पृष्ठ ०२४६

अपि अव्य० न पियति गच्छति । पि गतौ क्विप् न तुक ।

अशक्यकरणायोद्यमरूपायां, १ शक्त्युत्कर्षमाविष्कर्तुमत्युक्ति-
रूपायाञ्च सम्भावनायां, २ सन्देहे, ३ निन्दायां, ४ प्रश्ने,
५ समुच्चये, ६ अल्पपदार्थे, ७ कामचारानुज्ञायाम्, ८
अवधारणे, ९ पुनरर्थे च । क्रियायोगेऽस्य उपसर्गसंज्ञा
“अपिः पदार्थसम्भावनान्ववसर्गगर्हासमुच्चयेषु इति”
पा० उक्तार्थेषु कर्म्मप्रवचनीयसंज्ञा तदर्थेषु न तु उपसर्ग-
त्वम् तेन न षत्वादि तत्र “पदार्थे सर्पिषोऽपि स्यात् ।
अनुपसर्गत्वान्न षः । सम्भावनायां लिङ् तस्या एव
विषयभूते भवने कर्त्तृदौर्लभ्यप्रयुक्तन्दौर्लभ्यं द्योतयन्नपि-
शब्दः स्यादित्यनेन सम्बध्यते सर्पिष इति षष्ठी तु
अपिशब्दबलेन गम्यमानस्य विन्दीरवयवावयविभावसम्बन्धे ।
इयमेवापिशब्दस्य पदार्थद्योतकता नाम । द्वितीया तु
नेह प्रवर्त्तते सर्पिषो विन्दुना योगो न त्वपिनेत्युक्त-
त्वात्” सि० कौ० सम्भावने अपि स्तुयाद्विष्णुम् सम्भावनं
शक्त्युत्कर्षमाविष्कर्तुभत्युक्तिः । अन्ववसर्गः कामचारानुज्ञा
अपि स्तुहि । गर्हायाम् धिग्देवदत्तमपि स्तुयाद्वृषलम् ।
समुच्चये अपि सिञ्च अपि स्तुहि । गणरत्ने तु “सम्भव-
गर्हाशीर्मृतिभूषाससुच्चयेष्वित्युक्तं तेन तेऽपि अपिशब्दार्थाः
तत्र १० सम्भवे योजनमस्ति, गर्हायाम् अपि पापिन्!
११ आशीर्वादे भद्रमपि, १२ मृतौ मरणमपि, १३ भूषा-
याम् अपि नह्यति हारम्, समुच्चये तदपीत्युदाहृतञ्च ।
समुच्चये “अप्यप्रसिद्धं यशसे हि पुंसामाते” कुमा० । प्रश्ने
“अपि प्रसन्नेन महर्षिणा त्वमिति” रघुः अस्य क्रियायोग-
भेदे अकारलोपो वा “वष्टि भागुरिरल्लोपमवाप्योरुपसर्गयो”
रित्युक्तेः । अपिधानं पिधानं अपिनद्धः पिनद्ध इति
“वितत्य शार्ङ्गं कवचं पिनह्येति” भट्टिः ।

अपिकक्ष अव्य० कक्षे विभक्त्यर्थे अव्ययी० । १ कक्षप्रदेशे इत्यर्थे

“ग्रीवायां बद्धो अपिकक्ष आसनि” ऋ० ४, ४०, ४ ।

अपिकक्ष्य त्रि० अपिकक्षं सन्धानम् यत् । १ कक्षप्रदेशेन संधान-

भूते प्रवर्ग्यविद्यारूपे रहस्ये । “त्वाष्ट्रं यद्दस्रावरेऽपिकक्ष्ये वाम्”
ऋ० १, ११७ २२ । “अपिकक्ष्यं छिन्नस्य यज्ञशिरसः कक्ष-
प्रदेशेन संधानभूतं प्रवर्ग्यविद्याख्यं रहस्यमिति” भा० ।

अपिकर्ण न० अपिगतः कर्णम् अत्या० स० । १ समीपे । २ तद्व-

र्त्तिनि त्रि० । “नु ते अपिकर्ण्ण आघृणे ऋ० ६, ४८, १६,
“अपिकर्ण्णे कर्ण्णसमीपगते समीपे स्थितः इति भा० ।

अपिगीर्ण त्रि० अपि + गॄ--क्त । १ कथिते २ वर्ण्णिते

३ स्तुते च ।

अपिगृ(ग्रा)ह्य त्रि० अपि + ग्रह--वेदे--क्यप् लोके ण्यत् । १ प्रतिग्राह्ये ।

अपिच अव्य० द्व० । १ किञ्चेत्यर्थे पदद्वयमिति बहवः ।

अपिच्छिल त्रि० न० त० । १ पिच्छिलविरोधिनि गाढ़े

२ अपङ्किले च । “प्रमेहिणो यदा मूत्रमनाविलमपिच्छिल-
मिति” निदा० ।

अपिज त्रि० अपि अप्सु जायते जन--ड अलुक्समा० वेदे

अप्शब्दस्यैकत्वम् । १ ज्यैष्ठेमासि तस्य जलक्रीड़ारतिसाधन-
त्वात्तथात्वम् । “प्रसवाय स्वाहापिजाय स्वाहे ति” यजु०
१८, २८ । “अप्सु जायते इत्यपिजः जलक्रीड़ारतत्वाजज्यैष्ठे
इति” वेददीपः ।

अपित् स्त्री आप इतोगता यस्याः वेदे न जश् । १ जलरहितायां

नद्याम् “अपितः पिन्वतं धिय” ऋ० ७, ८२, ३ “अपितो-
जलरहिता नदीरिति” भा० “अस्य मदे जरितमिन्द्रोजिन्वद-
जुवोऽपिन्वदपित” इति तद्धृता श्रुतिः ।

अपितु अव्य० अपि + तु + द्व० । १ यद्यर्थे त्रिका० । २ किन्तु

इत्यर्थे भूरिप्रयोगः ।

अपित्व न० अपित्वरतेऽस्मै अपि + त्वर--बा० ड । १ भागे

भागिनो हि विभक्तधनाद्यादानाय त्वरन्ते इति तस्य
तथात्वम् । “तस्यामपित्वमीषा ते” इति शत० ब्रा० ।

अपित्विन् त्रि० अपित्वं भागोऽस्यास्ति इनि स्त्रियां ङीप् ।

१ भागवति सभागे । “तस्मिन् देवता अपित्विन्यो-
मन्यन्ते” इति शत० ब्रा० ।

अपिधान न० अपि + धा--ल्युट् । १ आच्छादने । करणे

ल्युट् । २ तत्साघने त्रि० । “अमृतापिधानमसि स्वाहेति”
भोजनान्त जलपानमन्त्रः “राध्यमानस्यौदनस्य द्यौर-
पिधानमिति” अथ० ११, ३, १ । साधने आच्छादनत्वोप-
चारात् सामानाधिकरण्यम् । अपेरतो वा लोपे पिधानमप्यत्र
“पृथिवी ते पात्रं द्यौः पिधानमिति” श्राद्धमन्त्रः “तस्य
तद्द्वारं यदमावास्या चन्द्रमा एवद्वारपिधानः” शत० ब्रा० ।

अपिधि पु० अपिधीयते तृप्तिपर्य्यन्तं दीयते अपि + धा--कि ।

१ तृप्तिपर्यन्तदत्ते । “प्रियाँ अपिधीँ वनिषीष्ट” ऋ०
१, १२७, ७, “अपधीन् तृप्तिपर्य्यन्तं दत्तानिति” भा० ।

अपिनद्ध त्रि० अपि + नह--क्त । १ परिहिते, अतोवालोपे

पिनद्धश्च तत्रार्थे ।

अपिप्राण त्रि० अपि + प्र + अन--अच् स्त्रियां गौ० ङीष् ।

१ सर्व्वदा चेष्टमाने “यजत्रा अपिप्राणी च सदनी च भूया”
इति ऋ० । १, १८६, ११ । “अपिप्राणी सर्व्वदा चेष्टयि-
त्रीति” भा० ।
पृष्ठ ०२४७

अपिव्रत त्रि० अपिः संसर्गेसंसृष्टं व्रतं, कर्म्म, भोजनं वापरय ।

१ दायाद्येनाविभक्ते २ संसृष्टधने ३ गोत्रजे ४ संसृष्टभोजने
च । “अपिव्रताश्चान्वारभन्ते यजमानमिति” का० ८, ६,
३६ । “अपिव्रतास्त उच्यन्ते येषां यजमानव्रते अपित्वमस्ति
दयाद्येनाविभक्ता इति” पितृभूतिः “अपिव्रता गोत्रजा
इति कर्कभा० “अपिः संसर्गेसंसृष्टं व्रतं कर्म्मयेषामिति
अपिव्रता अविभक्ता दायादाः तेह्येकेनापि कृष्यादि कर्म्म कृतं
सर्व उपजीवन्तीति हरिस्वामी, “व्रतं भोजनं यजमानेन
सह प्राप्तभोजनाः बन्धुवर्गाः” इति माधवः ।

अपिशर्व्वर त्रि० अपिः प्रादुर्भावे अव्ययी० बा० अच् समा० ।

१ शर्व्वरीमुखसमये प्रदोषकाले, “समिद्धमपिशर्वरे” इति
ऋ० ३, ९, ७, । “अपिशर्वरे शर्वरीमुखे” इति भा० ।

अपिशल पु० अपिशलते अपि + शल--अच् । १ मुनिभेदे तस्या-

पत्यम् इञ् । आपिशलिः । शाब्दिकभेदे । “इन्द्रश्चन्द्रः
काशकृत्स्नापिशली शाकटायनः । पाणिन्यमरजैनेन्द्राजय-
न्त्यष्टादिशाब्दिका” क० क० “सुप्यापिशलेः” इति पा० ।

अपिहित त्रि० अपि + धा--क्त । १ आवृते “तुच्छेनाभुरपि-

हित” इति श्रुतिः । अतोलोपे पिहितोऽप्यत्र “भुजङ्गपि-
हितद्वारमिति” रघुः ।

अपीच्य त्रि० अपिच्यवते सौन्दर्य्याद्धीयते अपि + च्यु--ड

अतोलोप उपसर्गदीर्घः न० त० । १ अतिसुन्दरे “अपीच्य-
दर्शनं सौम्यं सर्वलोकनमस्कृतमिति” वृह० “अपीच्यवेशं
द्विभुजं सौम्याकारं सुदर्शनमिति” यममूर्त्तिलक्षणम्, अपि +
अन्च--क्विप् अप्यङ् तत्र साधु यत् अञ्चतेरतोलोपे पूर्ब्ब
दीर्घः । २ अन्तर्हिते । “यदाविर्यदपीच्यं देवासो अस्ति
दुष्कृतमिति” ऋ० ८, ४७, १३, अपीच्यमन्तर्हितम् भा०
३ गुह्ये “मर्त्तानां मनुष्याणामपीच्यम्” ऋ० ८, ३९, ६,
“अपीच्यं गुह्यमिति” भा० ।

अपिजू त्रि० अपि + जव--क्विप्--ऊठ् । १ प्रेरके । “उषसा-

नक्ता जगतामपीजुवा” ऋ० २, ३१, ५ । “अपिजुवा
प्रेरयित्र्य” इति वेदे उवङ् मा० ।

अपीत त्रि० अपि + इण--क्त । १ विलयप्राप्ते विलीने,

“साम्य । तदा सम्पन्नोभवति स्वमपीतो भवति तस्मादेनं
स्वपितीत्याचक्षते स्वंह्यपीतोभवतीति” शा० भा० धृता श्रुतिः ।
भावे क्त । १ विलये २ अपगमने न० । पीतवर्ण्णभिन्ने
पु० तद्वति त्रि० । पीतं पानकर्म्म ३ तद्भिन्ने त्रि० ।

अपीति स्त्री अपि + इण--क्तिन् । १ विलये २ अपगमे

३ प्रलये च । “अपीतौतद्वत्प्रसङ्गादसमञ्जमम” शा० सू० ।
आधारे क्तिन् । ४ संग्रामे । “पुरा यत् सूरस्तमसो अ-
पीतेस्तमद्रिवः” इति ऋ० १, १२१, १० । “अपीतेः
संग्रामादिति” भा० ।

अपीनस पु० अपीनाय अपीनत्वाय सीयते कल्पते सो

कर्म्मकर्त्तरि क । १ पीनसरोगे तद्विवरणं पीनसशब्दे ।

अपुंस् पु० न पुमान् न० त० । १ नपुंसके क्लीवे । “पुमान्

पुंसोऽधिके शुक्रे स्त्री भवत्यधिके स्त्रियाः । समेऽपुमान्
पुंस्त्रियौ वा क्षीणेऽल्पे च विपर्य्यय इति” मनुः ।

अपुंस्का स्त्री नास्ति पुमान् यस्याः उरःप्रभृतित्वात् कप् ।

१ पतिशून्यस्त्रियाम् । ‘नापुंस्कासीति मे मतिरिति’ भट्टिः ।

अपुच्छा स्त्री नास्ति पुच्छमग्रं यस्याः । १ शिखरहीने

शिंशपावृक्षे । २ पुच्छहीने त्रि० ।

अपुण्य न० न पुण्यं विरोधे न० त० । १ पापे । न० ब० । २ पुण्यशून्ये त्रि० ।

अपुण्यकृत् त्रि० पुण्यं न करोति अपुण्यं पापं वा करोति ।

ताच्छीन्ये क्विप् १ पुण्याकर्त्तरि २ पापकारिणि च ।
“क्षत्त्रियश्चैव वृत्तस्थोवैश्यः शूद्रस्तयैव च । यः पिबेत्
कपिलाक्षीरं न ततोन्योस्त्यपुण्यकृत्” आप० स्मृतिः ।

अपुत्र पुंस्त्री नास्ति पुत्रोयस्य । १ अजातपुत्रे २ मृतपुत्रे च ।

“अपुत्रेणैव कर्त्तव्यः पुत्रप्रतिनिधिः सदेति” स्मृतिः “नापु-
त्रस्य लोकोऽस्ति” श्रुतिः । “अपुत्रा शयनं भर्त्तुः
पालयन्ती व्रते स्थितेति” वृहन्मनुः । “अपुत्रस्यैव या कन्या
सैवपिण्डप्रदा भवेदिति” स्मृतिः पुत्रपदञ्च पुत्रपौत्रप्रपौत्र-
परमिति दायभागादयः वा कप् । अपुत्रकोऽप्युक्तार्थे ।

अपुनर् अव्य० न पुनः न० त० । पुनर्वारभिन्ने सकृदर्थे

“अनानुकृत्यमपुनश्चकार” ऋ० १०, ६८, १० ।

अपुनरावृत्ति स्त्री न पुनः आवृत्तिः संसारगतिर्यतः ५ ब० ।

निर्वाणमुक्तौ “न स पुनरावर्त्तते” इति श्रुतेस्तयात्वम् ।
६ ब० । पुनर्गमनशून्ये त्रि० । अर्थाभावे अव्ययी० ।
पुनरावृत्त्यभावे अव्य० ।

अपुनर्भव पु० न पुनर्भवति संसारं भजतेऽस्मिन् भू--आधारे

अप् । १ मोक्षे । करणे अप् न० त० । २ पुनर्भवाभाव
हेतौ तत्त्वज्ञाने अभावार्थे न० त० । पुनरुत्पत्त्यभावे पु०
३ प्रशमने निवारणे, “रोगाणामपुनर्भवे । ज्ञानं चतुर्विधं
यस्येति” वैद्यकम् । नास्ति पुनर्भवः पुनरुत्पत्तिरस्य
४ पुनर्जन्मशून्ये तत्त्वज्ञानवति मुक्ते ।

अपुराण त्रि० विरोधे न० त० । १ पुराणभिन्ने नवीने ।

अपुष्ट त्रि० पुष--कर्म्मणि क्त न० त० । १ अकृतपोषणे यस्य

पुष्टिर्न कृता तस्मिन् ।
पृष्ठ ०२४८

अपुष्टता स्त्री अपुष्टस्य भावः तल् । अपुष्टदुष्क्रमग्राम्यव्याहता-

श्लीलकष्टता” इत्यादिना सा० द० उक्ते काव्ये प्रकृतार्थापो-
षणाकारित्वरूपे अर्थदोषभेदे । यथा “विलोक्य वितते
व्योम्नि विधुं मुञ्च रुषं प्रिये!” इत्यत्र विततशब्दो
मानत्यागं प्रति न किञ्चिदुपकुरुते इति तस्य तत्पोषानुपकारि-
त्वात्तथात्वम् अपुटस्य भावः त्व । अपुष्टत्वमप्यत्र न० ।
“अपुष्टत्वं मुख्यानुपकारित्वमिति” सा० द० ।

अपुष्प अव्य० पुष्पस्याभावः अव्ययी० । पुष्पाभावे । “तैरपुष्पात्

वनस्पति” रित्यमरः अपुष्पादित्यत्र पञ्चम्या नाम्भावः ।

अपुष्पफलद पु० अपुष्पं पुष्पाभावेऽपि फलं ददाति दा--क ।

१ पुष्पं विना फलदे पनसे तथाभूते उदुम्बरादौ च ।
उपचारात् २ अहेतुकफलदातरि कर्त्तरि त्रि० ।

अपूजा स्त्री अभावादो न० त० । १ पूजाभावे २ आदराभावे

३ सम्मानाभावे ४ कुत्सितपूजायाम् ५ अविधानेनार्चने च ।

अपूजित त्रि० न० त० । १ पूजितभिन्ने २ अनादृते ३ अवज्ञाते च

अपूत त्रि० न० त० । १ पवित्रभिन्ने २ अशुचौ “अपूतो वा

एषोऽमेव्यो यदश्वः” इति शत० ब्रा० “यश्चापूत इव
मन्येत” कात्या० २२, ४, २९ । ३ संस्कारहीने व्रात्ये च
“एतैरपूतैर्विधिवदापद्यपि च कर्हिचिदिति” मनुः ।

अपूप पु० न पूयते विशीर्य्यति पू--प न० त० । १ गोधूमादिचूर्ण्ण-

पिष्टके १ पुरोडाशे हविर्भेदे “अपूपं देव घृतवन्तमग्ने” ऋ०
१०, ४५, ९ । “अपूपं पुरोडाशमिति” भा० । “वृथाकृशरसंयावं
पायसापूपमेव चेति” मनुः । प्राचुर्य्ये मयट् । अपूपमयं
पर्व अपूपमयो यज्ञः । अपूपाय हितम् “विभाषा
हविरपूपादिभ्यः” पा० यत् । अपूप्यम् “छ च” पा०
अपूपीयं च पिष्टकहिते यवगोधूमचूर्ण्णादौ । तत् पण्यमस्य
ठक् । आपूपिकः । अपूपविक्रेतरि त्रि० ।

अपूपादि पु० ६ ब० । पाणिन्युक्ते हितार्थे छयतोः प्रकृति

भूते शब्दसमूहे । स च गणः “अपूप तण्डुल, अभ्यूष,
अभ्योष, अबोष, अत्येष, पृथुक, ओदन, सूप, पूप,
किण्व, प्रदीप, मुसल, कटक, कर्ण्णवेष्टक ।

अपूपाष्टका स्त्री अपूपसाधनाष्टका । पौष्या ऊर्द्ध्वं १ कृष्णा-

ष्टम्यां २ तत्र विहिते श्राद्धे च ।

अपूरणी स्त्री न पूर्य्यते सर्वतः कण्टकावृततया दुरारोह-

त्वात् पूर--कर्म्मणि ल्युट् ङीप् न० त० । शाल्मलिवृक्षे ।
करणे ल्युट् । संख्यापूरणसाधनार्थकप्रत्ययमिन्ने च ।

अपूर्ण त्रि० न पूर्ण्णम् । ऊने । “अपृर्ण्णमेकेन शतक्रतूपमः

शतं क्रतूनामिति” रघुः । भावे क्त । पूरणाभावे “सार-
तण्डुलमपूर्ण्णं श्रपयित्वेति” का० ४, १, ५, ७, अपूर्ण्णं
यथा शृतेन चरुणा स्थाल्याः पूरणं न भवतीति तथा
श्रपयित्वेति” तद्घ्या० ।

