितमुपस्थितमिति” पुरा० ।

अतल न० अस्य भूखण्डस्य तलं पृषो० इदमोऽत्त्वम् ।

मप्तपातालमध्ये प्रथमखण्डे भूमेरधोभागे । तल्लोकाश्च सप्त,
अतल, वितल, सुतल, तलातल, महातल, रसातल, पाताल-
संज्ञका अधोधस्तिष्ठन्ति तेषां निवेशस्थानञ्च “स्वादू-
दकान्तर्वड़यानलोऽसौ पाताललोकाः पृठिवीपुटानीति”
सि० शि गो० उक्तम् । विशेषस्तत्तच्छब्दे वक्ष्यते । तलशून्ये
त्रि० नास्ति तलः प्रतिष्ठा यस्य । अप्रतिष्ठे त्रि० ।

अतलस्पर्श त्रि० न तलस्याघोभागस्य स्पर्शो यत्र व० । अतिगभीरे ।

अतलस्पृश् त्रि० न तले स्पृश्यते कर्म्मणि क्विन् । अगाधे ।

अतस् अव्य० इदम् + तसिल् । एतद्धेतुकार्थे “अथातो ब्रह्म

जिज्ञासेति” सूत्रे अतःशब्दो हेत्वर्थ इति भाष्यम् । “अथातो
धर्म्मजिज्ञासेति” जै० । “अतश्चराचरं विश्वमिति” कुभा० ।

अतस पु० अत--गतौ असच् । वाते । सातत्यार्थकात् अतः

असच्, आत्मनि । गौरादित्वात् ङीषि अतसी । (तिसि,
मसिना) इति ख्याते वृक्षे स्त्री । “तस्यातसीसूनसमान-
भास” इति माघः । “अतसीपुष्पवर्णाभेति” दुर्गाध्याने
अतसी शण इति स्मार्त्तोक्तेः शणवृक्षे च । तत्सूत्रजाते
क्षौमवस्त्रे न० ।

अति अव्य० अत--इ । पूजायाम्, उत्कर्षे, अतिक्रमणे,

च । स्वभावोह्यतिरिच्यते “तेषु हार्दी तथाप्यतीति”
चण्डी० । तत्पुरुषपूर्ब्बपदस्थः अतिक्रान्तार्थे “अत्यादयः
क्रान्ताद्यर्थे द्वितीययेति” वा० । अतिराजी अतिश्वी ।
उत्कर्षार्थे कुगतिप्रादयश्चेति समासे अतिधनमतिबलमिति ।
“विक्रमातिक्रमाबुद्धिभृशार्थातिशयेष्वतीति” गणरत्नोक्तेश्च
विक्रमादिषु तत्र, विक्रमे अतिरथः, (रथाधिकविक्रमवान्)
अतिक्रमे, अतिमति (बुद्ध्यतिक्रमः) अबुद्धौ अतिगहनम्
(बुद्धेरविषयः) भृशे अतितप्तम् (भृशतप्तम्) अतिशये
अतिवेगः (अतिशयितो वेगः) एवमन्यान्यप्युदाहार्य्याणि ।
अस्य क्रियायोगे उपसर्गता अतिक्रमे पूजायाञ्च कर्म्मप्रव-
चनीयसंज्ञा तेन तद्योगे द्वितीयादि तत्रातिक्रमे राजानमति,
पूजायाम् अतिस्तुतमित्यादौ उपसर्गत्वबाधान्न षत्वम् ।

अतिकथ त्रि० अतिक्रान्तः कथाम् । कथनायोग्ये, अश्रद्धेये,

नष्टे च ।

अतिकथा स्त्री अत्युत्कटा कथा । अत्युत्कटवर्णने, व्यर्थभाषणे च ।

अतिकन्दक पु० अतिरिक्तः कन्दः यस्य कप् । हस्तिकन्दना-

मके वृक्षे ।

अतिकर्षण त्रि० अत्यन्तं कर्षति कृष--ल्यु । अत्यन्ततापदायके, अत्यन्ताकर्षके च ।

अतिकश त्रि० अतिक्रान्तः कशाम् तत्प्रहारमनादृत्य स्वेच्छा-

नुसारेण प्रवृत्तत्वात् अत्या० त० । कशाप्रकारमुल्लङ्घ्य
यथेच्छव्यापृते दुर्दान्ते अश्वे ।

अतिकाय त्रि० अत्युत्कटः कायोऽस्य । विकटदेहे, रावणपुत्रे

राक्षसभेदे पु० तत्कथा लङ्काकाण्डे “चुकोप स महातेजा
ब्रह्मदत्तवरो विभुः अतिकायो महावीर्य्य” इत्युपक्रम्य “आच
चक्षे महातेजा रामाय रावणानुजः । दशग्रीवो महातेजाः
राजा वैश्रवणात्मजः । तस्य पुत्री ह्यसौ वीरो रावण-
प्रतिमोरणे इति” तस्य सामर्थ्ये विभीषणेन निवेदिते
लक्ष्णणेन सह तस्य युद्धमासीत् तेन च तस्य शिरश्चिच्छिदे
इति “तदातिकायस्य शिरो जहारेति” रामा० लङ्का० ।

अतिकुल्व त्रि० अति + कुल--व--किच्च । अतिलोमशे ।

पृष्ठ ००९९

अतिकृच्छ्र न० अतिक्रान्तं कृच्छ्रं प्रजापत्यं तदधिकदुःख-

साध्यत्वात् “अत्यादयः क्रान्ताद्यर्थे द्वितीययेति” स० ।
द्वादशरात्रसाध्ये प्रायश्चित्तरूपे व्रतभेदे “एकैकं ग्रासमश्नी-
यात् त्र्यहाणि त्रीणि पूर्ब्बवत् । त्र्यहञ्चोपवसेदन्त्य
मतिकृच्छ्रं चरन् द्विजः इति” मनुः । “त्र्यहाणि त्रीणि
नवाहानि पूर्ब्बवत् प्रातःसायमयाचितैः प्राजापत्यवदिति”
रघुनन्दनः । प्रजापत्ये हि “त्र्यहं प्रातस्त्र्यहं सायं, त्र्यह-
मद्यादयाचितमिति” मनुनैव प्रातःकालादौ भक्षणमुक्तं
पूर्ब्बवदित्यनेन तद्धर्म्मातिदेशः । अस्य पुंलिङ्गत्व-
मपि “अतिकृच्छ्रः पर्ण्णकृच्छ्रः सौम्यः कृच्छ्रातिकृच्छक”
इति विश्वामित्रवचने पुंस्त्वनिर्देशात् । “अवगुर्य्य चरेत्
कृच्छ्रमतिकृच्छ्रं निपातने इति” मनुः । अतिशयितं कृच्छ्रं
प्रा० स० । अतिकष्टे । तद्वति त्रि० ।

अतिकृत त्रि० मर्य्यादातिक्रमेण कृतम् । मर्य्यादातिक्रमेण

कृते पदार्थे “सर्व्वत्रातिकृतं लोके व्यसनायोपकल्पते”
इति पुरा० ।

अतिकृति स्त्री अति + कृ--क्तिन् । मर्य्यातिक्रमेण करणे ।

अत्या० स० । वृत्तरत्नाकरोक्ते “तथातिकृतिरुत्कृतिरिति”
पञ्चविंशत्यक्षरपादके वर्ण्णवृत्तभेदे ।

अतिकेशर पु० अतिरिक्तानि केशराण्यस्य ब० । कुब्जकवृक्षे ।

अतिक्रम पु० अति--क्रम--घञ् ह्रस्वः । उल्लङ्घने ।

अतिक्रान्तः क्रममिति अत्या० स० । लङ्घितक्रमे त्रि० । दुर् +
अति + क्रम--कर्म्मणि खल् । दुःखेनातिक्रमणीये त्रि० ।
“कालो हि दुरतिक्रम” इति “स्वभावो दुरतिक्रम” इति
च पुरा० । भावे ल्युट् । अतिक्रमणम् अत्रैव न० ।
भावे क्तिन् । अतिक्रान्तिरत्रार्थे स्त्री ।

अतिक्रुद्ध पु० प्रा० स० । “अष्टाविंशत्यक्षरोय एकत्रिंशदथापि

वा । अतिक्रुद्धः स विज्ञेयो निन्दितः सर्व्वकर्म्मसु इति”
तन्त्रोक्तमन्त्रभेदे । अतिकोपान्विते त्रि० ।

अतिक्रूर पु० प्रा० स० । “क्रूरा वक्रा अतिक्रूरा” इति ज्योति-

षपरिभाषिते” वक्रगत्यापन्ने भौमशनिरूपक्रूरग्रहे ।
अत्यन्तक्रूरे त्रि० । “त्रिंशदक्षरको मन्त्रस्त्रयस्त्रिन्दश-
दथापि वा । अतिक्रृरः स विज्ञेयो निन्दितः सर्व्वकर्म्मसु”
इति तन्त्रोक्तेमन्त्रभेदे पु० ।

अतिगण्ड पु० अत्या० स० “अतिगण्डः सुकर्म्मा चेति” ज्यो-

तिषपरिभाषिते विष्कुम्भावधि षष्ठेयोगे । “गण्डातिगण्डयो-
र्नाड़ीपञ्चकं परिवर्ज्जयेदिति” ज्यो० अतिवृद्धोगण्डोगलः ।
वृद्धगण्डे पु० । प्रा० ब० । अतिवृद्धगण्डवति त्रि० ।

अतिगन्ध पु० अतिशयितो गन्धो यस्य ब० । चम्पकवृक्षे ।

अतिशयितगन्धवति त्रि० ।

अतिगन्धालु पु० अतिगन्ध + मत्वर्थे आलुच् । पुत्त्रदातृलता याम् राजनिघ० ।

अतिगर्वित त्रि० अत्यन्तं गर्वितः । अत्यन्तगर्व्वयुक्ते अत्यभि-

मानिनि गर्वश्च आत्मनि असतो गुणादेरुत्कर्षाभिमानः
तस्यात्यन्तत्वमन्यस्मिन् अपकर्षज्ञानपूर्ब्बकत्वम् ।

अतिगव त्रि० अतिक्रान्तो गां बुद्ध्या षच्समा० । अत्यन्तमूर्खे

अतिक्रान्तः गां वाचम् । वाक्पथातीते अवर्णनीये च त्रि० ।

अतिगह्वर त्रि० अतिक्रान्तो गह्वरं दुर्बोधत्वेन प्रवेशायोग्यत्वात्

अत्या० स० । दुर्बोधे अतिगहने ।

अतिगुण पु० अतिशयितो गुणः । अतिशयविनयदाक्षि-

ण्यादौ । अतिक्रान्तो गुणम् । गुणहीने त्रि० ।
अतिशयिती गुणीऽस्य प्रा० ब० । उत्कृष्टगुणवति त्रि० ।

अतिगुरु पु० अतिशयितो गुरुः पूज्यतमत्वात् प्रा० स० ।

“त्रयः पुरुषस्यातिगुरवो भवन्ति पिता माताचार्य्यश्चेति”
विष्णूक्ते पित्रादौ । अत्यन्तगुरुत्ववति पारदादौ द्रव्ये त्रि० ।
स्त्रियां वा ङीप् । अतिगुर्वी ।

अतिगुहा स्त्री अतिक्रान्तो गुहां मध्यावकाशेन । पृश्निपर्ण्याम् ।

अतिग्रह त्रि० अतिशयितः ग्रहो ज्ञानं, स्वस्वकार्य्यस्य ग्रहणं

वा येषाम् । स्वस्वविषयग्राहकेषु नेत्रादिषु ज्ञानेन्द्रियेषु,
आदानादिस्वस्वकार्य्यकारकेषु वागादिषु कर्म्मेन्त्रियेषु च ।
अतिक्रान्तो ग्रहम् । अत्यन्तदुर्बोधे त्रि० । अतिशयितो
ग्रहो ज्ञानम् । सर्व्वथा सम्यग्ज्ञाने पु० । अतिग्रहणा-
दयोऽप्युक्तार्थेषु ।

अतिघ्नी स्त्री अतिशयेन हन्ति दुःखं हन--टक् । दुःखासम्भिन्ने सुखावस्थाभेदे ।

अतिचरा स्त्री अतिक्रम्य स्वस्थानं सरोऽन्तरं चरति गच्छति

चर--अच् । पद्मिन्याम्, तत्तुल्याकारवत्त्वात् स्थलपद्मिन्यां,
पद्मचारिण्यां लतायाञ्च । अतिक्रमणकारिणि त्रि० ।

अतिचारः पु० अतिक्रम्य स्वस्वभोगकालमुल्लङ्घ्य चारः राश्य-

न्तरगमनम् । ज्योतिषोक्ते भौमादिपञ्चकस्य स्वस्वाक्रान्तरा-
शिषु भोगकालमुल्लङ्घ्य राश्यन्तरगमने । अतिचारश्च ग्रह-
गतिशब्दे वक्ष्यमाणेन “रविर्मासं निशानाथः सपाददिवस-
द्वय” मित्यादिनोक्तभोगकालभेदोल्लङ्घनेन ग्रहाणां अतिशीघ्र-
गतया अल्पकालेनैव आक्रान्तराशिमुपभुज्य राश्यन्तरगम-
नम् । तच्च विस्तरेण ग्रहगतिशब्दे वक्ष्यते । “यदाति-
चारं सुरराजमन्त्रीति” “अतिचारं गते जीवे” इति
“गोऽजालिकुम्भेतरगोऽतिचारम” इति च ज्योतिषम् ।
गुरोरतिचारे कालाशुद्धिश्च अकालशब्दे दर्शिता ।
अतिक्रम्य गमने च ।
पृष्ठ ०१००

अतिचारिन् त्रि० अति + चर--णिनि । पूर्ब्बोक्तातिचारवति

ग्रहे । “अतिचारी यदा जीव” इति ज्योतिषम् ।
अतिक्रम्य अतिशयेन वा गन्तृमात्रे त्रि० ।

अतिच्छत्र पु० अतिक्रान्तश्छत्रम् तुल्याकारेण अत्या० स० ।

(छातिया) इति प्रसिद्धे स्थलतृणविशेषे, (तालमाखना)
इति प्रसिद्धे जलतृणभेदे च । स्वार्थे कन् ।
अतिच्छत्रकोऽप्यत्रार्थे, छत्राकारपत्रपुष्पवति (सूल्फा) इति
प्रसिद्धे शाकभेदे तु स्त्री । क्षीरस्वामिमते छत्रा इत्येव
नाम । छत्रातिक्रमकारिणि त्रि० । अतिक्रमेऽव्ययी० ।
छत्रातिक्रमे अव्य० ।

अतिच्छन्दस् न० अतिक्रान्तः छन्दः वृत्तानुसारिवर्णविन्यास-

भेदम् अत्या० स० । उक्थादिछन्दोऽतिक्रमेण विन्यस्तेऽक्षर-
विन्यासभेदे “प्राजापत्या अच्छन्दस” इति “अच्छन्दसः
शंसतीति” च वेदः । छन्दो वेदोऽभिप्रायो वा । तदति-
क्रान्तरि वेदोक्तकर्म्महीने, अतिक्रान्ताभिप्राये च त्रि० ।

अतिजगती स्त्री अतिक्रान्ता जगतीं द्वादशाक्षरपादामेका-

क्षराधिक्यात् अत्या० स० । त्रयोदशाक्षरपादके छन्दोभेदे ।
जगतीं भुवनमतिक्रान्तवति त्रि० । पुंसि क्लीवे च ह्रस्वात्तः ।

अतिजव त्रि० अतिशयितो जवोयस्य ब० । अतिवेगवति

द्रुतगामिनि च । प्रा० स० । अतिशयितवेगे पु० ।
“सगरसन्ततिसन्तरणेच्छया प्रचलितातिजयेन” इत्युद्भटः ।

अतिजागर पु० अतिशयितो जागरो निद्राराहित्यं यस्य

ब० । नीलवके पक्षिणि तस्य सर्व्वदा जागरूकत्वात्तत्त्वम् ।
निद्राराहित्यवति त्रि० ।

