पृष्ठ ०५५८

असुरराज् पु० असुरेषु राजते राज् क्विप् ७ त० । प्रह्लाद-

पौत्रे बलिदैत्ये २ असुराध्यक्षमात्रे च भा० आ० प०
वकासुरवर्ण्णने । “पुष्टो मानुषमांसेन दुर्बुद्धिः पुरुषादकः ।
रक्षत्यसुरराट् नित्यमिमं जनपदं बली” ।

असुररिपु पु० असुराणां रिपुः । दानवशत्रौ विष्णौ ।

असुरारिप्रभृतयोऽप्यत्र ।

असुरसा स्त्री न सुष्ठु रसो यस्याः ५ ब० । (वावुइतुलसी) तुलसीभेदे

असुरहन् त्रि० असुरं हन्ति--हन् क्विप् । असुरनाशके ।

“प्राग्नये विश्वशुचे धियन्धेऽसुरघ्ने” ऋ० ७” १३, १ । स्त्रियां
नान्तत्वात् ङीप् । असुरघ्नी ।

असुरार्य्य पु० ६ त० । शुक्राचार्य्ये ।

असुराधिप पु० ६ त० । १ प्रह्लादपौत्रे बलिदैत्ये २ असुराध्यक्षमात्रे च ।

असुराह्व न० असुरस्याह्वा आह्वा यस्य । कांस्ये हेम० ।

असुर्य्य त्रि० असुराय हितः गवा० यत् । १ असुरहिते

तत्स्वभूते च असुरशब्दे उदा० ।

असुष्वि त्रि० सु--बा० कि द्वित्वम् न० त० । सोमाभिषवा

कर्त्तरि “विपपृच्यादसुष्वीन् ऋ० ४, २४, ५ । जह्यसुष्वीन्
प्रवृहा पृणत” ऋ० ६, ४४, ११ । “असुष्वीन् अनभिषोतॄन्-
यजमानान्” भाष्यम् ।

असुलभ त्रि० न सुलभः विरोधे । दुर्लभे दुःखेन प्राप्ये ।

असुसू पु० असून् प्राणान् सुवति सू--क्विप् । बाणे “स सासिः

सासुसूः सासोयेयायेयाययाययः” किरा० ।

असुस्थ त्रि० विरोधे न० त० । १ दुःखेन स्थातरि २ रोगाद्यभिभूते च ।

असुहृद् पु० विरोधे न० त० । सुहृद्भिन्ने रिपौ “शलभतां

लभतामसुहृद्गणः” माघः ।

असू स्त्री न प्रसूते सू--क्विप् । अप्रसवायां स्त्रियाम्

“याभिर्धेनुमस्वम्” ऋ० १, ११२, ३ ।

असू(क्ष)क्षण न० सू(सूर्क्ष)क्ष आदरे ल्युट् अभावे न० त० । अनादरे अवज्ञायाम्

असूक्ष्म त्रि० विरोधे न० त० । सूक्ष्मताविरोधिस्थूलत्ववति ।

असूत त्रि० न० त० । अप्रसूते ।

असूयक त्रि० (असु)असूञ्--कण्ड्वादि० यकि--ण्वुल् । गुणेषुदोषारोपणशीले ।

असूया स्त्री असु (असू)--उपतापे कण्ड्वा० यक् अ । परगुणेषु

दोषाविष्करणे “पैशून्यं साहसं द्रोहईर्षासूयार्थ-
दूषणम् । वाग्दण्डजञ्च पारुष्यं क्रोधजोदशकोगणः”
मनुः । “क्रुधद्रुहेर्य्यासूयार्थानां यं प्रति कोपः” पा० ।
“असूया परगुणेषु दोषाविष्करणम्” सि० कौ० ।

असूयु त्रि० असु(सू)--कण्ड्वा० यक् उन् । असूयाशीले

“इदन्तु ते गुह्यतभं प्रवक्ष्याम्यनसूयवे” गीता ।

असूर त्रि० सूरी स्तम्भे धातूनामनेकार्थत्वात् स्तुतौ

भावे घञ् न० ब० । स्तोत्ररहिते । “असूरे सन्ति सूरयः”
ऋ० ८, १०, ४ ।

असूर्त्त त्रि० सूरी क्त इडभावः न तस्य नत्वम् ।

“अप्रेरिते “असूर्त्ते सूर्त्ते रजसि” यजु० १७, १७ ।

असूर्य्यम्पश्या त्रि० सूर्य्यमपि न पश्यति दृश--खश् मुम् च

अस० समा० । अत्यन्तगुप्ते सूर्य्यादर्शिनि राजदारादौ ।
“असूर्य्यम्पश्यरूपा त्वं किमभीरुररार्य्यसे?” भट्टिः ।

असृक्कर पु० असृक् शोणितं करोति कृ--ट । शरीरस्थे

रसधातौ, अन्नादेरशितस्य प्रथमं रसरूपता, रसस्य रक्त-
रूपतेति वैद्यके प्रसिद्धम् । अथ रसस्य यथा रक्तकर-
त्वम् तथोक्तं सुश्रुते । “रसाद्रक्तं ततोमांस मांसान्मेदः
प्रजायते । मेदसोऽस्थि ततोमज्जा मज्ज्ञः शुक्रस्य
सम्भवः” तत्पाकप्रकारमाह भाव० प्रका० । “यात्यामा
शयमाहारः पूर्ब्बं प्राणानिलेरितः । माधुर्य्यं फेनभावञ्च
षड्रसोऽपि लभेतसः” । “आहार्य्यं षद्धिधं भोज्यं भक्ष्यं चर्व्यं
तथैव च । लेह्यं चूष्यंतथा पेयं तदुदाहरणानि तु । भोज्य
मोदनपूपादि, भक्ष्यं मोदकमण्डकम् । चर्व्यंचिपिटधानादि-
रसलादि तु लिह्यते । चूष्यमाम्रफलेक्ष्वादि पीयते पानकं
पयः” । आमाशयमाह चरकः “नाभिस्तनान्तरे जन्तोराहु-
रामाशयं बुधाः” । तत्र विशेषमाह । “उरोरक्ता-
शयस्तस्मादधःश्लेष्माशयःस्मृतः । आमाशयस्तु तदधस्तदघो-
हि मलाशयः” । अनिलेरित इति हृदयाधिष्टानेन
प्राणनाम्ना वायुना मुखंगतेनान्तःप्रवेशितः । तथाह
सुश्रुते । “योवायुः प्राणनामासौ मुखं गच्छति देहधृक् ।
सोऽन्तः प्रवेशयत्यन्तः प्राणांश्चाप्यवलम्बत” इति । तमाहारमा
माशयस्थं क्लेदननामकफः क्लेदयति क्लेदनात्संहतं भिनत्ति
च । उक्तं च सुश्रुते । “क्लेदनः क्लेदयत्यन्नं संहतं च
भिनत्त्यतः” इति स आहारः षड्रसोऽप्यामाशये माधुर्यं
लभते आमाशयस्थस्य मधुरस्य कफस्य योगात् । उक्तं च श्लेष्म
स्वरूपम् “श्लेष्मा श्वेतो गुरुःस्निग्धः पिच्छिलः शीतलस्तथा ।
तमोगुणाधिकः स्वादुर्विदग्धोलवणो भवेदिति” । “फेनभावं
च लभते जठरानलतेजसा” । यतआह वाग्भटः “संधुक्षितः
समानेन पचत्यामाशयस्थितम् । औदर्योऽग्निर्यथा बाह्यः स्था-
लीस्थं तोयतण्डुलम्” इति । अथ सएवाहारः प्राणवायुना
प्रेरितस्ततः किञ्चित्स्खलितः पाचकाख्यपित्तोष्मणेषत्प-
क्वोऽम्लोभवति । उक्तं च । “अथ पाचकपित्तेन विदग्धश्चा-
म्लतां व्रजेदिति” पाचकपित्तेन पाचकपित्तोष्मणा ततः
स एवाहारो नाभिमण्डलाधिष्ठानेन समाननाम्ना वा
युना प्रेरितोग्रहणीम् प्रति नीयते उक्तञ्च । “ततः समान
पृष्ठ ०५५९
मरुता ग्रहणीमभि नीयते” । ग्रहणीलक्षणमाह “षष्ठी-
पित्तधरा नाम पाकला परिकीर्त्तिता । आमपक्काशयान्तःस्था
ग्रहणीत्यभिधीयते” । पित्तधरा पाचकाख्यं पित्तं तदग्न्यधि-
ष्ठानं तद्धारयति । तत्र ग्रहण्यामामाशयपक्काशयमध्यवर्त्ति-
पाचकाख्यपित्ताधिष्ठानेनाग्निनाहारः पच्यते स कटुश्च-
भवति । तथा च “ग्रहण्याम्पच्यते कोष्ठवह्निना जायते
कटुरिति” । अयमर्थः । आहारो ग्रहण्यां कोष्ठवह्निना
ग्रहणीस्थितपाचकपित्तेन वह्निना पच्यते पच्यमानः स
ग्रहणीस्थितस्य कटुरसस्य पित्तधस्य योगात्कटुर्भवति ।
एतदाहारपाके विशेषमाह । “शरीरं पाञ्चभौतिकम्” तत्र
पञ्चसु भूतेषु पञ्चाग्नयः तिष्ठन्ति । उक्तंच चरकेण । “भौमा-
प्याग्नथवायव्याः पञ्चोष्माणः सनाभसाः । पञ्चाहारगुणान्
स्वान् स्वान् पार्थिवादीन् पचन्त्यनु” । अत्रोष्मपदेनाग्निरुच्यते
आहारोऽपि पाञ्चभौतिकः तत्र पाचकपित्तस्थेनाग्निनो
त्तेजितेन शरीरवर्त्तिभूभागाग्रिनाहारवर्त्तिभूभागः
पच्यते पक्वोभूभागः स्वकीयान् गुणानभिवर्द्धयति एवं
जलादिभागा अपि पच्यन्ते । तथा च सुश्रुते “पञ्चभूता-
त्मके देहे आहारः पाञ्चभौतिकः । विपक्वः पञ्चधा-
सम्यक्गुणान् स्वानभिवर्द्धयेदिति” । गुणशब्देनात्र गुणिनः
पृथिव्यादय उच्यन्ते तेन गुणान् शरीरवर्त्तिनः पार्थि-
वादीन् भागानभिवर्द्धयेदित्यर्थः । एवमहोरात्रेण पक्वाहारो
मिष्टश्च कटुश्च मधुरोभवति अम्लस्त्वम्लोभवति । कटुस्तिक्तः
कषायश्च कटुर्भवति उक्तञ्च “मिष्टःकटुश्च मधुरमम्लोऽम्लं
पच्यते रसः । कटुतिक्तकषायाणां विपाको जायते कटुरिति”
एवं विपक्वस्याहारस्य सारो निगदितोरसः शेषोग्रहणी-
स्थोमलद्रवः । मलद्रवस्य जलभागः शिराभिर्वस्तिन्नीतो-
मूत्रम्भवति । उक्तञ्च “आहारस्य रसःसारः सारहीनो-
मलद्रवः । शिराभिस्तज्जलं नीतं वस्तौ मूत्रत्वमाप्नुयात् ।
शेषं किट्टञ्च यत्तस्य तत्पुरीषं निगद्यते । समानवायुनानीतं
तत्तिष्ठति मलाशये” । तत्र मलाशयेनापानवायुना प्रेरितं मूत्रं
मेढ्रभगमार्गेण, पुरीषं गुदमार्गेण शरीराद्बहिर्याति उक्तञ्च
“भूत्रंह्युपस्थमार्गेण पुरीषं गुदमार्गतः । अपानवायुना-
क्षिप्तं बहिर्याति शरीरतः” । उपस्थः शिस्नोभगञ्च । रसस्तु
समानवायुना प्रेरितोधमनीमार्गेण शरीरारम्भकस्य रसस्य
स्थानं हृदयं गत्वा तेन सहमिश्रितोभवति ऊक्तञ्च
“रसस्तु हृदयं याति समानमरुतेरितः । स तु व्यानेन
पुविक्षिप्तः सर्ब्बान्धातून् विवर्द्धयेत् । केदारेषु यथा कुल्याः
ष्णन्ति विविधौषधीः तथा कलेवरे धातून् सर्वान्बर्द्धयते रसः”
रसस्तु तत्र तत्र त्रिघा विभिद्यते । उक्तं च चरके “स्थूला
एवं मलभेदैस्तत्रतत्र त्रिधा रसः । स्वंस्थूलेऽंशः परं सूक्ष्म
स्तन्मलो याति तन्मलम्” । अयमर्थः स्थूलेऽंशः स्वंयाति ।
यथास्थितं तिष्ठति सूक्ष्मस्त्वंशःपरं द्वितीयं धातुं याति-
तन्मलः रसादिमलस्तन्मलं शरीरारम्भकं तत्तद्धातुमलं
यातीत्यर्थः यथा लौकिकाग्निनेक्षुरसः पच्यते तथा
शरीरारम्भकस्य रसस्य अग्निनाहाररसः पच्यते पच्यमानः
स पञ्चाहोरात्रात्सार्द्धदण्डमेकं च यावत्प्राक्तनरसधातावेव
तिष्ठते उक्तञ्च सुश्रुते “स खलु रसस्त्रीणि त्रीणि
कलासहस्राणि पञ्चदशकला एकैकस्मिन्धातावेव तिष्ठति” इति ।
अत्र कलानां विंशतिः मुहूर्त्तः स च दण्डद्वयात्मकः तथा
च भोजः “घातौ रसादौ मज्जान्ते प्रत्येकं क्रमतोरसः ।
अहोरात्रात्स्वयंपञ्च सार्द्धं दण्डं च तिष्ठति” । प्रत्येकम्
एकस्मिन्नेकस्मिन्नित्यर्थः ततो यथा पच्यमानादिक्षुरसान्मलोनिर्ग-
च्छति । तथा पच्यमानादाहाररसान्मलो निर्गच्छति सः
कफः उक्तञ्च सुश्रुते “कफपित्तमलाः खेषु प्रस्वेदोनखरोम च
नेत्रविट्चक्षुषः स्रेहोधातूनां क्रमशोमलाः । खेषुमलः
कर्ण्णादिस्रोतोमलः । स च कफः प्राणानिलप्रेरितोधम-
नीमार्गेण शरीरारम्भकं क्लेदनाख्यं कफं गत्वा
पुष्णाति । ततः सारभूतस्याहाररसस्य द्वौ भागौ भवतः
स्थूलः सूक्ष्मश्च तत्र सूक्ष्मोभागः शरीरारम्भकं रसं
पोषयति सकलशरीराधिष्ठानेन व्यानवायुना प्रेरितोधम-
नीभिः सञ्चरन् पोषणस्नेहनजठरानलोष्मकृतसन्तापनि-
वारणादिभिर्गुणैः सकलं पुष्णाति शरीरम् ततः स्थूलो-
भागः प्राणवायुना प्रेरितोधमनीमार्गेण शरीरारम्भकस्य
रक्तस्य स्थानं गत्वा यकृत्प्लीहरूपङ्गत्वा तेन सह मिश्रितो
भवति । ततः प्राक्तनरक्तस्थाग्निना पुनः पच्यमानः
पञ्चाहोरात्रात्सार्द्धदण्डञ्च यावत्प्राक्तनरक्तघातावेव तिष्टति
ततो यथाग्निना पुनःपुनः पच्यमानादिक्षुविकारा-
द्वारंवारं मलं निर्गच्छति । तथा पुनःपुनः पच्यमाना
दाहाररसात्प्रतिवारं मलं निर्गच्छति तत्र रक्ताग्निना-
पच्यमानान्मलं पित्तं निर्गच्छति । तच्च पित्तं समानवा-
युना प्रेरितं धमनीमार्गेण शरीरारम्भकं पाचकाख्यं पित्तं
गत्वा पुष्णाति । ततः सारभूतस्याहाररसस्य द्वौ भागौ
भवतः । स्थूलः सूक्ष्मश्च । तत्र सूक्ष्मोभागोरञ्जकाख्येन
पित्तेन रक्तीकृतः शरीरारम्भकं रक्तं पोषयन् व्यान-
बायुना प्रेरितो धमनीभिः सञ्चरन् सकलशरीरगतानि
रुधिराणि पुष्णाति । ततः स्थूलोभागो व्यानवायुना-
पृष्ठ ०५६०
प्रेरितोधमनीभिः शिराभिश्च शरीरारम्भकाणि मांसानि
याति ततो मांसाग्निना पुनः पच्यमानः पञ्चाहोरात्रा
त्सार्द्धदण्डंयावन्मांसेष्वेव तिष्ठति ततः पच्यमानात्तस्मा-
न्मलं निर्गच्छति तद्व्यानवायुना क्षिप्तं कर्णावागत्य कर्ण्ण
विड्भवति ततः सारभूतस्य रसस्य द्वौ भागौ भवतः स्थूलः
सूक्ष्मश्च ततः सूक्ष्मोभागो मांसानि पुष्णाति ततः
स्थूलोभागोव्यानवायुना प्रेरितोधमनीभिः शरीरारम्भ-
कस्य मेदसःस्थानमुदरं याति ततोमेदसोऽग्निना पुनः
पच्यमानः पञ्चाहोरात्रात्सांर्द्धदण्डञ्च यावन्मेदस्येव
तिष्ठति ततः पच्यमानात्तस्मान्मलो निर्गच्छति प्रस्वेदरूपः
स च शीतः स्रोतस्येव तिष्ठति शरीरोष्णणा तप्तश्च तदा
व्यानवायुना प्रेरितः शिरामार्गे लोमकूपेभ्यो बहिर्याति
जिह्वादन्तकक्षामेढ्रादिमलञ्च मेदोमलमित्येके । ततः
सारभूतस्य रसस्य द्वौभागौ भवतः स्थूलः सूक्ष्मश्च तत्र सूक्ष्मो-
भागो मेदः पुष्णाति उदरे तिष्ठन् व्यानवायुना प्रेरितः
स्रोतोमार्गैः सूक्ष्मास्थितान्यपि मेदांसि पुष्णाति
स्थूलोभागोव्यानवायुना प्रेरितोधमनीभिः शिराभिश्च
शरीरारम्भकाण्यस्थीनि याति ततोस्थ्यग्निना पुनः पच्यमानः
पञ्चाहोरात्रात् सार्द्धदण्डं च यावदस्थिष्वेव तिष्ठति ततः
पच्यमानात्तस्मान्मलो निर्गच्छति स च व्यानवायुना-
प्रेरितः शिराभिर्मार्गैरागत्याङ्गुलिषु नखाःस्तनौ लोमानि
भवन्ति ततः सारभूतस्य रसस्य द्वौ भागौ भवतः स्थूलः
सूक्ष्मश्च तत्र सूक्ष्मोभागोव्यानवायुना प्रेरितः स्रोतो-
मार्गैर्मज्जस्थानानि स्थूलास्थ्यभ्यन्तराणि याति ततो
मज्जाग्निना पुनः पच्यमानः पञ्चाहोरात्रात्सार्द्ध-
दण्डञ्च यावन्मज्जन्येवावतिष्ठति । ततः पच्यमानात्
तस्मान्मलं निर्गच्छति । तच्च व्यानवायुना प्रेरितं
शिरामार्गेनेयनयोरागत्य नेत्रविट् चक्षुस्नेहश्च भवति
ततःसारभूतस्य रसस्य द्वौ भागौ भवतः स्थूलः सूक्ष्मश्च ।
तत्र सूक्ष्क्षोभागोमज्जानं पुष्णाति ततः स्थूलोभागो-
व्यानवायुना प्रेरितोधमनीभिः शिराभिश्च शुक्रस्य स्थानं
सकलं शरीरं गत्वा शरीरारम्भकेण शुक्रेण सह मिश्रितो
भवति । ततः शुक्रस्याग्निना पुनः पच्यते पच्यमाने
तस्मिन्मलं नास्ति स हि सहस्रधाध्मातसुवर्णवत् । उक्तञ्च
“स्वाग्निभिः पच्यमानेषु मलः षट्सु रसादिषु । न शुक्रे
पच्यमानेऽपि हेमनीवाक्षये मलः” । अन्यच्च “स्वाग्निभिः
पच्यमानेषु मज्जान्तेषु रमादिषु । षट्सु धातुषु जायन्ते
मलानि मुनयोजगुः । यथा सहस्रधाध्माते न मलं किल-
काञ्चने । तथा रसे मुहुः पक्वे न मलं शुक्रतां गते” । ततः
सारभूतस्य रसस्य द्वौ भागौ भवतः । स्थूलःसूक्ष्क्षश्च तत्र
सूक्ष्मस्नेहभागः ओजस्तस्य लक्षणमाह । “ओजः सर्व-
शरीरस्थं स्निग्धंशीतं स्थिरंसितम् । सोमात्मकं शरीरस्य बल
पुष्टिकरं मतम्” वलं चेष्ठापाटवं तथा च । “चेष्ठासु पाटवं
यत्तु बलन्तदभिधीयते इति” यत्तु सुश्रुते रसादीनां शुक्रा-
न्तानां धातूनां यत्परन्तेजस्तत् खल्वोजस्तदेव बलमिति
तेजस्तेजोद्रवः” । अत्रायमभिप्रायः । यस्माद्रसादोजो
भवति रसः सर्वधातुस्थानगतत्वात्तद्धातुवन्मन्यत इति ।
सर्वधातूनां स्नेहमोजःक्षीरे घृतमिव तदेव बलमिति”
तत्कार्य्यकारणयोरभेदोपचारात् अभेदकथनं च विकित्सैक्या-
र्थम् । “अन्यच्च “गुरु शीतं मृदु स्निग्धं सान्द्रं स्वादु स्थिरंतथा-
प्रसन्नं पिच्छलं सूक्ष्क्षमोजो दशगुणं स्मृतम्” । चरके तु
“अष्टविन्दुप्रमाणन्तदीषद्रक्तं सपित्तकम् । अग्निसोमात्मकत्वेन
द्विरूपं वर्णितं तु तत्” । वाग्भटश्च “ओजस्तु तेजो धातूनां
शुक्रान्तानां परं स्मृतम् । हृदयस्थमपि व्यापि देहस्थिति
निबन्धनम् । यस्य प्रवृद्धौ देहस्य तुष्टिपुष्टिबलोदयाः । यन्ना-
शे नियतोनाशो यस्मिंस्तिष्ठति जीवनम् । निष्पद्यन्ते यतो
भावाविविधा देहसंश्रयाः । उत्साहः प्रतिभा चैव लावण्यां सुकु-
मारता” । ततः स्थूलभागो रसोमासेन पुंसां शुक्रं स्त्रीणां
त्वार्त्तवं शुक्रं च भवति । उक्तञ्च सुश्रुते “एवं मासेन
रसः शुक्रीभवति स्त्रीणामार्त्तवं च भवतीति चेति”
चकारात् स्त्रीणामपि शुक्रं भवति । अतएवोक्तं सुश्रुते ।
“योषितोऽपि स्रवत्येव शुक्रं पुंसः समागमे । तन्न गर्भस्य किञ्चि
त्तु करोतीति न चिन्त्यते” गर्भस्य शुद्धस्य, विकृतस्य तु गर्भस्य
कारणन्तदपि भवति यत उक्तं “यदा नार्यावुपेयातां
वृषस्यन्त्यौ कथञ्चन । मुञ्चन्त्यौ शुक्रमन्योन्यमनस्थिस्तत्र जायते”
इति । एतेन स्त्रीणां सप्तमोधातुरार्तवं शुक्रमष्टम इति
बोधितम् आशयाधिक्यवत् । “स्त्रीणां गर्भोपयोगी स्या-
दार्त्तवं सर्वसम्मतम् तासामपि बलं वर्णं शुक्रं पुष्टिं करोति
हि” । एवं रसएव केदारकुल्यान्यायेन सर्वान्धातून्
पूरयति मासेन नवदण्डोत्तरेण शुक्रमार्त्तवञ्च भवति
इति सिद्धान्तः । एवं सति रसाद्रक्तमिति मङ्गतमेव
ततोमांसन्ततो रक्तोत्पत्तेरनन्तरंमांसं जायते रसादेवेत्यर्थः
मांसान्मेदः प्रजायते इति मांसादनन्तरं मेदः प्रजायते
रसादेवेत्यर्थः । मेदसोऽस्थि मेदसोऽग्रेऽस्थि जायते
रसादेवेत्यर्थः । एवं ततोमज्जा मज्ज्ञोऽग्रे शुक्रस्य सम्भव
इत्यर्थः । रसःशरीरे त्रिधा सञ्च रति तथाचोक्तम् । “रसः-
पृष्ठ ०५६१
शरीरे शब्दार्चिर्ज्जलसन्तानवत् त्रिधा । संचरत्यनुरूपोऽयं
नित्यमेव हि देहिनाम्” । अस्यायमभिप्रायः पुरुषास्तीक्ष्णा-
ग्नयोमध्यमाग्नयोमन्दाग्नयश्च भवन्ति तत्र तीक्ष्णाग्नीनां
रसःशब्दसन्तानवच्छीघ्रं सञ्चरति । मध्यामाग्नीना-
मर्च्चिःसन्तानवन्मध्यवेगेन सञ्चरति । मन्दाग्नीनां
जलसन्तानवन्मन्दं सञ्चरति । तेन मासेन रसः शुक्रं भवति
यदुक्तं तन्मध्यमाग्नीनधिकृत्योक्तं दीप्ताग्नीनां तु रसः
किञ्चिदूनेन मासेन शुक्रं भवति । मन्दाग्नेस्तु किञ्चि-
दधिकेन मासेनेति सिद्धान्तः” ।

असृग्धरा स्त्री असृक् धरति धृ + अच् । शोणितधारिण्यां

त्वचि । अण् असृग्धाराप्यत्र ।

असृग्वहा स्त्री असृक् शोणितं वहति अच् । शोणित

वहायां नाड्यां तद्विवरणं सुश्रुते “सप्त सिराशतानि भवन्ति ।
याभिरिदं शरीरमाराम इव जलहारिणीभिः केदार
इव च कुल्याभिंरुपस्निह्यतेऽनुगृह्यते चाकुञ्चनप्रसा-
रणादिभिर्विशेषैः ॥ द्रुमपत्रसेवनीनामिव च तासां प्रता-
नास्तासां नाभिर्मूलं ततश्च प्रसरन्त्यूर्द्धमधस्तिर्य्यक् च ।
भवतश्चात्र ॥ यावत्यस्तु सिराः काये सम्भवन्ति
शरीरिणाम् । नाभ्यां सर्व्वा निबद्धास्ताः व्रतन्वन्ति समन्ततः ॥
नाभिस्थाः प्राणिनां प्राणाः प्राणान्नाभिर्व्यपाश्रिता ।
सिराभिरावृता नाभिश्चक्रनाभिरिवारकैः ॥ तासां
मूलसिराश्चत्वारिंशत्तासां वातवाहिन्यो दश पित्तवाहिन्यो
दश कफवाहिन्यो दश दश रक्तवाहिन्यः । तासान्तु
वातवाहिनीनां वातस्थानगतार्ना पञ्चसप्ततिशतं १७५ भवति
तावत्य एव १७५ पित्तवाहिन्यः पित्तस्थाने, कफवाहिन्यश्च
कफस्थाने रक्तवाहिन्यश्च यकृत्प्लीह्नोरेवमेतानि सप्त
सिराशतानि ॥ तत्र वातवाहिन्यः सिरा एकस्मिन्
सक्थ्नि पञ्चविंशतिः । एतेनेतरसक्थिबाहू च व्याख्यातौ ॥
विशेषतस्तु कोष्ठे चतुस्त्रिंशत्तासां गुदमेढ्राश्रिताः
श्रोण्यामष्टौ । द्वे द्वे पार्श्वयोःषट् पृष्ठे तावत्यएव ६ चोदरे
दश वक्षसि ॥ एकचत्वारिंशज्जत्रुण ऊर्द्ध्वं, तासां चतुर्दश
ग्रीवायाम् । कर्णयोश्चतस्रः । नव जिह्वायां । षट्नासि-
कायां । अष्टौ नेत्रयोः । एवमेतत् पञ्चसप्तत्यधिकशतं
वातवहानां सिराणां व्याख्यातम् । एष एव विभागः
शेषाणामपि ॥ विशेषतस्तु पित्तवाहिन्यो नेत्नयोर्दश
कर्णयोर्द्वे । एवं रक्तवहाः कफवहाश्च । एवमेतानि सप्त
सिराशतानि सविभागानि व्याख्यातानि । स्वाः सिराः
सञ्चरद्रक्तं कुर्य्याच्चान्यान् गुणानपि ॥ यदा तु कुपितं रक्तं
सेवते स्ववहाः सिराः । तदास्य विविधा रोगा जायन्ते
रक्तसम्भवाः ॥ नहि वातं सिराः काश्चिन्न पित्तं केवलं
तथा । श्लेष्माणं वा वहन्त्येता अतः सर्व्ववहाः स्मृताः ॥
प्रदुष्टानां हि दोषाणामुच्छ्रितानां प्रधावताम् । ध्रुवमुन्मा-
र्गगमनमतः सर्व्ववहाः स्मृताः ॥ तत्रारुणा वातवहाः
पूर्य्यन्ते वायुना सिराः । पित्तादुष्णाश्चानिलाश्च शीता
गौर्य्यः स्थिराः कफात् ॥ असृग्वहास्तु रोहिण्यः सिरा
नात्युष्णशीतलाः”