अपूर्णकाल त्रि० न पूर्णः कालोयस्य । यस्य यत्काले पूरणं युक्तं तत्कालाप्राप्ते ।

अपूर्व्व त्रि० न पूर्ब्बं दृष्टम् । १ अविदिते २ आश्चर्य्ये

“अधनुषि शरजालं मर्मभेदानुकारि त्रितयमिदमपूर्ब्बं
दृष्टमन्तःपुरे ते” इति “अपूर्ब्बो दृश्यते वह्निः
कामिन्याः स्तनमण्डले । दूरतोदहतीवाङ्गं हृदि लग्नस्तु
शीतल” इति च उद्भटः । पूर्ब्बः पूर्ब्बवर्त्ती न० ब० ।
३ हेतुशून्ये त्रि० । न० त० । ४ पूर्ब्बकालादिभिन्ने त्रि० ।
पूर्ब्बशब्दस्य दिग्देशकालवाचित्वे सर्वनामतया ततो नञ्तत्-
पुरुषेऽपि अस्य सर्वनामता तेन तत्कार्य्यम् अपूर्ब्बे
अपूर्बर्स्मै ङिङस्योस्तु वा वृत्तौ पुंवद्भावश्च “कौमारापूर्ब्ब-
वचने” इति पा० ५ परब्रह्मणि पु० । “तदेतद् ब्रह्मापूर्ब्बमन-
परमनन्तरमपारमवाह्यमिति” शत० ब्रा० । ६ प्रमाणान्तरा-
प्राप्ते “उपक्रमोपसंहारावभ्यासोऽपूर्ब्बता फलमिति” वेदा०
सा० ७ वैधनिषिद्धक्रियाजन्ययोः कालान्तरभाविनोः सुखदुः-
खयोर्हेतुभूतयोः पुण्यपापयोः न० । अदृष्टसिद्धिवत् अपूर्ब्ब-
सिद्धिरुन्नेया । सा च ११७ पृष्ठे दृश्या । स्वर्गकामोयजेतत्यादौ
लिङा हि यागादौ इष्टसाधनत्वं बोध्यते इति नैयायिकाः
कार्य्यत्वेनापूर्ब्बं बोध्यते इति प्राभाकरामन्यन्ते । तत्रोभय-
मतेऽपि, आशुविनाशिनः कालान्तरभाविफलजनकत्वे
फलसमयपर्य्यन्तस्थायिव्यापारजनकत्वं प्रयोजकमिति तथा
हि अव्यवहितपूर्ब्बस्थायिन एव कारणत्वेन यागस्य
कालान्तरभाविस्वर्गस्य च मध्ये व्यापाररूपमपूर्ब्बं प्रकल्प्यते
साक्षादसाधनस्य यागस्य स्वर्गसाधनता व्यापारमन्तरेणानु-
पद्यमाना स्वर्गनिर्वाहकं व्यापारमपूर्ब्बं कल्पयतीति । तच्चा-
पूर्ब्बं किंनिष्ठं कथं वा तस्यैव व्यापारत्वमित्याशङ्क्य
शब्दचिन्तामणौ निर्ण्णीतं यथा “तथापि ध्वंस एव
व्यापारोऽस्तु तव सहभावनिरूपकस्यापि कारणत्वात्
तस्यानन्तत्वेऽपि स्वभावात् सावधेः फलजनकत्वम् ।
यत्र ध्वंसोहेतुस्तत्र तत्प्रागभावोऽपीति चेत् न दुग्ध-
ध्वंसजन्यदध्नि, मिथ्याधीध्वंससाध्यमुक्तौ च व्यभिचारात् ।
प्रतिबन्धकाभावत्वेन हेतुत्वे, तथाभायाच्च ध्वंसेनानुपपत्तिः
कथं तेनैव समाधातव्येति चेन्न ध्वंसे सति तद्व्यापारत्व-
ज्ञानं विनानुपपत्तेस्तद्व्यापारत्वकल्पनया शान्तेरिति मैवं
प्रतियोगिध्वंसयोरेकत्राजनकत्वात् न हि नियमतोध्वंसे
सति यद्भवति तत्तत्र कारणम् न च संसर्गाभावत्वेन हेतुत्वे
तथेति वाच्यं व्यभिचाराभावेन तस्यापि प्रयोजकत्वात् ।
पृष्ठ ०२४९
अथ शब्दाद्यागकारणता, व्यापारं विना तदनुपपत्तेः
न च तज्जन्यध्वंसस्य कारणत्वकल्पनमित्युभयमपि जनकम्
अन्यत्र तु मानाभावान्न तथेति वाच्यं यागध्वंसस्य यागजन्य-
स्वर्गं प्रति जनकत्वस्य प्रमाणान्तरविरोधेनार्थापत्त्यकल्प-
नात् । अस्तु देवताप्रीतिरेव व्यापार इति चेन्न यागस्य
देवताप्रीतिहेतुत्वे मानाभावात् गङ्गास्नानादौ देवता-
विरहेण तदभावात् । न च तत्रापि तत्प्रीतिः, तस्य
तत्प्रीतिहेतुत्वे मानाभावात् लाघवेन कर्तृगतव्यापार-
कल्पनाच्च ननु नायं नियमः, पुत्रगतश्राद्धादिना पितरि,
पितॄगतजातेट्या पुत्रे चादृष्टोत्पत्तेश्च अथ तत्रापि
कर्त्तर्य्येवादृष्टं, विहितक्रियाया यागस्येव कर्त्तृगतादृष्ट
जनकत्वात् । न च मुक्ते पुत्रे तददृष्टनाशात् पितरि-
स्वर्गःस्यादिति वाच्यम् अदृष्टस्य फलनाश्यतया पितरि
स्वर्गाभावेनादृष्टानाशात् स्वपृत्तियागजन्यादृष्टस्य मुक्ति-
विरोधित्वात् न तु पितृगतमदृष्टं जन्यते मुक्ते पितरि
दोषाभावेन योगिनामिव विहितक्रियायाः, पित्रदृष्ट-
जनकचात् तथात्वे च साङ्गमपि श्राद्धादिकं निःफलं
स्यादिति तद्विधेरप्रामाण्यापत्ति पुत्रगतादृष्टेन च मुक्त-
पितरि सुखोत्पत्तौ न विरोधः योगिनामिव सुखोत्पत्तौ
दोषस्याहेतुत्वात् अथ पितृसुखं पितृपुण्यजन्यमिति
पितरि न पुण्यं तेन विना तदभावात्, न, पुत्रे तत्फल-
प्रसङ्गात् । पितृस्वर्गकामनाजन्यक्रिया पितृपुण्यहेतु-
रिति पुत्रक्रियापि तज्जनिकेति चेत् एवं पितृक्रिया-
पितृपुण्यजनिकेति न तं विना पितरि पुण्यं, पुत्रक्रिया च
पुत्रपुण्यजनिकेति पुत्रेपुण्यं, पितृस्वर्गकामनाजन्यपुण्यत्वेन
पितृस्वर्गहेतुरस्तु तत्पुण्यं पितृवृत्ति तत्सुखहेतुत्वात् न च
पुत्रवृत्ति, तत्सुखाहेतुत्वादिति न, तत्पुण्यं न पितृ-
वृत्ति तत्कृत्यजन्यपुण्यत्वात् पुत्रवृत्ति वा तत्कृतिजन्य
पुण्यत्वात् तत्कृतपुण्यवत् तस्मात् पितृस्वर्गकामनाजन्य
पुण्यस्वेन पितृस्वर्गहेतुतेति पुत्रएव तत्पुण्यमिति, मैवं
स्वर्गोपपादकं ह्यपूर्ब्बं स्वर्गाश्रये कल्पते प्रधवोपस्थिति-
कत्वेन लाघवात् कल्पनायाः साक्षादुपपादकविषयत्वाच्च ।
न च स्वर्गहेतुकामनाश्रये, स्वर्गकामनाजन्यब्रियाकर्त्तरि वा,
विलम्बोपस्थितिकत्वात् गौरवात् परम्परया स्वर्गोपपा-
दकवाच्च वदि च पुत्रकृतपुण्येन मुक्तस्य शरीराद्युत्पत्तिः
सुखं वा श्यात्, तदा साक्षिविषयाऽसत्याभिधानादि पुत्र-
क्रिंयाजन्यपापेन “स विष्ठायां कृमिर्भूत्वा पितृभिः सह
पच्येत” इत्यादिबोधितं नरकभागितादि मुक्तस्य पितुः स्यात्
तथा च पुत्रकृततथाविधशङ्कया न कश्चिन्मोक्षार्थी व्रह्म-
चर्य्यादिदुःखेनात्मानमवसादयेत् “दुःखेनात्यन्तविमुक्तश्चरतीति”
“न स पुनरावर्त्तत” इति श्रुतिविरोधश्च तथा च मुक्तस्य
सुखदुःख शरीरादिकञ्च भवतीत्यपदर्शनम् । मुक्ते च पितरि श्राद्धा-
दिना दोषाभावादेव नादृष्टमुत्पद्यते न चैवं साङ्गश्राद्धस्यापि
नित्यफलत्वम् अदृष्टोत्पत्तौ स्वरूपसतो दोषस्याङ्गस्य वैगुण्यात्,
यथा विव्नहेतुदुरितशून्ये न कृतं मङ्गलं न पापध्वंसं
जनयति स्वरूपसतः पापस्याङ्गस्याभावादिति एवञ्च यागस्यापि
व्यधिकरणव्यापारोभविष्यतीति ॥ उच्यते विहितक्रियया
कर्त्तृगतव्यापारद्वारा कालान्तरे फलं जन्यत इत्युत्सर्गः स च
बलवता बाधकेनापोद्यते प्रकृते च बाधकं नास्ति यथा शास्त्र-
देशितं फलमनुष्ठातरीत्युत्सर्गः सुतकृतगयाश्राद्धस्य पितृस्वर्गं
प्रति, पितृकृतजातेदेः पुत्रपूतत्वादिकं प्रति हेतुत्वस्य शास्त्रेण
बेधनात् नन्वयंनियमएव पितृयज्ञजानेष्ट्यादौ परम्परासम्ब-
न्धेन कर्त्तृगतमेव फलं, न हि यस्य कस्यापि पितरिपुत्रे
वा फलं किन्तु स्वपितृपुत्रयोः तथा च स्वपितृगतत्वं स्वर्गभागि
पितृकत्वं परम्परासम्बन्धः फलेन पुत्रस्य, एवं पूतत्वादिकं
पितृगतमेव । न च फलस्य कर्त्तृगतत्वं साक्षात्सम्बन्धेनै
वेति वाच्यं ग्रामपशुभूमिहिरण्यादीनां परम्परया कर्तृ-
गतत्वमिति व्यभिचारात् न हि ग्रामादयः कर्त्तरि साक्षात्-
संबद्धाः । एवं फलस्य साक्षात्कर्त्तृगामित्वबोधने शास्त्रस्योत्-
सर्गो न तु फलस्य कर्त्तृगामिताबोधने यत्तु स्वर्गभागिपितृ-
कत्वं न फलं तत्कामनाया अधिकारिविशेषणत्वाभावात्
‘पितृस्वर्गकाम’ इत्यादि श्रुतेः स्वतश्च तथा कामनया प्रवृत्तौ
फलकामनाविरहेण प्रयोगेऽङ्गवैगुण्टात् फलाभावप्रसङ्गः ।
किञ्च स्वर्गभागिपितृकत्वं विशिष्टं तत्र विशेष्यं तत्पितृकत्वं
न काम्यम् न वा फलं, सिद्धत्वात् तदसाध्यत्वाच्च, किन्तु
विशेषणं पितृगतः स्वर्ग इति सएव फलमिति” तन्न न हि
स्वर्गभागिपितृकत्वं फलम् अपि तु स्वर्गेण समं पुत्रस्य
परम्परासम्बन्धरूपं तदुक्तमिति । उच्यते परम्परासम्बन्धेन
यदि पुत्रगतत्वं पितृस्वर्गस्य, तदा संयुक्तसमवायेन
तत्पुत्रधनस्यापि फलावं स्यात् । सम्बन्थः शास्त्रेण बोध्यत
इति चेत् तदा स्वर्गमागिपितृकत्यमपि न तथा, शास्त्रेण
बोधितत्वाभावात् ग्रामादिपिशुत्तिरण्यादीनाञ्च सिद्धत्वेन
न काम्यत्यं किन्तु तद्विषयकं खत्वं काम्यं फलमपि
कार्म्य तदेव, तच्च साक्षात्कर्तृगतमिति कर्त्तगतत्वेन
फलस्य साक्षात्सम्बन्धोऽपि नियत एव तत्स्वत्वेन फले
कामनात् । तस्मात् यथागममेव शास्त्रदेशितं फलम्
पृष्ठ ०२५०
अतएव कामनाविषयः स्वगत एव स्वर्गः फलं यागादेः, स्वर्ग-
पूतचादेश्च पितृपुत्रगतत्वेन काम्यत्वमिति श्राद्धजातेष्ट्यादेः
पितृपुत्रगतमेव फलम् एवञ्च मातापित्रांदिगतस्वर्गकामनया
पुत्रादिना कृतं पुष्करिणीमहादानादिकं पित्रादिस्वर्गजनक-
मेव कामनाविषयस्वर्गसाधनत्वेन तेषां श्रुतत्वात् न हि
स्वगतस्वर्गकामस्य कर्त्तव्यतां पुष्करिण्यादेर्विधिर्बोधयति
किन्तु स्वर्गकामस्य स्वर्गः स्वगतः परगतो वेति स्वर्ग-
कामत्वमविशिष्टम् । यजेतेत्यात्मनेपदमपि कर्त्रभिप्रेत-
क्रियाफलमात्रजनकत्वे । न च स्वर्गकामोयजेतेत्यादौ
स्वगतस्वर्गकामनाया अन्तरङ्गत्वादौत्सर्गिकत्वाच्च स्वर्गकाम-
त्वेन स्वगतस्वर्गकाम एवीच्यते । सामान्ये बाधकं विना
विशेषपरत्वे मानाभावात् । केचित्तु सम्यग्गृहस्थाश्रमपरि-
पालनस्य ब्रह्मलोकावाप्तिः फलं श्रूयते इति जातेष्टिपितृ-
यज्ञयोरपि गृहस्थकर्म्मत्वेन तदेव फलमिति फलस्य
कर्त्तृगामित्वेनियमएव प्रातिस्विकफलाभिप्रायेणोत्सर्गः
इत्याहुः ननु यावन्नित्यपरिपालनस्य तत् फलं न तु काम्य-
श्राद्धादेः काम्यान्तर्भावे मानाभावात् यावत्काम्यानुष्ठाना-
शक्तेश्च, यावच्छक्यानुष्ठानस्यापि नान्तर्भावः कामनाविरहा-
दिनाप्यकरणात् यावन्नित्यानुष्ठाने तत्फलाभावप्रसङ्गान्नित्य-
स्यैवावश्यकत्वेनोपस्थित्यान्वयाच्च । अपि च तैः कर्म्मभिः
प्रत्येकमुत्पत्त्यपूर्ब्बंतैश्च परमापूर्ब्बं जन्यत इति” न गौरवा
त्मानाभावाच्च कित्त्वन्तिमक्रियया परिपालनरूपक्रियान्तरेण
वेति न सर्व्वं कर्म्म ब्रह्मलोकावाप्तिफलकमिति” मैवं
भगबदुद्देशेन कृतस्य नित्यस्य यस्य कस्यापि पालनात् ब्रह्मलोकप्राप्तिः
फलं श्रूयत इति जातेष्टिपितृयज्ञयोरपि तथा कृतयोस्तदेव
फलं तथा च श्रीभगवद्गीता “यज्ञायाचरतः कर्म्म कर्म्म-
ग्रन्थिर्निलीयते यज्ञार्थात् कर्म्मणोऽन्यत्र लोकोऽयं कर्म्म-
बन्धन” इति तच्च कर्म्म यज्ञार्थतया प्रत्येकमेव तत्फलसमर्थं
फलसम्बन्धे, संवलनन्तु मङ्गलवदुपयुज्यते अन्यथैकप्रयोगस्य
व्यवधानादसम्भवः । परिपालनन्तु कर्त्तव्यमित्येव करणं
तदुक्तं “ददामि देयमित्येव यजे यष्टव्यमित्यहमिति” यत्तु
निषिद्धासम्बन्धएव सम्यक्त्वम् न तु विहितसात्रानुष्ठानमिति,
तन्न वत्किञ्चिन्निषिद्धासम्बन्धस्याभावात्, सर्वनिषिद्धासम्बन्धस्य
सर्वत्र सुलभत्वादिति सम्प्रदायः । अत्र ब्रूमः भगवदुद्देशेन
कृतं किञ्चिदेव कर्म्म, सर्वं वा, काम्यं वा सर्वं, नित्यं वा
सर्वमिति नाद्यः एकेनैव काम्येन नित्येन वा स्नानेन तथा
कृतेन तत्फलसिद्धौ बहुवित्तादिसाध्ये श्राद्धादावप्रवृत्त्या-
पत्तेः नापरौ अशक्यत्वात् न तुर्य्यः जातेष्ठ्यादेर्नित्यत्वा-
भावात् तस्मात् सम्यग्गृहस्थाश्रमपालनस्य न तत्फलं
सम्यक्त्वञ्च सामस्त्यमेव अतो न श्राद्धादेः ब्रह्मलोकावाप्तिरिति
साधूक्तं शास्त्रदेशितं फलमनुष्ठातरीत्युत्सर्ग इति तच्च फलं
क्वचिद्विधिवाक्यश्रुतं क्वविच्चार्थवादिकमिति” । इदन्त्ववधेयं
कर्मध्वंसेनापूर्बप्रत्याख्याने “ज्ञानाग्निः सर्वकर्माणीत्यादि
शास्त्रबोधितस्य तत्त्वज्ञाननाश्यत्वस्य बाधः ध्वंसस्य नाश्य-
त्वाभावात् न्यायमते तु कर्मपदेन तज्जन्यापूर्बलक्षणया
तेषां क्षयसम्भव इति । अस्य च कार्य्यमात्रं प्रति कारण
तेति नैयायिकादयः । कर्मण एव फलमिति मीमांसकाः ।
ईश्वराधिष्ठितादेव सूक्ष्मवस्थापन्नात् कर्मणः फलमिति वेदा-
न्तिनः तथा हि “फलमत उपपत्तेरिति” शा० सू० भाष्ये
“अथोच्येत कर्म्मकार्य्यादपूर्ब्बात् फलमुत्पत्स्यते” इत्याशङ्क्य ।
तदपि नोपपद्यते अपूर्ब्बस्याचेतनस्य काष्ठलोष्टसमस्य चेतना-
प्रवर्त्तितस्य प्रवृत्त्यनुपपत्तेः तदस्तित्वे च प्रमाणाभावात् अर्था-
पत्तिः प्रमाणमिति चेन्न ईश्वरसिद्धेरर्थापत्तिपरिक्षयादिति”
अपूर्ब्बं निराकृत्य । “धर्म्मं जैमिनिरतएवेति” शा० सू० ।
जैमिनिमतं धर्म्मस्यैव फलहेतुत्वं पूर्ब्बपक्षीकृत्य । “पूर्ब्बन्तु
वादरायणो हेतुव्यपदेशादिति” शा० सू० निराकृतम् ।
व्याख्यातञ्चैतत् भाष्यकृता शङ्कराचार्य्येण । नन्वनुक्षण-
विनाशिनः कर्म्मणः फलं नोपपद्यते इति परित्यक्तोऽयं पक्षः
नैष दोषः श्रुतिप्रामाण्यात् श्रुतिश्चेत् प्रमाणं यथायं कर्म्म-
फलसम्बन्धः श्रुत एव उपपद्यते तथा कल्पयितव्यः न
चानुत्पाद्य किप्यपूर्ब्बं कर्म्म विनश्यत् कालान्तरितं फलं
दातुं शक्नोतीति अतः कर्मणो वा काचिदुत्तरावस्था फलस्य
वा पूर्ब्बावस्थाऽपूर्ब्बं नामास्तीति च तर्क्यते । उपपद्यते
चायमर्थ उक्तेन प्रकारेण ईश्वरस्तु फलं ददातीत्यनुपपन्नम् ।
अविचित्रस्य कारणस्य विचित्रकार्य्यानुपपत्तेः वैषम्यनिर्घृण्य-
प्रसङ्गादनुष्ठानवैयर्थ्यापत्तेश्च तथा च धर्मत एव फलमिति
“पूर्ब्बपक्षः” वादारायणस्तु आचार्य्यः पूर्ब्बोक्तमेवेश्वरं
फलहेतुं मन्यते केवलात् कर्म्मणोऽपूर्ब्बाद्वा केवलात् फलमित्ययं-
पक्षः तुशब्देन व्यावर्त्त्यते कर्मापेक्षाद्वाऽपूर्ब्बापेक्षाद्वा यथा
तथा वा ईश्वरात् फलमिति सिद्धान्तः “हेतुव्यपदेशात्”
धर्म्माधर्मयोरपि कारयितृत्वेनेश्वरोहेत्तुर्व्यपदिश्यते
फलदातृतया च । “एष ह्येव साधु कर्म कारयति तं यमेभ्य
उन्निनीषते एष उ एवासाधु कर्म कारयति तं यमघो-
निनीषते” इति स्मर्य्यते चायमर्थो गीतासु । “यो यो
यां यां तनुं भक्तः श्रद्धयार्चितुमिच्छति तस्य तस्याचलां
श्रद्धां तामेव विदधाम्यहम् । स तया श्रद्धया युक्तस्तस्या
पृष्ठ ०२५१
राधनमीहते । लभते च ततः कामान् मयैव विहि-
तान् हि तान् इति” । विचित्रकार्य्यानुपपत्त्यादयोऽपि
दोषाः कृतप्रयत्नापेक्षत्वादीश्वरस्य न प्रसज्यन्ते” इति ।
एतेन “नमस्तत् कर्मभ्योविधिरपि न येभ्यः प्रभवतीत्युक्तिस्तु
प्रामादिकीत्यवसेयम् एवञ्च ईश्वराधिष्ठितकर्मभ्य एव तत्तत्-
फलोत्पत्तिरिति सुस्थम् । कर्मणामाशुविनाशिनामपि सूक्ष्म-
रूपेणैव स्वकारणेऽन्तः करणे सत्त्वात् “क्षीयन्ते चास्य कर्म्माणि”
इत्याद्युक्तिः सङ्गच्छते तज्जन्यापूर्ब्बस्वीकारे तु तत्र तज्जन्ये
लक्षणेति भेदः । अतएव “ज्ञानाग्निः सर्वकर्म्माणीत्यादौ
सूक्ष्मावस्थानां ज्ञानादेव क्षयः, स्थूलावस्थापन्नानान्तु
आशुनाशात्” इति वेदान्तिमते युक्तिरूहनीया । “आत्मान्तरगुणा-
नामात्मान्तरेऽकारणत्वादिति” वै० सू० “आत्मान्तरस्य गुणानां
पुण्यपापानामात्मान्तरेऽकारणत्वात् स्वर्गफलस्येति शेषः ।
“शास्त्रदेशितं फलममुष्ठातरीति” जै० सू० । “आत्मान्तरे
यौ दुखदुःखगुणौ तयोरकारणत्वात् प्रत्यात्मनिष्ठाभ्यामेव
धर्म्माधर्माभ्यां सुखदुःखे, न व्यधिकरणाभ्याम् । अन्यथा
येन यागहिंसादिकं न कृतं तस्य तत्फलं स्यादिति
कृतहानिरकृताभ्यागमश्च प्रसज्येतेति” एतच्च सामान्यशास्त्रं विशे-
षणास्त्रेणापोद्यते तेन पितृयज्ञादेः पुत्रपूतत्वादिहेतुत्वमिति”
वै० सू० उपस्करः । तच्चापूर्ब्बं त्रिविधं प्रधानापूर्ब्ब-
मङ्गापूर्बं कलिकापूर्बञ्चेति मीमांसकाः । तत्र दर्शपौर्ण-
मासाद्यपूर्बं प्रधानापूर्बं तदेव परमापूर्बं, प्रयाजाद्यङ्गजन्या-
पूर्बमङ्गापूर्बं, तदवान्तरक्रियाकूटजन्यमपूर्बं कलिकापूर्बं तच्च
व्रीहिप्रोक्षणाभ्युक्षणादिजन्य द्रव्यनिष्टमिति मीमांसवाः
तज्जन्यसंस्कारविशेष एव कलिकापूर्ब्बतया व्यवहियते
स चात्मनिष्ठ इति नैयायिकाः विस्तरस्तु कुसुमाञ्चलौ
१ स्ताके दृश्यः । कलिकापूर्बञ्च परमापूर्बं जनयित्वा
नश्यति । अङ्गापूर्बैस्तु परमापूर्बे विशेष आधीयते इति
भेदः तथा च अङ्गापूर्बसहितं परमापूर्बं विशिष्टफलं
जनयति तद्विहीनन्तु स्वल्पं फलम् । अत एव प्रधानकरणे
दैवात् शक्याङ्गाकरणे न प्रधानस्य वैफल्यं किन्तु अल्प-
फलत्वमेवेति सिद्धान्तः । केवलाङ्गापूर्बाणां तु न फल
जनकत्वम् प्रधानासिद्धेः फलाभावात् । अतएव “प्रधानस्या
क्रिया यत्र साङ्गं तत् क्रियते पुनः । अप्रधानाक्रियायान्तु
नावृत्तिर्न च तत्क्रियेति” छन्दोगपरिशिष्टे तथा व्यव-
स्थापितम् । इदञ्च परमापूर्बं फलनाश्यं तत्त्वज्ञाननाश्यं
कर्मनाशाजलस्पर्शादिनाश्यञ्च । “नाभुक्तं क्षीयते कर्म
कल्पकोटिशतैरपि अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभ-
मिति” “कर्मणाञ्चैव सर्वेषां भोगादेव क्षयोभवेदिति” च
शास्त्रात् “ज्ञानाग्निः सर्वकर्म्माणि भस्मसात् कुरुते-
ऽर्ज्जुनेति” गीतावाक्याच्च । सर्वकर्मपदेन च प्रारब्धकर्म्मा-
तिरिक्तकर्म्माण्येबोच्यन्ते तेन प्रारब्धकर्मणां भोगा-
देव क्षय इत्यनुपदं वक्ष्यते । परमापूर्बञ्च नित्यकर्मणि
पण्डापूर्बत्वेन मीमांसकैः व्यवह्रियते सन्ध्याबन्धनस्य
किञ्चित्फलाजनकत्वात् । अर्थवादोपस्थापितब्रह्मलोकादि
प्राप्तिरूपफलजननात् न तत्रापूर्बस्य फलाजनकत्वेन
पण्डत्वमिति नैयायिकाः । अत एव चिन्तामणौ यत्रार्थ-
वादिकं फलं न श्रूयते तत्र तत्त्वज्ञामसाधनत्वं
गीतादिवाक्येन व्यवस्थापितं तच्च पूर्बं दर्शितम् । “न कलञ्जं
भक्षयेदित्यादि निषेधस्यापि पण्डापूर्बजनकत्वमिति मीमां-
सकाः । तत्रापि प्रत्ययाभावरूपफलाङ्गीकारान्न पण्डत्व-
मिति तत्त्वज्ञानप्रतिबन्धकाभावत्वेन तस्यापीष्टत्वादिति
नैयायिकाः । अपूर्बस्यापूर्बशब्दवाच्यत्वे हेतुर्जैमिनिना
दर्शितः । “प्रत्यक्षमनिमित्तं विद्यमानोपलम्भनत्वात्”
सूत्रेण व्याख्यातञ्चैतत् अदृष्टशब्दे ११६ पृष्ठे ततश्च
पूर्बमविद्यमानत्वात् अपूर्बशब्दवाच्यतेति । वेदान्तिनस्तु
कर्म्मणः सूक्ष्मावस्था, फलस्य पूर्ब्बावस्था वाऽपूर्वमिति स्वीचक्रुः
तच्चानुपदं दर्शितम् । तत्त्वज्ञानेन कर्मक्षये कश्चिद्विशेषोऽभि-
धीयते । “तदधिगमे उत्तरपूर्ब्बाघयोरश्लेषविनाशौ तद्व्य-
पदेशात्” शा० सू० भाष्ये “अथेदानीं ब्रह्मविद्या-
फलं प्रति चिन्ता प्रजायते ब्रह्माधिगमे सति तद्विपरीत-
फलं दुरितं क्षीयते न वा क्षीयत इति संशयः किन्तावत्
प्राप्तं फलहेतुत्वात् कर्म्मणः फलमदत्त्वा न सम्भाव्यते
क्षयः । फलदायिनी ह्यस्य शक्तिः श्रुत्या समधिगता यदि
तदन्तरेणैव फलोपभोगमुपमृद्येत, श्रुतिः कदर्थिता स्यात् ।
स्मरन्ति च “नहि कर्म्म क्षीयत” इति । नन्वेवं सति
प्रायश्चित्तोपदेशोनिरर्थकः प्राप्नोति । नैष दोषः प्राय-
श्चित्तानां नैमित्तिकत्वोपपत्तेर्गृहेष्ट्यादिवत् । अपि च प्राय-
श्चित्तानां दोषसंयोगेन विधानात् भवेदपि दोषक्षपणार्थता
नत्वेवं ब्रह्मविद्यायाविघानमस्ति । नन्वनभ्युपगम्यमाने
ब्रह्मविदः कर्म्मक्षये, तत्फलस्यावश्यभोक्तव्यत्वादनिर्म्मोक्षः
स्यात् । नेत्युच्यते । देशकालनिमित्तापेक्षोमोक्षः कर्म्मफल
वद्भविष्यति । तस्मान्न ब्रह्मविद्याधिगमे दुरितनिवृत्तिरित्येवं
प्राप्ते ब्रूमः । तदधिगमे ब्रह्माधिगमे सत्युत्तरपूर्ब्बाघयोर-
श्लेषविनाशौ भवतः उत्तरस्याश्लेषः पूर्बस्य विनाशः ।
कस्मात्? तद्व्यपदेशात् । तथा हि ब्रह्मविद्याप्रक्रियायां
पृष्ठ ०२५२
सम्भाव्यमानसम्बन्धस्यागामिनो दुरितस्यानभिसम्बन्धं विदुषो-
व्यपदिशति श्रुतौ “यथा पुष्करपलाश आपो न श्लिष्यन्त
एवमेवंविदि पापं कर्म्म न श्लिष्यत” इति । तथा विनाशमपि०
पूर्ब्बोपचितस्य दुरितस्य व्यपदिशति “तद् यथेषीकातूलमग्नौ
प्रोतं प्रदूयेतैवं हास्य सर्बे पाप्मानः प्रदूयन्त” इति ।
अयमपरः कर्मक्षयव्यपदेशो भवति । “भिद्यते हृदयग्रन्थि-
श्छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्म्माणि तस्मिन् दृष्टे-
परावरे” इति । यदुक्तमनुपमुक्तफलस्य कर्मणः क्षयकल्प-
नायां शास्त्रकदर्यनं स्यादिति । नैष दोषः न हि वयं
कर्मणः फलदायिनींशक्तिमवजानीमहे विद्यत एव सा, सा
तु विद्यादिना कारणान्तरेण प्रतिबध्यत इति वदामः । शक्ति-
सद्भावमात्रे च शास्त्रं व्याप्रियेत न प्रतिबन्धाभावेऽपि । “न
हि कर्म क्षीयत” इत्येतदपि स्मरणमौत्सर्गिकं न भोगादृते
कर्म क्षीयते तदर्थत्वादिति इष्यत एव प्रायश्चित्तादिना तस्य
क्षयः । “सर्वं पाप्मानन्तरति तरति ब्रह्महत्यां योऽश्वमेधेन
यजते य उ वैनमेवं वेदेत्यादिश्रुतिस्मृतिभ्यः । यत्तूक्तं
नैमित्तिकानि प्रायश्चित्तानि क्षपयिष्यन्तीति तदसत्
दोषसंयोगेन नोद्यमानानामेषां दोषनिह्नुतिफलान्तरकल्प-
नानुपपत्तेः । यत् पुनरुक्तं न प्रायश्चित्तवद्दोषक्षयोद्देशेन
विद्याविधानमस्तेत्यत्र ब्रूमः । सगुणासु तावद्विद्यासु विद्यत
एव विधानं तासु च वाक्यशेषे ऐश्वर्य्यप्राप्तिः पापनिवृत्तिश्च
विद्यावत उच्यते । तत्राविवक्षाकारणं नास्तीत्यतः
पाप्मप्रहाणपूर्बकैश्वर्य्यप्राप्तिस्तासां फलमिति निश्चीयते ।
निर्गुणायान्तु विद्यायां यद्यपि विधानं नास्ति तथाप्य-
कर्त्रात्मबोधात् कर्मप्रदाहसिद्धिः । अश्लेष इति चागामिषु-
कर्मसु कर्त्तृत्वमेव न प्रतिपद्यते ब्रह्मविदिति दर्शयति ।
अतिक्रान्तेषु तु यद्यपि मिथ्याज्ञानात् कर्तृत्वं प्रतिपेद इव
तथापि विद्यासामर्थ्यान्मिथ्याज्ञाननिवृत्तेस्तान्यपि प्रली-
यन्त इत्याह विनाश इति । पूर्वप्रसिद्धकर्तृत्वभोक्तृत्वविपरीतं
हि त्रिष्वपि कालेष्वकर्तृत्वामोक्तृत्वरूपं ब्रह्माहमस्मि नेतः
पूर्बमपि कर्त्ता भोक्ता वाहमासं नेदानीं” नापि भविष्यति
काल इति ब्रह्मविदवगच्छति । एवमेव च मोक्ष उपपद्यते
अन्यथा ह्यनादिकालप्रवृत्तातां कर्मणां क्षयाभावे मोक्षाभावः
स्यात् । न च देशकालनिमित्तापेक्षोमोक्षः कर्मफल
वद्भवितुमर्हति अनित्यवप्रसङ्गात् परोक्षत्वानुपपत्तेश्च
ज्ञानफलस्य । तस्माद्ब्रह्माधिगमे दुरितक्षय इति स्थितम् ॥
“इतरस्याप्येवमसंश्लेषः पाते तु” शा० सू० ॥ “पूर्बस्मिन्नधि-
करणे बन्धहेतोरघस्याश्लेषविनाशौ ज्ञाननिमित्तौ शास्त्र-
व्यपदेशान्निरूपितौ धर्मस्य पुनः शास्त्रीयत्वाच्छास्त्रीयैण
ज्ञानेन विरोध इत्याशङ्क्य तन्निराकरणाय पूर्ब्बाधिकरण-
न्यायातिदेशः क्रियते । इतरस्यापि पुण्यस्य कर्मण एवमघवद
संश्लेषोविनाशश्च ज्ञानवतो भवतः । कुतः? तस्यापि स्वफल-
हेतुत्वे ज्ञानफलप्रतिबन्धित्वप्रसङ्गात् “उभे उ हैवैष
एतेन तरतीत्यादि” श्रुतिषु च दुष्कृतवत् सुकृतस्यापि प्रणा-
शव्यपदेशात् अकर्त्रात्मबोधनिमित्तस्य कर्मक्षयस्य सुकृत
दुष्कृतयीस्तुल्यत्वात् । “क्षीयन्ते चास्य कर्म्माणि इति चाऽ
विशेषश्रुतेः । यत्रापि केवलएव पाप्मशब्दः पठ्यते
तत्रापि तेनैव पुण्यमप्याकलितमिति द्रष्टव्यं ज्ञानापेक्षया-
निकृष्टफलत्वात् । अस्ति च श्रुतौ पुण्येऽपि पाप्मशब्दः “नैनं
सेतुमहोरात्रे प्रतते तरत” इत्यत्र सह दुष्कृतेन सुकृतमप्य-
नुक्रम्य “सर्वे पाप्मानोऽतोनिवर्त्तन्त” इत्यविशेषेणैव प्रततेषु
पाप्मशब्दप्रयोगात् । पाते त्विति । तुशब्दोऽवघारणार्थः ।
एवं धर्म्माधर्म्मयोबन्धहेत्वोर्विद्यासामर्थ्यादश्लेषविनाशसिद्धे-
रवश्यं भाविनी विदुषः शरीरपाते मुक्तिरित्यवधारयति
“अनारव्वकर्य्ये एव तु पूर्बे तदवधेः शा० सू० ॥
“पूर्बयोरधिकरणयोर्ज्ञाननिमित्तः सुकृतदुष्कृतयोर्विनाशो-
ऽवधारितः स किमविशेषेणारब्धकार्य्ययोश्च भवत्युत विशे-
षेणानारव्वकार्य्ययोरेवेति विचार्यते तत्र” “उभे उहैवैष एतेन
तरतीत्येवमादि” श्रुतिष्वविशेषश्रवणादविशेषेणैव क्षय इत्येवं
प्राप्ते प्रत्याह अनारव्वकार्ये एव त्विति । अप्रवृत्ति-
फले एव पूर्बजन्मान्तरसञ्चिते अस्मिन्नपि च जन्मनि प्राक् च
ज्ञानोत्पत्तेः सञ्चिते सुकृतदुष्कृते ज्ञानाधिगमात् क्षीयेते
न त्वारब्धकार्ये सामिभुक्तफले, याभ्यामेतद्ब्रह्मज्ञानायतन
जन्म निर्म्मितम् । कुत एतत्? “तस्य तावदेव चिरं यावन्न
विमोक्षैति शरीरपातावघिकरणात् क्षेमप्राप्तेः । इतरथा
हि ज्ञानादशेषकर्मक्षये सति स्थितिहेत्वभावात् ज्ञान
प्राप्त्यनन्तरमेव क्षेममश्नुवीत तत्र शरीरपातप्रतीक्षां
नाचक्षीत । ननु वस्तुबलेनैवायमकर्त्रात्मबोधः कर्म्माणि क्षप-
यन् कथं कानिचित् क्षपयेत् कानिचिच्चोपेक्षेत न हि
समाने ह्यग्निवीजसम्पर्के केषाञ्चिद्वीजशक्तिः क्षीयते केषा-
ञ्चिन्न क्षीयते इति शक्यमङ्गीकर्त्तुमिति । उच्यते । न
तावदनाश्रित्यारब्धकार्यकर्म्माशयं ज्ञानोत्पत्तिरुपपद्यते
आश्रिते च तस्मिन् कुलालचक्रवत् प्रवृत्तवेगस्यान्तराले
प्रतिबन्धासम्भवाद्भवति वेगक्षयप्रतिपालनम् । अकर्त्रात्म-
बोधोऽपि हि मिथ्याज्ञानबाधनेन कर्माण्युच्छिनत्ति ।
बाघितमपि मिथ्याज्ञानं द्विचन्द्रज्ञानवत् संस्कारवशात्
पृष्ठ ०२५३
कञ्चित् कालमनुवर्त्तत एव । अपि च नैवात्र विवदितव्यं
ब्रह्मविदः कञ्चित् कालं शरीरं ध्रियते न ध्रियते वा
इति । कथं ह्येकस्य स्वहृदयप्रत्ययं ब्रह्मवेदनं
देहधारणञ्चापरेण प्रतिक्षेप्तुं शक्येत? श्रुतिस्मृतिषु च
स्थतप्रज्ञलक्षणनिर्द्देशेनैतदेव निरुच्यते । तस्मादनारब्ध-
कर्ययोरेव सुकृतदुष्कृतयोर्विद्यासामर्थ्यात् क्षय” इति भा० ।

अपूर्व्वता स्त्री अपूर्ब्बस्य अन्यतोऽप्राप्तस्य भावः तल् । १ प्रमा-

णान्तरागम्यत्वे “उपक्रमोपसंहारावभ्यासोऽपूर्ब्बता फलम्
अर्थवादोपपत्तिश्च हेतुस्तात्पर्य्यनिर्ण्णये २ इत्युक्ते तात्पर्य्याव-
धारणहेतुभेदे च यथा छन्दोग्ये “तन्त्वौपनिषदं वेदेति
ब्रह्मणो मानान्तरागम्यत्वमुक्तम् ।

अपूर्व्वपति स्त्री न पूर्ब्बः पतिर्य्यस्याः । कुमार्य्याम् । “अपूर्ब्ब-

पतिं कुमारीमिति” सि० कौ० ।

अपूर्व्ववाद पु० अपूर्ब्बमषिकृत्य वादः तत्त्वबुभुत्सोः कथा ।

गङ्गेशोपाध्यायकृते शब्दचिन्तामण्यन्तर्गते ग्रन्थभेदे ।

अपूर्व्वविधि पु० अपूर्ब्बे प्रमाणान्तरेणाप्राप्ते विधिर्विधानम्

वि + धा--कि । अप्राप्तप्रापके लिङादिपदवेदनोये शब्द-
विशेषे । यथा स्वर्गकामो यजेतेति लिङादियुक्तं वाक्यं
प्रमाणान्तरेणाप्राप्तस्य स्वर्गसाधनत्वस्य यागे बोधयत् तथा ।
अपूर्ब्बविधिरपि चतुर्विधः कर्म्मविधिः गुणविधिः विनि-
योगविधिः प्रयोगविधिश्चेति । तत्र अग्निहोत्रं जुहोति
इत्यादौ यागरूपे कर्मणि इष्टसाधनतायाः, कृतिसाध्य-
ताया, भावनाया वा मतभेदेन बोधनात् कर्म्मविधित्वम् ।
द्रव्यदेवतादिविघायकविधिर्गुणविधिः । यथा दध्ना
जुहोत्यादिवाक्यं प्राप्तस्याग्निहोत्रस्यानुवादेनाप्राप्तगुणरूप-
द्रव्यादेर्विधानात् । “ऐन्द्र्या गार्हपत्यमुपतिष्ठत इत्यादि
ऐन्द्र्या ऋचः गार्हपत्योपस्थाने विनियोजनात् विनियोग-
विधिः । एवं कृत्वा एवं कुर्य्यादित्यादि प्रयोगज्ञापकोविधिः
प्रयोगविधिः, । यथा अधीत्य स्नायादित्यादि “उपसद्भिश्च-
रित्वा मासमेकमग्निहोत्रं जुहोत्यादि च अयञ्च विशिष्ट-
विधिरिति भेदः ।

अपूर्व्व्य त्रि० न पूर्ब्बमर्हति यत् न० त० । पूर्ब्बानर्हे “त्वं

नो वायवेषामपूर्ब्यः सोमानामिति” ऋ० १, १३४, ६ ।

अपृक्त त्रि० पृच--क्त न० त० । १ असंबद्धे “अपृक्त एकाल्

इति पाणि न्युक्ते वर्णान्तरायुक्ते २ एकवर्ण्णे “वेरपृक्तस्य पा०

अपृथक् अव्य० न पृथक् । सहयोगे फूर्बापरयोरेकादेश-

रूपे सम्भूयभवने पृथक्साहित्यमपृथक्साहित्यञ्चेति
साहित्यं द्विविधमिति वृद्धाः ।

अपेक्षणीय त्रि० अप + ईक्ष--कर्म्मणि अनीयर् । १ अनुरो-

द्धव्ये अपेक्षाकर्मणि २ प्रतिपाल्ये च “आत्मा यत्नेन
रक्ष्योरणशिरसि पुनः सोऽपि नापेक्षणीय” इति नीति० ।

अपेक्षा स्त्री अप + ईक्ष--भावे अ । १ आकाङ्क्षायां, सा च शाब्द-

बोधजनिका “यत्पदेन विना यस्यानुभावकता भवेदित्युक्ता
तत्पदे पदवत्त्वरूपा । अपेक्षायाञ्च प्रायशोवृत्तिर्नेष्यते
“सापेक्षे प्रत्ययो न स्यात् समासो वा कथञ्चन । सापेक्षं
तद्विजानीयादसमस्तविशेषणम्” यथा प्रवीर पुत्रकाम्यति
ऋद्धस्य राजमातङ्ग इत्यादौ प्रत्ययसमासौ न स्तः । “सापेक्ष-
त्वेऽपि गमकत्वात् समास” इति भाष्योक्तेः देवदत्तस्य गुरु-
कुलसमित्यादौ समासः इति भेदः । १ प्रयोजकावे तच्च
ज्ञाने स्थितौ उत्पत्तौ वा इतरस्यानुरोधित्वम् ज्ञा-
नादिकार्य्ये च यस्य यत्पदार्थान्तरज्ञानाद्यनुरोधः तस्य
तदपेक्षा । अतएव तर्कग्रन्थे जगदीशेन “स्वापेक्षापादकः
प्रसङ्ग आत्माश्रयः अपेक्षा च ज्ञप्तावुत्पत्तौ स्थितौ च
ग्राह्येत्यभिधाय एतद्घटज्ञानं यद्येतद्घटज्ञानजन्यं स्यादे-
तद्घटज्ञानभिन्नं स्यादिति ज्ञप्तौ । घटोऽयं यद्येतद्घटजनकः
स्यात् एतद्घटभिन्नः स्यादिति उत्पत्तौ, अयं घटः यद्येतद्घट-
वृत्तिः स्यात् तथात्वेनोपलभ्येतेति स्थितौ च” स्वापेक्षा-
पेक्षितत्वे उदाहृतम् । अनतिदूरे च “अपेक्षा चात्र साक्षात्-
परम्परासाधारणी ग्राह्ये” त्युक्तम् । तेन साक्षात् परम्परया
वा स्वज्ञानादिप्रयोजकतैवापेक्षेति निष्कर्षः । स्वग्रहसापेक्ष
ग्रहसापेक्षग्रहकत्वमन्योन्याश्रयलक्षणम् । ३ अनुरोधे
“सत्यामपि तपःसिद्धौ नियमापेक्षया मुनिः” रघुः ।
४ स्पृहायाञ्च “समुगोढ़ेषु कामेषु निरपेक्षः परिव्रजेदिति”
“अध्यात्मरतिरासीत निरपेक्षोनिरामिष इति” च मनुः ।
“मिरपेक्षः विगतस्पृह इति” कुल्लूकभट्टः ।

अपेक्षाबुद्धि स्त्री अयमेकः अयमेक इत्याकारिकायाम्

अनेकैकत्वविषयिण्यां “अनेकैकत्वबुद्धिर्य्या साऽपेक्षाबुद्धिरिष्यते
भाषा० परिभाषितायाम् बुद्धौ ।

अपेक्षाबुद्धिज त्रि० अपेक्षाबुद्धितो जायते जन--ड ५ त० ।

न्यायोक्ते द्वित्वादिपरार्द्धान्ते संख्याभेदे । “द्वित्वादयः
परार्द्धान्ता अपेक्षाबुद्धिजा मताः अनेकाश्रयपर्य्याप्ता एते तु
परिकीर्त्तिताः अपेक्षाबुद्धिनाशाच्च नाशस्तेषां प्रकीर्त्तित”
इति भाषा० । अत्रायमभिसन्धिः । यद्यपि द्वित्वादि
समवायः प्रत्येकं घटादावस्ति तथापि एकोद्वाविति ज्ञाना-
भावात् एको न द्वावितिज्ञानाच्च द्वित्वादीनां पर्य्याप्तिस्वरूपः
कश्चित् संबन्धोऽनेकाश्रयोऽङ्गीक्रियते पर्य्याप्तिसंबन्धेन च
पृष्ठ ०२५४
प्रत्येकं घटादौ न द्वित्वादि । तादृशसम्बन्धश्च अपेक्षाबुद्धि-
सापेक्षस्तेन तत्सत्त्वे तथा ज्ञानं, तदसत्वे न तथाज्ञानम् ।
तत्र प्रथमम् अयमेकः अयमेक इत्याकारिका अपेक्षाबुद्धि-
स्ततोद्वित्वोत्पत्तिः ततो द्वित्वद्वित्वत्वनिर्विकल्पकं ततोद्वित्व-
प्रत्यक्षम् । अपेक्षाबुद्धिनाशाच्च ततोद्वित्वनाशः इति । यद्यपि
योग्यविभुविशेषगुणानां स्वोत्तरवर्त्तिगुणनाश्यत्वेन ज्ञानमा-
त्रस्य द्विक्षणस्थायित्वं तथापि अगत्या अपेक्षाबुद्धेस्त्रिक्ष्ण-
स्थायित्वं स्वीक्रियते अन्यथा निर्विकल्पककाले अपेक्षा-
बुद्धिनाशे द्वित्वस्य नाशः प्रसज्येत न तु द्वित्वप्रत्यक्षं तदानीं
विषयाभावात् विषयस्य प्रत्यक्षं प्रति कार्य्यकालवृत्तितयैव
कारणत्वोपशमात् तथा च द्वित्वप्रत्यक्षमेवापेक्षाबुद्धिनाशकं
नान्यदिति कल्प्यते । कालान्तरे द्वित्वप्रत्यक्षाभावाच्च
अपेक्षाबुद्धिनाशात् द्वित्वादिनाशैति कल्प्यतैति सि० मु० ।

अपेक्षित त्रि० अप + ईक्ष--कर्म्मणि क्त । १ अपेक्षाविषय

भूते २ आकाङ्क्षिते च । “अपेक्षितक्रियञ्चेति त्रिधा-
ऽपादानमिष्यत” इति हरिः ।

अपेक्षिन् त्रि० अप + ईक्ष--णिनि स्त्रियां ङीप् । अपेक्षावति

स्वकार्य्यजननादौ इतरप्रयोजकतानुरोधिनि च ।

अपेक्ष्य त्रि० अप + ईक्ष--कर्म्मणि ण्यत् । १ अपेक्षणीये । भावे

ल्यप् । अनुरुध्येत्यर्थे अव्य० “किमपेक्ष्य फलं पयोधरान्
ध्वनतः प्रार्थयते मृगाधिप” इति किरा० ।

अपेत त्रि० अ + इण--कर्त्तरि क्त । १ अपगते अपसृते ।

“यं प्रव्रजन्तमनुपेतमपेतकृत्यमिति” भाग० ३ पलायिते च ।

अपेतरासक्षी स्त्री अपेतः राक्षस इव पातकं यस्याः गौ० ङीष् ।

तुलस्याम् राजनि० । तस्याः राक्षमतल्यपापादिहरणा-
त्तथात्वम् । “दूर्ब्बा दहति पापानि धात्री हरति
पातकम् । हरितकी हरेद्रोगं तुलसी हरते त्रयम्”
आ० त० स्कान्दोक्तेस्तस्याः पापादिहारित्वम् ।