अतिडीन न० अतिक्रान्तं डीनं गतिभेदं अत्या० स० । पक्षिणाम् अतिदीर्घगमने ।

अतित(मा)राम् अव्य० अति + तर(म)प् आमु । अत्यन्ते

“वेगवानतितरामायाति चेन्मारुत” इत्युद्भटः ।

अतितार त्रि० अतिशयितस्तारः । मुक्तादेरतिशयशुद्धौ “अति-

तारहारेति” कादम्ब० । अत्युच्चशब्दे पु० तद्वति त्रि० ।

अतितीक्ष्ण त्रि० अतिशयेन तीक्ष्णः कटुरसो यस्य ब० ।

मरीचादौ (सजना) इति प्रसिद्धे शोभाञ्जने पु० ।
अतितिग्मे पु० । तद्वति त्रि० ।

अतिथि पु० अतति गच्छति न तिष्ठति अत--इथिन् । अध्व-

योगेन आगन्तुके गृहागते, “एकरात्रं हि निवसन् ह्यति-
थिर्ब्राह्मणः स्मृतः । अनित्यास्य स्थितिर्यस्मात्तस्मादतिथि-
रुच्यते” । नैकग्रामीणमतिथिं विप्रं साङ्गतिकं तथेति
विष्णु स० । तस्य च वैश्वदेवबलेः प्रागेव पूज्यता परत्र
आहारदानमात्रं यथोक्तं मनुना “वैश्वदेवे तु निर्वृत्ते
यद्यन्योऽतिथिराव्रजेत् तस्मा अन्नं यथाशक्ति प्रदद्यादिति”
किन्तु तस्याप्यतिथित्वमेव यथोक्तं “प्रियो वा यदि द्वेष्यो
मूर्खः पण्डित एव वा । संप्राप्तो वैश्वदेवान्ते विप्रः
सोऽतिथिरिष्यते” इति स्मृत्या । अतिथिप्रतीक्षणञ्च मुहूर्त्ता-
ष्टमभागपर्य्यन्तम् । “आचम्य च ततः कुर्य्यात् प्राज्ञो
द्वारावलोकनम् मूहूर्त्तस्याष्टमं भागमुद्वीक्ष्योह्यतिथिर्भवेत्”
इति मार्क० । विषये च तस्य इन्द्रियेषु संसर्गमात्रकाले एव
चेतसि स्थितिर्नोत्तरकालमिति गतिरनुमीयते । “प्रथमं
पथि लोचनातिथिमिति” नैष० ।

अतिथिपूजा स्त्री ६ त० । गृहस्थकर्त्तव्यपञ्चयज्ञान्तर्गते

नृयज्ञरूपेऽतिथिपूजने अतिथिसत्कारादयोऽप्यत्र ।

अतिदान न० अतिशयितं दानम् प्रा० स० । अत्युत्कट-

दाने “अतिदाने बलिर्बद्ध” इति नीति० ।

अतिदिष्ट त्रि० अति + दिश--क्त । अतिदेशविषये यथा

“प्रकृतिवत् विकृतिः कर्त्तव्येति” वाक्येन प्रकृतीभूतदर्श-
यागादेरङ्गकार्य्याणि प्रयाजादीनि विकृतौ पश्वादिया-
गेऽतिदिश्यन्ते । अतिदेशोनाम इतरधर्म्मस्य इतरस्मिन्
प्रयोगाय आदेशः इति मीभांसायां स्थितम् ।

अतिदीप्य पु० अतिशयेन दीप्यते अति + दीप--छर्त्तरि यत् ।

रक्तचित्रके (लालचिता) इति ख्याते वृक्षे ।

अतिदेव पु० अतिक्रान्तोदेवान् अत्या० स० । सर्व्वदेवश्रेष्ठे रुद्रे

“द्रावणाच्चातिदेव इति” वेदः ।

अतिदेशः पु० अतिक्रम्य स्वविषयमुल्लङ्घ्य अन्यत्र विषये देश

उपदेशः अतिदिश्यते वा करणे कर्म्मणि वा घञ् ।
“अन्यत्रैव प्रणीतायाः कृत्स्नाया धर्म्मसंहतेः । अन्यत्र
कार्य्यतः--प्राप्तिरतिदेशः स उच्यते । प्राकृतात् कर्म्मणो
यस्मात्तत्--समानेषु कर्म्मसु । धर्म्मप्रवेशो येन स्यादतिदेशः स
उच्यते” इत्यधिकरणमालाधृताभियुक्तवाक्योक्ते अन्यत्र-
प्राप्तेऽन्यधर्म्मे तत्प्रापके शास्त्रभेदेच । यथा “प्रकृतिवत्
विकृतिः कर्त्तव्येत्यादिः” स चातिदेशः पञ्चविधः शास्त्राति-
देशः, कार्य्यातिदेशः, निमित्तातिदेशः, व्यपदेशातिदेशः,
रूपातिदेशश्च । एतस्य उदाहरणादिकमाकरे ज्ञेयम् ।
अतिदेशश्च प्रायेण इववदादिसादृश्यवाचकशब्देन यथा
प्रकृतिवत् विकृतिरित्यादि अयञ्च वैदिककर्म्मणीव व्याक-
रणादिशास्त्रे, लौकिके व्यवहारे च विद्यते यथा “इण्व-
दिक, इत्यत्र व्याकरणे रूपातिदेशः” “कर्म्मणा कर्मवत्तुल्य-
क्रिय” इत्यादौ, पुंवदित्यादौ च कार्य्यातिदेशः, णिद्वदि-
त्यादौ निमित्तातिदेशः, व्यपदेशिवद्भावैत्यादौ संज्ञाति-
पृष्ठ ०१०१
देश इत्येवं प्रकारा अतिदेशाःसन्ति ॥ लोके च गोसदृशो-
गवयैत्यादौ रूपातिदेशैत्यादि । अतएवोपमानरूपप्रमाणे
अस्यातिदेशवाक्यस्य करणत्वं सहकारिभावोवेत्यादि तत्त-
च्छास्त्रकारैरङ्गीकृतम् अतिदेशेन निर्वृत्तम् ठक् ।
आतिदेशिकं त्रि० । “आतिदेशिकविधिरनित्य” इति परिभाषा ।

अतिधन्वन् पु० अत्युत्कृष्टं धनुर्यस्य प्रा० ब० धनुषोऽनङ् ।

उत्कुष्टधनुर्युक्ते योधे । धन्वा मरुः अत्या० स० । मरुस्थ-
लातिक्रमकारिणि त्रि० ।

अतिधृति स्त्री अतिक्रान्ता धृतिम् अष्टादशाक्षरपादिकां वृत्ति-

मेकाक्षराधिक्यात् अत्या० स० । ऊनविंशत्यक्षरपादके
छन्दोभेदे । धृतिर्धेर्य्यं सन्तोषो वा । तदतिक्रमकारिणि त्रि० ।

अतिनु(नौ) त्रि० अतिक्रान्तोनावम् अत्या० स० क्लीवे ह्रस्वः ।

नौकातिक्रमकारिणि । पुंसि स्त्रियां च अतिनौः ।

अतिनिद्र अव्य० निद्रा सम्प्रति न युज्यते अव्ययी० ।

निद्राया अयोग्यकाले । अतिक्रान्तो निद्राम् अत्या० स० ।
अतिक्रान्तनिद्रे निद्रारहिते त्रि० । अतिशयिता निद्रा-
ऽस्य । दीर्घनिद्रे त्रि० । प्रा० स० । दीर्घनिद्रायां स्त्री ।

अतिपत्ति स्त्री अति + पत--क्तिन् । अतिपतने,

अतिक्रमे । “कालातिपत्तौ द्विगुणामिति” स्मृतिः ।
पदक्तिन् पत्तिर्निष्पत्तिः अत्या० स० । अनिष्पत्तौ स्त्री ।
“लिङ्निमित्ते ऌङ् क्रियातिपत्ताविति” पा० ।
क्रियातिपत्तिः क्रियाया अनिष्पत्तिरिति वृत्तिः । पत्तिं
सेनामतिक्रान्ते त्रि० ।

अतिपत्र पु० अतिरिक्तं वृहत्पत्रमस्य । हस्तिकन्दवृक्षे ।

अतिप(थ)थिन् पु० अतिशयितः सुन्दरः पन्थाः प्रा० स० अतेः

पूजार्थत्वात् न समा० । सत्पथे । अतीतपथे तु समा० ।

अतिपद त्रि० अतिक्रान्तः पदं चरणम् । वर्णवृत्तानुसारिपादा-

तिक्रान्ते “अतिपदा गायत्री अतिपदा जगतीति” ।

अतिपन्न त्रि० अति + पद--क्त । अतिक्रान्ते । “तथातिपन्न-

शिशुसंस्काराश्चेति” मुहूर्त्तचि० ।

अतिपरोक्ष त्रि० अतिक्रान्तम् परोक्षम् । प्रत्यक्षे, तद्विषये च ।

अतिपात पु० अतिक्रम्य पातः गतिः अति + पत--घञ् ।

“अतिक्रमे “न चेत् कार्य्यातिपातः” इति शकु० ।

अतिपातक न० अतिक्रान्तोऽत्यन्तदुष्टत्वेनान्यत् पातकं अत्या०

स० । पुंसां मातृस्नुषादुहितृगमनजन्ये, स्त्रीणाञ्च पुत्त्र-
पितृश्वशुरगमनजन्ये पातकविशेषे । “मातृगमनं, दुहितृ-
गमनं, स्नुषागमनञ्चेत्यतिपातकानीति” “अतिपातकि-
नस्त्वेते प्रविशेयुर्हुताशनमिति” “एतेष्वकृतप्राय-
श्चित्ता अतिपातकिनः पर्य्यायेण कल्पं पच्यन्ते” इति
च विष्णु स० । “सद्योऽग्निप्रवेशनतिपातकिन” इति
हारीतः । “अथ नरकानुभूतदुःखानां तिर्य्यक्त्वमुत्तीर्णानां
मानुष्ये लक्षणानि कुष्ठ्यतिपातकीति” विष्णुस० । पातक-
मतिक्रान्तवति पुण्यशीले त्रि० ।

अतिप्रगे अव्य० अतिप्रगीयतेऽस्मिन् काले अति + प्र + गै--के ।

अत्यन्तप्रातःकाले । “नातिप्रगे नातिसायं न निशीथे न
चोषसीति” स्मृतिः ।

अतिप्रमाण त्रि० अतिक्रान्तः प्रमाणम् अत्या० स० । प्रमा-

णातिक्रान्ते यस्य यत्प्रमाणमुचितं ततोऽधिकप्रमाणवति ।
प्रा० स० । अत्यन्तप्रमाणे वृहत्प्रमाणे न० ।

अतिप्रवृद्ध त्रि० अत्यन्तं प्रमाणातिरेकेण प्रवृद्धम् । प्रमाणवति-

रेकेण वृद्धिमति । अतिप्रवृद्धिश्च नद्यादेर्जलस्य तीराद्यति-
क्रमेण, क्षत्त्रियादेः स्वकर्त्तव्यतामूढतया मर्य्यादाद्यतिक्रमेण
वीर्य्याधिक्येन वा वृद्धिः “तस्यातिप्रवृद्धस्य ब्राह्मणान् प्रति
अनादर” इति । “अतिप्रवृद्धं प्रहितास्त्रवृष्टिभिरिति” रघुः ।

अतिप्रश्न पु० अतिक्रम्य मर्य्यादां प्रश्नः । मर्य्यादातिक्रमेण

प्रश्ने सदुत्तरे जातेऽपि पुनर्जिज्ञासायाम् । यथा
वृहदारण्यके याज्ञवल्क्यं प्रति वालाक्यतिप्रश्नः तत्र ब्रह्ममी-
मांसायाम् तेन कृतायामपि वृथातिप्रश्नकरणात् तस्य
मुण्डपतनं सूर्य्यवरात् जातमिति वृहदारण्यकेऽनुसन्धेयम् ।

अतिप्रसक्ति स्त्री अति + प्र + सन्ज--क्तिन् । अत्यन्तासक्तौ,

प्रमङ्गमतिक्रम्यान्यत्र सम्बन्धे अतिप्रसङ्गे च । लक्ष्येलक्षण-
सम्बन्धः प्रसङ्गः, अलक्ष्ये तत्सम्बन्धोऽतिप्रसङ्गः । “अति-
प्रसक्त्यनापादकेति” जगदीशः ।

अतिप्रसङ्ग पु० अति + प्र + सन्ज घञ् । अतिप्रसक्तिपदार्थे ।

प्रसङ्गमतिक्रान्तवति त्रि० ।

अतिप्रसिद्ध त्रि० अति + प्र + सिध--क्त । अतिविख्याते सुभूषिते च ।

अतिप्रौढा स्त्री प्रकर्षेण उह्यतेऽत्र प्रौढ़ः विवाहकालः प्रा० ब०

अतिशयिता वा प्रौढा वृद्धियुक्ता । विवाहयोग्यकालायाम्
अतिशयवृद्धियुक्तायाञ्च स्त्रियाम् स्त्रीणन्तु दशवर्षा-
तीतकाल एव अतिप्रौढ़कालः । “अतिप्रौढ़ा च या
नारीति” स्मृतिः अतिप्रवृद्धे त्रि० ।

अतिबल त्रि० अतिशयितं बलं यस्याः ५ ब० । अत्यन्तबलाधायि

कायां पीतवर्णायां (वेडियाला) इति ख्यातायां लतायां,
विश्वामित्रेण रामाय दत्ते अस्त्रविद्याभेदे च स्त्री । यथा
“गृहाण द्वे इमे विद्ये बलामतिबलां तथा । न ते श्रमो
जरा वाभ्यां भविता नाङ्गवैकृतम् ॥ न च सुप्तं प्रमत्तं
पृष्ठ ०१०२
वा धर्षयिष्यन्ति नैरृताः । न च ते सदृशो राम! वीर्य्ये-
णान्यो भविष्यति । सदेवनरनागेषु लोकेष्विह पुमां-
स्त्रिषु । न सौभाग्ये, न दाक्षिण्ये, न बुद्धिश्रु तिपौरुषे ॥
नोत्तरे प्रतिपत्तव्ये त्वत्तुल्यो वा भविष्यति । एतद्विद्याद्वयं
प्राप्य यशश्चाव्ययमाप्स्यसि ॥ बलामतिवलां चैव ज्ञान-
विज्ञानमातरौ । क्षुत्पिपासे च ते राम । नात्यर्थं पीड़यि-
ष्यतः ॥ जयश्च दुर्गकान्तारप्रदेशेष्वटवीषु च । सारतां
त्रिषु लोकेषु गमिष्यसि च राघव! ॥ पितामहसुते ह्येते
विद्ये चायुर्बलावहे । पात्रं त्वमसि काकुत्स्थ! विद्ययोर्ग्र-
हणेऽनयोः ॥ स्वभावजैर्गुणैर्दिव्यैः कर्म्मजैर्बहुलैर्वृतः ।
भूयस्तव गुणोत्कर्षमेते विद्ये करिष्यतः ॥ ततो रामो जलं
स्पृष्ट्वा प्राञ्जलिः प्रणतः स्थितः । प्रतिजग्राह ते विद्ये
विश्वामित्रात् तपोधनादिति” । अतिशयितं बलम् प्रा०
स० । अत्यन्ते बले, सामर्थ्ये, सैन्ये च न० । अतिरिक्तं
बलमस्य । अत्यन्तबलयुक्ते त्रि० “जयत्यतिबलो रामो लक्ष्म-
णश्च महाबल” इति रामा० । अतिरथे च भारते
अतिरथविषयएव, “एष ह्यतिबलोमत” इति भीष्मेण भूरिशः
प्रयुक्तत्वात् बलकार्य्यत्वाच्च तस्य तथात्वम् ।

अतिबाला स्त्री अतिक्रान्तो बालं बाल्यावस्थाम् । द्विवर्षवय-

स्कायाम् “वर्षमात्रा तु बाला स्यादतिबाला द्विवार्षिकीति”
स्मृत्युक्तायाम् गवि “अतिवृद्धामतिकृशामतिबालां च रोगि-
णाम् हत्वा चरेदिति” स्मृतिः । अत्यन्तबाले त्रि० ।

अतिब्रह्मचर्य्य पु० अतिक्रान्तो ब्रह्मचर्य्यम् अत्या० स० ।

स्त्रीसङ्गमकारिणि ब्रह्मचर्य्यत्यागिनि ।

अतिभारः पु० अत्यन्तोभारः गुरुत्वम् स्वकार्य्यकरणे क्षमता-

विशेषो वा । अत्यन्तगौरवे अत्यन्तभारे, “न चातिभारः
समर्थानामिति” । अतिशये “सा मुक्तकण्ठं व्यसनातिभा-
रात् चक्रन्द विग्ना कुररीव भूय” इति रघुः । वेगे च ।

अतिभारग पु० अतिभारेण वेगेन गच्छति गम--ड ३ त० ।

खरे अश्वतरे गर्द्दभाद्वडवाजाते अश्वभेदे ।

अतिभी स्त्री अतिबिभेत्यस्याः दर्शनात् अति + भी--क्विप् । वज्र-

ज्वालायाम् । तद्दर्शने हि लोकानामतिभीतिर्लोकसिद्धा ।

अतिभूमि स्त्री अतिशयिता भूमिर्मर्य्यादा प्रा० स० ।

अतिमर्य्यादायाम्, आधिक्ये च । “प्राप्य मन्मथमदादतिभूमिं
दुःसहस्तनभराः सुरतस्येति” माघः । अतिक्रमेऽघ्ययी० ।
मर्य्यादातिक्रमेऽव्य० । भूमिं मर्य्यादां वाऽतिक्रान्ते त्रि० ।