असृग्विमीक्षण न० वृद्धस्य दुष्टस्य असृजः शोणितस्य देहाद्

विमोक्षणं स्रावणम् ६ त० । देहात् वृद्धस्य दुष्टस्य वा
रक्तधातोः स्रावणे निस्मारणे । तत्प्रकारादिकमुक्तं सुश्रुते
“तस्मान्न शीते नात्युष्णे नास्विन्ने नातितापिते ।
यवागुं प्रतिपीतस्य शोणितं मोक्षयेद्भिषक् । सम्यग्गत्वा
यदा रक्तं स्वयमेवावतिष्ठते । शुद्धं तदा विजानीया-
त्सम्यग्विस्रावितञ्च तत् ॥ लाघवं वेदनाशान्तिव्यांधे-
र्व्वेगपरिक्षयः । सम्यग्विस्राविते लिङ्गं प्रसादो मनसस्तथा ॥
त्वग्दोषा ग्रन्थयः शोफा रोगाः शोणितजाश्च ये ।
रक्तमोक्षणशीलानां न भवन्ति कदाचन ॥ अथ खल्व-
प्रवर्त्तमाने रक्ते एलाशीतशिवकुष्ठतगरपाटा भद्रदारु-
विडङ्गचित्रकत्रिकटुकागारधूमहरिद्रार्क्काङ्कु रनक्तमालफलै-
र्यथालाभं त्रिभिश्चतुर्भिः समस्तैर्व्वा चूर्ण्णीकृतैः सर्षपतैल-
लवणप्रगाढैर्ब्र णमुखमवघर्षयेदेवं सम्यक् प्रवर्त्तते ।
अथातिप्रवृत्ते रोध्रमधुकप्रियङ्गुपत्तङ्गगैरिकसर्जरसरसाञ्जन-
शाल्मलीपुष्पशङ्खशुक्तिमाषयवगोधूमचूर्णैः शनैर्व्रणमुखमव-
चूर्ण्याङ्गुल्यग्रेणावपीडयेत् । सालसर्ज्जार्ज्जुनारिमेदमेष-
शृङ्गधवधन्वनत्वग्भिर्व्वा चूर्ण्णिताभिः क्षौमेण वा ध्मापि-
तेन समुद्रफेनलाक्षाचूर्ण्णैर्व्वा यथोक्तैर्व्रणबन्धनद्रव्यैर्गाढं
बध्नीयात् । शीताच्छादनभोजनागारैः शीतैः परिषेक-
प्रदेहैश्चोपाचरेत् क्षारेणाग्निना वा दहेद्यथोक्तं व्यधनाद-
नन्तरं वा तामेवातिप्रवृत्तां सिरां विध्येत् । काकोल्यादि-
क्त्राथं वा शर्करामधुमधुरं पाययेत् एणहरिणोरभ्र-
शशमहिषवराहाणां वा रुधिरं क्षीरयूषरसैः सुस्निग्धैश्चा-
श्नीयादपद्रवांश्च यथास्वमुपाचरेत्” । उपद्रवास्तत्रैवोक्ता
यथा ॥ “धातुक्षयाच्छ्रुते रक्ते मन्दः सञ्जायतेऽनलः ।
पवनश्च परं कोपं याति तस्मात् प्रयत्नतः ॥ तन्नातिशीतैर्ल-
षुभिः स्निग्धैः शोणितवर्द्धनैः । ईषदम्लैरनम्लैर्वा भोजनैः
समुपाचरेत् ॥ चतुर्विधं यदेतद्धि रुधिरस्य निवारणम् ।
सन्धानं स्कन्दनञ्चैव पाचनं दहनं तथा ॥ व्रणं कषायः
पृष्ठ ०५६२
सन्धत्ते रक्तं स्कन्दयते हिमम् । तथा सम्पाचये-
द्भस्म दाहः सङ्कोचयेत् सिराः । अस्कन्दमाने रुधिरे सन्धा-
नानि प्रयोजयेत् । सन्धाने भ्रश्यमाने तु पाचनैः
समुपाचरेत् ॥ कल्पैरेतैस्त्रिभिर्व्वैद्यः प्रयतेत यथाविधि ।
असिद्धिमत्सु चैतेषु दाहः परम इष्यते । सशेषदोषे
रुधिरे न व्याधिरतिवर्त्तते । सावशेषे ततः स्थेयं न तु
कुर्य्यादतिक्रमम् ॥ देहस्य रुधिरं मूलं रुधिरेणैव धार्य्यते ।
तस्माद्यत्नेन संरक्ष्यं रक्तं जीव इति स्थितिः ॥ स्नुतरक्तस्य
सेकाद्यैः शीतैः प्रकुपितेऽनिले । शोफं सतोदं कोष्णेण
सर्पिषा परिषेचयेत् ॥
नृपाढ्यबालस्थविरभीरुदुर्व्वलनारीसुकुमाराणामनुग्रहार्थं
परमसुकुमारोऽयं शोणितावसेचनोपायोऽभिहितो
जलौकसः । तत्र वातपित्तकफदुष्टशोणितं यथासंख्यं
शृङ्गजलौकालावुभिरवसेचयेत् स्निग्धशीतरूक्षत्वात् सर्व्वाणि
सर्व्वैर्वा । भवन्ति चात्र । उष्णं समधुरं स्निग्धं गवां
शृङ्गं प्रकीर्त्तितम् । तस्माद्वातोपसृष्टे तु हितं तदवसेचने ।
शीताधिवासा मधुरा जलौका वारिसम्भवा । तस्मात्पित्तो-
पसृष्टे तु हिता सा त्ववसेचने । अलावु कटुकं रूक्षं
तीक्ष्णञ्च परिकीर्त्तितम् । तस्माच्छ्लेष्मोपसृष्टे तु हितं
तदवसेचने । तत्र प्रच्छिते तनुवस्त्रपटलावनद्धेन शृङ्गेण
शोणितमवसेचयेदाचूषणात् । सान्तर्दीपयाऽलाव्या” ।
जलौकसां विवरणम् अस्रपाशब्दे वक्ष्यते ।
“अथ जलौकोऽवसेकसाध्यव्याधितमुपवेश्य संवेश्य वा
विरुक्ष्य चास्य तमवकाशं मृद्गोमयचूर्णैर्यद्यरुजः स्यात् ।
गृहीताश्च ताः सर्षपरजनीकल्कोदकप्रदिग्धगात्रीः सलिल-
सरकमध्ये मुहूर्त्तस्थिता विगतक्लमा ज्ञात्वा तामीरोगं
ग्राहयेत् । सूक्ष्मशुक्लार्द्रपिचुल्पोतावच्छन्नां कृत्वा
मुखमपावृणुयादगृह्लन्त्यै क्षीरविन्दुः शोणितविन्दुं वा दद्या-
च्छस्त्रपदानि वा कुर्व्वीत यद्येवमपि न गृह्णीयात्तदान्यां
ग्राहयेत् । यदा च निविशते ऽश्वखुरवदाननं कृत्वोन्नम्य
च स्कन्धं तदा जानीयाद्गृह्णातीति गृह्न्तीं चार्दू-
वस्त्रावच्छन्नां धारयेत् सेचयेच्च । दंशे तोदकण्डूप्रादु-
र्भावैर्जानीयाच्छुद्धनियमादत्त इति शुद्धमाददानामपनयेत् ।
अथ शोणितगन्धेन न मुञ्चेन्मुखमस्याः सैन्धवचूर्णेनावकिरेत् ।
अय पतितां तण्डुलकण्डन प्रदिग्धगात्रीं तैललवणाभ्यक्त-
मुखीं वामहस्ताङ्गुष्ठाङ्गुलिभ्यां गृहीतपुच्छां दक्षिणहस्ता-
ङ्गुष्ठाङ्गुलिभ्यां शनैः शनैरनुलोमनुमार्जयेदा मुखाद्वामये-
त्तावद्यावत्सम्यग्वान्तलिङ्गानीति । सम्यगान्ता सलिल
सरकन्यस्ता भोक्तुकामा सती चरेत् । या सीदति न
चेष्टते सा दुर्व्वान्ता तां पुनः सम्यग्वामयेत् । दुर्व्वान्ताया
व्याधिरसाध्य इन्द्रमदो नाम भवति । अथ सुवान्तां
पूर्ब्बवत्सन्निदध्यात् शोणितस्य च योगायोगानवेक्ष्य
जलौकोव्रणान्मधुनावघट्टयेच्छीताभिरद्भिश्च परिषेचयेद्बध्नीत वा
व्रणं कषायमधुरस्निग्धशीतैश्च प्रदेहैः प्रदिह्यादिति ।
भवति चात्र । क्षेत्राणि ग्रहणं जातीः पोषणं सावचार-
णम् । जलौकसाञ्च यो वेत्ति तत्साध्यान् स जयेद्गदान्” ।

असृज् न० न सृज्यते इतररागवत् संसृज्यते सहजत्वात् न +

सृज्--क्विन्, अस्यते क्षिप्यते इतस्ततो नाडीभिः अस् ऋजि
वा । १ शोणिते २ मङ्गलग्रहे च तस्य रक्तवर्णत्वात्तथात्वम् ।
कुङ्कुमे, ३ विष्कम्भावधिके ४ षोड़शे योगे । शोणितोत्पत्ति
रुक्ता भाव० प्र० । “यदा रसोयकृद्याति तत्र रञ्जकपित्ततः ।
रागं पाकञ्च संप्राप्य स भवेद्रक्तसंज्ञकः । रक्तं सर्व्व-
शरीरे तु जीवस्याधार उत्तमः । स्निग्धं गुरु चलै
स्वादु विदग्धं पित्तवद्भवेत्” । तस्योत्तमत्वञ्चोक्तं तत्रैव
“जीवोवसति सर्व्वस्मिन् देहे तत्र विशेषतः” । वीर्य्ये
रक्ते मले तस्मिन् क्षीणे याति क्षयं क्षणात्” । वीर्य्ये रक्ते
मले च शरीरारम्भके वाग्भटोक्तपरिमाणयुक्ते शुद्धे
जीवोवसति न तु दुष्टे प्रवृद्धे रक्तस्रावणोपदेशस्य
विधानात् । पित्तवद्भवेदम्लं भवेदित्यर्थः ॥ तस्य स्थानम्”
“यकृत् प्लीहा च रक्तस्य सुख्यस्थानं तयोः स्थितम्” ।
अन्यत्र संस्थितवतां रक्तानां पीतता भवेत्” इति भा० प्रका०
सुश्रुते शोणितोत्पादविवरणमन्यथोक्तं यथा “अथातः
शोणितवर्ण्णनीयमध्यायं व्याख्यास्यामः । तत्र पाञ्चभौति-
कस्य चतुर्विधस्य षड्रसस्य द्विविधवीर्य्यस्याष्टविधवीर्य्यस्य
वानेकगुणस्योपयुक्तस्य आहारस्य सम्यक् परिणतस्य यस्तेजो-
भूतः सारः परमसूक्षमः स रसैत्युच्यते । तस्य चं हृदयं
स्थानं स हृदयाच्चतुर्व्विंशतिं धमनीरनुप्रविश्योर्द्ध्वगा दश
दश चाधोगामिन्यश्चतस्र स्त्रिर्य्यग्गाः कृत्स्नं शरीरमहर-
हस्तर्पयति वर्द्धयति धारयति यापयति जीवयति चादृष्ट-
हेतुकेन कर्म्मणा । तस्य शरीरमनुधावतोऽनुमाना-
द्गतिरुपलक्षयितव्या क्षयवृद्धिवैकृतैः । तस्मिन् सर्व्व
शरीरावयवदोषधातुमलाशयानुसारिणि रसे जिज्ञासा
किमयं सौम्यस्तैजस इति । अत्रोच्यते स खलु द्रवानुसारी-
स्नेहनजीवनतर्पणधारणादिभिर्विशेषैः सौम्य इत्यवगम्यते ।
स खल्वाप्यो रसो यकृत्प्लीहानौ प्राप्य रागमुपैति ।
भवतश्चात्र ॥ “रञ्जितास्तेजसा त्वापः शरीरस्थेन देहिनाम् ।
पृष्ठ ०५६३
अव्यापन्नाः प्रसन्नेन रक्तमित्यभिधीयते ॥ रसादेव स्त्रिया
रक्तं रजःसंज्ञं प्रवर्त्तते । तद्वर्षाद्द्वादशादूर्द्ध्वं याति पञ्चा-
शतः क्षयम् ॥ आर्त्तवं शोणितं त्वाग्नेयमग्नीषोमीयत्वा-
द्गर्भस्य पाञ्चभौतिकञ्चापरे जीवरक्तमाहुराचार्य्याः ॥
“विस्रता द्रवता रागः स्पन्दनं लघुता तथा । भूम्यादीनां
गुणा ह्येते दृश्यन्ते चात्र शोणिते” ।

असृपाटी स्त्री असृजः पाटी परिपाटी पृ० । शोणितधारायाम् ।

असेचनक त्रि० न सिच्यते तृप्यति मनोऽत्र सिच--ल्युट्

संज्ञायां कन् । १ अत्यन्तप्रियदर्शने यद्दर्शनान्मनो न
तृप्यति तत्र “नयनयुगासेचनकम् मानसवृत्त्यापि दुष्पा-
पम्” सा० द० । सेचनं सेकः अभावे न० त० स्वार्थे
कन् । २ सेचनाभावे न० ब० । ३ सेचनशून्ये त्रि० ।

असेवन न० अभावे न० त० । १ सेवाभावे न० ब० । २ सेवाशून्ये

असौ अव्य० सो--बा०--डौ न० त० । अदःशब्दार्थे ।

“असौनामाऽयमिदं रूप इति” शत० ब्रा० । अयञ्च
साक्षादादिः इति बहवः । असौकृत्य । गणरत्ने तु
तत्र गणे अग्नौ इति पठितम् व्याख्यातञ्च अग्नौ इति
तीक्ष्णत्वे अग्नौकृत्येति” इति ।

असौन्दर्य्य न० अभावे न० त० । १ सौन्दर्य्याभावे न० ब० । २ सौन्दर्य्यशून्ये त्रि० ।

असौम्य त्रि० विरोधे न० त० । सौम्यत्वविरोधिघोरत्वयुक्ते

असौम्यस्वर त्रि० असौम्यः स्वरोयस्य । १ काकतुल्यमन्द-

स्यरयुक्ते । २ कठोरस्वरे च ।

असौष्ठव न० अभावे न० त० । १ सौष्ठवाभावे न० ब० । २ सौष्ठवशून्ये त्रि० ।

अस्कन्न त्रि० स्कन्द--क्त न० त० । अक्षरिते । “स्वस्कन्नं

हविरसादिति” शत० ब्रा० ।

अस्कम्भन त्रि० स्कम्भ--ल्युट् न० त० । १ रोधनाभावे न० ब० ।

२ रोधनशून्ये । “अस्कम्भने संविताद्यामदृंहन्” । १०, १४९, १

अस्कृधोयु त्रि० कृधृः ह्रस्वः निरु० न० त० पृ० साधु ।

१ अविच्छिन्ने २ अह्रस्वे च । “अस्मे धत्तं यदसदस्कृधोयु”
ऋ० ७, ५३, ३ । “युवोर्मित्रावरुणावस्कृधीयु” ऋ०
६, ६७, ११ । अस्कृधोयुरजरः ६, २२ ऽ३ । “अस्कृधो-
युरविच्छिन्नः” भा० ।

अस्खलित त्रि० न० त० । १ अप्रच्युते स्वकर्त्तव्ये २ अप्रमत्ते

च “भूभूद्भिरप्यस्खलिता खलून्नतैः” माघः । “स मे
चिरायास्खलितोपचाराम्” रघुः ।

अस्त च० अस्यन्ते सूर्य्यकिरणा यत्र आधारे क्त । १ पश्चिमा-

चले, “अधिरोढुमस्तगिरिमभ्यपतत्” माघः । “विड़म्बय
त्यस्तनिमग्नसूर्य्वन्” रघुः । कर्मणि क्त २ क्षिप्ते ३ अवसिते च
त्रि० “निरस्तः परावसुः” भवदेवः । “गतिरपास्तसंस्था
भतिः” मालती० । “निरस्तगाम्भीर्यमपास्तधैर्यम्” माघः ।
भावे क्त । ४ दर्शनायोग्यत्वे ५ अवसाने न० । आधारे क्त ।
ज्योतिषोक्ते ६ लग्नात् सप्तमे स्थाने न० । लग्नात् सप्त-
मस्थानस्य तथात्वञ्च तस्योदये लग्नस्यादर्शनहेतुत्वात् । तथा
हि द्वादशराशिचक्रात्मकस्य प्रवहवायुनानिशं पश्चान्नीयमानस्य
भचक्रस्य मध्ये दिवा षट् राशयो रात्रौ च षट् क्रमेणो-
द्गच्छन्ति तत्रोदितलग्नानां च षण्णामेव दर्शनयोग्यता
इतरेषां षण्णां तु भूमण्डलेनाच्छादनान्न दृश्यता । तत्र
यस्य यस्य राशेरुदयः यस्मिन् समये जायते ततः
सप्तमराशेरुदयसमये तस्य तस्यास्तत्वम् अदर्शनयोग्यत्वं
भवतीति सप्तमराशेरुदयकालस्यास्तकारित्वम् । “जन्मलग्नात्
सुखास्तान्त्यरिपुरन्ध्रेष्वशोभना” नील० ता० । ७ अदर्शनप्राप्ते
रव्यादिग्रहे त्रि० सूर्य्यादिग्रहाणामपि प्रागुक्तरीत्या-
स्वाधिष्ठितराश्यपेक्षया सप्तमराश्युदयेऽस्तत्वम् यथोक्तं
सि० शि० । “निजनिजोदयलग्नसमुद्गमे समुदयोऽपि
भवेद्भनभःसदाम् । भवति चास्तविलग्नसमुद्गमे प्रति-
दिनेऽस्तमयः प्रवहक्रमात्” निशीष्टलग्नादुदयास्तलग्ने
न्यूनाधिके यस्य खगः स दृश्यः । दिनेऽपि चन्द्रोरविसन्नि-
धानात् नास्तंगतश्चेत् सति दर्शने भा” । “नक्षत्रा-
णामप्युदयास्तज्ञापनमपि तत्रैव “दृक्कर्मणा पलभवेन
तु केबलेन भानां मुनेर्मृगरिपोरुदयास्तलग्ने । कृत्वा
तयोरुदयलग्नमिनं प्रकल्प्यंलग्नं ततो निजनिजे पठितेष्ट-
काले” । यत् स्यादसावुदयभानुरथास्तलग्नाद्व्यस्तं
विभार्धमपि लग्नकमस्तसूर्यः । इष्टोनषष्टि ६० घटिका-
स्वथ वास्तलग्नाल्लग्नं क्रमेण भदलोनितमस्तसूर्यः ।
स्यादुद्गमो निजनिजोदयभानुतुल्ये सूर्येऽस्तभास्करसमेऽस्त-
मयश्च भानाम् । अत्राधिकोनकलिका रविभुक्तिभक्ता
यातैष्यवासरमितिश्च तदन्तरे स्यात् । यस्योदयार्काद-
धिकोऽस्तभानुः प्रजायते सौम्यशरातिदैर्घ्यात् । तिग्मांशु-
सान्निध्यवशेन नास्ति धिण्यस्य तस्यास्वमयः कथञ्चित्” ।
“भानामगस्त्यस्य लुब्धकस्य च पूर्ब्बवदुदयास्तलग्ने साध्ये
परन्तु केबलेन पलभवेन दृक्कर्मणा । द्रवस्य सता यनदृक्वर्म-
कत्वात् पुनरायनं दृक्कर्म न कर्त्तव्यमित्यर्थः । तत्रोदय-
लग्नमर्कं प्रकल्प्य लग्नं साध्यम् । तच्च खकाये पठितेष्ट-
काले । एवं यल्लग्नं सिध्यति स उदयार्को ज्ञातव्यः ।
अथ यदस्तलग्नमानीतं तच्चार्क प्तर्कल्प्य निजीतजेष्टकाते
विलोमं लग्नं साध्यम् । तद्राशिवदृकाममस्तसूर्यरज्ञ”
पृष्ठ ०५६४
भवति । अथवेष्टघटिकोनाभिः षष्टिघटिकामिरस्त
लग्नात् क्रमेण लग्नं साधितं तद्भदलोनितमस्तसूर्यो-
भवति यदोदयभानुसमो भानुर्भवति तदा तस्य नक्षत्र-
स्योदयो भवति । यदास्तसूर्यसमस्तदास्तमयः ।
यदागस्त्योदयः किलाभीष्टदिनात् कियद्भिर्दिनैरिति विज्ञातु-
मिष्यते तदेष्टदिनार्कस्यागस्त्योदयार्कस्य चान्तरकला
रविभुक्त्या भाज्याः । लब्धदिनैरगस्त्यस्योदय एष्यः यद्युद-
यार्को महान् । यद्यूनस्तदा गतः । अत्रोपपत्तिः
उदयास्तलग्नसाधने तु पूर्ब्बं कथितैव । उदयलग्नोदये
किल भस्योदयः यदीदयलग्नसमो रविर्भवति तदा रविणा
सह तन्नक्षत्रमुदेति । तस्मादुदयात् प्राक् पठितेष्टघटिकातुल्यं
कालं यावत् तन्नक्षत्रं रविप्रभाभिर्हतं क्षितिजादुपरि-
स्थमपि न दृश्यते । अथ पठितेष्टकाले यत् क्रमलग्नं
तत्स्थानस्थितो रविरुदयार्कतुल्यो भवति तथा रव्यस्तम-
यादनन्तरं नक्षत्रास्तमयात् पूर्ब्धं प्रत्यक् क्षितिजादुपरि-
स्थमपि नक्षत्रं पठितेष्टकालं यावन्न दृश्यते । अथ नक्ष-
त्रस्य क्षितिजादुपरिस्थितत्वात् प्रत्यक्क्षितिजस्थेनार्केण
न्यूनेन भवितव्यम् । अतोऽस्तलग्नात् पठितेष्टकाले व्यस्तं
कार्यम् । तल्लग्नं प्राक्क्षितिजस्थं भवति । अतः षड्भो-
नितं प्रत्यक्क्षितिजेऽस्तसूर्यो भवतीत्युपपन्नम् । इष्टोन-
षष्टि ६० घटिकास्वित्यादौ वासना सुगमैव । यस्य नक्षत्रस्यो-
दस्तार्कादस्तार्कोऽघिको भवति तस्य नक्षत्रस्यार्कसान्निध्यव-
शादस्तं नास्तीति वेदितव्यम् । इदं कुत इत्यत आह
सौम्यशरातिदैर्घ्यात् । थस्य भस्य सौम्यः शरी दीर्घो भवति
तस्य पलोद्भवासवो बहवो भवन्ति ॥ तैर्विलोमलग्ने क्रिय-
माणे उदयलग्नमूनं भवति । अस्तलग्नं क्रियमाणम-
धिकं भवति । ताभ्यां ह्युदयास्तार्कौ साध्यौ । तत्रा-
स्तार्केण किल न्यूनेन भवितव्यम् । अस्तार्कसमे रवौ
किलादृश्यतारम्भस्ततः कियन्ति च दिनान्यदृश्यं भूत्वोदया-
र्कसमे रवौ तद्धिष्ण्यमुदेति । अत उदयार्केणाधिकेन
भवितव्यम् । यतोऽर्कसन्निधिवशेनैतावुदयास्तौ । यथा
यथा सौम्यशरस्य दीर्घत्वं यथा यथाक्षवशेन गोलस्य
दक्षिणतो नामनं तथा तथोदयास्तार्कयोरल्पमन्तरं भवति ।
अल्पान्तरेऽल्पान्येव दिनानि तन्नक्षत्रमदृश्यं भवति ।
एवं यस्मिन् देशे उदयास्तार्कौ तुल्यो भवतस्ततः परं
तस्मिन् देशे तस्य नक्षत्रस्यार्कासन्नभावेनादृश्यता इति
युक्तितः सिद्धम्” प्रमि० । अस्तलग्नसाधनमप्युक्तं तत्रैव “यत्र
लग्नमपमण्डलं कुजे तद्गृहाद्यमिह लग्नमुच्यते । प्राचि ।
पश्चिमकुजेऽस्तलग्नकं मध्यलग्नमिति दक्षिणोत्तरे” कुजे
भूमिमण्डलगते रेखावृत्ते अपमण्डलं ततो निस्मरदुन्-
मण्डलम् । ग्रहाणामुदयास्तांशानाह तत्रैव । “प्राच्या-
मुदेति क्षितिजोऽष्टदस्रैः २८ शक्रै १४ र्गुरुः सप्तकु-
भिश्च १७ मन्दः । स्वस्वोदयान्तोनित ३६० चक्रभागै- ३३२ ।
३४६ । ३४३ । स्त्रयो व्रजन्त्यस्तमयं प्रतीच्याम् ।
खाक्षै ५० र्जिनै २४ र्ज्ञसितयोरुदयः प्रतीच्यामस्तञ्च
पञ्चतिथिभि १५५ र्मुनिसप्तभूभिः १७७ । प्रागुद्गमः
शरनखै २०५ स्त्रिधृतिप्रमाणै--१८३ रस्तश्च तत्र
दशवह्निभि ३१० रङ्गदेवैः ३३६ । अवक्रबक्रास्तम-
योदयोक्तभागाधिकोनाः कलिका विभक्ताः । द्राक्केन्द्रभुक्त्या-
प्तदिनैर्गतैष्यैरवक्रवक्रास्तमयोदयाः स्युः” । “बाले वा
यदि वा वृद्ध्वे शुक्रे चास्तमुपागते । मलमास इवैतानि
वर्ज्जयेद्देवदर्शनम् । पक्षं वृद्धस्तु पूर्ब्बेण दशाहं पश्चिमेज
तु । प्रत्यग्बालो दशाहन्तु पूर्ब्बेण च दिनत्रयम्” ज्यो० त०
पूर्ब्बेणेति प्रातःप्रातः पूर्ब्बदिशि दृष्ट्वा रविकिरणाच्छन्न-
तया न दृश्यते चेद्ग्रहस्तदा प्रागस्तमितः तत्रास्तमितात्
प्राक् पक्षं वृद्धः । पश्चिमेनेति । एवं सायंसायं
अपरदिशि दृष्ट्वा रविकिरणाच्छन्नतया न दृश्यते चेद्ग्रह-
स्तदा प्रत्यगस्तमितस्तत्रास्तमितात् प्राक् दशाहं वृद्धः” ।
“द्वात्रिंशद्दिवसाश्चास्ते जीवस्य भार्गवस्य च । द्वासप्ततिर्म-
हत्यस्ते पादास्ते द्वादश क्रमात्” । इति ज्योतिर्विदुक्त-
कालानन्तरमपरदिशि दृश्यते चेत्तदा दशाहं प्रत्यग्बालः
पूर्ब्बदिशि चेत्तदा दिनत्रयं प्राग्बाल इति भङ्ग्यन्तरेणाह ।
“पक्षं वृद्धोमहास्ते तु बालश्चात्र दशाहिकः । पादास्ते तु
दशाहानि वृद्धोबालोदिनत्रयम्” इति च ज्यो० त० रघु० ।

अस्तक पु० अस्तं अपुनरावृत्तिम् अवसानं वा करोरि अस्त +

णिच्--ण्वुल् । निर्व्वाणमोक्षे ।

अस्तग त्रि० अस्तमदर्शनं गच्छति गम--ड ६ त० । २ सूर्य्य-

किरणाच्छन्नतया अदृश्ये ग्रहे २ अदर्शनगतमात्रे च । अस्त-
गतादयोऽप्यत्र ।

अस्तगमन न० अस्तस्यादर्शनस्य गभनम् । ग्रहाणां स्वाक्रान्त-

राश्यपेक्षया सप्तमराश्युदये अदर्शनगमने “भीमसेनं
भजेथास्त्वं प्रागस्तगमनाद्रवेः” भा० आ० प० १५५ अ० ।

अस्तम् अव्य० अस--तमि । १ नाशे, २ अदर्शने च । “दण्डे-

नास्तमितत्विषा” कुमा० । “राज्यमस्तमिरेश्वरम्” रघुः ।
“सर्व्वञ्च तिलसंबन्धं नाद्यादस्तमिते रवौ” । “नेक्षेतोद्य-
न्तमादित्यं नास्तंयान्तं कदाचन” चतुरोऽस्तमिते सूर्य्ये
शिशुचान्द्रायणं स्मृतम्” मनुः । “धृतिरस्तमिता
गतिश्चुत्रता” रघुः ।
पृष्ठ ०५६५

अस्तमती स्त्री अस्तमतति अत--अच्--गौरा० ङीष् । शालपर्ण्णी वृक्षे

अस्तमन न० अन--बा--भावेऽप् अस्तम् अस्थस्य अनः गतिः ।

भूगोलकक्षया तिरोधानेन, १ सूर्य्यादेरदर्शनगमने
“तिरोघानञ्च यत्रैति तदेवास्तमनं रवेः । नैवास्तमनमर्क-
स्य नोदयः सर्व्वदा सतः” इति ज्योतिषोक्तेस्तथात्वम् ब० ।
“उदयास्तमने नाथ! दर्शनादर्शने रवेः” पुरा० “उदयास्तं-
मनज्ञोहि न हृष्यति न शोचति” भा० ब० २५७ अ० ।
सूर्य्यास्तमनवेलायामासेदुस्ते महद्वनम्” भा० आ० प० २ अ०
“उदयास्तमने भानुः प्रदक्षिणमवर्त्तत” भा० भी० प० ।
२ तत्काले च ।

