पृष्ठ ०२८२

अभाग पु० न भागः अभावे न० त० । १ भागाभावे ।

भागश्च एकदेशः दायादग्राह्यघनाद्यञ्च ७ ब० । तच्छूत्ये पूर्ण्णे
र्निटाये च त्रि० । “यो ज्येष्ठोविनिकुर्व्वीत लोभाद्भ्रातॄन्
यवीयसः । सोऽज्येष्ठः स्यादभागश्च नियन्तव्यश्च राजमिः” मनुः
“यं भागिनं निर्भजन्त्यथ यमभागं निर्भजन्ति” शत० ब्रा० ।

अभागिन् त्रि० न भागी स्त्रियां ङीप् । १ अधिकारानर्हे

क्लीवपतितादो । २ भागोभाग्यम् । तच्छून्ये च । “यमात्मानं
नविद्युरभागिन” इति कट उ० ।

अभाग्य न० अप्राशस्त्ये न० त० । १ दुष्टमाग्ये । न० ब० ।

२ दुष्टभाग्यवति त्रि० ।

अभाजन न० न० त० । अनाधारे “दीधीवेवीसमः कश्चिद् गुणवृद्ध्योरभाजनम्” का० प्र० ।

अभार्य्य पु० नास्ति भार्य्या तत्सम्बन्धो वा यस्य । १ भार्य्याहीने

२ शास्त्रनिषिद्धभार्य्यासम्बन्धे नैष्ठिकब्रह्मचारिप्रभृतौ च ।
“अतिवृद्धानभार्य्यांश्च कृषिसक्तान्” नृपस्य च उ० त०
छा० प० । “अभार्य्यान् शास्त्रनिषिद्धपार्य्यासम्बन्धान्” रघु०

अभाव पु० न भावः । भावभिन्ने सत्त्वेन प्रतीत्यनर्हेवैशेषिकोक्ते

सप्तमपदार्थे भावभिन्नत्वमभावत्वमिति बहवः । भावभेदा-
अयरूपत्वस्य तल्लक्षणस्य अभावविशेषघटितत्वेन अन्योन्या-
श्रयदोषग्रस्ततया अभावत्वमखण्डोपाधिरिति नव्याः ।
अभावश्च भावाभावसाधारणाश्रयः घटाभावस्य पटे
पटाभावदो च सत्त्वात् स च भावातिरिक्तः कश्चित् पदार्थ
इत्याधुनिका वैशेषिका नैयायिकाश्च उररीचक्रुः । सूत्र-
कृता तु “द्रव्यगुणकर्मसामान्यविशेषसमवायानां पदार्थानां
साधर्म्मवेधर्म्म्याभ्यां तत्त्वज्ञानान्निश्रेयसम्” इति षडेव
पदार्थाः कण्ठत उक्ताः । अत एव “न वयं षट्पदार्थवादिनः”
इति सांख्यसूत्रे षट्पदार्थीस्वीकारस्तेषां सूचितः ।
आधुनिकास्तु घटोनास्तीत्यादिप्रतीत्यन्यथानुपपत्त्या पदार्था
न्तरम्भावं कल्पयन्ति । प्राभाकरास्तु अभावस्याधिकरणस्व
रूपत्वसङ्गीचक्रुः । तेषामयमाशयः “मानाधीना मेयसिद्धि-
रित्युक्तेः अभावस्यातिरिक्तस्य सिद्धौ प्रमाणं वक्तव्यम्
न तावत् प्रत्यक्षम्, अभावस्य रूपाद्यभावेन इन्द्रियसन्नि-
कर्षाभावात् तदयोग्यत्वात् न च इन्द्रियसंयुक्तविशेषणता
तत्सन्निकर्षः भूतलादौ चक्षुरादिसन्निकर्षसत्त्वेऽपि तत्
स्वरूपविशेषणताया अव्यावर्त्तकत्वात् अन्यथा घटाभाव
प्रत्यक्षकाले षटाद्यमावप्रत्यक्षस्य दुर्वारत्वात् भूतलादि-
स्वरूपस्यानुगमात् तुल्यै सन्निकर्षरूपे विशैषणता
सम्बन्धे विमिगमनाभावेन नियामकत्वाभावात् । अथ
ज्ञानलक्षणया यस्य ज्ञानं तस्यैवाभावस्य प्रत्यक्षमिति
कल्पनादस्ति नियम इति चेत् ज्ञानलक्षणया घटादेरुपनये
तद्विशिष्टबुद्धेरेवोदयप्रसङ्गात् विशिष्टबुद्धौ विशेषणज्ञानस्य-
हेतुत्वेन तज्ज्ञानसामग्र्याः समवधानात् अथ अभाव-
ज्ञानसामग्र्याः प्रतिबन्धकत्वेन न तद्बोघ इति चेत् अभाव-
बोधसामग्र्याः अनियतत्वेन तस्या अप्रतिबन्धकत्वात्
इन्द्रियसन्निकृष्टविशेषणतात्मकस्य स्वरूपसम्बन्धस्य भूतलादि-
स्वरूपत्वानतिवृत्तेः भूतलादिस्वरूपस्य कदाचिदप्यनपायेन
प्रतिबन्धकत्वायोगात् अन्यथा भूतलादौ कदापि घटादे-
र्ज्ञानलक्षणया विशिष्टज्ञानस्यानुत्पत्त्यापत्तेः “अभावबुद्धिश्च
विशिष्टवैशिष्ट्यावगाहिबोधमर्य्यादां नातिशेते” इति
दीधितिकृदुक्तेरादौ प्रतियोगिज्ञानस्यापेक्षितत्वेन अभावांशे
प्रतियोगिज्ञानवत् धर्म्म्यंशे तद्भानस्य दुष्परिहारत्वात् ।
एतेन योग्यानुपल्ब्धेस्तत्र हेतुत्वकल्पनेऽपि न निस्तारः ।
घटादीनामिव पटादेरपि योग्यतया तदुपलब्धेरभावस्य
सत्त्वेन सर्वेषां योग्यानामभावप्रत्यक्षप्रसङ्गात् । नाप्यनुमानं
तत्र प्रमाणं, तत्र व्याप्तिलिङ्गादेरभावात् । तस्यैवाज्ञाने
तद्व्याप्यताग्रहासम्भवाच्च किञ्चातिरिक्ताभाववादिभिः भूतले
“घटोनास्तीति प्रतीतिः सविषया प्रतीतित्वात् यत्तज्-
ज्ञानं तत्तत् सविषयकं यथा घटादिज्ञानमित्यनुमानप्रयोगः
स्वीकार्य्यः । तत्र तदनुमानेन सविषयकत्वसिद्धावपि
अधिकरणस्वरूपेणैव तद्विषयकत्वसम्भवेन उद्देश्यासिद्धेः
नापि लक्षणात्तत्सिद्धिः अभावस्य निर्वक्तुमशक्यतया
तल्लक्षणस्यैवाभावात् । तथा हि अभावशब्दस्य व्युत्-
पाद्यमानस्य भावभिन्नत्ववाचितया भावभिन्नत्वमभावस्य
लक्षण बाच्यं तच्च भेदरूपाभावज्ञानसापेक्षत्वेनान्योन्याश्रय-
दोषकवलितत्वेन दुर्ज्ञेयम् । किञ्च भावभिन्नत्वस्य अभाव-
लक्षणत्वे भावरूपविशेषणज्ञानशून्यकाले घटोनास्तीति
प्रत्ययानुपपत्तिः विशिष्टवुद्धेर्विशेषणज्ञानाधीनत्वात्, अभावो
न भाव इति वाक्यात् शाब्दबोधानुपपत्तिश्च उद्देश्यता-
वच्छेदकविधेययोरैक्ये घटोघटः इत्यादाविव शाब्दबोधा-
भावस्य सर्वसम्मतत्वात् । एतेन अभावत्वम् समवाय
सामनाधिकरण्यान्यतरसम्बन्धावच्छिन्नप्रतियोगिताकसत्त्वा-
भाववत्त्वमित्युक्तावपि न निस्तारः तथात्वे अभावो न
भाव इति शाब्दबोधोपपत्तावपि तदज्ञानकाले घटोना-
स्तीति प्रत्ययस्यानुपपत्तेरन्योन्याश्रयदोषस्य दुष्परिहर-
त्वाच्च । घटाभावाभावादेर्घटरूपतयाऽङ्गीकारेण तत्र
समवायेन सत्तावत्त्वेन निरुक्ताभावबत्त्वाभावात् घटाभावाभावोऽ-
भाव इति बुद्धेरनुत्पत्त्यापत्तेश्च । अथ अभाववत् अभावत्वमप्यति-
रिक्तः पदार्यः तर्थाचाभावत्वं न भावभिन्नत्वादि किन्तु स्वरूप-
पृष्ठ ०२८३
सम्बन्धविशेषः अखण्डोपाघिर्वेति मतम् तत्रेदमुच्यते
कोऽयंस्वरूपसम्बन्धः? किं स्वरूपमेव संबन्धः? स्वरूपस्य वा
सम्बन्धः? तत्राद्ये यदि अधिकरणस्वरूपस्यैव सम्बन्धत्वम्
आयातं तर्हि अभाबस्याधिकरणस्वरूपत्वेन, स्वरूप
स्यैवाभावाधिकरणसम्बन्धत्वेन भवताऽपि स्वीकारात् ।
अन्त्ये कस्य स्वरूपस्य सम्बन्धः? यदि अधिकरणस्य
तदा जितं प्राभाकरैः अन्यस्य तथाबिधत्वेऽप-
सिद्धान्तापत्तेः भूतले तदाधारतानुपपत्तेश्च । अखण्डो-
पाधरपि अभाववत् प्रमाणसापेक्षतया तद्दोषताद-
वस्थ्यम् प्रमाणाधीनतयैव पदार्थस्य सिद्धेः सर्व्वसम्मतत्वात्
असति प्रमाणे कथं तत्सिद्धिः? । किञ्च अखण्डोपाधित्वग्य
भवन्मते कारणतादावपि सत्त्वेनाभावेतरभेदासाधकतया तल्ल-
क्षणत्वायोगः भिन्नभिन्नास्वण्डोपाधिस्वीकारे च तस्यापि
लक्षणसापेक्षतया तस्य च निर्वक्तुमशक्यतया न तस्याभाव-
लक्षणत्वम् । न च नञ्पदशक्यतावच्छेदकतया तत्सिद्धिः
तथाहि अभावस्य अधिकरणस्वरूपत्वे स्वरूपसंबन्धविशेषस्यैव
नञ्पदशक्यतावच्छेदकत्वं वाच्यं तदपेक्षया अभावत्वरूपा-
खण्डोपाधेरेव तथात्वकल्पने लाघवम् इति वाच्यम् कम्बु-
ग्रीवादिमानित्यादौ गुरुधर्म्मेऽपि शक्यतावच्छदकत्वस्वीका-
रात् अन्यथा घटः कम्बुग्रीवादिमानित्यादि वाक्यात् शाब्द-
बोधानुपपत्तिः । उपेयते च सर्वैः गुरुधर्म्मेऽपि शक्यताव-
च्छेदकत्वम् । अथ शब्दएव अभावे प्रामाणमिति चेत्
शब्दवेद्यस्य ब ध्यापुत्रादेरपि, अतिरिक्ततया कल्पनापत्तेः
अथाप्तशब्दएव प्रमाणमिति चेन्न अभावस्य पदार्थान्त-
रत्वे आप्तवाक्याभावात् भवतां सूत्रकृताऽपि अभावस्य
षट्पदार्थातिरिक्ततया क्वाप्यनुक्तेः अभावशब्दमात्र-
प्रयोगेऽपि तस्याधिकरणस्वरूपत्वेनोपक्षीणत्वात् ।
एवमतिरिक्ताभावकल्पनपक्षे निरस्तेऽपि स्वपक्षदोषोद्धार-
मित्थं चक्रुः । अभावस्याधारस्वरूपत्वे भूतले घटोनास्ती-
त्यादावधिकरणताप्रतीतिः कथं संगच्छतामिति चेत्
परेषामिव अत्यन्ताभावस्य नित्यत्वेऽपि घटसत्त्वे घटाभाव-
बुद्धेरनुत्पादे तत्तत्कालीन भूतलादिसम्बन्धस्य नियामकतावत्
तत्तत्कालीनभूतलस्वरूपस्यैव अभावपदार्थतया तथाप्रती-
तिसम्भवात् तत्तत्कालीनभूतलस्वरूपस्य घटाद्यनवेच्छद्यकाल-
सम्बन्धरूपतया तस्य च भूतले स्वरूपमित्यादिवदाधारता-
ऽक्षतेः । एतेनानन्तसम्बन्धस्वरूपकल्पनापेक्षया एकाभाव-
कल्पने लाघवमित्यपास्तं कॢप्ततया कालस्य तत्सम्बन्धस्य
च सर्ववादिसम्मततया अधिकस्याकल्पनात् । भवतामभाव
इव तत्रैव सम्बन्धे घटादेः प्रतियोगितयान्वयः कल्प्यते
अतो नाधिककल्पना । घटो न पट इत्यादौ पटनिष्ठमेय
तत्तत्कालीनतादात्म्यं भेदशब्दार्थस्तत्रैव पटतादात्म्या-
नुपहिकस्य तादात्म्यस्याधिकरणे घटादिस्वरूपे भेदे
तादृशसम्बन्धे वा पटादेः प्रतियोगितयान्वये सर्वसामञ्ज
स्यम् । अतएव “न सोऽस्ति प्रत्ययोलोके यत्र कालो न
भासते” इत्युक्तेः सर्वत्रबुद्धौ कालावभास इत्यभिपुक्तोक्तिः ।
भक्तामभावभेदबुद्ध्योर्यधा नियमः मन्मतेऽषि तथा ।
वाय्वादौ रूपाद्यभावचाक्षुषत्वाद्यनुपपत्तिरिष्टैव त च तत्र
दृढ़तरं किञ्चित् प्रमाणमस्तियैन तत्स्वीकारावश्यकतेति” ।
अभावभेदबुद्ध्योर्नियमाश्च नञशब्दे प्रदर्शयिष्यन्ते । भोऽयम-
भावः बौद्धः शून्यतया आकाशतया निरावरणतया निरु-
पाख्यतया च व्यवह्रियते तच्च तन्मतावसरे वक्ष्यते ।
“अभावो वा तदर्थोऽस्तु भाष्यस्य हि तदाशय” इति हरिः ।
“नाभावौपलब्धेः शां० सू० । “नासतोविद्यते भावो
नाभावोविद्यते सतः” इति गीता । यथा च अभावान्न
भावोत्पत्तिस्तथा उत्पत्तिशब्दे वक्ष्यते । न्यायादिमते स
चाभावः द्विविधः संसर्गाभावः अन्योन्याभावश्चेति भेदात्
संसर्गवावश्च ध्वंसप्रागभावात्यन्याभावभेदात् त्रिविधः ।
“अभावश्च द्विधा संसर्गान्योन्थाभावभेदतः । प्रागभावस्तथा
ष्वं सोऽप्यत्यन्ताभावएव च । एवं त्रैविध्यमापन्नः संसर्गाभाव
इष्यते” इति भाषा० । प्रागभावश्च उत्पत्तेः प्राक्
कारणस्य सूक्ष्मावस्था, उतपत्तिराविर्भावः, ध्वंसस्तिरोभाव
इति सांख्यादयः । २ मरणे, मरणञ्च स्वादृष्टारब्धशरो-
रेणसह जीवस्य विभागः, पूर्ब्बसंयोगनागो बा, प्राणवायो-
रुत्क्रमणं वा बोध्यम् । भावः आलङ्कारिकोक्तरत्यादि-
स्थायिभावः ३ तच्छून्ये त्रि० । आन्तरः भावः स्नेहापर-
पर्य्यायः अनुरागः । ४ तद्धीने त्रि० । सचानुरागः
देवविषयो भक्तिः पुत्रादिविषयः स्नेहः, पत्यादिविषयः प्रेमेति
भेदः । मीमांसकाद्युक्ते अभावग्राहके ६ योग्यानुपलब्धि
रूपे प्रमाणे ७ असत्त्वे, अविद्यमानत्वे च । वास्ति
भावः सत्त्वं यस्य । ८ मिथ्याभूते त्रि० ।

अभावनीय ति० न० त० । १ चिन्तयितुमशक्ये २ उत्पादयितुमशक्ये च ।

अभावसम्पत्ति स्त्री अभावस्य मिथ्याभूतस्य सम्पत्तिः । १

मिथ्याभूतपदार्थज्ञाने अध्यासे यथा शुक्तिकायां
रजतज्ञानं तत्र च यथा मिथ्याभूतस्यैव ज्ञानं तथोक्तमध्यासशब्दे ।

अभाषण न० अभावे न० त० । भाषणाभावे मौनभावे ।

पृष्ठ ०२८४

अभि अव्य० न भाति भा--बा० कि । १ कञ्चित्प्रकारं प्राप्तस्य

द्योतने, २ आभिमुख्ये, ३ अभिलाषे, ४ बीप्सायाम्,
५ लक्षणे, ६ समन्तादर्थे । ७ धर्षणे दुर्गा० । “अभि पूजा-
भृशार्थेच्छासौम्याभिमुख्यसौरूप्यवचनाहारस्वाध्यायेषु”
गणरत्नोक्ते ८ पूजादौ च तत्र पूजायाम् अभिवन्दते अभिवाद-
यते । भृशार्थे अभियुक्तः अभिनिवेशः । इच्छायाम्
अभिलासः अभिकः । सौम्यं माधुर्य्यम् तत्र अभिजातः “प्रज-
ल्पितायामभिजातवाचि” कुमा० । आभिमुख्ये अभिमुखम्
अभ्यग्नि शलभाः पतन्ति “अभिचैद्यं प्रतिष्ठासुः” माघः
सौरूप्ये अभिरूपम् । वचने, अभिधानम् “साक्षात् सङ्केतितं
योऽर्थमभिधत्ते स वाचक” इति काव्य० प्र० । आहारे
अभ्यवहारः । स्वाध्याये अभ्यस्यति “वेदाभ्यासे सदारतः”
स्मृतिः । स्वाध्याय इत्युपलक्षणम् अन्यस्यापि पौनःपुन्य-
मात्रेऽस्य प्रवृत्तिः “अभ्यस्यन्ति तटाघातं निर्जितैरा-
वतागजा” कु० । एतस्य च तत्तर्थद्योतकतामात्रं समभि-
व्यवहृतशब्दस्यैव तत्तदर्थे लक्षणेति सिद्धान्तः अस्य क्रिया-
योगे उपसर्गता “बोप्सेत्थम्भावचिह्नेषु तु कर्भप्रवचनीयता ।
वृक्षंवृक्षमभि सिञ्चति । हरिमभि वर्त्तते । भक्तोहरिमभि,
अग्निमभि शलभाः पतन्तिइत्यादुदाहार्य्यमृ शब्दपरत्वेपु०
“अभिरभागे” पा० ।

अभिक त्रि० अभिकामयते अभि + कन् । १ अनुकाभिकाभीकाः

कमितेति” पा० नि० । कामुके ‘सोऽधिकारमभिकः कुलो-
चितं काश्चन स्वयमवर्त्तयत् समाः” रघुः ।

अभिकाङ्क्षा स्त्री अभि + काङ्क्ष--भावे अ । अभिलापे

“शीताभिकाङ्क्षा मुखतिक्तता च” सुश्रु० ।

अभिकाङ्क्षित त्रि० अभि + काङ्क्ष--कर्मणि क्त । अभिलषिते।

अभिकाङ्क्षिन् त्रि० अभि + काङ्क्ष--णिनि । अभिलाषवतिस्त्रियां ङीप् ।

अभिकाम त्रि० अभिकामयते अभि + कम--णिङ्--अच् । १

कामयमाने “याचे त्वामभिकामाहं तस्मात् कुरु मम प्रियम्”
भा० आ० प० । मावे घञ् । अभिलाषे पु० “मनमाप्यभि-
कामस्य कुरुक्षेत्रं युधिष्ठिर! भा० ब० प० अभिकामादागतः
ठञ् आभिकामिकः अभिलाषात् प्राप्ते त्रि० स्त्रियां ङीप् ।
“गुणैश्चानुपमैर्युक्तः समस्तैराभिकामिकैः” भा० शा० प० ।

अभिक्रम पु० अभि + क्रम--भावे घञ् अवृद्धिः । १ आरम्भे,

२ आरोहणे ३ यद्धाय, शत्रुसंम्मुखयाने च । कर्मणि
घञ् । ४ आरब्धे “नेहाभिक्रमनाशोऽस्ति प्रत्ययवायो न
विद्यते” गीता । आधार घञ् । ५ युद्धे ।

अभिकृत्वन् त्रि० अभि + कृ--ङवनिप् स्त्रियां ङीप् वनो रश्च ।

आभिमुख्येन कारिणि । “अपेयं रात्र्य च्छत्वपोछन्त्वभि-
कृत्वरोः अथ० २, ८, २ ।

अभिकॢप्त त्रि० अभि + कृप--क्त रोलः । १ सम्पन्ने २ नियते

३ अभिप्रकाशिते च “हृदा मनीषा मनसाभिकॢप्ताय
एतद्विदुः” कठ उप० ।

अभिक्रतु पु० आभिमुख्येन क्रतुर्युद्धकर्म यस्य । बलवति ।

“अथाभवद्दमिताभिक्रतूनाम्” ऋ० ३, ३४, १० । “अभि-
क्रतृनाम् बलीयसाम्” भा० ।

अभिक्रान्ति स्त्री अभि + क्रम--क्तिन् । १ अभिक्रमे २ उपक्रमे

“यज्ञस्याभिक्रान्तिरनपक्रमाय” श्रुतिः ।

अभिक्रान्तिन् त्रि० अभिक्रान्तमनेन इष्टादि० इनि ।

उपक्रमकर्त्तरि “य एषामध्ययने अभिक्रान्तितमः” श्रुतिः ।

अभिक्रामम् अव्य० अभि + क्रस--वीप्साभीक्ष्ण्ययोः णमुल् ।

आक्रम्य, आरभ्य, आभिमुख्येन गत्वेत्यर्थे । पूर्ब्बं पूर्ब्ब-
मेवाभिक्रामम्” कात्या० ३, २, २१ ।

अभिक्रोश पु० अभि + क्रुश--भावे घञ् । १ आक्रोशे २ निन्दायाम् ।

अभिक्रोशक त्रि० अभि + क्रुश--ण्वुल् । १ निन्दके २ अपवादके च

अभिक्षत्तृ त्रि० अभि + क्षद--तृच् स्त्रियां ङीप् । हिंसके

“अभिक्षत्तुस्त्वावतो वरूताः” ऋ० ७ । २१ । ८ । “अभिक्षत्तु-
रभिहिंसकस्य” भा० ।

अभिक्षद त्रि० अभि + क्षद--हिंसायाम् अच् । हिंसके ।

“अभिक्षदामर्य्यमाणम्” ऋ० ६, ५०, १ । अभिक्षदां
हिंसकं छान्दसत्वात् आत्त्वम् ।

अभिख्या स्त्री अभि + ख्या--अङ् । १ अभिधाने, २ शोभायां

“काप्यभिख्या तयोरासीत् व्रजतोः शुद्धवेशयोः रघुः ।
३ कीर्त्तौ ४ अभितः ख्यातौ, ५ माहात्म्ये “अन्धा अपश्या-
नदभन्नभिख्याम्” ऋ० १, १४८, ५ “अभिख्यामभितः
ख्यातिं माहात्म्यं वा” भा० । कर्त्तरि क्विप् । ६ अंभितो
गन्तरि” ७ प्रसिद्धे च “अभिख्या भासा वृहता शुशुक्कनिः”
ऋ० ८, २३, ५ “अभिख्या अभिमुखं गच्छन्त्याऽभितः प्रसि-
द्धया वा भासा” भा० धातोरातोलोपात् रूपम् ।
८ प्रज्ञायां निरु० ।

अभिख्यातृ त्रि० अभि + ख्या--तृच् स्त्रियां ङीप् । १ कथके

अभिगन्तरि ३ अभिद्रष्टरि च । “आपिरभिख्यनतामर्डिता
सोम्यानाम्” ऋ० ४ १७, १७ “अभिख्याताभिद्रष्टा” भा० ।

अभिगत त्रि० अभि + गम--क्त । १ आनुकूल्येन प्राप्ते २ सेविते

३ आभिमुख्येन गते च ।

अभिगन्तव्य त्रि० अभि + गम--तव्य । अभिगम्ये सेव्ये च

“सन्तः सदाभिगन्तव्या यदि वोपदिशन्ति ते” वशि० ।
पृष्ठ ०२८५

अभिगन्तृ त्रि० अभि + गम--तृच् स्त्रियां ङीप् । युद्धार्थम्

आभिमुख्येन १ गन्तरि २ आनुकूल्येन गन्तरि च ।
“क्षत्रं वरुणोऽभिगन्तैब ब्रह्म” शत० बा० ।

अभिगम पु० अभि + आभिमुख्ये आनुकूल्येवा गम--घञ् । आभि

मुख्येन गमने “तवार्हतो नाभिगमेन तृप्तम्” रघुः
आनुकूल्येन २ गमने “स्वरुच्या क्रियमाणे तु यत्रावश्यक्रिया
क्वचित् । नोद्यते नियमः सोऽत्र ऋतावभिगमो यथेति”
मीमांसा । भावे ल्युट । अभिगमनं तत्रैव न० । “ज्येष्ठाभि-
गमनात् पूर्ब्बं तेनाप्यनभिनन्दिता” रघुः । “पापकृन्मु-
च्यते पापात्तीर्थाभिगमनेन च” स्मृतिः ।

अभिगम्य त्रि० अभिगन्तुं शक्यते सौम्याकारत्वात् ।

आभिमुख्येन गन्तुं शक्ये “अद्यप्रभृति भूतानामभिगम्योऽस्मि
शुद्धये” कुमा० । “सोऽभिगम्यश्च पूज्यश्च कर्त्तव्यश्च प्रदक्षिणम्
रामा० । “अधृष्यश्चाभिगम्यश्च यादोरत्नैरिवार्णवः” रघुः ।
अभि + गम--ल्यप् । आभिमुख्येन गत्वेत्यर्थे अव्य० “मनु-
मेकाग्रमासीनमभिगम्य महर्षयः” इति मनुः ।

अभिगर पु० अभि + गॄ--स्तुतौ अप् । १ अभितः स्तवे ।

“अनुष्टुप् तेऽभिगरम्” इति यजु० ८, ४७ ।

अभिगामिन् त्रि० अभिगच्छति अभि + गम--णिनि

अभिगन्तरि । “ऋतुकालाभिगामी स्यात् स्वदारनिरतः सदा”
मनुः । “राजपत्न्यभिगामी च दग्धव्यास्ते कटाग्निना” या०

अभिगीत त्रि० आनुकूल्येन गीतः । १ आनुकूल्यार्थं स्तुते

२ अभितोगीते च ।

अभिगुप्ति स्त्री अभि + गुप्--क्तिन् । १ अभिरक्षणे “तद्व्रज-

मेवेताभिगुस्या आसादयति” श० ब्रा० ।

अभिगूर्त्त(र्ण्ण) त्रि० अभि + गुर--क्त वेदे नत्वाभावः । १ उक्ते

“इष्टं वीतमभिगूर्त्तम्” यजु० २५, ३७, “अभिगूर्त्तं
ये यजासहे इत्यभिगूर्त्त्योक्तम्” वे० दी० लोके तु
अभिगूर्ण्णैत्येव अभ्युद्यते त्रि० ।

अभिगूर्त्ति स्त्री अभि + सातत्ये गुर--क्तिन् । सततसङ्कल्पे “तेषा-

मभिगूर्त्तिर्न इन्वतु” ऋ० १, १६२, ६ । “अभिगूर्त्तिः सङ्कल्पः
सर्ब्बथा करणीयमिति बुद्धिः” भा० २ अभित उद्यमे च
“उतोतेषामभिगूर्त्तिर्न इन्वतु” ऋ० १, १६२, १२, “अभि-
गूर्त्तिः” उद्यमः भा० ।

अभिगृहीतपाणि त्रि० आनुकूल्यार्थं गृहीतः पाणिर्येन । आनुकूल्यार्थं कृताञ्जलौ ।

अभिगेष्ण त्रि० अभि + गै--इष्ण । अभितो गायके “यदेलवा

अभिगेष्णाश्चरन्ति” श्रुतिः ।

अभिगोप्तृ त्रि० अभितो गोपायति अभि + गुप--तृच् स्त्रियां

ङीप् । अभिरक्षके ।

अभिग्रस्त त्रि० अभि + ग्रस--क्त । १ आक्रान्ते २ कवलीकृते च

अभिग्रह पु० अभि + ग्रह--अप् । (लुट) इति ख्याते प्रकाश

हरणे, २ अभियोगे, ३ आभिमुख्येनोद्यमे, ४ गौरवे ५ युद्धे
च । ल्युटि अभिग्रहणमप्यत्र न० ।

अभिघर्षण न० अभि + घृष--भावे ल्युट् । परस्परसंयोगेन १ घर्षणे, २ मर्द्दने च ।

अभिघात पु० अभि + हन--भावे घञ् । १ निःशेषहनने

समूलनाशने “दुःखत्रयाभिघाताज्जिज्ञासा तदभिघातके हेतौ”
सां० का० । २ ताड़ने । “तड़ाभिघातादिव लग्नपङ्के”
कुमा० । अभिहन्यतेऽस्मै फलाय उद्दिश्यार्थे बा० घञ् ।
द्रव्यान्तरक्रियया उत्पादितद्रव्यान्तरसंयोगे, वैशेषि-
कोक्ते शब्दहेतौ, संयोगिनोर्मिथोविभागजनकक्रिया-
हेतौ च ३ संयोगभेदे । यथोक्तं “नोदनाभिघातात्
संयुक्तसंयोगाच्च पृथिव्यां कर्म्मेति वै० सू० । “यः संयोगः
शब्दनिमित्तकारणं, यज्जनितं कर्म्म संयोगिनोः परस्पर-
विभागहेतुश्च भवति स संयोगविशेषोऽभिघातः नोदनं तु
तद्विलक्षणः संयोगः । ताभ्यामप्रि प्रत्येकं कर्म्म जन्यते पङ्का-
ख्यायां पृथिव्यां चरणेन नोदनात् चरणाभिघाताच्च कर्म्म
जायते तत्र पङ्कः समवायिकारणम् नोदनाभिघातौ यथा
यथमसवायिकारणम् गुरुत्ववेगप्रयत्ना निमित्तकारणानि
संयुक्तसंयोगात् नोदनाभिघाताद्वा पङ्के कर्म पङ्कस्थिते घटा
दावपि, तत्समकालमेव कर्मदर्शनादिति” श० उपम्करः ।
“आत्मसंयोगप्रयत्नाभ्यां हस्ते कर्म, तथा हस्तसंयोगाच्च
मुषले, अभिघातजे मुषले कर्म्मणि व्यतिरेकादकारणं हस्त-
संयोगः” बै० सू० तथात्मसंयोगात् हस्तकर्मणि, अभिघाता-
न्मुषलसंयोगाच्च हस्ते कर्म “आत्मजन्या भवेदिच्छा इच्छा-
जन्या भवेत् कृतिः कृतिजन्या भवेच्चेष्टा चेष्टाजन्या भवेत्
क्रिये” त्युक्तिममुसृत्याह आत्ससंयोगप्रयत्नाभ्यां हस्तेसमवाथि-
कारणे कर्म, तस्य च कर्मणः प्रयत्नवदात्मसंयोगोऽसमवायि
कारणं प्रयत्नस्तु निमित्तकारणम् प्रयत्नवदात्मसंयोगासमवायि
कारणिका च क्रियैव चेष्टा । तथा उत्क्षेपबद्धस्तसंयोगात्
मुषले उत्क्षेपणं कर्म जायते । तथाच प्रयत्नवदात्मसंयुक्ते-
न हस्तेन यो मुषलस्य संयोगः स तत्रासमायिकारणम् मुषलं
समवायिकारणमिति । उदूखलाभिहतस्य मुषलस्य कर्म-
यदुत्पपतनं जायते तत्र कारणमाह । मुषलादौ उत्पतन
कर्मणि अभिघात एव हेतुः, न तु हस्तसंयोगः तस्य तं प्रति
कारणत्वेनान्ययासिद्धत्वात् तद्व्यतिरेकेऽपि अभिघात-
पृष्ठ ०२८६
मात्रेण अभिहतप्रधानगुरुद्रव्य संयोगेनैव उत्पतनदर्शनात्
यथा भूम्यादौ हस्तेन वेगक्षिप्तलोष्टादेर्हस्तयोगं विनाऽपि
उत्पत्ति र्दृश्यतेऽत उत्पतने अभिघात एव असमनायि-
कारणम् “अभिघातात् मुषले संयोगाद्धस्ते कर्म” वै० सू०
अभिघातात् अभिघातजनितसंस्कारजनितात् हस्तमुषल-
संयोगात् हस्ते उत्पतनं कर्म तत्र मुषलसंयोगोऽसमायि-
कारणम् । तीव्रवेगप्रयुक्तक्रियाजनितः संयोगः शब्दहेतुः ।
“तृतीयः स्यात् कर्म्मजोऽपि द्विधैव परिकीर्त्तितः
अभिघातोनोदनञ्च शब्दहेतुरिहादिमः । शब्दाहेतुर्द्वितीयः
स्यादिति” “शब्दोध्वनिश्च वर्ण्णश्च मृदङ्गादिभवोध्वनिः ।
“कण्ठसंयोगादिजन्यावर्ण्णास्ते कादयोमता” इति च भाषा०
अतएवोक्तम् “कण्ठताल्वाद्यभिघातजन्यः शब्दः” इति
वृद्धैः । शिक्षायामप्युक्तम् “आत्मा बुद्ध्या समेत्यार्थान्
मनोयुङ्क्ते विवक्षया । मनः कामाग्निमाहन्ति स प्रेरयति
मारुतम् । सो दीर्ण्णो मूर्द्ध्न्यभिहतो वक्त्रमापद्य मारुतः
वर्ण्णान् जनयते” इति । स उदीर्णः सन्धिः पादपूरणार्थः ।
मृदङ्गादौ तीव्रवेगेन काष्ठादिताड़नसंयोगे शब्दोजन्यते
इति लौके प्रसिद्धिः । वृक्षादौ प्रवलतरवायुसंयोगाच्च-
शब्दो ध्वन्यात्मक एव । मृदुवेगेन क्रियया संयोगे
नोदनरूपे न शब्दः इति तस्यं शब्दाहेतुत्वमुक्तम् अधिकं
नोदनशब्दे वक्ष्यते । “अभिघातोऽस्त्यस्य अर्श० अच् ।
अभिघातयुक्ते त्रि० “अभिघातं स्यात् पूर्ब्बं वेदद्वित्र्यदि-
वर्णायेत् । नववर्गाणां नवतो धरणीचन्द्रद्विरामाद्या” इति
केरलोक्ते वर्णभेदे, न० शब्दकल्पद्रुमः ।

