पृष्ठ ०६६०

आतृण्ण त्रि० आ + तृद--क्त । १ हिंसिते २ छिन्ने च । “तस्मा-

दातृण्णात् प्रेरितो वृक्षादिवाहतात्” शत० ब्रा० ।

आतृप्य न० आतृप्यत्यनेन आ + तृप--बा० करणे क्यप् ।

(आता) फलभेदे ।

आतोद्य न० सनन्तात् तुद्यते आ + तुद--ण्यत् । वीणादौ

वाद्ये । “स्रजमातोद्यशिरोनिवेशिताम्” “आतोद्यं ग्रा-
हयामास समत्याजयदायुधम्” इति च रघुः ।

आत्त त्रि० आ + दा--क्त । गृहीते “गामात्तसारां रघुरप्यवेक्ष्य” रघुः ।

आत्तगन्ध त्रि० आत्तोगृहीतोऽरि णा गन्धो गर्व्वो यस्य ।

१ शत्रुणाभिभूते, २ गृहीतगन्धे षुप्पादौ च । “नात्त-
गन्धमबधूय शत्रुभिः” माघः आत्तगन्धमनाघ्रातसौरभमन-
भिभूतञ्चेति” मल्लिनाथः ।

आत्तगर्व्व त्रि० आत्तोगृहोतोगर्व्वोयस्य । १ अभिभूते ।

आत्मकर्म्मन् त्रि० ६ त० । आत्मनः स्वस्य कर्त्तव्ये कार्य्ये

“आत्मकर्म्मक्षमं देहं क्षात्रोधर्म्म इवाश्रितः” रघुः ।

आत्मकाम त्रि० आत्मानं कामयते कम--णिङ् अण् उप०

स० । विषयान्तरेच्छानिवर्त्तनेन १ आत्ममात्राभिलाषुके
२ आत्ममात्रज्ञानेच्छायुक्ते । “योऽकामोनिष्काम आप्तकाम
आत्मकामः न तस्य प्राणा उत्क्रामन्ति” वृ० उ० । “आप्ताः
कामा येन स आप्तकामः काम्यन्ते कामाः आत्मकाम-
त्वेन यस्यात्मैव नात्यःकामयितव्यो वस्त्वन्तरभूतः पदार्थो-
भवति । “आत्मैवान्तरोबाह्यः कृत्स्नः प्रज्ञानघन
एकरसोनोर्द्ध्वं न तिर्य्यग्नाधः” नात्मनोऽन्यत् कामयितव्यं
वस्त्वन्तरं यस्य “यस्य सर्वमात्मैवाभूत् तत् केन कं पश्येत् शृणुया
त्विजानीयाद्वा” सर्वात्मभूतं विजानन् किं कामयेत ज्ञाय-
मानोह्यन्यत्वेन पदार्थः कामयितव्यो भवति नचासावन्यो
ब्रह्मविद आप्तकामस्यास्ति” भा० । आत्मकामस्यैव
यथाप्तकामता तथाप्तकामशब्दे वक्ष्यते ।

आत्मकामेय त्रि० आत्मकामाया इदम् ढक् । आत्मकामास-

म्बन्धिनि ततः स्वार्थे राजन्या० वुञ् । आत्मकामेयकःतदर्थे ।

आत्मगुप्त त्रि० आत्मना गुप्तः । स्वशक्त्यैव रक्षिते ।

(आलकुशी) लताभेदे स्त्री तस्याःस्पर्शने हि अतिकण्डूयनं नृणां
भवति तद्भयाच्चान्यैर्नसा स्पृश्यते इति तस्या आत्मगुप्तत्वम् ।

आत्मग्राहिन् त्रि० आत्मानं आत्मार्थमेव वा गृह्णाति ग्रह-

णिनि १ उदरम्भरौ २ आत्मज्ञे च ।

आत्मघातिन् त्रि० आत्मानं देहं हन्ति हन्--णिनि ६ त० ।

“व्यापादयेत् वृथात्मानं स्वयं योऽग्न्युदकादिभिः ।
अवैधेनैव मार्गेण आत्मघाती स उच्यते” इत्युक्तलक्षणे
आत्मनः स्वशरीरस्य प्राणेन सह वियोजयितरि जने
आत्मघातश्च द्विविधः वैधोऽवैधश्च अवैधोऽपि द्विविधः
ज्ञानपूर्ब्बकस्तदपूर्ब्बकश्च । तत्र वैधात्मघाते न दोषः
तदाहतुः मनुवृद्धगर्गौ “वृद्धः शौचमृते लुप्तः प्रत्या-
ख्यातभिषक्क्रियः । आत्मानं घातयेद्यस्तु भृग्वग्न्य-
नशनाम्बुभिः । तस्य त्रिरात्रमाशौचं द्वितीये त्वस्थिस-
ञ्चयः । तृतीये तूदकं कृत्वा चतुर्थे श्राद्धमाचरेत्”
हेमाद्रौ अवैधात्मघातनिन्दनेन तत्राधिकारिणमाह
विष्णुध० । “नरस्तु व्याधिरहितो न त्यजेदात्मनस्तनुम्
असूर्य्या नाम ते लोका अन्धेन तमसावृताः । तांस्ते प्रत्यभि
गच्छन्ति ये के चात्महनोजनाः । अरिष्टैरात्मनोज्ञात्वामृत्यु-
कालमुपस्थितम् । व्याधितोभिषजा त्यक्तः पूर्ण्णेचायुषि
चात्मनः । यथायुगानुसारेण संत्यजेदात्मनस्तनुम् । तस्मिन् काले
तनुंत्यक्त्वा यथेष्टफलमाप्नुयात्” अपरार्के ब्रह्मगर्भः “यो
जीवितुं न शक्नोति महाब्याध्युपपीड़ितः । सोऽग्न्युदकं र्महा-
यात्रां कुर्व्वन्नपि न दुष्यति” । तेन प्रयागाद्यतिरिक्तेऽपि
अचिकित्सरोगादीनामधिकारः । एतच्च वानप्रस्थस्यैवेति विज्ञा-
नेश्वरादयः । “आसां महर्षिचर्य्याणां त्यक्त्वाऽन्यतमया तनुम् ।
वीतशोकभयो विप्रो ब्रह्मभूयाय कल्पते” इति मनुना
वानप्रस्थस्यैव मरणाधिकारप्रतिपादनात् । गृहस्थस्याप्यधिकार
इति निर्णयसिन्धुः । प्रयागाद्यतिरिक्ते विप्रस्य तु नाधिकारः
“शूद्राश्च क्षत्रिया वैश्या अन्त्यजातास्तथाधमाः । एते
त्यजेषुः प्राणान् वै वर्ज्जयित्वा द्विजं नृप! पतित्वा
ब्राह्मणस्तव ब्रह्महा चात्मघातकृत्” तद्धृत वचनात् अब्रा-
ह्मणोवै स्वर्गादि महाफलजिगीषया । प्रविशेजज्वलनं
तोयं करोत्यनशनं तथेति” आदित्य पु० वाक्याच्च ।
तत्र प्रयागादिषु सर्व्वे वर्ण्णा वैधात्मघाताधिकारिणः यथा
“दुश्चिकित्स्येर्महारोगैः पीड़ितस्तु पुमानपि । प्रवि-
शेज्ज्वलनं दीप्तं करोत्यनशनं तथा अगाधतोयराशिं
च भृगोः पतनमेव च । गच्छेन्महापथं वापि तुषारगिरि-
मादरात् । प्रयागवटशाखायां देहत्यागं करोति च । स्वयं-
देहविनाशञ्च काले प्राप्ते महामतिः । उत्तमान् प्राप्नु-
याल्लोकान्नात्मघाती भवेत् क्वचित् । महापापक्षयात् स्वर्गे
दिव्यान् भोगान् समश्नुते । एतस्मिन्नधिकारस्तु सर्वेषां सर्व-
जन्तुषु । नराणामथ नारीणां सर्ववर्ण्णेषु सर्वथा । ईदृशं मरण
पृष्ठ ०६६१
येषां जीवानां कुत्रचिद्भवेत् । अशौचं तुत्र्यहं तेषां वज्रा-
नलहतेषु च” आदि० पु० “वाराणस्यां म्रियते यः प्रत्या-
ख्यातभिषक्क्रियः काष्ठपाषाणमध्यस्थो जाह्नवीजलमध्यगः ।
अविमुक्तोन्मुखस्तस्य कर्णमूलगतोहरः । प्रणवं तारकं ब्रूते
नान्यथा कुत्रचित् क्वचित्” मात्से, भारते च” न लोकवच-
नात्तात! न वेदवचनादपि मतिरुत्क्रमणीया ते प्रयागमरणं
प्रति” अतएव विष्णुधर्मे रोग्यादिमरणमुक्त्वोक्तम् “यथायुगा-
नुसारेण संत्यजेदात्मनस्तनुमिति” प्रयागादौ विशेषः
त्रिस्थलीसेतौ स्कान्दे “यथा कथचित्तीर्थेऽस्मिन् प्राणत्यागं
करोति यः । तस्यात्मघातदोषो न प्राप्नुयादोप्सिता-
न्यपि । पाद्मेविष्णुः “देहत्यागं तथा धीराः कुर्वन्ति मम
सन्तिधौ । मत्तनुं प्रविशन्त्येव न पुनर्जन्मने नराः” कौर्मेः व्या-
धितो यदि वा दीनः क्रुद्धोवापि भवेन्नरः । गङ्गायमुनमासाद्य
यस्तु प्राणान् परित्यजेत् ईप्सितान् लभते कामान्वदन्ति
मुनिपुङ्गवाः” तथा “या गतिर्योगयुक्तस्य सत्वस्थस्य
मनीषिणः । सा गतिस्त्यजतः प्राणान् गङ्गायमुनसंगमे” । वाराहे
“तत्र योमुञ्चति प्राणान् वटमूलेषुसुन्दरि! सर्वलोकानतिक्र-
म्य मम लोकं प्रपद्यते” । तथा “अकामोवासकामो वा
वटमूलेषु सुन्दरि! शीघ्रं प्राणान्प्रमुञ्चेत यदीच्छेत्परमां गतिम्”
तथा “पञ्चयोजनविस्तीर्णे प्रयागस्य तु मण्डले । व्यतीतान्
पुरुषान् सप्त भविष्यांश्च चतुर्दश । नरस्तारयते सर्वान् यस्तु
प्राणान्परित्यजेत्” ब्राह्मे “ध्यात्वा विष्णुपदाम्भोजं प्रयागे
विष्णुतत्परः तनुन्त्यजति वै माघे तस्य मुक्तिर्न संशयः ।
दुष्कृतोऽपि दुराचारो ब्रह्महत्यादिपातकी । हरिं
ध्यात्वा त्यजेद्देहं प्रायशो मुक्तिभाग्भवेत्” भविष्यो-
त्तरे “समाः सहस्राणि तु सप्त वै जले दशैकमग्नौ
पतने च षोडश । महाहवे षष्टिरशीति गोग्रहे अनाशने
भारत! चाक्षया गतिः अग्निप्रवेशं ये कुर्युरविमुक्ते
विधानतः प्रविशन्ति मुखन्ते मे निःसंदिग्धं वरानने!
इति सामान्यतोऽपि फलमुक्तम् एवमन्येऽपि विघयोज्ञेयाः ।
एवं विहित मरणं तु कलौ निषिद्धमेव “भृग्वग्निमरणं
चैव वृद्धादिमरणं तथेति माधवीये कलिवर्ज्ज्येषूक्तेः
यत्तुगौडाः प्रयागादिमरणं ब्राह्मणभिन्नयिषयमित्याहु-
स्तत् त्रिस्थलीसेतुकृता दूषितं प्रागुक्तवचनात्
“सर्वेन्द्रियवियुक्तस्य स्वव्यापाराक्षमस्य च प्रायश्चित्त-
मनुज्ञातमग्निपातो महापथः । धर्मार्जनासमर्थस्य कर्त्तुः-
पापाङ्कितस्य च । ब्राह्मणस्याप्यनुज्ञातं तीर्थे प्राणविमो-
क्षणमिति” हेमाद्रौ विवस्वदुक्तेश्च अपरार्के चैवमेव । सहगमनं
कलौ भवत्येव “कलौ नान्या गतिः स्त्रीणां सहानुगमनादृत
इति ब्रह्मवैवर्त्तात् एतेन मरणान्तिकप्रायश्चित्तमपि
व्याख्यातम् काशीखण्डादौ चातुर्वर्ण्यस्य तनुत्यागविधयश्च
युगान्तरपरा एवं प्रयागेऽपि । अवैघात्मघाते तु
“आत्मघातिनमुपक्रम्य” विहितं तस्य नाशौचं नाग्निर्ना-
प्युदकक्रियेति कू० पु० वचनात् नाशौचादि । तस्य च
क्रियाकरणे चान्द्रायणद्वयसहितं वर्ण्णिबधप्रायश्चित्तं
नारायणबलिं च कृत्वा वत्सरादूर्द्धं क्रिया कर्त्तुं शक्यते ।
वत्सरान्ते तु सर्बमौर्ध्वदेहिकंकुर्य्यात् इति हेमाद्रिप्रभृतयः ।
“गोब्राह्महतानाञ्च पतितानां तथैव च । ऊर्द्धं
संवत्स्वरात् कुर्य्यात्सर्वमेवौर्ध्वदेहिकमिति हेमाद्रौ
षट्विंशन्मतात्, ब्राह्मे “क्रियते पतितानान्तु गते संवत्सरे
क्वचित् देशधर्मप्रमाणत्वाद्गयाकूपे स्वबन्धुभिः मार्तण्डपा-
दमूले वा श्राद्धं हरिहरौ स्मरन्” सूर्यपद इत्यर्थः
तत्र वर्षमध्येऽपि कृत्यमुक्तमपरार्के वायुपुराणे “शुक्ल-
पक्षे तु द्वादश्यां कुर्य्यात् श्राद्धन्तु वत्सरे । द्वादशा-
हनि वा कुर्याच्छुक्ले च प्रथमेऽहनि” छागलेयः “नारायण
बलिः कार्योलोकगर्हाभयान्नरैः । तथा तेषां भवेच्छौचं
नान्यथेत्यब्रवीद्यमः” व्यासः “नारायणं समुद्दिश्य शिवं वा
यत्प्रदीयते । तस्यशुद्धिकरं कर्म तद्भवेन्नैतदन्यथेति” सचात्म-
घातादिप्रायश्चित्तं कृत्वा कार्यः तदुक्तं हेमाद्रौ षट्त्रिंश-
शन्मते “कृत्वा चान्द्रयणं पूर्व्वं क्रिया कार्या यथाविधि ।
नारायणबलिः कार्य्योलोकगर्हाभयान्नरैः । पिण्डो-
दकक्रियाः पश्चादृषोत्सर्गादिकं च यत् । एकोद्दिष्टानि
कुर्व्वीत सपिण्डीकरणं तथा । इन्द्रियैरपरित्यक्ताये च मूढा-
विषादिनः । घातयन्ति स्वमात्मानञ्चाण्डालादिहताश्च ये ।
तेषां पुत्राश्च पौत्राश्च दयया समभिप्लुताः यथा आद्धं
प्रतन्वन्ति विष्णुनामप्रतिष्ठितम् तथा ते संप्रवक्ष्यामि
नमस्कृत्य स्वयम्भुवम्” इति हेमाद्रौ तेनैवोक्तेश्च तत्रैव बौधाय
नोऽपि “अथ नारायणबलिं व्यख्यास्यामोऽभिशस्तपतितसु-
रापात्मत्यागिनां ब्राह्मणहतानाञ्च द्वादशवर्षाणि त्रीणि-
वा कुर्वीतेति” गृह्यपरिशिष्टे तु चण्डालादीत्याद्युक्त्वा
“दग्ध्वा शरीरं प्रेतस्य संस्थाप्यास्थीनि यत्नतः । प्रायश्चित्तं
तु कर्त्तव्यं पुत्रैश्चान्द्रायणत्रयमित्युक्तम् । प्रमादमरणे तु
नदोषः मदनरत्ने ब्राह्मे “प्रमादादपि निःशङ्कस्त्वकस्माद्वि-
धिचोदितः चाण्डालैर्ब्राह्मणैश्चौरैर्निहतोयत्र पुत्रचित् ।
तस्य दाहादिकं कार्य्यं यस्मान्न पतितस्त सः । चान्दायर्ण
तप्तकृच्छ्रद्वयं तस्य विशुद्धये । यद्वा कृच्छान पञ्चदश कृत्वा
पृष्ठ ०६६२
तु विधिना दहेत् “बुद्धिपूर्व्वमृतानां तु त्रिंशल्कृच्छ्रं
समाचरेदित्युक्तम्” स्मृतिरत्नावल्यां तु द्विगुणं प्रायश्चित्तं
कृत्वार्वागप्यब्दात्सर्वं कार्यमित्युक्तम् आत्मनोघातशुद्व्यर्थ
चरेच्चान्द्रायणद्वयं तप्तकृच्छ्रचतुष्कञ्च त्रिंशत्कृच्छ्राणि
वा पुनः । अर्वाक् संवत्सरात्कुर्य्याद्दहनादि यथोदितम्
कृत्वा नारायणबलिमनित्यत्वात्तदायुष इति” इदञ्चात्मब-
धनिमित्तं तत्तज्जातिबधप्रायश्चित्तेन समुच्चितं
कार्य्यम् । प्रमादमरणे तु “अथ कश्चित् प्रमादेन म्रियेताग्न्यु-
दकादिभिः तस्याशौचं विधातव्यं कर्तव्या चोदकक्रिया”
इत्युक्तेः सर्वं कार्य्यं तत्र तु “तोयाग्निनृपगोविप्रैरन्वक्षञ्चा-
त्मघातिनाम्” याज्ञवल्क्येन सद्यःशौचं विहितं प्रा-
गुक्तवचने त्र्यहाशौचमिति तत्र त्र्यहाशौचसद्यः शौचयो-
र्विकल्पैति भेदः । त्र्यहाशौचमिति रघुनन्दनादयः । सद्यः
शौचमिति मिताक्षरा । ण्वुल् आत्मघातकोऽप्यत्र त्रि० ।

आत्मघोष पु० आत्मानं घोषयति स्वशब्दैः । १ काके, २ कुक्कुटे,

च, ताभ्यां हि (का का) (कु कु) स्वस्वध्वनिनै-
वात्मनामैकदेशो घोष्यते इति तयोस्तथात्वम् ।

आत्मज पु० आत्मनो मनसो देहाद्वा जायते, आत्मा वा जायते

जन--ड । १ मनोभवे २ पुत्रे च “अङ्गादङ्गात् सम्भवति पुत्र-
वत् दुहिता नृणामिति” स्मृतिः “आत्मा वै जायते पुत्र इति”
श्रुतिः ३ कन्यायां, ४ मनोजन्यायां बुद्धौ चं स्त्री । “चलिताः
पुरःपतिमुपेतुमात्मजाः” माघः वन्द्यं युगं चरणयोर्जनकात्म-
जायाः” रघुः । क्त । आत्मजातोऽप्यत्र पुंस्त्री० ।

आत्मजन्मन् पु० आत्मनो जन्म यस्य । अपत्ये “अत आहर्त्तु-

मिच्छामि पार्वतीमात्मजन्मने” कुमा० । “तमात्मजन्मानमजं
चकार” रघुः । ६ त० । पुत्ररूपात्मोपत्तौ न० “तस्या-
मात्मानुरूपायामात्मजन्मसमुत्सुकः” रघुः ।

आत्मज्ञान न० आत्मनोज्ञानम् । यथार्थरूपेणात्मनो ज्ञाने

तज्ज्ञानस्य च मोक्षसाधनत्वं श्रुतावुक्तम् “अभयंवै जनक!
प्राप्तोऽसि येनात्मानमेवावेः” “महान्तं विभुमात्मानं मत्वा
धीरो न शोचति” श्रुतिः आत्मस्वरूपञ्च आत्मशब्दे
वक्ष्यते तस्य इत्रस्मात् भेदज्ञानं यथास्वरूपज्ञानञ्चा-
त्मज्ञानम् तच्च साक्षात्काररूपम् तस्यैव मोक्षसाधनत्वात्
“आत्मज्ञाने शमे च स्याद्वेदाभ्यासे च यत्नवान्” ।
“सर्वेषामपि चैतेषामात्मज्ञानं परं स्मृतम् । तद्ध्यग्र्यं
सर्वविद्यानां प्राप्यतेऽह्यमृतं यतः” इति च मनुः ।
६ त० । आत्मबोधादयोऽप्यत्र ।

आत्मतत्त्व पु० आत्मनस्तत्त्वम् । आत्मनो यथार्थस्वरूपे १ चै-

तन्यरूपे मतभेदे २ कर्त्तुत्वादिरूपे । आत्मतत्त्वं च उदयनाचार्यैः
चार्व्वाकादिमतनिरसनेन आत्मतत्त्वविवेके दर्शितम् यथा
“इह खलु निसर्गप्रतिकूलस्वभावं सर्व्वजनसंवेदनसिद्धं
दुःखं जिहासवः सर्वएव तद्धानोपायमविद्वांसोऽनुसरन्तः
सर्वाध्यात्मविदेकवाक्यतया तत्त्वज्ञानमेव तदुपायमाकर्ण-
यन्ति न ततोऽन्यम्, प्रतियोग्यनुयोगितया आत्मैव तत्त्व-
तोज्ञेयः । तथाहि यदि नैरात्म्यं यदि वात्मास्ति वस्तु-
भूत उभयथापि नैसर्गिकमात्मज्ञानमतत्त्वज्ञानमेवेत्यत्राप्ये-
कवाक्यतैव वादिनाम् अत आत्मतत्त्वं विविच्यते इत्या-
दिना, विस्तरस्तु तत्रैव अवगन्तव्यः आत्मैव तत्त्वं
परमपदार्थः । ३ आत्मरूपे परमपदार्थे च ।

आत्मतुष्टि क्रि० आत्मन्येव तुष्टिरस्य । आत्ममात्रज्ञानला-

भेन १ प्राप्ततुष्टौ आत्मज्ञे ब्रह्मविदि । ६ त० । २ आत्मनः सन्तोषे
स्त्री । सा च विकल्पविषये धर्म्मे प्रमाणम् “वेदोऽखिलो
धर्म्ममूलं स्मृतिशीले च तद्विदाम् । आचारश्चैवसाधूनामात्मन-
स्तुष्टिरेव चेति” मनूक्तेः ।

आत्मत्यागिन् त्रि० आत्मानं देहं त्यजति त्यज--घिनुण् । आत्मधातिनि आत्मघातिशब्दे उदाहरणा

आत्मदर्श पु० आत्मा देहः दृश्यतेऽत्र दृश--आधारे घञ् ।

१ दर्पणे आदर्शे हेम० । “प्रसादमात्मीयमिवात्मदर्शः”
रघुः । भावे घञ् ६ त० । २ आत्मनोदर्शने आत्मसाक्षात्कारे ।

आत्मदर्शन म० आत्मा दृश्यते साक्षात्क्रियतेऽनेन दृश--करणे

ल्युट् ६ त० । आत्मसाक्षात्कारसाधने १ श्रवणे २ मनने ३ निदि
ध्यासने, “आत्मा वा अरे द्रष्टव्यः श्रोतव्योमन्तव्योनिदि-
ध्यासितव्यः” इति श्रुतौ साक्षात्कारसाधनतया श्रवणादीनां
त्रयाणां विधानात् तेषां तथात्वम् “श्रोतव्यः श्रुति वाक्येभ्यो-
मन्तव्य श्चोपपत्तिभिः” इत्युपक्रम्य “एते दर्शनहेतव” इत्युक्तेश्च
तेषां तथात्वम् भावे ल्युट् । २ आत्मसाक्षात्कारे “एष वै
परमोधर्म्मो यद्योगेनात्मदर्शनम्”, ३ आत्मत्वेन सर्वभूतेषु
ज्ञाने च “स्त्र्यालोकालम्भविगमः सर्वभूतात्मदर्शनम्” या० ।

आत्मद्रोहिन् त्रि० आत्मने द्रह्यति द्रुह--णिनि । आत्मघातिनि

आत्मध्यान न० आत्मनोध्यानम् योगविशेषः । आत्मसा-

त्कारसाधने मानसवृत्तिभेदे । तत्प्रकारश्च शङ्खस्मृतौदर्शितः
“ध्यानं प्रोक्तं प्रवक्ष्यामि सर्वस्माद्योगतः शुभम् । हृदि-
स्थादेवताः सर्वा हृदि प्राणाः प्रतिष्ठिताः । हृदि ज्योत्तींषि-
भूयश्च हृदि सर्व्वं प्रतिष्ठितम् । स्वदेहमरणिं कृत्वा प्रण-
वञ्चोत्तरारणिम् । ध्याननिर्म्मथनाभ्यान्तु विष्णुं पश्येद्धृदि
स्थितम् । हृद्यर्कश्चन्द्रमःसूर्य्यः सोममध्ये हुताशनः ।
तेजोमध्ये स्थितं तत्त्वं तत्त्वमध्ये स्थितोऽच्युतः । अणो-
पृष्ठ ०६६३
रणीयान् महतो महीयानात्मास्य जन्तोर्न्निहितोगुहा-
याम् । तेजोमयं पश्यति वीतशोकोधातुः प्रसादान्महिमा-
नमात्मनः । वासुदेवस्तमोऽन्धानां प्रत्यक्षोनैव जायते ।
अज्ञानपटसंवीतैरिन्द्रियैर्विषयेप्सुभिः । एष वै पुरुषोविष्णु-
र्व्यक्ताव्यक्तः सनातनः । एष धाता विधाता च पुराणानि-
ष्कलः शिवः । वेदाहमेतं पुरुषं महान्तमादित्यवर्णं
तमसः परस्तात् । मन्त्रैर्विदित्वा न बिभेति मृत्योर्नान्यः
पन्था विद्यतेऽस्यायनाय । पृथिव्यापस्तथा तेजोवायुराका-
शमेव च । पञ्चेमानि विजानीयान्महाभूतानि पण्डितः ।
चक्षुः श्रोत्रे स्पर्शनञ्च रसना घ्राणमेवच । बुद्धीन्द्रियाणि
जानीयात् पञ्चेमानि शरीरके । शब्दोरूपं तथा स्पर्थो-
रसोगन्धस्तथैव च । इन्द्रियस्थान् विजानीयात् पञ्चैव
विषयान् बुधः । हस्तौ पादावुपस्थञ्च मुखं पायुस्तथैव
च । कर्म्मोन्द्रियाणि पञ्चैव नित्यं सन्ति शईरके ।
मनोबुद्धिस्तथैवात्मा व्यक्ताव्यक्तं तथैव च । इन्द्रियभ्यः
पराणीह चत्वारि प्रवराणि च । तथात्मानं तद्व्यतीतं पुरुषं
पञ्चविंशकम् । तन्तु ज्ञात्वा विमुच्यन्ते ये जनाः साधुवृ-
त्तयः । इदन्तु परमः शुद्धमेतदक्षरमुत्तमम् । अशब्दमर-
सस्पर्शमरूपं गन्धवर्ज्जितम् । र्निदुःखमसुखं शुद्धं तद्विष्णोः
परमं पदम् । विज्ञानसारथिर्यस्तु मनःप्रग्रहबन्धनः ।
सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम् ।
आराग्रशतशोभागः कल्पितस्तु सहस्रधा । तस्यापि शतशोभा-
गाज्जीवः सूक्ष्मौदाहृतः । महतः परमव्यक्तमव्यक्तात्
पुरुषः परः । पुरुषान्न परं किञ्चित्सा काष्ठा सा परा
गतिः । एष सर्व्वेषु भूतेषु तिष्ठत्यविरलः सदा । दृश्यते
त्वग्र्यया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः” । जोवात्मपरमा-
त्मानोरेकतया क्वचिदोश्वरधर्मेण क्वचिच्च जीवधर्मेण ध्यान-
मुच्यते । आत्मस्वरूपमुक्त्वा तस्य ध्यान प्रकारः या० स्मृतौ
उक्तः यथा । “अनन्यविशयं कृत्वा मनोबुद्धिस्मृतीन्द्रियम् ।
ध्येय आत्मा स्थितोयोऽसौ हृदये दीपवत् प्रभुः” “आत्म-
व्यतिरिक्तविषयेभ्यो मनोबुद्धिस्मृतीन्द्रियाणि प्रत्या हृत्यात्मै-
कविषयाणि कृत्वात्मा ध्येयः योऽसौ प्रभुर्निर्वातस्थप्रदीपव-
द्देदीप्यमानो निष्प्रकम्पोहृदि तिष्ठति एतदेव तस्य ध्येय
त्वं यच्चित्तवृत्तेर्बहिर्विषयावभासतिरस्कारेणात्मप्रवणता-
नाम शरावसम्पुटनिरुद्धप्रभाप्रतानप्रसरस्येव प्रदीपस्यै
कनिष्ठत्वम्” मिता० ।