अस्तमय पु० अस्तोमीयते ज्ञायते यत्र मिन्--अच् वा न

आत् । १ प्रलये, २ सूर्य्यादेरदर्शने “करोत्यकालास्तमयं
विवस्वतः” किरा० । “उदयश्चनाम सवितुस्तन्निवासिनां
प्राणिनां चक्षुर्गोचरापत्तिस्तदत्ययश्चास्तमयः न परमार्थत
उदयोऽस्तमयोवा” तन्निवासिनाञ्च प्राणिनामभावे तान् प्रति
तेनैव मार्गेण गच्छन्नपि नैवोदेता नास्तमेतेति चक्षुर्गोचर-
तापत्तेस्तदत्ययस्य च तत्राभावात्” छा० उ० भाष्यम् । तथा
च भूवृत्तार्द्धान्तरालस्थानएवोदयास्तमयौ भवतः “लङ्कापुरे-
ऽर्कस्य यदोदयः स्यात् तदा दिनार्द्धं यमकोटिपुर्य्याम् ।
अघस्तदा सिद्धपुरेऽस्तकालःस्याद्रोमके रात्रिदलं तथैव”
सि० शि० । भूवृत्त चतुर्थांशे स्थितानां पुरांमध्ये प्रथमपुर्य्या-
मुदये तृतीयेऽस्तत्वोक्तेस्तथात्वम् । शा० भाष्ये तु
यदाऽमरावत्यां मध्याह्नगतः सविता तदा सांयामिन्यासुद्यन्
दृश्यते तत्र मध्याह्नगोचरोवारुण्यासुद्यन् दृश्यते इत्युक्तम्”
ग्रहाणां च सूर्य्यस्यातिप्रत्यासत्त्या प्रकाशाभावोऽस्तत्वम्
तद्वियोगे चोदयः । “रविणास्तमयोगो वियोगस्तूदयो
भवेत्” इत्युक्तेः अन्यग्रहाणां ३ रवियोगे च ।

अस्तरण न० अभावे न० त० । स्तरणाभावे । तत्र दीयते

कार्य्यम् वा व्युष्टा० अण् । आस्तरणम् तत्र देये कार्ष्ये
च त्रि० ।

अस्ताघ त्रि० अस्तमघं कालुष्य--यत्र । अतिगभीरे हेम० ।

अस्ताचल पु० अस्यन्ते किरणा यत्र आधारे क्त

कर्म० । पश्चिमाचले अस्तगिरौ । “अस्ताचलचूड़ावल-
म्बिनि भगवति मरीचिमालिनि” काद० अस्ताद्रिप्रभृत-
योऽप्यत्र ।

अस्ति अव्य० अस्--श्तिप् । १ स्थितौ, विद्यमानतायाञ्च

“अस्ति नास्वि न जानातीति” चाण० । २ तद्वति च
अस्तिक्षीरा अस्तिपरलोक इति मतिर्यस्य आस्तिकः
नास्तिकः । चतुरर्य्यां पक्षा० फक् । आस्तायनः ।
तत्सन्निकृष्टदेशादौ त्रि० ।

अस्तिकाय पु० अस्ति कायः स्वरूपं यस्य । जैनमतसिद्धे

विद्यमानतास्वरूपे पदार्थभेदे । अस्तिकायाश्च पञ्चविधाः
जीवास्तिकायः पुद्गलास्तिकायः धर्म्मास्तिकायः अधर्म्मास्ति-
कायः आकाशास्तिकायश्चेति अर्हच्छब्दे ३८६ पृष्ठे
विवरणम् । शा० भाष्ये तन्ममतमुन्यस्य निराकृतं यथा “सर्व्वेषा-
मप्यन्येषामवान्तरप्रभेदान् बहुविधान् स्वसमयपरिकल्पितान्
वर्ण्णयन्ति । सर्वत्र चेमं सप्तभङ्गीनयन्यायमवतारयन्ति । स्या-
दस्ति स्यान्नास्ति स्यादस्ति च नास्ति च स्याद वक्तव्यः स्यादस्ति
चावक्तव्यः स्यान्नास्ति चावक्तव्यः स्यादस्ति नास्तिचावक्तव्य-
श्चेति । एवमेवैकत्वनित्यत्वादावपीमं सप्तभङ्गीनयुंयोजयन्ति ।
अत्राचक्ष्महे नायमभ्युपगमोयुक्त इति । कुतः “एकस्मिन्न
सम्भवात्” सू० । नह्येकस्मिन् धर्मिणि युगपत्सदसत्त्वादि
विरुद्धधर्मसमावेशः सम्भवति शीतोष्णवत् । यएते सप्त पदार्था
निर्द्धारिता एतावन्त एवंरूपाश्चेति ते तथैव वा स्युः । नैव
वा तथा स्युः । इतरथा हि तथा वा स्यु र्न तथा वेत्य निर्द्धा-
रितरूपं ज्ञानं संशयज्ञानवदप्रमाणमेव स्यात् । ननु
अनेकात्मकं वस्त्विति निर्द्धारितरूपमेव ज्ञानमुत्पद्यमानं संशय-
ज्ञानवन्नाप्रमाणं सम्भवितुमर्हति । नेति व्रूमः निरङ्कुशं
ह्यंनेकान्तं सर्व्ववस्तु प्रतिजानानस्य निर्द्धारणफलस्यापि
वस्तुत्वाविशेषात् स्यादस्तिस्यान्नास्तीत्यादिविकल्पोपनि-
पातादनिर्द्धारणात्मकतैव स्यात् । एवं निर्द्धारयितुर्निर्द्धा-
रणाफलस्य च स्यात् । पक्षेऽस्तिता स्याच्चापक्षे नास्तितेत्येवं
सति कथं प्रमाणभूतः संस्तीर्थकरः प्रमाणप्रमेयप्रमातृ
प्रमितिष्वनिर्द्धारितासूपदेष्टुं शक्नुयात् कथं वा तदभिप्राया-
नुसारिणस्तदुपदिष्टेऽर्थेऽनिर्द्धातिरूपे प्रवर्त्तेरन् । ऐकान्ति-
फलत्वनिर्द्धारणे हि सति तत्साधनानुष्ठानाय सर्व्वोलोको-
ऽनाकुलः प्रवर्त्तते नान्यथा । अतश्चानिर्द्धारितार्थं शास्त्रं
प्रणयन्मत्तोन्मत्तवदनुपादेयवचनः स्यात् । तथा पञ्चानाम-
स्तिकायानां पञ्चत्वसंख्यास्ति वा नास्ति वेति विकल्प्यमानं
स्यादिति तदैकस्मिन् पक्षे । पक्षान्तरे तु न स्यादित्यतोन्यूनसं-
ख्यात्वमधिकसंख्यात्वं वा प्राप्नुयात्! नचैषां पदार्थानामव-
क्तव्यत्वं सम्भवति अवक्तव्याश्चेन्नोच्येरन् उच्यन्ते चावक्तव्याश्चेति
विप्रतिषिद्धम् । उच्यमानाश्च तथैवावधार्य्यन्तेनाबधार्य्याश्च
इति च तथावदवधारणफलं सम्यग्दर्शनमस्ति वा नास्ति
पृष्ठ ०५६६
वा एवं तद्विपरीतमसम्यग्दर्शनमप्यस्ति वा नास्ति वेति
प्रलपन्मत्तोन्मत्तपक्षस्यैव स्यान्न प्रत्याययितरूपपक्षस्य । स्वर्गा-
पवर्गयोश्च पक्षे भावः पक्षेचाभावः तथा पक्षे नित्यता तथा
पक्षेचानित्यता इत्यनवधारणायां प्रवृत्त्यनुपपत्तिः । अनादि-
सिद्धजीवप्रवृत्तीनाञ्च स्वशास्त्रावधृतभावानामयथावधृत
स्वभावत्वप्रसङ्गः । एवं जीवादिषु पदार्थेष्वेकस्मिन् धर्मिणि
सत्त्वासत्त्वयोर्विरद्धयोरसम्भवात् सत्त्वे चैकस्मिन् धर्मेऽस-
त्त्वस्य धर्म्मान्तरस्यासम्भवादसत्त्वे चैवं सत्त्वस्यासम्भवाद
सङ्गतमिदमार्हतं मतम् । एतेनैकानेकनित्यव्यतिरिक्ता-
व्यतिरिक्ताद्यनेकान्ताभ्युपगमानिराकृतामन्तव्याः । यत्तु
पुद्गलसंज्ञकेभ्योऽणुभ्यः सङ्घाताः सम्भवन्तीति कल्पयन्ति तत्
पूर्ब्बेणैवाणुवादनिराकरणेन निराकृतम्भवतीत्यतोन
पृथङ्निराकरणाय प्रयत्यते” । अस्तिनास्तिकायादयोऽप्यु-
न्नेयाः । अणुवादनिराकरणञ्चारम्भवादशब्दे दृश्यम् ।

अस्तिक्षीरा स्त्री अस्ति क्षीरं यस्याः । बहुदुग्धवत्यां स्त्रीगव्यादौ ।

अस्तित्व न० अस्ति भावः त्व । विद्यमानत्वे । “न हि देहा-

न्तरसम्बन्धिन आत्मनः प्रत्यक्षेणास्तित्वज्ञाने लौकायतिकाः
बौद्धाश्च प्रतिकूलाः स्युः नास्त्यात्मेति” वृ० उ० भा० ।
“सर्व्वोह्यात्मास्तित्वं प्रत्येति न नाहमस्मीति” शा० भा० ।
तल् । अस्तिताप्यत्र स्त्री । “गौरस्तितावान् अस्तिपदसमभि-
व्याहृतगौःपदस्मारितत्वात्” शब्दश० ।

अस्तिमत् त्रि० अस्ति विद्यमानं धनमस्य मतुप् । धनिनि स्त्रियां ङीप् ।

अस्तु अव्य० अस--दीप्तौ तुन् । १ अनुज्ञायां, २ पीड़ायाम्

३ प्रतिक्षेपे ४ असूयायाम्, ५ प्रकर्षे, ६ अङ्गीकारे, ७ प्रशंसा-
याम्, ८ लक्षणे, ९ असूयापूर्बकाङ्गीकारे च । “अस्तोश्चेति
वक्तव्यम्” वार्त्ति० सम् । अस्तुङ्कारः अभ्युपगमः ।

अस्तेन त्रि० न० त० । चोरभिन्ने ।

अस्तेय न० अभावे न० त० । १ स्तेयाभावे । “लोभस्य पुरतः

केऽमी सत्यास्तेयापरिग्रहाः” प्रबोधच० “अहिंसासत्या-
स्तेयब्रह्मचर्य्यापरिग्रहायमाः” पात० सू० उक्ते २
यमभेदे च “बलाद्रहसि वा परवित्ताहरणं स्तेयं तदभावोऽस्ते-
यम्” वृत्तिः । तादृशयमानुष्ठानेऽवान्तरफलमपि तत्र दर्शि-
तम् । “अस्तेयप्रतिष्ठार्या सर्वरत्नोपस्थानम्” पात० सू० ।
दिव्यरत्नानां स्वयमागत्यनिकटे उपस्थितिरित्यर्थः ।

अस्तोभ त्रि० नास्ति स्तोभः हुंफड़ादिः निरर्थकः शब्दोयत्र

निरर्थकशब्दशून्ये “अस्तोभमनवद्यञ्च सूत्रं सूत्रविदो
विदुः” विवरणं स्तोभशब्दे ।

अस्त्य न० अस्ति विद्यमानतायै हितम् यत् । गृहे निरुक्ते पाठान्तरम् ।

अस्त्यान न० स्त्यै--क्त भावे न० त० । १ निन्दायाम्, २ मर्त्सने

च । कर्त्तरि क्त स्त्यानः संहत न० त० । तद्भिन्ने त्रि० ।

अस्त्र न० अस्यते क्षिप्यते अस--ष्ट्रन् । १ क्षोप्यास्त्रे शरादौ

करणे ष्टुन् । २ चापे, धनुपि ३ रिपुक्षेपणसाधने प्रहरण
मात्रे खड़्गादावपि । “प्रयुक्तमप्यस्त्रमितो वृथा स्यात्”
“प्रत्याहतास्त्रो गिरिशप्रभावात्” । “अतिप्रबन्धप्रहितास्त्र
वृष्टिभिः” इति च रघुः । “अस्त्रज्वालावलीढप्रतिबलजल-
धेरन्तरौर्वायमाणः” वेणी० ।

अस्त्रकण्टक पु० अस्त्रं कण्टकैव । वाणे तस्याग्रस्य कण्टकाकारत्वात्तथात्वम् ।

अस्त्रकार त्रि० अस्त्रं करोति निर्म्मिमीते कृ--अण् उप०

स० । शस्त्रनिर्म्माणकारके । ण्वुल् । अस्त्रकारकोऽप्यत्र ।

अस्त्रचिकित्सा स्त्री अस्त्रेण चिकित्सा । सुश्रुतोक्ते अस्त्रेण

चिकित्साभेदे सा च यथा । “अस्मिन् शास्त्रे शस्त्रकर्म्म-
प्राधान्याच्छस्त्रकर्म्मैव तावत् पूर्व्वमुपदेक्ष्यामस्तत्सम्भा-
रांश्च ॥ तच्च शस्त्रकर्म्माऽष्टविधम् । तद्यथा । छेद्यं भेद्यं
लेख्यं वेध्यमेष्यमाहार्य्यं विस्राव्यं सीव्यमिति ॥ अतोऽ-
न्यतमं कर्म्म चिकीर्षता वैद्येन पूर्व्वमेवोपकल्पयितव्यानि
तद्यथा यन्त्रशस्त्रक्षाराग्निशलाकाशृङ्गजलौकालावूजाम्ब-
वोष्ठपिचुप्लोतसूत्रपत्रपदृमधुघृतवसापयस्तैलतर्पणकषायालेप-
नकल्कव्यजनशीतोष्णोदककटाहादीनि परिकर्म्मिणस्तु
स्निग्धाः स्थिरा बलवन्तः ॥ ततः प्रशस्तेषु तिथि-
करणमुहूर्त्तनक्षत्रेषु दध्यक्षतान्नपानरत्नैरग्निं विप्रान्
भिषजश्चार्च्चयित्वा कृतबलिमङ्गलस्वस्तिवाचनं लघु भुक्त-
वन्तं प्राङ्मुखमातुरमुपवेश्य यन्त्रयित्वा प्रत्यङ्मुखो वैद्यो
मर्म्मसिरास्नायुसन्ध्यस्थिघमनीः परिहरन्ननुलीमं शस्त्रं
निदध्यादापूयदर्शनात् सकृदेवापहरेच्छस्त्रमाशु च ।
महत्स्वपि च पाकेषु द्व्यङ्गुलं त्र्यङ्गुलं वा शस्त्रपदमुक्तं
तत्रायतो विशालः समः सुविभक्त इति ब्रणगुणाः
भवतस्तात्र ॥ आयतस्तु विशालस्तु सुविभक्तो निराश्रयः ।
प्राप्तकालकृतश्चापि व्रण कर्म्मणि शस्यते ॥ शौर्य्यमा-
शुक्रिया शस्त्रतैक्ष्ण्यमस्वेदवेपथू । असंमोहश्च वैद्यस्य
शस्त्रकर्म्मणि शस्यते ॥ एकेन वा व्रणेनाशुध्यमानेनान्तरा-
बुद्ध्यावेक्ष्यापरान् व्रणान् कुर्य्यात् । भवति चात्र ॥
यतो यतो गतिं विद्यादुत्सङ्गो यत्र यत्र च । तत्र तत्र
व्रणं कुर्य्याद्यथा दोषो न तिष्ठति ॥ तत्र भ्रूगण्ड-
शङ्खललाटाक्षिपुटौष्ठदन्तवेष्टकक्षाकुक्षिवङ्क्षणेषु तिर्य्यक्छेद
उक्तः । चन्द्रमण्डलवच्छेदान् पाणिपादेषु कारयेत् ।
अर्द्धचन्द्राकृतींश्चापि गुदे मेढेऋ च बुद्धिमान् ॥ अन्यथा
पृष्ठ ०५६७
तु सिरास्नायुच्छेदन । दतिमात्रं वेदना चिराद्व्रणसंरोहो
मांसकन्दीप्रादुर्भावश्चेति । मूढगर्भोदरार्शोऽश्मरीभगन्द-
रमुखरोगेष्वभुक्तवतः कर्म्म कुर्व्वीत । ततः शस्त्र-
मवचार्य्य शीताभिरद्भिरातुरमाश्वास्य समन्तात्परिपीड्या-
ङ्गुल्या व्रणमभिमृज्य प्रक्षाल्य कषायेण प्लोतेनोदक-
मादाय तिलकल्कमधुसर्पिःप्रगाढ़ामौषधयुक्तां वर्त्तिं प्रणि-
दध्यात् । ततः कल्केनाच्छाद्य नातिस्निन्धां नातिरूक्षां
घनाङ्कवलिकान्दत्त्वा वस्त्रपट्टेन बघ्नीयाद्वेदनारक्षोघ्नैर्धूपै
र्धूपयेद्रक्षोघ्नैश्च मन्त्रैरक्षां कुर्वीत । ततोगुग्गुल्वगु-
रुसर्जरसवचागौरसर्षपचूर्णैर्लवणनिम्बपत्रव्यामिश्रैराज्ययुक्तै
र्धूपैर्धूपयेत् । आज्यशेषेण चास्य प्राणान्
समालभेत” । “ततः कृतरक्षमातुरमागारं प्रवेश्याचारिकमा-
दिशेत् । ततस्तृतीयेऽहनि विमुच्यैवं बघ्नीयाद्वस्त्र-
पट्टेन नचैनं त्वरमाणोऽपरेद्युर्म्मोक्षयेत् । द्वितीयदिवसे
परिमोक्षणाद्विग्रथितो व्रणश्चिरादुपसंरोहति तोव्ररु-
जश्च भवन्ति । अत ऊर्द्ध्वं देशकालबलादीनवेक्ष्य
कषायालेपनबन्धाहाराचारान्विध्यात् । नचैनं त्वरमाणः
सान्तर्दोषं रोपयेत् स ह्यल्पेनाप्यपचारेणाभ्यन्तरमुत्सङ्गं
कृत्वा भूयोऽपि विकरोति ॥ भवन्ति चात्र । तस्मादन्त-
र्ब्बहिश्चैव सुशुद्धं रोपयेद्व्रणम् । रूढेऽप्यजीर्ण्णव्यायामव्य-
घायादीन् विवर्जयेत् । हर्षं क्रोधं भयञ्चापि यावदास्थैर्य्य
सम्भवात् ॥ हेमन्ते शिशिरे चैव वसन्तेचापि मोक्षयेत् ।
त्र्यहाद्द्व्यहाच्छरद्ग्रीष्मवर्षास्वपि च बुद्धिमान् ॥ प्रदीप्तागा-
रवच्छीघ्रं तत्र कुर्य्यात् प्रतिक्रियाम् ॥ या वेदना शस्त्र-
निपानजाता तीव्रा शरीरं प्रदुनोति जन्तोः । घृतेन सा
शान्तिमुपैति सिक्ता कोष्णेन यष्टीमधुकान्वितेन ॥ अतिपातिषु
रोगेषु नेच्छेद्विधिमिसं भिषक्” अस्त्राकारादि विवरणं तत्रैव
“विंशतिः शस्त्राणि ॥ तद्यथा । लण्डलाग्रकरपत्रवृद्धि-
पत्रनखशस्त्रमुद्रिकोत्पलपत्रकार्द्धधारसूचीकुशपत्राटीमुखश-
रारीमुखान्तर्मुखत्रिकूर्चकुठारिकाव्रीहिमुखारावेतसपत्रक-
वडिशदन्तशङ्क्वेषण्य इति । तत्र मण्डलाग्रकरपत्रे
स्यातां छेदने लेखने च । वृद्धिपत्रनखशस्त्रमुद्रिकोत्पल-
पत्रकार्द्धधाराणि छेदने भेदने च । सूचीकुशपत्राटी-
मुखशरारीमुखान्तर्मूखत्रिकूर्चकानि विस्रावणे । कुठा
रिकाव्रीहिमुस्वारावेतसपत्रकाणि व्यधने सूची च ।
वडिशोदन्तशङ्कुश्चाहरणे । एषण्येबणे आनुलोभ्ये
च । सूच्यः सेवने । इत्यष्टबिघे कर्म्मण्युपयोगः शस्त्राणां
व्याख्यातः । तेषामथ यथायोगग्रहणसमासोपायः कर्म्मसु
वक्ष्यते । तत्र वृद्धिपत्रं वृन्तफलसाधारणे भागे गृह्णी-
याद्भेदनान्येवं सर्वाणि । वृद्धिपत्रं मण्डलाग्रञ्च किञ्चि-
दुत्तानपाणिना लेखने वहुशोऽवचार्य्य वृन्ताग्रे
विस्रावणानि । विशेषेण बालवृद्धसुकुमारभीरुनारीणां
राज्ञां राजपुत्त्राणाञ्च त्रिकूर्चकेन विस्रावयेत् ।
सलप्रच्छादितवृन्तमङ्गुष्टप्रदेशिनीभ्यां व्रीहिमुखम् । कुठारिका
वामहस्तन्यस्तामितरहस्तमध्यमाङ्गल्याऽङ्गुष्ठविष्टब्धयाभिह-
न्यात् । आराकरपत्रैषण्यो मूले । शेषाणि तु
यथायोगं गृह्णीयात् । तेषां नामभिरेवाकृतयः प्रायेण
व्याख्याताः । तत्र नखशस्त्रैषण्यावष्टाङ्गुले सूच्यो वक्ष्यन्ते
वडिशो दन्तशङ्कुश्चानताग्रे तीक्ष्णकण्टकप्रथमयवपत्र खे ।
एषणी गण्डूपदाकारमुखी । प्रदेशिन्यग्रप्रर्व्य प्रदश्म्प्रमांणा
मुद्रिका । दशाङ्गुला शरारीमुखी साकर्कर्शोति कथ्यते!
शेषाणि तु षड़ङ्गुलानि । तानि सुग्रहाणि सुलोहाति
सुघाराणि सुरूपाणि सुसमाहितमुखाग्राण्यकरालानि
चेति शस्त्रसम्पत् । तत्र वक्रं कुण्ठं खण्डं खरधार-
मतिस्थूलमत्यल्पमतिदीर्घमतिह्रस्वमित्यष्टौ शस्त्रदोषाः ।
अतो विपरीतगुणमाददीतान्यत्र करपत्रात्तद्धि खरधार-
मस्थिच्छेदनार्थम् । तत्र धारा भेदनानां मासूरी । लेख
नानामर्द्धमासूरी । व्यधनानां विस्रावणानाञ्च कैशिकी ।
छेदनानामर्द्धकैशिकीति । तेषां पायना त्रिविधा क्षारो-
दकतैलेषु । तत्र क्षारपायितं शरशल्यास्थिच्छेदनेषु ।
उदकपायितं मांसच्छेदनभेदनपाटनेषु तैलपायितं सिरा-
घनस्नायुच्छेदनेषु । तेषां निशानार्थं श्लक्ष्णशिला
माषवर्ण्णा । धारासंस्थापनार्थं शाल्मलीफलकमितिं । भवति
चात्र । यदा सुनिशितं शस्त्रं रोमच्छेदि सुसंस्थितम् ।
सुगृहीतं प्रमाणेन तदा कर्म्मसु योजयेत् ॥ अनुशस्त्राणि
तु त्वक्सारस्फटिककाचकुरुविन्दजलौकाग्निक्षारनखगोजी
शेफालिकाशाकपत्रकरीरबालाङ्गुलय इति । शिशूनां
शस्त्रभीरूणां शस्त्राभावे च योजयेत् । त्वक्सारादि
चतुर्व्वर्गं छेद्ये भेद्ये च बुद्धिमान् ॥ आहार्य्यच्छेद्य-
भेद्येषु नखं शक्येषु योजयेत् । विधिः प्रवक्ष्यते पश्चात्
क्षारवह्निजलौकसाम् ॥ ये स्युर्मुखगता रोगा नेत्रवर्त्मगताश्च
ये । गोजीसेफालिकाशाकप्रत्रैर्व्वि स्रावयेत्तु तान् ॥ एष्वे-
ष्वेषण्यलाभे तु बालाङ्गुल्यङ्कुरा हिताः । शस्त्राण्येतानि
मतिमान् शुद्धशैक्यायसानि तु । कारयेत्करणैः प्राप्तं
कर्म्भारं कर्म्मकोविदम् ॥ प्रयोगज्ञस्य वैद्यस्य सिद्धिर्भवति
नित्यशः । तस्मात्परिचयः कार्य्यः शस्त्राणामादितः सदा” ॥
पृष्ठ ०५६८

अस्त्रजित् पु० अस्त्रं तदाघातजं व्रणं जयति निवारकत्वात् ।

(कवाटवेट्) वृक्षभेदे ।

अस्त्रजीविन् पु० अस्त्रेण जीवति णिनि । अस्त्रव्यापारेण

जीविकावति शस्त्रजीव्यादयोऽप्यत्र अण् अस्त्रजीवोऽप्यत्र ।

अस्त्रधारिन् त्रि० अस्त्रं धारयति धारि--णिनि । अस्त्र

धारके । ण्वुल् । अस्त्रधारकोऽप्यत्र ।

अस्त्रमन्त्र पु० अस्त्राणां प्रयोगसंहारयोर्मन्त्रः ।

१ शस्त्रप्रयोगादिमन्त्रभेदे । “सम्मोहनं नाम सखे! ममास्त्रं
प्रयोगसंहारविभक्तमन्त्रम्” । “उदङ्मुखः सोऽस्त्रविदस्त्र-
मन्त्रम्” इति च रघुः । तन्त्रोक्ते अङ्गन्यासान्तर्गते फडिति
२ मन्त्रे च ।

अस्त्रमार्ज्ज पु० अस्त्रं मार्ष्टि मृज--अण् उप० स० ।

शस्त्रतीक्ष्णताकारके । ण्वुल् अस्त्रमार्जकोऽप्यत्र ।

अस्त्रयुद्ध न० ६ त० । अस्त्रेण युद्धे ।

अस्त्रविद् पु० अस्त्रं तत्प्रयोगादि वेत्ति विद्--क्विप् ६ त० ।

शस्त्रप्रयोगाद्यभिज्ञे “सोऽस्त्रविदस्त्रमन्त्रम्” रघुः ।

अस्त्रविद्या स्त्री ६ त० । १ अस्त्रप्रयोगसंहारज्ञापकविद्यायाम्

२ तद्बोधके शास्त्रे च धनुर्वेदशब्दे विवृतिः ।

अस्त्रवेद पु० अस्त्रस्य तत्प्रयोगादेः ज्ञापकोवेदः शाखम् ।

धनुर्वेदे तच्छब्दे विवृतिः ।

अस्त्रसायक पु० अस्त्रं क्षेप्यं सायकंइव । १ नाराचास्त्रे तस्य

सायकतुल्यतया क्षेप्यत्त्वात्तथात्वम् । अस्यते शत्रुरनेन
अस--करणे ष्ट्रन् कर्म्म० । २ सर्ब्बलौहमये वाणे ।

अस्त्रहीन त्रि० अस्त्रेण तत्प्रयोगेण बा हीनः । १ अस्त्रशून्यं

२ शस्त्रव्यापारशून्ये वाग्युद्धादौ ।

अस्त्रागार न० ६ त० । आयुधागारे शस्त्रादिस्थापनगृहे ।

अस्त्राघात पु० ६ त० । अस्त्रेणाघाते । ।

अस्त्राहत त्रि० अस्त्रेणाहतः । १ शस्त्रहते २ शस्त्रेण क्षते च ।

अस्त्रिन् त्रि० अस्त्रं धनुरस्यास्ति इनि । १ धनुर्द्धरे, २ शस्त्रधा-

रिमात्रेच । “अस्त्रीजनः षुनरनेन कृतः किल स्त्री” उद्भटः ।

अस्थाग त्रि० अस्थामस्थितिं गच्छति गम--ड । अगाधे हेम० ।

अस्थान न० अप्राशस्त्र्ये न० त० । अपकृष्टस्थाने अयोग्यस्थाने

“अस्थाने पततामतोव महतामेतादृशी स्याद्गतिः” सा० द० ।

अस्थाने अव्य० स्थाने युक्तं न० त० । अयुक्ते ।

अस्थायिन् त्रि० विरोधे न० त० । चञ्चले स्त्रियां ङीप् ।

अस्थावर त्रि० विरोधे न० त० । स्थावरभिन्ने जङ्गमे ।

“प्रपौत्रपर्य्यन्तरहितस्य मृतस्य विभक्ताविभक्तस्थावरास्था-
वरधने पत्नी प्रथममधिकारिणीति दायभागानुसारिणः ।

