पृष्ठ ०७६८

आमोद पु० आमोदयति आ + मुद--णिच्--अच् । १ अतिदूरने

गन्धे “आमोदमुपजिघ्रन्तौ स्वनिश्वासानुकारिणौ” रघुः
“आमोदकर्म्मव्यतिहारमीयुः” माघः । उत्तमस्त्रीणां
२ मुखनिश्वासादिगन्धे च । “मुखामोदं मदिरया कृतानु-
व्याधमुद्गिरन्” माघः । आ + मुद--घञ् । ३ प्रहर्षे
ल्युट् । आमोदनमप्यत्र न० ।

आमोदन त्रि० आ + मुद--णिच् ल्यु । प्रहर्षजनके सुगन्धि-

सम्पादने “अभुञ्जतामोदनमोदनं जनाः” नैष० । भावे
ल्युट् । १ प्रहर्षसम्पादने २ सुगन्धसम्पादने च ।

आमोदित त्रि० आ + मुद--णिच्--क्त । १ प्रहर्षिते २ कृतामोदे

३ सुरभीकृते च ।

आमोदिन् त्रि० आमोदयति सुरभीकरोति आमोद + कृत्यर्थे

णिच्--णिनि । मुखवासने १ कर्पूरादौ । आमोद + अस्त्यर्थे
इनि । २ आमोदयुक्ते स्त्रियां ङीप् । “नवकुटजव-
नस्यामोदिनो गन्धवाहाः” ।

आमोष त्रि० आमुष्णाति--आ + मुष--पचाद्यच् । सम्यगपहा-

रके चौरादौ । आ + मुष--भावे घञ् । २ अपहरणे । “यथा
बिभ्यदामोषमीयात्” शत० ब्रा० ।

आम्नात त्रि० आ + म्ना--क्त । १ सम्यगभ्यस्ते २ सम्यगधीते

वेदादौ । ३ कथिते च “समौ हि शिष्टैराख्यातौ” माघः
भावे क्त । ४ सम्यगभ्यासे न०

आम्नातिन् त्रि० आम्रातमनेन इष्टा० इनि । १ कृत वेदाद्यभ्यासे

२ कृतवेदाध्ययने च स्त्रियां ङीप् । “आम्नातिभिर्नीतिषु
बुद्धिमद्भिः” भट्टिः ।

आम्नान न० आ + भावे ल्युट् । १ वेदादिपाठे २ तदभ्यासे च

“विष्णु र्वामावास्यायां हीत्राम्नानात्” कात्या० ३, ३, २५ ।

आम्नाय पु० आ + म्ना--घञ् । १ सम्यगभ्यासे २ सम्यक्पाठे च

अभ्यासस्य सम्यक्त्वं च नियमधारणपूर्व्वकत्वं गुरुमुखश्र-
वणपूर्ब्बकत्वञ्च । कर्म्मणि घञ् । ३ वेदे “आम्नायस्य क्रिया-
र्थत्वादानार्थक्यमतदर्थानाम्” जैमि० “आम्नाये स्मृतितन्त्रे
च” रघु० धृतपु० । “आम्नायवचनं सत्यमित्ययं लोकिसंग्रहः-
आम्नायेभ्यः पुनर्वेदाः प्रसृताः सर्वतोमुखाः
भा० शा० २६१ अ० ।

आम्बरीषपुवक पु० अम्वरीषपुत्र + चतुरर्थ्यां राजन्या० वुञ् । अम्बरीषपुत्रविषयादौ ।

आम्बष्ठ पुं स्त्री० अम्बष्ठस्यापत्यम् शिवा० अण् । अम्बष्ठापत्ये

ञ्यञ् । आम्बष्ठ्यः । स्त्रियाम् चाप् ।

आम्बिकय पु० अम्बिकाया अपत्यं शुभ्रा० ढक् । विचित्रवी-

र्य्य स्य क्षेत्रे काशिराजस्य मध्यमकन्यायाम् अम्बिकायां व्यासे-
नोत्पादिते १ धृतराष्ट्रे स हिअकाले दिवं गतस्य विचित्र
वीर्य्यस्य अम्बिकाम्बालिकयोःपत्न्योर्मध्ये अम्बिकायां ज्ये-
ष्ठभाय्यायां सत्यवत्यानियुक्तेन व्यासेनोत्पादितः तत्कथा
यथा “ततोऽम्बिकायां प्रथमं नियुक्तः सत्यवागृषिः । दीप्य-
मानेषु दीपेषु शरणं प्रविवेशह । तस्य कृष्णस्य कपिला जटा
दीप्ते च लोचने । बभ्रूणि चैव श्मश्रूणि दृष्ट्वा देवी न्यमील-
यत् । संबभूव तया सार्द्धं मातुः प्रियचिकीर्षया । भयात्
काशीसुता तन्तु नाशक्नीदभिवीक्षितुम् । ततो निष्क्रान्त
मागत्य माता पुत्रमुवाच ह । अप्यस्यां गुणवान् पुत्रोराज-
पुत्रो भविष्यति? । निशम्य तद्वचोमातुर्व्यासः सत्यवतीसुतः ।
प्रोवाचातीन्द्रियज्ञानो विधिना संप्रचोदितः । नागायुत-
समप्राणो विद्वान् राजर्षिसत्तमः । महाभागो
महौदार्य्यो महाबुद्धिर्मविष्यति । तस्य चापि शतं पुत्रा
भविष्यन्ति महात्मनः । किन्तु मातुः स वैगुण्यादन्ध एव
भविष्यति” इत्युपक्रम्य पाण्डुविदूरोत्पत्तिमुपवर्ण्ण्य च
“एते विचित्रवीर्य्यस्य क्षेत्रे द्वैपायनादृषेः । जज्ञिरे
देवगर्भाभाः कुरुवंशविवर्द्धनाः” इत्युक्तम् भा० आ० प० १० ६
अ० । अम्बिकायाश्च यथा विचित्रवीर्य्यभार्य्यात्वं तथोक्तं
अम्बाशब्दे ३२८ पृष्ठे “आम्बिकेयेन ददृशे राज्ञा दुर्य्योघनेन
च” भा० व० प० १२ अ० “परं श्रेयः पाण्डवेया! यथाह
भीष्मस्तन्न श्रुतवानाम्बिकेयः” भा० व० प० ५ अ० ।
अम्बिकायाः पार्व्वत्या अपत्यम् ढक् । २ कार्त्तिकेये । तस्य
तदुत्पत्तिकथा अग्निकुमारशब्दे ६५ पृष्ठे दृश्या ।

आम्भसिक पु० आम्भसा वर्त्तते ठक् । मत्स्ये सि० कौ० ।

आम्भि त्रि० अम्भसो जातादि बाह्वा० इञ् सलीपश्च ।

अम्भोजातादौ ।

आम्र पु० अम--गत्यादिषु रन् दीर्घश्च । १ स्वनामख्याते

वृक्षे तस्य फलम् अण् तस्य लुक् । २ तत्फले च न० ।
आम्रस्य फलपुष्पादिगुणा उक्ता भा० प्र० । यथा “आम्र-
पुष्पमतीसारकफपित्तप्रमेहनुत् । असृग्दुष्टिहरं शीतं
रुचिकृत् ग्राहि वातलम् । आम्रं बालं कषायाम्लं रुच्यं
मारुतपित्तकृत् । तरुणं तु तदत्यम्लं रूक्षं दोषत्रया
स्रकृत् । आम्रमामं त्वचा हीनमातपेऽती व शीषितम्
अम्लं स्वादु कषायं स्याद्भेदनं कफवातजित् । पक्वन्तु
मधुरं वृष्यं सिग्धं शुक्रबलप्रदम् । गुरु वातहर हृद्यं
बल्यं शीतमपित्तलम् । कषायानुरसं यह्निश्लेष्मशुक्र-
विवर्द्धनम् । तदेव वृक्षसम्पक्वं गुरु वातहरं परम् ।
मधुराम्लं सरं किञ्चित् भवेत् पित्तप्रकोपणम् ।
आम्रं कृत्रिमपक्वं यत्तद्भवेत् पित्तनाशनम् ।
रसस्याम्लस्य हानेस्तु माधुर्याच्च विशेषतः । चूषितं तत्
परं रुच्यं बलवीर्य्यकरं क्षघु । शीतलं शीघ्रपाकि स्याद्वा-
तपित्तहरं सरम् । तद्रसोगालितो बल्यो गुरुर्वात
पृष्ठ ०७६९
हरः सरः । अहृद्यस्तर्पणोऽतीव वृंहणः कफवर्द्धनः ।
तस्य खण्डं गुरु परं रोचनं चरिपाकि च । मघुरं वृंहणं
बल्यं शीतलं वातनाशनम् वातपित्तहरं रुच्यं
वृंहणं बलवर्द्धनम् । वृष्यं वर्णकरं स्वादु दुग्धाक्तं
गुरु शीतलम् । मन्दानलत्वम् विषमज्वरञ्च रक्तामयं बद्ध
गुदोदरञ्च । आम्रातियोगो नयनामयञ्च करोति तस्मा-
दति तानि नाद्यात् । एतदम्लाम्रविषयं मधुराम्रं
परं न तु । मधुरस्य परं नेत्रहितत्वाद्या गुणायतः । शुण्ठ्य-
म्भस्त्वनुपानं स्यादाम्राणामतिभक्षणे । जीरकं वा प्रयो-
क्तव्यं सह सौवर्चलेन च । आम्रवीजं कषायं स्याच्छर्द्यतीसार
नाशनम् । ईषदम्लञ्च मधुरं तथा हृदयदाहनुत् ।
आम्रस्य पल्लवं रुच्यं कफपित्तविनाशनम्” । पल्लवमत्र नव
दलम् । अस्य शाकपाकप्रकारस्तत्रैव “स्विन्ना निष्पीड़िताः
कामं कोकिलाहारपल्लवाः । घृतसिन्धूत्थसंसिद्धा-
रुच्या रामठवासिताः । सर्पिषा खण्डयुक्तास्ते
तलिताश्चाम्रपल्लवाः । लवङ्गार्द्रकसंयुक्तामरीचै रुचिकारकाः” ।
अस्य पल्लवमुकुलानां पाकप्रकारस्तत्रैव “आम्रस्य चैव
नवताम्ररुचिप्रबालाः खण्डीकृतालवणमिश्रितपिण्डिताश्च ।
वाह्लीकधूपनजुघोघृतदुग्धसिद्धाः सन्दीपयन्ति पवनस्य
सखायमेते । मुकुलः सहकारशाखिनः शृतखण्डी-
कृतसैन्धवान्वितः । दधिमन्थमरीचसंस्कृतश्चिरजाताम-
रुचिं छिनत्ति हि । कफपित्तहरौ हृद्यौ मुखवैरस्य
नाशनौ । वह्निसञ्जननौ रुच्यौ चूतजौ पुष्पपल्लवौ ।
आम्रमामं जलस्विन्नं मर्द्दितं दृढ़पाणिना । सिताशीता-
म्बुसंयुक्तं कर्पूरमरिचान्वितम् । प्रपानकमिदं श्रेष्ठं
भीमसेननिर्म्मितम् । सद्योरुचिकरं बल्यं शीघ्रमिन्द्रिय
तर्पणमिति” ।

आम्रगन्धक पु० आम्रस्येव गन्धोऽस्य कप् । समष्टिलवृक्षे, शाकभेदे राजनि० ।

आम्रगुप्त पु० गोत्रप्रवर्त्तके ऋषिभेदे । तस्यापत्यम् उदीचां

मृते फिञ् । आम्रगुप्तायनिः पु० स्त्री० प्राचान्तु मते इञ् ।
तदपत्ये सि० कौ० ।

आम्रपेशी त्रि० आम्रस्य पेशीव । शुष्काम्रकोषे (आमसी)

आम्रमय त्रि० आम्रस्य विकारः अवयवो वा वृद्धत्वात् मयट् ।

१ आम्रविकारे । २ तदवयवे च ।

आम्ररसाकृति स्त्री आम्ररसस्येवाकृतिः स्वादो यस्याः ।

पीताख्य रसालाभेदे । तत्पाकप्रकारो यथा भा० प्र० “किञ्चित्
कुङ्कुमसंयुक्तं विमस्तुदधिगालितम् । सशर्करं भवेत्
प्रीता पक्वाम्ररससन्निभा । पीता शिखरणी या सा लघ्वो
वर्ण्णवती हि सा । सुरुच्या मधुरा बल्या वातपित्तहरा-
मता” अत्र पीताख्यशिखरिण्याः पक्वाम्ररसतुल्य-
त्वोक्त्या तथात्वम् ।

आम्रवण न० आम्रस्य वनम् नित्यं णत्वम् । आम्रवृक्षसमुदायात्मके वने ।

आम्रात पु० आम्रमाम्ररसमतति अत--पचा० अच् ।

(आमड़ा) १ वृक्षे २ तत्फले न० । तत्फलस्याम्रतुल्यरस-
त्वात्तथात्वम् । “आम्रातमम्लं वातघ्नं गुरूष्णं रुचिकृत्
परम् । सुपक्वं तुवरं स्वादु रसपाकं हिमं स्मृतम् ।
तर्पणं श्लेष्मलं स्निग्धं रुच्यं विष्टम्भि वृंहणम् । गुरु
बल्यं मरुत्पित्तक्षतदाहक्षयास्रजित्” भा० प्र० ।

आम्रातक पु० आम्र इवातति आम्रात् किञ्चिदूनरसफलक-

त्वात् अत--ण्वुल् । (आमड़ा) १ वृक्षे २ तत्फले न० ।
आम्रेण तत्फलरसेन तकते प्रकाशते आ + तक--हासे
अच् । शुष्काम्ररसनिर्म्मिते (आमट्) द्रव्यभेदे
तत्करणप्रकारः भावप्र० उक्तः । यथा “आम्रस्य
सहकारस्य कटे विस्तारितोरसः । घर्म्मशुष्को मुहुर्दत्त
आम्रातक इति स्मृतः” ।

आम्रातकेश्वर पु० आम्रातक इव ईश्वंर ईश्वरलिङ्गमत्र ।

सिद्धस्थानभेदे । “आम्रातकेश्वरे सूक्ष्मा सूक्ष्माख्या
परमेश्वरी” देवीपु० ।

आम्रावती स्त्री आम्र आम्ररसो विद्यतेऽस्यां मतुप् मस्य वः शरा०

दीर्घः । नदीभेदे । तस्या आम्रतुल्यरसतोययुक्तत्वात्तथात्वम् ।

आम्रावर्त्त पु० आम्रैव तुल्यरसतया ईषत् वर्त्तते आ +

वृत--अच् । १ आम्रातकवृक्षे २ तत्फले न० । आम्रेण
आम्ररसेन आवर्त्त्यते निष्पाद्यते आ + वृत--णिच्--कर्मणि घञ्
(आमट्) ख्याते ३ पदार्थे आम्रातकशब्दे तत्करणप्रकार
उक्तः “आम्रावर्त्तस्तृषाच्छर्द्दिवातपित्तहरः सरः । रुच्यः
सूर्य्यांशुभिः पाकात् लघुश्च स हि कीर्त्तितः” भावप्र० ।

आम्रिमन् पु० अम्लोरसोऽस्त्यस्य प्रज्ञा० अण् दृढा०

गणपाठात् रस्य लः ततोभावे दृढ़ा० इमनिच् । अम्लत्वे
रसभेदे वा ष्यञ् । आम्र्यमप्यत्र न० ।

आम्रेडित त्रि० आ + म्रेड--उन्मादे अच् आम्रेडेन उन्मत्ते-

नेवाचर्य्यते आम्रेड + आचारे क्विप् ततः क्त ।
उन्मत्तेन यथा कथितस्य पुनःपुनः कथनं क्रियते एवं
द्विस्त्रिःकथिते “आम्रेडितस्यान्तस्य तु वा” पा० ।

आम्लवेतस पु० आम्लः अम्लरसयुक्तः वेतस इव । १ अम्ल-

वेतसवृक्षे राजनि० स्वार्थे संज्ञायां वा कन् । २ तिन्तिडी-
वृक्षे (तेतुल) ।
पृष्ठ ०७७०

आम्ला स्त्री० सम्यक् अम्लो रसो यस्याः । १ तिन्तिद्ध्याम्

(तेतुल) स्वार्थे कनि आम्लिकाप्यत्र । २ अम्लरसयुक्ते
त्रि० । मनोज्ञा० भावे वुञ् अम्लिका । २ अम्लरसे
३ अम्लोद्गारे च शब्दमाला । अम्लरसोऽस्त्यस्य अण् ङीप् ।
आम्लीत्यपि तिन्तिड्याम् ।