अपेय त्रि० पा अर्हाद्यर्थे यत् न० त० । १ स्मृतौ निपिद्धपाने

मद्यादौ “मद्यमदेयमपेयमनिग्राह्यमिति” ति० त० उश०
एवमन्यानि अपेयानि स्मृतौ प्रसिद्धानि यथा “वर्ज्यं
सलवणं क्षीरं यच्च विश्रथितं पयः । अनिर्द्दशायागोः क्षीरं
पीत्वा चान्द्रायणं चरेदिति” आ० त० स्मृतिः । “अपः
सुराभाजनस्था मद्यभाण्डे स्थितास्तथा पञ्चरात्रंपिवेत्
पीत्वा शङ्खपुष्पीघृतं पय” इति मनुः । “शुनोच्छिष्टाः
स्थिता ह्यापो यदि कश्चित् द्विजः पिबेत् शङ्खपुष्पीविपक्वेन
त्र्यहं क्षीरेण वर्त्तयेदिति” यमः । “स्त्रियोच्छिष्टाः स्थिता
आपो यदि कश्चित् पिबेद्द्विजः । शङ्खपुष्पीत्यादि० शङ्खः
“शूद्रोच्छिष्टा स्थिताह्यापो यदि कश्चित् पिबेत् द्विजः ।
कुशमूलविपक्केन त्र्यहं क्षीरेण वर्त्तयेदिति हारीतः “शुना
संस्पृष्ट भाण्डे तु रेतोमूत्रविदूषिते । जलक्षीरादिकं पीत्वा
तप्तकृच्छ्रं समाचरेत्” लघुबौ० । “चण्डालकूपभाण्डेषु
यस्त्वज्ञानाज्जलं पिबेत् प्रायश्चित्तं कथं तत्र वर्ण्णे
वर्ण्णे विधीयते । चरेत् सान्तपनं विप्रः प्राजापत्यन्तु
भूमिपः । तदर्द्धं तु चरेद्वैश्यः पादं शूद्रस्य निर्द्दिशेत्”
आप० । “चण्डालपरिगृहीतं योह्यज्ञानाज्जलं पिवेत् ।
तस्य शुद्ध्विं विजानीयात् प्राजापत्येन नित्यश” इति आप० ।
“यस्तु चण्डालसंस्पृष्टं पिबेत् किञ्चिदकामतः स तु सान्त-
पनं कृच्छ्रं चरेच्छुद्ध्यर्थमात्मनः” अङ्गिराः । “किञ्चिदिति
जलक्षीरादिकमिति” प्रा० बि० । आममांसादौ न दोषः ।
“आमं मांसं घृतं क्षौद्रं स्नेहाश्च फलसम्भवाः । म्लेच्छ-
भाण्डस्थिता दुष्टानिष्क्रान्ताः शुचयः स्मृताः” यमः
“अन्त्यजैः खानिताः कूपास्तड़ानि तथैव च । एषु स्नात्वा च
पीत्वा च पञ्चगव्येन शुध्यति” आप० । जलान्तरालाभे तु
तदप्यापदि पातुं शक्यते “अन्त्यजैः खानिते कूपे सेतौ
वाप्यादिके तथा तत्र स्नात्वा च पीत्वा च प्रायश्चित्तं न
विद्यते इति वृद्धशाता० । “इदमत्यन्तापद्विषयमिति” प्रा०
वि० । “भाण्डस्थिता अभोज्यानामपः पीत्वा पयोदधि ।
ब्राह्मणो क्षत्रियो वैश्यः शूद्रश्चैवोपसर्पति ब्रह्मकूर्चो-
पवासश्च याज्यवर्ण्णस्य निषकृतिः” परा० । उपसर्पति उपसर्पेत्
पायश्चित्तमिति शेषः तदेवाह ब्रह्मकूर्चोपेति । “यदि
विप्रः प्रमादेन शूद्रतोयं पिबेत् स्वयम् । उपोव्य विल्व-
पद्मानां पलाशस्य कुशस्य च । एतेषामुदकं पीत्वा तेन
शुद्धिमवाप्नुयात्” शाता० । अत्रापवादः । “नवभाण्डेषु
पानीयं विट्शूद्रक्षत्रजन्मनाम् । पेयं तदाहुर्विप्राणां
पयोदधि तथैव च” जावा० । “घृतं तैलं पयःक्षीरं तथैवेक्षुरसो
गुड़ः । शूद्रभाण्डस्थितं तक्रं तथा मधु न दुष्यति” शाता० ।
घृतादीनामाकरभाण्डस्थितानां न दोषः” शङ्खः । “पीता-
वशेषितं पीत्वा पानीयं ब्राह्मणः क्वचित् । त्रिरात्रं तु व्रतं
कुर्य्याद्वामहस्तेन वा पुनः” शङ्खः । “वामेन केबलेनेति”
प्रा० वि० । “प्रपामरण्ये घटके च कूपे द्रोण्यां जलं
कोषगतास्तथापः । ऋतेऽपि शूद्रात्तदपेयमाहुरापद्गतो भूमि-
गताः पिबेत्ता” इति यमः । प्रपाजलं, कूपजलाहरण
घटस्थजलं द्रोणी सेकपात्रविशेषः तज्जलं, खड़्गादि
कोषगतं जलञ्च शूद्रासम्बन्धेऽप्यपेयम् “आपदि तु तदेव
जलं भूमिगतं कृत्वा ततः पात्रान्तरेणोद्धृत्य पेयमिति”
पृष्ठ ०२५५
प्रा० वि० । एतद्विषये एव । द्रोण्यामायसयुक्तायां छन्ने प्राव-
र्त्तके तथा । ग्रामप्रपाजलञ्चैव पीत्वापत्सु न दुष्यतीति
लघुहारीतः । तदपि भूमिगतं कृत्वैव पेयं पूर्बवचनैकवाक्य-
त्वात् । “प्रावर्त्तके सेचके छन्ने अज्ञाते” प्रा० वि० । “कूपे
विन्मूत्रसंसृष्टे पीत्वा तोयं द्विजोतमः । त्रिरात्रेण विशुध्येत”
अङ्गिराः । “जलाशये तथान्येषुस्थावरेषुमहीतले । कूपवत्
कथिता शुद्धिः महत्सु च न दूषणमिति” विष्णुः । “महत्-
खप्यशुचिशङ्कया तीर्थसमीपतोयग्रहणवर्ज्जनमिति” प्रा०
वि० । यथोक्तं देवलेन । “तत्राक्षोभ्यतड़ागानि नदीर्वापीः
सरांसि च कस्मलाशुचियुक्तानि तीर्थतः परिवर्जयेदिति” ।
“मृतपञ्चनखात् कूपादत्यन्तोपहताच्चोदकं पीत्वा ब्राह्मण-
स्त्रिरात्रमुपवसेदित्यादि” विष्णुः “अत्यन्तोपहतात्
अमेध्यादिनेति” प्रा० वि० । “यस्तु कूपात् पिबेत् तोयं ब्राह्मणः
शवदूषितात् उपवासत्रयं कृत्वेत्यादि” लघुहा० । “क्लिन्नो
भिन्नः शवश्चैव कूपस्थो यदि दृश्यते । पयः पीत्वा त्रिरात्रेण
इत्यादि” देवलः । “पीतशेषं पिबेत् विप्रैर्विप्रः स्यादन्यथा
पशुरिति भवि० पु० । “श्लेष्मोपानहविन्मूत्रं स्त्रीरजो मद्य-
मेव च । एभिः संदूषिते कूपे तोयं पीत्वा कथं विधिः ।
एकं द्व्यहं त्र्यहञ्चैव द्विजातीनां विशोधनमिति” अत्रिः ।
अत्रापवादमाह स एव “गोदोहने चर्म्मपुटे च तोयं यन्त्रा-
करे कारुकशिल्पिहस्ते । स्त्रीबालवृद्धाचरितानि यान्य-
प्रत्यक्षदृष्टानि शुचीनि तानि । प्राकाररोधे विषमप्रदेशे
सेवानिवेशे भवनस्य दाहे । आरब्धयज्ञेषु महोत्सवेषु
तथैव दोषा न विकल्पनीयाः । शुचि गोतृप्तिकृत्तोयं
प्रकृतिस्थं महीगतम् । चर्म्मभाण्डैस्तु धाराभिस्तथा यन्त्रो-
द्धृतं जलमिति” । प्रागुक्तवचनजातैः चर्म्मभाण्डस्थित-
यन्त्रोद्ध्वतयोरपेयत्वेन निषेधे प्राप्ते चर्मभाण्डैरुद्धृतं
थन्त्रोद्धृतञ्च सन्ततधारयोद्धृतञ्च एतत्त्रयं यदि महीगतं
गोतृप्तिकरं प्रकृतिस्थमविकृतं च तदा शुचीत्यनेन प्रतिप्रसूतम्
महत्सु च न दुष्यतीत्यनेन महत्त्वस्यापेक्षाकृतत्वेन अव्या-
वर्त्तकतया गोतृप्तिकरत्वेन विशेषणात् तथाभूतं महत्त्व-
मेव प्रकृते विवक्षितम् । तदपि जलान्तराभावे शुद्धमित्य-
वधेयं प्रागुक्तवचने आपद्गतस्यैव भूमिगतं कृत्वा तत उद्धृत्य
पानविधानेन तदेकवाक्यत्वात् तथैवेह ज्ञेयम् । एतच्च स्वभा-
वतः पेयजलस्यैव--चर्म्मभाण्डादिस्थितिरूपदोषप्रतिप्रसवार्थम्
न तु अपेयम्लेच्छादिखानिततोयस्यापि पेयताविधा-
नार्थं तथात्वे वाक्यभेदापत्तेः न च हिरण्योदकस्पर्शस्य अन्न-
स्येव सामान्यशास्त्रनिषिद्धापेयजलस्य शुद्ध्यर्थतापरं स्वभावतः
पेयस्यैव चर्म्मभाण्डादिगतत्वेन दोषपरिहारर्थतापरतयैव
सर्व्वसामञ्जस्ये विधिद्वयकल्पनायाः अन्याय्यत्वात् एतेन
इदानीन्तनम्लेच्छराजखानितस्थजलस्य यन्त्रोद्धृतत्वेन शुद्ध-
ताकीर्त्तनं साहसमेव तस्य म्लेच्छखानितजलत्वेन स्वभा-
वतोऽपेयत्वात् जलान्तरस्य गङ्गाजलस्य च सन्निकृष्टत्वादाप-
द्विषयत्वाभावात् प्रकृतिस्थविशेषणाच्च तस्य संस्कारविशेषेण
विकारविशेषवत्त्वादेतद्वचनस्यापि तत्राप्रवृत्तेश्च । किञ्च
“विचित्सा तु हृदये यस्मिन्नन्ने प्रजायते सहृल्लेखन्तु विज्ञेयं
पुरीषन्तत् स्वभावतः” इति ब्रह्मपुराणेन अमेध्यस्पर्शवत्त्वेन
शङ्कितान्नादेर्भोजननिषेधात् म्लेच्छामेध्यादिस्पर्शवत्त्वेन शङ्कि
तस्यास्य जलादेरप्यपेयतेति गम्यते । शशिसूर्य्यकिरणास्पृष्ट-
तया च तस्य व्यापन्नजलतया बैद्यकोक्तदोषाधायकत्वेनापि
ऽपेयता । “अपि चण्डालभाण्डस्थं तज्जलं पावनं महत्”
इत्युक्तेस्तत्रत्यखाते गङ्गाजलानामेवाहृतत्वात्तस्य स्वभावतः
शुद्धतेति तु न शङ्क्य “सर्वत्र पावनी गङ्गा त्रिषु स्थानेषु दुष्यति
म्लेच्छस्पर्शे सुराभाण्डे मेघादिजलमिश्रणे” इति वचनात्
तस्य मेघादिजलसम्पर्कशङ्कायाम्लेच्छादिस्पर्शस्य प्रत्यक्ष-
दर्शनाच्च स्वभावतः शुद्धत्वाभावात् । धारायां प्रतिप्रसवमाह
बैधायनः “अदुष्टा सन्तता धारा वातोद्धूताश्च रेणवः ।
आकराः शुचयः सर्वे वर्ज्जयित्वा सुराकरमिति “काले नवोदकं
शुद्धं न पातव्यन्तु तत्र्यहम् । अकाले तु दशाहं स्यात्
पीत्वा नाद्यादहर्निशमिति” आ० त० स्मृतिः । “स्नानमाच-
मनं दानं देवतापितृतर्पणम् । शूद्रोदकैर्नकुर्वीत तथा मेघा-
द्विनिःसृतैः” । आचमननिषेधात् पानादेः सुतरां
निषेधः । “यव्यद्वयं श्रावणादि सर्व्वा नद्यो रजस्वलाः । तासु
स्नानादिकं वर्ज्यं वर्ज्जयित्वा सुरापगाम् इति” छन्दो० प० ।
“यैः कृतः सर्वमक्ष्योऽग्निस्त्वपेयश्च महोदधिरिति” मनुः यैः
विप्रैः “अन्यथा हि कृरुश्रेष्ठ । देवयोनिरपांपतिः ।
कुशाग्रेणापि कौन्तेय नस्पष्टव्योमहोदधिरिति भा० ब० प०
स्पर्शनिषेधात् पाननिषेधः । “अनिर्द्दशाया गोः क्षीरमौष्ट्रमै
शफं तथा । आविकं सन्धिनीक्षीरं विवत्सायाश्च गोः पयः ।
आरण्यानाञ्च सर्व्वेषां मृगाणां महिषं विना । स्त्री-
क्षीरञ्चैव वर्ज्यानि सर्व्वशुक्तानि चैव हि” मनुः । “गोः क्षीर-
मनिर्द्दशायाः सूतके अजामहीष्योश्च नित्यमपेयमौष्ट्रमैक-
शफञ्च स्यन्दिनीनाञ्च याश्च वत्सव्यपेताः” अङ्गि० ।
“वर्ज्जयेद्गोरवत्सायाः पयश्चैवान्यवत्सया । आरण्यानाञ्च
सर्व्वेषां वर्ज्जयित्वा तु माहिषमिति” यमः । “सर्वासां द्वि-
स्तनीनां क्षीरं वर्ज्यमजावर्ज्जमिति” शङ्खः “गोजामहिषीबर्ज्जं
पृष्ठ ०२५६
सर्वपयांसि यान्यनिर्दशाहं तान्यपि सन्धिनीस्यन्दिनीविव-
त्सायमसूक्षोरं चामेध्यभुजश्च” विष्णुः । पीत्वोपवसेदित्यनु-
वृत्तिः । सन्धिनी वृषभाक्रान्ता स्यन्दिनी नित्यं प्रस्रवत्पयः-
स्तना । अमेध्यभुजः मद्यादिभक्षणशोलायाः । यमसूर्वत्स-
युग्मं प्रसूता “हस्तवत्या निन्दितं रासभञ्च पयो वर्ज्जये-
दिति” हारीतः । तत्राजाक्षीरं दशाहादर्वाक् निषिद्धम्
ऊर्द्ध्वं तत् पेयं सर्ववचनसामञ्चस्यात् “गोघ्रातं शकनोच्छिष्टं
षदास्पृष्टञ्च कामतः । सन्धिन्यनिर्द्दशावत्सगोपयः परिवर्ज्ज-
येत् याज्ञ० । “क्षीराणि यान्यभक्ष्याणि तद्विकाराशने पुनः
सप्तरात्रं व्रतं कुर्य्यादित्यादि” या० । “उष्ट्रीक्षीरमानुषी-
क्षीरपाने पुनरुपनयनं तप्तकृच्छ्रञ्चेत्यादि” शाता० ।
“उद्धतस्नेहविलयनपिन्याकमथितप्रभृतीनि चात्तवीर्य्याणि
नाश्नीयात्” गौत० । उद्धतस्नेहं, क्षीरादि विलयनं घृतमलं
पिन्याकः खलिः मथितं तक्रादि आंत्तवीर्य्याणि गृहीत-
साराणि ॥ आत्तवीर्य्यपदञ्चात्यन्तोद्धृतस्नेहपरं मथित-
पदं च उदकप्रायतक्रपरञ्च । “क्षत्रियश्चैव वृत्तस्थो
वैश्यः शूद्रोऽथ वा पुनः । यः पिबेत् कपिलाक्षीरं न
ततोऽन्योऽस्त्यपुण्यकृत्” आप० । “कापिलं यः पिबेच्छूद्रो
नरकेण विपच्यते” स्मृतिः । सुश्रुते तु धातुदोषविशेषजनक-
तयाकानिचिदपेयान्युक्तानि तानि प्रायशः सामान्यतोऽ-
पेयशब्दे २२६, २७, पृष्ठे उक्तानि । तत्र विशेषः कश्चित्
प्रदर्श्यते “वर्षाजले गाङ्गेयत्वसामुद्रत्वपरीक्षणमुक्त्वा
“वर्ण्णान्यत्वे सिक्यक्लेदे च सामुद्रमिति विद्यात्तन्नोपादेय-
मित्युक्तम् कीटमूत्रपुरीषाण्डशवकोथप्रदूषितम् । तृणपर्ण्णो-
त्कख्युतं कलुषं विपसं युतम् योऽवगाहेत वर्षासु पिबेद्वापि नवं
जलम् । स वाह्याभ्यन्तरान् रोगान् प्राप्नुयात् क्षिप्रमेव तु
तत्र यत् सैवालपद्मतृणपङ्कप्रमृतिभिरवच्छन्नं शशिसूर्य्यकिरणै-
र्नाभिजुष्टं गन्धवर्ण्णरसोपमृष्टञ्च तद्व्यापन्नमिति विद्यात् । तस्य
स्पर्शरूपरसगन्धवीर्य्यविपाकाः दोषाः षट् सम्भवन्ति । व्यापन्नं
वर्ज्जयेन्नित्यं तोयं यदप्यनार्त्तवम् । दोषसञ्जननं ह्येत-
न्नाददीताहितन्तु तत् । “व्यापन्नं सलिलं यस्तु
पिबतीहाप्रसाधितम् । श्वयथु पाण्डुरोगञ्च त्वग्दोषमविपाक-
ताम् । श्वासकासप्रतिश्यायशूलगुल्मोदराणि च ।
अन्यान् वा विषमान् रोगान् प्राप्नुयात् क्षिप्रमेव चेति”
नदीविशेषजलस्य दोषकीर्त्तनेनापेयता च तत्रोक्ता “पूर्ब्बाभि-
मुखास्तु न” प्रशस्यन्ते गुरूदकत्वादिति । सह्यप्रभवाः
कुष्ठं जनयन्ति, विन्ध्यप्रभवाः कुष्ठ पाण्डुरोगञ्च,
मलयप्रभवाः कृमीन्, महेन्द्रप्रभवाः श्लीपदोदराणि, हिमवत्प्र-
भवाः हृद्रोगश्वयथुशिरोरोगश्लीपदगलगण्डान्, प्राच्या-
वन्त्याः अपरावन्त्याश्चाशांस्युपजनयन्ति, इति “सामुद्रमुदकं
विस्रं लवणं सर्व्वदोषकृदिति । अनेकदोषमानूपं वार्य्यु-
भिष्यन्दि गर्हितमिति” च । रोगभेदे शीतलजलस्यापेयताप्युक्ता,
“पार्श्वशूले प्रतिश्याये, वातरोगे गलग्रहे, आध्माते स्तिमिते
कोष्ठे सद्यः शुद्धे नवज्वरे । हिक्कायां स्नेहपीते च शीताम्बु
परिवर्ज्जयेदिति” । तक्रस्यापेयता रोगभेदे तत्रोक्ता “तक्रं नैव
क्षते दद्यान्नोष्णकाले न दुर्बले । न मूर्च्छाभ्रमदाहेषु न
रोगे रक्तपैत्तिके । शीतकालेऽग्निमान्द्ये च कफोत्थेष्वाम-
येषु चेति” । द्रव्यान्तरसंयोगादपेयता अपथ्यशब्दे २२६, २७,
पृष्ठे दर्शिता । विशेषस्त्वेषः । “उष्णोदकानुपानन्तु स्नेहा-
नामथ शस्यते, ऋतेभल्लातकस्नेहात् स्नेहात्तौवरकात्तथेति”
रोगभेदेऽनुपाननिषेधेन तत्र जलादीनामपेयता भङ्ग्या
तत्रैव दशिता । अनुपानगुणमभिधाय “न प्रिबेच्छ्वासका-
सार्त्तो रोगे चाप्यूर्द्ध्वजत्रुगे । क्षतोरस्कः प्रसेकी च यस्य
चोपहतः स्वरः । पीत्वाऽध्वभाष्याध्ययनगेयस्वप्नान्न शीलयेत् ।
प्रदुष्यामाशयं तद्धि तस्य कण्ठोरसि स्थितः । मन्दाग्निसाद-
छर्द्द्यादीनामयान् जनयेत् बहूनिति” सुश्रुते ॥

अपेशल त्रि० विरोधे न० त० । पेशलत्वविरोधिमान्द्ययुक्ते अदक्षे

अपेहिकटा स्त्री अपेहि अपगच्छ कट! इत्युच्यते यस्यां

क्रियायाम् मयू० स० । कटसम्बोधनकापगतिनिदेशक्रिया-
विशेषे । एवं मयू० समासे । अपेहिद्वितीया, अपेहि-
प्रथमा, अपेहिबाणिजा अपेहिस्वागता एतेऽपि शब्दाः
तत्तत्सम्बोधनकागमनक्रियानिदेशे ।

अपैशुन न० अभावे न० त० । १ पैशुन्याभावे न० ब० ।

२ पैश्रुन्यशून्ये त्रि० अपैशुन्यमप्युक्तार्थे न० तद्वति त्रि०

अपोगण्ड त्रि० अपसि कर्म्मणि गण्डः त्याज्यः । विकलाङ्गे

“विकलाङ्गं हि सर्वत्र धर्म्मकार्य्येषु वर्ज्जयेदिति” स्मृत्तेः स
हि वैधकर्म्मसु त्याज्यः । २ अतिभीरौ सोऽपि हि कर्ममात्रे
त्याज्यः । अपसि अगण्डः अवीर इति वा तस्य
कर्मणि अवीरत्वात्तथात्वम् । अपोजलमिव भङ्गियुक्तत्वात्
गण्ड एकदेशोऽस्य । ३ त्रिबलियुते मध्यभागे बलीनामेव
तस्य तरङ्गाकारत्वात् तथात्वम् । अपसि कर्मणि त्याज्यः
गण्डः अपटुत्वात् पोगण्डः शिशुः न० त० । पोगण्डः
पञ्चमादब्दादर्वाक् च दशमाब्दतैत्युक्ते पञ्चाब्दे बाले ।
पोगण्डभिन्नशिशोरेव तथात्वात् । “बाल आषोड़शात्
वर्षात् पोगण्दश्चेति शब्दयत” इति नारदोक्तपोगण्ड-
भिन्ने ५ षोड़शवर्षातीतवयस्के च “अजड़श्चेदपोगण्डो
विषये चास्य भुज्यते भग्नं तद्व्यवहारेण भोक्ता तद्द्रव्य-
मर्हति” कात्या० ।
पृष्ठ ०२५७

अपोढ त्रि० अप--वह--क्त । १ निरस्तेत्यक्ते

२ “कल्पनापोढमभ्रान्तं प्रत्यक्षं निर्विकल्पकम्” स० द० ।

अपोदक त्रि० अपगतमुदकं सुश्लिष्टत्वात् यस्य । १ अप्र-

विष्टोदके “तमूहथुर्नौभिरात्मन्वतीभिरन्तरिक्षप्रुद्भिरपोद-
काभिः ऋ० १, ११६, ३ । अपनद्धं फलेषूदकं यस्याः उक्त-
पुंस्कत्वात् स्त्रियामत इत्त्वं वा । इत्त्वपक्षेऽपोदिकापि
(पुइ) पूतिकायाम् तत्फलेषु उदकवत्त्वात्तथात्वम् ।
अपकृष्टमुदकं यस्मात् ५ ब० । जलापकर्षहेतौ विषादौ “यत्र
अपोदकं विधं तत्त एतास्वग्रभवम् अथ० ५, १३, १

अपोनप्त्रि(प्त्री)य त्रि० अपोनपात् देवताऽस्य घ--छ वा

नि० । अपोनपाद्देवताके हविरादौ ।

अपोमय त्रि० अपः जलं तदात्मकं तद्विकारत्वात् अपस् + मयट् । जलमये ।

अपोह पु० अप + उह गत्यादौ बा० भावे क । १ त्यागे

२ अतद्व्यावृत्तौ तद्भिन्नस्य व्यावृत्तेरपि त्यागविशेषरूपत्वा-
त्तथात्वम् । “तद्वानपोहो वा शब्दार्थ” इति काव्यप्र०
“अपोहः अतद्व्यावृत्तिरिति” महेश्वरः । ऊहस्तर्कः अपः
विपरीत्ये प्रा० स० । अपरतर्कनिरासाय कृते विपरीततर्के
स च “सुश्रूषा श्रवणं चैव ग्रहणं धारणा तथा ।
ऊहोऽपोहोऽर्थविज्ञानं तत्त्वज्ञानञ्च धीगुणा इति हेमचन्द्रोक्तः
बुद्धिगुणभेदः । “स्वयमूहापोहासमर्थ” इति पा० भा० ।
भावे ल्युट् । अपोहनमप्यत्र न० । “मत्तः स्मृतिर्ज्ञाम-
मपोहनञ्चेति” गीता ।

अपोहनीय त्रि० अप--ऊह--अनीयर् । अपरकृततर्कनिर-

सनेन तर्कणीये, “ऋत्विगपोहनीयास्त्रयः” कात्या०
२२, ६ २१ ।

अपोह्य त्रि० अप--उह गत्यादौ कर्म्मणि ण्यत् । अपगमनीये

“त्याज्ये एतैर्व्रतैरपोह्यं स्यादेनोहिंसासमुद्भवम्” मनुः
अप + वह--ल्यप् । दूरीकृत्येत्यर्थे अव्य० ।

अपौरुष त्रि० नास्ति पौरुषमस्य । विक्रमशून्ये । अमावे

न० त० । पौरुषाभावे न० ।

अप्चर त्रि० अप्सु चरति चर--ट । १ जलचरे जन्तौ

स्त्रियां ङीप् “त्रीण्याद्यान्याश्रितास्तेषां मृगगर्त्ताश्रयाप्-
चराः” इति मनुः त्रीणि दुर्गाणि ।

अप्तु न० आप्यते भीगाय जीवेन आप--तुन् ह्रस्वश्च । १ शरीरे

२ सूक्ष्मरूपसोमे च । “अथाप्तवे द्वितीये यामाहुतिं
जुहोति शत० ब्रा० ३, ६, ३८, अप्तुः सूक्ष्मरूपः सोमः भा० ।

अप्तुर् पु० अद्भ्यः जलदानाय तुतोर्त्ति तुर--वेगे क्विप् । जल-

दायके इन्द्रेतस्य मेघनायकत्वेन तत्प्रेरकतया जलदा-
तृत्वात्तथात्वम् “यज्ञेन गातुमप्तुरो विविद्रिरे ऋ० २, २१, ५,
“अप्तुरः अपां प्रेरकादिन्द्रात्” भा० । २ तद्दायकेऽनलादौ च
तत्राग्न्यादेः “अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते
आदित्याज्जायते वृष्टिरिति” मनूक्तेः जलप्रेरकत्वम् ।

अप्तुर्य्य न० अप्तुरो भावः बा० वेदे यत् । “जलप्रेर-

कत्वे लोके तु ष्यञ् आप्तुर्य्यमित्येव । “इन्द्राग्न्यी!
तविषाणि वां सधस्थानि पयांसि च युनोरप्तुर्य्यं हितम्
१२, ८, अप्तुर्य्यं वृष्टिप्रेरकत्वम् भा० युवोर्युवयोरिन्द्राग्न्योः

अप्तोर्याम पु० अप्तोर्देहस्य यापकत्वाद्याम इव अलु० स० ।

अग्निष्टोमाङ्गयागभेदे “यावज्जीवमग्निहोत्रं जुहोतीति”
श्रुत्या अग्निष्टोमस्य देहव्यापककालकत्वात्तथात्वम् ।
“सोऽप्तोर्यामेण यजेत” कात्या० ९, ११, १०, “षडुत्तरे अत्यग्नि-
ष्टोम उक्थ्यः षोड़शी वाजपेयोऽतिरात्रोऽप्तोर्यामः
कात्या० १०, ९, २६, ।

अप्त्य त्रि० अप्तुनि देहे भवः यत् वेदे टिलोपः ।

१ अपत्ये निरु० २ देहकर्म्मणि स्थिते च “पूर्ब्बे अर्द्धेरजसो
अप्त्यस्य” ऋ० १, १२४, ५ “अप्त्यस्य कर्मणि स्थितस्येति” भा०

अप्नःस्थ त्रि० अप्नसि कर्मणि तिष्ठति अधिकृतत्वात् स्था--क

७ त० । १ कर्मण्यधिकृते “संयावप्नःस्थो अपसेव” ऋ० ६,
६७, ३ । “अप्नःस्थः कर्मण्यधिकृतः” भा० ।

अप्नराज पु० अप्नसां कर्म्मणां राजा प्रेरकत्वात् टच् समा०

वेदे पृ० सलोपः । कर्म्मप्रेरके । “युवं ह्यमराजावसी-
दतम् ऋ० १०१३२७ ।

अप्नवान पु० अप्नसा कर्म्मणा वानं गतिः सद्गतिरस्य । भृगुवंश्ये,

ऋषिभेदे, “यमप्नवानो भृगवो विरुरुचुः ऋ० ४, ७, १, अप्न-
वानः भृगुसम्बन्धी कश्चिदृषिः, भा० । “और्व्यभृगुवदप्न-
वानवदाहुवे अग्निं समुद्रसम्” ऋ० ८, १०२, ४, अस्यैव
वत्सादिगोत्रप्रवरत्वम् “वत्सानां भार्गवच्यवनाप्नवानौर्व्य-
जामदग्न्याः” इति “भार्गवौर्वजामद्ग्न्याः” इति वा
“भार्गवच्यवनाप्नुवानाः” इति वा “वेदानां पञ्च, भार्गवच्य-
वनाप्नवानौर्ववेदाः” इति गोत्रप्रवरा० । वङ्गानामाप्नुवतः
प्रवरत्वकल्पनं प्रवराध्यायविरुद्धत्वाद्धेयम् । अप्नसे
आदानकर्मणे वानमस्य पृ० सलोपः । बाहौ निरु० ।

अप्नस् त्रि० आप--असुन् नुट् ह्रस्वश्च । १ कर्म्मणि मिरु० ।

“क्रियातो विभागः विभागात् पूर्ब्बदेशसंयोगनाशस्तत
उचरदेशसंयोग” इत्युक्तेः संयोगहेतुत्वात्तथात्वम् “तद्देवेषु
चकृषे भद्रमप्नः ऋ० १, ११३, ९ । “अप्नः कर्म” भा० ।
पृष्ठ ०२५८
वा० अकर्म्माख्यायामपि असुन् नुट् ह्रस्वश्च । २ प्राप्तव्ये,
“यच्चित्रमप्न उषसो वहन्त” ऋ० १, ११३, २० । “अप्रः
प्राप्तव्यम्” भा० ।

अप्नस्वत् त्रि० अप्नस् + अस्त्यर्थे मतुप् मस्य वः स्त्रियां ङीप् ।

कर्मयुक्ते । “अप्नस्वतीषुर्व्वरास्विति” ऋ० १, १२७, ६ ।
“अप्नस्वतीषु खननादिकर्म्मोप्रेतासु” भा० ।

अप्पति पु० अपां पतिः ६ त० । १ वरुणे २ सुमुद्रे च । “इन्द्रान्त-

काप्पतीन्दुभ्यः सानुगेभ्यो बलिं हरेत्” इति वित्ताप्पत्यो-
र्यमस्य च” इति च मनुः ।

अप्पित्त न० अपां पित्तमिव हेतुत्वात् । १ अग्नौ “अग्नेराप”

इति श्रुतौ अग्नेर्जलहेतुत्वोक्तेस्तथात्वम् ।

अप्य त्रि० अपामिदम् तत्र साधु संस्कृतं वा यत् । १ जलसंस्कृते

“अग्रेगो राजाप्यस्तमिष्यते” ऋ० ९, ८६, ४५ । “अप्यः
अप्सु संस्कृतः” भा० जलसम्बन्धिनि “त्वयाहितमप्यमप्सु
भागम्” ऋ० २, ३८, ७ । “अप्यमपां सम्बन्धिनम्” भा० ।
३ कर्मणि साधौ “स ईँ मृगो अप्योवनर्गुरुप” ऋ० १,
१४५, ५ । “अप्यः कर्मणि साधुः” भा० अप्तुं योग्यं वेदे
यत् ह्रस्वश्च । ४ प्राप्तुं योग्ये “योनिमप्यमनिशितम्” ऋ०
२, ३८, ८ । “अप्यम् आप्तुं योग्यम्” भा० ।

अप्यय पु० अप + इण--भावे अच् । १ “अपगमने २ नाशे ३

विलये च “स्वाप्ययादिति शा० सू० भवाप्यायौ हि भूतानां
श्रुतौ विस्तरशोमया” गीता । अपैत्यस्मात् अपादाने
अच् । पक्षपुच्छसन्धिषु “पक्षपुच्छानि पराग्भिरप्ययेषु”
कात्या० १७, ६, ७, “अप्ययेषु पक्षपुच्छाग्रसन्धिषु” वेददी० ।

अप्रकट त्रि० न प्रकाशः विरोधे न० त० । प्रकाशितमिन्ने

गुप्ते । “प्रकटाऽपकटा चेति लीला सेयं हरेर्द्विधा प० पु०

अप्रकम्प पु० न प्रकम्पः अभावे न० त० । १ चलनाभावे न०

ब० । २ चलनहीने त्रि० “अप्रकम्पोदुराधर्ष” इति पुरा० ।

अप्रकर्ष पु० न प्रकर्षः विरोधे न० त० । १ अपकर्षे न० ब० ।

२ प्रकर्षशून्ये त्रि० ।

अप्रकाण्ड पु० न प्रकृष्टः काण्डः स्कन्धोऽस्य । १ स्कन्धशून्ये

झिण्टीप्रभृतिवृक्षे । न० त० । २ प्रकाण्डभिन्ने स्वल्पे त्रि०

अप्रकाश पु० न प्रकाशः अभावे न० त० । प्रकाशाभावे

गोपने “अप्रकाशक्रये क्रेतुः स्वामिनश्चाप्यरक्षणादिति”
प्रा० त० ना० । न० ब० । “प्रकाशशून्ये त्रि० “प्रकाशांश्चाप्रका-
शांश्च तस्करान् द्विविधान् विदुः” मनुः । अप्रकाशचौराश्च
अपहर्त्तृशब्दे मनूक्ताः १५४ पृष्ठे दृश्याः । “प्रकाशश्चाप्रका-
शश्च लोकालोक इवाचल” इति रघुः ।

अप्रकाश्य त्रि० प्र + काश--णिच् अर्हार्थे कर्म्मणि यत् ।

१ प्रकाशयितुमनर्हे गोप्ये “अप्रकाश्यमिदं गुह्यं न
देयं यस्य कस्यचित्” तन्त्रम् । २ विशेषतो गोप्ये
जन्मर्क्षादिनवके च तच्च । “जन्मर्क्षं मैथुनं मन्त्रो
गृहच्छिद्रञ्च वञ्चनम् । आयुर्धनापमानं स्त्री न प्रकाश्यानि
सर्वथा” का० ख० ।

अप्रकृत त्रि० न प्रकृतः प्रक्रान्तः यथार्थो वा । १ अप्रक्रान्ते

२ अयथार्थे च । प्रकृतिः स्वभावोऽस्त्यस्य अर्श० आ० अच्
न० त० । भयादिना ३ स्वभावहीने । “तामसं यच्चाप्रकृतो
ददातीति शु० त० हारी० “अप्रकृतो भयादिमान्” रघुनन्दनः ।

अप्रकृति स्त्री न प्रकृतिः । प्रकृतिभिन्ने कार्य्यकारणभिन्ने

सांख्यप्रसिद्धे पुरुषे “न प्रकृतिर्न विकृतिः पुरुष” इति
सां० का० उक्तेस्तस्य प्रकृतिभिन्नत्वात्तथात्वम् २ व्याकरणोक्ते
प्रत्ययनिमित्तरूपप्रकृतिभिन्ने प्रत्ययादिशब्दे, मीमांसकोक्तायां
३ प्रकृतिभिन्नायां विकृतौ च । प्रकृतिः स्वभावः न०
ब० । ४ तच्छून्ये त्रि० वा कप् । अप्रकृतिकोऽप्यत्र ।

अप्रकृतिस्थ त्रि० प्रकृतौ स्वभावे न तिष्ठति रोगभयादिना

ततश्चलति स्था--क ७ त० न० त० । रोगभयादिना स्वभा-
वाच्चलिते ।

अप्रकृष्ट त्रि० न प्रकृष्टः विरोधे न० त० । निकृष्टे अपकर्षयुक्ते

अप्रकॢप्त त्रि० प्र + कृप्--क्त न० त० । कॢप्तभिन्ने यदुचितं

तद्भिन्ने “ऋत्विजां वैकोऽप्रकॢप्तत्वाच्छामित्रे कात्या० ६, ७, २

अप्रक्षित त्रि० प्र + क्षि--भावे क्त “अण्यदर्थे” पा० उक्तेः

भावकर्मणोश्च ण्यदर्थतया तद्भिन्ने दीर्घविधानात् भावस्य
च ण्यदर्थतया न दीर्घः तेन न नत्वम् नास्ति प्रक्षितं
प्रक्षयो यस्य । प्रक्षयरहिते “अप्रक्षितं वसु बिभर्षि” ऋ०
१, ५५, ८ ।

अप्रखर त्रि० न प्रखरः विरोधे न० त० । १ तीक्ष्णत्वविरोधि मृदुत्ववति ।

अप्रगुण त्रि० न प्रकृष्टो गुण उपकरणं कार्य्यसामर्थ्यं वा यस्य ।

१ व्याकुले न० त० । २ अनुगुणभिन्ने च ।

अप्रचेतस् न० न प्रचेतति प्र + चित--असुन् न० त० । अज्ञाने

“कथाविधात्यप्रचेताः” ऋ० १, १२०, १ ।

अप्रज पु० न प्रजायते आत्मजरूपेण प्र + जन--ड न० त० ।

पुत्रादिजननाभावेन अजःते १ बन्ध्ये “आत्मा वै जायते
पुत्र” इति श्रुतेः पुत्रजनने आत्मजननात् तच्छून्यस्य
तथात्वम् । “भ्रातृणामप्रजः कश्चित् म्रियेत प्रव्रजेत वेति”
स्मृतिः “अप्रजस्त्रीधनं भर्त्तुर्ब्राह्मादिषु चतुर्ष्वपीति” या० ।
२ पुत्ररहितायां स्त्रियां स्त्री “अप्रजायामतीतायां बान्धवा-
पृष्ठ ०२५९
स्तदवाप्नुयुः” इति स्मृतिः “संवत्सरद्वयं तन्तु गान्धारीगर्भ-
माहितम् । अप्रजा धारयामास ततस्तां दुःखमाविशत्”
भा० आ० प० ।

अप्रजस् पुंस्त्री न प्रजा सन्ततिः यस्य असिच् समा० ।

प्रजाशून्ये । “अतीतायामप्रजसि तद्धनं भर्त्तृगामि च”
स्मृतिः । “अस्वं त्वाप्रजसं कृणोमि” अथ० ७, ३५, ३ ।

अप्रजाता स्त्री न प्रजाता कदापि न प्रसूता । १ अधृत-

गर्भायां बन्ध्यायां स्त्रियाम् “दासीनामप्रजातानां शुभानां
स्वर्ण्णवर्चसाम् । शतमस्मै प्रदास्यामि” भा० उ० प० १५ अ० ।

अप्रणीत त्रि० न प्रणीतः वेदविधिना संस्कृतः । १

वैधसंस्ककारशून्ये अनलादौ २ अकृते च ।

अप्रतर्क्य त्रि० न प्रतर्क्यः तर्कयितुमशक्यः । लिङ्गाद्यभावेन

अनुमानेन ज्ञातुमशक्ये । “अप्रतर्क्यमविज्ञेयं प्रसुप्तमिव
सर्वतः” मनुः ।

अप्रता त्रि० प्र + ताय--क्विप् नास्ति प्रताः यस्मात् ५ त० । १

अतिविस्तीर्ण्णे “न सोमी अप्रता पपे” ऋ० ८, ३२, १६,
“अप्रता विस्तोर्ण्णधनेनेति” भा० धातोरातोलोपात् रूपम्

अप्रति त्रि० नास्ति प्रति प्रतिरूपः प्रतिद्बन्द्वी वा यस्य ।

१ अत्युत्कृष्टे “सो अप्रतीनि मनवे पुरूणीन्द्रः” ऋ० २, १९
४, “अप्रतीनि उत्कृष्टानि” भा० २ प्रतिद्वन्द्विरहिते
“यः एकः इदप्रतिर्मन्यमानः ऋ० ५, ३२, ३ । “अप्रतिः
प्रतिद्वन्द्विरहितः” भा० । ३ अप्रतिरूपे अनुपमे च

अप्रतिकर त्रि० प्रति वैपरीत्ये कृ--कर्त्तरि अच् न प्रतिकरः ।

१ विपरीतकारिणि विश्वस्ते, जटा० प्रति + कॄ--भावे अप्
प्रतिकरः प्रतिक्षेपः अभावे न० त० । २ प्रतिक्षेपाभावे पु०
न० ब० ३ प्रतिक्षेपशून्ये त्रि० ।

अप्रति(ती)कार पु० प्रति + कृ--घञ् वा दीर्घः अभावे न० त०

१ प्रतीकाराभावे । न० ब० । २ प्रतीकारहीने ३ प्रतिकर्त्तुम
शक्ये च त्रि० । अभावे अभ्ययी० । ४ प्रतीकाराभावे अव्य० ।

अप्रतिकर्म्मन् त्रि० नास्ति प्रतिकर्म प्रतीकारो यस्य ।

१ प्रतिकर्त्तुमशक्ये । नास्ति प्रति प्रतिरूपं तुल्यं यस्य तादृशं
कर्म यस्य । २ अतुल्यकर्मके त्रि० स्त्रियां डाप् वा ।