अस्थि न० अस्यते अस + क्थिन् । मांसाभ्यन्तरस्थे (हाड़) इति

ख्याते धातुभेदे । अस्थिस्वरूपाद्युक्तं भावप्रका० ।
“मेदोयत्स्वाग्निना पक्वं वायुना चातिशोषितम् । तदस्थिसंज्ञां
लभते स सारः सर्वविग्रहे । अभ्यन्तरगतैः सारैर्यथा-
तिष्ठन्ति भूरुहाः । अस्थिसारैस्तथा देहाध्रियन्ते देहिनां
ध्रुवम् । तस्माच्चिरविनष्टेषुत्वङमांसेषु शरीरिणाम् । अस्थीनि
न विनश्यन्ति सारा एतानि सर्वथा” । अथास्थ्नां संख्या-
माह । “शल्यतन्त्रेऽस्थिखण्डानां शतत्रयमुदाहृतम् ।
तान्येवात्र निगद्यन्ते तेषां स्थानानि यानि च । सविंशति-
शतन्त्व स्थ्नां शाखासु कथितं बुधैः । पार्श्वयोः श्रोणिफलके-
वक्षःपृष्ठोदरेषु च! जानीयाद्भिषगेतेषु शतं सप्तदशोत्तरम्
ग्रीवायामूर्द्ध्वगां विद्यादस्थ्नां षष्टिं त्रिसंयुताम्” । तत्र
शाखागतान्याह । “एकैकस्यां पादाङ्गुल्यां त्रीणि त्रीणि
तानि पञ्चदश पादतले पञ्चास्थिशलाकास्तदाधारभूत-
मेकमस्थि । एवं षट् कूर्चे द्वे २ गुल्फे द्वे २ पार्ष्णावेकैकं
२ जङ्घयोर्द्वे २ जानुन्येककैकम् २ एवं त्रिंशदेक-
स्मिन् सक्थिनि भवन्ति । एतेनेतरसक्थि बाहू च
व्याख्यातौ । अथ पार्श्वादिगतान्याह । “पार्श्वयो
षट्त्रिंशत् ३६ षट्त्रिंशत् ३६ । शिश्ने भगे वा एकं
१ नितम्बयोरेकैकं २ त्रिके एकम् १ वक्षस्यष्टौ ८ पृष्ठे-
त्रिंशत् अक्षकसंज्ञे द्वे २” योगात् ११७ । अथ ग्रीवोर्ध्व-
गतान्याह । ग्रीवायां नव ९ कण्टनाड्यां चत्वारि ४ हन्वो-
रेकैकं २ दन्तेषु द्वात्रिंशत् ३२ नासायां त्रीणि ३ तालु-
न्येकं १ गण्डयोरेकैकं २ कर्णयोरेकैकं २ शङ्घयोरेकैकं
२ शिरसि षट् । एतान्यस्थीनि पञ्चविधानि भवन्ति तानि
यथा “तरुणानि कपालानि रुचकानि भवन्ति च ।
वलयान्यपि तानि स्युर्नलकानि च कानि चित् । अक्षिकोषश्रुति
घ्राणग्रीवासु तरुणानि हि । शिरःशङ्खकपोलेषु ताल्वं-
सप्रोथजादिषु । कपालानि भवन्त्येषु, दन्तेषु रुचकानि च ।
प्रायः पार्श्वयुगे पृष्ठे वक्षोजठरपायुषु । पादयोर्बलयानि
स्युर्नलकानि ब्रुवेऽधुना । हस्तपादाङ्गुलितले कूर्च्चे च
मणिबन्धयोः । बाहुजङ्घाद्वये चापि जानीयान्नलकानि तु” ।
अथैषां प्रयोजनमाह “मांसान्यन्त्राणि बद्धानि शिराभिः
स्नायुभिस्तथा । अस्थीन्यालम्बनं कृत्वा न दीर्य्यन्ते पतन्ति
न” सुश्रुते । याज्ञ० तु “प्राधान्यात् अन्याथासंख्याऽभिहिता
यथा । “स्थालैः सह चतुःषष्टिर्दन्ता वै विंशतिर्नखाः । पाणि-
पादशलाकाश्च तासां स्थानचतुष्टयम् । षष्ट्यङ्गुलीनां द्वे
पार्ष्ण्योर्गुल्फेषु च चतुष्टयम् । चत्वार्य्यंरत्निकास्थीनि जङ्घयो-
स्तावदेव तु । द्वे द्वे जानुकपोलोरफलकांससमुद्भवे । अक्ष-
पृष्ठ ०५६९
तालूषके श्रोणोफलके च विनिर्द्दिशेत् । भगास्थ्येकं तथा
पृष्ठे चत्वारिंशच्च पञ्च च । ग्रीवा पञ्चदशास्थिः स्याज्ज-
त्र्वेकैकं तथा हनुः । तन्मूले द्वे ललाटाक्षिगण्डे नासा
धनास्थिका । पार्श्वकाः स्थालकैः सार्द्धमर्वुदैश्च द्विसप्ततिः ।
द्वौ शङ्खकौ कपालानि चत्वारि शिरसस्तथा । उरःसप्तदशा-
स्थीनि पुरुषस्यास्थिसंग्रहः” “अस्थिभिरस्थीनि मांसैर्मा-
सानि त्वचा त्वचम्” इति श्रुतिः “मलमूत्रपुरीषास्थि निर्गतं
ह्यशुचि स्मृतम्” मनुः अल्पार्थे कन् । अस्थिकं तत्रार्थे ।

अस्थिकृत् पु० कृ--क्विप् ६ त० । अस्थिकारके मेदसि धातौ ।

यथा मेदमीऽस्थिकरत्वं तथोक्तम् असृक्करशब्दे ५५८ पृष्ठे ।

अस्थिच्छलित न० “कण्ठकमश्वकर्ण्णं चूर्णितं पिच्छितमस्थि-

च्छलितं काण्डभग्नं मज्जानुगतमतिपातितं वक्रं छिन्नं
पाटितं स्फुटितपिति द्वादशविधमिति” काण्डभग्नमुपक्रम्य
“पार्श्वयोरस्थिहीनोद्गतमस्थिच्छलितमिति” सुश्रुतोक्ते
काण्डभग्नरूपरोगनिदानभेदे ।

अस्थिज पु० अस्थ्नो जायते जन--ड । अस्थिधातोर्जाते मज्जनि

यथा चास्थ्नोमज्जजन्म तथोक्तमसृक्करशब्दे ५५८ पृष्ठे ।

अस्थिति स्त्री अभावे न० त० । १ स्थित्यभावे अस्थैर्य्ये ।

“अस्थितेश्च शरीरस्य पुंसां चैवायुयः क्षयात् । आनन्त्यात्
कुलधर्म्माणां द्वादशाहः प्रशस्यते” इति स्मृतिः । अस्थितिः
सङ्गीतमुरजध्वनीनाम्” काद० । २ मर्य्यादाभावे । न० व० ।
३ मर्य्यादाशून्ये ४ स्थैर्य्यशून्ये च त्रि० ।

अस्थितुण्ड पु० अस्थीव कठिनं तुण्डमस्य । विहङ्गमे ।

अस्थिधन्वन् पु० अस्थि अस्थिमयं धनुरस्य अनङ् समा० ।

शिवे ।

अस्थिपञ्जर पु० अस्थि पञ्जर इव । शरीरस्थास्थिसंहये पिञ्जराकारे कङ्काले ।

अस्थिप्रक्षेप पु० मृतस्यास्थ्नां गङ्गाजले विधानेन प्रक्षेपः ।

विघानेन मृतस्यास्थ्वां गङ्गाजले क्षेपणोतत्प्रकारश्च आदिपु०
“भागीरथी यत्र यत्रास्ति तीर्थे कुलद्वये चापि यदा विपन्नः ।
तदा तदा तत्र तस्याथ भक्त्या भावेन चास्थीनि विनिक्षे-
पेच्च । स्नात्वा ततः गञ्चगव्येन सिक्त्वा हिरण्यमध्वा-
ज्यतिलैश्च योज्य । ततश्च मृत्पिण्डपुटे निधाय पश्यन्
दिशं प्रेतगणोपगूढ़ाम् । नमोऽस्तु धर्म्माय वदन् प्रविश्य
जलं स मे प्रीत इति क्षिपेच्च । उत्थाय भास्वन्तमवेक्ष्य
सूर्य्यं स दक्षिणां विप्रमुखाय दद्यात्” । “एतदूर्द्ध्वं तीर्थ-
चिन्तामणौ अन्यथा पठितम्” तद्यथा । “स्नात्वा-
तथोत्तीर्य्य च भास्करञ्च दृष्ट्वा प्रदद्यादथ दक्षिणान्तु”
इति । “एवं कृते प्रेतपुरस्थितस्य स्वर्गे स्थितिः स्याच्च
महेन्द्रतुल्या” इति च । तत्प्रयोगश्च प्रा० त० दृश्यः ।

अस्थिभक्ष पु० अस्थि भक्षयति भक्ष--अण् । (हाड़गिला)

१ पक्षिणि, २ कुक्कुरे च । भुज--क्विप् । अस्थिभुगादयोप्यत्र ।

अस्थिभङ्ग पु० अ स्थ्नो भङ्गः । अस्थिभञ्जने “अस्थिभङ्गे

गवाञ्चैव लाङ्गूलस्य च भेदने” स्मृतिः ।

अस्थिमत् त्रि० अस्थीनि सन्त्यस्य मतुप् । अस्थियुक्ते

प्राणिनि “अस्थिमतां तु सत्त्वानां सहस्रञ्च प्रमाप्य च ।
पूर्णे चानस्यनस्थ्नां तु शूद्रहत्याव्रतं चरेत्” । किञ्चिदेव
तु विप्राय दद्यादस्थिमतां बधे । अनस्थ्नां चैव हिंसायां
प्राणायामेन शुध्यति” मनुः अस्थिमतां कृकलासादीनाम-
नस्थ्नां मत्कुणादीनाम्” कुल्लू० ।

अस्थिमय त्रि० अस्थ्नोविकारः मयट् स्त्रियां ङीप् । अस्ति निर्म्मिते अस्त्रादौ ।

अस्थिमाला स्त्री अस्थिनिर्म्मिता माला । अस्थिनिर्म्मित-

गुटिकायां १ मालायाम् ६ त० । २ अस्थिश्रेणौ च ।

अस्थिमालिन् पु० अस्थिमयी मालाऽस्त्यस्य इनि । शिवे ।

अस्थियुज् पु० अस्थि युनक्ति युज--क्विन् । (हाड़जोड़ा)

हस्तिशुण्डावृक्षे ।

अस्थिर त्रि० न० त० । स्थिरभिन्ने चञ्चले । “अस्थिरत्वं ध्वजनाम्” काद० ।

अस्थिविग्रह पु० अत्यन्तकृशत्वात् अस्थिसारो विग्रहो देहो

ऽस्य । १ शिवानुचरे भृङ्गरीटे । २ अतिशीर्ण्णदेहे त्रि० ।

अस्थिशृङ्खला स्त्री अस्थ्नां शृङ्खलेव योजनहेतुः । (हाड़-

जोड़ा) ग्रन्थिमति वृक्षे । “काण्डं त्वग्विरहितमस्थि-
शृङ्खलाया माषार्द्धं द्विदलमकञ्चुकं तदर्द्धम् । सम्पिष्टं सुतनु!
ततस्तिलस्य तैले संपक्वं वटकमतीव वातहारि” वैद्य० ।

अस्थिशेष त्रि० अस्थिमात्रं शेषोऽस्य । मांसादिशून्ये अतिकृशे ।

अस्थिसंहार पु० अस्थीनि संहरति योजयति सम् + हृ--अण्

(हाड़जोड़ा) ग्रन्थिमति वृक्षे । “अस्थिसंहारकः प्रोक्तो
वातश्मेष्महरोऽस्थि युक् । उष्णः सारः कृमिघ्नश्च दुर्ण्णामघ्नो-
ऽक्षिरोगजित् । रूक्षः स्वादुर्लघुर्वृष्यः पाचनः पित्तलः
स्मृतः” भा० प्र० ।

अस्थिसंहारिका स्त्री अस्थीनि संहरति योजयति

सम् + हृ--ण्वुल् । (हाड़जोड़ा) ग्रन्थिमति वृक्षे

अस्थिसञ्चय पु० मृतस्यास्थ्नां गङ्गाजले प्रक्षेपार्थं सञ्चयः । गङ्गायां

प्रक्षेपार्थं प्रथमादिदिने मृतस्य अस्थिसंग्रहे “नान्त्येष्टि-
र्नास्थिसञ्चयः स्मृतिः” ल्युट् । अस्थिसञ्चयनमप्यत्र न० ।
अस्थिसञ्चयनञ्च प्रथमादिदिनेषु कार्य्यम् । यथाह-
संवर्त्तः । “प्रथमेऽह्नि तृतीये वा सप्तमे नवमे तथा ।
अस्थिसञ्चयनङ्कार्य्यदिने तद्गोत्रजैः सह” । क्वचित् “द्वि-
तीये त्वस्थिसञ्चय” इत्युक्तम् । वैष्णवेतु “चतुर्थे दिवसेऽस्थि
पृष्ठ ०५७०
सञ्चयनं कुर्य्यात्तेषाञ्च गङ्गाम्भसि प्रक्षेप” इति । अतोऽन्य-
तमदिने स्वगृह्योक्तविधिना त्वस्थिसञ्चयनङ्कार्यम्” मिता० ।
अङ्गिरसा चात्र विशेषो दर्शितः । “अस्थिसञ्चयने यागो-
देवानाम्परिकीर्त्तितः । प्रेतीभूतन्तमुदिश्य यः शुचिर्न करोति
चेत् । देवतानान्तु यजनन्तं शपन्त्यथ देवताः” । देवताश्चात्र
श्मशानवासिन्यः भूतपूर्ब्बदग्धाः । श्मशानवासिनोदेवाः
शवानाम्परिकीर्त्तिता” इति तेनैवोक्तम् । अतस्तान्देवान्
अचिरमृतञ्च प्रेतमुद्दिश्य धूपदीपादिभिः पिण्डरूपेण
चान्नेन तत्र पूजा कार्य्येत्युक्तम्भवति” मिता० प्रा० अध्या० ।

अस्थिसम्भव पु० सम्भवत्यस्मात् सम्भवः अपादाने अप् ब० ।

अस्थिजाते १ मज्जघातौ यथा च अस्थिजत्वं मज्ज्ञस्तथोक्त-
मसृक्करशब्दे ५५८ पृ० । २ वज्रे च तस्य दाधीचास्थिज
त्वात् तथात्वम् “तमुवाचेन्द्रमाक्रन्दे गरुड़ः पततां वरः ।
प्रहसन् श्लक्ष्णया वाचा तथा वज्रसमाहतः । ऋषेर्मानं
करिष्यामि वज्रं यस्यास्थिसम्भवम्” भा० आ० ३३ अ० ।
यथा चास्य तदस्थिजातत्वं तथोक्तमशनिशब्दे ३७४ पृष्ठे
३ अस्थिजातमात्रे त्रि० ।

अस्थिसार पु० अस्थ्रः सारः पाकपरिणामः । अस्थिजाते

मज्जधातौ । अस्थ्येव सारो यस्य । रक्तमांसशून्यदेहे त्रि०

अस्थिस्नेह पु० ६ त० । मज्जनित स्यास्थिसारभूतत्वात्तथात्वम् ।

अस्थूरि पु० स्था--बा० कूरि । एकाश्वयुक्तशकटं स्थूरि न० त०

तद्विपरीतम् । बहुभिरश्वादिभिर्युते शकटे । “अस्थूरि
गार्हपत्यानि सन्तु” ऋ० ६, १५, १९ ।

अस्थैर्य्य न० अभावे न० त० । १ स्थैर्य्याभावे विरोधे न० त० ।

२ चाञ्चल्ये । न० ब० । ३ स्थैर्य्यहीने त्रि० ।

अस्नाविर त्रि० न० त० । शिरावर्ज्जिते, स्थूलशरीरशून्ये च ।

अस्निग्धदारु न० अस्निग्धं रूक्षं दारु कर्म० । देवदारुभेदे ।

अस्नेह पु० अभावे न० त० । १ स्नेहाभावे न० ब० । २ स्नेह-

शून्ये त्रि० । स्नेहस्तैलादेर्गुणभेदः प्रेम च ।

अस्पन्दन न० अभावे न० त० । १ चलनाभावे न० ब० । २ क्रियाशून्ये त्रि० ।

अस्पर्श पु० अभावे न० त० । १ स्पर्शासावे न० ब० । २ स्पर्श-

शून्ये त्रि० “अशब्दमस्पर्शमरूपमव्ययम्” श्रुतिः ।

अस्पर्शयोग पु० “नास्ति स्पर्शःविषयसंबन्धोयत्र कर्म्म० । विषय

प्रतिभासशून्ये निर्विकल्पके ज्ञाने “अस्पर्शयोगो वै नाम
मर्वसत्त्वसुखो हितः । अविवादो विशुद्धश्च देशितस्तं
नमाम्यहम्” ।

अस्पष्ट त्रि० न० त० । अव्यक्ते । “अथेदानीमस्पष्टब्रह्मलिङ्गानि

वेदान्तवाक्यानि विचार्य्यन्ते” शा० भा० ।

अस्पृश्य त्रि० न स्प्रंष्टुमर्हः अर्हार्थे क्यप् न० त० । स्पर्शायोग्ये

मलमूत्रादौ “मलमूत्रपुरीषास्थि निर्गतं ह्यशुचि स्मृतम्”
नारं स्पृष्ट्वा तु सस्नेहं सचेलं जलमाविशेत् मनुः । अस्पृश्य
स्पर्शने चैव सद्यः स्नानं समाचरेत्” स्मृतिः । अस्पृश्य-
द्रव्याणि च प्रायेण अशौचाशुद्धिशब्दयोः उक्तानि ।

अस्पृहा स्त्री अभावे न० त० । “स्पहाभावे” । “नास्पृहेत्तु

परखेषु साऽस्पृहा परिकीर्त्ति । न० ब० । २ स्पृहा-
शून्ये त्रि० ।

अस्फुट त्रि० न स्फुटः । व्यक्तभिन्ने । अनलङ्कृती पुनः

क्वापीति का० प्र० व्याख्यायां “अनलङ्कृती अस्फुटालङ्कारौ” ।
“क्वचित्प्रकाशां क्वचिदस्फुटार्णसम्” नैष० ।

अस्फुटवाक् त्रि० अस्फुटा अव्यक्ता वाक् यस्य । कद्वदे ।

अस्मद् त्रि० अस--मदिक् । अहंप्रत्ययाबलम्बनत्वेन वेद्ये १ प्रत्य-

गात्मनि, २ देहाभिमानिनि जीवे च । “अहं देवो न चान्योऽ-
स्मि ब्रह्मैवाहं न शोकभाक्” “अहमात्मा गूड़ाकेश”! गीता
“आवां जहि न यत्रोर्वी सलिलेन परिप्लुता” देवी माहा०
“सर्वेवयमतः परम्” “मान्तु वेद न कश्चन” गीता “यः सर्व
दास्मानपुषत् स्वपोषम्” भट्टिः “मयाऽध्यक्षेण प्रकृतिः सूयते
सचराचरम्” गीता । अस्य लिङ्गत्रयेऽपि एकविधं रूपम् ।
आत्मवाचित्वे एवास्य सर्व्वनामता शब्दपरत्वे न गणकार्य्यम्
“अस्मदोद्वयोश्च” पा० । द्विबहुचनपरत्वे अस्मद्--अण् ।
आस्माकः । खञ् आस्माकीन छ अस्मदीयः । एकवचन
परत्वे अण् मामकम् खञ् मामकीनम् छमदीयम्” । तसिल्
अस्मत्तः एकवचने मत्तः “मत्तः परतरं नास्ति” गीता ।

अस्मत्त्रा अव्य० अस्मद् + बा० त्राच् । अस्मास्वित्यर्थे । “अस्म-

त्त्रा ते सध्र्यक् सन्तु” ऋ० १, १३२ ।

अस्मदीय त्रि० अस्माकमिदम् छ । अस्मत्सम्बन्धिनि

“सहास्मदीयैरपि योधमुख्यैः” गीता ।

अस्मद्र्यन्च् त्रि० अस्मानञ्चति अस्मद् + अन्च--क्विन् अद्र्या-

देशः । अस्मदभिमुखे । “तुभ्यमस्मद्र्यञ्चोददतो मघानि”
ऋ० ७, १९, १० शसादावचि अस्मद्रीच इत्यादि । स्त्रियाम्
ङीप् अस्मद्रीची ।

अस्मद्विध त्रि० अस्माकमिव विधास्य । अस्मादृशे एकवचन

परत्वे मद्विधः “न मद्विधे न्यस्यति भारमग्र्यम्” भट्टिः ।

अस्मय त्रि० आत्मन अस्मान् इच्छति क्यच् उ बा० व्यत्य-

येन एत्त्वम् । हविःस्वीकारार्थम् आत्मनः अस्मान्
इच्छति । “उत त्वमस्मयुर्व्वसो!” ऋ० १, ४१, ७ ।

अस्माक त्रि० अस्माकमिदम् अण् अस्माकादेशः नि० वेदे अवृद्धिः ।

अस्मत्सम्बन्धिनि “स रथेन रथीतमोऽस्माकेनाभियुग्वना”
ऋ० ६, ४५, १५ । लोके तु आस्माकः ।
पृष्ठ ०५७१

अस्मि अव्य० अस--मिन् । अहमर्थे, “त्वामस्मिवच्मि विदुषां

समवायोऽत्र तिष्ठति” सा० द० । “अस्मिता” । “दुडुम-
नास्मि सागरम्” रघुः “ब्रह्मैवास्मि न शोकभाक्” ।

अस्मिता स्त्री अस्मि--भावः तल् । अहमिति ममेतिवेत्यभिमाने

“अविद्यास्मितारागद्वेषाभिनिवेशाः” पात० सू० सचाभि-
मानोमोह इत्युच्यते यथाह सां० कौ० । “देवा ह्यष्टवि-
धमैश्वर्य्यमासाद्यामृताभिमानिनोऽणिमादिकमात्मीयं शाश्व-
तिकमभिमन्यन्ते इति सोऽयमस्मितामोहोऽष्टविधैश्वर्य्य
विषयत्वादष्टविधः” तल्लक्षणमुक्तं पात० सू० । “दृग्दर्शन
शक्त्योरेकात्मतेवास्मिता” दृक्शक्तिः पुरुषः दृश्यते इति
दर्शनं तच्छक्तिः बुद्धिः शक्तिशब्दोयोग्यतार्थः भोक्तृभोग्ययो
रत्यन्तविविक्तयोर्दृग्दृश्ययोरविद्याकृता आत्मता तादात्म्यम्
इवशब्देन अहमस्मीत्यस्य भ्रान्तिकृतत्वम् तादात्म्यस्य
द्योतितम् सास्मितेत्यर्थः इयं हृदयग्रन्थिरित्युच्यते
ब्रह्मवादिभिः इति” वृत्तिः ।

अस्मृति स्त्री अभावे न० त० । स्मरणाभावे ।

अस्यवामीय न० अस्य वामेति शब्दोऽस्त्यत्र सूक्ते मत्वर्थे छ ।

अस्य वामेति शब्दयुक्ते सूक्ते तच्च सूक्तम् “अस्य वामस्य
पलितस्य” इत्यादिकं द्विपञ्चाशदृचम् ऋ० १, १६४, सूक्तम् ।
“स्तेयं कृत्वा द्विजोमोहात् त्रिरात्रोपोषितः शुचिः । सूक्तं
जप्त्वाऽस्यवामीयं क्षिप्रं मुच्येत किल्विषात् “ऋग्विधाने
१, २२६, । महाव्रते वैश्वशस्त्रं वैश्वदेवं निविद्वानं द्विप्रतीकं
तत्रास्य वामदेवस्येत्यादिकमेकचत्वारिंशदृचं प्रथमं, प्रतीकम्
तच्च पञ्चमारण्ये सूत्रितम् “अस्य वामस्य पलितस्य
हेतुरिति” दैर्घतमसम् एकचत्वारिंशदृचम् तच्च
तस्मिन्नेव सूक्ते “गौरीर्म्मिमाय सलिलानि” इत्यन्तमेक-
चत्वारिंशदृचम् । “सकृत् जप्त्वास्यवामीयं शिवसङ्कल्पमेव च
अपहृत्य सुवर्ण्णन्तु क्षणाद्भवति निर्म्मलः” मनुः कुल्लू०
एतद्वाख्याने अस्य वामस्य पतितस्येति पाठः लिपिकर-
प्रमादकृतः पलितस्येत्येव सूक्ते पाटदर्शनात् ।

अस्यहत्य पु० हन--बा क्यप् न० त० असिना अहत्यः ३ त० ।

खड्गेनाहननीये अनुशतिकादिकार्य्यम् ।

अस्यहेति पु० असिरहेतिर्यस्य । खड्गासाधने योधे । अनुशतिका० ।

अस्युद्यत त्रि० असिरुद्यतोयेन वा परनि० । उद्धृतखड्गे ।

अस्र पु० अस--रन् । १ कोणे २ केशे च । ३ रुधिरे ४ चक्षुर्जले चन०

अश्रशब्दे उदा० ।

अस्रकण्ठ पु० अस्रः कोण इव कण्ठोऽस्य अस्रयुक्तकण्ठो

वास्य । वाणे हारा० तस्य पातने हि शत्रुरुधिराक्त
मुखत्वात् कोणाकारमुखत्वाच्च तस्य तथात्तम् ।

अस्रखदिर पु० अस्रवर्णः रक्तवर्णः खदिरः । विट्खदिरे ।

अस्रज न० अस्रात् रुधिरात् पाकेन जायते । मांसे ।

तस्य रुधिरजातत्वमसृक्करशब्दे ५५८ पृष्ठे दृश्यम् ।

अस्रप पु० अस्रं रुधिरं पिबति पा--क । १ राक्षसे २ तद्देवताके

मूलानक्षत्रे च । “द्विरागमं लघुध्रुवे चरेऽस्रपे नृदूडुनि”
मुहूर्त्त चि० क्विप् अस्रपाष्यत्र ।

अस्रपत्रक पु० अस्रमिव रक्तं पत्रमस्य संज्ञायाम् कन् । रक्तशाके भिण्डावृक्षे ।

अस्रपा स्त्री अस्रं पिवति पा--क्विप् क वा । (ज्ॐक)

जलौकसि । तस्याः भेदादिकं सुश्रुते दर्शितं यथा “अथ
जलायुका वक्ष्यन्ते । जलमासामायुरिति जलायुका
जलमासामोक इति जलौकसः । ता द्वादश तासां
सविषाः षट् तावत्य एव निर्विषाः । तत्र
सविषाः कृष्णा कर्ब्धुरा अलगर्द्दा इन्द्रायुधा सामुद्रिका
गोचन्दना चेति । तास्वञ्जनचूण्णवर्ण्णा पृथुशिराः कृष्णा ।
कूर्म्ममत्स्यवदायता छिन्नोन्नतकुक्षिः कर्व्वुरा । रोमशा
महापार्श्वा कृष्णमुख्यलगर्द्दा । इन्द्रायुधवदूर्द्ध्वराजिभि-
श्चित्रिता इन्द्रायुधा । ईषदसितपीतिका विचित्रपुष्पाकृति
चित्रा सामुद्रिका । गोवृषणवदधोभागे द्विधाभूताकृति-
रणुमुखी गोचन्दनेति । ताभिर्दष्टे पुरुषे दंशे श्वयथुरति-
मात्रं कण्डूर्मूर्च्छा ज्वरोदाहश्छर्दिर्मदः सदनमिति
लिङ्गानि भवन्ति । तत्र महागदः पानालेपननस्यकर्म्मा
दिषूपयोज्यः । इन्द्रायुधादष्टमसाध्यमित्येताः सविषाः
सचिकित्सिता व्याख्याताः ॥ अथ निर्विषाः । कपिला
पिङ्गला शङ्कुमुखी मूषिका पुण्डरीकमुखी सावरिका चेति ।
तत्र मनःशिलारञ्जिताभ्यामिव पार्श्वाभ्यां पृष्ठे स्निग्धमुद्ग-
वर्ण्णा कपिला, किञ्चिद्रक्ता वृत्तकाया पिङ्गाशुगा च षिङ्गला ।
यकृद्वर्ण्णा शीघ्रपायिनी दीर्घतीक्ष्णमुखी शङ्खमुखी । मूषिकाकृति
वर्ण्णानिष्टगन्धा च मूषिका । मुद्गवर्ण्णा पुण्डरीकतुल्यवक्त्रा
पुण्डरीकमुखी । स्निग्धा पद्मपत्रवर्ण्णाष्टादशाङ्गुलप्रमाणा
सावरिका सा च पश्वर्थे । इत्येता अविषा व्याख्याताः ॥
तासां यवनपाण्ड्यसह्यपीतनादीनि क्षेत्राणि । तेषु
महाशरीरा बलवत्यः शीषपायिन्यो महाशना निर्विषाश्च
विशेषेण भवन्ति ॥ तत्र सविषमत्स्यकीटदर्द्दुरमूत्रपुरीष
कोथजाताः कलुषेष्वम्भःसु च सविषाः ॥ पद्मोत्पलनलिन-
कुमुदसौगन्धिककुवलयपुण्डरीकशैवालकोथजाता विमलेष्व
पृष्ठ ०५७२
म्भःसु च निर्विषाः ॥ भवति चात्र ॥ क्षेत्रेषु विचरन्त्येताः
सलिलेषु सुगन्धिषु । न च सङ्कीर्ण्णचारिण्यो न च पङ्के-
शयाः सुखाः । तासां प्रग्रहणमार्द्र चर्म्मणान्यैर्व्वा प्रयो-
गैर्गृह्णीयात् । अथैता नवे महति घटे सरस्तड़ागो
दकपङ्कमावाप्य निदध्यात् । मक्ष्यार्थे चासामुपहरेच्छैवलं
वल्लूरमौदकांश्च कन्दांश्चूर्ण्णीकृत्य, शय्यार्थं तृणमौदकानि च
पत्राणि, द्व्यहात्त्र्यहाच्चान्यज्जलं भक्ष्यं च दद्यात् सप्त
रात्रात्सप्तराच्च घटमन्यं संक्रामयेत् । भवति चात्र ।
स्थूलमध्याः परिक्लिष्टाः पृथ्व्यो मन्दविचेष्टिताः । अग्रा-
हिण्योऽल्पपायिन्यः सविषाश्चन पूजिताः” । अधिकस-
सृग्विमोक्षणशब्दे ५६१ पृष्ठे दृश्यम् ।

अस्रफला(ली) स्त्री अस्रमिव लोहितं फलमस्याः । सल्लकी-

वृक्षे । भस्त्रादिपूर्ब्बकत्वाभावेन फलान्तस्य प्रामादिकः टाप्
जातित्वात् ङीबेव युक्तः ।

अस्रमातृका स्त्री अस्रस्य रुधिरस्य मातेव पोषिका संज्ञायां

कन् । अशितान्नादेः रसरूपे देहस्थे प्रथमे धातौ ।

अस्ररोधिनी स्त्री अस्रं क्षतजमाशु रुणद्धि रुध--णिनि ।

लज्जालुलतायाम् ।

अस्रवत् त्रि० न स्रवति स्रु--शतृ न० त० स्त्रियां ङीप् ।

१ स्रवद्भिन्ने अक्षरिते “अनागसमस्रवन्तीमारुहेमाम्” ऋ०
१०, ६३, १०, अस्रमस्त्यस्य मतुप् मस्य वः । ३ रुधिरयुक्ते
त्रि० स्त्रियां ङीप् अस्रवती । सौ अस्रवान् इति भेदः ।

