पृष्ठ ०३१६

अभ्रि स्त्री अभ्रति मलं यस्मात् अभ्र गतौ अपादाने इन् ।

१ नौकामलघर्षणार्थे काष्ठमये कुद्दाले २ कुद्दालभात्रे च ।
“खनति भेषजमित्युपक्रम्य ! “हिरण्मयीभिरभ्रिभिर्गिरी-
णामुपसानुषु” अथ० १०, ४, १४ । वा ङीप् । अभ्रीत्यप्यत्र

अभ्रित त्रि० अभ्रं मेघोजातमस्य तार० इतच् । जातमेघे

अम्बरादौ “ददर्श काले दिवसभ्रितामिव” रघुः ।

अभ्रिय त्रि० अभ्रे मेघे भवः घ । १ मेघोद्भवे, २ मुस्तकभवे,

३ गगनभवे च । “व्यभ्रिया न द्युतयन्त्यो वृष्टयः ऋ० २,
३४, २, । “यदभ्रियां वाचमुदीरयन्ति ऋ० १, १६८, ८, ।

अभ्रेष पु० भ्रेष--चलने घञ् न० त० । १ न्याय्ये, उचिते ।

२ चलनशून्ये त्रि० ।

अभ्व त्रि० भू--प्राप्तौ क्कन् डिच्च न० त० । महति निरु० । “यद्ध

ते विश्वागिरयश्चिदभ्वाः” इति ऋ० १, ६३, १ ।

अम रीगे चुरा० उभय० सेट् अक० पीड़ने सक० । अमयति-

ने आमिमत् त । “यस्या उदरमामयत्” ॠ० १०८६, ८
मा च नः किञ्चनाममत्” अथ० ६, ३७, ३ । अमितः-
आन्तः घञादौ कृति अमः--आमः अमी--आमी ।

अम गतौ भोजने भ्वादि० सक० शब्दे च अक० सेट् प० । अमति

आमीत् । “किशूरपत्निनस्त्वमभ्यमीषि” १०, ८६, ८
वेदे शपोलुकि ईट् । अमतः अमतिः अमनिसः ।

अम पु० अम--रोगे घञ् । १ रोगे “अम--गतौ अच् । प्राणे

सर्व्वदागतिमत्त्वातस्य तथात्वम् । “बाग्वै सामैषा सा
चामश्चेति वृ० उ० “अमो नामासि अमा हि सर्व्व-
मिदम् छा० उ० । अमः प्राणः भा० । अमति
सहगच्छति । सेवके “याहि राजेवामँवा” इभेन य० १३,
९ । “अमवान् सेवकान्” वेदी० ४ अपक्वफलादौ न०
शब्दर० । प्राणहेतुत्वात् ५ बले “सेनेव सृष्टामं दधाति”
ऋ० १, ६६, ४, अमं बलम् भा० ।

अम् अव्य० चु० अम--क्विप् स्वरादि० । १ अल्पे २ शीघ्रतायाञ्च

अमङ्गल पु० नास्ति मङ्गलं प्रयोजनं यतः । एरण्डवृक्षे । ६ व० ।

कशलशून्ये त्रि० । न० त० । मङ्गलभिन्ने । अमङ्गलञ्च
मङ्गलविरोधिवस्तु । मङ्गलञ्च अभिप्रेतार्थसिद्धिर्मङ्गलमित्युक्त
लक्षणं तद्विरोधि अनभिप्रेतार्थसिद्धिः । तथा च अनिष्ट
दुःस्वावाप्तिरमङ्गलं मङ्गलस्य हेतोर्विनायकस्तवपाठादेर्म-
ङ्गलत्ववत् अनिष्टप्राप्तिसाधनस्याप्यमङ्गलत्वम् । अमङ्गल
साधनं च द्विविधं लौकिकमलौकिकञ्च । लौकिकमिष्ट-
वियोगादि । अलौकिकन्तु अनिष्टसूचकत्वात् अनिष्ट-
साधनम् न तु कारकम् “गोचरे वा विलग्ने वा ये
ग्रहारिष्टसूचकाः इत्युक्तेः “उत्पातेन ज्ञापिते चेति
वार्त्तिकोक्तेश्च । अलौकिकमपि त्रिविधं भौमं दिव्यमान्त-
रिक्षञ्च । तानि च उत्पातशब्दे वक्ष्यन्ते । अमङ्गलसूच-
कानि लिङ्गानि च कानिचित् साधारणानि कानिचिच्चा-
साधारणानि नेत्रस्पन्दादीनि तत्र साधारणानि कतिचित्
संगृह्य दर्श्यन्ते यथा भा० भी० प० । “तथेमानि
निमित्तानि भयायाद्योपलक्षये ॥ श्येना गृध्राश्च काकाश्च
कङ्काश्च सहिता वकैः । संपतन्ति नगाग्रेषु समवायांश्च
कुर्व्वते ॥ अभ्यग्रञ्च प्रपश्यन्ति युद्धमानन्दिनो द्विजाः ।
क्रव्यादा भक्षयिष्यन्ति मांसानि गजवाजिनाम् ॥
निर्द्दयञ्चाभिवाशन्तो भैरवा भयवेदिनः । कङ्काः
प्रयान्ति मध्येन दक्षिणामभितो दिशम् ॥ उभे पूर्वा-
परे सध्ये नित्यं पश्यामि भारत! । उदयास्तमने सूर्य्यं
कबन्धैः परिवारितम् ॥ श्वेतलोहितपर्यन्ताः कृष्णग्रीवाः
सविद्युतः । त्रिवर्ण्णाः परिघाः सन्धौ भानुमन्तमवारयन् ॥
ज्वलितार्केन्दुनक्षत्रं निर्व्विशेषदिनक्षयम् । अहोरात्रं
मया दृष्टं तद्भयाय भविष्यति ॥ अलक्ष्यः प्रभया हीनः
पौर्ण्णमासीञ्च कार्त्तिकीम् । चन्द्रोऽभूदग्निवर्णश्च पद्मवर्ण्णे
नभस्तले ॥ स्वप्स्यन्ति निहता वीरा भूमिमावृत्य पार्थिवाः ।
राजानो राजपुत्त्राश्च शूराः परिघबाहवः ॥ अन्तरीक्षे
वराहस्य वृषदंशस्य चोभयोः । प्रणादं युध्यतो रात्रौ रौद्रं
नित्यं प्रलक्षये ॥ देवताप्रतिमाश्चैव प्रकम्पन्ते हसन्ति च ।
वमन्ति रुधिरञ्चास्यैः स्विद्यन्ति प्रपतन्ति च ॥ अनाहता
दुन्दुभयः प्रणदन्ति विशाम्पते । अयुक्ताश्च प्रवर्त्तन्ते क्षत्त्रि-
याणां महारथाः ॥ कोकिलाः शतपुत्त्राश्च चाषां भाषाः
शुकास्तथा । सारसाश्च मयूराश्च वाचो मुञ्चन्ति दारुणाः ॥
गृहीतशस्त्राः क्रोशन्ति वर्म्मिणो वाजिपृष्ठगाः । अरुणोदये
प्रदृश्यन्ते शतशः शलभव्रजाः ॥ उभे सन्ध्ये प्रकाशेते
दिशां दाहसमन्विते । पर्ज्जन्यः पांशुवर्षी च मांसवर्षी च
भारत! ॥ या चैषा विश्रुता राजंस्त्रैलोक्ये साधुसम्मता
अरुन्धती तयाप्येष वशिष्ठः पृष्ठतः कृतः ॥ रोहिणीं
पीडयन्नेष स्थितो राजन्! शनैश्चरः । व्यावृत्तं लक्ष्म सोमस्य
भविष्यति महद्भयम् ॥ अनव्भ्रे च महाघोरः स्तनितः
श्रूयते स्वनः । वाहनानाञ्च रुदतां निपतन्त्यश्रुविन्दवः ॥
खरा गोपु प्रजायन्ते रमन्ते मातृभिः सुताः । अना-
पृष्ठ ०३१७
त्तेवं पुष्पफलं दर्शयन्ति वनद्रुमाः ॥ गर्भिण्यो
राजपुत्रांश्च जनयन्ति विभीषणान् । क्रव्यादाः पक्षिणश्चापि
सहाश्रन्ति परस्परम् ॥ त्रिविषाणाश्चतुर्नेत्राः पञ्चपादा
द्विमेहनाः । द्विशीर्षाश्च द्विपुच्छाश्च दंष्ट्रिणः पशवोऽ-
शिवाः ॥ जायन्ते विवृतास्याश्च व्याहरन्तोऽशिवा गिरः ।
त्रिपदाः शिखिनस्तार्क्ष्याश्चतुर्द्दंष्ट्रा विषाणिनः ॥ तथैवान्याश्च
दृश्यन्ते स्त्रियो वै ब्रह्मवादिनाम् । वैनतेयान् मयूरांश्च
जनयन्त्यः पुरे तव ॥ गोवत्सं बड़वा सूते श्वा शृगालं
महोपते! । कुक्कुटान् करभांश्चैव शुकांश्चाशुभवादिनः ॥
स्त्रियः काश्चित् प्रजायन्ते चतस्रः पञ्च कन्यकाः ।
जातमात्राश्च नृत्यन्ति गायन्ति प्रसहन्ति च ॥ पृथग्जनस्य सर्वस्य
क्षुद्रकाः प्रहसन्ति च । नृत्यन्ति परिगायन्ति वेदयन्तो
महद्भयम् । प्रतिमाश्चालिखन्त्येते सशस्त्राः कालचोदिताः
अन्योन्यमभिधावन्ति शिशवो दण्डपाणयः । अन्योन्यमव-
मृद्नन्ति नगराणि युयुत्सवः ॥ पद्मोत्पलानि वृक्षेषु जायन्ते
कुमुदानि च । विष्वग्वाताश्च वान्त्युग्रा रजो नाप्युपशाम्यति ।
अभीक्ष्णं कम्पते भृमिरर्कं राहुरुपैति च । श्वेतो ग्रह-
स्तथा चित्रां समतिक्रम्य तिष्ठति । अभावं हि विशेषेण
कुरूणां तत्र पश्यति ॥ धूमकेतुर्म्महाघोरः पुष्यञ्चाक्रम्य
तिष्ठति । सेनयोरशिवं घोरं करिष्यति महाग्रहः ॥
मघास्वङ्गारको वक्रः श्रवणे च वृहस्पतिः । भाग्यं(मघाम्)नक्ष-
त्रमाक्रम्य सूर्यपुत्रेण पीड्यते ॥ शुक्रः प्रौष्ठपदे पूर्ब्बे
समारुह्य विरोचते । उत्तरे तु परिक्रम्यसहितः समुदीक्ष्यते ॥
श्वेतो ग्रहः प्रज्वलितः सधूम इव पावकः । ऐन्द्रं तेजस्वि
नक्षत्रं ज्जेष्ठामाक्रम्य तिष्ठति ॥ ध्रुवं प्रज्वलितं घोरमपसव्यं
प्रवर्त्तते । रोहिणीं च पीड़यत उभौ च शशिभास्करौ ॥
चित्रास्वात्यन्तरे चैव धिष्ठितः परुषो ग्रहः । वक्रानुवक्रं
कृत्वा च श्रवणं पावकप्रभः । ब्रह्मराशिं समावृत्य लोहि-
ताङ्गो व्यवस्थितः ॥ सर्व्वसस्यपरिच्छन्ना पृथिवी सस्यशा-
लिनी । पञ्चशीर्षा यवाश्चापि शतशीर्षाश्च शालयः ॥
प्रधानाः सर्व्वलोकस्य यास्वायत्तमिदं जगत् । ता गावः
प्रस्नुता वत्सैः शोणितं प्रक्षरन्त्युत ॥ निश्चेरुरर्चिषश्चापात्
खड्गाच्च ज्वलिनो भृणम् । व्यक्तं पश्यन्ति शस्त्राणि
संग्राम समुपस्थितम् ॥ अग्निवर्ण्णा यथा भासः शस्त्राणा-
मुदकस्य च । कवचानां ध्वजानाञ्च भविष्यति महान्
क्षयः ॥ पृथवी शोणितावर्त्ता ध्वजोडुपसमाकुला । कुरूणां
वैशसे राजन्! पाण्डवैः सह भारत! ॥ दिक्षु प्रज्वलिता-
स्याश्च व्याहरन्ति मृगद्विजाः । अत्याहितं दर्शयन्तो वेदयन्ति
महद्भयम् ॥ एकपक्षाक्षिचरणः शकुनिः खचरो निशि ।
रौद्रं नदति संरव्धः शोणितं छर्द्दयन्निव ॥ शस्त्राणि चैव
राजेन्द्र! प्रज्वलन्तीव संप्रति । सप्तर्षीणामुदाराणां
समवच्छाद्यते प्रभा ॥ संवत्सरस्थायिनौ च ग्रहौ प्रज्वलि-
तावुभौ । विशाखायाः समीपस्थौ वृस्पतिशनैश्चरौ ॥ चन्द्रा-
दित्यावुभौ ग्रस्तावेकपक्षे त्रयोदशीम् । अपर्व्वणि ग्रहं
यातौ प्रजासक्षयमिच्छतः ॥ अशोभिता दिशः सर्व्वाः
पांशुवर्षैः समन्ततः । उत्पातमेघा रौद्राश्च रात्रौ वर्षन्ति
शोणितम् ॥ कृत्तिका पीड्यते तीक्ष्णैर्नक्षत्रं पृथिवीपते! ॥
अभीक्ष्णं वाता वायन्ते धूमकेतुमवस्थिताः । विषमं
जनयन्त्येत आक्रन्दजननं महत् ॥ विषु छत्रेषु सर्व्वेषु नक्ष-
त्रेषु विशाम्पते! गृघ्रः संपतते दीर्घः जनयन् भयमुत्तमम् ॥
चतुर्द्दशीं पञ्चदशीं भूतपूर्ब्बां च षोड़शीम् । इमान्तु
नाभिजानामि भूतपूर्ब्बां त्रयीदशीम् ॥ चन्द्रसूर्य्यावुभौ
ग्रस्तावेकमासे त्रयोदशीम् । अपर्ब्बणि ग्रहावेतौ प्रजाः
संक्षययिष्यतः । शोणितैर्व्वक्तसम्पूर्ण्णा अतृप्तास्तत्र राक्षसाः ।
प्रतिस्रोतोवहा नद्यः सरितः शोणितोदकाः । फेनाय-
मानाः कूपाश्च कूर्द्दन्ति पृषभा इव ॥ पतन्त्युल्काः
सनिर्घाताः शक्राशनिसमप्रभाः । अद्य चैव निशां व्युष्टामु-
दये भानुराहरत् ॥ ज्ज्वलन्तीभिश्च वह्वीभिरुल्काभिः
सर्व्वतोदिशम् । अन्योन्यमवमृष्यद्भिस्तत्र चोक्तं महर्षिभिः ।
भूमिपालसहस्राणां भूमिः पास्यति शोणितम् ॥ कैलास-
मन्दराभ्यान्तु तथा हिमवतो गिरेः । सहस्रशो महाशब्दाः
शिखराणि पतन्ति च ॥ महाभूता भूमिकम्पे चत्वारः
सागराः पृथक् । वेलामुद्वर्त्त यन्तीव क्षोभयन्तो वसुन्धराम् ।
वृक्षानुन्मथ्य वान्त्युग्रा वाताः शर्करकर्षिणः ॥ अभग्माः
सुमहावातैरशनीभिः समाहताः । वृक्षाः पतन्ति चैत्याश्च
ग्रामेषु नगरेषु च । नीललोहितपीतश्च भवत्यग्निर्हुतो
द्विजैः । वामार्चिर्दुष्टगन्धश्च मुञ्चन् वै दारुणं स्वनम् ॥
स्पर्शा गन्धा रसाश्चैव विपरीता महीपते! । धूमं ध्वजाः
प्रमुञ्चन्ति कम्पमाना मुहुर्मुहुः ॥ मुञ्चन्त्यङ्गारवर्षञ्च भेर्यश्च
पटहास्तथा ॥ शिखराणां समृद्धामामुपरिष्टात् समन्ततः ।
वायसाश्च रुवन्त्युग्रं वामं मण्डलमाश्रिताः । पक्वापक्वेति
सुभृशं वावाश्यन्ते वयांसि च ॥ निलीयन्ते ध्वजाग्रेषु
क्षयाय पृथिवीक्षिताम् ॥ ध्मायन्तः प्रकिरन्तश्च व्याला
वेपयुसंयुताः । दीनास्तुरङ्गमाः सर्वेवारणाः सलिलाश्रयाः” इति
असाधारणाणि अमङ्गलानि च दर्शितानि यधा “मुक्तकेशीं
छिन्ननासां रुदतीञ्च दिगम्बराम् । कृष्णवस्त्रपरीधाना-
पृष्ठ ०३१८
मपरां विधवामपि । मुखदुष्टां योनिदुष्टां व्याधिताञ्चैव
कुट्टिनीम् । पतिपुत्त्रविहीनाञ्च डाकिनीं पुंश्चलीमहो ।
कुम्भकारं तैलकारं व्याधं सर्पोपजीविनम् । कुचेलमतिरुक्षा
ङ्गं नग्नं काषायवासिनम् । अङ्गविक्रयिणञ्चैव कन्याविक्र
यिणं तथा । चितां दग्धशवं भस्म निर्व्वाणाङ्गारमेव च ।
सर्पक्षतनरं सर्पं गोधाञ्च शशकं विषम् । श्राद्धपात्रञ्च
पिण्डञ्च मोटकं वानरं तथा । देवलं वृषवाहञ्च शूद्र-
श्राद्धान्नभोजिनम् । शूद्रान्नपाचकं शूद्रयाजकं ग्राम-
याजकम् । कुशपुत्तलिकाञ्चैव शवदाहनकारिणम् ।
शून्यकुम्भं भग्नकुम्भं तैलं लवणमस्थि च । कार्पासं कच्छपं
चूर्णं कुक्कुरं शब्दकारिणम् । दक्षिणेन शृगालञ्च कुर्वन्तं
भैरवं रवम् । कपर्द्दकञ्च क्षौरञ्च छिन्नकेशं नखं मलम् ।
कलहञ्च विलापञ्च विलापकारिणं जनम् । अमङ्गलं वदन्तञ्च
रुदन्तं शोककारिणम् । मिथ्यासाक्षिप्रदातारं चौरञ्च
नरघातिनम् । पुंश्चलोपतिपुत्त्रञ्च पुंश्चल्योदनभोजिनम् ।
देवतागुरुविप्राणां वस्तुवित्तापहारिणम् । दत्तापहारिणं
दस्युं हिंसकं सूचकं खलम् । पितृमातृविरक्तञ्च द्विजा-
श्वत्थविघातिनम् । सत्यघ्नञ्च कृतघ्नञ्च स्थाप्यापहारिणं
जनम् । विप्रद्रोहं मित्रद्रोहं क्षतं विश्वासघातकम् । गुरु-
देवद्विजानाञ्च निन्दकं स्वाङ्गघातकम् । जीवानां घातक-
ञ्चैव स्वाङ्गहीनञ्च निर्द्दयम् । व्रतोपवासहीनञ्च दीक्षाहीनं
नपुंसकम् । गलितव्याघिगात्रञ्च काणं बधिरमेव च ।
पुक्कसं छिन्नलिङ्गञ्च सुरामत्तं सुरां तथा । क्षिप्तं वमन्तं
रुधिरं महिषं गर्द्दभं तथा । मूत्रं पुरीषं श्लेष्माणं कन्थि-
नं नृकपालिनम् । झञ्झावातं रक्तदृष्टिं वात्याञ्च वृक्ष-
पातनम् । वृकञ्च शूकरं गृध्रं श्येनं कङ्कञ्च भल्लुकम् ।
पाशञ्च शुष्ककाष्ठञ्च वायसं गन्धकं तथा । अग्रदानिब्राह्म
णञ्च तन्त्रमन्त्रोपजीविनम् । वैदञ्च रक्तपुष्पञ्चैवौषधं
तुषमेव च । कुवार्त्तां मृतवार्त्ताञ्च विप्रशापञ्च दारुणम् ।
दुर्गन्धवातं दुःशब्दे राजा संप्राप वर्त्मनि । मनश्च कुत्सितं
प्राणः क्षुभितश्च निरन्तरम् । वामाङ्गस्पन्दनं देहज्यरो राज्ञो
बभूव ह । तथापि राजा निःशङ्कं दर्शंदर्शममङ्गलम्” इति
ब्रह्म० पु० नि० निएवमन्यान्यपि साधारणासाघारणानि निमि-
त्तानान्युन्नेयानि “अमङ्गलाभ्यासरतिं विचिन्त्य तम्” कुमा०

अमङ्गल्य त्रि० अमह्नलाय हितं यत् । अमङ्गलसाधने

“अमङ्गल्यं शीलं तव भवतु नामैकमखिलम्” पुष्पदन्तः ।

अमण्ड त्रि० नास्ति मण्डो भक्तावशिष्टं भूषा वा यस्य ।

१ मण्डहीने भक्तादौ २ भूषणहीने च ।

अमत पु० अम--रागादौ अतच् । १ मृत्यौ २ काले ३ रोगे च ।

४ रेणौ उज्ज्वल० । मन--क्त न० त० । ५ सम्मतभिन्ने
त्रि० । “यस्यामतं तस्य मतमिति श्रुतिः । ६ अज्ञाते च ।

अमति पु० अम--अति । १ काले उणा० । २ चन्द्रे मेदि०

३ रूपे स्त्री निरु० वेदे तु रूपे एव अस्यप्रयोगः “हिरण्म-
योममतिं यामशिश्रेत्” “व्युर्वा पृथ्वीममतिं सृजान”
ऋ० ७, ३८, १, २ अमतिं रूपमिति भा० आबन्धुरेष्वमतिं
दर्शता” १, ६४, ९ । दुष्टे त्रि० शब्दार्ण० । मननं मतिः
अभावे न० त० । ४ ज्ञानाभावे यथास्वरूपाज्ञाने । “अमत्यै-
तानि षड्जग्ध्वा त्रिरात्रमिति” मनुः “कृच्छ्रांस्तु चतुरः
कुर्य्याद्गोबधे बुद्धिपूर्ब्बके अमत्या तु द्वयं कुर्य्यादिति स्मृतिः
५ अप्रशस्तबुद्धौ च स्त्री न० ब० । ६ ज्ञानहीने त्रि० ।

अमतीवन् त्रि० अमतिरप्रशस्ता बुद्धिः तया वनुते वन--क्विप्

दीर्घः । अप्रशस्तबुद्धियुक्ते । “न मे स्तोताऽमतीवान दुर्हितः
स्यात्” ऋ० ८, १९, २६ । “अमतीवा अप्रशस्तबुद्धिमान्” भा० ।

अमत्र न० अमत्यन्नमत्र अम--भोजने आधारे अत्रन् ।

१ भोजनपात्रे । “अयं सोमश्चमूसुतोऽमत्रे परिषिच्यते”
ऋ० ५, “आसनं वसनं चैव शय्याऽमत्रं कमण्डलुः ।
आत्मनस्तु शुचीनि स्युर्न परेषां कदाचन” स्मृतिः ।
अम--रोगे अत्रन् । २ शत्रूणामभिभावके । “महाँ अमत्रो
वृजने” ऋ० ३, ३६, ४ । “अमत्रः शत्रूणामभिभविता” भा०
अम--गतौ कर्त्तरि अत्रन् । ३ गमनशीले त्रि० । “स्वरि-
रमत्रो ववक्षे रणाय १, ६१, ९ । “अमत्रः युद्धादिषु
गमनकुशलः” भा० ४ बले च “गम्भीरेण न ऊरूणामम-
त्रिन्”! ६, २४, ९ “अमत्रं बलं तद्वन्! भा० ।

अमत्त त्रि० न० त० । १ मत्तभिन्ने मादकद्रव्यादिभिरविकृत

चित्ते २ सावधाने अप्रमत्ते च ।

अमत्सर यु० अभावे न० त० । १ अन्यशुभद्वेषाभावे । न० ब० । २ अन्यद्वेषशून्ये त्रि० ।

अमनस् त्रि० नास्ति कार्य्यक्षमं मनो यस्य । १ कार्य्यक्षममनो

हीने बालादौ “यथा बाला अमनसः प्राणन्तः” छा० उ० ।
२ मनोवृत्तिहीने योगिनि च । सर्ब्बथा मनःशून्ये ३
परात्मनि पु० “अप्राणोह्यमनाः शुभ्रः” श्रुतिः । वा कप् ।
४ अन्यमनस्के ५ स्नेहशून्ये ६ अनिगृहीतमनस्के च ६
योगग्रन्थभेदे पु० ।

अमनि स्त्री अमति गच्छत्यत्र अम--अनि । पथि ।

अमनुष्य पु० अप्राशस्त्ये न० त० । १ मनुष्योचितकर्त्तव्यशून्ये

जातिमात्रमनुष्ये २ मनुष्यभिन्ने गन्धर्व्वादौ च “सहस्रसंवत्सरम-
मनुष्याणामसम्भवात्” कात्या० १, ६, १७ । सहस्रसंवत्सर-
पृष्ठ ०३१९
सत्रम् अमनुष्याणां मनुष्यभिन्नानां गन्धर्व्वादीनां सम्भवात्
सहस्रायुष्यं भवति मनुष्याणां तु तदसम्भवात्” कर्क० ।

अमनोगत त्रि० न मनोगतः । १ अनभिप्रेते २ मनसाऽचि-

न्तिते ।

अमनोनीत त्रि० न मनसा नीतः गृहीतः । १ मनोवृत्त्या अगृहीते २ अनभिप्रेते च

अमनोयोग पु० गनसो योगः विषयेषु सावधानतया संयो-

जनम् अभावे न० त० । अवधानाभावे तत्त्वनिर्णा-
यकमनोवृत्त्यभावे । न० ब० । तच्छून्ये त्रि० ।

अमनोहर त्रि० विरोधे न० त० । रम्यभिन्ने कुत्सिते ।

अमन्तु त्रि० मन्तुर्मन्ता मन--तुन् न० त० । अज्ञातरि

“अकर्मा दस्युरभितो अमन्तुरन्यव्रतः” ऋ० १०, २२, ८
१ मन्तुरपराधः न० व० । २ तच्छून्ये त्रि०

अमन्त्र त्रि० नास्ति मन्त्रः पाठ्यो यत्र कर्मणि । १ मन्त्रशून्ये

कर्म्मादौ “साय त्वन्नस्य सिद्धस्य पत्न्यमन्त्रं बलिं हरेत्”
मनुः नास्ति मन्त्रः मन्त्राध्ययनमस्य । २ वेदपाठशून्ये
“अब्रतानाममन्त्राणां जातिमात्रोपजीविनां नैषाम् प्रतिग्रहो
देयः” “निरिन्द्रियाह्यमन्त्राश्च स्त्रियोऽनृतमितीरिताः”
इति च मनुः । वा कप् । अमन्त्रकोऽप्युभयत्र “अमन्त्रकं
तु शूद्रस्य सर्व्वकर्म्माणि कारयेत्” अमन्त्रकस्य शूद्रस्य
विप्रोमन्त्रेण गृह्यते” इति च स्मृतिः ।

अमन्द त्रि० विरोधे न० त० । १ मन्दभिन्ने पटौ २ उत्कृष्टे च ।

अमम त्रि० नास्ति ममेत्यभिमानः गेहादिषु यस्य ।

गृहपुत्रादिषु ममेत्यभिमानशून्ये “शरणेष्वममश्चैव वृक्षमूल-
निकेतमः” मनुः । २ जिनविशेषे पु० । अममकारादयोऽत्र

अमर पु० मृ--पचाद्यच् न० त० । बहुकालस्थायितया

मृत्युहीने देवे, “तत्रामरालयमरालमरालकेशी” नै०
“मुषाण रत्नानि हरामराङ्गनाः” माघः । त्रीण्युत्तराणि
क्रमशः प्लवङ्गमनरामराः” मनुः अष्टशाब्दिकमध्ये
२ अमरसिंहनामके शाब्दिके, “पाणिन्यमरजैनेन्द्राः
जयन्त्यष्टादिशाब्दिकाः” इति कविक० । स च काण्डत्रययुक्त-
लिङ्गानुशासनकोषकर्त्ता विक्रमादित्यसभासदनवरत्न-
मध्येऽन्यमतमः “धन्वन्तरिः क्षपणकोऽमरसिंहशङ्कुवेताल-
भट्टघटकर्परकालिदासाः । ख्यातोवराहमिहिरोनृपतेः
सभायां रत्नानि वै वररुचिर्नव विक्रमस्य” शङ्कुः सुवाग्
वररुचिर्मणिरंशुदत्तो जिष्णुस्त्रिलोचनहरी घटकर्पराख्यः ।
अन्येऽपि सन्ति कवयोऽमरसिंहपूर्व्वा यस्येह विक्रम-
नृपस्य सभासदोऽमी” इति च ज्योतिर्विदा० । ३ स्नुही-
वृक्षे, स हि छिन्नोऽपि पुनःपुनः प्ररोहति, सहसा
न म्रियते । ४ पारदे तस्य वह्न्यादी बहुतापन-
ऽपि न ध्वंसः । अपादाने वा अप् । तत्रैव तस्य सेवने
हि मृत्यु राहित्यम् रसेश्वरदर्शनशब्दे वक्ष्यते । ५ अस्थि-
समुच्चये च स हि बहुकालं भूमौ स्थितोपि न जीर्य्यति ।
स० ब० ६ मरणशून्येत्रि० । “अजरामरवत् प्राज्ञो विद्या-
मर्थांश्च चिन्तयेत्” हितो० “उत्पादयति सावित्र्या सा
नित्या साऽजराऽमरा” मनुः ज्योतिषोक्ते ७ विवाहयोटकार्थे
नक्षत्रगणभेदे “हस्तास्वातिश्रुतिमृगशिरः पुष्यमैत्राश्वि-
भानि पौष्णादित्ये जगुरिह बुधा देवसंज्ञानि भानि”
कृत्यचिन्ता० अधिकं गणशन्दे दृश्यम् । मरुत्वतीगर्भजाते
८ मरुद्गणभेदे पु० । “मारुत्वती च मरुतो देवानजनयत्
सुतान् अग्निचक्षुर्हविर्ज्योतिः सावित्रं मितमेवं च ।
अमरं शरवृष्टिञ्च सक्षयञ्च महाभुजम्” इत्यादि हरिवं०
९ गुडूच्याम् १० दूर्व्वायां ११ वारुणीवृक्षे १२
महानिलीवृक्षे १३ घृतकुमार्य्याम् १४ स्नुहीवृक्षे च स्त्री ।
एतासां छेदनेऽपि पुनः प्ररूढत्वात् यथायथं दूर्मरत्वाच्च
तथात्वम् । न म्रियतेऽनया करणे अप् । १५ जरायौ
स्त्री । तच्चर्म्मणा वेष्टनेनैव जठरानलदाहनिवारणात्
मरणनिवारकत्वात् तथात्वम् । १६ नाभिनालायाम् राजनि०
१७ स्थूणायां गृहष्वं सनिवारककत्वात्तथा । अमराः सन्त्य-
स्याम् अर्श आ० अच् । १८ इन्द्रपुर्य्याममरावत्यां स्त्री

अमरकोष् पु० अमरेण कृतः कोषः । अमरसिंहकृते

लिङ्गानुशासनाख्ये त्रिकाण्डात्मके अभिधानभेदे ।

अमरज पु० अमरः दुर्मर इव जायते जन--ड । दुष्खदिरे

कालस्कन्दाख्ये खदिरभेदे दुर्मरत्वेन जातत्वात्तथात्वम् ।

अमरदारु पु० न० । अमराणां प्रियं दारु । देवदारुवृक्षे ।

अमरद्विज पु० अमरपूजकः द्विजः शाक० त० । देवले (पूजा

रीति) ख्याते विप्रे ।

अमरपति पु० ६० त० । देवराज इन्द्र अमरभर्त्त्रादयोऽप्यत्रार्थे

अमरपुष्पक पु० अमरमविशीर्णं पुष्पं यस्य । १ कल्पवृक्षे २ इक्षु-

गन्धायां स्त्री । ३ काशतृणे पु० रत्नमा० ।

अमरपुष्पी स्त्री अमरमविशीर्णं पुष्पमस्याः जातित्वात् ङीप् ।

अवाक्पुष्प्याम् । कप् अत इत्त्वम् । अमरपुष्पिकाप्यत्र ।

अमरप्रभु पु० ६ त० । १ विष्णौ तस्य सर्व्वेश्वरत्वात्तथा । २ शक्रे च

अमररत्न न० अमर इव शुद्धं रत्नम् । स्फटिके मणौ ।

अमरराज पु० ६ त० टच् समा० । देवराजे इन्द्रे ।

अमरलोक पु० ६ त० । १ स्वर्गे । अमराणामिव लोको भुवनं

यस्य । २ प्राप्तदेवलोके धार्म्मिके त्रि० । “तेषां सम्यगवर्त्त-
मानो गच्छत्यमरलोकताम्” मनुः ।
पृष्ठ ०३२०

अमरवल्ली स्त्री अमरा उच्छेदनेऽपि न म्रियमाणा वल्ली ।

आकाशवल्ल्याम् (आलकलता) अमरलतादयोऽप्यत्र ।

अमरसरित् स्त्री ६ त० । मन्दाकिन्यां गङ्गायाम् ।

अमराङ्गना स्त्री ६ त० । “अप्सरःसु “मुषाण रत्नानि हराम-

राङ्गनाः” माघः ।

अमराद्रि पु० ६ त० । सुमेरौ । तत्स्थानञ्च । “लङ्का कुमध्ये

यमकोटिरस्याः प्राक्पश्चिमे रोमकपत्तनञ्च । अधस्ततः
सिद्धपुरं सुमेरुः मौम्येऽथ याम्ये बड़वानलश्च । इह हि
मेरुगिरिः किल मध्यगः कनकरत्नमयस्त्रिदशालयः द्रुहि-
णजन्मकुपद्मककर्णिकेति च पुराविद इत्थमवर्णयन्” सि०
शि० । अधिकं मेरुशब्दे भूगोलशब्दे च दृश्यम् ।

अमराधिप पु० ६ त० । देवराजे इन्द्रे अमराधीशादयोऽप्यत्र

अमरापगा स्त्री ६ त० । गङ्गायाम् ।

अमरालय पु० ६ त० । स्वर्गे “तत्रामरालयमरालमरालकेशी” नैष० ।

अमरावती स्त्री अमराविद्यन्तेऽस्यां मतुप् मस्य व दीर्घः ।

इन्द्रनगर्य्याम् । सा च मेरुपर्ब्बतोपरिस्था “सद्रत्नकाञ्चन-
मयं शिखरत्रयञ्च मेरो मुरारिकपुरारिपुराणि तेषु ।
तेषामधः शतमखज्वलनान्तकानां रक्षोऽम्बुपानिलशशीश-
पुराणि चाष्टौ” सि० शि० । एतद्वर्णनं भा० स० प० ७ अध्याये
काशी० ख० १० अध्याये च दृश्यम् । “ससम्भ्रमेन्द्रद्रुत-
पातितार्गला निमीलाताक्षीव भियाऽमरावती” का० प्र० ।

