वाचस्पत्यम्


पृष्ठ ०१४९

अनन्तशीर्षा स्त्री अनन्तानि बहूनि शीर्षाणि यस्याः ।

वासुकिपत्न्याम् । वासुको परमेश्वरे च पु० “सहस्रशोर्षा
पुरुष” इति श्रुत्या तस्य बहुशीर्षत्वोक्तेस्तथात्वम् ।

अनन्तश्री पु० अनन्ता अपरिमिता श्रीः परा शक्तिरस्य ।

परमेश्वरे “परास्य शक्तिर्विविधैव श्रूयते इति” श्रुत्या
तस्य बहुशक्तिप्रतिपादनात्तथात्वम् ।

अनन्ता स्त्री नास्ति अन्तोऽस्याः ब० । विशल्यायामोषधौ

(अनन्तमूल) इति ख्याते मूलभेदे, पावत्याम्, पृथिव्याम्,
दुरालभायां, दूर्वायां, हरितक्यां, आमलक्याम्, गुडूच्याम्,
अग्निमन्थवृक्षे, अग्निशिखावृक्षे, श्यामलतायाम्, पिपपल्यां,
नीलदूर्वायाम्, श्वेतदूर्वायां, शारिवोषधौ च ।

अनन्त्य न० अनन्तस्येदम् यत् । हिरण्यगर्भपदे ।

अनन्द त्रि० न नन्दयति नन्द--णिच्--अच् न० त० ।

आनन्दयितृभिन्ने “अनन्दा, नाम ते लोका इति कठ० व० ।

अनन्न न० न० त० । अदनीयभिन्ने । “न किञ्चिदनन्नं

भवति आ श्वभ्यः आ शकुनिभ्य” इति छा० उ० ।

अनन्य त्रि० न अन्यः सर्वना० । अन्यभिन्ने स्वम्मिन् “अनन्य-

रतिरासीन” इति मनुः अनन्यस्मिन् स्वस्मिन् रतिरनु-
रागोऽस्येति तदर्थः । नास्ति अन्यो यस्य उपास्यत्वेन
विषयत्वेन वा । अन्यासेवके “अनन्याश्चिन्तयन्तोमामिति”
अनन्यविषये च । “पुरुषः स परः पार्थ! भक्त्या
लभ्यस्त्वनन्ययेति” च गीता । अस्य नञ उत्तरत्र
पदान्तरसत्त्वे असमर्थसमासाश्रयणात् तदर्थेनैवान्वयः । यथा
“अनन्यदृष्टिः सवितारमैक्षतेत्यादौ” अन्यत्र दृष्ट्यभावस्य,
अनन्यचेता इत्यादौ अन्यत्र चेतोऽभावस्य, अनन्यकाम
इत्यादौ अन्यत्र कामाभावस्य च बोधनमेवमन्यत्र ।

अनन्यगतिक त्रि० नास्ति अन्या गतिरस्य कप् । अन्यो-

पायरहिते तन्मात्राश्रये च । “अतन्यगतिके जने विगत-
पातके चातके” इत्युद्भटः ।

अनन्यज पु० नास्ति अन्यद्यस्मात् सर्व्ववस्तुभेदानां तदात्मकत्वात्

अनन्यो विष्णुः तस्मात् जायते जन--ड ५ त० । कामदेवे ।
तस्य कृष्णात् रुक्मिण्यां जन्मेति भाग० १० मस्क० “तस्याञ्च
तादृशीमवस्थां गतायां जनस्यानन्यजेनेति” दशकु० ।

अनन्यदेव पु० न अन्यद्यस्मात् सर्व्वात्मकत्वात् तादृशोदेवः ।

परमेश्वरे विष्णौ “सर्व्वदेवमयोहरिरित्युक्तेस्तथात्वम् ।

अनन्यपूर्व्वा स्त्री न अन्यः पूर्ब्बो यस्याः सा अन्यपूर्ब्बा न भवति ।

अन्याभुक्तायां स्त्रियाम् “मनुप्रभृतिभिर्मान्यैर्भुक्ता यद्यपि
राजभिः । तथाप्यनन्यपूर्ब्बैव तस्मिन्नासीद्वसुन्धरेति” रघुः ।

अनन्यभाज् त्रि० न अन्यम् अन्यां वा भजते भज--ण्वि अस०

स० पुंवद्भावः । अन्यस्यान्यस्या वा सेवनाकारिणि ।
“भजते मामनन्यभागिति” गीताः “अनन्यभाजं
पतिमाप्नुहीति” कुमा० ।

अनन्यवृत्ति त्रि० न अन्या विभिन्ना एकरूपा वृत्तिर्मनोवृत्ति-

रस्य । एकतानचित्ते । न अन्या वृत्तिर्जीवनोपायोऽस्य ।
एकमात्रजीवने त्रि० ।

अनन्यसाधारण त्रि० न अन्यस्यान्यधर्म्मस्य साधारणः सदृशः ।

अन्यधर्म्मासदृशे “अनन्यसाधारणमेव कर्म्मेति” कुमा० ।

अनन्वय त्रि नास्ति अन्वयो यत्र ब० । अन्वयशून्ये ।

शाब्दबोधे परस्परं संसर्गशून्ये अन्वयश्चान्वयशब्दे वक्ष्यते
अर्थालङ्कारभेदे पु० । तल्लक्षणं यथा “उपमानोपमेयत्वे
एकस्यैव त्वनन्वय” इति सा० द० । “राजीवमिव राजीवं
जलं जलमिवाजनी” त्यादौ च अनन्वयात् तदलङ्कारत्वं
तथा हि उपमानोपमेयभावे सादृश्यज्ञानावाश्यकत्वेन
तस्य बोधने नियते तद्भिन्नत्वे सति तद्गतभूयोधर्म्मवत्त्व
रूपसादृश्यस्य भेदगर्भिततया स्वप्रतियोगिकभेदस्य
स्वस्मिन्नसम्भवेनापाततोऽनन्वय एव तात्पर्य्येण तु इतरसा-
दृश्याभावपरत्वलक्षणयान्वयस्तथा च राजीवं राजीवे-
तरासदृशमिति बोधात्तस्योत्कर्षो व्यज्यते । एवं “राम-
रावणयोर्युद्धं रामरावणयोरिवे” त्यत्रापि ।

अनप त्रि० न सन्ति आधिक्येनापो यत्र नञ्पूर्ब्बकत्वेऽपि

बहुव्रीहौ अच्समा० । स्वल्पजले पल्ललादौ ।

अनपकर्म्मन् न० अपकर्म्म अपाकरणं अभावार्थे न० त० ।

त्यागाभावोपलक्षिते दत्तस्य आदाने “दत्तस्यानपकर्म्म
चेति” मनुः अपकर्म अपात्रे पात्रबुद्ध्या क्रोधादिना वा
दत्तस्यानपकर्म, पुनर्ग्रहणम् । “ऋणस्यापकर्म चेति”
स्मृतिः । अनपकर्म अपाकरणाभावः अशोधनमित्यर्थः ।
अनपक्रियाप्यत्र स्त्री । अपाकरणाभावे । “ऋणानाम-
नपक्रियेति” स्मृतिः ।

अनपच्युत त्रि० अप + च्यु--भावे क्त न० ब० । विनाशरहिते

“स्वर्य्यं सुवज्रमनपच्युतमिति” ऋ० ४, १७, ४,
अनपच्युतं विनाशरहितमिति” भा० ।

अनपत्य त्रि० नास्ति अपत्यं यस्य । अपत्यशून्ये । न

हितमपत्यानामिति, पताय पतनाय हितं पत +
यत् वा न० त० ततः न० त० । अपत्याहिते, पतनकारणे च
“युयोत नो अनपत्यानीति ऋ० ३, ५४, १८, अनपत्यानि
अपत्यानां पुत्त्राणामहितानि, पतनकारणं न भवत्यपत्यं
तदन्यानि पतनकारणानीति” भाष्यम् ।
पृष्ठ ०१५०

अनपत्रप त्रि० नास्ति अपत्रपा अन्यहेतुका लज्जा यस्य ।

अन्यहेतुकलज्जाहीने ।

अनपभ्रंश पु० न अपभ्रंशः न० त० । अपभ्रंशभिन्ने

व्याकरणप्रतिपाद्यसंस्कारवति साधुशब्दे “अनभ्रंशता-
नादिर्यद्वाभ्युदयोन्यता । व्याक्रियाव्यञ्जनीया वा जातिः
कापीह साधुतेति” हरिः ।

अनपाकर्म्मन् न० अपाकर्म अपाकरणम् अभावार्थे न० त० ।

अपाकरणाभावे ऋणादेरशोधने ।

अनपायिन् त्रि० न अपैति अप--इण--णिनि न० त० ।

निश्चले स्थिरे “अनपायिनि संश्रयद्रुमे गजभग्ने इति” कुमा० ।

अनपावृत् त्रि० अपावर्त्तनमपावृत् अप + आ + वृत--भावे क्विप्

न० ब० । पुनरावृत्तिशून्ये । “इत्था सृजानाह अनपावृद-
र्थमिति ऋ० ६, ३, ५, “अनपावृत् अपावृत् अपावर्त्तनम्
पुनरागमनं न भवतीति” भा० ।

अनपिहित त्रि० न अपिहितमावरणं भावे क्त तन्नास्ति

यस्य । आवरणशून्ये । “एष वानपिहितस्तस्यैव तदपिधानं
यच्छिखेति ब्रा० “अनपिहित आवरणशून्य” इति रघु० ।

अनपेक्ष त्रि० न अपेक्षते अनुरुध्यते अच् न० त० । अपेक्षा-

शून्ये अननुरोविनि । “उत्सृज्य प्रमदामेतामनपेक्षो
यथामखमिति” रामा० ।

अनपेत त्रि० न अपेतः वहिर्गतः अपगतो वा । अवहिर्गते

अपेतभिन्ने अनुगते । “धर्मपथ्यर्थन्यायादनपेते” इति पा०
“धर्म्मादनपेतम् धर्म्यमित्यादि” सि० कौ० ।

अनप्त त्रि० न आप्तः वेदे पृ० ह्रस्वः । आप्तभिन्ने । “अनप्त-

मप्सु दुष्टरमिति” ऋ० ८, १६, ३, “अनप्तं शत्रुभिरनाप्त-
मिति” भा० ।

अनप्नम् त्रि० नास्ति अप्नो रूपं यस्य । रूपहीने “जम्माया

अनप्नस इति” ऋ० २, ३, ९, “अनप्नसः कर्म्महीना”
इति भाष्योक्तेः कर्म्महीने च ।

अनफा पु० (चन्द्रात्) “रविवर्ज्जं द्वादशगैरनफेति” दीपिकोक्तेः

योगभेदे “सच्छीलं सुखान्वितं प्रभुं ख्यातियुक्तमन-
फायामिति” दीपिका ।

अनभिज्ञ त्रि० न अभिजानाति । अज्ञे ज्ञानशून्ये ।

अनभिधेय न० न अभिधेयः । अवाच्ये ।

अनभिभव पु० न अभिभवः अभावार्थे न० त० । अभिभवा-

भावे पराजयाभावे ।

अनभिभवनीय त्रि० न अभिभवनीयः । अपराजेये ।

अनभिभूत त्रि० न अभिभूतः । अपराभूते ।

अनभिमत त्रि० न अभिमतः । असम्मते, विमते च ।

अनभिम्लातवर्ण्ण त्रि० अभि + म्ला--तन् न अभिम्लातः

क्षीणोवर्ण्णो यस्य । दीप्यमाने । “सो अपां नपादनभि-
म्लातवर्ण” इति ऋ० २, ३५, १३ अनभिम्लातवर्णः दीप्यमान
इति भा० । शिवा० अण् । आनभिम्लातः तदपत्ये पु० स्त्री ।

अनभिलाष पु० न अभिलाषः अभावे न० त० । अभिलाषा-

भावे । न० ब० । अभिलाषशून्ये त्रि० ।

अनभिव्यक्त त्रि० न अभिव्यक्तः न० त० । अपरिस्फुटे ।

अनभिशस्त त्रि० अभि + शन्स--क्त न० त० । अनिन्दिते ।

“परास्यानभिशस्ता दिव्या” इति ऋ० ९, ८८, ७,
“अनभिशस्ता अनिन्दिता” इति भा० । परिवादाग्रस्ते च ।

अनभिशस्त्य त्रि० अभिशस्तिं निन्दामर्हति अभिशस्त्यः

न० त० । अनिन्दनीये प्रशस्ये निरुक्तकारः ।

अनभिसंहित त्रि० न अभिसंहितः न० त० ।

अभिसन्धिना फलोद्देशेन अकृते “विमुक्तिदा येऽनभिंसंहिते-
ष्विति” रुचि० ।

अनभिहित त्रि० न अभिहितः । अनुक्ते प्रत्ययादिना

उक्तार्थभिन्ने “अनभिहिते इति पा० अस्य उपकादिगणे
पाठात् तत्कार्य्यम् ।

अनभीष्ट त्रि० न अभीष्टः । अभीष्टभिन्ने “अनभीष्टदक्षिणवातमृगगमनामिति” का० द० ।

अनभ्यावृत्ति स्त्री न अभ्यावृत्तिः अभ्यासः अभावार्थे न०

त० । अभ्यासाभावे । “मनागनभ्यावृत्त्या वा कामं
क्षाम्यतु यः क्षमीति” माघः ।

अनभ्यासमित्य त्रि० न अभ्यासे निकटे इत्यः इण--कर्म्मणि

क्यप् मुम् । दूरतः परिहर्त्तव्ये सि० कौ० ।

अनमित्र त्रि० नास्ति अमित्रोऽस्य । शत्रुशून्ये “इन्द्रोयां चक्रे

आत्मने अनमित्रां शचीपतिरिति” अर्थ० १२, १,
नृपभेदे पु० ।

अनमीव त्रि० अमीवः रोगः न० ब० । रोगहोने “अनमीवा

इषस्करदिति” ऋ० ३, १६२, १४, अनमीवा “रोग-
वर्जितानि इषोऽन्नानीति” भा० “प्रदानमीवस्य शुष्मिण्य”
इति ता० ब्रा० । “अरोगोऽमीवस्तद्रहितस्येति” भा० ।

अनम्बर पु० नास्ति अम्बरं कच्छसहितं यस्य । बौद्धभेदेऽस्य मुक्त-

कच्छतया तथात्वम् दिगम्बरशब्देऽस्य विवरणम् । नग्ने त्रि० ।

अनय पु० अयः शुभावहो विधिस्तदन्यः न० त० । अशुभ-

दैवे । नयोद्यूते दक्षिणावर्त्तेन शाराणामिष्टस्थान-
नयनं विरोधे न० त० । (दुगडीति) ख्याते द्यूतभेदे
शाराणा वामावर्त्तेनाभीष्टस्थाननयने पु० । नयोनीतिः
पृष्ठ ०१५१
नी--अच् न० त० । नयाभावे अनीतौ दुर्नये, दुष्टे,
कर्म्मणि च । “विजानतोऽपि ह्यनयस्य रौद्रतेति” भार० ।
न० ७ ब० । आपदि “जीवेदेतेन राजन्यः सर्वेषामनयं
गत इति” मनुः । “सर्वतः प्रतिगृह्णीयात् ब्राह्मण-
स्त्वनयं गतः” इति मनुः “अनयमापदमिति” कुलॢ० ।
६ ब० । नयहीने त्रि० ।

अनरण्य पु० सूर्य्यवंश्ये नृपभेदे तत्कथा रामा० उत्तराकाण्डे स रावणेन परिभूतो मृतः ।

अनर्काभ्युदित पु० न ईषत्, अर्कोऽभ्युदितो यस्मिन् ।

ईषदर्कोदयकाले । “अनर्काभ्युदिते काले माघे कृष्णचतुर्दशी-
इति” यमः “माघे मासि रटन्त्यापः किञ्चिदभ्युदिते
रवौ” इत्यनेनैकवाक्यत्वात् नञ ईषदर्थता ।

अनर्गल त्रि० नास्ति अर्गलं प्रतिबन्धकं यस्य । अप्रतिबन्धके

प्रतिबन्धकशून्ये “तुरङ्गमुत्सृष्टमनर्गलं पुनरिति” रघुः ।

अनर्घ त्रि० अर्घो मूल्यं न० ब० । अमूल्ये ।

अनर्घराघव न० राघवचरितख्यापके मुरारिमिश्ररचिते नाटकभेदे ।

अनर्घ्य त्रि० न अर्घ्यः पूज्यो यस्य, यस्माद्वा । अन्यपूज्यशून्ये

अत्यन्तपूजनीये च “अनर्घ्यमर्घेण तमदिनाथ” इति कुमा० ।

अनर्थ पु० अर्थः प्रयोजनं विरोधे न० त० । अनिष्टे ।

“एकैकमप्यनर्थाय किमु तत्र चतुष्टयमिति” हितो० ।
“नोदनालक्षणोऽर्थो धर्म्म” इति सूत्रे निषेधलक्षणोऽनर्थो-
ऽधर्म इति भङ्ग्या सूचिते नरकादिसाधनत्वादनिष्टहेताव-
धर्म्मे च । “दातुर्भवत्यनर्थाय परत्रादातुरेव चेति” मनुः ।
ब० । अभीष्टरहिते विष्णौ पु० आप्तकामत्वात्तत्त्वम् ।
अर्थोऽभिधेयः प्रयोजनं वा नास्ति यस्य ब० कप् । अर्थ-
रहितमात्रे त्रि० ।

अनर्थक न० अर्थोऽभिधेयोऽप्राशस्त्ये न० ब० कप्समा० ।

समुदायार्थशून्ये प्रलापे, असम्बद्धे वाक्ये च । व्यर्थे त्रि० ।
“धिगिदं जीवितं लोके किमु? सार्थमनर्थकमिति” ।

अनर्थलुप्त त्रि० दृष्टेनार्थेन अलुप्तः असम० स० । दृष्टार्थे-

नालुप्ते “अनर्थलुप्ता इति” कात्या० ६, १०, २०, ।

अनर्थान्तर त० अन्योऽर्थः अर्थान्तरं मयूर० त० ततः न०

त० । अभेदे, एकार्थे ।

अनर्व त्रि० ऋ--व अर्वः गतिः शैथिल्यं स नास्ति यस्य ।

अशिथिले “त्रिनाभि चक्रमजरमनर्वमिति ऋ० १, १६४, २,
“अनर्वमशिथिलमिति” भा० ।

अनर्वन् त्रि० अर्व--हिंसायां कनिन् “अर्वा भ्रातृव्य” इति

श्रुतेः अर्ला सपत्नः न० त० । शत्रुभिन्ने । “जनो-
ऽनर्वाणं त परित” इति ऋ० १, १३६, ५, “अनर्वाणमद्वे-
ष्यमिति” भा० । अर्वा अश्वः । तच्छून्ये त्रि० । न त्रादेशः ।

अनर्विश् त्रि० अनसा शकटेन विशति प्राप्नोति

विशक्विप् ३ त० अहरा० रुः, ऋ--कर्मणि विच् अरं गन्तव्यं
प्रति विशति विश--क्विप् वा न० त० । शकटेन काष्ठाद्या-
हरणाय वनप्रवेशिनि, गन्तव्यं स्थलं गन्तुमशक्ते च ।
“अनू द्यूनमनर्विशे पश्चिषे तुरायेति” ऋ० १, १२१, ७,

अनर्शराति त्रि० अनर्शाय अपापिष्ठाय रातिर्दानं यस्य ।

अपापिष्ठे दातरि “अनर्शरातिं वसुदामुपस्तुहीति ऋ० ८,
९९, ४, अनर्शरातिमनश्लीलदानमश्लीलं पापमिति निरुक्त०

अनर्ह न अर्हः । अयोग्ये । “तान् हव्यकव्ययोर्विप्राननर्हान्

मनुरब्रवीदिति” मनुः ।

अनल पु० नास्ति अलः पर्य्याप्तिर्यस्य बहुदाह्यदहनेऽपि तृप्ते-

रभावात् न० ब० । वह्नौ, “व्यभिचचार न तापकरोऽनल”
इति नैषधम् अनलः नलाभावोवह्निश्च अनुपलम्भव-
दभावार्थे न० त० । अव्ययीभावसिद्धत्वे क्लीवता स्यात् ।
“ऊचे नलोऽयमिति तं प्रति चित्तमेकं ब्रूतेऽस्य चान्य-
दनलोऽयमितीदमीयमिति” “आवर्ज्जनं तमनु ते ननु साधु
नामग्राहं मयानलमुदीरितमेतदत्र” इति “सैषानलं
सहजरागभरादिति” च नैषधम् “वयोभिः खादयन्त्यन्ये
प्रक्षिपन्त्यनलेऽप्सु वेति” स्मृतिः । जठरानलस्य पित्तजात-
त्वात् देहस्थे पित्तधातौ च । अष्टवसुमध्ये पञ्चमे वसौ,
मेदिनिः तच्च “धरोध्रुवः सोमनामा तथाऽपोऽप्यनिलोनल”
इति वसुभेदबोधकवचने नलैत्यत्नानलैत्यकारप्रश्लेषभ्रान्त्यै-
वोक्तं किन्तु वसूनां स्वरूपख्यापके विष्णुधर्म्मोत्तरवचने
“स्रुवाक्षमालिके दक्षे वामे शक्तिकपालभृत् सव्योर्द्धादि-
क्रमाद्योऽसौ नलाख्यस्तु वसुः स्मृत” इति नलनामत्वस्यैव
प्रतीतेर्नलएव वसुभेद इत्यवधेयम् । अनलदैवतत्वात् कृत्तिका-
नक्षत्रे “अनलविधिशताख्येति ज्योति० । (चिता) इति
ख्याते चित्रके वृक्षे, पु० । तस्य सर्व्वतः पर्य्याप्तत्वेऽपि
पर्य्याप्तेः सीमाभावात्तत्त्वम्, (भेला) इति ख्याते भल्लातके
वृक्षे च । अन--कलच् । षष्टिवर्षमध्ये पञ्चाशत्संख्याते
वर्षे षष्टिवर्षगणननामभेदादि वर्षशब्दे वक्ष्यते । पितृ-
देवभेदे “कव्यवालोऽनलः सोमः यमश्चैवार्य्यमा तथा
अग्निष्वात्ताः वर्हिषदः सोमपाः पितृदेवता” इति वायु
पुरा० । अनान् प्राणान् लाति आत्मत्वेन अनलः जीवः ।
तद्रूपेण सर्वान्तर्यामितया स्थिते विष्णौ णल--गन्धे बन्धे वा
न नलति न बध्यते वा अच् । गन्धशून्ये परमेश्वरे विष्णौ
“अगन्धनस्य शर्म्म रस” इति “तथा रसं नित्यमगन्धवच्चेति”
पृष्ठ ०१५२
च श्रुतेस्तस्य गन्धशून्यत्वात् तथात्वम् । अल पर्य्याप्तौ
अच् न० त० । अपर्य्याप्ते अपरिमिते परमेश्वरे “पवनः-
पावनोऽनल” इति वि० सह० । भाष्यकृता च उक्तव्युत्-
पत्तिः विष्णुविषयत्वे दर्शिता ।

अनलदीपन त्रि० अनलं जठरानलं पित्तधातुवर्द्धनेन

दीपयति वर्द्धयति दीप--णिच्--ल्यु । जठरानलोद्दीपके
“मधुरो मधुरः पाके दीषघ्नोऽनलदीपन इति” “सौग-
न्ध्यात् पूतिकोष्ठघ्नः सौक्ष्म्याच्चानलदीपन” इति च
सुश्रुतोक्ते द्रव्यभेदे ।

अनलप्रभा स्त्री अनलस्य प्रभेव प्रभा यस्य ब० । ज्योतिष्मतीनामिकायां लतायाम् ।

अनलप्रिया स्त्री ६ त० । स्वाहाख्यायां दक्षकन्यायाम्

वह्निपत्न्याम् ।

अनलि पु० अनिति अन--अच् अनः अलिर्यत्र ब०

शक० । वकवृक्षे तत्पुष्पस्य बहुमधुमत्त्वेन तन्मधुभिर्भ्रम-
राणां जीवनधारणात्तथात्वम् ।

अनल्प त्रि० न अल्पः । प्रचुरे भूयिष्ठे ।

अनवकाश पु० न० त० । अवकाशाभावे । ब० । अवकाश शून्ये त्रि० ।

अनवगीत त्रि० अव + गै--क्त न० त० । अनिन्दिते ।

अनवग्रह त्रि० नास्ति अवग्रहो यस्य । प्रतिबन्धशून्ये

“अवश्यभव्येष्वनवग्रहग्रहेति” नैष० । न० त० । वृष्टिप्रति-
बन्धाभावे ।

अनवद्य त्रि० न अवद्यं निन्द्यम् । निन्द्यभिन्ने दोषशून्ये च

“अनवद्यतृणार्द्दिनो मृगानिति” नैष० । “अनवद्यवि-
द्योद्द्योतेनेति” दायभा० । “अनवद्योरिशादा” इति
ऋ० ९, ६९, १०, “अनवद्योगर्हारहित” इति भा० ।
“अग्निः शर्द्धमनवद्यं युवानमिति” ऋ० १, ७१, ८ ।

अनवधान न० न अवधीयते मनः संयुज्यते कर्त्तव्यकर्म्मणि

यथावस्थितं प्रवर्त्त्यतेऽनेन अव + धा--करणे ल्युट् अवधानम्
चित्तवृत्तिभेदः अभावे न० त० । अवधानाभावे
मनःसंयोगविशेषाभावे प्रमादे, न० ब० । तद्वति त्रि० ।

अनवधानता स्त्री अवधानं नास्ति यस्य तस्य भावः ।

प्रमादे । कर्त्तव्येऽकर्त्तव्यताबोधेन ततोनिवृत्तिः, अकर्त्तव्ये
कर्त्तव्यताबोधेन तत्र प्रवृत्तिश्च प्रमादः । “कर्त्तव्याकरणं
यत्राकर्त्तव्यस्याथवा क्रिया । उच्यते द्वितयं तत्र प्रमा-
दोऽनवधानतेति” ।

अनवपृग्ण त्रि० अव + पृच् संपर्के क्त इडभावादि छान्दसम्

न० त० । असम्पृक्ते । “अनवपृग्णा वितता वसानमिति”
ऋ० १, १५२, ४ ।

अनवब्रव पु० अव + ब्रू--अच् न वचादेशः न० त० ।

अपवादवर्जिते “विजेष कृदिन्द्र इवानवव्रवोऽस्माकमिति”
ऋ० १०, ८४, ५ ।

अनवभ्र त्रि० न भ्रंशते बा० ड । अवभ्रंशशून्ये “प्रस्कम्भदेष्णा

अनवभ्रराधस” इति ऋ० १, १६६, ७ । “अनवभ्रराधसः
अनवभ्रष्टहविरादिधना” इति भा० ।

अनवम त्रि० न अवमः । न्यूनताहीने श्रेष्ठे “सुधर्म्मानवमां

सभामिति” रघुः ।

अनवर त्रि० न अवरः । अवरभिन्ने श्रेष्ठे अजघन्ये “सोऽ-

यमिन्द्रादनवरो वासुदेवश्च भारतेति भार० ।

अनवरत त्रि० अव + रम + भावे क्त अवरतम् विरामः तन्नास्ति

यस्य ब० । निरन्तरे विश्रामशून्ये ।

अनवरार्द्ध्य त्रि० अवरस्मिन् अर्द्धे भवः यत् न० त० ।

उत्कृष्टे श्रेष्ठे च शीर्षभागे स्थापनीयतयास्य तत्त्वम् ।

अनवलम्ब त्रि० नास्ति अवलम्बो यत्र । आलम्बनहीने ।

“न परं पथि पक्षपातिताऽनलम्बे किमु? मादृशेऽपि
सेति” नैष० ।

अनवलोभन न अवलुप्यते पुमान् येन अव + लुप--ल्युट् पृ०

पस्य भः । गर्भसंस्कारभेदे । “उपनिषदि गर्भलम्बनम् पुंस-
वनमनवलोभनञ्चेति” आ० गृ० ।

अनवस त्रि० अव--प्रीणनादौ असच् अवसः भोजनं प्रीति

करत्वात् न० ब० । पथ्याशनहीने “अनवसो अनभीशु”
इति ऋ० ६, ६६, ७, “अनवसः षथ्याशनरहित” इति भा० ।

अनवसर त्रि० अवसरः उचितः कालः नास्ति यम्य ब० ।

उचितकालविहीने । “अतर्क्यैश्यर्य्ये त्वय्यनवसरदुःस्था-
हतधिय इति महि० स्तो० । न० त० । अवसराभावे ।

अनवसित त्रि० अवसितः समाप्तो निश्चितो वा न० त० ।

अनिश्चिते असमाप्ते च । “अनवसितान्यौ भ्गौ गुरुरन्ते-
इति (वृत्त०) उक्ते छन्दोभेदे स्त्री ।

अनवस्कर त्रि० अवस्क्रियते शोध्यते अव--कॄ--अप् सुडा-

गमः अवस्करो मलः स नास्ति यस्य ब० । मलहीने ।

अनवस्था स्त्री अव + स्था--अङ् अवस्थितिः न० त० ।

अवस्थाभावे, तर्कदोषविशेषे उपपाद्यस्य समर्थनाय उपपाद-
कस्यानुसरणं तर्कः यत्र तर्के उपपाद्योपपादकयोर्विश्रान्ति
र्नास्ति तादृशतर्कस्यानवस्थादोषः तत्र स तर्को न ग्राह्यः ।
अधिकं तर्कशब्दे वक्ष्यते “प्रामाणिकी अनवस्था न
दोषायेति” जग० । नास्ति अवस्था यस्य । अवस्थिति-
शून्ये त्रि० । “अशरीरं शरीरेषु अनवस्थेष्ववस्थितसिति”
पृष्ठ ०१५३

अनवस्थान न० अव + स्था--ल्युट् न० त० । अवस्थानाभावे ।

व० । वायौ पु० । चञ्चलमात्रे त्रि० ।

अनवस्थित त्रि० न अवस्थितः । चञ्चले, अस्थिरे “दयितास्व-

नवस्थितं नृणामिति” कुमा० । व्यभिचारवति च । “चतु-
र्णामपि वर्णानां नारीर्हत्वानवस्थिता” इति मनुः
अनवस्थिताव्यभिचारिणीरिति कुल्लू० । व्यभिचारिण्याश्च
पत्यौ नितान्तावस्थानाभावात् तथात्वम् । अवस्थातु
मक्षमे च “प्रस्थितं तमनवस्थितं प्रिया” इति रघुः
अनवस्थितम् अवस्थातुमक्षममिति मल्लि० ।

अनवस्थिति न० न अवस्थितिः । अभावार्थे न० त० । अवस्थानाभावे ।

अनवह्वर त्रि० अव + ह्वृ--कौटिल्ये अच् न० त० ।

अकुटिले सरले “सचेते अनवह्वरमिति” ऋ० २, ४१, ६ ।
“अनवह्वरमकुटिलमिति” भा० ।

अनवाप्त त्रि० न अवाप्तः । अप्राप्ते “नानवाप्तममाप्तव्यं त्रिषु

लोकेषु किञ्चनेति” गीता ।

अनवाय त्रि० अव + इण् वञ् अवायः अवयवः न० ब० ।

निरवयने “अनवायं किमीदिने” इति ऋ० ७, १०४, २ ।

अनवेक्षक त्रि० न अवेक्षकः न० त० । पर्य्यालोचना

हीने सदसद्विवेकहीने ।

अनवेक्षा स्त्री न अवेक्षा अपेक्षा अभावार्थे न० न० । अपेक्षाभावे ।

अनशन अश--ल्युट् न० त० । भक्षणाभावे, उपवासे, स च

भोजनविषयनिवृत्तिरूपः व्रतभेदः अहोरात्रभोजनाभाव
एव तस्य प्रयोगोपाधिता । तेन यत्किञ्चित्क्षणे
अभोजनेऽपि न उपवासपदप्रयीगः । त्रिरात्रादिपदसमभिव्य-
हारे तु भोजनाभावमात्रपरतेति भेदः । न० ब० ।
भोजनशून्ये त्रि० ।

अनश्वर त्रि० न नश्वरः । नश्वरभिन्ने, स्थायिनि, नित्ये च ।

अनस् न० अनिति शब्दायते अन--असुन् । शकटे “दूरा-

दनसा रथेन” ऋ० ३, ३३, १० । अनिति जीवत्यनेन करणे
ल्युट् । ओदने, ओदनस्थाने, षितरि च मातरि स्त्री ।
उत्तरपदस्यः अव्ययी० शरदा० टच्समा० । अध्यनसम्
तत्पुरुषेऽपि संज्ञायां जातौ च टच्समा० । उपानसं
महानसम् अनोऽत्र भक्तस्थानम् । “अपोषा अनस” इति
ऋ० ४, ३०, १० ।

अनसूय त्रि० नास्ति असूया यस्य । परगुणेषु दोषारोपशून्ये

“श्रद्धावाननसूयश्चेति” गीता “श्रद्धधानोऽनसूयश्चेति” मनुः ।

अनसूयक न असूयकः । असूयाशून्ये “यथा तथा हि

सद्धृत्तमातिष्ठत्यनसूयक” इति मनुः ।

अनसूया स्त्री असु--कण्ड्वादित्वात् यक्--भावे अङ् असूया

गुणेषु दोषारोपः अभावार्थे न० त० । “न गुणान् गुणि-
नोहन्ति स्तौति चान्यगुणानपि । न हसेच्चान्यदोषांश्च
साऽनसूया प्रकीर्त्तिते” त्युक्तलक्षणे असूयाभावे । “एकमेव तु
शूद्रस्य प्रभुः कर्म्म समादिशत् । एतेषामेव वर्णानां शुश्रू-
षामनसूययेति” “यत्किञ्चिदपि दातव्यं याचितेनानसूय-
येति” च मनुः । अत्रिमुनिपत्न्यां च शकुन्तलासह-
चरीभेदे शकु० ।

अनसूयु त्रि० असु--उपतापे कण्ष्ट्वा० यक् उ न० त० ।

असूयाशून्ये “इदन्तु ते गुह्यतमं प्रवक्ष्यास्यमनसूयवे”
इतिगीता ।

अनस्तमित त्रि० न अस्तमितः गतः असम० स० । अस्तमप्राप्ते ।

अनस्थ पु० नास्ति अस्थि यस्य बा० अच्समा० । अस्थि-

वर्जिते अवयवे “पुरस्तादनस्य जरूरवरंवमाण” इति ऋ०
८, १, ३४, अस्थि अवयवः । तच्छून्ये निरवयवे सांख्य-
प्रसिद्धे प्रधाने, ईश्वरमायायाञ्च “यदनस्था बिभर्त्ति” ऋ०
१, १६४, ४, “अनस्था निरवयवा प्रकृतिरीश्वरायत्तमाया-
वेति” भा० । समासान्ताभावे अनस्थि । अस्थिशून्ये त्रि० ।