अतिभोजन न० अत्यन्तं मर्य्यादामतिक्रम्य भोजनम् । यस्य

यावत् भोजनमुचितं तदतिक्रमेण भोजने ।

अतिमङ्गल्य पु० अतिमङ्गलाय हितम् अतिमङ्गल + यत् ।

विल्ववृक्षे । प्रा० ब० । अतिमङ्गलहिते त्रि० ।

अतिमर्य्याद अव्य० । अतिक्रमे अव्ययी० । मर्य्यादातिक्रमे ।

अतिक्रान्तो मर्य्यादाम् अत्या० स० । मर्य्यादामति-
क्रान्तवति । यस्य वस्तुनः यावती सीमा तदतिक्रान्ते
निर्मर्य्यादे त्रि० ।

अतिमात्र त्रि० अतिक्रान्तो मात्रामल्पं अत्या० स० ।

अतिशयिते, मात्रातिक्रमकर्त्तरि च । अतिशयिता मात्रा
प्रमाणमस्य । भृशार्थे त्रि० । “मुनिव्रतैस्तामतिमात्रकर्षि-
तामिति” कुमा० । अतिक्रान्तोमात्रां प्रमाणम् अत्या०
स० । वृहत्प्रमाणे त्रि० ।

अतिमात्रशस् अव्य० अतिमात्र + शस् । अतिप्रमाणकारकवृत्तिवीप्सार्थे ।

अतिमान पु० अत्यन्तः मानः अभिमानः । अनुचिताभिमाने

“अतिमाने च कौरव” इति चाणक्यः । अतिक्रान्तोमानं
प्रमणाम् अत्या० स० । प्रमाणाधिके त्रि० ।

अतिमानुष त्रि० अतिक्रान्तो मानुषचरित्रम् अत्या० स० ।

मनुष्यायोग्ये दिव्ये कर्म्मादौ । “कर्म्म तस्यातिमानुष-
मिति” पुरा० । तथाभूते रूपादौ च ।

अतिमित्र न० अत्यन्तं परमं मित्रम् । अत्यन्तबान्धवे “जन्मसम्पद्

विपत् क्षेमं प्रत्यरिः साधकोबधः मित्रं परममित्रञ्चेति”
ज्योतिषोक्ते नृणां जन्मतारावधि नवमाष्टादशसप्तविंशा-
त्मके परममित्रतारके च ।

अतिमुक्त त्रि० अतिशयेन मुक्तः विदेहकैवल्यं गतः अति +

मुच--कर्त्तरि क्त । निर्व्वाणमुक्तिमति । अतिक्रान्तो मुक्तां
शौभ्र्यात् अत्या० स० । माधवीलतायां, तिनिश-
वृक्षे च पु० ।

अतिमुक्तक त्रि० अतिमुक्त + स्वार्थे कन् । निर्वाणमुक्तिमति

अतिशयितमुक्ते च । मुचा भावे क्त अतिशयेन मुक्तं बन्घ-
हीनता यस्य कप् । तिन्दुकवृक्षे, तालवृक्षे च पु० ।

अतिमुक्ति स्त्री अत्यन्ता मुक्तिः । विदेहकैवल्ये तत्त्वज्ञाना-

नन्तरम् “तस्य तावदेव चिरं यावत् विमोक्ष्ये इति” श्रुति-
दर्शिते शरीरत्यागे, अतिमोक्षादयोप्यत्रार्थे पु० ।

अतिमृत्यु पु० अतिक्रान्तो मृत्युम् अत्या० स० । मोक्षे “तमेव

विदित्वाऽतिमृत्युमेति नान्यःपन्था विद्यते” इति श्रुतिः ।
स्वादृष्टादिभिः शरीरसंबन्धोहि जन्म, तद्वियोगश्च मरणम्
तदभिमानिनोजीवस्य । सति च ज्ञाने तन्मूलाज्ञाने निवृत्ते
तद्धेतुकशरीरसंबन्वादिकं तन्तुदाहे पटदाहवत् स्वयं निवर्त्तते
अत एव ज्ञानवतो देहादिसंबन्धं श्रुतिर्निरास “अशरीरं
पृष्ठ ०१०३
बाव सन्तं प्रियाप्रिये न स्मृशत इति” । तथा च देहसंबन्धा-
भावे कथं मरणसम्भवः । “न जायते म्रियते वा कथञ्चि-
दिति” गीतावाक्येन तस्य मरणनिषेधात् । “न तस्य
पाणाह्युत्क्रामन्ति इहैव समवलीयन्ते” इति श्रुत्या तत्त्व-
ज्ञानिनः प्राणोत्क्रभणरूपमरणनिषेधेन ज्ञानिनो न मृत्यु-
रिति वेदान्तिसिद्धान्तः । अन्यमते तु एतद्देहात् प्राणोत्-
क्रान्तावपि न पुनर्देहसम्बन्धोत्तरं पुनर्मरणमिति तद्राहित्य-
मेव मोक्ष इति भेदः । अतएवोक्तं श्रुत्या “मृत्युमुखात्
प्रमुच्यते” इति तेन पुनर्मृत्युकारणीभूतादृष्टक्षय एव ज्ञानेन
जन्यते “ज्ञानाग्निः सर्वकर्म्माणीति” शास्त्रेण प्रारब्धकर्म्मा-
रिक्तकर्म्मक्षयस्यैव ज्ञानेन साध्यतायाः सर्वसम्मतत्वात् विदु-
षश्च एतद्देहारम्भकादृष्टवत् एतद्देहविगमादृष्टस्यापि प्रारब्ध-
फलकतया न तस्य नाश इति । अधिकमाकरे द्रष्टव्यम् ।

अतिमैथुन न० अत्यन्तं स्वशक्तिमतिक्रम्य मैथुनं स्त्रीसङ्गमः ।

स्वशक्त्यतिक्रमेण स्त्रीसङ्गमे । “अतिमैथुनादमैथुनाद्वेति”

अतिमोदा स्त्री अतिशयितो मोदोगन्धः यस्याः न० ।

नवमल्लिकायाम् । अत्यन्तामोदवति त्रि० ।

अतिरक्त त्रि० अत्यन्तः रक्तः रक्तवर्णः अनुरागयुक्तो वा ।

अतिलोहितवर्णे, अत्यन्तानुरक्ते च । अत्यन्तरक्तवर्णे पु० ।

अतिरथ पु० अतिक्रान्तो रथं रथिनम् अत्या० स० । “अमि-

तान् योधयेद्यस्तु संप्रोक्तोऽतिरथस्तु स” इत्युक्तलक्षणे
योधविशेषे । “ये रथाः पृथिवीपाल! तथैवातिरथाश्च
ये” इत्युपक्रम्य “कृतवर्म्मा ह्यतिरथ” इति “मद्रराजो
महेष्वासः शल्यो मेऽतिरथो मत” इत्यादिना बहवो-
ऽतिरथा भा० उद्यो० रथातिरथासंख्याने दर्शिताः ।
रथातिक्रमकारके त्रि० ।

अतिरसा स्त्री अतिशयितो रसो यस्याः ब० । (रास्ना) इति ख्यातायां मूर्व्वालतायाम् ।

अतिराज त्रि० अतिक्रान्तो राजानम् टच् समा० । अतिक्रान्त-

नृपे । स्त्रियां ङीप् ।

अतिराजन् पु० अतिशयितः पूजितो राजा “न पूजनादिति निषेधात् न टच् । पूज्यनृपतौ ।

अतिरात्र पु० अतिशयिता रात्रिः ततः अस्त्यर्थे अच् ।

एकरात्रसाध्ये यागभेदे । स च गवामयने प्रथमसंस्थः यथोक्तं
ताण्ड्यब्राह्मणे । “प्रजापतिर्वा इदमग्र आसीत् सोऽकाम-
यत बहु स्यां प्रजायेयेति सएतमतिरात्रमपश्यत्तमाहर-
त्तेनाहोरात्रे प्राजनयदिति” गवाममयनसत्रमुपक्रम्य,
“अथास्य सत्रस्य पूर्ब्बोक्तान्यहागि क्रमेण विधास्यन्
अतिरात्रसंस्थम् प्रथमं विधातुमाहेति” भाष्ये अवतरणिकां दत्त्वा
व्याख्यातं यथा “स एवं कामयमानः प्रजापतिः सृष्ट्यु-
पायत्वेन एतं गवामयनस्याद्यमतिरात्रमपश्यदिति” । तञ्च
स्तुतिपूर्ब्बकं विधित्सन्नाह । “यदेषोऽत्रिरात्रो स
एवाहोरात्रे एव प्रजनयन्तीति” “एष प्रजापतिना दृष्टोऽति-
रात्रः गवामयनस्य प्रथममहर्भवतीति यत् तेन सत्राननु-
तिष्ठन्तो यजमाना अहोरात्रे एव प्रजनयन्ति उत्पादयन्ति
स्वावीने कुर्व्वन्तीति” भाष्यम् । इत्थमुपक्रम्य चतुर्थाध्याय-
प्रथमखण्डपर्य्यन्ते तत्र विहितानि स्तोत्रशस्त्रादीन्युक्तानि ।
“अतिरात्रे षोड़शिनं गृह्णाति, नातिरात्रे षोड़शिनं
गृह्णातीति” श्रुत्यन्तरम् । षोड़शी पात्रभेदः ।

अतिरि न० अतिक्रान्तं रायं क्लीवत्वात् ह्रस्वः । धनातिक्रान्ते

कुलादौ । तृतीयाद्यचि तु अतिरिणा अतिरिणे इत्येवमेकै-
कमेव रूपं, न पुंवद्भावः तस्य इगन्ताङ्गत्वाभावात् । पुंसि,
स्त्रियाञ्च अतिराः अतिरायावित्यादि ।

अतिरिक्त त्रि० अति + रिच्--क्त । अतिशयिते, श्रेष्ठे, भिन्ने,

शून्ये च । भावे क्त । अतिशये, आधिक्ये च न० । तत्र
भेदे “अतिरिक्तमथापि यद्भवेदिति” भाषा० “न वृक्षवृत्ति
व्यतिरिक्तेति” कुमा० । यस्य यावत्प्रमाणं युक्तं ततोऽ-
धिकत्वे “हीनाङ्गीमतिरिक्ताङ्गीमिति” स्मृतिः ।

अतिरुच् पु० रोचते इति रुक् स्त्रीणामूरुदेशः अतिक्रान्तो

रुचम् अत्या० स० । जानुदेशे । अतिक्रान्तकान्तिके त्रि० ।
प्रा० स० । अतिशयितकान्तौ स्त्री ।

अतिरूक्ष त्रि० अतिशयितः रूक्षः प्रा० स० । अत्यन्तरूक्षे

स्नेहशून्ये च । तथाभूते कङ्गुकोदवादिधान्ये पु० ।
अतिक्रान्तोरूक्षम् । अतिशयस्निग्धे त्रि० ।

अतिरूप पु० अतिक्रान्तो रूपम् । रूपवर्ज्जिते परमेश्वरे ।

“अशब्दमस्पर्शमरूपमव्ययमिति” श्रुत्या तस्य रूपहीनता-
प्रतिपादनात्तथात्वम् । शुक्लादिरूपहीने वाय्वादौ त्रि० ।
अतिशयितं रूपम् प्रा० स० । सुन्दररूपे न० । “अति-
रूपवती कन्या” ।

अतिरेक पु० अति + रिच्--घञ् । अतिशये, भेदे, प्राधान्ये,

आधिक्ये च । “संपूर्णमेतयोर्ज्ञेयमतिरेके परेऽहनीति”
तिथित० ।

अतिरोग पु० अतिशयितो रोगः प्रा० स० । क्षयरोगे प्रा० ब० । अत्यन्तरोगयुक्ते त्रि० ।

अतिरोधान न० न तिरोधानम् । प्रकाशे, व्यवधानाभावे च ।

अतिरोमश पु० अतिशयितं रोम अतिरोमन् + अस्त्यर्थे श ।

वनजाते छागे, वृहद्वानरे च । अत्यन्तरोमाढ्ये त्रि० ।

अतिरोहित त्रि० न तिरोहितः । प्रकाशिते स्फुटेऽर्थे

“अतिरोहितार्थमन्यदिति” प्रमिता० । अव्यवहिते च ।
पृष्ठ ०१०४

अतिलोमश पु० अतिरोमवत् । वनजाते छागे वृहद्वानरे

च । अतिलोमयुक्ते त्रि० । नीलवुह्नायां स्त्री ।

अतिवक्तृ त्रि० अति + वच--तृच् । वावदूके, वाचोयुक्तिदक्षे च ।

अतिवक्र पु० प्रा० स० “अतिवक्रा नगाष्टके” इति ज्योतिषोक्ते

सूर्य्यस्य सप्तमाष्टमस्थितिवशात् पूर्ब्बगतिविपरीतपश्चाद्गति-
शालिनि भौमादिग्रहपञ्चके । अत्यन्तकुटिले त्रि० ।

अतिवयस् त्रि० अतिक्रान्तो वयः कालकृतावस्थां, वयसं

पक्षिणं वा । प्राप्तवार्द्धके, अतिक्रान्तपक्षिणि च ।

अतिवर्ण्णाश्रमिन् पु० अतिक्रान्तो वर्णानाश्रमिणश्च अत्या०

स० । ब्राह्मणादिवर्णभिन्ने ब्रह्मचर्य्याद्याश्रमिभिन्ने च
“यो वेदान्तमहावाक्यश्रवणेनैव केवलम् आत्मानमीश्वरं
वेद सोऽतिवर्णाश्रमी भवे” दित्याद्युक्तलक्षणे एक्यात्मज्ञानिनि

अतिवर्त्तन न० अति + वृत--ल्युट् । अतिरेके । अतिक्रम्य दण्डं

वर्त्तन्ते कर्त्तरि ल्यु । यानसारथ्यादेः, दण्डाभावप्रयोजके
छिन्ननस्यादिदशके मनुना “यानस्य चैव यातुश्च
यानस्वामिन एव च दशातिवर्त्तनान्याहुरित्युपक्नम्य, छिन्ननस्ये
भग्नयुगे तिर्य्यक्प्रतिमुखागते अक्षभक्षे च यानस्य चक्रभङ्गे
तथैव च । छेदने चैव यन्त्राणां यन्त्ररश्म्योस्तथैव च ।
आक्रोशे चाप्यपैहीति न दण्डं मनुरव्रीदिति” दण्डाभाव-
कारणानि दश दर्शितानि ज्ञेयानि । अत्या० स० । अतीत-
जीवनोपाये त्रि० ।

अतिवर्त्तिन् त्रि० अतीत्य वर्त्तते अति + वृत--णिनि ।

अतिशयिनि, अग्रगे च ।

अतिवर्त्तुल पु० अतिशयितः वर्त्तुलः । (वाटुलाकलाइ) इति

ख्याते वर्त्तुलाकारके कलाये । अत्यन्तवर्त्तुले त्रि० ।

अतिवाद पु० अति + वाद--घञ् । अत्युक्तौ, “अतिवादरता

ये च” इति पुराणम् । “अतिवादं शंसत्यतिवादेन”
इति वेदः । कठोरवाक्ये, अप्रियवाक्ये च ।

अतिवादिन् त्रि० सर्व्वानतीत्य वदतीति अति + वद--णिनि ।

सर्व्वानतिक्रम्य वदनशीले, सर्व्वमतखण्डनेन खमतव्यव-
स्थापके च । “विजानन् विद्वान् भवते नातिवादीति” श्रुतिः ।

अतिवाह पु० अतीत्य देहमन्यदेहे वाहः प्रापणम् ७ त० ।

ऐहिकभोगसाधनादृष्टक्षये सूक्ष्मभूतमात्रासहितसूक्ष्मशरी-
रावच्छिन्नजीवस्य देहान्तरादिसंयोगाय नयने, अतियापने
च । अतिवाहे नियुक्तः ठक् । आतिवाहिकः तत्र-
नियुक्ते त्रि० ।