अप्रतिक्रिया स्त्री प्रतिक्रिया प्रतीकारः अभावे न० त० ।

१ प्रतीकाराभावे । न० ब० । २ प्रतीकारशून्ये ३ प्रति-
कर्त्तुमशक्ये च त्रि० ।

अप्रतिग्राह्य त्रि० न प्रतिग्रहीतुं योग्यं स्मृतौ निषेधात् ।

प्रतिग्रहीतुमयोग्ये स्मृतौ निषिद्धप्रतिग्रहतया उल्लिखिते
हिरण्यादौ द्रव्ये, शूद्रादिधनादौ च प्रतिग्रहश्चादृष्टार्थ-
त्यक्तद्रव्याङ्गीकारः । तत्र द्रव्यविशेषे, अपादानविशेषे, काला-
दिविशेषे च प्रायश्चित्तोत्कीर्त्तनेन पापजनकत्वात् क्वचित्
वस्तुकृता क्वचित् कालादिनिमित्तकृता चाप्रतिग्राह्यता
“प्रतिगृह्याप्रतिग्राह्यं भुक्त्वा चान्नं विगर्हितम्” मनुः
तानि च प्रायश्चित्तविवेके दर्शितानि तत्रादौ प्रतिग्रहे
अपादाननियमः “यथा “राजतो धनमन्विच्छेत् संसीदन्
स्नातकः क्षुधा । याज्यान्तेवासिनो वापि नत्वन्यत इति
स्थितिः” मनुः । राजशब्दोऽत्र न्यायवर्त्तिक्षत्रिय
नृपतिपरः “न राज्ञः प्रतिगृह्णीयादराजन्यप्रसूतितः”
इति “यो राज्ञः प्रतिगृह्णीयाल्लुब्धस्योच्छास्त्रवर्त्तिनः
स पर्य्यायेण यातीमान्नरकानेकविंशतिमिति” मनुनान्य-
राजतस्तंन्निषेधात् देवलेन विशिष्टादेव राज्ञः प्रति-
ग्रहविधानाच्च “धर्मज्ञस्य कृतज्ञस्य रक्षार्थं शासतोऽशु-
चीन् मेध्यमेव धनं प्राहुस्तीक्ष्णस्यापि महीपतेः” इति
“द्विजातिभ्यो धनं लिप्सेत् प्रशस्तेभ्यो द्विजोत्तमः । अपि
वा क्षत्त्रियात् वैश्यात् न तु शूद्रात् कदाचनेति” व्यासः
निन्दितप्रतिग्रहश्च अपात्रीकरणम् “निन्दितेभ्यो-
धनादानं बाणिज्यं शूद्रसेवनमु । अपात्रीकरणं
ज्ञेयमिति” मनूक्तेः चाण्डालादिप्रतिग्रहस्तु पातित्यहेतुः
“चण्डालान्त्यस्त्रियोगत्वा भुक्त्वा च प्रतिगृह्य च ।
पतत्यज्ञानतोविप्रोज्ञानात् साम्यं तु गच्छति” मनूक्तेः
तेन प्रायश्चित्ताधिक्यम् रजकादीनुक्त्वा “भुक्त्वा चैषां
स्त्रियोगत्वा पीत्वापः प्रतिगृह्य च । कृच्छ्रमब्दं चरेज्
ज्ञानादिति” मनूक्तेः “पतितानां गृहं गत्वा भुक्त्वा च
प्रतिगृह्य च । मासोपवासं कुर्व्वीत चान्द्रायणमथापि
वा” वृह० “शौकरिकव्याधनिषादरजकवरुड़चर्मकारां न
भोज्यान्ना अप्रतिग्राह्यास्तदन्नाशनप्रतिग्रहयोश्चान्द्रायणं
चरेत्” सुम० “रजकश्चर्मकारश्च नटोवरुड़ एव च
कैवर्त्तमेदभिल्लाश्च सप्तैते ह्यन्त्यजाः स्मृताः एतेषाञ्च
स्त्रियोगत्वा भुक्त्वा च प्रतिगृह्य च । पतत्यज्ञानतोविप्रो-
ज्ञानात् साम्यं तु गच्छति” यमः अत्रापवादः “शय्यां
गृहं कुशान् गन्धान् पत्रं पुष्पं फलं दधि । धाना-
मत्स्यान् पयोमांसं शाकञ्चैव न निर्ण्णुदेदिति” मनुः न
निर्णुदेत् न त्यजेत् “अभोज्यान्नानामपि पुष्पफलशाक
तृणकाष्ठधान्यानि क्षेत्रस्थान्यम्बु तड़ागस्थं, गोष्ठस्थं च
पय आदाय न दोष” इति सुमन्तुः तेषाञ्च उपढौकिताना-
मेवादाने न दोष इति प्रा० वि० । “अयाचिताहृतं ग्राह्य-
मपि दुष्कृतकर्मणः । अन्यत्र कुलटाषण्ढपतितेभ्यो द्विष-
पृष्ठ ०२६०
स्तथेति” या० स्मृत्येकवाक्यत्वात् । व्यक्तमुक्तम् “गन्धपुष्प-
कुशान् शय्यां शाकं मांसं पयोदधि । मणिमत्स्यौ गृहं
धान्यं ग्राह्यमेतदुपस्थितम् + मधूदकं फलं मूलमेधांस्य
भयदक्षिणा अभ्युद्यतानि ग्राह्याणि” का० ख० ।
तेनैषामेवायाचिताहृतानां ग्राह्यता नान्येषाम् । एवञ्च
चण्डालादितोऽपि शय्यादिभिन्नानामुपढौकितानामपि
अप्रतिग्राह्यता । शूद्रादिप्रतिग्रहनिषेधस्तु अनापद्येव,
आपदि तु तस्य कर्त्तव्यता “याजनाध्यापने नित्यं क्रियेते
संस्कृताःत्मनाम् । प्रतिग्रहस्तु क्रियते शूद्रादप्यन्तजन्मन”
इति “अवृत्तिकर्षितः सोदन्निमं घर्म्मं समाचरेत् सर्वतः
प्रतिगृह्णीयात् ब्राह्मणस्त्वनयं गतः” इति मनुना तस्या-
भ्यनुज्ञानात् । तत्र स्तेनात् द्रव्यं कथञ्चिदपि न प्रतिग्राह्यम्
“योऽदत्तादायिनोहस्तात् लिप्सेत ब्राह्मणोधनम्
याजनाध्यापनेनापि यथा स्तेनस्तथैव सः” था० उक्तेः आपदि
शूद्रधनस्य ग्राह्यत्वेऽपि यज्ञार्थतया नग्राह्यता “न
यज्ञार्थं धनं शूद्राद्विप्रोलिप्सेत कर्हिदिति” मनुनाकर्हि-
विदत्यनेन आपद्यपि तस्य निषेधात् “ये शूद्रादघिगम्यार्थ-
मग्निहोत्रमुपासते ऋत्विजस्ते हि शूद्राणां ब्रह्मवादिषु
गर्हिता” इति मनूक्तेश्च । तत्र द्रव्यविशेषे प्रतिग्रहनिषेधः ।
“मृतशय्याहयग्राही न पुनर्मानर्वोभवेदिति” पुरा० । “शस्त्रं
विस्तं सुरा चाप्रतिग्राह्या ब्राह्मणानामन्येषाञ्च” वशि० ।
विस्तंसुवर्ण्णम्” “मद्यमदेयमपेयमनिप्राह्यमिति” ति० त०
उश० । “मणिवासोगवादीनां प्रतिग्रहे सावित्र्यष्टोत्तरं जपेत्
पञ्चरात्रं, मध्यमे द्वादशरात्रं पयोब्रतः शतसहस्वमसत्-
प्रतिग्रहे” हारी० “हिरण्यं भूमिमन्नं गामश्वं वासस्तिलान्
घृतम् । अपिद्वान् प्रतिगृह्णानो भस्मीभवति दारुवत्” मनुः ।
अविद्वानित्युक्तेः विदुषो न दोषाय । “किं करिष्यत्यसौ
मूढोगृह्णन्नुभयतोमुखीम् । सहस्रं वारुणाः पाशाः क्षुर-
धारासमन्विताः पूर्ण्णे वर्षसहस्रे तु पाश एकः प्रमुच्यते ।
एतामवस्थां प्राप्नौति गृह्णन्नुभवतोमुखीमिति म० पु० ।
एतस्व विद्वदविद्वद्विषये निषिद्धता कृष्णाजिनादीनां तु
अग्राह्यशब्दे ६७ पृष्ठे उक्ता । देशकालाविशेषे च प्रतिग्राह्य
णामप्य प्रतिग्राह्यता “न तीर्थे प्रतिगृह्णीयात् पुण्ये-
व्वायतनेषु च । निमित्तेषु च सर्व्वेषु अप्रमत्तोद्भवेद्विजः “तीरे
प्रतिग्रहस्त्याज्यस्त्याज्यो घर्म्मस्य विक्रय” इतिप्रा० त० पु० ।
“पाणीयं पायसं भैक्षं घृतं लवणमेव च । हस्तदत्तं न
गृहणीयात् तुल्यं गोमांसभक्षणैः” इति का० ख० ।
“नत्वेकं पुत्रं दद्यात् प्रतिगृह्णीयाद्वा स हि सन्यानाय
पूर्व्वेषा” मित्यनेन ज्येष्टपुत्रदानप्रतिग्रहयोर्निषेधेन तस्या-
प्यप्रतिग्राह्यता । तथा “न स्त्री पुत्रं दद्यात् प्रति-
गृह्णीयाद्वाअन्यर्त्रानुंज्ञानात् भर्त्तुरिति” स्मृतेः भर्त्रनुज्ञा-
मन्तरेण स्त्रियाः पुत्रस्याप्रतिग्राह्यता । परितोषार्थ
विसृष्टग्रहणे तु न दोषः । न प्रतिग्राह्यं यस्मात्
५ त० । प्रतिग्राह्यद्रव्यादानान वधौ शौकरिकादौ
चण्डालादौ च पु० । “न भोज्यान्ना अप्रतिग्राह्या”
इति प्रागुक्तसुमन्तुवाक्यम् । “प्रायश्चित्तद्रव्यग्रहणे दोष”
इति प्रा० वि० ।

अप्रतिघ त्रि० नास्ति प्रतिघः प्रतिघातकोऽस्य । १ प्रतिघातक

शून्ये अप्रतिवद्धे” यस्तु दुःखसमायुक्तमप्रीतिकरमात्मनः ।
तद्रजोऽप्रतिघं विद्यात् सततं हारि देहिनामिति” मनुः ।

अप्रतिद्वन्द्व त्रि० प्रतिगतः द्वन्द्वं विरोधं स्पर्द्धां वा अत्या० स०

न० त० । १ प्रतिस्पर्द्धाशून्ये “त्वामपतिमकर्म्माणमप्रतिद्वन्द्व-
माहवे” रामा० । प्रतिद्वन्द्वः सहचरः । २ तच्छून्ये च
“सोऽहं वनमिदं प्राप्तोनिर्जनं लक्षणान्वितः । सीतया
चाप्रतिद्वन्द्व” इति रामा० ।

अप्रतिपक्ष त्रि० नास्ति प्रतिपक्षः विपक्षः सदृशो वा यस्य ।

१ विपक्षहीने २ असदृशे च ।

अप्रतिपत्ति स्त्री प्रतिपत्तिः कर्त्तव्यतानिश्चयः अभावे न०

त० । इतिकर्तव्यतानिश्चयाभावे “अप्रतिपत्तिविह्वलानि
चेन्द्रियाणि” काद० । २ निश्चयाभावे ३ अस्वीकारे
४ अग्रहणे ५ स्थूर्त्त्यभावे “उत्तरस्याप्रतिपत्तिरप्रतिभेति”
गौ० सू० । न० ब० । ६ तच्छुन्ये त्रि० ।

अप्रतिपद् त्रि० प्रतिपद्यते जानाति प्रति + पद--क्विप् न० त० ।

विकले “सर्वदेवेभ्यो प्रतिपदम्” य० ३०, ८ । “अप्रतिपदं
विकलमिति” वेददी० ।

अप्रतिपन्न त्रि० न० त० । १ अज्ञाते २ अनङ्गीकृते च ।

अप्रतिबद्ध त्रि० न प्रतिबद्धः निरुद्धः न० त० । अनिरुद्धे

उद्दामे ।

अप्रतिबल त्रि० नास्ति प्रतिबलः प्रतिपक्षो यस्य । १ अतिप्रबले २ विपक्षहीने च ।

अप्रतिभ त्रि० नास्ति प्रतिभा यस्य । १ प्रतिभाशून्ये

२ अप्रगल्भे ३ स्फूर्त्तिशून्ये ४ प्रत्युत्पत्तिमतिशून्ये
५ अधृष्टे ६ लज्जिते च ।

अप्रतिभा स्त्री अभावे न० त० । वादिप्रतिवादिनोर्वादे प्रवृत्ते

वादिनोद्भावितदोषोद्धारणोपायज्ञानेऽपि तत्कालं प्रति-
वादिनः १ स्फूर्त्त्यभावरूपे निग्रहस्थानभेदे “उत्तरस्या
पतिपत्तिरप्रतिभेति” गौ० सू० । २ प्रगल्भताभावे च ।
पृष्ठ ०२६१

अप्रतिम त्रि० नास्ति प्रतिमा उपमा यस्य । अतुल्ये “अनुपमे-

“त्वामप्रतिमकर्माणमप्रतिद्वन्द्वमाहवे” इति रामायणम् ।

अप्रतियोगिन् त्रि० नास्ति प्रतियोगी तुल्यरूपः यस्य ।

स्त्रियां ङीप् । १ अनुपमे । प्रतियोगी अभावसंबन्धी
न० त० । २ अभावसम्बन्धिभिन्ने । “अथ वा हेतुमन्निष्ठ-
विरहाप्रतियोगिना साध्येन हेतोरेकाविकरण्यं व्याप्ति
रुच्यते” भाषा० । यस्याभावः स एव प्रतियोगीति वृद्धाः ।

अप्रतिरथ पु० नास्ति प्रतिरथः प्रतियोद्धा यस्य । १ प्रति-

योधशून्ये । नास्ति प्रतिरथः तुल्यः मङ्गलार्थत्वेनास्य । २ यात्रा
मङ्गलार्थे सामभेदे । “एष सोऽप्रतिरथोऽथ यः स वृहस्पति-
रिति” “ब्रह्मा दक्षिणतोऽप्रतिरथं जपति” इति च शत० ब्रा०

अप्रतिरव त्रि० न प्रतिकूलो रवः प्रतिरवः स नास्ति यत्न ।

समेदं द्रव्यं त्वया न भोक्तव्यमित्यादि प्रतिषेघकवचनशून्ये
भोगे । “अप्रतिरवं विंशतिवर्षोपभोगनिमित्ता हानि-
र्भवति” मिता० ।

अप्रतिरूप त्रि० नास्ति प्रतिरूपस्तुल्यरूपो यस्य । असदृशे ।

अप्रतिरूपकथा स्त्री नास्ति प्रतिरूपा प्रत्युत्तरीभूता कथा

यस्याः । उत्तरवाक्यरहितायां वाचि ।

अप्रतिवीर्य्य त्रि० न प्रतिरुद्धं वीर्य्यं यस्य । अन्यैरनिरोध्यपराक्रमे ।

अप्रतिषिद्ध त्रि० न प्रतिषिद्धम् । अनिषिद्धे “अप्रतिषिद्धमनु-

मतं भवतीति” न्यायः सौवर्ण्णराजतौम्बरखड़्गमणिमय-
पात्राणामन्यतमेषु अप्रतिषिद्धषु वेति” श्रा० त० गोभिलः
“अप्रतिषिद्धानि कदलीवृक्षत्वगादीनि” रघु० ।

अप्रतिष्कुत त्रि० प्रति + स्कु--क्त न० त० वेदे षत्वम् ।

१ अप्रतिशब्दिते “स वीरो अप्रतिष्कुतः” ऋ० ७, ३२, ६,
“अप्रतिगतोऽप्रतिशब्दितो वा” भा० २ अप्रतिगते च ।

अप्रतिष्ठ न० नास्ति प्रतिष्ठा यस्य । १ अन्याधारशून्ये

स्वधामप्रतिष्ठिते ब्रह्मणि । “स भगवः! कस्मिन् प्रति-
ष्ठितः स्वेमहिम्नीति” श्रुतेस्थस्यान्याधारशून्यत्वात्तथात्वम् ।
२ अनाश्रये ३ निष्फले । “सोमविक्रयिणे विष्ठा भिषजे
पूयशोणितम् । नष्टं देबलके दत्तमप्रतिष्ठं तु वार्द्धुषौ” मनुः
४ प्रशंसाशून्ये च त्रि० । अभावे न० त० । ५ प्रशंसाभावे
स्त्री । अप्रतिष्ठितमप्यत्र । स च विष्णौ पु० । “अपां-
निधिरधिष्ठानमप्रमत्तोऽप्रतिष्ठित” इति विष्णु सह० ।

अप्रतिसंख्य त्रि० न प्रतीता संख्या यस्य उत्तरपदलोपः ।

अयमेकः अयमेक इत्याकारापेक्षाबुद्ध्यभावेन १ प्रत्येक-
संख्याग्रहणाभावादनुपलब्धसंख्याके वस्तुनि । प्रतिसंख्या
वुद्धिविशेषः । अभावे न० त० । २ विशेषबुद्ध्यभावे स्त्री ।

अप्रतिसंख्यानिरोध पु० न प्रतिसंख्यया बुद्ध्या निरोधः ।

१ बौद्धविशेषकल्पिते अबुद्धिपूर्ब्बके भावविनाशे । तद्विशेषः
बौद्धशब्दे वक्ष्वते । सोऽयम् प्रतिसंख्यानिरोधः “प्रति-
संख्याऽप्रतिसंख्यानिरोधाप्राप्तिरविच्छेदात्” शा० सू० प्रत्या-
ख्यातः । “अपि च वैनाशिकाः कल्पयन्ति बुद्धिबोध्यं
त्रयादन्यत् संस्कृतं क्षणिकञ्चेति” तदपि त्रयं प्रति-
संख्याऽप्रतिसंख्यानिरोधावाकाशञ्चेत्याचक्षते । त्रयमपि-
चैतदवस्तु अभावमात्रं निरुपाख्यमिति मन्यन्ते बुद्धिपूर्ब्बकः
किल विनाशोभावानां प्रतिसंख्यानिरोधोनाम भाष्यते
तद्विपरीतोऽप्रतिसंख्यानिरोधः आवरणाभावमात्रमा-
काशमिति प्रतिसंख्याऽप्रतिसंख्यानिरोधयोरप्राप्तिरसम्भ
इत्यर्थः । कस्मात्? अविच्छेदात् तौ हि प्रतिसंख्याऽप्रति-
संख्यानिरोधौ सन्तानगोचरौ वा स्याताम् भावगोचरौ
वा । न तावत् सन्तानगोचरौ सम्भवतः, सर्व्वेष्वपि सन्तानेषु
(ज्ञानप्रवाहेषु) सन्तानिनामविच्छिन्नफलहेतुभावेन सन्तान
विच्छेदस्यासम्भवात् नापि भावगोचरौ, नहि निराश्रयो
निरुपाख्योविनाशः सम्भवति सर्व्वास्ववस्थासु प्रत्यभिज्ञाबलेन-
अन्वयाविच्छेददर्शनात् अदृष्टप्रत्यभिज्ञास्ववस्थासु क्वचिद्दृष्टे
नान्वयाविच्छेदेन अन्यत्रापि तदनुमानात् । तस्मात्
परकल्पितस्य निरोधद्वयस्यानुपपत्तिरिति” शङ्करभाष्यम् ।

अप्रतिश्रुत त्रि० न० त० । अनङ्गीकृते दातव्यत्वेनास्वीकृते ।

अप्रतिहत त्रि० न प्रतिहतोऽभिभूतः प्रतिरुद्धो वा न० त० ।

अन्यैरनभिभूते २ अप्रतिरुद्धे च ।

अप्रतीक त्रि० नास्ति प्रतीकमेकदेशो यस्य । १ सम्पूर्ण्णे २ निरवयवे ब्रह्मणि न० ।

अप्रतीक्षा स्त्री न प्रतीक्षा अपेक्षया कालयापनम् अभावे

न० त० । १ प्रतीक्षाभावे कार्य्यजननाय इतरापेक्षंया
कालयापनाभावे २ इतरानपेक्षया त्वरितकरणे । न० ब० ।
३ प्रतीक्षाशून्ये “अथाप्रतीक्षं पुनरायन्ति” शत० ब्रा० ।

अप्रतीत त्रि० प्रति + इण--क्त प्रतीतः परिज्ञातः प्रतिगतश्च न०

त० । १ प्रतिगतभिन्ने “सहस्रसां वाजिनमप्रतीतम्
ऋ० १, ११७, ९, । “अप्रतीतं शत्रुभिरप्रतिगतम्” भा०
“मरुत्वतो अप्रतीतस्य” ऋ० । ५, ४२, ६, “अप्रतीतस्या”
प्रतिगतस्य भा० २ अपरिज्ञाते “देवेभिर्विश्वतो अप्रतीतः”
ऋ० ३, ४६, ३, “अप्रतीतः एतावदस्य सामर्थ्यमित्य-
परिच्छिद्यमानः” भा० ३ अपलायिते च ।

अप्रतीति न० अभावे न० त० । ज्ञानाभावे “न स्थोटः प्रतीत्य-

प्रतीतिभ्याम्” सां० सू० ।

अप्रतीत्त ति० प्रति + दा--क्त प्रतीत्तं प्रतिदत्तं न० त० ।

प्रतिदत्तभिन्ने “अपमित्यमप्रतीत्तं यदस्मि यमस्य, येन
बलिना चरामि” इति अथर्ववेदः ६, ११७, १,
पृष्ठ ०२६२

अप्रतीप त्रि० विरोधे न० त० । प्रतीपभिन्ने अनुकूले ।

अप्रत्यय पु० न प्रत्ययः विश्वासोज्ञानं वा अभावे न० त० ।

१ विश्वासाभावे “दोषाणां सन्निधानं कपटशतमयं क्षेत्र-
मप्रत्ययानामिति” सिह्लनः न० ब० । २ विश्वासशून्ये ।
“बलवदपि शिक्षितामात्मन्यप्रत्ययं चेतः” शकु० । ३ ज्ञाना-
भावे पु० । न० ब० । ४ ज्ञानशून्ये त्रि० । प्रत्ययः-
प्रकृतिनिमित्तकः अर्थबोधकः सुबादिशब्दभेदः न० त० ।
५ सुबादिशब्दभिन्ने सार्थके प्रकृतिरूपे शब्दे “अर्थवद-
धातुरप्रत्ययः प्रातिपदिकमिति” पा० ।

अप्रत्याख्येय त्रि० न० त० । अपरिहार्य्ये त्यक्तुमशक्ये ।

अप्रधान न० न प्रधानम् । १ प्रधानभिन्ने मुख्यभिन्ने गौणे ।

“प्रधानकर्म्मण्याख्यये लादीनाहुर्द्विकर्म्मणाम् अप्रधाने
दुहादीनां ण्यन्ते कर्त्तुश्च कर्म्मणः” हरिः कर्म्मणोऽप्रधान-
त्वञ्च अप्रधानक्रियाफलाश्रयत्वम् । “प्राधान्यं हि विधेर्यत्र
प्रतिषेधेऽप्रधानतेति” भाट्टाः २ अनुत्कृष्टे अस्य त्रिलि-
ङ्गत्वमपीष्यते । “अप्रधानः प्रधानः स्यात् सेवते यदि
पार्थिवम् । प्रधानीऽप्यप्रधानः स्याद्यदि सेवाविवर्जितः”
नीति० । ३ प्रधानकर्म्माङ्गे न० “अप्रधानकालं सकृदसन्नि-
पातात्” कात्या० १, ७, १५, अयमर्थः । “वसन्ते
ब्राह्मणोऽग्नीनादघीतेत्यनारभ्याधीतमप्याधानमग्निहोत्रादी-
नामङ्गमिति कृत्वा चिन्त्यते किमङ्गं सत् आधानं प्रतिकर्म
प्रतिप्रयोगं च भेदेन कर्त्तव्यम् उत सर्व्वप्रयोगाणां साधा-
रणं सकृदिति । तत्र कर्म्माङ्गत्वे प्रयाजाद्यङ्गवत् प्रतिकर्म-
भेदेन कर्त्तव्यम् न च वहिःकालत्वेनागृह्यमाणविशेषता,
यद्यस्यानन्तरं क्रियते तत्तदर्थमित्यानन्तर्य्येण विशेषग्रह-
णात् । तस्मात् प्रतिकर्मभेदेनाधानप्राप्ताविदमुच्यते अप्र-
धानकालं यदङ्गमाधानसदृशम् तत्सकृदेव कर्त्तव्यम् न भेदेन
कर्मण आदौ । कुतः? असंनिपातात् न चैतत् कस्यचित्
कर्मणः प्रक्रमे कर्ममध्ये वा संनिपतितम् येन विशेषग्रहणं
स्यात् किन्तु यदेव किञ्चिदग्निकार्य्यं निमित्तवशात्-
कामवशाद्वा यथाकामं प्राप्तम् तदर्थमाधास्येऽग्नीनिति, न
तु कञ्चिदेव कर्मविशेषमभिसंधायाधानम् एवमनभि-
संहित्कर्मविशेषेण सर्योद्देशेनाधाने कृते यद्यपि कारण-
वशात् किञ्चित् कर्म प्रथममापतति तथापि न तादर्थ्यमेव
भवति प्रथमावस्थायामेव सर्वाथत्वावधारणात् तस्मात्
अप्रधामकालीनत्वात् मकृदेव कार्य्यामिति” कात्या० व्या० ।

अप्रधृष्य त्रि० न प्रधर्षितुं शक्यः । १ अतिक्रान्तुमशक्ये २ धर्षितु-

मशक्ये च । “यदाश्रौषं भीष्ममत्यन्तशूरं हतं पार्थेना-
हवेष्वप्रधृष्यम्” भा० आ० प० ।

अप्रपन्न त्रि० न० त० । १ प्राप्तभिन्ने, २ अनागते, ३ अज्ञाते च

अप्रबल त्रि० न प्रबलः । प्रबलभिन्ने हीनबले ।

अप्रभाव पु० न प्रभावः अभावे न० त० । १ प्रभावाभावे

न० ब० । २ प्रभावशून्ये त्रि० ।

अप्रभूत त्रि० न प्रभूतः न० त० । प्रचुरभिन्ने स्वल्पे ।

अप्रमत्त त्रि० प्र + मद--क्त प्रमादवान् विरोधे न० त० ।

सावधाने “निमित्तेषु च सर्व्वेषु अप्रमत्तोभवेन्नर” इति स्मृतिः ।
“यतात्मनोऽप्रमत्तस्य द्वादशाहमभोजनम्” “युक्तश्चैवाप्रमत्तश्च
परिरक्षेदिमाः प्रजाः” इति च मनुः २ विष्णौ पु० “अपां
निधिरध्रिष्ठानमप्रत्तोऽप्रतिष्ठितः” विष्णुसह० “अप्रमत्तो-
ऽधिकारिभ्यः कर्म्मानुरूपं फलं यच्छन्नप्रमत्तः” इति
भा० । २ मद्यादिना प्रमत्तभिन्ने त्रि० ।

अप्रमय पु० न प्रमीयते प्र + मि--अच् वेदे नात्त्वम् । अप्रमेये

“मनसैवानुद्रष्टव्यमेतदप्रमयं ध्रुवम्” शत० व्रा० “अप्रमयम-
प्रमेयम्” भा० ।

अप्रमाण न० न प्रमाणं विरोधे न० । प्रमाज्ञानभिन्नभ्रमादि-

जनके वाक्यादौ । तानि च “वेदाः प्रमाणं स्मृतयः प्रमाणं
धर्मार्थयुक्तं वचनं प्रमाणम् । यस्य प्रमाणं न भवेत् प्रमाणं
कस्तस्य कुर्य्याद्वचनं प्रमाणमिति” स्मृत्युक्तवेदादिप्रमाण
भिन्नानि चार्वाकादिवचनानि “नद्यां शिलाः तरन्तोत्यादीनि
प्रमाणान्तरविरुद्धार्थकानि वचनानि” च । एवं पित्तादि
दुष्टानि इन्द्रियाणि आभासकलितानि लिङ्गानि च ।
“प्रमाणत्वाप्रमाणत्वे” इत्यादि मीमांसा ।

अप्रमाद पु० न प्रमादः अभावार्थे न० त० । १ प्रमादाभावे

“अप्रमादेन गन्तव्यं कान्तारेषु नदीषु च” इति “अप्र-
मादश्च कर्त्तव्यः सर्व्वभूतेषु नित्यशः” इति च रामा० ।
न० ब० २ प्रमादशून्ये त्रि० “माता च मम कौशल्या ।
कुशलं चाभिवादयन् । अप्रमादं च वक्तव्यमिति” रामा०
“प्रमादश्च कर्त्तव्येषु अकर्त्तव्यत्वभ्रमेण ततोनिवृत्तिः ।
अकर्त्तव्येषु च कर्त्तव्यत्वभ्रमेण तत्र प्रवृत्तिरिति”
मञ्जूषादयः ।

अप्रमादिन् त्रि० न प्रमाद्यति प्र + मद--णिनि न० त० । प्रमादहीने स्त्रियां ङीप् ।

अप्रमायुक त्रि० प्र + मि + उण् आत्त्वे युच् स्वार्थे कन् न० त० ।

अपरिच्छेदके । “कृणोत्वप्रमायुकं रथयुतिमनागसम्” अथ०
१९, ४४, ३ ।
पृष्ठ ०२६३

अप्रमित त्रि० न प्रमितः न० त० । १ अपरिमिते २ अनुपलब्धे च ।

अप्रमीय त्रि० प्र + मा--बा० कर्मणि श० न० त० । अप्रमेये ।

“गजवाजिमुख्याः वाऽप्रमीयाः प्रमीयन्ते” श्रुतिः ।

अप्रमूर त्रि० प्र + मूर्च्छा--क्विप् प्रमूः मूर्च्छा अस्त्यर्थे कुञ्जादि० र

न० त० । १ मूर्च्छायुक्तभिन्ने अमूर्च्छिते । “ते हि वस्वो
वसवानास्ते अप्रमूरा महोभिः ऋ० १, ९०, २, “अप्रमूराः
अमूर्च्छिताः” भा० ।

अप्रमृष्ट त्रि० प्र + मृष--क्त न० त० । १ असोढ़े अक्षान्ते ।

प्र + मृज--क्त न० त० । २ अघृष्टे ३ अप्रोञ्छेते प्र + मृश
--क्त न० त० । ४ अज्ञाते च ।

अप्रमृष्य त्रि० न प्रमृष्यः प्र + मृष--क्यप् न० त० । १ वाधितु-

मशक्ये । “सुदामं तद्रेक्णो अप्रमृष्यम्” ऋ० ६, २०, ७ ।
“अप्रमृष्यं केनाप्यबाध्यम्” भा० ।

अप्रमेय त्रि० प्रमातुं ज्ञातुं परिच्छेत्तुं वा योग्यं न० त०

१ अपरिच्छेद्ये २ बहुसंख्यकवीर्य्यवति ३ इदमित्थमिति
निश्चेतुमशक्ये “त्वमेकोह्यस्य सर्व्वस्य विधानस्य स्वय-
म्भुवः । अचिन्त्यस्याप्रमेयस्य कार्य्यतत्त्वार्थवित्प्रभुः” मनुः
“स्वयंभुवोऽपौरुषस्य विधानस्य वेदस्य” कुल्लू० ।
“अशकञ्चाप्रमेयञ्च वेदशास्त्रभिति स्थितिः” मनुः । ४ ब्रह्मणि
न० केनापि प्रमाणेन तस्य प्रमातुमशक्यत्वात् । वेदान्ति-
मते हि प्रमाणानि षट् प्रत्यक्षानुमानशब्दोपमानार्था-
पत्तियोग्यानुपलब्धिभेदात् तत्र परब्रह्मणः न प्रत्यक्षप्रमाण-
चक्षुरादिगम्यता रूपाद्यभावात् “अशब्दमस्पर्शमरूपमव्ययं
तथाऽरसं नित्यमगन्धवच्च यदिति” श्रुतौ तस्य रूपाद्य-
भावस्योक्तेः । नापि अनुमानगम्यता व्याप्तिलिङ्गाद्यभावात्
“असङ्गोऽयं पुरुष” इति श्रुत्या तस्य सर्वसङ्गशून्यतोक्तेः
नाप्युपमानगम्यता निर्द्धर्म्मकत्वेन, तद्भिन्नत्वे सति तद्गत-
भूयोधर्म्मवत्त्वलक्षणस्य सादृश्यस्य तत्राभावात् । न
वार्थापत्तिगम्यत्वम् किञ्चिद्वस्तु विना अनुपपद्यमानस्यैवा-
र्थस्यार्थापत्तिप्रमाणवेद्यवया तद्भिन्नवस्त्वभावेन तत्र तदसम्भ-
वात् । न्यायमते च अर्थापत्तेर्व्यतिरेकव्याप्तिहेतुकानु-
मानेष्वन्तर्भावेण तल्लिङ्गस्य तत्राभावात् । योग्यानुलब्धे-
श्चाभावमात्रप्रमाणत्वांत् परब्रह्मणश्च सदात्मकत्वेनाभाव
रूपत्वाभावात् । नापि शब्दप्रमाणवेद्यत्वम् तत्र
शाब्दबोधोपायशक्त्यादेरभावात् अतएव “यद्वाचा न मनुते
येन वागभ्युद्यते तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते”
इति श्रुत्याऽस्य वाग्विषयत्वं निराकृतम् । न च लक्षणया
तद्वोधः, शक्यसम्बन्धरूपलक्षणायाः निस्मम्बन्धे तस्मिन्न-
प्रवृत्तेः । अतएव “ब्रह्मन्! ब्रह्मण्यनिर्देश्ये निर्गुणे
गुणवृत्तयः । कर्थ चरन्ति? श्रुतयः साक्षात् सदसतः
परे” इति भागवते गुणवृत्तिश्रुतिगोचरताशून्यत्वमस्यो-
क्तम् । न च प्रमाणागोचरत्वे तस्य कथं सिद्धिः? कथं वा
“तन्त्वौपनिषदं पुरुषं वेदेति” श्रुतौ “शास्त्रयोनित्वादिति”
शा० सूत्रे च तस्य उपनिषद्वेद्यत्वमुक्तं संगच्छताम्?
शास्त्रजनितबुद्ध्यैव तस्य विषयीकरणात् तथात्वसङ्गतेः । तथा
च शास्त्रजन्यान्तःकरणविषयत्वमेव तस्य न तु तदवच्छिन्न-
चैतन्यविषयतापि यथोक्तं “फलव्याप्यत्वमेवास्य शास्त्र-
कृद्भिर्निराकृतम् ब्रह्मण्यज्ञाननाशाय वृत्तिव्याप्तिरपेक्षि-
तेति” फलति प्रतिविम्बति बुद्धिवृत्तौ फलं चिदाभासस्तद्व्या-
प्यत्वं तद्विषयत्वं तेन यथा घटपटादीनां तदाकारबुद्धिवृत्ति
प्रतिफलितेन चिदाभासेनैव प्रकाश्यता, न तथा, ब्रह्मणः स्वप्र-
काशतया तस्य इतराप्रकाश्यत्वात् किन्तु स्पयं प्रकाश्यता न तु
तत्रान्यापेक्षास्ति । परन्तु स्वाज्ञाननाशायैव बुद्धिवृत्तेरपेक्षा-
मात्रं सा च शब्द जनितेति उपनिषद्वेद्यता इत्थमुभयश्रुति-
सामञ्जस्यम् । वाचस्पतिमते तु शब्दादपि अखण्डाकारा
काचित् दशमस्त्वमसीत्यादिवत् मनोवृत्तिरुदेति तद्विषयत्वा-
दस्य शास्त्रवेद्यता । “मनसैवानुद्रष्टव्यमिति” श्रुतेस्तस्य
मनोमात्रवेद्यत्वेऽपि “तत्त्वमस्यादिवाक्योत्थं ज्ञानं मोक्षस्य
साधनमिति” शास्त्रात् मनःसस्कारे च शास्त्रापे-
क्षणात् शास्त्रवृत्तिवेद्यता । न च मनोवृत्तिवेद्यत्वेऽप्रमेयत्व-
हानिः । असंस्कृतमनोविषयत्वाभावेनैव तथात्वात् “अवाङ्-
मनसगोचरमिति” वाक्यस्यापि तत्रैव तात्पर्य्यात् ।
मनोविषयत्वोक्तिरपि अज्ञाननाशार्थमनोवृत्तिमात्रवेद्यताभि-
प्रायेण, तदवच्छिन्नचिदाभासविषयत्वाभावाच्चाप्रमेयता
“यन्मनसा न मनुते येन मनोऽनुमन्यते” इति श्रुतेस्तथार्थ-
त्वात् । जगत्कर्त्तृत्वेन ईश्वरस्यानुमानेऽपि कूटस्थस्य तदनु-
मानगम्यत्वाभावात् ईश्वरस्यैव श्रुतिप्रमाणकत्वेन उपनिष-
द्वेद्यतोक्तिः । तदुत्तरं मननादिना श्रुतिवाक्यतात्पर्य्याव-
धारणेनाखण्डब्रह्माकारा चित्तवृत्तिरुदेति इति न काचि-
दनुपपत्तिः । नैयायिकादिमते तु तद्गुणगणस्य परिमातु-
मशक्यत्वात् दुष्टाशगावेद्यत्वाच्च अप्रमेयत्वमिति । प्र + मि + क्षेपे
यत् न० त० । अपरिक्षेप्ये “यदाश्रौषं वासुदेवार्ज्जुनौ
तो तथा धनुर्गाण्डिवमप्रमेयम्” भा० आ० प० ।