अनस्वत् त्रि० अनः शकटमस्त्यस्य मतुप् मस्य वः

सान्तत्वान्न पदत्वम् । शकटयुक्ते “अनस्वन्तः श्रव ऐषन्त
पज्वाः ऋ० १, १२६, ५ ।

अनहङ्कार पु० न अहङ्कारः अभावार्थे न० त० । अहङ्कारा-

भावे । ब० । तच्छून्ये त्रि० अहङ्कारश्चाहङ्कारशब्दे वक्ष्यते ।

अनहङ्कारिन् त्रि० । अहमिति गर्वं करोति अहम् + कृ

णिनि । न० त० । गर्वशून्ये ।

अनहंकृत त्रि० अहमिति कृतमहङ्कारः, भावे क्त न० ब० ।

अहङ्कारशून्ये “मुदु वाप्यनहङ्कृत” इति मनुः ।

अनहङ्कृति स्त्री अहमिति क्रियते भावे क्तिन् न० त० ।

अहङ्काराभावे न० ब० । अहङ्कारशून्ये त्रि० ।

अनहंवादिन् त्रि० अहमिति गर्वेण न वदति वद--णिनि,

गर्वरहिते “मुक्तसङ्गोऽनहंवादीति” गीता ।

अनाकार त्रि० नास्ति आकारोऽस्य । अवयवहीने

आकाशादौ, ईश्वरे च ।

अनाकाल पु० आ सम्यक् अन्नादिसस्पन्नःकालः आकालः

न० त० । शश्यादिसस्पन्नकालभिन्ने दुर्भिक्षे काले ।

अनाकुल त्रि० न आकुलः न० त० । अव्यग्रे, एकाग्रे,

स्थिरे, असङ्कीर्णवाक्ये च ।

अनाकृत न० नेत्यनेन कृतः नाकृतः निराकृतः न० त० ।

अनिवारिते “न वक्का जरणा अनाकृत” इति ऋ०
१, १४१, ७, “अनाकृतः अनिवारित” इति भा० ।
पृष्ठ ०१५४

अनाक्रान्ता स्त्री आक्रमितुमयोग्या सर्वतःकण्ठकावृतत्वात्

आ + क्रम--क्त न० त० । कण्टकारिवृक्षे । आक्रान्तभिन्ने त्रि० ।

अनाक्षारित न० न आक्षारितः अपकृतः ।

अनपकृते । “अनाक्षारितपूर्ब्बोय” इति कात्यासं० । “अनाक्षा-
रितोऽनपकृत” इति प्रा० विवेकः ।

अनाग त्रि० न आ सम्यग्गच्छति स्वर्गमनेन नागः अधर्म्मः

न० ब० । पापरहिते “मित्रोनो अत्रादितिरनागान्” ऋ०
१०, १२, ९, “अनागान् अपापान्” इति भा० ।

अनागत त्रि० न आगतः । भविष्यत्कालवृत्तौ, “हेयं दुःख-

मनागतमिति पा० सू० आगतभिन्ने च “अनागतार्त्तवे”
त्यमरः “तावद्भयस्य भेतव्यं यावद्भयमनागतमिति” हितो०
“अनागतादिलिङ्गेन न स्यादनुमितिस्तदेति” भाषा० ।

अनागतविधातृ त्रि० अनागतस्य भविष्यतः अनिष्टस्य

विधाता प्रतिविधानकर्त्ता । आगामिदुःखस्य लिङ्गद्वारानु-
मानेन तन्निवारणोपायानुष्ठातरि “अनागतविधाता च
प्रत्युत्पन्नमतिस्तथा । द्वावेतौ सुखमेधेते यद्भविष्योविन-
श्यतीति” हितो० ।

अनागताबाध अनागतः आबाधः दुःखम् । भाविदैहि-

कादिदुःखे । यदाचरणेन भाविदुःखानुत्पादस्तादृशा उपायाः
सुश्रुते दर्शिता यथा “अथातोऽनागताबाधप्रतिषेधनीयं
व्याख्यास्याम” त्युपक्रम्य । “उत्थायोत्थाय सततं स्वस्थे-
नारोग्यमिच्छता । धीमता यदनुष्ठेयं तत् सर्व्वं सम्प्र-
वक्ष्यते ॥ तत्रादौ दन्तपवनं द्वादशाङ्गुलमायतम् ।
कनिष्ठिकापरिणाहमृज्वग्रथितमव्रणम् । अयुग्मग्रन्थि
यच्चापि प्रत्यग्रं शस्तभूमिजम् । अवेक्ष्यर्तुञ्च दोषञ्च रसं
वीर्य्यञ्च योजयेत् ॥ कपायं मधुरं तिक्तं कटुकं प्रात-
रुत्थितः । निम्बश्च तिक्तके श्रेष्ठः, कषाये खदिर-
स्तया ॥ मधूको मधुरे श्रेष्ठः, करञ्जः कटुके तथा ।
क्षौद्रव्योषत्रिवर्गाक्तं सतैलं सैन्धवेन च ॥ चूर्णेन तेजो-
वत्याश्च दन्तान्नित्यं विशोधयेत्, । एकैकं घर्षयेद्दन्तं मृदुना
कूर्चकेन च ॥ दन्तशोधनचूर्णेन दन्तमांसान्यबाधयन् ॥
तद्दौर्गन्ध्योपदेहौ तु श्लेष्माणं चापकर्षति । वैशद्यमन्नाभि-
रुचिं मौमनस्यं करोति च ॥ न खादेद्गलताल्वोष्ठजिह्वा-
रोगममुद्भवे । अथास्यपाके श्वासे च कासहिक्कावमीषु च ॥
दुर्ब्बलो जीर्णभक्तश्च मूर्च्छार्त्तो मदपीड़ितः । शिरोरु-
गार्त्तस्तृषितः श्रान्तः पानक्लमान्वितः ॥ अर्द्दिती कर्ण-
शूली च दन्तरोगी च मानवः, । जिह्वानिर्लेखनं रौप्यं
सौवर्णं वार्क्षमेव च ॥ तन्मलापहरं शस्तं मृदु श्लक्ष्णं
दशाङ्गुलम् । मुखवैरस्यदौर्गन्ध्यशोफजाड्यहरं सुखम्, ॥
दन्तदार्ढ्यकरं रुच्यं स्नेहगण्डूषधारणम् । क्षीरवृक्षकषा-
यैर्व्वा क्षीरेण च विमिश्रितैः ॥ भिल्लोदककषायेण
तथैवामलकस्य वा । प्रक्षालयेन्मुखं नेत्रे खस्थः शीतोदकेन
वा ॥ निलीकां मुखशोषञ्च पिड़कां व्यङ्गमेव च । रक्त-
पित्तकृतान् रोगान् सद्य एव विनाशयेत्, ॥ मुखं लघु
निरीक्षेत दृढ़ं पश्यति चक्षुषा, । मतं स्रोतोऽञ्जनं श्रेष्ठं
विशुद्धं सिन्धुसम्भवम् ॥ दाहकण्डूमलघ्नञ्च दृष्टिक्लेदरुजा-
पहम्, । अक्ष्णोरूपावहञ्चैव सहते मारुतातपौ ॥ न नेत्र-
रोगा जायन्ते तस्मादञ्जनमाचरेत् । भुक्तवान् शिरसा
स्नातः श्रान्तश्छर्दनवाहनैः ॥ रात्रौ जागरितश्चापि
नाञ्ज्याज्ज्वरित एव च, । कर्पूरजातिकक्कोललवङ्गकटुका-
ह्वयैः ॥ सचूर्णपूगैः सहितं पत्रं ताम्बूलजं शुभम् ।
मुखवैशद्यसौगन्ध्यकान्तिसौष्ठवकारकम् ॥ हनुदन्तस्वरमल-
जिह्वेन्द्रियविशोधनम् । प्रसेकशमनं हृद्यं गलामय-
विनाशनम् । पथ्यं सुप्तोत्थिते भुक्ते स्नाते वान्ते च मानवे ।
रक्तपित्तक्षतक्षीणतृष्णामूर्च्छापरीतिनाम् ॥ रुक्षदुर्व्वलम-
र्त्यानां न हितं चास्यशोषिणाम्, । शिरोगतांस्तथा
रोगान् शिरोऽभ्यङ्गोऽपकर्षति ॥ केशानां मार्द्दवं दैर्घ्यं
बहुत्वं स्निग्धकृष्णताम् । करोति शिरसस्तृप्तिंसुत्वक्क-
मपि चाननम् ॥ सन्तर्पणं चेन्द्रियाणां शिरसः प्रति-
पूरणम् । मधूकं क्षीरशुक्ला च सरलं देवदारु च । क्षृद्रकं
पञ्चनामानं समभागानि संहरेत् । तेषां कल्ककषा-
याभ्यां चक्रतैलं विपाचयेत् ॥ सदैव शीतलं जन्तोर्मूर्ध्नि
तैलं प्रदापयेत्, । केशप्रसाधनी केश्या रजोजन्तुमला-
पहा, ॥ हनुमन्याशिरःकर्णशूलघ्नं कर्णपूरणम्, । अभ्यङ्गो
मार्द्दवकरः कफवातनिरोधनः ॥ धातूनां पुष्टिजननो
मृजावर्णबलप्रदः, । सेकः श्रमघ्नोऽनिलनुद्भग्नसन्धिप्रसा-
धकः ॥ क्षताग्निदग्धाभिहतविधृष्टानां रुजापहः ।
जलसिक्तस्य वर्द्धन्ते यथा मूलेऽङ्कुरास्तरोः ॥ तथा धातु
विवृद्धिर्हि स्नेहसिक्तस्य जायते । शिरामुखैरोमकूपैर्धम-
नीभिश्च तर्पयन् ॥ शरीरबलमाधत्ते युक्तः स्नेहोऽवगाहने ।
तत्र प्रकृतिसात्म्यर्त्तुदेशदोषविकारवित् ॥ तैलं घृतं वा
मतिमान् युञ्ज्यादभ्यङ्गसेकयोः । केवलं सामदोषेषु न
कथञ्चन योजयेत् ॥ तरुणज्वर्य्यजीर्णी च नाभ्यक्तव्यौ
कथञ्चन । तथाविरिक्तो वान्तश्च निरूढ़ो यश्च मानवः ॥
पृष्ठ ०१५५
पूर्ब्बयोः कृच्छ्रता व्याध्योरसाध्यत्वमथापिवा । शेषाणां
तदहः प्रोक्ता अग्निमान्द्यादयोगदाः ॥ सन्तर्पणसमुत्थानां
रोगाणां नैव कारयेत्, । शरीरायासजननं कर्म व्यायामसं-
ज्ञितम् ॥ तत् कृत्वा तु सुखं देहं विमृद्नीयात् समन्ततः ।
शरीरोपचयः कान्तिर्गात्राणां सुविभक्तता ॥ दीप्ताग्नित्व-
मनालस्यं स्थिरत्वं लाघवं मृजा । श्रमकुमपिपासोष्ण-
शीतादीनां सहिष्णुता ॥ आरोग्यं चापि परमं व्यायामा-
दुपजायते । न चास्ति सदृशं तेन किञ्चित् स्थौल्यापक-
र्षणम् ॥ न च व्यायामिनं मर्त्यमर्दयन्त्यरयो भयात् ।
नचैन सहसाक्रम्य जरा समधिरोहति ॥ स्थिरीभवति
मांसञ्च व्यायामाभिरतस्य च । व्यायामक्षुण्णगात्रस्य
पद्भ्यासुद्वर्त्तितस्य च ॥ व्याधयो नोपसर्पन्ति सिंहं क्षुद्र-
मृगा इव । वयोरूपगुणैर्हीनमपि कुर्य्यात् सुदर्शनम् ॥
व्यायाम कुर्वतो नित्यं विरुद्धमपि भोजनम् । विदग्ध-
मविदग्धं वा निर्दोषं परिपच्यते ॥ व्यायामो हि
सदापथ्योबलिनां स्निग्धभोजिनाम् । स च शीते वसन्ते च
तेषां पथ्यतमः स्मृतः ॥ सर्व्वेष्वृतुष्वहरहः पुम्भिरात्महितै-
पिभिः । बलस्यार्द्धेन कर्त्तव्यो व्यायामो हन्त्यतोऽन्यथा ॥
हृदि स्थानस्थितो वायुर्यदा वक्त्रं प्रपद्यते । व्यायामं
कुर्वतो जन्तोस्तद्बलार्द्धस्य लक्षणम् ॥ वयोबलशरीराणि
देशकालाशनानि च । समीक्ष्य कुर्य्यात् व्यायाममन्यथा
रोगमाप्नुयात् ॥ क्षयस्तृष्णारुचिच्छर्दिरक्तपित्तभ्रमक्लमाः ।
कासशोषज्वरश्वासा अतिव्यायामसम्भवाः ॥ रक्तपित्ती
कृशः शोषी श्वासकासक्षतातुरः । भुक्तवान् स्त्रीषु च
क्षीणो भ्रमार्त्तश्च विवर्जयेत्” ॥ उद्वर्त्तनं वातहरं
कफमेदोविलापनम् । स्थिरीकरणमङ्गानां त्वक्प्रसादकरं
परम् ॥ शिरामुखविविक्तत्वं त्वक्स्थस्याग्नेश्च तेजनम् ।
उद्धर्षणोत्सादनाभ्यां जायेयातामसंशयम्, ॥ उत्सादना-
द्भवेत् स्त्रीणां विशेषात् कान्तिमद्वपुः । प्रहर्षसौभाग्यमृजा-
लाघवादिगुणान्वितम्, ॥ उद्घर्षणन्तु विज्ञेयं कण्डूकीटा-
निलापहम् । ऊर्व्वोः सञ्जनयत्याशु फेनकः स्थैर्य्यलाघवे
कण्डूकीटानिलस्तम्भमलरोगापहश्च सः । तेजनं त्वग्गत-
स्याग्नेः शिरामुखविरेचनम् ॥ उद्धर्षणन्त्विष्टिकया कण्डू-
कीटविनाशनम् । निद्रादाहश्रमहरं स्वेदकण्डूतृषा-
पहम् ॥ हृद्यं मलहरं श्रेष्ठं सर्वेन्द्रियविशाघनम् ।
तन्द्रापापोपशमनं तुष्टिदं पुंस्त्ववर्द्धनम्, ॥ रक्तप्रसादनं
चापि स्नानमग्नेश्च दीपनम् । उष्णेन शिरसः स्नान-
महितञ्चक्षुषः सदा ॥ शीतेन शिरसः स्नानं चक्षुष्यमिति
निर्दिशेत् । श्लेष्ममारुतकोपे तु ज्ञात्वा व्याधिबलाबलम् ॥
काममुष्णं शिरःस्नानं भैषर्ज्यार्थं समाचरेत् । अतिशीता-
म्बुशीते च श्लेष्ममारुतकोपनम् ॥ अत्युष्णमुष्णकाले च
पित्तशोणितवर्द्धनम् । तच्चातिसारज्वरितकर्णश्लानि-
लार्त्तिषु ॥ आध्मानारोचकाजीर्णभुक्तवत्सु च गर्हितम्, ।
सौभाग्यदं वर्णकरं प्रीत्योजोबलवर्द्धनम् ॥ स्वेददौर्गन्ध्य-
वैवर्ण्यश्रमघ्नमनुलेपनम् । स्नानं येषां निषिद्धन्तु तेषा-
मप्यनुलेपनम् । रजोघ्नमथ चौजस्यं सौभाग्यकरमुत्तम्, ।
सुमनोऽम्बररत्नानां धारणं प्रीतिवर्द्धनम् ॥ मुखालेपाद्दढ़ं
चक्षुःपीनगण्डं तथाननम् । अव्यङ्गपिडकं कान्तं
भवत्यम्बुजसन्निभम्, ॥ पक्ष्मलं विशदं कान्तममलोज्ज्वल-
मण्डलम् । नेत्रमञ्जनसंयोगाद्भवेच्चामलतारकम्, । यशस्यं
स्वर्ग्यमायुष्यं धनधान्यविवर्द्धनम् । देवतातिथिविप्राणां
पूजनं गोत्रवर्द्धनम्, ॥ आहारः प्रीणनः सद्योबलकृद्देह-
धारकः । आयुस्तेजःसमुत्साहस्मृत्योजोऽग्निविवर्द्धनः, ॥
पादप्रक्षालनं पादमलरोगश्रमापहम् । चक्षुःप्रसादनं वृष्यं
रजोघ्नं प्रीतिवर्द्धनम् ॥ निद्राकरो देहसुखश्चक्षुष्यः श्रम-
सुप्तिनुत्, । पादत्वङ्मृदुकारी च पादाभ्यङ्गः सदा हितः ॥
पादरोगहरं वृष्यं रजोघ्नं प्रीतिवर्द्धनम्, । सुखप्रचार-
मौजस्यं सदा पादत्रधारणम् ॥ अनारोग्यमनायुष्यं
चक्षुषोरुपघातकृत् । पादाभ्यामनुपानद्भ्यां सदा चंक्रमणं
नृणाम्, ॥ पापोपशमनं केशनखरोमापमार्जनम् । हर्ष-
लाघवसौभाग्यकरमुत्साहवर्द्धनम् ॥ वाणवारं मृजावर्णते-
जोबलविवर्द्धनम्, । पवित्रं केश्यमुष्णीषं वातातपर-
जोऽपहम् ॥ वर्षानिलरजोघर्महिमादीनां निवारणम् ॥
वर्ण्यं चक्षुष्यमौजस्यं शङ्करं छत्रधारणम् ॥ शुनः
सरीसृपव्यालविषाणिभ्यो भयापहम्, । श्रमस्खलनदोषघ्नं
स्थविरे च प्रशस्यते ॥ सत्वोत्साहबलस्थैर्य्यधैर्य्यवीर्य्य
विवर्द्धनम् । अवष्टम्भकरञ्चापि भयघ्नं दण्डधारणम्, ॥
आस्था वर्णकफस्थौल्यसौकुमार्य्यकरी सुखा, । अध्वा
वर्णकफस्थौल्यसौकुमार्य्यविनाशनः, । अत्यध्वा विपरीतो-
ऽस्माज्जरादौर्बल्यकृच्च सः ॥ यत्तु चंक्रमणं नातिदेह-
पीड़ाकरं भवेत्, । तदायुर्बलमेघाग्निप्रदमिन्द्रियबोध-
नम् ॥ श्रमानिलहरं वृष्यं पुष्टिनिद्राधृतिप्रदम् ।
सुस्वं शय्यासनं दुःखं विपरीतगुणं मतम्, ॥ व्यालव्यजन-
मौजस्यं मक्षिकादीनपोहति । शोषदाहश्रमस्वेदमूर्च्छा-
घ्नो व्यजनानिलः, ॥ प्रोतिनिद्राकरं वृष्यं कफवात-
श्रमापहम् । संवाहनं मांसरक्तत्वक्प्रसादकरं खम्, ।
पृष्ठ ०१५६
प्रवातं रोक्ष्यवैवर्ण्यस्तम्भकृद्दाहपक्तिनुत् । स्वेदमूर्च्छा-
पिपासाघ्नमप्रवातमतोऽन्यथा, ॥ सुखं वातं प्रसेवेत ग्रीष्मे-
शरदि मानवः । निवातं ह्यायुषे सेव्यमारोग्याय च
सर्वदा, । आतपः पित्ततृष्णाग्निस्वेदमूर्च्छाभ्रमास्रकृत्, ।
दाहवैवर्ण्यकारी च छाया चैतानपोहति, । अग्निर्वात-
कफस्तम्भशीतवेपथुनाशनः । आमाभिष्यन्दजरणो रक्त-
पित्तप्रदूषणः, । पुष्टिवर्णबलोत्साहमग्निदीप्तिमतन्त्रि-
ताम् । करोति धातुसाम्यञ्च निद्राकाले निषेविता, ।
तत्रादित एव नीचनखरोम्णा शुचिना शुक्लवाससा
लघूष्णीषच्छत्रोपानत्केन दण्डपाणिना काले हितमितमधुरपू-
र्ब्बाभिभाषिणा बन्धुभूतेन भूतानान्तु, गुरुवृद्धानुमतेन
सुसहायेनानन्यमनसा खलूपचरितव्यं, तदपि न रात्रौ न
केशास्थिकण्टकाश्मतुषभस्मोत्करकपालाङ्गारामेध्यस्थानब-
लिभूमिषु, न विषमेन्द्रकीलचतुष्पथश्वभ्राणामुपरिष्टात्, ।
न राजद्विष्टपरुधपैशुन्यानृतानि वदेत् न देवब्राह्मण-
पितृपरिवादांश्च । न नरेन्द्रद्विष्टोन्मत्तपतितक्षुद्रनीचाचारा-
नुपासीत । वृक्षपर्वतप्रपातविषमवल्मीकदुष्टवाजिकुञ्जराद्य-
धिरोहणानि परिहरेत् पूर्णनदीसमुद्राविदितपल्वलश्वभ्रकू-
पावतरणानि, भिन्नशून्यागारश्मशानविजनारण्यवासा-
ग्निसंभ्रमव्यालभुजङ्ग--कीटसेवाग्रामाघातकलहशस्त्रसन्निपा-
ताग्निसंभ्रमव्यालसरीसृपशृङ्गिसन्निर्कषांश्च ॥ नाग्निगो-
गुरुब्राह्मणप्रेङ्खादम्पत्यन्तरेणाभियायात् । न शवमनु-
यायात् । देवगोब्राह्मणचैत्यध्वजरोगिपतितपापकारि-
णाञ्च छायां नाक्रमेत् । नास्तं गच्छन्तमुद्यन्तं वादित्यं
वीक्षेत । गान्धयन्तीं परशस्यं वा चरन्तीं परस्मै न कस्मै-
चिदाचक्षीत, न चोल्कापातेन्द्रधनूंषि । नाग्निं मुखेनोप-
धमेत् । नापो भूमिं वा पाणिपादेनाभिहन्यात् ॥ न
वेगान् घारयेत् । न वहिर्वेर्गान् ग्रामनगरदेवतायतनश्मशान
चतुष्पथसलिलाशयपथिसन्निकृष्टानुत्सृजन्नप्रकाशं न वाय्व-
ग्निसलिलसोमार्कगोगुरुप्रतिमुखम् ॥ न भूमिं विलि-
खेत् । नासंवृतमुखः सदसि जृम्भोद्गारश्वासक्षवथनुत्-
सृजेत् । न पर्य्यस्तिकावष्टम्भपादप्रसारणानि गुरुसन्निधौ
कुर्य्यात् । न बालकर्णनासास्रोतोदशनविवराण्यभिकुष्णी-
यात् । न वीजयेत् केशमुखनखरवस्त्रगात्राणि । न गात्र-
नखवक्त्रवादित्रं कुर्य्यात् । न काष्ठलोष्टतृणादीनभिहन्या-
द्भिन्द्याद्वा । न प्रतिवातातपंसेवेत । न भुक्तमात्रोऽग्नि-
मुपासीत, नोत्कटुकस्तिष्ठेत् । नाल्पकाष्ठासनमध्यासीत ।
न ग्रोवां विषमं षारयेत् । न विषमकायः क्रियां भजेत्
भुञ्जीत वा । न प्रततमीक्षेत विशेषाज्ज्योतिर्भास्कर-
सूक्ष्मचलभ्रान्तानि । न भारं शिरसा वहेत् । न स्वप्न-
जागरणशयनासनचङ्कमणयानवाहनप्रधानवनलङ्घनप्लवनप्रत
रणहास्यभाष्यव्यवायव्यायामादीनुचितानप्यतिसेवेत ॥ उ
चितादप्यहितात् क्रमशो विरमेत् हितमनुचितमप्यासेवेत
क्रमशो न चैकान्ततः पादहीनात् ॥ नावाक्शिराः शयीत ।
न भिन्नपात्रे नाञ्जलिपुटेनापः पिबेत् । काले हितमित-
स्निग्धमधुरप्रायमाहारं वैद्यप्रत्यवेक्षितमश्नीयात् । ग्राम-
गणगणिकापणिकशत्रुशठपतितभोजनानि परिहरेत्
शेषाण्यपि चानिष्टरूपरसगन्धस्पर्शशब्दमानसान्यन्यान्येवं-
गुणान्यपि वा संभूय दत्तानि तान्यपि मक्षिकाबालोप-
हतानि, । नाप्रक्षालितपाणिपादो भुञ्जीत मूत्रोच्चार-
पीड़ितो न सग्ध्ययोर्नापाश्रितो नातीतकालं हीनमति-
मात्रञ्चेति न भुञ्जीतोद्धृतस्नेहम् ॥ नोदके पश्येदात्मानं,
न नग्नः प्रविशेज्जलम् । न नक्तं दधि भुञ्जीत न वाप्यघृत-
शर्करम् ॥ नामुद्गयूषं नाक्षौद्रं नोष्णैर्नामलकैर्विना ।
अन्यथा कृष्ठवीसर्पादिं जनयेत् । द्यूतमद्यातिसेवाप्रतिभू-
साक्षित्वसमाह्वानगोष्ठीवादित्राणि न सेवेत । स्रजञ्छत्रो-
पानहौ कनकमतीतवासांसि न चान्यैर्धृतानि धारयेत् ।
ब्राह्मणमग्निं गाञ्च नोच्छिष्टः स्पृशेत् ॥ भवन्ति चात्र ॥
सुखमात्रं समासेन सद्वृत्तस्यैतदीरितम् । आरोग्यमायुरर्थो
वा नासद्भिः प्राप्यते नृभिः ॥ यस्मिन् यस्मिन्नृतौ ये ये
दोषाः कुप्यन्ति देहिनाम् । तेषु तेषु प्रदातव्या रसास्ते ते
विजानता ॥ वर्षासु न पिबेत्तोयं पिबेच्छरदि मात्रया ।
वर्षासु चतुरो मासान्मात्रावदुदकं पिबेत् ॥ उष्णं हैमे
वसन्ते च कामं ग्रीष्मे तु शीतलम् । हेमन्ते च वसन्ते च
सीध्वरिष्टौ पिबेन्नरः ॥ शृतशीतं पिबेत् ग्रीष्मे प्रावृट्-
काले रसं पिबेत् । यूषं यर्षति तस्यान्ते प्रपिबेच्छीतलं
जलम् ॥ स्वस्य एवमतोऽन्यस्तु दोषाहारमतानुगः ।
स्नेहं सैन्धवचूर्णेन पिप्पलीभिश्च संयुतम् ॥ पिबेदग्निविवृ-
द्ध्यर्थं न च वेगान्विधारयेत् । अग्निदीप्तिकरं नॄणां रोगाणां
शमनं प्रति ॥ प्रावृट्शरद्वसन्तेषु सम्यक् स्नेहादिमाचरेत् ।
कफे प्रच्छर्दनं, पित्ते विरेको, वस्तिरीरणे ॥ शस्यते त्रिष्वपि
सदा व्यायामो दोषनाशनः । भुक्तं विरुद्धमप्यन्नं व्याया-
मान्न प्रकुप्यति ॥ उत्सर्गमैथुनाहारशोधने स्यात्तु तन्मनाः ।
नेच्छेद्रोगभयात्प्राज्ञः पीड़ां वा कायमानसीम् ॥
अतिस्त्रीसंप्रयोगाच्च रक्षेदात्मानमात्मवान् । शूलकासज्वरश्वास-
कार्श्यपाण्ड्वामयक्षयाः ॥ अतिव्यवायाज्जायन्ते रोगाश्चा-
पृष्ठ ०१५७
क्षेपकादयः । आयुष्मन्तो मन्दजरा वपुर्वर्णबलान्विताः ॥
स्थिरोपचितमांसाश्च भवन्ति स्त्रीषु संयताः । त्रिभिस्त्रिभि-
रहोभिर्हि समीयात् प्रमदां नरः ॥ सर्वेष्वृतुषु धर्म्मेषु पक्षा-
त्पक्षाद् व्रजेत् बुधः । रजस्वलामकामाञ्च मलिनामप्रियां
तथा ॥ वर्णवृद्धां वयोवृद्धां तथा व्याधिप्रपीड़िताम् ।
हीनाङ्गीं गर्भिणीं द्वेष्यां योनिदोषसगन्विताम् ॥ सगोत्रां
गुरुपत्नीञ्च तथा प्रवजितामपि । सग्ध्यापर्वस्वगम्याञ्च
नोपेयात् प्रमदां नरः ॥ गोसर्गे चार्द्धरात्रे च तथामध्य-
न्दिनेषु च । लज्जासमावहे देशे विवृतेऽशुद्ध एव च ॥
क्षुधितो व्याधितश्चैव क्षुब्धचित्तश्च मानवः । वातविण्मूत्र-
वेगी च पिपासुरतिदुर्बलः ॥ तिर्य्यग्योनावयोनौ च प्राप्त-
शुक्रविधारणम् । दुष्टयोनौ विसर्गन्तु बलवानपि वर्जयेत् ॥
रेतसश्चातिमात्रन्तु मूर्द्ध्वावरणमेव च । स्थितावुत्तानशयने
विशेषेणैव गर्हितम् ॥ क्रीड़ायामपि मेधावी हितार्थी
परिवर्जयेत् । रजस्वलां प्राप्तवतो नरस्यानियतात्मनः ॥
दृष्ट्यायुस्तेजसां हानिरधर्म्मश्च ततो भवेत् । लिङ्गिनीं गुरु-
पत्नीञ्च सगोत्रामथ पर्वसु ॥ वृद्धाञ्च सन्ध्ययोश्चापि गच्छतो
जीवितक्षयः । गर्भिण्यां गर्भपीड़ा स्याद्व्याधितायां
बलक्षयः ॥ हीनाङ्गीं मलिनां द्वेष्यां कामं बन्ध्यामसंवृते ।
देशेऽशुद्धे च शुक्रस्य मनसश्च क्षयो भवेत् ॥ क्षुधितः
क्षुब्धचित्तश्च मध्याह्ने तृषितोऽबलः । स्थितस्य हानिं
शुक्रस्य वायोः कोपञ्च विन्दति ॥ अतिप्रसङ्गाद्भवति शोपः
शुक्रक्षयावहः । व्याधितस्य रुजा प्लीहा मृत्युर्मूच्छा च
जायते । प्रत्यूषस्यर्द्धरात्रे च वातपित्ते प्रकुप्यतः ॥ तिर्य्य-
ग्योनावयोनौ च दुष्टयोनौ तथैव च । उपदंशस्तथा वायोः
कोपः शुक्रस्य च क्षयः ॥ उच्चारिते मूत्रिते च रेतसश्च
विधारणे । उत्ताने च भवेच्छीघ्रं शुक्राश्मर्य्यास्तु सम्भवः ॥
सर्वं परिहरेत्तस्मादेतल्लोकद्वये हितम् । शुक्रं चोपस्थितं
मोहान्न सन्धार्य्यं कथञ्चन ॥ वयोरूपगुणोपेतां तुल्यशीलां
गुणान्विताम् । अभिकामोऽभिकामान्तु हृष्टो हृष्टामलंकृ-
ताम् ॥ सेवेत प्रमदां युक्त्या वाजीकरणवृंहितः । भक्ष्याः
सशर्कराः क्षीरं ससितं, रस एव च ॥ स्नानं सव्यजनं स्वप्नो
व्यवायान्ते हितानि तु इति” । एतेषामन्यथाचरणे
यथायथं दुःस्रान्युत्पद्यन्ते ।

अनागतार्त्तवा स्त्री स्त्रीपुष्पविकाशनम् आर्त्तवम् न

आगतमार्त्तवं यस्याः । स्त्रीधर्मशून्यायां नग्निकायां कन्यायाम् ।

अनागन्धिव त्रि० न आगन्धितः आघ्रातः । अनाघ्राते,

“सर्वदोषानागन्धितं प्रतिवचनमाहेति” वृ० उ० भा० ।

अनागम पु० नास्ति आगमः स्वत्वहेतुः क्रयादिर्यत्र । स्वत्व-

हेतुक्रयादिशून्ये “अनागमं तु यो भुङ्क्ते बहून्यब्दशता-
न्यपीति” स्मृतिः अधिकमागमशब्दे वक्ष्यते ।

अनागस् त्रि० नास्ति आगोऽपराधः पापं वा यस्य ।

अपराधशून्ये पापशून्ये च “आर्त्तत्राणाय वः शस्त्रं न प्रहर्त्तु-
मनागसीति” शकु० । “अनागमे शंसति बालचापल-
मिति” नैष० । “अनागसः तमदितिः कृणोतु ऋ०
४, ३९, ३, “अनागसं पापरहितमिति” भा० । “तवा-
नागसो अदितये स्याम” ऋ० १, २४, २५, “अनागसः
अपराधरहिताः स्यामेति” भा० ।