आय पु० आ--इण--अच् अय--घञ् वा । १ लाभे २ प्राप्तौ,

“आयव्ययविशोधितात्” स्मृतिः आयव्ययौ च नियता-
वाकरान् कोषमेव च” मनुः । ३ धनागमे, ज्योतिषोक्ते
लग्नावधिके राश्यवधिके च ४ एकादशस्थाने, ४ वनितागार-
पालके च कर्मणि अच् घञ् वा । ग्रामादितः स्वामिग्रा-
ह्यभागे, लभ्ये ५ धनादौ “तदस्मिन् वृद्ध्यायलाभोपदा
दीयते” पा० ग्रामेषु स्वामिग्राह्योभाग आयः”
सि० कौ० लग्नायधिकैकादशस्थानस्यायत्वं च
तत्स्थाने आयस्य चिन्तनीयत्वात् । तत्र वर्षलग्नावधि-
कैकादशस्थाने ग्रहविशेषयोगादिभिरायोपायविवेकः ।
नीलकण्ठता० “अब्दपे ज्ञेऽर्थगे लाभो बाणिज्यात्
शुभदृग्युते । सेन्थिहेऽस्मिन् लग्नगे तु लामः
पठनलेखनात् । अस्मिन् षष्ठाष्टान्त्यगते सक्रूरे नीचकर्मतः ।
क्रूरेक्षणेन लाभोऽस्तंगतेन लिखनादिभिः । जीवेऽब्दपे
क्रूरहते लग्ने हानिर्नृपाद्भयम् । अस्मिन्नधिकृते द्यूने
व्यवहाराद्धनाप्तयः । लग्नाधिपेनेत्थशाले लाभः स्वजनगौ-
रवम् । सर्वेऽपि लाभे वित्ताप्त्यै सबला निर्बला न तु ।
सवीर्य्योज्ञः समुथहोलग्ने ऽर्थसहमे शुभम् । ददाति
खातद्रव्यस्य लाभः पापदृशा न तु” । आयसहमन्तु सहमशब्दे बक्ष्य-
ते आयभावानयनञ्च ५१९ पृष्ठे अष्टमभावशब्दोक्तदिशावसे-
यम् । जन्मग्नावधिकैकादशस्थाने ग्रहस्थित्यादिभिरायविवेकः
जातकप० उक्तः यथा “स्वामिसद्ग्रहयुतेक्षित आये सर्वलाभ
सहितः शुभवर्गे । क्रूरदृष्टिसहिते खलवर्गेनो शुभं
खलशुभे च विमिश्रम् । सर्व्वखेचरयुतं त्वथ दृष्टं लाभभम्बहुल-
लाभकरन्तु । तत्र यो बलयुतो निजवृत्त्यास्वं धनं दिशति
सम्यगतुच्छम् । उच्चे स्वमित्रगृहगोवलवांश्च पूर्ण्णं, शत्रोर्गृहे
तु खचरश्चरणं ददाति । नीचारिभांशकगतोऽर्द्धफलप्रदः
स्यादस्तं गतोऽल्पकफलः खलु लाभभावे । लाभभे
रवियुतीक्षणवर्गैः संयुते नृपचतुष्पदचौर्य्यैः । युद्धतोऽपि हि
धनं विधुजैस्तैस्तोयदन्तियुवतिप्रभवं स्यात् । लाभे कुजे
क्षितयुते कुजवर्गयुक्ते वित्तं प्रबालमणिभूषणकाञ्चनाढ्यम् ।
स्यात् साहसैश्च गमनागमनैस्तथाग्निशस्त्रप्रपञ्चजनितैर्वच-
लान्मुनीनाम् । बुधदृष्टेऽथ वा युक्ते लाभे बुधगणेऽपि वा ।
वित्तं लिखनशिल्पाद्यैरङ्गवेसरकाम्यजम् । आये
वृहस्पतियुतीक्षणवर्गयुक्ते यज्ञादिहेनसुतविक्रमनागरैः स्वम् ।
शौक्रेक्षणे गणयुते गमनाङ्गनाभ्योवाराङ्गनारजतपत्रमयं
धनं स्यात् । शनिपुक्ते लाभगृहे शनिदृष्टे शनेर्गणे । महिषी
लोहकृष्युयं धनं स्थावरकर्मभिः । निजाब्दकेऽर्कः प्रचु-
रार्थलाभं लक्ष्मीं कुजोऽब्जश्च धनं नृपाब्दे । ज्ञः पञ्चवेदे
धनसिन्द्रपूज्यो लक्ष्मीं सितोऽर्के कुजवच्छनिस्तु” । राश्य-
वधिकैकादस्थाने च गोचरे सर्वे ग्रहाः शुभाः “सर्वेऽप्यु-
पान्त्ये शुभाः” इत्युक्तेः अत्र विशेषो गोचरशब्दे वक्ष्यते ।

आयःशूलिक त्रि० अयःशूलेनार्थान् अन्विच्छति + अयः

शूल + ठक् । “तीक्ष्णोपायेन योऽन्विच्छेत् स आयःशूलिको
जन” इत्युक्ते तीक्ष्णकर्मणार्थकरे ।

आयजि त्रि० आभिमुख्येन इज्यते आ + यज--कर्मणि--इन् ।

१ आभिमुख्येन इज्यमाने “आयजे! त्वामनवे जातवेदसम्”
ऋ० ८, २३, १७ भावे इन् । २ आभिमुख्येन यागे ।

आयज्यु त्रि० आत्मन आयजिमिच्छति क्यच् उण् नि०

इलोपः । आभिमुख्येन यागमिच्छति । “आयज्यवःसुमतिं
विश्ववाराः” ऋ० ९, २७, २६ ।

आयत त्रि० आ + यम--क्त । १ दीर्घे--आयामयुक्ते “धनुरायत

भोगवासुकिज्या” किरा० । आ + यम--अन्तर्भूतण्यर्थे कमेणि
क्त । २ आकृष्टे “आरक्षितानायतबल्गबन्धैः” माघः ।
“आयता आकृष्टा बलावन्धायैः” मल्लि० । ३ दूरेच आकृष्टे
“प्रजविभिरायतन्तुरङ्गैः” किरा० । “आयतं दूरमिति”
मल्लि० । “भूयसी तव यदायतायति” माघः ४ नियमिते च ।
त्रिर्जपेदायतप्राणः” योगिया० । प्राणनियमनञ्च यथेष्ट-
प्राणवृत्तिनिरोधनम् ।

आयतच्छदा स्त्री आयतः दीर्घश्छदोऽस्याः । कदल्याम्त्रिका० ।

आयतन न० आयतन्तेऽत्र यत--आधारे ल्युट् । १ देवादिव-

न्दनस्थाने, २ आश्रये, “स्नेहस्तदेकायतनं जगाम”
कुमा० । “नरेन्द्रमूलायतना दनन्तरम्” रघुः । “रोगा-
यतनमातुरम्” न जीर्णदेवायतने न बल्मीके कदाचन”
“सीमासन्धिषु कार्य्याणि देवतायतनानि” इति च मनुः ।
३ विश्रामस्थाने ४ यज्ञस्थाने च ।

आयतस्तू त्रि० आयतं स्तौति स्तु--क्विप् नि० दीर्षः ।

आयतस्तावके । “क्विब्वचिप्रच्छायतस्तूकढप्रुजूश्रीणां दीर्घो-
ऽसम्प्रसारणञ्च” वार्त्ति० ।
पृष्ठ ०७७१

आयति(ती) त्रि० आ + या--डति वा ङीप् । १ उत्तरकाले

आगामिकाले २ प्रभावे कोषदण्डजे तेजसि ३ फलदानकाले च ।
“आयतिं सर्व्वकालानां तदात्वं च विचारयेत्” मनुः
“भूयसी तव यदायतायति” माघः “नियता लघुता निरा-
यतेः” किरा० । आ + यम--क्तिन् । ४ आयामे दैर्घ्ये ।
“सीमानमत्यायतयोऽत्यजन्त” माघः । ५ संयमे “केशन-
खानामायतिभङ्गः” काद०६ प्रापणे ७ सङ्गमे च अत्र क्तिन्न-
न्तत्वात् न ङीबिति भेदः । ८ कर्म्मणि च “हिरण्यभूमिसं-
प्राप्त्या पार्थिवो न तथैधते । यया मित्रं ध्रुवं लब्ध्वा
कृशमप्यायतिक्षमम्” मनुः । “आयतिक्षमं कर्म्मक्षमम्”
कुल्लू० ।

आयतीगव अव्य० आयन्ति गावोऽत्र तिष्टद्गुप्र० अव्ययी०

नि० । गोष्ठाद्गवागमनकाले । “आ तिष्ठद्गु जप्न्
सन्ध्यां प्रक्रान्तामायतीगवम्” भट्टिः ।

आयतीसम अव्य० आयन्ति समा अत्र तिष्ठद्गुप्र० नि०

अव्ययी० । वत्सरागमनकाले ।

आयत्त त्रि० आ + यत--क्त । अधीने १ वशीभूते “दैवायत्तं

कुले जन्म ममायत्तं हि पौरुषम्” वेणी० । २ कृतप्रयत्ने च ।

आयत्ति स्त्री आ + यत--क्तिन् । १ स्नेहे, २ वशित्वे, ३ सामर्थ्ये,

४ सीम्नि, ५ शयने, ६ प्रभावे ७ आगतौ च उपाये च
“अनायत्त्या च तत्कल्पनम्” शा० भा० ।

आयथातथ्य न० न यथातथं तस्य भावः ष्यञ् वा

पूर्व्वपदवृद्धिः । अनौचित्ये यस्य यद्रूपं नोचितं
तद्रूपे । उत्तरपदवृद्धौ अयाथातथ्यमप्यत्र न० ।

आयथापूर्व्य न० पूर्व्वमनतिक्रम्य यथापूर्व्वं न० त० तस्य भावः

ष्यञ् वा पूर्व्वपदवृद्धिः । यथापूर्व्वाननुसारित्वे उत्तर
पदवृद्धौ तु अयाथापूर्व्यमप्यत्र न० ।

आयन न० अयनमेव स्वार्थे अण् आ + अयनं वा प्रा० स० ।

१ सम्यगामने “आयने ते परायणे दूर्व्वा रोहन्तु पुष्पिणीः”
अ० १०, १४२, ८ । अयनस्येदम् अण् । ग्रहाणां
दक्षिणोत्तरगमनरूपायनस्य २ सम्बन्धिनि त्रि० तच्च आयनव-
लनायनदृक्कर्म्मादि ज्योतिषप्रसिद्धं तत्रायनवलनं यथा
सि० शि० “युतायनांशोडुपकोटिशिञ्जनी जिनांशमौर्व्या
१ ३९७ गुणिता विभाजिता । द्युजीवया लब्धफलस्य
कार्मुकम् भवेच्छंशाङ्गायनदिक्कमायनम्” । “ग्रहस्य
सायनांशस्य कोटिज्या जिनांशज्यया गुण्या द्युज्यया
भक्ता फलस्य चापमायनं वलनं भवति यस्मिन्नयने
ग्रहोवर्त्तते तद्दिक् भवति” प्रमिता० । आयन
दृक्कर्म सि० शि० उक्तं यथा । “आयनं वलनमस्फटेषुणा
संगुणं द्युगुणभाजितं हतम् । पूर्णपूर्णधृतिभिर्गृहाश्रित-
व्यक्षभोदयहृदायनाः कलाः । अस्फुटेषुवलनाहतिस्तु वा
यष्टिहृत् फलकलाः स्युरायनाः । ता ग्रहेऽयनपृषत्कयोः
क्रमादेकभिन्नककुभोरृणं धनम्” । “ग्रहस्य यदायनं वलनं
तदस्फुटशरेण संगुण्य तद्द्युज्यया भजेत् । फलमष्टा-
दशशतैः १८०० संगुण्य यस्मिन् राशौ ग्रहोवर्त्तते तस्य
निरक्षोदयासुभिर्विभजेत् । फलमायनकला भवन्ति । अथ
वायनवलनकला अस्फुटेन शरेण संगुण्य यष्ट्या विभजेत् ।
फलमायनकलाः स्वल्पान्तरा भवन्तीत्यनुकल्पः । ग्रहो
यस्मिन्नयने वर्त्तते तस्यायनस्य ग्रहशरस्य च यद्येका दिक्-
तदा ता आयनाः कला ग्रहे ऋणं कार्य्याः । यदि
तयोर्भिन्ना दिक् तदा धनं कार्याः । एवं कृतायनदृक्वर्मको
ग्रहो भवति । अत्रोपपत्तिर्गोले सविस्तराभिहिता ।
अथेहापि किञ्चिदुच्यते । क्रान्तिवृत्ते यद्ग्रहस्थानचिह्नं
तद्यदा क्षितिजे लगति न तदा ग्रहः । यतोऽसौ
शराग्रे । शराग्रं हि कदम्बाभिमुखम् । यदोत्तरकदम्बः
क्षितिजादुपरि भवति तदा तदुन्मुखेन शरेण ग्रहः क्षिति-
जादुन्नाम्यते । क्षितिजकदम्बयोरन्तरं तदेवोत्तरमायनं
वलनम् । यदा क्षीतिजादधः कदम्बस्तदा शरेण ग्रहो
नाम्यते क्षितिजकदम्बयोरन्तरं तदा दक्षिणं वलनम् ।
अतो वलनवशेन ग्रहस्योन्नामनं नामनं च । उन्नामितो
ग्रह आदावेवोदितः । नामितः पश्चादुदेष्यति । स च
कियता कालेनेति तदायनं त्रैराशिकेन । यदि त्रिज्या-
तुल्ये कर्णेकदम्बक्षितिजयोरन्तरकला वलनसंज्ञा लभ्यन्ते
तदा अस्फुटशरतुल्ये किमिति फलं ग्रहादधोऽवलम्ब-
रूपाः कला भवन्ति । ग्रहस्थानें यद्द्युज्यावृत्तं तत्र ता
जीवारूपाः । तासां त्रिज्यावृत्तपरिणामायान्योऽनु-
पातः । यदि द्युज्यावृत्तएतावती ज्या तदा त्रिज्यावृत्ते
कियतीत्येवं याः फलकलास्ता एवासवः । फलस्य धनुः
स्वल्पत्वान्नोत्पद्यत इति न कृतम् । तैः क्रान्तिवृत्ते
परिणामायान्योऽनुपातः । यदि निरक्षोदयासुभी राशिकला
अष्टादश शतानि लभ्यन्ते तदैभिरसुभिः किमिति फलं क्रा-
न्तिवृत्तपरिणताः कला भवन्ति । यदोत्तरं किल त्रलनमुश्रुरश्च
विक्षेपस्तदा तेन विक्षेपेणोन्नामितो ग्रहो यावत् तितिजं
नीयते तावत् क्रान्तिवृत्तग्रहस्थामात् पृष्ठतः क्रान्तिवृत्तं
क्षितिजे लगति तदेव स्थानं कृतदृक्कर्मको ग्रह । किं
बहुना गोले क्रान्तिमण्डले यथास्थानं विमण्डलं विन्यस्य
तत्र ग्रहं च दत्त्वा चिह्नं कार्यम् । अथ ध्रुवाद्ग्रहोपरि
नीयमानं वृत्ताकारं सूत्रं यत्र क्रान्तिवृत्ते लगति तत्र
पृष्ठ ०७७२
कृतदृक्कर्मको ग्रहः । एवं ध्रुवान्नीयमानेन सूत्रेण शरकृतं
त्र्यस्रं भव्ति । क्रान्तिवृत्तग्रहस्यानादग्रतः पृष्ठतो वा
आयनकलातुल्येऽन्तरे तत् सूत्रं क्रान्तिवृत्ते लगति ।
अत आयनकला भुजः, अस्फुटःविक्षेपः कोटिः,
शराग्रक्रान्तिवृत्तयोरन्तरे यावत् सूत्रखण्डं स तत्र कर्णः ।
एतत् त्र्यस्रं वलनत्र्यस्रसंभवम् । अतस्त्रैराशिकेन
वलनकलानामानयनम् । यदि यष्टिकोट्या वलनकलाभुजो
लभ्यते तदा अस्फुटविक्षेपकोट्या किमिति फलमायन-
कला इति सर्वमुपपन्नम्” प्रमिताक्षरा ।

आयमन न० आ + यम--ल्युट् । १ दैर्घ्ये णिच्--ल्युट् ।

२ नियमने ३ संयतकरणे दृढ़स्य संकुचितस्याकृष्य ४ दीर्घो-
करणे च । “यथा दृढ़स्य धनुष आयमनम्” छा० उ० ।

आयल्लक पु० आयन्निव लीयते अत्र ली--आधारे वा० ड

ततः संज्ञायां कन् । उत्कण्ठायाम् हेम० ।

आयस त्रि० अयसो विकारः अण् स्त्रियां ङीप् । लौहमये ।

“शक्तिञ्चोभयतस्तीक्ष्णामायसं दण्डमेव वा” “पुमांसं
दाहयेत् पापं शयने तप्तआयसे” इति च मनुः । “स चकर्ष-
परस्मात् तत् अयस्कान्त इवायसम्” रघुः । “मूढ़बुद्धिमिवा-
त्मानं हैमीभूतमिवायसम्” कुमा० । २ लौहमयकवचे च
३ अङ्गरक्षिण्यां जालिकायां स्त्री । अयएव स्वार्थेअण् ।
४ लौहे । ततः विकारेमयट्लोहमये त्रि० स्त्रियां ङीप् ।

आयसीय त्रि० अयसः सन्निकृष्टदेशादि० कुशा० छण् ।

लौहसन्निकृष्टदेशादौ ।

आयस्कार पु० अयस्कार एव स्वार्थे अण् । लौहकारे त्रिका०

आयस्त त्रि० आ + यस--क्त । १ क्षिप्ते “आयस्तसिंहाकृ-

तिरुत्पपात” किरा० २ क्लेशिते ३ प्रतिहते ४ तीक्ष्णीकृते
५ आयासयुक्ते च ।

आयस्थान न० ६ त० । १ लाभस्थाने, राज्ञां २ शुल्कग्रहणम-

ण्याद्याकरस्थाने “ठञ् ठगावायस्थानेभ्यः” पा० । ज्योति-
षोक्ते ३ लग्नादेकादशस्थाने च ।

आयस्थूण त्रि० अयोमयी स्थूणायस्य तस्यापत्यं शिवा०

अण् । अयस्थूणापत्ये स्त्रियां ङीप् ।

आयस्य अव्य० आ + यस--ल्यप् । आयासं कृत्वा भृशं यतित्वेत्यर्थे ।

आयात त्रि० आ + या--क्त । आगते स्थानात् स्थाना-

न्तरं प्राप्ते । “यामोयातस्तथापि नायातः” सा० द० ।
“आयाता मधुयामिनी” उद्भटः । “आयाता ब्रह्मणः
शक्तिर्ब्रह्माणी साभिधीयते” देवीमा० ।

आयाति पु० आ + या + क्तिच् । “यातिर्ययातिः संयाति

रायातिः पश्चिमोमतः” हरि० ३० अ० “यातिर्ययातिः
संयातिरायातिः सयतिस्तथा । नहुषोजनयामास
षट्सुतान् प्रियवादिनः” इति च हरि० उक्ते १ नहुषसुतभेदे
आ + या--भावे क्तिन् । २ आगमने स्थानान्तरगमने ।

आयान न० आ + या--ल्युट् । १ आगमने आयाति

यावद्द्रव्यम् आ + या--ल्यु । २ स्वभावे जटा० स्वभावस्य
यावद्द्रव्ययायित्वात्तथात्वम् ।

आयाम पु० आ + यम--भावे घञ् । दीर्घपरिमाणभेदे “अणु-

महध्रस्वदीर्घभेदात् परिमाणचातुर्विध्यमिति वैशेषि-
कादयः स्वीचक्रुः । अणुमहद्रूपं परिमाणद्वयमिति
साङ्ख्याः ह्रस्वदीर्घयोर्महत्त्वरेवान्तर्भावात् । तत्र अल्प-
संख्यकावयवत्वमणुत्वम् अधिकावयवजन्यत्वं महत्त्वम् तेषु च
अवयवप्रचयेषु ययोः पार्श्वयोराधिक्यं तत्र दीर्घत्व-
व्यवहारः यत्र च पार्श्वयोरल्पत्वं तत्र विस्तीर्ण्णत्वं ह्रस्वत्वं
च व्यवह्रियते “अस्थूलमनण्वह्रस्वमदीर्घमिति” श्रुतौ च
अवान्तरभेदमाश्रित्यैव परिमाणचातुर्विध्योक्तिर्द्रष्टव्या अस्य
गुणमात्रवाचित्वम् न तुं अणुमहदादिवत् गुणगुण्युभयवा-
चकत्वमपि इतिभेदः । “आयामवद्भिः करिणां घटाशतैः”
माघः “यावानूर्द्ध्व बाहुकः पुरुषस्तावदायामः” आश्व० गृ०
“यस्यचायामः” पा० “शीतवृद्धतरायामास्त्रियामा यान्ति
साम्प्रतम्” रामा० । आ + यम + णिच्--अच् । २ नियमने
प्राणायामः प्राणवायोर्नियमनम् “प्राणायामैस्त्रिभिः
पूतस्तत ओङ्कारमर्हति” “एकाक्षरं परं ब्रह्म प्राणा-
यामः परं तपः” मनुः । आयामोऽस्त्यस्य बला० वा
इनि पक्षे मतुप् । आयामी आयामवान् आयामयुक्ते
त्रि० स्त्रियां ङीप् । यामशब्दस्याङा मर्य्यादायाम्
अव्ययीभावः । ३ प्रहरपर्य्यन्ते अव्य० ।