अस्रविन्दुच्छदा स्त्री अस्रविन्दुः रुधिरविन्दुरिव छदो दलं

यस्याः । लक्षणानामके वृक्षे ।

अस्रार्जक पु० अस्रं रुधिरं सेवनेनार्ज्जयति अर्ज्ज--ण्वुल् ।

१ श्वेततुलसीवृक्षे । २ रुधिरोत्पादके रसे च यथाऽस्य
रक्तोत्पादकत्वं तथोक्तमसृक्करशब्दे ३ शोणित्पादकमात्रे त्रि० ।

अस्रि स्त्री अस--क्रि । अश्रशब्दार्थे कोणे अश्रिशब्दवत्

समासान्तभाक् । चतुरस्रशोभीत्यादि तच्छब्दे उदा० दृश्यम् ।

अस्रिध् त्रि० न स्रेधते स्रिध्--क्विप् न० त० । अच्योतने

“मित्रमदितिं दक्षमस्रिधम्” यडु० २५, १५ ।

अस्रु न० अस्यते क्षिप्यते अस--रु । चक्षुर्जले अस्य तालव्यान्त-

ताऽपि “श्रुत्वाश्रुत्वाश्रुधारां त्यजतीति” कीचकबधः ।

अस्रेमन् त्रि० स्रिव--मनिन् गुणबलोपौ । १ प्रशस्ये निरु० ।

२ क्षयहिते च “अमर्त्यासोऽस्रेमाणं तरणिम्” ऋ०
३, २९, १३ । “अस्रेमाणं क्षयिरहितम् भा० ।

अस्व त्रि० नास्ति स्वन्धनमस्य । १ निर्द्धने । स्वः स्वकीयः न०

त० । २ स्वकीयभिन्ने त्रि० । एतदर्थेऽस्य सर्व्वनामतया
अकच् । अस्वकः स्त्रियां तु नित्यमत इत्त्वम् अस्विका ।

अस्वच्छन्द त्रि० विरोधे न० त० । स्वच्छन्दभिन्ने पराधीने ।

अस्वजाति त्रि० न स्वस्येव जातिर्यस्य । भिन्नजातौ यथा

विप्रस्य क्षत्रियादि

अस्वतन्त्र त्रि० विरोधे न० त० । स्वाधीनभिन्ने पराधीने ।

“अस्वतन्त्रा स्त्री पुरुषप्रधाना इति” वसि० । तस्या अस्वा-
तन्त्र्यञ्च तत्रैव दर्शितम् “पिता रक्षति कौमारे भर्त्ता
रक्षति यौवने । पुत्रश्च स्थाविरे भावे न स्त्री स्वातन्त्र्य-
मर्हति” तथा पुत्रादीनामपि जन्माधीनं स्वत्वमिति स्थावर
धनादेर्यथेष्टविनियोगे पित्रादेरस्वातन्त्र्यमिति मिताक्षरायाम्
व्यवस्थापितं यथा “तस्मात्पैतृके पैतामहे च द्रव्ये जन्म-
नैव स्वत्वम् । तथापि पितुरावश्यकेषु धर्मकृत्येषु वाचनि-
केषु प्रसाददानकुटुम्बभरणापद्विमोक्षादिषु च स्थावरव्यति-
रिक्त द्रव्यविनियोगे स्वातन्त्र्यमिति स्थितम् । स्थावरे तु
स्वार्जिते पित्रादिप्राप्ते च पुत्रादिपारतन्त्र्यमेव । “स्थावरं
द्विपदञ्चैव यद्यपि स्वयमर्ज्जितम् । असंभूय सुतान्सर्वान् न
दानन्न च विक्रयः” । “ये जातायेऽप्यजाताश्च ये च गर्भेव्यव-
स्थिताः । वृत्तिञ्च तेऽभिकाङ्क्षन्ति न दानन्न च विक्रयः”
इत्यादि स्मरणात् । अस्यापवादः “एकोऽपि स्थावरे कुर्य्या-
द्दानाधमनविक्रयम् । आपत्काले कुटुम्बार्थे धर्म्मार्थे च
विशेषतः” इति । अस्यार्थः । अप्राप्तव्यवहारेषु दानानु-
ज्ञानादावसमर्थेषु वा तथाविधेष्वविभक्तेष्वपि सर्व्वकुटुम्बव्या-
पिन्यामापदि तत्पोषणे चावश्यकर्त्तव्ये स्थावरस्य दाना-
धमनविक्रयमेकोपि समर्थः कुर्य्यादिति” । यत्तु वचनम् ।
“अविभक्ता विभक्तावा सपिण्डाः स्थावरे समाः । एकोह्य-
नीशः सर्व्वत्र दानाधमनविक्रये” इति । तदप्यविभक्तेषु द्रव्यस्य
मध्यस्थत्वादेकस्यानीश्वरत्वात्सर्व्वाभ्यनुज्ञा अवश्यं कार्य्या
विभक्तेषु तु तदुत्तरकालं विभक्ताविभक्तसंशयव्युदासाय
व्यवहारसौकर्य्याय च सर्वाभ्यनुज्ञानं न पुनरेकस्यानीश्वरत्वेन
अतो विभक्तानामनुमतिव्यतिरेकेणापि व्यवहारः सिध्यत्ये-
वेति व्याख्येयम्” मिता० व्य० अ० ।

अस्वन्त न० असूनाम् अन्तो यस्मात् ५ ब० । १ चूल्ल्यां तस्याः

प्राणिबधहेतुतया मूनास्थानरूपत्वात् तथात्वम् । सुष्ठु न
अन्तो यस्य । २ अशुभोदर्के त्रि० । ६ त० । ३ मरणे पु० ।

अस्वप्न पु० नास्ति स्वप्नोनिद्रा यस्य । १ देवे । २ निद्रारहिते

त्रि० । देवानां स्वप्नावस्थाराहित्यमुक्तम् शत० ब्रा० । यथा “न
वै देवाः स्वपन्त्यनवरुद्धो वा एतस्यास्वप्नो भवति” दिवा-
स्वप्नाभावेऽपि रात्रौ स्वप्नवतोऽस्वप्नत्वमुक्तम् भा० शा० प०
२२१३ अ० । “दाननित्यः पवित्रश्च अस्वप्नश्च दिवाऽ-
स्वपन्” ।
पृष्ठ ०५७३

अस्वर पु० अप्रशस्तः स्वरोयत्र । १ मन्दस्वरयुक्ते “वचनं

दीनमस्वरम्” रामा० । २ स्वरवर्णरहिते व्यञ्जनवर्णमात्रे पु० ।
३ उदात्तादिस्वररहिते लौकिकोच्चारणे च ।

अस्वरूप त्रि० न स्वस्येव रूपमस्य । समानस्वभावशून्ये “न

त्वस्यरूप” इति मुग्धबो० ।

अस्वर्ग्य त्रि० स्वर्गाय हितं स्वर्ग + यत् न० त० । स्वर्गासाधने

“अस्वर्ग्यं लोकविद्विष्टं तस्मात्तत् परिवर्ज्जयेत्” मनुः
“अस्वर्ग्यं लोकविद्विष्टं धर्म्म्यमप्याचरेन्न तु” स्मृतिः ।

अस्वस्थ त्रि० न स्वस्मिन् स्वभावे तिष्ठति स्था--क ७ त० न०

त० । स्वस्थभिन्ने १ अप्रकृतिस्थे २ रोगादिना उपद्रुते च ।

अस्वाच्छन्द्य न० अभावे न० त० । १ स्वाच्छान्द्याभावे

पराधीनत्वे न० त० । २ तद्वति त्रि० ।

अस्वातन्त्र्य न० अभावे न० त० । स्वातन्त्र्याभावे पराधीनत्वे

न० त० । २ तद्वति त्रि० ।

अस्वादुकण्टक पु० अस्वादुरमधुरः कण्ठको यस्य । (गोखुरि) अतिकषाये गोक्षुरवृक्षे ।

अस्वाध्याय त्रि० न स्वाध्यायो वेदाध्ययनमस्य । १ वेदाध्ययन

हीने “अ(निः)स्वध्यायवषट्कारमिति” स्मृतिः । न स्वाध्यायो
यस्मिन् । २ अध्ययननिषिद्धकःले अष्टम्यादौ अनध्यायशब्दे
विवृतिः । अधीयते अधि + इङ्--कर्म्मणि घञ् अध्यायः स्वस्य
स्ववर्ण्णानुसारेण अध्यायः स्वाध्यायः न० त० । “स्वाध्यायो-
ऽध्येतव्य” इति श्रुत्युक्तस्वाध्यायभिन्ने ३ स्वेनापाठ्येशास्त्रादौ ।

अस्वामिक त्रि० न स्वामी यस्य । १ स्वामिरहिते “अटव्यः

पर्व्वताः पुण्या नद्यस्तीर्थानि यानि च । सर्व्वाण्यस्वाभि-
कान्याहुर्न हि तेषु परिग्रहः” इति स्मृतिः ।
२ निध्यादौ च । “प्रनष्टमस्वामिकमधिगम्य” गौत० ।

अस्वामिकृत त्रि० अस्वामिना कृतः । अस्वामिना कृते

विक्रयादौ “अस्वामिकृतत्वेन तुल्यत्वादिति” मिता०

अस्वामिविक्रय पु० अस्वामिना कृतो विक्रयः । १ अस्वामिना

कृते विक्रये २ तद्विषये व्यवहारभेदे च । यथाह नारदः
“निक्षिप्तं वा परद्रव्यं नष्टं लब्ध्वाऽपहृत्य वा । विक्रीयते-
ऽसमक्षं यत् सज्ञेयोऽस्वामिविक्रय” इति । तत्र किमि-
त्याह या० “स्वं लभेतान्यविक्रीतं क्रेतुर्दोषोऽप्रकाशिते ।
हीनाद्रहो हीनमूल्ये वेलाहीने च तस्करः” “स्वमात्म
सम्बन्धि द्रव्यं अन्यविक्रीतमस्वामिविक्रीतं यदि पश्यति तदा
लभेत गृहणीयात् । अस्वामिविक्रयस्य स्वत्वहेतुत्वा
भावात् । विक्रीतग्रहणन्दत्ताहितयोरुपलक्षणार्थम् अस्वा-
मिकृतत्वेन तुल्यत्वात् । अतएवोक्तम् । “अस्वामिविक्र-
यन्दत्तमाधिञ्च विनिवर्तयेदिति” क्रेतुः पुनरप्रकाशिते
गोपिते क्रये दोषो भवति । तथा हीनात्तद्द्रव्यागमो-
पायहीनात् । रहसि चैकान्ते सम्भाव्यद्रव्यादपि
हीनमूल्येनाल्पतरेण मूल्येन च क्रवे वेलाहीने वेलया
हीनोवेलाहीनः क्रयोरात्र्यादौ तत्र कृतः क्रेता तस्करो
भवति तस्करवत् दण्डभाग्भवतीत्यर्थः । यथोक्तम् ।
“द्रव्यमस्वामिविक्रीतम्प्राप्य स्वामी तदाप्नुयात् । प्रकाशक्रयतः
शुद्धिः क्रेतुः स्तेयं रहःक्रयादिति” स्वाम्यभियुक्तेन
क्रेत्रा किं कर्तव्यमित्यत आह । “नष्टापहृतमासाद्य हर्तारं
ग्राहयेन्नरम् । देशकालातिपत्तौ च गृहीत्वा स्वयमर्पंयेत्”
या० नष्टमपहृतं वान्यदीयं क्रयादिना प्राप्य हर्तारं विक्रे-
तारं ग्राहयेच्चौरोद्धरणकादिभिः आत्मविशुध्यर्थं राजदण्डा
प्राप्त्यर्थञ्च । “अथाविदितदेशान्तरङ्गतः कालान्तरे वा विपन्नं
स्तदा मूलसमाहरणाशक्तेर्विक्रेतारमदर्शयित्वैव स्वयमेव
तद्धनन्नाष्टिकस्य समर्पयेत् तावतैवासौ शुद्धो भवतीति”
श्रीकराचार्य्येण व्याख्यातम् । तदिदमनुपपन्नम् । विक्रेतु-
र्द्दर्शनाच्छुद्धिरित्यनेन पौनरुक्त्यप्रसङ्गात् । अतोऽन्यथा
व्याख्यायते । नष्टापहृतमिति नाष्टिकम्प्रति अयमुपदेशः ।
नष्टमपहृतं आत्मीयन्द्रव्यमासाद्य क्रेतृहस्तस्थं ज्ञात्वा तं
हर्त्तारं क्रेतारं स्थानपालादिभिर्ग्राहयेत् देशकालातिपत्तौ
देशकालातिक्रमे स्थानपालाद्यसन्निधाने तद्विज्ञापनकाला-
त्प्राक्ंपलायनाशङ्कायां स्वयमेव गृहीत्वा तेभ्यः समर्पयेत् ।
ग्राहिते हर्त्तरि किं कर्त्तव्यमित्यत आह । “विक्रेतुर्दर्शना-
च्छुद्धिः स्वामी द्रव्यं नृपोदमम् । क्रेता मूल्यमवाप्नोति
तस्माद्यस्तस्य विक्रयी” या० यद्यसौ गृहीतः क्रेता न मयेदमप-
हृतम् अन्यसकाशात् प्राप्तमिति वक्ति तदा तस्य क्रेतुर्विक्रेत
दर्शनमात्रेण शुद्धिर्भवति । न पुनरसावभियोज्यः ।
किन्तु तत्प्रदर्शितेन विक्रेत्रा सह नाष्टिकस्य विवादः ।
यथाह वृहस्पतिः । “मूले समाहृते क्रेता नाभियोज्यः
कथञ्चन । मूलेन सह वादस्तु नाष्टिकस्य विधीयत” इति ।
तस्मिंश्च विवादे यद्यस्वासिविक्रयनिश्चयो भवति
तदा तस्य नष्टापहृतस्य गवादिद्रव्यस्य यो विक्रयी
विक्रेता तस्य सकाशात्स्वामी नाष्टिकः स्वीयं द्रव्यमवा-
प्नोति नृपश्चापराधानुरूपन्दण्डं क्रेता च मूल्यमवा-
प्नोति । अथासौ देशान्तरङ्गतस्तदा योजनसंख्ययाऽऽन
यनार्थं कालोदेयः । “प्रकाशं वा क्रयं कुर्य्यान्मूलं वापि
समर्पयेत् । मूलानयनकालश्च देयस्तत्राध्वसंख्ययेति”
पृष्ठ ०५७४
स्मरणात् । अथाविज्ञातदेशतया मूलमाहर्तुन्न शक्नोति
तदा क्रयं शोधयित्वैव शुद्धो भवति । “असमाहार्यमूलस्तु
क्रयमेव विशोधयेदिति” मनुवचनात् । यदा पुनः साक्ष्या
दिभिर्दिव्येन वा क्रयं न शोधयति मूलञ्च न प्रदर्शयति
तदा स एव दण्डभाग्भवतीति । “अनुपस्थापयन्मूलं क्रयं-
वाप्यविशोधयन् । यथाभियोगन्धनिने धनन्दाप्योदमञ्च
स” इति स्मरणात् । स्वं लभेतान्यविक्रीतमित्युक्तम्
तल्लिप्सुना किं कर्त्तव्यमित्यत आह । “आगमेनोपभोगेन
नष्टम्भाव्यमतोऽन्यथा । पञ्चबन्धोदमस्तस्य राज्ञे तेना
विभाविते” आगमेन रिक्थक्रयादिना उपभोगेन च
मदीयमिदन्द्रव्यं तच्चैवं नष्टमपहृतं वेत्यपि भाव्यं साधनीयन्तत्स्का-
मिना । अतोऽन्यथा तेन खामिना अविभाविते पञ्चबन्धो
नष्टद्रव्यस्य पञ्चमांशोदमोनाष्टिकेन राज्ञे देयः । अत्रै-
वायं क्रमः । पूर्ब्बं स्वामी नष्टमात्मीयं साधयेत्ततः क्रेता-
चौर्य्य परिहारार्थं मूल्यलाभाय च विक्रेतारमानयेत् ।
अथानेतुन्न शक्नोति तदात्मदोषपरिहाराय क्रयं शोधयि-
त्वा द्रव्यं नाष्टिकस्य समर्पयेदिति । तस्करस्य प्रच्छाद-
कम्प्रत्याह । “हृतं प्रनष्टं योद्रव्यम्परहस्तादवाप्नुयात् ।
अनिवेद्य नृपे दण्ड्यः स तु षण्णवतिम्पणान्” या० । हृतम्प्र
नष्टं वा चौरादिहस्तस्थं द्रव्यम् अनेनमदीयन्द्रव्यमपहृतमिति
नृपस्यानिवेद्यैव दर्पादिना योगृह्णात्यसौ षडुत्तरान्न-
ववतिम्पणान्दण्डनीयस्तस्करप्रच्छादकत्वेन दुष्टत्वात् ।
राजपुरुषानीतं प्रत्याह । “शौल्किकैः स्थानपालैर्व्वा
नष्टापहृतमाहृतम् । अर्वाक् संवत्सरात्स्वामी हरेत
परतोनृपः” या० । यदा तु शुल्काधिकारिभिः
स्थानरक्षिभिर्वा नष्टमपहृतन्द्रव्यं राजपार्श्वं प्रत्यानीतन्तदा-
संवत्सरादर्वाक् प्राप्तश्चेन्नाष्टिकस्तद्द्रव्यमवाप्नुयात् । ऊर्द्ध्वं
पुनः संवत्सराद्राजा गृह्णीयात् । स्वपुरुषानीतञ्च द्रव्यं
जनसमूहेषूद्घोष्य यावद्वत्सरं राज्ञा रक्षणीयम् । यथाह
गोतमः । “प्रनष्टमस्वामिकमधिगम्य राज्ञे प्रब्रुयुर्विख्याप्य
संवत्सरं राज्ञा रक्ष्यमिति” यत्पुनर्म्मनुनावध्यन्तरमु-
क्तम् । प्रनष्टस्वामिकं द्रव्यं राजा त्र्यब्दं निधापयेत् ।
अर्व्वाक त्र्यब्दाद्ध चेत्स्वामी परतोनृपतिर्हरेत्” इति ।
तच्छ्रुतवृत्तसम्पन्नब्राह्मणविषयम् । रक्षणनिमित्तं षड़्भा-
गादिग्रहणञ्च तेनैवोक्तम् । “आददीताथ षड्भाग
म्प्रनष्टाघिगतान्नृपः । दशमं द्वादशं वापि सतान्धर्म्म
मनुस्मरन्निति” । तृतीयद्वितीयप्रथमवत्सरेषु यथाक्रमं
षष्ठादयो भागावेदितव्याः । प्रपञ्चितञ्च तत्पुरस्तात् ।
सनूक्तषड़्भागादिग्रहणस्य द्रव्यविशेषे अपवादमाह ।
“पणानेकशफे दद्याच्चतुरःपञ्च मानुषे । महिषोष्ट्रगवां
द्वौ द्वौ, पादम्पादमजाविके” या० । एकशफे अश्वादौ प्राष्टा-
धिगते तत्स्वामी राज्ञे रक्षणनिमित्तञ्चतुरःपणान् दद्यात् ।
मानुषे मनुष्यजातीये द्रव्ये पञ्च पणान् महिषोष्ट्रगवां
रक्षणनिमित्तम्प्रत्येकं द्वौ द्वौपणौ, अजाविके पुनः प्रत्येकम्पा-
दम्प्रादं दद्यादिति सर्वत्रानुषज्यते । अजाविकमिति समास-
निर्देशेऽपि पादम्पादमिति वीप्सावलात्प्रत्येकं सम्बन्धोगम्यते”
मिता० ॥ प्रायश्चित्त तत्त्वे तु चौराल्लाभविषये विशेषोदर्शितो
यथा “प्रकाशक्रये तु स्वामिनोग्रहणेनारदवृहस्पती ।
वणिग्वीथीपरिगतं विज्ञातं राजपुरुषैः । अविज्ञाताश्रयात्
क्रीतं विक्रेता यदि वा मृतः । स्वामी दत्त्वार्द्धमूल्यन्तु
प्रगृह्णीत स्वकन्धनम् । अर्द्धं द्वयोरपहृतं तत्र स्यात् व्यव-
हारतः । अविज्ञातक्रये दोषस्तथा चापरिपालने ।
एतत्द्वयं समाख्यातं द्रव्यहानिकरं परम्” इति ।

अस्वाम्य न० अभावे न० त० । १ स्वाम्याभावे स्वत्वाभाये न०

ब० । २ स्वत्वशून्ये त्रि० । अस्याम्यं हि भवेत्तत्र” स्मृतिः

अस्वावेश त्रि० स्वस्मिन् स्वस्थाने स्यभावे वा आविशति आ +

विश--अच् ७ त० । स्वस्थाने स्वभावे वा अस्थिते
“जरदष्ट्यस्वावेशम्” ऋ० ७, ३८, ७ ।

अस्वास्थ्य न० अभावे न० त० । १ स्वास्थ्याभावे “य इत्थ-

मस्वास्थ्यमहर्दिवं दिवः” माघः । २ रोगादिद्यभिभवे च
न० ब० । ३ तद्वति त्रि० ।

अस्वीकार पु० अभावे न० त० । १ स्वीकाराभावे न० ब० ।

२ तच्छून्ये त्रि० । स्वीकारोऽङ्गीकारः प्रतिग्रहश्च ।

अस्वीकृत त्रि० न स्वीकृतः १ गृहीतभिन्ने २ अङ्गोकृतभिन्ने च ।

अस्वैरिन् पु० स्वैरी स्वाधीनः न० त० । १ परतन्त्रे । स्त्रियां ङीप्

अह गतौ आत्म० भ्वा० सक० इदित् सेट् । अंहते आंहिष्ट ।

आनंहे “आनंहिरेऽद्रिं प्रति चित्रकूटम्” “आंहि-
षातां रघुव्याघ्रौ शरभङ्गाश्रमं ततः” भट्टिः । रि अंह्रिः पादः
असुन् अंहः पापम् । इन् बा० नलुक् । अहिःसर्पः
केदारश्च । “एवा त इन्द्रोचथमहेम” ऋ० २, १९, ७, वेदे तु
बा० नलुक् । लटः पञ्चानां लिटः पञ्चकादेशे ब्रुवश्चाहादेशः
आह आहतुः आहुः आत्थ आहथुः “इत्याह
भगवान् मनुः” इत्यादौ तु चादिगणपठितं विभक्ति
प्रतिरूपमाहेति ।

अह दीप्तौ चुरा० इदित् उभ० अक० सेट् । अंहयति ते आञ्जिहत् त ।

अह व्याप्तौ स्वा० प० सक० सेट् । अह्नोति । आहीत् आह ।

पृष्ठ ०५७५

अह अव्य० अहि--घञ् पृ० नलोपः । १ प्रशंसायां २ क्षेपे,

३ वियोगे, ४ निग्रहे, ५ आचारातिशये, ६ अर्च्चने च ।
“अत्यह तदिन्द्रोऽमुच्यत देवो हि सः” “इदमहेदं सत्वं
कृशपश्वल्पाज्यमथायम्” शत० व्रा० ।

अहंयु त्रि० अहमहङ्कारोऽस्त्यस्य युस् । १ गर्व्वयुक्ते २ अभिमा-

निनि “अहंयुनाथ क्षितिपः शुभंयुः” भट्टिः ।

अहंश्रेयस् त्रि० अहमित्यव्ययम् अहमेव श्रेयान् यत्र ।

अहंश्रेयानितिनिर्ण्णयप्रयोजने । “अथ हप्राणा अहंश्रेयसि
व्यूदिरेऽहंश्रेयानहश्रेयानस्मीति” छा० उ० “अथ ह
प्राणाः एवं यथोक्तगुणाः सन्तोऽहंश्रेयान् अहंश्रेयान् अहं
श्रेयानस्मोति एतस्मिन् प्रयोजने व्यूदिरे नाना विरुद्ध्वं वा
ऊदिरे उक्तवन्तः” भा० । “ते हेमे प्राणा अहंश्रेयसे
विवदमाना ब्रह्म जग्मुः” वृ० उ० । “ते इमे प्राणा
वागादयोऽहंश्रेयसे अहंश्रेयानित्येतस्मै प्रयोजनाय
विवदमानाः विरुद्धं वदमाना ब्रह्म जग्मुः” भा० ।

अहः(हस्क)कर पु० अहः करोति कृ--ट वा सत्वम् ।

सूर्य्ये २ अर्कवृक्षे च ।

अहः(हर्प)पति पु० अह्नः पतिः उदयेन प्रवर्त्तकत्वात् । वा रो रः । १ सूर्य्ये २ अर्कवृक्षे ।

अहः(हश्शे)शेष पु० अह्नः शेषः वा सत्वम् । १ दिवावसाने

अहःशेषो यत्र ब० । २ अशौचाद्यन्तिमदिने ।

अहङ्कार पु० अहमिति क्रियतेऽनेन कृ--घञ् । १ अहमित्यभि-

माने आत्मनि उत्कर्षावलम्बने २ गर्व्वे ३ तदाश्रये अन्तः-
करणभेदे “मनोबुद्धिरहङ्कारश्चित्तं करणमान्तरम् ।
संशयोनिश्चयो गर्व्वःस्मरणं विषया इमे” वेदा० परि० ।
सांख्यमतसिद्धे ४ अभिमानकारणे महत्तत्त्वजन्ये पञ्चत-
न्मात्रादीनां कारणे तत्त्वभेदे च यथोक्तं सां० का० । “प्रकृते-
र्महांस्ततोऽहङ्कारस्तस्माद्गणश्च षोड़शकः । तस्मादपि
षोड़शकात् पञ्चभ्यः पञ्च भूतानि” इत्युद्दिश्य तल्लक्षणकार्य्ये
तत्रैवोक्ते यथा “अभिमानोऽहङ्कारस्तस्मात् द्विविधः प्रवर्त्तते
सर्गः । एकादशकश्च गणस्तन्मात्रपञ्चकं चैव” । व्याख्यातं
च कौ० “अभिमानोऽहङ्कारः यत् खल्वालोचितं, मतञ्च
तत्राहमधिकृतः, शक्तः खल्वहमत्र, मदर्था एवामी विषयाः,
मत्तोनान्योऽत्राधिकृतः कश्चिदस्त्यतोऽहमस्मीति योऽभिमानः
सोऽसाधारणव्यापारत्वादहङ्कारः तमुपजीव्य हि बुद्धि-
रध्यवस्यति “कर्त्तव्यमेतन्मयेति” । तस्य कार्य्यभेदमाह
तस्मात् द्विविधः प्रवर्त्तते सर्गः । प्रकारद्वयमाह
एकादशकश्च गणः इन्द्रियाह्वयः तन्मात्रपञ्चकञ्चैव द्विविधएव
सर्गोऽहङ्कारात् न त्वन्यैत्येवकारेणावधारयति” । “सत्त्व
रजस्तमसां साम्यावस्था प्रकृतिः प्रकृतेर्महान् महतोऽह-
ङ्कारोऽहङ्कारात् पञ्च तन्मात्राण्युमयमिन्द्रियम्” सा० सू० ।
अहङ्कारसत्त्वे प्रमाणमपि दर्शितम् “बाह्याभ्यन्तराभ्यां
तैश्चाहङ्कारस्य” सा० सू० “बाह्याभ्यन्तराभ्यामिन्द्रियाभ्यां
तैः पञ्चतन्मात्रैश्च कार्य्यैस्तत्कारणतयाहङ्कारस्यानुमानेन
बोधः इत्यर्थः । अहङ्कारश्चाभिमानवृत्तिकमन्तःकरणद्रव्यं
नत्वभिमानमात्रं द्रव्यस्यैव लोके द्रव्योपादानत्वदर्श-
नात् । सुषुप्त्यादावहङ्कारवृत्तिनाशेन भूतनाशप्रसङ्गा-
द्वासनाश्रयत्वेनैवाहङ्काराख्यद्रव्यसिद्धेश्चेति । अत्रेत्थमनु-
मानम् । तन्मात्रेन्द्रियाणि अभिमानवद्द्रव्योपादानकानि
अभिमानकार्यद्रव्यत्वात् । यन्नैवं तन्नैवम् । यथा पुरुषादि-
रिति । नन्वभिमानवद्द्रव्य मेवासिद्धमिति चेदहं गौर
इत्यादिवृत्त्युपादानतया चक्षुरादिवत् तत्सिद्धेः । अनेन
चानुमानेन मन आद्यतिरेकमात्रस्य तत्कारणतया प्रसा-
ध्यत्वात् । अत्र चायमनुकूलस्तर्कः । “बहु स्यां प्रजाये
य” इत्यादि श्रुतिस्मृतिभ्यस्तावद्भूतादिसृष्टेरभिमानपूर्ब्बक-
त्वाद्बुद्धिवृत्तिपूर्ब्बकसृष्टौ कारणतयाभिमानः सिद्धः । तत्र-
चैकार्थसमवायप्रत्यासत्त्यैवाभिमानस्य सृष्टिहेतुत्वं लाघवात्
कल्प्यत इति । नन्वेवं कुलालाहङ्कारस्यापि घटोपादा-
नत्वापत्त्या कुलालमुक्तौ तदन्तःकरणनाशे तन्निर्मितघट-
नाशः स्यात् न चैतद्युक्तम् पुरुषान्तरेण स एवायं
घट इति प्रत्यभिज्ञायमानत्वादिति चेन्नैवम् मुक्त-
पुरुषभोगहेतुपरिणामस्यैव तदन्तःकरणमोक्षोत्तरमुच्छेदात् ।
न तु परिणामसामान्यस्यान्तःकरणस्वरूपस्य वोच्छेदः
“कृतार्थं प्रति नष्टमप्यनष्टं तदन्यसाधारणत्वादिति”
योगसूत्रे मुक्तपुरुषोपकरणस्याप्यन्यपुरुषार्थसाधकत्वसिद्धेरिति ।
अथ वा घटादिष्वपि हिरण्यगर्भाहङ्कार एव कारणमस्तु
न कुलालाद्यहङ्कारस्तथापि सामान्यव्याप्तौ न व्यभिचारः
समष्टिबुद्ध्याद्युपादानिकैव हि सृष्टिः पुराणादिषु सांख्य-
योगयोश्च प्रतिपाद्यते न तु तदंशव्यष्टिबुद्ध्याद्युपादानिका
यथा महापृथिव्या एव स्थावरजङ्गमाद्युपादानत्वं न तु
पृथिव्यंशलोष्टादेरिति” सां० प्रव० भा० । मनुनाप्युक्तम्
“मनसश्चाप्यहङ्कारमभिमन्तारमीश्वरम्” । “अहङ्कारश्च वीररसे
व्यभिचारिभावः । अस्याधिष्ठाता” शङ्करः । निरहङ्कार-
रूपत्वाद्दयावीरादिरेष नः” सा० द० “नाहङ्कारात्
परोरिपुः” । “अहङ्कारविमूढ़ात्मा कर्त्ताहमिति मन्यते” गीता ।