अमरिष्ण त्रि० मृ--बा० इष्णुच् न० त० । मरणशीलभिन्ने

“अनातुरा अजरास्थामरिष्णवः” ऋ० १०, ९४, ११ ।

अमरु पु० अमरुशतकग्रन्थकारके कविभेदे “कविरमरः

कविरमरुः कविश्चैरोमयूरक” इत्युद्भटः ।

अमरेश पु० ६ त० । देवराजे इन्द्रे अमरेश्वरादयोऽप्युक्तार्थे

“अयममरेशदिशोमुखं सुधांशुः” सा० द० ।

अमर्त्त त्रि० मृ--तच् न० त० । मरणधर्म्मशून्ये “नृम्णानि च

नृतमानो अमर्त्तः” ऋ० ५, ३३, ६, “अमर्त्तः अमरणधर्म्मा” भा०

अमर्त्त्य त्रि० मृतिमर्हति यत् न० त० । मरणशून्ये “अग्ने

विवस्वदुपसश्चित्रं राधो अमर्त्त्य!” ऋ० १, ४४, १,
“अमर्त्त्य! मरणरहित!” भा० “उत्क्रान्तवाय्वोःसमकालमेव
अमर्त्यभावेऽपि कयोश्चिदासीत्” रघुः ।

अमर्त्त्यभुवन न० अमर्त्यानां देवानां भुवनम् । स्वर्गो ।

अमर्य्याद त्रि० नास्ति मर्य्यादा सीमा सम्मानो वा यत्र ।

१ सीमारहिते २ सम्मानरहिते च ।

अमर्ष पु० मृप--क्षान्तौ घञ् विरोधे न० त० । क्षसाविरुद्धे

फोपे । “अमर्षशून्येन जनस्य जन्तुना न जातहार्द्देन न
विद्विषादरः” किरा० तानेव सामर्षतया निजघ्नुः” रघुः
हर्षामर्षभयोद्वेगैर्वियुक्तः स च मे प्रियः” गीता ।

अमर्षण त्रि० मृष--ल्यु न० त० । १ असहने २ क्रोधने, च ।

“हृदि क्षतो गोत्रमिदाप्यमर्षणः” रघुः । अमर्षणोऽनय-
स्थायी विशालं कायलक्षणम्” । अमर्षणः स्वयं जेतुमशक्तः
क्षत्रियोरणे भा० आ० प० । भावे ल्युट् । क्रोधे न० ।

अमर्षित त्रि० मृष--क्त इट् गुणश्च न० त० । क्रुद्धे “अस्त्रं

प्रादुश्चकारोग्रं नारायणममर्षितः” भा० आदिप० ।

अमर्षिन् त्रि० मृष--णिनि न० त० । क्रुद्धे स्त्रियां ङीप् ।

अमल न० अम + कलच् । १ सातलावृक्षे २ अभ्रके च नास्तु

मलं यस्य । ३ निर्मले, दोषरहिते त्रि० “रसकलामल-
पल्लवलीलया” माघः “संक्षिप्ताक्षरकोमलामलपदैर्लालित्य-
लीलावतीम्” “अमलकमलराशेस्त्र्यंशपञ्चांशषष्ठैः” लीला०

अमलात्मन् पु० अमलः रागादिदोषरहितत्वात् शुद्ध आत्मा-

अन्तःकरणं यस्य । निवृत्तरागादौ योगिनि ।

अमस पु० अम--गतिरोगादौ असच् । १ काले २ रोगे ३ निर्बोधे च

अमलिन त्रि० विरोधे न० त० । १ मालिन्यशून्ये २ निर्द्दोषे च

कुलममलिनं नत्वेवाहं न च जीवितम्” माल० ।

अमसृण त्रि० विरोधे न० त० । चिक्वणभिन्ने रुक्षे ।

अमा अव्य० न + मा--का । १ सहार्थे, अमेवानः सुहवाः” ऋ०

२, ३६, ३ । “अमा सह भा०” । अमावस्या । २ निकटे च ।
न माति परिच्छिनत्ति क्षयोदयविशेषम् मा--क न० त० ।
सर्व्व कलाव्यापकतया स्थितायां चन्द्रस्य षोड़श्यां ३ कलायाम्
स्त्री “अमा षोड़शभागेन देवि! प्रोक्ता महाकला संस्थिता
परमा माया देहिनां देहधारिणी अमादिपौर्ण्णमास्यन्ताया
एव शशिनः कलाः । तिथयस्ताः समाख्याताः षोड़शैव
वरानने!” इति स्क० प्रभा० ख० । व्याख्यात चैतत्
कालमाधवीये “महामाया आधारशक्तिरूपा देहिनां देहधारिणी
सा चन्द्रमण्डलस्य षोड़शभागेन परिमिता चन्द्रदेहधारिणी
अमानाम्नी महाकलेति प्रोक्ता क्षयोदयरहिता नित्या
तिथिसंज्ञिकैव इतरा अपि पञ्चदश कला दिवसव्यवहा रो
पयोगिन्यः क्षयोदयवत्यः पञ्चदश तिथयो भवन्तीति तिथयः
षोड़शैव एवञ्चात्र सामान्यविशेषरूपेण तिथिद्वैवि ध्यमुक्तं
भवति । तत्र येयम् अमेत्युक्ता क्षयोदयवर्ज्जिता ध्रुवा
षोड़शी कला तद्युक्तः कालस्तिथिसामान्यम् । यास्त्वव-
शिष्टा वृद्धिक्षयोपेताः पञ्चदश कलास्ताभिः विशिष्ट-
कालविभागस्तिथिविशेष” इति । अधिकं तिथिशब्दे वक्ष्यते
पृष्ठ ०३२१
सूर्य्यकिरणासंपर्काददीप्तायां, ४ पञ्चदश्यां कलायाम् न
मीयते दृश्यते विघुरत्र । ५ अमावस्यायां तिथौ च स्त्री ।
“अमार्कपाते श्रवणं यदि स्यात्” “यद्यमा रविवारेण”
इति च प्रा० त० पुरा० । “अमायां तु सदा सोम--ओषधीः
प्रतिपद्यते” इति सोमो० । न मीयतेऽसौ मा--कर्मणि
क्विप् । ६ आत्मनि पु० । ७ मानशून्ये त्रि० । ८ गृहे
अव्य० निरु० । “कामश्चरताममा भूते” ऋ० २, ३८, ६ ।
“अमा गृहमिति” भा० । अम्यते गम्यते चन्द्रलोकात्
अत्र अम--आधारे--घञ् वा ह्रस्वः । ९ इहलोके । “अमा-
तोमरुतोवि आन्तरिक्षादमायुत” ऋ० ५, ५०, ५८ । “अमातः
अस्माल्लोकात्” भा० । तत्र यावत्सम्पातमुषित्वा “क्षोणे
पुण्ये मर्त्यलोकं विशन्तीति” श्रुतौ चन्द्रलोकादेव इह
लोकागमनात्तथात्वम् ।

अमांस त्रि० नास्ति मांसं यस्य । १ दुर्ब्बले । मांसहीनो हि दुर्ब्बलः ।

अमात्य पु० अमा सह वसति त्यक् । मन्त्रिणि । तस्य दण्ड-

नीतौ राजसहचरत्वात्तथात्वम् । “पुरोहितामात्यमुखाश्च
योधाः” भट्टिः । “अमात्यपुत्रैः सवयोभिरन्वितः” रघुः ।
“अमात्ये दण्ड आयत्त” इति मनुः “अमात्यव्यञ्जना राज्ञां
दूष्यास्ते शत्रुसंहिताः” माघः । अमात्यलक्षणमुक्तं
हेमा० विष्णुध० पु० । “सर्व्वलक्षणलक्षण्यो मन्त्री
राज्ञस्तथा भवेत् । ब्राह्मणो वेदतत्त्वज्ञोविनोतः प्रिय-
दर्शनः । छललक्ष्ये महात्मा च स्वामिभक्तः प्रियवदः ।
वृहस्पत्युशनःप्रोक्तां नीतिं जानाति सर्व्वतः ।
रागद्वेषेण यः कार्यं न च हन्ति महीक्षितः । लोकाप-
वादाद्राजार्थे भयं यस्य न विद्यते । क्लेशक्षमस्तु धर्म्मात्मा
विजितात्मा जितेन्द्रियः । गूढ़मन्त्रश्चाऽश्वदक्षः प्राज्ञो
भक्तजनप्रियः । इङ्गिताकारतत्त्वज्ञ ऊहापोहविशा-
रदः । शूरश्व ज्ञातविद्यश्चन मानी न च मत्सरी ।
चारप्रचारकुशलः प्रणिघिप्राण आत्मवान् । षाड़्गुण्य-
विधितत्त्वज्ञ उपायकुशलस्तया । वेत्ता विधाता कार्य्याणां
नैव कार्य्यातिपातनः । समयज्ञश्च कालज्ञो भृत्यानाञ्च
गुणप्रियः । कृतानामकृतानां च कर्मणामन्ववेक्षिता । यथा
पुरुषमर्हाणां पुरुषाणां नियोजकः! कर्त्ता परोक्षे कार्य्याणि
सांपराये भृगूत्तम । तत्त्वातत्त्ववेदिता च कर्मणो गुरुलाघ-
वम् । शत्रुमित्रविभागज्ञो विग्नहे चैव तत्त्ववित् स राज्ञः
सर्व्वकार्य्याणि कुर्याद्भृगुकुलोद्वह! विदितानि तथा कुर्यान्न
ज्ञातानि महीक्षिता अज्ञातानि नरेन्द्रस्य कृत्वा कार्य्याणि
भार्गव! अचिरेणापि विद्वेषं स मन्त्री त्वधिगच्छति । कुरुते
यस्तु कार्य्याणि विदितानि महीपतेः भेदो न तस्य भवति
कदाचिदपि भूभुजा एवंगुणो यस्य भवेत्तु मन्त्री वाक्ये च
तस्याभिरतस्य राज्ञः । राज्यं स्थिरं स्याद्विपुला च
लक्ष्मीर्यशश्च दीप्तं भुवनत्रयेऽपि” इति ।

अमात्र पु० नास्ति मात्रा परिच्छित्तिर्यस्य । १ इयत्ताशून्ये

परमात्मनि तुरीये ब्रह्मणि । वृहत्परिमाणकल्पनेन २
परिच्छेदशून्ये गगनादौ च त्रिं० । अमात्रं त्वा धिषणं तविषे
ऋ० १, १०२, ७, “अमात्रं मात्रया इयत्तया रहितम्” भा० ।

अमानना स्त्री अभावे न० त० । आदराभावे न० ब० ।

आदरशून्ये त्रि० ।

अमानस्य न० मानसे साधु न भवति मानस + यत् न० त० । मनः कष्टदायके दुःखे ।

अमा (म)मासी स्त्री अमा सह सूर्य्येण माः मासो वा चन्द्रमा

यस्यां गौरा० ङीष् । अमावस्यायाम् ।

अमाय त्रि० नास्ति माया यस्य । १ कषटशून्ये २ अयविद्याशून्ये

ब्रह्मणि न० । मायोमानम् । ३ इयत्ताशून्ये त्रि० ।

अमानिन् त्रि० न मन्यतेऽमिमन्यते मन--णिनि न० त० ।

अभिमानशून्ये “अमानित्वमदम्भित्वम्” गीता ।

अमार्जित त्रि० मृज--क्त विरोधे न० त० । अपरिष्कृते ।

अमा (वा)वसी स्त्री अमा सह वसतश्चन्द्रार्कौ यस्याम् अप्

वञ् वा नि० गौरा० ङीष् । अमावास्यायाम् ।

अमाव(वा)स्या अमा सह वसतश्चर्न्द्रार्कौ यस्याम् नि० । कृष्ण-

पक्षीयपञ्चदशीतिथौ । तथा हि अधः प्रदेशवर्त्ती
शीघ्रगामी चन्द्रः, ऊर्द्ध्वप्रदेशवर्त्ती मन्दगामी सूर्य्यः ।
तयोर्गतिविशेषात् यत्काले चन्द्रमण्डलमन्यूनमनति-
रिक्तं सत् सूर्य्यमण्डलस्याधोभागे व्यवस्थितम् भवति
तदा सूर्य्यरश्मिभिः साकल्येनाभिभूतत्वात् चन्द्रमण्डलमी-
षदपि न दृश्यते इति कृष्णपक्षे पञ्चदशकलाक्रियाकूटो-
पलक्षितःकालः अमावस्येति निष्कर्षः । “सूर्य्याचन्द्रमसोः
यः परो विप्रकर्षः सा पौर्णमासी र्यः परःसन्निकर्षः
साऽमावस्येति” गोभि० “अमावस्या गुरुं हन्ति शिष्यं
हन्ति चतुर्दशी” मनुः । अमावास्यायांभवः वा क्वुन्
अमावास्यकः अण् आमावस्यः । तत्रभवे त्रि० । “य आगारे
मृगयन्ते प्रतिक्रोशेऽमावास्ये” अथ० ३६, ३

अमावसु पु० आयुपुत्रे ऋषिभेदे “अमावसुमिति ख्यात-

मायोः पुत्रं यशस्विगम्” ह० बं० ।

अमित त्रि० न मितः । १ अपरिच्छिन्ने इयत्ताशून्ये “अमितस्य

हि दातारं भर्त्तारं का न पूजयेत्”? रामा० । २ अज्ञाते च ।
पृष्ठ ०३२२

अमितविक्रम पु० अमिता अपरिच्छिन्ना विक्रमास्त्रयः पाद-

विक्षेपा अस्य, अमितः विक्रमः शौर्य्यमस्येति वा १ विष्णौ ।
“मुकुन्दोऽमितविक्रमः” वि० स० । बहुशौर्य्ये त्रि० ।

अमिताशन पु० अमितमश्नाति संहारममये अश--ल्यु । सर्व-

भक्षके परमेश्वरे । “यस्य ब्रह्म च क्षत्रञ्च उभे भवत ओदने
मृतृर्यस्योपसेचनम्” इति श्रुतेः “अत्ता चराचरग्रह-
णात्” इति शा० सूत्राच्च तस्य सर्वभक्षकत्वम् । २ विष्णौ च
“वेगवानमिताशनः” विष्णुस० ।

अमितौजस् त्रि० अमितमोजो यस्य । अपरिच्छिन्न सामर्थ्ये

प्रचुरबले । “कविरमितौजा अजायत” ऋ० १, ११, ४ ।
“स तैः पृष्टस्तया सम्यगमितौजा महात्मभिः” मनुः ।

अमित्र अम० रोगे इत्र । रिपौ । “स्याताममित्रौ मित्रे च

सहजप्राकृतावपि” तस्य मित्राण्यमित्रामित्रास्ते” इति च
माघः “अमित्रजिन्मित्रजिदोजसा स यदिति” नैष०
“अमित्रादपि सद्वृत्तममेध्यादपि काञ्चनम्” मनुः ।

अमित्रस (सा)ह त्रि० अमित्रं सहते बलाधिक्यात् अच् अण्

वा । रिपुजयशीले बलिनि “शासैत्था महाँ अस्यमित्र
साहः” । अथ० १, २०, ४ ।

अमिथ्या अव्य० विरोधे न० त० । मिथ्याभिन्ने सत्ये “तामूचतुस्ते प्रियमप्यमिथ्या” रघुः ।

अमिन् त्रि० चु० अम--रोगे ह्रस्वः इनि । रोगिणि ।

अमिन त्रि० मि--क्षेपे बा० कर्मणि नङ् न० त० । अक्षेप-

णीये अहिंस्ये “उत द्विवर्हा अमिनः सहोभिः” ऋ० ६,
१९, १ । “अमिनः अहिंसनीयः” भा० ।

अमिश्र त्रि० न० त० । संकीर्णभिन्ने पृथग्भूते । “तद्वा

अमिश्रमेव वसूनां प्रातः सवनम्” शत० ब्रा० ।

अमिश्रित त्रि० न० त० । मिश्रितभिन्ने पृथग्भूते ।

अमिष न० अम--भोगे कर्मणि इषन् । १ लौकिकसुखे नास्ति

मिषश्छलं यत्र । २ व्याजशून्ये त्रि० ।

अमीत त्रि० मी--बधे कर्मणि क्त न० त० । अहिंसिते । “अमो

तवर्णा उषसश्चरन्ति” ऋ० ४, ५१, ९, “अमीतवर्णा अहिं-
सितवर्णाः” भा० ।

अमीव त्रि० अम--वन् नि० ईड़ागमः । १ रोगे “सनेम्यस्मद्यु

यवन्नमीवाः य०” ९, १६ । अमीवाः व्याधीन् सुपांसुः
वे० दी० । “अपामीवं बाधते वेति” ऋ० १, ३५, ९
“अमीवां रोगादिबाधाम्” भा० “प्रजावन्तोऽनमीवा
अनागमः” ऋ० १०, २७, ७ “अनमीवा रोगरहिताः” भा० ।
“अमोवहा वास्तोष्पते”! ऋ० ७, ५५, १ “अमीवं रोगं
हन्ति अमीवानां रोगाणां नाशयिता” भा० । २ पापे,
३ दुःखे, च न० । उज्ज्वलदत्तस्तु मीञ् हिंसायां
वन् मीवः उदरक्रमिरित्येवनिपातः न तु अमीवः इत्याह ।

अमीवचातन त्रि० अमीवं रोगं चातयति चत--याचने

णिच्--ल्यु । रोगहिंसके “देवममीवचातनम्” ऋ० १, १२, ७
अमीवानां हिंसकानां शत्रूणां रोगाणां वा चातनं
घातकम्” भा० स्त्रियां गौ० ङीष् । आप इद्ध उ भेषजीरापो
अमीवचातनीः” ऋ० १०, १३७, ६ ।

अमुक त्रि० अदस् + टेरकच् उत्त्वमत्वे । अदःशब्दार्थे

“अत्राहममुकः साक्षी” “समाप्तेऽर्थे ऋणी नाम स्वहस्तेन
निवेशयेत् मतं मेऽमुकपुत्रस्थ यदत्रोपरि लेखितम्” च या०

अमुक्त त्रि० न मुक्तः विरोधे न० त० । मुक्तभिन्ने १ बद्धे “सदा

प्रहृष्टया भाव्यं व्यये चामुक्तहस्तया” मनुः । २ ससंसारबन्ध-
युक्ते च न मुच्यते सर्व्वदा योधैः । हातछुरी) । ३ छुरिकाभेदे न०

अमुक्ति स्त्री अभावे न० त० । १ मुक्त्यभावे मुक्तिर्मोचनं रज्ज्वा-

दिबन्धननिवृत्तिः संसारबन्ध्निवृत्तिरूपोमोक्षश्च । न० ब०
२ मुक्तिशून्ये त्रि० ।

अमुख्य त्रि० मुख्यम् विरोधे न० त० । मुख्यभिन्ने प्रधानभिन्ने गौणे ।

अमुग्ध त्रि० न मुग्धः १ मुग्धभिन्ने । मुग्धः मोहान्वितः

मनोहरश्च । २ मुग्धावस्थातीतप्रौढायां स्त्रियां स्त्री ।

अमुतस् अव्य० अमुष्मात् अदस + तसिल् उत्त्वभत्वे । १ अमुष्मा

दित्यर्थे २ परलोकादित्यर्थे च “इतआजातोऽमुतः
कुतश्चित् ऋ० १, १७९ ४ ।

अमुत्र अव्य० अमुष्मिन् अदस् त्रल् उत्त्वमत्त्वे । १ अमुष्मि-

न्नित्यर्थे २ परलोके इत्यर्थे च “यत्तु बाणिजके दत्तं नेह
नामुत्र तद्भवेत्” मनुः ।

अमुत्रभूय न० अमुत्र भवनम् भू--भावे क्यप् । परलोकभवने “अमुत्रभूयादध यद्यमस्य” श्रुतिः ।

अमुथा अव्य० अमुना प्रकारेण थाल् । अमुनाप्रकारेणेत्यर्थे “इत्थं

नः सद्योऽमुथासद्योः न एतदतिक्रामादिति” शत० व्रा० ।

अमुद्र्यञ्च्(च्) त्रि० अमुमञ्चति अदस + अन्च क्विप् अद्र्या

गमः उत्त्वमत्वे । १ अदः शब्दार्थप्राप्ते २ तत्पूजके च ।
शसादौ अमुद्रीचः । पूजार्थे अमुद्र्यञ्चः । स्त्रियां ङीप् ।

अमुमुयञ्च्(च्) त्रि० अमुमञ्चति अदस् अन्च--क्विप् गतौ न

लोपः अद्र्यादेशः अद्रेरपि उत्त्वमत्वे । १ अदः शब्दार्थं गते
तत्पूजके च शसादौ अमुमु ईचः अमुमुञ्चः स्त्रियां ङीप् ।

अमु(दो)वत् अव्य० अमुष्येव वति वेदे उत्त्वमत्वे । अमुष्ये-

वेत्यर्थे “मनुष्वद्भरतवदमुवदिति यजमानार्थे यान्याह”
कात्या० ३, २, ७ ।

अमुष्यकुल न० ६ त० नि० अलुक् । प्रसिद्धकुले । मनोज्ञा०

वुञ् आमुष्यकुलकम् तद्भावे कौलीन्ये न० ।
पृष्ठ ०३२३

अमुष्यपुव पु० ६ त० नि० अलुक् । प्रख्यातवंशे कुलीने तस्य

भावः मनोज्ञा० वुञ् आमुष्यकम् । कौलीन्ये न० ।

अ(आ)मुष्यायण पु० अमुष्य अपत्यम् फ (फञ्) अलुक् ।

विख्यातकुलोत्पन्ने अपत्ये अमुष्यापत्ये च ।

अमूदृक्ष त्रि० अमुष्येव दर्शनमस्य अदस् + दृश--क्स आति

ऊत्त्वमत्वे । अदःशब्दार्थसदृशे । कञ् । अमूदृशः क्विन्
अमूदृक् कुत्वम् । उक्तार्थे । कञ् प्रत्यये स्त्रियां ङीप्
“अमूदृशी तत्कविवृन्दवन्दिता” नै० ।

अमूर स्त्री अमूः मूच्छाभावः कुञ्जा० अस्त्यर्थेर० ।

मूढभिन्ने मोहशून्ये “संजानत स्वैर्दक्षैरमूराः” ऋ० १
६८ ‘४, “यास्कस्तु मूढा वयं स्मोऽमूढस्त्वमसि इति”
मूढशब्दस्य रूपमाह तत्र पृ० साधुत्वम् ।

अमूर्त्त त्रि० न० त० । मूर्त्तभिन्ने अवयवशून्ये अपरिच्छिन्नपरि

माणे “क्षितिर्ज्जलं तथा तेजः पवनोमन एव च । परापर
त्वमूर्त्तत्वक्रियावेगाश्रया अमो” भाषा० “मूर्त्तत्वमवच्छि-
परिमाणवत्त्वमिति” सि० मुक्ता० तड्वीने गगनादौ । “द्वे
वाव ब्रह्मणो रूपे मूर्त्तञ्चामूर्त्तमेव च” शत० ब्रा० ।

अमूर्त्तगुण पु० ६ त० । वैशेषिकोक्ते अमूर्त्ताकाशादेर्गुणवि-

शेषे “धर्म्माधर्म्मौ भावना च शब्दोबुद्ध्यादयोऽपि च
एतेऽमूर्त्तगुणाः सर्व्वे” भाषा० ।

अमूर्त्ति त्रि० नास्ति मूर्त्तिरस्य । १ अवयवशून्ये गगनादौ

२ विष्णौ पु० “अमूर्त्तिरनघोऽचिन्त्यः” विष्णुस० “मूर्त्ति-
र्घनरूपं धारणसमर्थं चराचरलक्षणं तन्नास्ति यस्य” भा० ।

अमूर्त्तिमत् त्रि० न० त० । १ मूर्त्तिमद्भिन्ने गगनादौ २ विष्णौ

पु० “दीप्तमूर्त्तिरमूर्त्तिमान्” वि० स० ।

अमूल त्रि० नास्ति मूलं यस्य । १ आदिकारणशून्ये “मूलं

मूलाभावादमूलम्” सा० सू० । “त्रयोविंशतत्त्वानां
मूलमुपादानं प्रधानं अमूलं मूलशून्यं अनवस्थापत्त्या तत्र
मूलान्तरासम्भवात्” प्र० भ० । “इयं वा इदं जीवनं
“मूलि चैवामूलञ्च तदुभयं देवानां यन्मनुष्याः उपजीवन्ति
पशवोऽमूलाः ओषघयोमूलिन्यः” शत० ब्रा० । मूलि
च अमूलञ्चान्नाद्य प्रतिष्ठितम्” शत० ब्रा० । २
मूलवृक्षादिशिफा तच्छून्ये त्रि० मूलान्नञ” । पा० अजादि
टाप् । सा च ३ अग्निशिस्वावृक्षे । कप् । अमूलको-
ऽत्युक्तार्थे मूलग्रन्थेषु--अदृष्टे च “एतद्वचनममूलकम्”
भूरिलोकप्रसिद्धिः ।

अमृक्त त्रि० मृज--शोधालङ्कारयोः वेदे न षत्वम् न० त० ।

१ अशोधिते अनिर्णिक्ते “अमृक्तेन ऋशता वाससा” भ०
ऋ० ९, ६९, ५ लोके तु अमृष्टः । तत्रार्थे धातूनाम-
नेकर्थत्वात् २ अहिंसिते । “रथोवाजा ऋभुक्षणो
अमृक्तः” ऋ० ७, ३७, १ । “अमृक्तः अहिंसितः” भा० ।

अमृणाल स० सादृश्ये न० त० । मृणालसदृशे वीरणमूले ।

अमृत त्रि० न मृतः । १ मरणशून्ये जीविते “अमृते जारजः

कुण्डः” अमरः “अपाम सोमममृता अभूम” इति श्रुतिः
मरणञ्चात्र “आभूतसंप्लवस्थानममृतत्वं हि भाष्यते इति”
विष्णु पु० उक्तम् महाकल्पावस्थायित्वं, देवानामपि तथैवा-
मृतत्वम् “कार्य्यात्यये तदध्यक्षेण सहातः परमाम्नायात्”
शा० सू० कार्य्यब्रह्मणा सह सर्व्वेषां लयाभिधानात् । न
मृतं मरणं यस्मात् । २ पीयूषे तत्सेवने हि अमृतत्वं
भारतादौ प्रसिद्धम् । तच्च प्रथमं पृथूपदिष्टैर्दैर्वरिन्द्रं वत्सं
कृत्वा गोरूपधरायाः पृथ्वा दुग्धम् पश्चाच्च दुर्वासः-
शापात् समुद्रमध्यं गतम् ततो देवासुरैः समुद्रे मथिते
पुनरुत्पन्नमिति पौराणिकी कथानुसन्धेया “देवासुरैरमृत-
मस्वुनिधिर्ममन्ते” किरा० न वै देवा अश्नन्ति पिबन्ति
एतदेवामृतं दृष्ट्वा तृप्यन्ति” चा० उ० । “अमृतदीधितिरेष
विदर्भजे । भजसि तापमनुष्यकिमंशुभिः । यदि भवन्ति
मृताः सखि! चन्द्रिकाः इति” नैषधम् । ३ जले तस्य
प्राणहेतुत्वात् अमृतत्वम् । “अन्नमयं हि सौम्य! मन
आपोमयः प्राणः” इत्युपक्रम्य षोड़शकलः सौम्य!
पुरुषः पञ्चदशाहानि माशीः काममपः पिबापोमयः
प्राणो न पिबतो विच्छेत्स्यते” छा० उ० । जलपानाभावे
प्राणविच्छेदौक्तेः तत्पाने च प्राणवृद्धेः जलस्य मरणाहेतु-
त्वम् । “अमृतोपस्तरणमसि स्वाहा” “अमृतापिधानमसि
स्वाहेति” आपोशनमन्त्रः । ४ घृते तस्य, “आयुर्वै घृत”
मित्युक्तेरायुर्जनकत्वात् मरणाहेतुत्वात्तथात्वम् । “अमृतं
नाम यत् सन्तोमन्त्रजिह्वेषु जुह्वति । शोभैव मन्दरक्षु-
व्धक्षुभिताम्भोधिवर्णना” माघः । ५ पारदे तस्य च
रसायनादिना पाने “अभ्रकस्तव वीजन्तु मम वोजन्तु पारदः
अनयोर्मेलनं देवि! मृत्युदारिद्र्यनाशनम्” इत्युक्तेः
बहुकालजीवनहेतुत्वात् तथात्वम् रसेश्वरनर्शने विवरणम् ।
६ यज्ञशिष्टे द्रव्ये “यज्ञशेषोऽमृतं स्मृत” मित्युक्तेस्तथात्वम् ।
७ अयाचिते वस्तुनि “मृतं स्वाद्याचितं भैक्ष्यममृतं स्याद्-
दयाचितम्” मनूक्तेस्तस्य मरणरूपापमानहेतुयाचनशून्य-
त्वात् तथात्वम् । “ऋतामृताभ्यां जीवेत” मनुः । ८ दुग्धे
तस्य देहधारकत्वेन मरणाहेतुत्वात् तथात्वम् । ९ अन्ने “अन्न-
मूलं हि जीवन” मित्युक्तेस्तथात्वम् । न म्रियते क्षीयते । १० स्वर्णे ।
पृष्ठ ०३२४
“अग्नौ सुवर्णमक्षीणमिति” या० उक्तेस्तस्य वह्नौ
बहुतापनेऽपि अक्षीणत्वात्तथात्वम् अतएव तस्य तैजसत्वं
“स्वर्णं तैजसमत्यन्तानलसन्तापेऽपि अनाश्यत्वादित्यनुमानेन”
सि० मु० साधितम् । एवदभिप्रायेणैव “अमृतं वै हिरण्य-
मित्युक्तमा शत० ब्रा० । ११ भक्षणीयद्रव्यमात्रे, तस्यान्नवत्तथा-
त्वम् १२ स्वादुद्रव्ये अमृततुल्यस्वादवत्त्वात् । १३ तत्साधने
द्रव्येत्रि० “आदित्योवै देवमधु” इत्यादि मधुविद्यायाम् “ता
एवास्यामृतामधुनाड्यः” छा० उ० पञ्चकृत्वः पाठः । १४ हृद्ये अमृत-
वदाह्लादकत्वात् तथात्वम् १५ विषे १६ वत्सनाभे विषे
तयोः वैद्यकोक्तदिशा शोधने अमरणहेतुत्वात्तथा । अतएव
“विषमष्यमृतं क्वचिद्भवेदिति” रघुः १७ मोक्षे “बिद्यया-
मृतमश्नुते” इति श्रुतिः क्षयशून्यत्वात्तथा “अमृत-
स्यैष सेतुरिति” श्रुतिः “स श्रिये चामृताय च”
अमरः । १८ अमृततुल्ये आनन्दकरत्वात्तथा । “अमृतं
वालभाषितमिति” हितो० । “आप्यायितोऽसौ
वचनामृतेन उद्भटः” । अमृतमस्त्यस्य स्वामित्वेन भक्षक-
त्वेन वा अर्श० अच् । १९ धन्वन्तरौ सहि समुद्रमथा
नसमये अमृतं बिभ्रदुत्थितः इति पुराणे प्रसिद्धम् ।
२० देवे तद्भक्षत्वेन तथात्वम् । देवानाञ्चामृतदर्शनेनैव तृप्त-
त्वम् “न वै देवा अश्नन्ति पिबन्ति एतर्देवामृतं दृष्ट्वा तृप्य-
न्तोति” छा० उ० उक्तेः “रथेनामृतं मर्त्त्यञ्च” य० ३३, ४०
अमृतं देवादिकमिति” वे० दी० । न स्रियते स्म कर्त्तरि क्त ।
२१ वाराहीकन्देषु तस्य बहुच्छेदनेऽपि पुनःप्ररूढ़त्वात्तथा
२२ वनमुद्गे च तस्य ओषधितया फलपाकान्तत्वेऽपि छिन्न-
प्ररूढ़त्वात्तथात्वम् । २३ शुडूच्याम् । २४ इन्द्रवारुण्यां
२५ ज्योतिष्मन्याम् २६ गोरक्षदुग्धायाम् २७ अतिविषायां
२८ रक्तत्रिवृति २९ दूर्व्वायाम् ३० आमलक्यां ३१
हरीतक्यां ३२ तुलस्यां ३३ पिप्पल्यां ३४ स्थूलमांस-
हरीतक्याञ्च स्त्री । एतासां यथायथं रोगनिवारकत्वेन
तथात्वम् । अमृतेन सहोत्पन्नत्वात् अमृततुल्यास्वादव-
त्त्वाच्च ३५ सुरायां स्त्री । ३६ सूर्य्यरश्मिभेदे स्त्री “तासां
शतामि चत्वारि रश्मीनां वृष्टिसर्ज्जने । शतत्रयं
हिमोत्सर्गे तावद्गर्भस्य सर्ज्जने । आनन्दाश्च हि मेघाश्च
भूतनाः पृतना इति । चतुःशतं वृष्टिवाहाः सर्व्वास्ता
अमृता स्त्रियः” मल्लि० यादवः । तासाञ्चामृतस्य जलस्य
दायित्वात्तथा । “सौरीभिरिव नाड़ीभिरमृताख्याभिर-
म्मयः” रघुः । ३७ मरणशूग्ये विष्णौ पु० “अमृतः शाश्वतः
स्थाणुः” वि० स० । नास्ति मृतं मरणं यस्मात् ।
३८ अजरमरत्वप्रदे त्रि० । “इन्द्रियस्येन्द्रियमिदं पयोऽ-
मृतं मधु” यजु० १९, ७२, ७३, ७४, ७५ । “अमृतमजरा
मृत्युप्रदत्वात् आनन्दकरम् अमृततुल्यम् वे० दी० “नन्दा
भौमार्कयोर्भद्रा शुक्रेन्द्वोश्च जया बुधे । शुभयोगा गुरौ
रिक्ता पूर्ण्णा मन्देऽमृताह्वया । “आदित्यभौमयोर्नन्दा
भद्रा शुक्रशशाङ्कयोः जया ज्ञोस्याद् गुरौ रिक्ता पूर्णार्के
चामृता शुभेति” इति ज्योतिषोक्ते ३९ तिथिवार-
योगरूपे योगभेदे “ध्रुवगुरुकरमूला पौष्णभान्यर्कशारे
हरियुगविधियुग्मे फल्गुनीभाद्रयुग्मे । दिवसकरतुरङ्गौ
शर्वरीनाथवारे । गुरुयुमनलवातोपान्त्यपौष्णानि कौजे ।
दहनविधिशताख्यामैत्रभं सौम्यवारे । मरुददितिभपुष्या
मैत्रभं जीववारे । भगयुगजयुगश्वोविष्णुमैत्रे सिताहे ।
श्वसनकमलयोनी सौरिवारेऽमृतानि” राज मा० उक्ते
आदित्यहस्ता गुरुपुष्ययुक्ता बुधानुराधा शनिरोहिणी च ।
सोमे च विष्णुः कुजरेवती च शुक्राश्विनी चामृतयोगवर्गाः ।
उक्ते च ४० वारनक्षत्रयोगजे योगभेदे “यदि विष्टिव्यती-
पातौ दिनंवाप्यशुभं भवेत् । हन्यतेऽमृतयोगेन भास्क-
रेण तमो यथा” ज्योति० । ४१ ब्रह्मणि न० ।