आयास पु० आ + यस--घञ् । अतियत्ने “स्नेहमूलानि

दुःखानि देहजानि भयानि च । शोकहर्षौ तथायासः
सर्वं स्नेहात् प्रवर्त्तते” भा० व० २०० अ० “रत्यायास
मनस्तापक्षुत्पिपासादिसम्भवा” सा० द० ।

आयासक त्रि० आ + यस--ण्वुल् । १ आयासयुक्ते । णिच्-

ण्वुल् । २ आयाससम्पादके च ।

आयासिन् त्रि० आयस्यति आ + यस--णिनि । आथासयुक्ते

“कामं प्रिया न सुलभा मनस्तु तद्भावदर्शनायासि” शकु० ।

आयिन् त्रि० आयोलाभोऽस्त्यस्य इनि । १ लाभयुक्ते मतुप्

आयावानप्यत्र त्रि० इण--णिनि । २ गन्तरि स्त्रियां ङीप् ।
पृष्ठ ०७७३

आयु त्रि० “छन्दसीणः” उणा० इण--उण् । गमनशीले “ता अस्य

वर्ण्णमायुवोनेष्टुः सचन्त धेनवः” ऋ० २, ५, ५ । “आयुवो-
गन्त्र्यः” भा० उवङ् छान्दसः “अभि सोमास आयवः पवन्ते
मद्यं मदम्” ऋ० ९, २३, ४ । २ आयुषि न० “कालः-
क्रीड़ति गच्छत्यायुरित्युक्तेः कालगत्यैव तस्य गामित्वात्तथा-
त्वम् । जीवनस्यकालरूपत्वे तु कालस्य सततगामित्वात्तथात्वं
युक्तमेव “अग्ने जरस्व स्वापत्य आयुन्यूर्ज्जा” ऋ० २, ३, ७ ।
“वत्सं न पूर्ब्बं आयुनि जातं रिहन्ति मातरः” ऋ०
९,१००, १ आयुनि आयुषि” भा० बाहुलकात् भाषा-
यामपि उण् उज्ज्व० । तेन “वायुना जगदायुना” वर्ण्णि-
विवेकः । “मा बधिष्ठा जटायुंमाम्” भट्टिः । “तटीं
विन्ध्यस्याद्रेरभजत जटायोः प्रथमजः” इति अभिनन्दः ।

आयुक्त त्रि० आ + युज--कर्म्मणि क्त । १ सम्यग्व्यापारिते ।

“आयुक्तकुशलाभ्याञ्चासेवायाम्” पा० “आयुक्तः व्यापा-
रितः” सि० कौ० । “कुशलोऽन्येषणस्याहमायुक्तो
दूतकर्म्मणि” भट्टिः २ ईषद्यूक्ते च “आसेवायां किम्?
आयुक्ता गौः शकटे ईषद्युक्तः” सि० कौ० । भावे क्त ।
३ सम्यग्नियोजनेन० । आयुक्तमनेन इष्टा० इनि । आयुक्ती
सम्यग्नियोजनकर्त्तरि त्रि० स्त्रियां ङीप् ।

आयुध न० आयुध्यतेऽनेन आ + युध--करणे घञर्थे क ।

शस्त्रमात्रे । तस्य भेदाः समासतस्त्रिधा प्रहरणहस्तमुक्त
यन्त्रमुक्तभेदात् । तत्र हस्तस्थितैर्यैः प्रह्रियते तानि प्रह-
रणानि यथा खड्गादीनि । हस्तमुक्तानि चक्रादीनि,
यन्त्रमुक्तानि शरादीनि । तेषां सर्व्वेषां युद्धसाधनत्वादा-
युधत्वम् । “न मे त्वदन्येन विसोढमायुधम्” रघुः ।
“येऽपीन्द्रपाणितुलितायुधलूनपक्षाः” माघः । “न सुप्तं न
विसन्नाहं न लग्नं न निरायुधम्” मनुः ।

आयुधधर्भिणी स्त्री आयुधस्येव धर्मोऽस्त्यस्या इनि ङीप् ।

जयन्तीवृक्षे शब्दच० । साहि रोगनाशने आयुधसमा

आयुधन्यास पु० आयुधानां न्यासः तत्तत्स्थानस्पर्शपूर्ब्बकं

तत्तन्मन्त्राणामर्पणबुद्ध्या स्थापनम् । श्रीविद्यापूजाङ्गे “एवं
कामकलारूपं देवतामयमात्मनः । वपुर्विचिन्त्य
शिवयोरायुधन्यासमाचरेत्” इत्यादिना ज्ञानार्ण्णवोक्ते
न्यासभेदे । तन्त्रसारे श्रीविद्यापूज्याप्रकरणे विवृतिर्दृश्या ।

आयुधागार न० ६ त० । राज्ञां प्रहरणस्थापनार्थे गृहे ।

“ससृद्धमायुधागारमिदं तस्यदुरात्मनः” । “आयुधागार-
मादीप्य” इति च भा० आ० प० १४७, ४ ८ अ० । “कोष्ठा-
गारायुधागारदेवतागारभेदकान्” मनुः । आयुधागारे
नियुक्तः ठक् । आयुधागारिकः तत्रनियुक्ते त्रि० । तल्ल-
क्षणमुक्तं मात्स्ये । “स्थापनाजातितत्त्वज्ञः सततं प्रति-
जागृतः । राज्ञः स्यादायुधागारे दक्षः कर्म्मसु चोद्यतः” ।

आयुधिक पु० आयुधेन तद्व्यवहारेण जीवति ठञ् । शस्त्राजीवे

पक्षे छ आयुधीयोऽप्यत्र । आयुधाजीवादयोऽप्यत्र ।

आयुधिन् पु० आयुधमस्त्यस्य इनि । शस्त्रधारके ।

आयुध्य न० युद्ध्यति युध--क न० त० ततो भावे शचतुरा-

दिपाठात् ष्यञ् न त्वतलौ । १ योद्धृभिन्नत्वे । आ +
युधल्यप् । २ सम्यग्युद्धं कृत्वेत्यर्थे अव्य० ।

आयुर्दाय पु० आयुषोदायः दानम् । बलविशेषस्थितियोगा-

दिभिः ज्योतिषोक्ते रव्याधिभिः आयषोदाने तद्विवरणं
श्रीपतिपद्धतौ यथा
“आयुर्ज्ञानादेव होराफलानां कर्त्तुं यस्मान्निर्ण्णयः शक्य-
तेऽत्र । आयुर्दायः संप्रदायागतोऽयं सच्छिष्पाणां प्रीतये
कथ्यतेऽत्र । एकोनदीधितिसमादिह गच्छतो यद्रूपादि-
रूपचयसंकलितद्वयं स्यात् । चेष्टोच्चरश्मिजमथ स्वमरी-
चिभक्तं तज्जायतेऽत्र गुणकद्विंतयं तदाख्यम् । ऊने भवे
तां निजदीधितिभ्यः श्रेढीफले ते यदि रश्मियुक्ते ।
तदर्द्धिते स्वांशुभिरुद्धृते ते तद्घातमूलं गुणकः स्फुटः स्यात्” ।
इति गुणकानयनमत्रायं भेदस्तट्टीकायामुक्तः । “अल्पाश्चेत्
किरणाः सैकाश्चतुर्भक्ता भवेद्गुणः । अधिकाश्चेन्निरेकास्ते
दलिता गुणको भयेत्” “वर्गोत्तमे स्वभवने स्वनवांशके च
स्वत्र्यंशके च गुणकोद्वितयं निरुक्तः । अध्यद्धरूप ३२
मधिमित्रगृहे सुहृद्भेसत्र्यंशकं ४३ समगृहे खलु रूपमेव ।
त्र्यंशोनितं २३ रिपुगृहेऽध्यरिभेदलं १२ स्यादेभ्योगुणो-
भवति यः खलु कश्चिदेकः । वेदोद्धृतः सभगुणोगुणकैः प्रदि-
ष्टोहोरादिवर्गगुणकस्तु भवेत्तदर्द्धम् । एतेऽपि गुण्यागदि-
तामहद्भिरपेक्षयानन्तर ताड़कानाम् । ७ नगांशका ११ रुद्र-
मिताह्यभीष्टराशौ सुहृद्वेश्मनि मूर्च्छनांशाः । १९ नवाश्विनो
१ रूपमुदासराशौ २१ कुद्व्यंशका १३ विश्वसमा द्विषद्भे ।
त्रयो नगांशा अधिशत्रुराशावेते भसंज्ञाअथ राशिवर्जम् ।
वर्गोत्तमात्प्रीज्झा नवत्रिभागस्थिते ग्रहे तु द्वितयं २
गुणश्चेत् । एतैरभीष्टादिगुणैर्निहन्यादुदीरितैराशिगुणं
पुनस्तम् । गृहादिके वर्गणे स्वकीये द्विकोगुणस्त्रिंशविवर्ज्जितः
सः । अभीष्टभे मित्रगृहे नवांशा विश्वेऽथ रूपञ्च समस्य
गेहे । नवांशकाः पञ्च विरोधराशौ गुणांशकः स्यादधिवै-
रिणोभे । पूर्बम्भपूर्ब्बागुणकाय उक्ता वर्गेषु सप्तस्विह
गुण्यसंज्ञाः । गुण्यागुणैस्तैस्त्वधिकारलब्धैरुक्तै गुणैः स्यादथ
मिश्रितैस्तैः । स्मृतोबुधैराश्रयसंज्ञितोऽयमस्य स्पुटस्यापि
पृष्ठ ०७७४
बधो भवेद् यः । तस्यैव मूलं खलु कर्मतोऽस्य आयुर्विधाने
गुणकार उक्तः । ग्रहस्य लिप्ताः खखसिद्ध २४०० भक्ताः
प्रोक्ताः कलाः शेषमिहायुषोऽत्र । लग्नं ग्रहोनं यदि
षड्गृहेभ्यो हीनं तदानीं हरसंभवः स्यात् । नैवा-
धिके तत्र खगोनलग्ने लिप्तीकृते राशिकला १८००
विभक्ते । आयुःकलानां स हरः स्फुटः स्यात् रूपाद्य-
दाल्पः सहरस्तदानीम् । रूपाद्विशुद्धोगुणकस्तु तासामेवं
हि पापद्युचरोनलग्ने । शुभोनलग्ने तु हरोद्विनिघ्न
आयुः कलाभ्योहरलब्धलिप्ताः । विशोधनीया यदि
रूपकोनोहरस्तदानीं गुणकेन गुण्यः । चक्रार्द्ध-
हानौ बहुषु द्वयोर्वा द्युचारिणोरेकगृहस्थयोस्तु । सत्या-
भिधानस्य मतेन सत्यं स्वांशं हरत्येव बलोत्कटोयः । एवं
कार्य्या चक्रपातार्द्धहानिरायुर्दाये ह्यंशजे पिण्डजे
च” इत्यंशायुः “नैसर्गाख्ये जीवशर्मोदिते च हारं
कृत्वात्वेककोनोगुणः स्यात्” निसर्गायुषिविशेषः । “आयु-
र्लिप्ताः स्वगुणगुणिता व्योमशून्याश्वि २०० भक्ता
अब्दामासादिवसघटिकाः स्युर्विनाड्यः क्रमेण” “एवं
यथायथं गुणकगुणिता आयुलिप्ताः २०० भक्ता
अब्दा भवन्ति शेषं विकला द्वादशभिर्गुणयित्वा षष्ट्या विभज्य
लब्धं कलासु संयोज्य पुनरपि ताः कला द्विशत्या विभजेत्
तेन मासा भवन्ति । पुनःशेषं त्रिंशता गुणयित्वा कलासु
संयोज्य द्विशत्या भागे दिवसा भवन्ति पुनःशेषं
षष्ट्यागुण्य कलासु संयोज्य द्विशत्या विभज्य लब्धं घटिका
भवन्ति । एवं पलानि च” । “एवं सर्वं द्युचरजनितं
ह्यायुरनीय लग्नादायुः साध्यं कथितविधिना किन्तु लग्ने
विशेषः” । “एवं द्युगणजनितमिति रव्यादिग्रहसूचितं तेन
तत्तद्ग्रहदत्तायुरुच्यते इत्यर्थः” । “लग्ने तु वीर्य्याभ्यधिके
भतुल्यैर्वर्षैर्युतं तत्र विधेयमायुः । भागादिकादप्यनुपातलब्धं
मासादिना संयुतमेव कार्य्यम्” वीर्य्याधिके षडधिके इत्यर्थः ।
अनुपातस्तु लग्नभागादि द्विगुणं कृत्वा पञ्चभिर्भक्त्वा लब्धं
मासाः शेषं त्रिंशतागुण्य पञ्चभिर्भक्तं लब्धं दिनानि
शेषं षष्ट्यागुण्य पञ्चभिर्भक्त्वा लब्धं घटिका एवं पलादि-
कमुन्नेयम् । एवं लग्नायुः” अथ रव्यादीनां पिण्डायुः ।
“नन्देन्दवो १९ वाणयमाः २५ शरक्ष्मा १५ दिवाकराः १२
पञ्चभुवः १५ कुपक्षाः २१ । नखाश्च २० भास्वत्प्रमुखग्रहाणां
प्रिण्डायुषोऽब्दा निजतुङ्गगानाम् । निजोच्चशुद्धः
खचरोविशोध्योभमण्डलात् षद्भवनोनकश्चेत् । यथा स्थितः ।
षद्भवनाधिकस्तु लिप्तीकृतः संगुणितो निजाब्दैः ।
तत्र खाभ्ररसचन्द्रविलोकै २१६०० रुद्धृते सति
यदाप्यते फलम् । वर्षमासदिननाड़िकाच्च्युतं तद्धि
पिण्डभवमायुरिष्यते” इति पिण्डायुः । “त्र्यंशुकं
हरति शत्रुभे ग्रहः स्वायुषोऽत्र न तु वक्रचारगः ।
सूर्य्यलुप्तकिरणोऽर्द्धहारकः प्रोझ्य भार्गवदिनेशनन्दनौ ।
खचरोजायते योऽर्द्धत्र्यंशयोरपहारकः । आंयुषः स
हरेदर्द्धं त्र्यंशं शुक्रशनैश्वरौ । प्राग्वत्फलानि स्वहरै-
र्विधाय तदैक्यती यत्ग्रहसंख्ययाप्तम् । तदत्र ह्रासं
बलिनो ग्रहस्य जगौ मणित्थोहरिरित्थमेव । हरयुति-
र्विहृनाग्रहसंख्यया स च हरोपचयश्च ततः फलम् ।
अधिकवीर्यवतोऽम्बरचारिणो निगदतीति मुनिः किल देवलः ।
लिप्तीभूतैर्लग्नभागैर्निहन्यादादायुर्दाय खेचराणां पृथक्-
स्थम् । व्योमाकाशर्त्विन्दुपक्षै २१६०० र्भजेत्तं स्वायुर्दायात्
शोध्यमब्दादि लब्धम् । एवं क्रूरे लग्नगे सौम्यदृष्टे तस्मि-
न्दाये तत्फलार्द्धं विशोध्यम् । एतद्दाये नांशसंज्ञे विधेयं
पिण्डायुर्वत् कर्म नैसर्गिकेऽपि, अत्र विशेषा लघुपद्धतौ ।
“लग्नेचेदशुभस्तदोदयगृहात् हित्वांशनिघ्नं फलं क्रूरस्योदय
भावजं यदि तनौ द्वौ तद्बलिष्ठस्य च । चेत् साम्येऽधिक
भावजेन बलयोस्तेन ग्रहायुः कला निघ्नाः स्वाभ्ररसेन्दु-
दस्र २१६०० विहृता लब्धं त्यजेत् स्वायुषः” । लग्नगपा-
पस्य लग्ने सत्त्वे तु न त्यागः “योयो भावः स्वामिदृष्टो
युतो वेत्यादिना” तस्य पुष्टत्वाभिधनात्, “क्रूरःसोऽपि
शुभेक्षितो यदि तदा लब्धस्य खण्डं त्यजेत् नैतत् कर्म्म
विलग्नपे तनुगते क्रूरेऽपि नांशायुषीत्युक्तेश्च” ग्रहाणां
बलं च बलशब्दे वक्ष्यते । नखाः २ ० शशी १ द्वौ २ नवकं
९ धृतिश्च १८ कृतिः २० खवाणा ५० रविपूर्वकाणाम् इयं
निरुक्ताक्रमशोग्रहाणां नैसर्गिके ह्यायुषि वषेसंख्या” ।
इति नैसर्गिग्रहदत्तायुः इदानीमंशायुःप्रभृतीनां कस्य कुत्र
ग्राह्यता तदाह । “अंशोद्भवं लग्नबलात् प्रसाध्य-
मायुश्च पिण्डोद्भवमर्कवीर्य्यात् नैसर्गिकं चन्द्रमसोबलेन
ब्रूमस्त्रयाणामथ वीर्य्यसाम्ये । अंशोद्भवं लग्नबलेन हन्यात्
पिण्डाख्यमायुश्च बलेन भानोः । नैसर्गिकं चन्द्रमसो बलेन
सर्वाण्यथैकत्र विधाय तानि । विलग्नतिग्मांशुहिमद्युतीनां
हरेद्बलैक्येन ततो यदाप्तम् । वर्षाद्यमायुस्त दहस्फुटं स्यात्
श्रीनीलकण्ठादय एवमूचुः । लग्नसूर्यशिनोबलशून्याः
स्युर्यदात्र परमायुरगांशम्” हीनबलत्वमाह दामोदरः
रूपत्रयाल्पं किल षड्बलैक्यं भवेद्विलग्नस्य खगस्य यस्य ।
स्वस्वामिना नो सहितो न दृष्टः स हीनवीर्य्यः कथितो-
पृष्ठ ०७७५
मुनीन्द्रः” । केशवोऽपि “त्र्यल्पे हीनबली बली षडधिके
वीर्य्ये ग्रहश्चोदयः” । “सर्व एव स्वचरा ददतीदं जीवश-
र्मगदितं हि तदायुः । ग्रहः स्वोच्चहीनः स चेत्
षड्गृहोनो भचक्राद्विशीध्योऽथ भागीकृतः सन् । कुवेदर्त्तुनागै
८६४ १ र्हतो वेदखाक्षौ ५०४ र्विभक्तोदिनाद्यम्भवत्येव-
मायुः” अहोभ्यः खरामै ३० हृतेभ्योऽधिमासाः
पतङ्गैश्च तेभ्योभवेयुस्तदाब्दाः । भचक्रार्द्धहान्यादिकोऽन्यो-
विधिर्यः सपिण्डोद्भवायुर्वदेवात्र कार्यः इति । आयुः-
स्वथैतेषु बलाढ्यलग्ने विहाय राशीन् कृतलिप्तिकेऽत्र
भक्ते द्विशत्या २०० फलमब्दपूर्वं यत्स्यात् विलग्नायुषि
तच्च योज्यम् । लग्नार्कयोरर्कशशाङ्कयोश्च लग्नोडुपत्योरपि
वीर्यसाम्ये । तदायुषोरैक्यदलं भवेद्यत् तत् श्रीधराद्यैः
स्फुटमायुरुक्तम्” इति लग्नायुः । “ये धर्मकर्मनिरता विजि-
तेन्द्रियाये ये पथ्यभोजनजुषोद्विजदेवभक्ताः । लोकोत्तरन्द-
धति ये कुलशीललीलां तेषामिदङ्गदितमायुरुदारधीभिः” ।
अष्टवर्गादपि आयुर्दायज्ञानं भवति तच्चाष्टवर्गशब्दे उक्त
प्रायम् । ५२२ पृष्ठे दृश्यम् नक्षत्रायुःकेन्द्रायुःप्रभृतीनां
विस्तरभयादिहानुक्तिराकरे तच्च दृश्यम् ।