अहङ्कारिन् त्रि० अहमभिमानं करोति कृ--णिनि ।

१ अभिमानवति २ गर्वयुक्ते ।
पृष्ठ ०५७६

अहङ्कृत त्रि० अहमिति कृतं येन । १ सगर्चे २ अभिमानवति

च । “जातिरूपवयोवृत्तिविद्यादिभिरहङ्कृतः” याज्ञ० ।
“यस्य नाहङ्कृतोभावो बुद्धिर्यस्य न लिप्यते” गीता ।

अहङ्कृति स्त्री अहम् + कृ--क्तिन् । अहङ्कारशब्दार्थे ।

अहत न० हन--क्त न० त० । “ईषद्धौतं नवं श्वेतं सदशं

यन्न धारितम् । अहतं तद्विजानीयात् पावनं सर्वकर्म्मसु”
१ इत्युक्तलक्षणे “निर्ण्णेजकाक्षालितं यदहतं तत् प्रचक्षते
२ इत्युक्तलक्षणे च वस्त्रे “अहतैश्चैव वासोभिर्माल्यैरुच्चा-
वचैरपि” भा० स० प० ४ अ० । अहतवासा इत्यादौ
करकङ्कणादिवत् तत्काले अहतत्वादिबोधनाय । ३ भोगे-
नानाशिते “पञ्चद्रौणिक एवैकः सुवर्ण्णस्याहतस्य
वै” भा० स० प० ४९ अ० ४ हतभिन्ने च त्रि० ।

अहति स्त्री अभावे न० त० । १ हननाभावे अविनाशे

“अजीवातवेऽहतये पवस्व” ऋ० ९, ९६४ न० त० । २
हननशून्ये विनाशशून्ये त्रि० ।

अहन् न० न जहाति न त्यजति सर्वथा परिवर्त्तनम् ।

न + हा--कनिन् । १ दिवमे । “अहनि च तमस्विन्यां सार्द्ध-
प्रहरयामान्तः” स्मृतिः । “अन्योन्यसंसक्तमहस्त्रियामम्”
रघुः । अहःशब्दश्च दिवसएव प्रसिद्धः “अहो अहोभि-
र्महिमा हिमागमे” नैष० क्वचित्तु दिनरात्रिपरः यथा
“मासैर्द्वादशभिर्वर्षं दिव्यं तदहरुच्यते” सू० सि० ।
“विप्रः शुध्येत् दशाहेन द्वादशाहेन भूमिः । वैश्यः पञ्चदशा-
हेन” मनुः । “अघाहेषु निवृत्तेषु” “द्वादशाहः प्रशस्यते”
स्मृतिः तत्परिमाणमुक्तं कालमाध० विष्णुध० । “लघ्वक्षरस-
मामात्रा निमेषः परिकीर्त्तितः । ततः सूक्ष्मतरः कालोनो-
पलभ्योभृगूत्तम! नोपलभ्यं यथा द्रव्यं सुसूक्ष्मं
परमाणुतः । द्वौ निमेषौ त्रुटिर्ज्ञेयः प्राणः पञ्चत्रुटिः स्मृतः ।
विनाडिका तु षट्प्राणा तत्षष्टिर्नाड़िका स्मृता ।
अहोरात्नं तु तत्षष्ट्या नित्यमेतत् प्रकीर्त्तितम् । त्रिंशन्-
मुहूर्त्ताश्च तथा अहोरात्रे प्रकीर्त्तिताः । तत्र पञ्चदश-
प्रोक्ता राम । रात्रौ दिवा तथा । उत्तरां तु यदा काष्ठां
क्रमादाक्रमते रविः । तदा क्रमाद्भवेवृद्धिर्दिवसस्य महाभुज! ।
तदाश्रितमुहूर्त्तानां तदा वृद्धिः प्रकीर्त्तिता ।
दिनवृद्धिर्यदा राम! दोषाहानिस्तदा भवेत् । तदाश्रितमुहू-
र्त्तानां हानिर्ज्ञेया तथा तथा । यदा तु दक्षिणां काष्ठां
क्रमादाक्रमते रविः । दिवसस्य तदा हानिर्ज्ञातव्या
तावदेव तु । क्षीयन्ते तस्य हानौ च तन्मुहूर्त्तास्तथैव च ।
रात्र्याश्रिताश्च वर्द्धन्ते रात्रयश्च क्रमेण तु । यदा मेषं
सहस्रांशुस्तुलाञ्चैव प्रपद्यते । समरात्रिन्दिवः कालो
मुहूर्त्तश्च तदा समः” । मुहूर्त्तानां स्रौतस्मार्त्त ज्यौतिषाणि
नामानि त्रिविधानि तत्र श्रौतानि कालमा० द्रष्टव्यानि ।
ज्यौतिषाणि आह कश्यपः “गौरीवल्लभसर्पमित्रपितरो
वस्वम्बुविश्वाह्वया ब्रह्माम्भोरुहसम्भवेन्द्रहुतग्देवेशनक्त-
ञ्चराः । तोयेशार्य्यमयोनयोदश तथा पञ्चाप्यमी वासरे” ।
रुद्राजाहिर्बुध्नपूषाश्विनाः स्युः कीनाशोऽग्निर्द्धातृचन्द्रादि-
तीज्यः । विष्णुर्भानुस्त्वष्टृघात्रा मुहूर्त्ता रात्रौ क्रूरास्त्वन्तका-
जाग्निरुद्राः” । स्मार्त्तनामानि तु “रौद्रश्चैत्रश्च
मैत्रश्च तथा सारस्वतः स्मृतः । सावित्रो वैश्व-
देवश्च गान्धर्वः कुतपस्ततः । रोहिणस्तिलकश्चैव
विभवोनिरृतिस्तथा । शम्बरोविजयश्चैब दिवा पञ्चदश-
स्मृताः । शङ्करश्चाजपादश्च तथाहिर्बुध्नमैत्रकौ अश्विनौ
याम्य आग्नेयो वैधात्रश्चान्द्र एव च । आदितेयोऽथ जैवश्च
वैष्णवः सौर एव च । ब्राह्मोनाभस्वतश्चैव मुहूर्त्ताः क्रम-
शोनिशि” । एतदनुसारेणैव “ब्राह्मे मुहूर्त्ते किल तस्य
देवीति” रघुः “मैत्रे मुहूर्त्ते शशलाञ्छनेन” कुमा०
“आरभ्य कुतपे श्राद्धं कुर्य्यादारोहिणं बुधः” इत्यादि
प्रयोगः । अह्नश्च द्विधा त्रिधा चतुर्द्धा पञ्चधा पञ्चदशधेति
पञ्चधा विभागकल्पनापि दृश्यते । तत्र द्विधा विभागाभि-
प्रायेण । “यथा चैवापरः पक्षः पूर्ब्ध पक्षात् विशिष्यते ।
यथा श्राद्धस्य पूर्ब्बाह्णादपराह्णो विशिष्यते” मनुः त्रिधा
विभागे “ऊर्द्ध्वं सूर्य्योदयात् प्रोक्तं मुहूर्त्तानां तु पञ्च-
कम् । पूर्व्वाह्णः पञ्चकं प्रोक्तं मध्याह्नस्तु ततः परम् ।
अपराह्णस्ततः प्रोक्तं मुहूर्त्तानां तु पञ्चकम्” । “तस्मा-
दह्नः पूर्ब्बाह्णे देवा अशनमभ्यवहरन्ति मध्यदिने मनुष्याः
अपराह्णे पितरः” गौत० “पूर्ब्बाह्णोवै देवानां मध्यन्दिनं
मनुष्पाणामपराह्णः पितॄणाम्” श्रुतिः चतुर्द्धा विभागे
गोभिलः । “पूर्ब्बाह्णः प्रहरं यावत् मध्याह्नःप्रहरस्ततः ।
आतृतीयादपराह्णः सायाह्नश्च ततः परम्” । पञ्चधा
विभागमाहव्यासः । “मुहूर्त्तत्रितयं प्रातस्तावदेव तु सङ्गवः ।
मध्याह्नस्त्रिमुहूर्त्तः स्यादपराह्णोऽपि तादृशः । साया-
स्त्रस्त्रिसुहूर्त्तः स्यात् स्वस्वकार्य्ये पुरस्कृतः” एवमेव दक्षोक्त-
विभागः तच्चाहः नवविधम् “ब्राह्मं दिव्यं तथा पैत्रं प्राजा-
पत्यं गुरोस्तथा । सौरञ्च सावनञ्चान्द्रमार्क्षं मानानि वै
नव” सू० सि० । तत्र ब्राह्मम् “इत्थं युगसहस्रेण
भूतसंहारकारकः । कल्पो ब्राह्ममहःप्रोक्तं शर्वरी तस्य
तावतीति” । दिव्यमुक्तं तत्रैव “मासैर्द्वादशभिर्वर्षंदिव्य
पृष्ठ ०५७७
तदहरुच्यते” । सुरासुराणामन्योन्यमहोरात्रं विपर्य्य-
यात् यत् प्रोक्तं तद्भवेद्दिव्यं भानोर्भगणपूरणात् । पित्र्यमाह
“त्रिंशत्तिथ्यात्मको मासश्चान्द्रः पित्र्यमहः स्मृतम् निशा च
मासपक्षान्तौ तयोर्मध्ये विभागतः” । “भचक्रभ्रमणं नित्यं
नाक्षत्रं दिनमुच्यते । मन्यन्तरव्यवस्था च प्रजापत्यमुदा-
हृतम् इति संक्रान्त्यासौरमुच्यते इति च सू० सि०
वाहस्पत्यमब्दशब्दे उक्तम् तेषु नवसु मध्ये चतुर्भिरेव
व्यवहारः “चतुर्भिर्व्यवहारोऽत्र सौरचान्द्रार्क्षसावनैः”
वार्हस्पत्येन षष्ठ्यब्दं ज्ञेयं नान्यैस्तु नित्यशः । सू०
सि० तत्र सौरनाक्षत्रादिप्रमाणमुक्तम् । “नाड़ीषष्ठ्या तु
नाक्षत्रमहोरात्रं प्रकीर्त्तितम् । तन्त्रिंशताभवेन्मासः
सावनोऽर्कोदयैस्तथाइति चान्द्रमाह “अर्काद्विनिः-
सृतः प्राचीं यद्यात्यहरहः शशी तच्चान्द्रमसमंशैस्तु
ज्ञेया द्वादशभिस्तिथिः” एतेषां कार्य्यभेदे ग्रहणमाह
स एव “तिथिः करणमुद्वाहः क्षौरं सर्व्वाः क्रियास्तथा ।
व्रतोपवासयात्राणां क्रिया चान्द्रेण गृह्यते । उदयादुदयः
भानोः सावनं परिकीर्त्तितम् । सावनानि स्युरेतेन यज्ञका-
लावधिस्तु तैः । सूतकादिपरिच्छेदो दिनमासाब्दपास्तथा ।
मध्यमग्रहभुक्तिश्च सावनेनैव गृह्यते । अस्य
तत्पुरुषान्ते टच् समा० पुंस्त्वञ्च एकाहः दीर्घाहः
पुण्याहं तु न० । अव्ययादिपूर्ब्बपदत्वे एकदेशिसमासे
द्विगौ च टच् अह्नादेशश्च अत्यह्नः मध्याह्नः पूर्ब्धाह्ण” पु० ।
उत्तरपदद्विगावेव अह्नादेशः न समाहारद्विगौ द्व्यहः
त्र्यहः । उत्तरपदे तु द्व्यह्नप्रिय एवं तड्वितार्थे नाह्नादेशः
द्व्यहीनः इत्यादि । कालत्वात् भवादौ ठञ् अह्नादेशः
आह्निकः ख अहीनः दिनभवे त्रि० । २ विष्णौ तस्य
सर्व्वदा प्रकाशमानत्वात् तथात्वम्” “अहः संवत्सरो
मासः” विष्णुस० । अर्च्चिरादिमार्गे आतिवाहिके
३ अहरभिमानि देवे--च । “ते अर्च्चिषमभिसम्पद्यन्ते
अर्च्चषोऽहः अह्न आपूर्य्यमाणपक्षम्” छा० उ० ।
एतदधिकृत्य “अतिवाहिकास्तल्लिङ्गात्” शा० सूत्रे आतिवाहिक-
त्वमेषां निर्ण्णीतम् ४ रात्रौ च । “यामश्चत्वारश्चारोर्मत्याना
महनी उभे” । “अयने अहनी प्राहुरिति च” भा० ३ स्क०

अहना स्त्री अहर्मुस्वत्वेनास्त्यस्याः अच् नि० टिलोपाद्य-

भावः । ऊषायाम् निरु० । “गृहंगृहमहना यात्यच्छा”
ऋ० १, १२३, ४ “अहना ऊषेति” भाष्यम् ।

अहन्ता स्त्री अहमित्यव्ययमस्मदर्थे तस्य भावः तल् । अस्मदर्थ-

भावे २ समतायाञ्च ।

अहम् अव्य० अह--अमु । अहङ्कारार्थे, अस्मदर्थे “अहमर्थो-

दयोयोऽयं चित्तात्मा वेदनात्मकः । एतच्चित्तद्रुमस्यास्य
वीजं विद्धि महामते” वासि० । अहंप्रत्ययः । अहङ्गारः

अहमहमिका स्त्री अहमहंशब्दोऽस्त्यत्र वीप्सायां द्वित्वम् ठन्

न टिलोपः । १ परस्पराहङ्कारे २ अहमेवाग्रेयास्या-
भोति रूपायामन्योन्योक्तौ च ।

अहम्पूर्व्विका स्त्री अहं पूर्ब्बोऽहं पूर्ब्ब इत्यभिधानं यत्र ।

योधादीनां औत्सुक्यात् अहमेव पूर्व्वं यास्यामीत्यध्यवसाये-
नोक्तौ “जवादहंपूर्ब्बिकया यियासुभिः” किरा० ।

अहम्प्रत्यय पु० अहमित्याकारकः प्रत्ययः । अहमस्मि ममेत्या-

द्याकारे बोधे । “अहम्प्रत्ययलिङ्गानि च वैदिकानि”
वृ० उ० भा० । “नचायमेकान्तेनाविषयः अहम्प्रत्यय
विषयत्वात्” शा० भा० । अहंशब्दालम्बनश्चात्मा स च
देह एवेति चार्वाकाः । क्षणिकविज्ञानमेवेति बौद्धाः
देहादिव्यतिरिक्त इति आस्तिकदर्शनानुसारिणः ।

अहम्भद्र त्रि० अहमेव भद्र इति निर्ण्णयोवत्र ।

अहंश्रेयः शब्दार्थे “अथातोमनसश्च वाचश्च अहंभद्र उदितम्
मनश्च ह वै वाक्चाहं भद्र ऊदाते । तद्ध मन उवाच
अहमेव त्वच्छेयोऽस्मि न मया त्वं किञ्चनानभिगतं
वदसि यन्ममत्वं कृतानुविन् वर्त्त्यास्यहमेव त्वच्छेयोऽस्मीति
अथ ह वागुवाच अहमेव त्वच्छेयस्यस्मि यद्वै त्वं
वेत्वाहं तद्विज्ञापयाम्यहं संज्ञापयामीति” शत० ब्रा० ।

अहम्मति स्त्री अहमित्याकारा मतिः ज्ञानं मन + क्तिन् ।

१ अविद्यायाम् अन्यस्मिन्नन्यधर्म्मावभासके २ अज्ञाने ।

अहर त्रि० न हरति अच् न० त० । १ हारकभिन्ने

हरोहारकः न० ब० । २ हारकशून्ये गणितोक्ते शुद्धे ३ राशौ
४ असुरभेदे पु० असुरशब्दे उदा० ।

अहरादि पु० अह्नः आदि । प्रभाते “शशधरमहरादौ

रागवानुष्णरश्मिः” माघः । वार्त्तिं कोक्ते पत्यादिशब्द
परे रोःस्थाने रेफादेशनिमित्ते अहन् गिर्--धुर् इति
शब्दगणे ।

अहर्गण पु० अह्नां गणः । दिनवृन्दे दिनसमूहे । ग्रहाणां

मध्यमावादिज्ञानसाधनानि सृष्ट्यवधि श्वेतवराहकल्पावधि
कल्यारम्भावधि वा इष्टदिनपर्य्यन्तं यानि दिनानि गतानि
तेषां समूहे । तत्र सृष्ट्यद्यर्हगणस्तावत् “इत्यं युगसहस्रेण
भूतसंहारकारकः । कल्पोब्राह्ममहःप्रोक्तं शर्वरी तस्य
तावती । परमायुः शतं तस्य तयाहोरात्रसंख्यया ।
आयुषोऽर्द्धमितं तस्य शेषे कल्पोऽयमादिमः । कल्पादस्माच्च
पृष्ठ ०५७८
मनवः षट् व्यतीताः ससन्धयः । वैवस्वतस्य च मनोर्यु-
तानां त्रिघनो गतः । अष्टाविंशाद्युगादस्माद्यातमेतत्
कृतं युगम् । अतः कालम् प्रसंख्याय संख्यामेकत्र
पिण्डयेत्” । सू० सि० तदानयनप्रकार उक्तः । तत्र
सृष्ट्यादिकस्य अहर्गणस्यानयनमित्थम् । ब्राह्मदिन-
मानं मनुष्यपरिमाणेन ४३२००००००० वर्षाः रात्रि-
मानञ्च तथा, इत्यहोरात्रमानम् ४८६४०००००००
वर्षाः ब्राह्माहोरात्रमानम् ३६० गुणितं तस्य वर्षमानम्
१७५१०४०००००००० एवं वर्षशतं ब्रह्मणः परमायुः
१७५०४०००००००००० तस्यायुषोऽर्द्धम् ८७५५
२०००००००००० वर्षागताः । मन्वन्तरसंख्या ३० ६७२०
००० षड्भिर्गुणिताः १८४०३२०००० एते वर्षाः षण्णां
मनूनां गताः । तथा सन्धयश्च सप्त कृतयुगप्रमाणा गतास्तत्र
युगसन्धिमानम् १७२८००० कृतप्रमाणवर्षाः सप्तभि-
र्मुणिताः १२०९६००० वर्षाः । सप्तमस्य वैवस्वतमनोः
२७ युगानि गतानि तेषां समष्टिः ११६६४०००० वर्षाः
सत्यादीनां त्रयाणां गतानां युगानां मानम् ३८८८००० ।
एवमादिसृष्टितः वर्त्तमानयुगान्तर्गतद्वापरयुगपर्य्यन्तम् ।
८७५५२१९७२९४४००० वर्षाः गताः
परार्द्धतः १९७२९४४००० वर्षा गताः । वर्त्तमान
महायुगात् ३८८८००० वर्षागताः । एवमब्दपिण्डं कृत्वा
तत्र कलियुगगताब्दापिण्डं यीज्यम् । एतानि च सौररू-
पाणीति ३६० गुणितानि सौरदिनवृन्दानि गतानि भवन्ति ।
“मध्यमग्रहभुक्तिश्च सावनेन इत्युक्तेः सावनैरेव ग्रहमध्यभा-
वज्ञानमतस्तेभ्यः सि० शि० चान्द्रसावनानयनं दर्शितम् ।
यथा “कथितकल्पगतोऽर्कसमागणो रविगुणो गतमाससम-
न्वितः । खदहनै ३० र्गुणितस्तिथिसंयुतः पृथगतोऽधिकमास
१५९३३००००० समाहतात् । रविदिनानि १५५५२-
०००००००० गताधिकमासकैः कृतदिनैः सहितो
द्युगणो विधोः । पृथगतः पठितावम् २५०८२५५००००
संगुणाद्विधुदिना १६०२९९९०००००० प्तगतावमव-
र्जितः । भवति भास्करवासरपूर्व्वको दिनगणो
रविमध्यमसावनः । अधिकमासदिनक्षयशेषतोद्युघटिका-
दिकमत्र न गृह्यते” । “अत्र वासना । कल्पगताब्दा
द्वादशगुणिता रविमासा जातास्ते चैत्रादिगतचान्द्रतुल्यैः
सौरैरेव युतास्त्रिंशद्गुणा इष्टमासप्रतिपदादिगततिथि-
तुल्यैः सौरैरेव दिनैर्युताः । एवं ते सौरा जातास्तेभ्यः
पृथक्स्थितेभ्योऽधिमासानयनं त्रैराशिकेन । यदि
कल्पसौरदिनैः कल्पाधिमासा लभ्यन्ते तदैभिः किमिति ।
फलं गताधिमासाः । तैर्दिनीकृतैः पृथक् स्थितः
सौराहर्गणैः सहितश्चान्द्रो भवति । यतः सौरचान्द्रा-
न्तरमधिमासदिनान्येव । अथ चान्द्राद् द्युगणादव-
मानयनं त्रैराशिकेन । यदि कल्पचान्द्राहैः कल्पावमानि
लभ्यन्ते तदैभिः किमिति । फलं गतावमानि । तैरू-
नश्चान्द्रोऽहर्गणोऽतः कर्त्तव्यः । यतः सावनचान्द्रान्तरे-
ऽवमान्येव । एवं कृते सति रवेर्मध्यमः सावनाहर्गणो
भवति न स्फुटः । मध्यमस्फुटाहर्गणयोर्भेदो गोले
कथितः । स चाहर्गणोऽर्कादिः । यतः कल्पादौ
रविवासरः । अत्राऽधिमासानयनेऽधिमासशेषं न
स्थाप्यम् । न पुनस्तस्माद्दिनाद्यवयवा ग्राह्याः ।
एवमवमशेषमपि । न तस्माद्घटिकादिकं ग्राह्यम् । नन्व-
नुपातः सावयवो भवति कुतस्तदवयवा न ग्राह्याः ।
तत्कारणं गोले कथितं व्याख्यातं च” प्रमिता० । मध्य-
मग्रहादप्यहर्गणानयनं तत्रैवोक्तम् । “साग्रात्
स चक्राच्च खगात् क्वहघ्नात् तत्कल्पचक्राप्तमहर्गणः स्यात्” ।
निरग्रचक्रादपि कुट्टकेन वक्ष्येऽग्रतोऽग्राच्च तथाग्रयोगात् ।
“ग्रहस्य भगणराशिभागकला विकला अन्ते विकलाशेषं
च कुदिनैः संगुण्य स्वच्छेदेन विभज्योपर्युपरि निक्षि-
पेत् । तद्यथा । भगणादिग्रहे विकलाशेषावधि कल्प-
कुदिनगुणे विकलाशेषस्थाने कुदिनैर्विभज्य विकलास्थाने
फलं प्रक्षिप्य तत्र षष्ट्या ६० विभज्य कलास्थाने निक्षि-
प्यैवं भगणान्तं यावत् । तत्र कल्पभगणैर्हृतेऽहर्गणः
स्यात् । अत्रोपपत्तिर्विलोमगणितेन । तथा निरग्रच-
क्रादपि ग्रहात् तथा केबलादग्रादपि तथा शेषयोः
शेषाणां वा योगादहर्गणानयनमग्रत इति प्रश्नाध्याये
कुट्टकविधिना वक्ष्यते” प्रमि० । कलिगतादप्यहर्गणानयनं
तत्रैव । “कलिगतादथ वा दिनसञ्चये दिनपतिर्भृगुजप्र-
भृतिस्तदा । कलिमुखध्रुवकेण समन्वितो भवति तद्द्युगणो-
द्भवखेचरः” । “अत्र कलिगताहर्गणेऽयं विशेषः ।
शुक्राद्यो वारो गणनीयः । यतः कल्पगताहर्गणात्
कलिमुखे शुक्रवारो भवति । तत्र च ये ग्रहास्ते
ध्रुवसंज्ञाः कल्पिताः । तद्द्युणभवः खेचरश्च
कलिमुखध्रुवकेण समन्वितः कार्य इत्यत्र वासनापि सुगमा”
प्रमि० । कुट्टकविधिश्च वीजगणिते दर्शितो यथा ।
“अस्य गणितस्व ग्रहगणिते महानुपयोगः । तदर्थं
किञ्चिदुच्यते । “कल्प्याथ शुद्धिर्विकलावशेषं षष्टिश्च भाज्यः
पृष्ठ ०५७९
कुदिनानि हारः । तज्जं फलं स्युविकला गुणस्तु लिप्ता-
ग्रमस्माच्च कला लवाग्रम् । एवं तदूर्द्धं च तथाधिमासाव-
माग्रकाभ्यां दिवसा रवीन्द्वोः” । “ग्रहस्य विकलावशेषाद्ग्र-
हाहर्ग्गणयोरानयनम् । तद्यथा । षष्टिर्भाज्यः ।
कुदिनानि हारः । विकलावशेषं शुद्धिरिति प्रकल्प्य
साध्ये गुणाप्ती । तत्र लब्धिर्विकलाः स्युर्गुणस्तु कलावशेषम् ।
एवं कलावशेषं शुद्धिः षष्टिर्भाज्यः कुदिनानि हारः ।
फलं कलाः । गुणोंऽशशेषम् । एवमंशशेषं शुद्धिस्त्रिंश-
द्भाज्यः कुदिनानि हारः । फलं भागाः । गुणो-
राशिशेषम् । एवं राशिशेषं शुद्धिर्द्वादश भाज्यः ।
कुदिनानि हारः । फलं गतराशयोगुणोभगणशेषम् ।
एवं कल्पभगणा भाज्यः । कुदिनानि हारः । भगणशेषं
शुद्धिः । फलं गतभगणाः । गुणोऽहर्ग्गणः स्यादिति ।
अस्योदाहरणानि त्रिप्रश्नाध्याये । एवं कल्पाधिमासा-
भाज्योरविदिनानि हारोऽधिमासशेषं शुद्धिः । फलं
गताधिमासाः । गुणो गतरविदिवसाः । एवं युगावमानि
भाज्यश्चन्द्रदिवसा हारोऽवमशेषं शुद्धिः । फलं गताव-
मानि । गुणोगतचन्द्रदिवसाइति” प्रमि० ।
अहर्गणानयने अधिमासावमपरित्यागे कारणमाह” सि०
शि० “अहर्गणस्यानयनेऽर्कमासाश्चैत्रादिचान्द्रैर्गणकान्विताः
किम् । कुतोऽधिमासावमशेषके च त्यक्ते यतः सावयवो-
ऽनुपातः । दर्शावधिश्चान्द्रमसो हि मासः सौरस्तु
संक्रान्त्यवधिर्यतोऽतः । दर्शाग्रतः संक्रममानतः प्राक्
सदैव तिष्ठत्यधिमासशेषम् । दर्शान्ततो यातति-
थिप्रमाणैः सौरैस्तु सौरा दिवसाः समेताः । यतोऽ-
धिशेषोत्थदिनाधिकास्ते त्यक्तं तदस्सादधिमासशेषम् ।
तिथ्यन्तसूर्य्योदययीस्तु मध्ये सदैव तिष्ठत्यवमावशेषम् ।
त्यक्तेन तेनोदयकालिकः स्यात् तिथ्यन्तकाले द्युगणोऽ-
नुपातः” । “मध्यममानेन यावत्यमावास्या तदन्ते
चान्द्रामासान्तः । मध्यमार्कस्य यस्मिन् दिने संक्रान्ति-
स्तत्र संक्रान्तिकाले रविमासान्तः । तयोः रविचन्द्रमा-
सान्तयोरन्तरे यावत्यस्तिथयः सावयवास्ता अधिमास-
शेषतिथयः । यतः सौरचान्द्रान्तरमधिमासाः । अहर्ग-
णानयने गताब्दा रविगुणास्ते सौरा मासा जाताः ।
अतस्तेषु चैत्रादिचान्द्रतुल्याः सौरा एव मासा योजि-
तास्ते संक्रान्त्यवधयो जातास्तेषु त्रिंशद्गुणेषु गततिथि-
तुल्याः सौरा एव दिवसा योजिताः । अतः
सौरचान्द्रान्तरेणाविका जातास्तदन्तरमधिमासशेषदिनानि
भवन्ति सौरचान्द्रान्तरत्वात् । अतोऽधिमासशेषदिना-
स्तेभ्यः शोध्याः । अथ चाधिमासानयनेऽनुपातलब्धै-
रधिमासैर्दिनीकृतैस्तच्छेषदिनैश्च युक्ताः सौराहाश्चान्द्रा-
हा भवितुमर्हन्ति । एवमत्राधिमासशेषदिनानि
क्षेप्याणि । तत्र शोध्यानि । अतः कारणादधिमासशेषं
त्यक्तम् । अथावमशेषत्यागकारणमुच्यते । तिथ्यन्तानन्तरं
यावतीभिर्घटीभिः सूर्य्योदया अवमशेषघटिकाः
यतश्चान्द्रसावनान्तरमवमानि । यद्यवमशेषं न त्यज्यते
लब्धावमैरवमशेषघटिकाभिश्च तिथय ऊनीक्रियन्ते तदा
तिथ्यन्ते सावनोऽहर्गणो भवति । अथ च सूर्य्यो-
दयोऽवधिः साध्यः । तिथ्यन्ताहर्गणोऽवमशेषघटी-
भिर्युक्तः सन्नुदयावधिर्भवति । अतोऽवमशेषे त्यक्ते
स्वतः सूर्य्योदयावधिर्भवति” प्रमि० । “अहर्गणोमध्यम-
सावनेन कुतश्चलत्वात् स्फुटसावनस्य । तदूनखेटा
उदयान्तराच्च कर्म्मोद्भवेनोनयुताः फलेन” सि० शि०
अहर्गणे विशेषमाह सि० शि० । “अभीष्टवारार्थमहर्गणश्चेत्
सैको निरेकस्तिथयोऽपि तद्वत् । तदाधिमासावमशेषके च
कल्पाधिमासावमयुक्तहीने” । “इह किल स्थूलतिथ्यानयने
यस्यां तिथौ यो वार आगतः स चेदहर्गणे नागच्छति
तदाहर्गणं सैकं निरेकं कृत्वा ग्रहाः साध्या इति ज्योति-
र्विदां संप्रदायो युक्तियुक्त एव । यतोऽहर्गणस्य
वारो नियामकः । एवं कृते यो विशेषः सोऽभिधी-
यते । तिथयोऽपि तद्वदित्यादि । अत्रैतदुक्तं भवति ।
यदा वारार्थं सैकोऽहर्गणः कृतस्तदाधिमासावमशेषास्यां
चन्द्रार्कानयने कोष्ट्याहतैरङ्ककृतेन्दुविश्वैरित्यादौ द्वादश-
गुणास्तिथयोऽर्कभागेषु याः क्षेप्यास्ताः सैकाः कृत्वा
द्वादशगुणाः क्षेप्याः । यदा निरेकोऽहर्गणः कृतस्तदा
निरेकम् । तथा यदि सैकोऽहर्गणस्तदाधिमास-
शेषं कल्पाधिमासैर्युतं कार्य्यम् । अवमैरवमशेषं च ।
यतः सैकासु तिथिषु सैकोऽहर्गणो निरेकासु निरेकः ।
तथा प्रतिदिनमधिमासशेषस्याधिमासैरुपचयोऽवमैरवमशेषः
स्यात् युक्तमुक्तम्” इति प्रमिता० ।