अतिवाहक पु० अतीत्यैतं देहं वाहयति देहान्तरं प्रापयति

अति + वह--ण्वुल् । ईश्वरनियोजिते अर्च्चिराद्यभिमानि-
देवभेदे । तथाहि “अर्चिषोहः, अह्न आपूर्य्यमाणपक्षम्,
आपूर्य्यमाणपक्षात् यान् षण्मासान् उदङ्ङेति तान्
मासान्, मासेभ्यः संवत्सरं, संवत्सरादादित्यमादित्याच्च-
न्द्रमम् चन्द्रमसो विद्युतं, तत्पुरुषोऽमानवः सएनं
ब्रह्म गमयतीति” श्रुतौ वाक्यशेषे अमानवपुरुषस्य
ब्रह्मलोकप्रापकत्वश्रुतेः तत्पूर्व्वाणामपि अर्चिरादीनां
चेतनत्वमिति “आतिवाहिकास्तल्लिङ्गादिति” सूत्रे निर्णी-
तम् । “अग्निर्ज्योतिरहः शुक्लः षण्मासा उत्तरायण-
मिति” गीताव्याख्यायाञ्च अर्च्चिरादयस्तदभिमानिन्यो
देवता” इति श्रीधरस्वामिभिरप्युक्तम् युक्तञ्च अवृत्रिकेन्द्रिया-
दिकसूक्ष्मशरीरस्य स्थानान्तरनयनं चेतनकर्तृकं विनाऽनु-
पन्नमित्यतस्तदानों तस्य स्थानान्तरगमनसिद्धये कल्पितचेत-
नानामेव प्रेरकत्वमिति । अन्यच्च, “पञ्चप्राणमनोबुद्धिदशे-
न्द्रियसमन्वितम् अपञ्चीकृतभूतोत्थं सूक्ष्माङ्गं भोगसाधन”
मित्युक्तस्य भोगसाधनस्य निश्चेष्टस्य सूक्ष्मशरीरस्य तदवच्छिन्न-
जीवस्य च स्थानान्तरनयनमाश्रयभूतेन विना न सम्भवतीति
तदाश्रयभूतं भूतपञ्चकं च कल्प्यते यथोक्तं मनुना
“अण्व्योमात्राविनाशिन्यो दशार्द्धानान्तु याः स्मृताः । ताभिः
सार्द्धम्” इत्युक्तम् शारीरकसुत्रे च “तदन्तरप्रतिपत्तौ रंहति
सम्परिष्वक्त इति” भूतमात्रोपष्टब्धस्यैव संसरणमुक्तं
सांख्ये व “चित्रं यथाश्रयमृते स्थाण्वादिभ्यो विना
यथा च्छाया । तद्वद्विना विशेषैर्न तिष्ठति निराश्रयं
लिङ्गमिति, संसरति निरुपभोगं भावैरतिवासितं लिङ्गमिति”
चोक्तम् । अतिवाहप्रकारस्तु उत्क्रमणशब्दे विशेषेण
वक्ष्यते । अति + वह--णिच् ण्वुल् अतिवाहकारके,
अतियापके च त्रि० ।

अतिवाहिक त्रि० अतिवाहः अस्त्यस्य ठन् । अतिवाह-

योग्ये अतिवाहशब्दोक्ते सूक्ष्मशरीरे ।

अतिवाहित त्रि० अति + वह--णिच्--क्त । यापिते, अतिक्रमिते च ।

अतिवाह्य त्रि० अति + वह--णिच् कर्म्मणि--यत् । अतिवाह

योग्ये कालादौ ।

अतिविकट पु० अतिशयेन विकटः । दुष्टहस्तिनि । अतिकराले त्रि० ।

अतिविषा स्त्री अतिक्रान्ता विषम् अत्या० स० । (आतैच्)

इति ख्यातायाम् लतायाम् ।
“त्रिविधाऽतिविषा ज्ञेया शुक्ला कृष्णा तथाऽरुणा । रसवीर्य्य
विपाकेषु निर्विषेव गुणाधिकेति” वैद्यकम् । विषातिक्रम-
कारके त्रि० ।

अतिवृत्त त्रि० अतिक्रम्य वर्त्तते वृत--क्त ।

अतिशयिते, अतिक्रान्ते “तद्युद्धमतिवृत्तमिति” नाट० ।
पृष्ठ ०१०५

अतिवृत्ति स्त्री अति + वृत--क्तिन् । अतिक्रमे । वृत्ति-

र्जीविका तामतिक्रान्ते त्रि० ।

अतिवृद्ध त्रि० अत्यन्तं वृद्धः । अत्यन्तवृद्धियुक्ते, अतिजरति

च । तृणादिचर्वणासमर्थायां गवि स्त्री । “अतिवृद्धामति-
कृशामिति” स्मृतिः “अतिवृद्धाम् तृणच्छेदनासमर्थामिति”
रघु० । “चतुःशतं समारभ्य यावद्वर्ण्णसहस्रकम् ।
अतिवृद्धः स मन्त्रस्तु सर्वशास्त्रेषु वर्ज्जित इति तन्त्रोक्ते
मन्त्रभेदे पु० ।

अतिवृष्टि स्त्री अति + वृष--क्तिन् । अत्यन्तवृष्टौ शस्योपघात-

कोपद्रवरूपे “अतिवृष्टिरनावृष्टिः शलभाः मूषिकाः
स्वगाइत्याद्युक्ते” ईतिभेदे “निरीतिभावं गमितेऽति-
वृष्टय” इति नैष० ।

अतिवेध पु० अत्यन्तोयेधः सम्पर्कः । “अरुणोदयवेधः स्यात्

सार्द्धन्तु घटिकाद्वयम् । अतिवेधोद्विघटिका प्रभासन्दर्शना
दृवेः” इतिस्मृत्युक्ते एकादश्याः दशमीसम्पर्कर्भेदे, “यातुधानं
व्रतं योगे, महावेधे तु राक्षसम् । जम्भासुरस्यातिवेधः”
इति ब्रह्मवै० जम्भासुरस्य फलदायकं न तु कर्त्तुः
फलदम् तेन निन्दाश्रवणात् सा एकादशी नैवोपास्येति ।

अतिवेगित त्रि० अतिवेगो जातोऽस्य तारा० इतच् । जाता-

धिकवेगे “भौमादयोऽल्पमूर्त्तित्वाच्छीघ्रमन्दोच्चसंज्ञकैः देवतै-
रपकृष्यन्ते सुदूरमतिवेगिताः” इति सूर्य्य० ।

अतिवेल त्रि० अतिक्रान्तो वेलां मर्य्यादाम् कूलं वा अत्या० स० ।

अतिशयिते, निर्मय्यादे, समुद्रादिकूलातिक्रमकारके च ।
अतिक्रमे अव्ययी० । वेलातिक्रमे अव्य० ।

अतिवोढृ त्रि० अति + वह--तृच् । अतिवहनकर्त्तरि प्रापके

“अग्निर्वै पथोऽतिवोढा स एतानतिवहतीति” श्रुतिः ।
स्त्रियां ङीप् ।

अतिव्यथन न० अति + व्यथ--णिच्--ल्युट् घटा० ह्रस्वः ।

अत्यन्तपीड़ने, “सपत्रनिष्पत्रादतिव्यथने” इति पा० ।

अतिव्यथा स्त्री अत्यन्ता व्यथा । अत्यन्तपीड़ायाम् ।

अतिव्यय त्रि० अतिशयितोव्ययः । अपरिमितव्यये यस्य-

यावान् व्ययौचितस्ततोऽधिकव्यये व्ययनियमश्च, “पादेन
तस्य पारक्यं कुर्य्यात् सञ्चयमात्मवान् । अर्द्धेन चात्मभरणं
नित्यनैमित्तिकं तथा पादार्द्धार्द्धेन सर्वस्य मूलभूतं विवर्द्धयेत्
एवमारभतः पुंसामर्थः साफल्यमृच्छतीति” मार्क० पुरा० ।
“अतिव्ययात् स्वल्पकालात् क्लिश्येदर्थपरिक्षयादिति” नीति० ।

अतिव्याप्ति स्त्री अतिशयेन लक्ष्यमलक्ष्यञ्चाविशिष्य व्याप्तिः

व्यापनम् । अतिशयव्यापने (लक्ष्यस्येवालक्ष्यस्यापि व्यापने) ।
तथा च यत्र यस्य स्थितिरुचिता ततोऽन्यत्रापि तस्य सम्बन्धे
प्रसक्ते अतिव्याप्तिः । यथा पृथिव्याः गन्धी लक्षणं तत्रैव
तस्य स्थितिरुचिता तस्य वाय्वादौ सत्त्वप्रसङ्गे अतिव्याप्तिः ।
यथा वा धूमे वह्नेर्व्यापकता न तु जले, तत्र प्रसक्तौ
अतिव्याप्तिः । एवञ्च पृथिव्या रूपवत्त्वं लक्षणम्
जलादावतिव्याप्तम् । “परिगणनं कर्त्तव्यमव्याप्त्यतिव्याप्ति-
दोषवारणायेति” सिद्धा० कौ० ।

अतिशक्करी पु० अतिक्रान्ता शक्करीमेकाक्षराधिक्यात् । पञ्च-

दशाक्षरपादके वृत्तभेदे “शक्करी सातिपूर्बा स्यादिति, वृत्त० ।

अतिशक्ति स्त्री अतिशयिता शक्तिः कर्म्मसाघनं सामर्थ्यम्

देहजं बलम् वा प्रा० स० । अतिशयिते सामर्थ्ये, अधिक-
वोर्य्ये च “स वीर्य्यमतिशक्तिभागि” त्यमरः । अतिक्रान्तः
शक्तिम् अत्या० स० । सामर्थ्यातिक्रमकारके त्रि० ।
अतिशयिता शक्तिर्यस्य ब० । अतिशयबलवति त्रि० ।
अतिक्रमेऽव्ययी० । शक्त्यतिक्रमे अव्य० ।

अतिशय पु० अति + शीङ्--अच् । आधिक्ये, अतिरेके च ।

अतिक्रान्तः शयं हस्तम् अत्या० स० । हस्तातिक्रमकारके
त्रि० । अतिशय + अस्त्यर्थे अच् । अतिशयवति । “अति-
शयरयशालिनेति” काद० । द्वारे व्यापारे च “चिरध्वस्तं
फलायालं न कर्म्मातिशयं विले” त्युदयनः ।

अतिशयन न० अति + शी--भावे ल्युट् । अतिरेके

अतिशयार्थे । अतिक्रान्तं शयनम् अत्या० स० ।

अतिशयित त्रि० अति + शीङ्--क्त । अधिके, अतिक्रान्ते च ।

अतिशयिन् त्रि० अति + शी--इनि । अतिशयान्विते स्त्रियां

ङीप् । “इदमुत्तममतिशयिनि व्यङ्ग्ये वाच्यादिति” काव्यप्र० ।

अतिशयोक्ति स्त्री अतिशयेन उक्तिर्निर्देशः यत्र । अलङ्कार-

शास्त्रप्रसिद्धे (सा० १० परि०) “सिद्धत्वेऽध्यवसायस्याति-
शयोक्तिर्निगद्यते भेदेऽप्यभेदः सम्बन्धेऽसम्बन्धस्तद्विपर्य्ययौ ।
पौर्वापर्य्यात्ययः कार्य्यहेत्वोः सा पञ्चधा मते” त्युक्तलक्षणे
अर्थालङ्कारभेदे यथा “विश्लेषदुःखादिव बद्धमौन” मित्यत्र
चेतनगतं मौनित्वमन्यत्, अचेतनगतञ्चान्यदिति द्वयोर्भेदे-
ऽपि अभेदः । “अन्यदेवाङ्गलावण्यमन्याः सौरभसम्पद”
इत्यत्र लावण्यादेरभेदेऽपि अन्यशब्देन भेएदः इति” “अस्याः
सर्गविधौ प्रजापतिरभूच्चन्द्रो नु? कान्तिप्रद” इत्यादौ
श्लोके “वेदाभ्यासजड़ं कथं नु? विषयव्यावृत्तकौतूहलो
निर्मातुं प्रभवे” दित्यादिना विधातुः स्रष्टृत्वसम्बन्धेऽपि
तदसम्बन्धः । “यदि स्यान्मण्डले सक्तमिन्दोरिन्दीवरद्वयम्
तदोपमीयते तस्या वदनं चारुलोचनमिति” यदि शब्दबला-
पृष्ठ ०१०६
दाहृतसम्भावनायैव सम्बन्धात् तद्विपर्य्ययः । “सममेव
समाक्रान्तं द्वयं द्विरदगामिना तेन सिंहासनं पित्रमखिल-
ञ्चारिमण्डल” मित्यत्र कार्य्यकारणयोः पौर्ब्बापर्य्याभावः ।

अतिशायन न० अति--शीङ् ल्युट् “अतिशायने इष्ठ” नित्यादि-

सूत्रनिर्द्देशात् नि० दीर्घः । आधिक्ये, प्रकर्षे च । “भूम-
निन्दाप्रशंसायां नित्ययोगेऽतिशायने इति” कारिका ।

अतिशीत न० अतिशयितं शीतम् प्रा० स० । अत्यन्तशीतल-

स्पर्शे । तद्विशिष्टे त्रि० ।

अतिशेष पु० अतिशिष्यते कर्म्मणि घञ् । स्वल्पावशिष्टे, “स हि

खादित्वातिशेषान् जायाया आजहारेति” ।

अतिशोभन त्रि० अति + शुभ--ल्यु । अत्यन्तशोभान्विते, श्रेष्ठे च ।

अतिश्व त्रि० अतिक्रान्तः श्वानं वलेन षच् समा० । वरा

हादौ । सेवायां स्त्री, सेवायाः कुक्कुरवत् पराधीनवृत्तित्वात्
तथात्वम् । अतएव मनुना “न श्ववृत्त्या कदाचनेति”
सेवायाः कुक्कुरवृत्तित्वेन निषेषः कृतः ।

अतिश्वन् पु० अतिशयितः सुन्दरः श्वा अतेः पूजार्थत्वात् न

समा० । उत्तमकक्कुरे तददूरदेशादौ पक्षा० फक् ।
आतिश्वायनः तददूरदेशादौ त्रि० ।

अतिष्ठा त्रि० अतीत्य सर्व्वान् तिष्ठति स्था--क्विप्--षत्वम् ।

सर्व्वातीते । “अतिष्ठा वा एषा छन्दसां यदतिच्छन्दा
अतिष्ठा अश्वमेधो यज्ञानामिति” वृ० उ० ।

अतिसञ्चय पु० अतीत्य आवश्यककृत्यं सञ्चयः । मधुमक्षिका-

दीनामिव स्वपरवञ्चनेनातिमात्रसञ्चये ।

अतिसन्ध त्रि० अतिक्रान्तः सन्धां सन्धानं मर्य्यादां वा अत्या०

स० । सन्धानवर्ज्जिते, अतिक्रान्तमर्य्यादे च ।

अतिसन्धेय त्रि० अतिकष्टेन सन्धेयः अनुसन्धेयः संयो-

ज्योवा । कष्टानुसन्धेये, कष्टेन संयोजनीये च ।

अतिसन्ध्या स्त्री अत्यासन्ना सन्ध्या यस्याः ब० स० । पूर्ब्बदिव-

सीयरात्रिशेषदण्डादिपरदिनसूर्य्योदयपर्य्यन्तः, सूर्य्यास्तात्
पूर्ब्बोत्तरदण्डात्मकश्च कालः सन्ध्या । तस्याः आसन्ने काले ।
“नातिसन्ध्यासमीपत” इति स्मृतिः ।

अतिसर त्रि० अतीत्य स्वगतिमुल्लङ्घ्य सरति अति + सृ--अच् ।

अतिचारिणि, अग्रसरे च याँ “असावतिसरांश्चकारेति

अतिसर्ग पु० अति + सृज--घञ् । दाने । “स्रष्टुर्वराति-

सर्गात्तु मया तस्य दुरात्मनः” इति रघुः । सर्गं सृष्टिमति
क्रान्तरि, नित्ये, मुक्ते च त्रि० । अतिसृज्यते यथेष्टं कर्म्म
क्रियतैऽनेन । कामचारानुज्ञायाम् यथेच्छं क्रियताभित्या-
द्यभिलापरूपायाम् “विधिनिमन्त्रणामन्त्रणाधीष्टप्रैष्याति-
सर्गेति” पा० । अतिसर्गः कामचारानुज्ञेति वृत्तिः ।

अतिसर्जन न० अति + सृज--ल्युट् । दाने, बधे, विप्रलम्भे,

अतिशयदाने च । “ज्वलनातिसर्जनादिति” कुमा० ।

अतिसर्व्व त्रि० अतिक्रान्तः सर्वान् अत्या० स० गौणत्वान्न

सर्वनामता । सर्वातिगे सर्वातीते । “अतिसर्वाय सर्वा-
येति” मुग्ध० ।

अतिसान्तपन न० अतिक्रान्तं सान्तपनमधिकदिनसाध्यत्वात्

अत्या० स० । “गोमूत्रगोमयक्षीरदधिसर्पिःकुशोदकान्ये-
काहं द्वितीयमुपवसेत्तत् सान्तपनम्, त्र्यहाभ्यस्तैश्चातिसान्त-
पनमिति” विष्णूक्ते व्रतभेदे ।