अनाचार पु० अप्राशस्त्येऽभावे वा न० त० । कदाचारे,

आचाराभावे च । “सर्वदेशेष्वनाचारः पथि ताम्बूल-
चर्वणमिति” स्मृतिः । “अनाचारोद्विविधः विहितस्यानु-
ष्ठानाभावः निषिद्धस्याचरणञ्च । तत्र आचारशब्दे
वक्ष्यमाणा भावाभावरूपाः शास्त्रे कर्त्तव्यतया ये विहि-
तास्तेषामननुष्ठानम् अनाचारः । निषिद्धशब्दे वक्ष्य-
माणानि वर्ज्जनीयतया शास्त्रे यानि उक्तानि तेषा-
मनुष्ठानमप्यनाचारः । तत्रायं विशेषः यत्र देशे
परभ्पराप्रसिद्धः योऽनाचारः स, अल्पदोषाधायकः यथोक्तं
माधवीये बौधायनेन “पञ्चधा विप्रतिपत्तिर्दक्षिणत
उर्णाविक्रयो, अनुपनीतेन भार्य्यया च सह भोजनम्,
पर्य्युषितभोजनम्, मातुलपितृष्वसृदुहितृपरिणयनम्,
तथोत्तरतः सीधुपानमुभयतोदद्भिर्व्यवहार” इत्यादिक-
मभिधाय “इतर इतरस्मिन् कुर्वन् दुष्यति देशप्रामाण्या-
दिति” । “इतरोदाक्षिणात्य इतरस्मिन् उत्तरदेशे
मातुलसुतादिसम्बन्धं कुर्वन् दुष्यति न स्वदेशे, तथा इतर
उदीच्य इतरस्मिन् दक्षिणे देशे सीधुपानादिकं कुर्वन्
दुष्यति न स्वदेशे कुतः देशप्रामाण्यात् देशनिबन्धनत्वा-
दाचारप्रमाण्यस्येति” माधवः । देवलः “यस्मिन् देशे ग
आवारः न्यायदृष्टः सुकल्पितः । स तस्मिन्नेव कर्त्तव्यो
न तु देशान्तरे स्मृतः इति । यस्मिन् देशे पुरे ग्रामे
त्रिविधे नगरेऽपि वा । यो यत्र विहितो धर्म्मस्तं धर्मं न
विचालयेदिति” । “देशानुशिष्टं कुलधर्ममग्र्यं स्वजाति-
धर्मं न हि संत्यजेच्चेति” स्मृत्यन्तरं वृहस्पतिरपि
“परम्परासिद्धानानाचारान् देशविशेषेष्वाह स्म । “उदुह्यते
दाक्षिणात्यैर्मातुलस्य सुता द्विजैः । मत्स्यादाश्च नराः
पूर्ब्बे व्यभिचाररताः स्त्रियः । उत्तरे मद्यपाश्चैव
स्पृश्या नॄणां रजस्वला इति” एवमन्येप्यनाचारा
देशभेदे परम्परागताः तत्तत्स्पृतिषूक्ता वेद्याः । ब० ।
आचारहीने त्रि० ।
पृष्ठ ०१५८

अनाज्ञात त्रि० न आज्ञातः । सम्यग्ज्ञानाविषयीभूते

“आज्ञातं यदानाज्ञातं यज्ञस्य क्रियते मिथ” इति यजु० ।

अनातप पु० आ + तप--अच् न० त० । आतपस्य रोद्रस्या-

भावे, छायायां च । अनातपविशोषितमिति” वैद्यकम्
छायाशुष्कमिति तदर्थः । ब० । आतपशून्ये त्रि० ।

अनातुर त्रि० न आतुरः । आतुरभिन्ने स्वस्थे अरोगे च

“यद्देवाः शर्म्म शरणं यद्भद्रं यदनातुरमिति” ऋ० ८, ४७, १०,
“भेजे धर्ममनातुर” इति रघुः ।

अनात्मक त्रि० नास्ति आत्मा स्थिरः यत्र कप् । क्षिणिक

विज्ञानमते, स्थिरात्मशून्ये जगति च । नैरात्म्यवादे हि
चेतयिता स्थिर आत्मा न स्वीक्रियते किन्तु क्षणिकविज्ञाने-
नैव सर्वव्यवहारसिद्धिरित्यतः पराभिमतात्मशून्यत्वम् जगतः ।
विस्तरः क्षस्तिक्तविज्ञानशब्दे दृश्यः ।

अनात्मज्ञ त्रि० आत्मानं यथाखरूपं न जानाति ज्ञा--क

जत० स० । आत्मस्वरूपानभिज्ञे आत्मचेष्टितानभिज्ञे
खपरविवेचनाशून्थे च ।

अनात्मन् पु० न आत्मा अप्राशस्त्ये भेदार्थे च न० त० ।

“अप्राप्तः प्राप्यते योऽयमत्यन्तं त्यज्यतेऽथवा । जानीया-
त्तमनात्मानं बुद्ध्यन्त वपुरादिकम्” इत्थेवं प्रतिपादिते
आत्मभिन्ने अपकृष्टात्मनि देहादौ “अनात्मनि देहादौ
आत्मेति बा बुद्धिः साऽविद्येति वे० प्र० । “देवाश्च
असुराश्च उभयएवानात्मान” इति श्रुतिः “अनात्मन्यात्म-
बुद्धिर्या साऽविद्या परिकीर्त्तितेति” पुरा ।

अनात्मवत् त्रि० आत्माऽब्धःकरणं वश्यत्वेनास्त्यस्य मतुप् मस्य

वः न० त० । अजितेन्द्रिये । “अनात्मवन्तःपशुवद्भुञ्जते ये
ऽप्रमाणत” इति सुश्रुतम् ।

अनात्म्य न० आत्मन इदं आत्मन् + यत् आत्म्यम् शरीरं

न० ब० । अशरीरे “एतस्मिन्नदृश्येऽनात्म्येऽनिरुक्ते इति
तै० ब्रा० “अनात्म्ये अशरीरे” इति भा० ।

अनाथ त्रि० नास्ति नाथः प्रभुरस्य । प्रभुहीने “किं भ्राता

सद्यदनाथमिति” ऋ० १०, १०, ११, । विलपन्तमनाथ-
वदिति भार० ।

अनादर पु० आदुरः गोरवहेतुका सम्मानना विरोधे न०

त० । परिमवे, तिरस्कारे, अवज्ञायाम् च तेषामादरविरो-
धिप्त्व्यात्तथात । “गुणेपु रागो व्यसनेष्वनादरः” नीति० ।
ब० । आदरशून्ये त्रि० ।

अनादि पु० आदिः कारणम् पूर्ब्बकालो वा स नास्ति य स्य

परमेश्वरे । नास्ति आदिः प्राथमिकोयस्मात् ५ ब० ।
हिरण्यगर्भे पु० तस्य च “हिरण्यगर्भः समवर्त्तताग्रे”
इति श्रुतौ सृष्टेः प्रगुत्पत्त्युक्तेस्तथात्वम् । आदिशून्ये
त्रि० । “जगदादिरनादिस्त्वमिति” कुमा० । “अनादि-
निधनं ब्रह्म शब्दतत्त्वं प्रचक्षते” इति हरिः । “अना-
दिनिधना देवी वागुत्सृष्टा स्वयम्भुवेति” पुरा० ।
“अनादिभूर्भुव इति” विष्णु स० । “अनादित्वात्
निर्गुणत्वादिति” गीता ।

अनादिमत् आदिमत् कार्य्यं तद्भिन्नः । कार्य्यभिन्ने ।

अनादिष्ट त्रि० न आदिष्टः विशेषरूपेण उपदिष्टः । विशेष-

रूपेणाकथिते “अस्य पापस्य, इदं प्रायश्चित्त” मित्यादि-
रूपेण विशेषतोऽनिर्दिष्टे प्रायश्चित्ते “उपपातकयुक्तानाम-
नादिष्टेषु चैव हि । प्रकाशे च रहस्ये च” इति विश्वामित्रः ।

अनादृत न० आदृतम् आदरः भावे क्त अभावार्थे न० त० ।

आदरामावे अवज्ञायाम् । कर्म्मणि क्त न० त० । आदृत-
भिन्ने अवज्ञाते तिरस्कृते च त्रि० ।

अनादेय न० न आदेयः । स्मृत्यादिषु निषिद्धतया आदाना-

नर्हे वस्तुनि “अनादेयस्य चादानादादेयस्य च वर्जनादिति”
मनुः । अप्रतिग्राह्ये च अप्रतिग्राह्यद्रव्याणि च अप्रति-
ग्राह्यशब्दे वक्ष्यन्ते ।

अनादेश पु० न आदेशः अभावे न० त० । उपदेशाभावे । “मन्त्रानादेशे गायत्रीति” स्मृतिः ।

अनाद्य त्रि० न आद्यं भक्ष्यम् । अभक्ष्ये स्मृतिनिषिद्धतया

भक्षणानर्हे । “एषोऽनाद्यादनस्योक्तो व्रतानां विविधो-
विधिरिति” “ज्ञानाज्ञानकृतं कृत्स्नं शृणुतानाद्यभक्षणे”
इति च मनुः । अनाद्यानि च अभक्ष्यशब्दे दर्शयिष्यन्ते ।
आद्यशूत्ये अनादौ त्रि० ।

अनाधार त्रि० नास्ति आवारो यस्य । आश्रयशून्ये “अयत्र

नित्यद्रव्येभ्य आश्रितत्वमिहेष्यते” (भाषा०) उक्तेः न्यायमते
नित्यद्रव्यमात्रे, आश्रयशून्यत्वाच्च युक्तमनाधारत्वम् “अम्ब
रान्तधृते” रित्यादि शा० सूत्रेण अम्बरपर्य्यान्तामां सर्वेषा-
माधारत्वमीश्वरस्येति नाम्बरादौ अनावारत्वं किन्तु ब्रह्मण
एवेति वेदान्तिनः ।

अनाधृष् त्रि० आ + धृष--क्त न० त० । अनभिभूत आधर्ष-

णरहिते “रेवतीरनाधृषः सिषासव” इति णर्व० ६, २, २ ।

अनाधृष्ट त्रि० न आधृष्टः पराभूतः । अपरिभूते “मही न

आयस्यनाधृष्ट” इति ऋ० ७, १५, १४, । वार्यमना-
धृष्टं रक्षखिना, ऋ० ८, २२, १८ ।
पृष्ठ ०१५९

अनाधृष्य त्रि० आ + धृष--कर्म्मणि क्यप् न आधृष्यः न० त० ।

अनभिभवनीये “अनाधृष्यं वृषभं तुम्रमिन्द्रमिति” ऋ० ४,
१८, १०, “तव देवैरनाधृष्यमिति” रामा० ।

अनानुद त्रि० अनुददाति अनु + दा--क न० त० पृ० दीर्घः ।

समानदातृशून्ये अतुल्यदातरि । “अनानुदो वृषभोदो-
धत” इति ऋ० २, २१, ४, “प्रमूतधनदानेन अन्यः समानो
दाता नास्तीति” भा० ।

अनापि त्रि० आप्यते आप--कर्म्मणि इन् आपिराप्तो

बन्धुश्च न० ब० । आप्तशून्ये । “अनापिरज्ञा असजात्या-
मतिरिति” ऋ० १०, ३९, ६, “अनापिरबन्धुरिति” भा०
“अम्रातृव्यो अना त्वमनापिरिन्द्र” इति ऋ० ८, २१, १३ ।

अनाप्त त्रि० आप्तो बन्धुः यथार्थज्ञानवान्, प्राप्तश्च, न० त० ।

बन्धुभिन्ने, अप्राप्ते, “यस्यानाप्तः सूर्य्यस्येव ऋ० १, १००, २,
“अनाप्तः परैरप्राप्तः” इति भा० । यथार्थनिश्चयवद्भिन्ने
“युग्यस्थाः प्राजकेऽनाप्ते सर्वे दण्ड्याः शतं शतमिति” मनुः ।

अनाभयिन् त्रि० आबिभेति आ + भी--उणा० इनि न० त० ।

सम्यग्भीतभिन्ने । “अनाभयिन्नरिमा ते” ऋ० ८, २, १, ।

अनाभू त्रि० आभिमुख्येन भवति आभूः स्तोता न० त० ।

स्तोतृभिन्ने आभिमुख्याप्राप्ते च । “इन्द्रःश्नथयन्ननाभुव”
इति ऋ० १, ५१, ९, ।

अनामन् न० अननमनः अनं जीवनम् अमयति रुजति अम--

कनिन् । अर्शोरोगे । नास्ति नामास्य नामशून्ये मलमासे
पु० तस्य वैदिककर्म्मानर्हतयाऽनामत्वात्तत्त्वम् ।
नामशून्ये त्रि० अनामिकायामपि पु० शब्दरत्ना० । स्वार्थे
कन् । तत्रार्थे ।

अनामय पु० अम--घञ् आमं तापं यात्यनेन या--क

आमयो रोगः न० त० । रोगाभावे आरोग्ये । “ब्राह्मणं
कुशलं पृच्छेत् क्षात्रबन्धुमनामयमिति” मनुः । न० ५ ब० ।
वाह्याभ्यन्तरपीड़ानिवारके विष्णौ पु० “पुण्यकीर्त्तिरना-
मय” इति विष्णु स० । रोगशून्ये त्रि० । “जन्म-
बन्धविनिर्मुक्ताः पदं गच्छन्त्यनामयमिति” गीता ।

अनामयित्न, अम--णिच्--बा० इत्नुच् न० त० । व्यथकभिन्ने

“हस्ताभ्यामनामयित्नुभ्यामिति” ऋ० १०, १३७, ७, ।

अनामा स्त्री ब्रह्मणः शिरश्छेदनसाधनतया ग्रहणायोग्यत्वात्

नास्ति नाम ग्रहणयोग्यं यस्याः, नास्ति अङ्गुष्ठतर्जन्यादि-
वत् विशेषनामास्य वा मनन्तत्वात् डाप् । स्वनामप्रसिद्धायां
मध्यमाकनिष्ठयोः मध्यगायामङ्गुल्याम् । स्वार्थे कन् ।
अनामिकाप्यत्र । तया हि शिवेन ब्रह्मशिरच्छिन्नमिति पुराणे
प्रसिद्ध्वम् तेन तस्या अपवित्रजातीयता अतएव तस्याः
पवित्रीकरणार्थं यज्ञादौ पवित्रनामककुशधारणं तत्र क्रियते ।
“अनामिकाधृता दर्भा ह्येकानामिकयापि वा, द्वाभ्यामना-
मिकाभ्यां तु धार्य्ये दर्भपवित्रके” इति छन्दो० प० ।

अनामृण त्रि० आमृणाति हिनस्ति आ + मृण--क न० ब० ।

हिंसकरहिते । “अनामृणः कुविदादस्य ऋ० १, ३३१, ।

अनायत्त त्रि० न आयत्तः । अवशे अनधीने । “एतावज्जन्म-

साकल्यं यदनायत्तवृत्तितेति” हितो० ।

अनायन न० न आयनं चालनम् यत्र । एकान्ते हेम०

एकान्तानायनमित्येकं नामेति केचित् ।

अनायास पु० आ--यस घञ् अल्पार्थे न० त० । प्रयत्नाभावे,

अल्पप्रयासे, अक्लेशे च । “शरीरं पीड्यते येन शुभेना-
प्यशुभेन वा । अत्यन्तं तन्न कुर्वीत अनायासः स उच्यते”
अत्रि० । ब० । प्रयत्नशून्ये त्रि० । “ममाप्येऽकस्मिन्न-
नायासे कर्मणि सहायेन भवता भवितव्यमिति” शकु० ।

अनायासकृत न० अनायासेन अल्पप्रयत्नेन कृतं न० त० ।

अल्पायासेन साध्ये फाण्टे क्वाथे ।

अनायुष्य न० आयुषे हितम् आयुस् + यत् न० त० । आयुर-

हितकरे अतिभोजनादौ । “अनारोग्यमनायुष्यमस्वर्ग्यञ्चा-
तिभोजनम्” इति “नहीदृशमनायुष्यं लोके किञ्चन विद्यते
यादृशं पुरुषस्यैव परदारोपसेवनमिति” च मनुः । “तत्र
प्रथमदिवसे ऋतुमत्यां मैथुनगमनमनायुष्यं पुंसामिति”
सुश्रुतम् एवमन्यान्यपि बहूनि अनायुष्याणि तत्र स्थाने
स्थाने दर्शितानि । तत एव तानि बोध्यानि ।

अनारत न० आ + रम--क्त आरतं विरतिः अत्यन्ताभावे न० त० ।

सन्तते, अविरामे अविच्छेदे च । “अनारतं तेन पदेषु
लम्भिता” इति भार० । ब० । तद्वति त्रि० ।

अनारभ्य अव्य० आ + रभ--ल्यप् न आरभ्य । किञ्चिदनधि-

कृत्येत्यर्थे । “अनारभ्याधीतत्वादिति” मीमांसा । न आरभ्यः
न० त० । आरभ्यभिन्ने त्रि० । अनारभ्यत्वादिति का०
१, ८, ३, “नैवायमारम्भणीऽर्थ” इति व्याख्या । “अनारभ्य-
त्वाच्चेति” इति कात्या० २०, ८, २९, । “तस्मादनारभ्योऽय-
मर्थ” इति व्याख्या ।

अनारभ्याधीत त्रि० न आरभ्य किञ्चित् अधीतः । किञ्चि-

दनधिकृत्य अधीते, येषां मन्त्राणां कर्म्मविशेषे विनियोगो
नोक्तस्तेषां मन्त्राणामनाराभ्याधीतत्वात् ब्रह्मयज्ञे एव विनि-
योग इति मीमांसायां स्थिरीकृतम् । “सामान्येन तु विनि-
योगो यद्यपि ब्रह्मयज्ञविशेष” इति ऋ० भा० माधवः ।
पृष्ठ ०१६०

अनारम्भः पु० न आरम्भः अमावार्थे न० त० । आरम्भा-

भावे अनुष्ठानाभावे । “न कर्म्मणासनारम्भान्नैष्कर्म्यं
पुरुषोऽश्नुते इति” गीता ।

अनारोग्य न० न आरोग्यम् । “आरोग्याभावे । नास्ति

आरोग्यं यस्मात् ५ ब० । आरोग्यासाधने “अनारोग्य-
मनायुष्यमस्वर्ग्यं चातिभोजनमिति” मनुः ।

अनार्ज्जव पु० ऋजोर्भाव आर्ज्जवं सरलता स्वाच्छन्द्यं वा न०

७ ब० । रोगे । अभावार्थे अव्ययी० । ऋजुत्वाभावे
अव्य० । ६ ब० । कुटिले त्रि० ।

अनार्त्तव त्रि० ऋतुरस्य प्राप्तः ऋतु + अण् न० त० । स्वकाल

रूपे--ऋतौ--अनुत्पन्ने कुमुमादौ । ऋतोः स्त्रीकुसुमस्येदम्
विकाशनम् आर्त्तवं तन्नास्ति यस्याः । अदृष्टरजस्कायां
स्त्रियां स्त्री ।

अनार्य्य पु० न आर्य्यः न० त० । आर्य्यभिन्ने असच्चरिते ।

“अनार्य्य इति मामार्य्या इति” रामा० । न० ७ ब० ।
आर्य्यानाश्नये देशे ।

अनार्य्यक न० । न आर्य्यो यत्र देशे तत्र आर्य्यावर्त्तादिभिन्ने

द्वीपान्तरादौ भवः अनार्य्य + कन् । अगरुकाष्ठे ।

अनार्य्यज न० । अनार्य्ये देशे जायते जन--ड । अनार्य्यदेश-

जाते अगरुकाष्ठे । तद्देशजातमात्रे त्रि० ।

अनार्य्यतिक्त पु० अनार्य्यप्रियस्तिक्तः शाक० त० । (चिराता)

इति ख्याते भूनिम्बे वृक्षे ।

अनार्ष त्रि० ऋषिजुष्टत्वादृषिर्वेदस्तत्रोक्तः आर्षः न० त० ।

अवैदिके वेदाप्रयुक्ते । “संबुद्धौ शाकल्यस्येतावनार्षे” इति
पा० । “अनार्षे अवैदिके” इति सि० कौ० । ऋषिणा
दृष्टम् अण् आर्षम् न० त० । ऋषिणाऽदृष्टे । “अणि-
ञोरनार्षयोर्गुरूपोत्तमयोरिति” पा० । “अनार्षयो किं?
वाशिष्ठीति” सि० कौ० ।

अनालोचि(डि)त त्रि० न आलोचि (डि) तः ।

अविवेचिते । “अनालोचितकार्य्यस्य वाग्जालं वाग्मिनो वृथेति”
माघः अनिर्लोचितेति वा पाठः ।

अनाविल त्रि० न आविलः । प्रसन्ने स्वच्छे कालुष्यरहिते ।

अनाविद्ध त्रि० न आविद्धः । अवाधिते । “अनाविद्धया

तन्वा त्वाजय” ऋ० ६, ७५, १ ।

अनावृत्त त्रि० न आवृत्तः अभ्यस्तः । अपुनर्गते प्रथमगते च ।

“मलमासेऽप्यनावृत्तां तीर्थयात्रां विवर्जयेदिति” स्मृतिः ।

अनावृत्ति स्त्री न आवृत्तिः पुनर्गमनम् । अभ्यासाभावे,

आगमनाभावे च “अनावृत्तिः शब्दादिति” शा० सू० ।
“तत्र प्राप्तविवेकस्यानावृत्तीति” सां० सू० । ब० ।
तद्वति त्रि० ।

अनावृष्टि स्त्री आ + वृष--क्तिन् “अभावार्थे न० त० ।

“अतिवृष्टिरनावृष्टिः शलभामूषिकाः स्वगाः । प्रत्यासन्नाश्च
राजानः षडेते ईतयः स्मृता” इत्युक्ते ईतिभेदे “द्वादश-
वार्षिक्यामनावृष्ट्यामिति” हितो० ।

अनाशक पु० आ सम्यक् यथेच्छम् आशः अशनम् आ + अश

घञ् न० ब० कप् नश्यति नश--ण्वुल् न० त० वा । यथेच्छभोग-
शून्ये, अनश्वरे च “तमेतं ब्राह्मणा विविदिवन्ति वेदानु-
वचनेन यज्ञेन तपसाऽनाशकेनेति” श्रुतिः । फलकामना-
शून्यत्वेन, भोगाय फलाजनकत्वात् तादृशकर्मणश्च भोगेन
क्षयाभावाच्च तथात्वम् ।

अनाशकायन न नश्यति अनाशक आत्मा तस्यायनं प्राप्त्यु-

पायः । आत्मज्ञानसाधने ब्रह्मचर्य्यभेदे, “अथ यदनाश-
कायनमित्याचक्षते ब्रह्मचर्य्यमेव तदेष ह्यात्मा न नश्यति
यं ब्रह्मचर्य्येणानुविन्दते” इति छा० उ० ।

अनाशस्त त्रि० आ + शन्तु स्तुतौ--क्त न० त० । अस्तुते ।

“अनाशस्त इवास्मसि” ऋ० १, २९, १, ।

अनाशिन् त्रि० न नश्यति नश--णिनि, कर्म्मफलमश्नुते

अश--णिनि वा न० त० । अनश्वरे आत्मनि, ईश्वरे च,
“अनाशिनोऽप्रमेयस्येति” गीता “अन्योऽनश्नन्नभिचाक-
शीति” श्रुतेरीश्वरस्य फलभोक्तृत्वाभावात्तथात्वम् । नाशरहिते
त्रि० “नश्यतो विनिपातेनाविनिपाते त्वनाशिनौ” मनुः ।

अनाशु त्रि० नश--उण्--अश--व्याप्तौ कर्मणि उण् वा न० त० ।

विनाशरहिते, अव्याप्ने च । “धन्वन् विद्ये अनाशव”
इति ऋ० १, १३५, ९, “अनाशवः विनाशरहिताः
अव्याप्ता वा इति भा० । न आशुः शीघ्रः न० त० । क्षिप्र-
भिन्ने । “अविप्रे चिद्वयोदषदनाशुनेति ऋ० ६, ४५, २,
“अनाशुना अक्षिप्रगमनेनेति” भा० ।

अनाश्रमिन् पु० न आश्रमी न० त० । गृहस्थाद्याश्रमशून्ये

“अनाश्रमी न तिष्ठेत्तु क्षणमेकमपि द्विज” इति स्मृतिः ।

अनाश्रय त्रि० नास्ति आश्रयो यस्य । आलम्बनरहिते ।

अनाश्वस् त्रि० अश--भोजने क्वसु नि० । गोगशून्ये उपेयि-

ननाश्वाननूचानश्चेति पा० “धृतजयधृतेरनाशुष” इति
भारविः ।

अनाश्वास पु० अभावार्थे न० त० । आस्थाभावे विश्वासा-

भावे “प्रत्यक्षपूर्ब्बकत्वादनुमानस्य सर्व्वत्रानाश्वासप्रसङ्गा-
दिति” वृ० उ० भा० ।
पृष्ठ ०१६१

अनास् त्रि० आस्यते निरास्यते ष्ठीवनमनेन आ + अस--क्षेपे

करणे क्विप् आः मुखं नास्ति तत् साधनत्वेनास्य । आस्य-
व्यापारशब्दरहिते । “अनासोदस्यूँरमृण” इति ऋ० ५, २९,
१०, “अनासः आस्यरहितानि तद्व्यापारशून्यानीति” भा० ।

अनासिक त्रि० नास्ति नासिकाऽस्य । भग्ननासिके विकृत

नासिके च ।

अनास्था स्त्री आ + स्था--अङ् आस्था आदरः अभावार्थे

न० त० । अनादरे । “स्त्री पुमानित्यनास्थैषा वृत्तं हि
महितं सतामिति” कुमा० “अनास्थया सूनकरप्रसा-
रिणीमिति” नैष० । न० ब० । आदररहिते त्रि० ।

अनास्थान त्रि० आस्थीयतेऽस्मिन् आ + स्था--आधारे ल्युट्

आस्थानोभूप्रदेशः न० त० । आस्थानायोग्ये जलादौ ।
“अनारम्भणे तदवीरयेथामनास्थाने” इति ऋ० १, ११६, ५ ।
आस्थानं सभा । तच्छून्ये च ।

अनास्राव आ + स्रु--वेदे घञ् न० ब० । क्लेशरहिते । लोके तु

अप् अनास्रव इति । “तेषामसि त्वमुत्तममनास्रावमरोगण-
मिति अथ० २, ३, २ ।

अनाह पु० नह--घञ् न० त० । मलादिबन्धाभावोपलक्षिते-

ग्रहणीरोगे ।

अनाहत न० आ--हन--भावे क्त आहतं छेदो भोगो वा न०

ब० । छेदभोगादिरहिते नवीने वस्त्रे । तन्त्रशास्त्रे
प्रसिद्धे हृदयस्थिते सुषुम्णामध्यस्थे द्वादशदलपद्मे “शब्दो
ब्रह्ममयः, शब्दोऽनाहतो यत्र दृश्यते अनाहताख्यं तत्
पद्मं मुनिभिः परिकीर्त्तितमित्युक्तलक्षणे । नाभिस्थं मणिपूरं
चक्रं वर्णयित्वा “तदूर्द्ध्वेऽनाहतं पद्ममुद्यदादित्यसन्निभम् ।
कादिठान्ताक्षरैरर्कपत्रैश्च समधिष्ठितम् । तन्मध्ये
वाणलिङ्गन्तु सूर्य्यायुतसमप्रभम् । आनन्दसदनं तत्तु पुरुषाधि-
ष्ठितं परमिति” तन्त्रसारे उक्तम् । अस्मिन् पक्षे च
आहतमाघातः कण्ठताल्वाद्यभिघातः तन्नास्ति साधनत्वेनास्य
तादृशः शब्दः अस्यास्ति अर्श आदित्वात् अच् ।
अनाहतशब्देन च परा, पश्यन्ती, मध्यमा, वैखरीतिप्रसि-
द्वानां वाग्वृत्तीनां मध्ये मध्यमा वाक् कथ्यते तस्याश्च
हृदयपद्मे कण्ठादिस्थानमनाहत्यैवोत्पन्नत्वादनाहतत्वम्,
अधिकं मध्यमाशब्दे वक्ष्यते । ब० । आघातरहिते
वस्तुमात्रे त्रि० ।

अनाहार पु० न आहारः अभावार्थे न० त० । भोजनाभावे

“अनाहारेणात्मानं तव द्वारि व्यापादयिष्यामीति”
हितो० । “अनाहारेण देहिन” इति पुरा० ।

अनाहार्य्य त्रि० आहार्य्यः कृत्रिमः आहरणीयश्च न० त० ।

अकृत्रिमे स्वाभाविके, आहरणीयभिन्ने च ।

अनाहिताग्नि पु० न आहितः अग्निर्येन । विधिना अकृता-

ग्न्याधाने निरग्नौ द्विजभेदे । “योऽनाहिताग्निः
शतगुरयज्वा तु सहस्रगु” रिति मनुः । ‘अनाहिताग्निश्रुतेश्चेति’
कात्या० ४, १, २९, “अनाहिताग्नेरपि पिण्डपितृयज्ञः
श्रूयते” इति तद्व्याख्या सा च श्रुतिस्तत्रैव दर्शिता
“अप्यनाहिताग्निना कार्य्य इति” “यदि स दर्शाङ्गं स्यात्
अनाहिताग्ने र्दर्शपौर्णमासाभावान्न श्रूयेतेति” तद्याख्या ।

अनिकेत पु० नास्ति निकेतः नियमेन निवासो यस्य ब० ।

नियतनिवासशून्ये परिव्राजके । “अनग्निरनिकेतः स्यान्मुनि
र्मूलफलाशन” इति “अनग्निरनिकेतः स्याद्ग्राममन्नार्थ
माश्रयेदिति” च मनुः “अनिकेतः स्थिरमतिरितिः” गीता
अनिकेतनोऽप्युक्तार्थे ।

अनिक्षु न० न इक्षुः सादृश्ये, अप्राशस्त्ये वा न० त० ।

इक्षुसदृशे गुड़हेतौ (नटा) इति ख्याते काशभेदे ।

अनिगीर्ण्ण त्रि० न निगीर्णः । अनपह्नुतभेदे, “विषयस्यानि-

गीर्णस्यान्यतादात्म्यप्रतीतिकृत् सारोपा स्यादिति” सा० द० ।
(अनिगीर्णस्य) अनपह्नुतभेदस्य (विषयस्य) आरोपविषयस्य
आरोप्यमाणस्य, (अन्यस्य) आरोपाश्रयस्य तादात्म्यमभेद-
स्तत्प्रतीतिकृत् तद्बोधसाधनं वृत्तिः सारोपा लक्षणेति
तदर्थः यथा अश्वः श्वेतो धावतीत्यादौ श्वेतगुणवानश्वोऽन-
पह्नुतभेदः सन् स्वसमवेतश्वेतगुणतादात्म्येन प्रतीयते इत्य-
तस्तत्र सारोपा लक्षणा ।

अनिच्छा स्त्री न इच्छा अभावार्थे न० त० । इच्छाभावे

“स्फुटामनिच्छां विवरीतुमुत्सुकामिति नैष० । “चरेत्
सान्तपनं कृच्छ्रं प्राजापत्यमनिच्छयेति” मनुः ।

अनित्य त्रि० न नित्यः । नश्वरे, जन्ये च । “नित्याऽनित्या च

च सा द्वेधा नित्या स्यादणुलक्षणा । अनित्या तु तदन्या-
स्यादिति” भाषा० । “यदि नित्यमनित्येन निर्मलं मलवा-
हिना । यशः कायेन लभ्येतेति” हितो० “रजस्वलमनित्यञ्च
भूतावासमिमं त्यजेदिति” मनुः । अस्थिरे “अनित्योविजयो
यस्मात् दृश्यते युध्यमानयोः । पराजयश्च संग्रामे तस्माद्युद्धं
विवर्जयेदिति” मनुः । कृताकृतप्रसङ्गि नित्यं विरोधे न० त० ।
कृताकृतप्रसङ्गशून्येवैकल्पिके, “समासान्तविधेरनित्यत्वमिति”
पा० भा० । यावदाश्रयमवस्थानायोग्ये, “वर्णे चानित्ये” इति
पा० । अव्यवस्थिते, (यावदाश्रयमदनवस्थिते) “इह खलु
द्रव्यं व्यवस्थितं न रसादयः, यथा आमे फले, ये रसादयस्ते
पृष्ठ ०१६२
पक्वे न सन्ति, नित्यत्वाच्च नित्यं द्रव्यम् अनित्या गुणा
यथा कल्कादिप्रविभागः, सएव सम्प्रन्नरसगन्धो व्याप-
न्नरसगन्धो वा भवतीति” सुश्रुतम् अतएव “सत्वे निवि-
शतेऽपैति पृथग्जातिषु दृश्यते । आधेयश्चाक्रियाजश्च-
सोऽसत्वप्रकृतिर्गुण” इति गुणलक्षणे गुणानामुत्प्यद-
विनाशोक्तिः । सदातनभिन्ने काले च । “अनित्यं हि स्थिति
र्यस्मात्तस्मादतिथिरुच्यते” इति मनुः । अनित्यमित्यत्र
व्याप्तौ, कालाधिकरणे वा द्वितीया न मान्ताव्ययत्वमस्य तथात्वे
प्रमाणाभावात् । सदाकालवृत्तिपरत्वेऽपि धातूपस्थाप्यसाध्य-
क्रियाविशेषणत्वेन सञ्चारोरतिमन्दिरावधीत्यादिवत् द्विती-
येति बोध्यम् । नित्यम् मान्तमव्ययम् न० त० । केचित् ।

अनिद्रा स्त्री न निद्रा अभावार्थे न० त० । निद्राभावे “हृद्ग्रह-

लौल्यमनिद्रा स्तम्भ” इति सुश्रुतम् । निद्राराहित्ये च
रोगविशेष एव कारणम् । नास्ति निद्रा यस्य । निद्रारहिते
आलस्यरहिते त्रि० “अनिद्रौ षड़होरात्रं तपोवनमरक्ष-
तामिति “प्रजा नित्यमनिद्रेण यथाशक्त्यभिरक्षिता”
इति च रामा० । “अनिद्रेण अनलसेनेति” तदर्थः ।

अनिन्दित त्रि० न निन्दितः । निन्दारहिते प्रशस्ते

“अनिन्दितैः स्त्रीविवाहैरनिन्द्या भवति प्रजेति” मनुः ।

अनिन्द्र त्रि० न इन्द्रोयाज्योयस्य । इन्द्रोपासनाशून्ये “माम-

निन्द्राः कृणवन्ननुक्थाः ऋ० ५, २, ३, “अनिन्द्रा इन्द्र-
मयजन्त” इति भाष्यम् ।

अनिबद्ध त्रि० न निबद्धः । अनायत्ते, “अनायतो अनिबद्ध”

इति ऋ० ४, १३, ५ । ग्रथितभिन्ने च ।

अनिबाध त्रि० नास्ति निबाधः संबाधा यस्य । संबाधरहिते

“उरौ महाँ अनिबाधे ववर्द्ध” इति ऋ० ३, १, ११,
अनिबाधे असंबाधे इति भा० ।

अनिभृत त्रि० निभृतः न० त० । चञ्चले “भुवमनिभृत-

वेलेति” भा० । “वेलाश्चञ्चला” इति मल्लि० ।

अनिभृष्ट त्रि० नि + भ्रन्श क्त नि० न० त० । अबाधिते ।

अनिभृष्टतविषिर्हन्त्योजसा “ऋ० २, २५, ४, अनिभृष्ट-
तविषिः अवाधितबल” इति भा० ।

अनिमक पु० अन--जीवने शब्दे च भावे बा० इमन्

“अनिमः जीवनं तेन कायति प्रकाशते कै--क । भेके ।
तस्य मरणेऽपि पुनरुज्जीवनात्तथात्वम् । कोकिले, भ्रमरे
च तयीः मधुरशब्देन प्रकाशमानत्वात्तथात्वम् । अनिमाय
जीवनाय कं जलं यस्य । पद्मकेशरे । अनिमाय कं सुखं
यस्मात् । मधूके (मौल) वृक्षे मेदिनिः ।