आत्मन् पु० अत--मनिण् । १ स्वरूपे, २ यत्ने, ३ देहे, ४ मनसि,

५ बुद्धिस्थे निजे, ६ बुद्धौ, ७ अर्के, ८ वह्नौ, ९ वायौ, १० जीवे,
११ ब्रह्मणि च । “आत्मानं चेद्विजानीयदह मस्मीति पुरुष-
इति श्रुत्युक्तेः अहंप्रत्ययविषयत्वमात्मनः । अहं प्रत्यय-
विषयत्वे च बह्व्यःवादिविप्रतिपत्तयः शा० भाष्येदर्शिताः ।
“देहमात्रं चैतन्यविशिष्टमात्मेति प्राकृताजना लौकायति-
काश्च प्रतिपन्नाः । इन्द्रियाण्येव चेतनान्यात्मेत्यपरे ।
मनइत्यन्ये । विज्ञानमात्रंक्षणिकमित्येके । शून्यमित्यप्ररे । अस्ति
देहादिव्यतिरिक्तः संसारी कर्त्ता भोक्तेत्यपरे । भोक्तैव
केवलं न कर्त्तेत्येके । अस्ति तद्व्यतिरिक्त ईश्वरः सर्वज्ञः
सर्वशक्तिरिति केचित् । आत्मा स भोक्तुरित्यपरे । एवं हि
बहवोविप्रतिपन्नाः युक्तिवाक्यतदाभाससमाश्रयाः सन्तः” ।
विवृतञ्चैतत् विप्रतिपत्तिकारणसामान्यधर्म्मप्रदर्शनपुरः-
सरं विवरणोपन्यासे माधवाचार्य्येण “यथा
रज्जुद्रव्यस्य दण्डसर्पधारादावनुष्यूतरूपेण प्रतीयमा-
नत्वमेव सामान्यम् तथाऽऽत्मनः शरीरेन्द्रियमनोबुद्धिशून्य
कर्त्तृभोक्तृसर्वज्ञब्रह्माख्यपदार्थेषु विप्रतिपत्तिस्कन्धेषु
अनुष्यूतत्वेन प्रतीयमानत्वमेव सामान्यं भविष्यति प्रत्यक्षसिद्धेऽपि
शरीराद्यर्थे प्रयुज्यमानस्यात्मवाचिनोऽहंशब्दस्य गोशब्दवद-
र्थविप्रतिपत्तिरुपपद्यते । गोशब्दस्य हि तत्तत्पक्षसिद्धव्य-
क्त्याकृतिजातिक्रियागुणाद्यर्थेषु प्रयुज्यमानस्य जातिरर्थत्वेन
वैदिकैः प्रतिपन्ना, व्यक्तिः सांख्यादिभिः, उभयं वैया करणैः,
स्वावयवसंस्थानाख्याकृतिरार्हतादिभिः । त्रितयमपि
नैयायिकाद्यैः । अथ गोशब्दप्रयोगे जात्यादीनामन्वयव्य
तिरेकनियमात्तदर्थत्वशङ्का । तर्ह्यहंशब्दप्रयोगेऽपि
शरीरादीनामन्वयव्यतिरेकनियमात्तदर्थशङ्कास्तु । तत्र
विचारविरहितं प्रत्यक्षमेव प्रमाणमाश्रित्य चेतयमानोऽहमा-
त्मेति प्राकृताः शास्त्रसंस्कारवर्ज्जिता जनाः प्रतिपन्नाः ।
तथा भूतचतुष्टयमात्रतत्त्ववादिनो लौकायतिकाश्च, मनुष्पोऽहं
जानामीति शरीरस्याहंप्रत्ययालम्बनत्वेन ज्ञानाश्रयत्वेन
चावगम्यमानत्वात्तदेवात्मेति मन्यन्ते । अन्ये पुनरेवमाहुः
सत्यपि शरीरे चक्षुरादिभिर्विना रूपादिज्ञानाभावादिन्द्रि
याण्येव चेतनानि । न चेन्द्रियाणां करणतया ज्ञानान्वय
व्यतिरेकयोरन्यथासिद्धिः । करणत्व कल्पनादुपादान
त्वकल्पनस्याभ्यर्हितत्वात् । अतः अन्धोऽहं काणोऽहं
मूकोऽहमित्यहं प्रत्ययालम्बनानि चेतनानीन्द्रियाणि प्रत्ये-
कमात्मत्वेनाभ्युपेयानि शरीरे त्वहंप्रत्ययालम्बनत्वं चेतन-
त्वञ्चात्मभूतेन्द्रियाश्रयत्वादन्यथासिद्धम् । नन्वेकस्मिन्
शरीरे बहूनामिन्द्रियाणां चेतनत्वे यएवाहं पूर्वं रूपमद्रा-
क्षं स एवेदानीं शब्दं शृणोमीति प्रत्यभिज्ञा न स्यात् ।
पृष्ठ ०६६४
तथा भोक्तृत्वं रूपादिषु युगपदेव स्यान्न क्रमेणेति चेत्
मैवम् न हि चेतनैकत्वं प्रत्यभिज्ञाक्रमभोगयोर्निमित्तं
किन्त्वेकशरीराश्रयत्वमेव । ततो यथैकस्मिन् गृहे बहूनां
पुरुषाणामेकैकस्य विवाहेऽन्येषामुपसर्जनत्वं तथेन्द्रियात्म-
नामपि एकैकस्योपभोगकालेऽन्येषामुपसर्जनत्वम् । अन्ये तु
मन्यन्ते स्वप्नेचक्षुराद्यभावेऽपि केवले मनसि विज्ञानाश्रय-
त्वमहं प्रत्ययालम्बनत्वं चोपपद्यते । न च रूपादिविज्ञा-
नानां चक्षुराद्याश्रयत्वं, तथासति केवले मनसि रूपादि
स्मृत्यनुपपत्तेः । ततः करणान्येव चक्षुरादीनि अहंप्र-
त्ययस्तु तत्र कर्त्तृत्वोपचारात् सिद्ध्यति । न चानेकात्म-
स्वेकशरीराश्रयत्वमात्रेण प्रत्यभिज्ञा युज्यते एकप्रासा-
दमाश्रितानामपि तत्प्रसङ्गात् । तस्माच्चक्षुरादिकरणकं
शरीराद्याधारं मनएवात्मेति । विज्ञानवादिनस्तु क्षणि-
कविज्ञानव्यतिरिक्तवस्तुनः सद्भावमनुभवविरुद्धम् मन्वा-
नास्तस्यैव विज्ञानस्यात्मत्वमाहुः । प्रत्यभिज्ञानं तु
ज्वालायामिव सन्ततविज्ञानोदयसादृश्यादुपपद्यते
विज्ञानानां हेतुफलसन्तानमात्रादेव कर्म्मज्ञानबन्धमोक्षा-
दिसिद्धिः । माध्यमिकास्तु सुषुप्तौ विज्ञानस्याप्यदर्शना
च्छून्यमेवात्मतत्त्वमित्याहुः यदि सुषुप्तौ विज्ञानप्रवाहः स्या-
त्तदा विषयावभासोऽपि प्रसज्येत । निरालम्बनज्ञानायो-
गात् जाग्रत्स्वप्नज्ञानानामेव सालम्बनत्वं न सौषु-
प्तिकज्ञानानामिति चेत् न विशेषाभावात् विमतं
सालम्बनम् प्रत्ययत्वात् संमतवदिति । उत्थितस्य
सौषुप्तविषयस्मृत्यभावनियमान्न तत्र विषय इति चेत् ।
तर्हि तत्र नियमेनास्मर्य्यमाणत्वादेव ज्ञानमपि मा भूत् । न
च शून्ये विवदितर्व्य यथा सविकल्पकः स्वविषयविपरीत
निर्विकल्पकजन्यस्तथा सत्प्रत्ययोऽपि स्वविपरीतशून्यजन्य
इत्यभ्युपेयत्वात् एवं चोत्थाने सति जायमानस्याहम-
स्मीति सत्प्रत्ययस्य समनन्तरपूर्वप्रत्ययलक्षणकारणरहितस्य
वास्तवत्वायोगाच्छून्यमेव तत्त्वमिति । अपरे पुनः शरीरे-
न्द्रियमनोविज्ञानशून्यव्यतिरिक्तं स्थायिनं संसारिणं
कर्त्तारं भोक्तारमात्मानमाहुः । न च शून्येऽहंप्रत्यय
उपपद्यते बन्ध्यापुत्रादावपि तत्प्रसङ्गात् । नापि क्षणिक-
विज्ञाने क्रमभावी व्यवहारो युज्यते सर्व्वो हि लोकोऽनुकूलं
वस्तु प्रथमतो जानाति ततः इच्छति ततः प्रयतते
ततस्तत् प्राप्नोति ततः सुखं लभते । यद्येतादृशमेककर्त्तृकतया
भासमानं व्यवहारमेकसन्तानवर्त्तिनो बहव आत्मानः
परस्परवार्त्तानभिज्ञा अपि निस्पादयन्ति तदा भिन्नसन्ता-
नवर्त्तिनः किन्न निष्पादयेयुः । तस्माद्यएवाहमिदं वस्त्वज्ञा-
सिषं सएवाहमिदानीमिच्छामीत्याद्यबाधितप्रत्यभिज्ञाननि-
र्वाहाय स्थायी आत्माभ्युपेयः । न चासौ विज्ञानरूपः
अहंविज्ञानमित्येकत्वानुभवाभावात् । ममेदं विज्ञानमिति
संबन्धोह्यनुभूयते । नचायमनुभवोममात्मेतिवदौपचारिकः
बाधकाभावात् । एतेन शरीरेन्द्रियमनसामात्मत्वं प्रत्यु-
क्तम् । तत्रापि संबन्धतत्प्रत्ययस्यानिवार्य्यत्वात् अहमुल्ले-
खस्यात्राध्यासिकत्वात् । नचायमात्मा सादिः । शरीरो-
त्पत्तिसमनन्तरमेव सुखदुःखप्राप्तिमालोक्य तद्धेतुभूतयोः
पुण्यपापयोः कर्त्ता पूर्ब्बमप्यस्तीत्यवगमात् । नचायम-
नित्यः विनाशानिरूपणात् । न तावत् स्वतोविनाशः
निर्हेतुकविनाशस्यातिप्रसंङ्गिनः सुगतेतरैरनङ्गीकारात् ।
नापि परतः । निरवयवस्य विनाशहेतुसंसर्गासंभवात्
संभवे वा न विनाशः सिद्ध्येत् । कर्मनिमित्तोह्यन्यस्य संसर्गः
स च तत्कर्म्मफलोपभोगायात्मनोऽवस्थितिमेव साधयेन्न
विनाशं तस्मादनादेरविनाशिनोऽनन्तशरीरेषु यातायात-
रूपः संसारः सिद्धः । निर्विकारस्य भोगासंभावाद्विका-
रस्य क्रियाफलरूपस्याभ्युपगमे क्रियावेशात्मकं कर्त्तृत्वमनि
वार्य्यम् । भोक्तृत्वमप्यनुभूयमानं शरीरादिषु विज्ञानपर्य्यन्तेषु
अनुपपन्नत्वादुक्तात्मन्येव पर्य्यवस्यति । तथा हि । शरीरं
तावत् पञ्चभूतसंघातरूपम् “पञ्चभृतात्मके तत्तच्छरीरे पञ्च-
ताङ्गत” इत्यादिशास्त्रात् । यत्तु नैयायिका मन्यन्ते मूलो-
कवासिनां शरीरं पार्थिवमेव तत्र क्लेदनाद्युपलब्धिर्वस्त्रा-
दाविव भूतान्तरोपष्टम्भादिति । तदसत् । शोषणादिना
जलाद्यपगमेऽपि यथा वस्त्रादिस्वरूपस्य नापचयः । तथा
क्लेदनपाचनव्यूहनावकाशानामपगमेऽपि शरीरस्यापचथा-
भावप्रसङ्गात् । यच्च वैशेषिकैरुच्यते पञ्चभूतास्माकत्वे
शरीरस्याप्रत्यक्षत्वप्रसङ्गः वाय्वाकाशयोरप्रत्यक्षतया प्रत्य-
क्षाप्रत्यक्षवृत्तित्वादिति तदप्ययुक्तम् । तथासति सर्वावय
विनामप्रत्यक्षत्वापातात्तेषां प्रत्यक्षाप्रत्यक्षावयववृत्तित्वात् ।
न हि सूक्ष्माः परभागस्थिताश्चावयविनोऽवयवाः प्रत्यक्षी-
कर्त्तुं शक्यन्ते । तस्माद्भूतसंघातः शरीरम् । न च गन्धा-
दिमतां तद्रहितानाञ्च भूतानामेककार्य्याजनकत्वं
परस्परविरोधादिति वाच्यम् तथा सति नीलादीनामेकाव-
यविजनकत्वस्यैकचित्ररूपारम्भकत्वस्य चासम्भवप्रसङ्गात् ।
अनुभवबलादेव तत्र तथा स्वीकारे प्रकृते पि न तद्दण्डवा-
रितम् । तत्र शरीरस्य भोक्तृतां वदन्तो लौकायतिकाः
प्रष्टव्याः किं व्यस्तानां भूतानां प्रत्येकं भोक्तृत्वमुत सम-
पृष्ठ ०६६५
स्तानाम्, आद्येऽपि न तावद्युगपत् सर्वेषाम्भोक्तृता ।
तदास्वार्थप्रवृत्तानां तेषाम् अन्योऽन्यमङ्गाङ्गिभावानुपपत्तौ
संघातापत्त्यभावप्रसङ्गात् । अन्तरेणैव संघातम्भोक्तृत्वे देहा
द्बहिरप्येकैकस्य भूतस्य भोक्तृतोपलभ्येत । नापि क्रमेण
तेषां भोक्तृत्वं संघातानुपपत्तितादवस्थ्यात् । न च
वरविवाहन्यायेन गुणप्रधानभावेन तदुपपत्तिः, वैषम्यात् ।
यथैकैकवरस्यासाधारणत्वेनैकैका कन्या भोग्या न तथा चतुर्णां
पृथिव्यप्तेजोवायूनां भोक्तॄणां रूपरसगन्धस्पर्शा भोग्या व्यव-
स्थिताः । कथं क्रमभोगः । अथ कथञ्चित् व्यवतिष्ठेरन् । तदा
युगपत्सर्वविषयसन्निधाने सति क्रमानुपपत्तिः । यथैकस्मिन्
मूहूर्त्तेप्रत्थेकं भोग्यकन्यावस्तुनि सन्निहिते वराणां क्रम-
विवाहोगुणप्रधानतया संघातोवा नास्ति तद्वत् । नापि
समस्तानां भोक्त्रत्वसम्भवः । प्रत्येकमविद्यमानस्य चैतन्यस्य
संघातेऽप्यभावाद्भोगानुपपत्तेः । अथ मन्यसेऽग्नौ प्रक्षिप्तेषु
तिलेष्वेकैकस्य ज्वालाजनकत्वाभावेऽपि तिलसमूहस्य
यथातज्जनकत्वं तथा संघातस्यैव चैतन्यं स्यादिति तदपि संघा-
तापत्तौ हेतुर्वक्तव्यः । आगामिभोगो हेतुरिति चेन्न
यदि तावद्भोगस्य गुणभावः तदा प्रधानभूतानामन्योऽ-
न्यं गुणप्रधानभावरहितानां कथं संघातापत्तिः प्राधान्यं
तु भोगस्यानुपपन्नम् भोक्तृशेषत्वात् । नच वाच्यं
शेषिणं भोगं प्रति शेषभूतयोः स्त्रीपुंशरीरयोः भोक्त्रोः
संघातापत्तिर्दृष्टेति, तत्रापि शरीरे भोक्तृत्वासंप्रतिपत्तेः ।
ज्वालां प्रति तिलानां संघातापत्तिरिति योऽयं दृष्टान्तः
सोऽपि तवासिद्धः संघातानिरूपणात् । न तावत् संघातोनाम
भोग्यभोगिनोर्वनवदेकदेशतामात्रम् तथा सति तेन न्या-
येन व्यापिनां भूतानां सर्वत्र सत्त्वाच्चैतन्यभोगयोः सार्व-
त्रिकत्वप्रसङ्गात् । नापि तदारव्वोऽवयवी संघातः तस्य भूते-
भ्योभेदे पञ्चमतत्त्वाभ्युपगमप्रसङ्गात् । अभेदे भूतमात्रतया
संघातत्वासम्भवात् । भेदाभेदयोश्चानङ्गीकरणात् । अथाव-
यंविनः पारतन्त्र्यान्न पञ्चमतत्त्वापत्तिस्तर्हि जलादेः पृथि-
व्यादितन्त्रत्वान्न तत्त्वचतुष्टयमपि सिध्येत् । न चैकद्रव्यबुद्धा-
वन्वयोग्यतापत्तिः संघातः, वस्तुतो ऽनेकेष्वेकत्वबु-
द्धेर्विभ्रममात्रत्वात् । न चैकार्थक्रियायां युगपदन्वयः
संघातः, तदानीं काष्ठाश्रयेण वह्निना वायुसमुद्धृते
जलेताप्यमाने सति तत्र भूतचतुष्टयसं घाताद्भोगप्रसङ्गात् ।
नचाम्न्ययःपिण्डवत्संश्लेषः संघातः, शरीरे वायोस्तथा
द्येपाभावात् । वह्निव्याप्तेनायःपिण्डेन सन्तापितजले
वायुसंयुक्ते भोगप्रसङ्गात् । न चोक्तदोषपरि-
हारायैकस्यैव भूतस्य भोक्तृत्वनियतिः शङ्कनीया
सर्व्वसन्निधानात् कस्य भोक्तृत्वमित्यनिर्द्धारणात् । यत्
तु लोकायतैकदेशिनां मतद्वयम् इन्द्रियाणां भोक्तृत्वम् ।
शरीरेन्द्रियसङ्घातस्य च भृओक्तृत्वमिति । तदुक्तन्यायेन
निराकरणीयम् । ननु कानि पुनरिन्द्रियाणि येषां
भोक्तृत्वं निराक्रियते । तत्र गोलकमात्राणीति सुगताः ।
तच्छक्तय इति मीमांसकाः । तद्व्यतिरिक्तानि द्रव्यान्तरा-
णीत्यन्ये सर्वे वादिनः । तत्र न तावत् गोलकमात्रत्व युक्तं
कर्णशष्कुल्यादिविरहिणामपि सर्पादीनां शब्दाद्यपलब्धि-
सद्भावात् वृक्षाणां सर्वगोलकरहितानां विषयोपलम्भ-
सत्त्वाच्च “तस्मात्पश्यन्ति पादपा” इत्यादि शास्त्रात् । न च
वृक्षाणामचेतनत्वं हिंसाप्रतिषेधेन प्राणित्वावगमात्
एवं गोलकशक्तित्वमिन्द्रियाणाम् न । अथ मन्यसे
शक्तिमदु द्रव्यान्तरकल्पनात् प्रतिपन्नस्थानेषु शक्तिनात्रकल्प-
ने लाघवमिति । तर्ह्यत्यन्तलाघवादात्मन एव क्रमकारिस-
र्वविज्ञानसामर्थ्यं कल्प्यतां किमेभिरिन्द्रियैः । न च सर्व-
गतस्यात्मनो गोलकप्रदेशेष्वेव ज्ञानपरिणामोऽनुपपन्नः,
त्वया तस्यैष शरीरप्रदेशमात्रे ज्ञानपरिणामाङ्गीकारात् ।
एवं चानिन्द्रियेष्वपि गोलकप्रदेशेषु ज्ञानान्वयव्यति-
रेकौ शरीरएवान्यथासिद्धौ । अतो मीमांसकमतमनु-
पपन्नम् । सन्तु तर्हि द्रव्यान्तराणीन्द्रियाणि तानि गोलके
विशेषसंबन्धाच्चक्षुरादिशब्दवाच्यानीति । तदप्ययुक्तम् ।
तेषु प्रमाणाभावात् । विमताः रूपाद्युपलब्धयः करण
पूर्विकाः कर्त्तृव्यापारत्वाच्छिदिक्रियावदिति चेत् करण
प्रेरणालक्षणे कर्त्तृव्यापारे करणान्तराभावात् अन्यथाऽन
वस्थानात् । “एतस्माज्जायते प्राणोमनः सर्वेन्द्रियाणि”
चेत्यागमगम्यानीन्द्रियाणीति चेन् न आगमसंस्कारविरहि-
णामपीन्द्रियप्रतिपत्तेः । न च मनोवत्साक्षिवेद्यानीन्द्रि-
याणि, रूपादिज्ञानाख्यं लिङ्गमनपेक्ष्य साक्षिमात्रेणचक्षु-
रादीनां प्रतिपत्तेरभावात् । तस्मान्न सन्त्येवेन्द्रियाणीति ।
अत्रोच्यते । गोलकव्यतिरिक्तानीन्द्रियाणि आगभादेवाव-
गम्यन्ते । न हि तत्स स्काररहितास्तानि जानन्ति किन्तु
गोलकान्येव । यत्तु तेषामिन्द्रियाणामहङ्कारकार्य्यत्वं
साङ्घ्यैरुच्यते । तत्र किमध्यात्माहङ्कारः कारणं किं वा
कृत्स्नकार्य्यव्यापिनी काचिदहङ्काराख्या प्रकृतिः उभयत्रा-
पि नास्ति किमपि मानम् । अथ द्वितीयपक्षे नानापुराण
पचनानि मानन्तन्न श्रुतिविरोघात् । “अन्नमयं हि सौम्य-
मन आपोमयः प्राणस्तेजोमयी वागित्यादि” श्रुतौ
पृष्ठ ०६६६
भूतविकारत्वावगमात् । अतः पुराणवचनानीन्द्रियाणा-
महङ्काराधीनतामात्रं प्रतिपादयन्ति । यच्च शुष्कतार्किकैः
भौतिकत्वमिन्द्रियाणामुक्तम् । तदप्ययुक्तम् । तैर्म्मानस्य
वक्तुमशक्यत्वात् । इन्द्रियाणि भौतिकानि सावयवत्वात्
घटादिवत् सावयवत्वं च मध्यमपरिमाणत्वादितिचेत्
न, इन्द्रियाणामणुपरिमाणत्वेऽपि बाधाभावात् हेत्वसि-
द्धेः विषयावभासस्याप्यणुत्वप्रसङ्गोबाध इति चेत् न त्वन्म-
तेऽणुपरिमाणेनापि मनसा विस्तृतात्मादिवस्तुदर्शनसद्भा-
वात् । चक्षुः रूपगुणवत्प्रकृतिकं रूपादिषु पञ्चसु मध्ये
रूपस्यैवाभिव्यञ्चकत्वात् यस्य यन्नियमेनावभासकं तत्त-
द्गुणवत्प्रकृतिकं यथा रूपाभिव्यञ्जकरूपवत्प्रकृतिको-
दीपः एवमन्यत्राप्यूहनीयमिति चेत् न शब्दस्यैवाभि-
व्यञ्जके श्रोत्रे शब्दगुणवदाकाशानारब्धेऽनैकान्तिकत्वात्
कर्णशष्कुल्यवच्छिन्नाकाशमात्रस्य त्वया श्रोत्रत्वाभ्युपगमात्
विशेषव्याप्तौ नानैकान्तिकत्वमिति चेत् । एवमप्यतिप्रसङ्गो-
दुर्वारः । रूपादिचतुष्टयाभिव्यञ्जकस्य मनसोभूतचतु-
ष्टयारभ्यत्वस्य सुसाध्यत्वात् । अभूतस्याप्यात्मादेर्ग्राह-
कतया मनोन भतारभ्यमिति चेत् तर्हि संख्यापरिमा-
णादेरपि ग्राहकतया चक्षुरादीनां भूतारभ्यत्वं न स्यात्
असाधारणविषयारभ्यत्वाङ्गीकारे सति भौतिकत्वसिद्धिरिति
चेत् तर्हि मनोऽप्यसावारणविषयेणारभ्येत एकद्रव्यस्या-
त्मनः सावयवद्रव्यानारम्भकत्वे निरवयवं मनोद्रव्यं प्रत्यार-
म्भकत्वं किन्न स्यात् । तस्मान्न शुष्कतर्क्कादिन्द्रियाणां भौति-
कत्वसिद्धिः किन्तु आगमादेव । तानि पुनरिन्द्रियाणि सर्वग-
तानीति योगाः प्रतिपेदिरे तदपि मानहीनम् । आत्मेन्द्रि-
यमनांसि सर्वगतानिं सर्वत्रदृष्टकार्य्यत्वात् आकाशतत्त्ववत्
दृश्यते हि ज्ञानं तत्कार्य्यं च सर्वत्रेति चेत् न सर्वत्रेत्यनेन
कृत्स्नजगद्विक्षायामसिद्धिप्रसङ्गात् । यत्र शरीरं तत्र
सर्वत्रेति विवक्षायां शरीर एवानैकान्तिकत्वात् । दृश्यते हि
यत्र सर्वत्र शरीरं तत्र शरीरकार्य्यं न च शरीरस्य सर्वगत-
त्वमस्ति । अथेन्द्रियाणि सवगतानि परीपाधिकगमनत्वात्
आकाशवत् । यथाऽऽकाशस्य गमनं घटाद्युपाधिकं तथेन्द्रि-
याणां गमनं शरीरोपाधिकमिति चेत् न शरीरावय-
वेघ्वनैकान्तिकत्वात् । प्राणोपाधिकं हि तेषां गमनम् । किं
च इन्द्रियाणां सर्वगतत्वेयुगपत्सर्वविषयोपलब्धिः स्यात् ।
शरीर एव वृत्तिलाभान्न दोष इति चेत् तर्हि बहिरिन्द्रिय
सद्भावकल्पना न प्रमाणंप्रयोजनवती च । तस्मादसर्वगतानी-
न्द्रियाणि । यत्तु तान्यप्राप्यकारीणीति सुगताः कल्पयन्ति
तदप्ययुक्तम् । तत्र किं चक्षुःश्रोत्रयोरप्राप्यकारित्वम् उत
तदिरेषामपि न तावदितरेषां दूरत एव स्पर्शरसगन्धोपब्धि-
प्रसङ्गात् नापि प्रथमः विमते चक्षुःश्रोत्रेप्राप्यकारिणी बाह्ये-
न्द्रियत्वात् घ्राणादिवत् । तेजसश्चातिदूरशीघ्रगमनदर्शनात्
उन्मीलन मात्रेण चक्षुषो ध्रुवादिप्राप्तिरविरुद्धा शब्दस्य च
वीचिसन्तानवत् परम्परया श्रोत्रसमवायप्राप्तिरिति” यत्ता-
र्किकैरुच्यते । तदसत् तथा सति इह श्रोत्रेशब्द इति प्रतीयेत
प्रतीयते तु तत्रशब्द इति । तस्माद्यथानुभवं श्रोत्रस्यैव तत्र
गमनं कल्यनीयम् । तदेवं भौतिकानि परिच्छिन्नानि प्राप्य-
कारीणीन्द्रियाणि सन्तीति सिद्धम् । किं तर्हि मनोनाम
यस्मिन्नात्मत्वमपरे लौकायतिकैकदेशिनोमन्यन्ते । नित्यं निरव-
यवमणुपरिमाणं मन इति तार्किकाः । तत्र न तावन्नित्यं
परिच्छिन्नत्वात् थटवत् । विमतं नित्यं निरवयवद्रव्यत्वात्
आत्मवदिति चेत् न हेत्वसिद्धेः । विमतं सावयवङ्करणत्वाच्चक्षु-
रादिवत् । अन्यथा मनसोऽन्नमयत्वं श्रुत्युक्तं बाध्येत । कथं
तर्हि मूर्त्तद्रव्यानभिघात इति चेत् जीवनदशायां
देहाद्बहिर्निर्गमनाभावादिति ब्रूमः । मरणदशयां तु
सावयवत्वेनाभिमतानां चक्षुरादीनामप्यप्रतिघातोविद्यत एव ।
अतएव सावयवत्वात् संयोगवत्त्वाच्च घटादिवन्नाणुपरिमाण-
त्वम् सर्वगतत्वेच युगपत् सर्वेन्द्रियसंयोगात् सर्वज्ञान-
प्रसङ्गः । मध्यमपरिमाणत्वे तु न कोऽपि दोषः । स्थूल-
सूक्ष्मेषु हस्तिपुत्रिकादिदेहेषु क्रमेण प्राप्यमाणेषु कथं तद्देह
समानत्वेन वृत्तिरिति चेत् अवयवोपचयापचयाभ्या-
मिति ब्रूमः । शाक्यास्तु समनन्तरप्रत्ययएवोत्तरज्ञान-
कारणतया मन इति प्रतिपेदिरे तन्न सङ्गतं व्याप्तिमनपेक्ष्य
केवलस्य पूर्वज्ञानस्योत्तरज्ञानजनकत्वायोगात् लिङ्गज्ञा-
नस्य व्याप्तिसापेक्षस्यैव लिङ्गिज्ञानजनकत्वदर्शनात् ।
शब्दज्ञानं व्याप्तिज्ञानमनपेक्ष्यैवार्थज्ञानजनकमिति चेत्
न त्वन्मते शब्दस्यानुमानान्तः पातितयात्रापि व्याप्त्यपे-
क्षत्वात् । विशेषणज्ञानं व्याप्त्यनपेक्षमेव विशिष्टज्ञान-
जनकमिति चेत् न विशिष्टज्ञानस्य संप्रयोगजन्यत्वात् ।
अथ समनन्तरातीतप्रत्ययः उत्तरज्ञानं न जनयति किं
तु तस्याकारमात्रं समर्पयतीति चेत् न आकाराकारि-
णोरभेदात् । आकारस्य स्वाभाविकतयाऽनन्यापेक्षितया
ऽन्यापेक्षाभावात् । तस्मादन्यदेव सावयवं मन इति सिद्धम् ।
ननु कश्चायं वास्तव आत्मा योदेहादिषु विज्ञानान्तेषु भ्रान्तै-
र्वादिभिरारोप्यते । तत्र सर्वगतोऽयं जीव आत्मेति केचित्
तदसत् । शुष्कतार्किकाणां साधकाभावात् । अथ मतं देहाद्बहि-
पृष्ठ ०६६७
रन्तः सर्वाणि भोगसाधनान्यात्मभोगायैव व्याप्रियन्ते
तद्व्यापारश्चादृष्टवदात्मसंयोगापेक्षः । अतोऽसौ सर्वगत इति ।
तत्र किं यस्मिन्नात्मप्रदेशेऽदृष्टं तत्प्रदेशसंयोगोऽपेक्ष्यते उता
दृष्टोपलक्षितात्मसंयोगः । नाद्यः । देहावच्छिन्नात्मसमवे-
तादृष्टस्य स्वर्गभोगाहेतुत्वात् । न द्वितीयः मोक्षेऽपि
भोगप्रसङ्गात् । तस्मादागमादेव सर्वगतत्वसिद्धिः । नचाय-
मात्मा जड़ः प्रत्यक्षानुमानागमैः स्वप्रकाशत्वावगमात् ।
तच्च प्रत्यक्षं सौषुप्तमवगन्तव्यम् । अनुमानान्यपि आत्मा-
स्वप्रकाशः स्वसत्तायां प्रकाशव्यतिरेकरहितत्वात् प्रदी-
ववत् स वेदनवच्च तथा विषयप्रकाशकर्त्तृत्वात् प्रदीवपवत्,
विषयप्रकाशाश्रयत्वादालोकवत् । अनिन्द्रियगोचरत्वे
सति अपरोक्षत्वात् संवेदनवत् । अयमात्मा सति धर्मिणि
अजन्यप्रकाशगुणः प्रकाशगुणत्वादादित्यवत् । आगमश्चात्र
“अयं पुरुषः स्वयंज्योतिरित्यादिः । सचायमात्मा सर्व-
शरीरेष्वेक एव सर्वत्राहमित्येकाकारप्रत्ययवेदनीयत्वात्
गोत्ववत् । शरीराणां भिन्नत्वादेवातीतशरीरादाविव न
भोगानुसन्धानप्रसङ्गः । ननु तर्ह्यस्यापि मनुष्यशरीरस्य
प्रतिक्षणं परिणामभेदे सत्यत्रापि आत्मनोभोगाननुसन्धानं
प्रसज्येतेति चेत् न तदेवेदं शरीरमिति प्रत्यभिज्ञया
तदेकत्वावगमात् । न च ज्वालाप्रत्यभिज्ञावद्भ्रान्तत्वम्
तत्र सूक्ष्मदर्शनेन प्रत्यक्षत एव ज्वालानां भेददर्शनात्
अत्र तदभावात् । तदेवमेकः स्वप्रकाश आत्मेति सिद्धम् ।
तमेतमात्मतत्त्वमवैदिका देहादिबुद्ध्यन्तपदार्थरूपत्वेन प्रति-
पन्नाः मीमांसकादयस्तु तस्य देहादिव्यतिरेकं प्रति-
पद्यापि कर्त्तारम्भोक्तारमिच्छन्ति । तदेतत् सांरव्या न
सहन्ते । न तावदात्मनः कर्त्तृत्वं स्वाभाविकम् सर्वगतस्य
निरवयवस्यात्मनः परिष्पन्दपरिणामलक्षणक्रियावेशायो-
गात् । स्वाभाविकत्वे चैतन्यवत् क्रियावेशो न कदाचि-
दपि व्यभिचरेत् । नापि कर्त्तृत्वमागन्तुकं निरवयवे
कर्त्तृत्वहेतूपरागायोगात् । नापि बुद्धेः कर्त्तृत्वमात्मन्या-
रोपयितुं शक्यं अख्यातिवादे भ्रान्त्यभावात् । तस्मा-
न्नास्ति कर्त्तृत्वम् । न चैवं भोक्तृत्वमपाकर्त्तुं शक्यम् ।
न हि सुखदुःखान्वयोभोगः येन कर्त्तृत्ववत् व्यभिच-
रेत् । किन्तु चिद्रूपत्वेन दृश्यसाक्षित्वम् । तस्माद्भो-
क्तैवात्मेति सांख्यानां पक्षः । वैशेषिकयोगनैयायिकाः
उक्ताद्भोक्तुर्जीवादतिरिक्तः सर्वज्ञः सर्वशक्तिः ईश्वरः
कश्चिदस्तीत्यनुमिमते । विमतं जगत् स्वरूपोपादानाद्य
भिज्ञकर्त्तृकं विविधकार्य्यत्वात् प्रासादादिवत् तत्र
कल्पनालाघवेनैककर्त्तृत्वोपादानात् प्रर्वज्ञत्वादिसिद्धिरिति
वैशेषिकाः । विमताः ज्ञानैश्चर्य्य शक्तयः क्वचित् पराङ्काष्ठा
प्राप्ताः सातिशयत्वात् परिमाणवदिति योगाः । विमतं
धर्म्माधर्म्मफलं कर्म तत्फलभोक्त्राद्यभिज्ञेन दीयते व्यव-
हितकर्म्मफलत्वात् सेवाफलवदिति नैयायिकाः । नन्वीश्वर
पक्षोपन्यासो न युक्तः यतोऽत्र जिज्ञास्ये प्रत्यगात्मरूपे
ब्रह्मणि विप्रतिपत्तिर्दर्शयितुं प्रक्रान्ता, नैषदोषः प्रत्यगात्मा
तस्मादीश्वरादन्योऽनन्योवेति प्रत्यगात्मविप्रतिपत्तावेव पर्य्य-
वसानात्” इत्यन्तेन । प्रपञ्चस्तु चार्व्वाकादिशब्दे
वक्ष्यते । भाषापरिच्छेदे मुक्तावल्याञ्चात्मनिरूपणा-
येत्थमभ्यधायि “आत्मेन्द्रियाद्यधिष्ठाता करणं हि
सकर्त्तृकम् । शरीरस्य न चैतन्यं मृतेषु व्यभिचारतः ।
तथात्वञ्चेदिन्द्रियाणामुपघाते कथं स्मृतिः । मनोऽपि न तथा
ज्ञानाद्यनध्यक्षं तदा भवेत् । धर्माधर्माश्रयोऽध्यक्षो
विशेषगुणयोगतः । प्रवृत्त्याद्यनुमेयोऽयं रथगत्येव सारथिः ।
अहङ्कारस्याश्रयोऽयं मनोमात्रस्य गोचरः । विभुर्बुद्द्यादि-
गुणवान्” भाषा० । “आत्मानं निरूपयति आत्मेन्द्रि-
येति आत्मत्वजातिस्तु सुखदुःखादिसमवायिकारणताव-
च्छेदकतया सिध्यति ईश्वरेऽपि सा जातिरस्त्येव अदृष्टादि-
रूपकारणाभावाच्च न सुखदुःखाद्युत्पत्तिः नित्यस्य स्वरूप-
योग्यश्य फलावश्यम्भाव इति नियमस्याप्रयोजकत्वात् ।
परे तु ईश्वरे सा जातिर्नास्त्येव प्रमाणाभावात् न च
दशमद्रव्यत्वापत्तिः ज्ञानवत्त्वेन विभजनादिति वदन्ति ।
इन्द्रियादीति । इन्द्रियाणां शरीरस्य च परम्परया
चैतन्यसम्पादकः । यद्यप्यात्मनि “अहं जाने अहं
सुखीत्यादि” प्रत्यक्षविषयत्वमस्त्र्येव तथापि विप्रतिपन्न
प्रति प्रथमत एव शरीरादिभिन्नस्तत्प्रतीतिगोचर इति
प्रतिपादयितुं न शक्यत इत्यतः प्रमाणं दर्शयति
करणमिति । कुठारादीनां छिदादिकरणानां कर्त्तारमन्तरेण
फलानुपधानं दृष्टम् एवं चक्षुरादीनां क्षानकरणानां फली
पधानमपि कर्त्तारमन्तरेण नोपपद्यत इत्यतिरिक्तः कर्त्ता
कल्प्यते । ननु शरीरस्यैव कर्त्तृत्वमस्तु अत आह शरींर-
स्येति ननु चैतन्यं ज्ञानादिकमेव मुक्तात्मनां तन्मत इव
मृतशरीराणामपि तदभावे का क्षतिः प्राणाभावेन
ज्ञानाभावस्य सिद्धेरिति चेन्न शरीरस्य चैतन्ये बाल्ये
विलोकितस्य स्थाविरे स्मरणानुप्रपत्तेः शरीराणामवयवो-
पचयापचयैरुत्पादविनाशशालित्वात् न च पूर्व्वशरी-
रोत्पन्नसंस्कारेण द्वितीयशरीरे संस्कार उपपद्यत् इति
पृष्ठ ०६६८
वाच्यम् अनन्तसंस्कारकल्पने गौरवात् एवं शरीरस्य
चैतन्ये बालकस्य स्तनपानादौ प्रवृत्तिर्न स्यात् इष्टसाधन-
ताज्ञानस्य तद्धेतुत्वात्तदानीमिष्टसाधनतास्मारकाभावात्
मन्मते जन्मान्तरानुभूतेष्टसाधनत्वस्य तदानीं स्मरणादेव
प्रवृत्तिः न च जन्मान्तरानुभूतमन्यदपि स्मर्य तामिति
वाच्यम् उद्बोधकाभावात् अत्र त्वनायत्या जीवनादृष्ट-
मेवोद्बोधकं कल्प्यते इत्थञ्च संस्कारस्यानादितया
आत्मनोऽपि अनादित्वसिद्धौ अनादिभावस्य नाशासम्भ-
वात् नित्यत्वं सिध्यतीति बोध्यम् । ननु चक्षुरादींनां ज्ञा-
नादौ करणत्व कर्त्तृत्वं चास्तु विरोधे साधकाभावादत
आह तथात्वमिति चैतन्यमित्यर्थः उपघाते नाशे सति
अर्थाच्चक्षुरादीनामेव, कथमिति? पूर्ब्बं चक्षुषा साक्षात्-
कृतानाञ्चक्षुषोऽभावे स्मरणं न स्यात् अनुभवितुरभावात्
अन्यदृष्टस्य अन्येन स्मरणासम्भवात् अनुभवस्मरणयोः
सामानाधिकरण्येन कार्यकारणभावादिति भावः ।
ननु चक्षुरादीनां चैतन्यं मास्तु मनसस्तु नित्यस्य चैतन्यं
स्यात् अत आह मनोऽपीति न तथा न चेतनम् ।
ज्ञानादीति । मनसोऽणुत्वात् प्रत्यक्षे च महत्त्वस्य हेतुत्वा-
न्मनसो ज्ञानसुखादिमत्त्वे तत्प्रत्यक्षानुपपत्तेरित्यर्थः यथा
मनसोऽणुत्वं तथा वक्ष्यते । नन्वस्तु विज्ञानमेव आत्मा
तस्य स्वतः प्रकाशरूपत्वात् चेतनत्वं ज्ञानमुखादिकन्तु
तस्यैवाकारविशेषः तस्यापि भावत्वादेव क्षणिकत्वं पूर्व्व-
विज्ञानस्योत्तरोत्तरविज्ञाने हेतुत्वात् सुषुप्तावालयविज्ञान-
धारा निराबाधैव मृगमदवासनाया वसनैव पूर्ब्बपूर्ब्ब-
विज्ञानजनितसंस्काराणामुत्तरोत्तरविज्ञाने संक्रान्तत्वा-
न्नानुपपत्तिः स्मरणादेरिति चेन्न तस्य जगद्बिषयत्वे
सार्व्वज्ञ्यापत्तेः यत्किञ्जिद्विषयत्वे विविगमनाभावात्
सुषुप्तावपि विषयावभासप्रसङ्गः । तदानीं निराकारा
चित्सन्ततिरनुवर्त्तत इति चेन्न तस्य खप्रकाशत्वे प्रमाणा-
भावात् अन्यथा घटादीनामपि ज्ञानत्वापत्तिः न चेष्टा-
पत्तिः विज्ञानव्यतिरिक्तवस्तुनोऽभावादिति वाच्यं
षटादेरनुभूयमानस्यापलपितुमशक्यत्वात् । आकारविशेष
एवायं विज्ञानस्येति चेत् किमयमाकारोऽतिरिच्यते विज्ञाना-
सर्हि समायातं विज्ञानव्यतिरिक्तेन । नातिरिच्यते चेत्तर्हि
समूहावलम्बने नीलाकारोऽपि पीताकारः स्यात् स्वरूपतो-
विज्ञानस्याविशेषात्, अपोहरूपो नीलत्वादिर्विज्ञानधर्म्म
इति चेन्न नीलत्वादीनां विरुद्धानामेकस्मिन्नसमावेशात्
इतरथा विरोधस्यैव दुरुपपन्नत्वात् । न च वासनासंक्रमः
सम्भवति मातृपुत्रयारपि वासनासंक्रमप्रसङ्गात् न च
उपादानोपादेयभावो नियामक इति वाच्यं वासनायाः
संक्रमासंमवात् । उत्तरस्मिन्नुत्पत्तिरेव संक्रम इति चेन्न
तदुत्पादकाभावात् । उत्तरविज्ञानस्यैव उत्पादकत्वे
तदानन्त्यप्रसङ्गः । क्षणिकविज्ञानेऽतिशयविशेषः कल्प्यत इति
चेन्न मानाभावात् कल्पनागौरवाच्च । एतेन क्षणिकशरीरेष्वेव
चैतन्यमपि प्रत्युक्तं गौरवादतिशये मानाभावाच्च वीजा-
दावपि सहकारिसमवधानादेवोपपत्तेः कुर्व्वद्रूपत्वाकल्पनाच्च
अस्तु तर्हि क्षणिकविज्ञाने गौरवान्नित्यविज्ञानमेवात्मा
“अविनाशी वा अरे अयमात्मा सत्यं ज्ञानमनन्तं ब्रह्म”
इत्यादि श्रुतेरिति चेन्न तस्य विषयत्वासम्भवस्य दर्शित-
त्वात् निर्व्विषयस्य ज्ञानत्वे मानाभावात् सविषयत्वस्या-
प्यनुभवात् । अतो ज्ञानभिन्नो नित्य आत्मेति सिद्धम् ।
सत्यं ज्ञानमिति ब्रह्मपरं जीवेषु नोपयुज्यते ज्ञाना-
ज्ञानसुखित्वदुःखित्वादिभिर्जीवानां भेदसिद्धौ
सुतरामीश्वरभेदः, अन्यथा बन्धमोक्षानुपपर्त्तेः, योऽपीश्वराभेद-
बोधकोवेदः सोऽपि तदभेदेन तदीयत्वं प्रतिपादयन्
स्तौति अभेदभावने च यतितव्यमिति वदति । अतएव
“सर्व्व एव आत्मनि समर्पिता” इति श्रूयते मोक्षदशा-
यामज्ञाननिवृत्तावभेदो जायते इत्यपि न, भेदस्य नित्यत्वे
नाशायोगात् भेदनाशेऽपि व्यक्तिद्वयं स्थास्यत्येव । न च
द्वित्वमपि नश्यतीति वाच्यं तत्र निर्द्धर्मके ब्रह्मणि
सत्यत्वाभावेऽपि सत्यस्वरूपं तदितिवत् द्वित्वाभावेऽपि
द्वयात्मकौ ताविति सुवचत्वात् मिथ्यात्वाभावीऽधिकरणा-
त्मकस्तत्र सत्यत्वमिरि चेत् एकत्वासावो व्यक्तिद्वयात्मको
द्वित्वमप्युच्यतां प्रत्येकमेकत्वेऽपि पृथिवीजलयोर्न गन्ध
इतिवदुभयं नैकमित्यस्य सर्वजनसिद्धत्वात् । योऽपि
तदानीमभेदप्रतिपादक आगमः सोऽपि निर्दुःखत्वादिना साम्यं
प्रतिपादयति संपदाधिक्ये पुरोहितोऽयं राजा संवृत्त इति
वत् । अतएव “निरञ्जनः परमं साम्यमुपैति दिव्यमिति” श्रूयते
ईश्वरो न ज्ञानसुखात्मा किन्तु ज्ञानाद्याश्रयः नित्यं विज्ञा-
नमानन्दं ब्रह्म” इत्यादौ विज्ञानपदेन ज्ञानाश्रय एवोक्तः,
“यः सर्वज्ञः” इत्यनुरोधात् आनन्दम् इत्यस्यापि
आनन्दवदित्यर्थः अर्श आदित्वान्मत्वर्थीयाच्प्रत्ययात्, अन्यथा
पुंलिङ्गत्वापत्तेः आनन्दोऽपि दुःखाभावे उपचर्य्यते भारा-
द्यपगमे सुखी संवृत्तोऽहमितिवत् दुःखाभावेन सुखित्वप्र-
त्ययात् । अस्तु वा तस्मिन्नानन्दो न त्वसौ, आनन्दम् इत्यत्र