आयुर्द्रव्य न० आयुःसाधनं द्रव्यम् शा० त० । १ औषधे

रत्नमा० २ आयुःसाधने घृते च “आयुर्वै घृतमित्युक्तेः
घृतस्यायुर्जनकत्वात्तथात्वम् ।

आयुर्योग पु० उचितस्यायुषोज्ञापकः योगः । ज्योतिषोक्ते

ग्रहयोगभेदे सचायुःशब्दे दृश्यः ।

आयुर्वृद्धि स्त्री आयुषो वृद्धिः । द्रव्यविशेषसेवनेनायुषो

वृद्धौ तानि च द्रव्याणि कतिचिदुच्यन्ते । रस एव तावत्
सर्वापेक्षयायुर्वृद्धिकरः “अभ्रकं तव वीजन्तु मम वीजन्तु
पारदः । अनयीर्मेलनं देवि! मृत्युदारिद्र्यनाशनम्”
इति सर्व० द० गौरीं प्रति शिववाक्यम्” कमयोगेन देवेशि!
प्राप्यते पिण्डधारणम् । रसश्च पवनश्चेति कर्म्मयोगो
द्विधा स्मृतः । मूर्च्छितो हरति व्याधीन् मृतो जीवयति
स्वयम् । बद्धः खेचरतां कुर्य्याद्रसो वायुश्च भैरवि!” इति
सर्व्व० द० तन्त्रवाक्यम् । यथा च वायोर्निरोधेनैव
आयुर्वृद्धिः । तथोक्तं काशी० “संनियम्येन्द्रियग्रामं नातिनो-
चोच्छ्रितासनः । मध्यमञ्चोत्तमं चाथ प्राणायामसुपक्र-
मेत् । चलेऽनिले चलं सर्वं निश्चलं तत्र निश्चले । स्थाणुत्व-
माप्नुयाद्योगोततोऽनिलनिरोधनात् । यावद्देहे स्थितः
प्राणो जीवितं तावदुच्यते । निर्गते तत्र मरणं ततःप्राणं
निरोधयेत् । प्राणायामेन युक्तेन सर्व्वव्याधिक्षयोभयेत्
अयुक्ताभ्यासयोगेन सर्वव्याधिसमुद्भवः” ततश्च प्राणायामस्य
सर्वव्याधिहरत्वादप्यायुर्वृद्धिकरत्वम् । अस्यचायुर्वृद्धिकरत्वे
ऽन्यदपि कारणम् तथा हि “षष्टिश्वासैभंवेत् प्राणः षट्प्राणा
नाड़िका मता । षष्टिर्नाड्यस्त्वहोरात्रोजपसंख्याक्रमो-
मतः । एकविंशतिसाहस्रं षट्शतानि महेश्वरि! । जपति
प्रत्यहं प्राणीति” तन्त्रोक्त्या २१६०० एतन्मिताः श्वासरूपाः
प्राणक्रियाः अहोरात्रे भवन्ति वत्सरसंख्यया ३६० गुणि-
तास्ताः ७७७६०० एतन्मिता वत्सरे भवन्ति । “शतायुर्वै
पुरुष” इति श्रुत्या मनुष्याणां स्वाभाविकशतायुष्ट्वोक्तेः शतेन
गुणितास्ताः ७७७६००००० एतन्मिताः प्राणक्रिया
मनुष्याणां जीवनकाले भवितुमर्हन्ति तत्र प्राणाया-
मादिना प्राणवायोर्निरोधे प्राणक्रियानुत्पत्तेः प्राणक्रिया
रोधकाले च यावत्यः प्राणक्रिया भवितुमर्हन्ति तावन्तःकाला
आयुषो बर्द्धन्ते इति । उक्ताः प्राणक्रियाश्च सुस्थस्यैव भवन्ति
रोगाद्युपसर्गे शीघ्रधावनादिपरिश्रमे च प्राणक्रिया-
धिक्यं भवति तेन स्वल्पकालमध्ये यावत्प्राणक्रिया अपेक्षिता-
स्ततोन्यूनकालमध्ये तासामुत्पत्तावायुःक्षयः । शतायुष्ट्वञ्च
स्वाभाविकं कर्म्मवशात् ततोन्यूनताऽपि जात्यायुर्भोगानां
कर्म्मविपाकत्वस्य योगशास्त्रे उक्तेः । तादृशाल्पायुष्ट्वादिसूचको
ग्रहविशेषयोगादिर्ज्योतिषे उक्तः । अन्नदोषादीनाञ्चाल्पा-
युष्ट्वप्रयोजकत्वं स्मृत्युक्तमदृष्टद्वारैव । वैद्यकोक्तापथ्यभोजनस्य
तथात्वञ्च रोगोत्पत्तिद्वारेतिभेदः । रोगोपसृष्टदेहं च जीवो
दुःखहेत्वात् वह्न्याद्युपद्रुतदेशवत् शीघ्रं परिजिहीर्षति ।
तथा च देहो यथा न रोगादिभिरुपसृज्येत” तथा
यतितव्यमित्येतदर्थं शास्त्रेषु पथ्योपदेशः इति बोधयम् ।
एवं खेचरीमुद्रादीनामप्यायुर्वृद्धिकरत्वम् काशी० उक्तम् ।
“कपालकुहरे जिह्वा प्रविष्टा विपरीतगा । भ्रुवोरन्तर्गता-
दृष्टिर्मुद्रा भवति खेखरी । न पीड्यते स रोगेण न च
लिप्येत कर्म्मणा । बाध्यते न स कालेन योमुद्रां वेत्ति
खेचरीम् । चित्तं चरति खे यस्माज्जिह्वा चरति खे गता ।
तेनैषा खेचरी नाम मुद्रा सिद्धैर्निषेविता । यावद्विन्दुः
स्थिरोदेहे तावन्मृत्युभयं कुतः । यावद्बद्धा नभोमुद्रा
तावद्विन्दुर्न गच्छति । उड्डीनं कुरुते यस्मादहोरात्रं
महाखगः । उडीयानं ततः प्रोक्तं तत्र बन्धोऽभिधीयते । जठरे
पश्चिमं जानु नाभेरूर्द्ध्वञ्च धारयेत् । उड्डीयानं ह्ययं
बन्धोमृत्यारपि भयं जयेत् । बन्धाति हि शिराजालं
अधोगामि न भोजनम् । एष जालन्धरोबन्धः कण्ठे
दुःखौघनाशनः । जलन्धरे कृते बन्धे कण्ठसंकोचलक्षणे ।
पृष्ठ ०७७६
न पीयूषं पतत्यग्नौ न च वायुः प्रधावति । पार्ष्णिभागेन
संपीड्य योनिमाकुञ्चयेद्गुदम् । अपानमूर्द्धमाकृष्य
मूलबन्धोऽभिधीयते । अपानप्राणयीरैक्यं क्षयेमूत्रपुरीषयोः ।
युवा भवति वृद्धोऽपि सततं मूलबन्धनात्” । एवमन्या-
न्यपि स्मार्त्ताणि कर्म्माणि आयुर्वृद्धिकराणि “मत्स्यान्
मोचयतो द्विजाय ददतोऽप्यायुश्चिरं वर्द्धते” “आयुष्यं प्राङ्-
मुखोभुङ्क्ते” इत्यादीनि ।
रसवत् अन्यान्यपि द्रव्याणि सेवितानि आयुर्वृद्धिकराणि
सुश्रुते दर्शितानि तानि रसतुल्यतया रसायनानि यथा
“अथातः सर्व्वोपघातशमनीयं रसायनंव्याख्यास्यामः ।
पूर्वे वयसि मध्ये वा मनुष्यस्य रसायनम् । प्रयुञ्जीत
भिषक् प्राज्ञः स्निगधशुद्धतनोः सदा । नाविशुद्धशरीरस्य
युक्तो रासायनो विधिः । न भाति वाससि क्लिष्टे रङ्ग-
योग इवाहितः । शरीरस्योपघाता ये दोषजा मानसा-
स्तथा । उपदिष्टाः प्रदेशेषु तेषां बक्ष्यामि वारणम् ।
शीतोदकं पयः क्षौद्रं सर्पिरित्येकशो द्विशः । त्रिशः समस्त-
मथ वा प्राक् पीतं स्थापयेद्वयः । तत्र विडङ्गतण्डुलचूर्ण-
माहृत्य यष्टीमधुयुक्तं यथाबलं शीततोयेनोपयुञ्जीत
शीततोयं चानुपिबेदेवमहरहर्मासं तदेव मधुयुक्तं भल्लातक-
क्वाथेन वा मधुद्राक्षाक्वाथयुक्तं वा मध्वामलकरसभ्यां वा
गुडुचीक्वार्थेन वा । एवमेते पञ्च प्रयोगा भवन्ति जीर्ण्णे
मुद्गामलकयषेणालवणेनाल्पस्नेहेन घृतवन्तमोदनमश्नीयात् ।
एते खल्वर्शांसि क्षपयन्ति कृमीनुपघ्नन्ति ग्रहणधारण-
शक्तिं जनयन्ति भासेमासे प्रयोगे वषशतमायुषोऽभिवृद्धिर्भ-
वति । विडङ्गतण्डुलानां द्रोणं पिष्टपचने पिष्टवदुत्स्वेद्य
विगतकषायं स्विन्नमवतार्य्य दृषदि पिष्टमायसे दृढे
कुम्भे मधूदकोत्तर प्रावृषि भस्मराशावन्तर्गृहे चतुरो
मासान्निदध्यात् वर्षाविगमे चोद्धृत्योपसंस्कृतशरीरः
सहस्रसम्पाताभिहुतं कृत्वा प्रातः प्रातर्यथाबलमुपयुञ्जीत,
जीर्णे मुद्गामलकयूषेणालवणेनाल्पस्नेहेन घृतंवन्तमोदनम-
श्रीयात् पांशुशय्यायां शयीत । तस्य मासादूर्द्ध्वं सर्वाङ्गेभ्यः
कृमयो निःक्रामन्ति तानणुतैलेनाभ्यक्तस्य वंशविदलेना
पहरेत् । द्वितीये पिपीलिकास्तृतीये यूकास्तथैवापहरेत्
चतुर्थे दन्तनखरोमाण्यवशीर्य्यन्ते पञ्चमे प्रशस्तगुणलक्ष-
णानि जायन्ते । अमानुषं चादित्यप्रकाशं वपुरधिग-
च्छति दूराच्छ्रवणानि दर्शनानि चास्य भवन्ति रजस्त-
मसी चापोह्य सत्वमधितिष्ठति । श्रुतिनिगाद्यपूर्वोत्पादी
गजबलोऽश्वजवः पुनर्युवाष्टौ वर्षशतान्यायुरवाप्नोति ।
तस्याणुतैलमभ्यङ्गार्थे । अजकर्णकषायमुत्सादनार्थे
सोशीरं, कूपोदकं स्नानार्थे, चन्दनमुपलेपनार्थे, भल्लातकवि-
धानवदाहारः परिहारश्च । काश्मर्य्याणां निष्कुली
कृतानामेष एव कल्पः पांशुशय्याभोजनवर्जम् । अत्र हि
पयसा शृतेन भोक्तव्यम् आशिषश्च पूर्वेण समानाः ।
शोणितपित्तनिमित्तेषु विकारेष्वेतेषामुपयोगः । यथोक्तमा-
गारं प्रविश्य बलामूलार्द्धपलं पलं वा पयसालीड्य
पिबेत् । जीर्णे पयः सर्पिरोदनैत्याहारः । एवं द्वादश-
रात्रमुपयुज्य द्वादश वर्षाणि वयस्तिष्ठति । एवं दिवसश-
तमुपयुज्य वर्षशतं वयस्तिष्ठति । एवमेवातिबलानागबला-
विदारीशतावरीणामुपयोगः । विशेषतस्त्वतिबलामुदकेन,
नागबलाचूर्णं मधुना, विदारीचूर्णं वा क्षीरेण, शतावरीम-
प्येवं, पूर्ब्बेणान्यत् समानमाशिषश्च समाः । एतास्त्वौषधयो
बलकामाणां शोणितंछर्दयतां विरिच्यमानानां
चोपदिश्यन्ते । वाराहीमूलतुलाचूर्णं कृत्वा ततोमात्रां
मधुयुक्तां पयसालोड्य पिबेत् जीर्णे पयःसर्पिरोदनैत्या-
हारः । प्रतिषेधोऽत्र पूर्ववत् क्रियाप्रयोगमुपसेवमानो
वर्षशतमायुरवाप्नोति स्त्रीषु चाक्षयताम् । एतेनैव
चूर्णेन पयोऽवचूर्णशृतशीतमभिमथ्याज्यमुत्पाद्य मधुयुतसु-
पयुञ्जीत सायम्प्रातरेककालं वा जीर्णे पयःसर्पिरोदन
इत्याहारः । एवं मासमुपयुज्य वर्षशतायुर्भवति । जीर्णे
पयः सर्पिरोदन इत्याहारः । चक्षुःकामः प्राणकामो
वा वीजकसाराग्निमन्थमूलं निःक्वाथ्य माषप्रस्थं
साधयेत् तस्मिन् सिध्यति चित्रकमूलानामक्षमात्रं कल्कं दद्या-
दामलकरसचतुर्थभागं ततः स्विन्नमवतार्प्य सहस्रसम्पाता-
भिहुतं कृत्वा शीतीभूतं मधुसर्पिभ्यां संसृज्योपयुञ्जीत
यथाबलं लवणं परिहरन् भक्षयेत् जीर्णे मुद्गामलकयूषेणा-
लवणेन घृतवन्तमोदनमश्नीयात् पयसा वा मासत्रय-
मेवमाभ्यां प्रयोगाभ्यां चक्षुःसौपर्ण्णवद्भवत्यनल्पबलो
बलवान् स्त्रीषु चाक्षयो वर्षशतायुर्भवतीति । भवति चात्र ।
पयसा सह सिद्धानि नरः सनफलानि यः । भक्षयेत् ।
पयसा सार्द्धं वयस्तस्य न शीर्य्यते ।
अथातो मेधायुष्कामीयं रसायनं चिकित्सितं व्या-
ख्यास्यामः! मेधायुःकामः श्वेतवल्गुजफलान्यातप-
परिशुष्काण्यादाय सूक्ष्मचूर्णानि कृत्वा गुडेन सह
समालोढ्य स्नेहकुम्भे सप्तरात्र धान्यराशौ निदध्यात्
सप्तरात्रादुद्धृत्य हृतदोषस्य यथाबलं पिण्डं प्रयच्छेद-
नुदिते सूर्य्ये उष्णोदकं चानुपिवेत् । भल्लातकविधान-
पृष्ठ ०७७७
वच्चागारप्रवेशो जीर्णोषधश्चापराह्णे हिमाभिरद्भिः
परिषिक्तगात्रः शालीनां षष्टिकानां च पयसा शर्करामधुरे-
णौदनमश्रीयादेवं षण्मासानुपयुज्य विगतपाष्मा
वलवर्णोपेतः श्रुतिमिगादी स्मृतिमानरोगो वर्षशतायुर्भवति ।
कुष्ठिनं पाण्डुरोगिणमुदरिणं वा कृष्णाया गोर्मूत्रे-
णालोड्यार्द्धपलिकं पिण्डं विगतलौहित्ये सवितरि
पाययेत, अपराह्णे चालवणेनामलकयूषेण सपिर्ष्मन्तमोदनमश्नी-
यात् । एवं मासमुपयुज्य स्मृतिमानरोगो वर्षशतायुर्भवति
एष एवोपयोगश्चित्रकमूलानां, रजन्याश्चित्रकमूले विशेषो
द्विपलिकं पिण्डं परं प्रमाणं शेषं पूर्ववत् ।
हृतदोष एव प्रतिसंसृष्टभक्तो यथाकममागारं प्रविश्य
मण्डूकपर्ण्णीस्वरसमादाय सहस्रसम्पाताभिहुतं कृत्वा
यथाबलं पयसालोड्य पिबेत् पयोऽनुपानं वा तस्यां जीर्णायां
यवान्नं पयसोपयुञ्जीत तिलैर्वा सह भक्षयित्वा त्रीन्मासान्
पयोऽनुपानं जीर्णे पयः सर्पिरोदन इत्याहारः । एवमु-
पयुञ्जानः ब्रह्मवर्चसी श्रुतनिगादी भवति वर्षशत-
मायुरवाप्नोति त्रिरात्रोपोषितश्च त्रिरात्रमेनां भक्ष-
येत् । त्रिरात्रादूर्द्ध्वं पयःसपिरिति चोपयुञ्जीत ।
विल्वमात्रं पिण्डं वा पयसालोड्य पिबेदेवं दशरात्रमुप-
युज्य मेधावी वर्षशतायुर्भवति । हृतदोष एवागारं प्रविश्य
प्रतिसंसृष्टभक्तोब्राह्मीस्वरसमादाय सहस्रसम्पाताभिहुतं
कृत्वा यथाबलमुपयुञ्जीत जीर्ण्णौषधश्चापराह्णे यवागूमल-
वणां पिबेत् क्षीरसात्म्यो वा पयसा भुञ्जीत । एवं सप्तरा-
त्रमुपयुज्य ब्रह्मवर्चसी मेधावी भवति । द्वितीयं सप्तरात्र-
मुपयुज्य ग्रन्थमीप्सितमुत्पादयति । नष्टञ्चास्य प्रादुर्भवति ।
तृतीयं सप्तरात्रमुपयुज्य द्विरुच्चारितं शतमम्यवधारयति ।
एवमेकविंशतिरात्रमुपयुज्यालक्ष्मीरपक्रामति मूर्त्तिमती चैनं
वाग्देव्यनुप्रविशति सर्वाश्चैनं श्रुतय उपतिष्ठन्ति । श्रुतधरः
पञ्चवर्षशतायुर्भवति । ब्राह्मीस्वरसप्रस्थद्वये घृतप्रस्थं विड़-
ङ्गतण्डुलानां कुडवं द्वे द्वे पले वचात्रिवृतयोर्द्वादश हरीत-
क्यामलकविभीतकानि श्लक्ष्णपिष्टान्यावाप्यैकध्यं साधयित्वा
स्वनुगुप्तं निदध्यात् । ततः पूर्वविधानेन मात्रां यथाबल-
मुपयुञ्जीत जीर्णे पयःसर्पिरोदन इत्याहारः । एतेनो-
र्द्ध्वमधस्तिर्य्यक्कृमयो निःक्रामन्ति अलक्ष्मीरपक्रामति ।
पुष्करकर्णः स्थिरवयाः श्रुतनिगादी त्रिवर्षशतायुर्भवत्ये तदेव
कुष्ठविषमज्वरापस्मारोन्मादविषभूतग्रहेष्वन्येषु च
महाव्याधिषु च संशोधनमादिशन्ति । हृतदोष एवागारं
प्रविश्य हैमवत्या वचायाः पिण्डमामलकमात्रमभिहुतं
पयसालोड्य पिबेत् जीर्णे पयःसर्पिरोदन इत्याहारः ।
एवन्द्वादशरात्रमुपयुञ्जीत ततोऽस्य श्रोत्रं विव्रियते द्विर-
भ्यासात् स्मृतिमान् भवति त्रिरभ्यासाच्छतमादत्ते चतुर्द्धा
दशरात्रमुपयुज्य सर्व्वं तरति किल्विषं तार्क्ष्य दर्शनमुत्पद्यते
शतायुश्च भवति । द्वे द्वे पले इतरस्या वचाया
निःक्वाथ्य पिबेत् पयसा समानं भोजनं समाः पूर्ब्बेणा-
शिषश्च । वत्ताशतपाकंवा सर्पिर्द्रोणमुपयुज्य पञ्चवर्ष-
शतायुर्भबति गलगण्डापचीश्लीपदस्वरभेदांश्चापहन्तीति ।
अथायु कामीयं वक्ष्यामः । मन्त्रौषधसमायुक्तं संवत्सर-
फलप्रदम् । विल्वस्य चूर्णं पुष्ये तुहुतं वारान् सहस्रशः ।
श्रीसूक्तेन नरः कल्ये ससुवर्णं दिने दिने । सर्पिर्मधु-
युतं लिह्यादलक्ष्मीनाशनं परम् । त्वचं विल्वस्य मूलस्य
मूलक्वाथं दिने दिने । प्राश्नीयात् पयसा सार्द्धं स्नात्वा
हुत्वा समाहितः । दशसाहस्रमायुष्यं स्मृतं युक्तरथं भवेत् ।
हुत्वा विशालाक्वाथन्तु मधुलाजैश्च संयुतम् । अमोघं
शतसाहस्रं युक्तं युक्तरथं स्मृतम् । सुवर्णपद्मवीजानि
मधुलाजाः प्रियङ्गवः । गव्येन पयसा पीतमलक्ष्मीं
प्रतिषेधयेत् । नीलोत्पलदलक्वाथो गव्येन पयसा शृतः ।
ससुवर्णतिलैः सार्द्धमलक्ष्मीनाशनः स्मृतः । गव्यं पयः
सुवर्णञ्च मधूच्छिष्टञ्च माक्षिकम् । पीतं शतसहस्राभिहुतं
युक्तरर्थं स्मृतम् । वचाघृतसुवर्णञ्च विल्वचूर्णमिति त्रयम् ।
मेध्यमायुष्यमारोग्यपुष्टिसौभाग्यवर्द्धनम् । वासामूलतुला-
क्वाथे तैलमावाप्य साधितम् । हुत्वा सहस्रमश्नीया-
न्मेध्यमायुष्यमुच्यते । यावकांस्तावकान्भक्षेदभिभूय यवां-
स्तथा । पिप्पलीमधुसंयुक्तान् शिक्षाचरणवद्भवेत् । मध्वा-
मलकचूर्णानि मुवर्णमिति च त्रयम् । प्राश्यारिष्टगृही-
तोऽपि मुच्यते प्राणसंशयात् । शतावरीघृतं मम्यगुपयुक्तं
दिने दिने । सक्षोद्रं ससुवर्णं च नरेन्द्रं स्थापयेद्वशे ।
गोचन्दनामोहनिकामधूकं माक्षिकं मधु । सुवर्णमिति संयोगः
पेयः सौभाग्यमिच्छता । पद्मनीलोत्पलक्वाथे यष्टीमधु-
कसंयुते । सर्पिरासादितं गव्यं ससुवर्णं सदा पिबेत् ।
पयश्चानुपिबेत् सिद्धं तेषामेव समुद्भवे । अलक्ष्मीघ्नं
सदायुष्यं राज्याय सुभगाय च । यत्र नोदीरितो मन्त्रो योगे-
ष्वेतेषु साधने । शब्दिता तत्र सर्व्वत्र गायत्री त्रिपदी
भवेत् । पाष्मानं नाशयन्त्येता दद्युश्चौषधयः श्रियम् ।
कुर्य्युर्नागबलं चापि मनुष्यममरोपमम् । सतताध्ययनं
बादः परतन्त्रावलोकनम् । तद्विद्याचार्य्यसेवा च बुद्धि-
मेधाकरोगणः । आयुष्यं भोजनं जीर्णेवेगानाञ्चाविधा-
पृष्ठ ०७७८
रणम् । ब्रह्मचर्य्यमहिंसा च साहसानाञ्च वर्जनम्” ।
एवम् “सद्योमांस नवान्नञ्च वाला स्त्री क्षीरभोजनम् ।
घृतमुष्णोदकं चैव सद्यः प्राणकराणि षट्” इत्याद्युक्तानि
सुश्रुते हिताहितीयाध्याये हिततया चोक्तानि च
आयुर्वृद्धिकराणि ।