अमृतगति स्त्री यदि दशमं गुरु विहितं विशिखमितं सुक

विहितम् । अमृतगतिः फणिकथिता दलयतिका नृप!
कथिता” इत्युक्तलक्षण छन्दोभेदे ।

अमृतगभ पु० अमृतं ब्रह्म गर्भेऽभ्यन्तरे यस्य । १ जोवे तस्य

ब्रह्मात्मकत्वात् ब्रह्मणा चान्तर्यामितया तदन्तःस्थितत्वात्
तथात्वम् । “यो न जीवोऽसि न मृतो देवानाममृतगर्भोऽसि
स्वप्न” अथ० ६, ४६, १ “स्वप्स्यन् स्वेन तदा सपन्नो
भवतीति” श्रुतेः सुषुप्त्यवस्थायां सकलानर्थानवभासनेन
तच्छून्यतया जीवस्य ब्रह्मरूपापत्त्या तथात्वम् अधिकं
सुषुप्तिशब्दे दृश्यम् अमृतस्य मोक्षस्य गभे आधारः । २ ब्रैह्मणि

अमृतजटा स्त्री अमृतमिव स्वादुर्जटा यस्याः । जटामांस्याम्

अमृततत्व न० अमृतस्यामरणस्य भावः त्व । १ मोक्षे । “त्यागे

नैके अमृतत्वमानशुः” श्रुतिः “कश्चिद्धीरः प्रत्यगात्मानमैक्षदा-
वृत्तचक्षुरमृतत्वमिच्छन्” क० उ० । “अमृतत्वममरणधर्म्मत्वम्
भा० “अहिंसया च भूतानाममृतत्वाय कल्पते” इति मनुः
“आभूतसंप्लवस्थानममृतत्वं हि भाष्यते” इति विष्णु० पु०
उक्ते २ महाकल्पावस्थायित्वे च ।

अमृततरङ्गिणी स्त्री अमृतस्य सुधाया तुषारस्य तरङ्गिणी

नदीव । ज्योत्स्नायाम् राज० नि० ।
पृष्ठ ०३२५

अमृततिलका स्त्री नगणपयोधररुचिरा कुसुमविराजितसु-

कुरा । वसुलघुदीर्घयुगलका भवति सखेऽमृततिलका इत्युक्त-
लक्षणे दशाक्षरपादके वर्णवृत्तभेदे “त्वरितगतिश्च
नजनगैरित्युक्तत्वरितगतिलक्षणाक्रान्तत्वात् तस्या एव नामान्तरम् ।

अमृतदीधिति पु० अमृतमिबाप्यायिका दीधितिरस्य । चन्द्रे

“अमृतदीधितिरेष विदर्मजे भजसि तापममुष्य” नै० ।

अमृतद्युति पु० अमृतमिवाप्याधिका द्युतिरस्य । चन्द्रे ।

अमृतधारा स्त्री अमृतस्य धारा सन्ततिः । अमृतसन्ततौ ।

“चरमचरणलयमवसितिगुरुयुग्मम् । अखिलमपरमुपरि-
गतमिति ललितपदयुक्ता तदियसमृतधारा” वृ० र० उक्ते-
१ पदचतुरूर्द्धपदके २ छन्दोभेदे । उपरिगतम् “मुखपादोऽष्ट-
भिर्वर्णैः परेऽस्मान्मकरालयैः क्रमाद्वृद्धा” इत्याद्युक्तलक्षणम्
६ त० । २ सुधासन्ततौ च ।

अमृतनाद पु० उपनिषद्भेदे सा च कृष्णयजुर्वेदान्तर्गता उपनिषच्छब्दे विवरणम् ।

अमृतनालिका स्त्री अमृतस्य स्वादुरसस्य नालीव । कर्पूर-

नालिकाभेदे पक्वान्नभेदे शब्द० र० ।

अमृतप पु० अमृतं पाति रक्षति असुरेभ्यः पा--रक्षणे क ।

१ विष्णौ सहि अमृतमन्थनसमये असुरैर्ह्रियमाणममृतं
मोहिनीरूपं विधाय तान् वञ्चयित्वा देवेभ्योदानात् तत्
पालकः इति भागवती कथा । “सोमपोऽमृतपः सोम” इति
वि० स० । अमृतं पिबति पा पाने क । २ देवे तद्दर्शनेन
तृप्तत्वात्तत्पायित्वम् अमृतशब्दे दृश्यम् । ३ अमृततुल्यम-
ध्वादिपातरि त्रि० । “ध्रुवममृतपनामवाञ्छयासावधरमसुं
मधुपस्तवाजिहीते” माघः ।

अमृतपक्ष पु० अमृतस्य हिरण्यस्य पक्षः क्षयाकारित्वात् ।

१ वह्नौ “अग्नौ सुवर्ण्णमक्षीणम्” या० उक्तेः सर्व्वदाहक-
स्यापि वह्ने र्न सुवर्ण्णनाशकत्वमित्यतस्तस्य स्वर्ण्णपक्षत्वम् ।
“तस्येतावमृतपक्षौ यावेतावभितोऽग्नी” इति शत० ब्रा०
अमतं स्वर्ण्णमिव पीतौ पक्षावस्य । १ स्वर्ण्णवर्ण्णपक्षे श्येनभेदे
“हिरण्यपक्षः शकुनोभुरण्युममृतं वै हिरण्यमृतपक्षः
शकुनः” शत० ब्रा० ।

अमृतफल न० अमृतमिव स्वादु फलम् । (नासपातीति)

१ यवनप्रसिद्धे रुचिफले “अमृतफलं लघु वृष्यं सुस्वादु त्री-
न्हरेद्दोषान् । देशेषु मुद्गलानां बहुलं तल्लभ्यते लैकैः
भा० प्र० । ६० ब० । २ आमलक्याम् ३ द्राक्षायाञ्च स्त्री
४ पटोले ५ पारावतवृक्षे च पु० ।

अमृतबन्धु पु० अमृतस्य बन्धुः एकस्थानोत्पत्तिकत्वात्

सहोदरः । १ चन्द्रे तस्य अमृतमन्थनसमये समुद्रात् उत्पन्नत्वात्
तथात्वम् । “ततः शतसहस्रांशुर्मथ्यमानात्तु सागरात्
अमृतात्मा समुत्पन्नः सोमः शीतांशुरूज्ज्वन” इति भा० आ०
प० । अमृतस्य बन्धुरिव ग्राहकत्वात् । २ देवमात्रे “तं देवा
अन्वजानन्त भद्रा अमृतबन्धवः” ऋ० १०, ७२, ५, ।

अमृतभल्लातकी स्त्री “सुपक्वभल्लातफलानि सम्यक् द्विघा विदा

र्य्याढकसम्मितानि । विपाच्य तोयेन चतुर्गुणेन चतुर्थशेषेव्य-
पनीय तेन ॥ पुनः पचेत् क्षीरचतुर्गुणेन घृतांशयुक्तेन घनं
यथा स्यात् । सितोपलाः षोडशभिः पलैस्तु विमिश्रा
संस्थाप्य दिनामि सप्त ॥ ततः प्रयोज्याग्निबलेन मात्रां
जयेद् गुदोत्थानस्विलान् विकारान् । कचान् सुनीलान्
घनकुञ्चिताग्रान् सुवर्ण्णदृष्टिं सुकुमारताञ्च ॥ जवं हयानाञ्च
मतङ्गजं बलं, स्वरं मयूरस्य हुताशदीप्तिम् । स्त्रीवल्लभत्व
लभते प्रजाञ्च नीरोगमब्दद्विशतानि चायुः ॥ न चान्नपाने
परिहार्य्यमस्ति न चातपे चाध्वनि मैथुने च । प्रयोगकाले
सकलाभयानां राजा ह्ययं सर्व्वरसायनानाम् ॥ भल्लताकी
शुद्धिरिह प्रागिष्टा चूर्ण्णगुण्डनात् । घृताच्चतुर्गुणं क्षीरं
घृतस्य प्रस्थ इष्यते” चक्रदत्तोक्ते घृतभेदे ।

अमृतभुज् पु० अमृतं भुङ्क्ते दृष्ट्वा भोगतुल्यं तृप्तिमश्नुते

भुजक्विप् ६ त० । देवे “न वै देवा अश्नन्ति पिबन्ति एतदेवामृतं
दृष्ट्वा तृप्यन्तीति” छा० उ० उक्तेः दर्शनमात्रेण भोजनतृप्ति-
मत्त्वात्तथात्वम् । अमृतम् अयाचितं यज्ञशिष्टान्नं वा भुङ्क्ते ।
२ यज्ञशिष्टान्नभोक्तरि ३ अयाचितान्नभोक्तरि च त्रि० ।

अमृतयोग पु० अमृताख्योयोगः । ज्योतिषोक्ते । तिथि-

वारादियोगभेदे स चामृतशब्दे उक्तः ।

अमृतरस पु० अमृतं रस इव आस्वाद्यम् । १ अमृतरूपे

आस्वाद्ये “विम्लानोन विमर्द्दनेऽमृतरसप्रस्यन्दमाध्वीकभूः”
कुमा० । अमृतस्य रसः सारः । २ सुधारसे “सिक्ता इवामृ-
तरसेन मुहुर्जनानाम्” माघः । अमृतं मोक्षः रस इव यस्य ।
३ परमात्मनि “स एष सैन्धवघनोऽमृतरस इति” श्रुतिः
अमृतस्येव रस आस्वादोऽस्याः । ४ कपिलाद्राक्षायां
(अन्दरसा) प्रसिद्धे ५ पक्वान्नभेदे च स्त्री । सा च
“तृतीयभागखंण्डेन मिश्रितं षष्ठिपिष्टकम् । शुभ्रमीषद्दधि-
युतं मर्द्दयेद्दृढ़पाणिना । एवं समुद्धितं कृत्वा स्थापयेद्र-
जनीमितम् । ततोऽन्यम्मिन्नहनि तु चित्रितं निस्त्वचैन्तिलैः
विधाय पूपकं तेन तम्बिकायां घृते पचेत् । ततोऽमतरसा
जाता वातह्रद्बलवर्द्धिनी” इति भा० प्र० उक्ता ।

अमृतलता स्त्री अमृतालता । १ गुड़ूच्याम्” (अमरलता)

इति २ ख्यातायां लतायाञ्च ।
पृष्ठ ०३२६

अमृतवपुस् अमृतेनाप्यायितं वपुरस्य । १ चन्द्रे स हि कृष्ण-

पक्षे वह्न्यादिभिः कलानामेकैकशः भक्षणेऽपि पुनः यज्ञशि-
ष्टरूपामृतेनाप्याय्यते । यथोक्तं कालमाधषीये सोमोत्पत्ति-
वाक्येन “प्रथमां पिबते वह्निर्द्वितीयां पिबते रविः । विश्वे
देवास्तृतीयान्तु चतुर्थां सलिलाधिपः । पञ्चमीं तु वषट्कारः
षष्ठीं पिबति वासवः । सप्तनीमृषयोदिव्या अष्टमीमजएक-
पात् । नवमों कृष्णपक्षस्य यमः प्राश्नातिवै कलाम् । दशमीं
पिबते वायुः पिबत्येकादशीमुमा । द्वादशीं पितरः सर्वे
समं प्राश्नन्ति भागशः । त्रयोदशीं धनाध्यक्षः कुवेरः
पिबते कलाम् । चतुर्द्दशीं पशुपतिः पञ्चदशीं प्रजापतिः ।
निष्पीतश्च कलाशेषश्चन्द्रमा न प्रकाशते । कला षोड़शिका-
या तु सा त्वपो विशते तदा । अमायां तु सदा सोम
ओषधोः प्रतिपद्यते । तमोषधिगतं गावः पिबन्त्य प्सुगतञ्च
यत् । तत्क्षीरममृतं भूत्वा मन्त्रभूतं द्विजातिभिः ।
हुतमग्निषु यज्ञेषु पुनराप्यायते शशी । दिने दिने कलावृद्धिः
पौर्णमास्यां तु पूर्णता” इति । यद्यपि ज्योतिषे कृष्णपक्षे
सूर्य्यमण्डले प्रवेश एव उक्तस्तथापि तत्तद्दिवसे चन्द्रकला-
भक्षणवत् वह्न्यादीनां तृप्तिरित्येतत्परत्वं सोमोत्पत्तिवाक्यस्य
देवानाम् अस्मदादीनामिव भोजनस्यासिद्धेः तृप्तिमात्राधायक-
त्वेन तद्भोग्यत्वम् “न वै देवा अन्नन्ति पिबन्ति एतर्दवामृतं
दृष्ट्वा तृप्यन्ति” छा० उ० उक्तेस्तथावगम्यते इत्यविरोधः ।
अनश्वरखरूपे विष्णौः “अमृताशोऽमृतवपुः” विष्णुस० ।

अमृतवल्ली स्त्री अमृता वल्ली । गुड़ूच्याम् (गुलुञ्च) ।

अमृतवाक त्रि० अमृतमिव वाको वचनं यस्य । १ अमृततुल्य

वचने “अमृतवाका वयसां सा क्षिप्रश्येनं जनयति” शत० ब्रा०

अमृतसंभवा स्त्री अमृतैव सम्भवति सम् भू + अच् ।

गुड़ूच्याम् (गुलुञ्च) ।

अमृतसंयाव न० अमृतमिव स्वादु संयावम् । पक्वान्नभेदे ।

“पचेत् घृतोत्तमे तप्ते न्यसेत् पक्वं नवे घटे । ततो
मरिचचूर्णेन स्वण्डचूर्ण्णावचूर्णितम् । कुर्य्यात् कर्पूरसंयुक्तं संयाव
ममृतोपमम् । संयावममृतस्वादु पित्तघ्नं मधुरं स्मृतमिति
भा० प्र० ।

अमृतसार ” पु० अमृतस्य दुग्धस्य सारः । घृते । चक्रदत्तोक्ते

अयःपाकभेदे यथा “लोहस्य पाकमधुना नागार्ज्जुनशिष्ट-
मधिदघ्नः ॥ लोहारकूटताम्रजकटाहे दृढ़मृण्मये प्रणम्य
शिवम् । तदयः पचेदचपलः काष्ठेन्धनेन वह्निना मृदुना ॥
निक्षिप्य त्रिफलाजलमृदितं यत्तत् घृतञ्च दुग्धञ्च । संचाल्य
लौहमय्या दर्व्या लग्नं समुत्पाठ्य ॥ मृदुमध्यखरभावैः
पाकस्त्रिविधोऽत्र वक्ष्यते पुंसाम् । पित्तसमीरणश्लेष्मप्रकृतीनां
मध्यमस्य समः ॥ अभ्यक्तदर्विलोहं सुखदुःखस्खलनयोगि
मृदु मध्यम् । उज्झितदर्वि खरं परिभाषन्ते केचिदा-
चार्य्याः ॥ अन्ये विहीनदर्व्वीप्रलेपमाखुत्कराकृतिं ब्रुवते ।
मृदुमध्यमर्द्धचूर्णं सिकतापुञ्जोपमन्तु खरम् ॥ त्रिबिधोऽपि
पाक ईदृक् सर्वेषां गुणकृदेव न तु विफलः । प्रकृतिविशेषे
सूक्ष्मौ गुणदोषौ जनयतीत्यल्पम् ॥ विज्ञाय पाकमेवं
द्रागवतार्य्य क्षितौ क्षणान् कियतः । विश्राम्य तत्र लोहे
त्रिफलादेः प्रक्षिपेच्चूर्णम् ॥ यदि कर्पूरप्राप्तिर्भवति ततो
विगलिते यदुष्णत्वे । चुर्ण्णीकृतमनुरूपं क्षिपेन्न वा न यदि
तल्लाभः ॥ पक्वं तदश्मसारं सुचिरघृतस्थित्यभाविरुक्षत्वे ।
गीदोहनादिभाण्डे लौहभाण्डाभावे सति स्थाप्यम् ।
यदि तु परिल्पुतिहेतोर्घृतमौक्षेताधिकं ततोऽन्यस्मिन् ।
भाण्डे निधाय रक्षेद्भाव्युपयोगो ह्यनेन महान् ॥ अयसि
विरुक्षीभूते स्नेहस्तिलघृतेन सम्पाद्यः । एतत्ततो गुणो-
त्तरमित्यमुना स्नेहनीयं तत् ॥ अत्यन्तकफप्रकृतेर्भक्षणमय-
सोऽमुनैव संसन्ति । केबलमपीदमशितं जनयत्ययसो गुणान्
कियतः ॥ अमृतसारः” चक्र० द० ।

अमृतसारज पु० अमृतादिव स्वादोः सारात् जायते

जन--ड ५ त० । १ गुड़े रा० नि० ।

अमृतसू अमृतं दीधितिरूपमाप्ययनं सूते सू--क्विप् । चन्द्रे ।

अम्रतान् देवान् सूते । देवमातरि स्त्री ।

अमृतसोदर अमृतस्य सोदर एकत उत्पन्नत्वात् । उच्चैःश्रवसि

अश्व । तस्यामृतमथने समुद्रादुत्पन्नत्वात् तथात्वम् । सुरा
देवी समुत्पन्ना तुरगः पाण्डरस्तथा” भा० आ० प० ।
तज्जातीयत्वात् घोटकमात्रे राजनि० ।

अमृतस्रवा स्त्री० अमृतमिव स्रवति स्रु--पचाद्यच् । १

रुदन्तीलतायाम् । भावे अप् ६ त० । २ अमृतनिष्यन्दे पु० ।

अमृतांशु पु० अमृतमिवाप्यायकः अशुंरस्य । चन्द्रे ।

अमृतांशूद्भव पु० अमृतांशोश्चन्द्रस्योद्भवो यस्मात् । विष्णौ

“अमृतांशूद्भवो भानुः” वि० स० । ५ त० चन्द्रोद्भवे त्रि० ।

अमृतान्धस् पु० अमृतमन्धोऽन्नमिव दर्शनात् तृप्तिकरमस्य ।

अमृताशने देवे तेषाममृताशनञ्च दर्शनमात्रेण “न वै देवा
अश्नन्ति पिबन्ति एतदेवामृतं दृष्ट्वा तृप्यन्ति” श्रुतेः । तेषां
तत्पानकथा “ततस्तदमृतं देवो विष्णुरादाय वीर्य्यवान् ।
जहार दानवेन्द्रेभ्यो नरेणसहितः प्रभुः । ततो देवगणाः
सर्ब्बे पपुस्तदमृतं समम्” भा० आ० प० ।

अमृताफल न० अमृतायाः फलम् । पटोले द्रव्याभि० ।

अमृतायमान त्रि० असतमिवाचरति अमृत + क्यङ् शानच् ।

अमृततुल्ये “उत्तिष्ठ वत्सेत्यमृतायमानम् वचोनिशम्येति” रघुः ।
पृष्ठ ०३२७

अमृताश पु० अमृतममरणं क्षयाभावमश्नुते अश--व्याप्तौ अण् ।

विष्णौ “१ अमृताशोऽमृतवपुः” विष्णु० स० अमृतं सुधा-
मश्नाति अश--भोजने अण् । २ देवे ।

अमृताशन पु० अमृतमश्नाति अश--भोजने ल्यु । देवे अमृतान्धःशब्दे विवरणम्

अमृताश्म त्रि० न म्रियते मृ--तन् न० त० जौत नित्यः कर्म्म०

टच् समा० । प्रस्तरभेदे जीविप्रस्तरखण्डभेदे ।

अमृताष्टक पु० अमृताप्रभृतीनामष्टकं यत्र । गूड़ूचीन्द्रयवारि-

वृपटोलं कटुका तथा नागरं चन्दनं मुस्तं पिप्पलीचूर्णसंयुतम्
“अमृताष्टक इत्येषपित्तश्लेष्मज्वरापहः” चक्रदत्तोक्ते
कषायभेदे ।

अमृतासङ्ग न० अमृतस्य विषस्येवासङ्गो यत्र । नीलवर्णे तुत्थ-

भेदे हेम० तस्य विषतुल्यनीलवर्णत्वात् तथात्वम् ।

अमृतासु त्रि० अमृता अनश्वरा असवो यस्य । अनश्वरप्राणे

बहुकालजीविनि । “आबभूयामृतासुर्वर्धमानः सुजन्मा”
“उतामृतासुर्व्रतएमि” इति च अथ० ५, १, १, ७ ।

अमृताहरण पु० अमृतमाहरति मातृदास्यनिवारणार्थं

स्वर्गात् भूलोकं नयति आ + हृ--ल्युट् । गरुड़े
तत्कथा भा० आदि प० ३३ अ० । “तान् कृत्वा
पतगश्रेष्ठः सर्व्वानुत्क्रान्तजीवितान् । अतिक्रान्तोऽ-
मृतस्यार्थे सर्व्वतोऽग्निमपश्यत ॥ आवृण्वानं महाज्ज्वाल-
मर्चिर्भिः सर्वतोऽम्बरे । दहन्तमिव तीक्ष्णांशुं चण्डवायुस-
मीरितम् ॥ ततो नवत्या नवतीर्म्मुखानां कृत्वा महात्मा
गरुड़स्तरस्वी । नदीः समापीय मुखैस्ततस्तैः सुशीघ्रमागम्य
पुनर्ज्जवेन ॥ ज्वलन्तमग्निं तममित्रतापनः समास्तरत् पत्र-
रथो नदोभिः । ततः प्रचक्रे वपुरन्यदल्पं प्रवेष्टुकामोऽग्नि-
मभिप्रशाम्य ॥ जाम्बूनदमयो भूत्वा मरीचिनिकरोज्ज्वलः ।
प्रविवेश बलात् पक्षी वारिवेग इवार्णवम् ॥ स चक्रं क्षुरपर्य्य-
न्तमपश्यदमृतान्तिके । परिभ्रमन्तमनिशं तीक्ष्णधारमयस्म
यम् ॥ ज्ज्वलनार्कप्रभं घोरं छेदनं सोमहारिणाम् ।
घोररूपं तमत्यर्थं यन्त्रं देवैः सुनिर्मितम् ॥ तस्यान्तरं स दृष्ट्वैव
पर्य्यवर्त्तत खेचरः । आरान्तरेणाभ्यपतत् संक्षिप्याङ्गं क्षणेन
ह ॥ अधश्चक्रस्य चैवात्र दीप्तानलसमद्युती । विद्युज्जिह्वौ
महावोर्य्यौ दीप्तास्यौ दीप्तलोचनौ ॥ चक्षुर्विषौ महाघोरौ
नित्यं क्रुद्धौ तरस्विनौ । रक्षार्थमेवामृतस्य ददर्श भुजगो-
त्तमौ ॥ सदा संरक्तनयनौ सदा चानिमिषेक्षणौ । बयोरे-
कोऽपि यं पश्येत् स तूर्णं भस्मसाद्भवेत् ॥ तयोश्चक्षूंषि रजसा
सुपर्णः सहसाऽऽवृणोत् । ताभ्यामदृष्टरूपोऽसौ सर्वतः
समताडयत् ॥ तयोरङ्गे समाक्रम्य वैनतयोऽन्तरीक्षगः ।
अच्छिनत्तरसा मध्ये सोममभ्यद्रवत्ततः ॥ समुत्पाट्यामृतं
तत्र वैनतेयस्ततो बली । उत्पपात जवेनैव यन्त्रमुन्मथ्य
वीर्य्यवान् ॥ अपीत्वैवामृतं पक्षी परिगृह्याशु निःसृतः ।
अगच्छदपरिश्रान्त आवार्य्यार्कप्रभां ततः” ॥ तृच् । अमृता-
हर्त्ता तत्रैव । “काश्यपेयोऽमृताहर्त्ता” ध्वजपूजामन्त्रः ।

अमृताह्व न० अमृतमाह्वयते स्पर्द्धते तुल्यस्वादफलेन आ +

ह्वे--क (आराकानदेश) जाते लघुविल्वाकृतौ (नासपाति)
नामके रुचिकले वृक्षे । अमृतफलशब्दे विवरणम् ।

अमृतेशय पु० अमृते जले शेते शी--अच् अलुक् स० ।

विष्णौ तस्य प्रलये जलशायित्वात् तथात्वम् ।

अमृतोत्पन्न न० अमृतं विषमिव उत्पन्नम् नीलवर्णत्वात् ।

खर्परीतुत्थे राजनि० ।

अमृतोत्पन्ना स्त्री अमृतमिव स्वादु मधु उत्पन्नं यस्याः ५ त० । मक्षिकायां राजनि० ।

अमृतोद्भव न० अमृतं विषमिव नीलवर्णतया उद्भवति उद् +

भू--अच् । खर्परीतुत्थे (तुते) तुत्थभेदे । अमृतं मृत्युञ्जयं
शिवमुद्भवते प्राप्नोति स्वसाध्यार्चनावत्त्वात् । विल्ववृक्षे । “अमृ
तोद्भवः श्रीवृक्षः शङ्करस्य सदा प्रियः” तद्दानमन्त्रः ।

अमृत्यु पु० अभावे न० । १ मृत्युविगमे । नास्ति मृत्युर्यस्मात् ।

२ मृत्युहेतुभिन्ने त्रि० । “स्वभानवे श्रवोऽमृत्यु धुक्षत” ऋ० ६,
४८, १२ “अमृत्यु अमरणहेतुं श्रवोऽन्नम्” भा० । मृत्युर्वि-
नाशो नास्त्यस्य । ३ विनाशशून्ये विष्णौ “अमृत्युः सर्ब्ब-
दृक् सिंहः” विष्णुसहस्रनाम ।

अमृध्र त्रि० मृधू उन्दने बा० रक् न० त० । केनाप्यहिंस्ये! “पृथुं

मिहोनपातममृध्रम्” ऋ० १, ३७, ११, “अमृध्रं केना-
हिंस्यम्” भा० ।

अमृषा अव्य० न० त० । मिथ्याभिन्ने सत्ये । “यथा वृक्षो वन स्पतिस्तथैव पुरुषोऽमृषा” शत० ब्रा० ।

अमेधस् त्रि० नास्ति मेधा धारणावती बुद्धिर्यस्य असिच् समा० ।

श्रवणमात्रेण विस्मारिणि धारणाशून्यबुद्धिमति मूर्खे ।

अमेध्य त्रि० न मेध्यम् पवित्रम् विरोधे न० त० । अपवित्रे ।

“अमेध्यादपि काञ्चनम्” “नामेध्यं प्रक्षिपेदग्नौ” इति
अमेध्यप्रभवानि च” इति च मनुः । २ पुरीषे न० ।

अमेनि त्रि० मि--नि--न० त० । परिच्छेदाभावे । “मेन्या मेनि-

रस्यमेनयस्ते सन्तु मेऽस्मानभ्यधारयन्ति” अथ० ५, ६, ९ ।

अमेय त्रि० न मेयः । १ परिच्छेत्तुमशक्ये २ ज्ञातुमशक्ये च

“अमेयो मितलोकस्त्वभनर्थः प्रार्थनावहः” रघुः ३ “वृषाक-
पिरमेयात्मा” विष्णुस० ।
पृष्ठ ०३२८

अमोघ त्रि० मोघो निष्फलः न० त० । १ सफले, २ अव्यर्थे च ।

“अमोघासु पतन्तेषु धर्म्मपोतेन सन्तर” भा० शा० प० ।
“यदमोघमपामन्तरुप्तं वीजमज! त्वया” कुमा० धनुष्यमोघं
समधत्त सायकम्” “अमोघाः प्रतिगृह्णन्तावर्घानु-
पदमाशिषम्” इति च रघुः । ३ नदभेदे पु० । ४ पटोलल-
तायां, हरितक्यां ५ विड़ङ्गे च स्त्री । ६ विष्णौ पु० “अमोघः
पुण्डरीकाक्षः” विष्णु० स० “सत्यकामः सत्यसङ्कल्प” इति
श्रुतेः अवितथसङ्कल्पत्वात्तस्य तथात्वम् ।

अमोत न० अमा सह ऊतम् व्ये--क्त । अच्छिन्नदशवस्त्रयुग्मे

“अमोतं वासो दद्याद्धिरण्यमपि दक्षिणाम्” अथ० ९, ५, १४

अम्ब गतौ म्बादि० पर० सक० सेट् । अम्बति आम्बीत्

आनम्ब अम्बा अम्बालिका अम्बिका अयमिदित् शब्दे इत्येके ।

अम्बक न० अम्बति शीघ्रं नक्षत्रस्थानपर्य्यन्तं गच्छति

अम्ब--ण्वुल् । १ नेत्रे । अम्ब्यते स्नेहेनोपशब्द्यते घञ्
स्वार्थे क । २ पितरि ।

अम्बर न० अबि--शब्दे घञ् अम्बः शब्दस्तं राति धत्ते रा--क

६ त० । १ शब्दाश्रये आकाशे २ मर्म्मरशब्दयुक्ते वस्त्रे, स्वनाम
ख्याते ३ गन्धद्रव्ये ४ अभ्रकधातौ च । “अङ्कुशाकरायाङ्गुल्या
तावतर्जयताम्बरे” इति रघुः “धौतदुकूलवल्कलधवलाम्बर
इति काद० “आकाशसाम्यं दधुरम्बराणि” माघः संवि-
व्युरम्बरविकाशि चमूसमुत्थम्” माघः । २ अन्तिके निरु० ।

अम्ब(रि)रीष पु० न० अम्ब्यते पच्यतेऽत्र अम्ब--अरिष नि०

वा दीर्घः । (भाजनाखोला) इति ख्याते भर्जनपात्रे ।
अम्बरीषमपि । “वैश्यकुलाम्बरीषमहानसाद्वा” कात्या०
४, ७, १६, । “अग्निमाहृत्य गार्हपत्यागारे निर्मथ्याभ्या-
दधीतेति शेषः वैश्यकुलाच्च लौकिकोऽग्निर्हुतोच्छिष्टो वा
ग्राह्यः न तु परिगृहीत आवसथ्यादिः । अथवा अम्ब-
रीषात् भ्राष्ट्रात् कन्दुकगृहात् महानसाद्वेति कर्क० ।
दीर्घयुक्तस्तु २ विष्णौ, ३ शिवे, ४ भास्करे ५ बालके
आम्रातकटवृक्षे, ७ नरकभेदे, ८ अनुतापे । ९ सूर्य्य-
वंश्यनृपभेदे पु० स च । “भगीरथसूतो राजा श्रुत
इत्यभिविश्रुतः । नाभागस्तु श्रुतस्यासीत् पुत्रः
परमधार्मिकः । अम्बरीषस्तु नाभागिः सिन्धुद्वीपपिताऽ-
भवत्” इति हरिवंशोक्तः सूर्य्यवंश्यभगीरथपौत्रः
“अम्बरीष! शुकप्रोक्तं नित्यं भागवतं शृणु । परा०
उ० । “मगवान् अम्बरीषश्च ब्राह्मण्यानमितौजसे
भा० आवु० प० । “पुण्यश्लोकोऽम्बरीषश्च पुण्यश्लोको
युधिष्ठिरः” इति प्रातःस्मरणीययेषु पुरा० ।

अम्बरौकस् पु० अम्बरमोको यस्य । देवेषु तेषां मेरुस्थितत्वेऽपि

मेरोः सर्ब्बतः उच्चत्वादस्मदाद्यपेक्षयाम्बरवासित्वम् । तेन
आकाशस्य धारणाक्षमत्वेऽपि न क्षतिः । “विलिप्यते
मौलिभिरम्बरौकसाम्” कुमा० ।

अम्बर आभरणे कण्ड्वा० । अम्बर्य्यति ।

अम्बष्ठ पु० अम्बाय चिकित्सकबब्दाय तत्प्रख्यापनार्थं तिष्ठते-

ऽभिप्रैति स्था--क पत्वम् । चिकित्सके “विप्रात् वैश्य-
कन्यायां जाते १ सङ्कीर्णवर्णे, “ब्राह्मणाद्वैश्यकन्यायामम्ब-
ष्ठोनाम जायते मनुः “सजातिजानन्तरजाः षट्सुता
द्विजधर्मिण” इति मनूक्तेः “द्विजातीनां समानजाती-
यासु जाताः तथानुलोम्येनोत्पन्नाः ब्राह्मणेन क्षत्रि-
यावैश्ययोः, क्षत्रियेण वैश्यायामेवं षट् पुत्रा द्विज
धर्म्मिणः उपनेयाः ताननन्तरजनाम्न इति यदुक्तं तत्
तज्जातिव्यपदेशार्थं न संस्कारार्थमिति कस्यचिद्भ्रमः स्यात्
अत एषां द्विजातिसंस्कारार्थवचनमिति” कुल्लू० उक्तेश्च
अम्बष्ठादीनामुपनयनसंस्कारसत्त्वेऽपि इदानीन्तनानां
संस्कारलोपेन शूद्रत्वम् अतएव इदानीं क्षत्रियादीनां
शुद्रत्वमेवमम्बष्ठादीनामपि” इति रघु० ये तु व्रात्य-
दोषप्रायश्चित्तमाचरन्ति तेषामुपनयनयोग्यता भवत्येव
“येषां पित्रादयोप्यनुपनीतास्तेषामापस्तम्बोक्तम् “यस्य पिता
पितामहावनुपनीतौ स्यातान्तस्य संवत्सरं त्रैविद्य-
कम्ब्रह्मचर्य्यं यस्य प्रपितामहादीनां नानुस्मर्य्यते
उपनयनन्तस्य द्वादशवार्षिकं त्रैविद्यकम्ब्रह्मचर्य्यमिति” मिता०
उक्तेः । “सूतानामश्वसारथ्यमम्बष्ठानां चिकित्सितम्”
मनूक्ता तेषां वृत्तिः । २ देशभेदे, ३ हस्तिपके च । ४ यूथि-
कायां स्त्री । स्वार्थे कनि ह्रस्वे अत इत्त्वे । अम्बष्ठिका-
प्यत्रैव (वामनहाटीति) प्रसिद्धायां ५ ब्राह्मीलतायाञ्च ।

अम्बष्ठकी स्त्री अम्बष्ठं कायति आदानार्थमाह्वयति कै--क

गौरा० ङीष् । १ (पटाण्डु) इति स्थातायां १ लतायां
पाठायाम् ।

अम्बष्ठा स्त्री अम्ब्यते शब्द्यते अम्बा तादृशी सती तिष्ठति स्था-

क अम्बा० षत्वम् । (अम्बाड़ा) इति ख्यातायाम्
शठाम्बायाम् (पटांडु) इति हिमगिरिप्रसिद्धायां १ पाठायाम् ।
२ चाङ्गेर्य्याम् । ३ यूथिकायाञ्च । संज्ञायां कन् अत इत्त्वे ।
अम्बष्ठिका । (वामन् हाटी) ४ ब्राह्मीलतायाम् ।

अम्बा स्त्री अम्ब्यते स्नेहेनोपगम्यते अम्ब--कर्म्मणि घञ् ।

१ मातरि, लोके सम्बोधने तदर्थे ह्रस्वः । “कृताञ्जलिस्तत्र
यदम्ब! सत्यात्” रघुः । वेदे तु “अम्बेऽम्बालेऽम्बिके
पूर्ब्बेति” पा० निर्देशात् न ह्रस्वः । “अम्बे! अम्बिके
पृष्ठ ०३२९
अम्बालिके! न मानयति कश्चन य० २३, १८ । नाट्योक्ता-
वपि तत्रैव, २ अम्बष्ठालतायां, ३ काशीराजकन्यायाञ्च ।
“अथाश्रौषं महाबाहो तिस्रः कन्याः स्वयम्बराः ।
रूपेणाप्रतिमा लोके काशीराजसुतास्तदा । अम्बां
चैवाम्बिकां चैव तथैवाम्बालिकामिति । राजानश्च
समाहूताः पृथिव्यां भरतर्षभ! । “अम्बा ज्येष्ठाभवत्तासा-
मम्बिका त्वथ मध्यमा । अम्बालिका च राजेन्द्र!
राजकन्या कनीयसी इत्युपक्रम्य । अम्बाया
उपाख्यानं विस्तरेण वर्ण्णितम् भा० उ० प० अम्बोख्याने ।
“मया सौभपतिः पूर्व्वं मनसा हि वृतः पतिः इत्यन्बि
योक्ते “अनुजज्ञे तदा ज्येष्ठामम्बां काशीपतेः सुताम् ।
अम्बिकाम्बालिके भार्य्ये प्रादात् प्रीत्या यवीयसे । भीष्मो
विचित्रवीर्य्याय विधिदृष्टेन कर्मणा” भा० आ० प० ।