अनिमान त्रि० नि + मा--भावे ल्युट् न० ब० । परिच्छेद-

रहिते “स नो महाँ अनिमानो धूमकेतुः ऋ० १, २७, ११
“अनिमानः अपरिच्छिन्न” इति भा० ।

अनिमित्त न० न निमित्तम् । निमित्ताभावे कारणाभावे

“अनातुरः स्वानि खानि न स्पृशेदनिमित्तत” इति मनुः
न० व० । कारणशून्ये त्रि० ।

अनिमिष् त्रि० नि + मिष--भावे क्विप् स नास्ति यत्र ।

स्पन्दशून्ये दर्शने “इमे दिवो अनिमिषा” इति ऋ० ७,
६०, ७, “मित्रः कृष्णीरनिमिषा” इति ऋ० ३, ५९, १,
अनिमिषा निमिषरहितेनेति भा० ।

अनिमि(मे)ष पु० नास्ति निमि(मे)षः चक्षुःस्पन्दनं यस्य मिष

घञ् कुटादि० न गुणः, मिष--भ्वादि घञ्--वा, । चक्षुः-
स्पन्दनशून्ये देवे “सुरेषु नापश्यदवैक्षताक्ष्णोर्नृपे निमेषं
निजसम्मुखे सेति” नैषधे सुराणां निमेषशून्यत्वमुक्तम्
“अस्वप्नजो अनिमिषा” इति २, २७, ९ संक्रन्दनो
अनिमिष एकवीर इति च ऋ० १०१०३, १ । मत्स्ये च ।
निमिषो दृष्टिप्रतिबन्धस्तच्छून्ये विष्णौ च । “नैमिशऽनि-
मिषक्षेत्रे” इति भाग० “अनिमिषः विष्णुः अलुप्तदृष्टित्वात्
तस्य क्षेत्रे इति श्रीधरः । न निमिषति चलतीति नि + मिष
--क न० त० । महाकाले । क्रियाशून्ये वस्तुमात्रे त्रि० । स्पन्द-
नशून्ये त्रि० । “शतैस्तमक्ष्णामनिमेषवृत्तिभिरिति” रघुः ।

अनियत त्रि० न नियतः । नियमेनैकरूपशून्ये, अनित्ये

अस्थायिनि “रत्यादयोऽप्यनियते रसे स्युर्व्यभिचारिण”
इति सा० द० । नियतकारणाद्यनपेक्षे च “रिष्टं त्रिविधं
मुनयीनियतमनियतं योगजञ्चेति” ज्योति० ।
अनियन्त्रिते च ।

अनियन्त्रित त्रि० नि + यन्त्र चु० क्त न० त० । अनियमिते उच्छृङ्खले च ।

अनियम पु० न नियमः अभावार्थे न० त० । नियमा

भावे । “पञ्चमं लघु सर्वत्र सप्तमं द्विचतुर्थयोः । षष्ठे पादे
गुरु ज्ञेयं शेषेष्वनियमोमत” इति छन्दो० ।

अनिरा स्त्री नास्ति इरा अन्नं यस्याः ५ ब० । अतिवृष्ट्यादौ

ईतौ । “व्यस्यन् विश्वा अनिरा” इति यजु० ११, ४७,
अनिराः अतिवृष्ट्याद्या इति वेददीपः । न
ईरयितुं शक्यते ईर--क पृ० ह्रस्वः न० त० । प्रेरयितु-
मशक्ये । “अपत्या अस्थुरनिरा” इति ऋ० ८, ४८, ११,
“अनिरा प्रेरयितुमशक्या” इति भा० । ७ ब० । अन्नरहिते
दारिद्र्ये च “युयुतमस्मदनिराममीवामिति” ऋ० ७, ७१, २,
“अनिरामन्नदारिद्र्यमिति” भा० ।
पृष्ठ ०१६३

अनिराकरण न निराकरणमभावार्थे न० त० । निवा-

रणाभावे “अनिराकरणात् कर्त्तुस्त्यागाङ्गकर्मणेप्सित-
मिति” हरिः ।

अनिरुक्त त्रि० निष्क्रान्तं उक्तमवयवार्थं निर्बद्धमुक्तमवयवार्थो

येन वा निरुक्तं निर्वचनम् न० त० । विशेषरूपेण निर्व-
चनशून्ये “एतस्मिन्नदृश्येऽनात्म्येऽनिरुक्ते” इति ऐत० ।
निर्वचनञ्च निरुक्ते यास्केन दर्शितं यथा “अथ
निर्वचनम् तदेषु पदेषु स्वरसंस्कारौ समर्थौ, प्रादेशिकेन
गुणेनान्वितौ स्यातां, तथा तानि निर्ब्रूयादथानन्वितेऽर्थे-
ऽप्रादेशिके विकारेऽर्थनित्यः परीक्ष्येत केनचिद्वृत्तिसामा-
न्येनाविद्यमाने सामान्येऽप्यक्षरवर्णसामान्यान्निर्ब्रूयात्
नत्वेन न निर्ब्रूयान्न संस्कारमाद्रियेत विषयवत्यो हि
वृत्तयो भवन्ति । यथार्थं विभक्तीः संनमयेत्प्रत्तमवत्तमिति
धात्वादी एव शिष्येते । अथाप्यस्तेर्निवृत्तिस्थानेष्वादिलोप्
भवति स्तः सन्तीति, अथाप्यन्तलोपो भवति गत्वा गतमिति,
अथाप्युपधालोपो भवति जग्मतुर्जग्नुरिति, अथाप्युपधा-
विकारो भवति राजा दण्डीति, अथापि वर्णलोपी भवति
तत्त्वा यामीति अथापि द्विवर्णलोपः तृच इति, अथ
प्यादिविपर्ययो भवति ज्योतिर्धनो विन्दुर्वाद्य इति
अथाप्याद्यन्तविपर्ययो भवति स्तोको रज्जुः सिकतास्तर्कु इति
अथाप्यन्तव्यापत्तिर्भवति” इति ॥ तथा प्रकृतिप्रत्ययानपे-
क्षयैव समुदायेन विशिष्टार्थबोधकमपि निरुक्तं यथोक्तम्
ऋ० भा० माधवेन यथा “प्रकृतिप्रत्ययार्थमनपेक्ष्य
विशिष्टैकार्थबोधकं पदं निरुक्तमिति” । अनिर्दिष्टे “अनि-
रुक्तप्रातःसवनः प्रथम” इति कात्या० २२, ५, ७, “अनि-
रुक्तं प्रातःसवनं यस्यासौ प्रथम” इति तद्व्याख्या ।

अनिरुद्ध पु० न केनापि युद्धेन निरुद्धः नि + रुध--क्त न० त० ।

कामदेवपुत्रे, उषापतौ, वासुदेवसङ्कर्षणप्रद्युभ्नानिरुद्धाख्य-
चतुर्व्यूहस्य परमेश्चरस्य कथमप्यनिषेध्यस्य अत्यन्तचलस्य
चेतसोऽधिष्ठातरि अनिरुद्धाख्ये अंशे च अनिरुद्धः सुरा-
नन्द” इति विष्णु० स० । “न केनापि प्रादुर्भावेषु निरु-
ध्यते” इति भा० “अनिरुद्धोऽप्रतिरथ” इति विष्णु सह० ।
“चतुर्षु व्यूहेष्वनिरुद्ध” इति भा० “संकर्षणोवासुदेवः
प्रद्युम्नश्चानिरुद्धकः । व्यूहश्चतुर्विधो ज्ञेयः सूक्ष्मं सम्पूर्ण-
षड़्गुणमिति” रामा० दर्श० । विवरणं रामानुजशब्दे
वक्ष्यते । अप्रतिरुद्धे त्रि० ।

अनिरुद्धपथ न० न निरुद्धः पन्था यत्र ब० । आकाशे तत्र

हि कस्यापि गतिरोधनाभावः । रुद्धवर्त्सभिन्ने त्रि० ।

अनिरुद्धभाविनी स्त्री ६ त० । उषायां वाणकन्यायां तस्या-

स्तत्पत्नीभवनकथा च उषापतिशब्दे दृश्या ।

अनिर्ज्ञात त्रि० न निर्ज्ञातः निश्चितो प्राप्तो वा । अप्राप्ते

अनिश्चिते च “क्रिया हि अनिर्ज्ञातकालादिक्रियायाः
परिच्छेदकत्वात् लक्षणं भवतीति” प्रौ० मनो० ।
अनिर्ज्ञातप्राप्त्यर्थं प्रतीक्षणं प्रतीक्षेति कठ० उ० भा० । प्राप्तं हि
यथा स्वरूपं ज्ञातुं शक्यते नाप्ताप्तमित्यतोऽप्राप्तस्यानि-
र्ज्ञातत्वम् ।

अनिर्णय न निर्णयः अभावे न० त० । निश्चयाभावे अवधारणाभावे ।

अनिर्दश त्रि० न निर्गतानि दश दिनानि यस्य डच्समा० ।

अनपगतदशाहे । “उग्रान्नं सूतिकान्नञ्च पर्य्याचान्तमनि-
र्द्दशमिति” अनिर्दशञ्च प्रेतान्नमिति, “तावत् स्यादशुचि-
र्विप्रो यावत्तत् स्यादनिर्दशमिति” “विगतं तु विदेशस्थं
शृणुयाद्यो ह्यनिर्दशमिति” “अनिर्दशायाः गोःक्षीरमौष्ट्र-
मेकशफं तथेति च” मनुः । अनिर्दशाहमप्यत्र त्रि० ।
“अनिर्दशाहां गां सूतामिति” मनुः ।

अनिर्द्देश्य त्रि० न निर्द्देश्यं जातिगुणक्रियासंज्ञाभिर्निर्देष्टुम-

शक्यम् निर् + दिश्--शक्यार्थे ण्यत् न० त० । निर्विशेषे
निर्धर्म्मके परमात्मनि तस्य जातिगुणाद्यभावेन “इदं
तदिति” निर्देशायोग्यत्वात्तत्त्वम् । “यत्तत् सूक्ष्ममनिर्देश्य-
मिति” श्रुतिः । “ब्रह्मन्! ब्रह्मण्यनिर्देश्ये निर्गुणे
गुणवृत्तय” इति भाग० १० म श्रुत्य० । अनिर्देश्यवपुः
श्रीमानिति विष्णु स० । “इदं तदिति निर्देष्टुं यन्न शक्यते
परस्मै, स्वयं वेद्यत्वादिति” भाष्यम् ।

अनिर्द्धारित त्रि० न निर्द्धारितः । अवघारितभिन्ने अनिश्चिते ।

अनिर्माल्या स्त्री निर्--मल--ण्यत् न० त० । पृक्कान्नामको

षधौ शब्दरत्ना० ।

अनिर्वचनीय पु० निर्वचनं निरुक्तिः लक्षणादिना ज्ञापनम् ।

एबंरूपतया निर्वक्तुमशक्ये परमात्मनि । सत्त्वासत्त्वाभ्या-
मेकतररूपेण निर्वक्तुमशक्ये वेदान्तिमते जगति, अज्ञाने च
न० । “अज्ञानञ्च सदसद्भ्यामनिर्वचनीयं त्रिगुणात्मजं
ज्ञानविरोधि भावरूपं यत्किञ्चिदिति” वे० सा० ।

अनिर्वचनीयसर्वस्व न० अनिर्वचनीयं सर्व्वस्वं यस्य ।

श्रीहर्षप्रणीते खण्डनखण्डखाद्यापरपर्य्याये ग्रन्थभेदे
तत्र हि सर्व्वेषां पदार्थानामिदन्तया निर्वक्तुमशक्यता
व्यवस्थिता ।

अनिर्वृति स्त्री न निर्वृतिः स्वाच्छन्द्यमभावार्थे न० त० ।

स्वाच्छन्द्याभावे तद्रूपोपलक्षिते दारिद्र्ये च “अनिर्वृति-
निशाचरी मम गृहान्तरालं गते” त्युद्भटः । ब० । तद्वति त्रि० ।
पृष्ठ ०१६४

अनिर्वेद पु० न निर्वेदः अभावार्थे न० त० । निर्वेदाभावे

वैराग्याभावे अवैराग्ये, असन्तोषे च “अनिर्वेदः श्रियोमूल-
मनिर्वेदमयं सुखम् “अनिर्वेदो हि सततं सर्वार्थेष्वनुवर्त्तते”
इति रामा० ।

अनिल पु० अनित्यनेन अन--इलच् । वायौ, तेनैव सर्वेषां

प्राणधारणात्तत्त्वम् । “तप्तकृच्छ्रं चरन् विप्रो जलक्षीर-
घृतानिलान्” इति सोमाग्न्यर्कानिलेन्द्राणां वित्ताप्पत्योर्यमस्य
चेति” मनुः । “स सखा दीप इवानिलाहत” इति कुमा० ।
अनिलश्च मायासहकृतेन ब्रह्मणा वियदुत्पाद्य तद्रूपाविष्टेन
ततोदशांशत उत्पादितः द्रव्यभेदः “तस्मादेतस्माद्वा आत्मन
आकाशः संभूतः आकाशात् वायुः वायोरग्निरित्यादि-
श्रुतिः, स च स्वाभाविकशोषस्पर्शगतिवेगाख्यगुणवान्
वियत उत्पन्नत्वात् शब्दगुणवांश्च । यथोक्तं पञ्चदश्यां
“माया सत्येकदेशस्था यथा तत्रैकदेशगम् । वियत्, तत्रा-
प्येकदेशगतो वायुः प्रकल्पितः । शोषस्पर्शोगतिर्वेगो वायु-
धर्म्मा इमे मताः । त्रयः स्वभावात् सन्मायाव्योभ्रां
ये तेऽपि वायुगाः । वायुरस्तीति सद्भावः, सतोवायौ
पृथक्कृते । निस्तत्वरूपो मायायाः स्वभावो वियतोध्वनि-
रिति “पुराणोक्तं तारतम्यं दशांशे भूतपञ्चके” इति च ।
तदाविष्टेनैव ब्रह्मणा वह्निरुत्पादित इति वेदान्तिमतम्
सांख्यमते सतु स्पर्शतन्मात्रादुत्पन्नः । वैशेषिकनये तु स्पर्श,
संख्या, परिमाण, पृथक्त्वसंयोगविभागपरत्वापरत्ववेग-
गुणकोऽनिलः ईश्वरादेव अदृष्टवशादुत्पद्यते इति भेदः
स च स्थूलः सूक्ष्मश्च । तत्र स्थूलः सप्तविधः सप्तस्कन्धा-
श्रितः यथोक्तं सिद्धान्तशिरमणौ “भूवायुरावह इह प्रव-
हस्तदूर्ध्वः स्यादुद्वहस्तदनु संवहसंज्ञकश्च । अन्यस्ततो-
ऽपि सुवहः परिपूर्वकोऽस्माद्वाह्यः परावह इमे पवनाः
प्रसिद्धाः । भूमेर्वहिर्द्वादशयोजनानि भूवायुरत्राम्बुदवि-
द्युदाद्यम् । तदूर्ध्वगो यः प्रवहः स नित्यं प्रत्यग्गति-
स्तस्य तु मध्यसंस्था । नक्षत्रकक्षा खचरैः समेतो यस्मा-
दतस्तेन समाहतोऽयम् । भपञ्जरः खेचरचक्रयुक्तो भ्रमत्य-
जस्र प्रवहानिलेन इति” । भूवायौ विद्युदादय उत्पद्यन्ते
इत्युक्तम् तेषां स्वरूपादि तट्टीकायामुक्तं श्रीपतिवाक्येन ।
“निर्घातोल्काघनसुरधनुर्विद्युदन्तः कुवायोः संदृश्यन्ते
खनगरपुरीवेषपूर्ब्बं तथान्यत्” इति । तत्र विद्युतः । “सुजल-
जलधिमध्ये वाड़वोऽग्निः स्थितोऽस्मात् सलिलभरनिमग्ना-
दुत्थिता धूममालाः । वियति पवननोताः सर्वतस्ता द्रवन्ति
द्युमणिकिरणतप्ता विद्युतस्तत्स्फुलिङ्गाः” । करकाः ॥
“उद्धूतैः पांसुभिर्भूमेः प्रचण्डपवनोच्चयात् । मेघमण्डलमा-
नीतैर्मालिन्यपरिवर्जितैः । मिश्रणाज्जलविन्दूनां पिण्डभावो
भवेदिह । दृषद्वन्निपतन्त्येते द्रवन्ते च पुनः क्षितौ” । विद्यु-
त्पातसंभवस्तु । “अकस्माद्वैद्युतं तेजः पार्थिवांशकमिश्रि-
तम् । वात्यावद्भ्रमदाघाते प्रतिकूलानुकूलयोः । वाय्वोस्तत्
पतति प्रायो ह्यकालं प्राप्य वर्षणे । यतः प्रावृषि नैवेते
पांसवः प्रसरन्ति हि । तत् त्रेधा पार्थिवं चाप्यं तैजसं,
तत्तदुत्थितः । गतो निर्झरदाहैश्च भूमिस्थैरनुभूयते” ।
इन्द्रधनुः । “सूर्य्यस्य विविधवर्णाः पवनेन विधट्टिताः
कराः साभ्रे । वियति धनुःसंस्थाना ये दृश्यन्ते तदिन्द्र-
धनुः, । परिवेषः । “संमूर्च्छिता रवीन्द्वोः किरणाः पवनेन
मण्डलीभूताः । नानावर्णाकृतयस्तन्वभ्रे व्योभ्रि परिवेषः” ।
उल्का । “यासां गतिर्दिवि भवेद्गणितेन गम्यास्तास्तारकाः
सकलखेचरतोऽतिदूरे । तिष्ठन्ति या अनियतोद्गतयश्च
ताराश्चन्द्रादधो हि निवसन्ति तदाश्रितास्ताः । शीतांशुव-
ज्जलमयास्तपनात् स्फुरन्ति ताश्चावहप्रवहमारुतसंधि-
संस्थाः । पूर्बानिलैस्तिमितभावमुपागतेऽस्मिंस्ताराः पतन्ति
कुहचिद्गुरुतावशेन” । अथ रजःसंहतिः । “वर्षान्ते निर्जला
मेघा वायुना विरलीकृताः । ईषद्बाष्पावशेषास्तु पतन्ति
वसुधातले । धूमावयवरूपैस्तैश्छाद्यन्ते गिरयो द्रुमाः ।
रामारामादयस्ते तु पुनरर्कांशुशोभिताः । भूवायुना विशी-
र्णास्तु विलीयन्ते नभस्तले । तद्रजःसंहतिर्धेनुमहिषी-
क्षीरनाशकृत्” । संध्यारागः । “भूम्युत्थितै रजीधूमैर्दि-
गन्तव्योम्नि संस्थितैः । सूर्य्याल्पकिरणैर्मिश्रैरारुण्यमव-
भासते । विरलावयवं वस्तु यद्दृष्टेर्व्यवधायकम् । तेना-
भ्रमरुणीभूतं दृश्यते शक्रचापवत् । संध्यारागः स विज्ञेयो
दिनादौ च दिनात्यये । राकायां तु निशावक्त्रे तथैवेन्दु-
करोद्यमे” इति । तदधिष्ठातृदेहोत्पत्तिर्मन्वन्तरभेदेन
वामनपुराणादौ दर्शिता यथा “पुलस्त्य उवाच । प्रविश्य
जठरं शुद्धोदैत्यमातुः पुरन्दरः । ददर्शोर्द्ध्वमुहं वालं
कटिन्यस्तकरं महत् ॥ तेनैव गर्भं दितिजं वज्जेणं
शतपर्वणा । चिच्छेद सप्तधा ब्रह्मन्! स रुरोद सुविस्वरम् ।
शक्रोऽपि प्राह मा मूढ़! रुदस्वेति सघर्घरम् । इत्येवमुक्त्वा
चैकैकं भूयश्चिच्छेद सप्तधा ॥ ते जाता मरुतो नाम
देवादित्याः शतक्रतोः । मातुरेवापचारेण बलवीर्य्यपुर-
स्कृताः इति ॥ “यदमी भवता प्रोक्ता मरुतोदिति सम्भवाः ।
तत् केन पूर्ब्बमासन् वै मरुन्मार्गेण कथ्यतामिति” नारद्-
पृष्ठ ०१६५
प्रश्ने पुलस्त्योक्तिः । “श्रूयताम् पूर्ब्बमरुतामुत्पत्तिं कथयामि
ते । स्वायम्ब्मुबं समारभ्य यावन्मन्वन्तरं त्विदम् ॥ स्वावम्भु-
वस्य पुत्रोऽभून्मनोर्नाम प्रियव्रतः । तस्यासीत् सवनो
नाम पुत्रस्त्रैलोक्यपूजितः ॥ खमुत्पपाताथ स कामचारी
समं महिष्या वसुमानपुत्र्या । रराम तन्व्या सह
कामचारी ततोऽम्बरात् प्राच्यवतास्य शुक्रम् ॥ पतिभिः
समनुज्ञाताः पपुः पुस्करसंस्थितम् । तं शुक्रं पार्थिवेन्द्रस्य
मन्यमानास्तदामृतम् ॥ पीतमात्रेण शुक्रेण पार्थिवेन्द्रो-
भद्भवेन च । ब्रह्मतेजोविहीनास्ता जाताः पत्न्यस्तप-
स्विनाम् ॥ सुषुवुः सप्त तनयांस्ते रुदन्तोऽथ भैरवम् ।
तेषां रुदितशब्देन सर्व्वमापूरितं जगत् ॥ अथाजगाम
भगवान् ब्रह्मलोकात् पितामहः । समभ्येत्याब्रवीद्बालान्
मा रुदध्वं महाबलाः! ॥ मरुतो नाम यूयं वै भविष्यध्वं
वियच्चराः । इत्येवमुक्त्वा देवेशो ब्रह्मा लोकपितामहः ॥
तानादाय वियच्चारी मारुतानादिदेश ह । ते चासन्
मरुतश्चाद्या मनोः स्वायम्भुवान्तरे” ॥ स्वारोचिषे तु मरुतो
वक्ष्यामि शृणु नारद! । स्वारोचिषस्य पुत्रश्च श्रीमानासीत्
क्रतुध्वजः ॥ तस्य पुत्राभवन् सप्त सप्तार्च्चिःप्रतिमा मुने! ।
तपोऽर्थं ते गताः शैलं महामेरुं नभश्चराः ॥
आराधयन्तो ब्राह्मणं पदमैन्द्रमथेप्सवः । ततो विपश्चिन्नामा स
सहस्राक्षो भयातुरः ॥ पृतनामप्सरोमुख्यां प्राह
नारद! वाक्यवित् । यथा हि तपसो विघ्नं तेषां भवति
सुन्दरि! ॥ तथा कुरुष्व मा तेषु, सिद्धिर्भवतु वै यथा ।
इत्येवमुक्ता शक्रेण पृतना रूपशालिनी ॥ तत्राजगाम
त्वरिता यत्र तप्यन्ति ते तपः । आश्रमस्याविदूरे तु
नदीमन्दोदवाहिनी ॥ तस्यां स्नातुं समायाताः सर्व्वएव
सहोदराः । सा तु स्नातुं सुचार्बङ्गी त्ववतीर्णा महानदीम् ॥
ददृशुस्ते नृपाः स्नातुं ततश्चक्षुभिरे मुने! । तेषाञ्च
प्राच्यवत् शुक्रं, तत् पपौ जलचारिणी ॥ शङ्खिनी
ग्राहमुख्यस्य महाशङ्खस्य वल्लभा । ते वै विनिष्टतपसो
जग्मू राज्यन्तु पैतृकम् ॥ अथो बहुतिथे काले सा
ग्राही शङ्खरूपिणी । समुद्धृता महाजालैर्मत्स्यबन्धेन
मानिनो ॥ स तां दृष्ट्वा महाशङ्खि स्थलस्थां मत्स्य-
जीवनः । निवेदयामास तदा क्रतुध्वजसुतेषु वै ॥
तथाभ्येत्य महात्मानो योगिनो योगधारिणः । नीत्वा स्वम-
न्दिरं सर्वे पुरव्याप्यां समुत्सृजन् ॥ ततः क्रमाच्छङ्क्षिनी-
सा सुषुवे सप्त वै शिशून् । जातमात्रेषु पुत्रेषु मोक्ष-
भावमगाच्च सा ॥ अमातृपितृका बाला जलमध्य
विचारिणः । स्तन्यार्थिनो वै रुरुदुरथाभ्यागात् पिता-
महः ॥ मा रुदध्वमिति प्राह मरुतो नाम पुत्त्रकाः! ।
यूयं देवा भविष्यध्वं वायवोऽम्बरचारिणः ॥ इत्येवमुक्त्वा-
थादाय सर्व्वांस्तान् दैवतान् प्रति । नियोज्य च
मरुन्मार्गे वैराजभवनं गतः ॥ एवमासंश्च मरुतो मनोः
स्वारोचिषान्तरे । औत्तमे मरुतो ये च तान् शृणुष्व
तपोधन! ॥ औत्तमस्यान्ववाये च राजासीन्निषधाधिपः ।
वपुष्मानिति विख्यातो वपुषा भास्करोपमः ॥ तस्य पुत्त्रो
गणश्रेष्ठो ज्योतिष्मान् धार्म्मिकोऽभवत् । स पुत्त्रार्थी
तपस्तेपे नदीं मन्दाकिनीमनु ॥ तस्य भार्य्या च सुश्रोणी देवाचार्य्य-
सुता शुभा । तपश्चरणयुक्तस्य बभूव परिचारिका ॥ तेजो-
युक्ता सुचार्व्वङ्गी दृष्टा सप्तर्षिभिर्व्वने । तां तथा चारु
सर्व्वाङ्गीं दृष्ट्वाथ तपसा कृशाम् । पप्रच्छुस्तपसो हेतु-
न्तस्यास्तद्भर्त्तुरेव च । साऽब्रवीत्तनयार्थाय आवाभ्यां वै
तपः क्रिया ॥ ते चास्यै वरदा ब्रह्मन्! जाताः सप्त
महर्षयः । व्रजध्वं तनयाः सप्त भविष्यन्ति न संशयः ॥ युवयो
र्गुणसंयुक्ता महर्षीणां प्रसादतः । इत्येवमुक्त्वा जग्मुस्ते
सर्व एव महर्षयः ॥ सोऽपि राजर्षिरगमत् सभार्य्यो
नगरं निजम् । ततो वहुतिथे काले सा राज्ञो महिषी
प्रिया ॥ अवाप गर्भं तन्वङ्गी तस्मात् नृपतिसत्तमात् ।
गुर्विण्यामथ भार्य्यायां ममारासौ नराधिपः ॥ सा चाप्या-
रोढुमिच्छन्ती भर्त्तारं वै पतिव्रता । निवारिता
तदामात्यैर्न तथापि व्यतिष्ठत ॥ तं समालिङ्ग्य भर्त्तारं चिताया-
मारुरोह सा । ततोऽग्निमध्यात् सलिले मांसपेश्यपत-
न्मुने! ॥ साम्भसा सुखशीतेन संसिक्ता सप्तधाऽभवत् ।
तेऽजायन्ताथ मरुत औत्तमस्यान्तरे मनोः ॥ तामसस्या-
न्तरे ये च मरुतोऽप्यभवन् पुरा । तानहं कीर्त्तयिष्यामि
गीतनृत्यकलिप्रिय! ॥ तामसस्य मनोः पुत्त्र ऋतध्वज
इति श्रुतः । स पुत्त्रार्थी जुहावाग्नौ स्वमांसं रुधिरं
तथा ॥ अस्थीनि रोम केशांश्च स्नायुमज्जायकृद्व्रणम् ।
शुक्रं च वित्रसो राजा सुतार्थी चेति नः श्रुतम् ॥
सप्तार्च्चिर्मध्याच्च ततः शुक्रपातादनन्तरम् । मा मा क्षिप-
स्वेत्यसरत् शब्दः सोऽपि नृपो मृतः ॥ ततस्तस्माद्धुतवहात्
सप्त तत्तेजसोपमाः । शिशवः समजायन्त ते रुदन्तश्च
तन्मुने! ॥ तेषान्तु ध्वनिमाकर्ण्य भगवान् पद्मसम्भवः ।
समागम्य निवार्य्याथ स चक्रे मरुतः सुतान् ॥ ते त्वास-
न्मरुतो ब्रह्मँ स्तामसे देवतागणाः । येऽभवन्रैवते तांश्च
शृणुष्व त्वं तपोधन! ॥ रेवतस्यान्ववाये तु राजासीदिषु-
पृष्ठ ०१६६
जिद्बली । रिपुजिन्नाम स ख्यातो न तस्यासीत् सुतः
किल ॥ स समाराध्य तपसा भास्करं तेजसां निधिम् ।
अवाप कन्यां सुरतिं तां प्रगृह्य गृहं ययौ ॥ तस्यां
पितृगृहे ब्रह्मन्! वसत्याञ्च पिता मृतः । सापि दुःख-
परीताङ्गी स्वां तनुं त्यक्तुमुद्यता ॥ ततस्तां वारयामासु-
रृषयः सप्त मानसाः । तस्यामासक्तचित्तास्तु सर्व्व एव
तपोधनाः ॥ अपारयन्ती तद्दुःखं प्रज्ज्वाल्याग्निं विवेश ह ।
ते चापश्यन्त ऋषयस्तच्चित्ता भावितास्तथा ॥ तां मृतां
ऋषयो दृष्ट्वा कष्टं कष्टेति वादिनः । प्रजग्मुर्ज्वलनाच्चापि
सप्ताजायन्त दारकाः ॥ ते च मात्रा विना भूता रुरुदु-
स्तान् पितामहः । निवारयित्वा कृतवान् लोकनाथो
मरुद्गणान् ॥ रेवतस्यान्तरे जाता मरुतोऽमी तपोधन! । शृणुष्व
कीर्त्तयिष्यामि चाक्षुषस्यान्तरे मनोः ॥ आसीन्माङ्कीति
विख्यातो तपस्वी सत्यवाक् शुचिः । सप्तसारस्वते तीर्थे
सोऽतप्यत महत्तपः ॥ विघ्नार्थं तस्य तपसो देवाः सम्प्रैषयन्
बधूम् । सा चाभ्येत्य नदीतीरं क्षोभयामास भाविनी ॥
ततोऽस्य प्राच्यवच्छुक्रं सप्तसारस्वते जले । तां चैवाप्यशपन्मूढ़ां
मुनिर्म्माङ्कनिको बधूम् ॥ गच्छालज्जेऽतिमूढे! त्वं
पापस्यास्य फलं महत् । विध्वंसयिष्यति हयो भवतीं यज्ञ-
संसदि ॥ एवं शप्त्वा ऋषिः श्रीमान् जगामाथ स्वमाश्र-
मम् । स्वरस्वतीभ्यः सप्तभ्यः सप्त वै मरुतोऽभवन् । एते
तवोक्ता मरुतः पुरा यथा जाता वियद्व्याप्तिकरा महर्षे! ।
येषां श्रुते जन्मनि पापहानिर्भवेच्च धर्म्माभ्युदयो महान्वै” ॥
अतःपरं प्रवक्ष्यामि मरुतोऽग्नीन् पितॄन् ग्रहान् । आवहो
निवहश्चैव उद्वहः संवहस्तथा ॥ विवहः प्रवहश्चैव
परिवाहस्तथैव च । अन्तरीक्षे च वाह्ये ते पृथङ्मार्गविचा-
रिणः ॥ महेन्द्रप्रविभक्ताङ्गा मरुतः सप्त कीर्त्तिताः ।
सूर्य्याग्निश्च शुचिर्नामा वैद्युतः पावकः स्मृतः ॥ निर्मथ्य
पचमानोऽग्निस्त्रयः प्रोक्ता इमेऽग्नयः । अग्नीनां पुत्त्र-
पौत्त्राश्च चत्वारिंशन्नवैव तु । मरुतामपि सर्वेषां बिज्ञेयाः
सप्त सप्तका इति” ॥ तेषां नामान्युक्तानि वह्निपुराणे यथा
“एकज्योतिश्च द्विज्योतिस्त्रिज्योतिर्ज्योतिरेव च ।
एकशक्रो द्विशक्रश्च त्रिशक्रश्च महाबलः ॥ इन्द्रश्च गत्य-
दृश्यश्च ततः पतिसकृत्परः । मितश्च सम्मितश्चैव सुमि-
तश्च महाबलः ॥ ऋतजित् सत्यजिच्चैव सुषेणः सेनजि-
त्तथा । अन्तिमित्रोऽनमित्रश्च पुरुमित्रोऽपराजितः ॥
ऋतश्च ऋतवाहश्च धर्त्ता च धरुणो ध्रुवः । विधारणो नाम
तथा देवदेवो महाबलः ॥ ईदृक्षश्चाप्यदृक्षश्च एते दश
मिताशिनः । व्रतिनः प्रसदृक्षश्च सभरश्च महायशाः ॥ धाता
दुर्गोधितिर्भीमस्त्वभियुक्तस्त्वपात् सहः । घुतिर्घपुरनाय्योऽथ
वासः कामो जयो विराट् ॥ इत्येकोनाश्च पञ्चाशन्मरुतः
पूर्व्वमम्भवाः इति” ॥ एवञ्च अनिलस्य ऊनपञ्चाशद्भेदवत्त्वेन
सप्तभेदवत्त्वेन च गणदेवतात्वम् अयञ्चानिलाधिष्ठाता दिक्-
पालभेदः तस्य च गन्धवतीनामिका पुरी मेरोः शृङ्गेवरुण-
कुवेरपुरयोर्मध्येऽस्ति । तस्य पूर्ब्बादिदिग्भेदेन वहनभेदेन “च
शुभाशुभसूचकत्वमुक्तं “पूर्ब्बः पूर्वसमुद्रवीचिशिखरप्रस्फाल-
नाघूर्णितश्चन्द्रार्कांशुसटाभिघातकलितो वायुर्यदाकाशतः ।
नैकान्तस्थितनीलमेघपटलां शारद्यसंवर्धितां वासन्तोत्कट-
सस्यमण्डिततलां विद्यात्तदा मेदिनीम् ॥ यदाग्नेयो वायु-
र्मलयशिखरास्फालनपटुः प्लवत्यस्मिन्योगे भगवति पतङ्गे
प्रवसति । तदा नित्योद्दीप्ता ज्वलनशिखरालिङ्गिततला
स्वगात्रोष्मोच्छासैर्वमति वसुधा भस्मनिकरम् ॥ तालीपत्र-
लतावितानतरुभिः शास्वामृगान्नर्तयन् योगेऽस्मिन् प्लवति
ध्वनन् सुपरुषो वायुर्यदा दाक्षिणः । सर्वोद्योगसमुन्नताश्च
गजवत्तालाङ्कुशैर्घट्टिताः कीनाशा इव मन्दवारिकणिका-
न्मुञ्चन्ति मेघास्तदा ॥ सूक्ष्मैलालवलीलवङ्गनिचयान्
व्याघूर्णयत् सागरे भानोरस्तमये प्लवत्यविरतो वायुर्यदा
नैरृतः । क्षुत्तुष्णाभृतमानुषास्थिशकलप्रस्तारभारच्छदा
मत्ता प्रेतवधूरिवोग्रचपला भूमिस्तदा लक्ष्यते ॥ यदा
रेणूत्पातैः प्रविकटसटाटोपचपलः प्रवातः पश्चार्धे
दिनकरकरापातसमये । तदा सस्योपेता प्रवरनृवराबद्धसमरा
धरा स्थाने स्थानेष्वविरतवसामांसरुधिरा ॥ आषाढीपर्व-
काले यदि किरणपतेरस्तकालोपपत्तौ वायव्यो वृद्धवेगः
प्लवति घनरिपुः पन्नगादानुकारी । जानींयाद्वारिधारा-
प्रमुदितमुदितां मुक्तमण्डूककण्ठां सस्योद्भासैकचिह्नां
सुखबहुलतया भाग्यसेनामिवोर्वीम् । मेरुग्रस्तमरीचिमण्डलतले
ग्रीष्मावसाने रवौ वात्यामीदिकदम्बगन्धसुरभिर्वायुर्यदा
चोत्तरः । विद्युद्भ्रान्तिसमस्तकान्तिकलनामत्तास्तदा तोयदा
उन्मत्ता इव नष्टचन्द्रकिरणां गां पूरयन्त्यम्बुभिः ॥
ऐशानो यदि शीतलोऽमरगणैः संसेव्यमानो भवेत् पुन्ना-
गागुरुपारिजातसुरभिर्वायुः प्रचण्डध्वनिः । आपूर्णो-
दकयौवना वसुमती सम्पन्नसस्याकुला धर्म्मिष्ठाः प्रणतारयो
नृपतयो रक्षन्ति वर्णांस्तदा” इति वृहत्संहितायाम् ॥
अथ वेद्यकोक्ता दिग्भववायुगुणाः । “प्राग्वातो मधुरः क्षारो
वह्निमान्द्यकरो गुरुः । वेरस्य गौरवौष्णानि करोत्यप्स्वोष-
धीषु च ॥ भग्नोत्पिष्टक्षताद्येषु रागश्वयथुदाहकृत् । सन्नि-
पृष्ठ ०१६७
पातज्वरश्वासत्वग्दोषार्शोविषक्रमीन् ॥ कोपयेदामवातञ्च
घनसंघातकारणम्, ॥ दाक्षिणो मारुतोबल्यश्चक्षुष्यः शस्य-
घातकः । मधुरश्चाम्लदाही च कषायानुरसो लघुः ॥ रक्त-
पित्तप्रशमनी न च मारुतकोपनः । गण्डूपदादिकीटानां
जनकः प्राणकारकः, ॥ पाश्चिमोऽग्निवपुर्वर्णबलारोग्यविव-
र्द्धनः । कषायः शोषणः स्वर्य्यो रोचनो विशदो लघुः ॥
अपां लघुत्ववैशद्यशैत्यवैमल्यकारकः । सर्व्वद्रव्येष्वभिव्यक्त-
प्रभावरसवीर्य्यकृत् ॥ व्रणसंरोपणस्त्वच्यो दाहशोथतृषा-
पहः, ॥ औत्तरो मारुतः स्निग्धो मृदुर्मधुर एव च ।
कषायानुरसः शीतः सर्वदोषप्रकोप(णः)नः ॥ क्षीणक्षत
विषार्त्तानां हितोदाहतृषापहः । शीताधिकः सनीहारः
स विद्युत्स्तनयित्नुमान्, ॥ विष्वग्वायुरनायुष्यः प्राणिनां
नैकदोषकृत् । सर्वर्त्तुनिन्दको हन्ता कृत्योत्पातपुरःसरः”
इति ॥ तालादिव्यजनवायुगुणाः । मूर्च्छादाहतृषास्वेद-
श्रमघ्नो व्यजनानिलः । तालवृन्तमयो वातस्त्रिदोषशमनो
लघुः । वंशव्यजनजो वातो रूक्षोष्णो वातपित्तदः ।
बालव्यजनमौजस्यं मक्षिकादीन् व्यपोहति ॥ मायूरा
वस्त्रजा वैत्रा वाता दोषत्रयापहा” इति ।
सूक्ष्मस्तु वायुः शरीरस्थः प्राणादिभेदेन दशविधः
दशविधकार्य्य करणात् । यथोक्तम् वैद्यके
“प्राणोऽपानः समानश्चोदानव्यानौ च वायवः ।
नागः कूर्म्मश्च कृकरो देवदत्तो धनञ्जयः ॥ प्राणस्तु
प्रथमो वायुर्नराणामधिपः प्रभुः । नित्यमावापयेत्
सर्व्वान् प्राणिनामुरसि स्थितः ॥ निःश्वासोच्छ्वासकश्चैव
प्राणो जीवं समाश्रितः । प्रसाराकुञ्चनो वायुः प्रकाशो
धारणस्तथा ॥ प्राणस्त्वेवंविधं कुर्य्यात् प्राणिनां प्राण-
धारकः । प्राणनं कुरुते यस्मात् तस्मात् प्राणः प्रकी-
र्त्तितः । प्राणो हि भगवान् ईशः प्राणो विष्णुः पिता-
महः । प्राणेन धार्य्यते लोकः सर्वं प्राणमयं जगत् ॥
इन्द्रियाणि प्रवर्त्तन्ते यावत् प्राणानिलो हृदि । नष्टे न
दृश्यते सर्वं तस्मात् प्राणन्तु रक्षयेत्, ॥ रज्जुबद्धो वथा
श्येनो गतोऽप्याकृष्यते पुनः । गुणवद्धस्तथा जीवः प्राणा-
पानेन कृष्यते, ॥ अपानयंस्तथाहारं मनुजानां यतोऽ-
धमः । शुक्रमूत्रव्रजे वायुरपानस्तेन कीर्त्तितः, ॥ पीतं
भक्षितमाघ्रात रक्तं पित्तकफानिलान् । समं नयति
गात्रेषु समानो नाम मारुतः ॥ समानोऽग्निसमीपस्थः
कोष्ठे च वाति सर्वतः । अन्नं गृह्णाति पचति विरेचयति
मुञ्चति ॥ स्पन्दयत्यधरं वक्त्रं नेत्रगात्रप्रकोप(नः)णः, ।
उद्वेजयति मर्म्माणि उदानो नाम मारुतः ॥ व्यानो-
विनामयत्यङ्गं व्यानो व्याधिप्रकोप(नः)णः । प्रीतेर्विना-
शकश्चायं वार्द्धकोत्पादकस्त्रिधा इति ॥
प्राणादीनां स्थानानि । “शिरसो नासिकाग्रान्तमुदान-
स्थानमुच्यते । नाभेः पादतलं यावदपानस्य प्रकीर्त्तितम् ॥
शरीरव्यापको व्यानः प्राणः सकलनायकः । उद्गारे नाग
इत्युक्तः कूर्म्मश्चोन्मीलने स्थितः ॥ कृकरः क्षुधिते चैव देवदत्तो
विजृम्भिते । धनञ्जयस्थितो मेढ्रे मृतस्यापि न मञ्चति ॥
भूतावाप्तिस्ततस्तस्याजायतेन्द्रियगोचरात् ॥ उत्साहो-
च्छ्वासनिःश्वासचेष्टा धातुगतिः समा । समो मोक्षे
गतिमतां वायोः कर्म्माविकारजम्” इति सुखबोधः ॥
प्राणादयश्च पञ्चसूक्ष्मभूतरजोगुणेभ्यः समस्तेभ्य उत्पद्यन्ते
इति वेदान्तिमतम् सकलेन्द्रियाणां व्यापार एव प्राणो न
पदार्थान्तरमिति सांख्यमतं विवरणं प्राणशब्दे दृश्यम् ।
उदानादीनां कर्म्मविशेषा उक्ता यथा “उदानो नाम
यँस्तूर्द्ध्वमुपैति पवनोत्तमः । तेन भाषितगीतादिप्रवृत्ति-
कुपितस्तु सः ॥ ऊर्द्ध्वजत्रुगतान् रीगान् विदधाति
विशेषतः ॥ यो वायुः प्राणनामासौ सुखं गच्छति
देहघृक् ॥ सोऽन्नं प्रवेशयत्यन्तः प्राणांश्चाप्यवलम्बते ।
प्रायशः कुरुते दुष्टो हिक्काश्वासादिकान् गदान् ॥
आमपक्काशयचरः समानो वह्निसंगतः । सोऽन्नं पचति
तज्जांश्च विशेषान् विविनक्ति हि ॥ स दुष्टो वह्नि-
मान्द्यातिसारगुल्मान् करोति हि । पक्वाशयालयोऽपानः
काले कर्षति चाप्ययम् ॥ समीरणः शकृन्मूत्रशुक्रगर्भार्त्तवा-
न्यधः । क्रुद्धस्तु कुरुते रोगान् घोरान् वस्तिगुदाश्रयान् ॥
शुक्रदोषप्रमेहांश्च व्यानापानप्रकोपजान् । कृत्स्नदेहचरो
व्यानो रससंव्यूहनो यतः ॥ स्वेदासृक्स्रावणञ्चापि पञ्चधा
चेष्टयत्यपि । गत्यपक्षेपणोत्क्षेपनिमेषोन्मेषणादिकाः ॥
प्रायः सर्व्वाः क्रियास्तस्मिन् प्रतिबद्धाः शरीरिणाम् ।
प्रस्यन्दनं चोद्वहनं पूरणञ्च विरेचनम् ॥ धारणञ्चेति
पञ्चैताश्चेष्टाः प्रोक्ता नभस्वतः । क्रुद्धः स कुरुते रोगान्
प्रायशः सर्वदेहगान् ॥ युगपत् कुपिता एते देहं
भिन्द्युरसंशयम् इति च वैद्यके उक्तम् ।
तत्र देहस्थस्य वायोर्विकारहेतुलक्षणादिकमुक्तं वैद्यके
“व्यायामादपतर्पणात् प्रपतनाद्भङ्गात् क्षयाज्जागरात्
वेगानाञ्च विधारणादतिशुचः शैत्यादतित्रासतः । रूक्षक्षा
रकषायतिक्तककुकैरोभिः प्रकोपं व्रजेत् वायुर्वारिधरागमे
परिणते चान्नेऽपराह्णेऽपि च” ॥ विकृतवायुलक्षणम् ।
पृष्ठ ०१६८
“आध्मानस्तम्भरौक्ष्यस्फुटनविमथनक्षोभकम्पप्रतोदाः कण्ठ-
ध्वंसावसादौ श्रमकविलपनं श्रंसशूलप्रभेदाः । पारुष्यं
कर्णनादो विषमपरिणतिभ्रंसदृष्टिप्रमोहा विस्पन्दोद्घट्ट-
नादिग्लपनमनशनं ताड़नं पीड़नञ्च ॥ नामोन्नामौ
विषादो भ्रमपरिषदनं जृम्भणं रोमहर्षो विक्षेपाक्षेपशोष-
ग्रहणशुषिरता छेदनं वेष्टनञ्च । वर्णः श्यावोऽरुणो
वा तृड़पि च महती स्वापविश्लेषसङ्गा विद्यात्
कर्म्माण्यमूनि प्रकुपितपवने स्यात् कषायो रसश्च” ॥ किञ्च
“वदनविरसता स्याद्वर्चसः कर्कशत्वं भवति वपुषि कार्श्यं
रात्रिनिद्रानिवृत्तिः । त्वचि च परुषता स्यात् स्याच्च
वैषम्यमग्नेरिति पवनविकारे लक्षणं प्रोक्तमेतत्” ॥
तत्प्रशमनकारणम् यथा । “रूक्षः शीतो लघुः सूक्ष्मश्चलो-
ऽथ विशदः खरः । विपरीतगुणैर्द्रव्यैर्मारुतः संप्र-
शाम्यति” ॥ “स्निग्धोष्णस्थिरवृष्यबल्यलवणस्वाद्वम्लतैला-
तपस्नानाभ्यञ्जनवस्तिमांसमदिरासंवाहनोन्मर्द्दनैः । स्निग्ध-
स्वेदनिरूहणोपशमनः स्नेहोपनाहादिकं पानाहार-
विहारभेषजमिदं वातं प्रशान्तं नयेत्” ॥ ऋतुभेदेन
विहारादिना च तस्य प्रकोपप्रचयप्रशमाद्युक्तं यथा “ग्रीष्मे
सञ्चीयते वायुः प्रावृट्काले प्रकुप्यति । प्रायेणोपशमं
याति स्वयमेव सभीरणः ॥ शरत्काले वसन्ते च पित्तं
प्रावृडृतौ कफः । चयकोपशमान्दोषान् विहाराहार
सेवनैः ॥ समानैर्यान्त्यकालेऽपि विपरीतैर्विपर्य्ययः” इति ॥
नरपतिजयचर्य्योक्तमनिलचक्रन्तु चक्रशब्दे वक्ष्यते ।
अनाहतचक्रस्थवायुमण्डंलविवरणं तन्त्रोक्तं षट्चक्रशब्दे
दृश्यम् । तद्देवताके स्वातिनक्षत्रे, अष्टवसुमध्ये पञ्चमे वसौ
च । “यरोध्रुवः सोमनामा तथापोऽप्यनिलो नलः ।
प्रत्यूषश्च प्रभासश्च वसवोऽष्टौ प्रकीर्त्तिता” इति विष्णुधर्म्मो०
पुरा० । विष्णौ, तस्य प्राणात्मना सर्वदेहधारणात् तथात्वम्
“अहः संवर्त्तको वह्निरनिलो धरणीधर” इति विष्णु०
स० । शरीरस्थे धातुभेदे च । तस्य विवरणमुक्तप्रायम् ।
“पित्तं पङ्गुः कफः पङ्गुः पङ्गवो मलधातवः । वायुना
यत्र नीयन्ते तत्र वर्षन्ति मेघवत् ॥ वायुरायुर्बलं वायु-
र्वायुर्धाता शरीरिणाम् । वायुर्विश्वमिदं सर्वं प्रभुर्व्वायुः
प्रकीर्त्तितः ॥ वाह्यमण्डलचक्रेषु यथा राजा प्रशस्यते ।
तथा शरीरमध्येऽपि वायुरेकः परो विभुरिति” वैद्यकम् ॥
दोषधातुमलादीनां नेता शीघ्रः समीरणः ॥ रजोगुणभयः
सूक्ष्मो रूक्षशीतो लघुश्चलः ॥ उत्साहोच्छासनिःश्वासचेष्टा-
वेगप्रवर्त्तनैः । सम्यग्गत्या च धातूनामिन्द्रियाणाञ्च पाटवैः ॥
अनुगृह्णात्यविकृतो हृदयेन्दियचित्तधृक् । स्वरो मृदुर्योग-
वाही संयोगादुभयार्थकृत् । दाहहृत्तेजसा युक्तः शीतकृत्
सोमसंश्रयात् ॥ विभागकरणाद्वायुः प्रधानं दोषसंग्रहैः ।
पक्काशयकटीसक्थिश्रोत्रास्थिस्पर्शनेन्द्रियम् ॥ स्थानं वातस्य
तत्रापि पक्वाधानं विशेषतः” इति ।