अप्रयत्न पु० प्रकृष्टो यत्नः प्रयत्नः प्रयासः अभावे न० त० ।

१ प्रयत्नाभावे प्रयासाभावे । न० ब० । २ प्रयासशून्ये त्रि० ।
“अप्रयत्नः सुखार्थेषु ब्रह्मचारी धराशय” मनुः ।
पृष्ठ ०२६४

अप्रयुत त्रि० प्र + यु--मिश्रणे अमिश्रणे च क्त न० त० ।

१ अपृथग्भूततया युते २ पृथग्भूततया, युते च ।

अप्रयुत्वन् त्रि० प्र + यु--पृथग्भावे ड्निप् न० त० । अपृथग्-

भूते “पर्त्तृभिष्ट्वमदब्धैरप्रयुत्वभिः” ऋ० ६, ४८, १०,
“अप्रयुत्वभिरपृथग्भूतैः” भा० ।

अप्रलम्ब न० प्र + लम्ब--घञ् अभावे न० त० । १ विलम्बा

भावे शोघ्रे २ तद्वति त्रि० हलायुधः ।

अप्रवर्त्तिन् त्रि० न प्रवर्त्तितुं शीलमस्य ताच्छील्ये इनि ।

१ प्रवृत्तिशीलशून्ये २ सन्तते ३ विच्छेदरहिते स्त्रियां ङीप्
४ अनुच्छित्तौ “मैतदस्मिन् संवदिष्ठाः अप्रवर्त्तीति”
वृ० उ० । “अथं वाव स योऽयमन्तर्हृदयाकाशस्तदेतत्
पूर्णमप्रवर्त्ति अप्रवर्त्तिनीं श्रियं लभते य एवं वेद” इति
छा० उ० । “अप्रवर्त्ति अनुच्छित्तिधर्म्मकमिति” भा० ।

अप्रवीत त्रि० प्र + वी--प्रजननादिषु क्त न० त० १ अजाते ।

गर्भधारणेन गतसारभिन्नायां २ अकामितायां च स्त्रियां
स्त्री । “दक्षिणेन द्वारं सोमक्रयणी तिष्ठत्य-
लक्षिता व्यङ्गाऽप्रवीतेति” कात्या० ७, ६, १४, “अप्रवीता
वीगतिजननकान्त्यादिषु अत्र प्रजननार्थः प्रशब्दात् वाक्य-
शेषाच्च प्रजाता हि गतसारा भवति नोपभोगमात्रेण ।
तस्मादप्रवीताऽप्रजातेति हरिस्वासी । अकामितेति कर्कभा०
४ अयातयामायां स्त्रियाम् “सा स्यादप्रवीता वाग्वा एषा
निदानेन यत् सहस्री अजातयाम्नी वा इयं वागयात-
याम्नी अप्रवीता, तस्मादप्रवीता स्यादिति” शत० ब्रा०
५ अनुपगते त्रि० “यदप्रवीता दधते ह गर्भम्” ऋ०
४, ७, ९, “अप्रवीता अनुपगता” भा० ।

अप्रवृत्त त्रि० न प्रवृत्तः विरोधे न० त० । प्रवृत्तिमद्भिन्ने निवृत्ते ।

अप्रवेद त्रि० नास्ति प्रवेदः लाभोयस्य । १ दुर्लभे ।

“अत्रस्नू अप्रवेदे इति माह कस्माच्च नत्रस्नू प्रत्रासीर्मोत
इदं पुष्टं कश्चन प्रविदतेत्येवैतदाह” शत० ब्रा० “नास्ति
प्रवेदः प्रलाभः ययोः दुर्लभे” इति भा० ।

अप्रशस्त त्रि० न प्रशस्तम् विरोधे न० त० । १ प्रशस्तभिन्ने

अपकृष्टे २ दुष्टे “अप्रशस्तञ्च कृत्वाप्सु मासमासीत भैक्षभुक”
मनुः । ३ निन्दिते च “अप्रशस्त निशि स्नानं राहो-
रन्यत्र दर्शनादिति” परा० । ४ क्षीणे “पान्ति मित्रावरु-
णाववद्याच्चयत ईमर्यमोअप्रशस्तान्” ऋ० १, १६७, ८,
“अप्रशस्तान् क्षीणान्” भा० । यावत्पदार्थस्य यत्न
उचितत्वम् ततोन्यूनत्वे अस्य प्रवृत्तिः ।

अप्रसक्त त्रि० न प्रसक्तः अभिनिवेशयुक्तः संबद्धो वा ।

१ अभिनिवेशशून्ये, आग्रहरहिते २ प्रसङ्गरहिते च
अपसक्तनिषेधानुपत्तेरिति मीमांसा । ३ असंबद्धे ।

अप्रसक्ति स्त्री अभावे न० त० । प्रसङ्गाभावे न० ब० ।

प्रसङ्गशून्ये त्रि० प्रसक्तिराग्रहः प्राप्तिश्च ।

अप्रसङ्ग पु० अभावे न० त० । १ सम्बन्धाभावे । न० ब० ।

२ सम्बन्धशून्ये त्रि० । प्रसङ्गः उत्तराभिधाने सङ्गतिभेदः
अभावे न० त० । ३ सङ्गत्यभावे । न० ब० । ४ तच्छून्ये त्रि०
“अप्रसङ्गाभिधाने च श्रोतुः श्रद्धा न जायते” वृद्धाः ।

अप्रसन्न त्रि० न० त० । १ प्रसादशून्ये २ अस्वच्छे ३ चित्त-

प्रसादशून्ये ४ स्फूर्त्तिहीने ५ असन्तुष्टे च ।

अप्रसाद्य त्रि० न प्रसादयितुं योग्यम् । १ प्रसादयितुम

योग्ये तीव्रकोपयुते ।

अप्रसाह पु० न प्रसह्यतेऽभिभूयते प्र + सह--कर्म्मणि घञ् ।

१ अनिष्टादिना अनभिभूयमाने “पश्चादग्नेः संविशति
चर्मणि स्थण्डिले वा वाचंयमोऽप्रसाहः” छा० उ० ।
“न प्रसह्यते नाभिभूयते स्त्र्याद्यनिष्टस्वप्तदर्शनेन” भा० ।

अप्रसिद्ध त्रि० न० त० । १ अनिष्पन्ने २ अविख्याते च “अप्य

प्रसिद्धं यशसे हि पुंसामिति” कुमा० ।

अप्रसृत त्रि० म प्रसृतः । १ विस्तारशून्ये प्रसरशून्ये ।

अप्रस्तुत त्रि० न प्रस्तुतः । १ अनिष्पन्ने २ कार्य्यसाधनायानु-

द्युक्ते ३ अप्रक्रान्ते ४ असंस्तुते च ।

अप्रस्तुतप्रशंसा स्त्री सा० द० उक्ते अर्यालङ्कारभेदे तल्लक्षणादि

“कचिद्विशेषः सामान्यात् १, सामान्यं वा विशेषतः २ ।
कार्य्यान्निमित्तं ३ कार्य्यञ्च ४ हेतेरथ समात् समम् ५ ॥
अप्रस्तुतात् प्रस्तुतञ्चेद्गम्यते पञ्चधा ततः । अप्रस्तुतप्रशंसा
स्यात्” । “पादाहतं यदुत्थाय मूर्द्धानमधिरोहति । स्वस्थादे-
वापमानेऽपि देहिनस्तद्बरं रजः” ॥ अत्रास्मदपेक्षया
रजोऽपि वरमिति विशेषे प्रस्तुते सामान्यमभिहितम् । “स्रगियं
यदि जीवितापहा हृदये किं निहिता न हन्ति र्माम्? ।
विषमप्यमृतं क्वचिद्भवेदमृतं वा विषमीश्वरेच्छया” ॥ अत्रे-
श्वरेच्छया क्वचिदहितकारिणोऽपि हितकारित्वं, हितका-
रिणोऽप्यहितकारित्वमिति सामान्ये प्रस्तुते विशेषोऽभिहितः ।
एवञ्चात्राप्रस्तुतप्रशंसामूलोऽर्थान्तरन्यासः । दृष्टान्ते प्रसिद्ध-
मेव वस्तु प्रतिविग्वत्वेनोपादीयते । इह नु विषामृतयोर-
मृतविषीभावस्याप्रसिद्धेर्न तस्य सद्भावः ॥ “इन्दुलिप्त
इवाञ्जनेन, जडिता दृष्टिर्मृगीणामिव, प्रम्लानारुणिमेव विद्रुम-
दलं श्यामेव हेमप्रभा । कार्कर्श्यं कलया च कोकिलबधूकण्ठे-
ष्विव प्रस्तुतं सीतायाः पुरतश्च हन्त शखिनां वर्हा सगर्हेव
पृष्ठ ०२६५
मनु ॥” अत्र संभाव्यमानेभ्य इन्द्वादिगताञ्जनलिप्तत्वादिभ्यः
कार्य्येभ्यो वदनादिगतसौन्दर्य्यविशेषरूपं प्रस्तुतं कारणं
प्रतीयते । “गच्छामीति मयोक्तया मृगदृशा निःश्वासमुद्रे-
किणं त्यक्त्वा तिर्य्यगवेक्ष्य वाष्पकलुषेणैकेन मां चक्षुषा ।
अद्य प्रेम मदंर्पतं प्रियसखीवृन्दे त्वया बध्यतामित्थं
स्नेहविवर्द्धितो मृगशिशुः सोत्प्रासमाभाषितः ॥” अत्र
कस्यचिदगमनरूपे कार्य्ये कारणमभिहितम् । तुल्येऽप्रस्तुते
तुल्याभिधाने च द्विधा श्लेषमूला सादृश्यमात्रमूला च ।
श्लेशमूलापि समासोक्तिवद्विशेषणमात्रश्लेषे, श्लेषवद्विशे-
ष्पस्यापि श्लेषे भवतीति द्विधा । क्रमेण यथा ॥ “सहकारः
सदामीदो वसन्तश्रीसमन्वितः । समुज्ज्वलरुचिः श्रीमान्
प्रभूतोत्कलिकाकुलः” ॥ अत्र विशेषणमात्रश्लेषवशादप्रस्तु-
तात् सहकारात् कस्यचित् प्रस्तुतस्य नायकस्य प्रतीतिः
“पुंस्त्वादपि प्रविचलेद्यदि यद्यधोऽपि यायाद्यदि प्रणयनेन
महानपि स्यात् । अभ्युद्धरेत्तदपि विश्वसितीदृशीत्थं
केनापि दिक् प्रकटिता पुरुषोत्तमेम” ॥ अत्र पुरुषोत्तम-
पदेन विशेष्येणापि श्लिष्टेन प्रचुरप्रसिद्ध्या प्रथमं विष्णुरेव
बोध्यते । तेन वर्ण्णनीयः कश्चित्पुरुषः प्रतीयते । सादृश्य-
मात्रमूला यथा । “एकः कपोतपोतः शतशः श्येनाः
क्षुधाभिधावन्ति । अम्बरमावृतिशून्यं हरि हरि शरणं
विधेः करुणा” ॥ अत्र कपोतादप्रस्तुतात् कश्चित् प्रस्तुतः
प्रतीयते । इयं क्वचित् वैधर्म्म्येणापि भवति । यथा
“धन्याः खलु वने वाताः कह्लारस्पर्शशीतलाः । राममि-
न्दीवरश्यामम् ये स्पृशन्त्यनिवारिताः” ॥ अत्र वाता
“धम्या अहमधन्या इति वैधर्म्म्येण प्रस्तुता प्रतीयते । वाच्यस्य
सम्भवासम्भवोभयरूपतया त्रिप्रकारेयम् । तत्र सम्भवे
उक्तोदाहरणान्येव । असम्भवे यथा । “कोकिलोऽहं
भवान् काकः समानः क लिमावयोः । अन्तरं कथयि-
ष्यन्ति काकलीको विदाः पुनः” ॥ अत्र काककोकिलयो-
र्वाकोवाक्यम् प्रस्तुताध्यारोपणं विनाऽसम्भवि ।
उभयरूपत्वे यथा । “अन्तश्छिद्राणि भूयांसि कण्टका बहवो
बहिः । कथं कमलनालस्य मा भूवन् भङ्गुरा गुणाः” ॥
अत्र प्रस्तुतस्य कस्यचिदध्यारोपणम् विना कमलनालान्त-
ञ्छिद्राणाम् गुणभङ्गुरीकरणे हेतुत्वमसम्भवि अन्वेषान्तु
सम्भवीत्युभयरूपत्वम् ।

अप्रहत त्रि० न प्रहन्यते स्म प्र + हन--क्त न० त० । अक्षुण्णे

(खिल) इति ख्याते अकृष्टमूम्यादौ । “ईषद्धौतं नवं श्वेतं
सदशं यत्रधारितम् निर्ण्णेजकाक्षालितञ्चाप्रहतं वासौच्यते”
इति विधा० पा० उक्ते वासोभेदे अहतमिति पाठान्तरम् ।

अप्रहन् त्रि० न प्रहन्ति प्र + हन्--क्विप् न० त० स्त्रियां ङीप् ।

“कार्य्यानाशके तदनुग्राहके “त्वमेको अप्रहर्णगृणीषे
शवसाम्पतिम्” ऋ० ६, ४४, ४ । “अप्रहणमनुग्राहकमिति” भा० ।

अप्राकृत त्रि० प्रकृतेरागतम् अण् प्राकृतम् न० त० ।

१ प्रकृतिकार्य्यभिन्ने ईश्वरलीलादौ । प्रकृतेः स्वभावस्य
अयम् अण् न० त० । २ स्वभावसम्बन्धिभिन्ने असामान्ये
मनुष्यादौ च ।

अप्राग्र्य त्रि० न प्राग्र्यः प्रधानः विरोधे न० त० । श्रेष्ठभिन्ने अधमे ।

अप्राण त्रि० नास्ति देहादुक्रान्तत्वात् प्राणो यस्य । १ मृते

शवे । सर्वथा प्राणशून्ये २ ईश्वरे पु० अप्राणोह्यमनो
बुद्धिरिति” श्रुतिः ।

अप्राप्त त्रि० न प्राप्तः प्रमाणान्तरावगतः । १ प्रमाणान्तरानवगते

“अप्राप्तप्रापकोविधिरिति” “अप्राप्ते तु विधीयन्ते
बहवोऽप्येकयत्नतः” इति च मीमांसा । २ अनागते च ।

अप्राप्तकाल त्रि० न प्राप्तः कालोऽस्य । अप्राप्तसमये ।

“अवयवविपर्य्यासवचनमप्राप्तकालमिति” गौ० सू० उक्ते
२ सभाक्षोभव्यामोहादिना व्यत्यस्ताभिधानरूपे वादिदीषभेदे
च । प्रतिज्ञाहेतूदाहरणादीनां यथाक्रमं विन्यासे हि
वादसमयः । तेषां व्युत्क्रमकघने वादिनो निग्रहः ।

अप्राप्तप्रापक पु० अप्राप्तं प्रापयति बोधयति प्र +

आपणिच्--ण्वुल् ६ त० । प्रमाणान्तरेणानवगतस्य यागादीना-
मिष्टसाधनत्वस्य कृतिसाध्यत्वस्य वा बोधके लिङादौ शब्दे ।
तथा च प्राथमिकप्रवृत्तिजनकप्रतीतिजनकत्वं तत्त्वम्
भवति च स्वर्गकामोयजेतेत्यादौ लिङयुक्तं वाक्यं, यागे
इष्टसाधनताम् कृतिसाध्यतां वा बोधयत् प्रेरकत्वात्तथा ।
अप्राप्ता दम्यावस्था यस्य ततः स्वार्थे कन् देवकवत्
उत्तरपदलोपः । २ अप्राप्तदम्यावस्थे वत्से “पादश्चाप्राप्तके
देयः” स्मृतिः “अप्राप्तके अप्राप्तदम्यावस्थे” इति रघु० ।

अप्राप्तव्यवहार त्रि० न प्राप्तः व्यवहारयोग्यः कालोऽस्य ।

“अप्राप्तव्यवहारोऽसौ यावत् षोड़शबर्षक” इति दक्षोक्ते
अपूर्ण्णषोड़शवर्षवयस्के बाले “गर्भस्थैः सदृशोज्ञेय आष्ट-
मात् वत्सराच्छि शुः । बाल आ षोड़शादर्वाक् पौगण्डश्च
निगद्यते । परतोव्यावहारज्ञः स्वतन्त्रः पितरावृते इति”
नारदः । “अप्राप्तव्यवहाराणां धनं व्ययविवर्जितम् ।
न्यसेयुर्बन्धुमित्रेषु प्रोषितानां तथैव च” कात्या० स्मृतिः ।
पृष्ठ ०२६६

अप्राप्ता स्त्री न प्राप्तः विवाहप्रशस्तकालोऽस्याः पृ० उत्तरपद

लोपः । अप्राप्तविवाहप्रशस्तकालायां कुमार्य्याम ।
“उत्कृष्टायाभिरूपाय वराय सदृशाय च । अप्राप्तामपि तां
कन्यां तस्मै दद्याद्यथाविधि” मनुः “अप्राप्ताम् अप्राप्त
विवाहप्रशस्तकालाम्” उ० त० रघुनन्दनः ।

अप्राप्ति स्त्री अभावे न० त० । १ लाभाभावे “तदप्राप्ति-

महादुःखविलीनाशेषपातका” का० प्र० २ प्रमाणान्तरतो-
ज्ञानाभावे “विघिरत्यन्तमप्राप्तौ नियमः पाक्षिके सतीति”
मीमां० ३ असम्भवे “प्रतिसंख्याप्रतिसंख्यानिरीधाप्राप्ति-
रिति” शा० सू० । “अप्राप्तिरसम्भव” इति भा० ।
४ अनुपपत्तौ च “समुदायहेतुकेऽपि तदप्राप्तिः” शा० सू० ।
समुदायाप्राप्तिः समुदयभावानुपपत्तिः भा० । न० ब० ।
५ लाभशून्ये त्रि० ।

अप्रामाणिक त्रि० प्रमाणेन सिद्धः, प्रमाणं वेद वा ठञ्

न० त० । १ प्रमाणासिद्धे २ प्रमाणानभिज्ञे च स्त्रियां
ङीप् । “अप्रमाणिकीयमनवस्थेति” सां० भा० ।

अप्रामाण्य न० अभावे न० त० । १ यथार्थबोधकत्वाभावे

“अप्रामाण्यं कथयति सदा नन्दसूनोर्वियोगः” पदा०
अप्रामाण्यहेतुकानुष्ठानाभावे च “अननुष्ठानलक्षणमप्रा-
माण्यम्” सां० सू० ।

अप्रामि त्रि० प्रकर्षेण अम्यते हिंस्यतेऽसौ प्र + अम--णिच्-

कर्म्मणि इन् न० त० । अहिंसिते, “अप्रामिसत्योमघवन्” ।
ऋ० ८, ६०, ४, “अप्रामिसत्यः अहिंसितसत्यः” भा० ।

अप्रायु त्रि० प्र + इण--उण् न० त० । अगन्तरि, “असन्नप्रा-

युवोरक्षीतारो दिवेदिवे” ऋ० १, ८९, १, “अप्रायुवः
अप्रायवः अगच्छन्तः वेदे तन्वादित्वादुवङ्” भा० ।

अप्रायुस् त्रि० न प्रकृष्टं००२०प्रगतं वाऽऽयुर्यस्य । १ प्रकृष्टायुर्भिन्ने

२ गतायुर्भिन्ने च । “नक्तयः सुदर्शतरोदिवातरादप्रायुषः
ऋ० १, १२७, ५ ।

अप्रिय न० विरोधे न० त० । प्रियभिन्ने इष्टभिन्ने स्वभा-

तोद्विष्टे दुःखे “न ह वै सशरीरस्य सतः प्रियाप्रिययोरप-
हतिरस्ति” श्रुतिः “तस्माद्यम इव स्वामी स्वयं हित्वा
प्रियाप्रिये” इति मनुः । २ तत्साधने वचनादौ त्रि०
“सत्यं ब्रूयात् प्रियं ब्रूयात् न ब्रूयात् सत्यमप्रियम्”
“पाणिग्राहस्य साध्वी स्त्री नाचरेत् किञ्चिदप्रियम्” इति
च मनुः । (सिङि) शृङ्गीमत्स्ये स्त्री शब्द र० । प्रिय-
हेतुत्वाभावात्तस्यास्तथात्वम् ।

अप्रियंवद त्रि० विरोधे न० त० । कटुवाक्यवादिनि उद्वेजकवाक्यप्रयोक्तरि

अप्रियवादिन् त्रि० अप्रियं वदति वद--णिनि ६ त० स्त्रियां

ङीप् । । कटुवाक्यवादिनि उद्वेजकवाक्यकथके “माता
यस्य गृहे नास्ति भार्य्या चाप्रियवादिनीति” चाणक्यः ।

अप्रीति स्त्री अभावे न० त० । १ सन्तोषाभावे, २ दुखे,

“प्रीत्यप्रीतिविषादाः प्रकाशप्रवृत्तिनियमार्थाः” इति
सां० का० । “प्रीतिः सुखं प्रीत्यात्मकः सत्त्वगुणः, अप्रीति-
र्दुखमप्रीत्यात्मकोरजोगुणः” इति सां० त० कौ० ।

अप्रेतराक्षसी स्त्री न प्रेता प्राप्ता राक्षसीम् अत्या० स०

न० त० । तुलस्याम्, अपेतराक्षसीशब्दे २५४ पृष्ठे विस्तरः ।

अप्रेमन् पु० न प्रेम विरोधे न० त० । स्नेहविरोधिनि द्वेषे ।

अप्रौढ़ त्रि० न प्रौढः न० त० । १ अप्रवृद्धे २ अपटौ च ।

अप्व त्रि० आप--बा० व पृ० ह्रस्वः । प्राप्ये “अमीषां चित्तं

प्रतिलोभयन्ती गृहाण्यङ्गान्यप्वेपरेहि” ऋ० १०, १०३,
१२, “हरिमाणं तेऽङ्गेभ्योऽप्वामन्तरोदरात्” अथ० ९, ८, ९

अप्स त्रि० अपः सनोति सन--ड । १ अपां विशेषगुणीभूते रसे

“पृथिव्याः पुरीषमप्सोनाम” य० १४, ४ । “अप्सोनामापां
सारभूतो रस” इति वेददी० । आप इव निर्मलतया
सन्यते संबध्यते सन--बा० ड । २ रूपे निरु० ।

अप्सरःपति पु० ६ त० । १ इन्द्रे अप्सरापतिरप्यत्र ।

अप्सरम् स्त्री ब० व० अद्भ्यः सरन्ति उद्गच्छन्ति सृ--अमुन् ।

समुद्रान्निस्सृतायां स्वर्वेश्यायाम् “अप्सुनिर्मथनादेव रसात्त-
स्माद्वरस्त्रियः । उत्पेतुर्मनुजश्रेष्ठ । तस्मादप्सरसो ऽभवन्”
इत्युक्तेस्तासां तथात्वम् । “एकाप्सरःप्रार्थितयोर्विवादः”
रघुः “आराधितोऽद्धा मनुरप्सरोभिश्चक्रे प्रजाः स्वाः
सनिमेषचिह्नाः” इति माघः । तासां च नाट्यकर्म्म वृत्तिः ।
ताश्च प्रधानतया द्वादश वह्निपुराणे दर्शिताः “उर्व्वशी
मेनका रम्भा मिश्रकेशी ह्यलम्बुषा विश्वाची च घृताची
च पञ्चचूडा तिलोत्तमा भानुवत्यबला रम्या द्वादशाप्सरसः
शुभाः” इति गणभेदनामाध्याये । अत्र शुभा इति
विशेषणात् अन्या अपि । ताश्च “उर्वशी मेनका रम्भा
घृताची पुञ्जिकास्थला सुकेशी मञ्जुघोषा च महारङ्गवतीति
च” इति मा० पु० “अदितिर्दितिर्दनुः काला दनायुः
सिंहिका तथा । क्रोधा प्रधा च विश्वा च विनता कपिला
मुनिः । कद्रुश्च मनुजव्याघ्र । दक्षकन्यास्त्रयोदश” इति
कश्यपपत्नीरभिधाय । “इत्येते देवगन्धर्व्वाः प्राधेयाः
परिकीर्त्तिताः” इति गन्धर्ववंशमभिधाय च “इमं त्वप्सरसां
वंशं विदितं पुण्यलक्षणम् प्रधाऽसूत महाभागादेव
देवर्षितः पुरा । अलम्बुषा मिश्रकेशो विद्युत्पर्णा तिलो-
त्तमा । अरुणा रक्षिता चैव रम्भा तद्वन्मनोरमा । केशिनी
च सुबाहुश्च सुरता सुरसा तथा । सुप्रिया चातिबाहुश्च”
पृष्ठ ०२६७
इत्युक्तम् भा० आ० प० । एतासाञ्च चतुर्द्दशोत्पत्ति
स्थानानि क दम्बर्य्यां वर्ण्णितानि “यथा विबुधसद्मन्यपसरसो
नाम कन्यकाः सन्तीति तासां चतुर्दश कुलानि एकं भगवतः
कमलयोनेर्मनसः समुत्पन्नम्, अन्यद्वेदेभ्यः सम्भूतम्, अन्य-
दग्नेरुद्भूतम् अन्यत् पवनात् प्रसूतम्, अन्यदमृतान्मथ्य-
मानादुथितम्, अन्यज्जलाज्जातम्, अन्यदर्ककिरणेभ्यो
निर्गतम्, अन्यत् सोमरश्मिभ्यो निष्पतितम्, अन्यद्भूमेरु-
द्भूतम्, अन्यत् सौदामनीभ्यः प्रवृत्तम्, अन्यन्मृत्युना निर्मि-
तम्, अपरं मकरकेतुना समुत्पादितम्, अन्यत्तु दक्षस्य
प्रजापतेरतिप्रभूतानां सुतानां मध्ये द्वौ सुते मुनिररिष्टा
च बभूवतुः, ताभ्यां गन्धर्वैः सह कुलद्वयं जातम्
एवमेतान्येकत्र चतुर्दश कुलानि” एतन्मूलं तु विस्तरभया-
न्नोक्तम् । २ दिशि ३ उपदिशि च तयोर्जलहेतुत्वात्तथा-
त्वम् “पुञ्जिकास्थला च क्रतुश्चाप्सरसाविति” य०
१५, १५, “पुञ्जिकास्थला क्रतुस्थला चाप्सरसौ दिगु-
पदिग्रूपे परिचारिके” इति वेददी० । “अप्सरसाविति
दिक् च उपदिक् स्माह” श्रुतेस्तथात्वम् । “मेनका
वै अप्सरारूपिणीति” भाष्यप्रयोगात् अप्सरसाविति श्रुति
निर्देशाच्च नित्यबहुवचनान्ततेद्युत्सर्गः क्वचिदेकवचनान्तताऽपि

अप्सरस्तीर्थ त्रि० ६ त० । १ तीर्थभेदे ।

अप्सरा स्त्री अप्सं रूपमस्त्यस्याः प्राशस्त्ये कुञ्जा० र । दिव्य-

रूपवत्यां स्वर्वेश्यायाम् “उद्भिन्दतीं संजयन्तीमप्सराम्”
अ० ४, ३८, १ ।

अप्सरायमाणा स्त्री अप्सरस इवाचरति देहसौन्दर्य्यादिना

अप्सरस + क्यङ्--सलोपः कर्त्तरि शानच् । अप्सरस्तुल्य
सौन्दर्य्यवत्यां स्त्रियाम् ।

अप्सव त्रि० अप्सं जलरसं वाति हिनस्ति वा--क ६ त० । जलरस-

शून्ये समुद्रे तस्य लवणजलत्वात्तथात्वम् । “ये अप्सव-
मर्ण्णवं चित्रराधसस्तेनो रासन्ताम्” ऋ० १०, ६५, ३ ।

अप्सव्य पु० अप्सुभवः “अपोयोनियन्मतुपः” वार्त्ति०

सप्तम्या अलुक्, यच्च । जलभवे ।

अप्सस् त्रि० अप्सु अप्साधने तेजसि सस्ति स्वपिति ससक्विप्

७ त० । १ रूपे तस्य तेजोहेतुत्वात् तथात्वम् २ रूपवति च ।
“शीर्ष्णा शिरोऽप्ससाप्सो अर्दयन्नं शून् बभस्ति हरिते-
भिरप्सभिः” अ० ६, ४९, २, “जायेव पत्य उशती सुवासा
उषा हस्रेव निरिणीते अप्सः” ऋ० १, १२४, ७ ।

अप्सा त्रि० अपोजलानि सनति ददाति सन--विट् ।

जलटातरि “आषाढ़ं युत्सु पृतनासु पप्रिं स्वर्षामप्सामिति”
ऋ० १, ९१, २१, “अप्सां जलानां दातारम्” भा० ।
“पवस्व देवमादनो विचर्षणिरप्साः” ऋ० ९, ८४ ।

अप्सु त्रि० नास्ति प्सु रूपम् (निरुक्तोक्तम्) यस्य । रूपरहिते

“मा त्वा वयं सहसावन्नवीरा माप्सवः परि” ऋ० ७, ४, ६,
अप्सवः रूपरहिताः” भा० । अप्राशस्त्ये न० ब० ।
अप्रशस्तरूपे असुरे, “अप्सुजितः” अप्सुजिच्छब्दे दृश्यम् ।

अप्सुक्षित् त्रि० अप्सु जलाधारे अन्तरिक्षे क्षियति

निवसति--क्षि--क्विप् अलुक्स० । अन्तरिक्षवासिनि देवादौ
“ये देवासो दिव्येकादश स्थ पृथिव्यामेकादश स्थ अप्सु-
क्षितो महिनैकादश ऋ० १, १३९, ११, य० १८, ९, च
“तद्धेतुत्वात् तात्स्थ्यम् अप्सु अन्तरिक्षे क्षियन्ति
निवसन्तीति” भा० ।

अप्सुचर त्रि० अप्सु चरतीति चर--ट अलुकूसमा० स्त्रियां ङीप् । जलचरे ।

अप्सुज त्रि० अप्सुजले तद्धेतौ अन्तरिक्षे वा जायते जन--ड

अलुक्स० । १ जलजाते २ अन्तरिक्षजाते “यदग्ने! दिविजा
अप्स्वप्सुजाः” इति ऋ० ८, ४३, २८, “अप्सुजा अन्तरिक्ष-
जाता” इति भा० ।

अप्सुजा पु० अप्सु--जायते जन + विट् अलुक्स० । अश्वे

“अमृताबाष्पतो वह्नेर्वेदेभ्योऽण्डाच्च गर्भतः । साम्नो-
हयानामुत्पत्तिः सप्तधा परिकीर्त्तिता” इत्युक्तेस्तस्य बाष्प-
जातत्वात्तथात्वम् “संशितो अप्स्वप्सुजा ब्रह्मा सोम
पुरोगवः” य० २३, १४, “अप्सुजा अश्व” इति वेददी० ।
२ वेतसे तस्य जलसमीपजातत्वात् तथात्वम् “अप्सुयो-
र्निर्वा अश्वोऽप्सुजा वेतस” इति शत० ब्रा० । ३ जलजात-
मात्रे त्रि० ।

अप्सुजित् त्रि० अप्सून् असुरान् जयति जि--क्विप्

अलुक्समा० । अन्तरिक्षस्थासुरजेतरि “सुपारः शुश्रवस्तमः
समप्सुजितः” ऋ० ८, १३, २, “अप्सुजितः अन्तरिक्षवर्त्त-
मानानामसुराणां जेतारः” भा० ।

अप्सुमत् त्रि० अप्सु आपः जलानि सन्त्यस्य “अपोयोनि-

यन्मतुपः” वार्ति० सप्तम्या मतुप् अलुक्स० च ।
१ जलसंपृक्ते आधारज्यभागे । “अप्सुमन्तावाधाराज्यभागा-
विति” सि० कौ० । २ यथेष्टं ऊललब्धरि च “न हाप्सु
प्रैत्यप्सुमान् भवति, छा० उप० । मरुस्थलीष्वपि यथेष्टो-
दकवान् भवतीति” आनन्दगिरिः ।

अप्सुयोग पु० ७ त० अलुक्समा० । जलेषु योगे । “जिष्णवे

योगायाप्सुयोगैर्वोयुनज्मि” अथ० १०, ७, ५ ।

अप्सुयोनि त्रि० अप्सु योनिरुत्पत्तिरस्य अलुकुसमा० ।

१ जलभवे २ अश्वे पु० “अप्सुयोनिर्वाऽश्वः” इति शत०
ब्रा० । जलजत्वमश्वस्य अप्सुजाशब्दे उक्तम् ।
पृष्ठ ०२६८

अप्सुषद् त्रि० अप्सु जले कारणत्वेन सीदति सद--क्विप्

वेदे षत्वम् । जलस्थे अग्नौ “चन्द्रमग्निं चन्द्ररथं हरिव्रतं
वैश्वानरमप्सुषदम्” ऋ० ६, ३, ५ ।

अप्सुषोम पु० अप्सु अद्भिः सोम इव पवित्रत्वात् “सुपां सु”

पा० व्यत्ययेन सप्तमी अलुक्समा० वेदे षत्वम् । जलपूर्णे चमसः
भेदे “अप्सुषोमानाम चमसाश्चात्वालदेशे अद्भिः पूर्णा”
इति ता० ब्रा० द्राह्यायणसूत्रम् । “पूर्णपात्रान्
समवमृशन्ति यानेकेऽप्सु षोमा इत्याचक्षते” शत० ब्रा० ।

अप्सुसंशित पु० अद्भ्यः संशितः वि० व्य० अलुक्समा०

जलनिमित्तभूते विष्णुक्रमेऽन्तरीक्षे “विष्णोः क्रमोऽसि
सपत्नमप्सुसंशितो वरुणतेजाः” अथ० १०, ५, ३३, ।

अफल त्रि० नास्ति फलं पुष्पप्रभवं धर्म्मप्रभवं सुखादिकं वा यस्य ।

१ बन्ध्ये फलकाले फलशून्ये (राँड़ावृक्षे) २ धर्मकार्यसुखादि-
शून्ये ३ निष्फले च । “यथा षौण्डऽफलः स्त्रीषु यथा
गौर्गवि चाफला । यथा चाज्ञेऽफलं दानं तथा विप्रोऽनृ-
चो’फल इति” मनुः । अफलं दानमाह ममुः “धूर्त्ते वन्दिनि
मल्ले च कुवैद्ये कितवे शठे चाटचारणदासेषु दत्तं भवति
निष्फलमिति” हारीतः । “अथासद्द्रव्यदानमस्वर्ग्यं दत्त्वा
परितप्यते तर्ह्यदानमफलं यच्चोपकारिणे ददाति यच्च
तन्मात्रं परिक्लिष्टं यच्च सोपधं ददाति अन्यश्रावितमल्पं
यच्चापात्राय ददाति अनिष्टदानं स्रवति यच्च दत्त्वा
प्रकीर्त्त्यते स्मयदानं यच्चाश्रद्धया ददाति क्रोधाद्राक्षसं
यच्चाक्रुश्य ददाति दत्त्वा वा क्रोशति असत्कृतं पैशाचं
यच्चावज्ञातं ददाति बावजानीते मुमूर्षोस्तामसं यच्चाप्रकृतो
ददाति” । “एतैर्दानोपसर्गैरुपसृष्टं दानमप्रशस्तमस्वर्ग्य-
मयशस्यमध्रुवफलं भवत्यल्पफलं वा रघु० (झाउ) । ४ झावुकवृक्षे
पु० तस्य फलशून्यत्वात्तथात्वम् । नास्ति फलमिव वृषणावस्य ।
५ इन्द्रे! स हि गौतमशापात् वृषणशून्योमेषवृषणश्चासीत्
यथोक्तं रामायणे “नित्यं पुष्पफलोपेतैः पादपैरूपशोभिते ॥ स
चेह तप आतिष्ठदहल्यासहितो मुनिः । संवत्सरसहस्राणि
बहूनि रघुनन्दन! ॥ तस्यान्तरं विदित्वाथ कामार्तस्त्रिदि-
वेश्वरः । मुनिवेशधरो भूत्वा सोऽहल्यामिदमब्रवीत् ॥
ऋतुकालः प्रतीक्ष्योऽपि न प्रतोक्षे सुमध्यमे । संगमं शोघ्र-
मिच्छामि पृथुश्रोणि! सह त्वया ॥ मुनिवेशधरं शक्रं सा
ज्ञात्वापि परंतप! । मतिं चकार दुर्मेधा देवराजकूतुह-
तात्” इत्युपृक्रम्यः ॥ “सोऽपि दृष्ट्वैव देवेन्द्रं मुनिवेशधरं
मुनिः ॥ दुर्वृत्तं वृत्तसंपन्नो रोषाद्वचनमब्रवीत् । मम
रूपं समास्थाय कृतवानसि दुर्मते! ॥ अकर्तव्यमिदं
यस्मात्तस्मात् त्वं विफलो भव । गौतमेनैवमुक्तस्य सरोषेण
महात्मना ॥ पेततुर्वृषणौ भूमौ सहस्राक्षस्य राघव! ।
व्यथितः स तदा चासीद्धतौजा विफलीकृतः ॥ धर्षित-
स्तपसोग्रेण कश्मलं चापि सोऽविशत्” इत्युक्त्वा । “गौतम
क्रोधमुत्पाद्य सुरकार्यं चिकीर्षुणा ॥ अफलोऽहं कृतस्तेन
क्रोधात् सा च निराकृता । शापदोषेण तेनास्य
तपोविघ्नः कृतो मया ॥ तन्मां सुरगणाः! सर्वे! सर्षिसंघाः!
सचारणाः । सुरकार्यार्थमफलं सफबं कर्तुमर्हथ ॥ शतक्र
तोर्वचः श्रुत्वा देवा अग्निपुरोगमाः । ऊचुः पितृगणान्
वाक्यमिदं तत्र समागतान् ॥ एष मेषः सवृषणःशक्रश्चा-
वृषणीकृतः । अस्येमौ वृषणौ च्छित्त्वा महेन्द्राय प्रयच्छत ॥
अफलस्तु कृतो मेषः परां तुष्टिमुपैष्यति । भवतामुपयोगेन
तच्चास्य सुमहत् फलम् ॥ तस्मान्मेषस्य वृषणौ च्छ्रित्त्वेमौ
दातुमर्हत । इन्द्राय सुरकार्यार्थं विफलाय पितामहाः! ॥
श्रुत्वाथाग्निपुरोगाणां देवानां पितरो वचः । उत्कृत्य
मेषवृषणाविन्द्रायोपददुस्तदा ॥ ततःप्रभृति कावुत्स्थ! पितरः
कव्यभोजिनः । अफलं भुञ्जते मेषं सफलं तु न भुञ्जते ॥
इन्द्रश्च मेषवृषणस्ततःप्रभृति राघव! गौतमस्य प्रभावेन
बभूवामिततेजसः” रामा० ॥ ६ मेषे च तस्य वृषणेन
शक्रवृषणकरणात्तस्य तथात्वम् नास्ति फलं यस्याः जाति-
त्वेऽपि “फलान्नञ” इति पा० ग० अजादित्वात् टाप् ।
७ घृतकुमार्य्याम् ८ भूम्याकल्याञ्च स्त्री तयोः फलशून्य-
त्वात्तथात्वम् । फलं प्रयोजनम् ९ तच्छून्ये त्रि० । “अन्यथा
ते वर्त्तमानस्याधर्म्मोभवतत्यफला च विद्या” सुश्रु० ।
“यथा षण्ड इत्यादि” मनुः ।