अम्बाला स्त्री अम्बेति शब्दं लाति धत्ते ला--क । मातरि ।

अम्बालिका स्त्री अम्बालैव स्वार्थे के ह्रस्वे अत इत्त्वम् ।

मातरि, १ पाण्डुराजमातरि काशीराजकन्यायां
विचित्रवीर्य्यस्य भार्य्यायाम् ।

अम्बिका स्त्री अम्बैव कन् । १ मातरि २ दुर्गायाम् “आशी-

र्भिरेधयामासुः पुरः । पाकाभिरम्बिकाम्” कुमा० । काशी-
राजस्य मध्यमकन्यायां विचित्रवीर्य्यस्य भार्य्यायां
धृतराष्ट्रस्य २ मातरि ।

अम्बिकापति पु० ६ त० । शिवे ।

अ(आ)म्बिकेय पु० अम्बिकाया अपत्यम् ढ (ठक्) वा । १ गणेशे २ धृतराष्ट्रे च ।

अम्बु न० अबि शब्दे--उण् । १ लग्नावधिके चतुर्थस्थाने २ (बाला)

इति ख्यातायामोषधौ ३ जले “गाङ्गमम्बु सितमम्बु
यामुनं कज्जलाभमुभयत्र मज्जतः का० प्र० । “छातेतराम्बु-
च्छटा” का० प्र० “विश्वासाय विहङ्गानामालबालाम्बु-
पायिनाम् । “तौ सरांसि रसवद्भिरम्बुमिः” इति च रघुः ।
“फलं कतकवृक्षस्य यद्यप्यम्बुप्रसादनम्” मनुः । तच्च जलम्
रसतन्मात्रादुत्पन्नो भूतविशेष इति सांख्याः पञ्चीकृतेभ्य
एव पञ्चभ्यो भूतेभ्यः स्थूलतया उत्पन्नमिति वेदान्तिनः
जलभूतांशबाहुल्यात् जलत्वव्यवहारः “वैशेष्यात्तद्वादः”
शा० सूत्रात् । तस्य च रूपरसस्पर्शशब्दा विशेषगुणाः
“योयोयावतिथश्चैषां स स तावद्गुणः स्मृत” इति मनुना
भूतमध्ये चतुर्थस्य जलस्य चतुर्गुणत्वाभिधानात् “शब्दस्पर्शौ
रूपरसौ सलिलस्य गुणा अमी” भा० शा० प० उक्तेश्च
“जले चुलचूलध्वनिः । शीतस्पर्शः शुक्लरूपं रसो माघुर्य्य-
मीरितम्” पञ्चद० । “अग्नेराप” इति श्रुतेस्तस्याग्निप्रभव-
त्वम् यथोक्तं “तत्तेज ऐक्षत बहु स्यां प्रजायेयेति
तदपोऽसृजत तस्माद्यत्र क्व च शोचति स्वेदते पुरुषस्तेजस
एव तदध्यापो जायन्ते” छा० उ० । “तेज इति प्रसिद्धं
लोके दग्धृपक्तृप्रकाशकं रोहितञ्चेति तत्सृष्टं तेज ऐक्षत ।
तेजोरूपत्वेन स्थितं सदैक्षतेत्यर्थः । बहु स्यां प्रजायेयेति
पूर्ब्बवत्तदपोऽसृजत । आपो द्रवाः स्निग्धाः स्यन्दित्यः
शुक्लाश्चेति प्रसिद्धं लोके ॥ यस्मात्तेजसः कार्य्यभृता
आपस्तस्माद्यत्र क्व च देशे काले वा शोचति सन्तप्यते स्वेदते
प्रस्विद्यते वा पुरुषस्तेजस एव तदापोऽघिजायन्ते । ता
आप ऐक्षन्तेति पूर्व्ववदेव आकारसंस्थितं सदैक्षतेत्यर्थः
भा० । “तासां त्रिवृतं त्रिवृतमेकैकां करवाणीति “सेयं
देवतेमास्तिस्रो देवता अनेनैव जीवेनात्मनानुप्रविश्य नामरूपे
व्याकरोत्” छा० उ० ॥ “सेयं तिस्रो देवता अनुप्रविश्य स्वा-
त्मावस्थे वीजभूते अव्याकृते नामरूपे व्याकरवाणीति
तासाञ्च तिसॄणां देवतानामामेकैकां त्रिवृतं करवाणि
एकैकस्याः त्रिवृत्करणे एकैकस्याः प्राधान्यं द्वयोर्द्वयोर्गुणभा-
वोऽन्यथा हि रज्ज्वा इवैकमेव त्रिवृत्करणं स्यात् न
तु तिसृणां पृथक् त्रिवृत्करणमिति । एवं हि तेजोऽबन्नानां
पृथङ्गामप्रत्ययलाभः स्यात्तेज इदम्” इमा आपः, अऽन्नमिद-
मिति च पृथङ्नामप्रत्ययलाभे देवतानां सम्यग्व्यावहारस्य
प्रसिद्धिः प्रयोजनं स्यात् । एवमीक्षित्वा सेयं देवतेमा-
स्तिस्रो देवता अनेनैव यथोक्तेनैव जीवेन सूर्यबिम्बवदन्तः
प्रविश्य वैराजं पिण्डं प्रथमं देवतादीनां च पिण्डमनु-
प्रविश्य यथासङ्कल्पमेव नामरूपे व्याकरोदसौनामायमिदं-
रूप इति तासाञ्च देवतानां गुणप्रथानभावेन त्रिवृतं त्रिवृ-
तमेकैकामंकरोत्कृतवती देवता” भा० । “अद्भिः सोम्य! श्रुङ्गेन
तेजो मूलमन्विच्छ” छा० उ० “अद्भिः शुङ्गेन तेजो मूलं
कार्येण कारणम् अन्विच्छ “तेजो वा अद्भ्यो भूयस्तद्वा
एतद्वायुमुपगृह्याकाशमभितपति तदाहुर्निशोचति नितपति
वर्षिष्यति वा इति तेज एव तत्पूर्ब्बं दर्शयित्वाऽथापः
सृजते तदेतदूर्द्ध्वाभिश्च तिरश्चीभिश्च विद्युद्भिर्महाह्रादाश्च-
रन्ति तस्मादाहुर्विद्योतते स्तनयति वर्षिष्यति वा इति
तेज एव तत्पूर्व्वं दर्शयित्वाऽथापः सृजते तेज उपास्वेति”
छा० उ० ॥ “तेजो वाऽद्भ्यो भूयः, तेजसोऽप्कारण-
त्वात् । कथमप्कारणत्वमित्याह । यस्मादब्योनिस्तेजस्तस्मा-
त्तद्वा एतत्तेजोवायुमागृह्यावष्टभ्य स्वात्मना निश्चलीकृत्य
वायुमाकाशमभिव्याप्नुवत्तपति यदा, तदाहुर्लौकिकाः
अभिशोचति सन्तपति सामान्येन जगन्ति तपति देहानती वर्षि-
पृष्ठ ०३३०
ष्यति वै इति । प्रसिद्धं हि लोके कारणमभ्युद्यतं दृष्टवतः
कार्यं भविष्यतीति विज्ञानम् ॥ तेज एव तत्पूर्ब्बमात्मान-
मुद्भूतं दर्शयित्वाऽथानन्तरमपः सृजतेऽतोऽप्स्रष्टृत्वाद्भूयो-
ऽद्भ्यस्तेजः । किञ्चान्यत्तदेतत्तेज एव स्तनयित्नुरूपेण
वर्षहेतुर्भवति । कथं ऊर्द्धाभिश्चोर्द्ध्वगाभिर्विद्युद्भिस्तिरश्चीभिश्च
तिर्यग्गताभिश्च महाह्रादाः स्तनयनशब्दाश्चरन्ति । तस्मा-
त्तद्दर्शनादाहुर्लौकिका विद्योतते स्तनयति वर्षिष्यति वा
इत्याद्युक्तार्थमतस्तेज उपास्वेति भा० ।
नैयायिकादयस्तु परमाणुविशेषेभ्य एव तस्योत्पत्तिः ।
तच्च द्विविधं नित्यमनित्यञ्च नित्यं परमाणुरूपमनित्यं द्व्यणु-
कादि । प्रकारान्तरेण अनित्यमपि त्रिविधं देहेन्द्रिय-
विषयभेदात् । देहः अयोनिजः वरुणचन्द्रलोकयोः
श्रुत्यादिप्रसिद्धः इन्द्रियं रसनं शब्दादिषु मध्ये रसमात्र-
व्यञ्जकत्वात् तस्य जलीयत्वम् । द्वणुकादिकमारभ्य हिम
करकसिन्धुपर्य्यन्तं विषयः उपभोग्यत्वात् । स्पर्शसंख्या-
परिमितिसंयोगविभागपरत्वापरत्वानीत्यष्टौ वेगः गुरु-
त्वं रूपं रसःस्नेहश्च जलस्येते चतुर्द्दशसमान्यविशेषगुणाः
यथोक्त “स्पर्शादयोऽष्टौ वेगश्च गुरुत्वञ्च द्रवत्वकम् । रूपं
रसस्तथास्नेहो वारिण्येते चतुर्द्दश । वर्ण्णःशुल्कोरसस्पर्शौ । जले
मधुरशीतलौ । स्नेहस्तत्रद्रवत्वं तु सांसिद्धिकमुदाहृतम्” ।
नित्यतादि प्रथमवत् किन्तु देहमयोनिजम् इन्द्रियं रसनं
सिन्धुहिमादिविषयो मतः” भाषा० । एवं स्थूलभूतजलस्य
उपाधिभेदेन सुश्रुते गुणदोषादिविवेकाय भेदा दर्शिता यथा
“पानीयमान्तरीक्षमनिर्देश्यरसममृतं जीवनं तर्पणं धारण-
माश्वासजननं श्रमघ्नं क्लमपिपासामदमूर्च्छातन्द्रानिद्रा-
दाहप्रशमनमेकान्ततः पथ्यतमञ्च तदेवावनौ पतितमन्यतमं
रसमुपलभते स्थानविशेषान्नदीनदसरस्तड़ागवापीकूपचुण्टी
प्रस्रवणोद्भिद्विकिरकेदारपल्वलादिषु स्थानेष्ववस्थितमिति ।
तत्र लोहितकपिलपाण्डुपीतनीलशुक्लेष्ववनिप्रदेशेषु
मधुराम्ललवणकटुतिक्तकषायाणि यथासङ्ल्यमुदकानि सम्भ-
वन्तीत्येके भाषन्ते तत्तु न सम्यक् तत्र पृथिव्यादीनामन्यो-
न्यानुप्रवेशकृतः सलिलरसो भवत्युत्कर्षापकर्षेण तत्र स्वगुण
भूयिष्ठायां भूमावम्लं लवणञ्च । अम्बुगुणभूयिष्ठायां
मधुरम् । तेजोगुणभूयिष्ठायां कटुकं तिक्तञ्च । वायुगुण-
भूयिष्ठायां कषायञ्च । आकाशगुणभूयिष्ठायामव्यक्तरस-
मव्यक्तं ह्याकाशमित्यतस्तत्प्रधानमव्यक्तरसत्वात् तत्पेय-
मान्तरीक्षालाभे । तत्रान्तरीक्षं चतुर्व्विधम् । तद्यथा ।
धारं कारं तौषारं हैममिति । तेषां धारं प्रधानं लघु-
त्वात्तत्पुनर्द्विविधं गाङ्गं सामुद्रं चेति । तत्र गाङ्गमाश्व-
युजे मासि प्रायशो वर्षति तयोर्द्वयोरपि परीक्षणं कुर्व्वीत
शाल्योदनपिण्डमकुथितमविदग्धं रजतभाजनोपहितं
वर्षति देवे वहिष्कुर्व्वीत स यदि मुहूर्त्तं स्थितस्तादृश एव
भवति तदा गाङ्गं पततीत्यवगन्तव्यं वर्ण्णान्यत्वे सिक्थक्लेदे
च सामुद्रमिति विद्यान्नतु तदुपादेयम् । सामुद्रमप्याश्व
युजे मासि गृहीतं गाङ्गं पुनः प्रधानं तदुपाददीताश्वयुजे
मासि, शुचिशुक्लविततपटैकदेशच्युतमथ वा हर्म्यतलपरिभ्रष्ट
मन्यैर्व्वा शुचिभिर्भाजनैर्गृहीतं सौवर्णे राजते मृण्मये वा
पात्रे निदध्यात्तत्सर्व्वकालमुपयुञ्जीत तस्यालाभे भौमम् ।
तच्चाकाशगुणबहुलं तत्पुनः सप्तविधम् । तद्यथा । कौपं
नादेयं सारसं ताड़ागं प्रास्रवणमौद्भिदं चौण्टमिति तत्र
वर्षास्वान्तरीक्षमौद्भिदं वा सेवेत महागुणत्वात् शरदि सर्व्वं
प्रसन्नत्वात् हेमन्ते सारसं ताड़ागं वा, वसन्ते कौपं प्रास्र-
वणं वा ग्रीष्मेष्वेवं प्रावृषि चौण्टमनवमनभिवृष्टं सर्व्व-
ञ्चेति ॥ कीटमूत्रपुरीषाण्डशवकोधप्रदूषितम् । तृणपर्णोत्-
करयुतं कलुषं विषसंयुतम् ॥ योऽवगाहेत वर्षासु पिबेद्वापि
नवं जलम् । स वाह्याभ्यन्तरान् रोगान् प्राप्नुयात्क्षिप्र-
मेव तु ॥ तत्र यत् शैवालपङ्कहटतृणपद्मपत्रप्रभृतिभिरव-
च्छन्नं शशिसूर्य्यकिरणानिलैर्नाभिजुष्टं गन्धवर्णरसोपसृष्टञ्च
तद्व्यापन्नमिति विद्यात् ॥ तस्य स्पर्शरूपरसगन्धवीर्य्यविपाक-
दोषाः षट् सम्भवन्ति । तत्र खरता पैच्छिल्यमौष्ण्यं
दन्तग्राहिता च स्पर्शदोषाः । पङ्कसिकताशेवालबहु-
वर्णता रूपदोषाः । व्यक्तरसता रसदोषः । अनिष्टगन्धता
गन्धदोषः । यदुपयुक्तं तृष्णागौरवशूलकफप्रसेकानापा-
दयति स वीर्य्यदोषः । यदुपयुक्तं चिराद्विपच्यते विष्टभ्राति
वा स विपाकदोष इति । त एते आन्तरीक्षे न सन्ति ॥
व्यापन्नानामग्निक्वथनं सूर्य्यातपप्रतापनं तप्तायःपिण्ड-
सिकतालोष्ट्राणां वा निर्व्वापणं प्रसादनञ्च कर्त्तव्यं
नागचम्पकोत्पलपाटलापुष्पप्रभृतिभिश्चाधिवासनमिति ॥ सौवर्णे
राजते ताम्रे कांस्ये मणिमये तथा । पुष्पावतंसं भौमे वा
सुगन्धि सलिलं पिबेत् ॥ व्यापन्नं वर्जयेन्नित्यं तोयं यद्वाप्य-
नार्त्तवम् । दोषसञ्जननं ह्येतन्नाददीताहितन्तुतत् ॥ व्यापन्नं
सलिलं यस्तु पिबतीहाप्रसादितम् । श्वयथुं पाण्डुरोगञ्च
त्वग्दोषमविपाकताम् ॥ श्वासकासप्रतिश्यायशूलगुल्मोद-
राणि च । अन्यान्वा विषमान् रोगान् प्राप्नुयात् क्षिप्रमेव
च ॥ तत्र सप्त कलुषस्य प्रसादनानि भवन्ति । तद्यथा ।
कतकगोमेदकविषग्रन्थिशैवालमूलवस्त्राणि मुक्तामणिश्चेति ।
पृष्ठ ०३३१
पञ्च निक्षेपणानि भवन्ति । तद्यथा । फलकं त्र्यष्टकं
मुञ्चकलय उदकमञ्जिका शिक्यञ्चेति ॥ सप्त शीतीकर-
णानि भवन्ति प्रवातस्थापनमुदकप्रक्षेपणं यष्टिकाभ्रामणं
व्यजनं वस्त्रोद्धरणं वालुकाप्रक्षेपणं शिक्यावलम्बनञ्चेति

अम्बुकण पु० ६ त० । शीकरे जलविन्दौ स्त्रीत्येके ।

अम्बुकण्ठक पु० अम्बुनः कण्टकमिव । १ कुम्भीरे, २ शृङ्गाटके च ।

अम्बुकिरात पु० अम्बुनि किरात इव हिंस्रः । कुम्भीरे ।

अम्बुकीश पु० अम्बुनि कीशः वानर इव । (शुशक) इति

ख्याते शिशुमारे जलजन्तुभेदे ।

अम्बुकूर्म्म पु० अम्बुनि कूर्म्म इव । शिशुमारे (शुशक) हेम० ।

अम्बुकेशर पु० अम्बुजातः केशरोऽस्य । छोलङ्गवृक्षे रत्नमा० ।

अम्बुचर त्रि० अम्बुनि चरति चर--ट ७ त० । जलचरे

हंसादौ स्त्रियां ङीप् ।

अम्बुचामर न० अम्बुनि चामरमिव । (सेओयाला) इति ख्याते शैवाले ।

अम्बुचारिन् त्रि० अम्बुनि चरति चर--णिनि ७ त० ।

जलचरे हंसादौ स्त्रियां ङीप् । “लूताहिसरटानाञ्च
तिरश्चां चाम्बुचारिणाम्” मनुः ।

अम्बुज न० अम्बुनि जायते जन + ड । १ पद्मे २ सारसपक्षिणि ।

३ चन्द्रे ४ कर्पूरे ५ हिजल् इति ख्याते वृक्षे च पु० ।
६ शङ्खे पु० न० । ७ वज्रे च । वज्रस्य जलदप्रभवत्वात्तथा-
त्वम् । “चापं पाशाम्बुज सरसिजान्यङ्कुशं पुष्पवाणमिति”-
ऽभुवनेश्वरीध्याने अम्बुजं पद्मं नतु शङ्खमिति तन्त्र-
सारोक्तेः अस्य शङ्खवाचकतापीति ज्ञायते ।

अम्बुजन्मन् न० अम्बुनो जन्मास्य जन्मोत्तर पदत्वाद्व्यधि-

करणो बहुव्रीहिः । १ पद्मे २ सारसविहङ्गे ३ शङ्खे पु० च ।

अम्बुजासना स्त्री अम्बुजमासनम् यस्याः । १ लक्ष्म्याम् ।

२ जलोद्भवे त्रि० ।

अम्बुताल पु० अम्बुनि तालयति प्रतितिष्ठति चु० तल--प्रतिष्ठायाम् अच् । शैवाले (सेओयाला) ।

अम्बुद पु० अम्बु ददाति दा--क । १ मेघे, “नवाम्बुदश्या-

मवपुर्न्यविक्षत” माघः “नवाम्बुदानीकमुहूर्त्तलाञ्छने”
“स्वतश्च्युतं वह्निमिवाद्भिरम्बुदः” इति च रघुः ।
२ मुस्तके च ।

अम्बुधर पु० अम्बूनि धरति धृ--अच् । १ मेघे “शरत्प्रमृ-

ष्टाम्बुधरोपरोधः” रघुः “अशनेरमृतस्य चोभयोर्व-
शिनश्चाम्बुधराश्च योनयः” कुमा० । २ मुस्तके च ।

अम्बुधि पु० अम्बूनि धीयन्तेऽत्रधा--आधारे कि । १ समुद्रे ।

“रत्नावलीरम्बुधिराबबन्ध” माघः २ उदकाधारे घटादौ
अम्बुधिर्घटः सि० कौ० । ३ चतुः संख्यान्विते च ।

अम्बुधिप्रसवा स्त्री अम्बुधिमिव प्रचुररसं प्रसूते प्र +

सूअच् । १ घृतकुमार्य्याम् ।

अम्बुनिधि अम्बूनि निधीयन्तेऽस्मिन् अम्बु + नि + धा--आधारं

कि । समुद्रे । “देवासुरैरमृतमम्बु निघिर्मममन्थे” किरा० ।
“ये पक्षिणः प्रथममम्बुनिधिं गतास्ते” माघः ।

अम्बुप पु अम्बूनि पाति पिवति वा पा--रुक्षणे--पाने वा क ।

१ जलेश्वरे वरुणे “रक्षोऽम्बुपानिलशशीशपुराणि चाष्टौ”
सि० शि० । २ समुद्रे च ३ जलपायिनि त्रि० ।

अम्बुपत्रा स्त्री अम्बूनि पत्रे यस्याः । उच्चटावृत्ते । अम्बु-

युक्तं पत्रमस्याः गौरा० ङीष् । अम्बुपत्रीत्यप्यत्र ।

अम्बुप्रसाद पु० अम्बूनि प्रसादयति प्र + सद--णिच्--अण्

उप० स० । कतककवृक्षे (निर्माल्यि) ।

अम्बुप्रसादन न० अम्बूनि प्रसादयति प्र + सद + णिच्--ल्यु

६ त० । कतकतफले “फलं कतकवृक्षस्य यद्यम्बुप्रसादनम्”
मनुः । जलप्रसादकारके त्रि० तानि ३३० पृष्ठे दृश्यानि ।

अम्बुभृत् पु० अम्बु बिभर्त्ति--भृ--क्विप् ६ त० । १ मेघे

२ सुस्तके ३ समुद्रे च । ४ जलाधारमात्रे त्रि० ।

अम्बुमत् त्रि० अम्बूनिवाहूल्येन सन्त्यस्मिन् । १ बहूदकेदेशादो

स्त्रियां ङीप् । सा च २ नदीभेदे । “ततोऽम्बुमत्या धर्मज्ञ!
सुतीर्थञ्चाप्यनुत्तमम् भा० ब० प० ।

अम्बुमात्रज पु० अम्बुमात्रे अल्पजले जायते जन--ड

७ त० । शम्बूके, (शामुक) हेम० ।

अम्बुमुच् पु० अम्बूनि मुञ्चति मुच--क्विप् ६ त० । १ मेघे २ सुस्तके च ।

अम्बुर पु० अम्ब--बा० उरन् । द्वाराधःकाष्ठे (गोवराट) हेम०

अम्बुराशि पु० अम्बूनां राशयो यत्र । समुद्रे । “नैतन्न-

भोमण्डलमम्बुराशिः” सा० द० “अभूतपूर्ब्बां रुचमम्बु-
राशे” माघः “शापं दधज्ज्वलनमौर्वमिवाम्बुराशिः” रघुः ।

अम्बुरुह् न० अम्बुनि रोहति रुह--क्विप् ७ त० १ पद्मे

“विसृत्वरैरम्बुरुहां रजोभिः” माघः । २ सारसविहगे च

अम्बुरुह पु० अम्बुनि--रोहति रुह--क ७ त० । १ पद्मे ।

“द्रक्ष्यथाम्बु रुहं दिव्यं गोशृङ्गं नांम पर्वतम्” । “नदीं
गोदावरीं चैव प्रसन्नाम्बुरुहां तत” इति च रामा० ।
अम्बुरुहं पद्ममिव पुष्पमस्याः अर्श० अच् । स्थल पद्मिन्यांस्त्री

अम्बुरुहिणी स्त्री अम्बुरुहाणां समूहः सन्निकृष्टदेशोवा इनि ।

१ पद्मसमूहे २ पद्मलतायाञ्च ।

अम्बुरोहिन् न० अम्बुनि रोहति रुह--णिनि । १ पद्मे २ सारसे च ।

पृष्ठ ०३३२

अम्बुवाची स्त्री अम्बु तद्वर्षणं वाचयति सूचयति बच--णिच्--अण्

उप० स० ङीप् । आर्द्राद्यपादस्थरविकालिकभूमौ “आर्द्राद्यादि
विशाखान्तं रविचारेण वर्षति” इत्युक्तेस्तस्या वृष्टिसूचकत्वम् ।
तत्काले हि भूमेरन्तर्गतरजोयोगैत्यतस्तस्यास्तथात्वम् ।
यथोक्तम् “रजोयुक्क्ष्माम्बुवाची च रौद्राद्यपादगे रवौ”
ज्योति० । मिथुनराशिर्हि मृगशिरःशेषार्द्धार्द्रापादचतुष्क
पुनर्वसुपादत्रयात्मकः । तत्र मृगशिरसि भुक्ते यदा
आर्द्रायाः प्रथमप्रादोपभोगार्थंरविर्गच्छति तदा पृथ्वी ऋतुमती
भवति तच्चमिथुने ६ । ४० चत्वारिंशत्कलाधिकषड़ंशा-
नतीत्य आर्द्राद्यपादावधि यावत्तिष्ठति तावत् । यथोक्तं
राजमा० । “रवौ रौद्राद्यपादस्थे भूमेः संजायतेरजः”
इत्युपक्रम्य । “चत्वारिंशल्लिप्तिक षड्भागयुतोरविर्यदा भवति ।
तत्राम्बुवाची ज्ञेयाशिवर्क्षपादे स्थितो यावत् । दिग्भागशून्य
लिप्तोगणितेन भवति रविर्यदा साप्त” इति । तत्र च
वर्ज्र्यानि “न स्वाध्यायं वषट्कारं न देवपितृतर्पणम् ॥
हलानां वाहनञ्चैव वीजानां वपनं तथा” राजमा० ।
“तस्यां पाठोवीजवापोनाहिभीर्दुग्वपानतः” ज्यो० । यदा
र्द्रर्क्षं समादाय भानोर्मन्मथगामिता । पुनस्तत्स्थेनमा-
दाय यजनं त्रिदिनं त्यजेत् । काम्यं नैमित्तिकं चैव
यात्रां मन्त्रक्रियां तथा । ऋतुमत्यां न कुर्व्वीत पूर्व्वसङ्कल्पिता-
दृते । न कुर्य्यात् खननं भूमेः सूच्यग्रेणापि शङ्करि! ।
मत्स्य सू० । “यतिनोव्रतिनश्चैव विधावा च द्विजस्तथा ।
अम्बुवाचीदिने चैव पाकं कृत्वा न भक्षयेत् । स्वपाकं
परपाकं वा अम्बुवाचीदिने तथा । भक्षणं नैव कर्त्तव्यं
चण्डालान्नमयं स्मृतम्” विष्णुरहस्यम् ।

अम्बुवासिन् त्रि० अम्बुप्रधाने देशे वसति वस--णिनि ङीप् ।

१ पाटलावृक्षे । २ जलवासिमात्रे त्रि० ।

अम्बुवासी स्त्री अम्बु प्रधाने देशे वासो यस्याः गौरा० ङीष् । पाटलावृक्षे ।

अम्बुवाह पु० अम्बूनि वहति वह--अण् उप० स० ।

१ जलधरे मेघे । “व्याजेन यस्याबहिरम्बुवाहः यत्रोज्झि-
ताभिर्मुहुरम्बुवाहैः” “हलधरपरिधानश्यामलैरम्बु-
वाहैः” इति च माघः । २ मुस्तके । ण्वि अम्बुवाड़ुभयत्र ।

अम्बुवाहिन् त्रि० अम्बूनि वहति घारयति वह--णिनि

६ त० । १ जलधारके त्रि० २ मेघे ३ मुस्ते च पु० ।

अम्बुवाहिनी स्त्री अम्बूनि वहति स्थानान्तरं नयति

वह--णिनि ६ त० ङीप् । १ नौकाजलसेचनार्थे काष्ठनिर्मिते
पात्रभेदे २ जलवाहिकायां स्त्रियाञ्च ।

अम्बुविहार पु० ७ त० । जलक्रीड़ायाम् सन्तरणादौ “व पुरम्बु-

विहारहिमं शुचिना” माघः ।

अम्बुविस्रवा स्त्री अम्बूनि विस्रवति वि + स्रु--अच् । पत्रान्तर्बहूदकायां घृतकुमार्य्याम् ।

अम्बुवेतस पु० अम्बुजातोवेतसः शाक० त० । जलवेतसे ।

अम्बुशिरौषिका स्त्री अल्पः शिरीषः अल्पार्थे कन् स्त्रीत्वम्

जलशिरीषे ।

अम्बुसर्पिणी स्त्री अम्बुनि सर्पति सृप--णिनि ७ त० । (जोंक) इति ख्यातायां जलौकायाम् ।

अम्बुसेचनी स्त्री अम्बूनि सिच्यन्ते नौकातः अनया

सिचकरणे ल्युट् ६ त० ङीप् । नौकादेर्जलसेचनीपात्रे ।

अम्बूकृत न० अनम्बु अम्बु कृतं अम्बु श्लेष्मात्मकाम्बु

उपचारात्तद्युक्तं ततः च्वि + कृ--क्त । निष्ठीवनयुक्ते वचसि ।

अम्ब्ल पु० अबि--शब्देक्ल नि० न इट् । १ अम्लरसे २ तद्वति त्रि० ।

अम्भ ध्वनौ भ्वा० आ० अक० सेट् । अम्भते आम्भिष्ट

आनम्भे आनभे अयम् इदित्येके तेन आनम्भे इत्येव । अम्भः

अम्भस् न० आप्यते आप--असुन् “उदके नुम्भौ चेति”

उणा० अम्भ--शब्दे असुन् वा । १ जले “सेव्यमामज्वरं
प्राज्ञः कोऽम्भसा परिषिञ्चति”? । “त्रिस्रोतसः सन्तत-
घारमम्भः” इति च माघः । “परिश्रमाम्भःपुलकेन
सर्पता” किरा० । “कयमष्यम्भसामन्तरा निष्पत्तेः प्रतोक्षते”
कुमा० “अभ्यर्ण्णेऽम्भःपतनसमये” इति मेघ० । २ देवे,
जलहेतुत्वात् तथात्वम् ३ पितृलोके, तेषां जलमय-
चन्द्रलोके स्थितत्वात् अम्मयदेहत्वाच्च तत्त्वम् । ४ मनुष्ये “वेत्थ
सौम्य! यथा पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति”
छा० उ० उक्तेः । पुरुषाणां जलमयत्वात् तथात्वं पञ्चाग्निविद्या-
पब्देप्रपञ्चः । ५ असुरे, युद्धे देवस्पर्द्धया शब्दायमानत्वा-
त्तथा । “तानि ह वा एतानि चत्वार्य्यम्भांसि देवा मनुष्याः
पितरोऽसुरा” इति श्रुतिः । ६ बालनामोषधौ । ज्योति-
षोक्ते ७ लग्नाच्चतुर्थस्थाने । योगशास्त्रोक्तासु नवविध-
तुष्टिषु मध्ये प्रकृत्याख्यायां ८ आध्यात्मिकतुष्टौ च । यथा
“आध्यात्मिक्यश्चतस्रः प्रकृत्युपादानकालभाग्यख्याः । वाह्या
विषयोपरमात् पञ्च, नव तुष्टयोऽभिमताः सा० का० । “प्रकृ
तिव्यतिरिक्तआत्मास्तीति प्रतिपद्य ततोऽस्य श्रवणमनना-
दिना विवेकसाक्षात्काराय त्वसदुपदेशतुष्टो यो न प्रयतते
तस्य चतस्र आध्यात्मिक्यस्तुष्टयोभवन्ति प्रकृतिव्यतिरिक्तात्मा-
नमधिकृत्य यस्मात्तास्तुष्टयस्तस्मादाध्यात्मिक्यः, कास्ताः,
इत्यत आह प्रकृत्युपादानकालभाग्याख्याः प्रकृत्यादिराख्या
यासां तास्तथोक्ताः । तत्र प्रकृत्याख्या तुष्टिर्यथा कस्यचिदु-
पदेशः “विवेकसाक्षात्कारोहि प्रकृतिपरिणामभेदः तञ्च
प्रकृतिरेव करीतीति कृतं ते ध्यानाभ्यासेन, तस्मादेवमेवा-
स्व वत्सेति” । सेयमुपदेष्टव्यस्य शिष्यस्य प्रकृतौ तुष्टिः प्रकृ-
त्याख्या तुष्टिः अम्भ इत्युच्यते” त० कौ० । अस्य अम्भः-
पृष्ठ ०३३३
शब्दवाच्यत्वे हेतुस्तद्व्याख्याने दर्शितोऽस्माभिः यथा
“अस्याश्च तुष्टेरम्भस इव प्रसन्नत्वात् उपदेशरूपशब्दहेतु-
कत्वाच्च अम्भस्त्वम् अभि--शब्दे इति घातोरसुन्नन्तस्य
शब्दहेतुकरूपार्थानुगमात्” । द्व्यावापृघिव्योः द्वि० ब०
निरु० ।

अम्भः(म्भस्सा)सार न० अम्भसां सारं वा सत्वम् । मुक्तायां रा० नि० ।

अम्भः (म्भस्सू)सू पु० अम्भांसि सूते सू--क्विप् वा सत्वम् । धूमे हे० ।

अम्भसांनिधि पु० ६ स० अलुक् स० । समुद्रे “शिखाभिरा-

श्लिष्ट इवाम्भसां निधिः” माघः ।

अम्भृण पु० भ्रण--शब्दे यङ् लुक् अच् वेदे नि० । १ महति निरु० ।

२ भयङ्करशब्दकारके “पिशङ्गभृष्टिमम्भृणं पिशाचिम्” ऋ०
१, १ ३३, ५, “भयङ्करशब्दायमानमतिप्रवृद्धं वेति” भा० ।
“कुम्भीभ्यामम्भृणौ सुते” य० १९, २७ ।

अम्भोज न० अम्भसि जायते जन--ड ७ त० । १ पद्मे

“गिरा मुखाम्भोजमियं युयोज” नैष० । “वक्त्राम्भोजं
सरस्वत्यधिवसति सदा शोणएवाधरस्ते” का० प्र० । २ सारसे
३ चन्द्रे “पिबन्ति त्वन्मुखाम्भोजच्युतं हरिकथामृतमिति”
भाग० । चन्द्रादेवामृतच्युति सम्भवः ४ कर्पूरे च पु० ।
५ शङ्खे पु० न० । ६ जलजातमात्रे त्रि० ।

अम्भोज(ख)षण्ड न० अम्भोजानां समूहः (ख)षण्डच् । पद्म-

समूहे “कुमुदवनमुपश्रि श्रीमदम्भोजस्व(ष)ण्डम्” माघः ।

अम्भोजजन्मन् पु० अम्भोजाज्जन्म यस्य जन्माद्युत्तरपदोव्यधि-

करणोऽपि साधु वामनः । चतुर्मुखे हरिनाभिपद्मजे
ब्रह्मणि अब्जजशब्दे विवरणम् । “अम्भोजजन्मजनिस्त-
दन्तरगतो वत्सानितो वत्सपान्” भाग० अम्भोजजन्मनः
हिरण्यगर्भस्य जनिरुत्पत्तिर्यस्मात् तथाविधो विष्णुरित्यर्थः ।