अनिलघ्नक पु० अनिलं वातरोगं हन्ति हन् + क ततः संज्ञायां

कन् । (वयड़ा) इति ख्याते वृक्षे तत्फलस्य हि
वातनाशकत्वम् ।

अनिलसख पु० अनिलस्य वायोः सखा टच् । वह्नौ । अनिल

बग्ध्वादयोऽप्यत्र “मघा विशाखानिलबग्ध्विति” ज्योति० ।

अनिलान्तक पु० अनिलो वातरोगस्तस्यान्तकः अन्तं

करोतीति अन्त + णिच्--ण्वुल् । (जीयापुति) इति
ख्याते वृक्षे ।

अनिलामय पु० अनिलकृत आमयः शाक० त० । वातरोगे ।

अनिवर्त्तिन् त्रि० न निवर्त्तते नि--वृत--णिनि न० त० ।

कार्य्यान्तमगत्वा अनिवृत्ते । संग्रामेष्वनिवर्त्तिनामिति” रामा०
न निवर्त्तते कुतश्चेत् अलुप्तशक्तिकत्वात् ईश्वरे, विष्णौ च पु०
संग्रामादनिवर्त्तित्वात्तथात्वम् “अनिवर्त्ती निवृत्तात्मेति”
विष्णुसहस्रनाम ।

अनिविशमान त्रि० न निविशमानः । निवेशनरूपस्थिति-

शून्ये सर्वदा गन्तरि, “पुनाना यत् मन्त्रानिविशमाना”
इति ऋ० ७, ४९, १, अनिविशमानाः सर्वदा गच्छन्त्य इति
भाष्यम् ।

अनिश त्रि० निशा तद्धेतुकत्वेनोपचारात् चेष्टाविनाशः सा

नास्ति यस्य ब० । अविरते, निरन्तरे, सदाभये वस्तुनि,
रात्रिवर्ज्जिते च । “तदुभयोरनिशं हि विरोधिता
कथमहो समता मम तापने” इत्युद्भटः ।

अनिशम् न निशेतेऽत्र नि + शी--बा० डमु न० त० । सातत्ये

स्वरादेराकृतिगणत्वेन तस्य तत्र पाठ इति प्रौ० म० ।

अनिश्शस्त त्रि० निर् + शन्सु--क्त न० त० । अनिन्दिते “न

वोऽतीतृषामानिःशस्ता” इति ऋ० ४, ३४, ११, “अनिशस्ता
अनिन्दिता” इति भा० ।

अनिष्ट त्रि० इष--क्त विरोधे न० त० । इष्टस्य सुस्वादे-

र्विरोधिनि प्रतिकूलवेदनीये दुःखे, तत्साधने--पापे,
विषादौ, अपकारे० च । “इष्टनाशादनिष्टाप्तेः
करुणाख्यो रसोभवेदिति सा० द० । “ध्यायत्यनिष्टं तत्सर्व्वं
पाणिग्राहस्य चेतसेति” “एवं यद्यप्यनिष्टेषु वर्त्तन्ते” इति
अनिष्टं वा प्यानिष्टेषु तं धर्म्मं न विचालयेदिति” मन-
सानिष्टचिन्तनमिति” च मनुः । नागबलायां स्त्री ।
यज--क्त न० त० । अकृतयागे देवादौ ।
पृष्ठ ०१६९

अनिष्टिन् त्रि० न इष्टमनेन यज--भावे क्त ततः इनि

न० त० । कृतयागभिन्ने । “अनिष्टिनोवाजपेयेन” इति
कात्या० १५१, २ ।

अनिष्पत्र न० निःसृतं पत्रं पक्षोऽत्र तादृशं न भवति ।

अनिसृतपक्षकशरेण वेधनादौ । “विशाख्यां वा स्तीर्ण-
मुच्छ्रितं वा विध्यन्त्यनिष्पत्रमिति” कात्या० १३, ३, १२,
“अनिष्पत्रमित्यनिःसृतपत्रकं विध्यन्ति क्षत्रिया” इति
तद्व्याख्या ।

अनीक पु० न० अनित्यनेन अन--ईकन् अर्द्धर्चादि । सैत्ये, तस्य

हि जीवनरक्षकत्वम् । न नीयते अपसार्य्यतेऽस्मात् ।
नी--क्विप् ब० कप् ह्रस्वाभावः । युद्धे, ततोहि प्रायोमरणा-
न्नपुनरावृत्तिः । “रथेषुवोऽनीकेष्वधिश्रिय” इति ऋ० ८, २०,
१२ अनीकेषु सेनामुखेष्विति भा० । “दृष्ट्वा तु पाण्डवानीकं
व्यूढं दुर्य्योधनस्तदेति” गीता मुखे, तस्य प्राणवायुनिःसा-
रणद्वारत्वात् तथात्वम् “अग्नेरनीकमपआविवेशापामिति”
यजु० ८, २४, “अनीकं मुखमिति” वेददीपः ।

अनीकस्थ त्रि० अनीके युद्धे तिष्ठति स्था--क । युद्धगते सैन्ये ।

अनीकिनी स्त्री अनीकानां संघः अनीकं युद्धं प्रयोजनतया

अस्त्यस्याः वा अनीक + इनि । सेनासंघे हस्त्यादिसंख्या-
विशेषवत्यां सेनायाञ्च तत्संख्या चोक्ता भारते “एको
रथो गजश्चैको नराः पञ्च पदातयः । त्रयश्च
तुरगास्तज्ज्ञैः पत्तिरित्यभिधीयते ॥ पत्तिन्तु त्रिगुणामेता-
माहुः सेनामुखं बुधाः । त्रीणि सेनामुस्वान्येको गुल्म
इत्यभिधीयते ॥ त्रयो गुल्मा गणो नाम वाहिनी तु
गणास्त्रयः । स्मृतास्तिस्रस्तु वाहिन्यः पृतनेति
विचक्षणैः ॥ चमूस्तु पृतनास्तिस्रस्तिस्रश्चम्वस्त्वनीकिनीति” ।
ततश्च हस्तिनः २१८७ । रथाः २१८७ । अश्वाः
६५६१ । पदातयः १०९३५ समुदिताः २१८७० ।

अनीश पु० नास्ति ईशो नियन्ता यस्य ब० । सर्वनियन्तरि

विष्णौ, स्वामिशून्ये त्रि० । न० त० । ईश्वरभिन्ने
“भजेरन् मातृकं रिकथमनीशास्ते हि जीवतोरिति” मनुः ।
अस्वतन्त्रे, “एकोह्यनीशः सर्वत्रेति” व्यास स्मृतिः ।
ईश--भावे अङ् न० त० । दीनभावे स्त्री “निमृगोऽनी-
शया शोचतीति” मु० उ० । दोनभावोऽनीशेति भा० ।

अनीश्वर न० न ईश्वरः नियन्ता यत्र । नियन्तृशून्ये सवंख्या-

दिमते जगति “जगदाहुरनीश्वरमिति” गीता ईश्वरस्य
न भवति असम० स० । ईश्वरसम्बन्धिभिन्ने “ध्यानेनानी-
श्वरान् गुणानिति” मनुः । नियन्तृशून्ये, स्वामिशून्ये च ।

अनीह त्रि० ईह--भावे अङ् न० ब० । स्पृहाशून्ये, निश्चेष्टे च ।

अनु अव्य० अन--उ । “अनु वेदाध्ययनानुष्ठानसामीप्यपश्चा-

द्भावानुबन्धसाम्याभिमुखविसर्गलक्षणेष्विति” गणरत्नोक्तेषु
अर्थेषु तत्र वेदे अनुवाक इति । अध्ययने अन्वधीते,
अनुष्ठाने, अनुतिष्ठति, सामीप्ये अनुमेघं वर्षति, पश्चाद्भावे
तदनु, अनुबन्धने, अनुशेते अनुशयः, साम्ये, अनुकरोति,
आभिमुख्ये अनुमातरं वत्सोधावति, हीने अनु हरिं सुराः
विसर्गे (प्रवृत्त्यप्रतिबन्धे) अनुजानीते, लक्षणे, अनु
वनमशनिर्गतः” । “अनुर्लक्षणे” इति “तृतीयार्थे” इति
(सहार्थे) “हीने” इति, लक्षणेत्थम्भूताख्यानभाग
वीप्सासु प्रतिपर्य्यनव इति, च (पा०) उक्तेषु अर्थेषु, तत्र
लक्षणे, जपमनुप्रावर्षत् । “हेतुभूतजपोपलक्षितम् वर्षणम्”
सि० कौ० सहार्थे, नदीमनु अवसिता सेना, “नद्या सह
संबड्वा सेना” सि० कौ० हीने, हरिमनु सुराः हरेर्हीना
इत्यर्थः, लक्षणे वृक्षमनु विद्योतते विद्युत्, तत्र च वृक्षप्रका-
शेन विद्युद्विद्योतदेशज्ञापनात् वृक्षो लक्षणमिति प्रौ० मनो० ।
(इत्थम्भूतः) कञ्चित् प्रकारं प्राप्तः आख्यायते अनेन, इत्थ-
म्भूताख्यानं प्रकारविशेषनिरूपकं तस्मिन्नर्थे, यथा भक्तोहरि-
मनु, हरेरित्थम्भूतः, भक्तिविशेषयुक्त इत्यर्थः । भागे भागो-
ऽस्यास्ति अर्शआद्यच् भागस्वामिनि, हरिमनु लक्ष्मीः,
हरिस्वामिकभागवतीत्यर्थः । वीप्सायां विषयभूतायां,
वृक्षं वृक्षमनु सिञ्चति, यावद्वृक्षव्यापकः सेकः । इयांस्तु
भेदः अन्यत्रानुशब्दः तत्तदर्थस्य द्योतकः अत्र तु द्विवचनेनैव
व्याप्तिबोधनात् अनोस्तद्विषयत्वमात्रम् । पाणिन्युक्तेष्वेष्वे-
वार्थेष्वस्य कर्म्मप्रवचनीयसंज्ञा तेन तद्योगे द्वितीया एवं
कर्म्मप्रवचनीयसंज्ञया गत्युपसर्गसंज्ञयोर्बाधनात् न षत्वादि
न वा अनुव्यचलदित्यादौ गतिर्गतावित्यादिना निघातः ।
“अनुर्यत् समया इति” “यस्य चायाम इति च” (पा०)
उक्ते सामीप्ये, अनुवनमशनिर्गत इति वनसमीपं गत इत्यर्थः
आयामे, अनुगङ्गं वाराणसी, गङ्गादैर्घ्यसदृशदैर्घ्योपलक्षिता
वाराणसीत्यर्थः नित्यसमासः योग्यत्वे च । अनुरूपम् ।
“रूपादियोग्यमिति” सि० कौ०, अनुक्रमम् । क्रमानतिक्रमे
अत्रापि नित्यसमासः एतेषामुदारहरणानि शास्त्रान्तरेषु
दृश्यानि दिग्मात्रमुदाह्रियते । तत्र पश्चादर्थे “तदनु
ननु कयासौ ब्रूहि यातोऽध्ववृड्येति” लीला० । “तदनु
ज्वलनं मदर्पितमिति” कुमा० असौ “कुमारस्तमजोऽनु-
पृष्ठ ०१७०
जात” इति रघुः । “रत्या च साशङ्कमनुप्रयात” इति
कुमा० अनुष्ठाने, “शैलाधिपत्यं स्वयमन्वतिष्ठदिति” कुमा०
सादृश्ये, “अनुगर्जितसन्दिग्धा” इति कुमा० । अनुगर्जितं
गर्जनसदृशं प्रतिरूपगर्जितमित्यर्थः । अनुगताद्यर्थे नित्य-
समासः । तथैव सोऽभूदन्वर्थो “राजा प्रकृतिरञ्चनादिति”
रघुः । तत्र अन्वर्थः अनुगतोऽर्थो यस्येति प्रा० ब० वा
अनित्यसमास उत्तरपदलोपो वा इति तत्र अनुगतार्थोपीति
भेदः । एवमेव अनूप इत्यादावपि । उपासने च “अन्वा-
सितमरुन्धत्येति” रघुः “पश्चादुपवेशनपूर्ब्बकसेवायां धातो-
र्लक्षणायामुनुर्द्योतकः । एवम् एतद्योगे वसतेः आधारस्य
कर्म्मता अनुवसति ग्रामं देवदत्तः “मथुरामनूष्येति” मु० बो०
क्रियासमभिव्याहृतस्यानुशब्दस्य तत्तत्क्रियासदृशतत्तत्-
क्रियायां लक्षणाद्योतकत्वं तत्र आद्यक्रियाश्रयस्य कर्मत्वम्
यथा मातरमनुरोदितीत्यादौ मातूरोदनसदृशरोदनस्य
बोधनेन प्रथमरोदनाश्रयस्य मातुः कर्मत्वमेवमन्यत्र । कर्मणि
तिङाद्युक्ते तु प्रथमा ।

अनुक त्रि० अनुकामयते अनु + कामतर्य्यर्थे कन् । कामुके

“अनुकाभिकाभीकाः कमयितेति” पा० “वाचमनुकामा-
त्मनोऽकुरुतेति” कौ० ब्रा० ।

अनुकम् अव्य० अनुकामयते अनु--कम--क्विप् । वितर्के । चादे-

रादिकृतिगणत्वात् अस्य चादिगणे पाठः इति प्रौ० मनो० ।

अनुकम्पक त्रि० अनुकम्पते दयते अनु--कम्प--ण्वुल् ।

दयाकारके । “सर्व्वभूतानुकम्पक” इति मनुः ।

अनुकम्पन त्रि० अनु + कम्प--युच् । दयाशीले । “सर्वभूतानु-

कम्पन” इति रामा० । भावे ल्युट् । दयायां न० ।

अनुकम्पा स्त्री अनु + कम्प--अङ् । दयायाम्, दयया हि

दुःखहेतुकान्यकम्पं दृष्ट्वा तत्सदृशकम्पकरणात् दयाया-
स्तथात्वम् अतएवानुकम्पधातोरनुरोदनवत् सकर्म्मकत्वम् ।
दया च परदुःखप्रहरणेच्छा अनुपूर्ब्बककम्पतेस्तदर्थ-
परत्वमित्येके धात्वर्थगृहीतकर्म्मकत्वेन तत्राकर्म्मकत्वमिति
भेदः । “तेषामेवानुकम्पार्थं प्रदेयं प्रीतिपूर्व्वकमिति” स्मृतिः ।
“भूतानुकम्पा तव चेदियं गौरिति” रघुः । किञ्चिच्चलने च ।

अनुकम्प्य त्रि० अनुकम्पमर्हति अनुकम्प + यत् । तरस्विनि

वेगवति । अनुकम्प्यते अर्हार्थे यत् । दयार्हे त्रि० ।
“दुहितरमनुकम्प्यामद्रिरादाय दोर्भ्यामिति” कुमा० ।

अनुकरण न० सावृश्ये अनु + कृ--ल्युट् । सदृशक्रियादिकरणे ।

तच्च गुणक्रियावयवादिभिः सदृशीकरणम् । अनुक्रियतेऽ-
नेनेति करणे ल्युट् । सदृशीकरणसाधने । यथा पटत्सां-
प्रभृतिशब्दाः अव्यक्तशब्दानुकरणानि । “अव्यक्तस्यानु
करणस्यात इतौ” इति पा० ।

अनुकर्ष(ण) पु० अनुकृष्यते स्वसंबद्धेन चक्रेण अनु + कृष--घञ् ।

रथाधःस्थिते चक्रोपरि बद्धे काष्ठे । कर्त्तरि ल्यु । नान्तो-
ऽप्युक्तार्थे । भावे ल्युट् । पूर्ववाक्योपात्तपदादेरुत्तरत्रा-
न्वयार्थमाकर्षणे, आकर्षणमात्रे च न० ।

अनुकल्प पु० कल्प्यते विधीयते इति कृप--णिच्--अच् कल्पो

विहितः हीनः कल्पो मुख्यकल्पादधमः प्रा० स० ।
गौणकल्पे, प्रतिनिधौ । “एष वै प्रथमः कल्पः प्रदाने
हव्यकव्ययोः । अनुकल्पस्त्वयं ज्ञेय” इति । “प्रभुः प्रथम-
कल्पस्य योऽनुकल्पेन वर्त्तते” इति च मनुः “समर्थः प्रथमे
कल्पे योऽनुकल्पे प्रवर्त्तते” इति स्मृतिः । “भार्य्याः कार्य्याः
सजातीयाः सर्वेषां श्रेयस्यःस्युरितिमुख्यः कल्पस्ततोऽनुक-
ल्पस्तु चतस्रोब्राह्मणस्येत्यादि” पैठीनसि स्मृतिः । अनुकल्पश्च
मुख्यद्रव्यद्याभावे सुसदृशदव्यान्तरादि प्रतिनिधिरूपम् ।
यथा “यवाद्यभावे गोधूमाः मध्वाद्यभावे गुड़ादयः । एवं
उपवासासामर्थ्ये नक्तं “हविष्यान्नादि स्मृतिषूक्तं वेदितव्यम् ।
अनुगतं कल्पं वेदाङ्गभेदम् अत्या० स० । कल्पानुगते ग्रन्थे
अनुकल्पप्रतिपादकग्रन्थे च तद्वेत्तरि उक्थादि० ठक् ॥
आनुकल्पिकः अनुकल्पग्रन्थवेत्तरि त्रि० ।

अनुकाम पु० अनुरूपः कामः प्रा० स० । योग्याभिलाषे ।

सदृशं कामस्य सादृश्यार्थे काममनतिक्रम्य याथार्थ्ये वा
अव्ययी० । कामसादृश्ये यथाकामे च अव्य० ।
अनुकामं तर्पयेथामिति ऋ० १, १७, ३, “अनुकामं परा दा
इति” ऋ० ८, ४८, ८, “अनुकामं यथाकाममिति” भा० ।
अनुकामयते अनु + काम--अच् । अतिकामुके त्रि० ।

अनुकामीन त्रि० कामस्य अभिलाषस्य सदृशमनुकामं सादृश्ये-

ऽव्ययी० ततः गच्छतीत्यर्थे ख । यथेष्टगमनशीले । “अनु-
कामीनतां त्यजेति” भट्टिः ।

अनुकार पु० अनु--कृ--घञ् । गुणक्रियादिभिः सदृशीकरणे । विवरणमनुकरणशब्दे दृश्यम्

अनुकारिन् त्रि० अनुकरोति अनु + कृ--णिनि स्त्रियां ङीप् ।

गुणक्रियादिभिः सदृशीकारके । “अनुकारिणि पूर्ब्बेषां
युक्तरूपमिदं तव” इति रामा० ।

अनुकार्य्य अनुक्रियतेऽसौ अनु + कृ--कर्मणि अर्हार्थे बा ण्यत् ।

अनुकरणीये सदृशीकरणार्हे पश्चात्करणीये च । “यः
पश्चात् पूर्ब्बकार्य्याणि कुर्य्यादैश्वर्य्यमोहितः पूर्ब्बं चैवानु-
कार्य्याणीति” रामा० ।