अतिसाम्या स्त्री अत्यन्तं साम्यं मधुनाऽस्याः । मधुयष्टि-

लतायाम् । प्रा० स० । अत्यन्तसादृश्ये न० ।

अतिसायम् अव्य० अत्यासन्नं सायम् यस्य ब० स० । सायं-

कालसमीपे काले “नातिप्रगे नातिसायमिति” स्मृतिः ।

अति(ती)सार पु० अतिसारयति मलम् द्रवीकृत्य अति +

सृ--णिच्--अच् वा अतेः दीर्घः । रोगभेदे उदारामये ।
तस्य निदानादि सुश्रुते उक्तं यथा “गुर्वतिस्निग्धरूक्षो-
ष्णद्रवस्थूलातिशीतलैः । विरुद्धाध्यशनाजीर्णैर्विषमैश्चापि
भोजनैः । स्नेहाद्यैरतियुक्तैश्च मिथ्यायुक्तैर्विषैर्भयैः ।
शीकाद्दुष्टाम्बुमद्यातिपानैः सात्न्यर्त्तुपर्य्ययैः । जलाभिरम-
णैर्वेगविघातैः कृमिदोषतः । नृणां भवत्यतीसारो लक्षणं
तस्य वक्ष्यते । (तस्य संप्राप्तिः) “संशाम्यापां धातुरग्निं
प्रवृद्धः शकृन्मिश्रो वायुनाधः प्रणुन्नः । सरत्यतीवातिसारं
तमाहुर्व्याधिं घोरं षड्विधं तं वदन्ति । एकैकशः, ३
सर्वशश्चापि ४ दोषैः शोकेनान्यः ५ षष्ठ आमेन ६ चोक्तः ॥
(तस्य पूर्ब्बरूपम्) हृन्नाभिपायूदरकुक्षितोद--गात्रावसादा-
निलसन्निरोधाः । विट्सङ्ग आध्मानमथाऽविपाको भविष्यत-
स्तस्य पुरःसराणि । (वायुजः) शूलाविष्टः सक्तमूत्रोऽन्त्र-
कूजी स्रस्तापानः सन्नकट्यूरुजङ्घः । वर्चोमुञ्चत्यल्पमल्पं
सफेनं रूक्षं श्यावं सानिलं मारुतेन । (पित्तजः) दुर्गन्ध्युष्णं
वेगवन्मांसतोयप्रख्यं भिन्नं स्विन्नदेहोऽतितीक्ष्णम् । पित्ता-
त्पीतं नीलमालोहितं वा तृष्णा मूर्च्छा दाहपाकज्व-
रार्त्त्योः (कफजः) तन्द्रानिद्रागौरवोत्क्लेशसादी वेगाशङ्की
सृष्टविट्कोऽपि भूयः । शुक्लं सान्द्रं श्लेष्मणा श्लेष्मयुक्त
भक्तद्वेषी निस्वनं सृष्टरोमा ॥ (त्रिदोषजः) तन्द्रायुक्ते
मोहमादास्यशोषी वर्चः कुर्य्यान्नैकवर्णं तृषार्त्तः । सर्व्वोद्भूतः
सर्वलिङ्गोपपत्तिः कृच्छ्रश्चायं बालवृद्धेष्वसाध्यः ॥ (शोकजः)
तैस्तैर्भावैः शोचतोऽल्पाशनस्य वाष्पो वेगः पक्तिमाविध्य-
पृष्ठ ०१०७
जन्तोः । कोष्ठं गत्वा क्षोभयन् यस्य रक्तं तच्चाध-
स्तात्काकनन्तीप्रकाशम् ॥ वर्च्चोमिश्रं निः पुरीषं सगन्धं
निर्गन्धं वा सार्य्यते तेन कोष्ठात् । शोकोत्पन्नो दुश्चि-
कित्स्योऽतिमात्रं रोगो वैद्यैः कष्ट एष प्रदिष्तः ॥
(आमजः) आमाजीर्णैः प्रद्रुताः क्षोभयन्तः कोष्ठं दोषाः
सम्प्रदुष्टाः सभक्तम् । नानावर्णं नैकशः सारयन्ति
कृच्छ्राज्जन्तोः षष्ठमेनं वदन्ति ॥

अति(ती)सारकिन् त्रि० अतिसारो रोगोऽस्यास्ति

अतिसार + इनि--कुक्--च् । अतिसाररोगवति ।

अतिसारिन् पु० अत्यन्तं सारयति मलम् अति + सृ--णिनि । अतिसाररोगे ।

अतिसृज्य त्रि० अति + सृज--क्यप् । त्याज्ये, सर्जनीये च ।

अतिसृष्ट त्रि० अति + सृज--क्त । दत्ते, प्रेरिते च ।

अतिसौरभ पु० अतिशयितं सौरभमस्य ब० । अत्यन्तामोद-

वति आम्रे । सौरभान्विते वस्तुमात्रे त्रि० । प्रा० स० ।
अत्यन्तसुरभिगन्धे न० ।

अतिसौहित्य न० प्रा० स० । अत्यन्ततृप्तौ “नातिसौहित्यमाचररेदिति” स्मृतिः ।

अतिस्तुति स्त्री अति + स्तु--क्तिन् अतेः पूजार्थत्वादुपसर्गत्व

बाधान्न षत्वम् । अविद्यमानगुणानुकीर्त्तने ।

अतिस्पर्श त्रि० अतिक्रान्तः स्पर्शं वर्ण्णोच्चारणप्रयत्नभे दं दानं

वा । जिह्वाग्रादेः सम्पूर्णस्पर्शाभावेन ईषत्स्पर्शमात्रेण
उचार्य्ये यवरलात्मके वर्णे स्वरवर्णे च “अचोऽस्पृष्टा
य णण्त्वीषन्नेमस्पृष्टाः शलस्तथेति” शिक्षायां तेषामुच्चारणेऽस्पर्शे
षत्स्पर्शयोरुक्तेस्तथात्वम् । दानहीने कृपणे अधमे च ।
“अतिस्पर्शो वर्वरता त्त रेफे” इति । प्रा० स० । अत्यन्तस्पर्शे ।

अतिस्फिर त्रि० प्रा० स० । अत्यन्तस्फूर्त्तिशालिनि, अतिवृद्धे च ।

अतिहसित न० अति + हस--क्त । उच्चहासे । घञ् ।

अतिहासोऽप्यत्र पु० ।

अतिहस्ति जामधातुः हस्तो निरस्यति हस्तिनाऽतिक्रामति वा अति + हस्त + णि--अतिहस्तयति ।

अतीक्ष्ण त्रि० न० त० । तीक्ष्णत्वविरोधिमृदुत्ववति ।

विषयुद्धलौहरूपतीक्ष्णशब्दार्थभिन्ने न० ।

अतीत त्रि० अति + इण--क्त । अतिक्रान्ते, भूतकाले च । तद्वृत्तौ

आरब्धपरिसमाप्ते पदार्थमात्रे त्रि० । अतीतश्च वर्त्त-
मानध्वंसप्रतियोगी । भवति च अपचदित्यादौ पाकादे-
र्वर्त्तमानध्वंसपतियोगित्वम् । स च कालो द्विविधः
अद्यतनः अनद्यतनश्च अद्यतनस्तु अतीतायाः रात्रेः
पश्चार्द्धेन, आगामिन्याः पूर्ब्बार्द्धेन च सहितः कालः । तत्र
वृत्तिध्वं स प्रतियोगी अद्यतनातीतः तदरिक्तः अनद्यतनः ।
तत्रानद्यतने भूते लङ् (अपचत्) “अनद्यतने लङिति”
सूत्रात् तस्यैव वक्तुरपारोक्ष्यविवक्षायां लिट् (पपाच)
“परोक्षानद्यतने लिड़िति” सूत्रात् । भूतसामान्ये लुङ् ।
अपाक्षीत् । स्मशब्दादियोगे लटोऽपि भूतत्वमर्थः । कालस्तु
क्रियान्वयी सर्वत्र, “क्रियाभेदाय कालस्त्विति” हर्य्युक्तेः ।
अतीतत्वादिकन्तु सर्वत्र प्रयोगकालमादायैव व्यवह्रियते
इत्यादिकमाकरे दृश्यम् । अतीतकाले, “शीतेऽतीते
वसनमशनमिति” “कालातीता वृथा सन्ध्येति” “संवत्सरे
व्यतीते तु पुनरागमनाय चेति” तत्कालवृत्तौ “अलमती-
तवार्त्तयेत्यादि” ।

अतीन्द्र पु० अतिक्रान्त इन्द्रम् गुणैः अत्या० । इन्द्रगुणातिगे

विष्णौ इन्द्रातिगसात्रे त्रि० “अतीन्द्रमतिरुद्रं च
भवतश्चरितं परमिति” पुरा० ।

अतीन्द्रिय त्रि० अतिक्रान्तमिन्द्रियं तदविषयत्वात् अत्या०

स० । इन्द्रियायोग्ये अप्रत्यक्षे, “नेत्रश्रोत्रनासिकारसना-
त्वक्चेतांसीन्द्रियाणि तैर्ज्ञातुमशक्ये विषये । “ज्ञानं यन्नि-
र्विकल्पाख्यं तदतीन्द्रियमिष्यते” भाषा० “यत्तत् सूक्ष्ममती-
न्द्रियमिति” गीता । ईश्वरे च तस्य तथात्वम् वाह्ये-
न्द्रियायोग्यत्वेनैव अन्यथा “मनसैवानुद्रष्टव्य” इति श्रुतौ
ज्ञानविषयत्वमुक्तं विरुध्येत । “यन्मनसा न मनुते”
इत्यादिकं तु अशुद्धमनसोऽविषयत्वपरम् । अत एव
“विशुद्धचेतसा गम्यमिति” वाक्यान्तरम् । किञ्च वेदा-
न्तिमते ज्ञानं द्विविधं वृत्तिरूपं तदवच्छिन्नमनोवृत्ति-
प्रतिविम्बितचैतन्यरूपञ्च तत्र वाह्येन्द्रियाणां रूपादिष्वेव
ग्राहकत्वमीश्वरस्य रूपादेरभावेन वाह्येन्द्रिययोग्यत्वाभावेऽपि
मनोवृत्तिविषयत्वमस्त्येव अतिसूक्ष्मत्वाच्च नाशुद्धमनोविषय-
त्वमित्येव भेदः । किन्तु मनोवृत्तिविषयत्वेऽपि तदवच्छिन्न-
चैतन्याविषयत्वात्तस्य मानसाविषयत्वम् अतएवोक्तमभियुक्तैः
“फलव्याप्यत्वमेवास्य शास्त्रकृद्भिर्निराकृतम् । ब्रह्मण्यज्ञान-
नाशाय वृत्तिव्याप्तिरपेक्षितेति” । अन्यथा विषयगताज्ञान-
निवृत्तिं प्रति स्वविषयकमनोवृत्तेः कारणतया तदभावे
कथंकारं? तद्गताज्ञाननिवृत्तिः स्यात् एतत्पक्षेऽप्यतीन्द्रियत्वं
तज्जन्यवृत्त्यवच्छिन्नचैतन्याविषयत्वेन द्रष्टव्यम् ।

अतीव अव्य० अत्येव--इवः अवधारणे प्रा० स० ।

अवधृतातिशयेऽत्यन्तातिशये च । अतीव विव्यथे” इति
भार० । “अतीव सुकुमाराङ्गीति” । “उच्चैःशिर-
सामतीवेति” कु० ।

अतुल पु० नास्ति तुला शुभ्रपुष्पतायामस्याः । तिलकवृक्षे

तुलारहिते त्रि० । “रामस्त्वतुलविक्रम” इति रामा० ।
पृष्ठ ०१०८

अतुल्य त्रि० न तुल्यः । असदृशे असमाने “अतुल्यमहसा-

सार्द्धं रामेण मम विग्रह” इति भट्टिः ।

अतुष त्रि० नास्ति तुषोऽस्य । अवघातादिना निस्तुषीकृते

धान्यादौ “अतुषानिव यवान् कृत्वेति” ।

अतुहिनरश्मि पु० न तुहिनः अहिम उष्णो रश्मिरस्य ।

उष्णरश्मौ सूर्य्ये । न० त० । उष्णरश्मौ पु० ।

अतूतुजि पु० न + तुज--कि द्वित्वदीर्घे । अदातरि । “अतू-

तुजिं चित् तूतुजिरशिश्नदिति” ऋ० तूतुजिर्दातेति भा० ।

अतूर्त्त त्रि० न तूर्प्यते तुरी हिंसायाम् क्त ईदित्त्वादिट् न ।

अहिंसिते । “अतूर्त्तोः राजा श्रव इच्छसान इति ऋ० ।
अतूर्त्तः अहिंसित इति भा० ।

अतृणाद त्रि० न तृणमत्ति अद--अण्--उप० न० त० ।

तृणाभक्षके दुग्धमात्रपोष्ये गवादिवत्से । “अथ वत्सं
जातमाहुरतृणादमिति” वेदः ।

अतृदिल पु० न तृद्यते बध्यते तृद--किलच् न० त० । हन्तुमनर्हे पर्वते ।

अतृप्ति स्त्री तृप्तिः सन्तोषः अभावार्थे--न० त० । तृप्त्यभावे

ब० । तृप्तिरहिते, असन्तोषिणि, लोलुपे च त्रि० ।

अतेजस् न० न तेजः विरोधे न० त० । तेजोविरोधिनि तमसि

छायायाम् । नास्ति तेजोऽस्य वा न कम्प् । तेजोरहिते त्रि०
कपि । अतितेजस्कोऽप्यत्र त्रि० ।

अत्क पु० अतति सततं विकृतिम् अत--कन कित्त्वम् ।

शरीरावयवे “स्तरीर्नात्कं व्युतं वसानेति” श्रुतिः । अतति
सततं गच्छति । पान्थे त्रि० ।

अत्तवे अव्य० अद--तुमर्थे तवेङ् । अत्तुमित्यर्थे “हविषेऽत्तवे

इति” यजु० । “अत्तवे हविर्भक्षितुमिति” वेददीपः ।

अत्ता स्त्री अतति सततंसम्बध्नाति अत--तक् इडभावः । मातरि,

स्त्रियाः--श्वश्र्वाञ्च । स्वार्थेके कापि अत इत्त्वे । अत्तिकाप्यत्र ।

अत्ति त्रि० अत्यते सर्वदा सम्बध्यते कर्ग्मणि क्तिन् । मातरि,

ज्येष्ठभगिन्यां, स्त्रियाः--श्वश्र्वाञ्च । स्वार्थे कन् । तत्रैवार्थे ।

अत्तृ पु० अद्--तृच् । परमेश्वरे, “अत्ता चराचरग्रहणादिति”

शारीरकसूत्रम् तस्य अत्तृत्वञ्च “यस्य ब्रह्म च क्षात्रञ्चोभे
मवत ओदनो मृत्युर्यस्योपसेचनमिति” श्रुतौ सर्वभ-
क्षकत्वेनोक्तेः । अधिकमदितिशब्दे वक्ष्यते भक्षणकर्त्तृमात्रे
त्रि० स्त्रियां ङीप् । “अरक्षितारमत्तारं नृपं विद्या-
दधोगतिमिति” भार० ।

अत्न न० अतति जयपराजयावत्र अत--न । युद्धे । निरु०

अत्नु पु० अत--नु । वायौ । सततगन्तरि । पथिके त्रि० । उणा०

अत्य त्रि० अतति शीघ्रं गच्छति कर्त्तरि यत् । शीघ्रगेऽश्वे,

“अश्वोऽस्यत्योऽसि मयोसीति” ता० ब्रा० । “अशुमत्यं न
वाजिनमिति” वेदः ।

अत्यग्निष्टोम पु० अतिक्रान्तोऽग्निष्टोममधिकफलदत्वात्

अत्या० स० । “अग्निष्टोमोऽत्यग्निष्टोम उक्थः षोडशी
राजपेयोऽतिरात्रोऽप्तोर्याम इति” गवामयनसंस्थयज्ञभेदे ।

अत्यङ्कुश पु० अतिक्रान्तोऽङ्कुशं तत्पीड़नमनादृत्य यथेष्टं प्रवृत्त-

त्वात् अत्या० स० । अङ्कुशाघातानादरेण यथेच्छं प्रवृत्ते
उत्कटे दुर्दान्ते गजे ।

अत्यङ्गल त्रि० अतिक्रान्तोऽङ्गुलिं तत्परिमाणम् अच् समा० । अङ्गुलिपरिमाणधिके ।

अत्यध्व त्रि० अतिक्रान्तोऽध्वानम् अत्या० स० अच् समा० ।

अतिक्रान्तपथे प्रा० स० । अतः पूजनार्थत्वान्न समा० ।
अत्यध्वन् । सुपथि पु० ।

अत्यन्त न० अतिक्रान्तोऽन्तं सीमाम् अत्या० स० । अतिशये ।

तद्युक्ते सर्वपरिच्छेदातिक्रान्ते त्रि० । अतिक्रमेऽव्ययी० ।
परिच्छेदातिक्रमे नाशातिक्रमे च अव्य० । “किं वा
तवात्यन्तवियोगदुःखे” इति रघु० “अत्यन्तहिमोत्तरानिला इति”
कुमा० । “सुस्वमत्यन्तमश्नुते” इति गीता । “शरीरस्य
गुणानाञ्च दूरमत्यन्तमन्तरमिति” च पुरा० । “अत्यन्ते
भवः ठक् आत्यन्तिकः । अत्यन्तभवे वस्तुनि त्रि० । नाशाति-
क्रान्ते त्रि० “अत्यन्तं निर्जगद्योमेति” पञ्चदशी ।