अभिघातक त्रि० अभि + हन--ण्वुल् । १ शत्रौ रिपौ २

अभिघातसंयोगकारके ३ समूलनाशके च । “तदभिघातके
हेतौ” सां० का० ।

अभिघाति पु० अभिघातयति अभि--हन--स्वार्थे णिच्--इन् । रिपौ ।

अभिघातिन् त्रि० अभि + हन--णिनि स्त्रियां ङीप् । १ शत्रौ

२ नाशके ३ अभिघातसंयोगकारके च ।

अभिघार पु० अभिघार्य्यते समन्तादग्नौ सिच्यते अभि +

घृक्षरणे णिच्--भावे घञ् । अग्नौ समन्तात् घृतादेः १ सेचने
२ घृतादिसंस्कारभेदे च । “कृदभिहितोभावो द्रव्यवत्
प्रकाशते” इत्युक्तेः अभिघार्य्यमाणे ३ घृतादौ च निरु० ।

अभिघारण न० अभितोघारणम् जलादिभिः विधिना

मेचनम् । अभि + घृ--णिच्--भावे ल्युट् । घतादेः संस्कार-
भेदे “एत्य जुह्वाभिघारणम् ध्रुवाया हविप उपभृतश्च”
कात्या० ३, ३, ९, “पञ्चप्रयाजहोमानन्तरं यजतिरस्थानादेत्य
वेदेः पश्चादागत्य उपविश्य जुहूस्थेनैव प्रयाजशेषेण ध्रुवाया
ध्रौवस्याज्यस्य हविषः आज्यस्थाल्याज्यपुरोडाशयोश्च
उपभृतः उपभृत्संस्थस्याज्यस्य अध्वर्युरभिघारणं करोति
उपयोगक्रमेण अयञ्च हविः संस्कारः प्रयाजशेषप्रतिपत्तिः
हवींषीति द्वितीयाश्रुतेःहविषः संस्कार्य्यत्वावगमात् अतः
सन्निहितानि सर्व्वाणि हवींषि शेषेणाभिघारणीयानि” कर्क०

अभिचक्षण अभि--चक्ष--ल्यु । १ सर्व्वतोविचक्षणे कर्मकुशले

“वेदाहं तस्य भेषजं शीपुद्रुरभिचक्षणम्” अथ० ६, १२७, २,
विषूचीर्य्यावतीराशा अभिचक्षणादिवः अथ० ९, २, २१ ।

अभिचर त्रि० अभितः आभिमुख्येनानुकूल्यार्थं चरति

चर--ट । १ भृत्ये २ अभितो गते च स्त्रियां ङीप् ।

अभिचरण न० अभि + चर--ल्युट् । १ शत्रघाताय विहित-

श्येनयागादौ ।

अभिचरणीय त्रि० अभिचरणमर्हति छ । १ अभिचाराहे

वैरिणि “तं त्वष्टा हतपुत्रोऽभ्यचरत् सोऽभिचरणीयम-
पेन्द्रम् सोममाहरत्” शत० ब्रा० ।

अभिचार पु० अभि--आभिमुख्येन कृत्याजननार्थं चारः

अभि + चर--भावे घञ् । १ शत्रुबघोत्पादककृत्याजनके
मूलकर्मणि “श्येनेनाभिचरन् यजेतेति” विहिते श्येनया-
गादौ । “अमिचारेषु संर्व्वेषु कर्त्तव्यो द्विशतोदमः”
“अभिचारमहीनञ्च त्रिभिः कृच्छ्रैर्व्यपोहति” इति च मनुः
“अभिचारक्रियाक्रूरैकप्रकृतयः पुरोधसः” काद० ।
अभिचाराय हितं स प्रयोजनमस्य बा ठञ् । आभिचारिकः ।
१ तत्रहितकर्म्मादौ २ तत्रत्यमन्त्रादौ च त्रि० स्त्रियां ङीप् ।

अभिचारकल्प पु० अभिचारसाधनं कल्पोरहस्यज्ञापकग्रन्थः ।

१ अथर्ववेदान्तर्गते ग्रन्थभेदे अथर्ववेदशब्दे विवरणम् ।

अभिचारिन् त्रि० अभिचरति अभि + चर--णिनि स्त्रियां

ङीप् । १ अभिचारकर्त्तरि “ये त्वा कृत्वा लेभिरे विदूला
अभिचारिणः” अथ० १०, १, ९ ।

अभिच्छाय त्रि० अभिगतश्छायाम् अत्या० स०, अभिमुखी-

भूता छाया यस्य वा । १ छायाप्राप्ते २ छायामिमुखप्राप्ते
च । छायाया अभिमुखम् अव्ययी० । ३ छायाभिमुख्ये
अव्य० । “यो माभिच्छायमत्येषि मां चाग्निं चान्तरा”
अथ० १३, १, ५७ ।

अभिजन पु० अभिजायतेऽस्मिन् जन + आधारे--घञ् अवृद्धिः ।

१ कुले, “म परिचयं रक्षति नाभिजनमीक्षते” काद० ।
“वयसः कर्मणोऽर्थस्य श्रुतस्याभिजनस्य च वेशवाग्बुद्धि-
सारूप्यमाचरन् विचरेदिह” मनुः । २ जन्मभूमौ,
पृष्ठ ०२८७
अभिमतः पित्रादीनां जनोजन्मस्थानम् । ३ पित्रा-
दिभिरध्युषिते स्थाने “अभिजनश्च” पा० “अभिजनी-
नाम यत्र पूर्ब्बैरुषितम्” भाष्यम् । अभिमतोजनः श्रेष्ठत्वात्
प्रा० स० । ४ कलश्रेष्ठे अभि + जन--भावे घञ् । उत्कृष्ट-
स्थानजतया ५ अभिमतोत्पत्तौ “श्रैष्ठ्येनाभिजनेनेदं सर्वं
वै ब्राह्मणोऽर्हति” मनुः ब्रह्ममुखोद्भवत्वेनाभिजनेन श्रेष्ठ-
तया” कुल्लू० । अभिजायते सत्पुरुषोभवति येन करणे
घञ् । ६ कार्त्तौ “यावत् कीर्त्तिर्हि लोकेषु तावत् पुरुष
उच्यते” इत्युक्तेः कीर्त्त्यैव सफलजन्मत्वात्तस्यास्तथात्वम् ।
अभिजनादागतः अण् । आभिजनः वंशसंबन्धादागते,
त्रि० “तां पार्व्वतीत्याभिजनेन नान्ना” कु० ।

अभिजात त्रि० अभिमतं प्रशस्तं जातं जन्म यस्य ।

१ कुलीने, “जात्यस्तेनाभिजातेन शूरः शौर्य्यवता कुशः”
“भिन्नानस्त्रैर्मोहभाजोऽभिजातान्” च रघुः । २ पण्डिते,
३ श्रेष्ठे “न म्नेच्छितव्यं यज्ञादौ स्त्रीषु नाप्राकृतं वदेत् ।
सङ्कीर्ण्णं नाभिजातेषु नाप्रबुद्धेषु संस्कृतम्” वृद्धाः ।
४ मनोहरे । “प्रजल्पितायामभिजातवाचि” कु० ।
अभिजातस्य भावः ष्मञ । आभिजात्यं कौलीन्येन० ।

अभिजाति स्त्री प्रशस्ता जातिः जननं प्रा० स० । प्रशस्तवंशजनने ।

अभिजित् त्रि० अभिमुखीभूय जयति शत्रून् अभि + जि--क्विप् ।

१ अभिमुखीभूय शत्रुजयिनि । अभितो जयत्यनेन करणे
क्विप् । २ सर्वतोजयसाधने “अभिजिता तेजसा तेजोजिन्व”
य० १५, ७, “सर्ब्बजयहेतुना तेजसा अन्नेन” वेददी० ।
“अभिजिदसि युक्तग्रावेन्द्राय” ता० ब्रा० “अभिजित्
सर्वजयहेतुरसि” भा० । अभिजयति ऊर्द्धाधःस्थित्या
अपराणि नक्षत्राणि कर्त्तरि क्विप् । “अभिजिन्नाम नक्ष्कत्र-
मुपरिष्टेदाषाढानामधस्ताच्छ्रोणायाः” श्रुत्युक्ते ३ नक्षत्रभेदे
इतरनक्षत्राणां स्वकक्षामात्रस्थितेस्तस्य च ऊर्द्ध्वाधःस्थित्या
इतरनक्षजयित्वात् तथात्वम् । अतएव भागवते “नक्षत्राणि
मेरुं दक्षिणेनैव कालायने ईश्वरयोजितानि सहाभि
जिताऽष्टाविंशति” रित्युक्तम् । नक्षत्रचक्रस्य अश्विन्यादि-
सप्तविंशतिनक्षत्रात्मकतया ज्योतिषे प्रसिद्धत्वेऽपि श्रुत्युक्ते-
राषाढ़ोपरिश्रवणाधःस्थाने अभिजिन्नामकं नक्षत्रचक्रा-
नन्तर्गतमपि कर्म्मविशेषे फलविशेषार्थं ज्योतिषादौ स्वीकृ-
तम् यथा” सप्त सप्त विलिखेत्तु रेखिकास्तिर्य्यगूर्द्ध्वमथ
कृत्तिकादिकम् । लेखयेदभिजिता समन्वितं चैकरेख-
कगखगेन बिध्यते । वैश्वस्य चतुर्थांशे श्रवणादौ लिप्ति
काचतुष्के च । अभिजित् तत्स्थे खेटे विज्ञेया रोहिणी
बिद्धा । ग्रहश्चेदेकरेखास्थो वेधः सप्तशलाकक” इति
दीपिका ततश्च आषाढोपरिश्रवणाधोभागे तस्य स्थितावापि
ऊनविंशकलात्मकत्वं कर्म्मविशेषार्थं कल्पितम् तत्र ग्रह-
स्थित्या सप्तशलाकादिवेधवशात् विवाहादौ वर्ज्यता
अनिष्टफलदायकत्वात् । श्रुतौ स्थानविशेषोक्तिस्तु तस्य स्थिति
स्थानज्ञापनार्था अतएव सूर्य्यसिद्धान्ते “आप्यस्यैवाभिजित्
प्रान्ते वैश्वान्ते श्रवणस्थितिरित्युक्तं व्याख्यातञ्चैतत् रङ्ग-
नाथेन आप्यस्य पूर्ब्बाषाढाया अवसाने, धनूराशौ विंशति-
कलोनसप्तविंशतिभागे २६, ४० अभिजिद्योगतारा” इति
एवञ्च दीपिकोक्ता ऊनविंशतिकलात्मकता कर्मविशेषार्था
अतएव अष्टाविंशतिनक्षत्राभिप्रायेणैव वृहत्संहिताया-
मष्टाविसंशतिर्नक्षत्राधीश्वरा उक्ताः “अश्वियसदहनकमलज-
शशिशूलमृददितिजीवफणिपितरः । यौन्यर्यमदिनकृत्त्वष्टृ-
पवनशक्राग्निमित्राश्च ॥ शक्रो निरृतिस्तोयं विश्वे ब्रह्मा
हरिर्वसुर्वरुणः । अजपादोऽहिर्बुध्नः पूषा चेतीश्वरा
भानाम्” ॥ तथा चाभिजितोब्रह्माधीश्वरः । अभिजयति
इतरश्राद्धकालान् पाशस्त्येन, आभिमुख्येन पश्चिमाव-
स्थितां छायां जयति प्राग्वर्त्तिनीं करोति वा
क्विप् । पश्चिमवर्त्तिच्छायायाः पूर्ब्बवर्त्तित्वसम्पादके
पञ्चदशघाविभक्तदिनस्याष्टमे कुतपाह्वये श्राद्धप्रशस्ते
३ मुहूर्त्ते । “अपराह्णे तु संप्राप्ते अमिजिद्रोहिणो-
दये । यदत्र दीयते जन्तोस्तदक्षयमुदाहृतमिति” मत्० पु०
उक्तेस्तस्येतरापेक्षयाऽक्षयफलदातृत्वात्तथात्वम् । “कुतप-
प्रथमभागे एकोद्दिष्टमुपक्रमेत् आवर्त्तनसमीपे वा” स्मृतेः
“आरभ्य कुतपे श्राद्धं कुर्य्यादारोहिणं बुधः” इत्युक्तेश्च
तन्मूहूर्त्तस्यारम्भकालतया प्रशस्तत्वाच्च तथात्वम् ।
अभिजयति शत्रून् गमनेनात्र आधारे” क्विप् । “मध्यं
व्योमप्रयाते स्फुरदनलनिभे केशरे चार्कविम्बे छाया
साध्वीव कान्ता प्रचलति पुरुषे यत्र तत्पादलग्ना । तावत्
सौरेर्न दृष्टिः कुजकृतमशुभं नैव ऋक्षस्य योगः लक्ष्मी-
मारोग्यसम्पत्क्षितिमथ युवतीं तत्र गन्ता लभेत” इति
ज्योतिषोक्ते ४ यात्रालग्नभेदे च । यद्यपि “सर्वस्मिन्
विधुपापयुक्तनुलवावर्द्धे निशाह्नोर्घटीत्र्यशं वै” इत्यादिना
दिनार्द्धपूर्ब्बापरस्थघटीत्र्यंसात्मक--२० पलस्य सर्वत्र
वर्ज्यता तथापि यात्रायां विशिष्याभिधानात्तदपवादः ।
“ततः प्रभाते विमले मुहूर्त्तेऽभिजिति प्रभुः” रामा० ।
अग्निष्टोमयागाङ्गे गवामयनिके ५ यागभेदे अभिजि-
दग्निष्टोम” इति कात्या० । अग्निष्टोमग्रहणादभि-
पृष्ठ ०२८८
जिदन्तरं तत्संज्ञकं गवामयनिकमेतत् कर्क० । संवत्-
सरसाध्येगवामयने ३ षष्ठमासीयपञ्चविंशतितमदिने यथोक्तम्
ता० भाष्ये “तत्र षष्ठे मास्यादौ त्रयोऽभिप्लवाः षड़हाः
कार्य्याः तत एकः पृष्ठ्यः षड़हः ततोऽभिजिदेकमहः”
इति । अभिजिन्मुहूर्त्तस्य च किञ्चिदूनदिनार्द्धप्रवत्तेः
तत्साम्यात् पञ्चविंशतिदिनाधिकपञ्चममासस्य किञ्चिदूनदै-
वदिवसार्द्धतुल्यतयास्याभिजिच्छब्दवाच्यता ६ तद्दिन्नकर्त्तव्ये
७ अतिरात्रयागादौ च उपचारात् अतएव ताण्ड्यभाष्ये
“षष्ठे मासि त्रीनभिप्लवान् एकं पृष्ठ्यञ्च कृत्वाऽभिजिदनुष्ठेयः”
इत्युक्तम् विवरणं गवामयनशब्दे दृश्यम् । “अभिजिदति-
रात्र” इति शत० ब्रा० । “अतिरात्रसंस्थः अभिजिन्नामके
दिने कार्य्य” इति भा० ।

अभिजित पु० अमिजीयादन्यान् संज्ञायामाशोर्व्वादे देवरा-

तादिवत् क्तच् । अर्द्धरात्रसम्बन्धिनि मुहूर्त्ते “अहं त्वभिजिते
योगे निशाया यौवने स्थिते । अर्द्ध्वरात्रे करिष्यामि
गर्भमोक्षं यथासुखम्” । मुहूर्त्तेऽभिजिते प्राप्ते सार्द्ध्वरात्रे
विभूषिते देवक्यजनयद्विष्णुं यशोदा तान्तु कन्यकाम्
विष्णु पुं० ।

अभिजिति स्त्री अभि + जि--भावे क्तिन् । अभिजये “एषां

लोकानामभिजित्यै” शत० ब्रा० ।

अभिज्ञ त्रि० अमिजानाति अभि + ज्ञा--क । १ निपुणे,

२ पण्डिते ३ ज्ञातरि चेतने “अन्वयादितरतश्चार्थेष्वभिज्ञः
स्वराट्” भाग० । अभिज्ञाश्छेदपातानां क्रियन्ते
नन्दनद्रुमाः कुमा० “शङ्खस्वनाभिज्ञतया निवृत्ताः” रघुः ।

अभिज्ञा स्त्री अभि--ज्ञा--अङ् । १ प्रथममुत्पन्ने ज्ञाने ।

२ संस्कारसहकृते इन्द्रियसन्निकर्षजन्ये प्रत्य्भिज्ञारूपे
ज्ञाने च ।

अभिज्ञात त्रि० अभिज्ञायतेस्म अभि + ज्ञा--कर्म्मणि क्त ।

कालान्तरे पुनःर्दृष्ट्या जातेन सोयमित्याकारकज्ञानेन
विषयीकृते पूर्ब्बदृष्टे पदार्थे ।

अभिज्ञान न० अभिज्ञायतेऽनेन अभि + ज्ञा--करणे ल्युट् ।

सोऽयमिति ज्ञानसाधने १ चिह्ने । “चिह्नभूतं त्वभिज्ञानं
त्वमङ्गे कर्त्तुमर्हसि” “उपपन्नैरभिज्ञानैर्दूतं तमवगच्छत”
इति च रामा० । भावे ल्युट् । तदिदमित्याकारके २ ज्ञाने
च । तच्च संस्कारसहकृतं पुरोवर्त्तिनि इन्द्रियसन्निकर्षजन्यं
प्रत्यक्षविलक्षणं स्मृतिविलक्षणञ्च ज्ञानम् । “तदभिज्ञान
हेतोर्हि दत्तं तेन महात्मना” रामा० ।

अभिज्ञानशकुन्तला स्त्री अभिज्ञायते कर्म्मणि ल्युट् तथा

भूतां शकुन्तलामधिकृत्य कृताख्यायिका “तदधिकृत्य कृते
ग्रन्थे” पा० अण् आख्यायिकायां तस्य वा लुपि व्यक्ति-
वचनतेति स्त्रीत्वम् । कालिदासकृतौ दुष्यन्तेम गान्धर्ववि-
धिना कृतोपयमां कण्वकन्यां शकुन्तुलामधिकृत्य कृते
नाटकभेदे तस्याश्च दुर्वासःशापात् प्रथमं दुष्मन्तेनानभिज्ञानात्
पश्चाच्च स्वदत्ताङ्गुरीयकरूपाभिज्ञानदर्शनेन प्रत्यभिज्ञातत्वात्
तामधिकृत्याख्यायिकारूपत्वान्नाटकस्य तथात्वम् । “कालि-
दासस्य सर्वस्वमभिज्ञानशकुन्तला” लुबभावे आभिज्ञान-
शकुन्तलम् न० । “नवेनाभिज्ञानशकुन्तलेनेति” शकु० ।

अभिज्ञु त्रि अभिगते आभिमुख्येन स्थापिते जानुनी येन वेदे

बा० ज्ञु १ आभिमुख्येनावस्थापितजानुयुक्ते । “संजा-
नाना उपसीदन्नभिज्ञु” ऋ० १, ७२, ५ ।

अभितराम् अव्य० अभि + प्रकर्षे--तरप् आमु । १ आभिमुख्या-

तिशये २ शनैःशनैरामिमुख्ये च “अभितरामु वै जयन्
क्रामति तस्मादभितरामभितरामेव क्रामेत्” शत० ब्रा० ।
“अभितराम् उ वै शत्रोरत्यन्तमभिमुरवं खलु, अग्नावपि-
ईषदीषत् पुरस्तादाक्रामेदिति” भा० ।

अभितस् अव्य० अभि + तसिल् । सामीष्ये, आभिमुख्ये,

उभयतोऽर्थे, शीघ्रतायाञ्च । एतद्योशे द्वितीया “अभिसर्व-
तसोःकार्य्या धिक्युपर्य्यादिषु त्रिषु । द्वितीयाम्रेडितान्तेषु
तथान्यत्रापि दृश्यते” इत्युक्तेः । “अङ्गान्ययाक्षीदभितः प्रधान-
मिति” भट्विः “अभितस्तं पृथासूनुः स्नेहेन परितस्तरे”
किरा० “कामक्रोध वियुक्तानां यतीनां यतचेतसाम् ।
अभितोब्रह्मनिर्वाणमिति” गीता ३ साकल्ये च । “पर्य्यभिभ्याञ्च”
पा० “सर्वोभयार्थाभ्यामेव बा० उक्तेः सर्व्वोभयार्थ-
योरेवास्य साधुता ।

अभिताप पु० अभि + तप--घञ् । भृश सन्तापे ।

अभिताम्र पु० भृशं ताम्रं प्रा० स० । १ अत्यन्तताम्र

वर्ण्णे २ तद्वति त्रि० “रामस्तमभिताम्राक्षं वृक्षशाखाबल-
म्बिनम्” रघुः ।

अभितोमुख त्रि० अभितः मुखमस्य । १ सर्वदिम्मुखे ।

अभिदर्शन न० आभिमुख्येन दर्शनम् अभि + दृश--भावे ल्युट् ।

आभिमुख्येन दर्शने, “ग्रामघाते हिताभङ्गे, परेषामभि-
दर्शने” ममुः ।

अभिद्रा स्त्री अभि + द्रा--अङ् । १ पलायने, २ अभिध्यायाम् स्मृतौ च ।

अभिदि(धि)प्सु त्रि० अभि + दम्भ--सन् उ वेदे नदस्य धः ।

१ अभिभवनेच्छावति “विश्वा इदर्य्यो अभिदिप्स्वः” इति ऋ०
२, २३, १३ । “अभिदिप्सः अभिभवनेच्छावती छान्दसम्” भा०
पृष्ठ ०२८९

अभिद्रवण न० अभि + द्रु--ल्युठ् । १ वेगेन गमने ।

अप् । अभिद्रवोप्युक्तार्थे पु० ।

अभिद्रुह् त्रि० अभिद्रुह्यति अभि + द्रुह् क्विप् । १ अपकारके

अभिद्रोह पु० अभि + द्रुह--घञ् । १ आक्रोशे २ अनिष्टचिन्तने,

३ अपकारे च । “नामजातिग्रहं तेषानभिद्रीहेण कुर्वतः” ।
मनुः “भूतेन्द्रियानभिद्रोहो धर्मोहि परमोमतः” का० ख०

अभिधर्षण न० आभिमुख्येन धर्षणम् । १ निष्पीड़ने २ आस्फा-

लने ३ भूतादेरावेशे च । कर्त्तरि ल्यु । ४ राक्षसे पु० ।

अभिधा स्त्री अभि + घाञ्--भावे अङ् । १ कथने, २ शब्द-

निष्ठे अर्थबोधजनकताशक्तिभेदे च । अभिधीयतेऽनेनेति
करणे अङ् । ३ वाचकशब्दे भट्टमते फलजनकव्या-
पाररूपायां शब्दनिष्ठायां ४ भावनायाञ्च । अभिधा च
सङ्केतितार्थस्य बोधिका शब्दनिष्ठा शक्तिरिति आलङ्कारिका
“वाच्योऽर्थोऽभिधया बोध्यो लक्ष्यो लक्षणया मतः ॥
व्यङ्ग्योव्यञ्जनया ताः स्युस्तिस्रः शब्दस्य शक्तयः” ता
अभिधाद्याः । “तत्र सङ्केतितार्थस्य बोधनादग्रिमाऽभिधा”
सा० द० । भाट्टास्तु प्रवृत्तिजनने विधिव्यापारीभूता विधि
समवेता भावनापरनामाऽतिरिक्तपदार्थविशेषोऽभिधा तस्या
एव ज्ञानं प्रवर्त्तकं तत्रैव च भावनात्वरूपेण विधिशक्तिः सा
च जन्यत्वसम्बन्धेन एकपदोपात्तत्वप्रत्यासत्त्या वा आख्यात-
सामान्यशक्तिबललभ्या कृतिरूपव्यापारविधेरर्थान्तरे विशे-
षणतयाऽन्वेति प्रकृत्यर्थोऽपि विषयितया व्यापारे विशेषणं
तया च यागविषयकभावनाजन्यव्यपारवान् पुरुष इत्य-
न्वयबोधः नचैतादृशबुद्धावपि प्रयोजनाज्ञाने कुतः प्रवृत्तिः
प्रयोजनस्याहेतुत्वे विश्वजिदादौ फलकल्पनानुपपत्तेरिति
वाच्यम् यागविषयकव्यापारेऽभिधाजन्यत्वस्यान्वये व्यापार-
निष्ठेष्टसाधनत्वस्यान्वयप्रयोजकरूपतया योग्यतात्वेन
योग्यताबलादेव व्यापारे तद्भानात् । यद्वा विधित एव
स्वर्गादिसाधनत्वग्रहस्तच्च प्रवृत्तिरूपव्यापारे आख्यातार्थे-
ऽन्वेति प्रवृत्ताविष्टसाधनताज्ञानमेव प्रवर्त्तकम् । न चैवं
न्यायमताविशेषः इष्टसाधनत्वेन विध्यर्थत्वस्वीकारादिति वाच्यं
क्रियागतं साघनत्वं न विध्यर्थः अपि तु प्रवृत्तिगतमिति
विशेषात् अभिधाभ्युपमानभ्युपगमाभ्यामपि विशेषसम्भवाच्च
न चैवं तादृशाभिधायां मानाभाव इति वाच्यं विधिः
प्रवृत्तिजनकधर्म्मसमवायिकारणं तज्जनकद्रव्यत्वादात्मवदित्यनु-
मानादेव तत्सिद्धेः भट्टमते शब्दस्य द्रव्यत्वान्नासिद्धिः । न
च प्रवृत्तिजनकशरीरे व्यभिचारः, तस्य शरीर प्राणसंयोगो-
पादानत्वात् न च विधिर्न प्रवृत्तौ कारणं प्रवृत्तिसामान्ये
व्यभिचारात् इति वाच्यं वैघजन्यप्रवृत्तौ तद्धेतुत्वात् ज्ञान-
वत् प्रवृत्तावपि वैलक्षण्यसम्भवाच्च तच्च जातिरूपमखण्डो-
पाधिरूपं स्वरूपं वेत्यन्यदेतत् । नन्वस्त्वभिधा तथापि तद्धीर्न
प्रवृत्तिहेतुः प्रवृत्तिसामान्ये तस्य व्यभिचारात् प्रत्यक्षादिना
इष्टसाधनत्वग्रहेऽपि प्रवृत्तेः, नापि, यागादिविषयिकायां,
यागकृतिः स्वर्गसाधनमित्याप्तवाक्यादितोपि प्रवृत्तेः । नापि
बिधिजन्यायां, तज्जन्यताबच्छेदकस्यैब दुष्परिचयात् । नापि
जातिबिशेषबिशिष्टायां, गुणगतजात्यनभ्युपगमात् इति चेन्न
विधिजन्यतावच्छेदकाखण्डोपाध्यबच्छेदेनैब तद्धेतुत्वात् न
च भावनादिपदादपि तादृशप्रवृत्त्यापत्तिरिति बाच्यं बिधि-
जन्यभावनाज्ञानस्यैव विलक्षणशक्तिमत्त्वेन तादृशप्रवृत्तिवि-
शेषे हेतुत्वादित्याहुः । तामेतामभिधारूपभावनां प्रभा-
करान मन्यन्ते । एवं हि तस्यानिरासस्तैः कृतः”
अभिधासंकल्प्याऽपूर्ब्बभावनाज्ञानं न प्रवर्त्तकं तस्मिन् सत्यप्य-
प्रवृत्तेः असत्यपि प्रवृत्तेश्च किन्तु कार्य्यत्वज्ञानमेव प्रवर्त्तक-
मिति तथा हि ज्ञानस्य कृतौ जनयितव्याया चिकीर्षा-
तिरिक्तं न कर्त्तव्यमस्ति यत्सत्त्वे कृतिविलम्बोहेत्वन्तरा-
भावात् । चिकीर्षा च कृतिसाध्यत्वप्रकारिका कृतिसाध्य-
क्रियाविषयकेच्छा पाकं कृत्या साधयामीति तदनुभवात्
सा च स्वकृतिसाध्यज्ञानसाध्या इच्छायाः स्वप्रकारकधी-
साध्यत्वनियमात्” इति । यथा चास्यैव प्रवर्त्तकत्वं तथा विधि
शब्दे वक्ष्यते । सा चाभिधाशक्तिः कुत्रार्थे कस्येति व्याकरणा-
दितोज्ञायते तदुक्तमभियुक्तैः “शक्तिग्रहं व्याकरणोपमानात्
कोषाप्तवाक्यात् व्यवहारतश्च । वाक्यस्य शेषाद्विवृतेर्वदन्ति
सान्निध्यतः सिद्धपदस्य वृद्धा” इति व्याख्यायेदमुदाहृतम-
स्माभिः शब्दार्थरत्ने । यथा “तत्र सर्वेषां शब्द नां प्रथमतो
व्यवहारादेव प्रायशः शक्तिग्रहः । तथा हि केनचित् वृद्धेन
व्युत्पन्नं पुरुषं प्रति गामानयेत्युपदिष्टे तत् शृण्वन् व्युत्पन्नो
गवानयने प्रवर्त्तते । तच्चेष्टादर्मनेन तत्प्रवृत्तिमनुमाय व्युत्-
पित्सुर्बालो व्युत्पन्नपुरुषीयप्रवृत्त्यन्यथानुपपत्त्या तद्धेतुभूत-
कर्त्तव्यतादिज्ञानादिकं तत्रानुमिनुतेऽनुमिनुते चापरकार-
णानुपस्थितेः श्रुतस्यैव समुदितवाक्यस्य तद्धीजनकत्वम् । ततश्च
वाक्यस्य तद्धीजनकत्वेन तत्सम्बन्धित्वमवसीयते इत्यतो व्यव-
हारस्यैव शक्तिग्राहकत्वमित्येवमवसीयते शास्त्रकारः । पश्चाच्च
पदानामन्वयव्यतिरेकाध्यां प्रत्येकपदशक्तिग्रहः तथा हि पुनश्च
गां बधान घटमानयेत्यादिवाक्यश्रर्वणे नियोज्यस्य
पूर्ब्बापेक्षया विशेषकार्य्यप्रवृत्तिदर्शनेन गवादिपद-
श्रवणसत्त्वे तत्कार्य्यकरणं तदभावे च तत्कार्य्या-
पृष्ठ ०२९०
करणमित्यन्वयव्य तिरेकाभ्यां तत्तत्पदानां विशेषार्थवाचक-
त्वावधारणमिति द्रष्टव्यम् । व्याकरणमपि तथा, तद्धि कर्मणि
द्वितीयेत्यादिना द्वितीयादीनामर्थविशेषे प्रयोगनियमाय
प्रवृत्तं द्वितीयादीनामर्थमप्यबगमयति तथा हि कर्म्मण्येब
द्वितीया शक्ता न करणादौ, कर्मणि द्वितीयैव शक्ता न
तृतीयेत्येवं द्विविधनियमपरतया प्रवृत्तं शास्त्रं निमम-
तदतिक्रमयोः पुण्यापुण्यफले दर्शयत् तत्तच्छब्दानां तत्त-
दर्थेष्वेव साधुतोक्त्या शक्तिमवगमयति । तदुक्तं भाष्यकारैः
“सुपां कर्मादयोऽप्यर्थाः संख्या चैव तथा तिङाम् । प्रसिद्धा-
नियमस्तत्र नियमः प्रकृतेषु चेति” । उपमानमपि शक्ति-
ग्राहकम् । यथा गोसदृशो गवय इत्युपदेशवाक्यं श्रुत-
वतोग्रामस्थपुरुषस्य वनगमनादनन्तरं गोसदृशपिण्डदर्शने-
उपदिष्टं वाक्यं स्मरतश्च ईदृक् पिण्डो गवयपदवाच्य
इति भवति मतिरित्युपमानरूपोपदेशवाक्यस्य गवयपद-
शक्तिग्राहकत्वम् । तत्र च व्याकरणादीनामप्रवृत्तेः
प्रकृतिप्रत्ययाधीनोपस्थिटतविषये एव व्याकरणस्य, रूढ़ि-
विषये च कोषस्योपयोगात्तदभावाच्च तस्यैव तत्र
तथात्वम् । कोषोऽपि अनपेक्ष्यैव प्रकृतिप्रत्ययादिवि-
भागं केषाञ्चित् पदजातानां रूढिज्ञानाय प्रवर्त्त-
मानो मण्डपघटादिशब्दानां शक्तिमवगमयति । आप्त-
वाक्यमपि तथा, व्याकरणादिशक्तिधीहेत्वज्ञानेऽपि
यथार्थज्ञानवतामुपदेशेन तत्तच्छब्दानां तत्तदर्थेषु शक्ति-
ग्रहः । व्यवहारतस्तु दर्शितः । वाक्यशेषोऽपि तद्ग्रहे हेतुः
यथा स्वर्गकामोयजतेत्यादौ श्रुतस्वर्गपदस्य अर्थविशेषमजा-
नतामधिकारिणां तच्छक्तिबोधनाय प्रवृत्तेन “यन्न दुःखेन
संभिन्नं न च ग्रस्तमनन्तरम् । अभिलाषोपनीतं च
तत्सुखं स्वःपदास्पदमिति” वाक्यशेषब्राह्मणेन दुःखासं-
भिन्नत्वादिमति सुखविशेषे एव स्वर्गपदस्य शक्तिग्रहः ।
व्याख्यानरूपा टीकादिपदाभिधेया विवृतिरपि तत्तच्छ-
ब्दनां तत्तदर्थेषु शक्तिं ग्राहयति यथा पचतिपदस्य
पाकं करोतीति व्याख्या पाककर्त्तर्य्येवमन्यत्रापि ।
प्रसिद्धपदसामानाधिकरण्यमपि तद्ग्रहे हेतुः । पिका-
दिशब्दार्थमविदुषामुपदेशाय प्रवृत्तेन सहकारतरौ
मधुरं रौति पिक इति वाक्येन प्रत्येकशक्त्या ज्ञातशक्तिक-
पदोपस्थापितार्थे मधुरशब्दकारके पिकशब्दस्य शक्ति-
ग्रहः । एवं कोषादावपि “सत्कृत्यालङ्कृतां कन्यां यो
ददाति स कूकुद” इत्यादौ प्रसिद्धपदोपस्थापितार्थे सत्कार
पूर्ब्बकालङ्कृतकन्यादातरि कूकुदपदस्य शक्तिग्रहः । अत्र
च प्रसिद्धपदसान्निध्यं नाम अर्थविशेषे निश्चितशक्तिकपद-
सामानाधिकरण्यम् सामानधिकरण्यञ्च स्वबोध्यार्थेऽभेदे-
नान्वयबोधजनकत्वम् । वैयाकरणमते चाख्यातप्रथमान्तार्थ-
योरप्यभेदेनान्वयस्वीकारः । अतोमधुरं रौति, कन्यां
ददातीत्यादावाख्यातान्तस्य प्रथमान्तसामानाधिकरण्यं सुलभमेव ।
अतएव च भाष्ये “लटः शतृशानचावप्रथमासमांनाधि-
करणे” इति सूत्रे अप्रथमासमानाधिकरणे इति निर्द्देशा-
दन्यत्र लटः प्रथमान्तसामानाधिकरण्यमुपपादितमुपपादि-
तञ्च “आदेशे सामानाधिकरण्यं दृष्ट्वाऽनुमानाद्गन्तव्यं स्था-
निनः सामानाधिकरण्यमित्यादिना” लटः स्थानिलकार-
सामान्यस्य प्रथमान्तसमाधिकरण्यम् । एतेन ददानः कूकुदः
स्मृत इत्यादि पाठकल्पनमपि परेषामनादेयमेवेति” ।