मत्यर्थीयप्रत्ययविरोधात् । “आनन्दं ब्रह्मणो विद्यान्न
पृष्ठ ०६६९
बिभेति कदाचन” इत्यत्र भेदस्य स्पष्टत्वाच्चेति संक्षेपः । एतेन
प्रकृतिः कर्त्री पुरुषः पुष्करपलाशवन्निर्लेपः किन्तु चेतनः
कार्य्यकारणयोरभेदात् कार्य्यनाशे कार्य्यरूपतया नाशः
स्यादित्यकारणत्वं तस्य, वुद्धिगतचैतन्याभिमानान्यथानुपपत्त्या
तत्कल्पनम् । वुद्धिश्च प्रकृतेः प्रथमः परिणामः । सैव
महत्तत्त्वमन्तःकरणमप्युच्यते । तत्सत्त्वासत्त्वाभ्यां पुरुषस्य
संसारापवर्गौ । तस्या एवेन्द्रियप्रणालिकया परिणतिर्ज्ञानरू
पा घटादिना सम्बन्धः । पुरुषे कर्तृ त्वाभिमानो बुद्धौ
चैतन्याभिमानश्च भेदाग्रहात् ममेदं कर्त्तव्यमिति मदंशः
पुरुषोपरागो बुद्धेः स्वच्छतया चेतनप्रतिविम्बादतात्त्विको
दर्पणस्येव मुखोपरागः । इदमिति विषयोपरागः इन्द्रिय-
प्रणालिकया परिणतिभेदस्तात्त्विको निश्वासाभिहतदर्पणस्येव
मलिनिमा । कर्त्त व्यमिति व्यापारावेशः । तेनांशत्रयवती
बुद्धिस्तत्परिणामेन ज्ञानेन पुरुषस्यातात्त्विकः सम्बन्धो
दर्पणमलिनिम्नेव मुखस्योपलब्धिरुच्यते । ज्ञानादिवत्
सुखदुःखेच्छाद्वेषप्रयत्नधर्म्माधर्म्मा अपि बुद्धेरेव । कृतिसामाना-
धिकरण्येन प्रतीतेः । न च बुद्धिश्चेतना परिणामित्वादिति
सांख्यमतमपास्तम् । कृत्यदृष्टभोगानामिव चैतन्यस्यापि
सामानाधिकरण्यप्रतीतेस्तद्भिन्ने मानाभावाच्चेतनोऽहं
करोमीति प्रतीतेः । बुद्धेः परिणामित्वाच्चैतन्यांशे भ्रम इति
चेत् कृत्यशे किं नेष्यते । अन्यथा बुद्धेर्नित्यत्वे मोक्षाभावो-
ऽनित्यत्वे तत्पूर्ब्बमसंसारापत्तिः । अचेतनायाः प्रकृतेः
कार्य्यत्वात् बुद्धेरचैतन्यं कार्य्यकारणयोस्तादात्म्यादिति
चेन्न असिद्धेः कर्त्तुर्जन्यत्वे मानाभावात् । “वीतराग-
जन्मादर्शनात्” अनादित्वम् । अनादेर्नाशासम्भवान्नित्यत्वम् ।
तत् किं प्रकृत्यादिकल्पनेन । न च “प्रकृतेः क्रियमाणानि
गुणैः कर्म्माणि सर्वशः । अहङ्कारविमूढ़ात्मा कर्त्ताह-
मिति मन्यते” इत्यनेन विरोध इति वाच्यम् प्रकृतेर-
दृष्टस्य गुणैरदृष्टजन्यैर्गुणैः इच्छादिभिः कर्त्ताहं कर्त्ताहमेव
इत्यस्य तदर्थत्वात् “तत्रैवं सति कर्त्तारमात्मानं केवलं तु
यः” इत्यादि वदता भगवता प्रकटीकृतोऽयमुपरिष्टादाशय
इति संक्षेपः । धर्म्माधर्म्माश्रयः इति । आत्मेत्यनुषज्यते ।
शरीरस्य तदाश्रयत्वे देहान्तरकृतकर्म्मणां देहान्तरेण भोगा-
नुपपत्तिः । विशेषगुणयोगत इति । योग्यविशेषगुण-
सम्बन्धेनात्मनः प्रत्यक्षं भवति न त्वन्यथा अहं जाने
अहङ्करोमि इत्यादि प्रतीतेः । प्रवृत्तीति । अयमात्मा
परदेहादौ प्रवृत्त्यादिनाऽनुसीयते । प्रघृत्तिरत्र चेष्टा
ज्ञानेच्छाप्रयत्नादीनां देहे अभावस्योक्तप्रायत्वात् चेष्टायाश्च
यत्नसाध्यत्वात् चेष्टया प्रयत्नवानात्माप्यनुमीयत इति
मावः । तत्र दृष्टान्तमाह । रथेति यद्यपि रथकर्म्म चेष्टा
न भवति तथापि तेन कर्म्मणा सारथिर्यथाऽनुमीयते तथा
चेष्टात्मकेन कर्म्मणा परात्मापीति भावः । अहङ्कारस्येति ।
अहङ्कारोऽहमिति प्रत्ययः तस्याश्रयो विषयः आत्मा न
शरीरादिरिति । मन इति मनोभिन्नेन्द्रियजन्यप्रत्यक्षाविषयो
मानसप्रत्यक्षविषयश्चेत्यर्थः । रूपाद्यभावेनेन्द्रियान्तरायोग्य-
त्वात् । विभुरिति । विभुत्वं परममहत्त्वं तच्च पूर्ब्बोक्त-
मपि स्पष्टार्थमुक्तम् । बुद्ध्यादीति बुद्धिसुखदुःखेच्छादयश्चतु-
र्दश गुणाः पूर्ब्बोक्ता वेदितव्याः” । ते च “बुद्ध्यादिषट्कं
संख्यादिपञ्चकं भावना तथा । घर्म्माधर्म्मौ गुणा एते
आत्मनः स्युश्चतुर्द्दश” इत्युक्ताः बुद्धिः सुखं दुःखमिच्छा-
द्वेषः यत्नःसंख्या परिमाणं पृथक्त्वं संयोगः विभागः
भावनाख्यसंस्कारः धर्मः अधर्म्मश्चेति । एते च गुणा मनस
एवेति सांख्यादयः । “कामः संकल्पोचिविकित्सा श्रद्धाऽश्रद्धा
धृतिरधृतिह्रीर्धीर्भीरित्येतत् सर्वं मनएवेति” श्रुतेः कामा-
दीनां मनोधर्मत्वावगमात् तथा ६४३ पृष्ठे आज्ञानशब्दोदिता
अपि । मिता० “किं पुनर्वैषयिकज्ञानेन्द्रियव्यतिरिक्तात्मसद्भावे
प्रमाणमित्याशङ्क्याह । “महाभूतानि सत्यानि यथात्मापि
तथैव हि । कोऽन्यथैकेन नेत्रेण दृष्टमन्येन पश्यति । वाचं
वा कोविजानाति पुनः संश्रुत्य संश्रुताम्” या० स्मृ० । “यथा
हि पृथिव्यादिमहाभूतानि सत्यानि प्रमाणप्राप्तत्वात्तथा-
त्मापि सत्यः, अन्यथा यदि बुद्धीन्द्रियव्यक्तिरिक्तोज्ञाता
ध्रुवो न, तर्ह्येकेन चक्षुरिन्द्रियेण दृष्टं वस्त्वन्येन स्पर्शनेन्द्रि-
येण को विजानाति । यमहमद्राक्षन्तमहं स्पृशामीति ।
तथा कस्यचित्पुरुषस्य वाचं पूर्वं श्रुत्वा पुनः श्रूयमाणां
वाचन्तस्य वागियमिति कः प्रत्यभिजानाति तस्मात्
ज्ञानेन्द्रियाद्यतिरिक्तो ज्ञाता ध्रुव इति सिद्धम् किञ्च!
“अतीतार्था स्मृतिः कस्य कोवा स्वप्नस्य कारकः । जाति-
रूपवयोवृत्तविद्यादिभिरहंकृतः । शब्दादिविषयोद्योगङ्क-
र्म्मणा मनसा गिरा” या० । “यद्यात्मा ध्रवो न स्यात्तर्ह्यनु
भूतार्थगोचरा स्मृतिः पूर्वानुभवभावितसंस्कारोद्बोधनि-
बन्धना कस्य भवेत्, नह्यन्येन दृष्टे वस्तुन्यन्यस्य स्मृतिरुप-
पद्यते । तथा कः स्वप्नज्ञानस्य कारकः । नहीन्द्रियाणाम्
उपरतव्यापाराणान्तत्कारकत्वम् । तथाहमेवाभिजनत्वादि
सम्पन्न इत्येवंविधानुसन्धानप्रत्ययः कस्य भवति स्थिरात्म-
व्यतिरिक्तस्य” तथा शब्दस्पर्शादिविषयोपभोगसिद्ध्यर्थमुद्योगं
मनोवाक्कायैः कःकुर्यात्तस्मादपि बुद्धीन्द्रियव्यतिरिक्त आत्मा-
पृष्ठ ०६७०
स्थिरः” इत्यन्तेन आत्मविवेक्ते च उदयनाचार्यैः अहमिति
प्रत्यक्षविषयत्वमादौ आत्मनोव्यवस्थाप्य देहाद्यतिरिक्तविषयत्वं
तत्प्रत्ययस्य व्यवस्थापितं यथा ।
“अथात्मसद्भावे किम्प्रमाणं प्रत्यक्षमेव तावत् अहमिति विः
कल्पस्य प्राणभृन्मात्रसिद्धतात् । नचायमवस्तुकः सन्दिग्ध
वस्तुकोवा, अशाब्दत्वादप्रतिक्षेपाच्च न च लैङ्गिकः, अननुसं-
हितलिङ्गस्यापि संप्रत्ययात् । नच स्मृतिरियम्, अननुभूते
तदनुपपत्तेः । अनादिवासनावशादनादिरयमवस्तुकोवि-
कल्पैत्यपि न युक्तं, नीलादिविकल्पसाधारण्यात् । इह
वासनामुपादायानाश्वासे प्रमाणान्तरेऽपि कः समाश्वासः,
यतो नीलादिविकल्पेषु समाश्वासःस्यात् । तस्माद्वास
नामात्रवादं विहायागन्तुकमपि किञ्चित् कारणं वाच्यम् ।
तच्चाप्तानाप्तशब्दौ वा लिङ्गतदाभासौ वा प्रत्यक्षतदाभासौ
वेति । तत्र यथा प्रथममध्यमप्रकाराभावान्नीलविकल्प
श्चरमं कल्पमालम्बते तथाऽहमिति विकल्पोऽपि, तत्रापि
“प्रत्यक्षपृष्ठभावित्वे साक्षादेव सवस्तुकः । तदाभासे तु
मूलेऽस्य पारम्पर्व्यात् सवस्तुतेति” । न च बाह्यपत्यक्षनि-
वृत्तावेव निर्मूलत्वं, बुद्धिविकल्पस्यापि तथात्वप्रसङ्गात् । तत्र
स्वसंवेदनं मूलम्, इहापि मानसप्रत्यक्षमिति न कश्चिद्वि-
शेषः । शरीरादिवस्तुको भविष्यतोति चेन्न निरुपाधिशरीरे-
न्द्रियबुद्धितत् समुदायालम्बनत्वेऽतिप्रसङ्गात् । स्वसम्बन्धि-
शरीरादावयं स्यादिति वाच्यं तत्र कः स्वीयैति वचनीयम् ।
अनन्यत्वं स्वत्वं सर्वभावानां, तथा च यदा तेनैव तदनुभूयते
तदा प्रत्येतुः प्रत्येतव्यादव्यतिरेकादहमिति स्यात् । अतएव
घटादयोन कदाचिदनन्यानुभवितृका इति न कदाप्यहमा-
स्पदमिति चेत् एवन्तर्हि त्वन्मतेऽप्यहंप्रत्ययः शरीरादावारो-
परूपएव ततः प्रत्येतुरन्यत्वात् । बुद्धौ मुख्यएवेति चेन्न तस्याः
क्रियात्वेनानूभूयमानाया भिन्नस्य कर्त्तुरहंछिनद्मीतिव-
दहं जानामीत्यनुभवात् । नीलादिप्रत्येतव्याकारवत् प्रति-
पत्त्राकारोऽपि प्रतिपत्तेरेवायमात्मा तथा भासत इति
चेत् तर्हि प्रत्येतव्यप्रतिपत्त्राकारयोस्तुल्ययोगक्षेमत्वात् सिद्धं
नः समीहितम् । अस्तु स्वोपादानमात्रमिति चेन्न तत्प्र-
तिभासने तदाकारस्यापि प्रतिभासप्रसङ्गात् आकारमन्तरे-
णाकारिणोऽनवभासात् । प्रवृत्तिसन्तानान्नान्योबुद्धिसन्तानः
प्रतिपत्ता, वयं तमालयविज्ञानमाचक्ष्मह इति चेत् अस्तु
तर्हि प्रवृत्तिविज्ञानोपादानमनादिनिधनः प्रतिपत्ता । स
किं सन्तन्यमानज्ञानरूपः तद्विपरीतोवा इति चिन्तावशि-
ष्यते निःशेषिता चासौ प्रागिति” । स्थानान्तरे च तत्रैव
“ननु सिद्धमिदं विशेषणं देहस्यैव चेतनत्वात् मैवं देहत्वभू-
तत्वमूर्त्तत्वरूपादिमत्त्वादिभ्यः । नच भूतानां समुदायपर्य्यव
सितं चैतन्यं, प्रतिदिनं तस्यान्यत्वे पूर्वपूर्वानुभूतस्यास्मरण
प्रसङ्गात् । नच प्राक्पर्यवसितं, करचरणाद्यवयवविगमे
तदनुभूतस्यास्मरणप्रसङ्गात् । देहस्य चेतनत्वे बालस्य प्रथमम-
प्रवृत्तिप्रसङ्गाच्च इच्छाद्वेषावन्तरेण प्रयत्नानुपपत्तेः इष्टाभ्यु-
पायताप्रतिसन्धानं विना चेच्छानुपपत्तेः । इह जन्मन्यन
नुमूतस्य प्रतिबन्धस्यास्मृतौ प्रतिसन्धानायोगात्, जन्मान्त-
रानुभूते चानुभवितरि भस्मासाद्भूते अन्येन स्मरणायो-
गात् अनुभवादोनां प्रवृत्त्यन्तानाञ्च कार्य्यकारणभावस्य
इहैव जन्मनि निश्चितत्वात् । तथा च तदभावे तदभावस्य
सुलभत्वात् अन्यथा स्वतस्त्वप्रसङ्गः । अतएव नेन्द्रियाणि
चेतयन्ते दर्शनस्पर्शनाभ्यामेकार्थग्रहणाच्च । नच मनस्तथा, तस्य
करणत्वेनैवानुभवादिति प्रतिबन्धसिद्धिः परदेह्यात्मसिद्धिश्च ।
अनादिश्चासौ वीतरागजन्मादर्शनात्, अनन्तश्च सतोऽनादि
त्वात्, द्रव्यञ्च समवायिकारणत्वात्, विभुश्च नित्यद्रव्यत्वे
सत्यमूर्त्तत्वात्, अमूर्त्तश्च निष्क्रियत्वात्, निष्क्रियश्च नित्य
द्रव्यत्वे सत्यस्मदादिप्रत्यक्षत्वात्, प्रत्यक्षधर्म्माश्रयत्वाच्च । तर्का
श्चात्र भवन्ति आदिमत्त्वे प्रथमप्रवृत्त्यनुपपत्तौ सर्वदैवाप्रवृ-
त्तिप्रसङ्गः । सान्तत्वेऽनादेः सत्त्वानुपपत्तिप्रसङ्गः । अद्रव्यत्व
निर्गुणत्वप्रसङ्गः अविभुत्वे दहनपवनादेः क्रियानुपपत्तिप्र-
सङ्गः । नच संयुक्तसंयोगात् तदुत्पत्तिः साक्षात्क्रियाद्वारकस्य
तस्याभावात् अतथाभूतस्य तद्धेतुत्वेऽतिप्रङ्गात् । मूर्त्तत्वे
नित्र्यस्यास्मदादिप्रत्यक्षधर्म्मानाधारत्वप्रसङ्गः विशेषगुणवत-
श्चारम्भकत्वप्रसङ्गः, सक्रियत्वे मूर्त्तत्वप्रसङ्ग इति शास्त्रार्थ
संग्रहः । अणुरेवासौ विज्ञानाससवायिकारणसंयोगाधार-
त्वात् मनोवत् “अणीयांसमणोरपीति” बाधविरोधाविति
कश्चित् तदयुक्तम् आत्मन्यविभौ मनसोऽणुत्वाद्ध्हेतोः तत्सं-
योगक्रमादेव क्रियाक्रमोपपत्तेः आगमस्तु “महतोऽपि
महीयांसमिति” प्रथमपदमपहाय उपन्यस्तस्तदलमित्यन्तेन” ।
स्कन्धपञ्चकस्यात्मत्मवादिनां मतं संघातानुत्पत्त्या शा० सू०
भा० निराकृतम् यथा “समुदाय उभयहेतुकेऽपि तदप्राप्तिः”
सू० “तत्रैते त्रयोवादिनो भवन्ति । केचित् सर्व्वास्तित्व
वादिनः केचिद्विज्ञानास्तित्वसात्रवादिनः अन्ये पुनः
सर्ब्बशून्यत्ववादिनः इति । तत्र ये सर्ब्बास्तित्ववादि-
नोबाह्यमान्तरञ्च वस्त्वभ्युपगच्छन्ति भूतं मौतिकं चित्तं
चैत्तञ्च तान् तावत् प्रति ब्रूमः । तत्र भूतं पृथिवीधा-
त्वादयः । भौतिकं रूपादयश्चक्षुरादयश्च चतुष्टये च पृथि-
पृष्ठ ०६७१
व्यादिपरमाणवः खरस्नेहोष्णप्रेरणस्वभावाः ते पृथि-
व्यादिभावेन संहन्यन्त इति मन्यन्ते तथा रूपविज्ञान-
वेदनासंज्ञासंस्कारसंज्ञकाः पञ्च स्कन्धाःतेऽप्यध्यात्मं सर्व्व-
व्यवहारास्पदभावेन संहन्यन्ते इति मन्यन्ते । तत्रेद-
मभिधीयते । योऽयमुभयहेतुक उभयप्रकारः समुदायः
परेषामभिप्रेतोऽणुहेतुकश्च भूतभौतिकसंहतिरूपः पञ्च-
स्कन्धहेतुकश्च पञ्चस्कन्धरूपः । तस्मिन्नुभयहेतुकेऽपि
समुदायेऽभिप्रेयमाणे तदप्राप्तिः स्यात् समुदायाप्राप्तिः
समुदायिनामचेतनत्वात् चित्ताभिज्वलनस्य च समुयसि-
द्ध्यधीनत्वात् अन्यस्य च कस्यचिच्चेतनस्य भोक्तुः प्रशासितु-
र्व्वा स्थिरस्य संहन्तुरनभ्युपगमात् निरपेक्ष प्रवृत्त्यत्युपगमे च
प्रवृत्त्यनुपरमप्रसङ्गात् । आशयस्याप्यन्यत्वानन्यत्वाभ्यामनिरू-
प्यत्वात् क्षणिकत्वाभ्युपगमाच्चनिर्व्यापारत्वात् तत्प्रवृत्त्यनुप-
पत्तेः तस्मात् समुदायानुपपत्तिः । समुदायानुपपत्तौ च
तदाश्रया लोकयात्रा लुप्येत । “इतरेतरप्रत्ययत्वादिति
चेन्नोत्पत्तिमात्रनिमित्तत्वात्” सू० । यद्यपि भोक्ता प्रशा-
सिता वा कश्चिच्चेतनः संहन्ता स्थिरोनाभ्युपगम्यते
तथाप्यविद्यादीनामितरेतरकारणत्वादुपपद्यते लोकयात्रा तस्या-
ञ्चोपपद्यमानायां न किञ्चिदपरमपेक्षितव्यमस्ति । ते
चाविद्यादयः अविद्या संस्कारोविज्ञानम् नाम रूपं षड़ा-
यतनम् स्पर्शोवेद ना तृष्णीपादानम् भवोजातिर्जरा मरणं
शोकः परिवेदना दुःखं दुर्मनस्तेत्येवम् जातीयका इतरे-
तरहेतुकाः सौगते समये क्वचित् संक्षिप्ता निर्दिष्टाः क्वचित्
प्रपञ्चिताः । सर्व्वेषामप्ययमघिद्यादिकलापोऽप्रत्या-
ख्येयः । तदेवमविद्यादिकलापेऽपि परस्परनिमित्त
नैमित्तिकभावेन घटीयन्त्रवदनिशमावर्त्तमानेऽर्थाक्षिप्त
उपपन्नः संघात इति चेत्तन्न कस्मात्? उत्पत्तिमात्र
निमित्तत्वात् । भवेदुपपन्नः संघातो यदि संघातस्य
किञ्चिन्निमित्तमवगम्येत न त्ववगम्यते यत इतरेरेतरप्रत्य-
यत्वेऽप्यविद्यादीनां पूर्ब्बं पूर्ब्बमुत्तरस्योत्तरस्योत्पपत्तिमात्र
निमित्तं भवत् भवेत् न तु संघातोत्पत्तेः किञ्चिन्निमित्तं
सम्भवति । नन्वविद्यादिभिरर्थादाक्षिप्यते संघात इत्युक्तम्
अत्रोच्यते । यदि तावदयमभिप्रायः अविद्यादयएव
संघातमन्तरेणात्मानमलभमाना अपेक्षन्ते संघातमिति
ततस्तस्य संघातस्य किञ्चिन्नितित्तं वक्तव्यं तच्च नित्ये
ष्वप्यणुष्वभ्युपगम्यमानेष्वाश्रयाश्रयीभूतेषु च भोक्तृषु
सत्सु न सम्भवतीत्युक्तं वैशेषिकपरीक्षायां किमङ्ग पुनः
क्षणिकेष्वप्यणुषु भोक्तृ रहितेष्वाश्रयाश्रयीभावशूम्येषु चा-
भ्युपगम्यमानेषु सम्भवेत् । अथायमभिपायः अविद्या-
दय एव संघातस्य निमित्तमिति । कथं तमेवाश्रित्यात्मा-
नं लभमानास्तस्यैव निमित्तं स्युः । अथ मन्यसे संघात
एवानादौ संसारे सन्तत्यानुवर्त्तते तदाश्रयाश्चाविद्या-
दय इति । तदापि संघातात् संघातान्तरमुत्पद्यमानं
नियमेन सदृशमेवेत्पद्येत अनियमेन वा सदृशम्, विसदृशं
वोत्पपद्येत । नियमाभ्युपगमे मनुष्यपुद्गलस्य देवतिर्य-
ग्योनिनारकप्राप्त्यभावः प्राप्नुयात् । अनियमाभ्युपग-
मेऽपि मनुष्यपुद्गलः कदाचित् क्षणेन हस्ती भूत्वा देवो-
वा पुनर्मनुष्योभवेत् इति प्राप्नुयात् । उभयमभ्युपगम-
विरुद्धम् । अपि च यद्भोगार्थं संघातः स्यात् स जीवोनास्ति
स्थिरोभोक्तेति तवाभ्युपगमः ततश्च भोगो भोगार्थएव
सन्नाऽन्येन प्रार्थनीयः तथा मोक्षोमोक्षार्थ एवेति मुमुक्षुणा
नान्थेन भवितव्यम् । अन्येन चेत् प्रार्थ्येतोभयं, भोगमोक्ष
कालावस्थायिना तेन भवितव्यम् । अवस्थायित्वे क्षणि-
कत्वाभ्युपगमविरोधः । तस्मादितरेतरोत्पत्तिमात्रनिमित्त-
त्वमविद्यादीनां यदि भवेत् भवतु नाम न तु संघातः
सिध्येत् भोक्त्रभावादित्यभिप्रायः इत्यन्तेन” । एतन्मत
मनुसृत्यैव “सर्व्वकार्य्यशरीरेषु मुक्त्वाङ्गस्कन्धपञ्चकम् ।
सौगतानामिवात्मान्यीनास्ति मन्त्रोमहीभृता मिति” माघः ।
आत्मनो देहपरिमाणत्वमार्हता मन्यन्ते । तदेतन्मतमुत्थाप्य
दूषितं शा० सू० भा० यथा । “एवं चात्माकात्र्स्न्यम्”
सू० । “यथैकस्मिन् धर्म्मिणि विरुद्धधर्मासम्भवोदोषः
स्याद्वादे प्रसक्तः एवमात्मनोऽपि जीवस्याकात् र्स्न्य-
मपरोदोषः प्रसज्यते । कथं शरीरपरिमाणो
हि जीव इत्यार्हता मन्यन्ते । शरीरपरिमाण-
तायाञ्च सत्यामकृत् स्नोऽसर्व्वगतः परिच्छिन्न
आत्मेत्यतो घटादिवदनित्यत्वमात्मनः प्रसज्येत । शरीराणा-
ञ्चानवस्थितपरिमाणत्वान्मनुष्यजीवोमनुष्यशरीरपरिमाणो-
भूत्वा पुनः केनचित् कर्म्मविपाकेन हस्तिजन्म प्राप्नु-
वन्न कृत्स्नं हस्तिशरीरं व्याप्नुयात् पुत्तिकाजन्म च
प्राप्नुवन्न कृत्स्नः पुत्तिकाशरीरे संमीयते । समान एष
एकस्मिन्नपि जन्मनि कौमारयौवनस्थाविरेषु दोषः ।
स्यादेतत् अनन्तावयवोजीवस्तस्य तएवावयवा अल्पे
शरीरे सङ्कुचेयुर्महति विकसेयुरिति । तेषां पुनरनन्तानां
जीवावयवानां समानदेशत्वं प्रतिहन्येत वा न वेति
वक्तव्यम् । प्रतिघाते तावन्नानन्तावयवाः परिच्छिन्ने देशे
सम्मीयेरन् । अप्रतिघातेऽप्येकावयवदेशत्वोपपत्तेः सर्व्वेषाम-
पृष्ठ ०६७२
वयवानां प्रथिमानुपपत्तेजीर्वस्याणुमात्रत्वप्रसङ्गः स्यात् ।
अपि च शरीरमात्रपरिच्छिन्नानां जीवावयवनामानन्त्यं
नोत्प्रेक्षितुमपि शक्यम् । अथ पर्य्यायेण वृहच्छरीर-
प्रतिपत्तौ केचिज्जीवावयवा उपगच्छन्ति तनुशरीरप्रतिपत्तौ
च केचिदपगच्छन्तीत्युच्येत । तत्राप्युच्यते । “न च पर्य्या-
यादस्याप्यविरोधोविकारादिभ्यः” सू० । न च पर्य्यायेणाप्यव-
यवोपगमापगमाभ्यामेव तत्तद्देहपरिमाणत्वं जीवस्याविरो-
धेनोपपादयितुं शक्यते कुतः? विकारादिदोषप्रसङ्गात् ।
अवयवोपगमापगमाभ्यां ह्यनिशमापूर्य्यमाणस्योपक्षीय
माणस्य च जीवस्य विक्रियावत्त्वं तावदपरिहार्य्यं विक्रि-
यावत्त्वे चर्म्मादिवदनित्व्यत्वं प्रसज्येत ततश्च बन्धमो-
क्षाभ्युपगमोबाध्येत कर्म्माष्टकपरिवेष्टितस्य जीवस्यालाबु-
वत् संसारसागरे निमग्नस्य बन्धनोच्छेदादूर्द्धगामित्वम्भव
तीति । किञ्चान्यत् आगच्छतामपगच्छतां चावयबाना-
मागमापायधर्म्मवत्तादेवानात्मत्वं शरीरादिवत् । ततश्चा-
वस्थितः कश्चिदवयव आत्मेति स्यात् । न च स
निरूपयितुं शक्यते अयमसाविति । किञ्चान्यत् आगच्छ-
न्तश्चैते जीवावयवाः कुतः प्रादुर्भवन्ति, अपगच्छन्तश्च क्व
वा लीयन्त इति वक्तव्यम् । न हि भूतेभ्यः प्रादुर्भवेयुः
भूतेषु च निलीयेरन्, अभौतित्वाज्नीवस्य । नापि कश्चिदन्यः
साधारणोऽसाधारणो वा जीवानामवयवाधारो निरूप्यते
प्रमाणाभावात् । किञ्चान्यत् अनवघृतस्वरूपश्चैवंस-
त्यात्मा स्यात् आगच्छतांमपगच्छताञ्चावयवानामनियत
परिमाणत्वात् । अतएवमादिदोषप्रसङ्गान्न पर्य्यायेणाप्य-
वयवोपगमापगमावात्मन आश्रयितुं शक्येते । अथ वा
पूर्ब्बेण सूत्रेण शरीरपरिमाणस्यात्मन उपचितापचित
शरीरान्तरप्रतिपत्तावकात्र्स्न्यदोषप्रसञ्जनद्वारेणानित्यताया-
ञ्चोदितायाम् पुनः पर्य्यायेण परिमाणानवस्थानेऽपि
स्रोतःसन्ताननित्यतान्यायेनात्मनोनित्यता स्यात् यथा
रक्तपटादीनाम् विज्ञानानवस्थानेऽपि तत्सन्ताननित्य-
ता तद्वद्विसिचामपीत्याशङ्क्यानेन सूत्रेणोत्तरमुच्यते ।
सन्तानस्य तावदवस्तुत्वे नैरात्म्यवाद प्रसङ्गः वस्तुत्वेऽप्यात्मनो
विकारादिदोषप्रसङ्गादस्य पक्षस्यानुपपत्तिरिति ।
“अन्यावस्थितेश्चोभयनित्यत्वादविशेषः” सू० । अपि चान्त्य-
स्य मोक्षावस्थाभाबिनो जीवपरिमाणस्य नित्यत्वमिष्यते
जैनैः तद्वत् पूर्ब्बयोरप्याद्यमध्यमयोर्जीवपरिमाणयोर्नि-
त्यत्वप्रसङ्गादविशेषप्रसङ्गःस्यात् एकशरीरपरिमाणतैव
स्यात् नोपचितापचितशरीरान्तरप्राप्तिः । अथ वाऽन्त्यस्य
जीवपरिमाणस्यावस्थितत्वात् पूर्ब्बयोरप्यवस्थयोरप्यवस्थित
परिमाणएव जीवःस्यात् । ततश्चाविशेषेण सर्व्वदैवा
ऽणुर्महान् वा जीवोऽभ्युपगन्तव्यो न शरीरपरिमाणः ।
अतश्च सौगतवदार्हतमपि मतमसङ्गतमित्युपेक्षितव्यम्” ।
इत्यन्तेन जीवस्याणुपरिमाणत्वं ये स्वीचक्रुः तन्मतमुप-
न्यस्य शा० सू० भा० दूषितं यथा ।
“उत्क्रान्तिगत्यागतीनाम्” सू० । इदानीन्तु किंपरिमाणो-
जीव इति चिन्त्यते किमणुपरिमाणः उत मध्यमपरिमाण
आहोस्वित् महापरिमाण इति । ननु च नात्मोत्पद्यते नित्य
चैतन्यरूपश्चायमित्युक्तमतश्च परएवात्मा जीव इत्यापतति, परस्य
चात्मनोऽनन्तत्वमाम्नातं तत्र कुतोजीवस्य परिमाणचिन्ताव-
तार इति उच्यते सत्यमेतत् उत्क्रान्तिगत्यागतिश्रवणानि तु
जीवस्य परिच्छेदं प्रातयन्ति स्वशब्देन चास्य क्वचिदणुपरिमाण-
त्वमाम्नायते तस्य सर्वस्यानाकुलत्वोपपादनायायमारम्भः । तत्र
प्राप्तं तावदुत्क्रान्तिगत्यागतीनां श्रवणादणुर्जीवैति उत्क्रान्तिस्ता-
वत् “स यदाएतस्माच्छरीरादुत्क्रामति सहैवैतैः सर्व्वैरुत्व्रामतीति”
गतिरपि “ये वै के चास्माल्लोकात् प्रयन्ति चन्द्रमसमेव ते सर्वे
गच्छन्तीति” । आगतिरपि “तस्माल्लोकात् पुनरैत्यस्मै लोकाय
कर्म्मणे” इति आसामुत्क्रान्तिगत्यागतीनां श्रवणात्परिच्छि
न्नस्तावज्जीवः इति प्राप्नोति न हि विभोश्चलनभबकल्पत
इति । सति च परिच्छेदे शरीरपरिमाणत्वस्यार्हतमतपरी-
क्षायां निरस्तत्वादणुरात्मेति गम्यते । “स्वात्मना चोत्त-
रयोः” सू० । उत्क्रान्तिः कदाचिदचलतोऽपि ग्रामस्वा-
म्यनिवृत्तिवद्द हस्वाम्यनिवृत्त्या कर्म्मक्षयेणावकल्प्येत उत्तरे
तु गत्यागती नाचलतः सम्भवतः स्वात्मना हि तयोः
सम्बन्धोभवति गमेश्च कर्त्तृस्थक्रियात्वात् । अतोऽमध्यम
परिमाणस्य च गत्यागती अणुत्व एव सम्भवतः । सत्योश्च
गत्यागत्योरुत्क्रान्तिरपसृप्तिरेव देहादिति प्रतीयते नह्य-
नपसृप्तस्य देहाद्गत्यागती स्यातां देहप्रदेशानाञ्चोत्क्रान्ताव-
पादनत्ववचनात् “चक्षुष्टो वा मूर्ध्नोवा अन्येत्योवा शरीरदेशे-
भ्यः” इति । “सएतास्तेजोमात्राः समभ्याददानोहृदयमे-
वान्ववक्रामति शुक्रमादाय पुनरेति स्थानमिति” चान्वरेऽपि
शरीरे शारीरस्य गत्यागती भवतः तस्मादप्यस्याणुत्वसिद्धिः ।
“नाणुरतच्छ्रुतेरितिचेन्नेतराधिकारात्” सू० । अथापि
स्यात् नाणुरयमात्मा, कस्मात्, अतच्छ्रुतेः अणुत्ववि-
परीतपरिमाणश्रवणादित्यर्थः । “स वा एष महानजः”
“आत्मा योऽयं विज्ञानमयःप्राणेषु” “आकाशवत्सर्व्वगतश्च-
नित्यः” “सत्यंज्ञानमनन्तं ब्रह्मे” त्येवं जातीयका हि श्रुति-
पृष्ठ ०६७३
रात्मनोऽणुत्वे विप्रतिषिध्येतेति चेत् नैष दोषः । कस्मात्
इतराधिकारात् । परस्य ह्यात्मनः प्रक्रियायामेषा
परिमाणान्तरश्रुतिः, परस्यैवात्मनः प्राधान्येन वेदान्तेषु
वेदितव्यत्वेन प्रकृतत्वात्, “विरजःपर आकाशात्” इत्येवं
विधानाच्च परस्यैवात्मनस्तत्र तत्र विशेषाधिकारात् ।
ननु“योऽयं विज्ञानमयः प्राणेष्विति” शारीरोमहत्त्वसम्बन्धि-
त्वेन प्रतिनिर्द्दिश्यते । शास्त्रदृष्ट्या त्वयं निर्दिशो
वामदेववद्द्रष्टव्यः । तस्मात्प्राज्ञविषयत्वात्परिमाणान्तरश्रवणस्य,
न जीवस्याणुत्वं विरुध्यते । “स्वशब्दोन्मानाभ्याञ्च” सू०
इतश्चाण्रात्मा यतः साक्षादेवास्याणुत्ववाची शब्दः श्रूयते “स
एषोऽणुरात्मा चेतसा वेदितव्यो यस्मिन् प्राणः पञ्चधा
संविवेशेति” प्राणसम्बन्धाच्च जीवएवायमणुरभिहितैति गम्यते
तथाचोन्मानमपि जीवस्याणिमानं गमयति “बालाग्रशतभा-
गस्य शतधा कल्पितस्य च । भागोजीवः स विज्ञेय” इति ।
“आराग्रमात्रोह्यवरोऽपि दृष्ट” इति चोन्मानान्तरम् । नन्व-
णुत्वे सत्येकदेशस्थस्य सकलदेहगतोपलब्धिर्विरुध्यते दृश्यते
च जाह्नवीह्रदनिमग्नानां सर्व्वाङ्गे शैत्योपलब्धिर्निदाघसमये
च सकलशरीरपरितापोपलब्धिरितिचेत् उत्तरं पठति ।
“अविरोधश्चन्दनवत्” सू० । यथा हि हरिचन्दनविन्दुःशरी-
रैकदेशे सम्बद्धोऽपि सन् सकलदेहव्यापिनमाह्लादं करोत्ये-
वमात्मापि देहैकदेशस्थः सकलदेहव्यापिनीमुपलब्धिं
करिष्यति । त्वक्सम्बन्धाच्चास्य सकलशरीरगता वेदना न विरु-
द्धते । त्वगात्मनोर्हि सम्बन्धः कृत्स्नायान्त्वचि वर्त्तते त्वक् च
सर्व्वशरीरव्यापिनीति । “अवस्थितिवैशेष्यादितिचेन्नाभ्यु-
पगमाद्धृदि हि” सू० । अत्राह यदुक्तम् “अविरोधश्चन्दनव-
दिति” तदयुक्तं दृष्टान्तदार्ष्टान्तिकयोरतुल्यत्वात् सिद्धे ह्यात्म-
नोदेहैकदेशस्थत्वे चन्दनदृष्टान्तो भवति । प्रत्यक्षन्तु चन्दन-
स्यावस्थितिवैशेष्यमेकदेशस्थत्वं सकलदेहाह्लादनञ्च । आत्मनः
पुनः सकलदेहोपलब्धिमात्रं प्रत्यक्षं नैकदेशवर्त्तित्वम् ।
अनुमेयन्तदिति यदुच्येत न चात्रानुमानं सम्भवति । किमा-
त्मनः सकलशरीरगता वेदना त्वगिन्द्रियस्येव सकलदेह
व्यापिनः सतः किं विभोर्नभसैव, आहोस्विच्चन्दनविन्दो-
रिवाणोरेकदेशस्थस्येति संशयाऽनतिवृत्तेरिति । अत्रोच्यते-
नायं दोषः । कस्मात् अभ्युपगमात् । अभ्युपगम्यतेऽह्यात्मनो-
पि चन्दनस्येव देहैकदेशवर्त्ति त्वमवस्थितिवैशेष्यम् ।
कथमिति उच्यते । हृदि ह्येष आत्मा पठ्यते वेदान्तेषु’ ‘हृदि-
ह्येष आत्मा” “स वाएष आत्मा हृदि कतमः? आत्मेति
योऽयं विज्ञानमयः प्राणेषु ह्वद्यन्तर्ज्योतिःपुरुष” इत्याद्युप-
देशेभ्यः । तस्माद्दृष्टान्तर्दाष्टान्तिकयोरवैषम्याद्युक्तमेवैतदवि-
रोधश्चन्दनवदिति । “गुणाद्वालोकवत्” सू० । चैतन्यगुण-
व्याप्तेर्वाणोरपि सतोजीवस्य सकलदेहव्यापि कार्य्यं न विरु-
ध्यते । यथा लोके मणिप्रदीपप्रभृतीनामपवरकैकदेशवर्त्ति-
नामपि प्रभा अपवरकव्यापिनी सती कृत्स्नेऽपवरके कार्य्यं
करोति तद्वत् । स्यात्कदाचिच्चन्दनस्य सावयवत्वात्
सूक्ष्मावयवविसर्पणेनापि सकलदेहआह्लादयितृत्वं
नत्वणोर्जीवस्यावयवाः सन्ति यैरयं सकलदेहं विसर्पे-
दित्याशङ्क्य “गुणाद्वालोकव” दित्युक्तम् । कथं पुनर्गुणो-
गुणिव्यतिरेकेणान्यत्र वर्त्तेत न हि पटस्य शुक्लोगुणः
पटव्यतिरेकेणान्यत्र वर्त्तमानोदृश्यते । प्रदीपप्रभावद्भवे-
दिति चेन्न तस्या अपि द्रव्यत्वाभ्युपगमात् । निविड़ावयवं
हि तेजोद्रव्यं प्रदीपः विरलावयवन्तु तेजोद्रव्यमेव प्रभेति
अत उत्तरं पठति । “व्यतिरेके गन्धवत्” सू० यथा गुणस्यापि
सतोगन्धस्य गन्धद्रव्यव्यतिरेकेण वृत्तिर्भवति अप्राप्तेष्वपि
कुसुमादिषु गन्धोपलब्धेः एवमणोरपि सतोजोवस्य चैतत्य-
गुणव्यतिरेकोभविष्यति । अतश्चानैकान्तिकमेतद्गुणत्वात्
रूपवदाश्रयविश्लेषानुपपत्तिरिति गुणस्यैव सतोग-
न्धस्याश्रयविश्लेषदर्शनात् । गन्धस्यापि सहैवाश्रयेण
विश्लेष इति चेन्न यस्मान्मूलद्रव्याद्विश्लेषस्तस्य क्षयप्रसङ्गात् ।
अक्षीयमाणमपि तत्पर्व्वावस्थातोऽवगम्यते अन्यथा तत्पू-
र्ब्बावस्थैर्गुरुत्वादिभिर्हीयते । स्यादेतत् गन्धाश्रयाणां
विश्लिष्टानामल्पत्वात्सन्नपि विश्लेषो नोपलक्ष्यते सूक्ष्मा
हिगन्धपरमाणवः सर्व्वतो विप्रसृतागन्धबुद्धिमुत्पादयन्ति
नासिकापुटमनुप्रविशन्त इति चेन्न अतीन्द्रियत्वात्
परमाणूनां स्फुटगन्धोपलब्धेश्च नागकेशरादिषु । न च लोके
प्रतीतिर्गन्धवदुद्रव्यमाघ्रातमिति गन्धएवाघ्रात इति
लौकिकाः प्रतियन्ति । रूपादिष्वाश्रयव्यतिरेकानुपलब्धेर्ग-
न्धस्याम्ययुक्ताश्रयव्यतिरेक इति चेन्न प्रत्यक्षत्वादनुमाना-
प्रवृत्तेः । तस्माद्यद्यथा लोके दृष्टं तत्तर्थैवानुगन्तव्यं निरूप-
कैर्नान्यधा । न हि रसोगुणोजिह्वयोपलभ्यतैत्यतो रूपा-
दयोपि गुणाजिह्वयेवोपलभ्येरन्निति नियन्तुं शक्यते ।
“तथा च दर्शयति” सू० । श्रुतिर्हृदयायतनत्वमणुपरिमाणावं
चात्मनोऽभिधाय तस्यैब “आलोमभ्य आमखाग्रेभ्यः” इति
चैतन्येन गुणेन समस्तशरीरव्यापित्वं दर्शयति । “पृथगुप-
देशात्” सू० । “प्रज्ञया शरीरं ममारुह्येति” चात्मप्रज्ञयोः
कर्त्तृकरणभावेन पृथगुपदेशाच्चैतन्येन गुणेनैवास्य शरीर-
व्यापितावगम्यते । “तदेषां प्राणानां विज्ञानेन विज्ञानमा-
पृष्ठ ०६७४
दायेति च” कर्त्तुः शरीराद् पृथग्विज्ञानस्योपदेश एतमे-
वाभिप्रायमुपोद्वलयति तस्मादणुरात्मेत्येवं प्राप्ते ब्रूमः ।
“तद्गुणसारत्वात्तु तद्व्यपदेशः प्राज्ञवत्” सू० । तुशब्दः
प्रक्षं व्यावर्त्तयति । नैतदस्ति अणुरात्मेति उत्क्रान्त्याद्य-
श्रवणात् । परस्यैव तु ब्रह्मणः प्रवेशश्रवणात् तादा-
त्म्योपदेशाच्च परमेव ब्रह्म जीव इत्युक्तम् । परमेव चेद्-
ब्रह्मजीवस्तस्माद्यावत्परं ब्रह्म तावानेव जीवो भवितुमर्हति
परस्य च ब्रह्मणो विभुत्वमाम्नातं तस्माद्विभुर्जीवः । तथा
च “स वा एष महानज आत्मा योऽयं विज्ञानमयः प्राणेषु,
इत्येवंजातीयका जीवविषया विभुत्ववादाः श्रौताः स्मा-
र्त्ताश्च समर्थिता भवन्ति । नचाणोर्जीवस्य सकलशरीरगता
वेदनोपपद्यते । त्वक्सम्बन्धात् स्यादिति चेन्न त्वक्कण्टक-
तोदनेऽपि सकलशरीरगतैव वेदना प्रसज्येत त्वक्कण्टक-
योर्हि संयोगः कृत्स्नायां त्वचि वर्त्तते त्वक् च कृत्स्न-
शरीरव्यापिनीति पादतलएव तु कण्टकनुन्नां वेदनां
प्रतिलभन्ते । नचाणोर्गुणस्य व्याप्तिरुपपद्यते गुणस्य गुणि-
देशत्वात् गुणत्वमेव हि गुणिनमनाश्रित्य गुणस्य हीयेत ।
प्रदीपप्रभायाश्च द्रव्यान्तरत्वं व्याख्यातम् । गन्धोऽपि
गुणत्वाभ्युपगमात् साश्रय एव सञ्चरितुमर्हति अन्यथा
गुणत्वहानिप्रसङ्गात् । तथा चोक्तं भगवता द्वैपायनेन
“उपलभ्याप्सु तद्गन्धं केचिद्ब्रूयुरनैपुणाः । पृथिव्यामेव तं
विद्यादपोवायुञ्च संश्रितमिति” । यदि च चैतन्यं जीवस्य
समस्तं शरीरं व्याप्नुयान्नाणुर्जीवः स्यात् चैतन्यमेव ह्यस्य
स्वरूपं अग्नेरिवौष्ण्यप्रकाशौ, नात्र गुणगुणिविभागोविद्यत
इति । शरीरपरिमाणत्वञ्चं प्रत्याख्यातं परिशेषाद्विभुर्जीवः
कथं तर्ह्यणुत्वादिव्यपदेश इति अत आह “तद्गुणसारत्वा-
त्तु तद्व्यपदेश” इति । तस्याबुद्धेर्गुणाः तद्गुणा इच्छा द्वेषः
सुखं दुष्खमित्येवमादयः तद्गुणाः सारः प्रधानं यस्यात्मनः
संसारित्वे सम्भवति स तद्गुणसारः तद्भावस्तदगुणसा-
रत्वम् । न हि बुद्धेर्गुणैर्विना केवलस्यात्मनः संसारित्वम-
स्ति बुद्ध्युपाधिधर्म्माध्यासनिमित्तं हि कर्त्तृत्वभोक्तृत्वादि