आयुर्वेद पु० आयुर्विद्यते लभ्यतेऽनेन विद--लाभे करणे घञ्

आयुर्वेत्त्यनेन चिह्नज्ञापनेन विद--ज्ञाने करणे घञ् वा ।
चिकित्साशास्त्रे तन्निरुक्त्यादिकं सुश्रुते दर्शितं यथा ।
“शल्यं शालक्यमित्यादि अष्टाङ्गशब्दे ५२३ पृष्ठे उक्त
मुपक्रम्य “इह खल्वायुर्व्वेदप्रयोजनं व्याध्युपसृष्टानां
व्याधिपरिमोक्षः स्वस्थस्य रक्षणञ्च । आयुरस्मिन् विद्यते
ऽनेन वा आयुर्व्विन्दतीत्यायुर्वेदः । तस्याङ्गवरमाद्यमागम-
प्रत्यक्षानुमानोपमानैरविरुद्धमुच्यमानमुपधारय ।
एतद्ध्यङ्गं प्रथमं प्रागभिघातव्रणसंरोहाद्यज्ञशिरःसन्धानाच्च ।
श्रूयते हि यथा रुद्रेण यज्ञस्य शिरश्छिन्नमिति ततो
देवा अश्विनावभिगम्योचुः । भगवन्तौ नः श्रेष्ठतमौ युवां
भविष्ययः । भवद्भ्यां यज्ञस्य शिरःसन्धातव्यम् । तावूच-
तुरेवमस्त्विति । अथ तयोरर्थे देवा इन्द्रयज्ञभागेन प्रा-
सादयन् । ताभ्यां यज्ञस्य शिरःसंहितमिति । अष्टा-
स्वपि चायुर्व्वेदतन्त्रेष्वेतदेवाधिकमभिमतमाशुक्रियाकरणा-
द्यन्त्रशस्त्रक्षाराग्निप्रणिधानात्सर्व्वतन्त्रसामान्याच्च ।
तदिदं शाश्वतं पुण्यं स्वर्ग्यं यशस्यमायुष्यं वृत्ति-
करञ्चेति । ब्रह्मा प्रोवाच ततः प्रजापतिरधिजगे तस्मा-
दश्विनावश्विभ्यामिन्द्र इन्द्रादहं मया त्विह प्रदेय
मर्थिभ्यः प्रजाहितहेतोः । भवति चात्र । अहं हि
धन्वन्तरिरादिदेवो जरारुजामृत्युहरोऽमराणाम् । शल्या-
ङ्गमङ्गैरपरैरुपेतं प्राप्तोऽस्मि गां भूय इहीपदेष्टुम्” ।
स चार्थर्ववेदस्योपवेदः “विधाताथर्व्वसर्ब्बस्वमायुर्वेदं
प्रकाशयन् । स्वनाम्ना संहितां चक्रे लक्षश्लोकमयीमृजुम्”
इति भावप्रकाशोक्तेः । चरणव्यूहमते ऋग्वेदस्यो-
पवेदः आयुर्वेदः अथर्ववेदस्य तु शस्त्रशास्त्राण्युपवेदः ।
स च षोडशर्पिप्रणीतत्वात् षोडशविधः यथोक्तं ब्रह्मवै० पु०
“ऋग्यजुः सामाथर्व्वाख्यान् दृष्ट्वा वेदान् प्रजापतिः ।
विचिन्त्य तेषामर्थं चैवायुर्वेद चकार सः । कृत्वा तु पञ्चमं
वेदं भास्कराय ददौ विभुः । स्वतन्त्रं संहितां तस्मात्
भास्करश्च चकार सः । भास्करश्च स्वशिष्येभय आयुर्वेदं स्वसं-
हिताम् । प्रददौ पाठयामास ते चक्रुः संहितास्ततः ।
तेपां नामानि विदुषां तन्त्राणि तत्कृतानि च । व्याधि-
प्रणाशवीजानि साध्वि! मत्तो निशामय । धन्वन्तरिर्द्दि-
वोदासः काशीराजोऽश्विनीसुतौ । नकुलः सहदेवार्की
च्यवनो जनको बुधः । जावालो जाजलिः पैलः
करथोऽगस्त्यएव च । एते वेदाङ्गवेदज्ञाः षोड़श व्या-
धिनाशकाः । चिकित्सातत्त्वविज्ञानं नाम तन्त्रमनौप-
मम् । धन्वन्तरिश्च भगवान् चकार प्रथमे सति! । चिकि-
त्सादर्पर्णं नाम दिवोदासश्चकार सः । चिकित्साकौमुदीं
दिव्यां काशीराजश्चकार सः । चिकित्सासारतन्त्रञ्च
भ्रमघ्नं चाश्विनीसुतौ । तन्त्रं वैद्यकसर्वस्वं नकुलश्च
चकार सः । चकार सहदेवश्च व्याधिसिन्धुविमर्द्दनम् ।
ज्ञानार्णवं महातन्त्रं यमराजश्चकार सः । च्यवनो
जीवदानञ्च चकार भगवानृषिः । चकार जनको योगी
वैद्यसन्देहभञ्जनम् । सर्वसारं चन्द्रसुतो जावालस्तन्त्र-
सारकम् । वेदाङ्गसारं तन्त्रञ्च चकार जाजलिर्मुनिः ।
पैलो निदानं करथस्तन्त्रं सर्वधरं परम् । द्वैधनि-
र्णयतन्त्रञ्च चकार कुम्भसम्भवः । चिकित्साशास्त्रवी-
जानि तन्त्राण्येतानि षोड़श । व्याधिप्रणाशवीजानि
बलाधानकराणि च । मथित्वा ज्ञानमन्थानैरायुर्वेदपयो-
निधिम् । ततस्तन्त्राण्युज्जहरुर्नवनीतानि कोविदाः ।
एतानि क्रमशो दृष्ट्वा दिव्यां भास्करसंहिताम् ।
आयुर्वेदं सर्ब्बवीजं सर्व्वं जानामि सुन्दरि! । व्याधेस्तत्त्वप-
रिज्ञानं वेदनायाश्च निग्रहः । एतद्दैद्यस्य वैद्यत्वं न
वैद्यः प्रभुरायुषः । आयुर्ब्बेदस्य विज्ञाता चिकित्सासु
यथार्थवित् । धर्म्मिष्ठश्च दयालुश्च तेन वैद्यः प्रकीर्त्तितः” ।
तस्य लक्षणं यथा भा० प्र० । “आयुर्हिताहितं व्याधिनिदानं
शमनं तथा । विद्यन्ते यत्र विद्वद्भिः स आयुर्वेद उच्यते”
तस्य निरुक्तिस्तत्रैव । “अनेन पुरुषो यस्मात् आयुर्वि-
न्दति वेत्ति च । तस्मान्मुनिवरैरेष आयुर्वेद इति स्मृतः” ।
“देहजीवयोर्योगोजीवनं तेनावच्छिन्नः काल आयुः
आयुर्बोधद्वारा आयुष्याण्यनायुष्याणि द्रव्यगुणकर्म्माणि
ज्ञात्वा तेषां सेवनत्यागाभ्याम् आरोग्येणायुर्विन्दति तेनैव
हेतुना परस्यायुर्वेत्ति च येन तद्बोधद्वारा स आयुर्वेदः”
भा० प्र० अथायुर्वेदवंशप्रादुर्भावस्तावदभिधीयते यथा भावप्र०
“विधाताऽथर्व्वसर्वस्वमयुर्वेदं प्रकाशयन् । स्वनाम्ना-
सम्हिताञ्चक्रे लक्षश्लोकमयीमृजुम् । ततः प्रजापतिं दक्षं
दक्षं सकलकर्मसु । विधिर्धीनीरधिः साङ्गमायुर्वेदमुपादि-
शत् । अथदक्षप्रादुर्भावः । अथ दक्षः क्रियादक्षः स्वर्वै-
द्योदेववल्लभः । वेदयामास विद्वांसौ सूर्य्यांशौ सुरसत्तमौ ।
पृष्ठ ०७७९
अथाश्विनप्रादुभावः “दक्षादधीत्य दस्रौ वितेनतुःसंहितां
स्वीयाम् । सकलचिकित्सकलोकप्रतिपत्तिविवृद्धये धन्याम् ।
स्वयम्भुवः शिरश्च्छिन्नं भैरवेण रुषाथ तत् । अश्विभ्यां सहितं
तस्मात्तौ जातौ यज्ञभागिनौ । देवासुररणे देवा दैत्यैर्ये
सक्षताः कृताः । अक्षतास्ते कृताः सद्योदस्राभ्यामद्भुतं
महत् । वज्रिणोऽभूद्भुजस्तम्भः स दस्राभ्यां चिकित्सितः ।
सीम्नि निपतिते चेन्द्रस्ताभ्यामेव सुखीकृतः । विशीर्ण्णद-
शनाः पूष्णोनेत्रे नष्टे भगस्य च । शशिनोराजयक्ष्माऽभू-
दश्चिभ्यान्ते चिकित्सिताः । भार्गवश्च्यवनः कामी वृद्धः
सन् विकृतिं गतः । वीर्य्यवर्ण्णस्वरोपेतः कृतोऽश्विभ्यां
पुनर्युवा । एतैश्चान्यैश्च बहुभिः कर्म्मभिभिषजां वरौ ।
बभूवतुर्भृशं पूज्याविन्द्रादीनां दिवौकसाम् । अथेन्द्रप्रादु-
र्भावः । संदृश्य दस्रयोरिन्द्रः कर्माण्येतानि यत्नवान् । आयु
र्वेदं निरुद्वेगं तौ ययाचे शचीपतिः । नासव्यौ सत्यसन्धेन
शक्रेण किल याचितौ । आयुर्वेदं यथाधीतं ददतुः
शतमन्यवे । नासत्याभ्यामधीत्यैष आयुर्वेदं शतक्रतुः । अध्या-
पयामास बहूनात्रेयप्रमुखान् मुनीन् । अथात्रेयप्रा-
दुर्भावः । एकदा जगदालोक्य गदाकुलमितस्ततः ।
चिन्तयामास भगवानात्रेयो मुनिपुङ्गवः । किं करोमि क्व
गच्छाभि कथम् लोका निरामयाः । भवन्ति, सामयानेतान्न
शक्नोमि निरीक्षितुम् । दयालुरहमत्यर्थं स्वभावो दुरति-
क्रमः । एतेषां दुःखतोदुःखं ममापि हृदयेऽधिकम् ।
आयुर्वेदं पठिष्यामि नैरुज्याय शरीरिणाम् । इति निश्चित्य
गतवानात्रेयस्त्रिदशालयम् । तत्र मन्दिरमिन्द्रस्य गत्वा
शक्रं ददर्श सः । सिंहासनसमासीनं स्तूयमानं सुरर्षिभिः ।
भासयन्तं दिशोभासा भास्करप्रतिमन्त्विषा ।
आयुर्वेदमहाचार्य्यं शिरोधार्य्यं दिवौकसाम् । शक्रस्तु तं
निरीक्ष्यैव त्यक्तसिंहासनो ययौ । तदग्रे पूजयामास
भृशं भूरितपस्कृशम् । कुशलं परिपप्रच्छ तथाऽऽगमन-
कारणम् । स मुनिर्वक्तुमारेभे निजागमनकारणम् ।
व्याधिभिर्व्यथितालोकाः शोकाकुलितचेतसः । भूतले
सन्ति, सन्तापं तेषां हर्त्तुं कृपां कुरु । आयुर्वेदोपदेशं मे
कुरु कारुण्यतो नृणाम् । तथेत्युक्तः सहस्राक्षोऽध्यापया-
मास तं मुनिम् । मुनीन्द्र इन्द्रतः साङ्गमायुर्वेदमधीत्य सः ।
अभिनद्य तमाशीर्भिराजगाम पुनर्म्महीम् । अथात्रेयो
मुनिश्रेष्ठो भगवान करुणापरः । सनाम्ना स हितां चक्रे-
नरचक्रानुकम्पया । ततोऽग्निवेशं भेड़ंच जातूकर्णं पराश-
रम् । सीरपाणिं च हारीतमायुर्वेदमपाठयत् । तन्त्रस्य
कर्त्ता प्रथममग्निवेशोऽभवत्पुरा । ततोभेड़ादयश्चक्रुः स्वस्व-
तन्त्रं, कृतानि तु । श्रावयासुरात्रेयं मुनिवृन्देन वन्दितम् ।
श्रुत्वा च तानि तन्त्राणि हृष्टोऽभूदत्रिनन्दनः । यथावत्सू
त्रितन्तस्मात्प्रहृष्टामुनयोऽभवन् । दिवि देवर्षयोदेवाः श्रुत्वा-
साध्विति तेऽब्रुवन्” । अथभरद्वाजप्रादुर्भावः “एकदा हिमव-
त्पार्श्वेवादागताः मुनयोबहवस्तांश्च नामभिः कथयाम्यहम्
भरद्वाजोमुनिवरः प्रथमं समुपागतः ततोऽङ्गिरास्ततोगर्गो
मरीचिर्भृगुभार्गवौ । पुलस्त्योऽगस्तिरसितोवशिष्ठः सपरा
शरः । हारीतोगौतमः सांख्यो मैत्रेयश्च्यवनोऽपि च ।
जमदग्निश्च गार्ग्यश्च काश्यपः कश्यपोऽपि च । नारदो
वामदेवश्च मार्कण्डेयः कपिष्ठलः । शाण्डिल्यः सह
कौण्डिल्यः शाकुनेयश्च शौनकः । आश्वलायनसाङ्कृत्यौ
विश्वामित्रः परीक्षितः । देवलोगालवोधौम्यः काप्यकात्या-
यनावुभौ । काङ्कायनो वैजवापः कुशिकोवादरायणिः ।
हिरण्याक्षश्च लौगाक्षिः शरलोमा च गोभिलः । वैखान
साबालखिल्यास्तथैवान्ये महर्षयः । ब्रह्मज्ञानस्य निधयो
यमस्य नियमस्य च । तपन्तस्तेजसा दीप्ताहूयमाना इवाग्नयः ।
सुखोपविष्टास्ते तत्र सर्वे चक्रुः कथामिमाम् । धर्म्मार्थकाम
मोक्षाणां मूलमुक्तं कलेवरम् । तच्च संसिद्धये शक्तं भवेद्यदि
निरामयम् । तपःस्वाध्यायधर्माणां ब्रह्मचर्यव्रतायुषाम् ।
हर्त्तारः पुरतीरोगा यत्र तत्र च सर्वतः । रोगाःकार्श्यक-
राबलक्षयकरादेहस्य चेष्टाहरा दृष्ट्यादीन्द्रियशक्तिसंक्षय-
कराः सर्वाङ्गपीड़ाकराः । धर्म्मार्थाखिलकाममुक्तिषु
महाविघ्नस्वरूपाबलात्प्राणानाशु हरन्ति सन्ति यदि ते क्षेमं कुतः
प्राणिनाम् । तत्तेषां प्रशमाय कश्चन विधिश्चिन्त्योभवद्भिर्बुधै-
र्योग्यैरित्यभिधाय संसदि भरद्वाजं मुबुभ्तेऽब्रुवन् । त्वं योग्यी
भगवन्! सहस्रनयनं याह्येहि शीघ्रंक्रमादायुर्वेदमधीत्य
यद्गदभयान्मुक्ता भवामोवयम् । इत्थं स मुनिभिर्योग्यैः प्रार्थितो
विनयान्वितैः । भरद्वाजो मुनिश्रेष्ठोजगाम त्रिदशालयम् ।
तत्रेन्द्रभवनं गत्वा सुरर्षिगणमध्यगम् । दृष्टवान् वृत्रह-
न्तारं दीप्यमानमिवानलम् । सोऽभिगम्य जयाशीर्भिर-
भिनन्द्य सुरेश्वरम् । ऋषीणां वचनं सम्यक् श्रावयामास
सत्तमः । व्याधयो हि समुत्पन्नाः सर्वप्राणिभयङ्कराः । तेषां
प्रशमनोपायं यथावद्वक्तुमर्हसि । तमुवाच मुनिं साङ्गमायु-
र्वेदं शतक्रतुः । जीवेद्वर्षसहस्राणि देही नीरुङ्गिशम्य यम् ।
सोऽनन्तपारन्त्रिस्कन्धमायुर्वेदं महामतिः । यथावदचिरा-
त्सर्वं बुबुधे तन्मना मुनिः । तेनायुः सुचिरं लेभे भरद्वाजो
निरामयम् । अन्यामपि मुनींश्चक्रे नीरुजः सुचिरायुषः ।
पृष्ठ ०७८०
तत्तन्त्रजनितज्ञानचक्षुषा ऋषयोऽखिलाः । गुणान् द्रव्याणि
कर्माणि दृष्ट्वा तद्विधिमाश्रिताः । आरोग्यं लेभिरे दीर्घमायुश्च
सुखसंयुतम् । आयुर्वेदोक्तविधिनाऽन्येऽपि स्युर्मुनयो यथा” ।
अथ चरकप्रादुर्भावः “यदा मत्स्यावतारेण हरिणा वेद
उद्धृतः । तदा शेषश्च तत्रैव वेद साङ्गमवाप्तवान् ।
अथर्वान्तर्गतं सम्यगायुर्वेदं च लब्धवान् । एकदा स महीवृत्तं
द्रष्टुं चर इवागतः । तत्र लोकांन् गदैर्ग्र स्तान्व्यथया
परिपीड़ितान् । द्रुमान् स्थलेष्वपुष्पाढ्यान् म्रियमाणांश्च दृष्ट
वान् । तान् दृष्ट्वा तु दयायुक्तस्तेषां दुःखेन दुःखितः ।
अनन्तश्चिन्तयामास रोगोपशमकारणम् । संचिन्त्य स स्वयं तत्र
मुनेः पुत्रो बभूव ह । यतश्चर इवायातोन जातः केनचि-
द्यतः । तस्माच्चरकनाम्नाऽसौ विख्यातः क्षितिमण्डले । स
भाति चरकाचार्यो देवाचार्यो यथा दिवि । सहस्रवदन-
स्यांशो येन ध्वंसोरुजां कृतः । आत्रेयस्य मुनेः शिष्या