अभिधान न० अभि + धा--भावेल्युट् । १ कथने । करणे

ल्युट् १ नामनि, २ शब्दार्थप्रतिपादके निघण्टुकोषादिना-
मके ग्रन्थे च । तथा च शब्दादानामर्थविशेषे शक्तिग्राहकं
कोषादिकमेव अभिधानशब्दवाच्यम् तच्चामरादिनांना
कोषादिकम् । तत्र च प्रायेण एकार्थवाचकानां पर्य्याय
शब्दानां क्वचिच्च नानार्थानामपि शब्दानां संघ उपदिष्टः
तेषां शक्तिग्राहकत्वञ्च अभिधाशब्दे दर्शितम् ।

अभिधानो स्त्री आभिधीयते आभिमुख्येन धीयते बन्धेनानया

अभि + धा--करणे ल्युट् । १ रज्वौ तया हि बन्ध-
नेन बध्यमाभिमुख्येन स्थाप्यते । “इसामगृभ्न्रशनामृतस्य
इत्यश्वाभिधानीमादत्ते” इति तै० ब्रा० । “अभिधानीं
रशनामिति” भा० “तस्या इन्द्रोवत्स आसीद्गायत्र्यभि-
धान्यभ्रमूधः” अथ० ८, १०, १२ । “भूमौञ्जीभिरभि-
धानीभिर्हिता भवन्ति” कात्या० ३, ४ ।

अभिधामूला स्त्री अभिधा मूलं यस्याः । आलङ्कारिकोक्तेव्यञ्ज-

नाभेदे । अभिधाश्रयाप्यत्र अभिधालक्षणामूला शब्दस्य
व्यञ्जना द्विधा अनेकार्थस्य शब्दस्य संयोगाद्यै-
र्नियन्त्रिते एकत्रार्थेऽन्यधीहेतुर्व्यञ्जना साभिधाश्रया”
आद्यशब्दाद्विप्रयोषादयः” । उक्तं हि “संयोगो विप्र
योगश्च साहचर्य्यं विरोधिता । अर्थः प्रकरणं लिङ्गं शब्द-
स्थान्यस्य सन्निधिः । सामर्थ्यमौचिती देशः कालोव्यक्तिः
खरादयः । शब्दार्थस्यानवच्छेदे विशेषस्मृतिहेतवः” इति
यथा सशङ्खचक्रो हरिः” इत्यत्र शङ्खचक्रसंयोगेन
हरिशब्दोविष्णुमेवाभिघात्ते । अशङ्खचक्रो हरिः इति वियो-
गेन तमेव । भीमार्ज्जुनौ इति अर्ज्जुनः पार्थः । कर्णार्ज्जुनौ
इति कर्ण्णः सूतपुत्रः । स्थाणुं वन्दे इति स्थाणुः शिवः
पृष्ठ ०२९१
सर्वं जानाति देवः इति देवोभवान् । कुपितोमकरध्वजः
इति मकरध्वजः कामः । देवः पुरारिः इति पुरारिः
शिवः । मधुना मत्तः पिकः इति मधुर्वसन्तः । पातु
वोदयितामुखमिति साम्मुख्यम् । विभाति गगने चन्द्रः इति
चन्द्रः शशी । निशि चित्रभानुः इति चित्रभानुर्वह्निः ।
भाति रथाङ्गम् इति नपुंसकव्यक्त्या रथाङ्गं चक्रम् ।
स्वरस्तु वेदे एव विशेषप्रतीतिकृत् न काव्यादौ तस्य
विषयोऽतोनोदाहृत इति, यथा । दुर्गालङ्घितविग्रहो
मनसिजं सम्मीलयंस्तेजसा प्रोद्यद्राजकलो गृहीतगरिमा
विश्वग्वृतो भोगिभिः । नक्षत्रेशकृतेक्षणो गिरिगुरौ गाढ़ां
रुचिं धारयन् गामाक्रम्य विभूतिविमूषिततनू राजत्युमा-
ल्लभः । अत्र प्रकरणेनाभिधया उभावल्लभशब्दस्योमानाम्नी
महादेवी तद्बल्लभभानुदेवनृपतिरूपेऽर्थे नियन्त्रिते व्यञ्जनयैव
गौरोवल्लभरूपोऽर्थो बोध्यते” सा० द० ।

अभिधायक त्रि० अभि + धा--ण्वुल् । वाचकशब्दे “लिङ्गान्तरा

नभिधायकत्वं नित्यस्त्रीत्वमिति का० वृत्तिः २ तत्तच्छब्दो-
च्चारके च ।

अभिधायिन् त्रि० अभिधत्तेकययति अभि + धा--णिनि स्त्रियां

ङीप् । १ कयके २ शब्दप्रयोक्तरि । “त्वं मुग्धाक्षि! विनैव
कञ्चुलिकया धत्से मनोहरिणीं लक्ष्मीमित्यभिघायिनि प्रिय
तमे तद्वीटिकां संस्पॄशीति “अमरुशतकम् वाचकशब्दे च
“प्रत्यक्षादिप्रमासिद्ध विरुद्धार्थाभिधायिनः वेदान्ता
यदिशास्त्राणि बौद्धैः किमपराध्यते इति ।

अभिधावक त्रि० आभिमुख्येन धावति अभि + धाव--ण्वुल् ।

आभिमुख्येन वेगेन गन्तरि ।

अभिधित्सा स्त्री अभिधातुमिच्छा अभि + धा--सन--अ । कथयितुमिच्छायां विवक्षायाम्

अभिधृष्णु त्रि० अभि + धृष--क्नु । अत्यन्तधर्षके । “तस्माद्-

ब्रह्मणः पशूनभिधृष्णुतम” शत० ब्रा० ।

अभिधेय त्रि० अभिधीयते अभिधावृत्त्या बोध्यते अभि +

धा--कर्मणियत् । वाच्यार्थे सङ्क्षेतवति शब्दार्थे ।
आविष्करातिशयोभिधेयवत् प्रतीयते” सा० द० “अभिधेया
विनाभूतप्रतीतिर्लक्षणीच्यते का० प्र० ग्रन्थप्रतिपाद्ये च”
“इतिप्रयोजनाभिधेयसम्बन्धा” इति मुग्धबोधम् “एते-
नाभिधेयञ्च दर्शितम् सा० द० ।

अभिध्या स्त्री अभि + ध्यै--अङ् । १ परधनस्याजिहीर्षायां,

२ जिघृक्षायां, ३ विषयप्रार्थनायां ४ चिन्तने, च ।
अभिध्यायतेश्चिन्तनार्थंत्वात् तथात्वम् “सोऽभिध्याय शरीरात्
स्वात् सिसृक्षुर्विविधाः प्रजा इति” मनुना आलोचने
अभिध्यायतेः प्रयोगात् तस्यास्तथार्थत्वम् । “अभिध्योप-
देशाच्च” शा० सू० ।

अभिध्यातव्य त्रि० अभि + ध्या--तव्य । सततचीन्तनीये ।

“यः पुनरेतं त्रिमात्रेणौमित्यक्षरेण पर पुरुषमभिध्यायीतेति”
श्रुत्या “परमेव ब्रह्माभिध्यातव्यमित्युपदिश्यते” शा० भा० ।

अभिध्यान न० अधि + ध्यै--भावे ल्युट् । १ अभिध्याशब्दार्थे

२ अभितोध्याने च तच्च भिन्नजातीयप्रत्ययानन्तरितोऽ-
विच्छिन्न एकमात्रविषयप्रत्ययसन्तानः । “तदभिध्यानादेव-
तल्लिङ्गात्” शां० सू० ।

अभिनद्ध त्रि० अभितो नद्धः बद्धः अभि + नह--क्त । सर्वतो

बद्धे “यथा सौम्य । पुरुषमभिनद्धाक्षमिति” छा० उ०
“अभिनद्धाक्षं बद्धाक्षम्” भा० “परिरम्भरुचिं ततिर्जला-
नामभिनद्धा रसमानसारसेन” माघः ।

अभिनन्द पु० अभि + नन्द--घञ् । १ सन्तोषे, २ प्रतिपाद्यगुण-

कथनादिनाऽऽनन्दे ३ प्रशंसायाम् ४ अल्पसुखे च “योनि-
रर्चिर्यदन्तः करोति तेऽङ्गारा अभिनन्दाः विस्फुलिङ्गाः
छा० उ० “अभिनन्दाः सुखलवाः” भा० ।
अभिनन्दयति । अभि + नन्द--णिच्--अच् । ५ सन्तोषके
६ प्रोत्साहनेन प्रवर्त्तके च त्रि० । अभितो नन्दत्यत्र
आधारे घञ । अज्ञस्य स्वकलत्रादि गुणप्रशंसनप्रवर्त्तक
भ्रान्तिभेदे । तत्र हि स सुखायते । अभितोनन्दः । आ
७ नन्दमये परमात्मनि इति वेदान्तिमते । नैयायिकादिमते
तु अभितोनन्दः दुःखाभावो यत्र ७ ब० । परमात्मनि,
सर्वदुःखशून्यत्वात्तस्य तथात्वम् । भारादिदुःखापनयेऽपि
भारादिवाहकानाम् अहं सुखी संवृत्तः इति प्रतींते
र्दुःस्वाभावेऽपि सुखत्वोपचारदर्शनात् ईश्वरस्य सदा
दुःखाभावाच्च तथात्वम् ।

अभिनन्दन न० अभि + नन्द--भावे ल्युट् । १ सन्तोषे ।

णिच्--ल्युट् । सन्तोषार्थं २ प्रशंसने । कर्त्तरि ल्यु ।
३ सन्तोषके प्रोत्साहनार्थं ४ प्रवर्त्तके ५ प्रशंसके च
त्रि० । ६ बुद्धभेदे पु० ।

अभिनन्दनीय त्रि० अभिनन्द्यते प्रशस्यत आभ + नन्द--णिच्

कर्मणि अनीयर् । १ प्रशंसनीये २ प्रोत्साहनेन प्रवर्त्तनीये च ।

अभिनन्दित त्रि० अभि + नन्द--णिच्--क्त । १ प्रशंसिते २

अनुमोदनेन प्रोत्साहिते च ।

अभिनन्दिन् त्रि० अभिनन्दति णिनि । १ सन्तोषिणि ।

अभिनन्दयति णिनि । २ अनुमोदनेन प्रोत्साहके ।
स्त्रि यामुभयत्र ङीप् ।
पृष्ठ ०२९२

अभिनन्द्य त्रि० अभिनन्द्यतेप्रशस्यते अभि + नन्द--णिच्--यत् ।

१ प्रशंसनीये “जनस्य साकेतनिवासिनस्तौ द्वावप्यभूतामभि
नन्द्यसत्त्वौ” रघुः अभि + नन्द--णिच् ल्यप् । प्रशस्येत्यर्थे
अनुमोदनेन प्रोत्साहय्येत्यर्थे अव्य० ।

अभिनम्र त्रि० अभिमुखं नम्रः प्रा० स० । आभिमुख्येन नम्रे

नते “इमां तटाघातलताञ्च तन्वीं स्तनाभिरामस्तवकाभि-
नम्राम्” रघुः ।

अभिनय पु० अभि--नी--करणे अच् । १ हृद्गतभावव्यञ्जके

शरीरचेष्टादौ । भावे अच् । २ अभिनेयपदार्थस्य शरीरचेष्टा-
भाषणादिभिरनुकरणे “भवेदभिनयोऽवस्यानुकारः स
चतुविधः । आङ्गिकोवाचिकश्चैवमाहार्यः सात्त्विकस्तथेति” नटै
रङ्गादिभिः रामयुधिष्ठिरादीनामवस्थानुकरोऽभिनयः सा०
द० । नर्त्तकीरभिनयातिलङ्घिनीति” रघुः । नानाभिनय-
सम्बन्धान् भावयन्ति रसान् यतः” सा० द० तदभिनयमिवा-
वलिर्वनानामतनुत नूतनपल्लवाङ्गुलीभिः माघः । “अङ्गै-
रालम्बयेद्गीतं हस्तेनार्थं प्रकाशयेदित्युक्तदिशा व्यञ्जकचेष्टा-
मतनुतेत्यर्थः । “शौरिरित्यभिनयादिवोच्चकैः” माघः ।
अभिनयति बोधयत्यर्थमत्र आधारे अच् । शरीरचे-
“ष्टादिभिर्दृश्यपदार्थज्ञापके ३ रूपकादौ दृश्यकाव्ये ।

अभिनव पु० अभि + नु--भावे अप् । आनुकूल्यार्थस्तवे । अभि

नतः प्रशस्तः नवः प्रा० स० । प्रथमोद्भूते नवीने त्रि० ।
“रथाङ्गभर्त्त्रेऽभिनवं वराय” माघः । “अभिनवा इव
पत्रविशेगकाः” रघुः ।

अभिनवतामरस न० “अभिनवतामरसं ननजाद्य” इति

वृत्त० उक्तेद्वादशाक्षरपादके १ वृत्तभेदे । २ नूतनपद्मे च ।

अभिनवोद्भिद्(द) पु० अभिनवमुद्भिद्य जायते उद् + भिद्-

क्विप् क वा । अङ्कुरे ।

अभिनहन न० अभि + नह--भावे ल्युट् । १ अभितो बन्धनेदृढबन्धने च ।

अभिनिधन त्रि० अभिगतं निधनम् अत्या० स० । १ नाशाभि-

मुखतां प्राप्ते नाशोन्मुखे । निधनस्य समाप्तेर्वाभिमुख्यम्
अव्ययी० । २ नाशावसनयोराभिमुख्ये अव्य० तत्र पाठ्ये
३ सामभेदे च०९६४ “आभीकमभिनिधनमामीष्णवानि” कात्या०
२५, १४, १५, “आभीकाद्यानि सामानीति” कर्क० ।

अभिनिधान अभि + धा--भावे ल्युट् । १ आभिमुख्येन स्थापने ।

“संस्पृश्यं पुरूरवा इत्यभिनिधानतया” कात्या० ५, १, ३१ ।

अभिनिर्मुक्त पु० अभितः सर्व्वतः सायन्तनकर्म्मणा निर्मुक्तः ।

१ सूर्य्यास्तकाले निद्रावशात् त्यक्ततत्कालकर्त्तव्यकर्म्मणि ।
“सूर्य्येण ह्यमिनिर्मुक्तः शयानोऽभ्युदितश्च यः प्रायश्चित्त-
मकुर्वाणोयुक्तः स्यान्महतैनसा मनुः एतद्वचनस्य ब्रह्मचारि-
प्रकरणत्वात् ब्रह्मचारिण्येवम्भूतेऽस्य रूढ़िः ।

अभिनिर्य्याण न० अभिलक्ष्य रिपून् निर्य्याणम् युद्धार्थं

निष्क्रमः । रिपुजिगीषया सैन्यैः सह निष्क्रमणे ।

अभिनिर्वृत्त त्रि० अभि + निर् + वृत--क्त । १ निष्पन्ने ।

अभिनिर्वृत्ति स्त्री० अभि + निर् + वृत--क्तिन् । १ निष्पत्तौ ।

अभिनिवर्त्त पु० अभि + नि + वृत--भावे घञ् । १ अभितो-

निवृत्तौ । णमुल् । अभिनिघर्त्तम् । पुनः पुमर्निवृत्येत्यर्थ्ये
अव्य० । “पुनरभिनिवर्त्तमृत्विजोभक्षयन्ति तस्मादृतवश्च
मासश्चान्योन्यमभिनिवर्त्तन्ते” शत० ब्रा० ।

अभिनिविष्ट त्रि० अभि + नि + विश--कर्त्तरि क्त । १

अभिनिवेशयुक्ते २ चिन्तयाव्यग्रे ३ चिन्तनाय प्रवृत्ते च “निन्दा-
क्षेपापमानादेरमर्षोऽभिनिविष्टता” सा० द० ।

अभिनिवेश पु० अभितोनिवेशः घञ् । अवश्यमिदं कर्त्तव्य-

मित्याग्रहसमन्विते मनःसंयोगभेदे योगशास्त्रप्रसिद्धे
मरणमीतिजनके अज्ञानविशेषे, अनित्यैरपि देहादिभिर्वियोगो
मा भूदिति मरणनिवारणार्थे आग्रहे च । योगशास्त्रे हि
अविद्याऽस्मितारागद्वेषाभिनिवेशाः पञ्च क्लेशाः दर्शिताः
क्लिश्यन्ति कर्मतत्फलप्रवर्त्तकाः सन्तः पुरुषं दुःखा-
कुर्व्वन्ति क्लेशाः पञ्च । उत्तरेषामविद्याप्रसवत्वमपि
तत्रोक्तम्! “अविद्याक्षेत्रत्वमुत्तरेषामप्रसुत्या तनुवि-
च्छिन्नोदाराणाम्” पा० सू० उत्तरेषामस्मितादीनामविद्या
क्षेत्रंप्रसवभूमिः तेषाञ्च अप्रसुत्या विवेकख्यात्यभावेनादग्ध-
तया शक्तिरूपेणावस्थानात् अतएव ते पुनरुद्भवन्ति ते च
क्रियायोगिनां तनवः, विषयसङ्गिनां विच्छिन्ना उदाराश्च
भवन्ति । यथा यत्र रागस्तत्र क्रोधो विच्छिन्नः सुरतां
राग उदारः । एवं यत्र क्रोष उदारस्तत्र रागोविच्छिन्न
एवं रागादयः विच्छिन्नोदाराभूत्वा पुरुषपशुं क्लेशयन्ति
एवं च क्लेशा अविद्यामूलाः अविद्यायाः पुरुषविवेकख्यात्या-
निवृत्तौ निवर्त्तन्ते । एवं सामान्यतः क्लेशानुक्त्वाऽभिनिवेश
उक्तः “स्वरसवाही विदुषोरूढ़ोऽभिनिवेशः” इति । विदु-
षोमूर्खस्य वा जन्तुमात्रस्य यो मरणत्रासः मोऽभिनिवेशः
यथा मूर्खस्य अहं सदा भूयासं न मृषीयेति रूढ़ः त्रासस्तया
विदुषोऽपि दृश्यते यतः स्वरसवाही सः, पूर्ब्बजन्मसु
असकृन्मरणदुःखानुभवजन्यवासनासंघः स्वरसः तेन वहति प्रव-
हतीति स्वरसवाही । ते चाविद्यादयः पञ्च क्रमेण
तमोमोहमहामहतामिस्रान्धतामिस्रसंज्ञाः । सांख्यकारिका-
याम् पञ्च विपर्य्ययभेदानुपक्रम्य । “भेदस्तमसोऽष्टविधो-
पृष्ठ ०२९३
मोहस्य च दशविधोमहामोहः । तामिस्रीऽष्टादशधा
तथा भवत्यन्धतामिस्रः” ॥ अन्धतामिस्रः अभिनिवेश-
स्त्रासः तथेत्यनेनाष्टादशधेत्यनुषज्यते । देवाः खल्वणि-
मादिकमष्टविधमैश्वर्य्यमासाद्य दश शब्दादीन् भुञ्जानाः
शब्दादयोभोग्यास्तदुपायाश्चाणिमादयोऽस्माकमसुरादिभिर्मा
स्म उपधानिषतेपि बिभ्यति । तदिदं भयमभिनिवेशो-
ऽन्धतामिस्रोऽष्टादशविषयित्वात् अष्टादशधेति” सा० कौ० ।
२ आसक्तौ च “अथानुरूपाभिनिवेशतोषिणा” कुमा० ।

अभिनिवेशिन् त्रि० अभि + नि + विश--णिनि स्त्रियां ङीप् ।

१ आग्रहवति २ अनुरागवति च ।

अभिनिष्कारिन् त्रि० अभि + निस् + कृ--णिनि स्त्रियां ङीप् ।

अभितोनिःशेषेण कारिणि “कृताकृतो वल्मिनोऽभिनिष्-
कारिणः प्रजाम्” अथ० १०, १, ३१ ।

अभिनिष्क्रम पु० अभि + निस् + क्रम--घञ् । आभिमुख्येन

निर्गतौ ल्युट् । अभिनिषक्रमणमप्यत्र न० ।

अभिनिष्क्रान्त त्रि० अभि + निस् + क्रम--कर्त्तरि क्त । अभिनिर्गते ।

अभिनिष्टान पु० अभि + स्तन--घञ् शब्दसंज्ञाया षत्वम् ।

१ विसर्जनीये । “नाम चास्मै दद्युर्घोषवदाद्यन्तस्थम्भिनिष्टा-
नान्तम्” गृह्यसूत्रम् । २ अक्षरमात्रे च शब्दमात्रे तु न
षत्वम् । अभिनिस्तान इत्येव ।

अभिनिष्पतन न० अभि + निस् + पत--ल्युट् । आभिमुख्येन निर्गमे ।

अभिनिष्पत्ति स्त्री अभि + निस् + पद--क्तिन् । १ सम्पत्तौ

सिद्धौ यस्य यथारूपमुचितं तथारूपेण तस्य भवने
२ उत्पत्तौ च ।

अभिनिष्पन्न त्रि० अभि + निस्--पद--क्त । १ सम्पन्ने २ सिद्धे च ।

अभिनीत त्रि० अभिनीयते स्म अभि--नी क्त । न्याय्ये, १ युक्ते

“अभिनीततरं वाक्यमित्युवाच युधिष्ठिरः” भा० शा० प० ।
२ भूषिते ३ अतिसंस्कृते ४ पूजिते ५ क्रोधने, यस्याभिनयः
रूपाद्यपुकरणं चेष्टादिभिः कृतस्तस्मिन् ६ आभिमुख्येन
७ प्रापिते च “मितार्थमभिनीतस्त्वम्” रामा० ।

अभिनीति स्त्री आनुकूल्यार्था युक्तिः । १ प्रियवाक्यादियुक्त-

युक्तौ । “सान्त्वपूर्ब्बमंभिनीतिहेतुकम्” किरा० । २ अभितः
प्रापणे च रूपादेर्देहादिना ३ अनुकरणे च । नीतेरामि-
मुख्यम् अव्ययी० । ४ नीत्याभिमुख्ये अव्य० ।

अभिनेतव्य त्रि० अभि + नी--कर्म्मणि तव्य । देहचेष्टादिना

१ अनुकार्य्ये आभिमुख्येन २ प्रापणीये च । भावे तव्य ।
आवश्यकाभिनये न० ।

अभिनेतृ त्रि० अभि + नी--तृच् स्त्रियां ङीप् । नाटके देहादेरनुकरणकर्त्तरि नटादौ ।

अभिनेय त्रि० अभि + नी--कर्म्मणि यत् । १ देहादिचेष्टादिना

१ अनुकार्य्ये अभिमुखं २ प्रापणीये च ।

अभिन्न त्रि० न भिन्नः । १ एकरूपताप्राप्ते २ अविदलिते ३

अविदारिते च “भूयोभूयोरयिमिदस्य वर्द्धयन्नभिन्ने खिल्ये”
ऋ० ६, २८, २ “अभिन्ने शत्रुभिरभेद्ये” भा० । “न भिन्नां
कृष्णामुप्रदध्यात् आर्च्छति वा एषा या भिद्यते” इत्युपक्रम्य
“नाभिन्नां परास्येदिति” शत० ब्रा० । ४ अभग्ने दृढ़े, “अभि-
न्नेन चरेत्” कात्या० २६, ७, ४८ “अभग्नेन दृढेन” कर्क०

अभिन्नपुट पु० अभिन्नं न विदलितं पुटं यस्य । नवपल्लवे

“दूर्व्वायवाङ्कुरप्लक्षत्वगभिन्नपुटोत्तरान्” रघुः ।

अभिन्यास पु० अभिन्यस्यते अन्तःस्थ ऊष्मा वहिष्करणेन

अभि + नि--अस--करणे घञ् । ज्वरमुपक्रम्य, “श्वसन्
निपतितः शेते प्रलापोपद्रवायुतः । तमभिन्यासमित्याहु-
र्हतौजसमथापरे” सुश्रुतोक्ते ज्वरभेदे “निद्राल्पं तमभि-
न्यासं क्षीणमेनं हतौजसमिति” सुश्रुतः ।

अभिपत्ति स्त्री अभि + पद--क्तिन् । निष्पत्तौ ।

अभिपन्न त्रि० अभि + पद--क्त । १ अपराधवति, २ आपद्गते,

३ स्वीकृते, ४ आभिमुख्येन गते च ।

अभिपित्व न० अभि + पा--भावे कित्वन् । १ अभिपतने २

आगमनकाले “विश्वंजगदभिपित्वे मनीषा” य० ३३, ३४, “अभि-
पित्वे अभिपतने आगमनकाले” वेददी० । ३ अभिमतप्राप्तौ
“सुदक्षमिहाभिपित्वम् करते गृणानः” ऋ० ४, १६, १,
“अभिपित्वमभिमतप्राप्तिम्” भा० । ४ अभितः प्राप्तौ
“तस्येदिन्द्रो अभिपित्वेषु रणति” ऋ० १, ८३, ६,
“अभिपित्वेषु अभिप्राप्तिषु” भा० कुहाभिपित्वं करतः
कुहोषतुः ऋ० १०, ४०, २, “इमामेव ऋचमभिप्रेत्य
“क स्विद्रात्रौ भवथः क्व दिवा क्वाभिप्राप्रिं कुरुथ” इति
यास्केन अभिप्राप्तिपरत्वमस्य सूचितम् । कर्म्मणि कित्वन् ।
५ अभिपतनीये, “नोविश्वं जगदभिपित्वे मनीषा” १, १८६, १,
“अभिपित्वे अभिपतनीये” भा० ६ अभिगन्तव्ये, “सूरिभि-
रभिपित्वे सजोषाः” ऋ० १, १८६, ६, “अभिपित्व
अभिगन्तव्ये” भा० ७ अभिप्राप्ने “परुष्णीमाशुश्चनेदभिपित्वं
जगाम” ऋ० ७, १८, ९, “वृक्षाश्चिन्मे अभिपित्व
अरारणुः” ऋ० ८, ५, २१, अभिपित्वे अभिप्राप्ते भा० ।
८ आसन्नकाले “कक्षीवाँ अभिपित्वे अह्नाम्” ऋ०
०१, १२६, ३ “अभिपित्वशब्दस्त्वासन्नकालवाचीति” भा०
९ अभिप्राप्तकाले “अभिपित्वे मनवे शास्यः” ऋ० १, १८९, ७
“अभिपित्वे अभिप्राप्तकाले” भा० ।
पृष्ठ ०२९४

अभिपुष्प पु० अभितः पुष्पमस्य । १ सर्वतः पुष्पवति वृक्षे ।

अभिपूरण न० अभ्यासेन अभितो वा पूरणम् प्रा० स० ।

अभ्यासेन सर्वतः पूरणे “अभिप्लवाभ्यासेनाभिपूरणम्”
कात्या० २४, ३, ३३, ।

अभिप्रज्ञा स्त्री अभितः सततं प्रज्ञा चिन्तनम् । सततचिन्तने

“तमशनायापिपासे अब्रूतामावाभ्याभिप्रजानीहि” ऐ० भा०
अभिप्रजानोहि चिन्तयेति व्याख्यानात्तस्यास्तथार्थत्वम् ।

अभिप्रणयन न० अभितः सर्वतः प्रणयनं संस्कारः ।

वेदविधिना अग्न्यादेः संस्कारे ।

अभिप्रणीत पु० अभितः प्रणीतः । सर्वतः वेदविधिना संस्कृते

वह्न्यादौ “जज्वाल लोकस्थितये स राजा यथाध्वरे
वह्निरभिप्रणीतः” भट्टिः ।

अभिप्रमुर् स्त्री अभिप्रमूर्च्छति आहुतिदानेन वह्निरनया ।

१ अभि + प्र + मूर्च्छ करणे क्विप् । जुह्वाम् ।

अभिप्रवर्त्तन न० अभितः प्रवर्त्तनम् । १ सर्वतः प्रवृत्तौ २ सर्वतः

प्रवृत्तिसम्पादने च “त्वक्खादोरोमहर्षश्च स्वेदस्याभिप्रवर्त्त-
नम्” सुश्रुतः

अभिप्रातर् अव्य० अत्यन्तं प्रातः । १ अतिप्रत्यूषे “अथाभि-

प्रातरेव स्थालीपाकावृताज्यमिति” शत० ब्रा० ।

अभिप्राप्ति स्त्री आभिमुख्येन प्राप्तिः प्रा० स० । १

आभिमुख्येन प्राप्तौ अभिपित्वशब्दे उदाहृतं निरुक्तवाक्यम् ।

अभिप्राय पु० अभि + प्र + इण--भावे अच् । १ आशये । “तेषां

स्वंस्वमभिप्रायमुपलभ्य पृथक् पृथक्” मनुः । “सर्वानभिप्राय-
कृतान् भार्य्यालभत कौरव भा० उ० प० अभिप्रैति कर्त्तरि
पचा० अच् । २ अभिगामिनि “स्वरितञित आत्मनेपदं
कर्त्त्रभिप्राये क्रियाफले” पा० कर्त्त्रभिगामिनीति व्यख्या-
कारः मणिकृता तु एतत्सूत्रं कर्त्रुद्देश्यकतापरतया
व्यख्यातम् तच्चापूर्बशब्दे २५० पृष्ठे दर्शितम् । अभिप्रेयते
पुरुषार्थक ङ्क्षिभिः आभिमुख्येन प्रलयेऽभिप्रैति जगदस्मिन्
वा कर्मणि आधारे वा अच् । ३विष्णौ “अभिप्रायः
प्रियार्होऽर्ह” इति बि० सह० ।

अभिप्री त्रि० अभिप्रीणाति अभि + प्री--क्विप् । १ सर्वतस्तर्पके

“तुभ्यं वाता अभिप्रियस्तुयं मर्षन्ति सिन्धवः” ऋ० ९, ३१, ३

अभिप्रेत त्रि० अभि + प्र + इण--क्त । १ अभिलषिते “अभिप्रे-

तार्थसिद्धिर्मङ्गलम् “कामाय तु भवेत् काम्यमभिप्रेतार्थ-
सिद्धये” भवि० पु० ।

अभिप्रेत्य अव्य० अभि + प्र + इण--ल्यप् । १ उद्दिश्येत्यर्थ ।

“यदभिप्रेत्य धात्वर्थस्तत्सम्प्रदानमिति” व्याकरणान्तरम्

अभिप्रेप्सु त्रि० अभि + प्र + आप--सन--उ । प्राप्तुमिच्छौ

“सहासनमभिप्रेप्सुरुत्कृष्टस्यापकृष्टजः” “ऐन्द्रं स्थानमभि-
प्रेप्सुः” इति च मनुः ।

अभिप्रोक्षण न० अभितः प्रोक्षणं संस्कृरभेदः । १

जलादिना सर्वतः सेचनरूपे र्वधे संस्कारे ।

अभिप्लव पु० अभिप्लवन्ते स्वर्गमभिगच्छन्ति अभि + प्लु--गतौ

अच् । १ प्राजापये आदित्ये । “अथादित्याश्च आङ्गिर-
सश्च उभये प्राजापत्या अस्पर्द्धन्तवयं पूर्बे स्वर्गं लोकमेष्यामो-
वयं पूर्ब इति । आदित्याश्चतुर्भिः स्तौमैश्चतुर्मिः पृष्ट्यैर्ल-
घुभिः सामभिः स्वर्गं लोकमभ्यप्लवन्त तस्मादभिप्लवाः
आदित्याः” शत० ब्रा० । वर्षसाध्ये गवामयने प्रत्येकमासीय-
चतुर्विंशतिदिवसेषु चतुःषट्कात्मकेषु चतुर्षु षडहेषु विशेषः
गवामयनशब्दे वक्ष्यते । “अभिप्लवः षड़हः षड्द्यहानि
भवन्त्यभिप्लवः” इति शत० ब्रा० । “अभिप्लवं पूर्ब्बं पुरस्ताद्विषु-
वत् उपयन्ति चतुर्विंशेन महाव्रतमभिप्लवेन परमभिप्लव-
मिति” च शत० ब्रा० । ३ षड़हसाध्ये स्तोमादिफुष्ठसाधनक
गवामयनाङ्गयागभेदे च । ४ उपप्लवे--उपद्रवे ५ सर्ब्बतः
प्लवने च । अभिप्लवे विहितः ठक् । आभिप्लविकः उक्त-
षड़हेषु विहिते सामादौ ।

अभिप्लुत त्रि० अभि + प्लुत--क्त । १ सर्वतोव्याप्ते २ अभितः सिक्ते च ।

अभिभङ्ग त्रि० अभितोभङ्गोयस्मात् । १ भङ्गहेतौ “अभिभुवे-

ऽभिभङ्गाय वन्वते” ऋ० २, २१, २, अभितोभङ्गः । २ सर्वतो-
भङ्गे पु० । अभिमतोभङ्गो यस्य । ३ भङ्गर्शीले त्रि० ।