लक्षणं संसारित्वमकर्त्तुरभोक्तुश्चासंसारिणोनित्यमुक्तस्य
सत आत्मनः । तस्मात्तद्गुणसारत्वाद्बुद्धिपरिमाणेनास्य
परिमाणव्यपदेशः तदुत्क्रान्त्यादिभिश्चास्योत्क्रान्त्यादिव्य-
पदेशो न स्वतः । तथा च “बालाग्रशतभागस्य शतधा
कल्पितस्य तु । भागोजीवः स विज्ञेयः स चानन्त्याय
कल्पत” इत्यणुत्वं जीवस्योक्त्वा तस्यैव पुनरानन्त्यमाह
तच्चैवमेव समञ्जसं स्यात् यद्यौपचारिकमणुत्वं जीवस्य
भवेत् पारमार्थिकं चानन्त्यम् । नह्युभयं मुख्यमव-
कल्पेत । नचानन्त्यमौपचारिकमिति शक्यं विज्ञातुं
सर्व्वोपनिषत्सु ब्रह्मात्मभावस्य प्रतिपिपादयिषितत्वात् ।
तथैतस्मिन्नप्युन्माने “बुद्धेर्गुणेनात्मगुणेन चैव आराग्र-
मात्रोह्यवरोऽपि दृष्ट” इति बुद्धिगुणसम्बन्धेनैवारा-
ग्रमात्रतां शास्ति न स्वेनैवात्मना । “एषोऽणुरात्मा चेतसा
वेदितव्य” इत्यत्रापि न जीवस्याणुपरिमाणत्वं शिष्यते ।
परस्यैवात्मनश्चक्षुराद्यनवग्राह्यत्वेन ज्ञानप्रसादावगम्यत्वेन
च प्रकृतत्वात्, जीवस्यापि च मुख्याणुपरिमाणत्वानुपपत्तेः ।
तस्माद्दुर्ज्ञानत्वाभिप्रायमिदमणुत्ववचनमुपाध्यभिप्रायं वा
द्रष्टव्यम् । तथा “प्रज्ञया शरीरमारुह्य” इत्येवंजातीय-
केष्यपि भेदोपदेशेषु बुद्ध्योपाधिभूतया जीवः शरीरं
समारुह्येत्येवं योजयितव्यं व्यपदेशमात्रं वा शिला-
पुत्रकस्य शरीरमित्यादिवत् । नह्यत्र गुणगुणिविभागो
विद्यत इत्युक्तम् । हृदयायतनत्ववचनमपि बुद्धेरेव
तदायतनत्वात् । तथोत्क्रान्त्यादीनामप्युपाध्यायत्ततां
दर्शयति “कस्मिन्नहमुद्क्रान्त उत्क्रान्तो भविष्यामि” इति
“कस्मिन् वा प्रतिष्ठिते प्रतिष्ठास्यामीति स प्राणमसृ-
ज्यतेति” । उत्क्रान्त्यभावे हि गत्यागत्योरप्यभावो विज्ञा-
यते, नह्यनपसृप्तस्य देहाद्गत्यागती स्याताम् । एवमुपा-
धिगुणसारत्वाज्जोवस्याणुत्वव्यपदेशः प्राज्ञवत् यथा
प्राज्ञस्य परमात्मनः सगुणेषूपासनेषूपाधिगुणसारत्वा-
दणीयस्त्वादिव्यपदेशः “अणीयान्व्रीहेर्व्वा यवाद्वा,
मनोमयः प्राणशरीरः सर्वगन्धः सर्वरसः सत्यकामः सत्यसंकल्पः”
इत्येवं प्रकारः तद्वत्” इत्यन्तेन । इति शाङ्करानुयायिनः
रामानुजमाध्वादयश्च जीवस्याणुत्व पक्षमुररीचक्रुः । तत्प्र-
पञ्चस्तत्तच्छास्त्रे दृश्यः तयोर्युक्तायुक्तत्वं नैयायिकवैशेषि-
काङ्गीकृतविभुत्वप्रदर्शकयुक्तीरवलोक्य सुधीभिः समर्थनीयम्
न्यायसूत्रवृत्तौ चात्मनोदेहाद्यतिरिक्तत्वं प्रदर्शितं यथा
“तत्रेन्द्रियं ज्ञानवन्नवेति संशये करणत्वेन सिद्धानामिन्द्रि-
याणां चैतन्यमस्तु लाघवात्तथा चात्मशब्दस्य नानार्थत्वादि-
न्द्रियाणामभौतिकत्वाद्वा न साङ्कर्य्यमितीन्द्रियचैतन्यवादिन-
स्तन्निराकरणायाह । “दर्शनर्स्पर्शनाभ्यामेकार्थग्रह-
णात्” १ । “न विषयव्यवस्थानात्” २ । “तद्व्यवस्थानादेवात्म-
सद्भाबादप्रतिषेधः” ३ । “शरीरदाहे पातकाभावात्” ४ ।
“तदभावः सात्मकप्रदाहेऽपि तन्नित्यत्वात्” ५ । “न
कार्य्याश्रयकर्तृबधात्” ६ । “सव्येन दृष्टस्येतरेण प्रत्य-
भिज्ञानात्” ७ । “नैकस्मिन्नासास्थिव्यवहिते द्वित्वाभि-
पृष्ठ ०६७५
मानात्” ८ । “एकनाशे द्वितीयाविनाशात्” ९ ।
“अवयवनाशेऽप्यवयव्युपलब्धेरहेतुः” १० । “दृष्टान्तविरोधाद-
प्रतिषेधः” ११ । “इन्द्रियान्तरविकारात्” १२ । “न
स्मृतेः स्मर्त्तव्यविषयत्वात्” १३ । “तदात्मगुणत्वसद्भावाद-
प्रतिषेधः” १४ । “अपरिसङ्ख्यानाच्च स्मृतिविष-
यस्य” १५ । “नात्मप्रतिपत्तिहेतूनां मनसि सम्भवात्” १६ ।
“ज्ञातुर्ज्ञानसाधनोपपत्तेः संज्ञाभेदमात्रम्” १७ । “निय-
मश्च निरनुमानः” १८ । “पूर्व्वाभ्यस्तस्मृत्यनुबन्धाज्जातस्य
हर्षभयशोकसम्प्रतिपत्तेः” १९ । “पद्मादिषु प्रबोध-
सम्मीलनविकारवत्तद्विकारः” २० । “नोष्णशीतवर्षाकाल-
निमित्तत्वात् पञ्चात्मकविकाराणाम्” २१ । “प्रेत्या-
हाराभ्यासकृतात् स्तन्याभिलाषात्” २२ । “अयसोऽय-
स्कान्ताभिगमनवत्तदुपसर्पणम्” २३ । “नान्यत्र प्रवृत्त्य-
भावात्” २४ । “वीतरागजन्मादर्शनात्” २५ सूत्राणि
“एकस्यैव दर्शनस्पर्शनाभ्यामर्थस्य ग्रहणात् दर्शनस्पर्शने
ज्ञानविशेषौं तृतीया च प्रकारे तेन चाक्षुषस्पर्शनोभय-
वत्त्वेनैकस्य धर्म्मिणः प्रतिसन्धानादित्यर्थः । तथा च
योऽहं घटमद्राक्षं सोऽहं स्पृशामीत्यनुभवादात्मेन्द्रियव्यति-
रिक्तएक इति १ । अत्र शङ्कते चक्षुस्त्वग दीनां रूपस्पर्शादि
नियतविषयत्वाच्चक्षुरादेश्चाक्षुषादिसमवायित्वमित्थञ्चाभेद-
प्रत्ययोभ्रान्त इति भावः २ । समाधत्ते उक्तप्रतिषेधोन
युक्तः उक्तविषयव्यवस्थानादेवात्मसद्भावादतिरिक्तात्मकल्प-
नादित्यर्थः । अयंभावः तत्तदिन्द्रियाणां तत्तद्विषयकप्रत्यक्षं
प्रति समवायित्वं वाच्यं न तु प्रत्यक्षत्वाववच्छिन्नं प्रति,
अनुमित्यादिजनकत्वेतु विनिगभकाभावात् । तेन जन्यज्ञान-
त्वावच्छिन्नजनकतावच्छेदकमात्मत्वं चक्षुरादेरनित्यत्वादात्मनश्च
नित्यतायावक्ष्यमाणत्वाच्चक्षुरादिनाशेऽपि स्मरणाच्चक्षुरह-
मित्याद्यप्रतीतेश्च नेन्द्रियात्मवादोयुज्यत इति ३ । समाप्त-
मिन्द्रियप्रकरणम् । ननु गौरोऽहं जानामीत्यादिप्रती-
तेरस्तु शरीरमात्मेत्याशङ्क्य दूषयति । पातकाभावात्
पातकादेरभावप्रङ्गात् तथाचोत्तरकालिकं दुःखादिकं
न स्यादिति । यद्वा दाहोनाशः तथा च शरोरनाशे
कृते कर्त्तरि शरीरे विनष्टे पातकं न स्यादित्यर्थः । यद्यपि
भूतचैतन्यवादिना पातकादिकं नोपेयते तथापि तस्य प्रसा-
ध्याङ्गकत्वादेकदेशिनः पूर्व्वपक्षित्वाद्वा न दोष इति
भावः ४ । तवापि तुल्योदोष इत्याशङ्कते ।
तदभावः पातकाभावः सात्मकशरीरस्य प्रदाहेऽपि प्रसक्तः
तन्नित्यत्वात् तस्य आत्मनोनित्यत्वात् नित्यत्वेन निर्विका-
रत्वं तेन जन्यधर्म्मानाश्रयत्वमभिमतमितिकेचित् । तन्नि-
त्यत्वात् शरीरनाशे शरीरविशिष्टात्मनाशस्य नियतत्वादि-
त्यपि कश्चित् । किञ्च सात्मकशरीरनाशेऽपि हन्तुः पातका-
भावः स्यात् तस्यात्यनोनित्यत्वेन तन्नाशकत्वाभावात् ५ ।
परिहरति । कार्य्याश्रयस्य चेष्टाश्रयस्य कर्त्तुः कृत्ययच्छेदकस्य
शरीरस्यैव नाशः नत्वात्मन इति न पातकाभावः ।
यद्वा न हन्तुः पातकाभावः कार्य्याश्रयकर्त्तुर्बाधात्
शरीरस्य नाशात् ब्राह्मणत्वादेः शरीरवृत्तित्वात्तन्नाशा-
देव पापोत्पत्तिरिति भावः । वस्तुतस्तु अपूर्व्वशरीरावच्छिन्न
प्राणसंयोगात्मकोत्पत्तिवत् शरीराववच्छिन्नप्राणसंयोग-
ध्वंसविशेषत्माकं मरणमप्यात्मनः सम्भवति अन्यथा शरीर
विनाशनोद्बन्धनमुखनिरोधादेर्हिसात्वं न स्यात् पातका-
नभ्युपगन्तृचार्व्वाकादिमते शरीरभेदसाधनन्तु वक्ष्यमाण-
युक्तिभिरिति ध्येयम् ६ । समाप्तदेहभेदप्रकरणम् प्रसङ्गा-
च्चक्षुरद्वैतप्रकरणमारभते । वामेन चक्षुषा दृष्टस्य दक्षिणेन
चक्षुषा प्रत्यभिज्ञानात् स्थिरात्मसिद्धिरिति केषाच्चिन्मतं
तन्निराकरणायैतदुपन्यासः ७ । एतद्दूषयति । मध्य-
स्थसेतुना तडागस्येव नासास्थिव्यवहितगोलकान्तरा-
वच्छिन्नतया द्वैतप्रत्ययोभ्रम इत्यर्थः ८ । आक्षिपति ।
चक्षुरैक्ये एकचक्षुर्नाशेऽन्धत्वं स्यादिति भावः ९ ।
अत्रैकदेशी परिहरति । अवयवस्य शाखादेर्नाशेऽप्यवय-
विनोवृक्षस्य प्रत्यभिज्ञानान्नावयवनाशे सर्ब्बत्रावयविनाश-
नियमस्तथा चैकनाशेऽपि नान्धत्वमिति १० । एकदेशिमतस्य
पूर्ब्बोक्ताक्षेपस्य च समाधानाय सिद्धान्तिनः सूत्रम् ।
उक्तप्रतिषेधोन युक्तः दृष्टान्तस्य विरोधादयुक्तत्वात् न
हि शाखाच्छेदे वृक्षस्तिष्ठति तथा सति वृक्षस्यानाशप्रसङ्गा-
दतोऽवस्थितावयवैस्तत्र स्वण्डवृक्षीत्पत्तेर्नेकदेशिमतं युक्तम् ।
एतेनैकनाशे द्वितीयाविनाशाद्भेदसाधनमपि प्रत्युक्तं चक्षु-
र्नाशेऽपि गोलकान्तरावच्छिन्नावयवैः खण्डचक्षुः सम्भवात्
इत्थञ्च लाघवाच्चक्षुरद्वैतमिति टीकास्वरससिद्धम् । परे तु
चक्षुर्द्वैतमेव सूत्रार्थं मन्यमाना व्याचक्षते सिद्धान्तिनः । सूत्रं
सव्येनेति । शङ्कते नैकस्मिन्निति । समाधत्ते एकेति । शङ्कते
अवयवेति । निराकरोति दृष्टान्तेति । शास्वानाशे वृक्षनाशा-
वश्यकत्वात् दृष्टान्तोन युक्तः । यद्वा दृष्टान्तस्य गोलकभेदस्य
विरोधादन्यथानुपपन्नत्वाद्दृष्टं हि मृतस्य चक्षुरधिष्ठानगो-
लकद्वयं भेदेनैवोपलभ्यत इति वदन्ति ११ । आत्मनॄ इन्द्रिय
भेदे युक्त्यन्तरमाह । चिरविल्वाद्यम्लद्रव्ये दृष्टे तद्रसस्म-
रणाद्दन्तोदकसंप्लवरूपरसनेन्द्रियविकारादिन्द्रियव्यतिरिक्त
पृष्ठ ०६७६
आत्मा सिद्ध्यति १२ । आक्षिपति । स्मृतिर्हि स्मर्त्तव्यविषयि-
णीति नियमस्तस्याश्च दर्शनादिना सामानाधिकरण्ये
मानाभावात् अस्तु वा विषयतयैव सामानाधिकरण्यमिति
भावः १३ । समाधत्ते । उक्तप्रतिषेधोन युक्तः धर्म्मिग्राहकमानेन
स्मृतेरात्मगुणत्वात्परिशेषेणात्मगुणत्वसिद्धेरहं स्मरामीत्यनुभ-
वात् विषयनिष्ठकार्य्यकारणभावे चैत्रस्य ज्ञानान्मैत्रस्य
स्मरणापत्तेरिति भावः १४ । विषयाणां स्मर्त्तव्यानां
स्मृतिसमवायित्वम् स्यादित्याशङ्क्य समाधत्ते । अपरिस-
ङ्ख्यानात् आनन्त्यात् तथा च लाघवादतिरिक्तात्मसिद्धिः ।
इद न सूत्रं किन्तु भाष्यमिति केचित् १५ । समाप्तं चक्षु-
रद्वैतप्रकरणम् । ननु मनसोनित्यत्वादात्मत्वमस्त्वित्याशङ्क-
ते । नातिरिक्त आत्मा आत्मसाधकमानानां मनसार्थान्त-
रत्वमिति भावः १६ । समाधत्ते । यदि मनसो ज्ञातृत्वं तदा
व्यासङ्गाद्युपपादनाय करणान्तरमवश्यं वाच्यं तथा चैको-
ज्ञाता ज्ञानसाधनं चैकं सिद्धं मन आत्मास्त्विति संज्ञा-
मात्रं किञ्चव्यासङ्गोपपादकतया मनसोऽणुत्वं सिद्धमात्म-
नश्च प्रत्यक्षोपपादकतया महत्त्वमिति भेद आवश्यक इति
भावः १७ । ननु रूपादिप्रत्यक्षम् सकरणकमस्तु न तु
सुखादिप्रत्यक्षम् एवंपरमाण्वन्तरस्यातीन्द्रियत्वेऽपि मनसः
प्रत्यक्षम् स्यादत्राह । उक्तोनियमविशेषोनिरनुमानः
निष्प्रमाणकः गौरवाद्वैपरीत्ये च विनिगमकाभावाच्चेति
भावः १८ । समाप्तम् मनोभेदप्रकरणम् । एवं साधितेऽपि
देहादिभिन्ने आत्मनि विना तन्नित्यतां न परलोकार्थिनः
प्रवृत्तिरतः आत्मनित्यताप्रतिपादनाय सूत्रम् । जातस्य
बालस्य एतज्जन्माननुभूतेष्वपि हर्षादिहेतुषु सत्सु हर्षा-
दीनां सम्प्रतिपत्तिः उत्पत्तिस्तस्याः पूर्व्वापूर्व्वानुभबाधीन
स्मृतिसम्बन्धादेव सम्भवात् इत्थं चेदानीन्तनस्यात्मनः
पूर्व्वपूर्ब्बसिद्धौ तस्यानादित्वमनादेश्च भावस्य न नाश इति
नित्यत्वसिद्धिरिति भावः १९ । अत्र शङ्कते । बालस्य
हर्षादयोमुखविकासाद्यनुमेया न च तत्सम्भवः पद्मादीनां
प्रबोधादिवददृष्टविशेषाधीनक्रियावशादेव तदुपपत्तेरिति
भावः २० । सिद्धान्तयति । उक्तं न युक्तं यतः पञ्चात्म-
कानां पाञ्चभौतिकानां पद्मादीनां ये विकारास्तेषाम्
उष्णकालादिनिमित्तत्वात् मनुष्यादीनान्तु हर्षादिनिमि-
त्तका मुखविकासादय इति न तुल्यतेति भावः २१ ।
आत्मनित्यत्वे हेत्वन्तरमाह । प्रेत्य मृत्वा जातमात्रस्य
यः स्तन्याभिलाषः स तावदाहाराभ्यासजनितः जन्मा-
न्तरीणाहारेष्टसाधनताधीजन्यजीवनादृष्टोद्बोधितसंस्कारा-
धीनेष्टसाधनतास्मरणेन हि बालःस्तनपाने प्रवर्त्त
इत्यनेनादित्वमिति २२ । शङ्कते । यथाऽयस्कान्तसन्निहि-
तस्यायसोऽयस्कान्ताभिमुखतया गमनं तथैव वत्सस्यापि
स्तनोपसर्पणं न त्विष्टसाधनताज्ञानाधीनप्रवृत्तिजन्या चेष्टे-
यमित्यर्थः २३ । समाधत्ते । स्तनपानएव बालः प्रवर्त्तते
नत्वन्यत्रेति नियमः कथं स्यात् । वस्तुतस्तु अन्यत्र अयसि
प्रवृत्त्यभावात् प्रवृत्तिर्हि चेष्टानुमिता लिङ्गं न तु क्रिया-
मात्रमतोन व्यभिचार इति भावः २४ । हेत्वन्तरमाह
वीतरागोरागशून्यस्तावन्नोत्पद्यतेऽपि तु सरागतएव-
जन्मान्तरीयेष्टसाधत्वताज्ञानाधीनस्मरणं हेतुरिति पूर्ब्बं
स्तन्याभिलाषौक्तः सम्प्रति तु पतगादीनां कणादिभक्षणा-
भिलाषसाधारणं रागमात्रमित्यपौनरुक्तम् २५” वृत्तिः ।
वैशेषिकसूत्रोपस्करयोरात्मसाधनपुरस्सरं तस्य देहा-
द्यतिरिक्तता साधिता यथा “इन्द्रियार्थप्रसिद्धिरिन्द्रि-
यार्थेभ्यो ऽर्थान्तरस्य हेतुः” १ । “सोऽनपदेशः” २ ।
“कारणाज्ञानात्” ३ । “कार्य्येषु ज्ञानात्” ४ । “अज्ञा-
नाच्च” ५ । अन्यदेव हेतुरित्यनपदेशः” ६ । “अर्थान्तरं
ह्यर्थान्तरस्याऽनपदेशः” ७ सू० “इन्द्रियार्थप्रसिद्धेरात्म-
परीक्षायामुपयोगमाह । हेतुर्लिङ्गमर्थान्तरस्य आत्मनः
इन्द्रियार्थेभ्य इति इन्द्रियेभ्योऽर्थेभ्यश्च रूपादिभ्यस्तद्वद्-
भ्यश्च यदर्थान्तरम् आत्मा तस्य लिङ्गमित्यर्थः । यद्यपि
ज्ञानमेव लिङ्गमिह विवक्षितं तथापीन्द्रियार्थप्रसिद्धेरू-
पादिसाक्षात्कारस्य प्रसिद्धतरतया ताद्रूप्येणैव लिङ्गत्वमुक्तम् ।
तथाहि प्रसिद्धिः क्वचिदाश्रिता कार्य्यत्वात् घटवत्
गुणत्वाद्वा क्रियात्वाद्वा सा च प्रसिद्धिः करणजन्या क्रिया-
त्वात् छिदिक्रियावत् यच्च प्रसिद्धेः करणं तदिन्द्रियं तच्च
कर्तृप्रयोज्यं करणत्वात् वास्यादिवत् तथा यत्रेयं प्रसिद्धि-
राश्रिता, यः घ्राणादीनां करणानां प्रयीक्ता स आत्मा १ ।
ननु शरीरमिन्द्रियाणि वा प्रसिद्धेराश्रयोऽस्तु प्रसिद्धिं
प्रति तदुभयान्वयव्यतिरेकयीः स्फृटतरत्वात् किं तदन्या-
श्रयकल्पनया तथाहि चैतन्यं शरीरगुणः तत्कार्यत्वात्
तद्रूपादिवत् एवमिन्द्रियगुणत्वेऽपि वाच्यमित्याशङ्क्याह ।
अपदेशो हेतुः तदाभासोऽनपदेशः तथाच तत्कार्यत्वं
प्रदीपजन्यज्ञानादावनैकान्तिकत्वादनपदेशैत्यर्थः २ । ननु
तत्कार्यत्वं चैतन्यत्वावच्छिन्नस्यैव कार्यत्वं विवक्षितं प्रदी-
पादीनाञ्च समस्तमेव चैन्तन्यं न कार्यमिति न व्यभिचार
इत्याशङ्क्याह । शरीरकारणानां करचरणादीनां
तदवयवानां वा अज्ञानात् ज्ञानशून्यत्वादित्यर्थः । पृथिव्यादि-
पृष्ठ ०६७७
विशेषगुणानां हि कारणगुणपूर्ब्बकता दृष्टा तथाच
शरीरकारणेषु यदि ज्ञानं स्यात्तदा शरीरेऽपि सम्भाव्येत नचैवम् ।
नन्वस्तु शरीरकारणेष्वपि चैतन्यमिति चेन्न ऐकमत्याभाव-
प्रसङ्गात् न हि बहूनाञ्चेतनानामैकमत्यं दृष्टम्, करावच्छेदे-
नानुभूतस्य करच्छेदेऽस्मरणप्रसङ्गात् यतः “नान्यदृष्टं स्मर-
त्यन्यः” इति । किञ्च शरीरनाशे तत्कृतहिंसादिफलानुपभो-
गप्रसङ्गात् नहि चैत्रेण कृतस्य पापस्य फलं मैत्रो भुङ्क्ते
ततश्च कृतहानिरकृताम्यागमश्च स्यात् ३ । ननु शरीरकारणेषु
सूक्ष्ममात्रया ज्ञानमस्ति शरीरे तु स्फुटमतो नाऽकारण-
गुणपूर्व्व कता नचैकमत्यानुपपत्तिरित्याशङ्क्याह । यदि हि
शरीरमूलकारणेषु परमाणुषु चैतन्यं स्यःत् तदा
तदारब्धेषु कार्येषु घटादिष्वपि स्यात किञ्च पार्थिवविशेषगु-
णानाम् सर्व्वपार्थिववृत्तिताव्याप्तेः कार्येष्वपि
घटादिषु चैतन्यं स्यान्न च तत्र चैतन्यमुपलभ्यते इत्यर्थः ४ ।
ननु घटादावपि सूक्ष्ममात्रया चैतन्यमस्त्येवेत्याशङ्क्याह ।
सर्व्वैः प्रमाणैरज्ञानात् कुम्भादौ न चैतन्यमित्यर्थः ।
सर्ब्बप्रमाणागोचरस्याप्यभ्युपगमे शशविषणादेरप्यभ्युपगम-
प्रसङ्गः न हि घटादौ चैतन्यं केनापि प्रमाणेन ज्ञायत
इति ५ । ननु श्रोत्रादिभिः करणैरधिष्ठाताऽनुमीयते इत्यु-
क्तं तदयुक्तं नहि श्रोत्रादिभिरात्मनस्तादात्म्यं तदुत्प-
त्तिर्व्वा न च ताभ्यामन्तरेणाऽविनाभावसिद्धिः नचावि-
नाभावमन्तरेणाऽनुमितिरित्यत आह । हेतुः साध्यादन्य
एव भवति न तु साध्यात्मा साध्याविशेषप्रसङ्गात् तस्मा-
त्तादात्म्यघटितो हेतुरहेतुरनपदेश इत्यर्थः ६ । ननु श्रोत्रा-
दिभिरिन्द्रियैरात्मनो यथा न तादात्म्यं तथा तदुत्प-
त्तिरपि नास्ति नहि बह्नेर्धूम इव आत्मनः श्रोत्रादि-
करणमुत्पद्यते इत्यत आह । हि यतः कार्यं धूमादि
यथा रासभादेरर्थान्तरम् तथा कारणाद्वह्न्यदेरप्यर्थान्तरमेव
तथा चार्थान्तरत्वाविशेषात् धूमो रासभं न गमयति किन्तु
बह्निमेव गमयतीत्यत्र स्वभावविशेष एव नियामकः स
च स्वभावो यदि कार्यादन्यस्यापि भवति तदा सोऽप्यपदे-
शोभवत्येव तथा च कार्यमविवक्षितस्वभावभेदम् अनपदेशः,
तथा च तादात्म्यतदुत्पत्ती एवाऽविनाभावः तयोरेवाविना-
भावपर्यवसानम् ताभ्यां समानोपायौ वा तदुभयमात्र
ग्रहाधीनग्रहौ वेति स्वशिष्यव्यामहोनाय परिभाषामा-
त्रमिति भावः” ७ ॥ उपस्क० । अनतिदूरे च तत्रैव
“आत्मेन्द्रियार्थ सन्निकर्षाद्यन्निष्पद्यते तदन्यत्” १८ सू० ।
“ज्ञानमात्मन्युभयथा लिङ्गम्, ज्ञानं क्वचिदाश्रितं कार्य्य-
त्वाद्रूपादिवदिति वा, प्रत्यभिज्ञारूपतया वा योऽहमद्राक्षं
सोऽहं स्पृशामीति, तत्र ज्ञानगतं कार्य्यत्वं नासिद्धं
यन्निष्पद्यत इत्यभिधानात्, न विरुद्धं सामान्यतोदृष्टेऽत्र
विरोधाभावात् । नचानैकान्तिकम्, तत एव, तथा च स्वगत-
कार्य्यत्वगुणत्वद्वारा सामान्यतोदृष्टेन ज्ञानमेवात्मनि लिङ्गम्,
प्रत्यभिज्ञानन्तु भिन्नकर्त्तृकेभ्योव्यावर्त्तमानमेककर्त्तृकतायां
पर्य्यवस्यति । न च बुद्धिचैतन्येऽपि कार्य्यकारणभावनिबन्धन-
मेव प्रतिसन्धानम्, शिष्यगुरुबुद्ध्योरपि प्रतिसन्धानप्रसङ्गात् ।
उपादानोपादेयभावस्तत्र नास्ति स च प्रतिसन्धानप्रयोजक
इति चेदुपादानत्वस्य द्रव्यधर्म्मतया बुद्धावसम्भवात्, सम्भ-
वे वा बुद्धीनां क्षणिकतया पूर्व्वानुभूतप्रतिसन्धानानुप-
पत्तेः, न हि पूर्ब्बबुद्ध्या उत्तरासु बुद्धिषु कश्चित् संस्कार
आधीयते, स्थिरस्य तस्य त्वयाऽनभ्युपगमात्, क्षणिकबुद्धि-
धारारूपस्य च कालान्तरस्मृतौ प्रतिसन्धाने वाऽसामर्थ्यात् ।
आलयविज्ञानसन्तानः प्रवृत्तिविज्ञानसन्तानादन्य एव
र्स्मत्ता च प्रतिसन्धाता चेति चेत् स यदि स्थिरः तदा
सिद्धं नः समीहितम्, क्षणिकबुद्ध्विधारारूपश्चेत् तदा
पूर्व्वदोषानतिवृत्तेः, न हि तत्रापि स्थिरः कश्चित्
संस्कारः । किञ्च प्रवृत्तिविज्ञानातिरिक्ते तत्र प्रमाणा-
भावः । अहमिति बुद्धिधारैव प्रमाणमिति चेत् भवतु
तत्र प्रवृत्तिविज्ञानान्यालयविज्ञानमेव चेदुपादत्ते तदा
प्रवृत्तिविज्ञानानामुपादानताविरहे निमित्तताऽपि न स्यात्
उपादानताव्याप्तत्वान्निमित्ततायाः, माऽस्तु निमित्तताऽ-
पीति चेत् तर्हि सत्त्वमपि गतम्, अर्थक्रियाकारित्वस्य
सत्त्वलक्षणत्वात् प्रवृत्तिसन्तानालयविज्ञानसन्तानाभ्यां
सम्भूय सन्तानद्वयमुपादीयत इति चेत् तर्हि किमपराद्धम-
वयविसंयोगादिभिः, व्यासज्यवृत्तितायास्त्वयाप्यभ्युपपमात् ।
तस्माज्ज्ञानेनाश्रयतयाऽनुमितमात्मानं प्रतिसन्धानं स्थिर-
त्वेन साधयतीति न किञ्चिदनुपपन्नम् । यद्वा नित्या
बुद्धिर्नात्मानं कारणत्वेन गमयितुमर्हतीति साङ्ख्यमतनि-
रासाय सूत्रमिदमुपतिष्ठते “आत्मेन्द्रियार्थसन्निकर्षाद्
यन्निष्पद्यते तदन्यत्” बुद्धितत्त्वं यत्त्वयोच्यते तज्ज्ञानमेव,
बुद्धिरुपलब्धिर्ज्ञानमिति हि पर्य्यायाभिधानं, तच्चात्मादि-
सन्निकर्षादुत्पन्नम् । अन्यदेव त्वदभ्युपगतादन्तःकरणादि-
त्यर्थः तथाच भवति तत् आत्मनोलिङ्गमिति भावः” १८ ।
“प्रवृत्तिनिवृत्ती च प्रत्यगात्मनि दृष्टं परत्र लिङ्गम्” १९ ।
“आत्मन्यनुमानमभिधायैदानीं परात्मानुमानमाह । प्रत्य-
गात्मनीति स्वात्मनीत्यर्थः, इच्छाद्वेषजनिते प्रवृत्तिनिवृत्ती
पृष्ठ ०६७८
प्रयत्नविशेषौ ताभ्याञ्च हिताहितप्राप्तिपरिहारफलके
शरीरकर्म्मणी चेष्टालक्षणेजन्येते तथाच परशरीरे चेष्टां दृष्ट्वा
इयं चेष्टा प्रयत्नजन्या चेष्टात्वात् मदीयचेष्टावत् स च प्रयत्न
आत्मजन्यः आत्मनिष्ठोवा प्रयत्नत्वात् मदीयप्रयत्नवदिति
परात्मात्मानुमानम्” १९ उपस्क० । आह्निकान्तरे “आत्मे-
न्द्रियार्थसन्निकर्षे ज्ञानस्य भावोऽभावश्च मनसोलिङ्गम्” १ ।
“तस्य द्रव्यत्वनित्यत्वे वायुना व्याख्याते” २ । “प्रयत्ना-
यौगपद्याज्ज्ञानायौगपद्याच्चैकम्” ३ । प्राणापाननिमेषो-
न्मेषजीवनमनोगतीन्द्रियान्तरविकाराः सुखदुःखेच्छाद्वेष-
प्रयत्नाश्चात्मनो लिङ्गानि” ४ । “तस्य द्रव्यत्वनित्यत्वे
वायुना वाख्याते” ५ । “यज्ञदत्त इति सन्निकर्षे
प्रत्यक्षाभावाद्दृष्टं लिङ्गं न विद्यते” ६ । “सामा-
न्यतोदृष्टाच्चाविशेषः” ७ । “तस्मादागमिकः” ८ ।
“अहमितिशब्दस्य व्यतिरेकान्नागमिकम्” ९ । “यदि दृष्टमन्वक्ष-
महं देवदत्तोऽहं यज्ञदत्त इति” १० । “दृष्टयात्मनि
लिङ्गे एक एव दृढत्वात् प्रत्यक्षवत् प्रत्ययः” ११ ।
“देवदत्तो गच्छति यज्ञदत्तो गच्छतीत्युपचाराच्छरीरे
प्रत्ययः” १२ । “सन्दिग्धस्तूपचारः” १३ । “अहमिति प्रत्य-
गात्मनि भावात् परत्राभावादर्थान्तरप्रत्यक्षः” १४ । “देव-
दत्तो गच्छतीत्युपचारादभिमानात्तावच्छरीरप्रत्यक्षोऽह-
ङ्कारः” १५ । “सन्दिग्धस्तूपचारः” १६ । “न तु शरीर
विशेषादु यज्ञदत्तविष्णुमित्रयोर्ज्ञानं विषयः” १७ ।
“अहमिति मुख्ययोग्याभ्यां शब्दवद्व्यतिरेकाव्यभिचाराद्वि-
शेषसिद्धेर्नागमिकः” १८ । “सुखदुःखज्ञाननिष्यत्त्य-
विशेषादैकात्म्यम्” १९ । “व्यवस्थातोनाना” २० ।
वैशेषिकसूत्राणि “इदानीमात्म परीक्षाशेषम् उद्देश-
क्रमलङ्घनेन मनःपरीक्षामवतारयन्नाह । मनोगतिमा-
त्मनोलिङ्गं वक्ष्यति तद् यदि मनो ज्ञानकरणत्वेन
मूर्त्तत्वेन च परीक्षितं भवति तदा यत्प्रेरितं मनः इन्द्रि-
यान्तरादभिमतविषयग्राहिणि इन्द्रिये सम्बध्यते स आत्मेति
सिद्धं भवतीत्येतदर्थं क्रमलङ्घनम् । आत्मेन्द्रियार्थसन्नि-
कर्षे सति यस्मिन् इन्द्रियसन्निकृष्टे ज्ञानस्य भावः उत्पादः,
असन्निकृष्टे ज्ञानस्याभावोऽनुपादस्तन्मन इत्यर्थः । ननु
मनोवैभवेऽपि करणधर्म्मत्वादेव ज्ञानायौगपद्यमुपपद्यते किञ्च
मनो विभु विशेषगुणशून्यद्रव्यत्वात् कालवत् ज्ञानासमवा-
यिकारणसंयोगाधारत्वादात्मवत् स्पर्शात्यन्ताभाववत्त्वादाका-
शवदित्यादि वैभवसाधकं प्रमाणमिति चेत् मैवं यदि मनो
विभु स्यात्तदा सर्व्वेन्द्रियसन्निकृष्टात्ततः सर्ब्बैन्द्रियकमेकमेव
ज्ञानं स्यात्, कार्य्यविरोधान्नैबमिति चेन्न नहि सामग्री
विरोधाविरोधमाकलयति येन चाक्षुषत्वरासनत्वादिविरो-
धाय बिभ्येत्, चित्ररूपवत् चित्राकारमेव वा स्यात् ।
भवत्येव दीर्घशष्कुलीभक्षणस्थले इति चेन्न तत्रापि व्यासङ्गद-
र्शनात्, तर्हि रूपरसगन्धस्पर्शान् युगपत् प्रत्येमीति
कथमनुव्यवसाय इति चेन्न शीघ्रसञ्चारिमनोजनितेषु पञ्चसु
स्मृत्युपनीतज्ञानेषुयौगपद्याभिमानात् । व्यासङ्गोऽपि
करणधर्म्माधीन इति चेन्न उक्तोत्तरत्वात्, बुभुत्साधीनो व्या-
सङ्ग इति चेन्न सर्व्वबुभुत्सायां सर्वविषयकसर्व्वोदयप्रस-
ङ्गात् बुभुत्साया अपि अभिमतार्थग्राहीन्द्रियमनःस-
ब्बन्धमात्रफलकत्वात् तस्माज्ज्ञानायौगपद्यान्यथानुपपत्त्या
सिध्यति अणु मनः । ततोधर्म्मिग्राहकमानबाधिताः
वैभबहेतवः । किञ्च मनोवैभवे पादे मे सुखं शिरसि मे
वेदनेति प्रादेशिकत्वं सुखादीनां न स्यात् विभुकार्य्याणाम-
समवायिकारणावच्छिन्नदेशे उत्पादनियमात् । तवापि
सुखादीनामणुदेशापत्तिरिति चेन्न असमवायिकारणं विभुका-
र्य्यं स्वदेशे जनयत्येवेति नियमात् । तथाच निमित्तचन्दना-
द्यवच्छेदादधिकदेशेऽपि जननाविरोधात् । ममापि निमि-
त्तसमबधानानुरोध इति चेन्न उक्तनियमभङ्गप्रसङ्गात्
किञ्चात्मना विभुनो मनसः संयोगोऽपि कथं स्यात्,
अजोऽसाविति चेन्न विभागस्याप्यजत्वप्रसङ्गात्, अवच्छेदभेदेनो-
भावप्यविरुद्धाविति चेन्न संयोगविभागयोरवच्छेदभेदस्य
स्वकारणाधीनत्वात् अजयोस्तु तदभावादितिदिक् १ । ननु
सुखाद्युपलब्धिः करणसाध्या क्रियात्वात् रूपोपलब्धिव-
दित्याद्यनुमानात् युगपज्ज्ञानानुत्पत्त्या वा यन्मनः सिद्धं
तत्करणतया, तथाच तस्य द्रव्यत्वं नित्यत्वञ्च कुत इत्यत
आह । यथाऽवयविद्रव्यानुमितो वायुपरमाणुर्गुणकत्वात्
क्रियावत्त्वाच्च द्रव्यम्, तथा युगपज्ज्ञानानुत्पत्त्याऽनुमितं
मनो गुणवत्त्वाद्द्रव्यं, नहि तस्य इन्द्रितसंयोगमन्तरेण
ज्ञानोत्पादकत्वं येन गुणवत्त्वं न स्यात् । किञ्च सुखादिसा-
क्षात्कारः इन्द्रियकरणकः साक्षात्कारत्वात् रूपादिसाक्षा-
त्कारवदिन्द्रियत्वेन मनः सिद्धम्, इन्द्रियत्वञ्च ज्ञानकारण-
मनःसंयोगाश्रयत्वमित्थयत्रसिद्धमेव मनसोद्रव्यत्वम्, नित्य-
त्वञ्च तस्यानाश्रितत्वात्, तस्यावयवकल्पनायां प्रमाणाभावा-
दमाश्रितत्वमिति २ । तत् किं प्रतिशरीरमेकमनेकं येति
सन्देहे निर्णायकमाह । मनः प्रतिशरीरमिति शेषः यद्ये-
कैकस्मिन्नपि शरीरे बहूनि मनांसि स्युस्तदा ज्ञानप्रय-
त्नानां यौगपद्यं स्यात् । यत्तु नर्त्तकीकरचरणाङ्गुलीषु
पृष्ठ ०६७९
युगपत् कर्म्मदर्शनाद्युगपदेव बहवः प्रयत्ना उत्पद्यन्ते इति
मतं तदयुक्तं मनसः शीघ्रसञ्चारादेव तदुपपत्तेः अविन-
श्यदवस्थयोग्यात्मबिशेषगुणानां योगपद्यानभ्युपगमात् ।
एतेनैकस्मिन्नपि शरीरे पञ्च मनांसि तेषां द्वित्रिचतुःप-
ञ्चानां तत्तदिन्द्रियसंयोगे द्वे त्रीणि चत्वारि पञ्च वा
ज्ञानानि युगपज्जायन्ते इति मतं निरस्तं कल्पनागौ-
रवप्रसङ्गात्, यौगपद्याभिमानस्तु समर्थित एव, रसनेन्द्रि-
यावच्छेदेन त्वगिन्द्रियसम्बन्धेन मनसस्तिक्तोगुड इति
ज्ञानद्वययौगपद्यापत्तिरपि करणधर्म्मत्वादेव नास्ति, द्वि-
त्रिच्छिन्नगोधाभुजगादावपि अवयवद्वये कर्म्म खड़्गाद्यभि-
घाताद्वा मनस आशुसञ्चाराद्वा तदानीमेवादृष्टेन पण्ड-
मनोन्तरग्रहणाद्वा । यत्तु मनोऽवयव्येव जलौकावत् तत्स-
ङ्गोचविकाशाभ्यां ज्ञानयोगपद्यायौगापद्ये इति तत्,
तदवयवकल्पनागौरवप्रतिहतमिति दिक् ३ । इदानींक्रमलङ्घन-
प्रयोजनमादर्शयन्नेबात्मपरीक्षाशेषं वर्त्तयिष्यन्नाह । प्रसि-
द्धिर्ज्ञानमेव केबलमात्मनो लिङ्गमिति न मन्तव्यं प्राणा-
दयोऽपि सन्ति आत्मनो लिङ्गानि । तथाहि शरीरान्तश्चा-
रिणि समीरणे प्राणापानलक्षणे ऊर्द्ध्वाधोगती उत्क्षेप-
णावक्षेपणे मुषलादाविव प्रयत्नं विनाऽनुपपद्यमाने यस्य
प्रयत्नाद्भवतः स नूनमात्मा, नहि तिर्य्यग्गमनस्वभावस्य
वायोरेवंस्वभावविपर्य्ययो विना प्रयत्नात्, न च विरुद्ध-
दिक्क्रिययोर्वाय्वोः सलिलयोरिवोर्द्धगतिः स्यादिति
वाच्यम् एवं सत्यूर्द्ध्वगमनमेव स्यान्नत्वधोगमनं फुत्कारादौ
वा तिर्य्यग्गमनम्, तथाचास्ति कश्चित्, यः पयत्नेन वायु-
मूर्द्ध्वमधो वा प्रेरयति । सुषुप्तिदशायां कथं प्राणापानयोरू-
र्द्धाधोगती इति चेन्न तदानीं योग्यप्रयत्नाभावेऽपि प्रयत्ना-
न्तरस्य सद्भावात् स एव जीवनयोनिः प्रयत्न इत्युच्यते । एवं
निमेषोन्मेषावपि शरीरस्याघिष्ठातारमनुमापयतः । तथा
हि निमेषस्तावत् अक्षिपक्ष्मणोः संयोगजनकं कर्म्म
उन्मेषस्तयोरेव विभागजनकं कर्म्म, एते च कर्म्मणी-
नोदनाभिघातादिदृष्टकारणमन्तरेण निरन्तरमुत्पद्यमाने
प्रयत्नं विना नोत्पद्येते यथा दारुपुत्रकनर्त्तनं कस्यचित्
प्रयत्नात्, तथाऽक्षिपक्ष्मनर्त्तनमपि, तेन प्रयत्नवाननुमीयते ।
एवं जीवैनमप्यात्मलिङ्गं तथाहि जीवनपदेन लक्षणया
जीवनकार्य्यं वृद्धिक्षतभग्नसंरोहणादि लक्षयति । तथा च
यथा गृहपतिर्भग्नस्य गृहस्य निर्म्माणं करोति, लघीयो
वा गृहं बर्द्धयति, तथा देहाधिष्ठाता गृहस्थानीयस्य
देहस्याहारादिना वृद्धिमुपचयं करोति क्षतञ्च भेषजादिना
प्ररोहयति भग्नञ्च करचरणादि संरोहयति तथा च
गृहपतिरिव देहस्याप्यथिष्ठाता सिध्यतीति । एवं मनोग-
तिरप्यात्मलिङ्गं तथा हि मनस्तावन्मूर्त्तमणु चेति पूर्व्वप्रक-
रणे साधितम्, तस्य चाभिमतविषयग्राहिणि इन्द्रिये निवे-
शनम् इच्छाप्रणिधानाधीनम्, तथा च यस्येच्छाप्रणिधाने
मनः प्रेरयतः स आत्मेत्यनुमीयते यथा गृहकोणाव-
स्थितोदारकः कन्दुकं लाक्षागुटकं वा गृहाभ्यन्तर एव
इतस्ततः प्रेरयति । ननु दारुपुत्रनर्त्तयिता गृहपति र्दा-
रको वा न शरीरादन्यो यो दृष्टान्तः स्यात् किञ्च शरीर-
मेव चैतन्याश्रयः अहङ्कारास्पदत्वात्, भवति हि गौरोऽहं
स्थूलोऽहमित्याद्यहङ्कारसामानाधिकरण्येन प्रत्ययः ।
यत्तु बाल्येऽनुभूतं यौवने वार्द्धके वा स्मरति तत्र चैत्र-
मैत्रवच्छरीरभेदेऽपि स्मरणं न स्यात् “नान्यदृष्टं स्मरत्यन्य”
इति तत्र चैत्रमैत्रयोर्भिन्नसन्तानत्वेन प्रतिसन्धानं माऽस्तु
बाल्यकौमारभेदेऽपि सन्तानैकत्वात् कार्य्यकारणभावेन
प्रतिसन्धानमुपपत्स्यत इति । तत्र ब्रूमः पित्राऽनुभूतस्य
पुत्रेणापि स्मरणप्रसङ्गः, तत्र शरीरभेदग्रहोबाधक इति
चेत् वृद्धेन बालशरीराद्भेदेनैव स्वशरीरस्य ग्रहात् प्रति-
सन्धानानुपपत्तेः अनुपलब्धपितृकस्य बालस्य शरीरभे-
दाग्रहस्यापि सत्त्वात् । मम शरीरमिति ममकारसामा-
न्येनाहङ्कारस्य भानात् । ममात्मेत्यत्रापि तथैति चेन्न
तत्र ममकारस्यौपचारिकत्वात् राहोः शिर इति वदभेदे-
ऽपि षष्ठ्युपपत्तेः । हिंसादिफलञ्च कर्त्तरि न स्यात्
शरीरस्यान्यान्यत्वात्, पातकमिच्छतोभूतचैतनिकस्य
कृतहानमकृताभ्यागमश्च दोष इति दिक् । इन्द्रियान्तरवि-
कारात् खल्वपि दृश्यते हि नागरङ्गस्य चिरविल्लस्य वा
रूपविशेषसहचरितं रसविशेषमनुभूय पुनस्तादृशं फलमु-
पलभमानस्य रसगर्द्धि प्रवर्त्तितो दन्तोद्रकसंप्लवः, स च
नाम्लरसानुमितिमन्तरेण, अनुमिति र्न व्याप्तिस्मृतिमन्तरेण,
सा च न संस्कारं विना, स च न व्याप्त्यनुभवमन्तरेण,
स च न भूयोदर्शनमन्तरेणेति इयं ज्ञानपरम्परा नैकं
कर्त्तारमन्तरेण कार्य्यकारणभूता सम्भवतीति तथा च