अम्भोजयोनि पु० अम्भोजं हरिनाभिपद्मं योनिः उत्पत्ति-

स्यानं यस्य । विधातरि । अब्जजशब्दे विवरणम् ।
“सदनमुपगतोऽहं पूर्ब्बमम्भोजयोनेरिति” प्रबो० ।

अम्भोजिनी स्त्री अम्भोज + समूहार्थे, तद्वति देशे वा पुस्करा०

इनि । १ पद्मसमूहे, २ लतारूपे पद्मयुक्तदेशे च ।

अम्भोद पु० अम्भो ददाति दा--क । १ मेघे, २ मुस्तके च ।

३ जलदानकर्त्तरि त्रि० ।

अम्भोधर पु० अम्भोधरति धृञ्--धारणे अच् । १ मेघे । २ मुस्तके ३ समुद्रे, च ।

अम्भोधि पु० अम्भांसि धीयन्ते यत्र धा--आधारे कि ।

समुद्रे । “सम्भूयाम्भोधिमभ्येति महानद्या नगापगा” ।
“अम्भोधिरोधसि पृथुप्रतिमानभागेति” “अम्भोधिर्विकसित
वारिजाननोऽसौ” इति च माघः ।

अम्भोधिवल्लभ पु० ६ त० । प्रबाले राजनि० ।

अम्भोनिधिः पु० अम्भांसि निधीयन्तेऽत्र अम्भस्--नि + धा--कि ।

१ समुद्रे । “मैनाकमम्भोनिधिबद्धसख्यम्” कु० “अम्भो-
निधिर्वहति दुर्वहबाड़वाग्निम्” चौ० प० ।

अम्भोराशि च० अम्भसां राशिरिव एकत्रोपचितत्वात् । समुद्रे ।

अम्भोरुह न० अम्भसि रोहति रुह--क । १ पद्मे २ सारसे च

३ जलजातमात्रे त्रि० “हेमाम्भोरुहशस्यानां तद्वाप्यो
धाम साम्प्रतम्” कुमा० ।

अम्मय त्रि० अपां विकारादि अप् + मयट् । १ जलविकारे २

जलप्रचुरे च “सौरीभिरिव नाड़ीभिरमृताख्याभिरम्मयः” रघुः ।
“नह्यम्मयानि तीर्थानि न देवा मृच्छिलामया” भाग० ।

अम्र पु० अमति सौरभेण दूरं गच्छति अम--रन् । आम्रवृक्षे ।

फलपत्रादौ न० । एवं प्रायः सर्व्वत्र वृक्षवाचकेषु ।

अम्रा(म्ला)त पु० अम्लं रसं सर्व्वत्र पत्रपुष्पादौ अतति

व्याप्नोति अत--अण् वा रस्य लत्वम् । (आमड़ा)
आम्रातकवृक्षे । स्वार्थे कन् अम्रा(म्ला)तकोऽपि ।

अम्ल न० अम--क्ल । (घोल) १ तक्रे । (टक)रसभेदे पु० ।

३ तद्वति त्रि० “कट्वम्ललवणात्युष्णतीक्ष्णरुक्षविदाहिनः”
गीता । अम्लरसद्रव्याणि च सुश्रुते दर्शितानि यथा ।
दाड़िमामलकमातुलुङ्गाम्रातककपित्थकरमर्द वदरकोलप्राची-
नामलकतिन्तिडीककोशाम्रभव्यपारावतवेत्रफललकुचाम्लवेत-
सदन्तशठदधितक्रसुराशुक्तसौवीरकतुषोदकघान्याम्लप्रभृतीनि
समासेनाम्लोवर्गः” ।

अम्लक पु० अल्पोऽम्लः अल्पार्थे कन् । (मान्दार) लकुचवृक्षे ।

अम्लकाण्ड न० अम्लं काण्डं यस्य । लवणतृणे राजनि० ।

अम्लकेशर पु० अम्लः केशरोऽस्य । वीजपूरे (गोंड़ानेवु) ।

अम्लचूड पु० अम्ला चूड़ा शिखाऽस्य । अम्लशाके ।

अम्लजम्बीर पु० अम्लो जम्बीरः । (गोंड़ानेवु) जम्बीरवृक्षे ।

अम्लनायक पु० अम्लं रसं नयति नी--ण्वुल् । अम्लवेतसे ।

अम्लनिशा स्त्री अम्लरसे निःशेषेण शेते शीङ् ड । शठीवृक्षे

अम्लपञ्चफल त्रि० “कौलं च दाड़िमञ्चैव वृक्षाम्लं

चूक्रिका तथा । अम्लवेतसमित्येतदम्लपञ्चफलं स्मृतम्”
जम्बीरं नागरङ्गञ्च तथाम्लवेतसं पुमः । तिन्तिड़ीकं
वीजपूरमम्लपञ्चफलं स्मृतमिति चोक्ते फलपञ्चके ।

अम्लपत्र पु० अस्लं पत्रं यस्य । अश्मन्तकवृक्षे ।

अम्लपत्री स्त्री अम्लं पत्रं यस्याः ङीप् । पलाशीलतयाम् ।

अम्लपनस पु० अम्लः पनसः कर्स्म० । (मान्दार) लकुचवृक्षे ।

अम्लपित्त त्रि० अम्लाय पित्तम् । रोगभेदे यत्र भुक्तं सर्व्वं

वस्तुमात्रं पित्तदोषेणाम्लरसतां नीयते तस्मिन् रोगभेदे ।
पृष्ठ ०३३४

अम्लपूर न० अम्लेन अम्लरसेन पूर्य्यते पूर--कर्म्मणि घञ्

६ त० । वृक्षाम्ने (तेतुल) राजनि० ।

अम्लफल पु० अम्नं फलं यस्य । (तेतुल) इति ख्याते वृक्षाम्ले ।

अम्लबन्ध्या स्त्री बन्ध--कर्म्मणि ण्यत् । अम्लसम्बद्धे कन्दभेदे ।

अम्लभेदन पु० अम्लार्थं भिद्यतेऽसौ कर्म्मणि ल्युट् । अम्लवेतसे

अम्लरस पु० अम्लो रसः । अम्ले रसे । २ तद्वति त्रि० ।

अम्लरुहा स्त्री अम्लाय रोहति रुह--क । मालवजनागबल्ल्याम्

अम्ललोनि(णि)का स्त्री अम्नं रसं लाति गृह्णाति अम्ललः

तमूनयति अत्युग्राम्लत्वात् हीनयति ऊन--ण्वुल् पृ०
णत्वम् । (आमरुल) इति ख्याते लताभेदे । अम्लोनीप्यत्र ।

अम्लवती स्त्री अम्लो रसो विद्यतेऽस्याः अम्ल + रसा० मतुप्

मस्यवत्वम् । (आमरुल) ख्याते लताभेदे ।

अम्लवर्ग पु० अम्लरसप्रधानानां वर्गः । सुश्रुतोक्त्वे अम्लरस-

प्रधानद्रव्ये । तच्च अम्लशब्दे ३३३ पृष्ठे दृश्यम् ।

अम्लवल्ली स्त्री अम्लरसवती वल्ली । त्रिपर्णिकानामकन्दभेदे

अम्लवाटिका स्त्री अम्लस्य वाटिका स्थानमिव । नागवल्ली

भेदे । पित्तरक्तप्रकोपकरत्वेन तत्स्थानत्वात् तथात्वम् ।

अम्लवास्तूक पु० अम्लरसान्वितो वास्तूकः शाकभेदः । (चुक-

पालङ्ग) इति ख्याते चुक्रे ।

अम्लवीज न० अम्लस्य वीजं कारणम् । (तेतुल) वृक्षाम्ले ।

अम्लवृक्ष न० अम्लरसोवृक्षे यस्य । (तेतुल) वृक्षाम्ले

अम्लवेतस पु० अम्लावेतस इव नम्रश्च । (चुका) ख्याते चुक्रे

अम्लशाक पु० अम्लः शाको यस्य । (चुका) इति १ ख्याते

चुक्रे । २ अम्लप्रधाने शाकाम्ले पु० ।

अम्लसार पु० अम्लोरमएव सारः प्रधानं यस्य । १ चुक्रे

२ निम्बुके, ३ हिन्ताले च । ४ काञ्चिके न० ।

अम्लहरिद्रा स्त्री अम्लरसान्विता हरिद्रा । (आमहरिद्रा) ख्याते वृक्षे

अम्ला स्त्री अम्लो विद्यतेऽस्या अर्श आद्यच् । तिन्तिड्याम् ।

अम्लाङ्कुश पु० अम्लम् अङ्कुशाकारमग्रं यस्य । चुक्रे ।

अम्लातक पु० न म्लायति म्लै--तन् न० त० । अम्लवेतसे ।

अम्लादन पु० अद्यते अद--कर्म्मणि ल्युट् कर्म्म० । कुरण्टकवृक्षे ।

अम्लान पु० म्लै--क्त न० त० । आव्ला इति ख्याते

महासहावृक्षे । २ म्लानभिन्ने त्रि० । “अम्लानपङ्कजां मालां
शिरस्युरसि चापराम्” देवी० । ३ पद्मे न० ।

अम्लानिनी स्त्री अम्लानानां पद्मानां समूहः इनि । पद्मिन्याम् ।

अम्लिका स्त्री अम्नैवस्वार्थे कन् । १ तिन्तिड्याम् । अत्राम्लीके-

त्यपि सा च २ पलाशीलतायां ३ श्वेताम्लिकायां ४ क्षुद्रा-
म्लिकायाञ्च राजनि० । अम्लोस्त्यत्र उद्गारे वा ठन् ।
१ अम्लोद्गारे मेदि० ।

अम्लिकावटक पु० अम्लिकाया वटकः । भावप्रकाशोक्ते (अम्ल

वड़ी) इति ख्याते वटकभेदे यथा “अम्लिकां स्वेदयित्वा तु
जलेन सह मर्द्दयेत् । तन्नीरे कृतसंस्कारे वटकान् मज्जयेत्
पुनः । अम्लिकावटकास्ते तु रुच्यवह्निप्रदीपनाः” भा० प्र० ।

अम्ली स्त्री अम्ल + गौ० ङीष् । चाङ्गेर्य्याम् (आमरुल) ।

अम्लोटक पु० अम्लम् उठं पत्रं यस्य । (अम्लकुचा) इति

अश्मन्तकवृक्षे ।

अम्लोद्गार पु० अम्लस्य उद्गारः । अम्लररसूचके उद्गारे ।

अय गतौ भ्वा० आ० सक० सेट् । अयते आयिष्ट अयाम्बभूव

अयामास अयाञ्चक्रे । अस्य परस्मैपदित्वमपि “अय
मुदयति मुद्राभञ्जनः पद्मिनीनामित्युद्भटः “शुचोदयन्
दीधितिमुक्थशासः यजु० १९ ६९ । “उदयति विततो-
र्द्धरश्मिः” माघः ।

अय पु० एति सुखमनेन इण्--करणे अच् । १ प्राक्तने

शुभकर्म्मणि, २ शुभदायके--दैवे “स गुप्तमूलप्रत्यन्तः शुद्धपार्ष्णि-
रयान्वितः” रघुः “तव धर्म्मः सदयीदयोज्ज्वलः” नै०
३ विधाने च । अयते जयमनेन । ४ कपर्द्दकरूपे एकाद्यङ्कयुक्ते
द्यूतसाधने ५ पाशके च “अथास्मै पञ्चाक्षान् पाणावावपति
अभिभूरस्येतास्ते पञ्च दिशः कल्पन्तामित्येष वा अयानभि-
भूर्यत्कलिरेण हि सर्वानयानभिभवति” इति शत० ब्रा० ।
“अक्षा नाम कपर्द्दकाः सुवर्ण्णनिर्म्मिता, विभीतफलामि
सौवर्ण्णानि वा । ते चाक्षा द्यूतकाले निवपनीयाः । तेषां
चतुर्ण्णामङ्कानां कृतसंज्ञा पञ्चानां कलिसंज्ञा तथा च
शाखान्तरे स्तोमसंस्थायां कृतादिव्यवहारः कृतः “ये
वै चत्वारः स्तोमाः कृतं तत्” अथ ये पञ्च कलिः
इति” यदा पञ्चाप्यक्षा उत्ताना भवन्ति तदो देवि-
तुर्जयोभवति पञ्चसु त्वेकरूपासु जय एव भविष्यतीव्यत्य-
त्रोक्तम् । अयशब्दः अक्षवाची” इति भा० । चतुरङ्का-
न्विते ६ पाशकभागे च । “यथा कृताय विजिताया-
धरेयाः संयन्ति” छा० उ० “कृतो नाम अयोद्यूत
समये प्रसिद्भश्चतुरङ्कः स यदा जयति द्यूते प्रवृत्तानां,
तस्मै विजिताय तदर्थमितरे त्रिद्व्येकाङ्का अधरेयाः
त्रेताद्वापरकलिनामानः संयन्ति सङ्गच्छन्ते अन्तर्भवन्ति
चतुरङ्के कृताङ्के त्रिद्व्येकाङ्कानां विद्यमानत्वादन्तर्भवन्तीति”
भा० । “द्यूतस्य समयः सङ्केतस्तदनुष्ठानसमयो वा येन
द्यूतविद्यायां जीयते सोऽक्षस्य कश्चिद्भागोऽयशब्दवाच्यः स
पृष्ठ ०३३५
च चतुरङ्कोभागः चत्वारोऽङ्काश्चिह्नान्यस्मिन्निति व्युत्पत्तेः
तस्मै, कृतनामभृते, यदा द्यूते प्रवृत्तानां मध्ये
स कीऽपि जयति तदा तस्मै कृतनामभृते विजिताय
अधरेयाः संयन्तीति सम्बन्धः तदर्थं व्याचष्टे तदर्थमिति
अधरेयान् व्याकरोति त्रेतेति । अक्षस्य यस्मिन् भागे
त्रयोऽङ्काः स त्रेतानामायः यत्र तु द्वावङ्कौ स द्वापर
नामायः । यत्र एकोऽङ्कः स कलिनामाय इति । तादर्थ्ये-
नेतराङ्कानामन्तर्भावमुक्तं व्यक्तीकरोति चतुरङ्क इति तदन्त-
र्भवन्ति तस्मिन् कृताये त्रेतादयस्तेऽअन्तर्भवन्ति महासंख्या-
यामवान्तरसंख्यान्तर्भावः प्रसिद्ध इति” आनन्दगिरिः ।
यन्ति शाराः अस्मिन् इण--आधारे अच् । द्यूते सर्व-
शारगन्तव्ये ७ स्थलभेदे अयानयशब्दे विवरणम् । अयते
अच् । ८ गन्तरि त्रि० । चिदया आ नाम ऋ० ६, ६६, ५ ।

अयःपान न० अयः द्रवीभूतं तप्तलौहं पीयतेऽत्र ल्युट् ।

नरकभेदे यथा भाग० ५ स्कन्धे तामिस्रादिनरकगणनायाम्
वीचिरयः पानमित्युक्त्वा तद्विवरणं सहेतुकं तत्रैवोक्तं “यस्त्विह
वै विप्रो राजन्यो वैश्यो वा सोमपीथस्तत्कलत्रं वा सुराः
व्रतस्थो वा पिबति प्रमादतः तेषां निरयं नीतानामुरसि
पदाक्रम्य वह्निना द्रवमाणं कार्ष्णायसं निषिञ्चन्ति” इति ।

अयःशूल न० अय एव शूलम् उपतापकम् । १ तीव्रे उपतापे,

२ लौहकृतास्त्रभेदे च । वा सत्वम्, अयश्शूलमप्यत्र ।

अयक्ष्म त्रि० नास्ति यक्ष्मा रोगोयस्य वेदे नि० अच् समा० ।

१ नीरोगे रोगशून्ये “यथा नः सर्वमिज्जगदयक्ष्मं सुमना
असतः यजु० १६, ४ अयक्ष्मं नीरोगम् वेददी० । ५ व० ।
२ उपद्रवासाधने “तयास्मान्विश्वतस्त्वमयक्ष्मयापरिभुज”
यजु० १६, ११, “अयक्ष्मया निरुपद्रवया” वेद दी०

अयज्ञ त्रि० नास्ति यज्ञो यस्य । अकृतयज्ञे । “पनी” अयज्ञ

अवृधा अयज्ञान्” ऋ० ७, ६, ३, ।

अयज्ञिय त्रि० न यज्ञाय हितः यज्ञ--घ न० त० । १ यज्ञकर्म्मणि

दातुमनर्हे १ माषादौ “अयज्ञिया वै माषा” श्रुतिः यज्ञक्राले
ऽनुच्चार्य्येऽपशब्दे च अयज्ञियवाग्वचने भ० भ० ३ यज्ञं कर्त्तु-
मनर्हे असंस्कृतेऽनुपनीतादौ “अयज्ञिया वै गर्भास्तमेतं
ब्रह्मणैव यजुषा यज्ञियं करोति” शत० ब्रा० ।

अयज्यु त्रि० यज--वा० उ नि० युट् न० त० । १ यष्टृभिन्ने

२ यज्ञविघातके च “शासस्तमिन्द्र मर्त्यमयज्युं शवसस्पते!
ऋ० १, १३१, ४ “यजेदयज्योर्विभजातिभोजनम्”
ऋ० २, २६, १

अयज्वन् पु० विधिनेष्टवान् यज्वा न० त० । अकृतयज्ञे ।

“अयज्वानमदक्षिण्यमभिश्वैत्येति व्याहरन्” भा० द्रो० प०
षोड़शधा पाठः । “योऽनाहिताग्निः शतगुरयज्ज्वा
च सहस्रगुः” “अयज्वनान्तु यद्वित्तमासुरं वै तदुच्यते” मनुः ।

अयत त्रि० न यम्यते यम--क्त न० त० । १ अकृतयमे अकृते-

न्द्रियनिग्रहे । यतते यत--अच् न० त० । २ यत्नशूत्ये ।

अयत्न पु० अभावे न० त० । १ यत्नाभावे आयासाभावे

“तदवाप्नोत्ययत्नेन यो हिनस्ति न कञ्चन” मनुः । न० ब० ।
२ प्रयासशून्ये त्रि० “तद्योधवारवाणानामयत्नपटवास-
ताम्” रघुः ।

अयत्नवत् त्रि० न यत्नवान् । १ यत्नशून्ये “तेन तुल्यम्

क्रिया चेद्वति” “तत्र तस्येविति” पा० वा वति । २ यत्न-
शून्य तुल्यक्रियादौ ३ यत्नशून्यस्य समाने च अव्य० ।

अयथा अव्य० यथा योग्यत्वे न० त० । यस्य यथा विधान-

मुचितं १ तथा करणाभावे २ अनुचितकरणे ३ मिथ्याभूते च
नास्ति यथा योग्यत्वं यत्र । ४ अयोग्ये ५ अयत्ने च
त्रि० । “तस्मा अयथं कर्षदेतत्” ऋ० १०, १८, १५
“अयथमयत्नेन लीलया” भा० ।

अयथातथ त्रि० यथा योग्यं तया न भवति “यथातथयथा

पुरयोरिति” पा० निर्द्देशात् नि० स० । १ अयथार्थे यत्
यर्दथं क्रियते तस्मिन् तदर्थमभूते च । “दैवे कर्म्मणि
पित्र्ये च तद्गच्छत्ययथातथम्” मनुः । यत् कर्म्म
यदर्थं क्रियते तन्न साधयति” कुल्लू० तस्य भावः ष्यञ् वा
पूर्व्वपदवृद्धिः आयातथ्यम् अयाथातथ्यञ्च तद्भावे न० ।

अयथार्थ त्रि० विरोधे न० त० । यथार्थभिन्ने मिथ्याभूते

यथा अयथार्थानुभवः । स च तदभाववति तत्प्रकारकं
ज्ञानं तच्च त्रिविधम् संशयभ्रमारोपरूपतर्कज्ञानभेदात् ।
तेषां सर्वेषाम् तदभाववति तत्प्रकारकज्ञानरूपत्वात्तथात्वम्