अत्यन्तकीपन त्रि० अत्यन्तं भृशं कुप्यति अति + कुप--ल्यु ।

भृशकोपान्विते अतिकोपयुक्ते ।

अत्यन्तगामिन् त्रि० अत्यन्तम् अन्तात्ययं अति + अन्त-

अत्यये अव्ययीभावः तद्गच्छति गम--कर्त्तरि णिनि । आत्य-
न्तिके अतिशयगमनशीले च । स्त्रियामत्यन्तगामिनी ।

अत्यन्तनिवृत्ति स्त्री अत्यन्ता निवृत्तिः । स्वप्रतियोगि-

जातीयप्रागभावासमानाधिकरणे ध्वंसे । यस्यां सत्यां
स्वप्रतियोगिजातीयस्यान्यस्य पुनरत्पत्तिर्न भवेत् तादृशी
निवृत्तिरत्यन्तनिवृत्तिः “अथ त्रिविधदुःखात्यन्तनिवृत्ति-
रत्यन्तपुरुषाथ इति” सांख्यसूत्रम् । सा च मोक्षावस्थाया-
मेव, मोक्षे हि विवेकेनाविद्यानिवृत्तौ तत्कार्य्यस्य दुःस्वादेः
सुतरां समूलमुच्छेद इति तत्र न पुनर्दुखोत्पादः अतस्तत्र
दुःखात्यन्तनिवृत्तिः ।

अत्यन्तसंयोग पु० अत्यन्तेन साकल्येन संयोगः संबन्धः

व्याप्तिरिति यावत् अन्तमवसानमतिक्रान्तः संयोगो वा ।
सन्ततसम्बन्धे, व्याप्तौ च । “कालाध्वनोरत्यन्तसंयोग”
इति पा० ।

अत्यन्तसुकुमार पु० अत्यन्त सुकुमार इति । (काङ्नी) कङ्गनी वृक्षे राजनि० ।

पृष्ठ ०१०९

अत्यन्ताभाव पु० अत्यन्तः अन्तमतिक्रान्तः नित्यः अभावः

कर्म्म० । नास्तीति वाक्याभिलप्यमाने नाशप्रागभावभिन्ने
संसर्गाभावे । यथा न्यायमते भूतले घटाभावः प्रतीयते
स च भूतले घटोनास्ति इति वाक्येन अभिलप्यते
सोऽयमभावः, न नाशः, नापि प्रागभावः तयोः समवायि
देशवृत्तित्वनियमात् भूतलादेश्च तदभावात् । नाशप्राग-
भावयोस्तु न अत्यन्तता प्रतियोगिकाले तयोरसत्त्वात् ।
नापि तयोर्नित्यता प्रागभायस्य प्रयोगिनाश्यत्वात् ध्वंसस्य
च प्रतियोगिजन्यत्वात् । भेदस्य नित्यत्वेऽपि संसर्गाभाव-
त्वाभावात् न तथात्वम् । अत्यन्ताभावस्य नित्यत्वेऽपि
प्रतियोगिसत्त्वकाले न तत्प्रतीतिः अभावप्रत्यक्षे योग्यानु-
पलब्धेर्हेतुतया योग्यस्य घटादिरूपप्रतियोगिन उपलब्धौ
तदनुपलब्धेरभावात् । नापि एकस्मिन् मावाभावयोः सत्त्वं
विरुद्धम् एकस्मिन्नपि वृक्षे कपिसंयोगतद्भावयोरवच्छेद-
भेदेन सत्त्वदर्शनात् तथा च एकस्मिन्नपि भूतलेऽवच्छेद-
भेदेन तयोः सत्त्वं न विरुध्यते । द्रव्यादौ गुणतदभावयोः
कालरूपाववच्छदभेदेन स्थितिरपि न विरुद्धा । तथा च
प्रतियोगिसत्त्वकाले द्रव्ये गुणात्यन्ताभावबुद्धिः प्रतिबन्धक-
सद्भावेन परं नोदेति इत्येव विरोधमात्रम् । अधिकमभाव-
शब्दे वक्ष्यते । “प्रागभावस्तथाध्वंसोऽप्यत्यान्ताभाव एव
चेति” भाषा० ।

अत्यन्तिक त्रि० अत्यन्तं गच्छति अत्यन्त + ठन् ।

अतिशयितगमनकारिणि । अतिशयितमन्तिकं निकटं प्रा०
स० । अतिनिकटे न० । तद्वृत्तौ त्रि० । नाहैवात्यन्तिके
नोदूरे तत् स्थापयेदिति । अत्या० स० । अतिक्रान्तसामोप्ये
दूरे न० । तद्वृत्तौ त्रि० ।

अत्यन्तीन त्रि० अन्तस्यात्ययः अत्यन्तम् अत्यये व्ययी०

अत्यन्तं गामी अत्यन्त + ख । अतिशयितगतिशीले ।
“लक्ष्मीं परम्परीणां त्वमत्यन्तीनत्वमुन्नयेति” भट्टिः ।

अत्यम्ल पु० अतिशयितोऽम्लोरसः फलपत्रादौ यस्य ब० ।

(तेतुल) इति प्रसिद्धे तिन्तिड़ीवृक्षे । अत्यन्ताम्लरसवति वस्तु-
मात्रे त्रि० । वनवीजपूरे (टावादेवु) इति प्रसिद्धे वृक्षे
स्त्री । अम्लरसस्य लक्षणाद्युक्तं सुश्रुते यथा “यो दन्त-
हर्षमुत्पादयति मुखस्रावं जनयति श्रद्धाञ्चोत्पादयति
सोऽम्ल इति” अम्लो जरणः पाचनः पवननिग्रहणो-
ऽनुलोमनः कोष्ठविदाही वहिःशीतः क्लेदनःप्रायशो
हृद्यश्चेति स एवं गुणोऽप्येक एवात्यर्थमुपसेव्यमानो दन्त-
हर्षनयनसंमीलनरोमसंवेजनकफविलयनशरीरशैथिल्यान्या-
पादयति तथा क्षताभिहतदग्धदष्टभग्नशूलरुग्णप्रच्युताऽ-
वमूत्रितविसर्पितच्छिन्नभिन्नविद्धोत्पिष्टादीनि पाचयत्याग्नेय-
स्वभावात् परिदहति कण्ठमुरो हृदयञ्चेति” । अम्ल-
द्रव्याणि च तत्र कानिचित् प्राधान्येन दर्शितानि यथा ।
दाड़िमामलकमातुलुङ्गाम्रातक--कपित्थकरमर्दवरकोलप्राचो-
नामलकतिन्तिड़ीककोशाम्रभव्यपारावतवेत्रफललकुचाम्लवेत-
सदन्तशठदधितक्रसुराशुक्तसौवीरकतुषोदकधान्याम्लप्रभृतीनि
समासेनाम्लवर्ग इति ।

अत्यम्लपर्ण्णी स्त्री अत्यस्लं पर्णं यस्याः जातित्वात् ङीप् ।

अत्यम्लपत्रयुक्ते वनवीजपूरे (टावालेवु) इति ख्याते वृक्षे ।

अत्यय पु० अति + इण--अच् । अतिक्रमे, अभावे, विनाशे,

दोषे, कृच्छ्रे, अतिक्रम्य गमने, कार्य्यस्यावश्यम्भावाभावे
च । “प्राणात्यये च संप्राप्ते योऽन्नमत्ति यतस्ततः । न स
पापेन लिप्येत पद्मपत्रमिवाम्भसेति” स्मृतिः । “क्षुरस्य
धारा निशिता दुरत्ययेति” पुरा० अत्ययं कालातिक्रमं
न सहते ठक् आत्ययिकः । विलम्बाक्षमे कार्य्ये त्रि० ।
“आत्ययिकेषु कार्य्येषु सद्य एवाधिवासयेदिति” पुराणम् ।

अत्यर्थ न० अतिक्रान्तमर्थमनुरूपस्वरूपं अत्या० स० । अतिशये ।

तद्वति त्रि० । अत्यये अव्ययी० । अर्थाभावे अव्य० ।

अत्यल्प त्रि० अतिशयितोऽल्पः प्रा० स० । अत्यन्ताल्पे

अणुतरे च ।

अत्यशन न० अतिशयितमशनम् । अतिभोजने “नचैवात्यशनं कुर्य्यादिति” ।

अत्यष्टि स्त्री अतिक्रान्ता अष्टिं षोड़शाक्षरपादिकां वृत्तिमेका-

क्षराधिक्यात् अत्या० स० । सप्तदशाक्षरपादके छन्दोभेदे ।

अत्याकार पु० अतिशयेन आकारः तिरख्यारः अति + आ +

कॄ--घञ् । तिरस्कारे । “श्लाघात्याकारतदवेतेष्विति” पा०
अतिशयित आकारो मूर्त्तिः प्रा० स० । वृहद्देहे पु० ।
अतिशयित आकारो यस्य ब० । तद्विशिष्टे त्रि० ।

अत्याग पु० न त्यागः अभावार्थे न० त० । त्यागाभावे “उपे-

त्यातिक्रमे दोषश्रुतेरत्यागदर्शनादिति” स्मृतिः ।

अत्यागिन् त्रि० त्यज--घिणुन् मन्दार्थे नञ् त० । कर्म्मफला-

ननुसन्धानेन कर्म्मानुष्ठायिनि, त्यागिभिन्ने च ।

अत्याचार पु० अत्युत्कट आचारः प्रा० स० । अनुचिताचरणे ।

अतिक्रमे अव्ययी० । अचारातिक्रमे अव्य० ।

अत्याज्य न० न त्यक्तुं शक्यम् शक्यार्थे ण्यत् न कुत्वम् ।

त्यागाशक्ये त्यागानर्हे च ।

अत्यादान त्रि० अतिक्रा तम् आदानम् । आदानातिक्रान्ते

अतिशयितसादानम् प्रा० स० । भृशादाने ।
पृष्ठ ०११०

अत्याधान न० अति + आ + धा--ल्युट् । अतिक्रमणे, सम्बन्ध-

मात्रे, उपरिस्थापने च । अत्यये अव्ययी० । आग्न्याधा-
नातिक्रमे अव्य० । अतिक्रम्य ज्येष्ठमाधानम् । ज्येष्ठा-
तिक्रमेण अग्न्याधाने न० ।

अत्याय पु० अति + अय--घञ् । अतिक्रमे, “प्रजाह तिस्रो

“अत्यायमीयुरिति” श्रुतिः । अतिक्रान्तलाभे त्रि० ।
प्रा० स० । अतिशयिते लाभे पु० ।

अत्यायु न० अति + आ + या--कु । यज्ञियपात्रभेदे ।

“मूर्द्धास्यत्यायु पात्रमसीति” ता० “अत्यायुनाम्नाभिधेयमिति”
भाष्यम् ।

अत्यारूढि स्त्री अति + आ + रुह--क्तिन् । आरोहणातिशये । विख्यात्यतिशये अतिप्रसिद्धौ च ।

अत्याल पु० अतिशयेन समन्तात् अलति पर्य्याप्नोति अति +

आ + अल--अच् । (लालचिता) इति ख्याते रक्तचित्रक-
वृक्षे, तस्य अत्यल्पकालेन समन्तात् व्यापनात् तत्त्वम् ।

अत्याशा स्त्री प्रा० स० । अपूरणीयधनादितृष्णायाम् । अत्या०

स० । आशातक्रान्ते त्रि० ।

अत्याश्रम त्रि० अतिक्रान्त आश्रमान् तद्विहितधर्म्मान् अत्या०

स० । सर्व्वाश्रमत्यागिनि पञ्चमाश्रमिणि संन्यासिनि ।
अत्रात्याश्रमिन् इत्यप्यत्र । अतिशयित आश्रमः प्रा० स० ।
उत्तमाश्रमे संन्यासे पु० ।

अत्याहिंत न० अत्यन्तमाधीयते तन्निवारणार्थं मनो दीयते-

ऽस्मिन् आ + धा--आधारे क्त । अत्यन्तभीतौ, प्राणहानि-
शङ्काकरे अनर्थे च । “किमत्रात्याहितमिति” नाटकम् ।

अत्युक्ति स्त्री अतिशयेन अनौचित्येन वा उक्तिः अति +

वचक्तिन् । अतिशयोक्तौ, अन्याय्योक्तौ, निर्गुणस्य जड़स्य वा
आरोपितगुणेन स्तवने । “अत्युक्तौ न यदि प्रकुप्यसि
मृषावादञ्च नो मन्यसे” इत्युद्भटः ।

अत्युक्ता(क्था) स्त्री उक्ता(क्या) एकाक्षरपादिका वृत्तिः

ताम् अतिक्रान्ता अत्या० स० । द्व्यक्षरपादके छन्दोभेदे ।
अत्युक्थस्तु उक्थनामकसामभेदातिक्रान्तरि त्रि० ।

अत्युच्छ्रित त्रि० अत्यन्तमुच्छ्रितः । अत्यन्तोन्नते उन्नतेः

परमसीमापन्ने ।

अत्युत्कट त्रि० अत्यन्त उक्तटः । अत्यन्तोग्रे । “अत्युत्कटैः

पापपुण्यैरिहैव फलमश्नुते” इति पुरा० ।

अत्युत्कृष्ट त्रि० अत्यन्तमुत्कृष्टः । परसीमापन्नोत्कर्षयुते ।

अत्यूमशा अव्य० ऊर्य्यादिगणोक्ते अनुकरणशब्दे हिंसाया-

द्योतकोऽयमित्यन्ये अत्यूमशाकृत्य । गणरत्ने तु अयं न दृश्यते
गणपाठे तु दृश्यते इति विवेच्यम् ।

अत्यूह पु० अतिशयेन ऊहते शब्दायते अति + ऊह--अच् ।

कालकण्ठे (ड़ेओ) इति प्रसिद्धे दात्यूहे पक्षिणि ।
अतिशयेन ऊहस्तर्कः प्रा० स० । अतिशयितवितर्के । (नील)
इति ख्यातौषधौ नीलिकायां स्त्री । अत्ययेऽव्ययी० ।
वितर्काभावे अव्य० ।

अत्र अव्य० अस्मिन् एतस्मिन् वा इदम् + एतद्--वा सप्तम्या-

स्त्रल् प्रकृतेरश्भावश्च । अस्मिन् एतस्मिन् वेत्यर्थे । “कोऽत्र
भूमिबलये जनान् मुधेति” माघः । न त्रायते केनापि
त्रै--बा० कर्म्मणि क । अन्यत्राणायोग्ये क्षत्रिये “प्राणः
क्षणितोः प्रक्षत्रमत्रमाप्नोतीति” यच्च न त्रायते केनचिदत्रं
क्षत्रं प्राप्नीत्यर्थः ।