अनुकाल अव्य० कालस्य योम्यम् याथार्थ्ये अव्ययी० । काल-

योग्यत्वे । “भोजनाच्छादनं दद्यादनुकालं विशेषत” इति ।
पृष्ठ ०१७१

अनुकीर्त्तन न० अनु + कृत--णिच्--ल्युट् कीर्त्तादेशः । कथने

“साङ्गं भवति तत् सर्वं हरेर्नामानुकीर्त्तनादिति” स्मृतिः ।

अनुकूल त्रि० कूलमावरणं स्नेहेनानुबन्ध इति यावत्

अनुगतस्तम् अत्या० स० । सहचरे, सहाये, स्वपक्षपातिनि,
“नारीणामनुकूलमाचरसि चेज्जानासीति” का० प्र० ।
“अनुकूलयतीन्द्रोऽपि स्वर्गद्रुमविभूषणैरिति” कुमा०
अनुकूलयति अनुकूलं करोतीति नामधातुः । दन्तीवृक्षे
स्त्री राजनि० । अलङ्कारशास्त्रप्रसिद्धे “अनुकूल
एकरति” रित्युक्ते नायकभेदे “एकस्यामेव नायिकायामास-
क्तोऽनुकूलनायक” इति तदर्थः यथा “अस्माकं सखि!
वाससी न रुचिरे, ग्रैवेयकं नोज्ज्वलं, नो वक्रा
गतिरुद्धतं, न हसितं, नैवास्ति कश्चिन्मदः । किन्त्व-
थेऽपि जना वदन्ति सुभगोऽप्यस्याः प्रियो न्यान्यतो दृष्टिं
निक्षिपतीति विश्वमियता मन्यामहे दुःस्थितम्” इति ॥
“अनुकूलं प्रातिकूल्यमानुकूल्यानुबन्धि चेत्” इति (सा०
द०) इत्युक्तेऽर्थालङ्कारभेदे न० । यथा “कुपितासि यदा
तन्वि! निधाय करजक्षतम् । बधान भुजपाशाभ्यां कण्ठ-
मस्य दृढं तदा ॥” “सर्वेषामात्मत्वेनानुकूले परमेश्वरे
पु० “अनुकूलः शतावर्त्तैति” विष्णुस० । सर्वेषामात्मत्वादनु-
कूलः न हि स्वस्मिन् प्रतिकूलं स्वयमाचरतीति” भा० ।

अनुकृति स्त्री अनु + कृ--क्तिन् । “अनुकरणे । ओमित्येतद-

नुकृतिर्हस्म वा” इति श्रुतिः ।

अनुकृष्ट अनु + कृष--कर्म्मणि क्त । कृताकषेणे, अनुवर्त्तिते च ।

अनुक्त त्रि० न उक्तः । अनभिहिते अकथिते उक्तिश्च प्रायेण

तिङ्कृत्तद्धितसमासैः “तत्र तिङा हरिः सेव्यते, कृता चैत्रेण
गतः, तद्धितेन, शतेन क्रीतः यत् । शत्यः, समासेन,
आरूढो वानरोयमिति वाक्ये आरूढवानरो वृक्षः सर्वत्र
कर्म्मण उक्तत्वात् प्रातिपादिकार्थे प्रथमा । तैरुक्तभिन्ने तु
ग्रामं गच्छति, ग्रामं गत, वेदेऽधीती, इत्यादौ “अनभि-
हिते” इति द्वितीयाद्येव एवमन्यकारकेऽप्युदाहार्य्यम्
“अनुक्तसमुच्चयश्चकार” इति रघु० अनियोजिते च “असा-
वनुक्तोऽपि सहाय एव इति” कुमा० ।

अनुक्थ त्रि० नास्ति उक्थं स्तोत्रं यस्य । स्तोत्रशून्ये “किं

यामनिन्द्राः कृणवन्ननुक्था” इति ऋ० ५, २, ३, “अनुक्थाः
अस्तुतय” इति भा० ।

अनुक्रम त्रि० अनुगतः क्रमम् अत्या० स० । अनुगतक्रमे

क्रमानुल्लङ्घिते, अनुक्रमश्च यस्योत्तरं यस्य पाठः करणं
वा उचितं तदनतिक्रमेण तस्यानुष्ठानरूपा परपाटी ।
“प्रचक्रमे वक्तुमनुक्रमज्ञा” इति रघुः । क्रमश्च स्थानं
तत्स्वरूपादि क्रमशब्दे वक्ष्यते । क्रममनतिक्रम्य यथार्थे
अव्ययी० । क्रमानतिक्रमे अव्य० ।

अनुक्रमणिका स्त्री अनुक्रम्यते यथोत्तरं परिपाट्या

आरभ्यतेऽनया अनु + क्रम--करणे ल्युट् स्त्रीत्वात् ङीप् स्वार्थे
कनि ह्रस्वः । अनुक्रमज्ञापके, ग्रन्थाद्यंशभेदे उक्तस्य
वक्तव्यस्य वार्थसङ्घस्य ग्रन्थशेषे, क्वचिदादौ वा संग्रा-
हके पुराणादेरंशविशेषे । स्वार्थे काभावेऽनुक्रमणीत्यपि,
तत्रैव । तत्र आदो यथा “भारतस्येतिहासस्य श्रूयतां
पर्वसंग्रहःपर्ब्बानुक्रमणी पूर्ब्बं द्वितीयः पर्व्वसंग्रह” भार०
आदि० । अन्ते यथा “अनुक्रमणिकाध्यायं तथा माहा-
त्म्यमुत्तममिति” काशीख० । एवमन्यत्र दृश्यम् ।

अनुक्री पु० अनुक्रियते अनु--कृ--उणा० बा० ई किच्च ।

साद्यस्क्रक्रतुभेदे, “षट् साद्यस्क्रा इत्युपक्रम्य “हीनस्यानुक्रीः”
इति कात्या० २२, २, १९, उक्तम् “अनुक्रीर्नाम साद्यस्क्रः
क्रतुः स हीनस्य भवतीति” तद्व्याख्या ।

अनुक्रीश पु० अनुक्रोशत्यनेन अनु + क्रुश--आह्वाने रोदने च

घञ् । दयायाम् । परदुःख प्रहरणेच्छारूपदयया हि
परक्रोशं दृष्ट्वा तदनु रोदनं क्रियते इति तस्यास्तथात्वम् ।
अनुगतः क्रोशं गतिस० । प्राप्तक्रोशाध्वके त्रि० ।

अनुक्षण न० वीप्सायाम् अव्ययी० । प्रतिक्षणे अनवरते,

अनुगतं क्षणम् अत्या० स० । अजस्रवृत्तौ त्रि० ।

अनुग त्रि० अनुगच्छति अनु + गम--ड । पश्चाद्गामिनि, “गोत्र-

रिक्थानुगः पिण्डः व्यपैति ददतः स्वधेति” छिद्रं निवा-
रयेत् सर्वं श्वशूकरमुखानुगमिति” प्रमदाह्युत्पथं नेतुं
कामक्रोधवशानुगमिति” च मनुः । सहचरे, आनुलोम्यं
गते, सेवके च । “तद्भूतनाथानुग! नार्हसि त्वमिति” रघुः ।

अनुगङ्ग अव्य० गङ्गायाम् विभक्त्यर्थे अव्ययी० । गङ्गायामि-

त्यर्थे । परिमुखा० ञ्य । आनुगङ्ग्यम् अनुगङ्गम्भवे त्रि० ।

अनुगत त्रि० अनु + गम--क्त । पश्चाद्गते, सहगते, आनुलोम्यं

गते, सामान्यधर्म्मग्रहणेन संगृहीतेऽखिले विशेषे, अधीने
च । “आगच्छद्यत्र काकुत्स्थः स्वर्गाय समुपस्थितः विमा-
नवरकोटीभिर्देवैरनुगतस्तदेति” रामा० ।

अनुगति स्त्री अनु + गम--क्तिन् । अनुगमने, पश्चाद्गतौ, “बलस्य

चतुरङ्गस्य नायकानुगतिर्नय” इति “गतानुगतिकन्यायः” ।
पृष्ठ ०१७२

अनुगम पु० अनु + गम--घञ् वृद्ध्यभावः । पश्चाद्गमने, “वृहते-

र्धातोरर्थानुगमादिति” शा० भा० । सहायीभवने, सामा-
न्यधर्म्मेण सर्वेषां विशेषरूपाणां संग्रहे च । “सम्बन्धस्या-
ननुगमो न दोषायेति” दाय० श्रीकृष्णः । आनुलोम्य-
करणे, “कलौ त्वनुगमान्विते” इति स्मृतिः ।

अनुगमन न० अनु + गम--भावे ल्युट् । पश्चाद्गमने । “शवानु-

गमनाशौचं स्नानमात्रेण शुध्यतीति” स्मृतिः भर्त्तृशरीरा-
नुगमनमहं करिष्यामीति शु० त० रघु० ।

अनुगव न० गोःसदृश आयामः “यस्य चायाम” इति समासे

नि० अच् । गवायामतुल्यायामयुक्ते शकटादौ ।

अनुगवीन त्रि० गोः पश्चात् पर्य्याप्तं वा गच्छति अनुगु--ख ।

गोः पश्चाद्गामिनि गोपाले । “अनुग्वलंगामीति” (पा०)
उक्तेः पर्य्याप्तगन्तरि च ।

अनुगादिन् त्रि० अनुगदति अनु + गद--णिनि । अनुवादके

स्त्रियां ङीप् । अनुगाद्येव स्वार्थे, “अनुगादिनष्ठक् च”
पा० ठक् आनुगादिकः तदर्थे ।

अनुगामिन् त्रि० अनुगच्छति अनु + गम--णिनि । पश्चाद्गन्तरि,

सहचरे च । स्त्रियां ङीप् । “दृष्ट्वा स्त्रियमिवायान्तीं
ब्राह्मणीमनुगामिनीमिति” रामा० ।

अनुगुण त्रि० अनुकूलो गुणो यस्य । अनुकूले, अनुगते, अनु

रूपे च । “अद्वैतं सुखदुःखयोरनुगुणं सर्व्वास्ववस्थासु
यदिति” उत्तरच० । अनुरूपः गुण उपकरणम् । योग्योप-
करणे “रसानुगुणतामेतीति” सा० द० । सदृशगुणयुक्ते त्रि० ।
“कान्तारतापसाविक्षू वंशकानुगुणौ मताविति” सुश्रुतम् ।
अनुगतः गुणं तन्त्रीसूत्रं वा गुणानुरक्ते त्रि० तन्त्रीयुक्त-
वीणायां स्त्री “उत्कण्ठितस्य हृदयानुगुणा वयस्येति”
अनुगुणा वीणेति तदर्थः । गुणे विभक्त्यर्थे, गुणमनतिक्रम्य
वा अव्ययी० । गुणे इत्यर्थे, गुणानतिक्रमे च । तद्बो-
धकग्रन्थमधीते वसन्तादि० ठक् । आनुगुणिकस्तदध्ये-
तरि, तद्वेत्तरि च त्रि० ।

अनुगुप्त त्रि० अनु + गुप्--क्त । आच्छादिते । “अनुगुप्ता अप

आहृत्येति” गोभिलः “अनुगुप्ता आच्छादिता” इति रघु० ।

अनुगृहीत त्रि० अनुग्रह--क्त । कृतानुग्रहे ।

अनुग्र त्रि० न उग्रः । शान्तस्वभावे असमर्थे, अनुद्धते च ।

“भगमनुग्रो अधयाति रत्नमिति” ऋ० ७, ३८, ६, “अनुग्रः
असमर्थ” इति भा० “अनुग्रासश्च वृत्रहन् ऋ० ८, १, १४,
अनुग्रा अनुद्गूर्णा इति (भा०) उक्तेः अनुद्गूर्णेच ।

अनुग्रह पु० अनु + ग्रह--अप् । अभीष्टसम्पादनेच्छारूपे प्रसादे,

आनुकूल्ये, अनिष्टनिवारणपूर्ब्बकेष्टसाधनेच्छारूपायामभ्यु-
पन्तो, “विरूपोन्मत्तनिःस्वासानासकुत्सापूर्व्वकं हि यत् ।
पूरणं दानमानाभ्यामनुग्रह उदाहृत” इत्युक्तलक्षणे
दरिद्रादिपोषणे च । “निग्रहानुग्रहे शक्तः प्रभुरित्यभिधी-
यते” इति तन्त्रम् । “अनुग्रहं संस्मरणप्रवृत्तमिति”
कुमा० । “पादार्पणानुग्रहपूतपृष्ठमिति” रघुः । ग्रहो
ग्रहणं सूर्य्यादिग्रहो वा अनुगतस्तम् गति स० । ग्रहानुगते
सूर्य्यादिग्रहानुगे च त्रि० ।

अनुग्राह्य त्रि० अनु + ग्रह--ण्यत् । अनुग्रहार्हे “यदि तेऽह-

मनुग्राह्यो यदि स्मरसि मे गुणानिति” “सर्वथानुग्राह्यो
देवतानामसंशय” इति च रामा० ।

अनुचर त्रि० अनुचरति अनु + चर--ट स्त्रियां ङीप् अच् वा

स्त्रियां टाप् । सहचरे, पश्चाद्गामिनि, दासादौ, “व्रताय
तेनानुचरेण धेनोरिति” “अन्येद्युरात्मानुचरस्य भावमिति
च” रघुः । अनुगतश्चरं दूतं गतिस० । दूतानुगे त्रि० ।
सेवके च, “गन्धर्वा गुह्यकायक्षा विबुधानुचराश्च ये” इति
मनुः “चत्वारि च शतान्यनुचरणामिति” कौ० ब्रा०
“अप्सरसो महेन्द्रानुचरा दशेति “सौमित्रिसीतानुचर-
स्येति” भट्टिः । “पालागली सानुचर्य्यः शतेन शतेन” इति
कात्या० २०, १, १२, एतद्व्याख्यायां बहुशः अनुचरीशब्द-
प्रयोगस्तत्र द्रष्टव्यः पालागली दासपुत्री ।

अनुचारक त्रि० अनुचरति अनु + चर--ण्वुल् । अनुगन्तरि,

सेवके च । तस्य धर्म्यम् अण् । आनुचारिकम् सेवकधर्म्ये
कार्य्ये त्रि० ।

अनुचित त्रि० न--उचितः । अपरिचिते, अयुक्ते च ।

अनुचिन्तन न० अनु + चिन्ति--ल्युट् । अनुस्मरणे सततचिन्ता-

याम् “द्वादशे मृत्युभावे च वैपरीत्यानुचिन्तनमिति ज्योति० ।

अनुचिन्ता स्त्री अनु + चिन्ति--अ । सततचिन्तायाम् ।

अनुच्च त्रि० न उच्चः विरोधे न० त० । उच्च ताविरोधि-

निम्नत्ववति । ज्योतिषोक्ते ग्रहाणां नीचस्थाने च । तानि
स्थानानि उच्चशब्दे वक्ष्यन्ते ।

अनुच्छिष्ट त्रि० उद् + शिष--क्त न० त० । उच्छिष्टभिन्ने

आहार्य्यद्रव्यस्य भुक्तावशिष्टमुच्छिष्टं तद्भिन्ने ।

अनुज त्रि० अनु पश्चात् जायते अनु + जन--ड । पश्चाज्जाते

सहोदरे भ्रातरि । तादृश्यां भगिन्यां स्त्री ।
एकाधिकं हरेज्ज्येष्ठः पुत्रोऽध्यर्द्धं ततोऽनुज इति मनुः ।
“चचार सानुजः शान्त” इति रघुः “परिवेत्ता-
नुजेऽनूढ़े” इति मनुः ।

अनुजन्मन् पु० अनु जन्म यस्य । सहोदरे कनिष्टभ्रातरि ।

“जननाथ! तवानुजन्मनामिति” भारविः ।
पृष्ठ ०१७३

अनुजात त्रि० अनु + जन--क्त । पश्चाज्जातमात्रे, “दन्तजाते-

नुजाते च कृतचूड़े च संस्थिते” इति ममुः । अनुजाते
दन्तजन्मानन्तरं संस्थित इति” कुल्लू० “भ्रातस्तवानुजाताऽहं
भुङ्क्ष्व भक्तमिदं शुभम्” इति स्मृतिः । “असौ कुमार-
स्तमजोनुजात” इति रघुः । अनन्तरजातत्वात् पुत्त्रस्य
तथात्वम् ।

अनुजावर त्रि० अनुजादप्यवरः । अत्यन्तनिकृष्टे । “एता-

मेवानुजावराय कुर्य्यादिति” ता० ब्रा० । अनु पश्चाज्जायते
इत्यनुजः कनीयान् सहि निकृष्टः तस्मादप्यवरो निकृष्ट
इति भा० वेदे न स्मैभावः लोके तु अनुजावरस्मै ।

अनुजीविन् त्रि० अनुजीवितुमाश्रयितुं शीलमस्य अनु +

जीवणिनि । सेवके, आश्रिते च ।

अनुजीव्य त्रि० अनुजीव्यतेऽसौ अनु + जीव--ण्यत् । आश्रणीये सेव्ये ।

अनुज्ञा स्त्री अनु + ज्ञा--अङ् । स्वयंप्रवृत्तस्यान्यस्य प्रवृत्त्य-

विघातकरणेन प्रवर्त्तनारूपायामनुमतौ । “गुरोरनुज्ञामधि-
गम्य मातः”! इति रघुः । “तद्वा एतदनुज्ञाक्षरं यद्धि-
किञ्चनानुजानात्योमित्येव तदाहेति” श्रुतिः ।

अनुज्ञात त्रि० अनु + ज्ञा--क्त । कृतानुज्ञे यस्मै करणायानुज्ञा

कृता तस्मिन् जने ।

अनुज्येष्ठ त्रि० अनुगतो ज्येष्ठम् प्रा० स० । ज्येष्ठानुगते ।

ज्येष्ठमनतिक्रग्य याथार्थ्ये अव्ययी० । ज्येष्ठानुरूपे ज्येष्ठानति-
क्रमे च अव्य० ।

अनुतर न० अनुतीर्य्यतेऽनेन अनु--तॄ--करणे अप् । नदीपारार्थं देये शुक्लादौ, आतरे ।

अनुतर्ष न० अनुतृष्यतेऽनेनेदं वा करणे कर्म्मणि वा घञ् ।

सुरापानपात्रे, मद्ये च । भावे घञ् । मद्यपाने, अभिलाषे,
पानेच्छायाञ्च । “सोपचारमुपशान्तविचारं सानुतर्षमनुत-
र्षपदेनेति” माघः ।

अनुताप पु० अनु + तप--घञ् । इदमनुचितं कृतमिति स्वकृत-

वस्तुनो दुःखजनकतया ज्ञानेन पश्चात्तापे । “ख्यापनेना-
नुतापेन” इति” मनुः । “तस्याः करिष्यामि दृढानुताप-
मिति” कुमा० ।

अनुतिल त्रि० अनुगतस्तिलम् अत्या० स० । तिलानुगते क्षेत्रादौ,

तिलै विभक्त्यर्थे अव्ययी० तत्र भवः परिमुखादि० ञ्य ।
आनुतिल्यः तिलभवे त्रि० ।

अनुतूलन न० तूलेनानुकुष्णाति तृणाद्यग्रं तूलेनानुवट्टयति

अनु + तूल + अनुकोषणे णिच्--भावे ल्युट् । तूलेन तृणा-
ग्रादेरनुघट्टने ।

अनुत्क त्रि० न० त० । उत्कण्ठितभिन्ने स्वस्थे ।

अनुत्कर्ष पु० न उत्कर्षः अभावे न० त० । उक्तर्षाभावे

ब० । उत्कर्षशून्ये त्रि० ।

अनुत्त त्रि० न + उन्द--क्त नसत्तनिषत्तानुत्तेत्यादिना नि० ।

अक्लिन्ने “इन्द्र! तुभ्यमिदद्रिवोऽनुत्तमिति” ऋ० १, ८०, ७,
नुद--क्त न० त० । अनुन्ने अप्रेरिते । “अनुत्तमाते
मघवन्निति” ऋ० १, १६५, ९, “अनुत्तमप्रेरितमिति” भा० ।

अनुत्तम न० न उत्तमोयस्मात् । अत्युत्कृष्टे । “काङ्क्षन्

गतिमनुत्तमामिति, “इह कीर्त्तिमवाप्नोति प्रेत्य चानुत्तमं
सुखमिति” “यशोऽस्मिन् लोके प्राप्नोति प्रेत्य चानुत्तमं
सुखमिति” च मनुः ।

अनुत्तर त्रि० उत्तरौत्तमः न० ५ ब० । अत्यन्तश्रेष्ठे । ६ ब० ।

उत्तरवाक्यरहिते “भवत्यवज्ञा च भवत्यनुत्तरादिति” नैष० ।
न० त० । उत्तरदिग्भिन्नायां तद्विरोधिन्यां दक्षिणस्यां
दिशि, स्त्री । उत्तमभिन्ने अपकृष्टे त्रि० । न उत्तरति
चलति उद् + तॄ--अच् न० त० । स्थिरे त्रि० ।

अनुत्तान त्रि० न उत्तानः विरोधे न० त० । उत्तानभिन्ने

अवताने अवाङ्मुखे ।

अनुत्तरङ्ग त्रि० उद्गतस्तरङ्गो वीचिश्चाञ्चल्यं वा यस्मात् प्रा०

ब० न० त० । अनुद्गततरङ्गे अचञ्चले च “अपामिवाधार-
मनुत्तरङ्गमिति” कुमा० शिवपक्षे अचञ्चलमित्यर्थः ।

अनुत्पत्ति स्त्री न उत्पत्तिः अभावे न० त० । उत्पत्त्यभावे

“क्षयं केचिदुपात्तस्य दुरितस्य प्रचक्षते । अनुत्पत्तिं
तथा चान्ये प्रत्यवायस्य मन्वते” स्मृतिः ।

अनुत्पत्तिक त्रि० नास्ति उत्पत्तिर्य्यस्य कप् । उत्पादशून्ये ।

अनुत्पन्न त्रि० न उत्पन्न न० त० । उत्पन्नभिन्ने अजन्ये ।

अनुत्पाद पु० न उत्पाद उत्पत्तिः अभावार्थे न० त० ।

उत्त्त्यभावे । ब० । उत्पत्तिशून्ये त्रि० ।

अनुत्साद पु० न उत्सादः अवसादनम् भावे न० त० । अव

सादाभावे उच्छेदाभावे । न० ब० । उच्छेदशून्ये त्रि० ।

अनुत्साह पु० न उत्साहः अमावे न० त० । उत्साहाभावे

ब० । उत्साहशून्ये त्रि० ।

अनुत्सिक्त त्रि० न उत्सिक्तः गर्वितः । अगर्विते गर्वशून्ये ।

अनुत्सुक त्रि० न० त० । उत्सुक--भिन्ने उत्कण्ठाशून्ये ।

अनुत्सूत्र त्रि० उत्क्रान्तः सूत्रम् अत्या० स० न० त० ।

सूत्रानुगते “अनुत्सूत्रपदन्यासा सद्वृत्तिः सन्निबन्धनेति”
माघः । सूत्रं पाणिनीयसूत्रं नीतिशास्त्रञ्चेति विवेकः ।

अनुद त्रि० न नुदति नुद--क न० त० । प्रेरकभिन्ने

अनुददाति तुल्यं ददाति अनु + दा क । तुल्यरूपदातरि
एतस्य उदाहरणम् प्रागुक्त्रे अनानुदशब्दे दृश्यम् ।
पृष्ठ ०१७४

अनुदक त्रि० नास्ति उदकं यत्र । “उदकशून्ये मरुदेशादौ

अल्पार्थे न० त० । अल्पजले पल्वलादौ “उद्वन्वतीरनु-
दकाश्च या” इति ऋ० ७, ५१, ४, उदकदानविशेषशून्ये
श्राद्धभेदे “पुरोडाशमात्रा अनुदका” इति कात्या० १०,
५, ११, । “अनुदकाः प्रत्यवनेजनपरिषेचनादि वर्जिता”
इति तद्व्यख्या ।

अनुदग्र न उद्गतमग्रमस्य । मृदौ अतीक्ष्णे उन्नताग्रभिन्ने च

नास्ति उदग्रोयस्मात् ५ ब० । अत्युन्नते त्रि० ।

अनुदर त्रि० न उदरं यस्याल्पार्थे न० ब० । अल्पोदरशालिनि

कृशोदरे, “अनुदरा कन्येति सि० कौ० स्त्रियां टाप् ।

अनुदर्शन अनु + दृश--ल्युट् । अनुचिन्तने, “जन्ममृत्युजराव्याधि

दुःखदोषानुदर्शन” मिति गीता ।

अनुदात्त न० न उदात्तः विरोधे न० त० । उदात्तस्वरभिन्ने

नीचैरुच्चारिते स्वरभेदे । स्वराहि त्रिविधाः उदात्तः
अनुदात्तः स्वरित इति भेदात् तत्र “उच्चैरुदात्तः” “नीचै-
रनुदात्तः” “समाहारः स्वरित” इति च पा० । ताल्वादिषु,
सभागेषु स्यानेषूर्द्ध्वभागे निष्पन्नोजुदात्तः, तत्रैव नीचभागे
निष्पन्नोऽच् अनुदात्तः । “तस्यादित उदात्तमर्द्धहस्वमिति”
पा० । यस्यादितोऽर्द्धसुदात्तमन्त्यमनुदात्तं तादृशः स्वरः
स्वरितः इति” “अनुदात्तं पदमेकवर्ज्जमिति” अस्यैव निघात
नीचादि संज्ञा उदात्तानुदात्तत्वादिकं स्वरवर्णस्यैव न तु
व्यञ्जनानां, यथोक्तम् शिक्षायाम् “उदात्तश्चानुदात्तश्च
स्वरितश्च स्वरास्त्रयः हृस्वोदीर्घः प्लुतश्चेति कालतोनियम-
स्त्वचीति” । “प्रयत्नप्रेरितोवायुर्यदोर्द्ध्वभागे प्रतिहतोऽचं
निष्पादयति स उदात्तः । एवमधोनिष्पन्नोजनुदात्त इति”
शब्देन्दु० । “उदात्तानुदात्तस्वरितानां सन्निकर्ष ऐक
श्रुत्यम्” इति आश्व० गृह्यम् ।

अनुदार न० न उदारः । अतिदातृभिन्ने, अमहति च ।

नास्ति उदारो यस्मात् ५ ब० । अतिमात्र दातरि, अति
महति च । अनुगतो दारान् अत्या० स० । दारानुगते ।
“यस्मिन् प्रसीदसि पुनः स भवत्युदारोऽनुदारश्चेति का०
प्र० । उदारत्वानुदारत्वयोरापाततो विरोधः । उदारत्वा-
नुगतदारत्वाभ्यां तत्परिहारः ।

अनुदित पु० उद् + इण् + क्त ईषदर्थे न० ७ ब० । किरणमात्रेण ।

ईषदुदितसूर्य्ये प्रविरलतारके काले । “उदितेऽनुदिते
चैवेति मनुः न० त० । उदितभिन्ने त्रि० । व्रद--क्त
न० त० । अकथिते त्रि० ।

अनुदिन अव्य० वीप्सार्थे अव्ययी० । प्रतिदिने “पारावतः

खलु शिलाकणमात्रभोगी कामी भवेदनुदिनं वद कोऽत्र
हेतु” रित्युद्भटः । अनुदिवसादयोप्यत्र ।

अनुदृष्टि स्त्री अनुगता अनुकूला वा दृष्टिः प्रा० स० ।

अनुगतदृष्टौ, अनुकूलदृष्टौ च । ब० । तथादृष्टिमति त्रि० ।
तथाभूतस्त्रियाः अपत्यं कल्याण्या० ढक् इनङ् च ।
आनुदृष्टिनेयः तदपत्ये पुंस्त्री० । अनुदृष्टेः पुंसोऽपत्यम् शुभ्रा०
ढक् । आनुदृष्टेयः तदपत्ये पुंस्त्री० ।

अनुदेश पु० अनु + दिश--घञ् । यथाक्रमोच्चारणे, उपदेशे च

“यथासंख्यमनुदेशः समानामिति” पा० । अनुदिश्यते
कर्मणि घञ् । उपदेश्ये “अनुदेशाद्याः पुरोडाशेत्यादि”
कात्या० १८, ६, १५ ।

अनुद्देश पु० न उद्देशः अभावार्थे न० त० । उद्देशाभावे ।

अनुद्धत त्रि० न उद्धतः विरोधे न० त० । विनययुक्ते ।

अनुद्धरण न० न उद्धरणम् अभावार्थे न० त० । उद्धाराभावे

अनुद्धार पु० न उद्धारः अभावार्थे न० त० । उद्धाराभावे ।

न उद्धारः विभाज्यविशेषस्योत्थापनं यत्र । विंशोद्धारशून्ये
विभागे त्रि० । “अनुद्धारोविभागः स्यादिति स्मृतिः ।

अनुद्धृत त्रि० न उद्धृतमुत्थापितम् । अनुत्थापिते “पयोऽनु-

द्धृतसारञ्चेति” हविष्यविषये स्मृतिः ।

अनुद्भट त्रि० न उद्भटः विरोधे न० त० । अप्रल्भे मृदौ ।

अनुद्यम पु० न उद्यमः अभावे न० त० । उद्यमाभावे । न०

ब० । उद्यमशून्ये त्रि० ।

अनुद्यूत न० अनु + दिव--क्त । द्यूतस्य पश्चात् पुर्नद्यूते ।

तदधिकृत्य कृतग्रन्थतयोक्तमनुद्यूतपर्व सभापर्वणि दृश्यम् ।

अनुद्योग पु० न उद्योगः अभावे, न० त० । उद्योगाभावे

ब० । उद्यमशून्ये त्रि० ।

अनुद्रुत त्रि० अनु + द्रु--क्त । अनुगते “धनुर्द्धरै राजसुतै-

रनुद्रुतमिति रघुः “अनुद्रुतः संयति येन केवलं बलस्य
शत्रुः प्रशशंस शीघ्रतामिति” माघः । “अर्द्धमात्रं द्रुतं
ज्ञेयं द्रुतार्द्धञ्चाप्यनुद्रुतमित्युक्ते” मात्राचतुर्थभागकाले
तालभेदे न० ।

अनुद्वाह पु० न उद्वाहः अभावार्थे न० त० । विवाहाभावे न० त० । तच्छून्ये त्रि० ।

अनुद्विग्न त्रि० न उद्विग्नः विरोधे न० त० । उद्विग्नभिन्ने

अव्याकुलचित्ते ।

अनुद्वेग पु० न उद्वेगः अभावार्थे न० त० । उद्वेगाभावे

न० ब० । तच्छून्ये त्रि० “अनुद्वेगकरं वाक्यं सतां
स्वाभाविकं मतमिति” नीति० ।
पृष्ठ ०१७५

अनुधावन न० अनु + धाव--ल्युट् । पश्चाद्गमने, तत्त्वनिश्चया-

यानुसरणे, अनुसन्धाने च ।

अनुध्या स्त्री अनु + ध्यै--अङ् । शुभानुचिन्तने, अनुग्रहे, आसक्तौ च ।

अनुध्यान न० अनु + ध्यै--ल्युट् । अनुक्षणचिन्तने “या नः

प्रीतिर्विरूपाक्ष! त्वदनुध्यानसम्भवेति” कुमा० ।

अनुध्याय पु० अनु + ध्यै--कर्त्तरि घञ् । अनुचिन्तके शुभानु-

चिन्तके । “बालस्याशक्तस्य वा तदनुध्यायमनसेति”
प्रा० त० स्मृतिः ।

अनुध्येय त्रि० अनु + ध्यै--कर्म्मणि यत् । अनुग्राह्ये यदीय-

शुभानुचिन्तनं क्रियते तस्मिन् । “अनुदध्युरनुध्येयं सान्नि-
ध्यैः प्रतिमागतैरिति” रघुः ।

अनुनय पु० अनु + नी + अच् । विनये, प्रणिपाते, प्रार्थने,

सान्त्वने च । “कथं नु? शक्योऽनुनयोमहर्षेर्विश्राणना-
दन्यपयस्विनीनामिति” रघुः ।

अनुनाद पु० अनुरूपोःनादः प्रा० स० । प्रतिध्वनौ प्रतिशब्दे अनुरूपशब्दे ।

अनुनादिन् त्रि० अनु + नदति अनु + नद--णिनि । प्रतिरूप

शब्दकारके “गम्भीरेणानुनादिनेति” रामा० ।

अनुनायिका स्त्री अनुगता नायिकाम् । नायिकानुगतायाम्

“सखी प्रब्रजिता दासी प्रेष्या धात्रेयिका तथा । अन्याश्च
शिल्पकारिण्यो विज्ञेया ह्यनुनायिका” इत्युक्तदास्यादो ।

अनुनाश पु० अनु + नश--घञ् । अनुमरणे । अदूरदेशादावर्थे

सङ्काशादि० ण्य आनुनाश्यः तददूरदेशादौ त्रि० ।

अनुनासिक त्रि० अनुगतो नासिकाम् अत्या० स० । नासिक-

या सह स्वस्वस्थानेनोच्चार्य्यमाणेषु वर्णभेदेष । ते च
“अमोऽनुनासिका न ह्रौ” इति शिक्षायां दर्शिताः हकार-
रकारभिन्नाः अम्प्रत्यहरान्तर्गताः वर्णाः । “मुखनासिका-
वचनोऽनुनासिक” इति पाणिन्युक्तेस्तेषां तत्तत्स्थान-
सहितनासिकयोच्चार्य्यमाणत्वात्तत्त्वम् “उपदेशेऽजनुनासिक”
इति पा० । अम्प्रत्याहारमध्ये रभिन्ना यबलाः
निरनुनासिकाः सानुनासिकाश्च तत्रानुनासिकस्थाने उत्पन्नय-
वलामेव सानुनासिकत्वम् “यलोद्विधाऽरो निरनुनासिकः
सानुनासिकः । ञमोऽनुनासिकस्तेन तत्स्थाने सानुनासिक”
इत्यभियुक्तोक्तेः यथा यय्यँम्यते विद्वाल्लिँखति, सर्व्वत्सरः
अन्ये निरनुनासिकाः । वेत्यनुवृत्तौ “अणोऽप्रगृह्यस्यानु-
नासिक” इति पाणित्युक्तेरप्रगृह्या एवाणोऽनुनासिकाः ।