अभिभव पु० अभि + भू--अप् । पराजये, तिरस्कारे,

अनादरे, च । “रघोरभिभवाशङ्कि चुक्षुभे द्विषतां मनः”
रघुः “अलभ्यशोकाभिभवेयमाकृतिर्विमानना सुभ्रु! कुतः
पितुर्गृहे” कु० “अधर्माभिभवाच्चैव प्रदुष्यन्ति कुलस्त्रियः”
गीता । रोगादिना गात्रादिजड़ीभावे “वृषसिंह
वृश्चिकघटैर्विद्धि स्थानं गमागमौन स्तः । न मृतं न चापि
नष्टं न रोगशान्तिर्नचाभिभवः” षट् पञ्चाशिका ।

अभिभवन न० अभि + भू--ल्युट् । १ अभिभवे रोगादिना-

ज्ञानरोधे “जरया चाभिभवनं व्याधिभिश्चोपपीड़नम्” मनुः

अभिभा स्त्री अभि + भा--अङ् । १ अभिभवे “मा त्वा काचि-

दभिभा विश्व्याविदत्” ऋ० २, ४२, १ । “अभिभा
अभिभवः” भा० ।

अभिभार त्रि० अभिर्भृशार्थे अतिशयितो भारो यस्य ।

अतिभावान्विते “चतुरुपमृति तद्वज्रमभिभारं करोति तेन
वज्रेणाभिभारेणेमाँ लोकान् प्रभिनत्ति” शत० ब्रा० ।
पृष्ठ ०२९५

अभिभावक त्रि० अभि + भू--ण्वुल् । १ अभिभवकर्त्तरि

२ तिरस्कारके ३ पराजेतरि ४ जडीभावकारके च ।

अभिभाविन् त्रि० अभिभवति अभि + भू--णिनि स्त्रियां

ङीप् । १ तिरस्कारके २ पराजेतरि “सर्वातिरिक्तसारेण
सर्वतेजोऽभिभाविना” रघुः । तृच् । अभिभविताप्यत्र ।

अभिभावुक त्रि० अभि + भू--उकञ् । १ तिरस्कारके २

पराजेतरि ३ जड़ीभावकारके च ।

अभिभाषण न० आभिमुख्येन भाषणम् प्रा० स० । १ आभिमुख्येन कथने ।

अभिभाषिन् त्रि० आभिमुख्येन भाषते अभि + भाष--णिनि

स्त्रियां ङीप् । आभिमुख्येन भाषिणि । “प्रसन्नमुखरागं
तं स्मितपूर्ब्बाभिभाषिणम्” रघुः ।

अभिभू त्रि० अभिभवति अभि + भू--क्विप् । १ अभिभावके

२ तिरस्कारके “अभिभुवे अभिभङ्गाय बन्वते” ऋ० २, २१,
२, “अभिभुवे अभिभवित्रे” भा० ।

अभिभूत त्रि० अभि + भू--क्त । १ किं कर्त्तव्यमिति ज्ञानशून्ये,

२ पराभूते, ३ व्याकुले च । “सज्वरेणाभिभूत” इति ज्यो० ।

अभिभूति स्त्री अभि + भू--क्तिन् । १ पराभवे २ अवज्ञायाञ्च

अभिभवति कर्त्तरि क्तिच् । ३ अभिभावके त्रि० । “गायत्र्यै
छन्दसे अभिभूत्यै स्वाहा” कात्या० २५२ । “यस्य पूर्बी
र्द्योर्नक्षत्रमभिभूति पुष्यात्” ऋ० ४, २१, १ । अभिभूति
अभिभावुकं वलम्” भा० । अतः संगृभ्याभिभूत आभर”
ऋ० १, ५, ३, ३ । “अभिभूते, शत्रूणामभिभवितः” भा० ।

अभिभूय न० अभि + भू--भावे ‘भुवो भावे’ पा० क्यप् ।

अभितोभावे “अभिभूयाय त्वा राष्ट्रम्” अथ० १९, ३७, ३ ।
अभि + भू--ल्यप् । तिरस्कृत्येर्थे अव्य० ।

अभिभूवन् त्रि० अभि + भू--ङ्वनिप् स्त्रियां ङीप् रश्च ।

अभिभावके “समजैषमिमा अहं सपत्नीरभिभूवरीः” ऋ०
१०, १५९, ९ ।

अभिमत त्रि० अभि + मन--कर्मणि क्त । १ अभिमानविषयीभूते

ममेदमिदमित्याकारमिथ्याज्ञानविषये २ सम्मते ३ आदृते
४ अभीष्टे च “अभिमतफलशंसी चारु पुस्फोर बाहुः”
भट्टिः । भावे क्त । ५ अभिमाने मिथ्याज्ञाने न० ।

अभिमति स्त्री अभि + मन--क्तिन् । १ अभिमाने, मिथ्या-

ज्ञाने २ आदरे, ३ सम्माने, ४ अभिलाषे च ।

अभिमनस् त्रि० अभिमुखं मनो यस्य । कर्त्तव्यप्रवणमनस्के ।

भृशा० क्यङ् सलोपश्च अभिमनायते । “कान्तिं नाभि-
मनायेत कोवा स्थाणुसमोऽपि ते” भट्टिः ।

अभिमन्तव्य त्रि० अभि + मन--कर्मणि तव्य । ज्ञातव्ये “न सा

स्त्रीत्यभिमन्तव्या यस्यां भर्त्ता न रज्यति” पुरा० । २
अभिमानेन विषयीकर्त्तव्ये च ।

अभिमन्तृ त्रि० अभि + मन--तृच् स्त्रियां ङीप् । १ अभिमानिनि

“मनसश्चाप्यहङ्क्षारमभिमन्तारमीश्चरम्” मनुः । २ सम्मान-
कर्त्तरि च ।

अभिमन्तोस् अव्य० अभि + मन--तोसुन् । अभिमन्तुमभिमानेन

विषयीकर्त्तुमित्यर्थे “एष वै रुद्रियोऽग्निः सहैनमीश्वरः
सपुत्रं सपशुमभिमन्तोः” शत० ब्रा० ।

अभिमन्त्र न० अभि + मन्त्र--भावे अच् । १ “मन्त्रमुच्चारयन्नेव

मन्त्रार्थत्वेन संस्मरेत् । शेषिणं तन्मना भूत्वा स्यादेतदमु-
मन्त्रणम् एतदेवाभिमन्त्रस्य लक्षणं वीक्षणाधिकम्” मीमां-
सोक्ते मन्त्रपाठपूर्वकेक्षणादिसंस्कारभेदे । ल्युट् । अभिमन्त्र-
णमप्यत्र न० “अभिमन्त्रणशेषी वा विशेषोपदेशात्” कात्या०
६, १, १९, “अभिमन्त्रणमुत्तरैः” कात्या० ९, ८, २१ ।

अभिमन्त्र्य अव्य० अभि + मन्त्र + ल्यप् । १ अभिमन्त्रणं कृत्येत्यर्थे

अभि(धि)मन्थ पु० अभि(धि)मथ्नाति नेत्रम् । “वृद्धैरेतैरभिष्य-

न्दैर्नराणामक्रियावताम् । तावन्तस्त्वभि(धि)मन्थाः स्युर्नयने
तिव्रवेदने” इति माधवोक्ते १ नेत्ररोगभेदे भावे घञ् ।
२ भृशमन्थने । अव्ययी० । मन्थदण्डस्याभिमुख्येऽव्य० ।

अभिमन्यु पु० कृष्णस्वसृसुभद्रागर्भजाते अर्ज्जुनपुत्रे । स च

युद्धे षड्भिः महारथैः परिवृत्य हतः । तत्कथा ।
“एतत्कुरु महेष्वास! राधेय! यदि शक्यसे । अथैनं विमुखी-
कृत्य पश्चात् प्रहरणं कुरु । सधनुष्को न शक्योऽयमपि
जेतुं सुरासुरैः । विरथं विधनुष्कञ्च कुरुष्वैनं यदीच्छसि
तदाचार्य्यवचः श्रुत्वा कर्ण्णो वैकर्त्तनस्त्वरन् । अस्यतो
लघुहस्तस्य पृषत्कैर्द्धनुराच्छिनत् । तस्याश्वानबधीद्भोजो गौतमः
पार्ष्णिसारथी । शेषास्तु छिन्नधन्वानं शरवर्षैरवाकिरन् ।
त्वरमाणास्त्वराकाले विरथं षण्महारथाः । शरवर्सैरकरुणा
बालमेकमवाकिरन् । स छिन्नधन्वा विरथः स्वं धर्ममनु-
पालयन् । खड़्गचर्मधरः श्रीमानुत्पपात विहायसा ।
मार्गैः स कौशिकाद्यैश्च लाघस्वेन बलेन च । आर्जुनिर्व्व्य-
चरद्व्योम्नि भृशं वै पक्षिराड़िव । मय्येव निपतत्येष सासि-
रित्यूर्द्ध्वट्टष्टयः । विव्यधुस्तं महेष्वासाः समरे छिद्रदर्शिनः ।
तस्य द्रोणोऽच्छिनन्मुष्टौ खड़्गं मणिमयत्सरुम् । क्षुरप्रेण
महातेजास्त्वरमाणः सपत्नजित् । राधेयो निशितैर्व्वाणै-
र्व्यधमच्चर्म चीत्तमम् । व्यसिचर्मेषुपूर्णाङ्गः सोऽन्तरीक्षात्
पुनः क्षितिम् । आस्थितश्चक्रमुद्यम्य द्रोणं क्रुद्धोऽभ्यधावत”
इति “विचेता न्यपतद्भूमौ सौभद्रः परबोरहा । एवं
विनिहतो राजन् एको बहुभिराहवे” भा० द्रो० प० ॥
पृष्ठ ०२९६

अभिमर पु० आभिमुख्येन म्रियतेऽत्र अभि + मृ--आधारे अप् ।

१ युद्धे । करणे अप् । २ भये, अभिम्रियते यस्मात् अपादाने
अप् । ३ मारणव्यापारे बधे ४ बन्धने च अभिमुखी-
भूय म्रियते कर्त्तरि अच् । ५ स्वसैन्ये ६ धनाशया
प्राणनिरपेक्षतया हस्तिनं व्याघ्रं वाऽभियोद्धुमुद्यते च ।

अभिमर्द्द पु० अभि + मृद--भावे घञ् । १ चूर्णीकरणे २ निष्पी-

ड़ने च । आधारे घञ् । ३ युद्धे, ४ मद्ये च । कर्त्तरि
अच् । ५ मर्द्दनकर्त्तरि त्रि० ।

अभिमर्द्दन न० अभि + मृद--भावे ल्युट् । १ आरम्भकषं-

योगनाशनेम चूर्णीकरणे २ निष्पीड़ने च

अभिमर्श(र्ष) पु० अभि + मृश(ष) भावे घञ् । १ स्पर्शे धर्षणे

च “पराभिमर्शोन तवास्ति कः करमिति” कुमा० ।
“कृताभिमर्शा(र्षा)मनुमन्यमानः सुतां त्वया नाम मुनि-
र्विमान्य” शकु० । “परदाराभिमर्शे(र्षे)षु प्रघृत्तान् नॄन्
महीपतिः” मनुः ।

अभिमर्श(र्ष)क त्रि० अभि + मृश(ष) ण्वुल् । १ स्पर्शकर्त्तरि

२ धर्षणकर्त्तरिच “न दुष्टः कश्चिदप्यासीत् परदाराभि-
मर्शकः” रामा० ।

अभिमर्शन(र्षण्) न० अभि + मृश(ष)--भावे ल्युट् । १ स्पर्शे

“नीवीस्तनप्रावरणसक्धिकेशाभिमर्शनम् (र्षणम्)” या० ।
“यः पुनः परनारीपरिधानग्रन्थिप्रदेशकुचप्रावरणजघन-
मूर्द्धकचादिस्पर्शनं सामिलाष इवाचरति” मिता० । “सदो-
ऽभिमर्शनम्(र्षणम्) कात्या० ९, ८, १९, “तूष्णीं पिन्वना-
दीनां करणाभिमर्शन(र्षण)श्लक्षणधूपनप्रदहनोद्धरणाव-
सेचनानि” कात्या० २६, १, २७ धर्षण्णे च “परदाराभि-
म(र्श)र्षणम्” स्मृतिः ।

अभिमाति त्रि० अभि--मेङ् कर्त्तरि क्तिन् न इत्त्वम् । घातके ।

“विष्णोः क्रमोऽस्यभिमातिहा” यजु० १२, ५, “अभिमातिः
र्घातकः” वेददी० । २ शत्रौ पु० हेम० । “अग्ने! सहस्व
पृतना, अभिमातीरपास्य” य० ९, ३७, अभिमातिः शत्रु-
रुच्यते स्त्रीत्वमार्षम् अभिमातीन् शत्रून्” वेददी० ।

अभिमातिन् पु० अभिमातमनेन अभि + मेङ--भावे क्त

वेदे पृ० न इत्त्वम् इष्टा० इन् । शत्रौ । “बाधते
विश्वमभिमातिनम्” ऋ० १, ८५, ३ “अभिमातिनम्
शत्रुम्” भा० ।

अभिमातिषाह् त्रि० अभिमातिं रिपुं सहते सह--ण्वि-

वेदे षत्वम् । रिपुजयिनि “तद्वीरासो अभिमातिषाहः
ऋ० ६, ७, ३, “अभिमातिषाह शत्रूणामभिभवितारः” भा०

अभिमातिषाह त्रि० अभिमातिं रिपुं सहते सह--अण्

उप० स० वेदे षत्वम् । रिपुजयिनि । “अभिमाति-
षाहोगवेषणः सहमान उद्भित्” अथ० ५, २०, ११ ।

अभिमान पु० अभि + मन--घञ् । १ आत्मन्युत्ककर्षारोपे,

२ मिथ्यागर्ष्वे--बलादिदर्पे, ३ प्रणये, ४ हिंसायाम् ।
५ गर्वमात्रे “संकल्पयोनेरभिमानभूतम्” कुमा० ६ स्वरूप-
ज्ञाने । “अनात्तस्य चाभिमानसामथ्यात्” कात्या० ९, ५, १२
“अनात्तस्य अनात्तरसस्य सरसस्यैव सोमस्य सोमाभि-
मानसामर्थ्यात् सोमबुद्धिसामर्थ्यादिति सोमोयमिति बुद्धि-
रनात्तरसे अनभिषुते एव सोमे नाभिषुते” कर्क० ।
७ मिथ्याज्ञाने “अभिमानैर्न मानोमे जातिदोषेण वै महान्”
भा० शा० प० । उत्साहादिसमुद्बोधः साधारण्याभि-
मानतः” सा० द० । मिथ्याज्ञानञ्च तदभावति
तत्प्रकारकं ज्ञानं यथा देहे आत्मत्वबुद्धिः आत्मनि च असतो-
ऽप्युत्कर्षस्य ज्ञानम् । शुक्तिकायां रजतज्ञानम् मूर्खस्य
पाण्डित्याभिमान इत्यादि । अभिमानश्चात्मघर्म इति वैशेषिका-
दयः । अन्तःकरणधर्म्म इति पातञ्जलादयो वेदान्तिनश्च ।
तत्र विपर्य्यासज्ञानमविद्या सा च बुद्धिधर्मः गर्वात्मकज्ञानम्
अहङ्कारस्य वृत्तिभेदः । अहङ्कारश्चाभिमानवृत्तिकमन्तः-
करणद्रव्यम्” सां० प्र० भा० । अभिमानोऽहङ्कारः सा० सू०
“अभिमामोऽहङ्कारस्तस्मात् द्विविधः प्रवर्त्तते सर्गः” सा० का०
अभिमानोऽहङ्कारः यत् खल्वालोचितं, मतञ्च तत्राहमधि-
कृतः शक्तः खल्वहमत्र, मदर्था एवामी विषयाः, मत्तो-
नान्योऽत्राधिकृतः कश्चिदस्त्यतोऽहमस्मीति योऽमिमानः
सोऽसाघारणव्यापारत्वादहङ्कारः तमुपजीव्य हि बुद्धि-
रध्यवस्यति कर्त्तव्यमेतन्मयेति” त० कौ० । अन्तः-
करणञ्च वृत्तिभेदात् त्रिविधमिति साङ्ख्यादयः” “मनो-
बुद्धिरहङ्कारश्चित्तं करणमान्तरम् । संशयो निश्चयोगर्वः
स्मरणम् विषया इमे” इति चतुर्विधवृत्तिमत्त्वेन चदुर्विधं
वेदान्तिनः स्वीचक्रुः । “न हि धनिनो गृहस्थस्य धनाभि-
मानिनो धनापहारनिमित्तं दुःखं दृष्टमिति तस्यैव
प्रव्रजितस्य धनाभिमानरहितस्य तदेव धनापहारनिमित्तं
दुःखं भवति । न हि कुण्डलिनः कुण्डलित्वाभि-
माननिमित्तं सुखं दृष्टमिति तस्यैव कुण्डलवियुक्तस्य
कुण्डलित्वाभिमानहीनस्य तदेव कुण्डलित्वनिमित्त सुखं
भवति” शा० भा० । अभितोमानः । ८ शृङ्गाररसावस्था-
भेदे । “विप्रलम्भोऽथ सम्भोग इत्येष द्विविधोमतः स
पृष्ठ ०२९७
च पूर्ब्बरागमानप्रवासात्मकश्चतुर्द्धा स्यात् । मानः कोपः
स तु द्वेधा प्रणयेर्ष्यासमुद्भवः द्वयोः प्रणयमानः स्यात्
प्रमोदे सुमहत्यपि” सा० द० अधिकं मानशब्दे । ९
वैरर्नियातने, “अभिमानधनस्यगत्वरैः” किरा० । अभिमानेन
निर्वृत्तः ठक् । आभिभानिक अभिमानसाध्ये त्रि० ।

अभिमानित त्रि० अभिमानोगर्वोजातोऽस्य इतच् ।

जातगर्व्वे १ जाताभिमाने अभि + मन + णिच्--आधारे क्त ।
२ अभिमानसाधने मैथुने सुरते न० ।

अभिमानिन् त्रि० अभि + मन--णिनि स्त्रियां ङीप् । १ गर्व-

युक्ते २ प्रणयकोपादियुक्ते च सोत्यस्य मनोः ३ पुत्रभेदे पु० ।
“तरङ्गभीरुर्वप्रश्च तरस्वानुग्र एव च अभिमानी प्रवीणश्च
जिष्णुः संक्रन्दनस्तथा । तेजस्वी सबलश्चैव सौत्यस्यैते मनोः
सुताः, ह० वं० । ४ मिथ्याज्ञानयुक्ते त्रि० । “अभिमानिव्यप-
देशस्तु विशेषानुगतिभ्याम्” शा० सू० । “यतोभिमानि-
व्यपदेश एषः । मृदाद्यभिमानिन्योवागाद्यभिमानिन्यश्चेतना
देवता वदनसंवदनादिषु चेतनोचितेषु व्यवहारेषु व्यप-
दिश्यन्ते” शा० भा० ।

अभिमानुक त्रि० अभि + मन--बा० उकञ् । अभिमानशीले

अभिमानश्च प्रागुक्तः बाधितु शक्ते च । “अनक्ता एवस्यु-
रभिमानुकोरुद्रः पशून्त्स्यात् यदञ्ज्यात्” शत० ब्रा० ।
“अभिमन्तुंबाधितुं शक्तः स्यात्” भा० ।

अभिमाय त्रि० अभिगतोमायामविद्याम् अत्या० स० । इति

कर्त्तव्यविमूढे अज्ञानेनैव लोकानां कर्त्तव्याकर्त्त-
व्येषु मोहः इति तद्गतत्वान्मूढ़त्वम् ।

अभिमि(मे)ह्य त्रि० अभि + मिह--बा० वेदे क्यप् लोके

ण्यत् । यस्याभिमुखं मेहनं मलमूत्रत्यागः क्रियते तस्मिन्
“यत्र मेक्ष्यन् भवति तत् कृष्णविषाणाया लोष्टं वा किञ्चि-
द्वोपहन्तीयं ते यज्ञिया तनूरिति इयं वै पृथिवी देवय
जनी सा दीक्षितेन नाभिमिह्या” शत० ब्रा० ।

अभिमुख त्रि० अभिगतोमुखम् अत्या० स० । १ सम्मुस्यतां

गते “प्रसादाभिमुखो ब्रह्मा प्रत्युवाच दिवौकसः” कुमा० ।
“वानराभिमुखोऽगच्छद्रणेरणविशारदः” रामा० । “निद्रा
चिरेण नयनाभिमुखीबभूव” । मुखशब्दस्य स्वाङ्गपरत्वे
स्त्रियां वा ङीप् । अभिमुखीप्रतिमा अस्वाङ्गपरत्वे
टावेव अभिमुखा शाला । अभिगतं मुखं यस्य । तत्त-
त्कर्म्मकरणाय २ प्रेरितमुखे उद्यते । “प्रातः प्रयाणाभिमुखा
य तस्मै” “पुरः प्रवेशाभिमुखो बभूव” इति च रघुः ।
“युयोज पाकाभिमुखैः भर्त्तुर्विज्ञापनाफलैः” कु० । मुख
मभिलक्षीकृत्य अव्य० । ३ आभिमुख्ये अव्य० । “कर्ण्णं
ददात्यभिमुखं मयि भाषमाणे” अमरुशतकम् ।

अभिमुखीकरण न० न अमिमुखः अभिमुखः क्रियते अनेन

अभिमुख + च्वि--कृ--करणे ल्युट् । व्याकरणोक्ते सम्बो-
घने । कृते हि सम्बोधनपदाद्युच्चारणे श्रोता अभिमुखी
भवति इति तस्य तथात्वम् । “सिद्धस्याभिमुखीभावमात्रं
सम्बोधनं विदुः । प्राप्ताभिमुख्यः पुरुषः क्रियासु विनि-
युज्यते” इति हर्य्युक्तदिशा अभिमतक्रियाप्रवर्त्तनाविषय-
बोधनस्यैव सम्बोधनपदार्थत्वात् प्रवर्त्तयितव्यस्य तत्राभि-
मुखीभावस्यावश्यकत्वाच्च तथात्वम् ।

अभिमुखीभाव पु० अनभिमुखस्य अभिमुखतया भावः ।

१ आभिमुख्ये २ कार्य्यानुकूलतायाम् ३ तत्तत्क्रियोद्यमे च ।

अभिमृष्ट त्रि० अभि + मृश--मृष--वा क्त । १ स्मृष्टे २ धर्षिते

३ मिलिते ४ संसृष्टे च । मृज--क्त । कृतमार्जने त्रि० ।

अभिमेथक त्रि० अभि + मिथ--ण्वुल् । सर्वप्राप्तिवाधने वाक्य-

भेदे । स्त्रियां तु टापि अत इत्त्वम् । “सर्वाप्तिर्वा एषा वाचः
वदभिमेथिका सर्व्वेकामाः अश्चमेधे सर्बया वाचा सर्वान्
कामानाप्नवाम” शत० ब्रा० ।

अभिम्लात त्रि० अभि + म्ला--तन् । सर्व्वतोम्लाने । न० त० ।

अनभिम्लातः तस्यापत्यम् । शिवा० अण् । आनभिम्लातः
अनभिम्नात इत्यपि नमध्यपाठः ।

अभियाचन न० अभि + याच + ल्युट् । अभिमुणप्रार्थने ।

अभियाति पु० अभिमुखं युद्धार्थं याति या--क्तिच् । १ रिपौ

भावे क्तिन् । २ युद्धार्थमभिगमने स्त्री ।

अभियातिन् पु० अभियातमनेन अभि + या--भावे क्त इष्टा० इनि । शत्रौ ।

अभियातृ पु० अभिमुखं याति युद्धार्थम् अभि + या--तृच् ।

१ शत्रौ, २ अभिमुखगन्तृमात्रे त्रि० । स्त्रियां ङीप् ।

अभियायिन् त्रि० अभिमुखं याति या--णिनि । अभिमुख-

नन्तरि । “रामाभियायिनां तेषां तदेवाभूदमङ्गलम्” रघुः ।

अभियुक्त त्रि० अभि + युज--क्त । १ परैः रुद्धे, २ आसक्ते व्यव-

हारविषये ३ प्रतिवादिनि च । “अभियुक्तोऽभियोगस्य
यदि कुर्य्यादपह्नवम्” नार० । “अभियुक्तन्तु नान्येन नोक्तं
विप्रकृतं नयेदिति” या० । ४ पराक्रान्ते “नागाभियुक्त
इव युक्तमहो महेभः” माघः । ५ आप्ते वृद्धतमे ।

अभियुग्व(ज्व)न् त्रि० अभि + युज--ङ्वनिपं वेदे पृ० कुत्वम ।

अभियोक्तरि “स रथेन रथीतमोऽस्माकेनामियुग्वना” ऋ०
६, ४५ १५ लोके तु अभियुज्वा । स्त्रियां ङीप् वनीरश्च ।

अभियुज् त्रि० अभिमुखं युनक्ति अभि + युज--किप् । अभि

योक्तरि “आभिर्विश्वा अभियुजो विषूचीः” ऋ० ६, २५, २ ।
पृष्ठ ०२९८

अभियोक्तव्य त्रि० अभि + युज--तव्य । निषेध्ये “न स राज्ञा-

भियोक्तव्यः स्वकं संसाधयन् धनम्” मनुः । व्यवहारे यं
प्रति अभियोगः कर्त्तुं शक्यते २ तस्मिन् प्रतिवादिनि
अभिमुखं ३ योजनीये च ।

अभियोक्तृ त्रि० अभि + युज--तृच् । १ व्यवहारे--अपराध-

योजनकर्त्तरि वादिनि, स्त्रियां ङीप् “अभियोक्ता दिशे
द्देश्यं करणं बान्यदुद्देशेत्” । “अभियोक्ता न चेत् ब्रूयाद्बध्यो-
दण्ड्यश्च धर्म्मतः” इति च मनुः २ युद्धार्थमाक्रामिणि च ।

अभियोग पु० अभि + युज--घञ् । अन्यकृतस्य निजधर्षणस्य

नृपाय १ विज्ञापने, (नालिश) अभियोगी द्विविधः “अभि-
योगस्तु विज्ञेयः शङ्कातत्त्वाभियोगतः । शङ्काऽसतान्तु
संसर्गात् तत्त्वं होढ़ाभिदर्शनात्” नारदोक्तेः । “अभियोग-
मनिस्तीर्य्य नैनं प्रत्यभियोजयेत्” या० ३ युद्धार्थमाक्रमे,
४ शपथे, ५ उद्योगे, ६ आग्रहे “सन्तः स्वयं परहितेषु
कृताभि योगाः नीति० ७ अपचिकीर्षयाक्रमणे, “सप्रापद-
प्राप्तपराभियोगम्” कुमा० ८ अमिनिवेशे “नयाभियोगं
मनसः प्रसादं समापयस्वात्मगुणेन कामम्” रामा०
९ अपचिकीर्षयानिरोधे । “क्षुभितं वनगोचराभियोगा-
दिति” किरा० ।

अभियोगिन् त्रि० अभि + युज--घिनुण् । १ अभियोगकर्त्तरि

वादिनि “मिथ्याभियोगी दण्ड्यःस्यात् विवादात् द्विगुणं
दमम्” या० । २ आक्रमकर्त्तरि, ३ आग्रहयुक्ते, ४
अभिनिविष्टे, ५ योजनकर्त्तरि च ।

अभियोजन न० भृशं योजनम् । योजितस्य दाढार्थ्यं पुनर्यो-

जने “अभियोजनं नाम युक्तस्य पुनर्योजनमिति” माध० ।

अभिरक्षण न० अभितो रक्षणम् । मन्त्रादिना सर्व्वतः श्वेत

सर्षपादिविक्षेपैः यातुधानादिभ्यो १ रक्षणे २ सर्द्वतो
रक्षणे चाभावे अ । अभिरक्षाप्यत्र स्त्री । “प्रशान्तबाधं
दिशतोऽभिरक्षया” किरा० ।

अभिरक्षित त्रि० अभितोरक्षितः । सर्वतोरक्षिते ।

अभिरक्षितृ त्रि० अभितोरक्षति तृच् स्त्रियां ङीप् । सर्वतो

रक्षके “वर्ण्णानामाश्रमाणाञ्चराजा सृष्टोऽभिरक्षिता” मनुः

अभिरत त्रि० अभिमुस्वतया भृशं वा रतः । १ अत्यान्तासक्ते

२ अभिमुखतया रते च ।

अभिरति स्त्री अभितो रतिः प्रा० स० । आसक्तौ “न

मृगयाभिरतिर्नदुरोदरम्” रघुः ।

अभिरम्य त्रि० अभिरमते भृशं रमतेऽत्र आघारे यत् । मनोरमे ।

अभिराज् त्रि० अभितो राजते अभि + राज + क्विप् ।

१ अधिकदीप्तिशीले २ अधीश्वरे च ।

अभिराद्ध त्रि० अभि + राध--क्त । सेविते ।

अभिराम पु० अभिरम्यतेऽस्मिन् रम + आधारे घञ् । १ सुन्दरे

२ प्रिये, ३ मनोहरे च । “श्रोत्राभिरामाः शृण्वन्तौ
रथनेमिस्वनोन्मुखैः” “श्रोत्राभिरामध्वनिना रथेन “यस्या-
त्मगेहे नयनाभिरामः” इति च रघुः ग्रीवाभङ्गाभिरामं
मुहुरनुपतति स्वन्दने दत्तदृष्टिः शकु० । “राम इत्यभि-
रामेण वपुषा तस्य नोदितः” रघुः ।

अभिरुचि पु० भृशा अत्यन्ता रुचिः प्रा० स० । १ अत्यन्तरुचौ

अभिरूप त्रि० अभिरूपयति सर्वं स्वात्मकं करोति चु०

रूपअच् । १ शिवे, २ विष्णौ च । अभिरूपयति निरूप-
यति । ३ पण्डिते । उत्कृष्टं रूपं यस्य । ४ कन्दर्पे, ५ चन्द्रे
च । ६ मनोहरे त्रि० । “उत्कृष्टायाभिरूपाय वराय
सदृशाय च” मनुः । “अभिरूपगुणभूयिष्ठा परिषत्” शकु०
७ अनुरूपे त्रि० “काममनभिरूप्रमस्या वयसो वल्कलम्”
शकु० । अभिरूपस्य भावः मनोज्ञा० वुञ्
आभिरूपकम् ष्यञ् आभिरूप्यञ्च सौन्दर्य्यादौ न० । “अर्च-
कस्य तपोयोगादर्चनस्यातिशायनात् । आभिरूप्याच्च
विम्बानां देवः सान्निध्यमृच्छति” ति० त० पु० ।

अभिलक्ष्य त्रि० अभिलक्ष्यते उद्दिश्यते अभि + लक्ष ण्यत् ।

१ उद्देश्ये । लक्ष्यस्य शरव्यस्याभिमुख्यम् अव्ययी० । २
शरव्याभिमुख्ये अव्य० । “शब्दं प्रतिगजप्रेप्सुरभिलक्ष्यम-
पातयम्” रघुः । ल्यप् । ३ लक्ष्यीकृत्येत्यर्थे अव्य० ।

अभिलङ्घन न० अभि + लघि--भावे ल्युट् । उल्लङ्घने । “त्रया-

णामेव भूतानां सागरस्याभिलङ्घने” रामा० ।

अभिलषणीय त्रि० अभि + लष--कर्म्मणि अनीयर् । काम्ये ।

एष्टव्ये । तव्य । अभिलषितव्योऽप्यत्र त्रि० ।

अभिलषित त्रि० अभि + लष--कर्म्मणि क्त । १ इष्टे

अभिलाषविषये । भावे क्त । २ अभिलाषे इच्छायाम् न० ।

अभिलाप पु० अभिलप्यते मनःसंकल्पोऽनेन । १ मनःसंक-

ल्पावेदके अहमिदं करिष्ये इत्यादिरूपे वाक्ये “काम्ये हि
कामाभिलापसहितक्रुशजलतिलत्यागरूपः सङ्कल्पः कार्य्य
इति प्रा० त० प्रक्रमाधिकरणम् । २ आत्मीयज्ञानाकारो-
ल्लेखिवाक्ये च यथा भूतलं घटाभाववदिति ज्ञानावेदकं
घटोनास्तीति वाक्यं यथा च अयं घट इति ज्ञानोत्तर-
मनुव्यवसायात्मकज्ञानस्यावेदकं घटमहं जानामीति वाक्यम्
“न निर्ष्विपकं ज्ञानं तस्य ग्राहकमिष्यते तथाऽभिलाप-
पृष्ठ ०२९९
संसर्गयोग्यत्वविरहान्नच सविकल्पकज्ञानवेद्यानां हि
वचनप्रयोगयोग्यता न तु रसस्येति” सा० द० । कथने च
“तदभावाभिलापाच्च” शा० सू० ।

अभिलाव पु० अभि + लू--घञ् । छेदने ।

अभिलाष(स) पु० अभि + लष(स)--घञ् । १ इच्छायां, २ लोभे

च । अभेरिच्छाद्योतकत्वात् तदुपसृष्टलसेरिच्छार्थत्वम् ।
“अतोऽभिलाषे प्रथमं तथाविधे” इति रघुः मानुषामनुज-
व्याघ्र! साभिलाषाः सुतान् प्रति” देवीमा० । “न खलु
सत्यमेव शकुन्तलायां ममाभिलाषः” शकु० ।

अभिलाषक त्रि० अभि + लष--ण्वुल् । १ अभिलाषयुक्ते ।

अभिलाषिन् त्रि० अभि + लष--णिनि स्त्रियां ङीप् ।

अभिलाषशीले “जलाभिलाषी जलमाददानाम्” “अगच्छदंशेन
गुणाभिलाषिणी” इति च रघुः “असंशपं क्षत्रपरिग्रह-
क्षमा यदार्य्यमस्यामभिलाषि मे मनः” शकु० ।

अभिलाषुक त्रि० अभि + लष--उकञ् । अभिलाषशीले,

“जयमत्र भवान्नूनमरातिष्वभिलाषुकः” किरा० ।

अभिवदन म० अभिरानुकूल्ये अनुकूलं वदनं कथनम् ।

१ आनुकूल्यार्थकथने अभिवादने । वदनस्य मुखस्या-
भिमुख्यम् अव्ययी० । २ मुखस्याभिमुख्ये अव्य० ।