अहर्जर पु० अहोभिःपरिवर्त्तमानो लोकान् जरयति

जृणिच्--अच्, अहानि वाऽस्मिन् जीर्य्यन्ति आधारे अप्
वा । “संवत्सरे “यथापः प्रवता यन्ति यथा मासा
अहर्ज्जरम्” वृ० उ० ।

अहर्दिव न० अहश्चं दिवा च समा० द्व० तुल्यार्थकतया

वीप्सा गम्यते । १ प्रतिदने इत्यर्थे “य इत्यमखास्थ्यमहर्दिवं
दिवः” माघः अर्श आद्यच् । २ तद्वृत्तौ त्रि० ।
“अहर्दिवाभिरूतिभिः” ।
पृष्ठ ०५८०

अहर्नाथ पु० ६ त० । १ दिनपतौ २ अर्कवृक्षे चाहरधिषादयोऽप्यत्र ।

अहर्निश न० अहश्च निशा च समा० द्व० । अहोरात्रयोः

“तयोः समुच्चयो मासः पितॄणां तदहर्निशम्” भा०
६ स्क० । “तस्य सोऽहर्निशस्यान्ते प्रसुप्तः प्रतिबुध्यत” मनुः

अहर्बान्धव पु० अह्नि बान्धव इव प्रकाशकत्वात् । १ सूर्य्ये ।

२ अर्कवृक्षे च ।

अहर्भाज् स्त्री इष्ठकाभेदे । “रात्रिसहस्रेण रात्रिसहस्रेणैकैकां

परित्रितं सम्पन्नामुपासीताहःसहस्रेणाहःसहस्रेणैकै-
कामहर्भाजम्” । शत० ब्रा० ।

अहर्मणि पु० अह्नि मणिरिव प्रकाशकत्वात् । १ सूर्य्ये २ अर्कवृक्षे च ।

अहर्लोक पु० इष्टकाभेदे । “ततोयाः षष्टिश्च त्रीणि च

शतान्यहर्लोकास्ता अह्नामेव साप्तिः क्रियते” शत० ब्रा० ।

अहर्विद् पु० अहः एकाहसाध्यम् अग्निष्टोमं वेत्ति

विद--क्विप् । एकाहसाध्याग्निष्टोमवेत्तरि “सुतसोमा
अहर्विदः” ऋ० १, २, २ ।

अहल्य त्रि० न हलेन कृष्यम् । १ हलाकृष्ये क्षेत्रे । २ देशभेदे

पु० । ३ गोतमर्षिपत्न्यां स्त्री । अहल्योत्पत्तिर्यथा ।
“मौद्गल्यस्य सुतो ज्येष्ठोब्रह्मर्षिः सुमहायशाः । इन्द्रसेना
यतोर्गभं वध्रस्थं प्रत्यपद्यत । वध्रस्थान्मिथुनं जज्ञे
मेनकायामिति श्रुतिः । दिवोदासश्च राजर्षिरहल्या
च यशस्विनी । शरद्वतश्च दायादमहल्या सभसूयत ।
शतानन्दमृषिश्रेष्ठम् तस्यापि सुमहायशाः” हरि० ३२ अ०
शरद्वतः इति गोतमस्य नामान्तरम् । यद्वंशजातः
कृपाचार्य्यः शारद्वत इति गौतम इति चाख्यायते ।
तस्यागोतमशापकथा अफलशब्दे २६८ पृष्ठेदृश्या । तस्याः
शापविमोचनमुक्तम् । “तस्मात् प्रविश्य रामाशु
गौतमस्याश्रमं विभो! । तारयेमां महाभागामहल्यां
शापविप्लुताम् । विश्वामित्रवचः श्रुत्वा रामः सौमित्रिणा
सह । विश्वावित्रं पुरस्कृत्य प्रविवेशाश्रमं ततः ।
स ददर्श सहभागां तपसा द्योतितप्रभाम् । सेन्द्रैरपि सुरैः
साक्षादनालक्ष्यां समागतैः । प्रयत्नान्निर्म्मितां धात्रा दिव्यां
मायामयीमिव । धूमेनापि परिताङ्गीं दीप्तामग्निशिखा-
मिव । तुषारेणावृतां साभ्रां पूर्णचन्द्रप्रभामिव । मध्ये-
ऽम्भसो दुराधर्षां दीर्प्ता सूर्य्यप्रभामिव । सा हि गोतम-
वाक्येन दुर्निरीक्ष्या बभूव ह । त्रयाणामपि सोकानां
यावद्रामस्य दर्शनम् । दृष्ट्वैव राघवौ तस्याः पादौ जगृह
तुस्तदा । सा च तौ पूजयामास स्मृत्वा गौतमभाषितम् ।
पाद्यार्घासनसत्कारैर्यथावत् प्रीतमानसा । प्रतिजग्राह
रामश्च पूजां तां विधिवत् तदा । सस्वनुर्देववाद्यानि
पुष्पवृष्टिः पपात खात् । गन्धर्वाप्सरसां चैव महानासीत्
समागमः । साधु साध्विति देवाश्च तदाहल्यामपूजयन् ।
विशुद्धां तपसोग्रेण तदा रामसमागमे । गोतमोऽथ
महातेजा दृष्ट्वा दिव्येन चक्षुषा । स्वमाश्रमपदं राममागतं
प्रत्यपूजयत् । समेत्य भार्यया चैव पूतयाऽहल्यया तदा ।
तयैव सहितोभूयस्तपस्तेपे महायशाः” इति रामा० आ० ।
“अहल्या द्रौपदी कुन्ती तारा मन्दोदरी तथा । पञ्च कन्याः
स्मरेर्न्नित्यं महापातकनाशनम्” प्रातःस्मरणीये पुरा० ।

अहल्याजार पु० ६ त० । इन्द्रे तत्कथा अफलब्दे २६८ पृष्ठे ।

अहल्यानन्दन पु० ६ त० । शतानन्दे ऋषौ । तस्योत्पत्ति-

कथा अहल्याशब्दे उक्ता अहल्यासुतादयोःप्यत्र ।

अहल्याह्रद्र पु० ३ त० । गोतमाश्रमस्थे स्वनामख्याते तीर्थ-

भेदे “ततोगच्छेत ब्रह्लर्षेर्गोतमस्य वनं प्रियम् । अहल्या
या ह्रदे स्नात्वा ब्रजेत परमां गतिम्” भा० वब ८४ अ० ।

अहल्लिक पु० अहनि लीयते ली--ड नि० संज्ञायां कन् ।

प्रेते । प्रेताहि रात्रौ चरन्तो दिवा णीयन्ते इति
प्रसिद्धम् । “अहल्लिकेतिहोवाच याज्ञवल्क्यः” वृ० उ० ।
“अहल्लिकेति होवाच याज्ञवल्क्यो नामान्तरेण संबोधनं
कृतवान्” भा० । “नामान्तरेण अहनि लीयते इति प्रेत-
वाचिनेति” शेषः आनन्दगिरिः ।

अहस्कर पु० अहःकरवत् । १ सूर्य्ये, “अलञ्चकारास्य

बधूरहस्करः” माघः । २ अर्कवृक्षे च ।

अहस्त त्रि० न स्तः हस्तौ यस्य । हस्तशून्ये प्राणिनि

१ छागादौ “अहस्ताश्च सहस्तानां शूराणां चैव भीरवः”
मनुः २ छिन्नहस्ते च । “अपादहस्तो अपृतन्यदिन्द्रम्”
ऋ० १, ३२, ७ ।

अहस्पति पु० अहःपतिवत् । १ सूर्य्ये २ अर्कवृक्षे च ।

अहह अव्य० अहं जहाति अहम् + हा--क पृषो० ॥ १ सम्बो-

धने २ आश्चर्प्ये, ३ खेदे, ४ क्लेशे, ५ प्रकर्षेच । “अहहारे त्वा
शूद्र” छा० उ० “अहह महतां निःसीमानश्चरित्रविभूतयः”
वीरच० “अहह कष्टमपण्डितता विधेः” गणर० ।

अहहा अव्य० अहं जहाति हा--डा । “अहहशब्दार्थे”

“भिक्षित्वाऽपि बुभुक्षितं यदहहा” गणरत्न० ।
पृष्ठ ०५८१

अहार्य्य पु० हृ--ण्यत् न० त० । १ पर्व्वते । २ हर्त्तुसशक्ये

३ अभेद्ये च त्रि० । “तत्रात्मभूतैः कालज्ञैरहार्य्यैः परि-
चारकैः” मनुः अहार्य्यैरभेद्यैः” कुल्लू० । अहार्य्ये मेवं
मृगनाभिपट्टम्” गणरत्न० । “अहार्य्यं ब्राह्मणद्रव्यं राज्ञां
नित्यमिति स्थितिः” मनुः ।

अहि पु० आहन्ति आ + हन + डिन् टिलोपः आङो ह्रस्वश्च ।

१ सर्पे, लोकप्रसिद्धसर्पभेदादि सुश्रुते दर्शितम् ।
“अशीतिस्त्वेव सर्पाणां भिद्यते पञ्जधा तु सा” । “दर्व्वी-
करा मण्डलिनो राजिमन्तस्तयैव च । निर्व्विषा
वैकरञ्जाश्च त्रिविधास्ते पुनः स्मृताः ॥ दर्व्वीकरा मण्डलिनो
राजिमन्तश्च पन्नगाः । तेषु दर्व्वीकरा ज्ञेया विंशतिः
षट्चपन्नगाः । द्वाविंशतिर्मण्डलिनो राजिमन्तस्तथा दश ।
निर्व्विषा द्वादश ज्ञेया वैकरञ्जास्त्रयस्तथा । वैकरञ्जोद्भवाः
सप्त चित्रामण्डलिराजिलाः । पदाभिमृष्टा दुष्टा वा
क्रुद्धा ग्रासार्थिनोऽपि वा । ते दशन्ति महाक्रोधास्तद्धि
त्रिविधमुच्यते । सर्पितं रदितं वापि तृतीयमथ निर्व्वि-
षम् । सर्पाङ्गाभिहतं केचिदिच्छन्ति खलु तद्विदः ।
पदानि यत्र दन्तानामेकं द्वे वा बहूनि च ॥ निमग्नान्य-
ल्परक्तानि यान्युद्धृत्य करोति हि । चञ्चुमालकयुक्तानि
वैकृत्यकरणानि च । सङ्क्षिप्तानि सशोफानि विद्यात्तत्
सर्पितं भिषक् । राज्यः सलोहिता यत्र नीलाः पीताः
सितास्तथा । विज्ञेयं रदितं तत्तु ज्ञेयमल्पविषञ्च तत् ।
अशोफमल्पदुष्टासृक् प्रकृतिस्थस्य देहिनः । पदं पदानि
वा विद्यादविषं तच्चिकित्सकः । सर्पस्पृष्टस्य भीरोर्हिभ-
येन कुपितोऽनिलः । कस्यचिद् कुरुते शोफं सर्पाङ्गाभि-
हतन्तु तत् । व्याधितोद्विग्नदष्टानि ज्ञेयान्यल्पविषाणि
तु । तथातिवृद्धबालातिदष्टमल्पविषं स्मृतम् । सुपर्ण-
देवब्रह्मर्षियक्षसिद्धनिषेविते ॥ विषघ्नौषधियुक्ते च देशे
न क्रमते विषम् । रथाङ्गलाङ्गलच्छत्रस्वस्तिकाङ्कु-
शधारिणः ॥ ज्ञेयादर्व्वीकराः सर्पाः फणिनः शीघ्र-
गामिनः । मण्डलैर्विविधैश्चित्राः पृथवो मन्दगामिनः ॥
ज्ञेया मण्डलिनः सर्पा ज्वलनार्कसमप्रभाः । स्निग्धा
विविधवर्णामिस्तिय्युगूर्द्ध्वन्तु राजिभिः ॥ चित्रिता इव
ये भान्ति राजिमन्तस्तु ते स्मृताः । मुक्तारूप्यप्रभा
ये च कपिला ये च पन्नगाः ॥ सुगन्धिनः सवर्णा-
भास्ते जात्या ब्राह्मणाः स्मृताः । क्षत्रियाः स्निग्ध-
वर्णास्तु पन्नगा भृशकोपनाः ॥ सूर्य्यचन्द्राकृति च्छत्नं
लक्ष्म तेषां तथाम्बुजम् । कृष्णा वज्रनिभा ये च लोहिता
वर्णतस्तथा । धूम्राः पारावताभाश्च वैश्यास्ते पन्नगाः
स्मृताः ॥ महिषद्वीपिवर्ण्णाभास्तथैव परुषत्वचः । भिन्न-
वर्णाश्च ये केचिच्छूद्रास्ते परिकीर्त्तिताः ॥ कोपयन्त्यनिलं
जन्तोः फणिनः सर्व्व एव तु । पित्तं मण्डलिनश्चापि
कफञ्चानेकराजयः ॥ अपत्यसमवर्णाभ्यां द्विदोषकरलक्षणम् ।
ज्ञेयौ दोषैश्च दम्पत्योर्विशेषश्चात्र वक्ष्यते ॥ रजन्याः
पश्चिमे यामे सर्पाश्चित्राश्चरन्ति हि । शेषेषूक्ता मण्ड-
लिनो दिवा दर्व्वीकराः स्मृताः ॥ दर्व्वीकरास्तु तरुणा
वृद्धा मण्डलिनस्तथा । राजिमन्तो वयोमध्ये जायन्ते
मृत्युहेतवः ॥ नकुलाकुलिता बाला वारिविप्रहताः
कृशाः । वृद्धा मुक्तत्वचो भीताः सर्पास्त्वल्पविषाः स्मृताः ।
तत्र दर्व्वीकराः । कृष्णसर्पो हाहाकृष्णः कृष्णोदरः श्वेत-
कपोतो महाकपोतो वलाहको महासर्पः शङ्खपालो
लोहिताक्षो गवेधुकः परिसर्पः खण्डफणः ककुद-
पद्मो महापद्मो दर्भपुष्पो दधिमुखः पुण्डरीको भ्रुकुटी-
मुखो विष्किरः पुष्पाभिकीर्णो गिरिसर्प ऋजुसर्पः श्वेतो-
दरो महाशिरा अलगर्द्दो आशीविष इति ॥ मण्ड-
लिनस्तु । आदर्शमण्डलः श्वेतमण्डलो रक्तमण्डलश्चि-
त्रमण्डलः पृषतो रोध्रपुष्पो मिलिन्दको गोनसो वृद्ध-
गोनसः पनसो महापनसो वेणुपत्रकः शिशुको मदनः
पालिंहिरः पिङ्गलस्तन्तुकः पुष्पपाण्डुः षडगोऽग्निकी
बभ्नुः कषायः कलुषः पारावतो हस्ताभरणश्चित्रक
एणीपद इति ॥ राजिमन्तस्तु । पुण्डरीको राजिचित्रो-
ऽङ्गुलराजिर्विन्दुराजिः कर्दमकस्तृणशोषकः सर्षपकः
श्वेतहनुर्दर्भपुष्पश्चक्रको गोधूमकः किक्किसाद इति ॥
निर्व्विषास्तु । गलगोली शूकपत्रोऽजगरो दिव्यको
वर्षाहिकः पुष्पशकली ज्योतीरथः क्षीरिकापुष्पकोऽन्धा
हिकोऽहिपताकोगौराहिको वृक्षेशय इति । वैकर-
ञ्जास्तु त्रयाणां दर्व्वीकरादीनां व्यतिकराज्जाताः ।
तद्यथा । माकुलिः पोटगलः स्निग्धराजिरिति । तत्र
कृष्णसर्पेण गोनस्यां वैपरीत्येन वा जातो माकुलिः ।
राजिलेन गोनस्यां वैपरीत्येन वा जातः पोटगलः ।
कृष्णसर्पेण राजिमत्यां वैपरीत्येन वा जातः स्निग्धराजि-
रिति । तेषामाद्यस्य पितृवद्विषोत्कर्षो द्वयोर्मातृवदित्येके ।
त्रयाणां वैकरञ्जानां पुनर्दिव्येलकरोध्रपुष्पकराजिचित्रकाः
पोटगलः पुष्पाभिकीर्णो दर्भपुष्पो वेल्लितकः सप्त तेषा-
माद्यास्त्रयो राजिलवत् शेषा मण्डलिवत् । एवमेतेषां
सर्पाणामशीतिरिति । तत्र महानेत्रजिह्वास्यशिरसः
पुमांसः, सूक्ष्मनेत्रजिह्वास्यशिरसः स्त्रियः ।
उभयलक्षणामन्दविषा अक्रोधा नपुंसका” इति । तेषां
पृष्ठ ०५८२
बहूनि पुराणे नामान्युक्तानि तेषां प्रधान्यतो भारते
कतिचिदुक्तानि “बहुत्वान्नामधेयानि पन्नगानां तपोधन! । न
कीर्त्तयिष्ये सर्व्वेषां प्राघान्येन तु मे शृणु । शेषः प्रथमतो
जातो वासुकिस्तदनन्तरम् । ऐरावतस्तक्षकश्च कर्कीटकधन-
ञ्जयौ । कालियो मणिनागश्च नागश्चापूरणस्तथा । नागस्तथा
पिञ्जरक एलापत्रोऽथ वामनः । नीलानीलौ तथा नागौ
कल्माषशवलौ तथा । आर्य्यकश्चोग्रकश्चैव नागः
कलशपोतकः । सुरामुखो दधिमुखस्तथा विमलपिण्डकः ।
आप्तः करोटकश्चैव शङ्खो वालिशिखस्तथा । निष्णानको
हेमगुहो नहुषः पिङ्गलस्तथा । बाह्यकर्णो हस्तिपदस्तथा
मुद्गरपिण्डकः । कम्बलाश्वतरौ चापि नागः कालीयकस्तथा
वृत्तसंवर्त्तकौ नागौ द्वौ च पद्माविति श्रुतौ । नागः शङ्ख-
मुखश्चैव तथा कुष्माण्डकोऽपरः । क्षेमकश्च तथा नागो
नागः पिण्डारकस्तथा । करवीरः पुष्पदंष्ट्रो विल्वको
विल्वपाण्डरः । मूषकादः शङ्खशिराः पूर्णभद्रो हरिद्रकः ।
अपराजितो ज्योतिकश्च पन्नगः श्रीवहस्तथा । कौरव्यो
धृतराष्ट्रश्च शङ्खपिण्डश्च वीर्य्यवान् । विरजाश्च सुबाहुश्च शालि-
पिण्डश्च वीर्य्यवान् । हस्तिपिण्डः पिठरकः सुमुखः
कौणपाशनः । कुठरः कुञ्जरश्चैव तथा नागः प्रमाकरः । कुमुदः
कुसुदाक्षश्च तित्तिरिर्हलिकस्तथा । कर्द्दमश्च महानागो
नागश्च बहुमूलकः । कर्कराकर्करौ नागौ कुण्डोदरमहो-
दरौ । एते प्राधान्यतो नागाः कीर्त्तिता द्विजसत्तम! ।
बहुत्वान्नामधेयानामितरे नानुकीर्त्तिताः । एतेषां प्रसवो
यश्च प्रसवस्य च सन्ततिः । असंख्येयेति मत्या तान्न
व्रवीमि तपोधन! । बहूनीह सहसाणि प्रयुतान्यर्व्वुदानि ।
च । अशक्यान्येव संख्यातुं पन्नगानां तपोधन! भा० आ०
३५ अ० । “अहिपरिकरभाजो भास्मनैरङ्गरागैः”
माघः । महतोऽप्येनसोमासात्त्वचेवाहिर्विमुच्यते” “न
पक्ष्यहिप्रेष्यनाम्नीं न च भीषणनामिकाम्” लूताहि
शरटानाञ्च तिरश्चां चाम्बुचारिणमिति” च मनुः । ३ सूर्य्ये,
इन् ४ राहौ, ५ पथिके, अह--व्याप्तौ इन् । ६ वृत्रासुरे तस्य
सर्व्वलोकव्यापकत्वात्तन्नामकत्वम् स च विश्वरूपपितु-
स्त्वष्टुःपुत्रः तदुत्पत्तिकथा भाग० ६ स्क० ९ अ० “हतपुत्र-
स्ततस्त्वष्टा जुहावेन्द्राय शत्रवे । इन्द्रशत्रो! विबर्द्ध्वस्व
मा चिरं जहि विद्विषम् । अथान्वाहार्य्यचनादुत्थितो
घोरदर्शनः । कृतान्त इव लोकानां युगान्तसमये यथा ।
विष्वग्विवर्द्धभानं तमिषुमानं दिनेदिने । दग्धशैल
प्रतीकाशं सन्ध्याभ्रानीकवर्च्चसम् ॥ तप्तताम्रशिखा-
श्मश्रुं मध्याह्नार्कोग्रलोचनम् । देदीप्यमाने त्रिशिखे शूल
आरोप्य रोदसी ॥ अत्यन्तमुन्नयन्तञ्च चालयन्तं पदा महीम् ।
दरीगम्भीरवक्त्रेण पिवता च नभस्तलम् ॥ लिहता जिह्वय-
र्क्षाणि ग्रसता भुवनत्रयम् । महता रौद्रदंष्ट्रेण जृम्भ-
माणं मुहुर्मूहुः । वित्रस्तादुद्रुवुर्लोकावीक्ष्य सर्व्वे दिशो-
दिश ॥ येनावृताइमे लोकास्तपसा त्वाष्ट्रमूर्त्तिना । सर्व्वे-
वृत्र इति प्रोक्तः पापः परमदारुणः” ॥ ७ खले, ८ वञ्चके,
९ सर्पस्वामिके अश्लेषानक्षत्रे च । “मृदुगणस्तीक्ष्णोऽहि रुद्रे-
न्द्रयुक्” ज्यो० । “द्रुतं धनुःखण्डमिवाहिद्विविषः” किरा० ।
“अद्विषस्तद्भवता निशम्यताम्” माघः । १० आहन्तरि त्रि०
“अहिरसि बुध्न्यः” ताण्ड्य० । अहिराहन्तारिप्रभृतीनाम्”
मा० । अह--व्याप्तौ इन् । ११ जले महीव्यापित्वात्तत्त्वम्
१२ व्यापके १३ व्याप्ते च त्रि० । १४ द्यावापृथिव्योः द्वि० व०
१५ पृथिव्यां १ ६ स्त्रीगव्याञ्च स्त्री वा ङीप् नागनामत्वात्
तज्जातत्वाच्च १७ सीसे धातौ । तस्योत्पत्त्यादिकम् भावप्र०
“दृष्ट्वा भोगिसुतां रम्यां वासुकिस्तु व्यमोचयत्” वीर्य्यं
जातस्ततो नागः सर्वरोगापहोनृणाम्” सीसं बध्नं तथा
वप्रंयोगेष्टं नागनामकम् (नागोभुजशः) सीसं रङ्गगुणं ज्ञेयं
विशेषान्मेहनाशनम् । नागस्तु नागशततुल्यबलं ददाति
व्याधिं विनाशयति जीवनमातनोति । वह्निं प्रदीपयति
कामबलं करोति मृत्युं च नाशयति सन्ततसेवितः सः ।
पाकेन हीनौ किल वङ्गनागौ कुष्ठानि गुण्मांश्च
तथातिकष्टम् । पाण्डुप्रमेहानिलमादशोथभगन्दरादीन् कुरुतः
प्रभुक्तौ” तस्य पाकविधिमाह तत्रैव । ताम्बूलरस
संपिष्टशिलालेपात् पुनः पुनः । द्वात्रिंशद्भिः पुटैर्नागो
निरूप्यं भस्म जायते । (शिला मनःशिला) अन्यच्च ।
“अश्वत्थचिञ्चात्वक्चूर्ण्णं चतुर्थाशेन निक्षिपेत् । तत्पात्रे
विद्रुतो नागो लोहदर्व्या प्रचालितः । यामैकेन भवेद्भस्म
तत्तुल्या स्यान्मनःशिला । काञ्जिकेन द्वयं घृष्ट्वा पचेत्
दृढ़पुटेन तम् । स्वाङ्गशीतं पुनः पिष्ट्वा शिलया काञ्जिकेन
च । पुनः पचेत् समेताभ्यामेवं षष्टिपुटैर्मृतिः” ।

अहिंसक त्रि० न हिनस्ति हिन्स--ण्वुल् न० त० । हिंसारहिते

अहिंसा स्त्री हिन्म--अङ् न० त० । १ वाङ्ममनःकायैः

परपीड़ाभावे, २ प्राणिपीड़ानिवृत्तौ, ३ अशास्त्रीयप्राणि-
पीड़नाभावे च “अहिंसापरमो धर्म्म” इति स्मृतिः ।
“या वेद विहिता हिंसा नियतास्मिंश्चराचरे । अहिंसामेव
तां विद्यात् वेदाद्धर्म्मोहि निर्बभौ” मनुना वैधहिंसायां
दोषाभावौक्तः एतच्च मीमांसकादिनये सांख्यनये तु
पृष्ठ ०५८३
शास्त्रीयहिंसायामपि दोषः यथोक्तं सां० का० ।
“दृष्टवदानुश्रविकः स ह्यविशुद्धिक्षयातिशययुक्तः” ।
अविशुद्धिर्हिंसादोषसंसर्गः यथा च वैधहिंसायां दोषसंसर्गस्तथो-
क्तमशुद्धिशब्दे ४७६ पृष्ठे । एतस्याश्च भावरूपत्वं गीता-
यामुक्तम् “बुद्धिर्ज्ञानमसम्मोहः क्षमा सत्यं दमः शमः ।
अहिंसा समता तुष्टिः” इत्युपक्रम्य “भवन्ति भावा भूतानां मत्त-
एव पृथग्विधाः” । इयञ्च साधारणधर्म्मः । “अहिंसा
सत्यमस्तेयं शौचमिन्द्रियनिग्रहः एतत् सामासिकं धर्मं
चातुर्वण्येऽब्रवीन्मनुः” इति मनूक्तेः “क्षमा सत्यं दमः शौचं
दानमिन्द्रियसंयमः । अहिंसा गुरुशुश्रूषा तीर्थानुसरणं
दया, आर्जवं ह्रीरलोभश्च देवब्राह्मणपूजनम् ।
अनभ्यसूया च तथा धर्म्मः सामान्य उच्यते “विष्णूक्तेः
“अहिंसा सत्यमस्तेयं शौचमिन्द्रियनिग्रहः । दानं शमोदया
क्षान्तिः सर्वेषां धर्म्मसाधनमिति” याज्ञ० उक्तेश्च “सर्वेषां
पुरुषाणां ब्राह्मणाद्याचण्डालान्तं धर्म्मसाधनमिति”
“साधारणधर्मश्चाहिंसादिः” “न हिंस्यात् सर्वाभूतानोति”
श्रुत्युक्तः आचाण्डान्तं साधारणधर्मः” मिता० । इयञ्च
“अहिंसासत्यास्तेयब्रह्मचर्य्यापरिग्रहा यमाः” पात० उक्तो यम
भेदः, “अहिंसा नाम मनोवाक्कायैः सर्वदा सर्वभूतानाम-
पीड़नं सा परमः शुद्धोधर्मः “अहिंसा परमोघर्म” इत्युक्तेः
अन्ये सत्यादय एतस्या एव शुद्ध्यर्थाः तथा चोक्तं “स खल्वयं
ब्राह्मणो यथा यथा तानि व्रतानि समादित्सति तथा तथा
प्रमादकृतेभ्यो हिंसानिदानेभ्यो निवर्त्तमानस्तामेवावदा-
तरूपामहिंसां करोतीति” वृत्तिः । तस्याश्च कथंकर्त्तव्यता
तदपि “वितर्कबाधने प्रतिपक्षभावनम्” पात० सू०
दर्शितम् “एतेषां यमनियमानां वितर्कैर्हिंसादिसं-
कल्पैः हनिष्याम्येनमसत्यं वदिष्यामि परस्वमादास्ये इत्या-
दिभिः बाधने प्राप्ते सति यमपरो ब्राह्मणः प्रतिपक्षभाव
नं कुर्य्यात् घोरेषु संसाराङ्गारेषु पापच्यमानेन येन मया
शरणमुपगतः सर्वभूताभयप्रदानेन यमादिधर्म्मः स
खल्वहं त्यक्त्वा हिंसादीन् पुनस्तानाददानस्तुल्यः शुना ।
यथा श्वा वान्ताशी तथा त्यक्तस्य पुनरादाने इति वितर्क
प्रतिपक्षान् भावयेदित्यर्थः” वृत्तिः । वितर्काणां स्वरूप-
प्रकारकारणावान्तरभेदफलानि पञ्चभिः पदैः क्रमेण
वदन् प्रतिपक्षभावनं स्फुटयति । “वितर्काः कृतकारितानु-
मोदिता लोभक्रोधमोहपूर्ब्बका मृदुमध्यातिमात्रा
दुःखाज्ञानानन्तफला इति प्रतिपक्षभावनम्” पात० सू० ।
“वितर्क्यन्त इति वितर्काहिंसादयः इति स्वरूपोक्तिः । तत्र-
हिंसा त्रिप्रकारा स्वयंकृता, कुर्विति कारिता, साधुसाध्वि
त्यनुमोदिता चेति तत्रेकैका पुनस्त्रिविघा भवति कारणभे-
दात् मांसादिलोभेन, अपकृतमनेनेति क्रोधेन, धर्मो भविष्य-
तीति मोहेन च । एवं नवविधा जाता हिंसा । लोभक्रोधमोहा
अपि प्रत्येकं त्रिविधा भवन्ति मृदुमध्यातिमात्रत्वेन । तत्पू-
र्ब्बकाहिंसादयोऽपि मृदवोमध्या अतिमात्राश्च भवन्ति ।
तथा कृतकारितानुमोदिताश्च प्रत्येकं नवधा भवन्तीति
हिंसायाः सप्तविंशतिर्भेदा भवन्ति । मृदुमध्यातिमात्रा अपि
प्रत्येकं त्रिधा भवन्ति मृदुमृदुर्मध्यमृदुस्तीव्रमृदुःमृदु-
मध्योमध्यमध्यस्तीव्रमध्यः मृदुतीव्रोमध्यतीव्रस्तीव्रतीव्रश्चेति
एवं लोभो नवविधः एवं क्रोधमोहाविति तत्पूर्ब्बकृता-
हिंसा सप्तविंशतिभेदाभवन्ति तथा कारितानुमोदिता चेत्थ-
मेकाशीतिभेदा हिंसा भवति” वृत्तिः । तेषां फलान्याह
दुःखाज्ञानानन्तफला इति । मनुनापि “अनुमन्ता विशसिता
नियन्ता क्रयविक्रयी । संस्कर्त्ता चोपहर्त्ता च षड़ेते घातकाः
स्मृताः” इत्यनेन अनुमत्यादीनां हिंसासाधनत्वमुक्तम्
यममध्येऽहिंसाफलमप्याह पात० सू० । “अहिंसाप्रति-
ष्ठायां तत्सन्निधौ वैरत्यागः” । अहिंसासिद्धौ सत्यां तस्याऽ
हिंसकस्य मुनिवर्य्यस्य सन्निधौ स्वभावविरुद्धानामपि अहिनकु-
लादीनां वैरत्यागः अस्याएव प्रभावात् । अतएव कविभिः
अहिंसायमप्रभावादेव शान्ताश्रमः “विरोधिसत्त्वोज्झितपूर्व्व-
वत्सरमित्यादि” वर्ण्ण्यते ।