गौतमीयं सूत्रम् “इन्द्रियान्तरविकारात्” इति । सुखादयश्च
ज्ञानवदेवात्मलिङ्गानि द्रष्टव्याः । तथाहि सुखादिकं क्वचि-
दाश्रितं द्रव्याश्रितं सामान्यतोदृष्टमेव अष्टद्रव्यातिरिक्त-
द्रव्याश्रितत्वं विषयीकरोति न हि पृथिव्याद्यष्टकानाश्रिता
इच्छा द्रव्याश्रितेति प्रतिज्ञा अष्टद्रव्यातिरिक्तद्रव्याश्रितत्वं
प्रकारमनादाय पर्य्य वस्यति यत्र तु त्प्रथमं न बाधावता-
पृष्ठ ०६८०
रस्तत्राष्टद्रव्यातिरिक्तद्रव्याश्रितत्वं व्यतिरेकिसाध्यमिति
भावः । व्यापकतावच्छेदकप्रकारिकैवानुमितिरिति तु
तुच्छम्, येन विना प्रतीतिर्न पर्य्यवस्यति तस्यैव तत्र
प्रकारत्वात् अन्यथा द्व्यणुकं कार्य्यानाश्रितं सत् क्वचिदा-
श्रितम् अवयवित्वादित्यादावकार्य्याश्रितत्वप्रकारिकाऽनुमिति
र्न स्यात् ४ । ननु सिद्ध्यतु आत्मा स्थिरः, स तु नित्य इति
कुतः, कुतश्च द्रव्यमित्यत आह । यथा वायुपरमाणोरवयव-
कल्पनायां न प्रमाणमतोनित्यत्वं तथात्मनोऽपि, यथा
गुणवत्त्वाद्वायुपरमाणुर्द्रव्यं तथात्माऽपीत्यर्थः ५ । पूर्व्व पक्षमाह ।
सन्निकर्षेसति अयं यज्ञदत्त इति प्रत्यक्षं नास्ति चेत्
तदा दृष्टं प्रत्यक्षतो गृहीतव्याप्तिकं लिङ्गं नास्ति, यथा
वह्निना प्रत्यक्षेण सहचरितो गृहीतो धूमो वह्नौ दृष्टं
लिङ्गं तथात्मसाधकं लिङ्गं दृष्टं नास्तीत्यर्थः ६ । ननु प्रत्य-
क्षदृष्टव्याप्तिकस्य दृष्टलिङ्गस्याभावेऽपि सामान्यतोदृष्टमेव
लिङ्गं भविष्यति नहि ततो नानुमितिरित्याशङ्क्य पुनः पूर्व-
पक्षी आह । सामान्यतोदृष्टमपि लिङ्गं भवति न तु तत
आत्मत्वेन अष्टद्रव्यातिरिक्तद्रव्यत्वेन वा स्यादात्मसिद्धिः
किन्तु तेनेच्छादीनां क्वचिदाश्रितत्वमात्रं सिद्ध्येत् तच्च
नात्ममननौपयिकमित्यथः तदेतदाह अविशेष इति ७ । तत्
किं “योऽपहतपाप्मा स आत्मा” इत्याद्यागमोऽनर्थक
एवेत्याशङ्क्य म एवाह । आगममात्रसिद्ध एवात्मा न त्वनुमेयः
दृष्टसामान्यतोदृष्टयोर्लिङ्गयोरभावात् तस्मात् सम्यगुपनि-
षदां श्रवणात् तत्त्वसाक्षात्कार उत्पद्यते न तु मननप्र-
णालिकया, तथाच मननप्रयोजनकमिदं तन्त्रमतन्त्रम्,
दृष्टं हि भूतदशकनदीसन्तरणादावुपदेशमात्रादेव साक्षा-
त्कारि ज्ञानम्८ । तदेवं त्रिभिः सूत्रैः पूर्व्वपक्षे सिद्धान्त-
वाद्याह । नागममात्रं प्रमाणमात्मनि, कित्त्वहमिति
पदमात्मपदं वा साभिधेयं पदत्वात् घटादिपदवत् इत्यनुमा-
नादप्यात्मसिद्धिः । ननु पृथिव्याद्येव तदभिधेयं स्यादि-
त्यत आह व्यतिरेकादिति पृथिव्यादितोऽहमिति पदस्य
व्यतिरेकाद्व्यावृत्तेरित्यर्थः । नहि भवत्यहं पृथिवी
अहमापः अहन्तेजः अहं वायुः अहमाकाशम् अहं कालः
अहं दिक् अहं मन इति व्यपदेशः, प्रत्ययो वा । शरीरे
भवतीति चेन्न परशरीरेऽपि तत्प्रसङ्गात्, स्वशरीरे भवतीति
चेन्न स्वस्यात्मभिन्नस्यानिरुक्तेः मम शरीरमिति वैयधिकर-
ण्येन प्रत्ययाच्च । नन्विदमपि सामान्यतोदृष्टमेव तच्च विशे-
षापर्य्यवसन्नमिति दूषितमेवेति चेन्न अहम्पदेऽहन्त्वमात्म-
त्वमेव प्रकारः तथा च पक्षधर्म्मताबलादेवाऽहन्त्वस्य प्रवृत्ति-
निमित्तत्वं पर्य्यवसन्न तच्चानन्यसाधारणमेवेति विशेषसिद्धेः
एवं सामान्यतोदृष्टादपि बाधसहकृताद्विशेषसिद्धिः । यच्चोक्तं
श्रवणादेव साक्षात्कारः किं मननेनेति तदयुक्तम् नहि
मननमन्तरेण सङ्कशुकस्याश्रद्धामलक्षालनम्, नच तदन्तरेण तत्र
निदिध्यासनाधिकारः, नच निदिध्यासनमन्तरेण सवासन-
मिथ्याज्ञानोन्मूलनक्षमस्तत्त्वसाक्षात्कारः, अभ्यासादेव हि
कामातुरस्याकस्मात् कामिनीसाक्षात्कारः, नहि शाब्दमा-
नुमानिकं वा ज्ञानं मिथ्याज्ञानोन्मूलनक्षमं दिङ्मोहादौ
दृष्टमिति भावः । ननु तथापि परोक्षे आत्मनि कथं सङ्के-
तग्रह इति चेत् क एवमाह नात्मा प्रत्यक्ष इति, किन्तु
मनसा संयोगप्रत्यासत्त्यात्मग्रहः । कथमन्यथाऽहं सुखी
जानामीच्छामि यते दुःखीत्यादिप्रत्ययः नह्ययमवस्तुकः
सन्दिग्धवस्तुको वा, नीलादिप्रत्ययवत् अस्यापि निश्चित-
वस्तुकत्वात्, नच लैङ्गिकः, लिङ्गज्ञानमन्तरेणापि जायमा-
यत्वात्, नापि शाब्दः, तदनुसन्धानाननुविधानात्, प्रत्यक्षा-
भासोऽयमिति चेत्, तर्हि क्वचिदनाभासविषयोऽपि । नह्य-
प्रमितमारोप्यते इत्यावेदयिष्यते९ । एवञ्चेत् किमनुमा-
नेनेति पूर्ब्बपक्षवादी आह । इतिशन्दो ज्ञानप्रकारमाह
दृष्टमिति भावे--क्तप्रत्ययान्तम्, अन्वक्षमित्यध्यक्षं तेनाय-
मर्थः अयं देवदत्तः अयं यज्ञदत्त इति प्रकारकं दृष्टं
दर्शनं अध्यक्षमेवास्ति यदि किमनुमानप्रयासेन “नहि
करिणि दृष्टे चीत्कारेण तमनुमिमतेऽनुमातारः” १० । अत्र
सिद्धान्त्याह । दृष्टे प्रत्यक्षेण गृहीते आत्मनि लिङ्गे सम्भू-
तसामग्रीके सति एक एव एकवैषयिक एव प्रत्ययः । प्रत्यय
इति निरस्तसमस्तविभ्रमाशङ्कित्वमाह, कुत एवंमित्यत आह
दृढत्वात् प्रभाणसंप्लवेनान्यथाभावशङ्कानिवर्त्तनपटुत्वात्,
तत्र दृवृन्तमाह् प्रत्यक्षवदिति यथा दूरात्तोयप्रत्यक्षे
सत्यपि संवादार्थं बलाकालिङ्गेनाऽपि तदनुमानं तदुक्तम्
“प्रत्यक्षपरिकलितमप्यर्थमनुमानेन बुभुत्सन्ते तर्करसिकाः”
इति, इदमत्राकूतम् यद्यात्मा कदाचित् प्रत्यक्षे चैतसे
भासत एव तथापि अहं गौरः अहं कृश इत्यादिवि-
रोधिप्रत्ययान्तरतिरस्कृतो न तथा स्थेमानमासादयति
विद्युत्सम्पातसञ्जातज्ञानवत्, तत्र लिङ्गेन अनन्यथासिद्धेन
ज्ञानान्तरमुत्पद्यमानं पूर्ब्बज्ञानमेव स्थिरीकरोति । किञ्च
“श्रोतव्यो मन्तव्य” इत्यादिविधिबोधितस्यात्ममननस्य इष्ट-
साधनत्वावगतौ अनुमित्सयाऽवश्यमात्मन्यनुमानप्रवृत्तिः
तद्व्यतिरेके निदिध्यासनासम्भवे साक्षात्काराभावेऽपर्गास-
म्भवादिति भावः । अहं देवदत्तोऽहं यज्ञदत्त इति प्रती-
पृष्ठ ०६८१
तिद्वयाभिधानमात्मनः प्रत्यात्मवेदनीयत्व’ सूचयितुम् ११ ।
ननु यदि यज्ञदत्तोऽहमिति प्रत्यय आत्मनि तदा यज्ञ-
दत्तो गच्छतीति गमनसामानाधिकरण्यभानमनुपपन्नमि-
त्यत आह । अस्ति हि अहं गौरः अहं स्थूल इति
प्रत्ययः अस्ति च मम शरीरमिति भेदप्रत्थयः तत्र देवदत्तो
गच्छतीति गतिसामानाधिकरण्यानुभवो व्यवहारश्च भाक्तः,
ममेति प्रत्ययस्य यथार्थत्वात् यद्यपि देवदत्तत्वं शरीरवृत्ति-
र्जातिस्तेन देवदत्तो गच्छतीति मुख्य एव प्रयोगे यथार्थ
एव च प्रत्ययः । तथापि देवदत्तपदं तदवच्छिन्नात्मनि प्रयु-
क्तञ्चेत् तदौपचारिकं बोद्धव्यम् १२ । अत्र शङ्कते । तुशब्दः
पूर्व्वपक्षद्योतकः । आत्मशरीरयोस्तावदहमिति प्रत्ययः
प्रयोगश्च दृश्यते तत्र क्व मुख्यः क्व वौपचारिक द्रति सन्देहः १३ ।
समाधत्ते । अर्थान्तरमात्मस्वरूपं प्रत्यक्षं यत्र प्रत्यये स प्रत्य-
योऽर्थान्तरप्रत्यक्षः । अयमथः अहमिति प्रत्ययस्य प्रत्य-
गात्मनि स्वात्मनि भावाद् परत्र परात्मनि अभावात्
अर्थान्तरे स्वात्मन्येव मुख्यः कल्पषितुमुचितः यदि तु
शरीरे मुख्यः स्यात् तदा वहिरिन्द्रियग्राह्यः स्यात् न हि
शरीरं मानसप्रत्यक्षं मानसश्चायमहमिति प्रत्ययः बहिरि-
न्द्रियव्यापारमन्तरेणापि जायमानत्वात् अहं दुःखी अहं
सुखी जाने यते इच्छाम्यहमिति योग्यविशेषगुणोपहि-
तस्यात्मनो मनसा विषयीकरणात्, नायं लैङ्गिको लिङ्गा-
नुसन्धानमन्तरेणापि जायमानत्वात्, न शाब्दः शब्दाकल-
नमन्तरेणापि जायमानत्वात्, तस्मान्मानस एव । मनसश्च
बहिरस्वातन्त्र्येण शरीरादावप्रवृत्तेरिति भावः । किञ्च
यदि शरीरे स्यात्, परशरीरे स्यात्, स्वात्मनि यदि स्यात्
तदापि परात्मनि स्यादिति चेन्न परात्मनः परस्याती-
न्द्रियत्वात् तद्विशेषगुणानामयोग्यत्वात् योग्यविशेषगुणो-
पग्रहेण तस्य योग्यत्वात्, न केबलमात्मन इदं शीलं
किन्तु द्रव्यमात्रस्य, द्रव्यं हि योग्यविशेषगुणोपग्रहेणैव
प्रत्यक्षं भवति । आकाशमपि तर्हि शब्दोपग्रहेण प्रत्यक्षं
स्यादितिचेत् स्यादेवं यदि श्रोत्रं द्रव्यग्राहकं भवेन्,
आकाशं वा रूपवत् स्यात् । आत्मनोऽपि नीरूपत्वं तुल्यमिति
चेत् बहिर्द्रव्यमात्र एव प्रत्यक्षतां प्रति रूपवत्त्वस्य तन्त्र-
त्वात्, प्रत्यगित्थयं शब्दोऽन्यव्यावृत्तमाह १४ । पुनः शङ्कते ।
अहङ्कारोऽहमिति प्रत्ययः स च शरीरप्रत्थक्षः शरीरं
प्रत्यक्षं विषयो यत्र स शरीरप्रत्यक्षः । देवदत्तो गच्छ-
तीत्युपचारात्तावत् प्रयोगः प्रत्ययो वा त्वया समाहितः
सचोपचार आभिमानिकः यतोऽहं गौरः अहं कृशः
सौभागिनेयोऽहं पुनरुक्तजन्मेत्यादयः प्रत्ययाः प्रयोगाश्चो-
पचारेण समन्वयितुमशक्या इत्यर्थः १५ । सिद्धान्तभाह ।
तुशब्दोऽयं सिद्धान्तमभिव्यनक्ति । उपचारोऽयमाभिमानिकः
किन्तु शरीर एवायमहम्प्रत्यय इति यदुक्तं तत्रापि सन्देह
एवेत्यर्थः तथाच प्रत्ययस्योभयत्रापि कूटसाक्षित्वेन विशे-
षावधारणाय यतितव्यं तत्र यत्ने क्रियमाणे निमीलि-
ताक्षस्याप्यहमिति प्रत्ययदर्शनात् शरीरभिन्ने बहिरिन्द्र-
यागोचरे वस्तुनि स मन्तव्यः, शरीरे भवन् परशरी-
रेऽपि स्यात् चक्षुर्नैरपेक्ष्येण च न स्यात् । अहं कृशः स्थूलो
वा सुखीति कथं सामानाधिकरण्यमिति चेन्न सुखाद्यव-
च्छेदकत्वेनापि तत्र शरीरभानसम्भवात् सिंहनादवदिदं
गहनमितिवत्, अहन्त्वमात्रं शरीरे समारोप्यते मनसोप-
स्थितम्, त्वगिन्द्रियोपनीतमौष्ण्यम् उष्णं जलम् उष्णं
शरीरमितिवत् १६ । सिद्धान्तमुवृंहयन्नाह । ज्ञानमिति योम्यं
सुखदुःखादिकमात्मगुणमुपलक्षयति, यथा यज्ञदत्तविष्णु-
मित्रयोः शरीरं परस्परभिन्नं तथा ज्ञानसुखादिकमपि
भिन्नमेव तथा च यथा यज्ञदत्तस्येदं शरीरं तथा यज्ञदत्तस्य
ज्ञाने सुखादौ वाऽनुत्पन्ने अहं सुखी जाने यते इच्छा-
मीति ज्ञानादिकं विषयो भवति योग्यशरीरबिषयकत्वेन
तदीयरूपादिवत्तदीयज्ञानादीनामपि प्रत्यक्षत्वसम्भवात् न च
सम्भवति, तस्मात् ज्ञानसुखादीनां शरीरादन्य एवाश्रयो
वक्तव्य इति भावः । शरीरविशेषात् शरीरस्य भेदादि-
त्यर्थः तथा च शरीरभेदं प्राप्य ज्ञानं, न तु विषय इति
ल्यल्लोपे पञ्चमी १७ । नन्वात्मा न प्रत्यक्षः नीरूपद्रव्यत्वात्
निरवयवद्रव्यत्वाद्वा आकाशवत्, यथा चाह कृशो गौर
इति बुद्धेः शरीरमेव विषयो वाच्यः, क्वचिदहं सुखी-
त्यादिधीरपि यद्यप्यस्ति, तथाप्याश्रयमन्तरेण भासमानानां
सुखादोनां शरीरे समारोप इत्येव कल्पमितुमुचितम्,
यथोष्ण सुरभि जलम् इत्याश्रयमन्तरेण प्रतीयमानयो-
रौष्ण्यसौरभयोर्जले समारोपः, नत्वेतदनुरोधेन जलप्र-
त्ययस्यापि प्रसिद्धजलमन्तरेणान्यविषयत्वम्, तथाऽहमित्थ-
प्यहन्त्वं शरीर एव वास्तवम्, सुखादिकन्तु कदाचित्त-
त्रारोप्यते तेनात्मनि प्रत्यक्षाकारं ज्ञानं नास्त्येव सुखाद्य-
धारत्वेन यत्कल्पनीयं तदागमसिद्ध भवतु न तत्रापि ग्रह
इत्यत आह । अयमर्थः अहं सुखी अहं दुःखीति प्रत्ययो
नागमिको न शाब्दो नापि लैङ्गिकः शब्दलिङ्गयोरनुसन्धा-
नमन्तरेणापि जायमानत्वात् प्रत्यक्षत्वे च नीरूपत्व
निरवयवत्वञ्च यद्बाधकमुक्तं तद्बहिरिन्द्रियप्रत्यक्षतायां भवति
पृष्ठ ०६८२
तत्र हि रूपवत्त्वानेकद्रव्यवत्त्वयोः प्रयोजकत्वात्, मानसप्र-
क्षता च तदन्तरेणापि । ननु स्यादेवं यद्यात्मनि प्रमाणं
स्यात् तदेव तु नास्तीत्यत आह शब्दवद्व्यतिरेकाव्यभिचारा-
द्विशेषसिद्धेरिति यथा क्षित्यादिषु द्रव्येषु शब्दस्य व्यतिरे-
कोऽव्यभिचारी नियतस्तेन तदाश्रयस्याष्टद्रव्यातिरिक्तस्या-
काशरूपस्य विशेषस्य सिद्धिः एवमिच्छायाः पृथिव्यादिषु
व्यतिरेकस्याव्यभिचारात् तदाश्रयेणापि अष्टद्रव्यातिरिक्तेन
भवितव्यम् । नन्वेतावताऽप्यानुमानिक एव आत्मा न तु
प्रत्यक्ष इत्यत आह अहमिति मुख्ययोग्याभ्यामिति
अहमितीतिकारेण ज्ञानाकारमाह तेनाहमिति ज्ञानं
शब्दलिङ्गानुसन्धानमन्तरेण निमीलिताक्षस्य यदुत्पद्यते
तत्मुख्येन अहन्त्ववता योग्येन प्रमाणसिद्धेन उपपादनी-
यम्, न तु शरीरादिना, तत्रेच्छाया व्यतिरेकस्य व्यभिचारात्
अभावात् । मुख्ययोग्याभ्यामित्यनन्तरम् उपपादनीयमिति
पूरणीयम् आत्मनि प्रमाणानि बहूनिसन्ति ग्रन्थगौरवभिया
नोक्तानि मयूखेऽन्वेष्टव्यानि १८ । आत्मपरीक्षाप्रकरणं समाप्य
इदानीमात्मनानात्वप्रकरणमारभते तत्र पूर्व्वपक्षसूत्रम् ।
एक एव आत्मा चैत्रमैत्रादिदेहभेदेऽपि, कुतः सुखदुःख-
ज्ञानानां निष्पत्तेरुत्पत्तेरविशेषात् सर्व्वशरीरावच्छेदेन
सुखदुःखज्ञानानामुत्पत्तिरविशिष्टैव यतः यद्यात्मभेद-
साधकं लिङ्गान्तरं भवेत्तदा सिद्ध्येदात्मभेदः, न च तदस्ति,
यथा तत्तत्प्रदेशावच्छेदेन शब्दनिष्पत्तावपि शब्दलिङ्गावि-
शेषादेकमेवाकाशम् यौगपद्यादिप्रत्ययलिङ्गाविशेषादेक एव
कालः पूर्व्वापरादिप्रत्ययलिङ्गाविशेषादेकैव दिक् १९ । सिद्धा-
न्तमाह । नाना आत्मानः कुतः? व्यवस्थातः व्यवस्था
प्रतिनियमः । यथा कश्चिदाढ्यः, कश्चित् रङ्कः, कश्चित् सुखी,
कश्चिद्दुःखी, कश्चिदुच्चामिजनः, कश्चिनोचाभिजनः,
कश्चिद्विद्वान्, कश्चित् जाल्म इतीयं व्यवस्था आत्मभेदमन्त-
रेणानुपद्यमाना साधयत्यात्मनां भेदेम्, न च जन्मभे-
देन बाल्यकौमारवार्द्धक्यभेदेन वा, एकस्याप्यात्मनो यथा
व्यवस्था तथा चैत्रमैत्रादिदेहभेदेऽपि स्यादिति वाच्यं
कालभेदेन विरुद्धधर्म्माध्याससम्भबात्” २० । उपस्करः
सांख्यसूत्रभाष्ययोश्च प्रत्येकं भूतेषु चैतन्यादर्शनेन
समुदाये न चैतन्यमित्युक्तं यथा “न सांसिद्धिकं
चैतन्यं प्रत्येकादृष्टेः” १ । “प्रपञ्चमरणाद्यभावश्च” २ ।
“मदशक्तिवच्चेत् प्रत्येकपरिदृष्टे सांहत्ये तदुद्भवः ३” सां० सू०
“देहस्य भौतिकत्वेन यत् सिध्यति तदाह । भूतेषु पृथक्कृतेषु
चैतन्यादर्शनाद्भौतिकस्य देहस्य न स्वाभाविकं चैतन्यं कि-
न्त्वौपाधिकमित्यर्थः १ । बाधकान्तरमाह । प्रपञ्चस्य सर्वस्यैव
मरणसुषुप्त्याद्यभावश्च देहस्य स्वाभाविकचैतन्ये सति स्या-
दित्यर्थः । मरणसुषुप्त्यादिकं हि देहस्याचेतनता सा च
स्वाभाविकचैतन्ये सति नोपपद्यते स्वभावस्य यावद्द्रव्य-
भावित्वादिति २ । प्रत्येकादृष्टेरिति यदुक्तं तत्राशङ्क्य
परिहरति । ननु यथा मादकता शक्तिः प्रत्येकद्रव्या-
वृत्तिरपि मिलितद्रव्ये वर्त्तते एवं चैतन्यमपि स्यादिति
चेन्न प्रत्येकपरिदृष्टे सति सांहत्ये तदुद्भवः सम्भवेत् ।
प्रकृते तु प्रत्येकपरिदृष्टत्वं नास्ति । अतो दृष्टान्ते प्रत्येकं
शास्त्रादिभिः सूक्ष्मतया मादकत्वे सिद्धे संहतभावकाले
मादकत्वाविर्भावमात्रं सिद्ध्यति । र्दाष्टान्तिके तु प्रत्येक-
भूतेषु सूक्ष्मतया न केनापि प्रमाणेन चैतन्यं सिद्धमित्यर्थः
ननु समुच्चिते चैतन्यदर्शनेन प्रत्येकभूते सूक्ष्मचैतन्यशक्ति-
रनुमेयेति चेन्न अनेकभूतेष्वनेकचैतन्यशक्तिकल्पनायां
गौरवेण लाघवादेकस्यैव नित्यचित्स्वरूपस्य कल्पनौचि-
त्यात् । ननु यथावयवेऽवर्त्त मानमपि परिमाणजलाहर-
णादि कार्यं घटादौ दृश्यते एवमेव शरीरे चैतन्यं स्यादिति
चेत् मैवम् भूतगतविशेषगुणानां सजातीयकारणगुणज-
न्यतया कारणे चैतन्यं विना देहे चैतन्यासम्भवादिति” भा०
अयमात्मा सांख्यैः पुरुषशब्देनाभिधीयते ते च नाना
“जन्मादिव्यवस्थातः पुरुषबहुत्वम्” सां० सूत्रात् । वेदान्त-
नस्तु तस्यैकत्वेऽपि उपाधिभेदेन कर्ण्णशष्कुल्यादिभेदेनाकाश-
भेदवत् नानात्वं वस्तुत एकत्वम् “इन्द्रोमायाभिः पुरुरूप
ईयते” “रूपंरूपं प्रतिरूपो बभूवेति” श्रुतेः अंशो-
ननाव्यपदेशात्” “तद्गुणसारत्वादिति” च न्यायाच्चेति ।
एतत्प्रपञ्चस्तु शा० भा० द्रष्टव्यः ।
मिताक्षरायाम् देहाद्यतिरिक्तात्मास्तित्वे प्रमाणं दर्शितं यथा
“भूतकैतन्यवादिपक्षम्परिजिहीर्षुराह” । “वेदैः शास्त्रैः
सविज्ञानैर्जन्मना मरणेन च । आर्त्या गत्या तथाऽऽगत्या-
सत्येन ह्यनृतेन च । श्रेयसा सुखदुःखाभ्याङ्कर्मभिश्च
शुभाशुभैः । निमित्तशकुनज्ञानग्रहसंयोगजैः फलैः ।
तारानक्षत्रसञ्चारैर्जागरैः स्वप्नजैरपि । आकाशपवन
ज्योतिर्जलभूतिमिरैस्तथा । मन्वन्तरयुगप्राप्त्या मन्त्रौषधि-
फलैरपि । वित्तात्मानं विद्यमानम् कारणञ्जगतस्तथा” या०
वेदैः “सएष नेति नेतीत्यात्मेति” “अस्थूलमनण्वह्रस्वमपा-
णिपादम्” इत्यादिभिः । शास्त्रैश्चमीमांसान्वीक्षिक्यादिभिः
विज्ञानैश्च ममेदं शरीरमित्यादि देहव्यतिरिक्तात्मानु
भवैः । तथा जन्ममरणाभ्यां जन्मान्तरानुष्ठितधर्म्म
पृष्ठ ०६८३
नियताभ्यान्देहातिरिक्तात्मानुमानम् । आर्त्या जन्मान्तर
गतकर्म्मानुष्ठाननियततया । तथा गमनागमनाभ्यां
ज्ञानेच्छाप्रयत्नाधारनियताभ्यामपि भौतिकदेहाति-
रिक्तात्मानुमानम् । न हि देहस्य चैतन्यादि सम्भवति यतः
कारणगुणप्रक्रमेण कार्य्यद्रव्ये वैशेषिकगुणारम्भोदृष्टः ।
न च तत्कारणभूतंपार्थिवपरमाण्वादिषु चैतन्यादि
समवायः सम्भवति तदारब्धस्तम्भकम्भादिभौतिके-
ष्वनुपलम्भात् । न च मदशक्तिवदुदकादिद्रव्यान्तर-
संयोगज इति वाच्यम् शक्तेःसाधारणगुणत्वादतो
भौतिकदेहातिरिक्तश्चैतन्यादिसमवाय्यङ्गीकर्त्तव्यः । सत्या-
नृते प्रसिद्धे । श्रेयो हितप्राप्तिः । सुखदुःखे
आमुष्मिके । तथा शुभकर्म्मानुष्ठानमशुभकर्म्मपरित्यागः ।
एतैश्च ज्ञाननियतैर्देहातिरिक्तात्मानुमानम् । निमित्तं
भूकम्पादि शकुनज्ञानम्पिङ्गलादिपतत्रिचेष्टालिङ्गकम् ज्ञा-
नम् ग्रहाःसूर्य्यादयः तत्संयोगजैः फलैः । तारा
अश्विन्यादिव्यतिरिक्तानि ज्योतींषि नक्षत्राण्याश्वयु-
क्प्रभृतीनि एतेषां सञ्चारैः शुभाशुभफलद्योतनैः ।
जागरैर्जागरावस्थाजन्यैश्च सच्छिद्रादित्यादिदर्शनैः । तथा
स्वप्नजैः खरवराहयुक्तरथारोहणादिज्ञानैः । तथा
आकाशाद्यैश्च जीवोपभोगार्थतया सृष्टैः । तथा मन्वन्तर-
प्राप्त्या युगान्तरप्राप्त्या देहेऽनुपपद्यमानया तथा मन्त्रौ-
षधिफलैः प्रेक्षापूर्ब्बकैः क्षुद्रकर्माद्यैः साक्षात्परम्परया वा
देहेऽनुपपद्यमानैर्विद्यमानं हे मुनयो वित्त जानीत । किञ्च ।
“अहङ्कृतिः स्मृतिर्मेधाद्वेषोबुद्धिः सुखं धृतिः । इन्द्रि-
यान्तरसञ्चार इच्छा धारणजीविते । स्वर्गः स्वप्नश्च भावाना-
म्प्रेरणं मनसागतिः । निमेषश्चेतना यत्न आदानम्पाञ्च-
भौतिकम् । यत एतानि दृश्यन्ते लिङ्गानि परमात्मनः ।
तस्मादस्ति परोदेहादात्मा सर्वग ईश्वरः” या० । अहङ्कृतिः
अहङ्कारः । स्मृतिः प्राग्भवीयानुभवभावितसंस्कारोद्बोध
निबन्धना स्तन्यपानादिगोचरा । सुखमैहिकम् । धृति-
र्धैर्यम् । इन्द्रियान्तरेण दृष्टेऽर्थे इन्द्रियान्तरस्य सञ्चारः
यमहमद्राक्षन्तमहंस्पृशांमीत्येवमनुसन्धानरूप इन्द्रियान्तर-
सञ्चारः । अत्रेच्छाप्रयत्नचैतन्यानां स्वरूपेण लिङ्गत्वम् ।
पूर्ब्बश्लोकेऽनुगमनसत्यवचनादिहेतुतयार्थिकम् लिङ्गत्व-
मित्यपौनरुक्त्यम् । तथा धारणं शरीरस्य, जीवितं प्राण-
धारणम् । स्वर्गोनियतदेहान्तरोपभोग्यः सुखविशेषः ।
स्वप्तः प्रसिद्धः पूर्ब्बश्लोके तु स्वप्नस्य शुभफलद्योतकतया
लिङ्गत्वमत्र स्वरूपेणेत्यपौनरुक्त्यम् । भावानामिन्द्रिया-
दीनाम्प्रेरणं मनसोगतिश्चेतनाधिष्ठानव्याप्ता । निमेषः
प्रसिद्धः तथा पञ्चभूतानामुपादानम् । यस्मादेतानि लिङ्गा-
नि भूतेष्वनुपपन्नानि साक्षात्परम्परया वात्मनोद्योतकानि
दृश्यन्ते । तस्मादस्ति देहातिरिक्त आत्मा सर्वग ईश्वर इति
सिद्धम्” इत्यन्तेन मिता० ।
देहात्मनोः स्वभावभेदपर्य्यालोचनयाऽपि न यथा तयोरैक्यं
तथा दर्शितं विवेकचूड़ामणौ “देहोऽयमन्नभवनोऽन्नमयस्तु
कोषश्चान्नेन जीवति विनश्यति तद्विहीनः । त्वक्चर्म्ममांस-
रुधिरास्थिपुरीषराशिर्नायं स्वयं भवितुमर्हति नित्य-
शुद्धः । पूर्व्वं जनेरपि मृतेरधुनायमस्ति जातक्षणः
क्षणगुणोऽनियतस्वभावः । नैकोजड़श्च घटवत्परिदृश्य-
मानः स्वात्मा कथं भवति भावविकारवेत्ता । पाणि-
पादादिमान् देहो नात्मा व्यङ्ग्येऽपि जीवनात् । तत्त-
च्छक्तेरनाशाच्च न नियम्योनियामकः । देहतद्धर्म्म-
तत्कर्म्मतदवस्थादिसाक्षिणः । स्वतएव स्वतः सिद्धं
तद्वैलक्षण्यमात्मनः । शल्यराशिर्मांसलिप्तो मलपूर्णोऽति-
कष्मलः । कथं भवेदयं वेत्ता स्वयमेतद्विलक्षणः ।
त्वङ्मांसमेदोऽस्थिपुरीषराशावहंमतिं मूढजनः करोति ।
बिलक्षणं वेत्ति विचारशीलो निजस्वरूपं परमार्थभू-
तम् । देहोऽहमित्येव जडस्य बुद्धिर्देहे च जीवा-
विदुषस्त्वहंधीः । विवेकविज्ञानवतोमहात्मनो ब्रह्माह-
मित्येव मतिः सदात्मनि । अत्रात्मबुद्धिं त्यज
मूढबुद्धे! त्वङ्मांसमेदोस्थिपुरीषराशौ । सर्ब्बात्मनि
ब्रह्मणि निर्विकल्पे कुरुष्व शान्तिं परमां भजस्व ।
देहेन्द्रियादावसति भ्रमोदितां विद्वानहन्तां न जहाति
यावत् । तावन्न तस्यास्ति विमुक्तिवार्त्ताप्यस्त्वेष
वेदान्तनयान्तदर्शी । छायाशरीरे प्रतिविम्बगात्रे
यत्स्वप्नदेहे हृदि कल्पिताङ्गे । यथात्मबुद्धिस्तव नास्ति
काचित् जीवच्छरीरे च तथैब मास्तु । देहात्मधीरेव
नृणामसद्धियां जन्मादिदुःखप्रभवस्य वीजम् । यतस्ततस्त्वं
जहि तां प्रयत्नात् त्यक्तेऽद्य चित्ते न पुनर्भवाशा” ।
आत्मस्वरूपमुक्तं विवेकचूड़ामणौ “अस्ति कश्चित्
स्वयं नित्यमहंप्रत्ययलम्बनः । अवस्थात्रयसाक्षी सन्
पञ्चकोषबिलक्षणः । योविजानाति सकलं जाग्रत्-
स्वप्नसुषुप्तिषु । बुद्धितद्वृत्तिसद्भावमभावमहमित्ययम् । यः
पश्यति स्वयं सर्व्वं यं न पश्यति कश्चन । यश्चेतयति
बुद्ध्यादिं न तु यं चेतयत्ययम् । येन विश्वमिदं व्याप्तं यन्न
व्याप्नोति किञ्चन । आभारूपमिदं सर्वं यं भान्तमनुम्पत्य-
पृष्ठ ०६८४
यम् । यस्य सन्निधिमात्रेण देहेन्द्रियमनोधियः । विषयेषु
स्वकीयेषु वर्त्तन्ते प्रेरिता इव । अहङ्कारादिदेहान्ता
विषयाश्चसुखादयः । वेद्यन्ते घटवद्येन नित्यबोधस्वरूपिणा ।
एषोऽन्तरात्मा पुरुषः पुराणोनिरन्तराखण्डसुखानुभूतिः ।
सदैकरूपः प्रतिबोधमात्रो येनेषिता वागसवश्चरन्ति ।
अत्रैव सत्यात्मनि धीगुहायामव्याकृताकाशौरुप्रकाशः ।
आकाश उच्चैरविवत् प्रकाशते स्वतेजसा विश्वमिदं प्रका-
शयन् । ज्ञाता मनोऽहङ्कृतिविक्रियाणां देहेन्द्रियप्राणकृत-
क्रियाणाम् । अयोऽग्निवत्ताननुवर्त्तमानो न चेष्टते नो
विकरोति किञ्चन । न जायते नो म्रियते न वर्द्धते
न क्षोयते नो विकरोति नित्यः । विलीयमानेऽपि वपुष्यमु-
ष्मिन् न लीयते कुम्भैवाम्बरं स्वयम् । प्रकृतिविकृतिभिन्नः
शुद्धबोधस्वभावः सदसदिदमशेषं भासयन्निर्विशेषः ।
विलसति परमात्मा जाग्रदादिष्ववस्थास्वहमहमिति साक्षात्
साक्षिरूपेण बुद्धेः । नियमितमनसामुं त्वं स्वमात्मानमात्म-
ज्ययमहमिति साक्षाद्विद्धि बुद्धिप्रसादात् । जनिमरणतर-
ङ्गापारसंसारसिन्धुं प्रतर भव कृतार्थो ब्रह्मरूपेण संस्थः ।
अत्रानात्मन्यहमिति मतिर्बन्ध एषोऽस्य पुंसः प्राप्तोऽज्ञा-
नाज्जननमरणक्लेशसंपातहेतुः । येनैवायं वपुरिदमसत्
सत्थमित्यात्मबुद्ध्या पुष्यत्युक्षत्यवति विषयैस्तन्तुभिः कोशकृद्वत् ।
अतस्मिंस्तद्बुद्धिः प्रभवति विमूढस्य तमसा विवेकाभावाद्वै स्पुरति
भुजगे रज्जुघिषणा । ततोऽनर्थव्रातो निपतति समादातुरधिक
स्ततो योऽसद्ग्राहः स हि भवति बन्धः शृणु सखे! ।
अखण्डनित्याद्वयबोधशक्त्या स्फुरन्तमात्मानमनन्तवैभवम् ।
समावृणोत्यावृतिशक्तिरेषा तमोमयी राहुरिवार्कविम्बम् ।
तिरोभूते स्वात्मन्यमलतरतेजोवति पुमाननात्मानं मोहाद-
हमिति शरीरं कलयति । ततः कामक्रोधप्रभृतिभिरमुं
बन्धनगुणैः परं विक्षेपाख्या रजस उरुशक्तिर्व्यथयति ।
महामोहग्राहग्रसनगलितात्मावगमनो धियोनानावस्थां-
स्वयमभिनयंस्तद्गुणतया । अपारे संसारे विषयविषपूरे
जलनिधो निमज्ज्योन्मज्ज्यायं भ्रमति कुमतिः कुत्सि-
तगतिः । भानुप्रभासञ्जनिताब्भ्रपङ्क्तिर्भानु तिरोधाय
विजृम्भते यथा । आत्मोदिताहङ्कृतिरात्मतत्त्वं तथा
तिरोधाय विजृम्भते स्वयम्” ।
शरीरमध्ये आत्मध्यानस्थानं स्वरूपञ्च या० स्मृतौ मिता-
क्षरायाञ्चोक्तम् । “द्वासप्ततिसहस्राणि हृदयादभिनिः
सृताः । हिताहिता नाम नाड्यस्तासां मध्ये शशिप्रभम् ।
मण्डलन्तस्य मध्यस्थ आत्मा दीपैवाचलः । सज्ञेयस्तं
विदित्वेह पुनराजायते न तु” या० । “हृदयप्रदेशा-
दभिनिःसृताः कदम्बकुसुमकेशरवत्सर्ब्बतो निर्गता हिता-
हितकरत्वेन हिताहितेति संज्ञा द्वासप्नतिसह-
स्राणि नाड्यो भवन्ति । अपरास्तिस्रोनाड्यस्तासामिडा-
पिङ्गलाख्ये द्वे नाड्यौ सव्यदक्षिणपार्श्वगते हृदि
विपर्य्यस्ते नासाविवरसम्बद्धे प्राणापानायतने । सुषुम्णाख्या
पुनस्तृतीया दण्डवन्मध्ये ब्रह्मरन्ध्रविनिर्याता । तासां
नाडीनां मध्ये मण्डलञ्चन्द्रप्रभम् । तस्मिन्नात्मा निवा-
तस्थदीपैवाचलः प्रकाशमान आस्ते । सएवम्भूतो ज्ञा-
तव्यः । यतस्तत्साक्षात्करणादिह संसारे न पुनः संसर
त्यमृतत्वम्प्राप्नोति” मिता० ।
आत्मशब्दनिर्वचनञ्च वेदान्तमुक्तावल्याम् “यदाप्नोति
यदादत्ते यच्चात्ति विषयान् बहून् । यच्चास्य सन्ततोभाव-
स्तस्मादात्मेति कथ्यते” अन्यत्र च “प्रत्यग्रूपः पराग्रूपात्
व्यावृत्तोऽनुभवात्मकः । प्रथते यः स आत्मेति प्राहुरात्म-
विदोजनाः इति” स च पञ्चधा । “भूतात्मा चेन्द्रियात्मा च
प्रत्यगात्मा तथा भवान् । आत्मा च परमात्मा च त्वमेकः
पञ्चधा मत” इत्येकस्यैवात्मनो भूतादिषु अधिष्ठानत्वेनाव-
स्थितेः पञ्चविधत्वम् । “त्यज्यमानेऽपि न त्यक्तः प्राप्यमाणेऽपि
नाप्यते । आगमापायसाक्षी यः स आत्मानुभवात्मक” इति
तत्र देहे “भर्त्तृषूपसखि निक्षिपतीनामात्मनोमधुमदोद्य-
मितानाम्” किरा० “आत्मनोदेहान्” मल्लि० “प्रभा-
विनं भाविनमन्तमात्मनः” माघः । आत्मनोनित्यत्वेन
देहस्यैवान्तकत्वमिह विवक्षितम् तदवच्छिन्नचैतनस्यात्मशब्दार्थ-
त्वेऽपि विशेष्टे नाशान्वयासम्भवात् विशेषणे तदन्वयः । एवं
“व्यापादयेद्य आत्मानमित्यादौ” “ये केचात्महनोजना”
इत्यादावपि “स्थितः सर्वोन्नतेनोर्वीं क्रान्त्वा मेरुरिवात्मना”
रघुः । “आत्मना शरीरेण” मल्लि० “अभ्युत्थानमधर्मस्य
तदात्मानं सृजाम्यहम्” गीता । यत्ने “कर्म्मात्मा त्वपरोयोऽसौ
बन्धमोक्षैः स युज्यते” इति कर्म्मणि आत्मा यत्नोयस्येत्यर्थः ।
भूतात्मेत्यादौ आत्मशब्दः गौणः आत्मोपकरणत्वात् आत्म-
जन्यत्वाद्वा “तस्माद्वा एतस्मादात्मन आकाशः सम्भूतः”
इत्यादिश्रुत्या भूतानामात्मन उत्पत्तिप्रतिपादनात् ।
स्वभावे, बुद्धौ च “तमात्मसम्पन्नमनिन्दितात्मा” रघुः ।
“अनिन्दितात्मा अगर्हितस्वभावः आत्मसम्पन्नं बुद्धिसम्पन्नम्”
मल्लि० । १२ देहावच्छिन्नेचैतन्ये च “आत्मैव ह्यात्मनो बन्धु-
रात्मैव रिपुरात्मनः” स्मृतिः । अन्तःकरणे, “आत्मान-
मात्मना वेत्सि” कुमा० । “तन्मनोऽकुरुतात्मन्वी स्याम्”
पृष्ठ ०६८५
वृ० उ० “अनेनात्मना मनसा आत्मन्वी मनस्वी स्याम्”
भा० स्वरूपे” अनेन जीवेनात्मनाऽनुप्रविश्य नामरूपे
व्याकरवाणीति” छा० उ० । जीवात्मनि “आत्मानं रथिनं
विद्धि शरीरं रथमेव तु । बुद्धिं तु सारथिं विद्धि मनः
प्रग्रहमेव च । इन्द्रियाणि हयानाहुर्विषयांस्तेषु गोचरान् ।
आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः” कठ० उ० ।
“अत्रात्मानं संसारिणं रथिनं रथस्वामिनं विद्धि” भा० ।
बुद्ध्यादौ “इन्द्रियेभ्यः पराह्यर्था अर्थेभ्यश्च परं मनः । मनसश्च
परा बुद्धिर्बुद्धेरात्मा महान् परः । महतः परमव्यक्तमव्यक्तात्
पुरुषः परः । पुरुषान्न परं किञ्चित् का काष्ठा सा परा गतिः ।
एष सर्ब्बेषु भूतेषु गूढ़ोत्मा न प्रकाशते । दृश्यते त्वग्र्यया
बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः । यच्छेद्वाङ्मानसी प्राज्ञ-
स्तद्यच्छेज्ज्ञान आत्मनि । ज्ञानमात्मनि महति यच्छे-
त्तद्यच्छेच्छान्त आत्मनि” कठ० उप० “ज्ञाने प्रकाशस्वरूपे
बुद्धावात्मनि बुद्धिर्हि मनआदिकरणानि प्राप्नोतोत्यात्मा तेषां
प्रत्यग्ज्ञानम् । बुद्धिमात्मनि महति प्रथममुत्पन्नेयच्छेत्
प्रथमजत्वात् स्वच्छस्वभावमात्मनो विज्ञानमापादयेदित्यर्थः ।
तच्च महान्तमात्मानं यच्छेच्छान्ते सर्वविशेषप्रत्यस्तमिरूपे
अविक्रिये सर्व्वान्तरे सर्व्वबुद्धिसाक्षिणि मुख्ये आत्मनि” भा०
तत्र पुत्रादौ आत्मशब्दोगौणः ममात्मा भद्रसेन इति
वत् देहादौ तु मिथ्याभिमान इति भेदः एतदभिप्रायेणैव
“गौणमिथ्यात्मनोऽसत्त्वे पुत्रदेहादिबाधनादिति” शा०
भा० उक्तम् । परमात्मनि “तस्माद्वा एतस्मादात्मनः
आकाशःसंभूतः” । “आत्मा वा अरे द्रष्टव्यः” इति च
श्रुतिः स्वरूपे तदात्मा पृथगात्मा “आत्मानमात्मना
बिभ्रदस्तीति व्यपदिश्यते” वाक्यप० । बुद्धिविशेषस्थधर्म्मो-
पलक्षितार्थे स्वशब्दार्थे “ग्रामेष्वात्मविसृष्टेषु” रघुः
“देवात्मशक्त्या स्वगुणैर्निगूढाम्” श्रुतिः । भावे त्व आत्म-
त्वम् आत्मधर्मे न० । “अभावविरहात्मत्वं वस्तुनः
प्रतियोगिता” उदयनः । तल् तत्रैवार्थे स्त्री “तदा-
त्मताध्यातधवा रते च का” नै० । ष्यञ् टिलोपः ।
आत्म्यम् तत्रार्थे न० । हितार्थे ख । आत्मनीनः
आत्महिते त्रि० । तस्येदं छ आत्मीयः । तत्सम्बन्धिनि
त्रि० । गूढात् परत्वेऽस्य पृ० वर्णविकृतौ गूढोत्मा
“गूढोत्मावर्ण्णविकृतेरिति” व्या० कारिका “गूढोत्मा न
प्रकाशते” इति कठ० उप० । स्वात्मनः प्रत्यक्त्वं,
परात्मनः पराक्त्वमिति भेदः तयोर्भेदाभेदपक्षौ च मदभेदेन
प्राक् दर्शितौ ।