अभिवन्दन न० अभितः सर्वतोऽभिमुखे वा वन्दनम् ।

१ सर्वतोनतिकरणे २ अभिमुखप्रणामे च । “उभयोरेवशि-
रसा चक्रे पादाभिवन्दनम्” रामा० ।

अभिवयस् त्रि० अभिमतं श्रेष्ठं वयोऽस्य प्रा० ब० । प्रकृष्ट-

वयस्के “तीव्रस्याभिवयसो अस्य पाहि” ऋ० १०, १६०, १ ।

अभिवर्त्तिन् त्रि० आभिमुख्येन वर्त्तते अभि + वृत--णिनि

स्त्रियां ङीप् । १ अभिमुखे वर्त्तमाने “कल्पन्तां च
रणार्थाय मृत्युकालाभिवर्त्तिनः” रामा० ।

अभिवर्षक त्रि० अभितोवर्षकः । १ सर्वतोवर्षणकर्त्तरि ।

अभिवर्षण न० अभितोवर्षणम् । सर्वतोवर्षणे ।

अभिवर्षिन् अभितोर्वर्षति अभि + वृष--णिनि स्त्रियां ङीप् । सर्वतोवर्षके ।

अभिवात् त्रि० आभिमुख्येन वाति गच्छति वा--शतृ स्त्रियां

ङीप् । १ अनुचरे, २ “अभिवानभिभूत्यै रूपम्” शत० ब्रा० ।

अभिवाद पु० अभि + चु० वद--भावे अच् । १ अभितः प्रणामे-

“प्रत्युत्थानाभिवादाभ्यां पुनस्तान् प्रतिपद्यते” इति
“नाममधेयस्य ये केविदभिवादं न जानते” इति च मनुः

अभिवादक त्रि० अभि + चु० वद--ण्वुल् । १ आभिमुख्येन

नतिकारके । “आयुष्मान् भव सौम्येति वाच्योविप्रोऽभि-
वादकः (ने) मनुः ।

अभिवादन न० अभिमुखीकरणाय वादनं वदनम् चु०--वद-

ल्युट्, अभिमुखं वाद्यते आशीरनेन वद--णिच्--ल्युट्
वा । १ नामग्रहणपूर्ब्बकनतौ २ पादग्रहणेन वाचा वा नतौ ।
तत् प्रकारो यथा “ऊर्द्ध्वं प्राणाह्युत्क्रामन्ति यूनः स्थविर
आयति । प्रत्युत्थानाभिवादाभ्यां पुनस्तान् प्रतिपद्यते ॥
अभिवादनशीलस्य नित्यं वृद्धोपसेविनः । चत्वारि संप्रवर्द्धन्ते
आयुर्विद्या यशो बलम् ॥ अभिवादात् परं विप्रो ज्यायांस-
मभिवादयन् । असौ नामाहमस्मीति स्वं नाम परिकीर्त्तयेत् ॥
नामधेयस्य ये केचिदभिवादं न जानते । तान् प्राज्ञोऽह-
मिति ब्रूयात् स्त्रियः सर्वास्तथैवच ॥ भोःशब्दं कीर्त्तयेदन्ते
स्वस्य नाम्नोऽभिवादने । नाम्नां स्वरूपभावोहि भोमाव
ऋषिभिः स्मृतः ॥ आयुष्मान् भव सौम्येति वाच्यो विप्रो-
ऽभिवादकः (ने) । अकारश्चास्य नाम्नोऽन्ते वाच्यः पूर्ब्बा-
क्षरप्लुतः ॥ यो न वेत्त्यभिवादस्य विप्रः प्रत्यभिवादनम् ॥
नाभिवाद्यः स विदुषा यथा शूद्रस्तथैव सः ॥ ब्राह्मणं
कुशलं पृच्छेत् क्षत्त्रबन्धुमनामयम् । वैश्यं क्षेमं समागम्य
शूद्रमारोग्यमेव च ॥ अवाच्यो दीक्षितो नाम्ना यवीयानपि
यो भवेत् । भोभवत्पूर्ब्बकं त्वेनमभिभाषेत धर्मवित् ॥
परपत्नी तु या स्त्री स्यादसम्बन्धा च योनितः । तां ब्रूया-
द्भवतीत्येवं सुभगे! भगिनीति च ॥ मातुलांश्च पितृव्यांश्च
श्वशुरानृत्विजो गुरून् । असावहमिति ब्रूयात् प्रत्युत्थाय
यवीयसः ॥ मातृष्वसा मातुलानी श्वश्रूरथ पितृष्वसा ।
संपूज्या गुरुपत्नीवत् समास्ता गुरुभार्य्यया ॥ भ्रातुर्भार्य्यो-
पसंग्राह्या सवर्णाहन्यहन्यपि । विप्रोष्य तूपसंग्राह्या
ज्ञातिसम्बन्धियोषितः ॥ पितुर्भगिन्यां मातुश्च ज्यायस्याञ्च
स्वसर्य्यपि मातृवद्वृत्तिमातिष्ठेत् माता ताभ्यां गरीयसी ॥
दशाब्दाख्यं पौरसख्यं पञ्चाब्दाख्यं कलाभृताम् । त्र्यब्द-
पूर्ब्बं श्रोत्रियाणां स्वल्पेनापि स्वयोनिषु ॥ ब्राह्मणं
दशवर्षन्तु शतवर्षन्तु भूमिपम् । पितापुत्त्रौ विजानीयाद्-
ब्राह्मणस्तु तयोः पिता ॥ वित्तं बन्धुर्वयः कर्म विद्या
भवति पञ्चमी । एतानि मान्यस्थानानि गरीयो यद्यदु-
त्तरम् ॥ पञ्चानां त्रिषु वर्णेषु भूयांसि गुणवन्ति च । यत्र
स्युः सोऽत्र मानार्हः शूद्रोऽपि दशमीं गतः ॥ चक्रिणो
दशमीस्थस्य रोगिणो भारिणः स्त्रियाः । स्नातकस्य च
राज्ञश्च पन्था देयो वरस्य च ॥ तेषान्तु समवेतानां मान्यौ
स्नातकपार्थिवौ । राजस्नातकयोश्चैव स्नातको नृपमानभाक्”
इति मनुः “राजर्त्विक्श्रीत्रियाधर्मप्रतिषेध्युपाध्यायपितृव्य
मातामहमातुलश्वशुरज्येष्ठभ्रातृसम्बन्धिनश्चाचार्य्यवत् । पत्न्य
पृष्ठ ०३००
एतेषां सर्वर्लाः । मातृष्वसा पितृष्वसा ज्येष्ठा स्वसा च ॥ श्वशुर-
पितृव्यमातुलर्त्विजां कनीयसां प्रत्युत्थानमेवाभिवादनम् ।
हीनवर्ण्णानां गुरुपत्नीनां दूरादभिवादनं न पादोपसंस्प-
र्शनम् । गुरुपत्नीनां गात्रोत्सादनाञ्जनकेशसंयभमपाद-
प्रक्षालनं न कुर्य्यात्” विष्णुः । “पादोपसंग्रहणंगुरुसमवायेऽ-
न्वहम् । अभिगम्य तु विप्रोष्य मातापितृतद्बन्धूनां पूर्व्वजानां
विद्यागुरूणां तत्तद्गुरूणाञ्च सन्निपाते परस्य । नाम प्रोच्या
हमयमित्यभिवादोऽज्ञसमवाये स्त्रीपुंयोगेऽमिवादतोऽनिय-
ममेके न विप्रोष्य स्त्रीणाममातृपितृव्यभार्य्याभगिनीनां,
नोपसंग्रहणं भ्रातृभार्य्याणां श्वश्र्वाश्च । ऋत्विक्श्वशुर-
पितृव्यमातुलानान्तु यवीयसां प्रत्युत्थानमनभिवाद्यातपान्थः
पूर्ब्बः पौरोऽशीतिकावरः शूद्रोऽप्यपत्यसमेनावरोऽप्यार्य्यः
शूद्रेण नाम चास्य वर्जयेद्राज्ञश्चाजपः प्रेष्योभोभवन्निति
वयस्यः समानेऽहनि जातोदशवर्षवृद्धः पौरः पञ्चभिः
कलाभरः स्त्रीत्रियश्चारणस्त्रिभिः राजन्योर्वश्यः कर्मविद्या-
हीनोदीक्षितस्य प्राक्क्रयात् । वित्तबन्धुकर्मजातिविद्याव-
यांसि मान्यानि परवसीयांसि श्रुतन्तु सर्वेब्योगरीयस्तन्मूल-
त्वाद्धर्मस्य श्रुतः” गौत० । अनभिवाद्याश्च “समिद्वार्युदकुम्भ
पुष्पान्नहस्तोमाभिवादयेद्यच्चाध्येवंयुक्तमिति” बौधायनः ।
“जपयज्ञजलस्यञ्च समित्पुष्पकुशानलान् दन्तकाष्ठञ्च भक्ष्यञ्च
वहन्तं नाभिवादयेदिति” लघुहारीतः । अन्यत्रापि ।
“समित्पुष्पकुशाग्न्यम्बु--मृदन्नाक्षतपाणिकः । जपं होमञ्च
कुर्वाणोनाभिवाद्यो द्विजो भवेदिति” च ।

अभिवाद्य त्रि० अभिवादयितुमर्हः यत् । १ अभिबादनार्हे

अभिवाद्याश्चाभिवादनशब्दे उक्ताः । “गुरुपत्नी तु युवतिनां-
भिवाद्येह पादयोः” मनुः । ल्युप् । २ अभिप्रणम्येत्यर्थे अव्य० ।

अभिवान्य त्रि० अभि + वन--संभक्तौ कर्म्मणि ण्यत् ।

संभजनीये । “अभिवान्यवत्सायाः प्तजुहुयात्” श्रुतिः ।

अभिवासस् अव्य० वासस उपरि अव्ययी० । परिहित-

वस्त्रस्योपरिभाने” स वा अभिवासः संनह्यति” शत० ब्रा० ।
“परिहितस्य वस्त्रस्य उपरि” भा० ।

अभिवाह्य अभि + वह--ण्यत् । १ अभिती वहनीये । भावे

ण्यत् । २ वहने न० “हव्यकव्याभिवाह्याय सर्वस्यास्य च
गुप्तये” इति अनुः ।

अभिविधि पु० अभितो विधिर्व्याप्तिः । १ व्याप्तौ, मय्यादायां

हि अवघिभूतं विहाय तत्तत्कार्य्यान्वयः अभिविधौ तु अवघि
सहिते कार्य्यान्वय इति तस्य व्यापकता अतएवोक्तम् “मर्य्या-
दाभिविधिसन्देहे कार्य्यान्वितत्वादभिविधेर्ग्रणमित्यभि युक्तैः ।
“आङ् मर्य्यादाभिविध्योः” पा० । “अभिविधौ भाव
इनुण्” पा० “मर्य्यादायामभिविधौ क्रियायोगेषदर्थयोः । य
आकारः स ङित् प्रोक्त” मु० बो० ।

अभिविमान पु० परमात्मनि, “यस्त्वेनं प्रादेशमात्रमभिविमानं

वैश्वानरमुपास्ते” इति छा० उ० । एतस्य निरुक्तिः शा०
भाष्ये दर्शिता । प्रत्यगात्मतया सर्वैः प्राणिभिरभिविमीयत
इति अभिविमानः । अभिगतो वाऽयं प्रत्यगात्मत्वात्,
विमानश्च मानवियोगादित्यर्भिविमानः । अभिविमीते वा
सर्वं जगत्कारणत्वादित्यभिविमानः” इति ।

अभिवृत्ति स्त्री अभि + वृत्--क्तिन् । अभिगमने “स्वर्गस्य नो

तस्याभिवृत्त्यै” ता० ब्रा० “अभिवृत्त्यै अभिगमनाय” भा०

अभिव्यक्त त्रि० अभि + वि + अन्ज--कर्मणि क्त । १ अभिव्यक्तियुक्ते

२ सांख्यादिम--सिद्धार्विर्भावयुक्ते “तत्र दैवमभिव्यक्तं पौरुषम्
पौर्ब्बदेहिकम् पु० अभिव्यक्तमाविर्भूतं फलदानोन्मुखम्” रघु०

अभिव्यक्ति स्त्री अभि + वि--अन्ज--क्तिन् । १ प्रकाशे सूक्ष्म-

रूपेण स्थितस्य (“कारणात्मना स्थितस्य) कारणस्य २ कार्य्य-
रूपेणाविर्भावे । साङ्ख्यपातञ्जलादिमते हि उत्पत्तेः
प्राक् कार्य्यं सत् कारणाव्यापारेण व्यर्ज्यते यथोक्तम् ।
सांख्यसूत्रे । “त्रिविधविरोधापत्तेश्च” । “अथ सर्बं
कार्य्यं त्रिविधं सर्ववादिसिद्धमतीतमनागतं वर्त्तमानमिति ।
तत्र यदि कार्य्यं सदा सन्नेष्यते तदा त्रिविधत्वानुपपत्तिः ।
अतीतादिकाले घटाद्यभावेन घटादेरतोतादिधर्म्मकत्वानु-
पपत्तेः सदसतोः सम्बन्धानुपपत्तेः । किञ्च प्रतियोगित्वस्य
प्रतियोगिरूपत्वे तद्दोषतादवस्थ्यात् । अभावमात्रस्वरूपत्वे
पटाद्यभावो घटाद्यभावः स्यादभावत्वाविशेषात् । अभावे-
ष्वपि स्वरूपतो विशेषाङ्गीकारे चाभावत्वस्य परिभाषा-
मात्रत्वप्रसङ्गात् । अथ प्रतियोग्येवाभावविशेषक इति
चेन्न असतः प्रतियोगिनः प्रागभावादिषु विशेषकत्वा
सम्भवादिति । तस्मान्नित्यस्यैव कार्य्यस्यातीतानागतवर्त्त-
मानावस्थाभेदा एव वक्तव्याः । घटोऽतीतो घटो वर्त्तमानो
घटो भविष्यन्निति प्रत्ययानां तुल्यरूपतौचित्यात् । न
त्वेकस्य भावविषयत्वमन्ययोश्चाभावविषयत्वमिति । ते
एवातीतानागतत्वे अवस्थे ध्वंसप्रागभावव्यवहारं जनयत-
स्तदतिरिक्ताभावद्वये प्रमाणाभावादिति एवमत्यन्ताभावा-
न्योन्याभावापप्यधिकरणस्वरूपावेव । न चैवं प्रतियोगि-
सत्ताकालेऽप्यधिकरणस्वरूपानपायादत्यन्ताभावप्रत्ययप्रसङ्ग
इति वाच्यम् परैरपि प्रतियोगिमति देशे तदत्यन्ताभावा
ङ्गीकारात् । प्रतियोगिसम्बन्धस्यातीतानागत्रावस्थयोरेव
पृष्ठ ०३०१
सामयिकात्यन्तामावत्वसम्भवाच्च । तस्मान्नास्मत्सिद्धान्तेऽभावो-
ऽतिरिक्तः किञ्च घटो ध्वस्तो घटो भावी घटोऽत्र नास्तो-
त्यादिप्रत्ययनियामकतया किञ्चिद्वस्त्वाकाङ्क्षायां तद्भावरूप-
मेव कल्प्यते लाघवात् । अभावस्यादृष्टस्य कल्पने गौरवा-
दिति” प्र० भा० ॥ “नासदुत्पादो नृशृङ्गवत्” सू० ॥ नरशृङ्ग-
तुल्यस्यासत उत्पादोऽपि न सम्भवतीत्यर्थः ॥ “उपादानमिय-
मात्” सू० ॥ मृद्येव घट उत्पद्यते तन्तुष्वेव पट इत्येवं
कार्य्याणामुपादानकारणं प्रति नियमोऽस्ति । स न सम्भवति
उत्पत्तेः प्राक् कार्य्यासत्तायां हि न कोऽपि कारणे विशेषो-
ऽस्ति येन कञ्चिदेवासन्तं जनयेन्नेतरमिति । विशेषाङ्गी-
कारे च भावत्वापत्तेर्गतमसत्तया । स एव च विशेषोऽ-
स्माभिः कार्य्यस्यानागतावस्थेत्युच्यत इति । एतेन यद्वैशे-
षिकाः प्रागभावमेव कार्योत्पत्तिनियामकं कल्पयन्ति
तदप्यपास्तम् । अभावकल्पनापेक्षया भावकल्प्यने लाघवात् ।
भावानां दृष्टचादन्यानपेक्षत्वाच्च । किञ्चाभावेषु स्वतो
विशेषे भावत्वापत्तिः । प्रतियोगिविशेषश्च प्रतियोग्यसत्ता-
काले नास्ति । अतोऽभावानामविशिष्टतया न कार्य्योत्पत्तौ
नियामकत्वं युक्तमिति ॥ “शक्तस्य शक्यकरणात्” सू० ॥ कार्य्य-
शक्तिमत्त्वमेवोपादानकारणत्वम् अन्यस्य दुर्वचत्वात्
लाघवाच्च । सा शक्तिः कार्य्यस्यानागतावस्थैवेत्यतः शक्तस्य शक्य-
कार्य्यकरणान्नासत उत्पाद इत्यर्थः ॥ “कारणभावाच्च” सू०
उत्पत्तेः प्रागपि कार्यस्य कारणाभेदः श्रूयते तस्माच्च
सत्कार्यसिद्ध्या नासदुत्पाद इत्यर्थः । कार्यस्यासत्त्वे हि
सदसतोरभेदानुपपत्तिरिति । उत्पत्तेः प्राक् कार्य्याणां
कारणाभेदे च श्रुतयः । “तद्धेदं तर्ह्यव्याकृतमासीत् । सदेव
सौम्येदमग्र आसीत् । आत्मैवेदंमग्र आसीत् । आप
एवेदमग्र आसुरित्याद्याः ॥ “न भावे भावयोगश्चेत्” सू० ॥
मन्वेवं कार्यस्य नित्यत्वे सति भावरूपे कार्ये भावयोग
उत्पत्तिवोगो न सम्भवति असतः सत्त्व एवोत्पत्तिव्यवहारा-
दिति चेदित्यर्थः ॥ “नाभिव्यक्तिनिबन्धनौ व्यवहाराव्यव-
हारो” सू० ॥ कार्योत्पत्तेर्व्यवहाराव्यवहारौ कार्य्याभिव्यक्ति-
निमित्तकौ । अभिव्यक्तित उत्पत्तिव्यवहारोऽभिव्यक्त्यमा-
वाच्चोत्पत्तिव्यवहाराभावः न त्यसतः सत्तयेत्यर्थः ।
अभिव्यक्तिश्च न ज्ञानं किन्तु वर्त्तमानावस्था । कारणव्या-
पारोऽपि कार्यस्य वर्त्तमानलक्षणपरिणाममेव जनयति ।
सतश्च कार्यस्य कारणव्यापारादभिव्यक्तिमात्रं लोकेऽपि
दृश्यते । यथा शिलामध्यस्थप्रतिमाया लैङ्गिकव्यापारेणा-
भिव्यक्तिमात्रं तिलस्थतैलस्य च निष्पीड़नेन, धान्यस्थतण्डु-
लस्य चावघातेनेति । तदुक्तं वाशिष्ठे । “सुसूक्ष्मावस्थया
चक्रपद्मरेखाः शिलोदरे । यथा स्थिताश्चितेरन्तस्तथेयं
जगदावली” ॥ एतेषामिवास्माकमप्यनागतावस्थायाः प्रागभा-
वाख्याया अभिव्यक्तिहेतुत्वाच्चेति । नन्वतीतमप्यस्तीत्यत्र
किंप्रमाणं? न ह्यनागतसत्तायामिव श्रुत्यादयोऽतीतसत्ता-
यामपि स्फुटमुपलभ्यन्त इति । मैवम् । योगिप्रत्यक्षत्वा-
न्यथानुपपत्त्यानागतातीतयोरुभयोरेव सत्त्वसिद्धेः प्रत्यक्ष-
सामान्ये विषयस्य हेतुत्वात् । अन्यथा वर्त्तमान-
स्यापि प्रत्यक्षेणासिद्ध्यापत्तेः तस्माद्धियामौत्सर्गिकप्रामा-
ण्येनासति बाधके योगिप्रत्यक्षेणातीतमप्यस्तीति सिद्ध्यति
योगिनामतीतानागतप्रत्यक्षे च श्रुतिस्मृतीतिहासादिकं
प्रमाणं योगवार्त्तिके प्रपञ्चितमिति । नन्वभिव्यक्तिरपि पूर्ब्बं
सती वाऽसती वा । आद्ये कारणव्यापारात् प्रागपि कार्य-
स्यामिव्यक्त्या स्वकार्यजनकत्वापत्तिः कारणव्यापारश्च
विफलः । अन्त्ये चाभिव्यक्तावेव सत्कार्यसिद्धान्तक्षतिः
असत्या एवाभिव्यक्तेरभिव्यक्त्यङ्गीकारादिति अत्रोच्यते ।
कारणव्यपारात् प्राक् सर्वकार्य्याणां सदासत्त्वाभ्युपगमेनो-
क्तविकल्पानवकाशाद्वटवत् तदभिव्यक्तेरपि वर्त्तमानावस्थया
प्रागसत्त्वेन तदसत्तानिवृत्त्यर्थं कारणव्यापारापेक्षणात् ।
अनागतावस्थया च सत्कार्यसिद्धान्तस्याक्षतेः । नन्वेकदा
सदसत्त्वयोर्विरोध इति चेत् । प्रकारभेदस्योक्तत्वात् ।
नन्वेवमपि प्रागभावामङ्गीकारेण प्रागसत्त्वमेब कार्य्याणां
दुर्वचमिति । मैवम् । अवस्थानामेव परस्पराभावरूपत्वा-
दिति ॥ ननु सत्कार्यसिद्धान्तरक्षार्थमभिव्यक्तेरप्यभिव्यक्ति-
रेष्टव्येत्यत आह । “पारम्पर्यतोऽन्वेषणा वीजाङ्कुरवत्” सू० ॥
पारम्पर्यतः परम्परारूपेणेवाभिव्यक्तेरनुधावनं कर्त्तव्यम्
वीजाङ्कुरवत् प्रामाणिकत्वेन चास्या अदोषत्वादित्यर्थः । वीजा-
ङ्कुराभ्यां चात्रायमेव विशेषो यद्वीजाङ्कुरस्थले क्रमिकपरम्पर-
यानवस्था, आभिव्यक्तौ चैककालीनपरम्परयेति । प्रामाणि-
कृत्वन्तु तुल्यमेवेति । सर्वकार्य्याणां स्वरूपतो नित्यत्वमव-
स्थाभिर्विनाशित्वं चेति पातञ्जलभाष्ये वदद्भिर्व्यासदेवैरपीय-
मनवस्था प्रामाणिकत्वेन स्वीकृतेति । “उत्पत्तिवद्वाहदोषः”
सू० ॥ यथा घटोत्पत्तेरुत्पत्तिः स्वरूपमेव वैशेषिकादिभि-
रसदुत्पादवादिभिरिष्यते लाघवात् तथैवास्माभिर्घटाभिव्यक्ते-
रप्यभिव्यक्तिः स्वरूपमेवैष्टव्या लाघवात् । अत उत्पत्तावि-
वाभिव्यक्तावपि नानवस्थादोष इत्यर्थः । अथैवमभिव्यक्तेर-
भिव्यक्त्यनङ्गीकारे कारणव्यापारात् प्राक् तस्याः सत्त्वानु-
पपत्त्या सत्कार्यवादक्षतिरिति चेन्न । अस्मिन् पक्षे सत
पृष्ठ ०३०२
एवाभिव्यक्तिरित्येव सत्कार्यसिद्धान्त इत्याशयात् ।
अभिव्यक्तेश्चाभिव्यक्त्यभावेन तस्याः प्रागसत्त्वेऽपि नासत्कार्य-
वादत्वापत्तिः । नन्वेवं महदादीनामेव प्रागसत्त्वमिष्यतां
किमभिव्यक्त्याख्यावस्थाकल्पनेनेति चेन्न । तद्धेदं तर्ह्यव्या-
कृतमासीदित्यादि श्रुतिभिरव्यक्तावस्थायाः सतामेव
कार्य्याणां सिद्धेः तथाप्यभिव्यक्तेः प्रागभावादिस्वीकारा-
पत्तिरिति चेन्न । तिसृणामनागताद्यवस्थानामन्योऽन्यस्या-
भावरूपतयोक्तत्वात् तादृशाभावनिवृत्तय एव च कारण-
व्यापारसाफल्यादिसम्भवात् । अयमेव हि सत्कार्यवादि-
नामसत्कार्यवादिभ्यो विशेषो यत् तैरुच्यमानौ प्रागभाव-
ध्वंसौ सत्कार्यवादिभिः कार्यस्यानागतातीतावस्थे भावरूपे
प्रोच्येते । वर्त्तमानताख्या चाभिव्यक्त्यवस्था घटाद्व्यति-
रिक्तेति धटादेरवस्थात्रयवत्त्वानुभवादिति । अन्यत् तु सर्वं
समानम् । अतो नास्त्यस्मास्वधिकशङ्कावकाश इति सां०
प्र० भा० । “अतः सिद्धं प्राक् कार्य्योत्पत्तेः कारणसद्भावः ।
कार्य्यस्य चाभिव्यक्तिलिङ्गत्वात् अभिव्यक्तेः कार्य्यस्य च
सद्भावः प्रागुत्पत्तेः सिद्धः । कथम्? अभिव्यक्तिलिङ्ग-
त्वात् । अभिव्यक्तिर्लिङ्गमस्येत्यभिव्यक्तिश्च साक्षाद्विज्ञाना-
लम्बनत्वप्राप्तिः । यद्धि लोके प्रावृतं तमआदिना
घटादि वस्तु तदालोकादिना प्रावरणतिरस्कारेण विज्ञान
विषयत्वं प्राप्नुवत् प्राक् सद्भावं न व्यभिचरति । तथेद-
मपि जगत् प्रागुत्पत्तेरित्यवगच्छामः न हि अविद्य-
मानो घट उदितेऽप्यादित्य उपलभ्यते” वृ० भा० ।
३ अन्यथा स्थितस्य अन्यरूपेण प्रकाशे “अभिर्व्यक्ते-
रित्याश्मरथ्यः” शा० सू० । अतिमात्रस्यापि परमे-
श्वरस्य प्रादेशमात्रत्वमभिव्यक्तिनिमित्तं स्यात् अभिव्यज्यते
किल प्रादेशपरिमाणः परमेश्वर उपासकानां कृते, प्रदेशेषु
वा हृदयादिषु प्राणविढ्यास्थानेषु विशेषेणाभिव्यज्यते ततः
परमेश्वरेऽपि प्रादेशमात्रश्रुतिरभिव्यक्तेरुपपद्यत इत्या-
श्मरथ्य आचार्य्योमन्यते” इति भा० ।

अभिव्यञ्जक त्रि० अभिव्यञ्जयति प्रकाशयति अभि + वि +

अन्ज--णिच्--ण्वुल् । प्रकाशके आलङ्कारिकप्रसिद्ध-
व्यञ्जनया वृत्त्या प्रकाशके च गुणाभिव्यञ्जकौ शब्दार्थो
“गुणाभिव्यञ्जकशब्दार्थवत्त्वस्यापि रसाभिव्यञ्जकत्वेन
उपचारत” इति च सा० द० ।

अभिव्यापक त्रि० अभि + वि + आप--ण्वुल् । अभितोव्यापके

सर्वावयवावच्छेदेन व्यापकेयथा वृक्षादेराकाशसंयोगः, कपि
संयोगादिस्तु नैवं तस्य स्वाधिकुरणे वृक्ष एव मूलावच्छेदेना-
संत्त्वात् । वैयाकरणोक्ते सर्ब्बथा व्यापकतावति आधारभेदे
“औपश्लेषिको वैषयिकोऽभिव्यापकश्चेत्याधारस्त्रिधा”
सि० कौ० । यथा सर्ब्बस्मिन् ब्रह्मास्ति” ।

अभिव्याप्ति स्त्री अभि + वि + आप--भावे क्तिन् । १ अभितो-

व्याप्तौ सवांवयवावच्छेदेन व्याप्तौ । व्याप्तिशब्दे विस्तरः ।

अभिव्याप्य त्रि० अभि + वि + आप--कर्मणि ण्यत् । १ सर्वावयव-

च्छेदेन १ व्याप्ये । ल्यप् । २ सर्वतो व्याप्येत्यर्थे अव्य० ।
“अभिव्याप्याकर्षणमपवर्ग” इति सुश्रु० ।

अभिव्याहार पु० अभि + वि + आ + हृ--घञ् । १ प्रशस्तोक्तौ

२ अभितः कथने व्याङुपसर्गयुक्तस्य हरतेः कथनार्थत्वादभि-
योगात्तस्यैव सम्यक्त्वार्थता । अतएव “ऋचं वा यजुर्वा
साम वाऽभिव्याहरतीति” शत० ब्रा० “नाभिव्याहरयेत्
ब्रह्म स्वधानिनयनादृते” मनौ च तथार्थे एव अभिव्या-
हरतेः प्रयोगः । समुपसर्गयोगे तु साहित्येऽस्य रूढिः ।

अभिव्लङ्ग पु० अभि + व्लगि--गतौ घञ् । अभिगमने यासां तिस्रः

पञ्चाशतोभिव्लङ्गैरपायव” ऋ० १, ११३, ४ । अभिव्लङ्गैरभि-
गमनैः व्लङ्गतिर्गतिकर्मेति” भा० ।

अभिशंसन न० आभिमुख्येन शंसनमाक्रोशवचनं वारोप्याप-

वादश्च । समक्षमाकोशरूपे पारुष्यकथने १ अयं चौर”
इत्यादिना २ मिथ्यापवादे च “शतं ब्राह्मणमाक्रुश्ये” त्युप-
क्रम्य “पञ्चाशद्ब्राह्मणो दण्ड्यः क्षत्रियस्याभिशंसने इति
वाक्पारुष्ये “अभिशंसनप्रयेगात्तयोस्तुल्यार्थत्वम् “स्वभा-
र्य्यान्तु यदा क्रोधादगम्येति नरो वदेत्” या० व्याख्यायां
स्वभार्य्याभिशंसनमिति विज्ञानेश्वरेणोक्तम् । ३
आभिमुख्येन कथनमात्रे च “शतं स्त्रीदूषणे दद्यात् द्वे तु मिथ्या-
भिशंसने” इति याज्ञ० ।

अभिशंसिन् त्रि० अभि + शन्स--णिनि । १ समक्षमाक्रोशके

२ अपवादवाक्यप्रयोक्तरि च “मिथ्याभिशंसिनो दोषो द्वि-
गुणोऽनृतवादिन” इति या० ।

अभिशङ्का स्त्री अभि + शङ्क--भावे अ । १ सर्वथा शङ्कने २ संशये

३ भ्रमे च । “उपेयुषी कल्पलताभिशङ्कया” किरा० “कल्प-
लताभिशङ्कया कल्पलताभ्रमेण” मल्लि० । संशयस्य
स्थाणुर्वानरोवेति उभयकोटिज्ञानरूपत्वेऽपि तदीयाय-
थार्थकोटिविषयत्वेन भ्रमस्य तदीयैकतरकोटिविषयकत्वात्
तथात्वम् । अयञ्च मिथ्याभूतकोटिमेवावगाहते इति
विशेषः । कर्त्तरि अच् । २ सर्वतः शङ्किते त्रि० ।

अभिशङ्कित त्रि० स्पभि + शङ्क--क्त । १ सन्दिग्धे २ भ्रान्ते च ।

पृष्ठ ०३०३

अभिशप्त त्रि० अभि + शप--क्त । इदं तेऽनिष्टं भूयादित्येवं रूपस्य

गुरुविप्राद्यभिशापस्य उद्देश्ये । “न नाम ग्रहणं कुर्य्यात्
जनकस्य गुरोस्तथा । भार्य्याया अभिशप्तस्य कृपणस्य विशे
षत” इति षुरा० ।

अभिशब्दित त्रि० आभिमुख्येन शब्दितः । १ समक्षमाहूते २ समक्षकथिते च ।

अभिशस् त्रि० अभि + शन्स--क्विप् । अभिशंसनकर्त्तरि “यदा-

शंसा निःशसाभिशसा” ऋ० १०, १६४, ३ ।

अभिशस्त त्रि० अभि + शन्स--क्त । अयं परस्त्रियं गच्छतीत्या-

दिना मिथ्यावाक्येन मैथुनविषयकदोषारोपो यस्मिन्
जने कृतः तस्मिन् । “अभिशस्तो मृषा कृच्छ्रं चरेदाग्नेय
मेव वा” या० । “नियम्य प्रयतोवाचमभिशस्तांस्तु वर्ज्जयेत्”
स्मृतिः । अभि + शस--बधे क्त । ३ हिंसिते २ आक्रान्ते च त्रि० ।
“आतुरामभिशस्तां वा चौरव्याघ्रादिभिर्भयैः” मनुः । “अभि-
शस्तामाक्रान्तामिति” प्रा० त० रघु० । उभयतः भावे--क्त
४ आकोशे, ५ अपवादकथने ६ हिंसने ७ अभिशापे
च न० । “एवञ्चैव नरश्रेष्ठः रक्ष्या एव द्विजातयः ।
शापराधानपि हि तान् विषयान्ते समुत्सृजेत् अभिशस्तमपि
ह्येषां कृपायोत विशाम्पते” ! भा० शा० प० ।

अभिशस्तक त्रि० अभिशस्ते अभिशापे भवः कन् । वैद्यकोक्ते

अभिशापजज्वरादौ “वृत्ता ये देवद्रोहाभिशस्तका अथर्व-
कृता उपसर्गकृताश्च” सुश्रुतः ।

अभिशस्ति स्त्री अभि + शन्स--क्तिन् । १ अभिशापे

“उरुष्या णो अभिशस्तेः सोमः” ऋ० १, ९१, १५ ।
अभिशस्तेरभिशापरूपान्निन्दनात्” भा० । २ अपवादे “इमां
मिथ्याभिशस्तिञ्च कृष्णस्य समुदाहृत्ताम्” ह० वं० ।
अभि + शस बधे भावे क्तिन् । ३ हिंसायां “तिति-
क्षन्ते अभिशस्तिं जनानाम्” ऋ० ३, ३०, १ । “अभिशस्तिं
हिंसाम्” भा० । शस्यते हिंस्यतेऽनेन करणे क्तिन् । ४ हिंसा-
हेतौ, “पुरा तस्या अभिशस्तेरधीहि” ऋ० १, ७१, १०
“अभिशस्तेः हिंसाहेतोः” भा० । आभिमुख्येन शस्तिर्य्या-
चनम् । ५ प्रार्थनायाम् ।