अहिंसान त्रि० न हिनस्ति हिन्स--शीलार्थे चानश् न० त० ।

हिंसाशीलभिन्ने “शर्म्मण्यहिंसानस्य सश्चिरे” ऋ० ५, ६४, ३ ।

अहिंस्र त्रि० न हिंस्रः । १ हिंसाशीलभिन्ने । “अहिंस्रोदम-

दानाभ्यां जयेत् स्वर्गं तथा व्रतः” मनुः “हिंस्राहिंस्रे
मृदुक्रूरे धर्म्माधर्म्मावृतानृते । यद्यस्य सोऽदधात्सर्गे
तत्तस्य स्वयमाविशत्” मनुः । “हिंस्राहिंस्रे मृदुक्रूरे
धर्म्माधर्म्मावृतानृते । ते एव प्रतिपद्यन्ते सृज्यमानाः
पुनः पुनः” शा० भा० स्मृतिः । (कुलेखाड़ा) २ कुलिकवृक्षे
पु० राजव० ।

अहिका स्त्री अहिरिव कायति प्रकाशते दुराक्रमत्वात् ।

१ शाल्मलिवृक्षे शब्दच० । २ ध्रुवनक्षत्रे पु० ।

अहिकान्त पु० अहेः कान्तः भक्ष्यत्वात् । वावौ सर्पस्य

पवनाशनत्वेन वायोस्तत्कान्तत्वम् ।

अहिक्षेत्र पु० अहेः क्षेत्रमिव । प्राग्देशवर्त्ति देशभेदे । भा० व०

२५३ अ० कर्ण्णदिग्विजये । “अवतीर्य्य ततः शैलात्
पूर्ब्बां दिशमभिद्रुतः । अङ्गान् वङ्गान् कलिङ्गांश्च” इत्युपक्रम्य
“आवशीरांश्च योधांश्च अहिक्षेत्रं च योघयन् । पूर्ब्बां
दिशं विनिर्जित्य वत्सभूमिं तथाऽगमत्” ।
पृष्ठ ०५८४

अहिगण पु० १ छन्दःशास्त्रप्रसिद्धे पञ्चमात्रात्मके आद्यगुरुके

अन्त्यलघुत्रयरूपे सप्तमभेदे । ६ त० । २ सर्पाणां समूहे ।

अहिच्छत्र पु० अहेः फणाकारः छत्रश्छादकः । १ मेषशृङ्गी-

वृक्षे, २ नगरीभेदे स्त्री । ३ देशभेदे पु० । स च देशः
पार्थेन निर्ज्जित्य द्रोणाय दत्तः । “अहिच्छत्रं च विषयं
द्रोणः समभिपद्यत । एवं राजन्नहिच्छत्रा पुरीजनपदायुता
युधि निर्ज्जित्य पार्थेन द्रोणाय प्रतिपादिता” भा० आ० प०
१३९ अ० । तत्र द्रुपदराज्यं पूर्ब्बमासीत् यथोक्तं
हरिवंशे २० अ० “अहिछत्रं स्वकं राज्यं पित्र्यं प्राप
महाद्युतिः । द्रुपदस्य पिता राजन्! ममैवानुमते तदा ।
ततोऽभूद्द्रुपदोराजा द्रोणस्तेन निराकृतः । ततोऽर्ज्जुनेन तरसा
निर्ज्जित्य द्रुपदं रणे । अहिच्छत्रं सकाम्पिल्यं द्रोणाया
थापवर्ज्जितम् । प्रतिगृह्य ततोद्रोणः उभयं जयतांबरः ।
काम्पिल्लं द्रुपदायैव प्रायच्छद्विदितं तव” हरि० २० अ०
तत्सीमाबन्धश्च भा० आ० प० १३७ अ० उक्तः ।
“कामन्दीमथ गङ्गायास्तीरे जनपदायुताम् । सोऽध्यवात्-
सीद्दीनमनाः काम्पिल्लञ्च पुरोत्तमम्” । दक्षिणांश्चापि
पञ्चालान् यावच्चर्म्मण्वतीं नदीम् । द्रोणेन चैवं द्रुपदं
परिभूयाथ पालिता” । अहिच्छत्रस्यं नामान्तरं प्रत्यग्रयः
हेम० । अहिच्छत्रे भवः अण् आहिच्छत्रः । स्त्रियां
ङीप् गुरूपोत्तमत्वेऽपि गोत्रार्खभिन्नत्वात् न ष्यङ्
आहिच्छत्री” सि० कौ० ।

अहिजित् पु० अहिं सर्पं वृत्तासुरं वा जितवान् जि--क्विप्

तुक् च । १ कृष्णे, २ इन्द्रे च । तत्र कृष्णस्य कालि-
यदमनात्तथात्वम् तत्कथा हरि० ६९ अ० । “कृष्ण कृष्ण!
महावाहो! गोपानां नन्दिवर्द्धन! । दम्यतामेष वै क्षिप्रं
सर्पराजो विषायुधः । इमे नो बान्धवास्तात! त्वां मत्वा
मानुषं विभो! । परिदेवन्ति करुणं सर्वे मानुषबुद्धयः ।
तच्छ्रुत्वा रौहिणेयस्य वाक्यं संज्ञासमीरितम् ।
विक्रीड्याऽस्फोटयन् बाहू भित्त्वा तं भोगबन्धनम् । तस्य
पद्भ्यां समाक्रम्य भोगराशिं जलोत्थितम् । शिरस्सु कृष्णो
जग्राह स्वहस्तेनावनाम्य च । तस्यारुरोह सहसा मध्य
मं तन्महच्छिरः । सोऽस्य मूर्द्ध्निस्थितः कृष्णः ननर्त्त रुचि-
राङ्गदः । मृद्यमानः स कृष्णेन श्रान्तमूर्द्ध्वा भुजङ्गमः” ।
इति । इन्द्रस्य वृत्रासुरजयकथा भाग० ६ स्कन्धे ९ अ०
“अथेन्द्रो वज्रमृद्यस्य निर्म्मितं विश्वकर्म्मणा । मुनेः
शक्तिभिरुत्सिक्तं भगवत्तेजसान्वितम्” इत्युपक्रम्य इन्द्रवृत्रा-
सुरयुद्धं वर्ण्णयित्वा “भित्त्वा वज्रेण तत्कुक्षिं निष्क्रम्य
बलभिद्विभुः उच्चकर्त्त शिरः शक्रोगिरिशृङ्गमिवोजसा”
इत्युक्तम् ।

अहिजिह्वा स्त्री अहेर्जिह्वेव तदाकारशिखत्वात् । नागजिह्वाख्यलतायाम् ।

अहिण्डुका स्त्री हिण्ड--उकञ् न० त० । सुश्रुतोक्ते

कीटभेदे कीटशब्दे--विवृतिः “अहिण्डुकाभिर्दष्टे तोददाह-
कण्डूश्वयथवोमोहश्च” । “अहिण्डुकाभिर्दष्टानामापदो-
विषनाशनम्” इति च सुश्रुतः ।

अहित पु० न० त० । १ शत्रौ । २ पथ्यभिन्ने त्रि० । सुश्रु-

तोक्तानि अहितानि अपथ्यशब्दे २२६ पृष्ठे उक्तानि
“अहिताननिलोद्भूतैस्तर्जयन्निव केतुभिः” रघुः “राम-
नाम इति तुल्यमात्मजे वर्त्तमानमहिते च दारुणे” रघुः
“निन्दन्तस्तव सामर्थ्यं वदिष्यन्ति तवाहिताः” गीता ।
चतुर्ण्णामपि वर्ण्णानां प्रेत्य चेह हिताहितान् । अष्टाविमान्
समासेन स्त्रीविवाहान्निबोधत” मनुः । “अहितो
देहजोव्याधिर्हितमारण्यमौषधम्” ।

अ(आ)हितुण्डिक पु० अहेस्तुण्डं मुखं तेन दीव्यति ठन्

ठञ् वा । १ व्यालग्राहिणि, २ सर्पखेलके च ।

अहिद्विष् पु० अहिं सर्पं वृत्रासुरं वा द्विष्टवान् द्विष-

भूते क्विप् । १ गरुड़े, २ मयूरे, ३ नकुले, ४ इन्द्रे गरुड़
मयूरनकुलानां स्वभावसिद्धं तथात्वम् इन्द्रस्य वृत्तासुर
द्वेष्टृत्वमहिजिच्छब्दे उक्तम् “अहिद्विषस्तद्भवता निशम्य-
ताम्” माघः । क । अहिद्विषोऽप्युक्तार्थेषु ।

अहिनकुलिका स्त्री अहिनकुलयोवैंरम् वुन् । सर्पनकुलयोः स्वभावसिद्धे वैरे ।

अहिनिर्मोक पु० अहिना निर्मुच्यते निर् + मुच--कर्म्मणि घञ्

६ त० । सर्पकञ्चुके (खोलस) इति ख्याते ।

अहिनिर्लयणी स्त्री अहिर्निर्लीयतेऽस्याम् निर् + लो--ल्युट्

ङीप् । (खोलस) इति ख्याते सर्पनिर्म्मोके । “तद्यथाऽ-
हिनिर्लयणी वल्मीके मृता प्रत्यस्ता शेते” वृ० उ० ।

अहिपताक पु० अहिषु पताका तदाकारोऽस्त्यस्य अच् ।

सर्पभेदे अहिशब्दे ५८१ पृष्टे सुश्रुतोक्तस्तद्भेदोदृश्यः ।

अहिपति पु० ६ त० । वासुकिनागे । अहिनाथादयोऽप्यत्र ।

अहिपुत्रक पु० अहेः पुत्रः इव कायति प्रकाशते कै--क ।

सर्पाकारे नौकाविशेषे (छिप्) ।

अहिपूतन न० सुश्रुतोक्ते क्षुद्ररोगभेदे यथा “समासेन

चतुस्त्रिंशत् क्षुद्ररोगा भवन्ति” इत्युपक्रम्य “निरुद्धगुदोऽहिपूतनं
वृषणकच्छूर्गुदभ्रं शश्चेति” तान् गणयित्वा” “शकृन्मूत्र-
पृष्ठ ०५८५
समायुक्तेऽधौतेऽपाने शिशोर्भवेत् । स्विन्नस्यास्नाप्यमानस्य
कण्डूरक्त कफोद्भवा । कण्डूयनात्ततः क्षिप्रंस्फोटाः स्रावश्च
जायते । एकीभूतं व्रणैर्घोरं तं विद्यादहिपूतनम्” इति तस्य
लक्षणाद्युक्तम् । अस्य स्त्रीत्वमपि ॥ “धात्र्याः स्तन्यं
शोधयित्वा बाले साध्याहिपूतना” । “पटोलपत्रत्रिफला-
रसाञ्जनविपाचितम् । पीतं घृतं नाशयति कृच्छ्रामप्यहिपूत-
नाम्” “चिकित्सन् मुष्क कच्छूञ्चाप्यहिपूतनपानवत्” सुश्रु० ।

अहिफेन पु० अहेः फेनः गरलमिव तीक्ष्णगुणत्वात् । (आफिङ्)

इति ख्याते १ वृक्षनिर्यासभेदे । ६ त० २ सर्पलालायाञ्च ।

अहि(वु)बुध्न पु० अहेरिव बुध्नो ग्रीवा यस्य । १ रुद्रभेदे, २ तद्देव-

ताके २ उत्तरभाद्रपदनक्षत्रे ३ मुहूर्त्तभेदे च । पृ० अहिर्बु-
(र्वु)ध्नोऽहि(र्वु)र्बुध्न्योऽप्यत्र । तत्स्वरूपं ध्यानशब्दे वक्ष्यते ।
“अजैकपादहिर्बुध्नः विरूपाक्षश्च रैवतः” विष्णुध० ।
मुहूर्त्तभेदश्च अहःशब्दे ५७६ पृष्ठे उक्तः तन्नक्षत्रस्य तद्देव-
ताकत्वञ्च अश्लेषाशब्दे ४९८ पृष्ठे उक्तम् ।

अहिभय न० अहेः, गृहस्थत्वात् आवृताकारत्वाच्च

अहितुल्यात् स्वपक्षात् भयम् । राज्ञां स्वपक्षजनिते १ भये
६ त० । २ सर्पभये च ।

अहिभयदा स्त्री अहिभयं द्यति खण्डयति दो--क । सर्प भयनाशिकायाम् भूम्यामलक्याम् ।

अहिभानु पु० अहिर्व्याप्यो भानुस्तद्गतिरस्य । सूर्य्यगतिहेतौ

वायौ प्रवाहानिलेनैव सूर्य्यगतेर्ज्योतिषोक्तेस्तथात्वम् ।
“मरुतो अहिभानवः” ऋ० १, १७२, १ ।

अहिभुज् पु० अहिं भुङ्क्ते क्विप् । १ गरुड़े, २ मयूरे, ३ नकुले च

अहिभृत् पु० अहिमाभूषणतया बिभर्त्ति भृ--क्विप् । १ शिवे

अहिम न० विरोधे न० त० । १ उष्णस्पर्शे २ तद्वति त्रि० ।

अहिमद्युति पु० अहिमा उष्णा द्युतिरस्य । १ सूर्य्ये २ अर्क-

वृक्षे च अहिमकरादयोऽप्यत्र ।

अहिमन्यु त्रि० अहिरिव हिंस्रोमन्युरस्य । १ हननशीले

२ अहितुल्यहिंस्रक्रोधे च “शवसाऽहिमन्यवः” ऋ० १,
६४, ८ । ६ त० । ३ सर्पक्रोधे च ।

अहिमर्द्दनी स्त्री अहिर्मर्द्द्यतेऽनया मृद--ल्युट् । गन्धनाकुलीनामलतायाम् ।

अहिमाय त्रि० अहेरिव कुटिला मायाऽस्य । वृत्रासुरादौ

“वृहस्पतेरहिमायान् अभि द्यून्” ऋ० १, १९०, ४ ।

अहिमार पु० अहिं मारयति मृ--णिच्--अण् । १ अरिमेदक-

वृक्षे सर्पमारके २ गरुड़े ३ मयूरे ४ वृत्रासुरनाशके
इन्द्रे च ।

अहिमेद(क) पु० अहिराहन्ताऽरिरिव मेदोऽस्य वा कप् । अरिमेदवृक्षे ।

अहिरिपु पु० ६ त० । १ गरुड़े २ मयूरे ३ नकुले ४ कृष्णे च

५ वृत्रशत्रौ इन्द्रे च । अहिजिच्छब्दे विवृतिः ।

अहिलता स्त्री अहिलोकस्य पातालस्य लता शाक० त०

अहिरिव लता वा दीर्घाकारत्वात् । १ ताम्बूल्याम् २
अहिद्वेष्ट्री लता शा० त० । २ गन्धनाकुल्याम् ।

अहिविद्विष् पु० ६ त० । १ गरुड़े २ मयूरे ३ नकुले ४ कृष्णे

५ गन्धनाकुलीवृक्षे वृत्रशत्रौ ६ इन्द्रे च “द्रुतं धनुःखण्ड-
मिवाहिविद्विषः” किरा० । क । अहिविद्विषोऽप्यत्र ।

अहिशुष्म त्रि० अह--व्याप्तौ इन् अहि व्यापि शुष्मं यस्य

व्यापकबले । “आस्माञ्जगम्यादहिशुष्म!” ऋ० ५, ३३, ५ ।

अहिसक्थ त्रि० अहिरिव दीर्घं सक्थि यस्य । १ सर्ब्बतुल्य-

दीर्घसक्थियुक्ते उपचारात् २ तदाधारदेशे पु० । तद्देश-
स्यादूरभवम् सुवास्त्वा० अण् । आहिसकथः । तद्देशा-
दूरभवे देशादौ त्रि० ।

अहिहत्य न० हत्या हननं भावे क्यप् वेदे न० । १ वृत्रासुर-

हनने “अर्कमहिहत्ये ऊचुः” ऋ० १, १६१, ।
लोके स्त्रीत्वम् । २ सर्पहनने स्त्री ।

अहिहन् पु० अहिं सर्पं वृत्रासूरं वा हतवान् क्विप् । १ गरुड़े २ इन्द्रे च ।

अहीन पु० अहोभिः साध्यते ख । अहःसमूहसाध्ये द्विरा-

त्रादियागभेदे । स च ताण्ड्य० ब्रा० भाष्ये षोड़श
ऋत्विज उपक्रम्य “एतेऽहीनैकाहैर्याजयन्ति” आपस्त० उक्तः
“तएते होत्रादिनामका षोड़शर्त्विजोद्विरात्रादिभिरहीन-
संज्ञकैरग्निष्टोमादिभिरेकाहसंज्ञकैर्याजयन्ति” भा० “अहीन
यजनमशुचिकरमिति” श्रुतिः “अभिचारमहीनञ्च त्रिः
कृत्वेह विशुध्यति” मनुः । अहीनामिनःस्वामी । २ सर्पराजे
वासुकौ पु० । न हीनः । ३ अन्यूने त्रि० न न महीन
महीन पराक्रमम् रघुः “वेदयज्ञैरहीनानां प्रशस्तानां स्वक-
र्म्मसु” मनुः “त्वत्तः सूतमहीनकीर्त्तेः” भा० आ० प० ।

अहीनगु पु० सूर्य्यवंश्ये नृपभेदे “अहोनगुर्नाम स गां समग्रा

महीनवाहुद्रविणः शशास” रघुः “रामस्य तनयोजज्ञे कुश
इत्यभिविश्रुतः । अतिथिस्तु कुशाज्जज्ञे निषधस्तस्य
चात्मजः । निषधस्य नलः पुत्त्रोनभः पुत्रोनलस्य तु । नभस्य
पुण्डरीकस्तु क्षेमधन्वा ततः स्मृतः । क्षेमधन्वसुतस्त्वासी-
द्देवानीकः प्रतापवान् । आसीदहीनगुर्नाम देवानीकात्मजः
प्रभुः । अहीनगोस्तु दायादः सुधन्वा नाम पार्थिवः” ।
हरि० व० १६ अ० ।

अहीनवादिन् त्रि० न हीनः वादी । “अन्यवादी क्रिया-

द्वेषी नोस्थापता निरुत्तरः । आहूतप्रपलायी च हीनः
पञ्चविधः स्मृतः” इति स्मृत्युक्तहीनभिन्ने वादिनि ।
पृष्ठ ०५८६

अहीमती स्त्री अहिरस्त्यस्याम् मतुप् शरादि० दीर्घः । नदीभेदे

अहीर पु० आभीरस्य पृषो० साघुत्वम् । आभीरे ।

अहीरणादि पु० अरीहणादिगणे पाठान्तरम् स च गणः तच्छब्दे उक्तः ।

अहीरणि पु० अहीन् ईरयति दूरीकरोति ईर--अनि ।

द्विमुखसर्पे तद्दर्शनाद्धीतरे सर्पाः पलायन्ते ।

अहीश्रुव पु० अहिरिव श्रूयते श्रु--क बा० दीर्घः । शत्रौ “पिप्रुं-

दासमहीश्रुवम्” ऋ० ८, ३२, २ । “अहीश्रुवं शत्रुम्” भा० ।

अहु त्रि० अह--व्याप्तौ उन् । व्यापके स्त्रियां ङीप् “पर

उर्वीर्वा अन्या उपसदः परोऽह्वीरन्याः” शत० ब्रा० ।
अंहते आधारे उन् अंहु भगे न० । “यदस्य अंहुभेद्या
कृधु” य० २२, २८, “अंहु भगं भेद्यं विदार्य्यं यस्याः” दीपः ।

अहुत पु० नास्ति हुतं हवनं यत्र । धर्मसाधनत्वेऽपि अहोमे

१ वेदपाठे । “अहुतं च हुतञ्चैव तथा प्रहुतमेव च । ब्राह्मं
हुतं प्राशितञ्च पञ्च यज्ञान् प्रचक्षते” जपोऽहुतो हुतो-
होमः प्रहुतो भौतिको बलिः । ब्राह्मं हुतं द्विजाग्रार्च्चा
प्राशितं पितृतर्पणम्” मनुः यस्य हवनं न कृतं तादृशे
२ हविरादौ त्रि० । “अथ यत् पुराणा नाश्नन्ति यथा
अहुतस्य हविषो नाश्नीयात् एवं तत्तस्माद्दीक्षितस्य नाश्नी-
यात्” शत० ब्रा० ।

अहृणान त्रि० हृणी--रोषणे कण्ड्वा० ताच्छील्ये चानश्

वेदे नि० न० त० । अक्रोधने । “किं मे हव्यमहृणानो-
जुषेत” ऋ० ७, ८६, २ । लोके क्वचित् वेदे च अहृणीय-
मानः । “राजाना क्षत्रमहृणीयमानाः” ऋ० ५, ६२, ६ ।

अहे अव्य--अह + ए । १ क्षेपे, वियोगे च । “अहे राम!

घनश्याम! चुम्बामि मुखपङ्कजम् । यदि जीवामि शीकेन
पुनः पश्यामि ते मुखम्” ।

अहेड त्रि० हेड--अनादरे अच् न० त० । अवज्ञाशून्ये

अहेडमान त्रि० हेड--शानच् न० त० । आद्रियमाणे

अवज्ञाशून्ये “अहेडमानो वरुणः” ऋ० १, २४, ११ ।

अहेतु पु० न० त० । १ हेतुभिन्ने न० ब० । २ हेतुशून्ये त्रि० वा

कप् अहेतुकोऽप्युक्तार्थे । हेतुः कारणमुद्देश्यञ्च । कारणञ्च
कार्य्याव्यवहितक्षणे कार्य्याधिकरणे स्थितिशाली यथा
घटादिकंप्रति मृत्तिकादि कटकादिकं सुवर्ण्णादि । तयोस्तद-
धिकरणेतत्पूर्ब्बं स्थितत्वात् तथात्वम् । कारणताग्राहकौ च
अन्वयव्वतिरेकौ । मतभेदे तद्ग्राहकाणि कारणशब्दे वक्ष्यन्ते

अहेरु पु० न हिनोति हि--रु न० त० । शतमूल्याम् ।

अहैतुक त्रि० हेतुत आगतम् ठञ् न० त० । १ हेतुतोऽ-

प्राप्ते २ उद्दिश्यान्तरासक्ततयाऽकृते । ३ उपपत्तिशून्ये
च । “यत्तु कृत्स्नवदेकस्मिन् कार्य्ये सक्तमहैतुकम् ।
अतत्त्वार्थवदल्पञ्च तत्तामसमुदाहृतम्” गीता ।

अहो अव्य० न + हा--डो । १ शोके, २ धिगर्थे, ३ विषादे,

४ दयायां, ५ सम्बोधने, ६ विस्मये, ७ प्रशंसायाम्, ८ वितर्के,
९ असूयायाञ्च “अहो महत्त्वं महतामपूर्ब्बम्” नीतिः
“कुसुमधनुषोमन्दिरमहो” श्यामास्तवः । “अहो
अहोभिर्महिमाहिमागमे” नैष० ।

अहोरात्र पु० अहश्च रात्रिश्च टच् समा० । सूर्य्योदयद्वय-

मध्यवर्त्तिकाले षष्टिदण्डात्मके मानुषे दिने पित्र्याद्यहोरा-
त्रमानन्तु--अहश्शब्दे ५७६ पृष्ठे उक्तम् । त्रिंशत्कला मुहूर्त्तः
स्यादहोरात्रस्तु तावतः । अहोरात्रे विभजते सूर्य्योमानु-
पदैविके” मनुः । “रात्राह्नाहाः पु० सि” पा० उक्तेः पुंस्त्वे-
ऽपि आर्षत्वात् क्लीवम् “रात्रिञ्च तावतीमेव तेऽहोरात्र
विदीविदुः” मनुः ।

अहोरथन्तर न० अह्नि गेयं रथन्तरम् सामभेदः न रो रः । दिवसे गेये रथन्तरनामकसामभेदे ।

अहोरूप न० अह्नो रूपम् न रो रः । दिवसरूपे ।

अहोवत अव्य० अहो च वत च द्व० । १ खेदे, २ सम्बोधने ३

अनुकम्पायाञ्च । “अहोवत महत् कष्टम्” गणरत्न० “अहोवत
महत् पापम्” गीता “अहोवतासि स्पृहणीयवीर्य्यः” कुमा०

अह्नवाय्य त्रि० ह्नु--बा० आय्य न० त० । निह्नवाकर्त्तरि ।

“सत्यं तत्तुर्वशे यदौ विदानो अह्नवाय्यम्” ऋ० ८, ४५, २७

अह्नाय अव्य० ह्नु--घञ् वृद्धिः पृषो० वस्य यत्वं न० त० ।

शैघ्य्रे । “अह्नाय सा नियमजं क्लममुत्ससर्ज” कुमा०
“अह्नाय तावदरुणेन तमो निरस्तम्” रघुः स्वच्छन्दो-
च्छलदच्छकच्छकुहरच्छातेतराम्बुच्छटा--मूर्च्छन्मोसमहर्षि
हर्षविहितस्नानाह्निकाऽह्नाय वः” का० प्रा० ।

अह्यर्षु त्रि० अहिमाहन्तारं शत्रुमृषति ऋष--उ । शत्रु

प्रति आभिमुख्येन गन्तरि “अह्यर्षूणां चिन्न्ययां
अविष्याम्” ऋ० २ । ३८ । ३ ।

अह्रय त्रि० न जिह्रेति ह्री--अच् न० त० । निर्लज्जे

“वृणीमहे अह्रयं वाजमृग्मियम्” ऋ० ३, २, ४, ।

अह्रयाण त्रि० ह्री--बा० “आनच् न० त० । निर्लज्जे “अग्र

एति युवतिरह्रयाणा” ऋ० ७, ८०, २ ।

अह्रि पु० हृ--क्रि न० त० । कवौ । “शुक्रं दुदुह्रे अह्रयः” ऋ० ९, ५४, १ ।

अह्रुत त्रि० ह्वृ--क्त न० त० पृ० । अकुटिले “समेनमह्रुत

इमा गिरः” ऋ० ९, ३४, ६ ।

अह्रीक पु० नास्ति ह्रीर्यस्य । १ क्षपणके तस्य दिगम्बरत्वेन

लज्जाहीनत्वात्तथात्वम् २ निर्लज्जे त्रि० ।

अह्वल त्रि० न ह्वलति चलति ह्वल--अच् न० त० १ भल्लातके ।

२ विह्वलभिन्ने त्रि० ।
इति श्रीतारानाथतर्कवाचस्पतिभट्टाचार्य्यसङ्कलिते
वाचस्पत्ये वृहदभिधाने अकारादिकशब्दसमूहः समाप्तः ।