अफलाकाङ्क्षिन् त्रि० न फलं कर्मफलमाकाङ्क्षते आ + काङ्क्ष-

णिनि ६ त० न० त० स्त्रियां ङीप् । कर्मफलाकाङ्क्षाशून्ये ।
“अफलाकाङ्क्षिभिर्यज्ञः क्रियते ब्रह्मवादिभिः” गीता ।

अफलित त्रि० फलं जातमस्य तारका० इतच् न० त० ।

फलितभिन्ने बन्ध्ये अफले वृक्षे ।

अफल्गु त्रि० विरोधे न० त० । फल्गुभिन्ने सारे ।

अफुल्ल त्रि० न० त० । फुल्लभिन्ने मुकुलिते ।

अफेन त्रि० नास्ति फेनं यस्य । १ फेनशून्ये दुग्धादौ । निन्दितं

फेनं निर्यासोऽस्य (आफिङ्) ख्याते अहिफेने तस्य
निर्य्यासस्य बहुसेवने प्राणनाशनात् निन्दितफेनत्वम् ।

अब शब्दे इदित् भ्वादि० आत्म० सक० सेट् । अम्बते

आम्बिष्ट अम्बा अम्बाला अम्बिका अम्बरम् अम्बष्ठः ।
पृष्ठ ०२६९

अबद्ध त्रि० बन्ध--क्त न० त० । १ असंबद्धे २ अन्वयबोधयोग्यता-

शून्ये परम्परविरुद्धे वाक्ये च यथा “यावज्जीवमहं मौनी
ब्रह्मचारी च मे पिता माता तु मम बन्ध्यासीदपुत्रश्च
पितामहः” इत्यादि वाक्यम् । ३ बद्धभिन्ने मुक्ते च ।

अबद्धमुख त्रि० न बद्धं यथेच्छवादितया अप्रतिरुद्धं

मुखमास्यक्रिया यस्य स्त्रियां वा ङीप् । अप्रियवादिनि
“सत्यं ब्रूयात् प्रियं ब्रूयात् न ब्रूयात् सत्यमप्रियमिति”
मनुनाऽप्रियवचनकथनस्य निषेधेऽपि तदुल्लङ्घनेन अप्रिय-
वाक्यप्रयोक्तृत्वेन तस्य तथात्वम् ।

अबध पु० न बधस्ताडनं देहे आघातः प्राणवियोजनं वा

अभावे न० त० । ताड़नाभावे । “शिष्यशिष्टिरबधेनाशक्तौ
वेणुदलेनेति” मिता० स्मृतिः । १ प्राणवियोजनाभावे च ।

अबधा स्त्री न बध्यतेऽस्यते लम्बेन । लीलावत्युक्ते त्रिकोणादि

क्षेत्रे लम्बोभयपार्श्वस्थे भूमिखण्डे । न, बाध्यते आबाध्यते
वा, अवाधा आवाधाऽप्यत्र । तदानयनञ्च “त्रिभुजे भुजयो-
र्योगस्तदन्तरगुणो भुवा हृतो लब्ध्या । द्विःस्था भूरूनयुता
दलिताऽबाधे तयोः स्यातामिति” लीला० । “दशसप्तदशप्रमौ
भुजौ त्रिभुजेयत्र नवप्रमा मही । अबधे वद लम्बकं
तथा मणितं गाणितिकाशु तत्र मे” इति लीला०
अबधोद्देशकः ।

अबध्य त्रि० बधमर्हति यत् न० त० । १ बधानर्हे प्राणवियोग

फलकव्यापारो हिंसात्र बधः । “अबध्याञ्च स्त्रियं प्राहु-
स्तिर्य्यग्योनिगतामपि” स्मृतिः । २ बधदण्डानर्हे ब्राह्मणे
च “बधः सर्वस्वहरणं पुरान्निर्वासनाङ्कने । तदङ्कच्छेद
इत्युक्तो दण्ड उत्तमसाहसः । अविशेषेण सर्वेषामेष-
दण्डविधिः स्मृतः । बधादृते ब्राह्मणस्य म बधं ब्राह्मणो-
र्हति” मिता० स्मृतिः । “उपस्थमुदरं जिह्वा हस्तौ
पादौ च पञ्चमौ । चक्षुर्नासा च कर्णौ च धनं देहस्तथैव च
दश स्थानानि दण्डस्य मनुः स्वायम्भुवोऽब्रवीत् त्रिषु वर्णेषु
यानि स्युरक्षतो ब्राह्मणोव्रजेदिति” मनुः बन्ध--बा०
क्यप् । ३ अयोग्यवाक्ये हे० मे० च ।

अबन्धक न० बध्यते स्वधनमितरत्र आधीयते बन्ध आधीय-

मानद्रव्यं स नास्ति यत्र कप् । १ आधिशून्ये ऋणादाने ।
“अशीतिभागोवृद्धिः स्यान्मासिमासि सबन्धके । वर्ण्ण-
क्रमाच्छतं द्वित्रिचतुःपञ्चकमन्यथा” या० “अन्यथा बन्धक-
रहिते” मिता० “दद्युर्वा स्वकृतां वृद्धिं सर्वे सर्वासु
जातिषु” या० व्याख्यायाम् “ब्राह्मणादयोवर्ण्णा अबन्धके
सबन्धके वा स्वकृतां वृद्धिं सर्वासु जातिषु दद्युः” विज्ञा० ।
अस्य पा० उपकादिगणपाठात् “उपकादिभ्योऽन्यतरस्यामद्वन्द्वे
च” पा० सूत्रेण गोत्रप्रत्ययस्य बहुत्वे लुग्विधानात् कस्मि-
श्चित् २ गोत्रप्रवर्त्तके ऋषावपि अस्य रूढ़िः ।

अबन्धुर त्रि० न० त० । १ उन्नतानतभिन्ने २ शोभनभिन्ने

३ विधुरबन्धुरबन्धुरमैक्षतेति” माघः ।

अबन्ध्य त्रि० बन्ध्यः अफलः । १ सफले, “अबन्ध्यं दिवसं कुर्य्यात्

दानाध्ययनकर्म्मभिः” स्मृतिः २ अफलभिन्ने फलकाले
फलयुक्ते वृक्षे पु० ।

अबल न० न बलं सामर्थ्यमुत्कर्षोवाऽभावे न० त० । १ बलाभावे

“प्रायश्चित्तं प्रदातव्यं दृष्ट्वा तस्य बलाबलम्” स्मृतिः ।
“गन्धानाञ्च रसानाञ्च ज्ञात्वा चार्घबलाबलम्” मनुः ।
बलमुत्कर्षमबलमनुत्कर्षम्” इति कुल्लू० । नास्ति बलं
यस्य । २ बलहीने दुर्बले त्रि० “पञ्चवर्गीबलेनोनो न हर्ष-
स्थानमाश्रितः अबलोऽयं लग्नदर्शीति नी० ता० ।
अबलस्वकुलाशिनो झसान्निजनीडद्रुमपीड़िनः खगान्” नैष० ।
३ नार्य्यां स्त्री “भुजलतां जड़तामबलाजनः” रघुः । “हृदये
वहसि गिरीन्द्रौ त्रिभुवनजयिनी कटाक्षेण । अचला त्वं
यदि मन्थे के बलवन्तोन जानीम” इत्युद्वटः । ५ ब० ।
४ वरुणवृक्षे पु० ।

अबलिमन् पु० बलस्य भावः इमनिच् विरोधे न० त० । रोगदिनिमित्ते देहस्य कृशीभावे ।

अबाध पु० अभावे न० त० । १ बाधाभावे २ प्रतिबन्धाभावे ।

नास्ति बाधो यस्य । ३ बाधशून्ये त्रि० । बाधश्च असत्त्वं
स चानुमापकहेतौ दोषभेदः वह्यभाववध्रदत्वं हि बाध
दोषः यत्सत्त्वेऽनुमितेः प्रतिबन्धः तस्य हेतुदूषकत्वमिति
नैया० । नास्ति बाधा पीड़ायस्य । ४ पीड़ाशून्ये त्रि० ।

अबाधक त्रि० न० त० । १ बाधकभिन्ने अनुगुणे । नास्ति ।

बाधो यस्य वा कप् । २ बाधशून्ये त्रि० ।

अबाधित त्रि० न बाधितः । बाधितभिन्ने यथार्थे “अबा-

धितागृहीतनिश्चयत्वं प्रमात्वमिति” वृद्धाः । तद्वति
तत्प्रकारकं ज्ञानं हि प्रमा तच्च तदभाववति तत्प्रकारक-
ज्ञानेन प्रतिबध्यते तथा च तदभाववति तत्प्रकारकता-
शून्यत्वेन ज्ञानस्ययाथार्थ्यं, तादृशज्ञानविषयत्वात्
विषयस्याबाधितत्वम् ।

अबाध्य त्रि० न बाध्यते अपोद्यते बाध--ण्यत् न० त० । अप्रतिरोध्ये ।

अबाल त्रि० न० त० । १ बालभिन्ने पूर्ण्णे चन्द्रादौ २ तरुणे च ।

अबिन्धन पु० आप एव इन्धनमुद्दीपनसाधनमस्य । बाड़-

वाग्नौ “अविन्धनं वह्निमसौ बिभर्त्ति” रघुः ।
पृष्ठ ०२७०

अबुद्ध त्रि० बुध--कर्त्तरि कर्म्मणि वा क्त न० त० । १ बोधानाश्रये

२ बोधाविषये च ।

अबुद्धि स्त्री अभावे न० त० । १ ज्ञानाभावे यस्य यद्रूपेण ज्ञानमुचितं २ तथाज्ञानाभावे ।

अबुद्धिपूर्व्वक त्रि० अबुद्धिः पूर्ब्बा यस्य । यथार्थबुद्धिपूर्व्वक-

भिन्ने । “अबुद्धिपूर्ब्बहनने व्रतार्द्धमुपकल्पयेत्” स्मृतिः यदि
गां गवयबुद्ध्या हन्ति, गवयं वा गोभ्रान्त्या हन्ति, सर्वथा-
ऽबुद्धिपूर्बकत्वम्--एवसन्यार्थक्षिप्ननाराचादिना हणनेऽपि
तथात्वम् । इयं गौरिमां हन्मीत्युदेशेनैव हनने बुद्धि-
पूर्बकत्वम् ।

अबुध पु० विरोधे अप्राशस्त्ये वा न० त० । १ बुधभिन्ने मूर्खे २ अल्पज्ञाने च ।

अबु(बो)ध्य त्रि० बुध बा० वेदे क्यप् लोके तु ण्यत् ।

ज्ञातुमशक्येऽर्थे “अबुध्यमबुध्यमानं सुषुपाणमिन्द्रम्” ऋ०
४, १८, ३, “अबुध्यं दुर्विज्ञेयमिति” भा० ।

अबुध्न न० नास्ति बुध्नं मूलमस्य । १ मूलशून्ये अन्तरिक्षे

“अबुध्ने राजा वरुणो बलस्योर्द्ध्वम्” ऋ० १, २४, ७, “अबुध्ने
मूलशून्ये अन्तरिक्षे” भा० । २ मूलशून्यमात्रे करकादौ त्रि० ।

अबोध पु० अभावे न० त० । १ बोधाभावे अज्ञाने “निसर्ग-

दुर्बोधमबोधविक्लवाः” किरा० । न० । ब० । २ बोधरहिते त्रि० ।

अबोधगम्य त्रि० बोधेन गम्यः विषयीकार्य्यः न० त० ।

ज्ञानेनाविषयीकार्य्ये ज्ञातुमशक्ये ।

अब्ज न० अप्सु जायते जन--ड ७ त० । १ पद्मे २ शङ्खे पुंन० ।

३ निचुलवृक्षे तस्य जलप्रायभवत्वात् तथात्वम् १ चन्द्रे
५ धन्वन्तरौ च पु० तयोः समुद्रजातत्वात् तथात्वम् “प्रस-
न्नात्मा समुत्पन्नः सोमः शीतांशुरुज्ज्वलः” इति “धन्वन्तरि-
स्ततोदेव! वपुष्मानुदतिष्टत” इति च भा० आ० प० ।
चन्द्रनामकत्वात् ६ कर्पूरे पु० । “अर्बुदमब्जं खर्वनिखर्वमहा-
पद्मशङ्कवस्तस्मादिति” लीलावत्युक्तदशार्वुदसंख्यायां ७
शतकोटिसंखायां ८ तत्संख्येये च न० । ९ जलजातमात्रे त्रि०
“स्थलजाः पक्षिणोऽब्जाश्च” इति “अब्जेषु चैव रत्नेषु
सर्व्वेष्यश्ममयेषु च” इति रामा० ।

अब्जकर्ण्णिका स्त्री अब्जस्य कर्ण्णिका कर्ण्णाभरणभेदैव तुल्याका-

रत्वात् । पद्ममध्यस्थसवर्त्तिकाख्ये पद्मावयवभेदे पद्मकर्ण्णिका-
दयोऽप्यत्र ।

अब्जज पु० अब्जात् विष्णोर्नाभिकमलात् जायते जन--ड ।

चतुर्मुखे ब्रह्मणि तस्य विष्णुनाभिकमलजातत्वात्तथात्वम्
“दृष्ट्वा भूतानि भगवान् लोकसृष्ठ्यर्थमव्ययः । ब्रह्मणोजन्म-
सहितं बहुरूपं विचिन्वति” । इत्युपक्रम्य “ततस्तस्मिन्महा-
तोये हविषो हरिरच्युतः । स्वपन् क्रीड़ंश्च विविधं मोदते
वैस पावकिः पद्मं नाभ्युद्भवं चैकं समुत्पादितवांस्ततः ।
सहस्रपर्ण्णं विरजो भास्कराभं हिरण्मयम् । अथ
योगविदां श्रेष्ठं सर्वभूतमनोमयम् । स्रष्टारं सर्वभूतानां ब्रह्माणं
सर्वतोमुखम् । तस्मिन् हिरण्मये पद्मे बहुयोजनविस्तृते ।
इति समुत्पादितवानित्याकर्षः अनतिदूरे चं “कस्त्वं
पुष्करमध्यस्थः सोतोष्णीषश्चतुर्मुखः । आवां न गणये-
र्गोहादास्मे त्वं विगतज्वरः । एह्यावयोर्बाहुयुद्धं प्रयच्छ
कमलोद्भव! । इति तेन तस्य विष्णुनाभिकमलज त्वं
तद्स्थृत्वञ्च हरि० पौ० प० । “स्वराशौ स्वांशगे सौम्ये (बुधे)
लग्नस्थे वा भृगोः सुते । जीवे वाऽब्जजयोगोऽयं यातुः
शत्रुविनाशकृदिति” ज्योतिषोक्ते २ यात्रायोगभेदे च ।

अब्जबान्धव पु० अब्जानां बान्धबैव प्रकाशकत्वात् ।

कमलप्रकाशके सूर्य्ये तस्योदये हि कमलं विकाशते इति
कविसम्प्रदायप्रसिद्धिः । एवं कमलबान्धवादयोऽप्यत्र ।

अब्जभोग पु० अब्जस्य शङ्खस्य भोगः अवयवैव भोगोयस्य ।

शङ्खावयवतुल्यावयवे वराटके । भुज्यते भुज--कर्म्मणि
घञ् भोगः भोज्यम् । अब्जस्य भोज्यांशे पद्मकन्दे शालूके
तस्य लोकैर्भुज्यमानत्वात् तथात्वम् कमलभोगादयोऽप्यत्र ।

अब्जयोनि पु० अब्जं विष्णुनाभिकमलं योनिरुत्पत्तिस्थानं

यस्य । चतुर्मुखे ब्रह्मणि । विस्तरोऽब्जजशब्दे दृश्यः ।

अब्जवाहन पु० अब्जस्य चन्द्रस्य वाहनं धारणं येन “अब्जं

शङ्क्ष इव शुभ्रं वाहनं वृषरूपं यस्य वा । १ चन्द्रमौलौ
शिवे । अब्जं कमलं वाहनमिवाधारो यस्याः । २ पद्मा-
सनस्थायां लक्ष्म्याम् “पद्मासनस्थां ध्यायेच्च श्रियं त्रैलोक्यं
मातरमिति” तद्ध्याने उक्तेः तस्या अब्जवाहनत्वम् कमलादि
वाहनाप्यत्र ।

अब्जस् न० आप्यते जन्मतः आप--असुन् जुट्--ह्रस्वश्च ।

सूपे उ० द० । तस्य जन्मावधिप्राप्तत्वेन तथात्वम् ।

अब्जस्थित पु० । अब्जे विष्णुनाभिकभले स्थितः स्था--क ।

चतुर्मुखे ब्रह्मणि “स नाभिकमले विष्णोः स्थितो ब्रह्मा
प्रजापतिः देवी अधिकमब्जजशब्दे दृश्यम् ।

अब्जहस्त पु० अब्जं पद्मं हस्ते यस्य । सूर्य्ये “पद्मासनं

पद्महस्तम्” इति तद्ध्यानोक्तेस्तथात्वम् ।

अब्जा त्रि० अप्सु जायते जन--विट् ७ त० । जलजातमात्रे

“अब्जामुक्थैरहिं गृणीषे” ऋ० ७, ३४, १६, “अब्जामप्सजात-
महिम्” भा० ।

अब्जिनी स्त्री अब्जानां समूहः अब्ज + इनि--ङीप् । पद्मसमूहे ।

अब्जानां देशःपुष्करा० इनि । २ पद्मलतायाम् च ।

अब्जिनीपति पु० अब्जिन्याः पद्मसमूहस्य पतिःपकाशकत्वात् ।

कमलप्रकाशके सुर्य्ये । पद्मिनीनाथतत्पत्यादयोःप्यत्र ।
पृष्ठ ०२७१

अ(व्द)ब्द पु० अवति रक्षति सीमानं दन् । १ पर्वतभेदे स च

वर्षपर्वत एव तद्भेदः वर्षपर्वतशब्दे वक्ष्यते । अपोददाति
दा--क ६ त० । २ मेघे ३ मुस्तायां च तस्याश्चात्यन्तशीतवीर्य्य-
त्वेन वैद्यकोक्तेः जलमयमूलत्वाच्च तथात्वम् । आप्यन्ते
व्याप्यन्ते ऋतुमासपक्षतिथिनक्षत्रयोगकरणवारादयो येन
आप--दन् ह्रस्वश्च “अ(ब्दा)ब्दादयश्च” उ० नि० । ४ वत्सरे ।
स च नवविधः । “ब्राह्मं दिव्यं तथा पित्र्यं प्राजापत्यं
गुरोस्तथा सौरञ्च सावनं चान्द्रमार्क्षं मानानि वै नवेति”
सू० सि० उक्तेः तत्र ब्राह्माब्दमानम् “सूर्य्याब्दसंख्यया
द्वित्रिसागरैरयुताहतैः सन्ध्यासन्ध्यंशसहितं विज्ञेयं तच्चतुर्यु-
गम् इथं युगसहस्रेण भूतसंहारकारकः कल्पी ब्राह्ममहः
प्रोक्तं शर्वरी तस्य तावतीति” परमायुः शतं तस्य तयाहोरात्र-
संख्यया” इति च सू० सि । तथाच सौरैः (४३२००००००००)
एतावद्वर्षैस्तस्याहस्तावद्भिश्च रात्रिः तेन द्विगुणितैस्तैः
३६० गुणितैर्ब्राह्माब्दमानम् । अथ दिव्यम् “मासैर्द्वादश-
भिर्वर्षं दिव्यं तदहरुच्यते तत्षष्टिः षड्गुणा दिव्यं वर्ष-
मासुरमुच्यते” इति तत्रोक्तेः ३६० सौरवर्षैर्दिव्याब्दमानम्
“मन्वन्तरव्यवस्था च प्राजापत्यमुदाहृतम् न तत्र द्युनिशोर्भेद
इति तत्रोक्तम् मन्वन्तरमानमेव प्राजापत्याब्दमानम् तच्च
“युगानां ४३२०००० सप्ततिः सैका मन्वन्तरमुदाहृतम्”
इत्युक्तम् तेन ७१ गुणितैः ३११०४००० सौरवर्षैः प्राजाप-
त्यम् । पित्र्यं तु “त्रिंशता तिथिभिर्मासश्चान्द्रः पित्र्यमहः
स्मृतम् निशा च मासपक्षान्तौ तयोर्मध्ये विभागतः”
इत्युक्तेः चान्द्रमास एव पित्र्यमहोरात्रं तच्च ३६० गुणितं
तद्वर्षमानम् तथाच १०८०० चान्द्रदिनैः पित्र्यवर्षमान-
मितिफलितम् । वार्हस्पत्यन्तु “वैशाखादिषु कृष्णे च योगः
पञ्चदशे तिथौ । कार्त्तिकादीनि वर्षाणि गुरोरस्तोदयात्
तया” सू० सि० “यया पौर्णमास्यां नक्षत्रसम्बन्धेन तत्संज्ञो
मासो भवति तथेति समुच्चयार्थकम् । वृहस्पतेः सूर्य्य-
सान्निध्यदूरत्वाभ्यामस्तादुदयाद्वा वैशाखादिषु द्वादशसु
मासेषु कृष्णपक्षे पञ्चदशे तिथौ अमायामित्यर्थः । चकारः
पौर्णमासीसम्बन्धात् समुच्चयार्थकः । योगो दिननक्षत्र-
सम्बन्धः कार्तिकादीनि द्वादश वर्षाणि भवन्ति । वैशाख-
कृष्णपक्षपञ्चदश्याममारूपायां वृहस्पतेरस्ते उदये वा
जाते सति तदादि वृहस्पतिवर्षं कृत्तिकादिनक्षत्रसम्बन्धात्
कार्त्तिकसंज्ञम् । एवं ज्यैष्ठाषाढश्रावणभाद्रपदाश्विनकार्त्तिक-
मार्गशीर्षपौषमाघफाल्गुनचैत्रामासु क्रमशो मृगपुष्यमघापूर्ब-


फाल्गुनीचित्राविशाखाज्येष्ठापूर्व्वाषाढाश्रवणापूर्बभाद्रा-
श्विनीनक्षत्रसम्बन्धान्मार्गशीर्षादीनि भवन्ति । अत्रापि
नक्षत्रद्वयत्रयसम्बन्धः चान्द्रमासवत् बोध्यः । तच्च मासशब्दे
दृश्यम् तेन यद्दिने वृहस्पतेरुदयोऽस्तो वा तद्दिने यच्चन्द्रा-
धिष्ठितनक्षत्रं तत्संज्ञं वार्हस्पत्यं वर्षं भवतीति तात्पपर्य्यम् ।
मेषादिसंक्रान्तीरुक्त्वा “मेषादयो द्वादशैव सौरमाने तु वत्सर”
इति “सौरन्तु तद्भवेन्मानं भानोर्भगणपूरणादिति”
चोक्तेः ३६० सौरदिवसैः सौरवर्षमानम् । सावनन्तु
“उदयादोदयं भानोः सावनं तत्प्रकीर्त्तित” मित्युक्तम् ।
“पञ्चाङ्गरामास्तिथयः खरामाः सार्द्धद्विदस्राः कुदि-
नाद्यमब्दे” इति सि० शि० उक्तेः ३६५, दिनानि
१५, ३०, २२, ३०, दण्डादिसहितानि सावनदिनानि
“अस्यार्कमासोऽर्कलवः प्रदिष्टस्त्रिंशद्दिनः सावनमास”
इति सि० शि० उक्तदिशा तन्मासादयोज्ञेयाः । “त्रिं-
शता तिथिभिर्मासश्चान्द्र इति” प्रागुक्तं चान्द्रमानम्
तच्च “कालेन येनैति पुनःशशीनं क्रामन् भचक्रं विवरेण
गत्योः मासः स चान्द्रोऽङ्कयमाः कुरामाः शून्येषवस्तत्
कुदिनप्रमाणम्” इति सि० शि० उक्तेः ३१ । ५० दण्डादि-
युतैरेकोनत्रिंशत्कुदिनैश्चान्द्रमासः द्वादशगुणिते च तस्मिन्
३५४ । १८ कुदिनैश्चान्द्रबर्षमानम् चान्द्रमासविशेषाः
मासशब्देवक्ष्यन्ते । नाक्षत्रं यथा “भचक्रभ्रमणं नित्यं नाक्षत्रं
दिनमुच्यते” सू० सि० नित्यं प्रत्यहं भचक्रभ्रमणं नक्षत्रससूहस्य
प्रवहवायुकृतः परिभ्रमः नाक्षत्रं नक्षत्रसंवन्धि दिनम् ।
एवं००२०नवसु ब्राह्मादिषु वर्षेषु दर्शितेषु चतुर्ण्णामेव
व्यवहारोपयोगिता यथोक्तं “चतुर्भिव्यवहारोऽत्र
सौरचान्द्रार्क्षसावनैः वार्हस्पत्येन षष्ट्यब्दं ज्ञेयं नान्यैस्तु
नित्यश” इति सू० सि० । तत्र कस्य कुत्रोपयोगस्तदप्युक्तं
तत्रैव । “सौरेण द्युनिशोर्वामं षड़शीतिमुखानि च अयनं
घिषुवच्चैव संक्रान्तेः पुण्यकालता” इति “तिथिःकरणमुद्वाहः
क्षौरं सर्ब्बक्रियास्तथा व्रतोवासयात्राणां क्रिया चान्द्रेण
गृह्यते” इति “सावनानि स्युरेतेन यज्ञकालविधिस्तु तैः
सूतकानां परिच्छेदोदिनमासाब्दपास्तथा मध्यमग्रहभुक्तिश्च
सावनेनैव गृह्यते” सू० सि० । चान्द्रेण तु मासवर्षादि-
गणनापि “चैत्रे मासि जगत्स्रष्टा ससर्ज प्रथमेऽहनि
शुक्लपक्षे समग्रन्तु ग्रहतारोदये सति प्रवर्त्तयामास
तदा कालस्य गणनामपि ग्रहान् राशीनृतून् मासान्
वत्सरान् वत्सराधिपान्” इति म० त० ब्र० पु० ।
“यत्राब्दे पुण्यसहमं शुभं सोऽब्दः शुभप्रदः” इति नी० ता० ।
पृष्ठ ०२७२

अब्दप पु० अब्दं पाति पा--क । १ वर्षाधिपे तदानयनप्रकारश्च

सि० शि० दर्शितः यथा “अधोऽधस्त्रिधा कल्पयाताब्दवृन्दात्
कराभ्यां, कृतैः, पावकैः, संगुणाच्च । भुजङ्गैरवाप्तं फलं
स्याद्दिनाद्यं तदब्दान्वितं भास्करादब्दपः स्यात्”
अत्रोपपत्तिः । एकस्मिन् रविवर्षे सावनाहाः प्राक्
प्रतिपादिताः ३६५ । १५ । ३० । २२ । ३० एतदष्टभिः
सवर्णितं कार्य्यम् । ततोऽनुपातः । यद्यष्टभिर्वर्षैरेताव-
द्दिनाद्यं तदा कल्पगतैः किमिति । फलं दिनाद्यम् ।
तदनष्टं संस्थाप्यम् । ततो गताब्दैर्युतं सदब्दपतिः
स्यादिति यदुक्तं तद्युकम् । यतः पञ्चषष्ट्यधिकशतत्रये
मप्तभिर्भक्ते एकोऽवशिष्यते । अत एकगुणाब्दसंख्या तस्मिन्
दिनाद्ये निक्षिप्ता । तस्मिन् सप्ततष्टेऽर्काद्योऽब्दपतिः ।
यतो यस्मिन् वारेऽब्दादिः सोऽब्दपतिः स्यादित्युपपन्नम् ।
ताजिकोक्ते २ वर्षाधिपतौ च तदानयनप्रकःरश्च जन्मलग्न-
पतिवर्षलग्नाषिपतिमुन्यहाधिपतित्रिराशिपतीनां दिवा-
सूर्य्याक्रान्तराशिपतेः रात्रौ चन्द्राक्रान्तराशिपतेश्चैषां पञ्चा-
धिकःरिणां मध्ये द्वादशवर्गीबलेन पञ्चवर्गीबलेन वीपेतः
लम्नदर्शी वर्षाधिपतिः । बलसाम्ये दृष्ट्यतिरेकात्, तत्रापि
साम्ये वृष्ट्यभावे च मुथहेश्वरः, वर्षाधिपः । “अब्दपबलस्य
विचारणेत्थम्” नी० ता० । अब्दपत्यादयोऽप्यत्र ।

अब्दसार पु० अब्दस्य मुस्तायाः सारः मूलनिर्यासः । कर्पूरेतस्य

मुस्तामृलसारजत्वात्तथात्वम् घनसारमेघसारादयोऽप्यत्र ।

अब्दवाहन पु० अब्दोमेघोवाहनमस्य । इन्द्रे ।

अब्दिमान् त्रि० अपां दानमब्दिः दा० बा० भावे कि ६ त०

ततः अस्त्यर्थे मतुप् । जलदानवति “अब्दिमानुदधिमान्”
ऋ० ५, ४२, १४, “अपांदानवान् मेघ” इति भा० ।

अब्दुर्ग अद्भिर्वेष्टितं दुर्गं शा० त० । सर्वतोवेष्टितेनोदके-

नोपलक्षिते दुर्गे (गड़) “धन्वदुर्गं महीदुर्गमब्दुर्गं वार्क्षमेव
च । नृदुर्गं गिरिदुर्गं वा समाश्रित्य वसेत् पुरम्” मनुः ।

अब्दैवत त्रि० आपोदैवतान्यस्य । १ जलदेवताके मन्त्रभेदे

“उदित्तृचा वारुणेन तृचेनाब्दैवतेन च” मनुः “स्नानमब्दै-
वतैर्मन्त्रैर्मार्जनं प्राणसंयम” इति या० । स च मन्त्रः
“आपोहि ष्ठा मयोभुव” इत्यादिस्तृचात्मकः । य०
११, ५०, ५१, ५२ । २ जलदेवताके पूर्ब्बाषाढानक्षत्रे च ।

अब्धि पु० आपो धीयन्तेऽस्मिन् धा--आधारे कि उप० स० ।

१ सरोवरे २ समुद्रे च स च जम्बूद्वीपपूर्ब्बापरादिवर्त्तिता
भेदेन चतुर्विधः यथोक्तं भागवते “तत्र चतुर्द्धा विभज्यमाना-
चतुर्भिर्नाभमिश्वतुर्दिशमभिष्यन्दन्ती नदनदीपतिमेवाभि-
निविशति, सीतालकनन्दावङ्कुर्भद्रेति । सीता तु ब्रह्मसद-
नात् केशराचलादिशिखरेभ्योऽधोऽधःप्रसवन्ती गन्ध-
मादनमूर्द्ध्वसु पतित्वान्तरेण भद्राश्वं वर्षं प्राच्यां दिशि क्षार
समुद्रमभिप्रविशति । एवं माल्यवच्छिखरान्निष्पतन्ती तत
उपरतवेगा केतुमालमभिवङ्क्षु प्रतीच्यां दिशि संरित्पतिं
प्रविशति । भद्रा चोत्तरतोमेरुशिखरतो निपतिता गिरि
शिखराद्गिरिशिखरमतिहाय शृङ्गवतः शृङ्गादवस्यन्दमाना
उत्तरांस्तु कुरूनभित उदोच्यां दिशि लवणार्णवं प्रविशति ।
तथैवालकनन्दा दक्षिणेन ब्रह्मसदनाद्बहूनि गिरिकूटानि
अतिक्रम्य हेमकूटहिमकूटान्यतिरमसरंहसालुठन्ती भारत-
मभिवर्षं दक्षिणस्यां दिशि लवणजलघिमभिप्रविशति” अत
एव ततसंख्यातुल्यसंख्याकचतुःसंख्याबोधकताऽस्य । “पञ्च
पञ्चयुगषट्कलोचनद्व्यब्धिषड्गुणमिता ६४२२६२५५ गुरो-
र्मता” । “खाष्टाब्दयो (४८०)ऽष्टाक्षगजेषुदिग्द्विपद्विपाब्धयः
४८८१०५८५८, इति च सि० शि० । सप्तद्वीपान्तरालस्थ
लवणादिभेदात् सप्तविधोऽपि यथोक्तं सि० शि० “भूमेरधे
क्षारसिन्धोरुदक्स्थं जम्बूद्वीपं प्राहुराचार्य्यवर्य्याः ।
अर्द्धेऽन्यस्मिन् द्वीपषट्कस्य याम्ये क्षारक्षीराद्यम्बुघीनां
निवेशः । लवणजलधिरादौ दुग्धसिन्धुश्च तस्मादमृतम
मृतरश्मिः श्रीश्च यस्माद्बभूव । महितचरणपद्मः पद्मजन्मा-
दिदेवैर्वसति सकलवासो वासुदेवश्च यत्र । दध्नो घृतस्ये-
क्षुरसस्य तस्मान्मद्यस्य च स्वादुजलस्य चान्त्यः । स्वादू-
दकान्तर्बडवानलोऽसौ पाताललोकाः पृथिवीपुटानि” ।
तेषाञ्च द्वीपद्वयान्तरालस्थितिमूलम् अब्धद्वीपाशब्दे दृश्यम्
तेन तत्संख्यातुल्यसप्तसंख्यकेऽप्यस्य क्वचित् प्रवृत्तिः
अतएव सप्तद्वीपेत्यर्थे अब्दिद्वीपेति प्रयुक्तम् । “चतुरः
सप्त वाम्बुधीन्” वाग्भटालङ्कारः ।

अब्धिकफ पु० अब्धेः समुद्रस्य कफ इव । समुद्रफेने ।

अब्धिज ०० अब्धौ जायते जन--ड ७ त० । १ चन्द्रे २ शङ्खे

३ समुद्रजातमात्रे त्रि० ४ लक्ष्म्यां स्त्री । ५ अश्विनीकुमा-
रयोः द्वि० व० । एतेषाञ्च समुद्रजातत्वात्तथात्वम् ।

अब्धिद्वीपा स्त्री अब्धिसंख्याता लवणादिसप्तसंख्याता द्वोपा

अस्याः । जम्बूप्रभृतिसप्तद्वीपवत्याम् पृथिव्याम् । “शाकं
ततः शाल्मलमत्र कौशं क्रौञ्चं च गोमेदकपुषकरे च । द्वयो-
र्द्वयोरन्तरमेकमेकं समुद्रयोर्द्वीपमुदाहरन्ति” सि० शि० ।

अब्धिनगरी स्त्री अब्धी तत्समीपे नगरी । द्वारकायां तस्याः

समुद्रसन्निकृष्टत्यात् समुद्रोत्सृष्टभूमौ रचितत्वाच्च तथात्वम्
यथा “इयं द्वारवती नाम पृथिव्यां निर्म्मिता मया भविष्यति
पृष्ठ ०२७३
पुरी रम्या शक्रस्येवामरावती” त्युपक्रम्य “यदीच्छेत् सागरः
किञ्चिदुत्स्रष्टुमिह तोयराट् । ततः स्वायतलक्षण्या पुरी
स्यात् पुरुषोत्तम । एवमुक्तस्ततः कृष्णः द्रागेव कृतनिश्चयः ।
सागरं सरितां नाथमुवाच वदतांवरः । समुद्र! दश च
द्वे च योजनानि जलाशये । प्रतिसंह्रियतामात्मा यद्यस्ति
मयि मान्यता । अवकाशे त्वया दत्ते पुरीयं मामकं
बलम् । पर्य्याप्तविषयारामा समग्रं विपहिष्यति ततः
कृष्णस्य वचनं श्रुत्वा नदनदीपतिः । स मारुतेन योगेन
उत्ससर्ज्ज जलाशयम्” । इति हरिवंशः ।