अभिशस्त्य त्रि० अभिशस्तिमर्हति यत् । १ हिंसार्हे २ आक्रोशार्हे च

अभि(भी)शाप पु० अभि + शप--घञ् वा दीर्घः । १ मिथ्या-

पवादकथने २ आरोपितदोषकथने ३ अनिष्टं ते भूया-
दित्याक्रोशे च “वेद मिथ्याभिशापास्तं न स्पृशन्ति कदाचन”
ह० वं० ।

अभिशिरोग्र त्रि० शिरसोभिमुखमग्रं यस्य । १ ऊर्द्ध मूला-

घोग्रे “ओषधे । त्रायस्वैनमिति सप्त दर्भपिञ्जलीर्दक्षि-
णस्यां कपुष्णिकायामभिशिरोग्रा उपदनिघाति” गो० ।
अभिशिरोग्राः ऊर्द्धमूलाधोग्राः सं० त० रघुनन्दनः ।

अभिशोक पु० अभिलक्ष्य शोकः । कञ्चिदभिलक्षीकृत्य कृते

शोके । शुच--ल्युट् । अभिशोचनमप्यत्र न० ।

अभिश्रा(श्र)व पु० अभि + श्रु--अप् वेदे घञ् । अभितः

श्रवणे “ऋतं दिवे तदवोचं पृथिव्यामभिश्रावाय” श्रुतिः ।

अभिश्वैत्य त्रि० अभितः श्वैत्यं शुद्धचारित्र्यादस्य । शुद्धचरिते

“अदक्षिणमयज्ज्वानमभिश्वैत्येति व्याहरन्” भा० द्रो० प०

अभिषङ्ग पु० अभि + सन्ज--घञ् । १ पराभवे, २ अक्रोशे,

३ शपथे, ४ व्यसने च “अमिषङ्गजडं विजज्ञिवानिति”
रघुः “तीब्राभिषङ्गप्रभवेण वृत्तिम्” कुमा० “जातामिषङ्गो
नृपतिर्निषङ्गात्” “ततोऽभिषङ्गानिलविप्रविद्धा” “विनोद-
यिष्यन्ति नवाभिषङ्गाम्” इति च रघुः “नवाभिषङ्गां
नूतनदुःखामिति” मल्लि० । ५ आसक्तौ “मुहुरिति वनवि-
भ्रमाभिषङ्गात्” माघः ६ भूताद्यावेशे अभिघाताभिषङ्गा-
भ्यामभिचाराभिशापतः” माधवनिदानम् ।

अभिषव पु० अभि + सू--अप् । १ यज्ञाङ्गस्नाने, २ निष्पीड़ने,

३ सुरोत्पादनादिव्यापारे, ४ सोमलतापाने, ५ तत्कण्डने
च “अद्र्यादानप्रभृति त्रिपर्य्यायानभिषवान् करोति” कात्या०
१०, १, ४ । “निर्यात्य राजानमभिषुण्वन्ति व्याख्यातोऽभि-
षव” इति कर्क० । “आप्यायनाभिषवाश्वदाभ्येषु च” कात्या०
७, ६, २८ । सर्वजित् महाव्रतः संवत्सरदीक्षः सप्ताहाभिषव-
स्तिस्र उपसदः कात्या० “संवत्सरादूर्द्धं सप्ताहेऽतीतेऽभि-
षवः सूत्या” कर्क० । ६ स्नाने । “जपोपवासाभिषवैर्मुनी-
नाम्” किरा० । करणे अप् । ७ अङ्गुल्यामिति निरु०
सोमकण्डनसाधनत्वात् तथात्वम् । आधारे अप् । ८ यज्ञे ।

अभिषवण न० अभि + सु--ल्युट् । अभिषवशब्दार्थे स्नानमात्रे

“शिरसा हरिन्मणिनिभः स वहन् कृतजन्मनोऽभिषवणेन
जटाः” किरा० करणे ल्युट् स्त्रियां ङीप् । अभिषव-
साधने “शूर्पं पवित्रं तुषा ऋजीषाभिषवनीरापः” अथ० ।

अभिषह्य त्रि० अभितः सह्यः । १ सोढुं शक्ये । ल्यप् ।

२ प्रसह्येत्यर्थे अव्य० “अभिषह्य तु वः कन्यां कुर्य्याद्दर्पेण
मानवः” । मनुः ।

अभिषाच् त्रि० अभि + सच--ण्वि--खार्थे णिच्--क्विप् वा ।

१ आभिमुख्येन सम्बन्धुं समर्थे २ अभिभावुके च “वसो
अभिषाचऋष्वान्” ऋ० ६, ६३, ९ ।

अभि(भी)षाह् त्रि० अभि + सह--ण्वि णिच्--क्विप् वा षत्वम्

वा दीर्घः । १ शत्रुजयिनि २ सहनशीले च ।
पृष्ठ ०३०४

अभिषिक्त त्रि० अभि + सिच--क्त । १ कृताभिषेके राजादौ

“कन्दपं परिवीक्ष्य नूतनमनोराज्याभिषिक्तम्” सा० द० ।
“दीक्षितेष्वभिषिक्तेषु ब्रततीर्थपरेषु च” परा० । “सेनापत्येन
देवानामभिषिक्तो गुहस्तदा” भा० व० प० २ स्नाते च ।
अभिषिक्तेन निर्वृत्तम् सङ्कला० अण् । आभिषिक्तः
अभिषिक्तनिर्वृत्ते कूपे पुं० ।

अभिषुत त्रि० अभि + सु--क्त । १ निष्पीड़िते २ कृताभिषवे सोमादौ च ३ काञ्जिके न० ।

अभिषेक पु० अभि + सिच--घञ् । १ विधिना शान्त्यर्थं, सेचने,

२ अधिकारप्राप्त्यर्थं स्नाने, यथा “अथाभिषेकं रघुवंशकेतोः”
रघुः । मन्त्रादिना शिरसि जलप्रक्षेपमात्रेण ३ मार्जने ।
४ स्नानमात्रे च । “कृताभिषेकां हुतजातवेदसम्” कुमा० ।
“निष्यन्दिनीरनिकरेण कृताभिषेकाः” माघः “तत्राभिषेकं
कुर्वाणो गोसहस्रफलं लभेत्” । “तत्राभिषेकं कुर्ब्बीत पितृ-
देवार्चने” रतः “तत्राभिषेकं कुर्ब्बीत नागतीर्थे नराधिप ।
भा० व० प० । ५ कर्म्मान्ते शान्त्यर्थं स्नाने च । “सुरास्त्वाम-
भिषिञ्चन्तु इत्यादिमन्त्रैर्स्नाने तच्च मत्कृततुलादानादिप-
ड्वतौ २०६ पृष्ठे दृश्यम् । ६ प्रतिष्ठादौ देवादेः स्नपने च ।
करणे घञ् । ७ जले ।

अभिषेक्तृ त्रि० अभि + सिच--तृच् । अभिषेक्तरिस्त्रियां ङीप् ।

अभिषेक्य त्रि० अभिषेक्तुमर्हति अभि + सिच--ण्यत् कुत्वम् ।

अभिषेकयोग्ये “अभिषेक्याभविष्यत समाप्लुवन्त इत्याह
राजपुत्रान्” कात्या० २०, २, १७ “यूयमश्वरक्षां समाप्लु-
वन्तः पट्टाभिषेकयोग्या भविष्यथ” कर्क० ।

अभिषेचन न० अभि + सिच--भावे ल्युट् । अभिषेकशब्दार्थे

अभिषेचने हितम् ठञ् । आभिषेचनिकम् । अभिषेक
द्रव्यमन्त्रादौ त्रि० । करणे ल्युट् । अभिषेकद्रव्ये न० ।

अभिषेचनीय त्रि० अभि + सिच--कर्म्मणि अनीयर् ।

अभिअभिषेकार्हे “ये वा एतस्योदृचं गमिष्यन्ति राष्ट्रं ते
भविष्यति राजानो अभिषेचनीयाः” शत० ब्रा० । साध्वर्थेछ ।
२ अभिषेकद्रव्ये त्रि० “पुरोडाशस्विष्टिकृतोऽभिषेचनीय-
वत्” कात्या० १८, ६, १५, “राजसूयस्यान्तर्गताभिषेचनीय
सोमस्येव” कर्क० “अभिषेचनीयेष्ट्या” शत० ब्रा० ।

अभिषेणन न० सह इनेन सेना तयाभिमुखं याति शत्रोः

अभि + सेना + णिच्--ल्युट् षत्वम् । युद्धार्थं शत्रोरभिमुखं
सेनया सह जिगीषोर्गमने ।

अभिष्टन पु० अभि + स्तन अप् षत्वम् । सिंहनादे “अभि-

ष्टने ते अद्रिवो यत् स्था” ऋ० १, ८०१४, “अभिष्टने
मिंहनादे” भा० ।

अभि(भी)ष्टि त्रि० अभि + यज--इष वाक्तिन् वेदे पृ० एका० ।

१ “अभियष्टव्ये “महाँ अभिष्टिरोजसा य० ३३, २५,
अभीज्यते इत्यभियष्टव्यः वे० दी० । २ अभिलाषे, । आसाद-
भिष्टिकृदवसे यासदुग्रः” य० २०, ४८ अभिष्टिमभिलाषं
करोतीत्यभिष्टिकृत् मनोरथप्रदः” इति वेददी० ।

अभिष्टुत त्रि० अभि + स्तु--क्त । १ वर्णिते, २ स्तुते, च ।

अभि (स्य)ष्यन्द पु० अभि + स्यन्द--भावे घञ् अप्राणि

कर्त्तरि वा षत्वम् । १ अतिवृत्तौ २ स्रवणे ३ जलादिक्ष-
रणे च । कर्त्तरि घञ् । ४ अधिके । “खर्गाभिष्यन्दव
मनमिति” कुमा० । “भूतपूर्ब्बमभूतपूर्ब्बं वा जनपदं
परदेशापवाहनेन स्वदेशाभिष्यन्दवमनेन वा निवेशयेदि-
ति” कौटि० । आधारे घञ् । ५ नेत्ररोगहेतौ । “प्रावेण
सर्ब्बे नयनामयास्ते भवन्त्यभिष्यन्दनिमित्तमूलाः” । तस्मा-
दंभिष्यन्दमुदीर्यामाणमुपाचदेदाशु हिताय धीमान्’ सुश्रु० ।
उष्णाभितप्तस्य जलप्रवेशाद्दूरेक्षणात् स्वप्नविपर्य्ययाच्च ।
स्वेदाद्रजोधूमनिषेवणाच्च छर्द्देर्विघाताद्वमनातियोगात्
द्रवात्तथान्नान्निशि सेविताच्च विण्मूत्रवातक्रमनिग्रहाच्च
प्रसक्तसंरोदनशोककोपाच्छिरोभिघातादतिमद्यपानात् ।
तथा ऋतूनाञ्च विपर्य्ययेण क्लेशाभिघातादतिमैथुनाच्च ।
वाष्पग्रहात् सूक्ष्मनिरीक्षणाच्च नेत्रे विकारान् जनयन्ति
दोषाः । स च चतुर्विधः यथा । वातात् पित्तात्
कफाद्रक्तादभिष्यन्दश्चतुर्विधः । प्रायेण जायते घोरः सर्व
नेत्रामयाकरः । सुश्रु० ।

अभिष्यन्दनगर न० अभिष्यन्देन प्रधाननगरातिवृद्ध्या

तदतिवाहेन कृतं नगरम् । शाखानगरे अमिष्यन्दरमण-
मित्यपि पाठः । रलणं रतिस्नानं ६ त० । तत्रार्थे ।

अभिष्य(स्य)न्दिन् त्रि० अभिष्यन्दते अभि + स्यन्द--णिनि

अप्राणिकर्त्तरि वा सत्वम् १ सर्व्वतः स्रुते । “पयोऽभि-
ष्यन्दि गुर्व्वामं प्रायशः परिकीर्त्तितम्” सुश्रु० ।

अभिष्वङ्ग पु० अभि + स्वन्ज--घञ् । १ उत्कटरागे २ अनात्म-

न्यहंबुद्धौ च “असक्तिरनभिष्वङ्गः पुत्रदारगृहादिषु” गीता

अभिसंरब्ध त्रि० अभि + सम् + रभ--क्त । १ क्रुद्धे ।

अभिसंवृत्ति स्त्री अभि + सम् + वृत--क्तिन् । १ व्यवहारे २ अभिनिष्पन्ने च

अभिसंश्रय च० अभितः संश्रयः । १ सर्वत आश्रये “यदि

कुर्य्यात् भवानेवं विलेऽस्सिन्नभिसंश्रयम्” रामा० ।

अभिसंसार अव्य० संसारस्याभिमुख्यम् अव्ययी० । संसा-

राभिमुख्ये । अभि + सम् + सृ--बीप्सायां णमुल् । अभिना-
वोप्साद्योतनात् न द्वित्वम् । अभिसंसारम् अभिगम्याभि-
गम्येत्यर्थे । “महानागमिवाभिसंसारं दिदृक्षितारः” श० ब्रा०
पृष्ठ ०३०५

अभिसंहित त्रि० अभि + सम् + धा--कर्मणि कर्त्तरि वा क्त ।

१ फलोद्देशेन कृते २ अभिसन्धिविषयभूते ३ अभिसन्धि-
कर्त्तरि च “विमुक्तिदायेऽनभिसंहितेषु” रुचिस्तवः ।

अभिसन्ताप पु० अभिसन्ताप्यतेऽनेन अभि + सम् + तप--णिच्-

करणे अच् । १ अभिशापे । तप--भावे घञ् । २ अभितः
सन्तापे । तप--आधारे । घञ् । ३ युद्धे ।

अभिसन्धक त्रि० अभि + सम् + धा--क--स्वार्थे कन् । १

परगुणासहनेन आक्षेपके, “वैडालव्रातकोज्ञेयोहिंस्रः सर्वाभि-
सन्धकः मनुः” । “अभिसन्धकः परगुणासहनेन सर्वाक्षेपक
इति” कूल्लू० ।

अभिसन्धा स्त्री अभि + सम् + धा--भावे अङ् । १ अभिसन्धौ २ फलोद्देशे ३ वञ्चने च ।

अभिसन्धान न० अभि + सम् + धा--ल्युट् । १ परवञ्चने ।

“पराभिसन्धानपरं यद्यप्यस्य विचेष्टितम्” रघुः । “परा-
भिमन्धानपरामन्त्रिणः” काद० २ फलोद्देशे ३
अभिसन्धौ च । “फलाभिसन्धानपरा न योगिनः” पुरा० ।

अभिसन्धाय पु० अभि + सम् + धा--भावे घञ् । १ अभिसन्धौ

फलाद्युदुशे । ल्यप् । ३ फलाद्युद्दिश्येत्यर्थे अव्य० । “अभि-
सन्धाय तु फल दम्भार्थमपि चैव यत्” गीता ।

अभिसन्धि पु० अभि + सम् + वा--भावे कि । १ फलाद्युदेशे ।

“स्वर्गाभिसन्धि मकृतं वञ्चनामिव मेनिरे” कुमा० ।
“स्वधाभुजः काम्यफलाभिसन्धौ” रुचिस्तवः ।

अभिसन्धित त्रि० अभिसन्धा जाताऽस्य तार० इतव् ।

१ जाताभिसन्धौ अभिसन्धिविषये ।

अभिसम्पत्ति त्रि० अभि + सम् + पद--क्तिन् । १ अभितः

सम्पत्तौ अन्यरूपस्यान्यथाभवने, “चित्यस्याहवनीयाभिसम्पत्तेः”
कात्या० १८, ६, ३५ । “आहवनीय एव चित्याभिसम्पत्ति
श्रवणात् “यो वाव चितोऽग्निर्निघोयते तामेवेष्टकामेष
सर्वोऽग्निरभिसम्पद्यत” इतिश्रुतिः एकवारं चित्यस्यो-
परि निधानेनाहवनीयाग्नेरेव सर्व्वदा चित्यात्मकता-
सम्पन्ना” कर्क० ।

अभिसम्पद् स्त्री अधिका सम्पद् प्रा० स० । १ अधिक-

सम्पत्तौ । अभिलक्ष्य संख्यां सम्पद् । तत्तत्संख्यादिसाम्येन
सम्पन्नतायाम् “तान्युभयान्येकविंशतिः सम्पद्यन्ते द्वादश
मासाः पञ्चर्त्तवस्त्रय इमे लोका असावादित्य एकविंशः
एतामभिसम्पदम्” शत० ब्रा० । “यैषा सख्यासम्पत्तिस्तामभि-
लक्ष्य भवति” भा० । सम्पदमभिलक्ष्य अव्ययी० टच् समा० ।
अमिसम्पदम् सम्पदमभिलक्ष्यीकृत्येत्यर्थे अव्य० ।

अभिसम्पात पु० अभि + सम् + पत--आधारे घञ् । १ युद्धे ।

भावे घञ् । २ पतने । करणे घञ् । ३ अभिशापे
लोकप्रसिद्धिः ।

अभिसम्बन्ध पु० अभि + सम् + बन्ध--घञ् । १ अभितः सम्बन्धे

“द्रव्याणां कर्म्मसंयोगे गुणात्वनाभिसम्बन्धः” “फलार्थित्वा
तु स्वामित्वे नाभि” जै० सू० “वैजिकादभिसम्बन्धादन-
रुन्ध्यादघं त्र्यहम्” मनुः २ वाक्यादौ आकाङ्क्षितपदान्वये
च पदानामन्वयश्च पदार्थायन्वयोग्यत्वएव ।

अभिसर त्रि० अभितःसरति सृ + ट स्त्रियां ङीप् । १ सहाये

२ अनुचरे । “तथैवाभिसरास्तेषां त्यक्तात्मानो जये धृताः”
भा० उ० प० । “अथ साभिसरं शरैस्तरस्वी” माघः ।

अभिसरण न० अभि + सृ--ल्युट् । १ अभिगमने २ नायक-

योरेकतरेण रागेण सङ्केतस्थानगमने च ।

अभिसर्ज्जन न० अभि + सृज--भावे घञ् । १ दाने २ बधे ३ उत्सृष्टे च

अभिसाय अव्य० आभिमुख्ये अव्ययो० । सायाह्नाभिमुख्ये ।

“श्रितोदयाद्रेरभिसायमुच्चकैरचूचुरच्चन्द्रमसोऽभिरामताम्”
माघः ।

अभिसार पु० अभि + सृ--आधारादौ घञ् । १ युद्धे, २ साहाय्ये,

३ साघने ४ स्त्रियाः पुंसो वा संभोगार्थं निर्ज्जन-
सङ्केतस्थानशमने च । “आरब्धे रभसान्मया प्रियसखि!
क्रीड़ाभिसारोत्सवे” । अभिसारप्रकारश्च । “स्वेषु गात्रेषु
संलीना मूकीकृतविभूषणा” । अवगुण्ठनसंवीता
कुलजाऽभिसरेद्यदि । विचित्रोज्ज्वलवेशा तु वलन्नूपुरनि-
स्वना प्रमोदस्मेरवदना स्याद्वेश्याऽभिसरेद्यदि । मदस्ख-
लितसंलापा विभ्रमीत्पुल्ललोचना । आविद्धगति-
सञ्चारा स्वात् प्रेष्याऽभिसरेद्यदि ॥ क्षेत्र वाटी भग्नदेवा-
लयो दूतीगृहं वनम् । मालयञ्ज श्मशानञ्च नद्यादीनां तटी
तथा एवं कृताभिसाराणां पुश्चलीनां विनोदने, स्थानान्यष्टौ
तथा ध्वान्तच्छन्नेषु क्वचिदाश्रये” इति सा० द० । कर्त्तरि
घञ् अनुचरेपु० “अभिसारेण सर्वेण ततोयुद्धमवर्त्तत”
भा० ब० प० ।

अभिसारिका स्त्री अभिसरति अभिसारयति वा कान्तं सङ्केत-

स्थान अभि + सृ--णिच्--बा ण्वुल् । १ “अभिसारयते कान्त
या मन्मथवशंवदा । स्वय वाभिसरत्येषा धीरैरुक्ताभि
सारिका” सा० द० उक्ते नायिकाभेदे “अनभिज्ञास्त-
मिस्राणां दुर्द्दिनेष्वभिसारिकाः” कुमा० “यः सञ्चरोऽभूद-
भिसारिकास्राम्” रघुः ।
पृष्ठ ०३०६

अभिसारिन् त्रि० अभिसरति णिनि । १ आभिमुख्येन गन्तरि

२ अनुचरे च स्त्रियां ङीप् । “षष्ठ त्रिष्टुपे त्रैष्टुभपदा
द्वौ तु जागतौ यस्याः सा जागते जगती, त्रैष्टुभे त्रिष्टुप् ।
वैराजौ जागतौ चाभिसारिणी” अनु० क्र० उक्ते
वैदिकच्छन्दोभेदे स्त्री यम्याः वैराजौ द्वौ पादौ द्वौ च
पादौ जागतौ साऽभिसारिणीति तदर्थः ।

अभिसृष्ट पु० अभि + सृज--क्त । १ दत्ते, २ उत्सृष्टे, ३ त्यक्ते च

अभिस्वर् न० स्वृ--भावे--विच् स्वः अभितः स्वः स्वरणं शब्दो बा

यस्य । अभितः स्वरयुक्तेस्तोत्रभेदे “अभिस्वरा निषदा गा
अवस्यवः” ऋ० २, २१, ५ अभितः स्वः स्वरः शब्दनं वा यस्य
तेन स्तोत्रेण” भा० । “स्तोत्रं नेमिं नमन्ति चक्षसा मेषं
विप्रा अभिस्वरा” ऋ० ८, ९७, १२ “अभिस्वरा अभिस्वरणेन
स्तोत्रेण” भा० ।

अभिस्वर पु० अभि + स्वृ--अप् । आभिमुख्येन प्रेरणे “स्थातरथस्य हर्योरभिरभिस्वरे” श्रुतिः ।

अभिहत त्रि० अभि + हन--क्त । १ अभिवातसंयोगवति ।

“सोदीर्णोमूर्ध्न्यभिहतो वक्त्रमापद्य मारुतः” शिक्षा । २ ता
ड़िते “परस्परेणाभिहता विनेदुः” पु० । ३ गुणिते च ।
“अत्योन्यहाराभिहतौ हरांशौ” लीला० ।

अभिहरण न० अभि + हृ--ल्युट् । १ आभिमुखाहरणे “कार्मु-

काभिहरणाय मैथिलः” रघुः । २ विवाहादौ यौतकदाने च ।

अभिहव पु० अभिहूयते अभि + ह्वे--अप् संप्रसारणञ्च ।

आभिमुख्येनाह्वाने हु--अप् । २ सर्व्वतोहोमे ।

अभिहस्य त्रि० अभि + हस--यत् । उपहसनोये “यस्ते मदोऽव

केशोविकेशो येनाभिहस्यं पुरुषं कृणोषि” अथ० ६, ३०, २,
ल्यप् । २ उपहस्येत्यर्थे अव्य० ।

अभिहार पु० अभि + हृ--घञ् । १ अपचिकीर्षया अभिगम्याक्र-

मणे, २ साक्षाच्चौर्य्ये, ३ अभियोगे, ४ कवचादिधारणे
५ संश्लेषणे ६ मेलने च । “अतिदूरात् सामीप्यादि-
न्द्रियघातान्मनोनवस्थानात् । सौक्ष्म्याद्व्यवधानादभिभवात्
समानाभिहाराच्च” सां० का० । “समानाभिहारात्
तोयदविमुक्तानुदविन्दून् जलाशये न पश्यति” सा० कौ० ।

अभिहित त्रि० अभि + वा--क्त । १ अभिधया वृत्त्या बोधिते

२ उक्ते । “अभिहिते प्रथमा” वा० । अभिधानञ्च प्रायेण्ण तिङ्
कृत्तद्धितसमासैः क्कचिदव्ययेन । तत्तद्गतसंख्याया अभिहितत्वे
कर्त्तृकर्मणोरभिहितत्वमिति नैयायिकाः भवति च ग्रामं
गच्छति चैत्रः ग्रामो गम्यते चैत्रेणेत्यादौ कर्तृकर्मगत-
संख्याया आख्यातेनाभिधानमतस्तत्र प्रथमोपपत्तिः ।
तथाचास्व्यातार्थसंख्यावत्त्वेन कर्त्तृकर्म्मणोः अभिहित-
त्वम् । वैयाकरणमते कर्त्तृकर्मणोरेव आख्यातेना-
भिधानमिति भेदः । “अनभिहिते” पा० अनभिहिते
इत्यधिकाये कर्मादौ द्वितीयादि “इति प्रविश्याभिहिता
द्विजन्मना” कु० अस्य वच्यर्थकतया गौणे कर्मणि क्त ।
वचनोद्देश्यत्वेन तस्याः कर्म्मत्वादुक्तता । गौणकर्म्मणोऽप्रयोगे
तु मुख्यकर्म्मणोवचनादेरुक्तता । “वासुदेवेनाभिहिते वाक्ये
तेन महात्मना” भा० उ० प० ।

अभिहितान्वय अभिहितानामन्वयः । अभिभावृत्त्या(शक्त्या)उप

स्थापितानामर्थानां परस्परसंबन्धे । तथा हि अभिधावृत्त्या
पदार्थबोधने द्विधा प्रकारः । अन्विताभिधानम् अभिहिता-
न्वयश्च तत्र मोमांसका एवमाहुः “सर्वेषां शब्दानां व्यवहा-
रादेव प्रथमं व्युत्पत्तिर्गृह्यते इतरोपायानां शब्दव्युत्प-
त्त्यघीनत्वात् । तथा हि प्रयोजकस्य वाक्योच्चारणानन्तरं
प्रयोज्यप्रवृत्तिमुपलभमानो बालः प्रेक्षावद्वाक्योच्चारणस्य
प्रयोजनजिज्ञासायां तदन्तयव्यतिरेकानुबिधायित्वादुप-
स्थितत्वाच्च प्रयोज्यवृद्धप्रवृत्तिरेव प्रयोजनमवधारयति न
चाकिञ्चित्कुर्व्वतस्तादर्थ्यं सम्भवतीति तद्वाक्यजन्यं प्रवृ-
त्त्यनुकूलं कार्य्यताज्ञानमेव कल्पयति स्वप्रवृत्तौ बालेन
कार्यताज्ञानस्य हेतुत्वावधारणात् तथा च प्रेक्षावत् प्रवृत्तिः
कार्यताज्ञानाधीना प्रवृत्तित्वात् मदीयप्रवृत्तिवदित्यनुमीषते
तत्र कारणान्तरानुपस्थितेः शब्दस्यैवोपस्थितेस्तस्यैव कार्यता-
ज्ञानहेतुत्वमवधार्य्य तत्रैव शक्तिं कलायति पश्चाच्चान्वयव्यति-
रेकाभ्यां क्रियाकारकपदानां कार्य्यान्विततत्तदर्थेषु शक्तिं
गृह्णाति प्रथमं गृहीतसामान्यशक्त्यनुरोधात् । ततश्च पदं
कार्य्यान्वितज्ञानशक्तं पदत्वादिति सामान्यतोऽवगतः स्वार्थः,
विशेषः नरं नाधिगनः स च उत्तरकाले सुहृदुपदेशादिभिरव
गम्यते । अतः प्रवृत्तिपराणामेब शब्दानां प्रवर्त्तकज्ञानजन-
कत्वम् तच्च क्कचित् साक्षात् क्वचित्परम्परया कार्य्यान्वितम्
तत्र साक्षात् यजेत घटमानयेत्यादौ वाक्ये । विधिशेषीभूता-
र्थबादादौ तु परम्परया । कार्य्यान्वय इति सर्व्वत्र
वेदे काय्यान्वितस्वार्थबोधकता स्वरूपाख्यानपराणान्तु
काव्यनाटकादेनां पदार्थासंसर्गाग्रहेण संसर्गस्य व्यवहारः
न तु संसर्गग्रहेण, तथा च व्यवहारेणैवानुमिते इतरान्वित-
ज्ञाने करणत्वग्रहात् तत्रैव शक्तिर्गृह्यते उपस्थित-
त्वात् नचाग्रे तत्त्यागः हेत्वभावात् । न तु पदार्थमात्रे
शक्तिग्रहः व्यवहारात्तस्यानुपस्थितेः उपायान्तरात्तदु-
पस्थित्त्यन्तरकल्पने मानाभावात । एवञ्च इतरान्वितस्वार्थ
ज्ञानशक्तत्वेन ज्ञात पद स्वार्थान्वयानुभावकमिति वाक्यार्थ
एव शक्त्याऽभिधीयते इत्यन्विताभिधानवादिनः” ।
अभिहितान्वयवादिनस्तु नैयायिकादयस्तेषामयमाशयः । इतरा-
पृष्ठ ०३०७
न्वितपदार्थज्ञानोपस्थितौ पदार्थज्ञानं विशेष्यमिति तदुप-
स्थितौ पदार्थस्य विषयत्वात् विशिष्टज्ञानस्य विशेष्यविष-
यत्वनियमादिति तत्रैब शक्तिः कल्प्यते लाघवात् नत्व-
ऽन्वयांशेऽपि गौरबात् अस्तु वा प्रथममितरान्विते शक्ति
ग्रहोऽग्रे तस्य त्यागः आकाङ्क्षायोग्यतादिलभ्यत्वप्रति-
सन्धानात् अनन्यलभ्यस्यैव शब्दार्थत्वात् प्रथम गृहीतत्वमा-
त्रस्याकिञ्चित्करत्वात् तथा च घटशक्तत्वेनज्ञातं पदं स्वार्थ-
स्मरणद्वाराकाङ्क्षादिसहकारिवशात् समभिव्याहृतपदार्थेन
सहस्वार्थस्यान्वयमनुभावयति स्वभावादित्यन्यथैवान्वयज्ञानो-
दयात् किं तत्र शक्त्या, अन्वयमात्रशक्तावपि अन्वयविशेष-
ज्ञानार्थमाकाङ्क्षादेरवश्यमपेक्षणात् तैरेव सहकारिभि-
रन्वयविशेषावगमसम्भवात् । क्रियाकारकपदयोः प्रत्येकमि-
तरान्वितस्वार्थबोधकत्वेऽवान्तरवाक्यार्थद्वयबोधप्रसङ्गात् । न
चैकमेव पदमन्विताभिधायकमितरत्तु अन्वयप्रतियोगिस्मार-
कमिति वाच्यम् अविशेषात् कस्याभिधायकत्वमित्यनिर्ण्ण-
यात् । किञ्च किमशक्ययोरेवान्वये शक्तिः? उत शक्ययोः?
आद्ये यस्य कस्यापि अन्वयबोधकत्वापत्तेरतिप्रसङ्गः स्यात्
तथा च शक्यान्वयाभिधायकत्वं वाच्यं एवं च शक्ये शक्या-
न्वये च द्विधा शक्तिः कल्पनीयेति गौरवम् । अथ अन्वय-
तात्पर्य्यकतया तत्प्रतिपादकं पदमित्युभयसस्मतम् तात्-
पर्य्यनिर्वाहिका च वृत्तिः सा च न गौणी न वा लक्षणेति
अगत्या शक्तिः स्वीकार्य्योति चेत् वृत्तिं विनापि तात्पर्य्य-
निर्वाहात् किं वृत्त्या, पदानामुक्तक्रमेणान्वयबोधकत्वसम्भ-
वात् अन्यथा शक्त्यैव तात्पर्य्यनिर्वाहावश्यम्भावे लक्षणो-
च्छेदः स्यात् । अथ घटमानयेत्यादौ प्रत्येकमन्वये सत्येव
विशेषान्वयसामान्ये जिज्ञासा भवति न च सामान्यानवगमे
विशेषे सा स्थादित्यतस्तत्र शक्तिरिति चेन्न कारकेण क्रियायाः
क्रियया च कारकस्य सामान्यत आक्षेपात् दृष्टे फले
तदीयरसजिज्ञासावत् तदुपपत्तेः ततश्च पदार्थे एव शक्तिः
न पदार्थान्वयांशे तस्मात् पदज्ञानं करणं पदार्थस्मरणं
व्यापारः आकाङ्क्षादिसहकारात् स्मारितपदार्थान्वयानु-
भवः फलमिति” ।

अभिहूति स्त्री अभि + ह्वे--क्तिन् । आभिमुख्येनाह्वाने ।

अभिह्रत् त्रि० अभि + हृ--कर्मणि अति वेदे पृ० न गुणः ।

आभिमुख्येन ह्रियमाणे । “दुरितादमिह्रतः शंसादघा-
दभिह्रतः” ऋ० १, १२८, ५ “अभिह्रत आभिमुख्येन
ह्रियमाणान्” भा० ।

अभिह्वर् त्रि० अभि + ह्वृ--विच् । १ कुटिलगन्तरि “नाभि-

ह्वरे पदं निदधाति मृत्यवे” अथ० ६, ७६, ३ अभि + ह्वृ-
कर्म्मणि अप् । अभिह्वरः उपह्वरे गन्तव्यदेशादौ ।

अभिह्व्रत् त्रि० ह्वृ कौटिल्ये कर्त्तरि अति पृ० । आभिमुख्येन

कुटिलं कुर्ब्बति “निनित्सोरभिह्व्रतामसि” ऋ० १, १८९, ६,
“अभिह्व्रतामाभिमुख्येन कुटिलं कुर्व्वताम्” भा० ।