अयथावत् अव्य० अयोग्यरूपमर्हति अर्हार्थे वति । अननु-

रूपे यथोचितभिन्ने ।

अयथेष्ट अव्य० न० त० । १ इच्छानुरूप्याभावे । अर्श आद्यच् २ स्वल्पे त्रि० ।

अयन न० अय--भावे ल्युट् । १ गतौ, दक्षिणत उत्तरस्याम्,

उत्तरतश्च दक्षिणस्यां सूर्य्यस्य चन्द्रस्य च २ गतौ, तथाहि
द्वादशराश्यात्मकस्य राशिचक्रस्यार्द्धं मकरावधिमिथुनपर्य्यन्तम्
राशिषट्कं क्रमेण उत्तरावनतं तत्र स्थितोऽर्कश्चन्द्रो वा
स्वगत्या प्राचीं गच्छन्नपि किञ्चित् किञ्चित्तिर्य्यग्गत्या
उत्तरामभिक्रामति, एवं कर्कटावधिधनुःपर्य्यन्तं राशिषट्कं
क्रेमेण दक्षिणावनतं तत्र स्थितोऽर्कश्चन्द्रो वा प्राग्वत् दक्षि-
णामेवाभिक्रामति सेयं गतिरयनशब्देन ज्योतिषे व्यव-
पृष्ठ ०३३६
ह्रियते तत्र सूर्य्यस्यायनं सौरैः षड्भिर्मांसैरेकं भवतीति
च तत्रैव प्रसिड्वम् । “अयनविष्णुपदीषडशीतय” इत्युक्तेः
३ अयनाख्यसंक्रान्तौ सा हि परिभाषिकायनशब्दवाच्या ।
नभोमण्डले प्रवहानिलेन पश्चाद्गत्या बंभ्रम्यमाणस्य राशि-
चक्रस्य निराधारतया दोलायमानत्वेन सप्तविंशांशपर्य्यन्तं
प्राक् पश्चाच्च गतिर्भवति । क्रान्तिस्थानञ्च अष्टमासा-
धिक ६६।८ षट्षष्टिवर्षैरेकैकमंशमतीत्य प्राक्, पश्चाद्वा
चलतीति १८०० अष्टदशशतवर्षैः सप्तविंशांशपर्य्यन्तं
प्राक्गत्वा पुनः पश्चात्, पश्चाद्गत्वा च पुनः प्रागवलम्बते ।
यदा चैवं राशिचक्रस्यायनस्थानं प्राक् गच्छति तदा राशि-
चक्रनिर्द्दिष्टमेषादिस्थानात् उक्तकालभेदेनेकैकांशातिक्रमेण
क्रमशः प्राचि, प्राक्तरे, प्राक्तने, वा स्थाने रव्यादि-
ग्रहाणां प्रभापुञ्जसञ्चारः । यदा तु पश्चादवलम्बते तदा
निर्दिष्टमेषादिस्यानात् तथैव परे, परतरे, परतमे, च स्थाने
ग्रहाणां प्रभापुञ्जसञ्चार इति भेदः । इदानीञ्च पश्चिमा-
यनं तेन राशिस्थानात् पश्चादेव ग्रहप्रभापुञ्जसञ्चारः ।
तथाच ज्योतिघोक्तगणितरीत्या मीनान्तात् पश्चादेकविंशांशे
एवेदानी विषुवादिसंक्रान्तिर्भवति एवं विष्णुपद्यादीनामपि
तत्तदंश एव ग्रहप्रभापुञ्जसञ्चारः । अयञ्चायनानुसारेण ग्रह-
प्रभापुञ्जसञ्चारस्वीकारः दिनमानविशेषस्य लग्नपरिमाणस्य
छायापदविशेषस्य, च बोधार्थमिति सिद्धान्ते प्रसिद्धम् ।
करणे ल्युटि । ४ उक्तायनज्ञानसाधने शास्त्रे, “ज्योति-
षामयनञ्चैवेति” ५ सैन्यनिवेशविशेषरूपव्यूहप्रवेशमार्गे च
“अयनेषु च सर्व्वेषु यथाभागमवस्थिताः” इति गीता ।
आधारे ल्युट् । ६ पथि, ७ गृहे, ८ आश्रये, ९ स्थाने, “ता
यदस्यायनं पूर्ब्बमिति” मनुः । प्रागुक्तराशिचक्रस्य क्रान्तिवृत्ता
रम्भस्थानविशेषे १० अंशादौ च “तत्काले सायनार्कस्येति”
नीलकण्टः । तथाहि मीनान्तो हि युगादौ अयनांशप्रथम
स्थानं ततःप्राग्गत्या कियदंशपर्य्यन्तचलनेन परावृत्य पश्चाद्गत्या
पूर्वराशेः कियदंशपर्य्यन्तं गत्वा पुनःप्राग्गत्या प्राथमिकचलन
स्थानप्राप्तौ अयनस्यैकोविलक्षणो भगणो भवति इत्येवं
स्थिते तद्भगणपूरणकालादिज्ञापनाय किञ्चिदभिधीयते । सूर्य
सिद्धान्ते । “त्रिंशत्कृत्यो युगे भानां चक्रं प्राक परिलम्बते ।
तद्गुणाद्भूदिनैर्भक्ताद्द्युगणाद्यदवाप्यते ॥ तद्दोस्त्रिघ्ना दशाप्तांशा
विज्ञेया अयनाभिधाः । तत्संस्कृताट्ग्रहात् क्रान्तिच्छाया-
चरदलादिकम्” इति ॥ “भानां चक्रं राशीनां वृत्तं क्रान्ति-
वृत्तं स्वस्वविक्षेपमितशलाकाग्रप्रोतनक्षत्रगणैर्युक्तमित्यर्थः । युगे
महायुगे प्राक् पूर्ब्बविभागे त्रिंशत कृत्यस्त्रिंशत्सङ्ख्यका कृयः
र्विंशतयः षट्शतमित्यर्थः । परिलम्बते ध्रुवाधारभगोलस्था-
नात् तद्दूरमवलम्बते । अत्र परिलम्बत इत्यनेन भचक्र-
पूर्णभ्रमणाभाव उक्तोऽन्यथा ग्रहभगणप्रसङ्गेन मध्याधि-
कार एवैतदुक्तं स्यात् । तथा च तद्दूरमवलम्बनोक्त्या
परावृर्त्य यथास्थितं भवतीत्यागतं यथापि स्वस्थानात् तथैव
पश्चिमतोऽप्यवलम्बत इति सूचितम् । एवञ्च भचक्रं पश्चि-
मत ईश्वरेच्छया प्रथमतः कतिचिद्भागैश्चलति ततः
परावृत्य यथास्थितं भवति ततोऽपि तद्भागैः क्रमेण पूर्ब्बतश्च-
लति ततोऽपि परावृत्य यथावस्थानंस्थितमित्येको विलक्षणो
भगणः । तेन प्रागित्युपलक्षणम् । पश्चिमावलम्बनानुक्तिस्तु
संवादकाले तदभावात् । अत्र त्रिंशत्कृत्व इति पाठः
प्रामादिकः । “युगे षट्शतकृत्वो हि भचक्रं प्राग्विल-
म्बते” इति सोमसिद्धान्तविरोधात् । “तत् पश्चाच्चलितं
चक्रमिति” ब्रह्मसिद्धान्तोक्तेश्च । अहर्गणात् तद्गुणात्
षट्शतगुणिताद् भूदिनैर्युगीयसूर्यसावनदिनैर्भक्ताद्यत् फलं
भगणादिकं प्राप्यते तस्य भगणत्यागेन राश्यादिकस्य भुजः कार्यस्त-
स्माद्दशाप्तांशा दशभिर्भजनेनाप्तभागास्त्रिगुणिता अयनसं-
ज्ञका ज्ञेयाः । भुजांशास्त्रिगुणिता दशभक्ताः फलमय-
नांशा इति तात्पर्य्यार्थः । तत्संस्कृतात् तैरयनांशैर्भचक्र-
पूर्ब्बापरचलनवशाद्युतहीनाद्ग्रहात् पूर्ब्बापरभचक्रचलनावग-
मस्त्वयनग्रहस्य षद्भान्तर्गतानन्तर्गतत्वक्रमेण क्रान्तिच्छा-
याचरदलादिकं साध्यम् । न केवलात्, बिशेषोक्तेः । छाया
वक्ष्यमाणा चरदलं चरं पूर्ब्बाधिकारोक्तम् । आदिशब्दा-
दयनवलनमायनदृक्कर्म्म सङ्गृह्यते । यद्यपि तत्संस्कृताद्ग्र-
हात् क्रान्तिरित्येव वक्तव्यमन्येषामत्र तदुपजीव्यत्वाद्ग्र-
हणं व्यर्थं तथापि क्रान्तिरित्युक्त्या केवलक्रान्तिज्ञानार्थं
तत्संस्कृतग्रहात् क्रान्तिः साध्या । पदार्थान्तरोपजीव्यायाः
क्रान्तेः साधनं तु केवलादित्यस्य वारणार्थं क्रान्तिमात्रं
तत्संस्कृतात् साध्यमिति सूचकं छायाचरदलादिकथनम् ।
ईश्वरेच्छया क्रान्तिवृत्तं स्वमार्गे पश्चिमतः सप्तविंशत्यंशैः
क्रमोपचितैश्चलितं ततः परावृत्य स्वस्थान आगत्य तत्स्था-
नात् पूर्बतः सप्तविंशत्यंशैश्चलितम् । तथा च सृष्ट्यादिभूत-
क्रान्तिविषुवद्दृत्तसम्पाताश्रितक्रान्तिवृत्तप्रदेशो रेवत्यामन्नः
प्रागानीतग्रहभोगावधिरूपः स्वस्थानात् पूर्ब्बमपरत्र वा
क्रान्तिवृत्तमार्गे गतः । विषुवद्वृत्ते तु तद्भागस्य वा पश्चिम-
भागः पूर्व्वभागो वा गतः । सम्पाते तद्वृत्तयोर्याम्योत्त-
रान्तराभावात् क्रान्त्यभावः । पूर्ब्बसम्पातप्रदेशे तु
तयोर्य्याम्योत्तरान्तरत्वात् क्रान्तिरुत्पन्नातो यथास्थितग्रहभो-
पृष्ठ ०३३७
गात् क्रान्तिरसङ्गतेति सम्पातावधिकग्रहभोगात् क्रान्तिर्युक्ता
तत्र सम्पातावधिकग्रहभोगज्ञानार्थं पूर्ब्बसम्पातावधिकः
पूर्ब्बाधिकारोक्तो ग्रहमोगो वर्त्तमानसम्पातपूर्ब्बसम्पाता-
श्रितक्रान्तिवृत्तप्रदेशयोरन्तरभागैरयनांशाख्यैः पूर्व्वसम्पा-
तप्रदेशस्य पूर्ब्बपश्चिमाव्स्थानक्रमेण युतहीनो भवति ।
क्रान्त्यु पजींव्याः पदार्था अपि वर्त्तमानसम्पातादुत्पन्ना इति
तत्साधनमपि तत्संस्कृतग्रहात् । अथायनांशज्ञानं तु
षट्शतभगणेभ्यः पूर्ब्बानुपातरीत्याहर्गणाद्ग्रहभोगो भगणा-
दिकस्तत्र गतभगणमितं परपूर्ब्बभचक्रावलम्बनं गतम् ।
वर्त्तमानं त्वारम्भे पश्चिमावलम्बनाद्राशिषट्कान्तर्गते राश्या-
दिके पश्चिमावलम्बनमनन्तर्गते पूर्ब्धावलम्बनम् । तत्रापि
त्रिभान्तर्गगतानन्तर्गतत्वक्रमेण चलनं परावर्त्तनमिति भुजः
साधितस्ततो नवत्यंशैर्यदि सप्तविंशतिमागास्तदा भुजांशैः कि
मित्यनुपातेनं गुणहरौ नवभिरपवर्त्य भुजांशास्त्रिगुणिता
दशभक्ता इति सर्व्वमुपपन्नम् रङ्ग०” ॥ “स्फुटं दृक्तुल्यतां
गच्छेदयने विषुवद्वये । प्राक् चक्रं चलितं हिदं छायार्कात्
करणागते ॥ अन्तरांशैरथावृत्य पश्चाच्छेषैस्तथाधिके” सू०
सि० । “अयने दक्षिणोत्तरायणसन्धौ विषुवद्वये गोलसन्धौ
चलितं चक्रंदृक्तुल्यतां दृष्टिगोचरतां स्फुटमनायसं गच्छेत् ।
तत्र प्रत्यक्षतस्तस्मिन् गत्यन्तरं द्वश्यत इत्यर्थः । तथा च
सृष्ट्यादिकाले रेवतीयोगतारासन्नावधिमेषतुलाद्योः कर्क-
मकराद्योर्विषुवायनप्रवृत्तेरिदानीमन्यत्र तत्खरूपे प्रत्यक्षे इति
क्रान्तिवृत्तं चलितमन्यथा तदनुपपत्तेरिति भावः । ननु
पूर्व्वतोऽपरत्र वा चलितमिति कथं ज्ञेयमित्यत आह ।
प्रागिति । छायार्काद्यद्दिने सूर्यस्यायनदिक्परावर्त्तनमुदये
प्राच्यपरसूत्रस्थत्वं वा तस्मिन् दिनेऽन्यन्मित् दिने वा मध्या-
ह्नच्छायातो वक्ष्यमाणप्रकारेण सूर्यः साध्यस्तस्मादित्यर्थः ।
करणागते प्रागुक्तप्रकारेणातीतः स्पष्टः सूर्यस्तस्मिन्नित्यर्थः ।
न्यूने सति अन्तरांशैः सूर्ययोरन्तरांशैश्चक्रं क्रान्तिवृत्तं
प्राक् पूर्ब्बस्मिन् चलितमिति ज्ञेयम् । अथ यद्यधिके सति
शेषै सूर्ययोरन्तरांशै श्चक्रमावृत्य परिवृत्य पश्चात् पश्चिमा-
भिमुखं तथा चलितमिति ज्ञेयम् । अत्रोपपत्तिः । छायातो
वक्ष्यमाणप्रकारेण सूर्य्यो वर्त्तमानसम्पाताद्गणितागतस्तु
रेवतीतारासन्नाद्यवधितोऽतस्तयोरन्तरमयनांशास्तत्र क्रा-
न्तिवृत्तस्य पूर्ब्बचलने गणितागतच्छायार्कोऽधिको
भवति पश्चिमचलने तु न्यूनो भवतीति सर्व्वगुपपन्नम्” ।
रङ्गनाथः ॥ एवमयनस्य प्रकृतस्थानात् चलने
स्थिते सौरागमे “त्रिंशत्कृत्योयुगे भाना” मित्युक्तेः
सोमसिद्धान्ते “युगे षट्शतकृत्वो हि भचक्रं प्राक्
विलम्बते” इत्युक्तेश्च ४३२०००० वर्षमिते युगे षट्शतै-
र्विभाजिते लब्धैः ७२०० वर्षैरेकोऽयनस्य भगणी
भवतीति गम्यते । एवञ्चोक्तदिशा युगादितः प्रथमं
मीनान्तात् मेषसप्तविंशतिपर्यन्तं प्राक् गत्वा ततः
परिवृत्य मीनशेषपर्यन्तं सप्तविंशत्यशैरागत्य ततोऽपि
पश्चाद्गत्या सप्तविंशत्यंशैः मीनचतुर्थांशपर्यन्तमागत्य परावृत्य
प्राग्गत्या पुनः सप्तविंत्यंशैः मीनशेषपर्यन्तं धावति इत्येवं
चतुर्भिः सप्तविंशत्यंशैः अष्टोत्तरशतांशैः प्राग्पश्चाद्गतिभेदेन
एकोऽयनभगणोभवतीति प्रागुक्तैः ७२०० वर्षैः यदि १०८
अंशाः तदा एकांशे किमित्यनुपातेन ६६ । ८ अष्ट-
मासाघिकषट्षष्टिवर्षैरेकेकांशायनचलनम् इति प्रतिभाति
ततश्च यदि ६६ । ८ वर्षादिभिः ६० कलात्मकोऽंशस्तदा
एकवर्षेण किमित्यनुपाते ५४ विकलाः प्रतिवर्षमयन स्थानचलन
मायाति अत्र प्रागित्युक्तेः सृष्ट्यादौ युगादौ च प्रथमं
प्रागेव गतिर्न तु पश्चिमतः तथात्वे इदानीन्तनांशवैषम्या-
पत्तेः । तथा हि ४३२०००० युगे यदि षट्शतानि
अयनभगणास्तदा १७२८००० कृतयुगे किमित्यनुपातेन
२४० भगणाः १२९६००० त्रेतायुगे १८० भगणाः
८६४००० द्वापरे १२० भगणाः इत्येवं त्रिपुगे ५४०
भगणा गता इदानीं कलियुगस्य वर्षागता ४९७३ यदि
७२०० वर्षेषु १०८ अंशात्मकीभगणस्तदा ४९७३ वर्षेषु
किमिति त्रैराशिके ७४ अंशाः ३५ कलाः ४४ विकलाः
लब्धा तथा च १०८ अंशात्मकायनभगणमध्ये एतावदंशा-
दयो गता इति लभ्यते । तत्र यदि प्रथमं पश्चाद्गत्या
भगणारम्भस्तदा मीनान्तात् चतुर्थांशं यावत् पश्चाद्गत्या
परावृत्य मीनपर्य्यन्तगमने ५४ अंशाः गताः तत प्राग्गत्या
मेषसप्तविं शत्यं शैर्गतिस्वीकारे इदानीं मेषस्य २० । ३५ । ४४
अयनांशादिः स्यात् । नच तत् छायादिसंवादि प्रथमं प्राग्गति
स्वीकारे तु प्राग्गत्या प्रथमं मीनान्तात् मेषस्य सप्तविंशत्यं
शपर्यन्तं गत्वा पश्चाद्गत्या सप्तविंशत्यंशैः मीनान्तगमने
५४ अंशाः गताः ततः पश्चाद्गत्या मीनस्य एते २० । ३५ । ४४
अंशादयोगतास्तथा च पश्चाद्गत्या मीनस्य नवमांशे
इदानीमयनांशादिरिति सर्व्वज्योतिर्वित्सम्पदायः ।
अतएव एतदयनांशमादायैव ग्रहस्पष्टादिकं ग्रहणं
साध्यते दिनमानादिकञ्चानीयते । इदीन्तनाः ज्योति-
विदांशिरोमणयः सर्वगणकावतंसाः पण्डितोत्तमाः श्रीम-
न्तोवापुदेवशास्त्रिणः अयनचलनस्य राहुदृष्टान्तेन सर्व्वथा
पृष्ठ ०३३८
विलोमगतितयायनभगणम् यदुरीचक्रुः तत्र विरोधादिकं
प्रदर्शयिष्यते तद्दृष्ट्वा विद्वद्भिस्तस्य प्रमादोऽप्रमादो वा
वगन्तव्यः । तथा हि छायादिना अयनभोगस्य प्रतिबर्षं
५४ विकलाः इदानीं पश्चादयनस्थानचलनं च सर्वज्योति-
र्वित्प्रसिद्धम् । तत्र केवलं पश्चाद्गत्याऽयनस्थानचलनेन
भचक्रस्य भ्रमणाङ्गीकारे । यदि ५४ विकलाभिः एको वर्षस्तदा
१२९६००० विकलात्मकभचक्रभ्रमणे कति वर्षा इत्यनु-
पातेन २४००० वर्षेष्वेको भगणो भवति यदि २४०००
वर्षैः एकोभगणः तदा ४३२००० वर्षात्मके महायुगे कति
भगणाभवन्ति इत्यनुपातेन १८० भगणाभवन्ति ।
ततश्च सौरसोमसिद्धान्तोक्तषट्शतसंख्याविरोधः इदानीं
मीननवांशे अयनस्थानेविरोधश्च । तथा हि तन्मते राशि-
चक्रस्य केवलं विलोमगत्यायनभगणस्वीकारेण प्रागुक्तटिशा
२४००० वर्षैरेकोभगणः तदा १७२८००० वर्षात्मके
कृतंयुगे कतीत्यनुपातेन ७२ भगणाः । १२९६०००
वर्धात्मकत्रेतायाम् ५४, ८६४००० द्वापरे ३६ इत्येवं
त्रियुगे १६२ भगणाः गताः इदानीं कलेः ४९७३
गताब्देषु किमिति जिज्ञासायाम् यदि ५४ विकलाभिरेको
वर्षस्तदा ४९७३ वर्षेषु किमित्यनुपाते ७४ । ३५ । ४४
अंशादयोगताः इत्यायाति तन्मते च मीनान्तात् सर्वथा
पश्चाद्गत्या भगणपूरणस्वीकारेण मीनान्तात् ७४ । ३५ । ४४
अंशादितः पूर्ब्बमयनस्थानापत्तिः तथाच मीनान्तात्
तावद्भिरंशैः पूर्व्वं मकरस्य पञ्चदशांशे अयनांशादि
स्यात् । न च तथा प्रत्यक्षादिभिरवगम्यते नापि ज्योतिर्विदां
केषाञ्चित्सम्मतम् अतोऽयनस्थानेन केवलविलोमगत्या
भचक्रस्य भ्रमणोक्तिः साहसमेव । किञ्च अतिचिरन्तनकालैः
संवादनीये प्राग्गतित्वे पश्चाद्गतित्वे वा आर्ष ज्ञानं विना
निर्णयासम्भवः अतः सौराद्यागमोक्तं प्राग्गतित्वमना-
दृत्य प्रथमं पश्चाद्गतिस्वीकारः केवलपश्चाद्गतिस्वीकारः
अयनचलनस्य तद्भगणसंख्यातो विषमकल्पनञ्चार्वाग्दृशां
आगसविरोधात् वचनमात्रेण न श्रद्धाय प्रभवति ।
किञ्च सौरागमाद्युक्तं प्राग्गतित्वंमनादृत्य केवलं
पश्चाद्गतित्वं यत् स्वीकृतं तत् सर्व्वव्ययहारलोपकम्
तिथ्यादिसाधनाङ्गायनांशादिविलोपकञ्च । एतेन
इंलण्डिया अपि ज्योतिर्वेत्तारः सृष्टिकालस्य षट्सहस्र-
कालमात्रपरिमितिवादिनोऽपि परास्ताः । तैरपि प्रतिवर्षं
५४ विकलाः अयनांशभोगाः स्वीकृताः स्वीकृतश्च
षटषष्टिवर्षैरकांशभोगः तथा च ६६ । ८ वर्षादिभिर्यदि एको-
ऽंशः पश्चाद्गच्छति तदा तदुक्तसृष्टिकाले ६००० कतीत्य-
नुपाते ९० अंशाः समायान्ति तेन मीनान्तात् ९० अंशान्तरे
पश्चाद्गत्या धनुःशेषांशेऽयनारम्भः स्यात् तदेतद्दृष्टविरुद्ध-
त्वादपेक्ष्यमेवंमीनान्तं विहाय अन्यत्र कान्तिवृत्तारम्भस्था-
नतश्चलनकल्पने न विनिगमकममस्ति इति विजातीयज्योति-
र्विदाम्मतमसङ्गतमेव तैरपि तदवधिक्रान्तिवृत्तारम्भांशचलन-
स्वीकारात् । इदानीं च संवाद्ययनानुसारेण मीनान्तात्
२० । ३५ । ४४ तत्रानुपातेप्रायेण १३७० वर्षा आयान्ति तत्रैव
सृष्टिकल्पनन्तु नैव सम्भवति ख्रीष्टाब्द १८७३ कालस्यततो-
ऽधिकत्वेन तत्पूर्ब्बं सृष्टेरुचितत्वात् । पुनर्भगणान्तरस्वीकारे
तु २४००० वर्षास्ततोऽधिकाः स्युस्तेन २५३५ वर्षाः सृष्टि
कालाः अन्ततः स्युः तावतिथेच काले सर्वग्रहाणां मेषादौ
स्थित्यसम्भव एव इति सर्वथा तन्मतमनादरयणीयमेव । प्राग्-
दर्शितसरणौ प्रीचीनसम्मतिरपि यथा । “मृगसंक्रान्तितः
पूर्ब्बं पश्चात्तारादिनान्तरे । प्रतिवर्षं चतुः पञ्चपलमान-
क्रमेण तु । षट्षष्टिवत्सरानेकदिनं स्यादयनं रवेः । एवं
चतुःपञ्चदिनादयनारम्भणं क्रमात् । व्युत्क्रमेण च तद्वत्
स्यादुदग्यानं रवेर्ध्रुवम् । कर्किसंक्रमणे तद्वदभितोदक्षिणाय-
नम् । अयनांशक्रमेणैव विषुवारम्भणं तथा । रविसंक्रान्ति-
तोमेषतुलयोरभितः पुनः” तिथि० त० । अधिकमयन-
संक्रान्तिशब्दे वक्ष्यते । एति सूर्य्योदक्षिणामुत्तरां
वाऽत्र आधारे ल्युट् । पूर्व्वोक्तरीत्या सूर्यस्योत्तर-
दक्षिणागत्याधारे ११ काले तथा च । “तपस्तपस्यौ शिशि-
रावृतुः मधुश्च माधवश्च वासन्तिकावृतुः शुक्रश्च
शुचिश्च ग्रीष्मावृतुः अथैतदुत्तरायणं देवानां दिनं नभश्च
नभस्यश्च वार्षिकावृतुः इषश्च ऊर्जश्च शारदावृतुः सहाश्च
सहस्यश्च हैमन्तिकावृतुः अथैतद्दक्षिणायनं देवानां रात्रिः”
इति श्रुतौ “अग्निर्ज्योतिरहः शुक्लः षण्मासा उत्तरायणम्
तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदोजनाः । धूमोरात्रि-
स्तथा वह्निः षण्मासादक्षिणायनमिति” गीतायाञ्च षण्मासा-
नामेव अयनत्वेनाभिधानात् । १२ अयनाभिमानिदेवेषु
“आतिवाहिकास्तल्लिङ्गात्” शा० सू० । अर्च्चिरादीनां
तदमिमानदेवतापरत्वव्यवस्थापनात् “तेऽचिर्षमभिसम्पद्यन्ते
अर्च्चिषोऽहः अह्न आपूर्य्यमाणपक्षम् आपूर्य्यमाणपक्षात्
यानुदङ्ङेति तान्मासान् मासेभ्यः संवत्सरमित्युपक्रम्य
सएतान् ब्रह्म गमयतीति” छा० उ० श्रुतौ ब्रह्म-
गमयितृत्वोक्तेः तेषां चेतनपरत्वौचित्यम् । “अयते याति
अनेन ऋतुत्रयेण सूर्य्योदक्षिणाशामुत्तराशां वेति
पृष्ठ ०३३९
ऋतुत्रयमयन तथा च वाजसनेयिनः पञ्चाग्निविद्यायां
दक्षिणोत्तरमार्गयोः समामनन्ति । “यान् षण्मासान्
दक्षिणादित्य एति, यान् षण्मासानुदङ्ङादित्य एतीति”
तथा छन्दोगा अधीयते । “यान् षड़्दक्षिणैति--मासान्
तान्, यान् षडुत्तरैति मासांस्तानिति” तैत्तिरीयाः क्रतु
ग्रहब्राह्मणेपठन्ति “तस्मादादित्यः षण्मासान् दक्षिणेनैति
षड् त्तरेणैति” एवंचादित्यगतिमुपजीव्यायननिष्पत्तेः
सौरमेवैतत् अत एव विष्णु धर्म्मोत्तरे सौरमानमधिकृत्योक्तम्
“ऋतुत्रयं चायनंस्यादिति” केचित्तु चान्द्रमानेनायनद्वयम-
भ्युपगच्छन्ति “मार्गमासादिकैस्त्रिभिः ऋतुभिः कल्पितः
कालः षण्मासात्मकमुत्तरायणं ज्यैष्ठमासादिकैः दक्षिणायन-
मिति तत्र प्रमाणं ज्योतिः शास्त्रादौ मृग्यं श्रौतस्मार्त्तकर्मानु-
ष्ठाने तु मकरकर्कटसंक्रान्त्यादिक एवायनद्वयकाल इति
यथोक्तश्रुतिस्मृतिभ्यामवगन्तव्यम् उत्तरायणस्य यागकर्मा-
ङ्गचं कण्वा अधीयते “उदगयन आपूर्य्यमाणे पक्षे पुण्याहे
द्वादशाहमुपसद्वती भूत्वेत्यादि” । चौलादीनामुत्तरायणकर्त्त-
व्यता गृह्यस्मृतिषु प्रसिद्धा । सत्यव्रतश्च देवताप्रतिष्ठादीना-
मुत्तरायणदक्षिणायनयोर्विधिनिषेधावाह “देवतारामवा-
प्यादिप्रतिष्ठोदङ्नुखे रवौ । दक्षिणाभिमुखे कुर्व्वन् न
तत्फलमवाप्नुयादिति” उग्नदेवतानां प्रतिष्ठा दक्षिणायने
कर्त्तव्या तथा च वैखानससंहितायामभिहितम् “मातृ-
भैरववाराहनारसिंहत्रिविक्रमाः । महिषासुरहन्त्री च
स्थाप्या वै दक्षिणायन इति” कालमाधवीये माधवः ।
“सौरेण द्युनिशोर्वामं षड़शीतिमुखांनिच । अयनं
विषुवच्चैव संक्रान्तेः पुण्यकालता” । सू० सि० उक्तेः
अयनं सौरमानेनैवेत्यवगम्यते । कान्तिवृत्तारम्भस्थान-
चलनं च सर्वेषां राशीनां स्वस्वस्थानात् प्राक् पश्चाद्वा
अयनांशानुसारेणान्यत्र स्थाने भवति । तस्य स्फुटा-
नयनमयनसंक्रान्तिशब्दे वक्ष्यते । “संक्रान्तिषु यथा
कालस्तदीयेऽप्ययने तथा” का० मा० स्मृतिः । एति
समृद्धिमनेनकरणे ल्युट् । १२ सत्रविशेषे यथा गवामयनम्
तद्विवरणं गवामयनशब्दे । अयनेननिर्वृत्तम् अयनस्येदंवा
अण् । आयनम् अयनसाध्ये अयनसम्बन्धिनि च त्रि० ।
“युतायनांशोडुपकोटिशिञ्जिनी जिनांशमौर्व्या गुणिता
विभाजिता । द्युजीवया लब्धफलस्य कार्म्मुकम् भवेच्छ-
शाङ्कायनदिक्कमायनमिति” आयनं वलनमस्फुटेषुणा सङ्गुणं
द्युगणभाजितं हतम् । पूर्ण्णपूर्ण्णधृतिभिर्गृहाश्रितव्यक्ष-
भोदयहृदायनाः कलाः “अस्फुटेषुवलनाक्षतिस्तु वा
पष्टिहृत् फलकलाः स्युरायनाः” इति च सि० शि० । अयने
भवः ठञ् । आयनिकः अयनभवे त्रि० स्त्रियां ङीप् ।

अयनकाल पु० अयधारः कालः । अयनांशाधारे काले

अयन(च)वलन न० ६ त० । अयनांशस्य प्राक् पश्चाद्वा

स्थानान्तरचलने ।

अयनज पु० अयनात् राशीनां स्वस्वस्थानचलनात् जायते

जन--ड । अयनांशजाते मासादौ ।

अयनभाग पु० अयनज्ञापको मागः । अयनांशे ।

अयनमास पु० अयनकृतः मासः । अयनांशानुसारेण

दिनमानादिज्ञानार्थे कल्पिते मासे ।

अयनसंक्रम पु० अयनांशानुसारेण संक्रमः । मेषादिषु

राशिषु अयनांशानुसारेण ग्रहाणां प्रभापुञ्जसञ्चारे
अयनसंक्रान्तिशब्दे विवरणम् ।

अयनसंक्रान्ति स्त्री अयनेन राशिचक्रस्य पश्चात्, प्राग्वा-

गत्या कृता संक्रान्तिर्ग्रहाणां प्रभापुञ्जस्य सञ्चारः सम् +
क्रम--क्तिन् । चलसंक्रान्तौ, संक्रान्तिस्त्रिविधा मध्या-
चला अचला चेति भेदात् मध्यानुपदं बक्ष्यते मेषादि-
भिर्द्वादशभिः स्थानैर्विभक्तस्य निराधारतया स्थितस्य राशि-
चक्रस्य दोलायमानतया प्राक् पश्चाद्वा निर्द्दिष्टमेषादि-
स्थानात् पश्चात् पूर्ब्बं वा राश्यन्तरे मण्डलगतिं
विनापि ग्रहाणां प्रभापुञ्जमात्रसंचारः चलसंक्रान्तिः
अनियतस्थानतया चलत्वात् । निर्द्दिष्टराशिस्थानेषु
ग्रहाणां मण्डलसञ्चारः अचलसंक्रान्तिः राशिसंक्रान्ति-
रिति चोच्यते तस्या नियतमेकस्थानएव जायमानत्वाद-
चलत्वम् । अनयैव संक्रान्त्या यथा मासादिव्यवहारे
न दोषः चलसंक्रान्त्या तु बहवों दोषास्तथा निरूप्यते
तथा हि ग्रहाणामाक्रान्तराशितो राश्यन्तरक्रमण
संक्रान्तिरित्युच्यते सा च द्विधा मध्यमा स्पष्टा च ।
षट्कर्म्मसंस्कृतो मध्यग्रहो यदा राश्यन्तरं संक्रां-
मति तदा मध्यसंक्रान्तिरित्युच्यते यदा तु स्पष्टीकृत-
संस्कारो ग्रहो राश्यन्तरं गच्छति सा स्पष्टसंक्रान्तिरित्युच्यते
तत्र मध्यसंक्रमस्य स्पष्टीकरणार्थत्वादेव तज्जनितसंक्रान्तेः
स्पष्टीकार एवोपयोगात् लोकशास्त्रयोर्व्यवहारे न तस्य
उपयोगः किन्तु “गुरोर्भध्यमसंक्रान्तिहीनोयश्चान्द्रवत्सरः ।
अधिसंवत्सरस्तस्मिन् कारयेन्न सवत्रयम् । वर्जनीया प्रय-
त्नेन प्रतिष्ठा सर्वनाकिनाम् स्फुटसंक्रान्तिहीनश्चेत्
केऽप्याहरधिमासकम्” इति कालमाधवीयधृतस्मृतेः मध्य-
संक्रान्तेरपि अधिवत्सरोपयोगिता तदन्यत्र तु तस्या-
पृष्ठ ०३४०
नोपयोगः इति स्पष्टसंक्रान्तेरेव लोकशास्त्रोपयोगः । स्पष्ट-
संक्रान्तिरपि द्विविधा सायनांशा निरयनांशा चेति भेदात्
यदा सिद्वान्तगणनयायनांशसंस्कृतो ग्रहोराश्यन्तरं गच्छति
सा सायनांशा संक्रान्तिः । यदा तु अयनांशसंस्कार-
रहितः राश्यन्तरं गच्छति सा निरयनांशा संक्रान्ति-
रुच्यते । संक्रान्तिश्च “त्रुटेः सहस्रभागोयः स कालोर-
विसंक्रम” इत्युक्तसूक्ष्मकालरूपा एतच्च क्रियैव काल इति
मते अन्यमतेतु संक्रान्त्युपलक्षितस्तादृशसूक्ष्मकालैति
भेदः । तादृश सूक्ष्मकालस्य संक्रान्तिशब्दार्थत्वे संक्रान्तिशब्दे
वक्ष्यमाणदानाद्यङ्गत्वासम्भवेन “मुख्याभावे प्रतिनिधिः
शास्त्रार्थं” इति न्यायेन गौणकालस्याप्यदर्त्तव्यता स्नाना-
द्यङ्गत्वान्ययानुपपत्त्या च तथा कल्प्यत्वे स्मृत्याद्युक्तंकाल-
विशेष एव तदङ्गत्वेन कल्पाते यथोक्तं कालमाधवीये
स्नानदानाद्यङ्गभूते संक्रान्तिकाले मुख्यकल्पस्यासम्भवादनुक-
ल्पएवादर्त्तव्यः यथाहं देवलः “संक्रान्तिसमयः सूक्ष्मोदुर्ज्ञेयः
पिशितेक्षणैः । तद्योगादप्यधश्चोर्द्धं त्रिशंन्नाड्यः पवित्रिताः”
इति देशव्यवधानराहित्येनात्यन्तसंश्लिष्टयोः पूर्ब्बोत्तरराश्यो-
र्मध्ये सूर्य्यः पूर्बराशिं परित्यज्य यावता कालेनोत्तरराशिं
प्रविशति स कालः योगदृष्टिं बिना मांसदृष्ट्या दुर्ल्लक्ष्यः
अतोऽनुष्ठाने मुख्यसंक्रान्तिकालग्रहणासंभवात् संक्रान्तिसम्ब-
न्धिनौ पूर्ब्बोत्तरकालौ ग्रहीतव्यौ संक्रान्तेः पूर्बोत्तरयोरेकै-
कस्मिंस्त्रिंशद्वटिकाः पुण्या इति सामान्यत उक्तमिति” । तत्र
अचलसंक्रान्तेरिव चलसंक्रान्तेरपि पुण्यकालतास्ति यथोक्तं
तत्रैव मेषादिसंक्रान्तयो यस्मिन्दिने भवन्ति तस्माद्दिनात्
पूर्वेभ्य एकादशदिनेभ्यः प्राचीने दिने मेषायनमेवं वृषभाय-
नभित्येयं तनामाङ्कितस्यवति तत्काले तस्मिन्नयते स्नानादिषु
पुण्यकालमाह जावालिः “संक्रान्तिषु यथा कालस्तदीये-
ऽप्ययने तथा । अयने विंशतिः पूर्वा मकरे विंशतिः परेति”
मकरव्यतिरिक्तैकादशसंक्रान्तिसम्बन्धिष्वयनेषु तत्तत्सं-
कान्तिवत् पुण्यकालोऽवगन्तव्यः मकरसंक्रान्तिसंम्बन्धिनि
त्वयने संक्रान्तिवैलक्षण्यं, तद्यथा मकरमिन्ने प्राचीना विंशति-
षटिकाः पुण्याः मकरसंक्रान्तौ तु पाश्चात्त्या विंशतिघटिकाः
पुण्या इति” । न केवलमादित्यस्यैव संक्रान्तिष्वयने पुण्यकालः
किन्तु सर्वेषामपि ग्रहाणां नक्षत्रराशिसंक्रमे पुण्यकालो
भवति इयांस्तु विशेषोरवेरेव राशिसंक्रमे पुण्यकालः
अयनसंक्रमे तु चन्द्रादीनामपि कालविशेषे पुण्यता यथाह
तत्रैव ल्योतिःशास्त्रे “नक्षत्रराश्योरविसंक्रमे स्युरर्वाक्
सरस्ताद्रसवन्द्रनाद्यः पुण्यास्तयेन्दोस्त्रिधरालवैर्युता एकैव
नाड़ी मुनिभिः शुभोक्ता । नाड्यश्चतस्रः सपलाः कुजस्य ।
बुथस्य तिस्रः पलविश्वयुक्ताः । अध्यर्द्धनाड्यः पलसप्त-
युक्ता गुरोश्चतस्रः सपलाश्च शुक्रे । द्विनागनाड्यः पलसप्त-
युक्ताः शनैश्चरस्याभिहिताः सुपुण्याः । आद्यन्तमध्ये जपहोम-
दानं कुर्वन्नवाप्नोति सुरेन्द्रधामेति” । अयमर्थः आदित्यस्य
राशिनक्षत्रगमने अर्वाक् परतश्च षोडश घटिकाः पुण्यकालः
तथा चन्द्रस्यापि घटिकैका पलानि च त्रयोदशार्वाक्परतश्व-
पुण्यकालः । एवं मङ्गलस्य चतस्रो घटिकाः पलमेकं च
पुण्यकालः तथा बुधस्य तिस्रो घटिकाश्चतुर्दश पलानि च
पुण्यकालः वृहस्पतेरपि सार्द्धचतस्रो घटिकाः सप्न पलानि
च पुण्यकालः । शुक्रस्य चतस्रो घटिकाः पलमेकञ्च पुण्यकालः
शनैश्चरस्य द्व्यशीतिघटिकाः पलानि च सप्न पुण्यकालः ।
पीयूषघारायां तु जैमिनिवचनत्वेन एतद्वचनमुपन्यस्तम् ।
मेषायनादिषु संक्रान्तिस्फुटीकरणञ्च मुहूर्त्तचिन्तामणौ “तथा-
यनांशाः खरसाहताश्च स्पष्टार्कगत्या विहृतादिनादि । मेषा-
दितः प्राक् चलसंक्रमाः स्युर्दाने जपादौ बहुपुण्यदास्ते” ।
यथा राशिसंक्रमाः बहुपुण्य दास्तथा चलसंक्रमा अपीति
द्योतनाय तथाशब्दः । अयनांशाः षष्ठ्या गुण्या स्पष्टया
सूर्य्यगत्या विहृताः लब्धैर्दिनाद्यैः दिनघटीपलैः कलां
कृत्वा मेषादिद्वादशराशिसंक्रमणकालात् प्राक्चलसंक्रमाश्चल
संक्रान्तयः चलसंक्रमदाने ब्राह्मणेभ्यो दक्षिणादाने जपादौ
जपश्राद्वहोमादौ बहुपुण्यदा भवन्ति तदुक्तं वशिष्ठसिद्धान्ते
चलसंक्रमयुङ्मासे संक्रमोयः स संक्रमः अजागलस्तन इव
राशिसंक्रान्तिरुच्यते” पुलस्त्यः “अयनांशसंस्कृतोभानुर्गोले-
चरति सर्वदा अमुख्या राशिसंक्रान्तिस्तुल्यः कालविधिस्तयोः ।
स्नानदानजपश्राद्धव्रतहोमादिकर्म्मणि यत् कृतं चलसंक्रा-
न्तावक्षयं पुरुषोऽश्नुते” इति रत्नमालायाम् “यावद्भिरंशैर-
यनच्युतिः स्यात्तद्भोग्यकालेन दिवाकरस्य । च्युतिर्भवेद्विष्णुप-
दादिकानां रहस्यमेतन्मुनिभिः प्रदिष्टमिति” अयनोशा-
नयनञ्च अयनशब्दे दर्शितम् । तत्तद्राश्यादिमार्गेषु सूर्य्यादि
तेजःपुञ्जसञ्चारश्चलसंक्रमोमण्डलमध्यसंपर्कश्च राशिसंक्रम
इतिविषयवियेकः तद्यथा रथ्यायां प्राक् पश्चाद्वा नीयमानस्य
दीपस्याग्रेदीपप्रभा यस्मिन्प्रदेशे गच्छति तस्मिन्नेव प्रदेशे
क्षणान्तरेण दीपोऽपि गच्छति एवं सर्वेषामपि ग्रहाणां
चससंक्रमा द्रष्टव्याः नन्वेवं चलसंक्रमस्य मुख्यत्वे तेनैव
मानेन पञ्चाङ्गगणना स्यात् इति चेत् न अश्विन्यादिभानां
विसंवादात् तथाहि सूर्य्याक्रान्तराशितश्चतुर्द्दशनत्रस्यैव
सन्ध्याकाले प्रथममुदयोज्योतिषे प्रसिद्धः सर्वसम्मतश्च । तत्र
पृष्ठ ०३४१
यदि अयनांशशोधनमन्तरेणैव सूर्य्यस्य तत्तद्राशिघटक-
नक्षत्रस्थितिस्वीकारस्तदा इदानीमयनांशानुसारेण २०, ३५,
४४, एतदं शादितः पूर्बं रवेर्मेषादौ गत्यावश्यकत्वात् तस्य
च तद्घटकनक्षत्रस्थितेस्ततश्चतुर्द्दशनक्षत्रस्य सन्ध्यायां
प्रथमोदयापत्तिर्न च तथा दृश्यते तथा यस्मिन् दिने
इदानीममापूर्णिमादयो दृश्यन्ते ततः पूर्वं २०, ३५, ४४
सूर्य्यचन्द्रयोरेकराशिस्थत्वेन अमावस्यापत्तिस्ततः पञ्च-
दशेऽहनि पूर्णिमापत्तिश्च नचैतत् प्रत्यक्षसंवादीति ।
अयनांशशोधतेन निरयनांशसंक्रमादितस्तु सर्व्वं प्रत्यक्ष
संवादि । किं च सायनसंक्रमरहितस्य चान्द्रमासस्याऽधि-
मासत्वव्यवहारप्रसङ्गः संक्रान्तिद्वययुतस्य तस्य क्षयसासत्वव्यव-
हारप्रसङ्गश्च । एवं च बहुविप्लवात् चलसंक्रान्तेः मुख्यत्वेऽपि
तेनैव मासवर्षगणनादिशङ्का न कार्य्या प्राग्प्रदर्शितपुलस्थ
वचनेन, अयनशब्दे दर्शितेन सौरागमवाक्येन, “दिनरात्रि
प्रमाणानां निर्णयो न भसंक्रमात्” अतः सकलकर्म्माणि”
इति, सिद्वान्तशिरोमणिवाक्येन च स्मार्त्तकर्म्मविशेषे, लग्न-
ज्ञानादिकर्म्मस्वेव तस्य मुख्यत्वाभिधानात् न तेन सर्वव्यवहारः
अन्यथा तत्तद्विशेषोपादानं व्यर्थं स्यात् । एकान्तेन राशि-
संक्रमानङ्गीकारे प्रागुक्तवचनजाते राशिसंक्रान्तिवत् पुण्य-
कालतामिघानानुपत्तिः तथा च यथा मासवत्सराणामनेक-
विधत्वेऽपि क्रियाविशेषे तेषां ग्राह्यता एवं चलस्थिरसं-
क्रान्त्योरपि विषयविशेषेऽपि ग्राह्यता । किञ्च सायन-
संक्रममात्रेण सर्वव्यवहारे अनेके विसंवादा पीयूष
धारायां दर्शिताः । तेऽप्यत्रोपदर्श्यन्ते । सायनगणनया
त्वयोग्येऽपि काले ग्रहःकदाचिदेकनक्षत्रान्तरे नक्षत्रयोर-
न्तरे वोपलभ्येत सूर्य्यचन्द्रयोस्तु तेजोबहुत्वान्नक्षत्रतेजः
परिभबान्न नक्षत्रसंनिधावुपलम्भो यद्यपि । तथापि
कदाचित् क्षीणचन्द्रस्याप्युपलम्भोदृश्यत एव गोचरादिविषयक
दुष्टफलानि एकराशिस्थितग्रहयोगफलानि च विरुध्येरन्
ग्रहणादिविसंवादश्च । तस्मान्निरयनगणनयैव सर्वोऽपि व्यव
हारो युक्तः यत्तु अजागलस्तनैवेत्यादि प्रागुक्तवचनम्
“पुण्यत्वंराशिसंक्रान्तेः केचिदाहुर्मनीषिणः नैतन्मम
मतमित्यादिवशिष्ठवाक्यञ्च तत् चलसंक्रान्तेः स्तुतिपरम् “न
निन्दामिन्दनीयं निन्दति किन्तु विधेयं स्तौतीति” न्यायात्
अन्यथा संक्रान्तिशब्दे दर्शयिष्यमाणानां राशिसंक्रान्ति-
पुण्यकालताबोधकवचनानां बहूर्ना विप्लवापत्तेः “दिनपति
संक्रमात् प्राक् षोडश नाड्यस्तु पुण्यकाणः सः । परतः
षोड़श नाड्यः स्नानदानकार्य्येष्विति” वशिष्ठस्यैव वच-
नान्तरेण विरोधः स्यात् अयनसंक्रान्तिषु तु अन्थ-
विधस्यैव तेन पुण्यकालतीक्तेस्ततो विलक्षणविषयत्वौ-
चित्यं तादृशवचनानाम् ।

अयनांशज पु० अयनस्य अंशः तज्जः । प्राथमिकक्रान्ति

वृत्तारम्भस्थानातिक्रमेण जाते मासे “अयनांशजमासान्ते
व्युत्क्रमेणादितो बुधैः” ज्यो० तत्त्व० ।

अयव पु० अल्पोयवस्तुत्तुल्योवा । १ पुरीषजे कृमिभेदे कृमिशब्दे

विवरणम् नास्ति यवः यज्ञसाधनं यत्र । अङ्गतया
यवहीने तिलसाधने २ पितृकृत्यादौ । युमिश्रणेकर्त्तरि अच्
न० त० । ३ असम्बद्धे शत्रौ ४ रबिचन्द्रयोर्वियोजके कृष्ण-
पक्षे च “अयवानामाधिपत्यमिति पूर्वपक्षा वा यवाअपरपक्षा
वा अयवास्ते हीदं सर्वं युवते चायुवते” इति शतव्रा० ।

अयवस् पु० न युतः पृथग्भूतौ चन्द्रसूर्य्यौ यत्र यु--असुन्

न० त० । अर्द्धमासे पक्षे । “सजुरब्दो अयवोभिः” यजु०
१२७४ “यवाश्चायवाश्चार्द्धमासाश्चोच्यन्ते वे० दी० ।

अयशस् विरोधे न० त० । यशोविरोधिनि अपवादे । अयशो-

“महदाप्नोति नरकञ्चैव गच्छति” मनुः । “स्वभावलोलेत्य
यशः प्रमृष्टम्” रघुः । न० ब० । कीर्त्तिशून्ये त्रि० वा कप्
अयशस्कः तत्रैव ।

अयशस्कर त्रि० अयशः करोति कृ--ताच्छील्यादौ ट

स्त्रियां ङीप् । अपवादकरे ।

अयशस्य न० यशसे हितम् यत् यशस्यम् विरोधे न० त० ।

अपवादकरे “पैशुन्यानृतालस्यायशस्यानि हित्वा” सुश्रु० ।

अयश्चूर्ण्ण न० ६ त० । “शकृद्रसं तुरङ्गस्य सुशुषकं भावयेदति ।

निःक्वाथेन विडङ्गानां चूर्ण्णं प्रधमनन्तु तत् । अयश्चूर्ण्णा-
न्यनेनैव विधिना यौजयेद्भिषक्” सुश्रुतोक्ते लौहचूर्ण्ण-
घटितौषधभेदे ।