आत्मनिष्ठ त्रि० आत्मनि आत्मज्ञाने निष्ठा यस्य । आत्मज्ञा-

नमात्रान्वेषिणि ब्रह्मनिष्ठे मुमुक्षौ ।

आत्मनीन त्रि० आत्मने हितम् ख । १ आत्महिते “तामात्म-

नीनामुदवोढ रामः” भट्टिः । “अद्यापि नैवात्मनीनं कृतं कर्म
यातं जनुः” नीतिः २ पुत्रे ३ श्याले नाटकप्रसिद्धे विदू-
षके च पु० अजयः ४ प्राणधारके बलिनि त्रि० ।

आत्मनेपद न० आत्मने आत्मार्थफलबोधनाय पदम् अलुक्

स० । आत्मगामिफलबोधके व्यारणप्रसिद्धे तङादौ । “तङा-
नावात्मनेपदम्” पा० “अनुदात्तङितः आत्मदेपदम्” ।
“स्वरितञितः कर्त्रभिप्राये क्रियाफले” पा० उक्तेः
आत्मगामिन्येव क्रियाफले तत्पदस्य विधानात् तथात्वम्
तङ् प्रत्याहारः स च “तआतां झथास् आथांध्वम् इड्
वहिमहिङ्” पाणिन्युक्तः” एतेषां स्थाने एव लका
रभेदे तत्तद्रूपाणि आदिष्टानि ।

आत्मनेपदिन् पु० आत्मनेपदं विहितत्वेनास्त्यस्य इनि ।

पाणिन्युक्ते धातुभेदे ते च गणपाठे अनुदात्तेतोहलन्ताः
स्वरान्तङितश्च प ठिता धातवः । एवमन्येऽपि धातवः स्वरिते
तोञितश्च कर्त्रभिप्राये क्रियाफले एव तथा अर्थविशेषे
उपसर्ग विशेषयोगेन कर्त्तरिवाच्ये चात्मनेपदिनोऽपि भवन्ति
ते च पाणिन्यनुशिष्टाः संक्षिप्य आशुबोघेऽस्माभिर्दर्शिताः
यथा । “विपराभ्यां परस्मात्तुजयतेरात्मनेपदम् । परिव्य-
वेभ्यः क्रीणातेस्तङ् स्यात् कर्त्तरि नेर्विशः । आङो दोऽमु-
खविस्तारे शपथे शपतेर्भवेत् । पर्य्यन्ववाङः क्रीडः स्याद-
कूजार्थात्तु तङ् मतः । आङो नौतेः पृच्छतेश्च क्षमा-
यामागमेर्भवेत् । नाथतेराशिषि भवेत् जिज्ञासायान्तु
शिक्षतेः । हर्षात् भक्षान्नवासाय लेखनार्थात् किरस्तु
तङ् । उपात् कर्त्तरि सुट् तस्य चतुष्पादेऽथ पक्षिणि ।
प्रतिज्ञायां, निर्णयार्थमाश्रये, ऽभीष्टबोधने । वर्त्तमानात्ति-
ष्टतेस्तङ् तथा कर्मविवर्ज्जितात् । देवपूजासंगमयोर्मैत्र्यां
मार्गगतो तथा । उपात्तङ् तिष्ठतेश्चैव मन्त्रसाधनकाच्च
तङ् । तथा संप्रपरिभ्यःस्थ उदश्चानूर्द्धकर्म्मणि । स्वाङ्गक-
र्माकर्म्मकात् तङुद्विभ्यां तपतेर्भवेत् । हनो यमस्तथाभूता-
दाङः कर्त्तरि तङ् भवेत् । समः कर्म्माविवक्षायां गम्य
र्त्तिश्रुदृशो भवेत् । उपसर्गादस्यतेस्तङूहतेश्च विभा-
षया । निसंव्युपेभ्यो ह्वयतेः स्पर्द्धायामाङ एव तङ् ।
सूचने, भर्त्सने, दुष्टे--सहसैव प्रवर्त्तन । सतो गुणान्तरा-
धाने, सेवायां विनियोजने । कथने च कृञस्तङ् स्या-
दधेस्तु सहने तथा । वेः शब्दकर्मणस्तस्मात् कर्मणा र-
पृष्ठ ०६८६
हिताच्च तङ् । शास्त्रार्थवेदनेनैव सम्माने तत्त्वनिश्चये ।
उत्क्षेपणे प्रार्थने च ऋणनिर्यातने तथा । अन्तिकप्रापणे
भृत्यां व्यये चापनये तथा । अमूर्त्ते कर्त्तृगे कर्मण्येषु तङ्
नयतेर्भवेत् । उत्साहे चाप्रहितौ वृद्धौ च क्रमतेस्तु तङ् ।
परोपाभ्याञ्चेतरार्थे तङाङोज्योतिरुद्गमे । प्रोपाभ्यां तङ्
समारम्भे वेः पादचलनार्थकात् । विभाषया क्रमेस्तङ्
स्यादुपसर्गविवर्ज्जितात् । निह्नवे ज्ञोऽकर्मकाच्च संप्रति-
भ्यामचिन्तने । यत्ने च ज्ञानपूर्व्वोक्तौ विमतावुपसान्त्वने ।
प्रार्थने च वदेर्व्यक्ते संभूयोच्चारणे तु तङ् । अनोरकर्मका
द्व्यक्ते सहोक्ते विमते तु वा । अवाद्गिरः कर्त्तरि तङ्
प्रतिज्ञायां समस्तथा । उदश्चरः कर्म्मयुक्तात् समोयुक्तात्
तृतीयया । तृतीया चेच्चतुर्थ्यर्थे दाणः संपूर्व्वकात्तु तङ् ।
ज्ञाश्रुस्मृपश्यतेश्च स्यात् सनन्तात्कर्त्तरीष्यते । अनोर्जिज्ञास-
तेर्नैव प्रयाङ्भ्याञ्च तथा श्रुवः । स्वराद्यन्तोपसर्गात्तङ् युजे र्न
यज्ञपावके । अपालने भुजेस्तङ् स्यात् क्ष्णुवः संपूर्व्व-
कात्तु तङ् । अस्मृत्यर्थस्य धातोर्यत् कर्म्माण्यन्तस्य चेद्भवेत् ।
ण्यन्तस्य कर्त्ता स, तदा तस्मात् ण्यन्तात् भवेत्तु तङ् ।
णिजन्ताच्च गृधेर्वञ्चेः प्रतारार्थे तु तङ् भवेत् । कविकल्प-
द्रुमग्रन्थे ञित्त्वेन पठितास्तु ये । णिजन्ताश्चोभयपदा-
स्तेभ्यस्तङ कर्तृगे फले । अपाद्वदोयमोऽग्रन्थे
समुदाङ्भ्यस्तथैव तङ् । उपसर्गादृते ज्ञश्च तथा तङ् कर्त्तृगे
फले । समीपस्थपदेनैव कर्त्तृगस्य फलस्य चेत् । द्योतनं
स्यात्तदातत्र तङ् कर्त्तरि विभाषया” उदाहरणं तत्रैव
दृश्यम् । “परस्मैपदमिच्छन्ति आत्मनेपदिनः क्वचित्”
व्या० कारिका ।

आत्मनेभाषा स्त्री आत्मने तदुद्देशेन भाशा परिभाषा

अलुक् स० । व्याकरणप्रसिद्धे आत्मनेपदशब्दार्थे ।

आत्मन्वत् त्रि० आत्माऽस्त्यस्य मतुप् वेदे भत्वात् न नलोपः

स्त्रियां ङीप् । १ आत्मविशिष्टे “तमूहथुर्नौभिरात्मन्व-
तीभिः” ऋ० १, ११६, ३ । “आत्मन्नभोदुह्यते घृतं
पयः” ऋ० ९, ७४, ४ । लोके तु आत्मवान् इत्येव ।
२ यत्नवति ३ सुमनस्के च त्रि० स्त्रियां ङीप् ।

आत्मन्विन् त्रि० आत्मन् + अस्त्यर्थे बा० विनि भत्वम् ।

मनस्विनि “तन्मनोऽकुरुतात्मन्वी स्यामिति” वृ० उप० “आत्म-
न्वी मनस्वी” भा० ।

आत्मपुराण न० आत्मनः पुराणं सृष्ट्यादिकर्त्तृत्वादिरूप-

मितिवृत्तमधिकृत्य कृतो ग्रन्थः अण् । आत्मनोजगत्-
सृष्ट्यादिरूपेतिवृत्ताधिकारेण शङ्करापुन्दकृते अष्टा-
द शाध्यायात्मके उपनिषदर्थप्रकाशके ग्रन्थभेदे । तत्र
प्रतिपाद्यानि १ अ० ऐतरेयोपनिषदर्थविवृतिः । २ अ०
वृहदारण्यस्य कौषीतकिब्राह्मणार्थविवृतिः । ३ अ० वृ०
गार्ग्यजातशत्रुसंवादार्थबिवृतिः । ४ अ० वृ०
मधुकाण्डार्थविवृतिः । ५ अ० वृ० याज्ञवल्क्यकाण्डार्थ
विवृतिः । ६ अ० वृ० याज्ञवल्क्यजनकसंवादार्थविवृतिः ।
७ अ० वृ० याज्ञवल्क्यमैत्रेयी संवादार्थविवृतिः । ८ अ०
श्वेताश्वतरोपनिषदर्थविवृतिः । ९ अ० काठकोपनिष-
दर्थविवृतिः । १० अ० तैत्तिरीयोपनिषदर्थविवृतिः ।
११ अ० गर्भाद्युपनिषदर्थविवृतिः । १२ अ० छान्दोग्यस्य
श्वेतकेतुसंवादार्थविवृतिः । १३ अ० छा० सनत्-
कुमारनारदसंवादार्थविवृतिः । १४ अ० छा० प्रजा-
पतीन्द्रसंवादार्थविवृतिः । १५ अ० तलवकारोपनिषदर्थ
विवृतिः । १६ अ० मुण्डकोपनिषदर्थविवृतिः । १७ अ०
प्रश्नोपनिषदर्थविवृतिः । १८ अ० माण्डूक्येशाजावालि-
प्रभृतीनामुपनिषदां सारांशार्थविवृतिः । एतत्पुरा-
णञ्च सुगमोपायेन वेदान्तमतज्ञानार्थमतीवोपयोगि विवृत-
ञ्चैतत् काकारामशास्त्रिणा ततएव तत्रत्याशेषार्थाः सुग्रहाः ।

आत्मप्रकाश त्रि० आत्मनः प्रकाशः । आत्मनश्चैतन्यस्य पदार्था-

वभासनरूपे प्रकाशे । “आत्मनस्तत्प्रकाशत्वं यत्पदार्थाव-
भासनम् । नाग्न्यादिदीपवद्दीप्तिर्भवत्यान्ध्यं
यतोनिशि” इत्युक्तेः अग्न्यादिप्रकाशविलक्षणनित्यप्रकाशत्वेन
तत्प्रकाशेनैव घटादिस्फुरणेन च तस्य तथात्वम् । “बुद्धि-
वृत्तिचिदाभासौ द्वावेतौ व्याप्नुतो घटम् । तत्राज्ञानं धिया
नश्येदाभासात्तु घटः स्थुरेत्” इत्युक्तेस्तस्य सर्वप्रकाशकत्वम् ।

आत्मप्रभ त्रि० आत्मना स्वयमितरनैरपेक्ष्येण प्रभा यस्य । १ स्वयं-

प्रकागमाने “लोकानात्मप्रभान् पश्यन् फाल्गुनोविस्मया-
न्वितः” भा० व० प० ४२ अ० । २ परमात्मनि पु० “हृद्यन्तः स्वयं
ज्योतिरिति” श्रुतेः “न तद्भासयते सूर्य्योन शशाङ्कोन
पावक” इत्युक्तेश्च तस्य भासने इतरापेक्षाभावात्तस्य तथात्वम् ।
३ त० । ३ स्वयंप्रभायां स्वयं प्रकाशे स्त्री ।

आत्मप्रभव पु० प्रभवत्यस्मात् प्र + भू--अपादाने अप् आत्मा

देहः मनो वा प्रभवो यस्य । १ तनुजे पुत्रे मनोभवे २ कामे
च ३ कन्यायां ४ बुद्धौ च स्त्री आत्मभवादयोऽप्यत्र ।
५ आकाशादिषु च च परमात्मनः प्रभवत्वात्तेषां तथात्वम् ।

आत्मबन्धु पु० आत्मनो बन्धुः । १ आत्ममित्रे “आत्म-

मातुःस्वसुः पुत्राः आत्मपितुःस्वसुः सुताः । आत्ममातु-
लपुत्राश्च विज्ञेयाह्यात्मबान्धवाः २ इत्युक्ते” मातृपितृस्वस्रोः
२ पुत्रे ३ मातुलपुत्रे च । “पत्नीदुहितरश्चैव पितरौ भ्रातर-
पृष्ठ ०६८७
स्तथा । तत्सुतो गोत्रजोबन्धुः शिष्यः सब्रह्मचारिणः”
या० वचने बन्धुपदेन एतेषामात्मबन्धूनां पितृमातृबन्धू-
नाञ्च ग्रहणम् । आत्मबान्धवादयोऽप्यत्र । ४ आत्मनि च
“आत्मैव ह्यात्मनोबन्धुरात्मैव रिपुरात्मनः” इत्युक्तेरात्मन-
एव आत्मोपकारज्ञानसाधनत्वेन बन्धुत्वात्तथात्वम् ।

आत्मभू पु० आत्मनोमनसो देहात् वा भवति भू--क्विप् ५ त० ।

मनोभवे १ कामे देहभवे २ पुत्रे ३ कन्यायां ४ बुद्धौ च स्त्री ।
आत्मनैव भवति भू--क्विप् । ५ ईश्वरे पु० स हि “बहु स्यां
प्रजायेयेति” ईक्षणपूर्ब्बकं सृज्यवस्त्वाकारेण विवर्त्तनात्
तथा । “सर्वज्ञस्त्वमविज्ञातः सर्वयोनिस्त्वमात्मभूः” रघुः
“आत्मभूरवरजाखिलप्रजः” इति माघः ६ शिवे ७ विष्णौ च
परमेश्वराभेदात्तयोस्तथात्वम् । आत्मनः ब्रह्मणः भवति
भू--क्विप् । आदिजीवे ६ हिरण्यगर्भे “यो वै ब्राह्मणं
विदधाति पूर्ब्बम्” इति श्रुत्या “यः सर्वज्ञः सर्वविद्यस्य
ज्ञानमयं तपः । तस्मादेतत् ब्रह्म नाम रूपपन्नञ्च
जायते इति” श्रुत्या च चतुर्मुखस्यात्मजन्यत्वीक्तेस्तस्य
तथात्वम् ब्रह्मेति क्लीवं छान्दसम् “यमामनन्त्यात्मभुवोऽपि
कारणम्” “वचस्यवसिते तस्मिन् ससर्ज गिरमात्मभूः”
कुमा० अच् आत्मनो भवति भू + अच् ५ त० । आत्म-
भवादयोऽप्युक्तार्थेषु ।

आत्मभूत त्रि० आत्मनोदेहात् मनसो वा भूतः । तनुजे १ पुत्रे

मनोभवे २ कामे च । ३ कन्यायां ४ बुद्धौ च स्त्री ५
मनोजन्यमात्रे त्रि० । अनात्मा आत्मा भूतः श्रेण्या० कर्म्म० ।
अनात्मनि आत्मरूपेण भवितरि ६ देहादौ त्रि० “आत्मभू-
तानीन्द्रियाणीति शा० भा० । ७ अनुकूले सेवकभेदे च ।
“तत्रात्मभूतैः कालज्ञैरहार्य्यैः परिचारकैः” मनुः ।

आत्मभूय न० आत्मनो भावः भू--भावे क्यप् ६ त० ।

आत्मत्वे ब्रह्मरूपे “आत्मभूयाय कल्पते” पुरा० ।

आत्ममय त्रि० आत्मात्मकः आत्मन् + मयट् । आत्मस्वरूपा-

पन्ने “सर्वमात्ममयं जगत्” पुरा० स्त्रियां ङीप्

आत्ममानिन् त्रि० आत्मानमुत्कर्षेण मन्यते मन--णिनि

६ त० । १ आत्मोत्कर्षाभिमानिनि गर्व्विते २ सर्वभूतेषु
आत्मत्वेन ज्ञातरि च स्त्रियां ङीप् ।