अत्रप त्रि० नास्ति त्रपा यस्य । निर्लज्जे ।

अत्रभवत् त्रि० अयमित्यर्थे अत्र “अन्येभ्योऽपीति” प्रथमार्थे

त्रल् ततः कर्म्म० । पूज्ये, “जयमत्रभवान्नूनमरातिष्वभि-
लाषुक” इति भार० ।

अत्रस्त त्रि० न त्रस्तः । त्रासरहिते त्रासोपाधिरहिते च

“जुगोगात्मानमत्रस्त” इति रघुः । त्रासोपाधिमन्तरेणेत्यर्थः
मल्लिनाथः ।

अत्रास पु० न त्रासः अभावार्थे नं० त० । त्रासाभावे न० ब० । त्रासशून्ये त्रि० ।

अत्रि(त्त्रि) पु० अद--त्रिन् “मरीचिरत्र्यङ्गिरसौ पुलस्त्यः

पुलहः क्रतुः । ब्रह्मणोमानसाः पुत्रा शिष्ठश्चेति सप्त ते
इत्युक्ते सप्तर्षिमध्ये मुनिभेदे । “अग्निरत्रिं घर्म उरुष्ठदन्त
इति श्रुतिः” । अत्र पक्षे वा तलोपे अत्रिरित्यपि ।
त्रिभिन्ने त्रि० बहुवचनान्तः । अस्य उत्तरदिशि
तारारूपेणापि स्थितिः वृहत्संहितायामुक्ता यथा
“एकावलोव राजति ससितोत्पलमालिनी सहासेव ।
नाथवतीव च दिव्यैः कौवेरी सप्तभिर्मुनिभिः ॥ ध्रुव-
नायकोपदेशान्नरीनर्त्तीवोत्तरा भ्रमद्भिश्च । यैश्चारमहं
तेषां कथयिष्ये वृद्धगर्गमतात् ॥ आसन्मघासु मुनयः शासति
पृथ्वीं युधिष्ठिरे नृपतौ । षड्द्विकपञ्चद्वियुतः शककाल-
स्तस्य राज्ञश्च ॥ एकैकस्मिन्नृक्षे शतं शतं ते चरन्ति वर्षा-
णाम् । प्रागुत्तरतश्चैते सदोदयन्ते ससाध्वीकाः ॥ पूर्वे
भागे भगवान् मरीचिरपरे स्थितो वशिष्ठोऽस्मात् । तस्या-
ङ्गिरास्ततोऽत्रिस्तस्यासन्नः पुलस्त्यश्च ॥ पुलहः क्रतुरिति
भगवानासन्नानुक्रमेण पूर्ब्बाद्याः । तत्र वशिष्ठं मुनिवर-
मुपाश्रितारुन्धती साध्वी ॥ उल्काशनिधूमाद्यैर्हता
विवर्णा विरश्मयो ह्रस्वाः । हन्युः स्वं स्वं वर्गं विपुलाः
स्निग्धाश्च तद्वृद्ध्यै” इति ॥ अत्रेर्वर्गाश्च तत्रैवोक्ता यथा
“अत्रेः कान्तारभवा” इति । अधिकं सप्तर्षि शब्देदृश्यम् ।
अद--त्रिनि । अत्रीत्यप्यत्र उणादि० ।
पृष्ठ ०१११

अत्रिजात पु० अत्रेर्नेत्रात् जातः जन--क्त ५ त० । चन्द्रे,

चन्द्रो हि प्रजासर्गार्थं तपस्य तोऽत्रेर्नेत्रात् जातोयथा ।
“पिता सोमस्य वै राजन् जज्ञेऽत्रिर्भगवानृषिः । ब्रह्मणो
मानसात् पूर्ब्बं प्रजासर्गं विधित्सतः । तत्रात्रिः सर्व्व-
भूतानां तस्थौ स्वतनयैर्वृतः । कर्म्मणा मनसा वाचा शुभा-
न्येव चचार सः । अहिंस्रः सर्वभूतेषु धर्म्मात्मा शंसित-
व्रतः । काष्ठकुड्यशिलाभूत ऊर्द्ध्वबाहुर्म्महाद्युतिः ।
अनुत्तरं नाम तपो येन तप्तं महत् पुरा । त्रीणि वर्षसहस्राणि
दिव्यानीति ह नः श्रुतम् । तत्रोर्द्ध्वरेतसस्तस्य स्थितस्या-
निमिषस्य ह । सोमत्वं तनुरापेदे महासत्त्वस्य भारत ।
ऊर्द्ध्वमाचक्रमे तस्य सोमत्वं भावितात्मनः । नेत्राभ्यां
वारि सुस्राव दशधा द्योतयन् दिशः । तं गर्भविधिना
हृष्टा दश देव्यो दधुस्तदा । समेत्य धारयामासुर्न च ताः
समशक्नुवन् । स ताभ्यः सहसैवाथ दिग्भ्यो गर्भः प्रभा-
न्वितः । पपात भासयन् लोकान् शीतांशुः सर्वभावनः ।
यदा न धारणे शक्तास्तस्य गर्भस्य ता दिशः ।
ततस्ताभिः सहैवाशु निपतात वसुन्धराम् । पतितं
सोममालोक्य ब्रह्मा लोकपितामहः । रथमारोपयामास
लोकानां हितकाम्यया । स हि वेदमयस्तात! धर्म्मात्मा
सत्यसङ्गरः । युक्तो वाजिसहस्रेण सितेनेति हि नः
श्रुतम् । तस्मिन्निपतिते देवाः पुत्त्रेऽत्रेः परमात्मनि ।
तुष्टुवुर्ब्रह्मणः पुत्त्रा मानसाः सप्त ये श्रुताः इति हरिवंशे ।

अत्रिदृग्ज पु० अत्रेर्दृशोनेत्राज्जायते जन--ड ५ त० । चन्द्रे

अत्रिनेत्रजादयोऽप्यत्र । तद्विवृतिरत्रिजशब्दे दृश्यम् ।

अत्रिभारद्वाजिका स्त्री अत्रिभारद्वाजवंशयोः मैथुनम्

“द्वन्द्वाद्वुन् वैरमैथुनयोरिति” वुन् “वैरमैथुनकादिवु” न्नित्य-
मरोक्तेः स्त्रीत्वम् । तद्वंशजातयोः स्त्रीपुंसयोर्मैथुने ।

अत्रिसंहिता स्त्री अत्रेः संहिता स्मृतिः । वर्णाश्रमा-

चारादिबोधके अत्रिप्रणीते धर्मशास्त्रभेदे ।

अत्वरा स्त्री न त्वरा शीघ्रम् अभावार्थे न० त० । त्वराभावे

“त्रीणि श्राद्धे प्रशंसन्ति शौचमक्रोधमत्वरामिति” स्मृतिः ।

अत्सरुक पु० नास्ति त्सरुरिव मुष्तिबन्धनस्थानं यस्य । मुष्टि-

बन्धनस्थानशून्ये खड़्गाकारे यज्ञियपात्रभेदे चमसे ।

अथ अव्य० चु०--अर्थ--ड पृषो० रलोपः । संशये, आरम्भे

आनन्तर्य्ये, प्रश्ने, विकल्पे, प्रकरणे, समुच्चये पक्षान्तरे च ।
मङ्गलं तु नास्यार्थः किन्तु अर्थान्तरप्रयुक्तोऽप्ययं श्रुत्या
मङ्गलसाधनं भवति । “ओङ्कारश्चाथशब्दश्च द्वावेतौ ब्रह्मणः
पुरा । कण्ठं भित्त्वा विनिर्यातौ तेन माङ्गलिकावुभा” वित्युक्ते
स्तस्य श्रवणेन मङ्गलसाधनत्वम् अतएव शारीरकभाष्ये
“अर्थान्तरप्रयुक्तोऽथशब्दः श्रुत्या मङ्गलमारचयती” त्युक्तम् ।
तत्र “अथातो ब्रह्मजिज्ञासेत्यादौ” साधनचतुष्टयानन्त-
र्य्यार्थे “अथ प्रजानामधिप” इत्यादौ चानन्तर्य्ये, “अथ
योगानुशासन” मित्यत्र अधिकाररूपारम्भे “शब्दोनित्यः अथा
नित्य” इत्यादौ संशये, संशयश्च एकधर्म्मिकं कोटिद्वयज्ञानं
तत्र कोट्युपस्थापनस्य संशयहेतुत्वात् प्रकृते तस्यैव संशयशब्दा-
र्थता विकल्पश्च संशयविशेष एव । “अथ शक्नोषि भोक्तु-
मित्यादौ” प्रश्ने, “अथ शब्दानुशासनमित्यत्र मङ्गलार्थ-
तयोपादानमर्थस्तु अधिकार एव “अथ सरणमवश्यमेव
जन्तोरिति” वेण्याम्, “अथ चेत्त्वमिमं धर्म्म्यं संग्रामं न
करिष्यसीत्यादौ गीतायां च पक्षान्तरे, अथातोधर्मं व्याख्या-
स्याम इत्यादौ कात्र्स्न्ये, “भीमोऽथार्ज्जुन” इत्यादौ
समुच्चये, स्वरादिपाठादस्याव्ययत्वम् ।

अथकिम् अव्य० अथ + कायतेः कवतेर्वा बा० डिमि । स्वीकारे ।

स्वीकारश्चेह नादानं, किन्तु अन्योक्तपदार्थस्य वक्तुः तथात्वे-
नाभ्युपभात्मकज्ञानम्, तत्र द्योतकत्वमस्य शब्दस्य, यथा
कस्यचित् “इत्थं वृत्तमिति” प्रश्ने अथकिमित्यादिना पृष्ट-
वस्तुनः यथावृत्तत्वाभ्युपगमः स च वक्तुरेव ।

अथर्वण पु० अथर्वा तदुक्तविद्याऽस्त्यस्य ज्ञातृत्वात् अच् पृ०

न टिलोपः । शिवे, त्रिकाण्ड० ।

अथर्वणि पु० अथर्वणि तदुक्तशान्त्यादौ कुशलः बा० इस्

सित्त्वेन भत्वाभावात् न टिलोपः । अथर्ववेदोक्तकर्म्माभिज्ञे
ब्राह्मणे पुरोहिते च मेदिनिः ।

अथर्वन् पु० अथ + ऋ--वनिप् शक० । अथर्व्वनामकमुनिविशेषे,

स च कल्पभेदे ब्रह्मणो ज्येष्ठः पुत्रः यथोक्तं
मुण्डके । “ब्रह्मा देवानां प्रथमं संबभूवे” त्युपक्रम्य
ब्रह्मविद्यां सर्वविद्याप्रतिष्ठामथर्वाय ज्येष्ठपुत्राय प्राहेत्युक्तम्”
“अनेकेषु ब्रह्मणः सृष्टिप्रकारेषु अन्यतमस्य सृष्टिप्रकारस्य
मुखे अयमथर्वा सृष्ट” इति भाष्यम् । “अथर्वणे यां प्रवदेत
ब्रह्माथर्वा पुरोवाचाङ्गिरे इति” अथर्वायेत्युक्तेः अथव शब्दो-
ऽदन्तोऽपि “सर्वे नान्ता अदन्ताः स्युरित्युक्तेः” पृषो०
नलोपः । अथर्वणाऽधीतत्वात् वेदवेदे पु० । ततः
तद्वेदाधीते वा ठक् आथर्वणिकः, अथर्वणा दृष्टं साम
अण् आथर्वणम् । तेन प्रोक्तम् अधीयते कृतठको लुक् ।
अथर्वाणः । तत्प्रोक्ताध्यायिप्रभृतिष्वर्थेषु ।
पृष्ठ ०११२

अथर्वविद् पु० अथर्ववेदं तदुक्तं कर्म्म वा वेत्ति विद--क्विप् ।

अथर्ववेदस्य “शन्नो देवीरभीष्टय” इत्यादिकस्य, तद्विहिता-
भिचारादिकर्म्मणश्च वेत्तरि वशिष्ठादौ । “गुरुणाऽथर्वविदा-
कृतक्रिय” इति रघुः ।

अथर्ववेद पु० कर्म० । वेदभेदे तद्विवृतिः “अथर्वस्य नव शाखाः,

पैप्पलादा शौनकी दामोदा औप्ता ब्रह्मदा पशशौनकी
देवदर्शीचारणविद्या चेति तेषामध्ययनं द्वादशैव सहस्राणि
तस्य पञ्च कल्पा भवन्ति कल्पे कल्पे पञ्च शतानि भवन्ति
नक्षत्रकल्पो, विधानकल्पः संहिताबिधिकल्पः, अभिचार-
कल्पः, शान्तिकल्पश्चेति” चरणव्यूहोक्ता । तस्याध्ययन-
प्रचारभेदादि विष्णुपुराणेऽभिहितं यथा
“अथर्वाणामथो वक्ष्ये संहितानां समुच्चयम् । अथर्ववेदं स
मुनिः सुमन्तुरमितद्युतिः ॥ शिष्यमध्यापयामास कबन्धं
सोऽपि तद् द्विधा । कृत्वा तु देवदर्शाय तथा पथ्याय
दत्तवान् ॥ देवदर्शस्य शिष्यास्तु मौद्गो ब्रह्मबलिस्तथा ।
शौक्तायनिः पिप्पलादस्तथान्यो मुनिसत्तम! ॥ पथ्यस्यापि
त्रयः शिष्याः कृता यैर्द्विज! संहिताः । जाजलिः
कुमुदादिश्च तृतीयः शौनको द्विजः ॥ शौनकस्तु द्विधा
कृत्वा ददावेकान्तु बभ्रवे । द्वितीयां संहितां प्रादात्
सैन्धवायनसंज्ञिने ॥ सैन्धवमुञ्जकेशाभ्यां भिन्ना वेदा
द्विधा पुनः । नक्षत्रकल्पो वेदानां संहितानां तथैव च ॥
चतुर्थः स्यादाङ्गिरसः शान्तिकल्पश्च पञ्चमः । श्रेष्ठास्त्वथ-
र्वणामेते संहितानां हि कल्पकाः इति” ॥ एतस्य उपनिषदः
एकत्रिंशत् तासां नामानि यथा प्रश्नः १ मुण्डकं २
माण्डूक्यम् ३ अथर्वशिरः ४ अथर्वशिखा ५ वृहज्जा-
वालिः ६ नृसिंहतापनी ७ नारदपरिव्राजकः ८ सीता ९
शरभः १० नारायणः ११ रामरहस्यम् १२ रामतापनी १३
शाण्डिल्यः १४ परमहंसपरिव्राजकः १५ अन्नपूर्णा १६
सूर्य्यात्या १७ पाशुपतम् १८ परब्रह्म १९ त्रिपुरा-
तापनी २० देवी २१ भावना २२ भस्म २३ जावालिः २४
गणपतिः २५ महावाक्यम् २६ गोपालतापनी २७
कृष्णतापनी २८ हयग्रीवः २९ दत्तात्रेयः ३० गरुड़ः ३१
एताश्च प्रायशः ब्रह्मविद्यातदङ्गोपासनाप्रतिपादिकाः
मुक्तिको० ।

अथर्वशिखा स्त्री अथर्वणः वेदस्य शिखेव ब्रह्मविद्या-

प्रतिपादकत्वेन श्रेष्ठत्वात् । तद्वेदीये ब्रह्मप्रतिपादके तन्नामके
उपनिषद्भेदे ।

अथर्वशिरस् न० अथर्वणः शिरैव ब्रह्मविद्याप्रतिपादकतया

अरेष्ठत्वात् स्वनामख्याते अथर्व्वोपनिषद्भेदे ।

अथर्वाङ्गिरस पु० अथर्वा चाङ्गिराश्च नि० अच् । एतयोमुन्योः ।

उपचारात् तद्दृष्टमन्त्रादिभेदे च “अथर्वाङ्गिरसं नीलरुद्र
देव्यपराजितेति” तच्च । “अथर्वाणं पितरं देवबन्धुं मातृगर्भं
पितुरमुं युवानम् ॥ यैमं यज्ञं मनसा चिकेत प्रणो
वोचस्तमिहेह ब्रुवः इति” । ““अङ्गिरसोनः पितरो नवग्वा
अथर्वाणो भृगवः सौम्यासः । तेषां वयं सुमतौ यज्ञियाना-
मपि भद्रे सौमनसे स्याम ॥ अङ्गिरोभिर्यज्ञियैरागहीह यम
वैरूपैरिह मादयस्व । विवस्वन्तं हुवे यः पिता तेऽस्मिन्
वर्हिष्या निषद्य ॥ इमं यम प्रस्तरमा हि रोहाङ्गिरोभिः
संविदानः । आ त्वा मन्त्राः कविशस्ता वहन्त्वेना राजन्
हविषो मादयस्व ॥ इतएत उदारुहन् दिवस्पृष्टान्या-
रुहन् । प्रभुर्ज्जयो यथा पथा द्यामङ्गिरसो ययुरिति”
सूक्तञ्च ॥ अथ० १८, १, ५८, ६१,

अथर्वाधिप पु० ६ त० । “सामवेदाधिपो भौमः शशिजोऽथर्ववेदराडित्युक्ते” बुधे ।

अथर्वी स्त्री न + थुर्व अच् पृ० उलोपः गौ० ङीष् । अहिं-

सिकायाम् “याभिर्विश्यलां धनसामथर्व्यमिति” वेदः ।

अथवा अव्य० अथेति वायते अथ + वा--का । पक्षान्तरे “अथ

वा कृतवाग्द्वारे इति” “अथवा मृदु वस्तु हिंसितु-
मिति” च रघुः । “अथ वा हेतुमान्निष्ठविरहाप्रतियोगि-
नेति” भाषा० ।

अथो अव्य० अर्थ--डो पृषो० रलोपः । अथशब्दार्थे

आरम्भादौ । “अथाथो संशये स्यातामधिकारे च मङ्गले
विकल्पानन्तर प्रश्नकात्र्स्न्यारम्भसमुच्चये इत्युक्ते” अथशब्दार्थे ।

अद बन्धने भ्वा० पर० इदित् सक० सेट् । अन्दति आन्दीत् ।

अद भक्षणे च अदा० पर० सक० अनिट् । अत्ति

अवसत् जघास अत्ता अत्स्यति । सनि जिघत्सति । क्त--ओदनार्थे
अन्नम् अन्यत्र जग्धम् घञ् घसः--आदः क्तिन् जग्धिः ।
“योऽन्नमत्ति यतस्तत” इति स्मृतिः । “अत्ता चराचर-
ग्रहणादिति” शा० सू० । “किमदन्ति भृङ्गा” इति ।