अब्धिनवनीतक पु० अब्धेर्तवतीतमिव कायति प्रकाशते कै--क ।

चन्द्रे--ग० र० तस्य क्षीरसारतुल्यत्वात् तथात्वम् ।

अब्धिफेन पु० ६ त० । समुद्रफेने ।

अब्धिमण्डूकी स्त्री अब्धिं मण्डयति मण्ड--ऊक गौरा०

ङीष् ६ त० । मुक्तासाधने शुक्तौ ।

अब्धिशय पु० अब्धौ शेते शी--अच् ७ त० । समुद्रस्थवटपत्रशय्या-

याम् अहौ वा शय्यायां शायिनि विष्णौ । खण्डप्रलय-
मुपक्रम्य “ततस्तं मारुतं घोरं स्वयम्भूर्मनुजाधिप! ।
आदिःपद्मालयोदेवः पीत्वा स्वपिति भारत! । तस्मिन्नेवार्णवे
घोरे” इत्युपक्रम्य ॥ “ततः कदाचित् पश्यामि तस्मिन्
सलिलसञ्चये । न्यग्रोधं सुमहान्तंवै विशालं पृथिवीपते! ।
शाखायां तस्य वृक्षस्य विस्तोर्ण्णायां नराधिप! । पर्य्यङ्के
पृयिवीपाल! विस्मयः सुमहानभूत् । कयं त्वयं शिशुःशेते
लोके नाशमुपागते भा० व० मार्क० प० १८८३ देवी-
माहात्म्ये तु “एकार्ण्णवेऽहिशयने योगनिद्रामुपागत” इत्य-
हिशयनत्वमुक्तम् ।

अब्ध्यग्नि पु० अब्धौ स्थितोऽग्निः । वड़वानले तत्कथा और्व-

शब्दे दृश्या । अब्धिदहनादयोऽप्यत्र ।

अब्भक्ष पु० अपो भक्षयति भक्ष--अण् उप० स० । १ सर्पभेदे

२ जलमात्राहारे त्रि० । “अब्भक्षो वायुभक्षश्च उपवास
परस्तत” इति पुरा० ।

अब्भ्र(भ्र) न० अपोबिभर्त्तिक अभ्र गतौ-अच् वा वा द्वित्वम् ।

१ मेघे “अ(भ्रा)बभ्राणि विभ्राणमुमाङ्गसङ्गेति” माघः ।
२ मेघनामायां मुस्तायाम्, (आभ) ३ धातुभेदे च ।
मेघनुल्याकारत्वात्तस्य तथात्वम् । ४ मेघाधारे आकाशे न० ।

अब्भ्रं(भ्रं)लिह पु० अब्भ्रं(भ्रं) लेढि स्पृशति लिह--खश्

मुम् च । उच्चशिखरे “अब्भ्रंलिहाग्रं रविमार्गभङ्गमिति”
भट्टिः । “अब्भ्रंलिहानि लिलिहे नवपल्लवानीति” माघः ।

अब्भ्र(भ्र)क पु० अब्भ्र(भ्र)मिव कायति राजते कै--क ।

(आम) घातुभेदे । मेघतुल्याकरत्वात्तस्य तथात्वम् ।

अब्भ्र(भ्र)ङ्कष त्रि० अ(ब्भ्रं)भ्रं मेघं कषति शोषयति

कष--खच् मुम् च । १ वायौ । २ अत्युच्चे त्रि० ।

अब्भ्र(भ्र)पुष्प न० अबभ्र(भ्र)स्य पुष्पमिष शुभ्रत्वात् कार्य्य-

त्वाच्च । १ जले । अबभ्र(भ्र)मिव पुष्पमस्य ब० । २ वेतस-
वृक्षे पु० ।

अब्भ्र(भ्र)मातङ्ग पु० अबभ्रा(भ्रा)धिपः मातङ्गः शा० त० ।

ऐरावते गजे तस्य मेघनायकत्वात्तथात्वम् ।

अब्भ्र(भ्र)मु स्त्री अब्भ्रे(भ्रे) अब्भ्रा(भ्रा)धिपे ऐरावते माति

मा--डु । ऐरावतस्य योषिति पूर्ब्बदिग्धस्तिन्याम् ।

अब्भ्र(भ्र)मुवल्लभ पु० अब्भ्र(भ्र)मोः वल्लभः ६ त० । ऐरावते

गजे । अब्भ्र(भ्र)--मुपत्यादयोऽप्यत्र ।

अब्भ्र(भ्र)रोहम् पु० अब्भ्रा(भ्रा)त् तच्छब्दात् रोहति

रुहअसुन् । वैदूर्य्यमणौ तस्य हि मेघशब्दादुद्भव इति प्रसिद्धम्
“विदूरभूमिर्न्नवमेघशब्दादुद्भिन्नया रत्न शलकयेव” कु० वर्ण्णितम्

अब्भ्रो(भ्रो)त्थ न० अ(वभ्र)भ्रात् तन्निघर्षणादुत्तिष्ठति उद् +

स्था--क । १ वज्रे २ विद्युदग्नौ पु० अ(भ्र)ब्भ्रजादयो-
ऽप्यत्र ।

अब्भ्रि(भ्रि) स्त्री अभ्र गतौ इन् वा द्वित्वम् ।

काष्ठवुद्दाले नौकामलापकर्षके काष्ठमये कुद्दाले ।

अब्भ्रि(भ्रि)य त्रि० अब्भ्रे(भ्रे)भवः व । मेघभवे ।

अब्रह्मचर्य्य न० विरोधे न० त० । १ ब्रह्मचर्य्यविरोघिनि

स्त्रीसंभोगादौ ब्रह्मचर्य्यं च स्त्रीस्मरणादि तच्च ब्रह्मचर्य्यशब्दे
वक्ष्यते । न० ब० । २ ब्रह्मचर्य्यरहिते त्रि० ।

अब्रह्मण्य न० ब्रमणि ब्राह्मणोचितकर्मणि अहिंसादौ साधु

यत् विरोधे न० त० । १ ब्रह्मकर्म्मण्यसाधौ २ हिंसादौ
तथात्वेन नोदनविषये ३ वचने च तथा हि “अयं न वध्य” इति
कयने हिन हिंस्यते । हिंसा च ब्रह्मकर्मणि न साधुः
इत्यतस्तस्य तथात्वम् एतच्च प्रायेण नाट्योक्तावेव प्रयुज्यते
“भो अब्रह्मण्यमब्रह्मण्यं वर्त्तते” नाटकम् । क्वचिदन्यत्रापि
“अथैत्य योगनन्दस्य व्याड़िना क्रन्दितं पुरः । अब्रह्मण्य-
मनुत्क्रान्तजीवो योगस्थितोद्विजः” वृहत्कथासारः ।

अब्राह्मण पु० अप्राशस्त्ये न० त० । १ अप्रशस्तब्राह्मणे “समम-

ब्राह्मणेदानं द्विगुणं ब्राह्मणब्रुवे” इति पुरा० अब्राह्मणाश्च
षट् स्मृतौ दर्शिताः । “अब्राह्मणास्तु षट्प्रोक्ता ऋषिणा
तत्त्ववादिना । आद्यो राजभृतस्तेषां द्वितीयः क्रयविक्रय
तृतीयो बहुयाज्यःस्याच्चतुर्थो ग्रामयाजकः । पञ्चमस्तु
वृतस्तेषां ग्रामस्य नगरस्य च । अनागतान्तु यः पूर्ब्बां
सादित्यां चैव पश्चिमाम् । नोपासीत द्विजः सन्ध्यां स
षष्ठोऽब्राह्मणः स्मृतः” आ० त० शाता० । एवमन्येऽषि स्मृत्यु-
पृष्ठ ०२७४
क्तावेदितव्याः । २ ब्राह्मणसदृशे क्षत्रियादौ भट्टदैवज्ञादौ
च “अब्राह्मणादध्ययनमापत्काले विधीयते । अनुव्रज्या च
शुश्रूषा यावदध्ययनं गुरोः” मनुः । भेदे न० त० ३ ब्रा-
ह्मणभिन्ने शूदादौ च “नैतदब्राह्मणोवक्तुमर्हति समिधमाहर
उप त्वा नेष्ये” इति छा० उ० ।

अब्रूकृत न० न ब्रुवे कृतम् । १ कथनाय प्रतिरोधके

सनिष्ठीवे अम्बूकृते “अब्रूकृतमाह नद्धं दुष्टम् इति श्रुतिः ।

अब्लिङ्ग त्रि० अपां लिङ्गं बोधनसामर्थ्यं यत्र । जलरूपार्थ

प्रकाशसामर्थ्ययुक्ते य० पठिते ११, ५० ५१, ५२ अपोहिष्ठा
इत्यादिके तृचे अब्दैवते मन्त्रे “कस्य नूनमित्यादि” पञ्च-
दशर्च्चात्मके च तच्च ऋ० १ मण्डले चतुर्विशम् सूक्तम् ।