आत्ममूर्त्ति पु० आत्मनोमूर्त्तिरिव मूर्त्तिरस्य । १ भ्रातरि

तस्य एकदेहोत्पन्नत्वेन, “भ्राता स्वोमूर्त्तिरात्मनः”
इति मनुना भ्रातुः स्वतुल्यमूर्त्तित्वोक्तेश्च तथात्वम ।
६ त० । वेदान्तिमते आत्मनः स्वरूपे २ चैतन्यादौ न्याय-
मते ३ कर्तृत्वादौ च स्त्री ।

आत्ममूली स्त्री आत्मैव रक्षणे मूलमस्याः दुःस्पर्शतयेतर मर्द्द-

नतः स्वस्य स्वयं रक्षणात् गौ० ङीष् । १ दुरालभालतायाम् ।
आत्मापरमात्मा मूलं यस्य । २ जगति न० । तस्यात्मप्रभ-
वत्वात् तथात्वम् “ब्रह्म खानिलतेजांसि जलं भूश्चेति धातवः ।
इमे लोका एष चात्मा तस्माच्च सचराचरम्! मृद्दण्डचक्र-
संयोगात् कुम्भकारो यथा घटम् । करोति तृणमृत्काष्ठै
र्गृहं वा गृहकारकः । हेममात्रमुपादाय रूप्यं वा
हेमकारकः । निजलालासमायोगात् कोशं वा कोशकारकः ।
कारणान्येवमादाय तासुतास्विह योनिषु । सृजत्या-
त्मानमात्मा च संहृत्य करणानि च” या० स्मृतावात्मनो
भूतसृष्टिमभिधाय अनतिदूरे “सहस्रात्मा मया योव
आदिदेव उदाहृतः । मुखबाहूरुपज्जाःस्यु स्तस्य वर्ण्णा
यथाक्रमम् । पृथिवी पादतस्तस्य शिरसोद्यौरजायत ।
नस्तःप्राणा दिशः” इत्युक्तेः जगतामात्ममूलत्वात्तथात्वम्
“आत्ममूलमिदं सर्व्वमात्मन्येव प्रलीयते” इति पुरा० ।

आत्मम्भरि त्रि० आत्मानं बिभर्त्ति भू--खि मुम् च उप० स० ।

स्वोदरमात्रपूरके देवातिथ्यनादरणेन आत्मपोषकत्वात्तस्य
तथात्वम् “आत्मम्भरिस्त्वं पिशितैर्नराणाम्” भट्टिः ।
“यथा तआत्मम्भरयोऽकल्याणाद्यासङ्गवत्त्वात् घ्राणादयः
न तथात्मम्भरिर्मुख्यः प्राणः किन्तर्हिसर्वार्थः, कथमित्युच्यते
तेन मुख्येन यदश्नाति यत्पिबति लोकस्ते नाशितेन पीतेन
चेतरान् घ्राणादीन् प्रतिपालयति” छा० उ० भा० ।

आत्मयाजिन् आत्मानं ब्रह्मरूपेण कर्म्मकरणादिकं भावयन्

यजते यज--णिनि । “ब्रह्मार्पणं ब्रह्म हविर्ब्रह्माऽग्नौ
ब्रह्मणा हुतम्” इत्युक्तरूपभावनया ज्योतिष्ठोमादिक-
र्म्मकर्त्तरि आरुरुक्षौ ब्रह्मनिष्ठे १ कर्म्मयोगिनि “सर्व्वभूतेषु
चात्मानं सर्वभूतानि चात्मनि । समं पश्यन्नात्मयाजी स्वा-
राज्यमधिगच्छतीति” मनूक्ते आत्मतया २ सर्व्वभूतदर्शिनि च

आत्मयोनि पु० आत्मा योनिरस्य । १ चतुर्मुखे ब्रह्मणि २ शिवे

३ मनोभवे “प्रहर्त्तुमभ्युद्यतमात्मयोनिम्” कुमा० । ४ विष्णौ
च “आत्मयोनिः स्वयं ज्ञाता” विष्णुस० । आत्मैव योनि
रूपादानकारणं नान्यदिति” भाष्योक्तेः विष्णौ स्त्रीत्वमपि ।

आत्मरक्षा स्त्री आत्मन एव रक्षा यस्याः । १ इन्द्रवारुणीवृक्षे

६ त० । आत्मनो रक्षा । २ शास्त्रोक्ते विघ्नकर्त्तृभ्य आत्मनो
रक्षणे च “आत्मरक्षायां जपे विनियोगः” सन्ध्याप्रयोगः ।

आत्मराम पु० आत्मनि रमते संज्ञायां कर्त्तरि घञ् । आत्म-

ज्ञानमात्रेण तृप्ते योगीन्द्रे ।
पृष्ठ ०६८८

आत्मलाभ पु० आत्मनोलाभः । आत्मनो यथास्वरूवज्ञानेन

आत्मस्वरूपप्राप्तौ “आत्मलाभात्परोलाभो नास्तीति मुनयो
विदुः” पुरा० “आत्मलाभपरिणामनिरोधैः” किरा० ।

आत्मलोक पु० आत्मैव लोकः प्रकाशः । स्वप्रकाशे आत्मनि ।

आत्मलोमन् न० ६ त० । मुखजाते लोमभेदे १ श्मश्रुणि(दाड़ि)

२ आत्मलोममात्रे च ।

आत्मवत् त्रि० आत्मा चित्तं वश्यतयाऽस्त्यस्य मतुप् मस्य वः

स्त्रियां ङीप् । १ वश्यचित्ते । “उदयादिष्वविकृतिर्मनसः
सत्त्वमुच्यते । आत्मवान् सत्त्ववानुक्त” इत्युत्पलमालोक्ते
२निर्विकारचित्ते च “प्रकृतिष्वात्मजमात्मवत्तया” रघुः
“तस्मादस्मिन् सदा युक्तो नित्यं स्यादात्मवान् द्विजः” ।
“गृहे गुरावरण्ये वा निवसन्नात्मवान् द्विजः” “पूर्व्वं पूर्ब्बं
गुरुतरं विद्यात् व्यसनमात्मवान्” “ब्रह्महत्याकृतं पापं
व्यापोहत्यात्मवत्तया” इति च मनुः । “न त्वामेवंविधो-
भावः स्प्रष्टुमर्हति मानद! । आत्मवन्तमिव व्याधिः पुरुषं
वृद्धसेविनम्” भा० व० प० २७९ अ० । आत्मा प्रकाश्य-
तया विद्यतेऽस्य । आत्मप्रकाशके ३ शास्त्रे “श्रुतमाविष्कृत-
मात्मवत् त्वया” रघुः । आत्मना तुल्या क्रिया वति । ४ आत्म-
तुल्यक्रियायाम् अव्य० । “आत्मवन्मन्यते जगत्” इति
नीतिः “मातृवत् परदारेषु परद्रव्येषु लोष्ट्रवत् । आत्मवत्
सर्वभूतेषु यः पश्यति स पण्डित” इति चाणक्यः ।

आत्मवश क्रि० आत्मनोवश आयत्ततात्र । आत्माधीने ।

“यद्यदात्मवशं तु स्यात्ततत् सेवेत यत्नतः” “सर्वं परवशं
दुःखं सर्वमात्मवशं सुखम्” इति च मनुः ।

आत्मवश्य त्रि० आत्मा मनो वश्योयस्य । वशीभूतमनस्के

“आत्मवश्योविधेयात्मा प्रसादमधिगच्छति” गीता २ आत्मनो-
वश्ये च ।

आत्मविक्रय पु० ६ त० । स्वदेहविक्रये । स च “गोबधोऽयाज्य-

संयाज्यपारदार्य्यात्मविक्रय” इति मनूक्तेरुपपातकभेदः ।

आत्मविद् त्रि० आत्मानं यथार्थरूपेण वेत्ति विद--क्विप् ६ त० ।

आत्मस्वरूपाभिज्ञे “आत्मविदोजनाः” आत्म शब्दे उदा०
“अधीयन्नात्मविद्विद्याम्” भट्टिः “तरति शोकमात्मवित्”
श्रुतिः “ध्यानयोगमुपागस्य प्रसन्नमतयः सदा । सुखोप
चयमव्यक्तं प्रविशन्त्यात्मवित्तमाः” भा० आश्व० प० ५१ अ० ।
आत्मानं स्वपक्षं वेत्ति क्विप् । २ स्वपक्ष ज्ञातरि “य
इहात्मविदो विपक्षमध्ये” माघः ।

आत्मविद्या स्त्री आत्मनोविद्या । आत्मनो यथास्वरूपावेदक-

विद्यायाम् “आन्विक्षिकीञ्चात्मविद्यां वार्त्तारम्भांश्च
लोकतः” मनुः । “आत्मविद्या च पौराणी धर्मशा-
स्त्रात्मिक तथा” नन्दिपु० सा च उपनिषद्रूपा तदुप-
कारिशारीकविद्या च । तद्विद्यासाधने २ शास्त्रे च ।

आत्मवीर त्रि० आत्मा प्राणः वीरैव यस्य । १ विशिष्टबलयुक्ते

२ श्यालके ३ पुत्रे विदूषके च पु० मेदिनिः ।

आत्मवृत्ति स्त्री आत्मनोद्धत्तिः । १ आत्मनोवर्त्तनोपाये ।

आत्मनि वृत्तिः स्थितिर्यस्य । २ स्ववृत्तौ पदार्थे त्रि० ।

आत्मशक्ति स्त्री ६ त० । आत्मानुरूपसामर्थ्ये । “दैवं निहत्य

कुरु पौरुषमात्मशक्त्या” नीतिः शक्तिश्च कार्य्यजननानुकूलः
सामर्थ्यभेदः सा च देहप्राणादिनिष्ठा । आत्मनः परमात्म-
नो जगज्जननशक्तौ २ मायायाञ्च “देवात्मशक्तिं स्वगुणै
र्निगूढाम्” श्रुतिः ।

आत्मशल्या स्त्री आत्मा स्वरूपं शल्यमिव यस्याः । शतावर्य्याम् राजनि० ।

आत्मशुद्धि स्त्रीं आत्मनः देहस्य मनसो वा शुद्धिः । १

देहशुद्धौ २ चित्तशुद्धौ च शुद्धिश्च अशुद्धिशब्दे व्याख्याता ।

आत्मश्लाघा स्त्री ६ त० । आत्मनोऽसत्यगुणाविष्करणे गर्वभेदे

“आत्मश्लाघा विवर्जितः” महापुरुषलक्षणम् ।

आत्मसंयम पु० आत्मनो मनसः संयमः । चित्तसंयमने

“आत्मसंयमयोगाग्नौ जुह्वति ज्ञानदीपिते” गीता ।

आत्मसमुद्भव पु० आत्मा देहोमनः परमात्मावा समुद्भवोऽस्य ।

१ पुत्रे “हतान्निहन्मेह नरर्षभेण वयं सुरेशात्मसमुद्भवेन”
भा० द्रो० प० ११८ अ० । २ मनोभवे कामे च पु० ३
मनोजन्ये सुखादौ त्रि० ४ कन्यायां ५ बुद्धौ च स्त्री परमात्मस-
म्भूते ६ आकाशादौ त्रि० । ७ चतुर्खुखे ८ शिवे ९ निष्णौ
१० परमात्मनि च पु० ।

आत्मसम्भव पु० सम्भवत्यस्मात् सम् + भू--अपादाने अप् आत्मा

सम्भवो यस्य । तनूजे १ पुत्रे । “एवमात्तरतिरात्मसम्भवान्
तान् निवेश्य चतुरोऽपि तत्र सः” । “चकार नाम्ना
रघुरात्मसंभवम्” “तदात्मसम्भवं राज्ये मन्त्रिवृद्धाः समादधुः”
इति च रघुः २ मनोजन्ये त्रि० ३ कामे सुखादौ पु० ४ कन्यायां
५ बुद्धौ च स्त्री । ६ आकाशादौ ७ भूते त्रि० । “तस्माद्वा
एतस्मादात्मनः आकाशः सम्भूत आकाशाद्वायुर्वायोरग्नि-
रग्नेरापः अद्भ्यः पृथिवीति” श्रुत्युक्तेस्तेषां तथात्वम्
आत्मसंभूतादयोऽप्यत्र । आत्मा परमात्मा सम्भवोऽस्य ।
७ चतुर्मुखे पु० आत्मना सम्भवति अच् । ८ शिवे ९ विष्णौ
१० परमात्मनि च पु० ।

आत्मसाक्षिन् त्रि० आत्मनः बुद्धिवृत्तेः साक्षी प्रकाशकः ।

वेदान्तादिमतसिद्धे बुद्धिवृद्धिप्रकाशके चैतन्ये ।
पृष्ठ ०६८९

आत्मसात् अव्य० कात्र्स्न्येनात्मनोऽधीनो भवति सम्पद्यते

अघीनं करोति वा साति । कात्र्स्न्येनात्माधीनतया
सम्पन्ने तथा भूते तथा क्रियमाणेच । अस्य च सम्पद्यादि-
योगे एव साधुत्वम् आत्मसाद्भूतः आत्मसात् सम्पन्नः
आत्मसात्कृत इत्यादि । “दुरितैरपि कर्त्तुमात्मसात्”
रघुः “अग्नीन् वाप्यात्मसात्कृत्य” या० स्मृतिः ।

आत्मसिद्ध त्रि० आत्मना सिद्धः । १ स्वयंसिद्धे २ अयत्ननिष्पन्ने च ।

आत्मसिद्धि स्त्री आत्मरूपा सिद्धिः । आत्मभावलाभे मोक्षे

आत्मसुख त्रि० आत्मैव सुखमस्य । आत्मलाभमात्रेण

सुखिनि १ आत्मैव सुखं सच्चिदानन्दरूपत्वात् । २ आत्म-
रूपे परमान्दे न० ।

आत्मस्थ त्रि० आत्मने आत्मज्ञानाय तिष्ठते यतते स्था--क

४ त० । १ आत्मस्वरूपज्ञानाय यतमाने आत्मनि मनसि तिष्ठति
स्था--क ७ त० । २ मनोवृत्तिपदार्थे त्रि० ।

आत्महत्या स्त्री आत्मनो देहस्य हननम् । देहस्य प्राणैर्वियोजने ।

आत्महन् त्रि० आत्मानं हतवान् हन--क्विप् । “येऽन्यथा

सन्तमात्मानमकर्त्तारं स्वयंप्रभुम् । कर्त्ता भोक्तेति मन्यन्ते
तएवात्महनो जना,” इत्यक्तलक्षणे आत्मनो यथार्थ्यज्ञान-
रहिते, १ देहाद्यभिमानिनि, “अन्धं तमस्ते प्रविशन्ति ये
के चात्मनोजनाः” कठ० उ० “लब्ध्वा कथञ्चिन्नरजन्म दुर्लभं
तत्रापि पुंस्त्वं श्रुतिपारदर्शनम् । यस्त्वात्ममुक्त्यै न यतेत
मूढधीः स आत्महा स्वं विनिहन्त्यसद्ग्रहात्” विवे० चू० ।
आत्मनो यथार्थज्ञानाभावे आत्महत्वमुक्तम् । “असुर्य्यानाम
ते लोका अन्धेन तमसा वृताः । तांस्ते प्रेत्याभि-
गच्छन्ति ये के चात्महनोजनाः” ईशोप० । “मयानुकूलेन
नभस्वतेरित पुमान् भवाब्धिं न तरेत् स आत्महा” भाग०
२ आत्मघातिनि जने च । आत्मघातिन्शब्दे विवृतिः ।

आत्माधीन पु० आत्मनोऽधीनः । १ पुत्रे, २ श्यालके ३ विदू-

षके च हेम० ४ बलयुक्ते ५ स्वाघीने त्रि० ।

आत्मानुरूप त्रि० आत्मनोऽनुरूपम् । जातिघृत्तादिना

स्वतुल्ये “तस्यामात्मानुरूपायामात्मजन्मसमुत्सुकः” रघुः ।

आत्मापहारक त्रि० आत्मानमपहरति निह्नुते अप +

हृण्वुल् । आत्मनो यथास्वरूपनिह्नवकारिणि “योऽन्यथा
मन्तमात्मानमन्यथा सत्सु भाषते । स पापकृत्तमो लोके
स्तेन आत्मापहारकः” मनुः । णिनि । आत्मपहारी
अप्यत्र “किं तेन न कृतं पापं चौरेणात्मापहारिणा”
स्मृतिः स्त्रियां ङीप् ।

आत्माराम त्रि० आत्मा आराममिव रतिस्थानं

रतिसाधनं वा यस्य । ज्ञानाय यतमाने योगिनि “आत्मा-
रामाविहितरतयोनिर्विकल्पे समाधौ” वेणी० । “आत्म-
क्रीड़स्य सततं सदात्ममिथुनस्य च । आत्मन्येव सुतृप्तस्य
योगसिद्धि र्न दूरतः । यश्चात्मव्यतिरेकेण किञ्चिद्विश्वं
न पश्यति । आत्मारामः स योगीन्द्रोब्रह्मभूतो
भवेदिति” काशी० उक्ते २ योगीन्द्रभेदे च ।

आत्मालम्भ पु० ६ त० । हृदयस्पर्शे “पित्र्यमन्त्रानुहरणेआत्मा-

लम्भेवेह्यक्षणे” कात्या० स्मृ० “आत्मालम्भे हृदयस्पर्शे” रघु० ।

आत्माशिन् पु० आत्मानं स्वकुलमश्नानि अश--णिनि ६ त० ।

स्वकुलभक्षके मीने तस्य सकुलभक्षकत्वात् तथात्वम् अतएव
“अबलस्वकुलाशिनो झषान्” नै० “मत्स्या इव
जनानित्यं भक्षयन्ति परस्परमिति च” रामा० वर्णितम् ।

आत्माश्रय पु० आत्मानमाश्रयति आ + श्रि--अच् ६ त० । १ स्वस्य

स्यापेक्षित्वहेतुकानिष्टप्रसङ्गरूपे तर्कदोषभेदे । तर्कः पञ्चविधः
तर्कशब्दे वक्ष्यते तत्र “स्वस्य स्वापेक्षित्वेऽनिष्टप्रसङ्ग आत्माश्रयः
स च उत्पत्तिस्थितिज्ञप्तिद्वारा त्रेधा यथा यद्ययं घटएत-
द्बटजन्यः स्यात्तदैतद्बटानधिकरणक्षणोत्तरवर्त्ती न स्यात्,
यद्ययं घटएतद्बटवृत्तिः स्यात् एतद्वटव्याप्योन स्यात्, यद्ययं
घटएतद्घटज्ञानाभिन्नः स्यात् ज्ञानसामग्रीजन्यः स्यात्
एतद्वटभिन्नः स्यादिति वा सर्ब्बत्रापाद्यम्” न्यायसूत्रवृत्तिः ।
२ स्वाश्रिते ३ चित्ताश्रिते च त्रि० ६ त० । ४ स्वस्याश्रये पु० ।

आत्मीय त्रि० आत्मनोऽयम् छ । आत्मसंबन्धिनि ।

“आत्मीयां मतिमादाय कुरु सज्जनरञ्जनम्” सा० द० “किमिदं
द्युतिमात्मीयां न बिभ्रति यथा पुरा” कुमा० “प्रसाद-
मात्मीयमिवात्मदर्शः” रघुः अहमेनं प्रज्ञावलेनात्मीयं
करिष्यामि” हितो० ।

आत्मेश्वर त्रि० आत्मनो मनस ईश्वरः । चित्तविकार-

निवारके मनःसंयमकारके “आत्मेश्वराणां न हि जातु
विघ्नाः समाघिभेदप्रभवोभवन्ति” कुमा० ।

आत्मोत्पत्ति स्त्री आत्मन उत्पत्तिः स्वोपाध्यन्तःकरणवृत्ति-

कर्म्मणाऽपूर्ब्बदेहसंयोगः । स्वोपाधीभूतान्तःकरणवृत्ति-
कर्म्मणाऽपूर्ब्बदेहसंयोगरूपे आत्मनो जन्मनि । तदुत्पत्ति-
प्रकारः मिताक्षरायां दर्शितो यथा ।
“निमित्तमक्षरः कर्त्ता बोद्धा ब्रह्म गुणी वशी । अजःशरीर
ग्रहणात्स जात इति कीर्त्यते” “आत्मनःसकलजगत्प्रप-
ञ्चाविर्भावेऽविद्यासमावेशवशात्समवाय्यसमवायिनिमित्तमि-
त्येवं स्वयमेव त्रिविघमपि कारणम् । न पुनःकार्य्यकोटि-
निविष्टः यस्मादक्षरोऽविनश्वरः । ननु सत्त्वादिगुणविकारस्य
सुखदुःखमोहात्मकस्य कार्य्यभूते जगत्प्रपञ्चे दर्शनाद्गुण-
पृष्ठ ०६९०
वत्याः प्रकृतेरेव जगत्कर्त्तृतोचिता न पुनर्निर्गुणस्य ब्रह्म-
णः । मैवं मंस्थाः । आत्मैव कर्त्ता । यस्मादसौ जीवोपभोग्य
सुखदुःखहेतुपुण्यापुण्यादेर्बोद्धा नह्यचेतनायाः प्रकृतेर्ना-
मरूपव्याकृतविचित्रभोक्तृवर्गभोगानुकूलभोग्यभोगायतनादि
योगिजगत्प्रपञ्चना घटते । तस्मादात्मैव कर्त्ता । तथा स
एव ब्रह्म वृंहकोविस्तारकः । नचासौ निर्गुणः, यतः तस्य
त्रिगुणा शक्तिरविद्या प्रकृतिप्रधानाद्यपरपर्याया विद्यते ।
अतः स्वतोनिर्गुणत्वेऽपि शक्तिमुखेन सत्त्वादिगुणयोगी कय्य-
ते । नचैतावता प्रकृतेः कारणता यस्मादात्मैव वशी स्वतन्त्रो
न प्रकृतिर्नाम खतन्त्रन्तत्त्वान्तरन्तादृग्विधत्ते प्रमाणाभावा-
त् । न च वचनीयं शक्तिरूपापि सैव कर्तृभूतेति । यतः
शक्तिमत्कारकं न शक्तिस्तस्मादात्मैव जगतस्त्रिविधमपि
कारणम् । तथा अजौत्पत्तिरहितः । अतस्तस्य यद्यपि
साक्षाज्जननं नोपपद्यते । तथापि शरीरग्रहणमात्रेण जात
इत्युच्यते । अवस्थान्तरयोगितयोत्पत्तिर्गुहस्थोजात इति
वत्” मिता० देहोत्पत्तिप्रकारःकायशब्दे वक्ष्यते ।

आत्मोद्भवा स्त्री आत्मनैवोद्भवति भू--अच् । माषपर्ण्णीवृक्षे

आत्मा उद्भवो यस्याः । २ कन्यायां ३ वुद्धौ च ४ पुत्रे
पु० । “आत्मोद्भवे वर्णचतुष्टयस्य” रघुः । ६ मनोभवे
कामे ७ चित्तभवे शोकादौ च ८ आत्मभवार्थमात्रे च त्रि० ।

आत्मोपजीविन् त्रि० आत्मना देहव्यांपारेण उपजीव्यति

उप + जीव--णिनि ३ त० । स्वदेव्यापारोपजीवके भारि-
कदासादौ “शूद्रांश्चात्मोपजीविनः” “नैष चारणदारेषु
विधिर्न्नात्मोपजीविषु” इति च मनुः ।

आत्मोपम त्रि० आत्मा देहौपमा यस्य १ पुत्रे २ निजसदृशे च त्रि० ।

आत्मौपम्य न० उपमायाभावः ष्यञ् औपम्यम् आत्मन

औपम्यम् । आत्मसादृश्ये “आत्मौपम्येन सर्व्वत्र” गीता ।

आत्यन्तिक त्रि० अत्यन्त + भवार्थे ठञ् । अतिशयेन जाते ।

“आत्यन्तिकासिद्धिविलम्बसिद्ध्योः” नै० “नाब्राह्मणे गुरौ
शिष्यो वासमात्यन्तिकंवसेत्” मनुः । “विभेदजनकाज्ञाने
नाशमात्यन्तिकंगते । आत्मनो ब्रह्मणा भेदमसन्तं कः करिष्यति”
वे० प० स्त्रियां ङीप् । “आत्यन्तिकी स्वत्वनिवृत्तिः” मिता०

आत्यन्तिकदुःखनिवृत्ति स्त्री आत्यन्तिकीदुःखनिवृत्तिः ।

अपवर्गे मुक्तौ । सा च स्वाधिकरणदुःखप्रागभावासमानाधि-
करणा दुःखनिवृत्तिः यादृश्या दुःखनिवृत्तेरुत्तरं
पुनर्दुःखान्तरं नोत्पद्यते तादृशी दुःखनिवृत्तिः । दुःखञ्च
अनागतसूक्ष्मावस्थ “हेयं दुःखमनागतमिति” पात० सूत्रात्
अतीतदुःखस्य नष्टत्वात् वर्त्तमानदुःखस्य च तृतीयक्षण
एव स्वयं नाशात् न तन्निघृत्तेः पुरुधार्थत्वमिति बोध्यम् ।

आत्यन्तिकप्रलय पु० कर्म्म० । प्रलयभेदे । प्रलयस्तावत्

चतुर्विधः” यथाह वेद० प० “स च चतुर्विधः नित्यः
प्राकृतो नैमित्तिक आत्यन्तिकश्चेति । तत्र नित्यप्रलयः सुषुप्तिः
तस्याः सकलकार्य्यप्रलयरूपत्वात् धर्म्माधर्म्मपूर्ब्बसंस्काराणाञ्च
तदा कारणात्मनाषस्थानं तेन सुप्तोत्थितस्य न सुखदुःखा-
द्यनुपपत्तिः न वा स्मरणानुपपत्तिः । न च सुषुप्तावन्तः
करणस्यापि विनाशे तदधीनप्राणनादिक्रियानुपपत्तिः
वस्तुतः श्वासाद्यभावेऽपि तदुपलब्धेः पुरुषान्तरविभ्रम-
मात्रत्वात् सुषुप्तशरीरोपलम्भवत् । नचैवं सुषुप्तस्य
परेतादविशेषः, सुषुप्तस्य हि लिङ्गशरीरं संस्कारात्मना
तत्रैव वर्त्तते परेतस्य तु लोकान्तरे इति वैलक्षण्यात् ।
यद्वा अन्तःकरणस्य द्वे शक्ती ज्ञानशक्तिः क्रियाशक्तिश्चेति
तत्र ज्ञानशक्तिविशिष्टान्तःकरणस्य सुषुप्तौ विनाशः न तु
क्रियाशक्तिविशिष्टस्येति प्राणनाद्यवस्थानमविरुद्धम् । “यदा
सुप्तः स्वप्नं न कञ्चन पश्यति अथास्मिन् प्राण एवैकधा
भवति अथैनं वाक् सर्वैर्नामभिः सहाप्येति सता सौम्य!
तदा सम्पन्नो भवति स्वमपीतोभबतीत्यादि” श्रुतिरुक्त सुप्तौ
मानम् । प्राकृतप्रलयस्तु कार्य्यब्रह्मविनाशनिमित्तकः
सकलकार्य्यविनाशः । यदा तु प्रागेवोत्पन्नब्रह्मसाक्षात्-
कारस्य कार्य्यब्रह्मणो ब्रह्माण्डाधिकारलक्षणप्रारब्ध-
कर्नसमाप्तौ विदेहकैवल्यात्मिका परा मुक्तिः तदा तल्लोक-
वासिनामप्युत्पन्नब्रह्मसाक्षात्काराणां ब्रह्वणा सह विदेह
कैवल्यम् “ब्रह्मणा सह ते सर्वे सम्प्राप्ते प्रतिसञ्चरे ।
परस्यान्ते कृतात्मानः प्रविशन्ति परं पदमिति” श्रुतेः । एवं
स्वलोकवासिभिः सह कार्य्यब्रह्मणि मुच्यमाने तदधिष्ठि-
तब्रह्माण्डतदन्तर्व्वर्त्तिनिखिललोकतदन्तर्व्वर्त्तिस्थावरादीनां
भूतानाञ्च प्रकृतौ मायायां लयः न तु ब्रह्मणि, बाघरू-
पविनाशस्यैव ब्रह्मनिष्ठत्वादतः प्राकृत इत्युच्यते ।
नैमित्तिकप्रलयस्तु कार्य्यब्रह्मणोदिवसावसाननिमित्तकः
त्रैलोक्यमात्रप्रलयो नैमित्तिकप्रलयः । ब्रह्मदिवसश्चतु-
र्युगसहस्रपरिमितः “चतुर्युगसहस्राणि ब्रह्मणोदि-
नमुच्यते” इत्यादिवचनात् । प्रलयकालोऽपि दिवस-
कालपरिमितः रात्रिकालस्य दिवसकालतुल्यत्वात् ।
प्राकृतप्रलये नैमित्तिकप्रलये च पुराणवचनानि प्रमाणानि
“द्विपरार्द्धे त्वतिक्रान्ते ब्रह्मणः परमेष्ठिनः । तदा प्रकृ-
तयः सप्त कल्पन्ते प्रलयाय हि । एष प्राकृतिकोराजन्!
प्रकृतौ यत्र लीयते” इति वचन प्राकृतप्रलये मानम् ।
पृष्ठ ०६९१
“एव नैमित्तिकः प्रोक्तः प्रलयोयत्र विश्वसृक् । शेतेऽन-
न्तासने नित्यमात्मसात्कृत्य चात्मभूरिति” वचनं नैमित्तिक
प्रलये मानम् । तुरीयप्रलयस्तु ब्रह्मसाक्षात्कारनिमित्तकः
सर्ब्बगोक्षः सचैकजीववादे युगपदेव नानाजीववादे तु क्रमे-
ण “सर्व्वएकीभवन्ति” इत्यादि श्रुतेः । तत्राद्यास्त्रयोऽपि
लयाः कर्म्मोपरमनिमित्ताः तुरीयस्तु ज्ञानोदयनिमित्तो-
लयोऽज्ञानेन सहैवेति विशेषः” । अत्र तुरीयः आत्य-
न्तिकः तत्र विशेषमाह सि० शि० “वृद्धिर्वि-
धेरह्नि भुवः समन्तात् स्याद्योजनं भूभवभूतपूर्वैः । ब्राह्मे
लये योजनमात्रवृद्धेर्नाशो भुवः प्राकृतिकेऽखिलायाः ।
दिनेदिने यन्म्रियते हि भूतैर्दैनंदिनं तं प्रलयं
वदन्ति । ब्राह्मं लयं ब्रह्मदिनान्तकाले भूतानि
यद्ब्रह्मतनुं विशन्ति । ब्रह्मात्यये यत् प्रकृतिं प्रयान्ति
सर्वाण्यतः प्राकृतिकं कृतीन्द्राः । लीनान्यतः कर्मपुटान्त-
रत्वात् पृथक् क्रियन्ते प्रकृतिर्विकारैः । ज्ञानाग्निद-
ग्धाखिलपुण्यपापा मनः समादाय हरौ परेशे । यद्यो-
गिनौ यान्त्यनिवृत्तिमस्मादात्यन्तिकं चेति लयश्चतुर्धा” ।
“अत्र लयो भूतविनाशः । स तु साम्प्रतं प्रत्यहमुत्पद्यते
स दैनंदिन उच्यते । यो ब्रह्मदिनान्ते चतुर्युगसहस्राव-
साने लोकत्रयस्य संहारः स ब्राह्मो लय उच्यते । तत्रा-
क्षीणपुण्यपापा एव लोकाः कालवशेन ब्रह्मशरीरं प्रवि-
शन्ति । तत्र मुखं ब्राह्मणाः, बाह्वन्तरं क्षत्रियाः,
ऊरुद्वयं वैश्याः, पादद्वयं शूद्राः । ततो निशावसाने
पुनर्ब्रह्मणः सृष्टिं चिन्तयतो मुखादिस्थानेभ्यः कर्मपुटा-
न्तरत्वाद्ब्राह्मणादयस्तत एव निःसरन्ति । तस्मिन्
प्रलये भुवो योजनमात्रवृद्धेर्विलयो नाखिलायाः । अथ
यदा ब्रह्मण आयुषोऽन्तस्तदा यः प्रलयः स महाप्रलय
उच्यते । तत्र ब्रह्मा ब्रह्माण्डे, तत् पाञ्चभौतिके,
भूर्जले, जलं तेजसि, तेजो वायौ, वायुराकाशे,
आकाशमहंकारे, अहंकारो महत्तत्त्वे, महत्तत्त्वं
प्रकृतौ । एवं सकलभुवनलोका अक्षीणपुण्यपापा
एवाव्यक्तं पविशन्ति । यदा भगवान् सिसृक्षुः प्रकृतिपुरुषौ
क्षोभयति । तदा तानि भूतानि कर्म्मपुटान्तरत्वात् प्रकृतेः
स्वत एव निःसरन्ति । यथाह श्रीविष्णुपुराणे पराशरो
जगदुत्पत्तिकारणम् । “प्रधानकारणीभूता यतो वै सृज्य-
शक्तय” इति सृज्यशक्तयस्तत्कर्माणि । तान्येव सृष्टौ मुख्यं
कारणम् । इतराणि निमित्तकारणानि । अन्यैरप्युक्तम् ।
“नाभक्तं क्षीयते कर्म कल्पकोठिशतैरपि” । “नह्यात्मनां
भवति कर्मफलोपभोगः कायाद्विनेत्यादि” । अस्मिन् प्रलये
ऽखिलायाभुवो नाश इत्यर्थः । तथा “ज्ञानाग्निदग्धाखि-
लपुण्यपापा योगिनो विषयेभ्यो मनः समादाय समाहृत्य
तद्धरौ समाहितं कृत्वा यान्ति देहं त्यजन्ति ।
अनिवृत्तिं यान्ति । स आत्यन्तिको लय इति” प्रमिता० ।

आत्ययिक त्रि० अत्ययः नाशः प्रयोजनमस्य ठक् । नाशप्रयो

जनके कर्मणि “अशिश्रवन्नात्ययिकं समेत्य” भट्टिः ।
“एकाकिनश्चात्ययिके कार्य्ये प्राप्ते भयप्रदे” मनुः ।
“कच्चिदात्यमिकं श्रुत्वा तदर्थमनुचिन्त्य च । प्रियाण्यनुभवन्
शेषे न त्वमन्तः पुरे नृप!” भा० स० प० ५ अ० ।