अग्निवेशादयोऽभवन् । मुनयो बहवस्तैश्च कृतं तन्त्रं
स्वकं स्वकम् । तेषां तन्त्राणि संस्कृत्य समाहृत्य विपश्चिता ।
चरकेणात्मनो नाम्ना ग्रन्थोऽयं चरकः कृतः । अथ
धन्वन्तरिप्रादुर्भावः । एकदा देवराजस्य दृष्टिर्न्निपतिता
भुवि । तत्र तेन नरा दृष्टा व्याधिभिर्भृशपीड़िताः ।
तान् दृष्ट्वा हृदयं तस्य दयया परिपीड़िंतम् । दयार्द्रहृ-
दयः शक्रो धन्वन्तरिमुवाच ह । धन्वन्तरे!
सुरश्रेष्ठ । भगवन्! किञ्चिदुच्यते, । योग्योभवसि भूता-
नामुपकारपरोभव । उपकाराय लोकानां केन किं न
कृतं पुरा । त्रैलोक्याधिपतिर्विष्णुरभून्मत्स्यादिरूप-
वान् । तस्मात्त्वं पृथिवीं याहि काशीमध्ये नृपोभव ।
प्रतीकाराय रोगाणामायुर्वेदं प्रकाशय । इत्युक्त्वा सुरशा-
र्द्दूलः सर्वभूतहितेप्सया । समस्तमायुषोवेदं धन्वन्तरिमुपादि-
शत् । अधीत्य चायुषोवेदमिन्दाद्धन्वन्तरिः पुरा । आगत्य-
पृथिवीं काश्यां जातोबाहुजवेश्मनि । नाम्ना ततोऽ-
भवत् ख्यातोदिवोदास इति क्षितौ । बालएव विरक्तोभू-
च्चचार च महत्तपः । यत्नेन महता ब्रह्मा तं काश्या-
मकरोन्नृपम् । ततो धन्वन्तरिर्लोकैः काशीराजोऽभिधी-
यते । हिताय देहिनां स्वीया संहिता विहिताऽमुना ।
अयं विद्यार्थिनो लोकान् संहितां तामपाठयत्” । अथ
सुश्रुतप्रादुर्भावः । अथ ज्ञानदृशा विश्वामित्रप्रभृतयो-
ऽवदन् । अयं धन्वन्तरिः काश्यां काशीराजोय उच्यते ।
विश्वामित्रो मुनिस्तेषु पुत्रं सुश्रुतमुक्तवान् । वत्स वाराणसीं
गच्छ विश्वेशवरवल्लभाम् । तत्र नाम्ना दिवोदासः काशी-
राजोऽस्ति बाहुजः । स हि धन्वन्तरिः साक्षादायुंर्यद-
विदांवरः । आयुर्वेदं ततोऽधीष्व लोकोपकृतिहेतवे ।
सर्वप्राणिदयातीर्थमुपकारोमहामखः । पितुर्वचनमाकर्ण्य
सुश्रुतः काशिकाङ्गतः । तेन सार्द्धं समध्येतुं मुनिसूनुशतं
ययौ । अथ धन्वन्तरिं सर्वे वानप्रस्थाश्रमे श्रितम् ।
भगवन्तं सुरश्रेष्ठं मुनिभिर्बहुभिः स्तुतम् । काशीराजं
दिवोदासन्तेऽपश्यन् विनयान्विताः । स्वागतं च इति
स्माह दिवोदासोयशोधनः । कुशलं परिपप्रच्छ तथाऽऽ-
गमनकारणम् । ततस्ते सुश्रुतद्वारा कथयामासुरुत्तरम् ।
भगवन्मानवान्दष्ट्वा व्याधिभिः परिपीड़िहीतान् । क्रन्दतोम्रि-
यमाणांश्च जातास्माकं हृदि व्यथा । आमयानां शमोपायं
विज्ञातुं वयमागताः । आयुर्वेदं भवानस्मानध्यापयितुम-
र्हति । अङ्गीकृत्य वचस्तेषां नृपतिस्तानुपादिशत् । व्याख्यातं
तेन ते यत्नाज्जगृहुर्मुनयोमुदा । काशीराजं जयाशीर्भिर-
भिनन्द्य मुदान्विताः । सुश्रुताद्याः सुसिद्धार्था जग्मुर्गेहं स्वकं
स्वकम् । प्रथमं सुश्रुतस्तेषु स्वतन्त्रं कृतवान् स्फुटम् । सुश्रुतस्य
सखायोऽपि पृथक् तन्ताणि तेनिरे । सुश्रुतेन कृतं तन्त्रं
सुश्रुतं बहुभिर्यतः । तस्मात्तत् सुश्रुतं नाम्ना विख्यातं क्षितिम-
ण्डले” चरके तु आयुर्वेदनिरुक्तिस्तत्प्रणेतृवंशोऽन्यथाभ्यधायि
यथा “ब्रह्मणा हि यथा प्रोक्तमायुर्वेदं प्रजापतिः । जग्रा-
ह निखिलेनादावश्विनौ तु पुनस्ततः । अश्विभ्यां भगवान्
शक्रः प्रतिपेदे ह केवलम् । ऋषिप्रोक्तोभरद्वाजस्तस्माच्छ-
क्रमुपागमत्” ब्रह्मादिभारद्वाजान्तवंशमुक्त्वा ततो यथा
भरद्वाजस्य प्राप्तिस्तदपि तत्रैवोक्तम् । यथा कतिचिन्मु नीनु-
पक्रम्य “ब्रह्मज्ञानस्य निधयोयमस्य नियमस्य च । तपसस्तेज-
सादीप्ताहूयमाना इवाग्नयः । सुखोपविष्टास्ते तत्र पुण्यां
चक्रुः कथामिमाम् । धर्मार्थकाममोक्षाणामारोग्यं
मूलमुत्तमम् । रोगास्तस्यापहन्तारः श्रेयसीजीवितस्य च ।
प्रादुर्भुतोमनुष्याणामन्तरायोमहानयम् । क स्यात्तेषां
शमोपायैत्युक्त्वा ध्यानमास्थिताः । अथ ते शरणं शक्रं
ददृशुर्ध्यानचक्षुषा । स वक्ष्यति शमोपायं यथावदमरप्रभुः ।
कः सहस्राक्षभवनं गच्छेत् प्रष्टुं शचीपतिम् । अहमर्थे
नियुज्येयमत्रेति प्रथमं वचः । भरद्वाजोऽब्रर्वत्तस्मादृषिभिः
स नियोजितः । स शक्रभवनं गत्वा सुरर्षिगणमध गम् ।
ददर्श बलहन्तारं दीप्यमानमिवातलम् । सोभिगम्य
जयाशीर्भिरभिनन्द्य सुरेश्वरम् । प्रोवाच भगवान्धीमान् ऋषीणां
वाक्यमुत्तमम् । व्याधयोहि समुत्पन्नाः सर्वप्रणिभय-
ङ्कराः । तद्ब्रूहि मे शमोपायं यथाब्दभरभो! ।
पृष्ठ ०७८१
तस्मैप्रोवाच भगवानायुर्वेदं शतक्रतुः । पदैरल्पैर्मतिं बुद्ध्वा
विपुलां परमर्षये । हेतुलिङ्गौषधज्ञानं स्वस्थातुरपराय-
णम् । त्रिसूत्रं शाश्वतं पुण्यं बुबुधे यं पितामहः ।
सोऽनन्तपारं त्रिस्कन्धमायुर्वेदं महामतिः । यथावदचिरात्
सर्व्वं वुबुधे तन्मना मुनिः । तेनायुरमितं लेभे भरद्वाजः
सुखान्वितम् । ऋषिभ्योऽनधिकं तन्तु शशासानवशेषयन् ।
ऋषयश्च भरद्वाजाज्जगृहुस्तं प्रजाहितम् । दीर्घमायुश्चि-
कीर्षन्तो वेदं वर्द्धनमायुषः । तेनर्षयस्ते ददृशुर्यथावज्ज्ञा-
नचक्षुषा । सामान्यञ्च विशेषञ्च गुणान् द्रव्याणि कम च ।
समवायञ्च तज्ज्ञात्वा तन्त्रोक्तं विधिमास्थिताः । लेभिरे परमं
शर्म जीवितञ्चाप्यनश्चरम् । अथ मैत्रीपरः पुण्यमायुर्वेदं
पुनर्व्वसुः । शिष्येभ्योदत्तवान् षड्भ्यः सर्वभूतानुकम्पया ।
अग्निवेशश्च भेड़श्च जातूकर्णः पराशरः । हारीतः क्षार-
पाणिश्च जगृहुस्तन्मुनेर्वचः । बुद्धेर्व्विशेषस्तत्रासीन्नो-
पदेशान्तरं, मुनेः । तन्त्रस्य कर्त्ता प्रथममग्निवेशोयतोऽ-
भवत् । अथ भेड़ादयश्चक्रुः स्वं स्वं तन्त्रं । कृतानि च ।
श्रावयामासुरात्रेयं सर्षिसङ्घं मुमेधसः । श्रुत्वा च सूत्र-
मर्थानामृषयः पुण्यकर्मणाम् । यथावत् सूत्रितमिति
प्रहृष्टास्तेऽनुमेनिरे” । एवमायुर्वेदवंशमुक्त्वा तस्य निरुक्ति-
स्तत्र दर्शिता यथा “हिताहितं सुखं दुःखमायुस्तस्य
हिताहितम् । मानञ्च तच्च यत्रोक्तमायुर्वेदः सौच्यते ।
शरीरेन्द्रिसत्त्वादिसंयोगधारिजीवितम् । नित्यगश्चानुबन्धश्च
पर्य्यायैरायुरुच्यते । तस्यायुषः पुण्यतमो वेदो वेदविदां
मतः । वक्ष्यते यन्मुष्याणां लोकयोरुभयोर्हितः” ।
एवं बहूनामायुर्वेदानां सत्त्वेऽपि तेषां विरलप्रचा-
रतया लुप्तप्रायत्वात् सुश्रुतचरकयोर्लोके प्रचाराच्च
तत्रत्यविषयास्तावत् संक्षेपेणोच्यन्ते । तत्र सुश्रुतस्यायुर्वेद-
स्याष्टाङ्गत्वम् तच्च अष्टाङ्गशब्दे ५२३ पृष्ठे शल्यं शालक्य-
मित्यादि दर्शितम् । तच्छास्त्रस्य प्रयोजनं रोगचिकित्सा
सा च पुरुषविषयैवेति पुरुषस्वरूपतदुत्पत्तिगर्भादिक्रमेणाभि-
धाय तदीयशरीरसंस्थानं रोगनिदानरोगोपशमनद्रव्यादि
दीनि क्रमेणोक्तानि । तदेतत् संक्षेपेण सुश्रुते उक्तम्
“अस्मिन् शास्त्रे पञ्चमहाभूतशरीरिसमवायः पुरुषः इत्यु-
च्यते । यस्मिन् क्रिया सोऽधिष्ठानम्, कस्मात्? लोकस्य
द्वैविध्यात् । लोको हि द्विविधः स्थावरो जङ्गमश्च ।
द्विविधात्मक एवाग्नेयः सौम्यश्च तद्भूयस्त्वात् पञ्चात्म-
को वा । तत्र चतुर्व्विधो भूतग्रामः स्वेदजाण्ड
ऊओद्भिज्जजरायुजसंज्ञः । तत्र पुरुषः प्रधानं तस्योपक-
रणन्यत् । तस्मात्पुरुषोऽधिष्ठानम् । तद्दुःखसंयोगा
व्याधय इत्युच्यन्ते । ते चतुर्व्विधा आगन्तवः शारीरा
मानसाः स्वाभाविकाश्चेति । तेषामागन्तवोऽभिघात-
निमित्ताः । शारीरास्त्वन्नपानभूला वातपित्तकफशोणित-
सन्निपातवैषम्यनिमित्ताः । मानसास्तु क्रोधशोकभयहर्ष
विषादेर्ष्याभ्यसूयादैन्यमात्सर्य्यकामलोभप्रभृतयैच्छाद्वेषभे-
दैर्भवन्ति । स्वाभाविकाः क्षुत्पिपासाजरामृत्युनिद्राप्रभृ-
तयः । त एते मनःशरीराधिष्ठानाः । तेषां संशोधन-
संशमनाहाराचाराः सम्यक् प्रयुक्ताः निग्रहहेतवः ।
प्राणिनां पुनर्मूलमाहारी बलवर्णौजसाञ्च । स षट्सु
रसेष्वायत्तो रसाः पुनर्द्रव्याश्रयाः । द्रव्याणि पुनरोषधयस्ताः
द्विविधाः स्थावरा जङ्गमाश्च । तासां स्थावराश्चतुर्व्विधाः ।
वनस्पतयो वृक्षा वीरुध ओषधय इति । तास्वपुष्पाः
फलवन्तो वनस्पतयः । पुष्पफलवन्तो वृक्षाः । प्रतानवत्यः
स्तम्बिन्यश्च वीरुधः । फलपाकनिष्ठा ओषधय इति ।
जङ्गमास्त्वपि चतुर्विधा जरायुजाण्डजस्वेदजो-
द्भिज्जाः । तत्र पशुमनुष्यव्यालादयो जरायुजाः ।
खगसर्पसरीसृपप्रभृतयोऽण्डजाः । कृमिकीटपिपीलिका-
प्रभृतयः स्वेदजाः । इन्द्रगोपमण्डूकप्रभृतय उद्भिज्जाः ।
तत्र स्थावरेभ्यस्त्वक्पत्रपुष्पफलमूलकन्दनिर्य्यासस्वरसादयः
प्रयोजनवन्तो जङ्गमेभ्यश्चर्म्मनखरोमरुधिरादयः । पार्थिवाः
सुवर्णरजतमणिमुक्तामनःशिलामृत्कपालादयः ।
कालकृतास्तु प्रवातनिवातातपच्छायाज्योत्स्नातमः शीतो-
ष्णवर्षाहोरात्रपक्षमासर्त्वयनादयः संवत्सरविशेषाः ।
त एते स्वभावत एव दोषाणां सञ्चयप्रकोपप्रशमप्रती-
कारहेतवः प्रयोजनवन्तश्च । भवन्ति चात्र । शारीराणां-
विकाराणामेष वर्गश्चतुर्व्विधः । चये कोपे शमे चैव हेतु-
रुक्तश्चिकित्सकैः । आगन्तवश्च ये रोगास्ते द्विधा निपतन्ति
हि । मनस्यन्ये शरीरेऽन्ये तेषान्तु द्विविधा क्रिया ।
शरीरपतितानान्तु शारीरवदुपक्रमः । मानसानान्तु
शब्दादिरिष्टो वर्गः सुखावहः । एवमेतत्पुरुषो व्याघि-
रौषधं क्रियाकाल इति चतुष्टयं समासेन व्याख्यातम् ।
तत्र पुरुषग्रहणात्तत्सम्भवद्रव्यसमूहोभूतादिरुक्तस्तदङ्गप्र-
त्यङ्गविकल्पाश्च त्वङ्मांसुसिरास्नायुप्रभृतयः । व्याधिग्रहणा
द्वातपित्तकफशोणितसन्निपातवैषम्यनिमित्ताः सर्व्व एव
व्याधयो व्याख्याताः । ओषधिग्रहणात् द्रव्यगुणरसवीर्य्य-
विपाकप्रभावाणामादेशः । क्रियाग्रहणाच्छेद्यादीनि स्नेहा-
दीनि च कर्म्माणि व्याख्यातानि । कालग्रहणात्सर्व्व-
पृष्ठ ०७८२
क्रियाकालानामादेशः । भवति चात्र । वीजं चिकित्सित-
स्यैतत्समासेन प्रकीर्त्तितम् । सविंशमध्यायशतमस्य
व्याख्या भविष्यति । तच्च सविंशमध्यायशतं पञ्चसु
स्थानेषु । तत्र सूत्रस्थाननिदानशारीरचिकित्सितकल्पे-
ष्वर्थवशात्संविभज्योत्तरे तन्त्रे शेषानर्थान् व्याख्यास्यामः” ।
चरके तु त्रिस्कन्दमित्युक्तम् तच्च हेतुलिङ्गौषधरूपस्कन्ध-
त्रयं बोध्यम् । अयञ्चायुर्वेद अष्टादशविद्यान्तर्गतः ।
“आयुर्वेदो धनुर्वेदो गान्धर्व्वश्चेति ते त्रय” इति ५२५ पृष्ठे
अष्टादशविद्याशब्दे उक्तबाक्यात् । अस्मिन् शास्त्रे द्वि-
जानामेवाधिकारोनान्येषां यथाह सुश्रुतः । “अथातः
शिष्योपनयनीयमध्यायं व्याख्यास्यामः । ब्राह्मणक्षत्रि-
यवैश्यानामन्यतममन्वयवयःशीलशौर्य्य शौचाचारविनयशक्ति
बलमेधाधृतिस्मृतिमतिप्रतिपत्तियुक्तं तनुजिह्वौष्ठदन्ताग्र-
मृजुवक्त्राक्षिनासं प्रसन्नचित्तवाक्चेष्टं क्लेशसहञ्च भिषक्
शिष्यमुपनयेत् । अतो विपरीतगुणं नोपनयेत्” ।
विप्रेण वैश्यकन्यायामुत्पन्नस्याम्बष्ठस्यापि द्विजधर्म्मतया
उपनयनादिसंस्कारवत्त्वात् “अम्बष्ठस्य चिकित्सितम्”
इति मनूक्तेश्च अत्राधिकार इति भेदः । तत्रायं विवेकः
द्विजमात्राणां चिकित्सितेऽधिकारेऽपि तत्रत्यवृत्तिग्रहणे
तु तेषां निन्द्यतैव । “पूयं चिकितसकस्यान्नमिति”
मनुना निन्दितत्वात् । अम्बष्ठानां तु तद्वृत्तौ दोषाभावः मनुना
“सूतानामश्वसारथ्यमम्बष्ठस्य चिकित्सितम्” इत्यनेन तेषां
चिकित्सावृत्तिकत्वेनाभिधानात अम्बष्ठस्य च यथोपनयने-
ऽधिकारस्तथाऽम्बष्ठशब्दे ३२८ पृष्ठे निरूपितम् । अतएव-