अभक्त त्रि० भज--सेवायां विभागे च कर्त्तरि कर्म्मणि वा क्त

न० त० । १ असेवके । “भक्तमभक्तमवोव्यन्तः” इति ऋ० १,
१२७, ५ । २ अपृथक्कृते च ।

अभक्ति स्त्री अभावे न० त० । १ भक्त्यभावे । न० व० । २ भक्तिहीने त्रि० ।

अभक्षण न० अभावे न० त० । १ भक्षणाभावे २ भक्षणनिवृत्तौ

च । “पौर्ण्णमास्यन्तमाघे च मूलकानामभक्षणमिति” म० त० ।

अभक्ष्य त्रि० भक्षितुमयोग्यं स्मृतिनिषिद्धित्वात् । १ स्मृति-

निषिद्धभक्षणे लशुनादौ अभक्ष्यत्वञ्च वस्तुस्वभावकृतं,
कालकृतं, देशादिनिमित्तकृतं, द्रव्यान्तरयोगकृतं, स्वामिविशेषकृतं,
चण्डालाद्रिस्पर्शदर्शनादिदोषकृतम्, पात्रविशेषपाकादि-
कृतम्, अधिकारिविशेषकृतञ्चेति तत्तदुपाधिकृतम्, तत्र केषा-
ञ्चित् नञादिना केषाञ्चिच्च तत्तद्भक्षणे प्रायश्चित्तोपदेशेना
भक्ष्यत्वं स्मृत्यादाबुक्तम् । अभक्ष्याणि च श्रुत्यादौ दर्शितानि
“न कलञ्जं भक्षयेन्न लशुनं न पलाण्डुमिति
श्रुतिः “लशुनं गृञ्जनं चैव पलाण्डुं कवकानि च
अभक्ष्याणि द्विजातीनाममेध्यप्रभवानि च” मनुः ।।
कवकानि छत्राकाः अमेध्यप्रभवानि विष्ठादिजातानि ।
पलाण्डुसदृशं यत तु गन्धवर्णरसादिभिः । अभोज्यं
तद्भवेत् सर्वमिति “लशुनादिषु ये तुल्या गन्धवर्णरसादिभिः ।
अभक्ष्यास्ते द्विजातीनाम्” इति च देव० । “लशुनपलाण्डु-
गृञ्जनकरञ्जकिपाककुम्भीभक्षणे द्वादशरात्रं पयः पिबेत्” शङ्खः
“लोहितान् वृक्षनिर्यासान् व्रश्चनप्रभवांस्तथा । शेलुं
गव्यञ्च पेयूषं प्रयत्नेन विवर्ज्जयेत्” मनुः शेलुं बहुवारफलं
गोसम्बन्धि पेयूषं नवप्रसूतायाः गोः अग्निसंयोगात्
कठिनीभूतं क्षीरम् । “वृथाकृषरसंयावं पायसापूपमेव च
अनुपाकृतमांसानि देवान्नापि हवींवि च” मनुः ।
वृथा देवताद्यनुद्देशेन आत्मार्थं यत् पच्यते तत् । “तिलत-
ण्डुलसंपक्वः कृशरः सोऽभिधीयते” इति छा० प०
उक्तः कृशरः, संयावः घृतक्षीरगुड़गोधूमचूर्ण्णमयः पिष्ट-
कभेदः । अनुपाकृतानि मन्त्रैरसंस्कृतपशुमांसानि । देवा-
न्नानि देवार्थं कल्पितानि प्राक् होमात् नाद्यानि ।
“वृथामांसञ्च नाश्नीयात् पितृदेवादिवर्जितम्” स्मृतिः “न
तदश्नीयाद्यद्देवपितृमनुष्यार्थन्न कुर्य्यात्” शङ्खलि० । “वृथा
सांसं न भोक्तव्यं भोक्तव्यं श्राद्धकर्मणि अन्यथा भक्ष-
यन् विप्रः प्राजापत्यं समाचरेत्” छाग० । अस्याप-
वादः “भक्षयन्नपि मांसानि शेषभीजी न दुष्यति औषधार्थ-
मशक्तौ वा नियोगात् यज्ञकारणात्” देवलः, “रोगी नियुक्तो-
विधिना हुतं विप्रमतं तथा । मांसमद्याच्चतुर्द्धैषा परिसंख्या
प्रकीर्त्तिता” वृह० । मनुरपि “क्रीत्वा स्वयं वाप्युत्पाद्य
परोपकृतमेव वा अर्चयित्वा पितॄन् देवान् खादन्मांसं न दुष्यति”
अन्यत्र दोषमाह स एव “अतोऽन्यथा तु योऽश्नीयात्
विधिं हित्वा पिशाचवत् । यावन्ति पशुरोमाणि तावत्
प्राप्नोति सान्वयम् । प्रोक्षितं भक्षयेन्मांसं ब्राह्मणानाञ्च
काम्यया यथाविघि नियुक्तन्तु प्राणानामेव चात्यये इति च
मनुः । ब्रह्मणकाम्यया तु सकृदेव भक्ष्यम् “मक्षयेत् प्रोक्षितं
मांसं सकृद् ब्राह्मणकाम्यया दैवे नियुक्तं श्राद्धे वा नियमे तु
विवर्गयेदिति” यमोक्तेः नियमः मांसभोजननिवृत्ति-
संकल्पः स च व्रतभेदः । “मांसं नाश्नीयात् तद्व्रतम्
संवत्सरं वेति” छा० उप० इत्यादिकः । अतएव विहित
मांसविवर्जने एव मनुना फलाधिक्यं दर्शितम् “यो बन्धन
बधक्लेशान् प्राणिनां न चिकीर्षति स सर्वस्य हितप्रेप्सुः
सुखमत्यन्तमश्नुते । यद्ध्यायति यत्कुरुते धृतिं वा याति
यत्र च । तदवाप्नोत्ययत्नेन यो हिनस्ति न किञ्चन” इति
वर्षे वर्षेऽश्चमेधेन यो यजेत शतं समाः । मांसानि० च
न खादेद्यस्तयोः पुण्यफलं समम् ॥ फलमूलाशनै
र्मेच्यैर्म्मुन्यन्नानाञ्च भोजनैः न तत् फलमवाप्नोति यन्मांस
परिवर्जनात्” । अतएव मनुना न मांसभक्षणे दोषो न
मद्ये न च मैथुने प्रवृत्तिरेषा भूतानां निवृत्तिस्तु महाफला”
इत्यनिषिद्धमांसवर्ज्जनस्य महाफलतोक्ता । मांसभक्षणे
न दोषैत्यादिकं तु दैवादिकर्म्मादौ अनुज्ञातमांसादि-
दोषाभावपरम् न तु निन्दितमांसभोजनेऽपि दोषाभाव-
परं तस्य स्वेनैव दुष्टत्वाभिधानात् तथा च स्वोक्त-
विहितमांसभक्षणे “सौत्रामण्यां सुरां पिबेदिति” श्रुत्युक्ते
मद्यपाने, “न काञ्चन परिहरेत्तदव्रतमित्यादि” श्रुत्युक्ते
भैथुने च न दोषः । तेषामेव त्यागे महाफलत्वम् । अत
पृष्ठ ०२७५
एव “कुर्य्यात् घृतपशुं सङ्गे कुर्य्यात् पिष्टपशुं तथे” त्यनेन
सति सङ्गे (यज्ञादिफलकामनायाम्) पिष्टपशुनैव तं सम्पा-
दयेदिति तेनैवोक्तम् अधिकं पिष्टपशुशब्दे वक्ष्यते । रोगिणा
भक्षणेऽपि विशेषः “ब्राह्मणानुज्ञया भक्ष्यमुक्तं मांसञ्च
रोगिभिः । मातापितृभ्यां संभुक्तं शेषं वा ब्रह्मचारिणः
पुनः प्रशान्तरोगेण कर्त्तव्यमधिकं ब्रतम्” ब्रह्मपु० ।
“अगम्यागमने चैव मद्यगोमांसभक्षणे शुद्ध्यै चान्द्रायणं
कुर्य्यात् पराश० “गामश्वं कुञ्जरोष्ट्रौ च सर्वान् पञ्चनखां-
स्तथा । क्रव्यादं कुक्कुटं ग्राम्यम् भुक्त्वा संवत्सरं व्रतम्” शङ्खः ।
पञ्चनखाश्च शशादिभिन्नाः । “शशकः शल्वकी गोधा खड्गी
कूर्मश्च पञ्चमः । भक्ष्यान् पञ्चनखेष्वाहुरिति मनूक्तेः ।
“विड्वराहग्रामकुक्कुटनरगोमांसभक्षणेषु सर्वेष्वेव द्विजानां
प्रायश्चित्तान्ते भूयः संस्कारं कुर्य्यात्” विष्णुः “हंसं मद्गूं
च काकोलं काकं वा खञ्चरीटकम् । मत्स्यादांश्च तथा
मत्स्यान् बलाकां शुकसारिके । चक्रवाकं प्लवं कौलं मण्डूकं
भुजगं तथा । मासमेकं व्रतं कुर्य्यात् भूयश्च तन्न भक्षयेदिति
शङ्खः । मत्स्यादः पाठीनव्यतिरिक्तः “पाठीनरोहिता-
वाद्यौ नियुक्तौ दैवपैत्रयोः” मनुना तस्य विधानात् ।
“कलविङ्गहंसमद्गुचक्रवाकरज्जुबालसारसदात्यूहशुकसारिका
भासचाषकाकवलाकाकोकिलखञ्जरीटाशने त्रिरात्रमुपवसेत्”
विष्णुः । “चाषांश्च रक्तपादांश्च सौनं वल्लूरमेव च मत्स्यांस्तु
कामतो जग्ध्वा सोपवासस्त्र्यहं वसेत्” मनुः । सूना बध्य-
स्थानं तत्र भवत् सौनम् वल्लूरं शुष्कमांसम् । “क्रव्यादान्
शकुनीन् सर्वान् टिट्टिभञ्च विवर्ज्जयेत् कलविङ्गं प्लवं
हंसं चक्राङ्गं ग्रामकक्कुटम् सारसं रज्जुबालञ्च दात्यूहं
शुकसारिके । प्रतुदान् जलापादांश्च क्रौञ्चांश्च नख
विष्किरान् । निमज्जतश्च मत्स्यादान् सौनं वल्लूरमेव च
वकञ्चैव वलाकाञ्च काकोलं खञ्जरीटकम् मत्स्याङ्कान् विड्-
वराहांश्च मत्स्यानेव च सर्वशः” इति मनुः । मत्स्यभेदे दैवा-
दाववादमाह मनुः “पाठीनरोहितावाद्यौ नियुक्तौ हव्य-
कव्ययोः । राजीवसिंहतुण्डांश्च सशल्कांश्चैव सर्वशः”
“अभक्ष्यं भक्ष्येष्वजामहिषीक्षीरं विवर्जयेत् पञ्चनखमत्स्य-
वराहमांसानि” चेति विष्णुः । “मत्स्यकर्कटशम्बूक-
शङ्खशुक्तिकपर्द्दकान् पीत्वा नवोदकञ्चैव पञ्चगव्येन
शुध्यति” हारी० “कृमिकीटपिपीलिकाजलौकापतङ्गा-
स्थिप्राशने गोमूत्रगोमयाहारस्त्रिरात्रेण प्रयतो-
भवेत्” हारी० केशमक्षिकारुधिरप्राशने आममांसकृमि-
भक्षणे इत्युपक्रम्य “त्रिरात्रोपवासं घृतप्राशनञ्च कुर्य्यात”
शङ्खलि० । “भक्ष्याणामप्याममांसरुधिरप्राशने तु पञ्च-
गव्यम्” हारी० । “नखकेशरुधिरप्राशने सद्यः स्नानं
घृतकुशहिरण्योदकप्राशनञ्च” बुधः “अजाविकमहिषमृगाणाम्
मांसभक्षणे केशरुधिरप्राशने च बुद्धिपूर्ब्बे त्रिरात्रम्”
बौधा० भक्ष्यमांसकस्यापि क्वचिदंशे निषिद्धता “पृष्ठमांसं
गर्भशय्यां शुष्कमांसमथापि वा । भूमेरन्तर्गतं कृत्वा
मृद्भिश्चागालितं च यत् । पक्वं मांसमृजीषन्तु प्रयत्नान्न
च भक्षयेत् । प्रमादभक्षितैरेभिर्वने वासं वसेदहः
ब्र० पु० । ऋजीषं पिष्टपचनभाण्डं तत्र पक्वम् । व्यक्ति-
विशेषे सर्वमांसानामभक्ष्यता “न भक्ष्यं यतिना मांसं
कदाचित्तु मुमूर्षुणा” ब्र० पु० । स्त्रीणान्तु सर्वथा
मांसनिषधमाह भागवतम् “ये त्विह षै पुरुषाः
पुरुषमेधेन यजन्ते याश्च स्त्रियो नृपशूत् खादन्ति तांश्च
ताश्च ते पशवः इह ये निहता यमसदने यातयन्तो रक्षो-
गणाः सौनिका इव स्वधितिनावदायासृक् पिबन्ति” इति ।
कार्त्तिकादौ तु सर्व्वथा मांसादिनिषेधः । “न मत्स्यं भक्ष-
येन्मांसंन कौर्मं नान्यदेव हि । चण्डालो जायते राजन्!
कार्त्तिके मांसभक्षणात्” आ० त० ना० पु० । “कौमु-
दन्तु विशेषेण शुक्लपक्षं नराधिप! । वर्ज्जयेत् सर्वमांसानि
धर्म्मस्तत्र विधीयते । एकादश्यादिषु तथा तासु पञ्चसु
रात्रिषु” इत्युपक्रम्य वर्ज्जितव्या तथा हिंसा मांसभक्षणमेव च
ब्रह्मपु० । “निष्पाबान् राजमाषांश्च सुप्ते देवे जनार्द्दने यो
भक्षयति राजेन्द्र! चण्डालादधिकोहि सः । कार्त्तिके तु
विशेषेण राजमाषांश्च वर्ज्जयेत् । निष्पावान् मुनिशार्द्दूल ।
यावदाहूतनारकी । कदम्बानि पटोलानि वृन्ताकसहितानि
च । न त्यजन् कार्त्तिके मासे यावदाहूतनारकी ।
एतानि भक्षयेद्यस्तु सुप्ते देवे जनार्द्दने । शतजन्मार्जितं
पुण्यं दह्यते नात्र संशयः” म० त० ब्रह्म पु० । निष्पावः श्वेत
शिम्बी । कदम्बानि कदम्बफलानीति कलम्बीति वा म० त०
रघु० । तिथिविशेषेषु मांसादीनामभक्ष्यता “स्त्रीतैलमांस-
संभोगी पर्ब्बस्वेतेषु मानवः विन्मूत्रभोजनं नाम नरकं प्रति-
पद्यते” इति वि० पु० । “षष्ठ्यष्टभी पञ्चदशी उभे पक्षे
चतुर्द्दशी । अत्र सन्निहितं पापं तैले मांसे भगे क्षुरे”
स्मृतिः “मत्तक्रुद्धातुराणाञ्च न भुञ्जीत कदाचन ।
केशकीटावपन्नञ्चपदा स्पृष्टञ्च कामतः । भ्रूणघ्नावेक्षितं
चैव संस्पृष्टञ्चाप्युदक्यया । पतत्त्रिणावलीढ़ञ्चशुना संस्पृष्ट-
मेव च । गवा चान्नमुपाघ्रातं घुष्टान्नञ्च विशेषतः ।
गणान्नं गणिकान्नञ्च विदुषा च जुगुप्सितम् । स्तेनगाय-
पृष्ठ ०२७६
नयोश्चैव तक्ष्णोवार्द्धुषिकस्य च । दीक्षितस्य कदर्य्यस्य
बद्धस्य निगड़स्य च । अभिशस्तस्य षण्डस्य पुंश्चल्या
दाम्भिकस्य च । चिकित्सकस्य मृगयोः क्रूरस्योच्छिष्टभो-
जिनः । उग्रान्नं सूतिकान्नञ्च पर्य्याचान्तमनिर्द्दशम् ।
शुक्तं पर्य्युषितं चैव शूद्रोच्छिष्टं तथैव च । अनर्चितं
वृथामांसमवीरायाश्च योषितः । द्विषदन्नं नगर्य्यन्नम्
पतितान्नमवक्षुतम् । पिशुनानृतिनोश्चान्नं क्रतुविक्रयि-
णस्तथा । शैलूषतुन्नवायान्नं कृतघ्नस्यान्नमेव च । कर्म्मा-
रस्य निषादस्य रङ्गावतारकस्य च । सुवर्ण्णकर्त्तुर्वेणस्य
शस्त्रविक्रयिणस्तथा श्ववतां शौण्डकिनाञ्च चेलनिर्णेजकस्य
च । रजकस्य नृशंसस्य यस्य चोपपतिर्गृहे । मृष्यन्ति ये
चोपपतिं स्त्रीजितानाञ्च सर्वशः । अनिर्द्दशञ्च प्रेता-
न्नमतुष्टिकरमेव च । राजान्नं तेज आदत्ते शूद्रान्नं ब्रह्म
वर्चसम् । आयुः सुवर्ण्णकारान्नं यशश्चर्म्मावकर्त्तिनः ।
कारुकान्नं प्रजा हन्ति बलं निर्णेजकस्य च । गणान्नं
गणिकान्नं च लोकेभ्यः परिकृन्तति । पूयं चिकित्सकस्यान्नं
पुंश्चल्यास्त्वन्नमिन्द्रियम् । विष्ठा वार्द्धषिकस्यान्नं शस्त्रविक्र-
यिणोमलम् । भुक्त्वा चान्यतमस्यान्नममत्या क्षपणं त्र्यहम् ।
मत्या भुक्त्वा चरेत् कृच्छंरेतोविण्मूत्रमेव च । नाद्यात्
शूद्रस्य पक्वान्नं विद्वानश्राद्धिनोद्विजः । आददीताममेवास्माद
वृत्तावेकरात्रिकम्” मनुः । ‘केशकीटावपन्नं केशकीटैः
सह पक्वम् । घुष्टान्नं “केभोक्तारः” इत्युक्त्वा सत्रादौ यदन्नं
दीयते तत् । गणान्नं बहुभिर्मिलित्वा यद्भोज्यं क्रियते तत ।
दीक्षितस्य दीक्षणीययागानन्तरमा यज्ञसमाप्तेः अन्नम-
भक्ष्यम् । बद्धस्य रज्वादिना । निगड़स्य अर्श० आ०
अच् निगड़वतः निगड़बद्ध्वस्येत्यर्थः । सूतिकान्नं सूतिका-
भक्षणमुद्दिश्य यत् पक्वं तत्कुलजैरपि न भक्ष्यम् । पर्य्या-
चान्तम् एकपङ्क्तिस्थेषु बहुषु भुञ्जानेषु यदि कश्चिदाचमनं
करोति तदा तत्पङ्क्त्युपविष्टानां तदन्नमभक्ष्यम् ।
अनिर्द्दशं जननाशौचिनोऽन्नं तेनानिर्द्दशाहं प्रेतान्न-
मित्यनेन न पौनरुक्त्यम् । “सूतके तु यदा विप्रो ब्रह्मचारी
विशेषतः । पिबेत् पानीयमज्ञानात् समश्नीयात्
स्पृशेत वा । पानीयपाने कुर्व्वीत पञ्चगव्यस्य भक्षणम्
त्रिरात्रं भोजने प्रोक्तम्” शङ्खः । एतच्चोभयाशौचपरम्
श्रुक्तं यन्मधुरं कालवशादम्लतां गतमम्ल ञ्चात्यन्ताम्लताम् ।
शुक्तेषुंदधि तज्जातञ्च भक्ष्यम् “दधि शुक्तेषु भोक्तव्यं सर्वञ्च
दधिसम्भवमिति” मनूक्तेः । तदपि गुड़ादिद्रव्यमिश्रणे-
ऽभक्ष्यमेव “गुड़ादिद्रव्यसंयुक्तं वर्ज्ज्यं पर्य्युषितं दधि ।
तथैव यावकादीनि मन्थादिचरितान्यपि” यमोक्तेः ।
“सगुड़ं मरिचाक्तं च तथा पर्य्युषितं दधि जीर्णतक्रमपेयञ्च
नष्टस्वादञ्च केनचित् । प्रमादभक्षितैरेभिर्वने पक्षव्रतं चरेत्”
स्मृतेश्च “यंवगोधूमवर्ज्जं गव्यविकारं स्नेहाक्तं चक्रुषाभवं
वर्जयित्वा पर्य्युषितं प्राश्योपवसेत् तथा दधिवर्जं सर्वशुक्तानि”
विष्णुः । “केवलानि च शुक्तानि तथा पर्य्युषितानि च ।
ऋजीषपक्वं भुक्त्वा तु त्रिरात्रं तुव्रती भवेत् शङ्खः । चुक्रुषा
व्यञ्जनभेदः । “अपूपाश्च करम्भाश्च धाना वटकशक्तवः ।
शाकं मांसमपूपञ्च सूपं कृषरमेव च । यवागूं पायसञ्चैव
यच्चान्यत् स्नेहसंयुतम् सर्वं पर्युषितं भक्षेत् शुक्तं तु परिवर्जये-
दिति यमः । “अविकारि भवेन्मेध्यमभक्ष्यं तद्विकारकृत्”
पर्य्युषितं रात्र्यन्तरितम् स्नेहाक्तं चेद्भक्ष्यं यथाह मनुः ।
यत्किञ्चित् स्नेहसंयुक्तं भक्ष्यं भोज्यमगर्हितम् तत्पर्य्युषित-
मप्याद्यं हविः शेषञ्च यद्भवेदिति” “चिरसंस्थितमप्याद्यं
सुस्नेहाक्तमपि द्विजैः । यबगोधूमजं सर्वं पयसाञ्चैव विक्रि-
येति” च अनर्चितं निन्दयाधरीकृतम् । अवीराया निःस-
म्बन्धायाः पतिपुत्रहीनायाः सम्बन्धित्यास्तु पित्रामह्यादेर्न
दोषः । नगर्य्यन्नं नगरिणो नगराधिपस्यान्नम् “नगराधिपतेः
शत्रोः पिशुनानृतिनोस्तयेति” ब्र० पु० ऐकवाक्यात् । अवक्षुतं
क्षवथुसहितम् । “वृत्त्यन्वेषी नटानान्तु स तु शैलूषकः स्मृत”
इति आ० पु० उक्तः शैलूषः । तुन्नवायकः सूचीकर्म्मकृत्,
निषादः प्रतिलोमजवर्ण्णसङ्करभेदः । रङ्गावतारकः नृत्यस्थाने
गीतवाद्यादिना तदनुगुणतायां प्रसङ्गी । वेणः वंशविकारपा-
त्रादिकर्त्ता । श्ववान् मृगयाद्यर्थं कुक्कुरपोषणकृत् ।
शौण्डिकादयश्च तत्तद्धृत्तिभाजो द्विजाः अन्त्यजानां गुरु-
प्रायश्चित्तश्रवणात् प्रा० वि० । शूद्रान्न’ शूद्रगृहे न भक्ष्यम् ।
“शूद्रवेश्मनि विप्रेणक्षीरं वा यदि वा दधि । निवृत्तेन न
भोक्तव्यं शूद्रान्नं तदपि स्मृतम्” । “निवृत्तेन शूद्रान्नान्नि-
वृत्तेनेति” आ० त० रघु० “यथा यतस्ततो ह्यापः पुद्धिं
यान्ति नदीं गताः । शूद्राद्विप्रगृहेष्वन्नं प्रविष्टं तु सदा शुचि”
अत्रिः । तेन स्वगृहागतस्यैव शुद्धत्वं तद्गृहगतस्य शूद्रा-
न्नत्वमिति भेदः । “यः शूद्रेण समाहूतो भोजनं कुरुते
द्विजः । सुरापीति स विज्ञेयः सर्वधर्मभिषकृतः । यः
शूद्रेणाभ्यनुज्ञातः कुर्य्याद्वा भोजनं द्विजः । सुरापीति
स विज्ञेयः सर्वधर्मबहिष्कृतः” वृह० ना० ।
“शूद्रान्नेन तु भुक्तेन उदरस्थेन यो मृतः । स वै खरत्व-
मुष्ट्रत्वं शूद्रत्वं वाऽधिगच्छति । “शूद्रान्नं ब्राह्मणोभुक्त्वा
तथा रङ्गावतारिणः । चिकित्सकस्य क्रूरस्य तथा स्त्रीमृग-
पृष्ठ ०२७७
जीविनः । चण्डालान्नं भूमिपान्नमजजीव्यश्वजीविनाम् ।
शौण्डिकान्नं सूतिकान्नं भुक्त्वा मासव्रती भवेदिति,’ शङ्खः ।
शूद्रस्याऽपि भोज्यविशेषस्य भक्ष्यतामाह सुमन्तुः गोरसञ्चैव
शक्तूंश्च तैलं पिण्याकमेव च । अपूपान् भक्षयेच्छूद्रात् यच्चान्यत्
पयसा कृतम् । कन्दुपक्वं तैलपक्कं पायसं दधि शक्तवः एतान्य-
शूद्रान्नभुजां भोज्यानि मनुरब्रवीदिति” हारीतः । “रजके
चैवशैलूषे वेणुचर्म्मोपजीविनि । एतेषां यस्तु भुञ्जीत द्विजश्चा-
न्द्रायणं चरेत् आप० । अन्त्यजान्नं यदा भुङ्क्ते शूद्रो मोहात्
कदावन एकरात्रोषितोभूत्वा दानं दत्त्वा विशुध्यति” संवर्त्तः
“अभिशस्तपतितपौनर्भवभ्रूंणहपुश्चल्यशुचिशस्त्रकारतैलिक-
चाक्रिकध्वजिसुवर्णकारलेख्यकशण्डतुन्नवायकबन्धकगणिका-
न्नानि च न भोज्यानि शौकरिकव्याधनिषादरजक वरुड-
कैवर्त्तचर्मकारा अभोज्यान्ना अप्रतिग्राह्याश्च” सुम० ।
“पतितानां गृहं गत्वा भुक्त्वा च प्रतिगृह्य च मासोपवासं
कुर्व्वीत” वृह० “चाण्डालपतितान्नभोजनेषु ततः
पुनरुपनयनम्” वसि० । “पतितद्रव्यमादाय भुङ्क्ते च ब्राह्मणः
क्वचित् । कृत्वा तस्य समुत्सर्गं यतिकृच्छ्रं चरेद्द्विजः” उश० ।
“चण्डालचाक्रिकलोहकारघाण्ठिकान्नभोजने त्रिरात्रसु-
पवसेत्” हारोतः चाक्रिको वृषादिचक्रेण तैलनिष्पादनवृत्तिः ।
घाण्ठिकः देवघण्टावादकः । “ध्वजिबणिक्किरीटिवार्द्धुषि-
कान्नभोजने पञ्चरात्रम्” हारीतः । ध्वजी शौण्डिकवृत्तिः
बणिक् शिल्पोपजीवी । किरीटी बणिग्भेदः । “भगवृत्ति-
पुंश्चलीवेश्यान्नभोजने सप्तरात्रम् दुष्कृतिगरदतस्करान्न-
भोजने दशरात्रम् प्रव्रजितगणोद्दिष्टान्नभोजने दशरात्रं
ताम्रकांस्यसीसककारव्याधिततक्षकान्नभोजने तप्तकृच्छ्रं
ब्राह्मणवृत्तिघ्नबधबन्धोपघातवृत्त्यन्नभोजने च सङ्कीर्ण्णान्नभो-
जने च असस्कृतावज्ञासरोषविस्मयान्नभोजने च” हारी० ।
भगवृत्तिर्मेथुनशुल्केन यस्य वृत्तिः गरदो विषदाता
व्याधिजनकौषधदाता च “इतरे ये त्वभोज्यान्नास्तेषा-
मन्नं विगर्हितम् अजाविके माहिषिके कूटे च वृषलीपतौ
एतेषां भोजनं कृत्वा द्वादशाहं पयःपिबेत्” मनुः । अजावि-
कोऽजाविभ्यां वृत्तिमान् । माहिषिकः महिषेण वृत्तिमान् ।
कूटः अन्यन्मनसि अन्यद्वचसीत्यादिरूपकपटव्यवहारी
“बन्ध्या तु वृषलीज्ञेया वृषली च मृतप्रजा । अपरा
वृषली ज्ञेया कुमारी या रजस्वला” । उश० उक्ता तस्याः
शूद्रायाश्च पतिः विष्णुः “गणगणिकास्तेनगायकान्नानि
भुक्त्वा सप्तरात्र पयसा वर्त्तेत तक्ष्णश्चान्नं चर्म्मकर्त्तुश्च वार्द्धु-
षिककदर्य्यस्य दीक्षितबद्धनिगड़ाभिशस्तानाञ्च पुंश्चलीदा-
म्भिकचिकित्सकलुब्धकक्रूरोच्छिष्टभोजिनाञ्च अवीरास्त्री-
सुवर्णकारसंसर्गपतितानाञ्च पिशुनानृतवादिनाञ्च धर्म्म-
सोमविक्रयिणाञ्च शैलूषतुन्नवायकृतघ्नरजकानाञ्च कर्म्म-
कारनिषादरङ्गावतारिवेणशस्त्रविक्रयिणाञ्च श्वजीवि-
शौण्डिकतैलिकचेलनिर्ण्णेजकानाञ्च भ्रुणघ्नावेक्षितमुदक्या
संस्पृष्टं पतत्रिणावलीढ़ं श्रुना संस्पृष्टं गवा घ्रातञ्च
कामतः पदास्पृष्टमवज्ञातञ्च मत्तक्रुद्धातुराणाञ्च अनर्चितं
वृथा मांसञ्च । यत्र नाश्नन्ति देवाश्च पितरश्च
यथाविधि । वृथापाकः परिज्ञेवः तस्य नाद्यात् कथञ्चन ।
वृथापाकस्य भुञ्जानः प्रायश्चित्तं चरेत्” । “नवं कृषरपूपादि
पायसं मधुसर्पिषी चण्डालेन शुना वापि दृष्टं हविर-
यज्ञियम् । विड़ालादिभिरुच्छिष्टंदुष्टमन्नं विवर्जयेत् अन्यत्र
हिरण्योदकस्पर्शादिति” शाता० । हिरण्योदकस्पर्श-
स्येवान्नस्य, तापनादेः घृतादीनां शुद्धिकरत्वमाह सएव
“तापनं घृततैलानां प्लावनं गोरसस्य च अन्त्यानां भुक्त-
शेषस्तु भक्षितोयैर्द्विजातिभिः । चान्द्रं कृच्छं तदर्द्धं वा”
उशनाः “कापालिकान्नभोक्तॄणां तन्नारीगामिनां तथा ।
ज्ञानात् कृच्छ्राब्दमुद्दिष्टम्” आप० । “अन्त्यावसायिनामन्न-
मश्नीयाद्यस्तु कामतः । शिशुचान्द्रायणं कुर्य्यादिति”
अङ्गि० । “चण्डालपतितादीनामुच्छिष्टस्य च भक्षणे ।
द्विजः शुध्येत् पराकेण” अङ्गि० । “अमेध्यपतित
चाण्डालपुक्कशरजस्वल्यऽवधूतकुणिकुष्ठिकुनखिस्पृष्टानि
भुक्त्वा कृच्छ्रमाचरेत्” शङ्खः । अमेध्यं मद्यभाण्डविण्मूत्र-
रेतन्यादि । पुक्कशः क्षत्त्रियायां शूद्राज्जातः प्रतिलोमजः
वर्ण्णसङ्करः । कुणिः स्वभावतः पाणिविकलः । “चाण्डाल-
पतितामेध्यकुणपैः कुष्ठिना तथा उदक्यासूतिभिः स्पृष्टं
भुक्त्वा मासं वने वसेदिति” ब्र० पु० । “अस्थ्यादि-
दूषितान्नञ्च भुञ्जानस्तु यदा भवेत् स्नात्वार्कमर्चयित्वा तु
घृतं प्राश्य विशुध्यति” ब्र० पु० पतितादिस्पर्शे अकृत-
स्नानावामन्नमात्रस्याभक्ष्यता “महापातकिसंसर्गे स्नान-
मेव विधीयते संस्पृष्टस्तु यदा भुङ्क्ते तप्तकृच्छ्रं समाचरेत्
स्नानार्हको यदा स्नानमकृत्वाश्नाति वै द्विजः । अहो
रात्रोषितः स्नातः पञ्चगव्येन शुध्यति” पैठ० । “केशकीटा-
वपन्नञ्च स्त्रीभिः स्पृष्टं तथैव च । सोदक्याशूद्रसंस्पृष्टं
पञ्चगव्येन शुध्यति” जावा० । स्त्री भिन्नजातिस्त्री ।
केशकीटाद्युपहतस्य प्रोक्षणादिकं कृत्वा भक्ष्यमेव ।
“अवक्षुतं केशपतङ्गकीटैरुदक्यया वा पतितैश्च दृष्टम् । अलात-
मृद्भस्महिरण्यतीयैः संस्पृष्टमन्नं मनुराह भोज्यम्”
पृष्ठ ०२७८
यमः चण्डालपतितामेध्यैः कुणपैः कुष्टिना तथा ।
ब्रह्मध्नसूतिकीदक्याकौलेयककुटुस्वभिः । दृष्टं वा
केशकीटाक्तं भृद्भस्मकनकाम्बुभिः शुद्धमद्यात् सहृल्लेखं प्रभूतं
व्युष्टतेव च ब्रह्मपु० । कौलेयकः कुक्कुरः कुटुम्बी कुक्कुटादि
प्राणिभेदः तस्यबहुकुटुम्बवत्त्वात् । व्युष्टं पर्य्युषितम् । एतच्च
चुरतरमभ्युक्ष्य भक्ष्यम् अत्यन्तोपहतस्य तु त्यज्यतैव” प्रा० वि०
“विशुद्धमपि चाहारं मक्षीकाकृमिजन्तुभिः । केशलोम-
नखैर्वापि दूषितं परिवर्ज्जयेत्” देव० । तन्मात्रमुद्धृतं
शुद्ध्येत् कठिनन्तु पयोदधि । “अविलीनं तथा चैव
विलीनं श्रपणेन तु” शाता० “नाश्रोत्रियतते यज्ञे ग्राम-
याजिहुते तथा । स्त्रिया क्लीवेन च हुते भुञ्जीत व्राह्मणः
क्कचित् । अश्लीलमेतत् साधूनां यत्र जुह्वत्यमी हविः
प्रतीपमेतद्देवानां तस्मात्तत् परिवर्ज्जयेदिति” मनुः । “अश्रो-
योऽनधीतवेदः तेन हुतयज्ञे अन्नमभक्ष्यम् । ग्रामयाजी
ग्रामजनानां श्राद्धपूजाकारयिता ऋत्विग्भावेन होमस्वस्त्य-
यनकर्ता च स च होता यत्र यज्ञे तदन्नमभक्ष्यम् ।
श्राद्धविशेषान्नस्याभक्ष्यता “चान्द्रायणं नवश्राद्धे पराको-
मासिके मतः । पक्षश्राद्धेऽतिकृच्छ्रः स्यात् षाण्मासे
कृच्छ्रएव च । आब्दिके कृच्छ्रपादः स्यादेकाहः पुनराब्दिके
अङ्गिः० । पक्षश्राद्धं त्रैपक्षिक श्राद्धम् । नवश्राद्धमेकादशाहा-
दिश्राद्धम् । हस्तादिदत्त द्रव्यविशेषस्याभक्ष्यता । “हस्तदत्ताश्च
ये स्नेहा लवणं व्यञ्जनानि च दातारं नोपतिष्ठेत्तु भोक्ता
भुङ्क्ते च किल्विषम् । तस्माच्चान्तरितं देयं पर्ण्णेनाथ तृणेन
वा । प्रदद्यान्न तु हस्तेन नायसेन कदाचन । आयसेन
तु पात्रेण यंदन्नन्तु प्रदीयते । भोक्ता विष्ठासमं-
भुङ्क्ते दाता व नरकं ब्रजेत्” भवि० पु० । “माक्षिकं
फाणितं शाकं गोरसं लवणं घृतम् । हस्तदत्तानि भुक्त्वा
च भोक्ता सान्तपनञ्चरेत्” यमः । “एकेन पाणिना
दत्तं शूद्रादत्तं न भक्षयेत् । घृतं तैलञ्च लवणं पानीयं
पायसं तथा” स्मृतिः । “वाग्दष्टं भावदुष्टञ्च भाजने
भावदूषिते भुक्त्वान्नं ब्राह्मणः पश्चात् त्रिरात्रं तु व्रती
भवेत्” शङ्खः । शूद्राणां भाजने भुक्त्वा भुक्त्वा वा भिन्न-
भाजने । अहोरात्रोषितोभूत्वा पञ्चगव्येन शुध्यति”
सब० । भिन्नभाजनं कांस्यपरं “भिन्नकांस्ये तु
योऽश्रीयादन्नं स्नात्वा जपन् द्विजः । गायत्र्यष्टसहस्रं तु
एकभक्तस्ततः शुचिः” बौधा० कांस्यत्वेन विशेषणात् ।
आपोशनाकरणेभोजनस्य निषेधात् तदकृतवता द्रव्यमात्रस्या-
भक्ष्यता । “आपोशानमकृत्वा तु भुङ्क्तेयोऽनापदि द्विजः ।
भुञ्जानश्चयदा व्रूयात् गायत्र्यष्टशतं जपेत्” । अनाचान्तस्य
द्रव्यमात्रस्याभक्ष्यता । “अनाचान्तः पिबेद्यस्तु भक्षयेद्वापि
किञ्चन । गायत्र्यष्टसहस्रं तु जप्यं कृत्वा विशुध्यति ।
आचामेच्चर्ब्बणे नित्यं मुक्त्वा ताम्बूलचर्वणम् दन्तलग्नेफल-
मूले भुक्तस्नेहे तथैव च । ताम्बूले चेक्षुदण्डे च नोच्छिष्टो-
भवति द्विजः” जावा० । “कषायकटुताम्बूले भुक्तस्नेहानु-
लेपने । मधुपर्के च सोमे च नोच्छिष्टं मनुरब्रवीत्”
लघुबौ० अनाचान्तः कषायकटुताम्बूलेक्षुव्यतिरिक्तद्रव्यं
सकृद्भक्षयित्वा दुग्धमधुनारिकेलजलादिकञ्च सकृत् पीत्वा
अष्टोत्तरसहस्रावृत्तां गायत्रीं जपेत् प्रा० वि० । यज्ञो-
पवीतरहितानामन्नमात्रस्याभक्ष्यता । “विना यज्ञोपवीतेन
भुङ्क्ते तु ब्राह्मणो यदि । स्नानं कृत्वा जपं कृत्वा
उपवासेन शुध्यति” लघुहा० । अमेध्यदूषितफलानामभक्ष्यता ।
मृद्वारिकुसुमादींश्च फलकन्देक्षुमूलकान् । विण्मूत्रदूषितान्
प्राश्य कृच्छ्र तु पादतश्चरेत् सन्निकृष्टेऽर्द्धमेव स्यात्” संव० ।
मृदादेरभक्ष्यता । “अङ्गुल्या दन्तकाष्ठञ्च प्रत्यक्षलवणं
तथा । मृत्तिकाभक्षणञ्चैव तुल्यं गोमांसभक्षणैः भवि० पु० ।
अत्रापवादः । सैन्धबं लवणञ्चैव यच्च सामुद्रिकं भवेत्
पवित्रे परमे ह्येते प्रत्यक्षे अपि नित्यशः” वायुपु० ।
“भुक्त्वा तु क्षारलवणं त्रिरात्रं तु वने वसेत्” यमः ।
“मृल्लोष्ट्रखादने अहोरात्रमभोजनाच्छुद्धिः श्रा० त० रघु० ।
“नैकोमिष्टान्नमश्नीयात् वञ्चयित्वा गृही सुतान् ।
दारान् भृत्यातिथींश्चैव तथासम्बन्धिबान्धवान् इत्युपक्रम्य
“लालापे नरके घोरे दुर्गन्धेप्रास्यते नरः” यमः ।
“पयोऽनुद्धृतसारञ्च भक्षयेद्दधि नो निशि दिवसे नवनीत-
ञ्चेति” “सर्वं तिलमयं नाद्यात् सायं शर्म्माभिलाषिभिः”
इति । “नाश्नीयात् सन्ध्ययोर्द्वयोः” इति च का० ख० ।
“नातिसौहित्यमाचरेत् नातिप्रगे नातिसायम् नं निशीथे
नचोषसि” मनुः न दध्युद्धृतसारञ्च भक्षयेद्दधि नो निशि ।
नाद्यादातृप्ति रात्रिषु” काशी० ख० “श्राद्धं कृत्वा परश्राद्धे
योऽश्नीयात् ज्ञानवर्ज्जितः । दातुः श्राद्धफलं नास्ति भोक्ता
किल्विषभुग् भवेत्” यत् वेष्टितशिराभुङ्क्ते यत् भुङ्क्ते दक्षि-
णामुखः सोपानात्कश्च यद्भुङ्क्ते तद्वै रक्षांसि भुञ्जते, इति
का० ख० । “यो गृहीत्वा विवहाग्निं गृहस्थ इव मन्यते ।
अन्नं तस्य न भोक्तव्यं वृथापाको हि स स्मृतः” का० ख० ।
“पक्षे वा यदि मासे यस्य गेहेऽत्ति न द्विजः । भुक्त्वा दुरात्मन-
स्तस्य चरेच्चान्द्रायणं व्रतम्” का० ख० “अग्राह्यं
शिवनिर्माल्यं पत्रं पुष्पं फलं जलम्” ति० त० पु० । “यातुधानाः
पृष्ठ ०२७९
पिशाचाश्च राक्षसाः क्रूररूपिणः । हरन्ति रसमन्नस्य
मण्डलेन विवर्ज्जितम् का० ख० । नोत्सङ्गे भाजनं कृत्वा नो
पाणौ नैव कर्पटे । नासने न च शष्यायां भुञ्जीत न
मलार्दितः” का० ख० ” । “नारिकेलोदकं कांस्येताम्रपात्रे गुड़-
स्तथा । सुरातुल्यं भवेदेतत् ताम्रे गव्यं घृतं विनेति
आ० त० पुरा० । “वर्जनीयं सदा माघे मूलकं मदिरासम
मिति” ब्र० पु० । सदा विप्रैरिति विधानपा० पाठः ।
“वढ़प्लक्षोदुम्बरनीपदधित्थमातुलङ्गानि न भक्षयेत्”
हारी० दधित्थः कपित्थः । कालान्तरेऽपि द्रव्यान्तर
निषेधः “आमिषं चुक्रशाकञ्च योभुङ्क्ते च रवेर्द्दिने सप्तजन्म
भवेत् कष्ठी दरिद्रश्चोपजायते । स्त्रीतैलमांससंभोगी
पर्वस्वेतेषु वै पुमान् । विण्मूत्रभोजनं नाम नरकं प्रति-
पद्यते” वि० पु० । अथ तिथिविशेषे द्रव्यविशेषाभक्ष्यता-
माह स्मृतौ “कुष्माण्डे चार्थहानिः स्यात् वृहत्यां न
स्मरेद्धरिम् । बहुशत्रुः पटोले स्यात् धनहानिस्तु मूलके ।
कलङ्की जायते विल्वे तिर्य्यकग्योनिश्च निम्बके । ताले
शरीरनाशःस्यान्नारिकेले च मूर्खता । तुम्बी गोमांसतुल्या
स्यात् कलम्बी गोबधात्मिका । शिम्बी पापकरी प्रोक्ता
पूतिका ब्रह्मघातिका । वार्त्ताकौ सुतहानिः स्याच्चिररोगी
च माषके । महापापकरं मांसं प्रतिपदादिषु वर्जयेत्” षट्
त्रि० । तत्र सप्तम्यामेव तालनिषेधादन्यत्र भक्षणं प्राप्तम् ।
अतः ‘तालं श्वेताञ्च वार्त्ताकीं न खादेद्वैष्णवो नरः’ । इत्य-
नेन तालमपि श्वेतं निषिद्धं साहचर्य्येण श्वेतानुष्ठङ्गात् ।
“अलावूं वर्त्तुलाकारां वार्त्ताकीं कुन्दसन्निभाम्” ति० त०
पु० यदपि ‘कुसुम्भंनालिकाशाकं वृन्ताकं पूतिकान्तथा ।
भक्षयत् पतितस्तु स्यादपि येदान्तगोद्विजः इत्युशनसा
सामान्यतोऽभिहितम् । तदपि श्वेतवृन्ताकपरम् । तत्र
नालिकाश्वेतकलम्बी । पूतिका द्वादश्यामधिकदोल्षाय
शूद्रविषयिकावा इति ति० त० रघु० ।
कुष्माण्डं २ वृहतीफलाषु ३ लवणं वर्ज्यं ४ तिलाम्लं तथा
५ तैलं ६ चामलकं ७ दिवं प्रवसता ८ शीर्षं ९ कपालान्त्रकम्
१० । ११ निष्पावाश्च १२ मसूरिकाफलमथो १३ वृन्ताक संज्ञं
१४ मधु द्यूतं १५ स्त्रीगमनं क्रमात् प्रतिपदादिष्वेवमा-
षोड़श । नि० सि० मु० दीपि० । शीर्षं नारिकेलम् कपालं
अलाबूः अन्त्रकं पटोलम् । “१ कुष्माण्डं २ वृहती ३
क्षारं ४ मूलकं ५ पनसं ६ फलम् । ७ धात्री ८ शिरः
९ कपालान्त्रं १० ११ नख १२ चर्म १३ तिलानि च
१४ क्षुरकर्म्माङ्गनासेवां १५ प्रतिपदादिषु वर्ज्जयेत् नि०
सि० भूपालः । नखं शिम्बी चर्म मसूरिका । “उच्छि-
ष्टस्यान्नमात्रस्याभक्ष्यता “उच्छिष्टमगुरोरभोज्यं स्वो-
च्छिष्टमुच्छिष्टाहतञ्च” शाता० । गुरुः पित्रादिः । “पितु-
र्ज्येष्ठस्य च भ्रातुरुच्छिष्टं भोज्यम्’, आप० मातापितृभ्यां
संभुक्तं शेषं वा ब्रह्मचारिणः” ब्र० पु० । स्वमुच्छिष्टन्तु
यो भुङ्क्ते यो भुङ्क्तेत्यक्तभाजने एवं वैवस्वतः प्राह भुक्त्वा
चान्द्रायणं चरेत्” चतुरृषिमतम् । “नाश्नीयात्
भार्य्यया सार्द्धं नाश्नीयादुत्कटासने” मनुना स्त्रिया सह
भोजननिषेधेऽपि अध्वनि ब्राह्मण्या स्त्रिया सह भोक्तुं-
शक्यते । “ब्राह्मण्या हितया सार्द्धं क्वचिद्भुञ्जीत चाध्वनि ।
अधोवर्णस्त्रिया सार्द्धं भुक्त्वा चान्द्रायणं चरेत्” ब्र० पु० ।
एतद्विषय एव “ब्राह्मण्या वा सहाश्नोयादुच्छिष्टं न कयञ्चन ।
न तत्र दोषं मन्यन्ते” अङ्गिराः । विड़ालाद्युच्छिष्टस्याभ-
क्ष्यता । “विड़ालकाकाद्युच्छिष्टं जग्ध्वा श्वन लस्य च ।
केशकीटापन्नञ्च पिबेत् ब्रह्मसुबर्च्चलाम्” मनुः । “दूषितं
केशकीटैश्च मार्ज्जारैर्मूषिकैस्तथा । मक्षिकामशकश्चैव त्रिरात्रे
विशुध्यति । श्वकाकगोभिरुच्छिष्टभक्षणेतु दिनत्रयम्” मनुः
अत्रापवादः । “देवद्रोण्यां विवाहेषु यज्ञेषु प्रकृतेषु च
काकैः श्वभिश्च संस्पृष्टमन्नं तन्न विवर्ज्जयेत् । तन्मात्रमन्न-
मद्धत्य शेषं संस्कारमर्हति” यमः । संस्कारश्च “घनानां
प्रोक्षणाच्छुद्धिः द्रवाणामपि तापनात् । संस्पर्शात्तु
भवेच्छुद्धिरपां प्राहुर्घृतस्य च छागस्य मुखसंस्पृष्टं शुचि चैव हि
तद्भवेत्” यमः । “पक्षिश्वापदजग्धस्य रसस्यान्नस्य भूयसः ।
संस्काररहितस्यापि भोजने पादकृच्छ्रकम्” विष्णुः । कुत्-
सितशूद्रादिपङ्क्तिभोजननिषेधात्तत्रान्नमात्रस्याभक्ष्यता “यस्तु
पङ्क्तिषु भुञ्जीत कुत्सितानां विशेषतः अहोरात्रोषितः स्नात्वा
पञ्चगव्येन शुध्यति” अङ्गि० । “अपाङ्क्तेयब्राह्मणोपवेशने-
न कुत्सितासु । जलादिना पङ्क्तिभेदनमन्तरेणेत्याचारः
प्रा० वि० । “ब्राह्मणः क्षत्रियपङ्क्त्यामुपविश्यासंस्पृशन् यदा
भुङ्क्तेतदा नक्तमाचरेत् । वैश्यपङ्क्त्यामेकरात्रं शूद्रपङ्क्त्यां त्र्यह
माचरेत्” विष्णुः । अनिन्दितपङ्क्तिष्वपि सहभोजने एकस्यो-
त्थाने तदन्नस्याभक्ष्यता “एकपङ्क्त्युपविष्टानां बिप्राणां
सहभोजने । यद्येकोऽपि त्यजेत् पात्र शेषमन्नं न भोजयेत् ।
मोहात् भुङ्क्ते तु यः पङ्क्त्यामुच्छिष्टं सहभोजने । प्राय-
श्चित्तंचरेद्विप्रः कृच्छं सान्तपनं तदा” शङ्खः । कालविशेषे
द्रव्यमात्रस्य अभक्ष्यता । “सूर्य्यग्रहे तु नाश्नीयात् पूर्ब्बं
यामचतुष्टयम् । चन्द्रग्रहे तु यामांस्त्रीन् बालबृद्धातुरैर्विना”
वृद्ध० गौ० । “ग्रहणं तु भवेदिन्दोः प्रथमादधि यामतः भुञ्जी-
पृष्ठ ०२८०
तावर्त्तनात् पूर्ब्बं प्रथमे प्रथमादधः” मा० पु० । अधि ऊर्द्धम् ।
“ग्रस्तोदये सति विधोर्नाहर्भोजनमाचरेत्” वशि० । “अमु-
क्तयोरस्तगयोरद्यात् दृष्ट्वा परेऽहनि” व्यासः । “अहोरात्रं न
भोक्तव्यं चन्द्रसूर्य्यग्रहो यदा मुक्तिं दृष्ट्वा तु भोक्तव्यं स्नानं
कृत्वा ततःपरम् विष्णुघ० पु० । ‘सन्ध्याकाले यदा राहुर्ग्रसते
शशिभास्करौ । तदहर्नेव भुञ्जीत रात्रावपि कदाचन”
गर्गः । सायं सन्ध्यायां सूर्य्ये ग्रस्तास्ते, पूर्ब्बेऽह्नि रात्रौ
च न भोक्तव्य, प्रातः सन्ध्यायां चन्द्रे पस्तास्ते पूर्ब्बरात्रा-
वपरेऽह्नि च न भोक्तव्यमित्यर्थः नि० सि० । बालवृद्धा-
तुरैर्विनेत्युक्तेस्तेषा विशेषः । “सायाह्ने ग्रहणं चेत्
स्यादपराह्णे न भोजनम् । अपराह्णे, न मध्याह्ने,
मध्याह्ने न तु सङ्गवे । भुञ्जीत संगवे चेत् स्यान्नपूर्ब्बं भोजन-
क्रियेति” मा० पु० उक्तः’ । एतच्च बालादिविषयमिति नि०
सि० । “सर्वेषामेव वर्ण्णानां सूतकं राहुदर्शने स्नात्वा कर्माणि
कर्वीत शृतमन्नं विबर्ज्जयेत्” हेमा० षट्त्रि० । “नवश्राद्धेषु
यच्छिष्टं ग्रहपर्य्युषितञ्चयत् । सर्ब्बं तद्दुष्टतामेति” स्मृतेः
ग्रासकाले पक्वान्नादेरभक्षपता । अत्रापवादः । “आरनालं
पयस्तक्रं दघि स्नेहाज्यपाचितम् । मणिकस्थोदकं चैव न दुष्ये
द्राहुसूतके” मेधा० । “अन्नं पक्वमिह त्याज्यं स्नानं सवसनं
ग्रहे । वारितक्रारनालादि तिलदर्भैर्न दुष्यति” स्मृतिः
१ पुंसवनाद्यन्नस्याभक्ष्यता । “याजकान्नं नवश्राद्धं संग्रहे
चैव भोजनम् । स्त्रीणां प्रथमगर्भे च भुक्त्वा चान्द्रायणं चरेत् ।
ब्रह्मौदने च सोमे च सीमन्तोन्नयने तथा । जातश्राद्धे
नवश्राद्धे भुक्त्वा चान्द्रायणं चरेत्” आप० । संग्रहे स्त्रीणा-
मेव व्यभिचारादिदीषार्थप्रायश्चित्तेन संग्रहे! ब्रह्मौदने
आपोवसयज्ञाङ्गकर्म्मविशेषे प्रा० वि० । “जन्मप्रभृति संस्कारे
बालस्यान्नस्य भोजने । असंपिण्डैर्न भोक्तव्यं शमशानान्ते
विशेषतः” अङ्गि० । “निर्वृत्ते चूड़होमे च प्राङ्नामंकर-
णात् तथा । चरेत् सान्तपनं भुक्त्वा जातकर्म्मणि चैव हि”
व्यासः । भोजनकाले मूत्राद्युत्सर्गेऽन्नमात्रस्याभक्ष्यता ।
“मूत्रोच्चारसमुत्सर्गे मोहात् भुङ्क्तेऽथ वा पिबेत् । त्रिरात्रं
कुर्व्वीत” शाता० । भोजनकाले सूतकाद्यशौचे भक्ष्यमा-
णान्नस्याभक्ष्यता “यदा भोजनकाले तु अशुचिर्भवति द्विजः ।
भूमौ निःक्षिप्य तं ग्रासं स्नात्वा विप्रोविशुध्यति । भक्षयित्वा
तु तं ग्रासमहोरात्रेण शुध्यति अशित्वा सर्व्वमेवान्नं
त्रिरात्रेण विशुध्यति” शाता० । “अशुचिः सूतकादिनेति”
प्रा० वि० । तैलाभ्यङ्गादिना स्नानार्हस्याकृतस्नानस्यान्न-
मात्रस्याभक्ष्यता । “समुत्पन्ने द्विजः स्नाने भुञ्जीताथ पिबे-
त्तथा । गायत्त्र्यष्टसस्रं तु जपेत् स्नात्वा समाहितः” संब० ।
स्नाने तैलाभ्यङ्गक्षौरादिनिमित्ते स्नाने प्राप्ते प्रा० बि० ।
नीलीवस्त्रपारिधाने द्रव्यमात्रस्याप्यभक्ष्यता । “नीलीवस्त्रं
परिघाय भुक्त्वा स्नानार्हकस्तथा । त्रिरात्रं तु व्रतं कुर्य्यात्”
शङ्खः । “लोहितान् व्रश्चनांस्तथा । अनुपाकृतमांसानि विड़्-
जानि कवकानि च वृथाकृषरसंयावपायसापूपशस्कुलीरिति”
या० । विड्जानि अमेध्योद्भवानि । अमेध्य देशोद्भवानान्तु
न दुष्टता “अमेध्येषु तु ये वृक्षा उप्ताः पुष्पफलीपगाः
तेषान्नैव प्रदुष्यन्ति पत्रपुष्पफलानि चेति” बौधा० उक्तेः ।
अतिथ्यादिष्वभुक्तवत्सु गृहस्थस्यान्नमात्रस्याभक्ष्यता “देव-
तातिभूतेषु भृत्येष्वभ्यागतेषु च । अभुक्तवत्सु येऽश्नन्ति तथा
पित्रग्निपक्षिषु । दुष्टान्नपूयनिर्यासभुजः सूचीमुखास्तु
ते । जायन्ते गिरिवर्ष्माणः” इति मार्क० पु० । “असंतर्प्य पितॄन्
देवान्नाद्यादन्नं नवं क्कचित् । पक्कान्नं चापि नो मांसमिति
का० ख० भक्ष्येष्वपि देवायानिवेदितमभक्ष्यमेव “अनिवेद्य
न भुञ्जीत मत्स्यमांसादिकं च यत् । अन्नं विष्ठा
पयोमूत्रं यद्विष्णोरनिवेदितम्” आ० त० पु० । “तैर्द-
त्तानप्रदायेभ्यो यो भुङ्क्ते स्तेन एव सः” गीता
ब्रह्मचारिणोऽभक्ष्याणि । ‘मासिकान्नन्तु योऽश्नीयादसमा-
वर्त्तकोद्विजः । स त्रीण्यहान्युपवसेद् मनुः । “मृतान्नं
मधुमांसञ्च नैवाश्नीत व्रती क्कचित् । त्रिरात्रोपोषितः सम्य-
ग्रात्रिमेकां जले वसेत्” देवलः । “सूतिकान्नं नवश्राद्धं मासि-
कान्नं तथैव च । ब्रह्मचारी च योऽश्नीयात् मधुमांसं कथञ्चन
प्राजापत्यं तु कृत्वादौ मौञ्जीहोमेन शुध्यति” संव० । मांसं च
शिष्टभक्ष्यमांसपरम् “ब्रह्मचारी चेन्मधुमांममश्नीयात् शिष्ट-
भोजनीयं, कृच्छ्रं द्वादशरात्रञ्चरित्वा व्रतशेषं समापयेत्”
वशि० उक्तेः । अस्यापवादः “स चेत् व्यघीयत कामं गुरो-
रुच्छिष्टं भैषर्ज्याथं सर्वं प्राश्नीयात् येनेच्छत्तेन चिकित्सेत्
स यदा अगदः स्यादादित्यमुपतिष्ठेत्” बौधा० । अस्य पात्र-
विशेषे द्रव्यमात्रस्याभक्ष्यता । “आमिषस्य तु यो भाण्डे
पक्वमश्नीत सुव्रतः (ब्रह्मचारी) । कुशमूलविपक्केन त्र्यहं
क्षीरेण वर्त्तयेत्” लघुहारीतः ।
सर्वापर्वापवादः । “जातमात्रः शिशुस्तावद्यावदष्टौ समाः”
स्मृताः । भक्ष्याभक्ष्येषुनोदुष्येद्यावन्नैवोपनीयते” का० ख०
एवमन्यान्यपि स्मृतौ निषिद्धानिद्रष्टव्यानि वैद्यकोक्तदोषा-
दपि कानिचिदभक्ष्याणि तानि चापथ्यशब्दे २२६ पृष्ठेप्राय-
शोदर्शितानि विशेषतः कानिचित् प्रदर्श्यन्ते “वर्जयेत्
पयसा स्विन्नं मत्स्यमांसमनूपकम् । बल्लीफलम-
पृष्ठ ०२८१
कुष्माण्डमब्जैर्ज्जब्धूफलाद्वते । मांसं मूलकसंसिद्धं घृतेन
मधुमांसके । मत्स्यानि क्षुरिकारेण क्षौद्रमुष्णेन वारिणा
पुनरुष्णीकृतञ्चान्नं घृतं कांस्ये दशाहिकम् । दध्ना तक्रेण
पयसा तालस्यापि फलेन च । विरोधान्नैव भुञ्जीत
मतिमान् कदलीफलम् । विरुद्धाशनजान् रोगाम् प्रतिहन्ति
विरेचनम् वमनं शयनं वारि पूर्ब्बं वा हितभोजनम्
शाम्येताल्पतया वापि दीप्ताग्नेस्तरुणस्य च स्निग्धव्याया
मबलिनां विरुद्धं वितथं भवेत् । अदृष्टद्वारदोषास्तु
जायन्ते पापिनामिह” आह्निकतत्त्वे वैद्यकम् ।

अभङ्ग पु० न० त० । १ भङ्गाभावे २ पलायनाभावे च न० ब० ।

“भङ्गरहिते त्रि० । ३ अभङ्गाख्ये “पुनस्त्रिधा सभङ्गोऽथा-
भङ्गस्तदुभयात्मक” इति सा० द० उक्ते श्लेषे शब्दा-
लङ्कारभेदे पु० । यथा “पायात् स स्वयमन्धकक्षयकरस्त्वां
सर्बदोमाधवः” । अन्धकेत्यत्राभङ्गः श्लेषः ।

अभङ्गुर त्रि० न भङ्गुरः । भङ्गुरभिन्ने स्थिरे “अभङ्गुरतनु-

त्विषां बलयिता शतैर्विद्युताम्” रसगङ्गाधरः ।

अभद्र न० विरोधे न० त० । सुखभिन्ने दुःखे १ न० ब० ।

२ मङ्गलभिन्ने अमङ्गले च ३ तत्साधने ४ तदाश्रये च त्रि० ।

अभय न० अभावे न० त० । १ भयाभावे । “प्रदद्यात्

परिहारांश्च ख्यापयेदभयानि च” मनुः । “अभयं वै
जनक्र! प्राप्तोऽसीति” श्रुतिः । “प्रवृत्तिं च निवृत्तिञ्च
कार्य्याकार्य्ये भयाभये” गीता ६ त० । २ भयशून्ये त्रि० । न
भयमस्मात् ५ ब० । ३ परमात्मनि, ४ तज्ज्ञाने च । ५
हरितक्याम् ६ दुर्गामूर्त्तिभेदे च स्त्री ७ वीरणमूले उशीरे न०
८ सर्वपरिग्रहशून्ये, शास्त्रोपदिष्टेर्थेऽसन्देहेनानुष्ठातरि
९ आत्मनिष्ठे पु० । “उच्चमूलत्रिकोणेषुवर्त्तेते गुरुभार्गवौ ।
अभयाभिधयोगोऽयं भयङ्करविनाशन” इति “यत्रैकादशग-
श्चन्द्रोभानुर्वा प्रथलः शुभः । अभयोनाम योगोऽयमरिभूत
विनाशकृदिति” च ज्योतिषोक्ते १० यात्रिकयोगभेदे पु० ।
न भयं यस्मात् ५ त० । माभैषीरित्युक्त्वा ११ उत्तोलित
दक्षिणहस्तप्रसारभेदे “अभयं वरदं चैव दक्षिणे दधती-
क्रमात्” श्यामाध्यानम् । १२ त्राणे च न० ।

अभयकृत् क्ति० अभयं त्राणं करोति कृ--क्विप् ६ त० ।

१ त्राणकर्त्तरि । न भयकृत् विरोधे न० त० । भयङ्करभिन्ने
२ सौम्ये । अभयकारकादयोऽप्युक्तार्थे ।

अभयङ्कर त्रि० न भयङ्करः विरोधे न० त० । भयङ्करभिन्ने सौम्ये ।

अभयङ्कृत् स्त्री द्विव० अभयं कुरुतः क्विप् वेदे पृ० मुम् ।

द्यावापृथिव्योः द्यावापृथिव्यावित्युपक्रम्य “ऊरू गव्यूती
अभयङ्कृताविति “उरू गव्यूती ते अभये स्तामित्यतदाह”
शत० ब्रा० ।

अभयजात पु० अभयाय जातः । गर्गादिगणमध्ये मुनिभेदे

तस्यापत्यं यञ् । आभयजात्यः तदपत्ये पुंस्त्री० स्त्रियां ङीप्
यलोपश्च आभयजाती । पुंसि बहुषु लुक् ।
अभयजाताः । यूनि आभयजातायनः ।

अभयडिण्डिम पु० अभयाय स्वयोधभयाभावाय डिण्डिमः

स्वमैन्यप्रोत्साहनार्थं वादनीये रणढक्कादौ वाद्यभेदे ।

अभयद त्रि० अभयं भयाभावं ददाति तदर्थं वचनं प्रयुज्य-

रक्षति दा--क ६ त० । मा भैषीरित्यादिवचनमुक्त्वा
भीत२ त्राणकर्त्तरि “त्रातुमलभयदार्हति” किरा० अभयप्रदयो-
ऽप्यत्र । “यानशय्याप्रदोभार्य्यामैश्वर्य्यमभयप्रदः २ विष्णुः ।

अभयदक्षिणा स्त्री अभये त्राणे त्रातेन देया दक्षिणा ।

त्रातेन रक्षितरि देयदक्षिणायाम् । “मधूदकं फलं
मूलमेधांस्यभयदक्षिणा अभ्युद्यतानि ग्राह्याणि” का० ख०
“सर्वतः प्रतिगृह्णीयान्मध्वथाभयदक्षिणाम्” मनुः । अभयं
दक्षिणेव देयत्वात् । अभयरूपदेये “रात्रौ दानं न शंसन्ति
विना चाभयदक्षिणाम्” मत्स्य पु० । अभयदक्षिणाम-
भयदानम् रघु० ।

अभयमुद्रा स्त्री अभयार्था मुद्रा । १ तन्त्रोक्ते मुद्राभेदे मुद्राशब्दे विवरणम् ।

अभयवाच् स्त्री अभयार्था वाक् । १ अभयदानार्थे मा भैषी-

रित्यादिवाक्ये ।

अभयाद्य पु० अभया हरितकी आद्या यस्य । १ वैद्यकोक्ते

मोदकभेदे । स च “अभया पिप्पलीमूलं मरिचं नागरं
तथा ॥ त्वक्पत्रपिप्पलीमुस्तविडङ्गामलकानि च । कर्षः
प्रत्येकमेषान्तु दन्त्याः कर्षत्रयन्तथा ॥ षट्कर्षाश्च सितायास्तु
द्विपलं त्रिवृतो भवेत् । सर्वं सुचूर्ण्णितं कृत्वा मधुना मोदकं
कृतम् ॥ खादेत् प्रतिदिनञ्चैकं शीतञ्चानुपिबेज्जलम् ।
तावद्विरिच्यते जन्तुर्य्यावदुष्णं न सेवते ॥ अभयाद्योमोद-
कोऽयम्” चक्रदत्तोक्तः ।

अभव पु० भव उत्पत्तिः अभावे न० त० । १ भवाभावे जन्मा-

भावे “मत्त एव भवाभवौ” गीता । २ विनाशे “भवाय
सर्वभूतानामभवाय च रक्षसाम्” रामा० । ७ ब० ।
३ मोक्षे “प्राप्तुमभवमभिवाञ्छसि वा” किरा० शिवभिन्ने पु०

अभव्य न० न भव्यम् अप्राशस्त्ये न० त० । १ अमङ्गले,

२ दुष्टभाग्ये च न० ब० । ३ दुर्भाग्यवति त्रि० । “उपनतम-
वधीरयन्त्यभव्याः” किरा० ।
"https://sa.wikisource.org/w/index.php?title=वाचस्पत्यम्/अपि&oldid=310361" इत्यस्माद् प्रतिप्राप्तम्