अयस् न० एति चलति अयस्कान्तसान्निध्यात् इण--असुन् ।

लौहे धातुभेदे तस्य स्थिरत्वेऽपि अयस्कान्तसान्निध्याच्चण-
नात्तथात्वम् । “सुहृदयोहृदयः प्रतिगर्ज्जताम्” “अभितप्त-
मयोऽपि मार्द्दवं भजते कैव कथा शरीरिणाम्” इति च रघुः
“ताम्रायःकांस्यरैत्यानां त्रिपुणः सीसकस्य च” अयः कांस्य-
पलानाञ्च द्वादशाहमपान्नता” इति च मनुः । अयसः पाकादि
अमृतसारशब्दे ३२६ पृष्ठे दृश्यम् । अधिकं लीहशब्दे
वक्ष्यते । उपचारात् २ अयोनिर्स्मिते शस्त्रादावपि । “तेजो-
ऽयसो न धाराम् ऋ० ६, ३, ५, अयसः अयोमयस्य
परश्वादेर्धाराम्” भा० । हिरण्यशृङ्गोऽयो अस्यपादाः ऋ०
१, १६३, ९ भावे असुन् । ३ गमने न० । ‘ज्योतिरकारि हरिती
पृष्ठ ०३४२
नाऽयसे ऋ० १, ५७, ३ “अयसे गमनाय” भा० अयसा-
निर्म्मितम् अण् । आयसम् लौहमये कठाहादौ अयसो-
विकारः अण् आयसः । लौहविकारे ‘अयस्कान्तैवायसम्’
रघुः “आयसेन तु पात्रेणेत्यादि २७८ पृष्ठे दर्शितम् ।
मयट् अयोमयः । वेदे तु अयस्मयादि० नि० अयस्सयः ।
लोहविकारे त्रि० स्त्रियां ङीप् । चतुरर्थ्यां छण् ।
आयसीयः अयस्मन्निकृष्टदेशादौ त्रि० स्त्रियां ङीप् ।
एति यज्ञस्थानम् इण असुन् । ३ वह्नौ पु० ।
“अयाश्चाग्नेऽस्यनभिशस्त्ययाश्च सत्वमित्त्वमया असि ।
अयानो यज्ञं वहास्यया नोऽवेहि भेषजम्” यजु० ।
४ हिरण्ये निरु० “रक्षोहा विचर्षणिरमियोनि-
मयोहतम् अभ्यनूषतायोहतम् ऋ० ९, १, २, ८०,
“अय इति हिरण्यनामेति भा० “हिरण्यपाणिः प्रति-
दोषमास्थात् अयोहनुर्यजते इति ऋ० ६, ७१, १,
अयोहनुर्हिरण्मयहनुः” भा० ।

अयस्कंसा पु० न० । अयोविकारः कंसं पात्रंसत्वम् ।

लौहनिर्म्मिते पानपात्रे ।

अयस्कर्ण्णी स्त्री अय इव कर्ण्णावस्य गौ० ङीष् ।

लौहतुल्यकठिनकर्ण्णयुक्तायां स्त्रियाम् ।

अयस्कान्त पु० अयस्सु कान्तः रमणीयः कस्कादि-

त्वात् सत्वम् । (कान्तिलौह) इति ख्याते १ लौहभेदे ।
अयसां कान्तः इष्टः सन्निधिमात्रेणाकर्षकत्वात् । सन्निधि-
मात्रेण लौहाकर्षके (चुम्वक) इति ख्याते २ प्रस्तरभेदे ।
“शम्भोर्यतध्वमाक्रष्टुमयस्कान्तेन लौहवत्” कुमा० “स चकर्ष
परस्मात्तदयस्कान्तमिवायसम्” रघुः । अयस्कान्तेनाकर्ष-
णीयशल्यापनयनार्थे ३ व्रणचिकित्साभेदे यथोक्तं सुश्रुते
“अनुलोममनवबद्वमकर्णमनल्पव्रणमुखमयस्कान्तेन” ।

अयस्काम त्रि० अयः कामयते कम--अण् उप० स० सत्वम् ।

लौहाभिलाषिणि ।

अयस्कार त्रि० अयोविकारं करोति कृ--अण् उप० स० सत्वम् । लौहकारे (कामार) ।

अयस्कुम्भ पु० अयोविकारः कुम्भः सत्वम् । लौहमये घटे ।

अयस्कुशा स्त्री अयःसहिता कुशा शाक० त० सत्वम् ।

लौहसहितकुशायाम् ।

अयस्कृति स्त्री अयसा कृतिः चिकित्साप्रक्तिया सत्वम् । सुश्रु-

तोक्तेमहाकुष्ठचिकित्साभेदे “अथ ऊर्द्ध्वमयस्कृतीर्वक्ष्यामः ।
तीक्ष्णलोहपत्राणि तनूनि लवणवर्गप्रदिग्धानि गोमयाग्नि-
प्रतप्रानि त्रिफलाशालसारादिकषायेण निर्वापयेत् षोड़श-
वारांस्ततः स्वदिराङ्गारतप्तान्युपशान्ततापानि सूक्ष्म-
चूर्णानि कारयेद्गाढतान्तवपरिस्नावितानि ततो यथाबलं
मात्रां सर्पिर्मधुभ्यां संसृज्योपयुञ्जीत । जीर्णेयथाव्याध्य-
नम्लमलवणमाहारं कुर्व्वीत । तुलामुपयुज्य कुष्ठमेहमेदः
श्वयथुपाण्डुरोगोन्मादापस्मारानपहृत्य वर्षशतं जीवति
तुलायां तुलायां वर्षशतगुणोत्कर्षः । एतेन सर्व्वलौहेष्वय-
स्कृतयो व्याख्याताः ।

अयस्थूण पु० अयोनिर्म्मितः स्थूणः वा विसर्गलोपः ।

लोहमये १ गृहस्थूणे ६ ब० । तथाविधगृहस्थूणयुक्ते २ गृहस्थे ।
“अयस्थूणगृहपतीनां वै” शतव्रा० अयस्थूणा गृहपतय-
स्तेपामिति तेषाम् हीनद्रव्यकत्वादाक्षेपः भा० । ७ त०
३ अयोमयाक्षे रथादौ त्रि० । “व्युष्टावयस्थूणमुदिता
सूर्य्यस्य” ऋ० ५, ६२, ८, अयस्थूणमयोमयशङ्कुं गर्त्तं
रथं वेति भा० । ४ऋषिभेदे पु० तस्य गोत्रम् अण्
आयस्थूणः तस्य बहुषु लुक् । अयस्थूणाः । गौ०
पाटात् ङीष् अयस्थूणी ।

अयस्पात्र न० अयोमयं पात्रं सत्वस् । लौहमये पात्रे ।

अयस्मय त्रि० अयोविकारः अयस् + मयट् वेदे नि० । भत्वम्

स्त्रियां ङीप् । अयोमये लौहमये “असुरा एषु लोकेषु
पुरश्चक्रिरेऽयस्मयोमेवास्मिँलोके रजतामन्तरीक्षे हरिणीं
दिवि” शतव्रा० । “भूम्या अयस्मयम् पातु” अथ० ५, २८, ९,
शतमृष्टिरयस्मयीः अथ० ४, ३७, ८, छन्दसीति प्रायिक
तेन लोकेऽपि “पंरिभ्रमन्तमनिशं तीक्ष्णधारमयस्मयम्”
भा० आ० प० “ततः शक्तिं गृहीत्वा तु रुक्मदण्डमयस्मयीम्
भा० द्रो० प० ।

अयस्मयादि पु० ६ त० “अयस्मयादीनि छन्दसि” पा० उक्ते

भत्वादिकार्य्यार्थे निपाताङ्गे अकृतिगणभेदे ।

अयाचित न० याच + क्त न० त० । १ अमृताख्यवृत्तौ “अमृतं

स्यादयाचित” मिति मनुः । १ अप्रार्थिते त्रि० । “अया-
चितोपस्थितमम्बु केवलम्” “अयाचिताहृतं ग्राह्यमपि
दुष्कृतकर्म्मणः” स्मृतिः “याचेर्दुहादिपाठात् गौणे
कर्म्मणि” क्त । यस्य सकाशे न याच्यते ३ तस्मिन् जने च ।

अयाज्य त्रि० न याजयितुमर्हः यज--णिच्--कर्म्मणि यत् न० त० ।

पतितादौ स्मृतिनिषिद्धयाजने । ते च स्मृतौ दर्शिताः यथा
देवलः “पतितेन सहोषित्वा जानन् संवत्सरं नरः मिश्रित
स्तेन सोऽब्दान्ते स्वयञ्च पतितो भवेत् । याजनं योनिसम्बन्धं
साध्यायं सहभोजनन् । कृत्वा सद्यः पतत्येष पतितेन
न संशयः । बौधा० “संवत्सरेण पतति पतितेन न
संशयः याजनाध्यांपनाद्यौनात् सद्यो न शयनासनात्” ।
पृष्ठ ०३४३
मनुविष्णू । “संवत्सरेण पतति पतितेन सहाचरन्
याजनाध्यापनाद्यौनात् न तु यानासनाशनात्” पैठौनसिः
“संवत्सरेण पतति पतितेन सहाचरन् । याजना-
ध्यापनाद्यौनान्न त्वेकशयनासनात्” । पतितानभि-
धायाह सुमन्तुः । “यश्च तैर्यौनमौखस्रौवाणां सम्बन्धा-
नामन्यतमेन सह संवत्सरं सम्पर्कमियात् तस्याप्यैतदेव
प्रायश्चित्तं विदध्यात्” इयात् कुर्य्यात् द्बादशवार्षिकमि-
त्यर्थः मौखं मुखसाध्यमध्यापनं स्त्रौवं स्रुवसाध्यं याजन-
मित्यर्थः अत्र याजनादीनामन्यतमेन संवत्सरेण पततीत्य-
वगम्यते प्रा० वि० । हारीतः । “संवत्सरेण पतति
पतितेन सहाचरन् याजनाध्यापनाद्यौनादेकशय्यैकभोज-
नात्” वृहस्पतिः । “षाण्मासिके तु संयोगे याजनाध्याप-
नादिना । एकत्रासनशय्याभिः प्रायश्चित्तार्द्धमाचरेत्” ।
“याजनादिकं लघुगुरुभेदेन द्विविधं भवति तत्र गुरुणा-
ज्ञानकृतेन याजनादिना एकैकेन सद्यःपातः तेनै-
वाज्ञानकृतेन वारद्वयाभ्यासात् । लघुनि याजनादावज्ञानकृते
संवत्सरेण पतति तस्मिन्नेव ज्ञानकृते वत्सरार्द्धेनेति
व्यवस्था । तथाहि याजनं योनिसम्बन्धमित्यत्र देवलवचने
पतितेन सहोषित्वा जानन्निति पूर्व्ववचनस्थस्य जानन्निति
पदस्य सम्बन्धात् ज्ञानकृतत्वे गुरुत्वं दर्शितं गुरुयाजनाध्या-
पनादिकमाह देबलः । “आचार्य्याद्व्रतनियमशुश्रूषा-
दिभिस्त्रयोविद्योपादानमध्ययनम् । तस्य चाचारान्वयप्रक्र-
मसामर्य्य भक्तिशीलशुश्रूषोपनताय शिष्याय प्रदानमध्या-
पनं, पशुक्षीराज्यपुरोडाशसोमौषधिचरुप्रभृतिभिः खदिर
पलाशाश्वत्थन्यग्रोधोदुम्बरप्रभृतिभिः समिद्भिः स्रुक्स्रु-
वोदूखलमुषलकुठारखनित्रयूपदारुचर्म्मदर्भग्रावपवित्रभाज-
नादिभिर्द्रव्योपकरणैः प्रोत्साहिहोत्रध्वर्य्युब्रह्मादिभिः
ऋत्विग्भिः काम्यनैमित्तिकाणां पक्षादिपूर्ब्बकाणां यथोक्त-
दक्षिणानां यज्ञानां समापनं यजनम् एतेन याजनं
व्याख्यातम्” । तथा च ज्योतिष्टोमादियज्ञानां याजनं
गुरु, पूर्त्तादिकर्मणा याजनं लघु । कौर्मम्
“याजनं योनिसम्बन्धं तथैवाध्यापनं द्विजः । कृत्वा सद्यः
पतेज्जानन् सहभोजनमेव च” । यमः । “असत्प्रति-
ग्रहीतारस्तथैवायाज्ययाजकाः । नक्षत्रैर्जीव्यते यश्च
सोऽन्धकारं प्रपद्यते” । बमिष्ठः । श्रद्दधानस्य-
भोक्तव्यञ्चौरस्य च विशेषतः । न त्वेव बहुयाज्यस्य यश्चो
पनयते बहून्” । बौधायनः । “बहुप्रतिग्राह्यं
वाऽप्रतिगुह्ययाज्य बा याजयित्वाऽप्रतिग्राह्यस्य वा
प्रतिगृह्य अनाशनस्य वाऽन्नमशित्वा तरत्समन्दीयं जपेत्” ।
वशिष्ठः । “एतेनैव गर्हिताध्यापकयाजकाव्याख्याता” दक्षि-
णात्यागाच्च पूताभवन्तीति विज्ञायते” “एतच्च शूद्रेतरस्यो-
पपातकादिगर्हितस्य पञ्चमहायज्ञयाजनादिविषयमिति
धर्म्मप्रदीपः” प्रा० वि० । तत्रैव शूद्रपुरोहितयाजकाध्याप-
काद्यनुवृत्तौ यमः । “एतेषामेव सर्व्वेषां प्रत्यापत्तिन्तु
मार्गताम् । भैक्षान्नमुपयुञ्जानोद्विजश्चान्द्रायणञ्चरेत् ।
फलं नागद्रदे तोये प्ल्यवयेदभिभावितम् अर्थोत्सर्गेण
यन्त्रान्ते तस्मात् पापात् प्रमुच्यते । अक्षारणलवणं
रुक्षां पिबेद्व्रह्मसुवर्च्चलाम् । तस्योपनयनं कृत्वा व्यव-
हार्य्यस्तदा भवेत्” इति । फलं लब्धं धनं नागह्रदे
गजमज्जनयोग्यह्रदे अविभावितम् अभुक्तम् । यन्त्रान्ते व्रतान्ते ।

अयाज्ययाजन न० अयाज्यस्य याजनम् । अयाज्यस्य

पतितादेर्याजने । याजनं च लघुगुरुभेदेन द्विधेत्तुक्तम-
याज्यशब्दे । “अयाज्ययाजनैश्चैव नास्तिक्येन च कर्म्मणाम्
कुलान्याशु विनश्यन्ति यानि हीनानि मन्त्रतः” मनुः ।

अयाज्यसंयाज्य न० सम् + यज--णिच्--भावे यत् ६ त० ।

अयाज्यस्य पतितादेर्याजने “सेवाथायाज्यसंयाज्युपारदा-
र्य्यात्मविक्रयः” इति मनुः ।

अयातयाम पु० न यातोयामः समयोऽस्य । १ अपर्य्युषिते

२ अनतिक्रान्तकाले ३ विगतदोषे च । “छन्दांस्येवैतत्
पुनराप्याययत्ययातयामानि करोति--न वा अत्र स्तुवते
न शंसंन्ति तच्छन्दांस्येवैत्त् पुनराप्याययत्ययातयामानि
करोति तैरयातयामैर्यज्ञं तन्वते” इति शत० ब्रा० ।
“छन्दांस्ययातयामानि” भाम० । “अयातयामानि विगत-
दोषाणि” श्रीधरः ।

अयातु पु० भीमो भीमसेनवत् यातुर्यातुधानः न० त० ।

१ राक्षसभिन्ने २ अहिंसके च योमायातुं यातुधानेत्याह
ऋ० ७, १०४, १६, अयातुमराक्षसम् भा० । “ह्वयामि
देवाँ अयातुरग्ने! ऋ० ७, ३४, ८ अयातुः अहिंसकः भा० ।

अयाथातथ्य न० त० । मिथ्यात्वे । अयथातथशब्दे विवृतिः ।

अयान न० न यानं चलनं यस्य । १ स्वभावे निसर्गे यथा

जले । शैत्यं अग्नेरुष्णता न हि तत् कदापि चलतीति तस्य
तथात्वम् अभावे न० त० । २ गमनाभावे । यानं गममं
वाहनञ्च न० ब० । ३ यानशून्ये त्रि० ।

अयानय पु० द्यूते सर्व्व शारगन्तव्यशेषसोमाभूते शीर्षस्थाने

व्युत्पत्तिविवरणम् मत्कृतसरलायाम् यथा आनीयन्ते
शारा अस्मिन् इत्यानयः अयेन दक्षिणावर्त्तेनापसव्य-
पृष्ठ ०३४४
गमनेनानयः अयानयः शीर्षस्थानम् । तत् नेयः ख ।
द्यूतविशेषे हि चतस्रोवीथयः प्रत्येकं द्वादशकोष्ठोपेताः
शारास्तु त्रिंशत् ते च एकैककितवेन पञ्चुदशशो
ग्राह्याः स्ववामपार्श्वस्थप्रथमकोष्ठपर्य्यन्तमारभ्यान्तिमकोष्ठ-
रूपंशीर्षस्थानरूपमयानयं दक्षिणावर्त्तेनापसव्यगत्या सर्व्वे-
ऽपि शारा नेया अतस्ते अयानयीना इत्युच्यन्ते तत्रायं
प्रकारः “ससहायस्य शारस्य परैर्नाक्रम्यते पदम् ।
असहायस्तु शारेण परकीयेण हन्यते इत्युक्तदिशाव-
सेयः । परैः परकीयैः नाक्रम्यते द्व्यादिशाराश्रित-
कोष्ठं नाक्रम्यते परकीयशारेण तत्स्थानाक्रमणेन प्रतिरो-
धात् । असहायस्तु हन्यते इत्यतः प्रतिरोधाजनकः
“अनुपदसर्व्वायानयं बद्धा भक्षयति नेयेषु” पा० “अया-
नयः स्थानविशेषः तं नेयः अयानयीनः शारः” सि० कौ ।

अयाशु त्रि० अयमश्नाति नाशयति अश--उ--६ त० । शुभा-

वहविधिलोपके यातुधानभेदे “खलजाःशकधूमजा उरुण्डा
ये च मट्मटाः कुम्भमुष्का अयाशवः । तानस्या
ब्रह्मणस्पतेः प्रतीबोधेन नाशय” अथ० ८, ६, १५ ।

अयास्य त्रि० यस--णिच्--शक्यार्थे यत् न० त० । १ उपक्षप-

यितुमशक्ये “अयुजो असमोनृभिरेकः कृष्टीरयास्यः” ऋ०
८, ६२, २, “अयास्यः उपक्षपयितुमशक्यः” भा० । यासः
प्रयत्नस्तत्साध्यः यत् न० त० । २ युद्धरूपसाधनैः
साधयितुमशक्ये शत्रौ । आस्यादयते निर्गच्छति अच् पृ० पदव्य-
त्ययः । ३ मुखेन निर्गमनवृत्तिके प्राणवायौ उपचारात
४ तदुपासके अङ्गिरसि ऋषिभेदे । “अयास्यः स्तवमाने-
भिरर्कैः” ऋ० १, ६२, ७, “अयास्यः यासः प्रयत्नः
तत्साध्यो यास्यः न यास्योऽयास्यः । युद्धरूपैः प्रयत्नैः
साधयितुमशक्य इत्यर्थः यद्वा अयास्यः पञ्चवृत्ति-
र्मुख्यः प्राणः । स ह्यास्यान्मुखादयते गच्छति निष्-
क्रामति । तदुपासकोऽप्यङ्गिगिरा उपचारादयास्य उच्यते ।
तथा च छन्दोगैराम्नातम् “तं हायास्य उद्गीथमुपा-
साञ्चक्रे एतमु एवायास्यं मन्यन्ते आस्याद्यदयते
तेनेति” । अथवा अयमास्ये मुखे वर्त्तत इत्ययास्यः तथा
च वाजसनेयकम् “ते होचुः क्व नु सोऽभूद्योन इत्थ-
मसक्तेत्ययमास्यान्तरितीति” । पूर्ववदुपासकोऽप्ययास्थः” भा० ।

अयि अव्य० इण--इन् । १ प्रश्ने, २ अनुनये, ३ संबोधने,

४ अनुरागे च “अयि सम्प्रति देहि दर्शनम्” “अयि
जीवितनाथ । जीवसि” इति च कुमा० । “अयि
जानीषे रेभिलस्य सार्थवाहस्य गृहम्” मृछ० ।

अयुक्छद पु० अयुग्माः सप्त सप्त छदा अस्य । सप्तपर्ण्णे

वृक्षे तस्य हि प्रत्येकपल्लवे सप्त सप्त पर्ण्णानि विद्यन्ते ।
“ववुरयुक्छदगुच्छसुगन्धयः” माघः । अयुक्पत्रादयोऽप्यत्र ।

अयुक्त त्रि० युज--क्त न० त० । १ विषयान्तरासक्ततया कर्त्तव्येष्य-

नवहिते, २ अनुचिते, ३ आपद्गते ४ असंयुक्ते च
“अयुक्तः प्राकृतस्तब्धः शठो नैकृतिकोऽलसः गीता”
अयुक्तः अनविहित इति आ० त० रघु० । “नचायुक्तस्य
भावना” गीता ५ अयोग्ये “अयुक्तरूपं किमतः परं वद”
कुमा० । अयुक्तं शपथं कुर्व्वन्नयोग्योयोग्यकर्म्मकृत् ।
६ बहिर्मुखे “अयुक्तः कामकारेण फले सक्तोनिबध्यते इति
गींता” “अयुक्तः बहिर्मुखः” म० त० रघु० । युक्तियुक्तं
युक्तम् न० त० ७ युक्तिशून्ये त्रि० । “अयुक्तंयदिह प्रोक्तम्”
इति दुर्गादासः ८ अनियीजिते च । “अयुक्तचारप्राणधिः
नीति० ।

अयुक्ति स्त्री अभावे न० त० । १ युक्त्यभावे । न० ब० ।

२ युक्तिशून्ये ३ योजनशून्ये च त्रि० ।

अयुग न० त० । युग्मभिन्ने (विजोड़) विषमे । “युगपदयुगस-

प्तिस्तुल्यसंख्यैर्मयूखैः” माघः अयुगनेत्रः त्रिनेत्रः
अयुगेषुः पञ्चशरः १ अयुगलादयोऽप्यत्र । न० ब० । २ युगशून्ये
त्रि० । ३ भग्नयुगे रथादौ

अयुगपद् अव्य० न० त० । युगपद्भिन्ने क्रमिकभवने ।

अयुगू स्त्री एति बन्ध्यत्वम् इण्--उन् अयुर्गीयते गै--कू ।

काकबन्ध्यायां स्त्रियाम् । “अयुगूः काकबन्ध्या या जाता
तां न विवाहयेत्” कात्या० स्मृतिः ।

अयुग्म न० न० त० । युग्मभिन्ने (विजोड़) १ विषमे ।

यथा संख्यायामेकत्रिपञ्चसप्तादयः । न० ब० । २ तत् संख्या-
न्विते त्रि० । “अथेन्द्रिचक्षोभमयुग्मनेत्र” इति कुमा० ।
अयुग्मशरः पञ्चवाणः । अयुग्मच्छदः सप्तच्छदः अयुग्म-
वाहः सप्ताश्वः । “अयुग्मे विधवा नारी” उ० त० पु० “युग्मासु
पुत्राजायन्ते स्त्रियोऽयुग्मासु रात्रिषु” मनुः । “द्वादशराशिषु
विषममसंख्यान्वितेषु मेषमिथुनसिंहतुलाधनुःकुम्भेषु” श्लोके
प्रथमतृतीयचरणयोः ।

अयुग्मनेत्र पु० अयुग्मानि नेत्राण्यस्य । त्रिनेत्रे महादेवे

“अथेन्द्रियज्ञोभमयुग्मनेत्रः” कु० । अयुग्मलोचनादयोऽप्यत्र ।

अयुग्मच्छद पु० अयुग्माः सप्त सप्त च्छदा अस्य । सप्तच्छदे

(च्छातिम्) वृक्षे अयुग्मपत्रादयोऽप्यत्र ।

अयुग्मवाह पु० अयुग्माः सप्त वाहा अस्य । सप्ताश्वे सूर्य्ये ।

अयुग्माश्वादयोऽप्यत्र ।
पृष्ठ ०३४५

अयुग्मशर पु० अयुग्माः पञ्च शरा अस्य । पञ्चवाणे कामदेवे

अयुग्मवाणादयोऽप्यत्र । वाणपञ्चकं च पञ्चवाणशब्देवक्ष्यते ।

अयुज् त्रि० न युज्यते सजातीयेन, युज--क्विन् न० त० ।

अयुग्मे (विजोड़) विषमे “अयुजि नयुगरेफतो यकारो
युजि नजरगाश्च पुष्पिताग्रा” “अयुग्दान्तं स्त्रीणाम्”
गोभि० । “अयुक् अयुग्माक्षरम्” सं० त० रघु० “अयुक्षु
तु पितॄन् सर्व्वान्” मनुः । “ववुरयुक्च्छदगुच्छमुगन्धयः”
माघः ।

अयुत त्रि० न युतः संयुक्तः सम्बद्धो वा । १ असंयुक्ते २ असम्बद्धेच

३ दशसहस्रसंख्यायाम् न० “सूर्य्याव्धिसंख्यया द्वित्रिसागरैर-
युताहतैः” सू० सि० । स विज्ञेयः परः धर्म्मोनाज्ञाना-
मुदितोऽयुतैः” मनुः । ४ तत्संख्यान्निते च ।

अयुतनायिन् पु० अयुतं पुरुषमेधानामयुतं नीतवान्

जिभूते णिनि । पुरुवंश्ये महाभौमपुत्रे राजभेदे । “पूरोस्तु-
भार्य्या कौशल्यानाम तस्यामथ जज्ञे जनमेजय” इत्युपक्रम्य
“महाभौमः खलु प्रासेनजितीमुपयेमे तस्य पुत्रो जज्ञे
अयुतनायी यः पुरुषमेधानामयुतमनयत् तेनास्यायुत-
नायित्वम्” भा० आ० प० ।

अयुतशम् अव्य० अयुतमयुतम् वीप्सार्थे कारकात् शस ।

अयुतमयुतमित्यर्थे ।

अयुतसिद्ध त्रि० युतः पृथग्भूतः सन् सिद्धो न भवति न० त० ।

कारणकपालादेरपृथग्भूततया सिद्धे १ कार्य्यद्रव्ये घटादौ
तथाभूते वैशेषिकोक्तेद्रव्याश्रिते २ गुणे ३ कर्म्मणि च तदेत-
दयुतसिद्धत्वं कार्य्यद्रव्यगुणकर्म्मणां वेदान्तिभिर्नाङ्गीक्रि-
यते यथा शा० भा० । गुणकर्म्मादीनां कारणद्रव्या-
त्मकतां व्यवस्थास्य द्रव्यगुणादेरयुतसिद्धत्वनिरासायोक्तम्
“गुणानां द्रव्याधीनत्वं द्रव्यगुणयोरयुतसिद्धत्वादिति
यद्युच्येत तत्पुनरयुतसिद्धत्वमपृथग्देशत्वं वा स्यात्
अपृथक्कालत्वं वा अपृथक्खभावत्वं वा । सर्व्वथापि
नोपपद्यते । अपृथग्देशत्वे तावत् स्वाभ्युपगमोविरुध्येत
कथं तन्त्वारब्धो हि पटस्तन्तुदेशोऽभ्युपगम्यते नतु पटदेशः
प्रटस्य तु गुणाः शुक्लत्वादयः पटदेशा अभ्युपगम्यन्ते न
तन्तुदेशाः तथाचाहुः । “द्रव्याणि द्रव्यान्तरमारभन्ते
गुणाश्च गुणान्तरमिति” । तन्तबो हि कारणद्रव्याणि कार्यद्रव्यं
पटमारभन्ते तन्तुगताश्च गुणाः शुक्लत्वादयः कार्यद्रव्ये पटे
शुक्लत्वादि गुणान्तरमारभन्ते इति हि तेऽभ्युपगच्छन्ति ।
सोऽभ्युपगमोद्रव्यगुणयोरपृथगदेशत्वेऽभ्युपगम्यमाने बाध्येत ।
अयापृथक्कालत्वमयुतसिद्वत्वमुच्येत सव्यदक्षिणयोरपि
गोविषाणयोरयुतसिद्धत्वं प्रसज्येत । अथापृथक्स्यभाव-
त्वे त्वयुतसिद्धत्वे न द्रव्यगुणयोरात्मभेदः सम्भवति तस्य
तादात्म्येनैव प्रतीयमानत्वात् । युतांसद्धयोः सम्बन्धः
संयोगः अयुतसिद्धयोस्तु समवाय इत्ययमभ्युपगमोमृषैव । तेषां
प्राक्सिद्धस्य कार्य्यात् कारणस्यायुतसिद्धत्वानुपपत्तेः अथान्य-
तरापेक्ष एवायमभ्युपगमः स्यात् अयुतसिद्धस्य कार्यस्य
कारणेन सम्बन्धः समवाय इति” एवमपि प्रागसिद्धस्यालब्धात्म-
कस्य कार्यस्य कारणेन सम्बन्धोनोपपद्यते द्वयायत्तत्वात्
सम्बन्धस्य । सिद्धं भूत्वा सम्बध्येत इति चेत् प्राक्कारण-
सम्बन्धात् कार्यस्य सिद्धावभ्युपगम्यमानायाम् युतसिद्ध्य-
भावात् कार्यकारणयोः संयोगविभागौ न विद्यते इतीदमुक्तं
दुरुक्तं स्यात् । यथा चोत्पन्नमात्रस्वाक्रियस्य कार्य्यद्रव्यस्य
विभुभिराकाशादिद्रव्यान्तरैः सम्बन्धः संयोग एवाम्युपम्यते
न समवायः एवं कारणद्रव्येणापि सम्बन्धः संयोग
एवस्यान्न समवायः । नापि संयोगस्य समवायस्य वा सम्बन्धस्य
सम्बम्बिव्यतिरेकेणास्तित्वे किञ्चित्प्रमाणमस्ति । सम्बन्धि
शब्दप्रत्ययव्यतिरेकेण संयोगसभवायशब्दप्रत्यदर्शना-
त्तयोरस्तित्वमिति चेन्न एकत्वेऽपि स्वरूपबाह्यरूपापेक्ष-
याऽनेकशब्दप्रत्ययदर्शनात् । यथैकोऽपि सन् देवदत्तोलोके
स्वरूपं सम्बन्धिरूपञ्चापेक्ष्यानेकशब्दप्रत्ययभाग्भवति
मनुष्योब्राह्मणः श्रोत्रियोवदान्योबालो युवा स्थविरः पिता-
पुत्रः पौत्रोभ्राताजामातेति । तथा चैकापि सती रेखा-
स्थानान्यत्वेन निवेश्यमानैकदशशतसहस्रादिशब्दप्रत्य-
यभेदमनुभवति तथा सम्बन्धिनोरेव सम्बन्धिशब्दप्रत्ययव्यतिरे-
केण संयोगसमवायशब्दप्रत्ययार्हत्वं न व्यतिरिक्तंवस्त्वस्तित्वे-
नेत्युपलब्धिलक्षणप्राप्तस्यानुपलब्धेरभावोवस्त्वन्तरस्य । नापि
सम्बन्धिविषयत्वे सम्बन्धशब्दपत्यययोः सततभावपसङ्गः
स्वरूपवाह्यरूपापेक्षयेत्युक्तोत्तरत्वात् । तथैवाऽण्वात्ममनसा-
मप्रदेशत्वान्न संयोगः सम्भवति प्रदेशवतो द्रव्यस्य प्रदेशवता
द्रव्यान्तरेणसंयोगदर्शनात् । कल्पिताः प्रदेशाअण्वात्ममनसा-
म्भविष्यन्तीतिचेन्न अविद्यमानार्थस्य कल्पनायां सर्व्वार्थसिद्धि
प्रसङ्गात् इयानेवाविद्यमानोविरुद्धोऽविरुद्धोवार्थः कल्पनीयो-
नातोऽधिकैति नियमहेत्वभावात् कल्पनायाश्च स्वायत्तत्वात्
प्रभूतत्वसम्भवाच्च । नच वैशेषिकैः कल्पितेभ्यः पड्भ्योऽर्थे-
भ्योऽभ्यधिकाः शतं सहस्रं वार्थान कल्पयितव्या इति निवा-
रकोहेतुरस्ति । तस्माद्यस्मै यस्मै यद्यद्रोचते तत्तत् सिध्येत् ।
कश्विद्दयालुः प्राणिनां दुःखबहुलः संसार एवमा भूदिति
कल्पयेत् अन्योवाव्यसनी मुक्तानामपि पुनरुत्पत्तिं कल्पयेत्
पृष्ठ ०३४६
कस्तयोर्निवारकः स्यात् । किञ्चान्यत् द्वाभ्यामणुभ्यां निरव-
यवाभ्यां सावयवस्य द्व्यणुकस्याकाशेनेव संश्लेषानुपपत्तिः
नह्याकाशस्य पृथिव्यादीनाञ्च जतुकाष्ठवत् संश्लेषोऽस्ति ।
कार्य्यकारणद्रव्ययोराश्रिताश्रयभावोऽन्यथा नोपपद्यते पूत्यव-
श्यकल्प्यः समवायैति चेन्न इतरेतराश्रयत्वात् । कार्य्यकार
णयोर्हि भेदसिद्धावाश्रिताश्रयभावसिद्धिराश्रिताश्रयभाव
सिद्धौच तयोर्भेदसिद्धिः कुण्डवदरवदितरेतराश्रयता स्यात् ।
नहि कार्य्यकारणयोर्भेदः आश्रिताश्रयभावो वा वेदान्तवा-
दिभिरभ्युपगम्यते कारणस्यैव संस्थानमात्रं कार्य्यमित्यभ्यु-
पगमात् । किञ्चान्यत् परमाणूनां परिच्छिन्नत्वात्
यावत्योदिशः षडष्टौ दश वा तावद्भिरवयवैः सावयवास्ते
स्युः सावयवत्वादनित्याश्चेति नित्यत्वनिरवयवत्वाभ्युपगमो-
बाध्येत । यांस्त्वं दिग्भेदभेदिनीऽवयवान् कल्पयसि
तएव भम परमाणव इति चेन्न स्थूलसूक्ष्मतारतम्यक्रमेणा
परप्रकारत्वेन नाशोपपत्तेः । यथा पृथिवी द्व्यणुकाद्यपेक्षया
स्थूलतमा वस्तुभूतापि विनश्यति ततःसूक्ष्मं सूक्ष्मतरञ्च पृथि-
व्येकजातीयकं विनश्यति ततोद्व्यणुकं तथा परमाणवोऽपि
पृथिव्येकजातीयकत्वाद्विनश्येयुः । विनश्यन्तोऽवयवविभागे-
नैव विनश्यत्तीतिचेन्नायं दोषः यदोघृतकाठिन्यविलयनवदपि
विनाशोपपत्तिमवोचाम । यथाहि घृतसुवर्णादीनामविभ
ज्यमानावयवानामप्यग्निसंयोगात् द्रवभावापत्त्या काठिन्य-
विनाशोभवति एवं परमाणुनामपि परमकारणभावापत्त्या-
विनाशोमविष्यति । तथा कार्य्यारम्भोऽपि नावयवयवसंयो-
गेनैव केवलेन भवति क्षीरजलादीनामन्तरेणाप्यवयव-
संयोगान्तरं दघिहिमादिकार्य्यारम्भदर्शनात्” । वृ० उ०
भा० सत्कार्यव्यवस्थापनोद्देशे “द्विनिष्ठत्वात् सम्बन्धस्यायुत-
सिद्धानामदोष इति चेत् न । भावाभावयोरयुतसि-
द्धत्वानुपपत्तेः । भावभूतयोर्हि युतसिद्धताऽयुतसिद्धता
वा स्यान्न तु भावाभावयोर्वा तस्मात् सदेव काय प्रागुत्प-
त्तेरिति सिद्धम्” । “युतसिद्धयोरज्जुघटयोर्मिथःसंयोगे
पृथक्सिद्धिरपेक्ष्यते अयुतसिद्धानां परस्परपरिहारेण प्रती-
त्यनर्हाणां कार्यकारणादीमां मिथोयोगेऽपृथकसिद्ध्यभावो
न दोषमावहतीति शङ्कते अयुतेति” आनन्दगिरिः ।
“द्रव्याश्रयेष्वपि गुणेषु” भा० ५, ३८, वाख्यायां मल्लिनाथः
द्रव्याश्रयेष्वपि अयुतसिद्धत्वात् द्रव्यसमवेतत्वाच्च द्रव्याधी
नसत्ताकेषु सत्स्वपीति ।