अनुनीत त्रि० अनु + नी--क्त । कृतानुनये यस्य सान्त्वनार्थं

विनयादिकं क्रियते तस्मिन् । “स चानुनीतोऽपि भृशं
चुकोपेति” भारतम् ।

अनुनेय त्रि० अनु + नी--कर्मणि यत् । अनुनयकरणार्हे,

अनुनेतुं योग्ये च ।

अनुपकार पु० न उपकारः अभावार्थे न० त० । उपकारा-

भावे विरोधे न० त० । अपकारे ।

अनुपकारिन् त्रि० न उपकारी विरोधे न० त० । अपकारिणि स्त्रियां ङीप् ।

अनुपक्षित त्रि० उप + क्षि--क्त वेदे निष्ठातस्य न नत्वम्

न० त० । अनुपक्षीणे । “सुवीर्य्यं वर्षिष्ठमनुपक्षितम् ऋ०
३, १३, ७ अनुपक्षितम् “अनुपक्षीणमिति” भा० । लोके
तु अनुपक्षीणः त्रि० ।

अनुपठित न० अनु + पठ--भावे क्त । गुरुमुखपाठानुसारिपाठे

अनुपठितमनेन इष्टादि० इनि । अनुपठिती कृता-
नुपाठे त्रि० स्त्रियां ङीप् ।

अनुपतन न० अनु + पत--ल्युट् । अनुकूलपतने, अनुरूपपतने च ।

अनुपति अव्य० पत्युः सामीप्यम् अव्ययी० । पतिसमीपे ।

“अनुपति पत्नीरुत्तर उत्तर” इति कात्या० १२, २, १६,
दीक्षाकर्त्ता पतिसमीपे तत्पत्नीः दीक्षयतीति तद्व्याख्या ।

अनुपथ पु० अनुकूलः पन्थाः अच् समा० । अनुकूलमार्गे

“अन्तस्पथा अनुपथा” इति ऋ० ५, ५२, १०, अनुपथाः
अनुकूलमार्गा इति भा० । पथःसमीपे पथि वा अव्ययी० ।
पथिसमीपे पथीत्यर्थे वा अव्य० । परिमुखा० ञ्य ।
आनुपथ्यम् पथिभवादौ त्रि० ।

अनुपद न० अनुरूपं पदम् प्रा० समा० । अनकूलपदे अनुरूप-

स्थाने “आशिषामनुपदमिति” “अर्घानुपदमाशिष” इति च
रघुः । पदस्य पश्चात् अव्ययी० । पदस्य पश्चादित्यर्थे पश्चा-
द्गमने च । भवादौ परिमुखा० ञ्य आनुपद्यः तत्र भवादौ
त्रि० । सुप्तिङन्तं पदं तत्सदृशं ग्रन्थमधीते वेत्ति वा
उक्था० ठक् । आनुपदिकः तदध्येतरि तद्वेत्तरि च त्रि० ।

अनुपद् न० अनुपद्यते प्रतिदिनं लभ्यते अनु + पद--क्विप् ।

प्रतिदिनलभ्येऽन्ने । “अनुपदस्यानुपदे त्वा” य० १५, ८,
“प्रतिदिनमनुपद्यतेऽनुपदन्नमिति” वेददीपः ।

अनुपदिक त्रि० अनुपदमस्त्यस्य गन्तृत्वेन ठन् । पश्चाद्गते

अनुपदिन् अनुपदमन्वेष्टा अनुपद + इनि । अनुपदम् अन्वेष्टरि

(अन्वेषणकर्त्तरि) “अनुपद्यन्वेष्टेति” पा० “मृगस्यानुपदी
रामो जगाम गजविक्रम” इति भट्टिः ।

अनुपदिष्ट त्रि० उप + दिश--क्त न० त० । उपदेशाकर्म्मणि ।

अनुपदीना स्त्री अनु, पदस्य आयामतुल्यायामः आयामे-

ऽव्ययी० अनुपदं बद्धेत्यर्थे ख । पादतुल्यायामवत्यां
पादबद्धायां पादुकायाम् (मोजा) इत्यादि ख्यातायाम् ।
पृष्ठ ०१७६

अनुपधि त्रि० नास्ति उपधिश्छलं यत्र । निष्कपटे

सरलव्यवहारे ।

अनुपनीत पु० न उपनीतः न० त० । अकृतोपनयनसंस्कारे ज्ञानलक्षणाधीनज्ञानाविषयीभूते त्रि० ।

अनुपन्यास त्रि० न उपन्यासः अभावे न० त० । उपन्यासा-

भावे कथनाभावे । न० ब० । कथनशून्येवागारम्भशून्ये त्रि० ।

अनुपपत्ति स्त्री उप + पद--क्तिन् उपपत्तिर्युक्तिः न० त० ।

युक्त्यभावे, असङ्गतौ च । “तात्पर्य्यानुपपत्तित” इति
भाषा० । उपपत्तिश्च न्यायादिमते व्यतिरेकव्याप्तिज्ञाना-
धीनानुमितिः” आपादकज्ञानाधीना आपाद्यनिश्चयरूपा
ऽनुभूतिर्वा । यथा पीनोदेवदत्तो दिवा न भुङ्क्ते इत्युक्ते
दिवाऽभोजिनः पीनत्वं रात्रिभोजनं विनानुपपन्नमिति”
अभोक्तुः पीनत्वासम्भवेन रात्रिभोजनं निश्चीयते तथा हि
पीनत्वस्य भोजनव्याप्यतया पीनत्वाभावस्य च रात्रिभोजि-
त्वाभावव्याप्यतानिश्चयेन पीनत्वेन रात्रिभोजनमनुमीयते
सा चानुमितिः अर्थापत्तित्वेन व्यवह्रियते इति नैया-
यिकाः । मीमांसकवेदान्तिभिस्तु कल्पयामि अर्थापया-
मीति विलक्षणानुभवात् अनुमितिभिन्नैव सेति स्वीक्रि-
यते । अधिकमर्थापपत्तिशब्दे वक्ष्यते ।

अनुपपन्न त्रि० उप + पद--क्त न० त० । उपपत्तिशून्ये ।

अनुपबाध त्रि० नास्ति उपबाधा प्रतिबन्धोऽस्य । प्रति-

बन्धशून्ये ।

अनुपम त्रि० नास्ति उपमा यस्य । अतुल्ये अन्यसादृश्यरहिते

अत्युत्कृष्टे । “बलं प्रमाणं शक्तिश्च परैरनुपमं ममेति रा० ।
कुमुददिग्गजयोषिति स्त्रीत्यमरः । सुप्रतीकदिग्गजस्त्रियां
स्त्रीति मेदिनिः ।

अनुपमेय त्रि० केनापि न उपमीयतेऽसौ उप + मि--कर्म्मणि

यत् न० त० । अन्यैरतुल्ये, अन्यसाद्दृश्यरहिते ।

अनुपयुक्त न उपयुक्तम् उचितं भुक्तं वा न० त० । समुचित-

भिन्ने अननुरूपे भुक्तभिन्ने च ।

अनुपयोग पु० न उपयोगः आनुकूल्यं भोजनं वा न० त० ।

आनुकूल्याभावे, भोजनाभावे च । न० ब० । आनुकूल्य-
शून्ये, भोजनशून्ये च त्रि० ।

अनुपरत त्रि० उपरतः निवृत्तः न० त० । अनिवृत्ते विषयरागनिवृत्तिशून्ये ।

अनुपरति स्त्री न उपरतिः विषयरागः अभावे न० त० ।

विषयरागाभावे ।

अनुपलक्षित त्रि० न उपलक्षितः विशेषेण ज्ञातः । विशेषेणाज्ञाते अतर्किते ।

अनुपलब्धि स्त्री न उपलब्धिः अभावे न० त० । लाभा-

भावे प्रत्यक्षाद्यभावे च । तत्र अनुपलब्धिश्च न केवलं
इन्द्रियादिसन्निकर्षाभावमात्रेण, किन्तु तत्सन्निकर्षेऽपि
कारणान्तरादपि भवति यथोक्तं सांख्यसूत्रे । “सौक्ष्म्या-
त्तदनुपलब्धिरिति” । तदेव कारिकायां विवृतम् “अति-
दूरात् सामीप्यादिन्द्रियघातान्मनोऽनवस्थानात् । सौक्ष्म्या-
द्व्यवधानादभिभवात् समानाभिहारादिति “नास्ति
घटोऽनुपलब्धेरिति” । योग्यपदार्थस्यानुपलब्धिश्च अभावज्ञान-
सामग्री । तद्विवरणं योग्यानुपलब्धिशब्दे दृश्यम् ।

अनुपवीत पु० न उपवीतं यज्ञसूत्रं विधिना जातमस्य ।

अनुपनीते मानवके । उपवीतरूपयज्ञसूत्रशून्ये च ।

अनुपशम पु० न उपशमः शान्तिः निवृत्तिर्वा अभावे त० त० ।

शान्त्यभावे, निवृत्त्यभावे च ।

अनुपसंहारिन् पु० न्यायमते परिभाषिते दुष्टहेतुविशेषे । स

च अन्वये व्यतिरेके च दृष्टान्तरहितत्वेन दुष्टोहेतुः ।
यथा सर्वमनित्यं प्रमेयत्वादित्यनुमाने सर्वस्यापि पक्षत्वेन
अन्वये दृष्टान्तो नास्ति नापि व्यतिरेके दृष्टान्तः, सर्वस्यापि
प्रमेयतया तदभावस्य कुत्राप्यसिद्धेः । “तथैवानुपसंहारी
केवलान्वयिपक्षक” इति । “आद्यः साधारणस्तु स्याद-
न्योऽसाधारणो मतः । तथैवानुपसंहारी त्रिधा नैकान्तिको
मत” इति च भाषा० मुक्तावल्यान्तु सर्वमभिधेयं प्रमेयत्वा-
दित्यादिकं तदुदाहरणत्वेनोपन्यस्तं “केवलान्वयिपक्षक
इत्यस्य च केवलान्वयिसाध्यक इत्येतत् परतया व्याख्यातञ्च ।
यथा “केवलान्वयिधर्म्मावच्छिन्नपक्षक इत्यर्थः । सर्बमभिधेयं
प्रमेयत्वादित्यादौ सर्व्वस्यैव पक्षत्वात् सामान्याधिकरण्य-
ग्रहस्थलान्तराभावान्नानुमितिः इदन्तु न सम्यक् । पक्षैक-
देशे घटसहचाराग्रहेऽपि क्षतेरभावात् अस्तु वा
सहचारग्रहस्तावतापि पक्षे अज्ञानरूपासिद्धिरेव न
तुहेत्वाभासत्वं तस्य, तथापि केवलान्वयिसाध्यकत्वं तत्त्वमि-
त्युक्तम् । उपसंहाराकारके त्रि० ।

अनुपसेचन त्रि० नास्ति उपसेचनं व्यञ्जनं यत्र । दध्यादि-

व्यञ्जनशून्ये अन्ने “स यत्तदन्नस्य महिमानं विद्यादि”
त्युपक्रम्य “नाल्प इति ब्रूयान्नानुपसेचन” इति उक्तम्,
अथ० ११, ३, ४ ।

अनुपस्कृत त्रि० उप + कृ--प्रतियत्ने क्त सुट् न० त० । अकृत-

पाकादिसंस्कारे अविकृते च “मुन्यन्नानि पयः सोमो मांसं
यच्चानुपस्कृतमिति” मनुः अनुपस्कृतं पाकोपस्काररहित-
मिति रघु० । “अविकृतमिति” कुल्लू० । अपरिष्कृते
“अब्जमश्ममयञ्चैव राजतञ्चानुपस्कृतमिति” मनुः । दृष्ट-
प्रयोजनानपेक्षे, “व्राह्मणार्थे गवार्थे वा देहत्यागोऽनुपस्कृत”
पृष्ठ ०१७७
इति मनुः “दृष्टप्रयोजनानपेक्ष” इति कुल्लू० । अनिन्दिते
च “एषोऽनुपस्कृतः प्रोक्त” इति मनुः अनुपस्कृतः
अविर्हित इति कुल्लू० ।

अनुपस्थान न० न उपस्थानम् अभावे न० त० । उपस्थानाभावे न० ब० । तच्छून्ये त्रि० ।

अनुपस्थाप्य त्रि० न उपस्थाप्यः । अस्मरणीये । प्रथ-

मान्तपदानुपस्थाप्यत्वादिति जग० ।

अनुपस्थिति स्त्री न उपस्थितिः अभावे न० त० । उपस्थित्यभावे, स्मृत्यभावे च ।

अनुपहत न० न उपहतः भोगच्छेदादिना । सदशे नवे

अभुक्ते वस्त्रे “अनुपहतमतिधवलमिति” काद० । उपघात
शून्ये त्रि० ।

अनुपाकृत त्रि० उप--आ--कृ--क्त न० त० । मन्त्रैर्यज्ञे पशोरर्चनादिसंस्कार उपाकरणं तद्रहिते ।

अनुपात पु० अनुरूपः त्रैराशिकेन पातः । पाटीगणितोक्तेन

त्रैराशिकेन युक्तसंख्यापाते । “पुरान्तरं चेदिदमुत्तरं स्यात्
तदक्षविश्लेषलवैस्तदा किम्? । चक्रांशकैरित्यनुपात-
युक्त्या युक्तं निरुक्तं परिधेः प्रमाणम्” सि० शि० ॥ “निरक्ष-
देशः स्वदेशाद्यथा यथा दक्षिणतो भवति तथा तथा खस्व-
स्तिकाद्विषुवद्वृत्तं नतम् तयोरन्तरेऽक्षांशाः । ते च
निरक्षदेशजापसारयोजनैरनुपातेनोत्पद्यन्ते । अतः कस्मिं-
श्चित् पुरेऽक्षांशान् ज्ञात्वा तस्मात् पुरादुत्तरतोऽन्यस्मिन्
पुरे ज्ञेयाः । ततस्तेषामन्तरांशैः पुरान्तरयोजनैश्चानुपातः ।
यद्यन्तरांशैः पुरान्तरयोजनानि लभ्यन्ते तदा चक्रांशैः ३६०
किमिति फलं भूपरिधियोजनानि” इति प्रमि० ।
तदानयनञ्च “प्रमाणमिच्छा च समानजाती आद्यन्तयोः स्तः,
फलमन्यजाति मध्ये, तदिच्छाहतमाद्यहृत् स्या” दित्युक्त
त्रैराशिकरीत्या अन्तरयोजनसंख्याङ्केन राशिचक्रसंख्या-
३६० ऽङ्के गुणिते पुरान्तरयोजनाङ्केन विभक्ते लब्धं
परिधिमानसंख्या । पश्चात्पतने च । अनुगतः पातं
राहुंरूपग्रहभेदम् । पातग्रहानुगते । अनु + पत--णिच्
णमुल् । पश्चाद्पातयित्वेत्यर्थे अव्य० । किन्तु कर्म्मोपपदेन
सह “अमैवाव्ययेनेति” पा० नित्यसमासः “लतानुपातं
कुसुमान्यगृह्णादिति” भट्टिः ।

अनुपातक न० अनुपातयति नरकं गमयति पत--णिच्-

ण्वुल् पातकं ब्रह्महत्यादि तत्सदृशम् प्रा० स० । ब्रह्म-
हत्यादिमहापातकसदृशे वेदनिन्दादिजन्ये पापविशेषे
तानि च पञ्चत्रिंशत्प्रकारहेतूद्भवत्वेन तावत्संख्या-
तानि अनुरत्र सादृश्ये तेन पतनहेतुमहापातकतुल्यत्वा-
दस्य अनुपातकत्वमिति प्रा० वि० । तानि च विष्णुना
दर्शितानि यथा “यागस्थस्य क्षत्त्रियस्य वैश्यस्य च,
रजस्वलायाश्चार्न्तर्व्वत्न्याश्चात्रिगोत्रायाश्चाविज्ञातस्य गर्भस्य
शरणागतस्य च घातनं ब्रह्महत्यसमानीति, कौटसाक्ष्यं
सुहृद्बध एतौ सुरापानसमौ । ब्राह्मणस्य भूम्यपहरणं
निक्षेपापहरणं सुवर्णस्तेयसमम् । पितृव्यमातामहमातुल-
श्वशुरनृपपत्न्यभिगमनं गुरुदारगमनसमम् । पितृष्वसृ-
मातृष्वसृस्वसृगमनञ्च श्रोत्रियर्त्विगुपाध्यायमित्रपत्न्यभि-
गमनञ्च स्वसुः सख्याः सगोत्राया उत्तमवर्णायाः कुमार्य्या
अन्त्यजाया रजस्वलायाः शरणागतायाः प्रव्रजिताया
निक्षिप्तायाश्च ॥ अनुपातकिनस्त्वेते महापातकिनो यथा
अश्वमेधेन शुद्ध्यन्ति तीर्थानुसर्णेन वा इति” ॥ नरकाण्यभि-
धाय “एतेष्वकृतप्रायश्चित्ता अतिपातकिनः पर्थायेण कल्पं
पच्यन्ते, मन्वन्तरं तु महापातकिनः, अनुपातकिनश्च,
उपपातकिनश्चतुर्युगमिति विष्णु० स० । तथा च महापातक
सदृशान्येतानि पातकानि । अन्यान्यपि मनुना संक्षिप्य
दर्शितानि यथा “अनृतञ्च समुत्कर्षे राजगामि च पैशु-
नम् । गुरोश्चालीकनिर्ब्बन्धः समानि ब्रह्महत्यया ॥
ब्रह्मोज्झता वेदनिन्दा कौटसाक्ष्यं सुहृद्बधः । गर्हिता-
नाद्ययोर्जग्धिः सुरापानसमानि षट् ॥ निक्षेपस्यापहरणं
नराश्वरजतस्य च । भूमिवज्रमणीनाञ्च रुक्मस्तेयसमं
स्मृतम् ॥ रेतःसेकः खयोनीषु कुमारीष्वन्त्यजासु च ।
सख्युः पुत्रस्य च स्त्रीषु गुरुतल्पसमं विदुरिति” ॥

अनुपातकिन् त्रि० अनुपातकमस्त्यस्य इनि स्त्रियां ङीप् ।

अनुपातकयुक्ते “अनुपातकिनस्त्वेते महापातकिनस्तथा” स्मृ० ।

अनुपातिन् त्रि० अनुपतति अनुगच्छति अनु + गम--णिनि

अनुगामिनि ।

अनुपान न० अनु भेषजेन सह पश्चाद्वा पीयते कर्म्मणि ल्युट् ।

औषधेन सह, तत्पश्चाद्वा पेये मधुगुड़ादौ । पानस्य
जलस्य समीपे अव्ययी० । जलसामीप्ये अव्य० ।

अनुपावृत्त त्रि० न उपावृत्तः । अपरावृत्तं ।

अनुपुष्प पु० अनुगतं पुष्पं तद्विकाशम् अत्या० स० ।

शरवृक्षे तस्य पुष्पेणैव प्रकाशात्तथात्वम् ।

अनुपूर्व्व त्रि० अनुगतं पूर्ब्बं परिपाटीं गतिस० । यथाक्रमप्राप्ते

यथाहान्यनुपूर्ब्बं भवति ऋ० १०, १८, ५ “यथावदनुपूर्व्वश”
इति वर्ण्णानामनुपूर्ब्बश” इति च मनुः । अनुपूर्ब्ब +
शस् । अनुपूर्बशः । “वृत्तानुपूर्ब्बे च न चातिदीर्घे”
इति कुमा० “ततोऽनुपूर्ब्बायतवृत्तबाहुरिति” भारविः
पूर्व्वमनुगतौ गीपुच्छाकाराविति मल्लि० अनुगतः पूर्ब्बम् ।
पश्चाद्गामिनि त्रि० । आग्नेयः प्रथमो गच्छत्यन्वारब्धो-
पृष्ठ ०१७८
ऽनुपूर्ब्बा इतरे, कात्या० ८, ८, २९ “इतरे दश पशवः
अनन्वारव्धा एव अनुपूर्ब्बाः अनुगामिनो भवेयुरिति” व्या०
निकृष्टप्रमाणे च “अनुपूर्ब्बाइतरे” कात्या० ८, ८, २०,
“अनुपूर्ब्बांः निकृष्टा ह्यनुगच्छन्ति अत्र च प्रमाणेन
निकृष्टत्वम् । अतश्च दक्षिणस्य वर्सिष्ठत्वमुक्तं तत उत्तरस्य
तदपेक्षया हीनप्रमाणत्वं तदपेक्षया तत उत्तरस्य, तदपे-
क्षया तदुत्तरस्येत्येवमेकादशो यूपः सर्वतो निकृष्टो यथा
भवति तथा कर्त्तव्यमिति” व्याख्या । अनुपूर्ब्ब + भावादौ
ष्यञ् । आनुपूर्ब्यं तद्भावे षित्त्वात् चातुरीवत् वा स्त्री
“साजत्यञ्च समानानुपूर्ब्बीकत्वेनेति” जग० । वेदे पृ०
पूर्ब्बपदह्रस्वः । अनुपूर्ब्बी आनुपूर्ब्ब्ये स्त्रो । “वर्षिष्ठ-
रशनः पुरुषोऽनुपूर्ब्ब्या इतरेषामिति” कात्या० १६, १, ९,
“अनुपूर्ब्या द्विव्यामया रशनया” इति व्याख्या ।

अनुपृष्ठ्य त्रि० अनुपृष्ठं बध्यते अनुपृष्ठ + यत् । पृष्ठमध्ये बध्यपा-

शादौ “अनुपृष्ठ्यामायम्य पाशयोरिति” कात्या० १६, ८, ५ ।

अनुपेत त्रि० न उपेतः । उपगतभिन्ने । उपगमनञ्च उपनय-

नार्थं गुरुसमीपगमनम्, तच्छून्ये च । न स्त्री जुहुयान्नानु-
पेत” इति स्मृतिः “अनुपेतः अनुपनोतः” इति रघु० ।
“यं प्रव्रजन्तमनुपेतमपेतकृत्यमिति” भाग० अत्रापि शुकस्य
विद्वत्त्वेन कृत्यसामान्याभावेन अनुपनीततयैव प्रव्रज्योक्तिः ।

अनुप्रदान न० अनुप्रदीयते वर्णविशेषरूपता आधीयते अनेन

अन + प्र + दा--करणे ल्युट् । वर्ण्णोत्पादनवाह्यप्रयत्नभेदे
“एते श्वासानुप्रदाना अघोषाश्च विवृण्वते” इति सि० कौ० ।
श्वासः अनुप्रदानं वाह्यप्रयत्नो येषामिति तत्त्वबो० ।
“अनुप्रदानात् संसर्गात् स्थानात् करणविन्ययात् । जायते
वर्ण्णवैशेष्यं परिमाणाच्च पञ्चमादिति” शिक्षा ।

अनुप्रवचन न० अनुरूपं गुरुमुखोच्चारितानुरूपं प्रवचनम् ।

गुरूच्चारितानुवचने । तत्प्रयोजनमस्य छ । अनुप्रवचनी-
यः तथाभूत ध्ययनप्रयोजनयुक्ते त्रि० ।

अनुप्रवचनादि पु० ६ त० । पाणिन्युक्ते “तदस्य प्रयोजनमि-

त्यर्थे विहितप्रत्ययनिमित्ते प्रकृतिभूते शब्दसमूहे ।
अनुप्रवचन, उत्थापन, उपस्थापन, संवेशन, अनुप्रवेशन,
अनुवादन, अनुवचन, अनुवाचन, अन्वारोहण, प्रारम्भण,
आरम्भण, आरोहण ।

अनुप्रवेश पु० अनु + प्र + विश + भावे घञ् । अनुरूपप्रवेशे

“पुपोष दृद्धिं हरिदश्वदीधितेरनुप्रवेशादिव बालचन्द्रमा”
इति रघुः । अमावास्यायाञ्चन्द्रार्कयोः एकराश्यवस्थितत्वेन
सूर्य्यमण्डलादधः स्थितत्वाच्चार्काच्चन्द्रस्यान्तरगतौ सूर्य्यरश्मे-
रिन्दौ प्रवेशः तदुत्तरञ्च क्रमशः प्रवेशाधिक्यम् “सलिलमये
शशिति रवेर्दीधितयोमूर्च्छितास्तमोनैशम् । क्षपयन्ति दर्प-
णोदरनिहिता इव मन्दिरस्यान्तरिति” वृहत्स० । यथा
च तस्याधस्थःत्वं तथा इन्दुशब्दे वक्ष्यते । तथाहि यावद्-
यावच्च सूर्य्यात् चन्द्रमाः पूर्बं गच्छति तावत्तावदेव व्यव-
धानानुरूपेण सूर्य्यरश्मेस्तत्र क्रमशःप्रवेशः ।

अनुप्रासः पु० अनुगतः रसाद्यनुगुणं प्रकृष्टमासं वर्णन्यासं

समवर्णरचनां समवर्णोच्चारणं वा गतस० । अलङ्कार-
प्रसिद्धे स्वरवैषम्येऽपि समवर्ण्णानां तुल्यरचनारूपे “अनु-
प्रासः शब्दसाम्यं वैषस्येऽपि स्वरस्य यत् (सा० द०) उक्ते
शब्दालङ्कारभेदे । स च पञ्चधा ते च सोदाहरणमुक्ता
दर्पणे यथा “छेको व्यञ्जनसङ्घस्य सकृत् साग्यमनेकधा” ।
छेकश्छेकानुप्रासः । अनेकधेति स्वरूपतः क्रमतश्च । रसः
सर इत्यादिक्रमभेदेन सादृश्यं नास्यालङ्कारस्य विषयः ।
यथा “आदाय वकुलगन्धानन्धीकुर्व्वन् पदे पदे भ्रम-
रान् । अयमेति मन्दमन्दं कावेरीवारिपावनः पवनः” ॥
अत्र गन्धानन्धीति संयुक्तयोः, कावेरीवारीत्यसंयुक्तयोः ।
पावनः पवन इति बहूनां व्यञ्जनानां सकृदावृत्तिः ।
छेको विदग्धः तत्प्रयोज्यत्वादेष छेकानुप्रासः । “अने-
कस्यैकधा साम्यमसकृद्वाप्यनेकधा । एकस्य सकृदप्येष
वृत्त्र्यनुप्रास उच्यते” ॥ एकधा स्वरूपत एव न तु
क्रमतोऽपि । अनेकधा स्वरूपतः क्रमतश्च । सकृदपीत्यपि-
शब्दादसकृदपि । यथा “उन्मीलन्मुधगन्धलुब्धमधुपव्या-
धूतचूताङ्कुरक्रीडत्कोकिलकाकलीकलकलैरुद्गोर्णकर्णज्वराः ।
नीयन्ते पथिकैः कथं कथमपि ध्यानावधानक्षणप्राप्त-
प्राणसमासमागमरसोल्लासैरमी वासराः” । अत्र
रसोल्लासैरमी इति रसयोरेकधैव साग्यम् । न तु तेनैव क्रमे-
णापि । द्वितीये पादे तु कलयोरसकृत् तेनैव क्रमेण
च । प्रथमे एकस्य तकारस्य सकृत् । रसविषयव्यापारवती
वर्णरचना वृत्तिस्तदनुगतत्वेन प्रकर्षेण व्यसनाद्धत्त्यनुप्रासः ।
“उच्चार्य्यत्वाद्यदैकत्र स्थाने तालुरदादिके । सादृश्यं व्यञ्जन-
स्यैव श्रुत्यनुप्रास उच्यते” ॥ यथा “दृशा दग्धं मनसिजं
जीवयन्ति दृशैव याः । विरूपाक्षस्य जयिनीस्ताः स्तुमो
वामलोचनाः” ॥ अत्र “जीवयन्तीति” “या इति”
“जयिनीरिति” अत्र जकारयकारयोरेकत्र स्थाने तालौ
उच्चार्य्यत्वात् सादृश्यम् । एव दन्त्यकण्ठ्यानानप्युदाहार्य्यम् ।
एष च सहृदयानामतीव श्रुतिसुखावहत्वाच्छ्रुत्यनुप्रासः ।
“व्यञ्जनं चेद्यथावस्थं सहाद्येन स्वरेण तु । आवर्त्त्यतेऽन्त्य-
पृष्ठ ०१७९
योज्यत्वादन्त्यानुप्रास एव तत्” ॥ “यथावस्थमिति” यथा
सम्भवमनुस्वारविसर्गस्वरसंयुक्ताक्षरविशिष्टम् । एष च
प्रायेण पादस्य पदस्य चान्ते प्रयोज्यः । पादान्तगो यथा
“केशः काशस्तवकविकासः कायः प्रकटितकरभविलासः ।
चक्षुर्दग्धवराटककल्पं त्यजति न चेतः काममनल्पम्” ॥
पदान्तगो यथा । “मन्दं हसन्तः पुलकं वहन्त इत्यादि ।
“शब्दार्थयोः पौनरुक्त्यं भेदे तात्पर्य्यमात्रतः । लाटानुप्रास
इत्युक्तोऽनुप्रासः पञ्चधा ततः” इति । यथा “स्मेर-
राजीवनयने! नयने किं निमीलिते? । पश्य निर्जित-
कन्दर्पं कन्दर्पवशगं प्रियम् ॥ अत्र विभक्त्यर्थस्यापौनरुक्त्येऽपि
मुख्यतरस्य प्रातिपदिकांशद्यीत्यधर्म्मिरूपस्याभिन्नार्थत्वाल्ला-
टानुप्रासत्वमेव । “नयने तस्यैव नयने” अत्र द्वितीय
नयनशब्दो भाग्यवत्तादिगुणविशिष्टत्वरूपतात्पर्य्यमात्रेण
भिन्नार्थः । यथा वा । “यस्य न सविधे दयिता दवदहन-
स्तुहिनदीधितिस्तस्य । यस्य च सविधे दयिता दवदहन-
स्तुहिनदीधितिस्तस्य” ॥ अत्रानेकपदानां पौनरुक्यम् ।
एष च प्रायेण लाटजनप्रियत्वाल्लाटानुप्रास” इति ।

अनुप्लव पु० अनु--प्लु--अच् । सहाये, अनुचरे, दासे च ।

“सानुप्लवः प्रभुरपि क्षणदाचराणामिति” रघुः ।

अनुबन्ध पु० अनु + बन्ध--यथायथं भावादौ घञ् । बन्धने,

इच्छापूर्वकदोषविशेषाभ्यासे, “अनुबन्धादिकं दृष्ट्वा सर्वं
कार्य्यं यथाक्रममिति” स्मृतिः । “अनुबन्धः पौनःपुन्येना-
भिनिवेश” इति रघु० । शास्त्रस्यादौ वक्तव्येषु अधिकारि-
विषयप्रयोजसम्बन्धेषु, “अनुबन्धोनामविषयप्रयोजनाधिका-
रिसम्बन्ध” इति “अस्य वेदान्तप्रकरणत्वात्तदीयैरेवानुबन्धै-
स्तद्वत्तासिद्धेरिति च” वेदा० सा० “ज्ञातार्थं ज्ञातसम्बन्धं श्रोतुं
श्रोता प्रवर्त्तते । ग्रन्थादौ तेन वक्तव्यः सम्बन्धः स प्रयो-
जन” इत्युक्तेः विषयप्रयोजनादीनामारम्भप्रयोजकत्वात्
तद्धेतुत्वम् । अस्मिन् पक्षे च अनुबध्यते अनेनेति करणे
घञ् । मुख्यानुयायिनि अप्रधाने, बालकादौ प्रकृत-
स्यानुवर्त्तने, संबन्धे, वातपित्तादिदोषाणामप्राधान्ये,
प्रकृतिप्रत्ययागमादेशानां विकरणागमगुणवृद्ध्यादिकार्य्य-
विशेषार्थमनुबन्धनीये परिनिष्पन्नपदकालेषु अश्रूयमाणतया
नश्वरे इत्संज्ञतया कृतलोपे वर्ण्णादौ, “पदानिड्विड्विक-
रणाद्यनुबन्धगणोदितम् कर्म्मोच्चारणमात्रेण स्पष्टमत्रानु-
बन्धत इति” कविकल्पद्रुमः । फलसाधने पुनःपुनरनु-
ष्ठानाभ्यासे, “अनुबन्धं परिज्ञाय देशकालौ च तत्त्वतः ।
सत्त्वापराधो चालोक्य दण्डं दण्ड्येषु पातयेदिति”
मनुः । वन्धेऽपि मेदिनिः । आरम्भे, शब्दरत्ना० ।
अनुसरणे “शान्तज्वरोऽपि शोध्यः स्वादनुबन्धभयान्नर इति
सुश्रुतम् । सन्ततसम्बन्धे (अविच्छेदे) “सानुबन्धाः कथ
न स्युः सम्पदो मे निरापद” इति रघुः । अनुवध्यते
अनुरुध्यते कर्म्मणि घञ् । पश्चाद्भाविनि शुभाशुमे ।
“अनुबन्धं क्षयं हिंसामनपेक्ष्य च पौरुषम्” इति गीता
पश्चात्सम्बन्धेच । “यदग्रे चानुबन्धे च सुखं मोहुनमा-
त्मन” इति गीता ।

अनुबन्धिन् त्रि० अनुबघ्नगात अनु + बन्ध--णिनि । महचरे

अनुगते, अनुरोधिनि, व्यापके च । स्त्रियां ङीप् ।
“गुणा गुणानुबन्धित्वात्तस्य सप्रसवा इव” इति रवुः ।
“अधश्च मूलान्यनुसन्ततानि कर्म्मानुबन्धीनि मनुष्यलोके”
इति गीता । “सूक्ष्मानुबन्धी सूक्ष्मश्च सुगन्धी रोचको
मृदुरिति” “मेदःकषायैः खलु रोग एष सुदुस्तरो वर्ष-
गणानुबन्धी” इति च सुश्रुतम् ।

अनुबन्धी स्त्री अनुबध्यतेऽतिश्वासेन व्याप्रियतेऽनया अनु--

बन्ध--घञ् गौरा० ङीष् । हिक्कारोगे, तृष्णायाञ्च ।

अनुबन्ध्य त्रि० बधार्थं बन्धोऽनुबन्धः अनु + बन्ध--कर्म्मणि ण्ठत् ।

बधार्थं बध्ये गवादौ । “नानुबन्ध्याबवाऽपि वा ।
तथोद्धारविभागश्च नैव संप्रति वर्त्तते” इति स्मृतिः ।