आत्रेय पु० अत्रेरपत्यम् ढक् । अत्रिमुनेरपत्ये तस्याप-

त्यानि बहूनि तेषु मन्वन्तरभेदे केचित् सप्तर्षिमध्य-
पातिनः यथा ५ मन्वन्तरे “वेदबाहुर्यदुघ्नश्च मुनिर्वेद
शिरास्तथा । हिरण्यरोमा पर्जन्य ऊर्द्ध्ववाहुश्च
सोमजः । सत्यनेत्रस्तथात्रेव एते सप्तर्षयोऽन्तरे” ।
८ मन्वन्तरे । “रामोव्यासस्तथात्रेषो दीप्निमानिति
विश्रुतः भारद्वाजस्तथाद्रौणिरश्वत्थामा महाद्युतिः ।
गोतमस्यात्मजश्चैव शरद्वान्नाम गौतमः । कौशिको दानवश्चेव
रुरुः काश्यप एव च । एते सप्त महात्मानो भविष्यामुनि-
सत्तमाः । ब्रह्मणः सदृशाश्चेति धन्याः सप्तर्षयः स्मृताः” ।
९ मन्वन्तरे । “मेधातिथिस्तु पोलस्त्यो वसुः काश्यप
एव च । ज्योतिष्मान् भार्गवश्चैव द्युतिमानङ्गिरास्तथा ।
सवनश्चैव वाशिष्ठ आत्रेयोहव्यवाहनः पौलहः सत्य
इत्येते मुनयो रौहितेऽन्तरे” । १० मन्वन्तरे “हविष्मान्
पौलहश्चैव सुकृतिश्चैव भार्गवः । आपोमर्त्तिस्तथा
ऽत्रेयो वाशिष्ठश्चाष्टकः स्मृतः । पौलस्त्यः प्रमतिश्चैव नभोग-
श्चैव काश्यपः । अङ्गिरा नभसः सत्यः सप्तैव परमर्षयः”
११ मन्वन्तरे । “हविष्मान् काश्यपश्चापि हविष्मान् यश्च
भार्गवः । तरुणश्च तथात्रेयो वासिष्ठस्तनयस्तथा ।
अङ्गिराश्चोदधिष्णश्च पौलस्त्योनिश्चरस्तथा । पौलहश्चाग्नि-
तेजाश्च भाव्याः सप्त महर्षयः” १२ मन्वन्तरे । “द्युतिर्व-
सिष्ठपुत्रश्च आत्रेयः सुतपास्तथा । अङ्गिरास्तमसोमूर्त्ति-
स्तपस्वी काश्यपस्तथा । पयोऽशनश्च पौलस्त्यः पौलहश्च
तपोरविः । भार्गवः सप्तमस्तेषां विज्ञेयश्च ततोधृतिः” ।
१३ मन्वन्तरे । अङ्गिराश्चैव धृतिमान् पौलस्त्यो हव्यपस्तु
यः । पौलहस्तत्त्वदर्शी च भार्गवश्च निरुत्सुकः । निष्-
प्रकम्पस्तथाऽऽत्रेयो निर्मोहः काश्यपस्तथा । सुतपाश्चैव
वासिष्ठः सप्तैते तु महर्षयः” १४ मन्वन्तरे । अग्नीध्रः
पृष्ठ ०६९२
काश्यपश्चैव पौलस्त्यो भार्गवस्तथा । भार्गवो ह्यतिबाहुश्च
शुचिराङ्गिरसस्तथा । शुक्रश्चैव तथात्रेयः शुक्रो वासिष्ठ
एव च । अजितः पौलहश्चैव अन्त्याः सप्तर्षयोमताः”
हरिवं० ७ अ० । तथा च मन्वन्तरभेदे सप्तर्षिमध्ये अत्रि-
पुत्रा सत्यनेत्रादयः । वैवास्वते तु मन्वन्तरे दत्तः दुर्वासाः
सोमश्चेति त्रय आत्रेयाः प्रसिद्धाः । ते च ब्रह्मेशा-
च्युतांशजाः तथोक्तम्” भाग० ४ स्क० १ अध्या० ।
“अत्रेःपत्न्यनसूया त्रीन् जज्ञे सुयशसः सुतान् । दत्तं
दुर्व्वाससं सोममात्मेशब्रह्मसंभवान् । श्रीविदूरौवाच ।
अत्रेर्गृहे सुरश्रेष्ठाः स्थित्युत्पत्त्यन्तहेतवः । किञ्चिच्चि-
कीर्षवीजाता एतदाख्याहि मे गुरो । श्रीमैत्रेयौवाच ।
ब्रह्मणा नोदितः सृष्टावत्रिर्ब्रह्मविदांवरः ।
सहपत्न्या ययावृक्षं कुलाद्रिं तपसिस्थितः । तस्मिन् प्रसून
स्तवकपलाशाशोककानने । वार्भिः स्रवद्भिरुद्घुष्टे
निर्व्विन्ध्यायाः समन्ततः । प्राणायामेन संयम्य मनो वर्ष
शतं मुनिः । अतिष्वदेकपादेन निर्द्वन्द्वोऽनिलभोजनः ।
शरणं तं प्रपद्येऽहं य एव जगदीश्वरः । प्रजामात्मस-
मां सह्यं प्रयच्छत्विति चिन्तयन् । तप्यमानम् त्रिभु-
वनम् प्राणायामैधसाग्निना । निर्गतेन मुनेर्मूर्द्ध्नः
समीक्ष्य प्रभवस्त्रयः । अप्सरोमुनिगन्धर्व्वसिद्धविद्याधरो-
रगैः । वितायमानयशसस्तदाश्रमपदं ययुः । तत्प्रादु-
र्भावसंयोगविद्योतितमना मुनिः । उत्तिष्वन्नेकपादेन ददृशे
विबुधषभान् । प्रणम्य दण्डवद्भूमावुपतस्थेऽर्हणाञ्जलिः ।
वृषहंससुपर्णस्थान्स्वैः स्वैश्चिह्नैः सुचिह्नितान् । कृपालोकेन
हसद्वदनेनोपलम्भितान् । तच्छोचिषा प्रतिहते निमील्य
मुनिरक्षिणी । चेतस्तत्प्रवणं युञ्जन्नस्तावीत् संहताञ्जलिः ।
श्लक्ष्णया सूक्तया वाचा सर्वलोकगरीयसः । अत्रिरु-
वाच । विश्वोद्भवस्थितिलयेषु विभज्यमानैर्म्मायागुणैरनुयुगं
विगृहीतदेहाः । ते ब्रह्मविष्णुगिरिशाः प्रणतोऽस्म्यहम्
वस्तेभ्यः कएव भवतां म इहोपहूतः । एकोमयेह
भगवान् विविधप्रधानैश्चित्तीकृतः प्रजननाय कथं नु यूयम् ।
अत्रागतास्तनुभृतां मनसोऽपि दूरा ब्रूत प्रसीदत महानि-
ह विस्मयोमे । श्रीमैत्रेयौवाच । इति तस्य वचः श्रुत्वा-
त्रयस्ते विबुधर्षभाः । प्रत्याहुः श्नक्ष्णया वाचा प्रहस्य
तमृषिं प्रभो! । श्रीदेवाऊचुः । यथा कृतस्ते
संकल्पोभष्यस्तेनैव नान्यथा । स ते सङ्कल्प्स्यते ब्रह्मन् यद्वै ध्या-
यति ते वयम् । अथास्मदंशभूतास्ते आत्मजालोक
विश्रुताः । भवितारोऽङ्ग भद्रन्ते विस्रप्स्यन्ति च ते
यशः । एवं कामवरं दत्त्वा प्रतिजग्मुः सुरेश्वराः ।
सभाजितास्तयोः सम्यग्दम्पत्योमिषतोस्ततः । सोमोऽभू-
द्ब्रह्मणोऽंशेन दत्तोविष्णोस्तु योगवित् । दुर्व्वासाः शङ्क-
रस्यांशोनिवोधाङ्गिरसः प्रजाः” । आत्रेयश्च शुक्लयजुः
सम्प्रदायप्रवर्त्तकः वंशगणनायाम् “भरद्वाज आत्रेयात्
आत्रेयोमाण्टेः” शत० ब्रा० पठितः स्त्रियां ङीप् ।
“आत्रेय्यस्मि” उत्तरच० शुक्लयजुषां सम्प्रदायप्रवर्त्तक
वंशगणनायाम् “आत्रेयीपुत्रादात्रेयीपुत्र इति” शत०
ब्रा० । “पुत्रमन्थनकर्मणः र्स्त्रासंस्काराङ्गत्वेनोक्तत्वात्
तत्सन्निघानादयं वंशः स्त्रीप्राधान्येनोच्यते” भा० ।
२ अत्रिगोत्रमध्ये श्रेष्ठे पु० । “आत्रेयाय चाग्नी-
ध्रवत्सदसःपुरस्तादुपविष्टाय क आत्रेयं क आत्रेय-
मिति त्रिरुक्त्वा” कात्या० १०, २, २१ । “आत्रेयाय अत्रि-
सगोत्राय अतिप्रवराय” वा कर्कः “आत्रेयाय हिरण्यं
ददाति” शत० ब्रा० । बहुषु ढकोलुक् अत्रयः अत्रि-
पुत्रेषु क्वचिन्न । “आगस्त्याश्च महाभागा आत्रेया-
श्चोत्तमव्रताः । सर्वस्य जगतः श्रेष्ठाः पूजिता ब्राह्म-
णास्तथा” भा० व० २१ अ० । तेषां श्रेष्ठत्वं च यज्ञे
अनिनृत्विद्भ्योऽपि तेभ्यो दक्षिणादानस्य” शत० ब्रा०
उक्तेः यथा “आत्रेयाय हिरण्यं ददातीत्युपक्रम्य
“अत्रिर्वा ऋषीणां होतासावैतत् स दोऽसुरतमसमभिपुप्रुवे
त ऋषयोऽत्रिमब्रुवन्ने हि प्रत्यङ् इदं तमोऽपजहीति
स एतत्तमोऽपाहन्नयं वै ज्योतिर्य इदं तमोऽपाबधी-
दिति तस्मा एतद्दक्षिणामनयन् ज्योतिर्हिरण्यं तद्वैस
तत्तेजसा वीर्य्येणर्षिस्तमोऽपजघानाथैष एतेनेवैतज्ज्यो-
तिषा तमोऽपहन्ति तस्मादात्रेयाय हिरण्यं ददातीति” ।
अत्रिप्रशंसया च तद्वंशजानां प्रशंसा । सचानृत्वि-
गेव “आत्रेयाय चाग्नीध्रवदित्यनन्तरम् “ऋत्विग्भ्यो
दक्षिणां ददातीति कात्या० सूत्रे” ऋत्विक्त्वविशेष-
णात् तत्पूर्बस्य अनृक्त्वमिति” कर्कः । ३ देहस्थरसभेदे” हेम०
४नदीभेदे स्त्री “करतोया तथात्रेयी लौहित्यश्च महानद”
भा० स० प० ९ अ० वर्ण्णिता । “आत्रेयीं वक्ष्यामो रजस्वला-
मृतुस्नातामात्रेयीमाहुः अत्रेत्येयामपत्यं भवतीत्यात्रेयी-
मिति” वशिष्ठोक्तनिर्वचनयुक्तायामृतुस्नातायां ५ स्त्रियां स्त्री
“हत्वा गर्भ मविज्ञातमेतदेव ब्रतं चरेत् । राजन्यवैश्यावी-
जानावात्रेयीमेव च स्त्रियम्” मनुः “आहिताग्नेर्ब्राह्मणस्य
हत्वा पत्नीमनिनिन्दिताम् । ब्रह्महत्याव्रतं कुर्य्यादात्रेयी-
घ्नस्तथैव च” अङ्गि० । “यागस्थक्षत्रविड्घाती चरेद्ब्रह्म-
पृष्ठ ०६९३
हनोव्रतम् । गर्भहा च यथावर्ण्णं तथात्रेयीनिसूदकः”
या० । आत्रेयोयमिति ज्ञात्वा तस्या वधे तु ब्रह्मह-
त्याब्रतद्विगुणव्रतम् कार्य्यम् ब्रह्महत्याव्रतमुक्त्वा “एवं
तु समभिज्ञातामात्रेयीं वा निपातयेत् । द्विगुणा ब्रह्म-
हत्या वै आत्रेयीनिधने भवेत्” भा० शा० प० १६५ अ०
उक्तेः । अश्वादि० भरद्वाजार्थे फञ् । आत्रेयायणः
भारद्वाजरूपे तद्गोत्रजे पुंस्त्री० । छागलशब्दात् आत्रेयार्थेअण् ।
छागल आत्रेयः अन्यः छागलिः सि० कौ० । आत्रेयो + स्वार्थे
कन् । आत्रेयिका ऋतुमत्यामृतुस्नातायां स्त्रियाम् स्त्री ।

आथर्वण पु० अथर्वणा मुनिना दृष्टो वेदः अण् आथर्वणः

तमधीते वेत्ति वा पुनः अण् । १ अथर्ववेदज्ञे ब्राह्मणे,
आथर्वणिकस्य धर्म आम्लायो वा अण् इकलो-
पश्च । २ अथर्ववेदिधर्म्मे ३ तदाम्नाये च । अथर्वाणं वेदम-
धीते वेत्ति वा अण् । ४ अथर्ववेदस्याध्येतरि ५ वेत्तरि च
तत्कल्पज्ञातरि ६ पुरोहिते पु० । तेषां समूहः अण् ।
७ अथर्वसमूहे न० । अथर्वणा प्रोक्तमधीयते अण् तस्य
तु बहुषु लुक् । अथर्वाण इत्येव । अथर्व्वणि विहितं
कर्म अण् । अथर्ववेदविहिते ८ अभिचारादौ कर्मणि
न “आथर्वणेन हन्ता च” स्मृतिः ९ तत्रत्ये कर्म्ममात्रे च
“अग्नौ साक्षिण्याथर्वणेन विधिनाऽर्प्यमणम्” दशकुमा० ।

आथर्वणिक त्रि० अथर्व्वाणं वेदमधीते वेत्ति ठक् दाण्ड्या०

नि० । अथर्ववेदपाठके विप्रे ।

आदंश पु० आ + दन्श--भावे यञ् । दंशने । “आदंशः

सर्वलूतानामेतदादंशलक्षणम्” सुश्रु० । आदंशश्च दन्तादि
साध्यव्यापारभेदः । आदश्यते अत्र आधारे घञ् ।
२ आदंशस्थाने “आदंशं स्वेदितं चूर्ण्णैः प्रच्छितं प्रति-
सारयेत्” सुश्रु० । करणे घञ् । ३ दन्ते

आददि त्रि० आ + दा--कि द्विश्च । आदानकर्त्तरि “बीलु

द्वेषा अनुवश ऋणमाददि” ऋ० २, २४, १३ ।

आदर पु० आ + दृ--कप । १ गौरवहेतुके कर्म्मणि सम्माने, ।

“न जातहार्द्देन न विद्विषादरः” किरा० “दरादराभ्यां
दरकम्पिनो पपे” नैष० । “तद्दर्शनादभूच्छम्भोर्भूयान्
दारार्थमादरः” कुमा० । २ आरम्भे ३ आसक्तौ । “तां
प्रणामादरस्रस्तजाम्बूनदविभूषणाम्” कुमा० । ४ यत्ने च
“ग्रहयन्त्रपताकाश्रीरपौरादरनिर्मिता” कुमा० ।

आदरणीय त्रि० आ + दृ--अनीयर् । सम्माननीये । तव्य ।

आदर्त्तव्योऽप्यत्र त्रि० ।

आदर्श पु० आदृश्यतेऽत्र दृश--आधारे घञ् । १ दर्पणे, तत्र हि

विम्बपदार्थस्य प्रतिविम्बपतनात्, तत्संयोगेन नयनरश्मीनां
परावर्त्तने वा विम्बग्राहितया विम्बं दृश्यते इति
तस्य तथात्वम् । “आदर्शविम्बस्तिमितायताक्षी” कुमा०
नेपथ्यदर्शिनश्छाया तस्यादर्शहिरण्मये” रघुः ।
आदृश्यते सम्यग्रूपेण ज्ञायते ग्रन्थार्थोऽस्मिन् । टीकायां
३ प्रतिरूपपुस्तकादौ यत्रत्यमक्षरसन्निवेश द्वष्ट्वा तदनुरूप
मन्यल्लिख्यते तादृशे पुस्तके । “यथादर्शं तथा लिखित
मिति भूरिप्रयोगः । आदर्शोगुणानाम् काद० । तत्र
तदीयगुणान् द्वष्ट्वा परैस्तथागुणा आश्रीयन्त इति तस्य
तथात्वम् ४ जनपदसोमाभेदे च । ततोभवादौ वुञ् ।
आदर्शकः । जनपदावधिसूचकस्थानभवे त्रि० ।

आदर्शमण्डल पु० आदर्शैव मण्डलमस्य । आदर्शाकार

मण्डलयुक्ते सर्पभेदे सर्पभेदानुक्त्वा । “मण्डलनिनस्तु
आदर्शमण्डलः श्वेतमण्डलः” इति सुश्रु० उक्तः ।
आदर्शोमण्डलमिव । २ मण्डलाकारे दर्पणे न० ।

आदहन न० आ + दह--भावे ल्युट् । १ दाहे २ हिंसायां

३ कुत्सने च । आदह्यतेऽत्र आधारे ल्युट् । ४ श्मशाने ।
“अर्द्धमादहनं प्राप्त आसीनोदक्षिणामुखः” छन्दो० प० ।
“आदह्यतेऽस्मिनिति आदहनं श्मशानम्” शु० त० रघु० ।

आदातृ त्रि० आ + दा--तृच् । ग्रहीतरि “दाता नित्यमना

दाता सर्वभूतानुकम्पकः” या० आदाननित्याच्चादातुः” मनुः ।

आदादिक त्रि० अदादिगणे पठितः ठक् । अदादिगणपठिते

धातुभेदे । “आदादिकस्य ग्रहणं” सि० कौ० ।

आदान न० आ + दा--भावे ल्युट् । ग्रहणे । “कुशाङ्कुरादान

परिक्षताङ्गुली” कुमा० । “आदानं हि विसर्गाय सतां
वारिमुचामिवं” रघुः । “आदानमप्रियकरं दानञ्च प्रिय-
कारकम्” “आदाननित्याच्चादातुः” “निन्दितेभ्योध-
नादानं बाणिज्यं शूद्रसेवनम्” मनुः आदाने नियमविशे-
षाश्च स्मृतौ दर्शिताः । “भूमेः प्रतिग्रहं कुर्य्याद्भूमेः
कृत्वा प्रदक्षिणम्” । विष्णुध० । प्रदक्षिणं न सर्ब्बस्या भूमेः
किन्तु तत्रस्थायाः प्रदक्षिणावर्त्तनमात्रं भूमेरसन्निधाने
तामुद्दिश्य प्रदक्षिणम् रघु० तत्रैव । “करे गृह्य तथा कन्यां
दासदास्यौद्विजोत्तमाः! । करन्तु हृदि विन्यस्य धर्म्म्योज्ञेयः
प्रतिग्रहः । आरुह्य च गजस्योक्तः कर्णे चाश्वस्य कीर्त्तितः ।
तथाचैकशफानान्तु सर्व्वेषामविशेषतः । प्रतिगृह्णीत गां
पुच्छे पुच्छे कृष्णाजिनं तथा । आरण्याः पशवश्चान्ये
ग्राह्याः पुच्छे विचक्षणैः । प्रतिग्रहमथोष्ट्रस्य आरुह्य च
तथा चरेत् । वीजानां मुष्टिमादाय रत्नान्यादाय सर्व्वतः ।
पृष्ठ ०६९४
बस्त्रं दशान्तमादद्यात् परिधाय तथा पुनः । आरुह्यो-
पनाहौ यानमारुह्यैव च पादुके । ईशायान्तु रथो ग्राह्य
श्छत्रदण्डौ च धारयेत् । आयुधानि समादाय तथा
भूष्यं विभूषणम् । धर्म्मध्वजौ तथा स्पृष्ट्वा प्रविश्य च तथा
गृहम् । अवतीर्य च सर्व्वाणि जलस्थानानि वै द्विजाः! ।
द्रव्याण्यन्यान्यथादाता स्पृष्ट्वा योब्राह्मणः पठेत् । प्रति-
ग्रहीता सावित्रीं सर्वत्रैव प्रकीर्त्तयेत् । ततस्तु सार्द्धं
द्रव्येण तस्य द्रव्यस्य दैवतम्” । भूमिर्विष्णुदेवताकेत्यादि
कीर्त्तयेदित्यर्थः । “समापयेत्ततः पश्चात् कामस्तुत्या प्रति-
ग्रहम् । विधिं धर्म्ममथोज्ञात्वा यस्तु कुर्य्यात् प्रतिग्रहम् ।
दात्रा सह तरत्येव कालदुर्गाणि वै द्विजः” । विष्णुध०
“गां पुच्छे करिणं करे” मिता० वाक्यस्य प्रथमं करे गृहीत्वा
पश्चादारोह इत्यर्थः एवमन्यत्र विरोधः समाधेयः ।
आदीयते औषधार्थं वैद्यैः आ + दा--कर्मणि ल्युट् ङीप् ।
२ हस्तिघोषायां स्त्री रत्नमाला ।

आदाय अव्य० आ + दा--ल्यप् । गृहीत्वेत्यर्थे “तेषां सर्व्व-

स्वमादाय राजा राष्टात् प्रवासनम्” मनुः । आ +
दाभावे घञ् । २ आदाने पु० ।

आदायचर त्रि० आदाय चरति चर--ट उप० स० ।

गृहीत्वा चारिणि । “द्विषन् वनेचराग्र्याणां त्वमादाय-
चरोवने” भट्टिः ।

आदायिन् त्रि० आ + दा--णिनि स्त्रियां ङीप् । ग्रहीतरि

“योऽदत्तादायिनो हस्ताल्लिप्सेत ब्राह्मणोधनम् ।
याजनाध्यापनेनापि यथा स्तेनस्तथैव सः” मनुः ।

आदार पु० आ + दृ--वेदे बा० घञ् । आदरे “आदारो वा

सभानाम्” ऋ० १, ४६, ४ ।

आदारिविम्बी स्त्री आदारिणी विम्बीव नि० पुंवत् । (आनेरी)

अम्लवेतसतुल्यपुष्पायां लतायां “आदारिविम्बीं सुकदम्ब
पुष्पीं विपाच्य सर्पिर्विपचेत् कषाये” सुश्रु० ।

आदि पु० प्रथमं दीयते गृह्यते आ + दा--कि । १ प्रथमे,

२ प्राक्सत्तायाम्, ३ कारणे, ४ सामीप्ये, ५ प्रकारे, ६ अवद्धवे
च । ७ आद्ये त्रि० अमरः । “जगदादिरनादिस्त्वम्”
कुमा० । “अपएव ससर्जादौ तासु वीजमवासृजत्” ।
“वेदशब्देभ्यएवादौ पृथक्संस्थाश्च निर्म्ममे” “मरीच्यादींस्तथा
मुनीन्” इति च मनुः । “कथमेतत् विजानीयां त्वमादौ
प्रोक्तवानिति” । “अहमादिश्च भूतानाम्” इति च
गीता । “भूवादयोधातवः” पा० । भूश्च वाश्च भूवौ
आदिश्च आदिश्च आदी भूवौ आदी येषाम् आद्य आदि
शब्दःप्रभृत्यर्थः द्वितीयःप्रकारार्थस्तेन भूप्रभृतयोवाप्रकाराः
क्रियावाचित्वेन धातवैत्यर्थः । एवमेव वैया० भू० ।
आदिशब्देन गणोऽपि सूच्यते । “भ्वाद्यदादी जुहोत्यादि-
र्दिवादिः स्वादिरेव च । तुदादिश्च रुधादिश्च तनक्र्यादि
चुरादयः” व्या० कारिका । तत्र भवः दिगा०
यत् । आद्यः डिमच् । आदिमः । आदिभवे त्रि० ।

आदिकर त्रि० आदिं करोति अहेतादावपि ट स्त्रियां

ङीप् । प्रथमकारके प्राक्सत्ताकर्त्तरि ।

आदिकर्त्तृ पु० आदिः कर्त्ता । आद्यकारके ईश्वरे “कस्माच्च

ते न नमेरन् महात्मन्! गरीयसे ब्रह्मणोऽप्यादिकर्त्त्रे”
गीता ।

आदिकर्म्मन् न० कर्म्म० स० । १ क्रियाकूटात्मकस्य कर्मणोऽ-

वयवभूते प्रथमे कर्म्मणि प्रथममारभ्यमाणक्रियायाम् ।
“उदुपधाद्भ्वादेर्विभाषा भावादिकर्मणोः” “भावादिकर्म्म
णोरन्यतरस्याम्” “आदिकर्म्मणि क्तः कर्त्तरि च” पा० ।
२ प्रथमजे कर्म्ममात्रे च । ब० । ३ त याकर्म्मयुक्ते त्रि० ।

आदिकवि पु० आदिराद्यःकविः । हिरण्यगर्मेतस्य प्रथमो-

त्पन्नत्वात् स्वयंप्रतिभातवेदत्वाच्च कवितया तथात्वम् ।
“तेने ब्रह्म हृदा य आदिकवये” भाग० । २ वाल्मीकौ च ।

आदिकारण न० आद्यं कारणम् । १ परमेश्वरे तदधीनत्वात्

इतरकारणानाम् स हि प्रथसं स्वोपाधिभूताविद्यषा
सृज्यमानजीवादृष्टवशादिदमित्थं कर्त्तव्यमिति ईक्षणपूर्ब्बकं
स्रष्टव्यपदार्थाकारेण विवर्त्तमानः सूक्ष्मभूतानि प्रथममुत्-
पाद्य ततः स्थूलभूतानि भौतिकानि च सजर्जेत्यागमसिद्धम्
इति वेदान्तिनः । सांख्यमते २ प्रधाने प्रधानं हि मूलकारणं
तस्यैव महदाद्याकारेण परिणमनात्तथात्वम् । नैया-
यिकादिमते कारणशब्दस्य निमित्तार्थत्वे ईश्वरस्यैव
तथात्वम् । समयायिकारणार्थत्वेपरमाणूनां मूलकारणत्वमिति
भेदः इति तेन तन्मते ३ ईश्वरे ४ परमाणषु च ।

आदिकाव्य न० आदि आद्यं काव्यं पादचतुष्ठयरूपच्छन्दोबद्धं

वाक्यम् । बाल्मीकिरचिते रामायणे तस्य चाद्यकाव्यत्वं
दर्शितं तत्रैव आदिका० २ सर्गे “ददर्श क्रौञ्च-
योस्तत्र मिथुनं चारुदर्शनम् । तस्माच्च मिथुनादेकमाग-
त्यानुपलक्षितः । जघान बद्धानुशयो निषादो मुनिसं-
निधौ । तं शोणितपरीताङ्गं चेष्टभानं महीतले ।
दृष्ट्वा क्रौञ्ची रुरोदार्ता करुणं खेपरिभ्रमा । तं तथा निहतं
दृष्ट्वा निषादेनाण्डजं वने । मुनेः शिष्यसहायस्य कारुण्यं
समजायत । ततः करुणवेदित्वाद्धर्म्मात्मा स द्विजोत्तमः ।
पृष्ठ ०६९५
निशम्य करुणं क्रौञ्जीं रुदतीं तां जगाविदम् । मा
निषाद! प्रतिष्ठां त्वमगमः शाश्वतीःसमाः । यत्क्रौञ्चमिथुना-
देकमबधीः काममोहितम् । तस्येदमुक्त्वा वचनं चिन्ताभूत्
तदनन्तरम् । शकुनं शोचता ह्येवं किमतेद्व्याहृतं मया
मुहूर्त्तमिव च ध्यात्वा वाक्यं तत् प्रविमृष्य च । शिष्यमाह
स्थितं पार्श्वे भारद्वाजमिदं वचः । पादैश्चतुर्भिः संयुक्तमिदं
वाक्यं समाक्षरैः । शोचतोक्तं मया यस्मात् तस्माच्छ्लोको
भवत्विति” । एवं चिन्तयतस्तस्याश्रमे स्वयं ब्रह्मणागत्यो-
पदिष्टम् । “महर्षे! यदथं प्रोक्तस्त्वया क्रौञ्चबधाश्रयः ।
श्लोक एवास्त्वयं बद्धस्तव वाक्यस्य शोचतः । स्वच्छन्दा-
देव ते ब्रह्मन्! प्रवृत्तेयं सरस्वती । रामस्य चरितं कृत्स्नं
कुरुत्वमृषिसत्तम”! इत्युपदिष्टस्य वाल्मोकेः रामायणरचने-
मतिरभूत् यथाह तत्रैव । “तस्य बुद्धिरभूत् तत्र वाल्मी-
केरथ धीमतः । कृत्स्नं रामायणं श्लोकैरीदृशैः करवाण्य-
हम्” इत्येवमभिनिवेशं कृत्वा कृत्स्नं रामायणं कृतमिति
सर्गशेषे तत्रैवोक्तम् “ततः स रामस्य चकार कीर्तिमान् ।
समाक्षरैः श्लोकशतैर्यशस्विनो यशस्करं काव्यमुदा-
रधीः परम्” । इह लोके चतुष्पादश्लोकस्यादौ तेनैव प्रचा-
रणात् तत्कृतकाव्यस्यादिकाव्यत्वम् । वेदे तु बहूनामनुष्टु-
प्छन्दस्कानां श्लोकानां सत्त्वेऽपि लोके प्रथमप्रचारा
भावात्तस्याद्यत्वम् । तेन “ईशा वास्यमिदं सर्व्वं यत् किञ्च
जगत्यां जगत् । तेन त्यक्तेन भुञ्जीथा मा गृधः कस्य
स्विद्धनम्” इत्युपक्रमे “असुर्यानाम ते लोका अन्धेन तमसा
वृताः । तांस्ते प्रेत्याभिगच्छन्ति ये के चात्महनो जनाः”
इत्यादयः श्लोकाः शु० य० वे० ४० अध्याये पठिताः ।
एवम् ऋग्वेदादावपि बहबः तथाविधाः सन्ति” तथा
च वेदे सत्त्वेऽपि लोके तेन प्रथमप्रचारणात्तस्याद्यका-
व्यत्वम् । यत् तु उत्तरचरिते “चित्रमाम्नायाद-
न्याऽयं नूतनश्छन्दसामवतार” इति वर्ण्णितम् तत् यथा
श्रुतार्थेऽसङ्गतमेव । अन्यः लोकसिद्धवाक्यादित्यध्याहारेण
आम्नायात् आम्नायं वेदं मूलत्वेन प्राप्य छन्दसां
नवावतारैति व्याख्याने तु न कोऽपि दोष इति युक्तम् ।

आदिकेशव पु० कर्म्म० काशीस्थे केशवमूर्त्तिभेदे “आदिकेशव

पूर्ब्बेण स्वयमादित्यकेशवः” “आदिकेशवमुख्यांश्च
केशवान् परितोष्य च” इति च काशी० ।

आदिगदाधर पु० १ काशीस्थे विष्णुमूर्त्तिभेदे “दत्तात्रेये-

श्वरात् पूर्ब्बमेष आदिगदाधर” इति काशी० ३६ अ० ।
२ गयातीर्थस्थे विष्णुसूर्त्तिभेदे च । “आद्येन गदया चासौ
यस्माद्दैत्यः स्थिरीकृतः । स्थित इत्येव हरिणा तस्मादादि
गदाधरः” इति वायु० गया० २ अ० तन्नामनिरुक्तिः उक्ता ।
“गयाशिरश्छादयित्वा गुरुत्वादास्थिता शिला । काला-
न्तरेण व्यक्तश्च स्थित आदिगदाधरः । तथा व्यक्तोऽव्यक्त
रूपी आसीदादौ गदाधरः । आदिरादौ पूजितोऽत्र
देवैर्ब्रह्मादिभिर्यतः । पाद्यार्घगन्धपुष्पाद्यैरत आदि
गदाधरः” इति गारु० पु० निरुक्तिः । “आगत्य विष्णुः
क्षीराब्धेः शिलायां संस्थितोऽभवत् । शिलायां निश्चलत्वाय
स्वयमादिगदाधरः” वायुपुराणम् ।

आदिजिन पु० कर्म० स० । ऋषभदेवे हेम० ।

आदितस् अव्य० आदि + तसि । १ आदौ इत्यर्थे “पतीन्

प्रजानामसृजन्महर्षीनादितोदश” मनुः । आद्या० पञ्चम्या-
स्तसिः । २ आदेरित्यर्थे च । “इदं शास्त्रन्तु कृत्वादौ मामेव
स्वयमादितः” मनुः आदित आदिमारभ्येत्यर्थः ।

आदिताल पु० कर्म्म० । “एकएव लघुर्यत्र आदितालः स

लथ्यते । गुरुस्तत्परतोवाच्यः प्रायेणैतन्निदर्शनम्” सङ्गी-
तशास्त्रलक्षिते तालभेदे ।

आदितेय पु० अदित्या अपत्यम् ढक् । १ सुरमात्रे २ सूर्य्ये

च अदितिजशब्दे विवृतिः पृ० २१५ । “यदेनमदधुर्यज्ञि-
यासो दिवि देवाः सूर्य्यमादितेयम्” ऋ० १०, ८८, ११ ।

आदित्य पु० अदितेरपत्यं ण्य । १ देवमात्रे “तस्मा आदित्याश्च

विश्वे च देवास्तृतीयसवने संप्रयन्ति” छा० उ० ।
२ सूर्य्ये च “आदित्योब्रह्मेत्यादेशः” छा० उ० “जिगी-
षुरेष दिनकृदादित्येष्विवकल्पते इति” माघः । “अमी-
च कथमादित्याः प्रतापक्षतिशीतलाः” कुमा० । ३
तदधिष्ठिते गगने दिवानिशं बंभ्रम्यमाणे लोकप्रकाशकरे तेजो
मण्डले च “अग्नौ प्रस्ताहुतिः सम्यगादित्यमुपतिष्ठते ।
आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः” मनुना
अग्निहुतद्रव्याणां हविराज्यादीनां परमाणु मात्रतयाऽव-
स्थितानां दग्धशेषाणां सूर्य्यरश्मिनाकर्षणेन सूर्य्यलोक-
प्राप्त्या वृष्टिहेतुत्वमुक्तम् तच्च मण्डलार्थपरत्वएव सम्भवति
“अथ यदेतदादित्यस्य शुक्लं भाः सैवर्गथ यन्नीलं परः कृष्णं
तत्साम” “अथ यदेवैतदादित्यस्य शुक्लं भाः सैव सा, अथ
यन्नील कृष्णं तदम” इति च छा० उ० । अत्र शुक्लकृष्णभा-
युक्ततया मण्डलपरत्वं गम्यते । “असौ वा आदित्यो देवमधु”
छा० उ० अत्र च मण्डलपरत्वम् उत्तरत्र आकाशे रश्मि सम्बन्ध
कीर्त्तनात् स्पष्टमेव । “ज्योतिश्चरणाभिधानात्” शा० सू०
भाष्ये च चक्षुर्वृत्तेर्निरोधकं शार्व्वरादिकं तमौच्यते तस्या
पृष्ठ ०६९६
एवानुग्राहकमादित्यादिकं ज्योतिः” इत्यादित्यस्य चक्षुर्वृ-
त्तेरनुग्राहकतथा ज्योतिःपदार्थपरत्वमुक्तम् । ४
आदित्यमण्डलार्न्तर्गते हिरण्यवर्ण्णे परमपुरुषे” विष्णौ
“स्वयंभूः शम्भुरादित्यः” विष्णुस० । विष्णोश्चादित्य-
शब्दवाच्यत्वे कारणमुक्तंभाष्येयथा “आदित्यमण्डला-
न्तःस्थोहिरण्मयः पुरुष आदित्यः, द्वादशादित्येषु विष्णुर्वा,
“आदित्यानामहं विष्णुरिति” स्मृतेः, अदितेरखण्डिताया
महत्या अयं पतिरिति वा “इयं वा अदितिर्मही” “देवी
विष्णुपत्नीति” श्रुतेः यथादित्यएकएवानेकजलेष्वनेकवत्
प्रतिभासते एवमनेकेषु शरीरेषु एकएवानेकवत् प्रति-
भासत इत्यादित्यसाधर्म्म्याद्वा आदित्यः” तत्र हिरण्म
यपुरुषस्य सूर्थ्यमण्डलमध्यवर्त्तित्वे च “य एषोऽन्तरा-
दित्ये हिरण्मयः पुरुषोदृश्यते हिरण्यश्मश्रुः हिरण्यकेश
आप्रणखात् सर्वएव सुवर्णः” इति छो० उ० श्रुतिर्मानम्
“अथ य एषो ऽन्तरादित्ये आदित्यस्यान्तर्मध्ये हिरण्मयो
हिरण्मय इव हिरण्मयो नहि सुवर्णविकारत्वम् देवस्य
सम्भवति, ऋक्सामगेष्णत्वापहतपाप्मत्वासम्भवात् । नहि
सोवर्णेऽचेतने पाप्मादिप्राप्तिरस्ति येन प्रतिषिध्येत
चाक्षुषे चाग्रहणात् । अतो लुप्तोपम एव हिरण्मयशब्दो
ज्योतिर्म्मय इत्यर्थः । उत्तरेष्वपि समाना योजना ।
पुरुषः पुरि शयनात्, पूरयति वा स्वेनात्मना जगदिति ।
दृश्यते निवृत्तचक्षुर्भिः समाहितचेतीभिर्ब्रह्मचर्य्यादिसा-
धनापेक्षैः । तेजस्विनोऽपि श्मश्रुकेशादयः कृष्णाः स्युरित्यतो
विशिनष्टि हिरण्यश्मश्रुर्हिरण्यकेश इति । ज्योतिर्म-
यान्येवास्य श्मश्रूणि केशाश्चेत्यर्थः” शाङ्करभाष्यम् ।
उपासकानामतिवाहनाय ईश्वरनियुक्ते अर्च्चिरादिमार्गस्थिते
आतिवाहिके५ देवभेदे च “संवत्सरादादित्यमादित्याच्चन्द्रमसम्”
छा० उ० । आदित्याश्च द्वादश यथोक्तं विष्णुधर्मोत्तरे भारते
च “घाता मित्रोऽर्य्यमा रुद्रो वरुणः सूर्य्यएव च । भगो
विवस्वान् पूषा च सविता दशमः स्मृतः । एकादशस्तथा
त्वष्टा विष्णुर्द्वादश उच्यते” इति विष्णुध० । “धाता-
र्य्यमा च मित्रश्च वरुणोऽंशुर्भगस्तथा । इन्द्रो विवस्वान्
पूषा च पर्ज्जन्यो दशमः स्मृतः । ततस्त्वष्टा ततो विष्णु-
रजघत्यो जघन्यज” इति भा० आ० प० कल्पभेदादनयोर्व्य-
वस्था । मासभेदे आदित्यभेदा आदित्यहृदये दर्शिता यथा
“अरुणो माघमासे तु सूर्य्यो वै फाल्गुने तथा । चैत्रे मासि
च वेदज्ञो वैशाखे तपनः स्मृतः । ज्यैष्ठे मासि तपेदिन्द्रः
आषाढे तपते रविः । गभस्तिः श्रावणे मासि यमोभाद्रपदे
तथा । इषे हिरण्यरेताश्च कार्त्तिके च दिवाकरः । मार्ग-
शीर्षे तपेच्चित्रः पौषे विष्णुः सनातनः । इत्येते द्वादशा-
दित्याः काश्यपेयाः प्रकीर्त्तिताः” । ६ अर्कवृक्षे पु० ।
आदित्यस्यापत्यम् ण्य यलोपः । ७ आदित्यापत्ये पुंस्त्री० ।

आदित्यकेतु पु० धृराष्ट्रपुत्रभेदे तद्गणनायां भा० आ० प०

६७ अ० । “आदित्यकेतुर्बह्वाशी नागदत्तानुयायिनौ”
६ त० । आदित्यस्य केतौ अरुणे ।

आदित्यकेशव पु० आदित्यपूजितः केशवः । काशीस्थे “केशव-

मूर्त्तिभेदे “आदिकेशवपूर्व्वेण स्वयमादित्यकेशवः” काशीख० ।

आदित्यपत्र पु० आदित्यस्य अर्कवृक्षस्य पत्रमिव पत्रमस्य ।

क्षुपभेदे । ६ त० । अर्कवृक्षपत्रे न० ।

आदित्यपर्णिनी स्त्री आदित्यवर्ण्णं नित्यं पर्णमस्त्यस्या इनि ।

“मूलिनी पञ्चभिः पत्रैः सुरक्ता शुककोमलैः । आदित्य-
पर्ण्णिनी ज्ञेया सदादित्यानुवर्ण्णिनी” “आदित्यपर्ण्णिनी
ज्ञेया तथैव हि हिमक्षये” सुश्रुतोक्तलक्षणायामोषधौ ।

आदित्यपुराण न० आदित्येनोक्तं पुराणम् । उपपुराणभेदे ।

उपपुराणगणनायाम् “माहेश्वरं तथा साम्बं सौरं पारा-
शराह्वयम्” । कौर्म्मे सौरत्वेनदं पठितम् । मत्स्यपुराणे तु
“यत्रसाम्बं पुरस्कृत्य भविष्योत्थकथानकम् । प्रीच्यते तत्
पुनर्लोके साम्बमेव शुचिव्रतम् । एवमादित्यसंज्ञं च तत्रैव
परिपठ्यते” आदित्यसंज्ञमित्युक्तं देवीपु० “पराशरोक्तमपरं
मारीचं भास्कराह्वयम्” भास्करत्वेनोक्तं तथा चादित्य-
पुराणस्यैव नामान्तरं सौरं भास्करञ्चेत्यादि । अधिकमुप-
पुराणशब्दे वक्ष्यते । एतदीयप्रतिपाद्यविषयाः
सौरशब्दे दृश्याः ।

आदित्यपुष्पिका स्त्री आदित्यवर्ण्णं रक्तं पुष्पमस्याः । रक्त-

पुष्पे अर्कवृक्षे ।

आदित्यभक्ता स्त्री आदित्येभक्ता । (हुढुड़िया) अर्कवल्लभायाम् ओषृधौ ।

आदित्यव्रत न० आदित्यस्य तदुपासनार्थं व्रतम् । सूर्य्यो-

पासनार्थे व्रतभेदे । आदित्यव्रतस्य ब्रह्मचर्य्यमस्य ठञ् ।
आदित्यव्रतिकः तद्व्रतार्थब्रह्मचर्य्ययुक्ते त्रि० ।

आदित्यसूनु पु० ६ त० । सूर्य्यपुत्रे १ सुग्रीवे २ कर्ण्णे,

३ यमे ४ शनैस्वरे च अरुणात्मजशब्दे विवृतिः पृ० ।

आदित्सु पु० आ + दा--सन्--उ । ग्रहीतुमिच्छौ, “आदित्सुभि

र्नूपुरशिञ्जितानि” कुमा० ।
"https://sa.wikisource.org/w/index.php?title=वाचस्पत्यम्/आतृण्ण&oldid=315196" इत्यस्माद् प्रतिप्राप्तम्