अयुतसिद्धि स्त्री यु--अमिश्रणे क्त युतः पृथग्रूपेण स्थितः

तथाभूतयोः सिद्धिः अभावे न० त० । पृथग्भायेमा-
सिद्धौ । यथा अवयवावयविनोः, द्रव्यगुणयोः, द्रव्य-
क्रिययोस्तयासिद्धिः ते हि स्वस्वकारणे अपृयग्भूततया
सिद्धाः । अतएवोक्तं “युतसिद्ध्यभावात् कार्य्यकारणयोः
संयोगविभागौ न विद्येते” वै० सू० । “ससम्बन्धयोर्विद्य-
मानत्वम् पृथगाश्रयाश्रयित्वं वा युतसिद्धिस्तदभावस्त्वव-
यवावयविनोः” इति उप० वृत्तिः । अयमाशयः ‘घटपटा-
दयो हि पृयग्भूततया सिद्धाः आश्रयाश्रयिभातं लभन्ते ।
कार्य्यकारणयोस्तु न पृथक्स्थितिर्येन तथा स्यात्’ इति ।

अयुताजित् पु० अयुतं जितवान् जि--भूते क्विप् दीर्घः

उ० प० स० । यदुवंश्ये नृपभेदे । “अयुताजित् सहस्राजित्
शताजिदथ दासकः उपवाह्यकसृञ्जुर्य्यां भजमानाद्विज
ज्ञिरे” हरि० प० ।

अयुद्ध न० अभावे न० त० । १ युद्धाभावे न० ब० । २ युद्धशून्ये त्रि० ।

अयुव त्रि० न यौति यु--बा० क० । असंसृष्टे “अयुव-

मार्य्यस्य राष्ट्र भवति” ऐत० व्रा० ।

अयुवन् पु० स्त्री० न युवा विरोधे न० त० । वृद्धे--स्त्रियां ङीप् ।

अयूप्य त्रि० यूपे साधु यत् न० त०! यूपासाधने निम्ब-

जम्बीरादौ वृक्षे “वृक्षा द्विविधा यूप्या अयूप्याश्च पलाश-
खदिरविल्वादयो यूप्या निम्बजम्बीरादयस्त्वयूप्याः”
यजु० वेद० दी० ।

अये अव्य० इण्--एच् । १ कोपे, २ विषादे, ३ संभ्रमे, ४ स्मृतौ,

५ अबुद्धौ च । “अये दक्षिणेन पुष्पवाटिकामालाप इव
श्रूयते” शकु० “अये गौरीनाथ! त्रिपुरहर! शम्भो!
त्रिनयन”! सां० द० ।

अयोग पु० युज्--घञ् अभावे न० त० । १ योगाभावे, अप्रा-

शस्त्ये न० त० । ज्योतिषोक्ते तिथिवारादीनां दुष्टे २ योगे
“अयोगः सिद्धियोगश्च द्वावेतौ भवतोयदि । अयोगोहन्यते
तत्र सिद्धियोगः प्रवर्त्तते” इति राजमा० । “अयोगे सुयोगो
ऽपि चेत् स्यात्तदानीमयोगं निहत्यैव सिद्धिं तनोति ।
परे लग्नशुद्ध्या कुयोगादिनाशं दिनार्द्धोत्तर विष्टि--पूर्व्वञ्च
शस्तम्” “यत्र लग्नं विना” किञ्चित् क्रियते शुभसंज्ञकम्
तत्र तेषामयोगानां प्रभावाज्जायते फलम्” इति च मुहू०
चि० । न० ब० । ३ विधुरे, ४ कूटे, ५ कठिनोदये सुश्रुतोक्ते
वमनापशमनीये ६ रोगभेदे च । “यत्राध्मानं हृदयग्रहस्तृष्णा
मर्च्छा दाहश्च भवति तमयोगमित्याचक्षते तमाशु वमये-
दिति” । “अयोगाहास्तु वक्ष्यामि व्यापदः सचिकित्सिताः ।
अनुष्णोऽल्पौषधी हीनो वस्तिनति प्रयोजितः विष्टम्भा-
नशूलैशृ तमयोगं प्रचक्षते इति च सुश्रुतः ।
पृष्ठ ०३४७

अयोगवः पु० अय इव कठिना गौर्वाणी यस्य नि० अच् ।

अयोगं दुष्टयोगं वाति वा--क वा । “शूद्रादयोगवःक्षत्ता
चाण्डालश्चाधमोनृणाम् । वैश्यराजन्यविप्रासु जायन्ते वर्ण्ण-
सङ्कराः इति मनूक्ते शूद्रात् वैश्यायां जाते प्रतिलोमजे
सङ्कीर्णवर्णे । “प्रसाधनोपचारज्ञमदासं दासजीवनम्
सैरिन्ध्रं वागुरावृत्तिं सूते दस्युरयोगवे, मनुः ।
अयोगवस्यायम् अण् । आयोगवः तज्जातिसम्बन्धिनि
त्रि० स्त्रियां ङीप् । “भवन्त्यायोगवीष्वेते जातिहीनाः
पृथक् त्रयः” मनुः ।

अयोगवाह पु० अक्षरसमाम्नायसूत्रेषु “ऐउण्” इत्यादिषु

चतुर्दशसु नास्ति योगः पाठादिरूपः संबन्धो येषां ते
तथापि वाहयन्ति षत्वणत्वादिकार्य्यादिकं निष्पादयन्ति
वाहेः अच् कर्म्मधा० । “अनुस्वारो विसर्गश्च + कँपौ
चैव पराश्रितौ । अयोगवाहाविज्ञेया” इति शिक्षाकृ-
दुपदिष्टेषु अनुस्वारविसर्गादिषु

अयोगुल (ड) पु० गुलः गोलाकारः अयसा निर्म्मितोगुलः ।

(गोलीति (ख्याते लौहगुटिकायाम् । बा लस्य डः ।

अयोगू पु० अयोलोहविकारं गच्छति कर्त्तृत्वेन गम--ला०

डू । अयोगन्तरि अयस्कारे “पास्मने क्लीवमाक्रियाया
अयोगूमिति” । पुरुषमेधे यजु० ३०५ “अयोगूमयो-
गन्तारम् । वेद दी० ।

अयोग्य त्रि० न० त० । १ योग्यभिन्ने अनर्हे २ अनुचिते च ।

अयोऽग्र न० अयोऽग्रे मुखे यस्य । मुषले तस्य मुखे लौहा-

वस्थित्या तथात्पम् ।

अयोघन पु० अयांसि हन्यन्तेऽनेन हन अप पादेशश्च नि० ।

(हातुड़ीति) ख्याते लौहमुद्गरे । “अयोघनेनाय
इवाभितप्तम्” ॥ रघुः ।

अयोजाल न० अयोविकारः जालम् । १ लौहमये जाले अय

इव दुर्भेद्यं जालं मायाऽस्य । २ दुर्भेद्यकपटे असुरादौ त्रि०
“अयोजाला असुरा मायिनोऽयस्मयैः” अथ० १, १९, ६६ ।

अयोदंष्ट्रा त्रि० अयोमयी दंष्ट्रा चक्राग्रधारा अस्य ।

लौहमयधारे रथादौ । “पश्यन् हिरण्यवक्रानयोदंष्ट्रान् विधा-
वतो वराहून्” ऋ० १, ८८, ६, “दंष्ट्रा चक्रधारा” भा० ।

अयोदत् त्रि० अयैव कटिनो दन्तोयस्य संज्ञायां दत्रा-

देशः । लीहवत्कठिनदन्तयुक्ते राक्षसादौ स्त्रियां ङीप् ।

अयोध्य त्रि० योद्धुमशक्यः युध--ण्यत् न० त० । योद्धुमशक्ये

“अष्टाचक्रा नवद्वारा देवानां पूरयोध्या” अथ० १०,
२, ३१, इक्ष्वाकुवंश्यनृपाणां राजधान्यां खी सा च सरयू
तीरसन्निकृष्टा सेवनादौ मोक्षदा च । “अयोध्या मथुरा
माया काशी काञ्ची अवन्तिका । पुरी द्वारवती चैव
सप्तैता मोक्षदायिकाः” पुरा० “बलगुपहितशोभां
तूर्ण्णमायादयोध्याम्” भट्टिः ।

अयोध्याकाण्ड न० अयोध्यायास्तत्रत्यवृत्तान्तवर्ण्णनस्य

काण्डम् । रामायणान्तर्गते अयोध्यावर्णनात्मके ग्रन्थे ।

अयोनि स्त्री न० त० । १ योनिभिन्नस्थाने । “अमानषीषु

पुरुषे उदक्यायामयोनिषु । रेतः सिक्त्रा जले चैव कृच्छ्रं
सान्तपनं चरेत्” मनुः । नास्ति योनिरुत्पत्तिस्थानं
यस्य! २ अजन्ये नित्ये । “जगद्योनिरयोनिस्त्वम्” कु० ।

अयोनिक त्रि० न आभ्नाता योनिरस्य कप् । अनाम्नात

योनिकेषु ग्रहरूपयज्ञपात्रादौ “नायोनिकेषु” कात्या०
९, ५, २३, अयोनिकेषु यत्र “एष ते योनिः” इत्यस्याम्नानं
न भवति तत्र “एष ते योनिः” इत्यनेनासादनं भवति “सर्वे
ष्विति वात्स्योऽविशेषात्” कात्या० ९, ५, २७ “सर्वेष्वाम्नात
योनिकेषु अनाम्नातयोनिकेषु च ग्रहेषु परिमार्जनानन्तरम्
एष ते योनिरिति मन्त्रेणासादनं भवत्येव” कर्क० ।

अयोनिज न० योनेर्न जायते जन--ड । योनितोऽनुत्पन्ने-

शुक्रशोणितसन्निपातानुत्पन्ने जरायुजभिन्ने कृमिदंशादौ
तथाहि “शरीरं द्विविधं योनिजमयोनिजञ्च” वै० सू० ।
तत्र पार्थिवादिशरोरेषु मध्ये पार्थिवं शरीरं द्विविधं
योनिजमयोनिजञ्चेति आप्यतैजसवायवीयशरीराणां
वरुणादित्यवायुलोकेषु प्रसिद्धानामयोनिजत्वमेव शुक्रशो
णिससन्निपातानपेक्षत्वात् । अयोनिजञ्च देवानामृषी-
णाञ्च श्रूयते हि “ब्रह्मणोमानसामन्वादय” इति । कारण-
मन्तरेण कथं कार्य्यमिति चेत् योनेः शरीरत्वावच्छे-
देनाकारणत्वात् ऊष्मजकृमिमशकादिशरोरे व्यभिचारात्
संस्थानविशेषवत्त्वस्य चासिद्धेः देवर्षिशरीरापेक्षयाऽस्मदादि-
शरीराणामन्यादृशत्वात्, योनिजमपि द्विविधं जरायुजम-
ण्डजञ्च, जरायुजं मानुषपशुमृगाणां, गर्भाशयस्य जरायु-
त्वात्, पक्षिसरीसृपाणामण्डजं परितः सर्पणशीलत्वात्
सर्पकीटमत्स्यादयोऽपि सरीसृपा एव यद्यपि वृक्षादयोऽपि
शरीरभेदा एव भोगाधिष्ठानत्वात् न खलु भोगाधिष्ठानत्व-
मन्तरेण जीवन--मरण--स्वप्र--जागरणभेषज--प्रयोग--वीजस-
जातीयानुबन्धानुकूलोपगम--प्रतिकूलापगमादयः सम्भवन्ति
वृहिलतमगृमंरोहणे च भोगोयपादके स्फुटे एव, आगमो-
ऽप्यस्ति । “नर्म्मदातोरसम्मूताः सरलार्ञ्जुनपादपाः ।
नर्म्मदातोयसंस्पर्शात् ते पान्ति परमां गतिम्” ।
पृष्ठ ०३४८
“श्मशाने जायते वृक्षः कङ्कगृध्रादिसेवितः”, इत्यादिश्च
तथापि चेष्टावत्त्वमिन्द्रियवत्त्वञ्च नोद्भिदां स्फुटतरगतो
न शरीरत्यवहारः उ० वृ० ॥ वृक्षादीनामयोनिजशरीरसत्त्वे
प्रमाणान्तरमस्ति “शरीरजैः कर्म्मदोषैर्याति स्थावरतां
नरः” मनुना कर्मविशेषैर्नराणां तद्भावप्राप्तिरुक्ता । “गुरुं
तुङ्कृत्य हुङ्कृत्य विप्रं निर्जित्य वादतः । श्मशाने जायते
वृक्षः कङ्कगृघ्रादिसेवित” इत्यादि वचनेन । अयोनिजशरी-
रोत्पत्तिकारणमाह । “अनियतदिग्देशपूर्व्वकत्वात्” वै०
सू० । “धर्म्मविशेषाच्च” “समाख्याभावाच्च” “अनियत-
दिग्देशाः परामणबोधर्म्मविशेषजनितकर्म्माणस्तत्पूर्ब्बकत्वात्
अयोनिजशरीराणाम् ननु परमाणूनां कर्म्म विना कथं
द्रव्यासमवायिकारणं संयोगमन्तरेण द्रव्योत्पत्तिरत आह ।
अदृष्टवदात्मसंयोगादेव सर्गादौ परमाणूनां कर्म्म तेन च
कर्म्भणा सम्भूय परमाणवो द्व्यणुकादिक्रमेण अयोनिजं
देवर्षीणां शरीरमारभन्ते इत्यर्थः, उपलक्षणञ्चैतत् अधर्म्म-
विशेषाच्च क्षुद्रजन्तूनामूष्मजानां यातनामयानि शरीराण्यु-
त्पद्यन्ते इत्यपि द्रष्टव्यम् देवर्षीणामयोनिजे शरीरे
प्रमाणान्तरमाह । समाख्या अन्वर्था संज्ञा श्रुतिस्मृतीति-
हासपुराणादिषु संज्ञायाआदित्वात् प्रसिद्धा तथाहि
दुर्व्वासःप्रभृतयो मानसाः “अहङ्कारेभ्यः समभबदङ्गिरा”
इत्यादिका, तथाऽपि ज्ञायते सन्त्ययोनिजानि
शरीराणि देवर्षीणामिति प्रमाणान्तरमाह । सर्गादौ या
ब्रह्मादिसंज्ञा आदिभृता प्राथमिकी तया ज्ञायते अस्त्य-
योनिजं शरीरमिति नहि तदा ब्रह्मणो मातापितरौ स्तः
याभ्यां ब्रह्मादिसंज्ञा कृता स्यादिति भावः उप्रसंहरति ।
“सन्त्ययोनिजाः” “वेदलिङ्गाच्च वै० सू०” शरीरविशेषा
इति शेषः उपसंहृतेऽतिदार्द्यार्थं प्रमाणान्तरमाह । वेदो
मन्त्रः स च लिङ्ग्यते ज्ञाप्यतेऽनेनेति वेदलिङ्गं ब्राह्मणम्,
ततोऽप्ययोनिजं शरीरं प्रतिपद्यते इत्यर्थः । तथाहि
ब्राह्मणम् “प्रजापतिः प्रजा अनेका असृजत् स
तपोऽतप्यत प्रजाः सृजेयमिति म मुस्वतो ब्राह्मणमसृजत्
वाहुभ्यां राजन्यमूरुभ्यां वैश्यम् पद्भ्यां शूद्रम्” इति,
वेदोऽपि “ब्राह्मणोऽस्य मुखमासीत् बाहूराजन्यः कृतः
ऊरू तदस्य यद्वैश्यः पद्भ्यां शूद्रोऽजायत” इत्यादिः,
पवं योनिजमयोनिजञ्च पार्थिवशरीरमुक्तम्, आय्यं
तैजमं वायवीयञ्चायोनिजमेव “ब्रह्मणो मानसा मन्वादय”
इति उप० वृत्तिः । “किन्तु देहमयोनिजमिति” भापा०
छा० उ० तद्भाप्ये च त्रैविध्यमुक्त यथा “तेषां खल्वेषांभूतानां
त्रीण्येव वीजानि भवन्त्याण्डजं जीवजमुद्भिज्जमिति”
छा० उ० “तेषां जीवाविष्टानां खल्वेषु पक्ष्यादीनां भूतानामे-
षामिति प्रत्यक्षनिर्द्देशान्नतु तेजः प्रभृतीनां तेषां त्रिवृत्करणस्य
वक्ष्यमाणत्वादसति त्रिवृत्करणे प्रत्यक्षनिर्द्देशानुपपत्तिः ।
देवताशब्दप्रयोगाच्च तेजः प्रभृतिषु इमास्तिस्रोदेवता इति ।
तस्मात्तेषां खल्वेषां भूतानां पशुपक्षिस्थावरादीनां त्रीण्येव
नातिरिक्तानि वीजानि कारणानि भवन्ति । कानि
तानीत्युच्यन्ते । आण्डजमण्डाज्जातं अण्डजमेवाण्डज
पक्ष्यादि । पक्षिसर्पादिभ्यो हि पक्षिसर्पादयो जायमाना
दृश्यन्ते । ते च पक्षिणां वोजम् । सर्पः सर्पाणां वीजम् ।
तथाऽन्यदप्यण्डाज्जांतं तज्जातीयानां वीजमित्यर्थः भा० ।
२ अयोनिजदेहवति नरादौ च त्रि० “राघवाय तनया-
मयोनिजाम्” रघुः ३ विष्णौ पु० । “वाचस्पतिरयोनिज”
इति वि० सह० ।

अयोमय त्रि० विकारे मयट् स्त्रियां ङीप् । लौहविकारे

अस्त्रशस्त्रादौ । “निःक्षेप्योऽयोमयः शङ्कुर्ज्वलन्नास्ये
दशाङ्गुलः” गुरुतल्प्यभिभाष्यैनस्तप्ते स्वप्यादयोमये” इति
च मनुः ।

अयोमल न० अयसो मलमिव । (लौहगू) इतिख्याते

लौहभले तत्किट्टे “शताब्दमुत्तमं किट्टं मध्यञ्चाशीति-
वार्षिकम्” अधमं षष्ठिवर्षीयं ततो हीनं विषोपमम्
यल्लौहं यद्गुणं प्रोक्तं तत्किट्टं चापि तद्गुणमिति”
राजनि० ।

अयोमुख न० अयोविकाररूपं मुखं यस्य । १ लाङ्गलादौ “भूमिं

भूमिशयांश्चैव हन्ति काष्ठमयोमुखम्” २ अग्रलौहयुक्ते त्रि०
भेत्स्यत्यजः “कुम्भमयोमुखेन” रघुः । अय इव कठिनं मुख
यस्य । ३ लौहतुल्यकठिनमुखे विहगादौ “अयोमुखाः सूची-
मुखाः अयोविकृतिमुखाः पिशाची क्रव्यादो वातरंहसः
अथ० ११, १०, ३ । “श्वानो भीषणकाया अयोमुखानि
वयांसि जले गृध्रपक्षिणाञ्च सङ्घाः भा० शा० प० ।
४ असुरभेदे पु० । “शङ्कुकर्णो विराषश्च गवेष्ठी दुन्धुभिस्तथा
अयोमुखः शम्बरश्च कपिलोवामनस्तथा हरिवं० । अयःसुवर्ण्णं
मुखमाद्यं यस्य । सुवर्ण्णादिधातौ “अयोमुखैश्च विपुलः
पर्व्वतो धातुभिर्युतः इति हरिवं० तत्र भवः स्रुघ्नादि०
छ । अयोमुखीयः तद्भवे त्रि० ।

अयोरस पु० ६ त० । लौहमले । ताप्यमानाल्लोहात् यत्

पृथग् भवति तस्मिन् “सर्बायोरसाश्मचूर्णैः रुद्राः
संसृज्ये कात्या० १५, ५, ९, “अयोरसः लोहसिङ्घानः
किट्ट इति यः प्रसिद्धः कर्क० “अथैतत्रयं पिष्टं भवति
शर्कराश्मायोरसस्तेन सं सृजति” श० ब्रा० ।
पृष्ठ ०३४९

अयोहृदय त्रि० अय इव कठिनं हृदयमस्य । कठिनचित्ते

दयाशून्यचित्ते । “सुहृदयोहृदयः प्रतिगतर्जताम् रघुः ।

अय्मन् त्रि० अय--मनिन् । १ गन्तरि २ गमनसन्धने च

“समानमय्मन् पर्य्येति जागृविः” ता० ब्रा० “अय्मन्
अयमनि गमनसाधने रथे उपविष्टः” मा० ।

अर पु० इयर्त्ति गच्छत्यनेन ऋ--अच् । १ चक्रस्य

२ नाभिनेम्योर्मध्यस्थे काष्ठे ३ शीघ्रे च ४ शीघ्रतादिगुणवति
त्रि० । “गण्डोज्ज्वलामुज्ज्वालनाभिचक्रया विराज-
मानां नवयोदरश्रियां” माघः उदरा उन्नता अराश्चक्र-
शलाका इति मल्लि० “विभुररान्न नेमिः परिभूरजायथाः
ऋ०१ १४, ९ “अरा इव रथनाभाविति” श्रुतिः
“सम्यञ्चोऽग्निं स पर्यतारा नाभिमिवाभितः” अथ०
३, ३०, ६, “अरा इवाग्ने नेमिरिति” शत० ब्रा० ।
एवमस्य पुंस्येव प्रयोगात् “रोपधः” ६ । ७ पृष्ठे दर्शितात्
पा० सूत्राच्च पुंस्त्वे स्थिते मेदिनीकरोक्तं क्लीवत्वं शीघ्र-
तायामेवान्वितं न तु चक्राङ्गेऽपि । “यदपि च तच्चक्रं
द्वादशारं यद्वै कुमाराः परिवर्त्तयन्ति तेऽपि षडृतवः
संवत्सरश्चक्रम्” भा० आ० प० । द्वादश मासा अराइव यस्य
तदर्थः । “पञ्चारे चक्रे परिवर्त्तमामे तस्मिन्नातस्थुर्भुव-
नानि च विश्वा” ऋ० १, १६४, १३ पञ्चारे पञ्चर्त्तु-
रूपैररैर्युक्ते हेमन्तशिशिरयोरेकत्वाभिप्रायेण पञ्चर्त्तुता” भा०
४ कोणे “त्रिपञ्चारे पीठे शवशिवहृदीति” श्यामास्तवः ।
संज्ञायां कन् । ५ शैवाले “प्रापडीति” ख्याते ६ पर्पटे च पु० ।

अरक्षस् त्रि० नास्ति रक्षो रक्षस्तुल्यं बाधकं यस्य ।

“बाधकरहिते । “जिघर्म्यरक्षसा मनसा च तज्जुषेत”
ऋ० २, १०, ५ । “अरक्षसा बाधकरहितेन मनसा” भा० ।

अरक्षित त्रि० न रक्षितः । रक्षितभिन्ने । “पादं स्वामिन्य-

रक्षिते” स्मृतिः ।

अरग्बध पु० पृ० ह्रस्वः । आरग्वधवृक्षे (शुँधालो) ।

अरघट्ट पु० अरं शिघ्रं घट्ट्यते चाल्यतेऽसौ । १ महाकूपे,

२ कूपोपरिनिबद्धजलोत्तोलनकाष्ठे च । “अथ कूपमासा-
द्यारघट्टघाटिकामार्गेण सर्पस्तेनानीतः” । “तदाकर्ण्य तु
अरघट्टघाटिकामार्गमहमाश्रित्येति” च पञ्चत० स्वार्थे
कन् । तत्रैव ।

अरङ्कृत् त्रि० अलं करोति अलम् + कृ--क्विय लस्य रः ।

१ अलङ्कारिणि “त्वमग्ने! द्रविणोदा अरद्भूते” ऋ०
२ १, ६, ० “अरङ्कृते अलङ्कुर्वते” भा० हविष्यन्तो
अरङ्कृतः ऋ० १, १४, ५, भा० अलङ्कृतःअलङ्कुर्वतः
“कपिलकादीनां संज्ञाछन्दसोः” लस्य रः भा० । २ पर्य्याप्त-
कारिणि च “उरुधाराभरङ्कृतम् ऋ० ८, १, १०,
“अरङ्कृतं पर्य्याप्तकारिणमिन्द्रम्” भा० ।

अरङ्कृत त्रि० अलं क्रियते स्म अलम् + कृ + क्त लो रः ।

अलङ्कृते भूषिते “यमोह यज्ञो गच्छत्यग्निदूतो
अरङ्कृतः” ऋ० १०, १४, १३, अरङ्कृतः बहुभिर्द्रव्यैरलङ्कार-
रूपैर्युक्तः” भा० ।

अरङ्कृति स्त्री अलम् + कृ + क्तिन लस्य रः । अलङ्कारे भूषायाम्

“का ते अस्त्यरङ्कृतिः सूक्तैः” ऋ० ७, २९, ३ । “अरङ्कृति-
रलङ्कृतिः” भा० ।

अरङ्गम पु० अलं पर्य्याप्तं गमोगतिः लस्य रः । पर्य्याप्त

गमने “अरङ्गमाय जग्मयेऽपश्चाद्दघ्वने नरे” ऋ० ६, ४२, १,
“अरङ्गमाय पर्य्याप्तगमनाय” भा० ।

अरजस् त्रि० रन्ञ असुन् नलोपः न० ब० । १ रजोगुण-

कार्य्यकामक्रोधादिशून्ये । “अजरममरमभयममृतमरज”
इति शत० व्रा० वा कप् । अरजस्कोऽप्यत्र । २ अनार्त्त-
वायां नग्निकायां स्त्री । भृशा० अभूततद्भावे क्यङ्”
सलोपश्च, अरजायते ।

अरज्जु न० नास्ति रज्जुर्बन्धनसाधनं यत्र । १बन्धनागारे

रज्जुहीनत्वेऽपि बन्धनहेतुत्वात् तथात्वम् । “अरज्ज्वौ
दस्यून्त्समुनब्दभीतये” ऋ० २, १३, ९, “अरज्जौ बन्ध-
नागारे” भा० २ रज्जुरहिते रोगादौ च “सेतुभिः रज्जुभिः
सिनीथः, ७, ८१, २, रज्जुरहितैः रोगादिभिः भा० ।

अरटु (लु) पु० अरं शीघ्रमटति अट--अल वा उन् शक० ।

(शोना) वृक्षे इति ख्याते ऋश्यादि० क । डलयोरैक्यात्
अरडुकः तद्भवे त्रि० ।

अरट्व पु० न रटति रट--वन् न० त० । पृथुश्रवोनृपति-

मन्त्रिभेदे “अरट्वे अक्षे नहुषे सकृत्वनि” सुकृत्तराय
सुक्रतुः” ऋ० ९, ४५, १७ अरट्वे अक्षे नहुषे सुकृत्वनि
च एते तस्य राज्ञोऽध्यक्षाः” भा० ।

अरण त्रि० नास्ति रणं युद्धं यस्य । १ युद्धशून्ये “अरणं

मरणं समयात् समयात्” भट्टिः नास्ति रणः शब्दो येन ।
वाक्सङ्गरहिते २ रिपौ “ब्रह्मराजन्याभ्यां शूद्राय
चार्य्याय स्वाय चारणाय” यजु० १६, २, “अरणाय पराय
वाक्सङ्गरहिताय शत्रवे” वेददी० । ३ अरममाणे पृ० साधुः ।
“योनः स्वो अरणो यश्च निष्ठ्यो जिघांसति” ऋ० ६,
पृष्ठ ०३५०
७५, २९ “अरणोऽरममाणः” इति भा० । ४ दुःखिते
“मा भूम निष्ठ्या इवेन्द्र! अरणा इव” ऋ० ८, १, १३,
“अरणा अरममाणाः दुःखिनः” भा० ।

अरणि पु० ऋ--अनि । १ सूर्य्ये ‘गणियारीति’ ख्याते २ वृक्षे ।

ऋच्छति प्रापयत्यग्निम् । ३ अग्निमन्थनकाष्ठे द्वि० ।
स्त्रियां ङीप् । “जाते पुत्रेऽरणिं मथित्वेति” श्रुतिः
“आत्मानमरणिं कृत्वा” पुरा० “अग्न्युद्धारशब्दे ६३ पृष्ठे
विवरणम् “अरणीसहितं मन्थं ब्राह्मणस्य तपस्विनः ।
मृगस्य घर्षमाणस्य विषाणे समज्जतं” भा० व० प० ।
“ततः पुनर्महत्मानः पाणिं वेनस्य दक्षिणम् । अरणी-
मिव संरब्धा ममन्थुर्जातमन्यव” इति हरिवं० “पराश-
रकुलोद्भूतः शुकोनाम महातपाः । भविष्यति युगे
तस्मिन् महायोगी द्विजर्षभः । व्यासादरण्यां संभूतो
विधूमोऽग्निरिव ज्वलन्” हरिव० । अरणीमधिकृत्य
कृतोग्रन्थः ढक् । आरणेयम् भारतवनपर्व्वान्तर्गते अरणी-
हरणाधिकारेण व्यासकृतेऽवान्तरपर्वभेदे ।

अरणिक पु० अरणये अग्निमन्थनकाष्ठाय साधु ठन् ।

अग्निमन्थनकाष्ठसाधने अग्निमन्थनवृक्षे ।

अरणीकेतु पु० अणणी केतुरस्य । अग्निमन्थनवृक्षे राजनि० ।

अरणीसुत पु० ३ त० । शुकदेवे “स लब्धा परमं देवाद्वरं

सत्यवतीसुतः” । अरणीसहिते गृह्य ममन्थाग्निविर्की-
र्षया । अथ रूपं परं राजन् बिभ्रतीं स्वेन
तेजसा । घृताचीन्नामाप्सरसमपश्यद्भगवानृषिः ।
ऋषिरप्सरसं दृष्ट्वां सहसा काममोहितः । अभवद्भग-
वान् व्यासो वने तस्सिन् युधिष्ठिर! । सा च दृष्ट्वा
तदा व्यासं कामसंविग्नमानसम् । शुकीभूत्वा महाराज!
घृताची समुपागमत् । स तामप्सरसं दृष्ट्वा रूपेणान्येन
संवृताम् । शरीरजेनानुगतः सर्व्वगात्रातिगेन ह । स तु
धैर्य्येण महता निगृह्णन् हृच्छयं मुनिः । न शशाक
नियन्तुन्तत् व्यासः प्रविसृतं मनः । भावित्वाच्चैव भावस्य घृताच्या
वपुषा हृतः । यत्नान्नियच्छतस्तस्य मुनेरग्निचिकीर्षया ।
अरण्यामेव सहसा तस्य शुक्रमवापतत् । सोऽविशङ्केन
भनसा तथैव द्विज सत्तमः । अरणों ममन्थ ब्रह्मर्षिस्तस्यां
जज्ञे शुको नृपः । शुक्रे निर्म्मथ्यमाने स शुको जज्ञे
महातपाः । परमर्षिर्महायोगी अरणीगर्भसम्भवः ।
यथाऽध्वरे समिद्धोऽग्निर्भाति हव्यमुदावहन् । तथारूपः शुको
जज्ञ प्रज्वलन्निव तेजसा” भा० शा० प० ।

अरण्य पु० न० अर्य्यते शेषे वयस्यत्र ऋ--अन्य । १ वने,

अर्द्धर्च्चादि । “माता यस्य गृहे नास्ति भार्य्या चाप्रि-
यवादिनी । अरण्यं तेन गन्तव्यं यथारण्यं तथा
गृहम्” चाणक्यः । “सावित्रीमप्यधीयीत गत्वारण्यं
समाहितः । गृहे गुरौ वारण्ये वा निवसन्नात्मवान् द्विजः”
मनुः । “गृहस्थस्तु यदा पश्येद्बलीपलितमात्मनः । अपत्यस्यैव
चापत्यं तदारण्यं समाश्रयेत्” मनुना अन्त्ये वयस्येव
अरण्यवासविधानात्तस्य तथात्वम् । स्वार्थे कन् तत्रैव ।
“य एनमेव विन्दन्ति ये चारण्यकमाश्रिताः” या० स्मृ० ।
२ कट्फलवृक्षे पु० । उत्करादि० चतुरर्थ्यां छ ।
अरण्यीयः अरण्यसन्निकृष्टदेशादौ त्रि० । अरण्येऽध्येयः
बुञ् । आरण्यकं वनपाठ्ये अनुवाक्भेदे “आरण्यकमधीत्य
च” मनुः । अरण्यमधिकृत्य कृतः ग्रन्थः आरण्यम्
रामायणान्तर्गतारण्यकाण्डे ।

अरण्यकदली स्त्री अरण्यस्थैव कदली । गिरिकदल्यां तस्या

ग्रामादावनुत्पत्तेस्तथात्वम् ।

अरण्यकाण्ड न० रामायणान्तर्गते रामस्य वनगमनवर्ण्णनात्मकेग्रन्थभेदे ।

अरण्यकार्पासी स्त्री अरण्ये कार्पासी । (वनकापास) इति

ख्यातायां वनकार्पास्याम् ।

अरण्यकुलत्थिका स्त्री अरण्यस्य कुलत्थिका । (वनकुलधीति)

ख्यातायाम् वनकुलत्थिकायाम् ।

अरण्यकुसुम्भ पु० ६ त० । वनकुसुम्भे!

अरण्यगज पु० अरण्यस्थो गजः । दुर्द्दान्तगजे ।

अरण्यगान न० अरण्येगीयते कर्म्मणि ल्युट् । सामवेदान्तर्गते

अरण्ये गेये गानभेदे ।

अरण्यघोलो स्त्री अरण्यजा घोली । वनघोल्यां पत्रशाकभेदे राजनि० ।

अरण्यचटक पु० ६ त० । वनचटके ।

अरण्यचन्द्रिका अरण्ये चन्द्रिकेव निष्फला द्रष्टुरभावात् ।

निष्फलभूषणे । लोके हि चन्द्रिका उन्मीलितनेत्रपङ्क्ति-
भिरालोक्यते अरण्ये तु लोकाभावेन दर्शकाभावात् दर्शनेन
प्रीतिजनिका न भवतीति तस्याः यथा निष्कला शोभा
एवमन्यस्यापि तथा, अतएव “स्त्रीणां प्रियालोकफलो-
हि वेशः” इति कुमा० व्याख्यायां मल्लिनाथेन “अन्यथा
अरण्यचन्द्रिका स्यादित्युक्तम्” ।

अरण्य(ण्ये)चर त्रि० अरण्ये चरति चर--ट ७ त० वा

अलुक्स० । वनचरे व्याधादौ ।

अरण्यज त्रि० अरण्ये जायते जन--ड उप० स० । वनजाते ।

अरण्यजार्दक न० अरण्ये जायते जन--ड कर्म्म० ।

(वन आदा) इति ख्याते वनार्द्रके ।

अरण्यजीर पु० । ६ त० । वनजीरके ।

"https://sa.wikisource.org/w/index.php?title=वाचस्पत्यम्/अभ्रि&oldid=310872" इत्यस्माद् प्रतिप्राप्तम्