अभिहूति स्त्री अभि + ह्वृ--क्तिच् वेदे पृ० । कुटिलस्वभावे ।

“शतभुजिभिस्तमभिह्वुतेरघाते” ऋ० १, १६६, ८ “अभि-
ह्वुतेः कुटिलस्वभावात्” भा० ।

अभी त्रि० नास्ति भीर्यस्य । भयशून्ये । कप् । अभीकोऽप्यत्र

अभीक त्रि० अभि + कन् “अनुकाभिकाभीकाः कमयिता” पा०

नि० । १ कामयमाने “मेदस्विनः सरभसोपगतानभीकान्”
माघः । २ क्रूरे ३ उत्सुके च । आभिमुख्येन कायति
प्रकाशते दीर्घः । ४ समीपे “प्रतङ्गावयो वहन्त्वरुषामभीके”
ऋ० १, ११८, ५, “अभीकेगृहसमीपे” भा० । ४ अभि +
इण + कक् । ५ अभिगते त्रि० “यामन्नुरुष्यतामभीके” ऋ०
७, ८६, १, “अभीके अभिगते” भा० । ६ कवौ ७ स्वामिनि च त्रि० ।

अभीक्ष्ण त्रि० अभि + क्ष्णु--तेजने बा० ड पृ० दीर्घः

अभिगतः क्षणं बा पृ० । १ सन्तते २ भृशे च । ३ क्रिया-
पौनःपुन्ये” न० । “महारण्यमनभीक्ष्णोपसेवितम्”
रामा० । अभीक्ष्णस्य भावः ष्यञ् । आभीक्ष्ण्यम् सन्ततभावे
“नित्यबीप्सायोः” पा० “आभीक्ष्णये” इति सि० कौ० ।

अभीक्ष्णम् अव्य० अभि + क्ष्णु--बा० डमु पृ० दोर्घः । पौनः-

पुन्येस्वरादि । “अभीक्ष्णमक्षुण्णतयाऽतिदुर्गमम्” माघः ।

अभीत त्रि० अभि + इण--क्त न० त० । १ अभिगते । न भीतः

विरोधे न० त० । २ भीतभिन्ने उत्साहान्विते त्रि० ।

अभीति स्त्री अभावे न० त० । १ भयाभावे २ तद्दानार्थायाम्

अभयमुद्रायाञ्च । “परशुगृगवराभीतिहस्तं प्रसन्नम्”
शिवध्यानम् । ६ त० । ३ भीतिशून्ये त्रि० । अभि +
इणक्तिन् । अभिगमने ४ “अभीतिमर्य्ये” इति ऋ० ७, २१, ९ ।
“अभीतिमभिगमनम्” भा० । कर्मणि क्तिन् । ५ समीपे ।

अभीपत् त्रि० अभि + पत--क्विप् दीर्घः । अभिगमनकर्त्तरि ।

“अभीपतोवृष्टिभिस्तर्पयन्तम् ऋ० १, १६४, ५२, “अभी-
पतोऽभिगमनवतः” भा० ।

अभीप्सित त्रि० अभि + आप + सन--क्त । १ अभीष्टे अभिलषिते ।

अभीप्सु त्रि० अभि + आप + सन्--उ । अभिलाषुके ।

अभीम त्रि० विरोधे न० त० । १ भयानकमिन्ने सौम्ये ।

अभीमान पु० अभि + मन--क्विप् वा दीर्घः । अभिमानशब्दार्थे

अभीर पु० अभिमुखीकृत्य ईरयति गाः अभि + ईरः अच् ।

गीपे जातिवाचकादन्तशब्दत्वेन ततः स्त्रियां ङीप् ।
पृष्ठ ०३०८

अभीरु(लु) त्रि० न० त० । १ भीरु(लु)भिन्ने युद्धादाबुत्साहा-

न्वित । “स्थाने युद्धे च कुशलानभीरूनविकारिणः” मनुः
“ते वाशीमत इष्मिणो अभीरवः” ऋ० १, ८७, ६ । २
वटुकभैरवे पु० “अभीरुर्भैरवो भीरुर्भूतपोयोगिनीपतिः”
वटुकस्तवः ७ त० । युद्धस्थाने न० । शतमूल्यां स्त्री असङ्कुचित-
पत्रत्वात्तथात्वम् । वा ऊङ् । अभीरूः शतमूल्याम् ।
“अभीरूमिसिसिन्धूथवत्सकोशीरपद्मकैः” सुश्रुतः ।

अभीरुण अभि + रु--बा० उनन् दीर्घः । १ अभिमुखे “यच्चा-

भिदुद्रोहानृतं यच्च शेपे अभीरुणम्” श्रुतिः ।

अभीरुपवी स्त्री न भीरूणि असंकुचितत्वात् पत्राण्यस्याः

जातौ ङीप् । शतमूल्याम् ।

अभील न० अभि + ईर--अच् रस्य लः । १ कष्टे २ भयानके ३ तद्वति । त्रि०

अभीलाप पु० अभि + लप--भावे षञ् दीर्घः । अभिमुखकथन-

रूपे शब्दे । “आलापाश्च प्रलापाश्चाभीलापलपश्च ये”
अथ० ११, ८, २५ लप् लपनं भावे क्विप् ततोद्वन्द्वः । तेन
लपनालापप्रलापाभीलापाश्चत्वार इह उक्ताः ।
अभीलापलप् इति शब्दकल्पनं भ्रमविजृम्भितम् ।

अभीवर्ग पु० अभि + वृज--आधारे घञ् । अभिमुखसंघे

“अहं राष्ट्रस्याभीवर्गे निजोभूयासमुत्तमः” अथ० ३, ५, २० ।

अभीवर्त्त पु० अभिवर्त्तन्ते गच्छन्ति स्वर्गमनेन अभि + वृत--करणे

घञ् । १ ब्रह्मसामनि तच्च “उदञ्चमृतीषाहमित्यस्यां योना
वुत्पन्नं ब्राह्मणाच्छंसिनऋत्विगभेदस्य पृष्ठ्यस्त्रोत्रम् । “अभी-
वर्त्तोब्रह्मसाम भवति अभीवर्त्तेन वै देवाः स्वर्गं लोकमभ्य-
वर्त्तन्त यदभ्यवर्त्तन्त तदभीवर्त्तो ब्रह्मसाम भवति स्वर्गस्य
लोकस्याभिवृत्त्यै” ता० ब्रा० । “अभिवृत्तिसाधनत्वादस्य
साम्रोऽभीवर्त्तसंज्ञा निष्पन्ना” भा० । “तदभीवर्त्तस्याभीवर्त्त-
त्वमिति सांख्यायनसू० । एतदभोवर्त्ताख्यं सान पूर्ब्बस्मिन्
पक्षसि विद्यमानानामाभिप्लविकानामह्नां स्वरसान्नां च माध्य-
न्दिने सवने यजमानान्वारब्धेन ब्रह्मणा पृष्ठस्त्रोत्रतया
कर्त्तव्यं, तथा उत्तरस्मिन् पक्षसि “इन्द्रक्रतुन्न आभरे” त्येक
एव प्रगाथः ब्रह्मसामाश्रयः कर्त्तव्यः । प्रत्यहं च तस्मिन्
प्रगाथे अन्यदन्यत्साम ब्रह्मणा पृष्ठ्यस्त्रोत्रार्थं कर्त्तव्यम्
इति” ता० ब्रा० भा० । २ संवत्सरे । “अभीवर्त्तंः
सविंशः” यजु० १४, २३ । अभिवर्त्त्यते आबर्त्त्यत
इत्यभोवर्त्तः सामावृत्तिरूपः स विंशः स्तोमः यद्वा
अभिवर्त्तयत्यावत्त यति सर्वाणि भूतानीत्यभीवर्त्तः सवत्सरः
“उपसर्गस्य घञ्यमनुष्ये बहुलमिति पा० दीर्घः ।
द्वादशमाससप्तर्त्तुसंवत्सररूपविंशतिसङ्ख्यया सहितः
सविंशः । य एष सविंशस्तोमः तमुपदधातीत्यर्थः
“संवत्सरो वा अभीवर्त्तः इति संवत्सरो हि सर्वाणि
भूतान्यभिवर्त्तते” श्रुतिः वे० दी० । ३ अभीवर्त्तेनेत्यादिके सूक्ते
“अथैनं सारयमाणमुपारुह्याभीर्वतं वाचयति” आश्व०
गृ० । ४ अभिवृत्तिसाधने हविर्भेदे च । “अभीवर्त्तेन
हविषा येनेन्द्रो अभिवावृते” ऋ० १०, १७४, १ ।

अभीशु पु० अभि + अश--उन् पृ० अत इत्त्वम् । १ वाहौ

“अभीशवोऽभ्यश्नुवते कर्म्मणि” निरु० । २ अश्वरज्जौ ।
“स्थिरा वसन्तु नेयोरथो अश्वा स एषां सुसंस्कृता
अभीशवः” ऋ० १, १३८, १२, । ३ किरणे “प्रफुल्लतापिञ्छ-
निभैरभीशुभिः” माघः “सुयन्तुभिः सर्वशासैरभी-
शुभिः” ऋ० ५, ४४, ४, अभीशुभिः रश्मिभिः” भा० ।
४ “अङ्गुलौ च अभीशवोऽङ्गुलयः” ऋ० भा० उक्तेः ।

अभीशुमत् पु० अभीशवः किरणा बाहुल्येन सन्त्यस्य

मतुप् । सूर्य्ये “क्षितिपःक्षिप्तुरभीशुमानिव” माघः ।

अभीषङ्ग पु० अभि + सन्ज--घञ् दीर्घः । अभिषङ्गशब्दार्थे ।

अभीषु पु० अभि + इष + कु । १ किरणे (लागाम) इति ख्याते

२ प्रग्रहे, ३ कामे, ४ अनुरागे च । सर्वे कोषकारा मूर्द्ध
न्यान्ततया पेठुः लोकवेदयोस्तु तालव्यान्तप्रयोगः” मल्लि० ।

अभीष्ट त्रि० अभि + इष--क्त । १ वाञ्छिते, २ दयिते, ३ हृद्ये

च “स्नातकं गुरुमभीष्टमृत्विजम्” माघः । “आत्मानम-
खिलाधारमाश्रयेऽभीष्टसिद्धये” वे० सा० ।

अभुक्त त्रि० भुज--कर्म्मणि क्त न० त० । १ “अभक्षिते अन्नादौ

२ अकृतभोगे पुण्यादौ च । “नाभुक्तं क्षीयते कर्म्म कल्प-
कोटिशतैरपि” पुरा० । भोगश्च भोजनीयद्रव्याहारः
कर्म्मकृतसुखदुः स्वानुभवश्च ॥ भुक्तं भोजनं भावे क्त
अर्शा० अच् न० त० । ३ भुक्तवद्भिन्ने “भुक्ताब्राह्मणाः
पीता गाव इति अर्श आद्यच” पा० भाष्यम् । मुग्धबोधे तु
कर्त्तरि क्त इत्युक्तम् । “अभुक्तौ ह्यतिथिर्व्रजन्” स्मृतिः
“अभुक्तस्य दिवा निद्रा पाषाणमपि जीर्य्यति” वैद्य० ।

अभुक्तमूल न० “भुजङ्गपौरन्दरपौष्णभानां तदग्रभानाञ्च

यदन्तरालम् । अभुक्तमूलं प्रहरप्रमाणं त्यजेत् सुतं तत्रभवां
सुताञ्च” इति नार० । “ज्येष्ठान्ते घटिके द्धे च मूलाद्य
घटिकाद्वयम् । अभुक्तमूलमित्याहुर्ज्जातं तत्र विवर्ज्जयेत्”
वशि० ज्येष्ठान्त्यघटिकार्द्धञ्च मूलादौ घटिकार्द्धकम् ।
तयोरन्तर्गता नाड़ी ह्यभुक्तमूलमुच्यते” इति वृह० प०
उक्ते ज्येष्ठामूलानक्षत्रयोराद्यन्तघटिकाविशेषे ।
पृष्ठ ०३०९

अभुज् त्रि० न भुङ्क्ते भुज--क्विप् न० त० । अभक्षके । “नम

आशृणोः किमभुग्वदामि” ऋ० १०, ९५, ११ ।

अभूत त्रि० न भूतः । भूतशब्दार्थभिन्ने । “अभूतमासज्य

विरुद्वमीहितम्” माघः । २ मिध्याभूते ३ अविद्यमाने च

अभूततद्भाव पु० अभूतस्य प्रकृतिरूपेणानाविर्भूतस्य तेन

रूपेण भावः । यः कश्चित् पदार्थः येन रूपेण प्रागभूतस्तेन
रूपेण तस्याविर्भावे । यथा मृत्तिका घटीभवति । “कृभ्व-
स्तियोगे सम्पद्ये कर्त्तरि च” पा० “अभूततद्भावे इति
वक्तव्यम्” वा० ।

अभूताभिनिवेश पु० अभूतेऽसत्येऽभिनिवेशः । असत्ये सत्यत्वाभिमाने ।

अभूति स्त्री अभावे न० त० । १ भवनाभावे “तस्य ह न देवाश्च

नाभूत्या ईशते” शत० ब्रा० । “अभूत्यै अभवनाय” भा०
३ सम्पत्त्यभावे” “ध्वजाश्चापि व्यशीर्य्यन्त भरतानाम-
भूतये” भा० श० प० । न० ब० । भूतिशून्ये त्रि० ।

अभूमन् पु० विरोधे न० त० । १ भूरिभिन्ने स्वल्पे ।

अभूमि स्त्री न० त० । १ अनाश्रमे अविषये “अभूदभूमिः

प्रतिपक्षजन्मनां भियामिति” माघः “अभूमिरियमपन-
यस्य” शकु० “नाभूदभूमिः स्मरशायकानाम्” नैष० । “सखलु
मनोरथानामप्यभूमिर्विसर्जनावसरसत्कारः” इति शकु० ।
अप्राशस्त्ये न० त० । अप्रशस्तभूमौ । न० ब० । भूमिशून्ये त्रि० ।

अभूमिज त्रि० न० त० । १ भूमिजभिन्ने आकाशजे जलादौ

२ अप्रशस्तभूमौ उत्पन्ने धान्यादौ च । “अभूमिजं
नवञ्चापि न धान्यं गुणवत् स्मृतमिति” सुश्रुतः ।

अभूयिष्ठ त्रि० विरोधे न० त० । भूरिभिन्ने अल्पे ।

अभूषित त्रि० विरोधे न० त० । भूषितभिन्ने अपरिष्कृते

अभृत त्रि० न भृतः । १ अप्राप्तवेतने । गोस्वाम्यनुमते भृत्यः

“सा स्यात् पालेऽभृते भृतिः” मनुः २ अपुष्टे च ।

अभृश त्रि० न० त० । १ भृशभिन्ने मन्दे अल्पे० ।

अभेद पु० अभावे न० त० । भेदाभावे ऐक्ये “गतयोरभेद-

मिति सैन्ययोस्तयोः” माघः “अभेदः शिवरामयोः” पुरा०
“रलयोर्दलयोश्चैव जययोर्बवयोरपि । शसयोर्णनयोश्चान्ते
सविसर्गाविसर्गयोः । सविन्दुकाविन्दुकयोः स्यादभेदेन कल्प-
नम्” आलङ्कारिकाः “गुणगुणिनोः क्रियाक्रियावतोश्चाभेद”
इति सांख्यादयः । अभेदश्च भेदाभाव इति बहवः । तादा-
त्म्यमिति तु साङ्ख्यादयः । तादात्म्यञ्च तत्सत्त्वनियतस-
त्ताकत्वं तेन गुणगुणिनोः क्रियाक्रियावतोरपि तादात्म्य
गुणक्रिययोर्द्रव्यनियतसत्ताकत्वात् अतएव वेदान्तपरि-
भाषायोम सत्यैक्ये मिथोभेदस्त दात्म्यमित्युक्तं द्रव्यगुण-
योर्मिथोभेदसत्त्वेऽपि तत्सत्त्वनियतसत्ताकत्वात् तथात्वम् ।

अभेद्य त्रि० भेत्तुं शक्यते भिद--शक्यार्थे ण्यत् न० त० ।

१ भेत्तुमशक्ये “अभेद्यकवचं दधे” भा० द्रो० प० । २ हीरके
न० तस्य केनापि धातुना भेत्तुमशक्यत्वात् तथात्वम् ।

अभोक्तव्य त्रि० न भोक्तुमर्हम् स्मृत्यादिनिषिद्धत्वात् ।

अभक्ष्ये । तच्चाभक्ष्यशब्दे २७४ पृष्ठे दर्शितम् ।

अभोक्तृ त्रि० न भोक्ता स्त्रियां ङीप् । भोक्तृभिन्ने ।

अभोग पु० अभावे न० त० । १ भोगाभावे न० ब० । २ भोगशून्ये त्रि०

अभोजन न० अभावे न० त० । भोजनाभावे उपवामे

“स्नातकव्रतलोपे च प्रायश्चित्तमभोजनम्” “यतात्मनोऽप्र-
मत्तस्य द्वादशाहमभोजनम्” इति च मनुः । भोजनाभावश्च
भोजनविषयकनिवृत्तिरिति मीमांसकाः भोजनात्यन्ताभाव
इति नैयायिकाः अत्यन्ताभवस्य क्षैमिकजन्यत्वाङ्गी-
काराच्च कृतिसाध्यत्वमिति विवेकः । भोजनाभावश्च भोजने
क्वचिद्रागाभावेन रोगेण वा, क्वचिच्च शास्त्रादितो भोजने
बलवदनिष्टसाधनत्वज्ञानेन विरोधात् इष्टसाधनताज्ञानानुद-
येन, यथा न कलञ्जं भक्षयेदित्यादौ । क्वचिच्च व्रतरूपे
भोजनाभावे इष्टसाधनताज्ञानेन । स च भोजननिवृत्ति-
स्तदन्त्याभावो वेत्युक्तम् । विस्तरस्तु निषेधनिषेधविधि-
शब्दयोर्दृश्यः । “अजीर्ण्णे भोजनं येषां जीर्ण्णे येषामभो-
जनम् रात्रावभोजनं येषां तेषां नश्यन्ति धातव” इति
वैद्य० । न० ब० । २ भोजनशून्ये त्रि० ।

अभोज्य त्रि० न भोक्तु शक्यं निषिद्धत्वात् । अभक्ष्ये तत्

स्वामिनि उपचारात् “अभोज्यानान्तु भुक्त्वान्नमिति” मनुः
अभक्ष्यशब्दे २७४ पृष्ठे विवरणम् ।

अभोज्यान्न त्रि० न० भोज्यमन्नं यस्य स्मृतिनिषिद्धत्वात् ।

अभक्ष्यान्नस्वामिनि ते च अभक्ष्यशब्दे २७४ पृष्ठे उक्ताः ।
“य एतेऽन्ये त्वभोज्यान्नाः क्रमशः परिकोर्त्तिताः” मनुः ।

अभौम न० भूमो भवम् न० त० । भौमभिन्ने नाभसजलादौ

विररणं जलशब्दे “अभौममम्भोविसृजन्ति मेघाः” इति पुरा०

अभ्यक्त त्रि० अभि + अन्ज--क्त । १ कृततैलाद्यभ्यङ्गे २

अभितोलिप्ते च ।

अभ्यग्र त्रि० अभिमुखमग्रं यस्य । आसन्ने निकटे ।

अभ्यङ्ग पु० अभि + अन्ज--घञ् कुत्वम् । तैलादिमर्द्दने ।

“मूर्ध्नि दत्तं यदा तैलं भवेत् सर्वाङ्गसङ्गतम् । स्रोतोमिस्त-
र्पयेत् बाहू अभ्यङ्गः स उदाहृतः” “तैलमल्पं यदाङ्गेषु
न च स्याद्बाहुतर्पणम् । संमार्ष्टिबहुशोऽभ्यङ्गोमस्तकादौ
प्रकीर्त्तितः” इति चवैद्यकोक्ते २ विशेषाभ्यङ्गे च । “तैलाभ्य-
पृष्ठ ०३१०
ङ्गनिषेधे तु तिलतैलं निषिध्यते” । “अतैलं सार्षपं तैलं
यत् तैलं पुष्पवासितम् । अंदुष्टं पक्वतैलञ्च स्नानाभ्यङ्गेषु
नित्यश” इति च ति० त० स्मृतिः । “अभ्यङ्गनेपथ्य
मलञ्चकार” कुमा० । “अभ्यङ्गमञ्जनञ्चाक्ष्णोरुपान-
च्छत्रधारणमिति” मनुः । “अभ्यङ्गमाचरेन्नित्यं सजरा-
श्रमवातहम्” । “शिरःश्रवणपादेषु तं विशेषेण
शोलयेत्” वैद्य० ।

अभ्यञ्जन न० अभि + अन्ज--भावे ल्युट् । अभ्यङ्गशब्दार्थे

“भोजनाभ्यञ्जनाद्दानात् यदन्यत् कुरुते तिलैः” मनुः ।
“ताम्बूलाभ्यञ्जनं चैव कांस्यपात्रे च भोजनम् । यतिश्च
ब्रह्मचारी च विधवा च विववर्जयेत्” शु० त० प्रचेताः ।
करणे ल्युट् । २ नेत्रादौ कज्वलादिदाने । ३ तत्साधने
द्रव्ये । अभि + अन्ज--णिच् ल्युट् । अभ्यञ्जनसाधन-
व्यापारे “अभ्यञ्जनं स्नापनञ्च गात्रोत्सादनमेव च । गुरु-
पत्न्या न कार्य्याणि” मनुः ।

अभ्यञ्जनीय त्रि० अभि + अन्ज--कर्मणि अनीयर् । १

अनुलेप्ये चन्दनादौ २ मर्द्दनीये तैलघृतादौ च “एतदभ्यञ्ज-
नीयं घृतमिति” दुर्गोत्सवपूजापद्धतिः” ।

अभ्यधिक त्रि० भृशमधिकः प्रा० स० । उत्कृष्टतमे । “अयं वै नः

श्रेष्ठ” इति वृ० उ० भाष्ये श्रेष्ठः प्रशस्मतमः अध्यधिकैति
व्याख्यानात् तथात्वम् । “न त्वत्समोऽस्त्यभ्यधिकः कुतोन्यः”
गीता । २ अधिकपरिमाणे “धान्यं दशभ्यः कुम्भेभ्योहर-
तोऽभ्यधिकं वधः” “तथा धरिम (पल) मेयानां शताद-
भ्याधिके बधः” इति । “पञ्चपलतस्त्वभ्यधिके हस्त-
च्छेदनमिष्यते” इति च मनुः ।

अभ्यध्व अव्य० अध्वनोऽभिमुखम् अव्ययी० अच्समा० ।

मार्गाभिमुखे “संस्थितेऽध्वर्युराहवनीयसमीपे स्थित्वाऽ-
भ्यध्वं शम्यां प्रास्यति” कात्या० २४, ५, ३५, “अभ्यध्वं
मार्गाभिमुखम्” कर्कः । “ययोरभ्यध्वे उत यद्दरे चित्”
“अथ० ४, २८, २” तृतीयासप्तम्योर्ब्बहुलम्” पा० वा नाम्

अभ्यक्ष्ण पु० स्मभि--अक्ष--अच् पृ० । तिलकल्के । (खलि)

अभ्यनुज्ञा स्त्री० अभि + अनु + ज्ञा--अङ् । अनुज्ञायाम् इदं

कुरु इत्यादिना प्रवर्त्तने “कृताभ्यनुज्ञा गुरुणा गरीयसा”
कुमा० “पपौ वशिष्ठेन कृताभ्यनुज्ञः” रघुः ।

अभ्यनुज्ञात त्रि० अभि + अनु + ज्ञा--क्त । इदं कुरु इत्या-

द्युक्त्वा नियोजिते आभिमुख्येनानुज्ञाते ।

अभ्यनुज्ञान न० अभि + अनु + ज्ञा--भावे ल्युट् । १ अनुज्ञा-

याम् इदं कुरु इत्याद्युक्त्या नियोजनभेदे । “भरद्वाजाभ्य-
नुज्ञानाच्चित्रकूटस्य दर्शनम्” रामा० ।

अभ्यनूक्त त्रि० अभि + अनु + वच--क्त । १ आभिमुख्येन अनूक्ते २ प्रकाशिते च

अभ्यन्तर न० अभिगतमन्तरम् । १ अन्तराले, मध्य-

स्थाने । “नवोटजाभ्यन्तरसम्भृतानलम्” कुमा० । “प्रदीपः
स्नेहमादत्ते दशयाभ्यन्तरस्थया” “शमीमिवाभ्यन्तरलीन-
पावकाम्” इति च रघुः । “ब्रह्मद्विट्परिवित्तिश्च
गणाभ्यन्तर एव च” मनुः । २ उभयोर्मध्ये ३ अन्तःकरणे च ।
अभ्यन्तरे भवः अण् आभ्यन्तरम् । अन्तःकरणस्थे त्रि०
“शौचन्तु द्विविधं प्रोक्तं वाह्यमाभ्यन्तरं तथा । मृज्जलाभ्यां
स्मृतं वाह्यं भावशुद्धिस्तथान्तरम् । अशौचाद्धि वरं
वाह्यं तस्मादाभ्यन्तरं वरम्” दक्षः ।

अभ्यन्तराराम त्रि० अभ्यन्तरे सर्व्वाभ्यन्तरे परमात्मनि

आरमति कर्त्तरि घञ् । आत्मारामे आत्मज्ञे योगिनि “आत्मनश्च
“इन्द्रियेभ्यः प्ररा ह्यर्था ह्यर्थेभ्यश्च परं मनः । मनसस्तु
परा बुद्धिर्बुद्धेरात्मा महान् परः । महतः परमव्यक्तमव्य-
क्तात् पुरुषः परः” इति गीतावाक्येन अन्तर्यामिब्राह्मणेन
१२० पृष्ठे दर्शितेन च सर्व्वाभ्यन्तरवर्त्तित्वम् ।

अभ्यमन न० अभितः अमनम् अम--गत्यादौ मावे ल्युट् ।

१ अभिगमने । चु० अम--ल्युट् अमन्तत्वात् ह्रस्वः ।
२ । रोगे, करणेल्युट् । ३ तत्साधने अहितसेवने च ।

अभ्यमित त्रि० उभि + चु० + अम--कर्मणि क्त । १ रुग्णे

२ पीड़िते च । वा नि० । अभ्यान्तोऽप्यत्रैव “बहुभिस्तेन
चाभ्यान्तस्तं विव्याध ततोऽधिकैः” भा० द्रो० प० ।

अभ्यमित्र अव्य० अमित्रस्यामिमुख्यम् अव्ययी० । अमित्रस्य

शत्रोराभिमुख्ये । अमित्रमलंगामीत्यर्थे “अलं गामीत्यधि-
कारे “अभ्यमित्राच्छ च” पा० छ अभ्यमित्रीयः चात् खयतौ
अभ्यमित्रीणः अभ्यमित्र्यः । सामर्थ्येन शत्रोरभिमुखगामिनि
वीरे पु० । “मारीचोऽनुनयंस्त्रासादभ्यमित्र्योभवामि ते”
“उद्योगमम्यमित्रीणोयथेष्टं त्वञ्च सन्तनु” इति च भट्टिः ।

अभ्यमिन् त्रि० अभि + चु० + रोगे--अम--कर्त्तरि

अमन्तत्वात् ह्रस्वः णिनि । १ रोगयुक्ते २ आभिमुख्येन पीड़के ।

अभ्यय पु० अभितः सर्व्वतः अयः निष्क्रमः इण--अच् ।

१ अस्तमये “आदित्याभ्ययेऽहुतायामपि” कात्या० ८,
९, १३ “वपाहोमात् पूर्व्वमादित्यास्तमये” कर्कः । २ अपगमे
च “तमोऽभ्यये सायं जुहुयात्” कात्या० ४, १५, १३
तमसोऽन्धकारस्याभ्ययेऽपगमे” कर्कः ।

अभ्यर्चन न० अभि + अर्च--ल्युट् । १ समन्तात्पूजने

२ आभिमुख्यार्थं पूजने च । “नित्यं--स्नात्वा शुचिः
कुर्य्यादित्युपक्रमे “देवताभ्यर्चनञ्चैव” मनुः । भावे अ ।
अभ्यर्चाप्यत्र स्त्री ।
पृष्ठ ०३११

अभ्यर्च्य त्रि० अभि + अर्च--कर्म्मणि ण्यत् । १ अभितः

पूजनीये “देवाग्नयः सदाभ्यर्च्यागृहस्थैस्तु विशेषतः” पु० ।
ल्यप् । २ आभिमुख्येन पूजयित्वेत्यर्थे अव्य० “देवान्
पितॄन् समभ्यर्च्य खादन् मांसं न दोषभाक्” मनुः ।

अभ्यर्ण त्रि० अभि + अर्द्द--कर्मणि क्त आविदूर्थे इडभावे नि०

नत्वम् । समीपे । “कालोऽभ्यर्ण्णजलागमः कुशलिनो-
वत्सस्य वार्त्तापि न” सा० द० । “अभ्यर्ण्णमागस्कृतमस्पृ-
शद्भिः” रघुः । “कृष्णार्ण्णवाभ्यर्ण्णचरैकहंसः” प्रतप्तमभ्यर्ण्ण-
तया विवस्वता” इति च माघः ।

अभ्यर्थना स्त्री ऐ + अर्थ--भावे युच् । आभिमुस्त्येन प्रार्थने

“अभ्यर्थनाभङ्गभयेन साधुर्माध्यस्थ्यमिष्टेऽप्यवलम्बतेऽर्थे”
कुमा० । भावे ल्युट् । तत्रैव न० ।

अभ्यर्थनीय त्रि० अभि + अर्थ--गौणे कर्मणि अनीयर् । अभिमुखं याचनीये ।

अभ्यर्थित त्रि० अभि + अर्थ--गौणे कर्मणि क्त । १ प्रार्थिते

“अवकाशं किलोदन्वान् रामायाभ्यर्थितो ददौ” रघुः ।
गौणकर्म्माविवक्षायां मुख्ये क्त । २ प्रार्थनाकर्म्मणि ।

अभ्यर्थ्य त्रि० अभि + अर्थ--ण्यत् । प्रार्थनीये । “कार्य्येषु

चैककार्य्यत्वादभ्यर्थ्योऽस्मि न वज्रिणा” रघुः । ल्यप् ।
अभिमुखं याचयित्वेत्यर्थे अव्य० ।

अभ्यर्द्दित त्रि० अभि + अर्द्द क्त । भृशपीड़िते ।

अभ्यर्हणा स्त्री अभि + अर्ह--भावे युच् । १ पूजायाम् २

अभिभुखमर्चायाञ्च । भावे ल्युट् । तत्रैव न० ।

अभ्यर्हणीय त्रि० अभि + अर्ह--अनीयर् । पूजनीये ।

“शारङ्गो मन्दपालेन जगामाभ्यर्हणीयताम्” मनुः ।

अभ्यर्हित त्रि० अभि + अर्ह--कर्मणि क्त । १ पूज्ये २ उचिते च ।

अभ्यवकर्षण न० अभि + अव + कृष--भावेल्युट् । शल्याद्युद्धारे ।

अभ्यवस्कन्द पु० अभि + अव + स्कन्द--घञ् । १ शत्रोराक्रमे,

२ निर्बलीकरणाय शत्रुभिः क्रियमाणे प्रहारे ३ अभ्य-
वसादने ४ प्रहारमात्रे, ५ आसादने, ६ प्रपाते च ।
ल्युटि अभ्यवस्कन्दनमप्यत्रार्थे न० ।

अभ्यवहरण न० अभि + अव--हृ--ल्युट् । भोजने ।

अभ्यवहार पु० अभि + अव + हृ--घञ् । भोजने । “अल्पान्ना-

भ्यवहारेण” मनुः ।

अभ्यवहार्य्य त्रि० अभि + अव + हृ--ल्युट् । भोक्तुंयोग्ये । “सर्व्व

त्रौदरिकस्याभ्यवहार्यमेव” विक्र० । ‘खरं विशदभ्यवहार्य्यम्’ पा० भ०

अभ्यवहृत त्रि० अभि + अव + हृ--क्त । भक्षिते ।

अभ्यवायन न० अभि + अव + इण--ल्युट् । आभिमुख्येनापयाने

“यत्र शुष्कस्य चार्द्रस्य च सन्धिःस्यात्तदुपगूहेत यद्यु
अभ्यवायनाय” शत० ब्रा० ।

अभ्यसन न० अभि + अस--ल्युट् । १ अभ्यासे २ पौनःपुन्येनैक-

क्रियाक्ररणे ३ पुनःपुनरावर्त्तने “विद्यामभ्यसनेनेव प्रसा-
दयितुमर्हसि” रघुः । “स्वाध्यायाभ्यसनं चैव वाङ्मयं तप
उच्यते” गीता “अनभ्यसनशीलस्य विद्येव तनुतां गता” रामा०
“वेदस्वीकरणं पूर्ब्बं विचारोऽभ्यसनं जपः” दक्षः ।

अभ्यसनीय त्रि० अभि + अस--आवश्यकार्थे अनीयर् ।

अवश्याभ्यासयोग्ये वेदादौ ।

अभ्यसूयक त्रि० अभि + असू--उपतापे कण्ड्वा० यक् ण्वुल् ।

अत्यन्तासूयाकर्त्तरि सन्मार्गवर्त्तिनां गुणेषु दोषारोपके ।
“मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयकाः” गीता ।

अभ्यसूया स्त्री अभि + असू--उपतापे कण्ड्वादि० यक् प्रत्य-

यान्तत्वात् अ, स्त्रीत्वात् टाप् । गुणेषु दोषारोपणे ।
“केनाभ्यसूया पदकाङ्क्षिणा ते” कुमा० “रूपेषु वेशेषु
च साभ्यसूयाः” “शक्राभ्यसूयाविनिवृत्तयेयः” “नूनं तेषा-
मभ्यसूयापरीऽभूत्” इति च रघुः ।

अभ्यस्त त्रि० अभि + अस--क्त । पौनःपुन्येनैकजातीयाकिया

कर्मणि पुनःपुनरावर्त्तिते । “शैशवेऽभ्यस्तविद्यानां यौवने
विषयैषिणामिति” रघुः । २ “उभे अभ्यस्तम्” पा०
उक्तयोः कृतद्वित्वयोरुभयोः धातुभागयोः । “नाभ्य-
स्ताच्छतुः” “अभ्यस्तस्य च” पा० ।

अभ्यस्य अव्य० अभि + अस--ल्यप् । पुनःपुनरावर्त्त्येत्यर्थे ।

अभ्याकाङ्क्षित न० अभि + आ + काङ्क्ष--भावे क्त । १ मिथ्या-

भियोगे । (मिथ्यानालिश) कर्म्मणि क्त । २ ईप्सिते त्रि० ।

अभ्याख्यान न० अभि + आ + ख्या--ल्युट् । १ भिथ्याभियोगे

“शतं मे धारयसीत्यादि” मिथ्याभियोगे २ मिथ्योद्भावने च ।

अभ्यागत पु० अभि + आ + गम + क्त । भिन्नग्नामीणे गृहं

गतेऽतिथौ “सर्व्वत्राभ्यागतो गुरुः” पुरा० । २ सम्मुखागत-
मात्रे त्रि० । “अभ्यजातोऽभ्यागततूर्णतर्णकान्” माघः ।