“भिषक् केशवनन्दनः । वोपदेवश्चचारेदं विप्रोवेदपदा-
स्पदम्” । विप्रवोपदेवस्य पितुः केशवस्य भिषक्त्वं स्वय-
मेव तेनोक्तम् । तस्य निन्दितत्वे तन्नोच्येत इति द्रष्टव्यम् ।
अन्यत्र चायुर्वेदस्य चतुर्व्यूहत्वमुक्तं रोगरोगनिदानरोग-
निवृत्तितदुपायरूपविषयचातुर्विध्यात् । “सचायुर्वेदः
नरगजाश्वगोवृक्षाधिकारभेदेन पञ्चविधः तत्र नरायुर्वेदः
चरकसुश्रुतादिर्लोकप्रसिद्धः गजायुर्वेदोऽश्वायुर्वेदोऽपि शालि-
होत्रकृतः तयोश्च लोके प्रचाराभावात् अग्निपुराणतः
समुदृद्धृत्यात्रतौ दर्श्येते तत्र गजायुर्वेदो यथा
“गजलक्ष्म चिकित्सां च लोमपाद! वदामि ते” इत्युपक्रम्य
“पाकलेषु तु सर्वेषु कर्त्तव्यमनुवासनम् । घृततैलपरीपाकं स्थानं
वातविवर्जितम् । स्कन्धेषु च क्रिया कार्य्या तथा पाकलव-
न्नृप । । गोमूत्रं पाण्डुरोगेषु रजनीभ्यां घृतं व्विज । ।
आनाहे तैलसिक्तस्य निषेकस्तस्य शस्यते । लवणैः पञ्च-
भिर्मिश्रा प्रतिपानाय वारुणी । विड़ङ्गत्रिफलाव्योससैन्धवैः
कबलान् कृतान् । मूर्च्छासु भोजयेन्नागं क्षौद्रतोयञ्च-
पाययेत् । अभ्यङ्गः शिरसः शूले नस्यञ्चैव प्रशस्यते ।
नागानां स्नेहकटुकैः पादरोगानुपक्रमेत् । पश्चात्कल्क-
कषायेण शोधनञ्च विधीयते । शिखितित्तिरिलावानां
पिप्पलीमरिचान्वितैः । रसैः समर्पयेन्नागं वेंपथुर्यस्य
जायते । बालं विल्वं तथा लोध्रं धातकी सितया सह ।
अतीसारविनाशाय पिण्डीं भुञ्जीत कुञ्जरः । नस्यं करग्रहे
देयं घृतं लवणसंयुतम् । मागधीनागराजाजीयवागूर्मण्डु
कान्विताः । उत्कर्ण्णके तु दातव्यो वाराहश्च
तथारसः । दशमूलकुलत्थाश्वकाकमाचीविपाचितम् ।
तैलप्राशनसंयुक्तं गलग्रहगदापहम् । अष्टाभिर्लवणैः पिष्टैः
प्रसन्नं पाययेद्घृतम् । मूत्रलंशेखरावीजं कथितं त्रपुषस्य
च । त्वग्दोषेषु पिबेच्चैवं वृषं वा क्वथितं द्विपः ।
गवां मूत्रविड़ङ्गानि कृमिकेष्वेषु शस्यते । शृङ्गवेरकणाद्रा-
क्षाशर्कराभिः शृतं पयः । क्षतक्षयकरं पानं तथा
मांसरसः शुभः । अक्षोदनं व्योषयुतमरुचौ तु प्रशस्यते ।
त्रिवृद्व्योसाग्निदन्त्यर्कश्यामाक्षीरेभपिपपली । एतैर्गुल्म-
हरः स्नेहः कृतश्चैव तथा रसः । भेनद्रावणाभ्यङ्गस्नेह-
पानानुवासनैः । सर्वानेव समुत्पन्नान् विद्रवान् समुपाह-
रेत् । षष्टिकं मुद्गयूषेण सारदेन तथा पिबेत् । बालवि-
ल्वैस्तथा लेपः कुट्यरोगे प्रशस्यते । विड़ङ्गेन्द्रयवौ हिङ्गु
सबलं रजनीद्वयम् । पूर्वाह्णे पाययेत् पिण्डान् सर्वशूलो-
पाशान्तये । प्रधानभोजने तेषां षष्टिकव्रीहिशालयः ।
मध्यमौ यवगोधूमौ शेषा दन्तिनि चाधमाः । यवश्चैव
तथैवेक्षुर्नागानां बलवर्द्धनः । नागानां यवसं शुष्कं तथा
वात प्रकोपणम् । मदक्षीणस्य नागस्यपयः पानं प्रशस्यते ।
दीपनीयैस्तथा द्रव्यैः शृतोमांसरसस्ततः । वायसः कुरभ-
श्चोभौ काकोलूककुलाहविः । भवेत् क्षौद्रेणसंयुक्तं पिण्डो-
युद्धे मदाय हि । कटुमस्या विड़ङ्गानि क्षीरकोषातकी-
पयः । हरिद्रा चेति धूमोऽयं कुञ्जरस्य जयावहः ।
पिप्पली तण्डुलास्तैलं माध्वीकं माक्षिकन्तथा । नेत्रयोः
परिषेकोऽयं दीपनीयः प्रशस्यते । पुरीषं च कषायाश्च तथा
पारावतस्य च । क्षीरवृक्षकरीरश्च प्रसन्नायेष्टमञ्जनम् ।
अनेनाञ्जितनेत्रस्तु करोति कदनं रणे । उत्पलानि च
नीलानि मुस्तं तगरमेव च । तण्डुलोदकपिष्टानि नेत्र-
निर्वापणं परम् । नखवृद्धौ नखच्छेदः तैलसेकश्च मास्यपि ।
शय्यास्थानं भवेच्चास्य करीषैः पांशुभिस्तथा । शरन्निदा-
पृष्ठ ०७८३
घयोः सेकः सर्पिषा च तथाप्यति” । इति गजायुर्वेदः
अथाश्वायुर्वेदः तत्रैव “अश्ववाहनसारं च वक्ष्येऽश्वस्य
चिकित्सितम्” इत्युपक्रम्य “वृषो निम्बवृहत्यौ च गुडुची
च समाक्षिका । सिंहानकहरी पिण्डीस्वेदश्च शिरसस्तथा ।
हिङ्गुपुष्करमूलञ्च नागरं साम्लवेतसम् । पिप्पलीसैन्धवयुतं
शूलघ्नमुष्णवारिणा । नागराऽतिविषा मुस्ता सानन्ता विल्व-
मालिका । क्वाथमेषां पिबेद्वाजी सर्व्वातीसारनाशनम् ।
प्रियङ्गुलोध्रमधुभिः पिबेद्वृषरसं हयः । क्षीरं वा पञ्चको-
लाद्यं कासनाद्विप्रमुच्यते । विष्कन्नेषु च सर्व्वेषु श्रेय
आदौ विशोषणम् । अभ्यङ्गावर्तनिस्नेहनस्यवर्त्तिक्रमः-
स्मृतः । त्वरितानां तुरङ्गाणां पयसैव क्रियाक्रमः । लोध्र-
करञ्चयोर्मूलं मातुलाङ्गाग्निनागराः । कुष्ठं हिङ्गुवचा-
रास्ना लेपोऽयं शोथनाशनः । मञ्जिष्ठा मधुकं द्राक्षावृहत्यौ
रक्तचन्दनम् । त्रपुषीवीजमूलानि शृङ्गाटककशेरुकम् ।
अजापयःशृतमिदं सशीतं शर्करान्वितम् । पीत्वा
निरशनोवाजी रक्तमेहात् प्रमुच्यते । मन्याहनुनिगालस्थशिरः
शेफोगलग्रहः । अभ्यङ्गः कटुतैलेन तत्र तेष्वेव शस्यते ।
प्रत्यक्पुष्पी तथा वह्निः सैन्धवं सौरसो रसः । कृष्णाहिङ्गु-
युतैरेभिः कृत्वा नस्यं न सोदति । निशे ज्योतिष्मतो पाठा
कृष्णकुष्ठं वचामधु । जिह्वास्तम्भे च लेपोऽयं गुड़मूत्रयुतो-
हितः । तिलैर्यष्ट्या रजन्या च निम्बपत्रैश्च योजिता ।
क्षौद्रेण शोधनी पिण्डी सर्पिषा व्रणरोपणी । अभिघातेन
खञ्जन्ति येऽप्यश्वास्तीव्रवेदनाः । परिषेकक्रिया तेषां तैलेना-
शु रुजापहा । दोषकायाभिघाताभ्यां तनुजे लिङ्गिते तथा ।
शान्तिर्मत्स्याम्बुवस्ताभ्यां पक्वमन्नमथ क्रमात् । अश्वत्थोडुम्बर
प्लक्षमधूकवटवल्कलैः । प्रभूतनलिकाक्वाथः सुखोष्णो
व्रणशोधनः । शताह्वा नागरं रास्नामञ्जिष्ठाकृष्णसैन्धवैः
देवदारुवचायुग्मरजनीरक्तचन्दनैः । तैलं सिद्धं कषायेण
गुडुच्या पयसा सह । म्रक्षणं वस्तिनस्ये च योज्यं सर्व्वत्र
लिङ्गिते । रक्तस्रावो जलौकाभिर्नेत्रान्ते पित्तरोगिणः ।
खादिरोडुम्बराश्वत्थकषायेण च साधितम् । धात्रीदुराल-
भातिक्ताप्रियङ्गुकुसुमैःसर्मः । गुडुच्या च कृतः क्वाथः
कल्कोयुक्तो विलम्बिते । उत्पाते शिशिरे श्राव्ये मुष्कशोथे
तथैवच । क्षिप्रकारिणि दोषे च सद्योवेधनमिष्यते ।
गोशकृत्सर्ज्जिकाकुष्ठरजनीतिलसर्षपैः । गवां मूत्रेण
पिष्टैश्च मर्द्दनं कण्डुनाशनम् । शीतोमधुयुतः क्वाथो
नासिकायां सशर्करः । रक्तपित्तहरः पानादश्वकण्डोस्तथैव
च । सप्तमे सप्तमे देयमश्वानां लवणं दिने । तथा भुक्त-
वतां देया अतिपाते तु वारुणी । जीवनीयैः समधुरै-
र्मृद्वीकाशर्करायुतैः । सपिपिप्लीकैः शरदि प्रति
पानं सपद्मकैः । विडङ्गपिप्पलीधान्यशताह्वालोध्र
सैन्धवैः । सचित्रकैस्तुरङ्गाणां प्रतिपानं हिमागमे ।
लोध्रप्रियङ्गुकायुक्ता पिप्पली विश्वभेषजैः । सक्षौद्रैः
प्रतिपानं स्याद्वसन्ते कफनाशनम् । प्रियङ्गुपिप्पली-
लोघ्रयष्ट्याह्वैः समहौषधैः । निदाघे सगुड़ा देया
मदिरा प्रतिपानके । लोध्रकाष्ठं सलवणं पिप्पल्यो-
विश्वभेषजम् । भवेत्तैलयुतैरेभिः प्रातिपानं घनागमे ।
निदाघेऽर्द्धकृताहाराः शरत्सु पुष्टशोणिताः । प्रावृडिभन्न-
पुरीषाश्च पिबेयुर्वाजिनोघृतम् । पिबेयुर्वाजिनस्तैलं
कफवाय्वधिकास्तु ये । स्नेहव्यापद्भवो येषां तेषां कार्य्यं विरू-
क्षणम् । त्र्यहं यवागूरूक्षा स्याद्भोजनं तक्रसंयुतम् ।
शरन्निदाघयोः सर्पिस्तैलं शीतवसन्तयोः । वर्षासु
शिशिरे चैव वस्तौ यमकमिष्यते । गुर्व्वभिष्यन्दिभक्तानि
व्यायामं स्नानमातपम् । वायुर्वर्षञ्च वाहस्य स्नेहनीयस्य
वर्ज्जयेत् । स्नानं पानं सकृत्द्दृष्टमश्वानां सलिलागमे ।
अत्यर्थं दुर्दिने काले पानमेकं प्रशस्यते । युक्तं शीतातपे
काले द्विः पानं प्लवनं सकृत् । ग्रीष्मे त्रिः स्नानपानं
स्याच्चिरं तस्यावगाहंनम् । निस्तुषाणाम्प्रदातव्या
यवानाञ्चतुराढकी । चणकव्रीहिमौद्गाणां, कलायान् वापि
दापयेत् । अहोरात्रेण वाहस्य यवसस्य तुला दश । अष्टौ
शुष्कस्य दातव्या चतस्रोऽथ वुषस्य वा । दूर्व्वा पित्तं, यबः
कासं, वुषश्च श्लेष्मसंज्ञकम् । नाशयत्यर्जुनःश्वासं, तथा शालि-
र्बलक्षयम् । वातिकाः पैत्तिकाश्चैव श्लेष्मजाः सान्नि-
पातिकाः । न रोगा पीड़यिष्यन्ति दूर्व्वाहारं तुरङ्गमम् ।
द्वौ रज्रुबन्धौ दुष्टानां पक्षयोरुभयोरपि । पश्चाद्बन्धश्च
कर्त्तव्यो दूरकीलव्यपाश्रयः । वसेयुस्त्वास्तृतेस्थाने कृतधूपनभू
मयः । घनोपन्यस्तयवसाः सप्रदीपाः सुरक्षिताः ।
कृतबन्धाश्च कपयोधार्य्याश्चाश्वगृहे मृगाः” इत्यश्वायुर्वेदः
अधिकं जयदत्तकृतेऽश्वशास्त्रे दृश्यम् ।
अथ गवायुर्वेदः अग्निपु० “गवाम्माहात्म्यमुक्तं हि
चिकित्साञ्च तथा शृणु” इत्युपक्रम्य । “शृङ्गामयेषु
धेनूनां तैलं दद्यात् ससैन्धवम् । शृङ्गवेरबलामांसीकल्क-
सिद्धं समाक्षिकम् । कर्णमूलेषु शूलेषु मञ्जिष्ठाहिङ्गु-
सैन्धवैः । सिद्धं तैलं प्रदातव्यं रसोनेनाथ वा
पुनः । विल्वमूलमपामार्गो धातकी च सपाटला । कुटजं
दन्तमूलेषु लेपोहृच्छूलनाशनः । दन्तशूलहरैर्द्रव्यैर्घृतं
पृष्ठ ०७८४
वापि विपाचितम् । मुखरोगहरं ज्ञेयं जिह्वारोगेषु
सैन्धवम् । शृङ्गवेरं हरिद्रे द्वे त्रिफला च गलग्रहे ।
हृच्छूले वस्तिशूले च वातरोगक्षये तथा । त्रिफला घृतमिश्रा
च गवां पाने प्रशस्यते । अतीसारे हरिद्रे द्वे पाठाञ्चैव
प्रदापयेत् । सर्वेषु कोष्ठरोगेषु तथा सास्नागतेषु च ।
शृङ्गवेरञ्च भार्गीं च कासश्वासे च दापयेत् । दातव्या
भग्नसन्धाने प्रियङ्गुर्लवणान्विता । तैलंवातहरं पित्ते
मधुयष्टिविपाचितम् । कफे व्योषञ्च समधु संपिष्टकरजोऽस्रजे ।
तैलाज्यं हरितालञ्च भग्नक्षतघृतं ददेत् । माषास्तिलाः
सगोधूमाः पशुक्षीरं घृतन्तथा । एषां पिण्डी
सलवणा वत्सानां पुष्टिदा त्वियम् । बलप्रदा वृषाणां स्यात्
ग्रहनाशाय धूपकः । देवदारुवचामांसीहिङ्गुगुग्गुल्
सर्षपाः । ग्रहादिगदनाशाय एष धूपोगवां हितः । घण्टाचै
व गवां कार्य्या धूपेनानेन धूपिता । अश्वगन्धातिलैः शुक्लै
स्तेन गौः क्षीरिणी भवेत्” । इति गवायुर्वेदः
अथ वृक्षायुर्वेदस्तत्रैव “वृक्षायुर्वेदमाख्यास्ये प्लक्ष-
श्चोत्तरतः शुभः । प्राग्वटोयाम्यतश्चाम्र आप्ये ऽश्वत्थः
क्रमेण तु । दक्षिणादिसमुत्पन्नाः समीपे कण्टकिद्रुमाः ।
उद्यानं गृहवामे स्यात्तिलानप्यथ पुष्पितान्” इत्युपक्रम्य
“अरिष्टाशोकपुन्नागाः शिरीषाः सपियङ्गवः । अशोकक-
दलीजम्बुस्तथा बकुलदाड़िमाः । सायं प्रातस्तु घर्मान्ते
शीतकाले दिनान्तरे । वर्षर्त्तौ तु भुवः शोषेसेक्तव्या रोपिता-
द्रुमाः । उत्तमं विंशतिर्हस्ता मध्यमं षोडशान्तरम् ।
स्थानात् स्थानान्तरं कार्य्यं वृक्षाणां द्वादशान्तरम् ।
विफलाः स्युर्घनावृक्षाः शस्त्रेणादौ हि शोधनम् ।
विडङ्गघृतपक्वाक्तान् सेचयेच्छोतवारिणा । फलनाशे
कुलत्थैश्चमार्षैर्मुद्गैर्यवैस्तिलैः । शृतशीतपयःसेकः
पहलपुष्पाय सर्व्वदा । आविकाजशकृन्मूत्रं यवचूर्ण्णं
तिलानि च । गोमांसमुदकञ्चेति सप्तरात्रं निधापयेत् ।
तत्सेकः सर्ववृक्षाणां फलपुष्पादिवृद्धिदः । मत्स्याम्भसाऽ-
वसेकेन वृद्धिर्भवति शाखिनः । विड़ङ्गतण्डुलोपेतं मत्स्यं
मांसं हि दोहदम् । सर्वेषामविशेषेण वृक्षाणां रोगमर्द्द-
नम्” । वृहत्संहितोक्तो वृक्षायुर्वेद आरामशब्दे दृश्यः ।
आयुर्वेदमधीते वेद वा उक्था० ठक् । आयुर्वेदिकः
आयुर्वेदाभिज्ञे त्रि० । आयर्वेदे साधु कथा० ठक् ।
आयुर्वेदिकः आयुर्वेदे साधौ त्रि० ।