अनुबोध पु० अनु + वुध--णिच्--घञ् । पूर्व्वलिप्तचन्दनादेर्गन्धो-

द्दीपनार्थं पुनर्मर्दनादौ, पश्चाद्बोधे च ।

अनुब्राह्मण न० ब्राह्मणं मन्त्रेतरवेदभागस्तत्सदृशम् । ब्राह्मण

सदृशे ग्रन्थे । तदधीते वेद वा इनि । अनुब्राह्मणी ब्राह्मण-
सदृशग्रन्थाध्यायिनि, तद्वेत्तरि च त्रि० स्त्रियां ङीप् ।

अनुभव पु० अनु + भू--अप् । स्मृतिभिन्ने ज्ञाने । विषयानु-

रूपभवनाच्च वुद्धिवृत्तेरनुभवत्वम् । “वृत्तिसारूप्यमितरत्र”
पात० सूत्रे, विषयानुरूपत्वं चित्तवृत्तेरभिहितम् ।
तथाहि यथा पयः प्रणाल्या क्षेत्रादिकं प्राप्य चतुरस्राद्या
कारेण परिणमते एवमेव इन्द्रियादिप्रणाल्याऽन्तःकरणं
वहिर्निसृत्य विषयाकारेण परिणमते तादृशपरिणाम-
रूपवृत्त्या च विषयगतमज्ञानं निवारयतीति अन्तःकरणस्य
विषयरूपानुरूपभवनात् अनुभवत्वम् । स्मृतौ तु विषय-
सन्निकर्षाभावात् न विषयाकारताप्राप्तिरिति तद्भिन्ने ज्ञाने
एवास्य प्रयोगोपाधिता इति सांख्यबेदान्तिमतम् ।
अनुभवस्य प्रत्यक्षाणुमानोपमाशाब्दभेदेन चतस्रो विधाः इति
नैयायिकादयः । वेदान्तिनो मीमांसकाश्च अर्थापत्त्यनुप-
लब्धिरूपमधिकं तद्भेदद्वयमुररीचक्रुः । वैशेषिकाः सौगताश्च
पृष्ठ ०१८०
प्रत्यक्षानुमारूपमेव अनुभवद्वयं स्वीचक्रुः अन्येषां सर्व्वेषा-
मनयोरन्तर्भावात् । सांख्यादयः प्रत्यक्षानुमाशाब्दा
एवेति भेदत्रयीमङ्गीचक्रुः । चार्वाकाः प्रत्यक्षमात्रमिति
भेदः । “अनुभवं वचसा सखि लुम्पसीति” नैष० ।

अनुभाव पु० अनुभावयति उद्बोधयत्यनेन अनु + भू--णिच्-

करणे--घञ् । कोषदण्डादिजाते राज्ञां तेजोविशेषे ।
सामर्थ्ये च । कर्त्तरि अच् । अलङ्कारशास्त्रप्रसिद्धे
रसव्यञ्जके “भावं मनोगतं साक्षात् स्वगतं व्यञ्जयन्ति ये ।
तेऽनुभावा” इति ख्याताः, इत्युक्तलक्षणे भ्रूभङ्गादौ ।
“विभावेनानुभावेन व्यक्तः सञ्चारिणा तथेति” सा० द० ।
अनुभावस्य लक्षणभेदादिकमुक्त्वा दर्पणे । “उद्बुद्धं
कारणैः स्वैःस्वैर्वहिर्भावं प्रकाशयन् । लोके यः
कार्य्यरूपः सोऽनुभावः काव्यनाट्ययोः ॥ यः खलु लोके
सीतादिवन्द्रादिभिः स्वैःस्वैरालम्बनोद्दोपनकारणैरामा-
देरन्तरुद्बुद्धं रत्यादिकं वहिः प्रकाशयन् कार्य्य मित्युच्यते स
काव्यनाट्ययोः पुनरनुभावः । कः पुनरसावित्याह ।
“उक्ताः स्त्रीणामलङ्कारा अङ्गजाश्च स्वभावजाः । तद्रूपाः
सात्त्विका भावास्तथा चेष्टाः परा अपि” ॥ तद्रूपा
अनुभावस्वरूपाः । तत्र च यो यस्य रसस्यानुभावः स तत्स्वरूप-
वर्ण्णने तत्र तत्र दर्शितः । तत्र सात्त्विकाः । “विकाराः
सत्त्वसम्भूताः सात्त्विकाः परिकीर्त्तिताः” । सत्त्वं नाम
स्वात्मविश्रामप्रकाशकारी कश्चनाऽऽन्तरो धर्म्मः । “सत्त्व-
मात्रोद्भवत्वात्ते भिन्ना अप्यनुभावतः” ॥ गोबलीवर्द्दन्यायेन
इति शेषः । के ते इत्याह । स्तम्भः स्वेदोऽथ रोमाञ्चः
स्वरभङ्गोऽथ वेपथुः । वैवर्ण्ण्यमश्रु प्रलय इत्यष्टौ सात्त्विकाः
स्मृताः ॥ तत्र । स्तम्भश्चेष्टाप्रतीघातो भयहर्षामया-
दिभिः । वपुर्ज्जलोद्गमः स्वेदो रतिघर्म्मश्वमादिभिः ॥
हर्पाद्भुतभयादिभ्यो रोमाञ्चो रोमविक्रिया । मदसंमद-
पीडाद्यैर्व्वैस्वर्य्यं गद्गदं विदुः ॥ रागद्वेषश्रमादिभ्यः कम्पो
गात्रस्य वेपथुः । विषादमदरोपाद्यैर्वर्ण्णान्यत्वं विवर्ण्णता ॥
अश्रु नेत्रोद्भवं वारि क्रोधदुःखप्रहर्षजम् । प्रलयः
सुखदुःखाभ्यां चेष्टाज्ञाननिराकृतिः इति” ॥ “अनुभावविशे-
षात्तु सेनापरिगतैरिव” रघुः । तेजसि च । गुरुभिरभि-
निविष्टं लोकपालानुभावैरिति” रघुः । माहात्म्ये, “जामे
वो रक्षसाक्रान्तावनुभावपराक्रमौ इति” रघुः ।

अनुभावक त्रि० अनुभावयति बोधयति अनु--भू--णिच्-

ण्वुल् । बोधके “यत्पदेन विना यस्याननुभावकता भवेत्
आकाङ्क्षेति” भाषा० । “यन पदेन विना यत्पदस्यान्वया-
ननुभावकत्वं तेन सह तस्याकाङ्क्षेति” सिद्धान्तमुक्तावली ।

अनुभाविन् त्रि० अनुभवति अनु + भू--णिनि । साक्षात्-

कारादिकारके । “अनुभावी तु यः कश्चित् कुर्य्यात् साक्ष्यं
विवादिनामिति” मनुः । मनुपश्चात् भवति । पश्चाज्जाते
कनिष्टादौ । “अनुभाविनां परिवापनमिति” आप० स्मृतिः ।
अनुपश्चाद्भवनोति अनुभाविनः कनिष्ठा इति रत्नाकरः
“स्वाशौचमनुभवन्तीति अनुभवकारका” इति शु० त० रघु० ।

अनुभाषण न० अनु सहितं भाषणम् । सहभाषणे ।

अनुभू स्त्री अनु + भू--क्विप् । अनुभवरूपे ज्ञानभेदे “अयमात्मा

सर्व्वानुभूरिति” वृ० उप० । “सत्यं ज्ञानमनन्तं ब्रह्मेति”
श्रुत्या ब्रह्मणोज्ञानरूपत्वात् सर्व्वज्ञानरूपत्वम् ।

अनुभूत त्रि० अनु + भू--कर्म्मणि क्त । अनुभवविषयीभूते

पदार्थे अनु + भू--कर्त्तरि क्त । पश्चाज्जाते त्रि० ।

अनुभूति स्त्री अनु + भू--क्तिन् । अनुभवे तद्विवरणमनुभवशब्दे

दृश्यम् । “अनुभूतिश्चतुर्विधा प्रत्यक्षमप्यनुमितिस्तथोप-
मितिशाब्दजे” इति भाषा० ।

अनुभूतिप्रकाश पु० अनुभूतेरनुभवस्य वेदान्तश्रवणजन्यस्य प्रका-

शार्थं माधवाचार्य्यप्रणीते उपनिषत्तात्पर्य्यज्ञापके प्रकरणभेदे

अनुमत त्रि० अनु + मन--क्त । स्वयंप्रवृत्ते इदं क्रियतामिति

प्रोत्साहनार्थमनुज्ञाते । अनुमोदिते च “कृतमनुमतं दृष्टं वा
यैरिदं गुरु पातकमिति” वेणी० । “गुरुणानुमतः स्नात्वा
समावृत्तो यथाविधि” इति मनुः । “सग्यग्विनीयानुमतो
गृहायेति” च रघुः । “उभयानुमतः साक्षीति” स्मृतिः ।

अनुमति स्त्री अनु + मन--क्तिन् । अनुज्ञायाम् । “अनुमत्या

व्यपेयादिति” स्मृतिः । अनुमन्यते कलाहीनत्वेऽपि
पृर्णिमाविहितयागादिकरणायानुज्ञायते ऽस्याम् अधिकरणे
क्तिन् । कलाहोनचन्द्रवत्यां शुक्लचतुर्दशीयुतपूर्ण्णिमातिथौ ।
अनुमतो राकेति देवपत्न्याविति नैरुक्ताः पौर्णमास्याविति
याज्ञिका या पूर्व्वा पौर्णमासी सानुमतिर्योत्तरा सा राकेति
विज्ञायते ॥ अनुमतिरनुमननात् । “अनुमतिराकासिनी-
बालीवु हूभ्यश्चरव” इति का० १८, ६, २१, कुह्वै “चैवानुमत्यै
च प्रजापतय एव चेति” मनुः ।

अनुमन्तृ त्रि० अनु + मन--तृच् । स्वयमुदासीने कार्य्यादौ

प्रवृत्तस्यान्यस्यीत्साहवर्द्धनार्थमनुज्ञाकर्त्तरि । “अनुमन्ता
विशसिता नियन्ता क्रयविक्रयीति” मनुः “उपद्रष्टानुमन्ता
च भर्त्ता भोक्ता महेश्वर” इति गीता । “अनुमन्ता
अनुमोदयितैव सन्निधिमात्रेणानुग्राहक” इति श्रीधरः ।
पृष्ठ ०१८१

अनुमन्त्रण पु० अनु मन्त्रोच्चारणात् पश्चात् मन्त्रणम् मन्त्रेण

संस्कारादिकरणम् । मन्त्रोच्चारपूर्व्वके यागादिषु संस्कार-
भेदे “प्रयाजानुमन्त्रणमिति” कात्या० ३, ३, २ ।

अनुमरण न० अनु + मृ--ल्युट् । भर्त्तरि मृते तद्देहाप्राप्तौ

तत्पादुकादिग्रहणेन पृथक्चितारोहणेन स्त्रीणां देहत्यागे ।
“भर्त्त्रानुमरणं काले याः कुर्व्वन्ति तथाविधाः । कामात्
क्रोधात् भयाद्वापि सर्वाः पूताः भवन्ति ताः” इति स्मृतिः
अनुपूर्ब्बकमरणस्य मरणसदृशमरणार्थकत्वेन सकर्म्मकत्वम्
अतएव “भवता नानुमृतापि लभ्यते” इति रघौ कर्मणि
क्तप्रयोगः । अनुमरणं च भर्त्तुः देशान्तरादिमरणे देहाद्य-
लाभे एव “देशान्तरे मृते पत्यौ साध्वी तत्पादुकाद्वयम् ।
निधायोरसि संशुद्धा प्रविशेज्जातवेदसमिति” स्मृतिः । तत्र
क्षत्रियादीनामेवाधिकारो न विप्रायाः, यथोक्तम् । “पृथक्-
चितां समारुह्य न विप्रा गन्तुमर्हतीति” शु० त० स्मृतौ ।

अनुमा स्त्री अनु + मा--अङ् । परामर्शज्ञानाधीने (व्याप्तधूमा-

दिलिङ्गविशिष्टज्ञानाधीने) ज्ञानभेदे यथा “पर्वतो वह्निमा-
नित्यादि” तथाहि धूमादिहेतौ महानसादौ प्राक् भूयः-
सहचारदर्शनात् धूमत्ववह्नित्वसामान्यधर्म्मेण सकलवह्नि-
धूमादिव्याप्तिनिश्चयः अनन्तरं देशान्तरं गतवतो वह्न्यर्थिनः
पर्वतादौ धूमदर्शने सति तत्र वह्निव्याप्तिस्मृतिर्जायते
एकसम्बन्धिज्ञानस्यापरसम्बन्धिस्मारकताया नियमेन,
धूमदर्शनात् धूमगताया वह्नेर्व्याप्तेः स्मरणसम्भवात् ।
ततस्तादृशधूमवान् अयं पर्वत इति निश्चयरूपपरामर्शेन तत्र
वह्निमानयमिति निश्चिनोति सोऽयं निश्चयः अनुमितिरूपः
अनुभवभेद इति । तत्र च धूमादिलिङ्गज्ञानमेव करणं
नतु ज्ञायमानलिङ्गं करणमिति नव्यनैयायिकसिद्धान्तः
प्राचीनमते ज्ञायमानलिङ्गमेवेति भेदः “अनुमायां
ज्ञायमानं लिङ्गं तु करणं न हीति” भाषा० । “सोऽयं
नियन्त्रितार्थत्वान्न प्रत्यक्षं न चानुमेति” श० श० प्र० ।

अनुमातृ त्रि० अनु + मा--तृच् । अनुमानकर्त्तरि “नहि करिणि

दृष्टे चीत्कारेण तमनुमिमतेऽनुमातार” इति वाचस्पतिः ।

अनुमान न० अनु--मि--मा--वा भावादौ ल्युट् । व्याप्यस्य

ज्ञानेन व्यापकस्य निश्चये, यथा वह्निर्धूमस्य व्यापक इति
धूमस्तस्य व्याप्त इत्येवं तयोः भूयः सहचारं पाकस्थानादौ
दृष्ट्वा पश्चात् पर्वतादौ उद्धूयमानशिखस्य धूमस्य दर्शने
तत्र वह्निरस्तीति निश्चीयते । करणे ल्युटि । तद्धेतुभूते
धूमादौ । “तच्चानुभानं त्रिविधमिति” चित्तामणिः ।
श्रुतेरेच स्वतः प्रामाण्यं, यत्र श्रुतिः साक्षात् न श्रूयते
तत्र स्मृतिवाक्यात् श्रुतिवाक्यमनुभीयते इति श्रुत्यनुमापकं
स्मृतिवाक्यमप्यनुमानपदेनाभिधीयते इति मीमांसकाः ।
“विरोधे त्वनपेक्षमसति ह्यनुमानमिति जै० मू० । इयं
स्मृतिः वेदमूलिका आप्तवाक्यत्वादित्येवमनुमानाकारः
इति । “दृष्टमनुमानमाप्तवचनञ्च सर्व्वप्रमाणसिद्धत्वादिति
सा० का० । “अतीन्द्रियस्य सिद्धिरनुमानादिति” सांख्य० सू०
“प्रत्यक्षपरिकलितमप्यर्थमनुमानेन वुभुत्सन्ते” इति वाच०
“प्रत्यक्षमनुमानं च शास्त्रञ्च विविधागममिति मनुः ।
“एवमनुमाने निरूपिते तस्मात् पुरुषधौरेयसिद्धिरिति”
चिन्ता० “नानुमानं रसादीनामिति सा० द० “सपरिकर
मनुमानं निरूप्येति” चिन्तामणिदीधितिः ।

अनुमानचिन्तामणि पु० गङ्गेशोपाध्यायकृते न्यायशास्त्र-

स्यानुमानतत्त्वज्ञापके प्रकरणभेदे । तत्र च आदौ
अनुमितिस्वरूपादिनिरूपणं ततस्तत्कारणव्याप्तिज्ञानार्थं व्या-
प्तिनिरूपणम् ततोव्याप्तिग्रहोपायनिरूपणम् ततो व्याप्ति-
ग्रहानुकूलतर्कनिरूपणम्, उक्तासु बह्वीषु व्याप्तिषु कथङ्कारं
तासामनुगमस्तन्निरूपणम्” ततः व्याप्तिज्ञानोपायतया
सामान्यलक्षणानिरूपणम् ततो हेतोः परिशुड्विज्ञानार्थ-
मुपाधिनिरूपणम् । ततोऽनुमित्यङ्गपक्षतानिरूपणम्
परार्थानुमानस्य पञ्चावयवन्यायसाध्यतया तन्निरूपणम् ।
अनुमितौ परामर्शस्य (साध्यव्याप्तिमद्धेतुविशिष्टज्ञानात्मकस्य)
स्वरूपादिनिरूपणम् ॥ ततोहेतुत्रैविध्यस्य (केवलान्वयि
केवलव्यतिरेक्यन्वयव्यतिरेकित्वरूपस्य) निरूपणम् ततो
वर्ज्जनीयतया हेतोर्दोषाणां (हेत्वाभासानाम्) निरू-
पणम् तत्रादौ सासान्यतोहेत्वाभासलक्षणम् ततः सव्य-
भिचारस्य, साधारणस्य, असाधारणस्य, अनुरूपसंहारिणः,
असिद्धेश्च क्रमशः, ततो बाधस्य निरूपणम् इत्येतत्पर्य्यन्तं
सपरिकरमनुमानं हेयतया तद्दोषांश्च निरूप्य तादृशानुमानेन
ईश्वरस्य सिद्धिर्दर्शिता तस्याराधनसहकृतेन षोड़शपदार्थ
तत्त्वज्ञानेनात्यन्तिकदुःखनिवृत्तिरूपापवर्गसिद्धिरित्येते
पदार्थाः तत्रत्या अवधेयाः ।

अनुमानदीधिति स्त्री अनुमानरूपचिन्तामणेर्दीधितिरिव ।

रघुनाथशिरोमणिकृतायामनुमानचिन्तामणिव्याख्यायाम् ।

अनुमार्ग अव्य० मार्गे विभक्त्यर्थे याथार्थ्ये, पश्चादर्थे वा अव्ययी० ।

मार्गे इत्यर्थे, मार्गानुरूपे, मार्गस्य पश्चादर्थे च । “अनु-
मार्गागतायाञ्चेति” काद० ।

अनुमाष अव्य० माषे विभक्त्यर्थे अव्ययी० । माषे इत्यर्थे ।

परिमुखा० ञ्य । आनुमाष्यः तद्भवादौ त्रि० ।
पृष्ठ ०१८२

अनुमासं अव्य० वीप्सार्थे अव्ययी० । प्रतिमासे, अनुमासे

भवः ठञ् । आनुमासिकः प्रतिमासभवे “पिण्डान्वाहार्य्यकं
श्राद्धं कुर्य्यान्मासानुमासिकम्” इति मनुः ।

अनुमित त्रि० अनु + मि--कर्म्मणि क्त । कृतानुमाने

अनुमानविषयीभूते । “अनुमितोऽपि हि वाष्पनिरीक्षणाद्
व्यभिचचार न तापकरोऽनल” इति नैष० ।

अनुमिति स्त्री अनु--मा--क्तिन् । अनुमाने व्याप्तिविशि-

ष्टस्य पक्षधर्म्मताज्ञानाधीने अनुभवभेदे “स पक्षस्तत्र वृत्ति-
त्वज्ञानादनुमितिर्भवेदिति” भाषा० । अनुमितिश्च द्विविधा
स्वार्था परार्था च तत्र हेतौ व्याप्तिनिश्चये सति तस्य च पक्षे
वृत्तित्वज्ञानात् उपादेयपदार्थग्रहणाय प्रवर्त्तिका यानु-
मितिः सा स्वार्था । विवदमानं प्रति कञ्चित्पदार्थं
साधयितुं मध्यस्थाद्यवलम्बनेन प्रतिज्ञाहेतूदाहरणोपनयन-
निगमनरूपपञ्चावयवन्यायसाध्या परार्था ।

अनुमित्सा स्त्री अनु + मि--सन्--भावे अ । अनुमातु-

मिच्छायाम् सिषाधयिषायाम् । अनुमित्सायां हि सिद्धि-
सत्त्वेप्यनुमितिरुदेति तदभावे साध्यवत्तानिश्चययरूपसिद्धि
सत्त्वे नानुमितिः । तत्रायं विशेषः सामाथिकरण्येन सिद्धि-
सत्त्वेऽपि अवच्छेदावच्छेदेनानुमितिर्भवत्येव न तत्रानुमित्-
सापेक्षा तथा च अवच्छेदावच्छेदेन सिद्धिरेव अवच्छेदावच्छे-
देन सामानाधिकरण्येन चानुमितिं प्रतिवध्नाति एवञ्च तत्रैव
इच्छापेक्षेति । अतएव वाचस्पतिना “प्रत्यक्षपरिकल्पितम-
प्यर्थमनुमानेन बुभ्त्सन्ते तर्करसिका” इत्युक्तम् ।

अनुमृत त्रि० अनु पश्चात् शोकादिना मृतः । शोकादिना

मृतस्य पश्चात् मृते । अनु + मृ--कर्म्मणि क्त । यस्य पश्चात्
म्नियते तस्मिन् “भवता नानुमृताऽपि लभ्यते” इति रघुः ।

अनुमेय त्रि० अनुमीयतेऽसौ अनु + मि--कर्म्मणि यत् ।

अनुमित्यर्हे, अनुमातुं योग्ये “एतावता नन्वनुमेयशोभीति”
कुमा० । “फलानुमेयाः प्रारम्भाः संस्काराः प्राक्तना
इव” इति रघुः ।

अनुमोद पु० अनु + मुद--णिच्--घञ् । प्रकृतकर्म्मणि प्रवृत्ति-

विघाताक्लरणेनान्यवोत्साहानुकूलव्यापारे । त्वया यत् कृतं
तन्मोनुमतमित्याद्यभिलापव्यङ्ग्ये । भावेल्युट् । तत्रैवार्थे न० ।

अनुमोदित त्रि० अनु + नुद--णिच्--कर्म्मणि क्त । कृतानुमोदने

स्वानुमतत्वज्ञापनेन प्रोत्साहिते “भवता यद्व्यवसितं तन्मे-
साध्वसुमोदितम् । प्रार्थ्यमानोऽर्थिना यत्र ह्यर्थो नैव
विघातितः । दानकालेऽथवा तूष्णीं स्थितः, सोऽर्थोऽनु-
मोदित इति (प्रा० वि०) उक्तेऽर्थे च ।

अनुयव अव्य० यवे विभक्त्यर्थे अव्ययी० । यवे इत्यर्थे । परि-

मुखा० भवादौ ञ्य । आनुयव्यम् तत्रभवे पदार्थे त्रि० ।

अनुयाज पु० अनु + यज--घञ् यज्ञाङ्गत्वात् कुत्वाभावः ।

दर्शपौर्णमासाङ्गेषु प्रयाजादिषु पञ्चसु यागेषु । “यजतिषु
ये यजामहे नानुयाजेषु” इति श्रुतिः । “प्रयाजान्मे
अनुयाजांश्च केवलानिति” ऋ० १०, ५१, ९, अनुयाजानु-
मन्त्रणम् का० ३, ५, १४ ।

अनुयात त्रि० अनु या--कर्त्तरि क्तः । पश्चाद्गन्तरि, रुहगन्तरि

च कर्म्मणि० क्तयस्य पश्चाद्गम्यते तादृशे जने ।

अनुयात्र अव्य० यात्रायां विभक्त्यर्थे पश्चादर्थे वा अव्ययी० ।

यात्रायामित्यर्थे, यात्रायाः पश्चाद्भावे च । अनुगता
अनुरूपीकृता यात्रा येन प्रा० ब० । अनुयायिवर्गे ।
“त्यक्तभोगस्य मे राजन्! वने वन्येन जीवतः । किं कार्य्य
मनुयात्रेणेति” रामा० अनुगता यात्रा प्रा० स० । पश्चाद्-
यात्रायां स्त्री । तत्प्रयोजनमस्येत्यर्थे ठक् । आनुयात्रिकः
अनुचरे सेवके त्रि० ।

अनुयात्रिक त्रि० अनुयात्रा पश्चाद् यात्रा अनुगमनम-

स्त्यस्य ठन् । पश्चाद्गन्तरि अनुचरे “सर्व्वानेवानुयात्रिक-
वर्गान् त्वया सहेति” शकु० ।

अनुयायिन् त्रि० अनुयाति पश्चात् गच्छति अनु + या--णिनि

स्त्रियां ङीप् । पश्चाद्गन्तरि, सेवके, अनुचरे “न्यषेधि
शेषोऽप्यनुयायिवर्गः” इति रघुः सदृशे, मुख्यस्यानुगन्तरि
शिशौ च ।

अनुयुक्त त्रि० अनु + युज--क्त । जिज्ञासिते पदार्थे । कृतप्रश्ने,

यं प्रति कस्यचित् पदार्थस्य जिज्ञासार्थं प्रश्नः क्रियते
तस्मिंश्च । “स चानुयुक्तो व्याचष्टामिति खण्डनखाद्यम् ।

अनुयुग अव्य० युगे विभ० अव्ययी० । युग इत्यर्थे । तत्र

भवः परिमुखा० ञ्य । आनुवुग्यः अनुयुगभवे त्रि० ।

अनुयूप अव्य० यूपे विभ० अव्ययी० । “यूप इत्यर्थे ।

तत्र भवः परिमुखा० ञ्य । आनुयूप्यः यूपभवे त्रि० ।

अनुयोक्तृ त्रि० अनु + युज--तृच् स्त्रियां ङीप् । प्रश्नकारके ।

भृतकाध्यापके च ।

अनुयोग पु० अनुयुज्यते कथनाय नियुज्यते अनु +

युजघञ् । प्रश्ने । सति हि प्रश्ने, पृष्टः कथनाय प्रवर्त्तते ।
“निगृह्यानुयोगे चेति” पा० । अनुपूर्ब्बात् युजेः प्रश्ना-
र्थकता । तेन “त्वया कियद्वेति तमन्वयुङ्क्त” इति रघौ
प्रश्नार्थकतया निर्द्देशः ।

अनुयोगकृत् पु० अनुयोगं प्रश्नविषयसंशयं कृन्तति कृत

छेदने क्विप् । आचार्य्ये । कृ--क्विप् । पृच्छके त्रि० ।
पृष्ठ ०१८३

अनुयोगिन् त्रि० अनुयुङ्क्ते अनु + युज--घिनुण् । प्रश्नकारके ।

अनुयोज्य त्रि० अनुयुज्यते नियुज्यते “अनु + युज--शक्यार्थे

आवश्यकार्थे वा ण्यत् । प्रश्नार्हे अवश्यनियोज्ये, त्वया
कथमित्थं कृतमित्याक्षेपेण कृतप्रश्ने, आज्ञाकारके, दासादौ च
“वासवानुयोज्यो दुष्मन्तः प्रणमति” शकु० ।

अनुरक्त त्रि० अनु + रन्ज क्त । अनुरागयुक्ते, अनुगतः रक्तं

रागम् अत्या० स० । प्राप्तरक्तवर्णे ।

अनुरक्ति स्त्री अनु + रन्ज--क्तिन् । अनुरागे ।

अनुरञ्जक त्रि० अनुरञ्जयति अनुरक्तं करोति अनु + रन्ज-

णिच्--ण्वुल् । अनुरागयुक्तकारके ।

अनुरञ्जन न० अनु + रन्ज--णिच्--भावे ल्युट् । अनुरागयुक्त

करणे “विश्वेषामनुरञ्जनेन जनयन्नानन्दमिति” रामा० ।
कर्त्तरि ल्यु । अनुरञ्जके त्रि० ।

अनुरञ्जित त्रि० अनु + रन्ज--णिच्--कर्म्मणि क्त । यस्य

अनुरागः कृतः तस्मिन्, अनुरक्तीकृते जने ।

अनुरणन अनु + रण--ल्युट् । घण्टादिशब्दज प्रतिध्वन्यात्मके

शब्दसन्ताने व्यञ्जनरूपशब्दशक्तिभेदे, ध्वनिभेदे च ।

अनुरत त्रि० अनु + रम--कर्त्तरि क्त । अनुरक्ते, अभिरते च ।

अनुरति स्त्री अनु + रम--भावे क्तिन् । अनुरागे ।

अनुरस त्रि० अनुगतो रसम् । माधुर्य्यादिरसानुगते “भूमिजं

गुरु नातिवातलं भूमितश्चास्यानुरस” इति “मधुरानुरसं
रूक्षं लवणानरसं लघु । नार्य्यास्तु मधुरं स्तन्यं कषयानुरसं
हिममिति” च सुश्रुतम् ।

अनुरहस त्रि० अनुगतं रहः अत्या० स० अच्समा० ।

निर्ज्जनदेशानुगते ।

अनुराग पु० अनु + रन्ज + घञ् । अत्यन्तप्रीतौ, स्नेहे च ।

अनुरूपो रागः प्रा० स० । अनुरूपरागे । “अनुरागवन्तमपि
लोचनयोरिति” माघः “प्रणादस्तु शब्दः स्यादनुरागज”
इत्यमरः । “प्रियानुरागस्य मनःसमुन्नतेरिति” रघुः ।
अनुगतो रःगं गतिस० । प्राप्तलौहित्यवर्ण्णे त्रि० ।

अनुरागिन् त्रि० अनु + रन्ज--घिनुण् कुत्वम् । अनुराग-

युक्ते स्त्रियां ङीप् । “वेश्याञ्चाननुरागिणीमिति” सा० द०

अनुरात्र अव्य० रात्रौ विभ० अव्ययी० अच्समा० । रात्रा-

वित्यर्थे, प्रतिरात्रे च । “तस्मात् स्त्र्यनुरात्रं पत्याविच्छते”
इति श्रुतिः । अनुगतो रात्रिम् । रात्र्यनुगते त्रि० ।

अनुराधा स्त्री० अनुगता राधां विशाखाम् अत्या० स० ।

सप्तविंशतिधाविभक्तस्य राशिचक्रस्य सप्तदशभागात्मके नक्ष-
त्रभेदे “रेवत्युत्तररोहिणीमृगशिरोमूलानुराधामघेति”
ज्योति० । “राधे विशाखेसुहवानुराधाज्येष्ठासु नक्षत्रेष्विति”
श्रुतिः । “शिखिगुणरसेन्द्रियानलशशिविषयगुणर्तुपञ्चवसु-
पक्षाः । विषयैकचन्द्रभूतार्णवाग्निरुद्राश्विवसुदहनाः ।
भूतशतपक्षवसवो द्वात्रिंशच्चेति तारकामानम् । क्रमशोऽश्विन्या-
दीनां कालस्ताराप्रमाणेन । नक्षत्रजमुद्वाहे फलमब्दैन्ता-
रकामितैः सदसत् । दिवसैर्ज्वरस्य नाशो व्याधेरन्यस्य वा
वाच्यः” इति वृ० उक्तेस्तस्याः चतुस्तारात्मकत्वम् । अश्विय-
मदहनकमलजशशिशूलभृददितिजीवफणिपितरः । योन्य
र्यमदिनकृत्त्वष्टृपवनशक्राग्निमित्राश्च । शक्रो निरृतिस्तोयं
विश्वे देवा हरिर्वसुर्वरुणः । अजपादोऽहिर्बुध्न्यः पूषा
चेतीश्वरा भानाम्” इति वृहत्संहितोक्तेस्तस्या मित्रदेव-
ताकत्वम् । तस्य च योगतारा “ज्येष्ठाश्रवणमैत्राणां वार्ह-
म्पत्यस्य मध्यमा” इति सूर्य्यसि० उक्तेर्मध्यमा तारा ।
तत्र भवः अणो लुक् “लुक्तद्धितलुकीति” पा० स्त्रीप्रत्ययस्य
लुक् । अनुराधस्तज्जाते त्रि० । नक्षत्रेण युक्तः काल
इत्यणस्तु लुप् “लुपि युक्तवद्व्यक्तिवचनमिति” पा०
अनुराधा अनुराधानक्षत्रयुक्तकाले ततः सप्तम्यर्थे तृतीयेति
भेदः । पृ० दीर्घः । अनूराधाप्यत्र ।

अनुरुद्ध-- त्रि अनु + रुध--कर्म्मणि क्त । अपेक्षिते ।

अनुरुध् त्रि० अनु + रुध--क्विप् । अनुरोद्धरि अपेक्षके । कर्मणि

क्विपि वेदे उपसर्गदीर्घः । अनुरुद्धे । “आक्षित्पूर्व्वास्वपरा
अनूरुद् ऋ० ३, ५५, ५, “अनूरुद् अनुरुद्धमिति” भा० ।

अनुरूप अव्य० रूपस्य सादृश्ये योग्यत्वे वा अव्ययी० ।

रूपस्य सादृश्ये, योग्यतायाञ्च । अर्श आद्यचि । तद्वति
त्रि० । “अथानुरूपाभिनिवेशतोषिणेति” कुमा० ।
“सत्वानुरूपा सर्व्वस्य श्रद्धा भवति भारत” गीता ।
द्वादशाहसाध्ये यागे वहिष्यवमानगतानां त्रयाणां तृचानां
मध्ये मध्यमे तृचे । “स्तोत्रियानुरूपौ तृचौ भवतः
वृषण्वन्तस्तृचा भवन्ति तत्र उत्तमः पर्य्यास” इति ता० ब्रा० ।
प्राकृतानां वहिष्पवमानगतानां त्रयाणां तृचानां स्तोत्रियः,
अनुरूपः, पर्य्यासश्चेति त्रीणि नामानीति भा० ।

अनुरोध पु० अनु + रुध--घञ् । अनुसरणे, आराध्यादेरिष्ट-

सम्पादनेच्छायाञ्च । “मिवस्यानुरोधेन द्विविधं स्मृतमास-
नमिति” “नानुरोधोऽस्त्यनध्याये” इति च मनुः ।

अनुरोधिन् त्रि० अनु + रुध--णिनि । अपेक्षके । स्त्रियां ङीप् ।

“पतिव्रतानां समयानुरोषिनीति” रामा० ।

अनुलाप पु० अनुर्वीप्सायां वारंवारं लप्यते लप--वञ् । मुहुर्भाषणे ।

अनुलिप्त त्रि० अनु + लिप--क्त । गन्धादिना कृतानुलेपे

“वन्दनागुरुकर्पूरकुङ्कुमोशीरपत्रकैः अनुलिप्तो नरैर्भक्त्या
हरिरिष्टं प्रमच्छतीति” पुरा० ।