अभ्यागम आभिमुख्येनागम्यतेऽत्र अभि + आ + गम--अप् ।

१ युद्धे । कर्मणि अप् । २ अन्तिके । करणे अप् ।
३ विरोधे । भावे अप् । ४ अभ्युत्थाने ५ अभिघाते
६ अभिमुखगमने “किं वा मदभ्यागमकारणं ते” रघुः ।

अभ्यागमन न० अभि + आ--गम--ल्युट् । १ आभिमुख्ये

नोद्गमने २ अभ्युत्थाने च ।

अभ्यागारिक पु० अभ्यगारे तद्गतकर्म्मणि व्यापृतः ठन् ।

१ गृहवृत्तिपुत्रादिपोषणेषु व्यापृते २ तेनैव व्याकुले ।
पृष्ठ ०३१२

अभ्याघात पु० आ + आ + हन--घञ् । १ आघाते २ ताड़ने

च । करणे घञ् । ३ आघातोपदेशे । “अभ्याघातेषु भध्य-
स्थान् शिष्याच्चौरानिव द्रुतम्” मनुः “अभ्याघातेषु चौर्य्यो-
पदेशेषु” कुल्लू० ।

अभ्याघातिन् त्रि० अभि + आ + हन--ताच्छील्ये घिनुण् ।

हिंसाशीले । “अभ्यावातिभिरामिश्रश्चातकैः परिरा-
टिभिः” भट्टिः ।

अभ्याचार पु० अभि + आ + चर--घञ् । आभिमुख्येनाचरणे ।

“अवारयन्त वरणेन देवाअभ्याचारमसुराणाम्” अथ० १०, ३, २

अभ्याज्ञाय पु० अभि + आ + ज्ञा--घञ् । अभिज्ञाने पूर्ब्ब-

ज्ञातस्य तथात्वरूपेण ज्ञाने “तस्मिन् दक्षिणां दधाति
तूपरौ मिथुनौ दद्यादित्यभ्याज्ञायेनैवमन्य” इति शत० ब्रा०

अभ्यातान पु० अभि + आ + तन--घञ् । अत्यन्तसन्ततौ ।

अभ्यात्त पु० अभि + आ + अत + सातत्ये कर्त्तरि क्त वेदे नि० ।

१ सर्व्वव्यापके परमेश्वरे । “सर्व्वमिदमभ्यात्तोऽवाक्यनादरः”
छा० उप० । “सर्व्वमिदं जगदभ्यात्तः अभिव्याप्तः अततेः
व्याप्त्यर्थस्य कर्त्तरि निष्ठा” भा० । अभि + आ--दा--क्त ।
२ आभिमुख्येन गृहीते त्रि० ।

अभ्यादान न० अभि + आ + दा--ल्युट् । १ आभिमुख्येनादाने, २ आरम्भे च ।

अभ्याधान न० अभित आधानम् । अभितोमन्त्रादिना

वह्न्यादेराधाने “यानिध्मस्य परिदधात्यभ्याधानाय”
शत० ब्रा० ।

अभ्यान्त पु० अभि + अम--क्त नि० । रोगयुक्ते निष्पीड़िते अभ्यमितशब्दे २७५ पृष्ठे विवरणम् ।

अभ्यापत्ति स्त्री अभि + आ--पद--क्तिन् । अभिमुखागमने ।

अभ्यामर्द्द अभि + आ + मृद--आधारे घञ् । १ रणे । भावे

घञ् । २ निष्पीड़ने ।

अभ्यायंसेन्य त्रि० अभि + आ + यम--कर्म्मणि बा० सेन्य ।

अभितो नियन्तव्ये । “वोससोऽभ्यायंसेन्या भवतं मनीषिभिः”
ऋ० १, ३४, १, “अभ्यायंस्येन्यौ अभितोनियन्तव्यौ” भा० ।

अभ्यारम्भ पु० अभि + आ + रभ--घञ् मुम् । प्रथमारम्भे

अभ्यारूढ त्रि० अभि + आ + रुह--क्त । भृशमारूढ़े वृद्धे

“तेनैव क्षत्रमनभ्यारूढ़म्” शत० ब्रा० ।

अभ्यारोह पु० अभि + आ + रुह--घञ् । १ अभिमुखारोहणे।

आभिमुख्येनारोहति देवभावमनेन करणे घञ् । २ मन्त्र-
जपभेदे “नन्विदमभ्यारोपजपविधिशेषोऽर्थवादः” इति
वृ० भा० । “श्रेयान् वा एषोऽभ्यारोहाद्भवति” शत० ब्रा० ।

अभ्यारोहणीय त्रि० आभ + आ + रुह--अनीयर् । आभि

मुख्येनारोहणीये । ण्यत् । अभ्यारोह्योऽप्यत्र ।

अभ्यावर्त्त त्रि० भि + आ + वृत--अच् । १ पुनः पुनरावर्त्तमाने

“प्रजा वै बर्हीरेतः आज्यं तत्प्रजास्वेवैतत् रेतः सिच्यते
तेन रेतसा सिक्तेनेमाः प्रजाः पुनरभ्यावर्त्तं प्रजायन्ते”
शत० ब्रा० । भावे घञ् । २ भृशमावृत्तौ पु० । अभि +
आ + वृत--णिच् कर्मणि अच् । २ पुनः पुनरावर्त्तनीये
स्तोत्रादीत्रि० । “चतुर्विंशाः पवमानाः त्रिवृदभ्यावर्त्तं
चतुश्चत्वारिशाः पवमानाः एकविंशमभ्यावर्त्तम् अष्टा-
चत्वारिंशाः पवमानास्त्रयस्त्रिंशमभ्यावर्त्तम्” शत० ब्रा० ।

अभ्यावर्त्तिन् त्रि० भृशमावर्त्तते अभि + आ + वृत--णिनि ।

१ सन्तत वर्त्तमाने । २ वेदप्रसिद्धे चयमानराजपुत्रे
पु० । “शेषोऽभ्यावर्त्तिने चायमानाय शिक्षन्” ऋ० ६,
२७, ५ । “अभ्यावर्त्ती चायमानो ददाति” ऋ० ६, २७, ८ ।

अभ्यावृत्त पु० अभि + आ + वृत--उपसृष्टत्वात् कर्मणि क्त ।

आभिमुख्येन आनीते होमशेषद्रव्ये । “वातोऽभ्यावृत्तः”
य० १, ५ ८ । “अभ्यावृत्तः होमशेषीभूतः” वे० दी०
३ पुनःपुनरभ्यस्ते त्रि० ।

अभ्यावृत्ति स्त्री अभि + आ + वृत--क्तिन् । पौनःपुन्येनाभ्यासे

“संख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुच्” पा० । “मना-
गनभ्यावृत्त्या वा कामं क्षाम्यतु यः क्षमी” माघः ।

अभ्याश पु० आभिमुख्येनाश्यते व्याप्यतेऽनेन अशू--व्याप्तौ

करणे घञ् । निकटे । निकटस्थस्याभिमुखव्यापनात्तथा-
त्वम् । २ क्षिप्रे तस्याव्यवहितकालेन व्यापनात्तथात्वम् ।
“यएतदेवं विद्वान् साधु सामेत्युपास्ते अभ्याशोह यदेनं
साधवोधर्म्मा अभ्यागच्छेयुः” छा० उ० । “अभ्याशः क्षिप्रम्”
भा० “तद्य इह रमणीयचरणा अभ्याशो ह यत्ते रमणीयां
योनिमापद्येरन्” । य इह कपूयचरणा अभ्याशो ह यत्ते
कपूयां योनिमापद्येरन्” छा० उ० ।

अभ्यास पु० आभिमुख्येनास्यते क्षिप्यते असु--क्षेपे कर्म्मणि घञ् ।

१ निकटे । “चूतयष्टिरिवाभ्यासे मधौ परभृतोन्मुखी”
कुमा० । अभेर्बीप्सार्थत्वे । २ पुनःपुनरनुशीलने पौनःपुन्येन
करणे । “अमङ्गलाभ्यासरतिं विचिन्त्य तमिति” कुमा० ।
“अभ्यासयोगेन ततो मामिच्छाप्तु धनञ्जय! “अभ्या
सेन च कौन्तय ! वैराग्येण च गृह्यते” । “अभ्यासे-
ऽप्यसमर्थोऽसि मत्कर्म्मपरमोभव” ३ “अभ्यासयोगयुक्तात्मा
ततो याति परां गतिम्” इति च गीता ४ वेदादेरावृत्तौ च
अभ्यासश्च पञ्चधा । “वेदस्वीकरणं पूर्ब्बं विचाराऽभ्य
सनं जपः । तद्दानञ्चैव शिष्येभ्योवेदाभ्यासो हि पञ्चधा”
पृष्ठ ०३१३
दक्षः । ४ ग्रन्थतात्पर्यज्ञापके पौनःपुन्येन कथनरूपे
लिङ्गभेदे “उपक्रमोपसंहाराबभ्यासोऽपूर्ब्धता फलम् ।
अर्थवादोपपत्ती च हेतुस्तात्पर्यनिर्ण्णये इति” उक्तेः यथा
च्छान्दोग्ये षष्ठप्रपाठके “तत्त्वमसि श्वेतकेतो ! इत्यस्य
नवकृत्वः अभ्यासः । ५ एकस्मिन्नालम्बने देवादौ इतरतः
समाहृत्य मनसः स्थापने च । कर्मणि घञ् । ६ व्याकरणो-
क्तयोः द्विरुक्तभावापन्नयोः धातुभागयोः” । “स्थादिष्व
अभ्यासेन चाभ्यासस्य” पा० ।

अभ्यासयोग पु० अभ्यासेन सततानुशीलनेन योगः । सततैक-

विषयचिन्तनेन जाते समाधौ । “अभ्यासयोगेन ततो मामि-
च्छाप्तुं धनञ्चय” ! “अभ्यासयोगयुक्तात्मा ततो याति
परां गतिमिति” च गीता ।

अभ्यासादन न० अभि + आ + सद--णिच् ल्युट् । १ शस्त्राद्यैः

शत्रोर्निर्बलताकरणे, २ शत्रोः सम्मुखगमने ३ समीप-
स्थापने च ।

अभ्याहार पु० अभि + आ + हृ--घञ् । १ अभिहारार्थे २

समक्षहरणे ३ आभिमुख्येन आनयने च । “अस्मिन्नुहैकेऽ-
वान्तरदेशे कर्षूं खात्वा ततोऽभ्याहारं कुर्व्वन्ति” शत० ब्रा०

अभ्याहित त्रि० अभि + आ + धा--कर्मणि क्त । १

आभिमुख्येन मन्त्रादिना स्थापिते विधिना कृतसंस्कारे वह्नौ ।

अभ्युक्त त्रि० आभिमुख्येनोक्तः । १ सभक्षमुक्ते २ प्रकाशिते च

अभ्युक्षण न० अभि + उक्ष--सेचने ल्युट् । “उत्तानेनैव हस्तेन

प्रोक्षणं परिकीर्त्तितम् । न्यञ्चताभ्युक्षणं प्रोक्तं तिरश्चावोक्षणं
स्मृतम्” स्मृत्युक्ते अवतानपाणिना सेच्याभिमुख्येन, सेचने
२ सेचनमात्रे “परस्पराभ्युक्षणतत्पराणाम्” रघुः अभ्यु-
क्षणं च स्नानकार्य्ये कात्या० २२, ६, १४ । कर्त्तव्यमिति शेषः ।
अभ्युक्षणादि च द्रव्यादिसंस्कारविशेषः अभ्युक्षित-
द्रव्याणामेव यागाङ्गत्वात् । स च संस्कारः अदृष्टविशेष-
रूपः द्रव्यनिष्ठ इति मीमांसकाः तेषामयमाशयः ।
यो यद्गतफलार्थितया क्रियते स तन्निष्ठफलजनकव्या-
पारजनक इति नियमेन व्रीह्यादिगतावघातानुकूल-
शक्तिरूपफलार्थितथा क्रियमाणानां प्रोक्षणाभ्युक्षणा-
दीनां स्वगतावघातादिरूपफलजनकव्यापारत्त्वम् तथा च
प्रोक्षिता एव व्रीह्यादयोऽवघातादौ कल्पन्ते प्रोक्ष-
णादिजन्यः कालान्तरभाव्यवघातजनकोव्यापारो व्री-
ह्यादिनिष्ठ एव कल्प्यते” इति ॥ नैयायिकास्तु “संस्कारः
पुंसएवेष्टः प्रोक्षणाभ्युक्षणादिभिः” कुसुमा० उक्तेः
प्रोक्षणादिभिः संस्कारोऽदृष्टं पुंसएव पुंनिष्ठः एव स्वीक्रि-
यते प्रतिव्रीह्यादि नानाशक्तिकल्पनापेक्षया एकस्यैवादृष्ट-
स्यात्मनिष्ठस्य प्रोक्षणादिजन्यस्य लाघवेन कल्पनात् शास्त्र-
देशितं फलमनुष्ठातरीतिन्थायेन क्रियाकर्त्तर्य्येव प्रधान-
कलवत्तत्तदवान्तरादृष्टस्यापि तत्रैव कल्पनौचित्यात् अन्यथा
अन्यगतादृष्टेन अन्यगतप्रधानापूर्ब्बजनने वैयधिकरण्यात्
अतिप्रसङ्गः स्यात् व्रीह्यादेश्च सर्व्वपुरुषसाधारण्येनानि-
णमकत्वात् अन्यथा अकृतप्रोक्षणादिसंस्कारस्यापि पुंसः
परकृतसंस्कारेण प्रधानापूर्ब्बवत्त्वापत्तेः । यो यद्गत-
फलार्थितयेत्यादिनियमस्य शत्रुनिष्ठबधाद्युद्देशेन क्रियमाणे
श्येनयागादौ व्यभिचारान्नार्थसाधकत्वं तत्र हि शत्रु गतबध-
फलाद्युद्देशेऽपि अभिचारिपुरुषगतस्यादृष्टविशेषस्य कल्प-
नावश्यम्भावात् अन्यथा तत्कर्त्तुः प्रायश्चित्तोपदेशस्या-
नर्थक्यापत्तेः अभिचारकर्मणश्च उपपातकमध्ये मन्वादिभि-
र्गणनात् तस्य पापजलकत्वसिद्धिरिति ।

अभ्युक्षित त्रि० अभि + उक्ष--क्त । कृताभ्युक्षणे यज्ञपात्रादौ

अभ्युक्ष्य त्रि० अभि + उक्ष--अर्हार्थे ण्यत् । अभ्युक्षणार्हे ।

ल्यप् । अवतानपाणिना सिक्त्वेत्यर्थे अव्य० “असन्द्यैनम-
वभृथं हृत्वाभ्युक्ष्य सोमोपनहनेन” कात्या० २२, ६, १३ ।
तेनोदकेनात्मानं पूजनोपकरणञ्चाभ्युक्ष्येति” त० सा० ।

अभ्युच्चय पु० अ भि + उद + चि--अच् । १ वृद्धौ । “अभ्युच्चयस्तु

लक्ष्मीः” किरा० २, १९ मल्लिनाथोक्तेः २ लक्ष्म्यामपि ।

अभ्युत्थान न० अभि + उत्--स्था--ल्युट् । १ आदरेणासनादित

उत्थाने २ गौरवेणोत्थानादिना ३ प्रत्युद्गमने, ४ उत्थानमात्रे,
५ उद्यमे, ६ उद्भवे च । “नवाभ्युत्थानदर्शिन्योननन्दुः
सप्रजाः प्रजाः” रघुः “अभ्युत्थानमधर्म्मस्य तदात्मानं सृजा-
म्यहम्” गीता ।

अभ्युत्थायिन् त्रि० अभि + उद् + स्था--णिनि । अभ्युत्थान कर्त्तरि स्त्रियां ङीप् ।

अभ्युत्थित त्रि० अभि + उद्--स्था--क्त । १ कृताभ्युत्थामे

अभिवादे सम्मानार्थमासनादित् उत्थिते । २ अभिमुखेनोद्गते च
“अभ्युत्थिताग्निपिशुनैरतिथीनाश्रमोन्मुखान्” रघुः!

अभ्युत्थेय त्रि० अभि + उद् + स्था--उपसृष्टत्वात् कर्मणि

यत् । अभिवाद्ये यस्याभिवादनार्थमासनादित उत्थानं
क्रियते तस्मिन् । “अभ्युत्थेयस्यापि” कात्या० २२, ५, २७
गुर्व्वादेरभ्युत्थेयस्यापि अभ्युत्थानमिति” कर्क० ।

अभ्युत्पतन न० अभि + उत् + पत--ल्युट् । आभिमुख्येनोत्प-

तने “अलक्षिताभ्युत्पतनो नृपेण प्रसह्य सिंहः” रघुः ।
पृष्ठ ०३१४

अभ्युदय पु० अभि + उत् + इण्--अच् । १ अभीष्टकार्य्याणां प्रादु-

र्भावे, २ वृद्धौ, “भवो हि लोकाभ्युदयाय तादृशाम्” रघुः ।
अभ्युदीयतेऽनेन करणे अच् । ३ आशास्यमानचूड़ादिसंस्कारे
च । अत एव तदर्थकश्राद्धम् आभ्युदयिकमित्युच्यते ।
४ अभ्युदयसाधने इष्टलाभे ५ वृद्धिनिमित्तके श्राद्धे च
“सम्पन्नमित्यभ्युदये दैवे रुचितमित्यपि” मनुः । “अभ्युदये वृद्धि
श्राद्धे” कुल्लू० । “प्रतिषेद्धाऽपि चेद्या तु मद्यमभ्युदयेष्वपि”
मनुः । भावे अच् । ६ उत्तरोत्तरोत्तरवृद्धौ “अभ्युदयफलं घर्म्मज्ञान-
मिति” शा० भा० “धर्मः श्रेयः समुद्दिष्टं श्रेयोऽभ्युदयसाधन-
मिति” भवि० पु० । अभ्युदयः इष्टलाभादि प्रयोजनमस्य ठञ् ।
अभ्युदयनिमित्ते श्राद्धे । “अथाभ्युदयिके श्राद्धे युग्मा-
नाशयेत्” गोभि० “अभ्युदयः इष्टलाभः विवाहादि तदर्थं
श्राद्धम् आभ्युयिकम् तच्च भूतभविष्यद्भेदेन द्विविधम् भूतं
पुत्रजन्मादि भविष्यत् विवाहादि श्रा० त० रघुनन्दनः ।

अभ्युदयार्थक न० अभ्युदयः इष्टलाभादि अर्थो निमित्तं

यस्य । अभ्युदयनिमित्ते श्राद्धे “नैमित्तिकमथो वक्ष्ये
श्राद्धमभ्युदयार्थकम्” मार्क० पु० ।

अभ्युदानयन न० अभि + उद् + आ + नी--ल्युट् । अग्नेरभि-

नुखानयने “अभ्युदानयन्” गो० सू० अभ्युदानयन् अग्ने-
रभिमुखमानयन् जपेदिति स० त० रघुनन्दनव्याख्या-
नात् तदुपसृष्टस्य नयतेः तथार्थत्वम् ।

अभ्युदाहरण न० अभि + उद् + आ + हृ--ल्युट् । १

अभिमुखकयने २ आभिमुख्येनोर्द्धमुत्क्षेपणे च ।

अभ्युदित त्रि० अभितः सर्व्वतः उदितमुत्क्रान्तं प्रात-

र्विहितं कर्म यस्मात् । सूर्य्योदयकाले निद्रयाऽकृततत्काल-
कर्त्तव्ये १ ब्रह्मचारिणि । “सूर्य्येण ह्यभिनिर्मुक्तः शयानो-
ऽभ्युदितश्च यः” मनुः । २ अभितौदिते, ३ प्रकाशिते
च त्रि० “माघे मासि रटन्त्यापः किञ्चिदभ्युदिते रवौ”
म० त० पुरा० ।

अभ्युदीरित त्रि० अभि--उद् + ईर--क्त । अमिसुखमुक्ते । भावे क्त कथने न० ।

अभ्युद्गम पु० अभि + उद् + गम--भावे अप् । १ अभ्युत्थाने

२ उद्भवे च । ल्युट् । अभ्युद्गमनमप्यत्र न० ।

अभ्युद्यत त्रि० अभि + उद् + यम--क्त । उढ्युक्ते “कुलमभ्युद्यत

नूतनेश्वरम्” रघुः । १ अयाचितोपनीते फलादौ, “एधो-
दकं मूलफलमन्नमभ्युद्यतञ्च यत्” मनुः ।

अभ्युद्धृत त्रि० अभि + उद् + हृ--क्त । १ अयाचितोपनीते

२ अभ्यर्थ्य दत्ते च “एधोदकं मूलफलमन्नमभ्युद्धृतञ्च यत्” शु० त०
मनुवचनपाठः “अभ्यर्थ्य दत्तमिति व्याख्यातं च रघुनन्द-
नेन । अभि + उद् + धृ--क्त । ३ आभिमुख्ये नोत्तोलनेन धृते ।

अभ्युन्नत त्रि० आभिमुख्येन उन्नतः । आभिमुख्येन उन्नते

अत्यन्तोन्नते । “अभ्युन्नताङ्गुष्ठनखप्रभाभिः” कुमा० ।

अभ्युपगत त्रि० अभि + उप + गम--क्त । १ स्वीकृते अङ्गीकृते ।

२ समीपगते ३ अभिमुखमुपगते च ।

अभ्युपगम पु० अभि + उप + गम--अप् । १ स्वीकारे “क्रिया-

भ्युपगमात्त्वेतद्वीजार्थं यत् प्रदीयते” मनुः । २ समीपगतौ च
१ “नियमदयादीक्षाभ्युपगमेत्यादि” सुश्रुतः ।

अभ्युपपत्ति स्त्री अभि + उप + पद--क्तिन् । अनिष्टनिवारं-

णपूर्व्वकाभीष्टसम्पादनरूपे अनुग्रहे, “ब्राह्मणाभ्युपपत्तौ च
शपथे नास्ति पातकमिति” “स्त्रीविप्राभ्युपपत्तौ च धर्मेण
घ्नन्न दुष्यति” “स्त्रीवालाभ्युपपत्तौ च वाह्यानां सिद्धिकार-
णम्” इति च मनुः अभ्युपपूर्व्वपद्यतेः सान्त्वनानुग्रहार्थत्वेनैव
“रतिमभ्युपपत्तुमातुरामिति” कु० प्रयोगः । २ सान्त्वने च

अभ्युपपत्तुम् अव्य० अभि + उप + पद--तुमुन् । सान्त्वयितुम्

अनुग्रहीतुं वेत्यर्थे “रतिमभ्युपत्तुमातुराम्” कुमा० ।

अभ्युपपन्न त्रि० अभि + उप + पद--क्त । अनुगृहीते ।

अभ्युपाय पु० अभि + उप + इण्--अच् । १ स्वीकारे २

अधिकोपाये च । “तस्मिन् सुराणां विजयाभ्युपाये” कुमा०
“तान् वोऽभ्युपायान् वक्ष्यामि” मनुः ।

अभ्युपेत त्रि० अभि + उप + इण--क्त । १ अभिमुखसमीपगते

२ अङ्गीकृते ३ अङ्गीकर्त्तरि च ।

अभ्युपेत्य त्रि० अभि + उप + इण--कर्मणि क्यप् । अभिमुखं

समीपगम्ये । ल्युप् । स्वीकृत्वेर्थे अव्य० । “अम्युपेत्य च
शुश्र्षामिति” नार० ।

अभ्युपेत्याशुश्रूषा स्त्री अभ्युपेत्य अङ्गीकृत्य अशुश्रुषाऽसेवनम् ।

अङ्गीकृत्य पश्चात् दास्याकरणरूपे विवादभेदे “अभ्युपेत्य च
शुश्रूषां यस्तां न प्रतिपद्यते । अशुश्रूषाभ्युपेत्यैतद्विवाद
पदमुच्यते” नार० । “आज्ञाकरणं शुश्रूषा तामङ्गीकृत्य
पश्चाद्यो न सम्पादयति तद्विवादपदमभ्युपेत्याशुश्रूषा-
ख्यमिति” मिताक्षरा ।

अभ्युपेत्या स्त्री अभि + उप + इण--भावे क्यप् । सेवायाम् ।

अभ्युषित त्रि० अभि + वस--क्त । १ अभिमुखमुषिते अभिमुख-

स्थिते सेवकादौ पु० ।

अभ्यु(भ्यू)ष पु० अभित उ(ऊ)ष्यते अग्निना दह्यते अभि +

ऊ (ऊ)ष--बा० कर्मणि क । १ यवगोधूमादिचूर्ण्णकृते
(रोटि) प्रसिद्धे दग्धान्नभेदे । ऊष भावे कर्म्मणि वा घञ् ।
वह्निना ईषद्दग्धेऽन्ने हेम० भावे घञ् । कलायादेरीषद्दहने
अभि + उष--भावादौ घञ् । अभ्योषोऽप्यत्र अभ्यु(भ्यूभ्यो)-
षायहितं छ यतौ अभ्यू(भ्यु)(भ्यो)षीयम् अभ्यू(भ्यु)(भ्यो)-
पृष्ठ ०३१५
ष्यञ्च । तत्रहिते गोधूमकलायादौ । अपूपादिगणपाठात्
नि० अभ्येषशब्दोऽप्युक्तार्थे ततोऽपि छयतौ उक्तार्थे ।

अभ्यूह अभि + ऊह--घञ् । स्वबुद्धिमात्रकल्पिते तर्के “नैषा

तर्केण मतिरापनेयेति” कठ उ० भाष्ये “सुबुद्ध्यभ्यूहेन
केवलेन तर्क्यमाण इति” उक्तम् ।

अभ्यूहनीय त्रि० अभितः ऊहनीयः । स्वबुद्ध्या तर्कणीये ।

अभ्यूह्य त्रि० अभितः उह्यः । १ स्वबुद्धिमात्रेण तर्कणीये ।

ल्यप् । २ अभितस्तर्कयित्वेत्यर्थे अव्य० ।

अभ्र अतौ भ्वादि० पर० सक० सेट् । अभ्रति आभ्रीत् आनभ्र

अभ्रम् “तेष्वसौ दन्दशूकारिर्वनेष्वानभ्र निर्भयः” भट्टिः ।

अभ्र न० अभ्र--अच् । १ मेघे २ मुस्तके ३ आकाशे च अब्भ्र-

शब्देऽधिकं दृश्यम् । “तदा विद्यादनध्यायमनृतौ चाभ्र-
दर्शने” मनुः “अभ्रं लिहाग्रं रविमार्गभङ्गम्” भट्टिः ।
“वर्षात्ययेन रुचमभ्रघनादिवोन्दोः” रघुः कुर्व्वादिगण-
पाठात् तन्नामके ऋषिभेदे पु० । तस्य अपत्यम् कुर्वादि० ण्य ।
अभ्र्यः तदपत्ये पुंस्त्री । अभ्रमिवाचरति क्यङ् अभ्रायते ।

अभ्रक न० पु० अभ्र--क्वुन् । क्वचित् पुंस्त्वमप्यस्य । (आव)-

धातुभेदे एतच्च गौरीरजोजातं यथोक्तम् रस्वेश्वरदर्शने
शिववाक्यम् । “अभ्रकस्तव वीजन्तु भम वीजन्तु पारदः
अनयोर्मेलनं देवि! मृत्युदारिद्र्यनाशनम्” । जारिताभ्रस्यैव
पारदमेलनद्वारा मृत्युनाशकत्वमतस्तज्जारणविधिर्दर्शितः
श्चक्रदत्ते । “कृष्णाभ्रकमनेकवपुर्व्वज्राख्यञ्चैकपात्रकं
कृत्वा । काष्ठमयोदूखलके चूर्ण्णं मुषलेन कुर्व्वीत ॥
भूयो दृशदि च पिष्टं वासःसूक्ष्मावकाशतलगलितम् ।
मण्डूकपर्ण्णिकायाः प्रचुररसे स्थापयेत्त्रिदिनम् ॥ उद्धृत्य
तद्रसादथ पिंष्याद्धैमन्तिकधान्यभक्तस्थम् । अक्षोदात्य-
न्ताम्लस्वच्छजलेन प्रयत्नेन । मण्डूकपर्ण्णिर्कायाः पूर्ब्बं
सुंरसेनालोडनं कुर्य्यात् । स्थालीपाकं पुटनं चाद्यैरपि
भृङ्गराजाद्यैः ॥ ताडादिपत्रमध्ये कृत्वा पिण्डं निधाय
भस्माग्नौ । तावद्दहेन्न यावल्लीनोऽग्निर्दृश्यते सुचिरम् ॥
निर्वापयेच्च दुग्धेन दुग्धं प्रक्षाल्य वारिणा तदनु ।
पिष्ट्वा घृष्ट्वा वस्त्रे चूर्ण्णं निश्चन्द्रकं कुर्य्यात्” इति ।

अभ्रंलिह त्रि० अभ्रं गगनं लेढ़ि स्पृशति अभ्र +

लिहखश् मुम् । गगनस्पर्शिनि अत्युच्चे “प्रासादमभ्रंलिहमा-
रुरोह” रघुः “अभ्रंलिहाग्रं रविमार्गभङ्गमिति” भट्टिः ।

अभ्रङ्कष त्रि० अभ्रं गगनं कषति पीड़यति उच्चत्वात् अभ्र +

कष--ख मुम् । अत्युच्चे । “आदायाभ्रङ्कषं प्रायान्मलयं
फलशालिनम्” भट्टिः ।

अभ्रजा त्रि० अभ्रात् मेघात् जायते जन--विट् ५ त० ।

मेघजाते “यो अभ्रजा वातजा यश्च शुष्मोवनस्पतीन्त्सचतां
पर्व्वतांश्च, अथ० १, १२, ३ जन--ड । अभ्रजोऽप्युक्तार्थे त्रि०

अभ्रनाग पु० ६ त० १ ऐरावते गजे ।

अभ्रपथ पु० ६ त० अच् समा० । विमाने गगनमार्गे ।

अभ्रपिशाच पु० अभ्रे गगने पिशाच इव । राहुग्रहे तस्य

च्छ्वायात्मकत्वेन नीलवर्ण्णतया पिशाचतुल्यत्वम् ।

अभ्रम पु० भ्रमोभ्रमणं मिथ्याज्ञानञ्च अभावे न० त० । १ भ्रमा-

भावे । न० व० । २ भ्रान्तिशून्ये त्रि० ।

अभ्रमांसी स्त्री अभ्रमिव जटाया मांसमस्य गौ० ङीष् । जटामांस्याम् ।

अभ्रमाला स्त्री ६ त० । मेघसमूहे ।

अभ्रलिप्ती स्त्री ३ त० ङीप् । १ अल्पाम्रैर्लिप्तायां दिवि

२ अल्पमुस्तकेन लिप्तायां स्त्रियाञ्च ।

अभ्रवर्ष पु० अभ्रैर्मेघेर्वृष्यते कर्मणि घञ् । १ मेघैः सिच्यमाने

“दिव्यानकोशासो अभ्रवर्षाः” ऋ० ९, ८८, ६, अभ्रवर्षाः
अभ्रैर्वृष्यमाणाः भा० । भावे घज् । २ मेघवर्षणे ।

अभ्रवाटिका स्त्री अभ्रेण शून्येन वाटो वेष्टनं यस्याः गौ०

ङीष् । अम्रातकवृक्षे । तस्याः पत्रशून्यकाले शून्यावृतत्वेन
प्रतीतेस्तथात्वम् ।

अभ्राज त्रि० न भ्राजते भ्राज--अच् न० त० । १ दीप्ति

शीलभिन्ने २ सामगानविशेषद्रष्टरि ऋषिभेदे पु० । तेन दृष्टं
साम अण् । आभ्राजं तद्दृष्टे सामभेदे न० तच्च “परिस्वानो
गरिष्ठा इत्यस्यामृचि गीयमानं साम” ता० ब्रा० भा० ।
तदपि ऊहगाने ६ प्र० दर्शितम् । तस्य च पाठविनियोगः
ता० ब्रा० उक्तः यथा “भ्राजाभ्राजे पवमानमुखे भवत”
इति गबामयने विषुवन्नामाहे तत् पाठ्यम् ।

अभ्रातृ(क) पुंस्त्री नास्ति भ्राता यस्य वेदे न कप् लोके तु कप् ।

भ्रातृशून्ये । “अभ्रातेव पुंस एति प्रतीची” ऋ० १, २२, ३,
कवभावे स्त्रियां ङीप् । “नाभ्रात्रीमुपयच्छेत्” गृ० । कपि
तु अभ्रातृका तत्रार्थे “अभ्रातृकां प्रदास्यामि तुभ्यं
कन्यामलङ्कृताम्” मनुः ।

अभ्रातृव्य त्रि० नास्ति भ्रातृव्यः शत्रुर्यस्य । शत्रुरहिते

“अभ्रातृव्योभ्रातृव्यहा भवति य एवं विद्वान्” शत० ब्रा०

अभ्रान्त त्रि० विरोधे न० त० । १ भ्रान्तभिन्ने यथार्थज्ञानयुक्ते

२ भ्रमणशून्ये स्थिरे च ।

अभ्रान्ति स्त्री अभावे न० त० । १ मिथ्यानाभावे २ भ्रमणाभावे

च । न० ब० । ३ मिथ्याज्ञानशून्ये ४ भ्रमणशून्ये च त्रि० ।

अभ्रावकाश पु० अभ्रमेवावकाशः । इतरावरणशून्ये

आकाश मात्रावकाशे ।

अभ्रावकाशिन् त्रि० अभ्रावकाशोस्त्यस्य इनि । गगनमात्राव-

काशवति निरावरणे । स्वार्थे कन् । तत्रैव “ग्रीष्मे
पञ्चतपास्तु स्याद्वर्षास्वभ्रावकाशिकः” मनुः ।
"https://sa.wikisource.org/w/index.php?title=वाचस्पत्यम्/अभाग&oldid=310362" इत्यस्माद् प्रतिप्राप्तम्