अदंष्ट्र पु० नास्ति दंष्ट्रा दशनसाधनदन्तविशेषः यस्य । भग्ना-

शीदन्ते सर्पे । प्रधानदन्तरहिते त्रि० ।

अदक्ष त्रि० विरोधार्थे न० त० । दक्षत्वविरोधिमान्द्यवति ।

अदक्षिण त्रि० दक्षिणोऽनुकूलः कुशलश्च विरोधार्थे न० त० ।

दक्षिणत्वविरुद्धनैपुण्यप्रतिकूलत्ववति, वामाङ्गे च । नास्ति
दक्षिणा कर्म्मसमाप्तौ देया यत्र । दक्षिणाशून्ये यज्ञादौ ।
दक्षिणादानस्य नित्यत्वं दक्षिणाशब्दे वक्ष्यते “हतयज्ञम-
दक्षिणमिति” ।
पृष्ठ ०११३

अदग्ध त्रि० शास्त्रविधिनाग्निना न दग्धः । शास्त्रविधिना-

ऽकृताग्निसंस्कारे । “अग्निदग्धाश्च ये जीवा येऽप्यदग्धाः
कुले ममेति” श्राद्धमन्त्रः । दग्धभिन्ने त्रि० ।

अदण्ड्य त्रि० न दण्डमर्हति यत् । दण्डानर्हे “अदण्ड्यान्

दण्डयन् राजा दण्ड्यांश्चैवाप्यदण्डयन्निति” याज्ञ० । “अपि
भ्राता सुतोऽर्घ्यो वा श्वशुरोमातुलोऽपि वा नादण्ड्यो
नाम राज्ञोऽस्ति धर्म्मात् प्रचलितः स्वकादिति” मनुः ।
स्मृत्यादौ कर्मविशेषे दण्डः तदभावश्च उक्तोऽनुसन्धेयः
तत्र केचिददण्ड्याः संगृह्यन्ते । “अनिर्द्दशाहां गां सूतां
वृषान् देवपशूंस्तथा । सपालान् वा विपालान् न दण्ड्यान्
मनुरव्रवीत्” । यानवाहकदण्डाभावे प्रयोजकमुक्तम् अति
वर्त्तनशब्दे, क्षेत्रे देयप्रावरणविशेषमुक्त्वा तदकरणे दण्डाभावो
मनुनोक्तः यथा “तत्रापरिवृतं धान्यं विहिंस्युः पशवो
यदि न तत्र प्रणयेद्दण्डं नृपतिः पशुरक्षिणामिति”
“महोक्षोत्सृष्टपशवः सूतिकागन्तुकादयः पालोयेषाञ्च
ते मोच्या दैवराजपरिप्लुता” इति “अदण्ड्या हस्तिनो-
ऽश्वाश्च प्रजापाला हि ते स्मृताः । अदण्ड्याः
काणकुण्ठाश्च वृषभः कृतलक्षण इति” स्मृतिः ।

अदत्ता स्त्री दा--क्त न० त० । परिणयार्थमदत्तायां स्त्रियाम् ।

“अदत्तायां मृतायान्तु त्र्यहाच्छुध्यन्ति बान्धवा” इति
स्मृतिः अदत्तमात्रे त्रि० । अप्राशस्त्ये न० त० । अदत्तन्तु
भयक्रोधेत्याद्यभिहितलक्षणे दानाभासेनार्पिते दत्त्वापि
प्रत्याहर्त्तुं योग्ये त्रि० । तच्चोक्तं नारदेन यथा
“अदत्तन्तु भयक्रोधशोकवेगरुजान्वितैः । तथोत्कोच
परीहासव्यत्यासच्छलयोगतः ॥ बालमूढ़ास्वतन्त्रार्तमत्तो-
न्मत्तापवजितम् । कर्त्ता ममेदङ्कर्मेति प्रतिलाभेच्छया च
यत् । अपात्रे पात्रमित्युक्ते कार्ये वा धर्म्मसंहिते ।
यद्दत्तं स्यादविज्ञानाददत्तमिति तत् स्मृतमिति” । अस्यार्थः
भयेन वन्दिग्राहादिभ्यो दत्तम् । क्रोधेन शत्र्वादिवैर-
निर्य्यातनायान्यस्मै दत्तम् । पुत्त्राविहोनतादिनिमित्त-
शोकाविष्टेन दत्तम् । उत्कोचेन कार्य्यप्रतिबन्धनिरा-
सार्थमधिकृतेभ्यो दत्तम् । परिहासेनोपहासेन दत्तम् ।
एकः स्वद्रव्यमन्यस्मै ददात्यन्योऽपि तस्मै
ददादीति दानव्यात्यासः । छलयोगतः शतदानमभिसन्धाय
सहस्रमिति परिभाष्य ददाति । बालेनाप्राप्तषोड़शवयस्केन
मूढ़ेन, लोकवेदानभिज्ञेन अस्वतन्त्रेण पुत्त्रदासादिना,
आर्त्तेन रोगाभिभूतेन, मत्तेन मदनीयप्रमत्तेन, उन्म-
त्तेन, वातिकाद्युन्मादग्रस्तेन वा अपवर्जितं दत्तम् ।
तथाऽयं मदीयमिदं कर्म्म करिष्यतीति प्रतिलाभेच्छया दत्तम् ।
अचतुर्वेदाय चतुर्वेदोऽहमित्युक्तवते दत्तम् । यज्ञं
करिष्यामीति धनं लब्ध्वा द्यूतादौ विनियुञ्जानाय दत्तमित्येवं
षोड़शप्रकारमपि दत्तमदत्तमित्युच्यते प्रत्याहरणीयत्वात् ।
आर्त्तदत्तस्यादत्तत्वं धर्म्मकार्य्यव्यतिरिक्तविषयम् । “स्वस्थे-
नार्त्तेन वा दत्तं श्रावितं धर्म्मकारणात् । अदत्त्वा तु मृते
दाप्यस्तत्सुतो नात्र संशय” इति कात्यायनस्मरणात् ।
तथेदमपरं संक्षिप्तार्थवचनं सर्वविवादसाधारणम् । “योगा-
धमनविक्रीतं योगदानप्रतिग्रहम् । यस्य वाप्युपधिं पश्येत्
तत् सर्वं विनिवर्त्तयेत्” इति । योग उपाधिः । योगेनो-
पाधिविशेषेणाधिविक्रयदानप्रतिग्रहाः कृतास्तदुपाधिविगमे
तान् विक्रयादीन् विनिवर्त्तयेदिति । यः पुनः षोड़श-
प्रकारमप्यदत्तं गृह्णाति, यश्चादेयं प्रयच्छति,
तयोर्दण्डो नारदेनोक्तः । “गृह्णात्यदत्तं यो लोभात् यश्चा-
देयं प्रयच्छति । अदेयदायको दण्ड्यस्तथाऽदत्तप्रतीच्छ
क” इति । मिताक्षरा० ।

अदत्तादायिन् त्रि० अदत्तमादत्ते आ + दा--णिनि ६ त० ।

अदत्तस्य ग्राहके “अदत्तादायिनो हस्तात् लिप्सेत
ब्राह्मणो धनम् याजनाध्यापनेनापि यथा स्तेनस्तथैव स”
इति स्मृतिः ।

अदत्र त्रि० अद--बा० अत्रन् । अदनीये “अदत्रया दयते

वार्य्याणीति” ऋ० ५, ४९, ३, अदत्रया, अदनीयानीति भा० ।

अदद्र्यञ्च् त्रि० अमुमञ्चति अदस् + अन्च--क्विप् अद्र्यागमः ।

अदोगते, स्त्रियाम् अदद्रीची असर्वनामस्थानाद्यचि तु
अदद्रीचः इत्यादि । अस्य दस्य वा मत्वोत्त्वे अमुद्र्यङ्
अमुमुयङ् इत्यादयोऽप्यत्र ।

अदन्त पु० नास्ति दन्तोऽस्य । पूषरूपे आदित्यभेदे वा कप्

तत्रैव । “यद्यप्यदन्तकः पूषा पैष्टमत्ति सदा चरुमिति”
छन्दोगप० । तस्यादन्तता च दक्षयज्ञभङ्गसमये वीरभद्रेण
कृता यथा भागवते ४ स्कन्धे । “पूष्णो ह्यपातयद्दन्तान्
कालिङ्गस्य यथा बलः । शप्यमाने गरिमणि योऽह-
सद्दर्शयन् दत” इति । अतएव तस्यादन्ततया पिष्टवरुभुक्-
त्वं तदपि तत्रैवोक्तम् प्रह्मप्रसादितेन शिवेन पश्चात् दक्षादि
वरदानसमये “पूषा तु यजमानस्य दद्भिर्जक्षितु पिष्टभु-
गिति” श्रुतावपि “प्रपिष्टभागोऽदन्तको हि तं देवा
अध्यगामिति” अदन्तकत्वेन पिष्टकभागित्वमुक्तम् ।
दन्तहीने, अजातदन्ते च त्रि० । “येऽप्यदन्ताः कुले
ममेति” वायु० । नृणां दन्तजननकालस्तु षण्मास एव
शुद्धितत्त्वे निर्णीतः पशूनान्तु “वर्षमात्रा तु बाला स्याद-
पृष्ठ ०११४
तिबाला द्विवार्षिकी । अतः परन्तु सा गौः स्यात्तरुणी
दन्तजन्मनीति” अङ्गिरोवचने द्विवर्षोत्तरकाले गवां दन्त-
जन्मकथनं पशुमात्रोपलक्षणम् अत्रैव काले (आदाँता)
इति लोके प्रसिद्धिः सा च गवामिव महिषाश्वादीनामपि
तथैव । अत् अन्ते यस्य ब० । अकारान्तशब्दे पु० ।

अदब्ध दन्भ--क्त न० त० । अहिंसिते “अदब्धेभिः पायुभिः

पाह्यस्मानिति” ऋ० १, ९५९, अदब्धैरहिंसितैरिति भा० ।
“अदब्दासुर्भ्राजमानोह्येव” इति वेदः ।

अदब्धायु पु० अदब्धेन अहिंसनेन आयौति आ--या--कु-

३ त० । अहिंसायुक्ते “अग्नेऽदब्धायो अशीततमेति यजु०
अदब्धायो । अहिंसित! यजमान इति वेददीपः ।

अदभ त्रि० न दभ्यते कर्म्मणि बा० क । अहिंस्ये “तावृधन्तावनु

द्यून्मर्त्ताय देवावदभा” इति ऋ० ५, ८६, ५ अदभौ अहिंस्यौ
इति भा० ।

अदभ्र त्रि० दन्भ--रक् दभ्रमल्पं न० त० । अनल्पे “अदभ्र-

दर्भामधिशप्य स स्थलीमिति” भारविः ।

अदम्भ पु० अभावार्थे न० त० । दम्भाभावे । नास्ति-

दम्भो यस्य । दम्भरहिते त्रि० । “अदम्भं शठतां हीनं
कर्म्म कुर्य्यादलोलुप” इतिपुरा० ।

अदम्य त्रि० न दम्यतेऽसौ । अदमनीये । गवामेकवर्षपर्य्यन्त

कालेऽदम्यता “पादश्चाप्राप्तके देय इति” स्मृतिः अप्राप्तकः
अप्राप्तदम्यावस्थ इति” रघु० तेन “एकवर्षे गवि हते
कृच्छ्रपादो विधीयते” इत्येकवाक्यतया एकवर्षकालपर्य्यन्तकाल
एव वत्सानामदम्यत्वं प्रतीयते ।

अदर्शन न० न दर्शनम् अभावार्थे न० त० । दर्शनाभावे

लोपे, विनाशे च “लोपोऽदर्शनमिति” पा० । नास्ति दर्शनं
यस्याः ब० । दर्शनाविषये दृष्टिशून्ये च त्रि० ।

अदल पु० दल्यते भिद्यते इति दलं पत्रं दल--कर्म्मणि घञ्

न० ब० । दलशून्ये (हिजल) इति ख्याते वृक्षे । पत्रशून्ये
वृक्षमात्रे त्रि० । घृतकुमार्य्यां स्त्री । दलः खण्डः ।
तच्छून्ये त्रि० ।

अदस् त्रि० न दस्यते उत्क्षिप्यतेऽङ्गुलिर्यत्र इदन्तया निर्द्धार-

णाय पुरोवर्त्तिन्येवाङ्गुलिनिर्द्देशः सम्भवति नापुरोवर्त्तिनि ।
न + दस्--क्विप् । अपुरोवत्तिनि परोक्षे ज्ञाते वस्तुनि ।
सर्वनामता । “अमुष्य विद्या रसनाग्रनर्त्तकीति”
नैषधम् । परलोके “नचामुत्र फलप्रद इति” पुरा० ।
“इदमस्तु सन्निकृष्टं समीपतरवर्त्ति चैतदोरूपम् ।
अदसस्तु विप्रकृष्टं तदिति परोक्षे विजानीयादित्युक्ते” विप्र-
कृष्टे एवास्य प्रयोगः । यच्छब्दाकाङ्क्षिततच्छब्दाप्रयोगेऽस्य
तदर्थबोधकता । यथा “आनन्दयति ते नेत्रे योऽधुनासौ
समागत इत्यादौ” । अतएवोक्तं काव्यप्रकाशे इदंशब्दवददः-
शब्दस्तच्छब्दार्थमभिधत्ते इत्युक्तम्” यच्छब्दस्य तु निकट-
स्थितत्वे तच्छब्दस्यापि प्रसिद्धपरामर्षितेति वदता च तेन
तच्छब्दस्येव इदमदःशब्दयोरपि प्रसिद्धार्थकता तत्रैवोक्ता ।
यथा “करबालकरालदोःसहायो युधि योऽसौ विजया-
र्ज्जुनैकमल्लः । यदि भूपतिना स तत्र कार्य्ये” इत्यादौ
प्रसिद्धार्थकता । अन्यथा स इत्यनेन पुनरुक्तत्वापत्तेः अतएव
दर्पणकृता “आनन्दयति ते नेत्रे योऽसौ सुभ्रु! समागत”
इति पद्ये यच्छब्दस्य सन्निकृष्टतया तच्छार्थावाचकत्वमाशङ्क्य
आनन्दयति ते नेत्रे योऽधुनासौ समागत इत्येवं पाठःपरि-
वर्त्तितः । यच्छब्देनानाकाङ्क्षितत्वेतु न तच्छब्दार्थाभिधा-
यित्वं किन्तु प्रसिद्धाद्यभिधायकता यथा “असौ मरुच्चुम्बित-
चारुकेशर इत्यादौ “नात्र तच्छब्दार्थप्रतीतिरिति काव्य
प्रकाशे उक्तम् । तथा च यच्छब्देनाकाङ्क्षास्थले एव
यच्छब्दस्यासन्निकृष्टतयोपात्तस्यादःशब्दस्य तच्छब्दार्थकता
नान्यथेति सुस्थितम् । “अदोऽनुपदेशे इति” सूत्रनिर्द्देशात्
अनुपदेशे अदसः गतिसंज्ञा तेन अदः कृत्यादः कृतमित्यादौ
गतित्वेन समासे ल्यप् । वरं प्रति उपदेशे तु अदः कृत्वा
अदः कुरु इत्यादौ न गतित्वम् । अस्य गतिसंज्ञात्वे
नाव्ययत्वमपि । तेनाव्ययपूर्ब्बकतया ल्यप् अर्थस्तु
अदःशब्दस्येव ।

अदातृ त्रि० न० त० । दातृभिन्ने “अदाता वंशदोषेणेति”

पुरा० । “अदाता पुरुषस्त्यागी धनं संत्यज्य गच्छ-
तीति” नीति० । स्त्रियां ङीप् ।

अदान न० न दानमभावार्थे न० त० । दानाभावे । नास्ति-

दानं त्यागोमदजलं वा यस्य । दानशून्ये त्रि० ।
मदजलशन्ये गजे पु० । “सदा दानपारक्षीणः शस्तएव
करीश्वरः । अदानः पीनकायस्तु निन्द्यतएव गर्द्दभ” इति ।

अदान्त त्रि० न० त० । इन्द्रियदमनाकारके अविनीते च

“अदान्तोविषयासक्त” इति पुरा० ।

अदाभ्य त्रि० दम्भ ण्यत् नलोपोपधावृद्धी न० त० ।

अहिंस्ये । “यत्ते सोमादाभ्यं नाम जागृवीति य० ७, २, हे
सोम! ते त्वदीयमहिसितं जागृवि जागरणशीलमिति
वेददीपः ।
"https://sa.wikisource.org/w/index.php?title=वाचस्पत्यम्/अङ्गराग&oldid=310356" इत्यस्माद् प्रतिप्राप्तम्