आयुर्वेदमय पु० आयुर्वेदेन प्रचुरः प्राचुर्य्ये मयट् । धन्वन्तरौ ।

आयुर्वेदिन् त्रि० आयुर्वेदोवेद्यतया विद्यतेऽस्य इनि ।

आयुर्वेदाभिज्ञे चिकित्साशास्त्रस्य वेत्तरि वैद्ये ।

आयुषज् त्रि० आयुना सजते सन्ज--क्विप् षत्वम् । आयुः

सम्वन्धे “सोमः पवत आयुषक्” ऋ० ९, २५, ५ । “पवस्व
देवायुषगिन्द्रं गच्छतु ते मदः” ऋ० ९, ६३, २२ ।

आयुष्क पु० आयुषा कायति कै--क । आयुषा प्रकाशमाने

प्रशस्तायुष्के ।

आयुष्काम त्रि० आयुः कामयते काम--णिङ्--अण्

उप० स० । आयुरभिलाषुके “अथात आयुष्कामीयं
रसयनम्” इति सुश्रुतः । “आयुष्कामेण वप्तव्यं न जातु
परयोषिति” मनुः ।

आयुष्कृत् त्रि० आयुः करोति कृ--क्विप् ६ त० । आयुर्वृद्धि-

करे रसरसायनादौ आयुर्वृद्धिशब्दे ७७५ पृष्ठे तान्यु-
क्तानि । ट । आयुष्कर इत्यप्यत्र त्रि० स्त्रियां ङीप् ।

आयुष्टोम पु० आयुः साधनं स्तोमः शाक० त० षत्वम् ।

१ आयुःसाधने ऋक्समुदायात्मके स्तोमभेदे तत्स्तोमयुक्ते-
यागभेदे च ।

आयुष्मत् त्रि० आयर्विद्यतेऽस्य मतुप् । १ चिरजीविनि “आयु-

ष्मान् भव सौम्येति वाच्यो विप्रोऽभिवादने” “आयुष्मन्त
सुतं सूते यशोमेधासमन्वितम्” मनुः स्त्रियां ङीप् ।
२ विष्कम्भावधिके तृतीये योगे पु० । “विष्कम्भःप्रीतिरायु-
ष्मान्” ज्यो० ति० । आयुरिति शब्दोऽस्त्यस्य मतुप् ।
३ आयुःशब्दयुक्ते मन्त्रभेदे “आयुप्मानिति शान्त्यर्थं जप्त्वा-
चैव समाहितः” छ० प० । तच्च आयुष्यसूक्तशब्दे
दृश्यम् । भवदादिषु पाठात् तस्मिन् परे प्रथमार्थेऽपि
तसिलादि । ततआयुष्मान् तत्रायुष्मान् ।

आयुष्य त्रि० आयुः प्रयोजनमस्य “स्वर्गादिभ्यो यत्” पा० भा०

यत् । आयुः साधने आयुर्वृद्धिशब्दोक्ते रसरसायन-
द्रव्यकर्म्मादौ । “आयुष्यं प्राङ्मुखोभुङ्क्ते ऋतंभुङ्क्ते ह्युदङ्-
मुखः” “इदं यशस्यमायुष्यमिदं नि श्रेयसं परम्” “धन्यं
यशस्यमायुष्यं स्वर्ग्यञ्चातिथिपूजनम्” इति च मनुः
“आयुष्योहवा अस्यैष आत्मनिष्क्रयणो भवति “शत० ब्रा० ।

आयुष्यसूक्त न० कर्म्मधा० । “आयुष्मानिति शान्त्यर्थं जप्त्वा

तत्र समाहितः” छ० प० उक्ते “आभ्युदयिकश्राद्धादिषुजप्ये
सूक्तभेदे तच्च सूक्तम् । “आयुर्विश्वायुर्विश्वमायुरसीमहि ।
प्रजान्त्वष्टधार निधेह्यस्मै शतं जीवेम शरदां वयन्ते ।
आयुषे पवस्व वर्च्चसे मे पवस्व विदुः पृथिव्या दिषोजनि-
त्र्याः शृण्वन्त्वापोऽध्यक्षरन्ती सोमोहोद्माय ममायुषे
मम ब्रह्मवर्चसाय यजमानस्यार्द्ध्या अमुष्य शाज्याय” भव-
पृष्ठ ०७८५
देवभट्टधृतम् अत्रामुष्ये यत्र षष्ठ्यन्तं संस्कार्य्यनामोल्लेख्यम् ।
सामवेदिनाञ्चैतत् पाठ्यं वेदभेदेऽन्यदाकरे ज्ञेयम् ।

आयुस् न० इण--असि णिच्च । जीवितकाले “आयुरारोग्य

मतुलं देहि देवि! नमोऽस्तुते” देवीस्तुतिः । “आयुर्देहातिगैः
पीतं रुधिरं च पतत्त्रिभिः” रघुः । “चतुर्थमायुषोभाग-
मुषित्वाद्यं गुरौ द्विजः । द्घितीयमायु षोभागं कृतदारो-
गृहे वसेत्” मनुः “समारुरुक्षुर्दिवमायुषः क्षये” रघुः ।
“आयूंषि त्वक्षु निर्भिद्य प्राभञ्जनिरमोचयत्” भट्टिः । “अष्टमं
चायुषः स्थानमष्टमादष्टमञ्च यत्” इति पराशरोक्तेः
जन्मलग्नावधिके अष्टमस्थाने तृतीयस्थाने च तद्विवेच्यम् ।
स्थानविशेषे च ग्रहविशेषयोगदृष्ट्यादिवशात् आयुर्विशेषः
अष्टमस्थाने चिन्तनीयपदार्थसहितः” सर्वा० चिन्ता० दर्शितः ।
यथा “मरणाज्जीवितमरणं गुप्तस्थानं च मरणहेतुञ्च । अन्त-
सुखमरणदेशं परिभवमपि चिन्तयेत् प्राज्ञः । रन्ध्रेश्वरे पापयु-
तेऽन्त्यराशावल्पायुरस्येति वदन्ति पष्ठे । तत्रापि लग्नेश्वर-
योगजाते त्वल्यायुरस्येति वदन्ति सन्तः । स्वक्षेत्रसंस्थे सति
रन्ध्रनाथे दीर्घायुराह्र्मुनयोमहान्तः । मन्देन वा चिन्त्य-
मशेषमायुः स्वक्षेत्रमित्रोच्चगृहस्थितेन । रन्धेश्वरे णापि
युते विलग्ननाथे रिपौ वा व्ययराशियुक्ते । षष्ठान्त्यपे वा
यदि लग्नयुक्ते दीर्घायुरभ्येति शुभेक्षितश्चेत् । कर्मेश्वरेणापि
विचिन्त्यमायुर्दीर्घं सुहृस्वोच्चयुतेन तेन । केन्द्रस्थितैः कर्म-
विलग्नरन्ध्रनाथैस्तथैवायुरुदाहरन्ति । प्रोक्तग्रहैर्व्योमचरै-
स्त्रिभिर्वा सभानुजैः केन्द्रगतैस्तथैव । स्वक्षेत्रकोणादिग-
तैर्विशेषाद्वदन्ति दीर्घायु रुदारचित्ताः । चतुरस्त्रे शुभैर्युक्ते
लग्नेशे शुभसंयुते । गुरुणा दृष्टिसंयोगे पूर्णमायुर्विनि-
र्दिशेत् । केन्द्रान्विते विलग्नेशे गुरुशुक्रसमन्विते । ताभ्यां
निरोक्षिते वापि दीर्घमायुर्विनिर्दिशेत् । त्रिषड़ायगताः
पापाः शुभाः केन्द्रत्रिकोणगाः । लग्नेशे बलसंयुक्ते
पूर्णमायुर्विनिर्दिशेत् । षट्सप्तरन्ध्रभावेष शुभेशसहितेषु
च । त्रिषडायेषु पापेषु पूर्णमायुर्विनिर्दिशेत् । रन्द्र धिपे
विलग्नस्थे गुरुशुक्रेक्षिते युते । लग्नेशे केन्द्रराशौ वा दीर्घ-
मायुर्विनिर्दिशेत् । रन्ध्राधिपे तु केन्द्रस्थे गुरुशुक्रेक्षिते
युते । लग्नेशे बलसंयुक्तेदीर्घमायुर्विनिर्दिशेत् । लग्नाधिपो
यदा केन्द्रे लग्नादेकादशालये । सर्वग्रहकृतं रिष्टमेकोऽपि
विलयं नयेत् । उच्चान्वितैस्त्रिभिः खेटैर्लग्नरन्ध्रेशसंयुतैः ।
रन्धे पापविहीनैस्तैर्दीर्घमायुर्विनिर्दिशेत् । रन्ध्रस्थतैस्त्रिभिः
खेटैः स्वोच्चमित्रस्वगेहगैः । लग्नेशे वलसंयुक्ते दीर्घमा० ।
प्रारावताटिभागस्थाः पापाः सर्वे शुभास्तथा । केन्द्रत्रिको-
णनिलयाः पूर्ण्णमायुर्विनिर्दिशेत् । षष्ठाष्टमव्यये पापा
लग्नेशे दुर्बले यदि । अल्पायु रनपत्यो वा शुभदृग्योगव-
र्जिते । क्रूरषष्ठांशके वापि रन्ध्रेशे भानुजेऽपि वा । पापा-
न्विते पापदृष्टेत्वल्पमायुर्विनिर्दिशेत् । चतुष्टयगते पापे
शुभदृष्टिविवर्जिते । बलहीने विलग्नेशे त्वल्पमायुर्विनिर्दि-
शेत् । व्ययार्थौ पापसंयुक्तौ शुभदृष्टिविवर्जितौ । क्रूरषष्ठांशगौ
वापि स्वल्पमायुर्विनिर्दिशेत् । आयुर्योगस्त्रिधा प्रोक्तः
स्वल्पमध्यचिरायुषः । द्वात्रिं शत्पूर्व्वमल्पायुर्मध्यमायु स्ततो
भवेत् । सप्तत्याः प्राक्, ततः पूर्णमायुरत्र वदन्ति हि ।
अल्पायुर्दिननाथस्य शत्रौ लग्नाधिपे यदा । समत्वे मध्य-
मायुः स्यान्मित्रे दीर्घायुरादिशेत् । बलहीने विलग्नेशे
जीवे केन्द्रत्रिकोणगे । षष्ठाष्टमव्यये पापे मध्यमायुरुदाहृ-
तम् । शुभे केन्द्रत्रिकोणस्थे शनौ बलसमन्विते । षष्ठे
वाप्यष्टमे पापे मध्यमायुरुदाहतम् । लग्ने त्रिकोणे केन्द्रे
वा मध्यमायुश्च मिश्रिते । अल्पायुर्योगजातानां विपत्पा-
के मृतिप्रदः । मध्यमे प्रत्यरिभेशान्मृतिं दद्याद्विशेषतः ।
अष्टमेशदशा कष्टा पूर्ण्णायुर्योगसंज्ञके । योगायुरि ति
निश्चित्य जातस्यैवं वदेद्बुधः । आयुर्विलग्नाधिपती बलेन
हीनौ धरासून्वहितेशयुक्तौ । युद्वे मृतिं तस्य वदन्ति
तज्ज्ञाः शस्त्रेण वा तन्मरणं विशेषात् । रन्ध्राङ्गनाथौ यदि
वा रिपुस्थौ राह्वन्वितौ केतुयुतौ ससूनू । व्रणेन युद्वे
मृतिमाहुरार्याः शस्त्रेण वा तन्मरणं विशेषात् । रन्ध्राङ्ग-
नाथौ यदि वा रिपुस्थौ राह्वन्वितौ केडयुतौ समन्दौ ।
तद्भुक्तिकालेऽप्यथ वा विपाके शस्त्रेण चौरैर्मरणं प्रयाति ।
रन्ध्राङ्गपौ वाहननाथयुक्तौ तस्मान् मृतिं तस्य वदन्ति
तज्ज्ञाः । मृतिं त्वजीर्णाद्गुरुसंयुतौ तौ देहेशजीवौ
रिपुगावजीर्णात् । लग्नेश्वरे वाहननाथयुक्ते वागीश्वरे-
णापि युते त्वजीर्णात् । देहेश्वरे वाहनवित्तभावनाथान्विते वा
मरणंत्वजीर्णात् । रन्ध्रेशयोगान्मरणं दशायामन्तर्दशायामथ
वा वदन्ति । पित्रादिभावाधिपयोगदृष्ट्या पित्रादिकानां
मरणं तथैव । मृत्यङ्गपौ भानुसुतेन युक्तौ दुस्थानगौ
वा विषभक्षणेन । राहुध्वजाभ्यां सहितौ च दुस्थावुद्ब-
न्धनात्तस्य मृतिं वदन्ति । षष्ठेश्वरे भानुसुते सराहुकतौ
मृगाद्भीतिमुदाहरन्ति । जीवेन युक्ते गजभीतिमस्य जातस्य
चन्द्रेण युतेऽश्वभईतिम् । सूर्य्यान्विते तादृशभानुपुत्रे मृगात्स-
शृङ्गात शुनकात् सभौमे । षष्ठस्थिते भानुसुतेऽपि चेवं
विना स्वतुङ्गस्वगृहं सखेटे । सुखेशभाग्येशविलग्ननाथास्त्रि-
कोणगाः केन्द्रगताश्च सर्वे । भुक्तौ यदा तत्परिपाककाले
पृष्ठ ०७८६
पित्रा सहैवानुमृतिञ्च मातुः । रन्ध्रे शशाङ्के फणिनाथ
युक्ते हीने त्वपस्मांरयुतः समन्दे । तत्र स्थिते हीनबले
शशाङ्के पिशाचपीड़ा च जलाद् द्विपाच्च । भौमाहि-
मन्दान्यतमेन युक्ते क्षीणे शशाङ्के निधनस्थितेऽपि ।
दुःस्थे त्वपस्मारभयान्मृतिःस्यात्पिशाचबाधादथ वा
मृतिस्तु । रन्ध्रे सराहौ यदि वा सकेतौ चातुर्थिका-
पीड़नमाहुरस्य । रन्ध्रेश्वरेणापि युते तथैव क्रूरादि-
षष्ठांशयुते तु सत्यम् । नीचस्थिते वाऽमरनायके वा
षष्ठाष्टमस्थे यदि पापदृष्टे । राज्ञां प्रकोपान्मरणं
पितुश्च तत्पीडया वित्तविनाशमेति” । अधिकमल्पायुः-
शब्दे ४१३ पृष्ठे उक्तम् । अस्य पुरुषादिपूर्ब्बपदकत्वे अच्
समा० “पुरुषायुषजीविन्यः” रघुः त्र्यायुषम् मनुष्यायुष
मित्यादौ बा० अच् समासान्तः ।
आयुर्योगश्च सर्व्वा० चि० दर्शितः यथा “अथायुर्योगः ।
केचिद्योगं प्रशंसन्ति दशां केचिद्वदन्ति हि । तद्विना चायुषां
ज्ञानं न शक्यन्तु मनीषिभिः । त्रिविधश्चायुषो योगः
स्वल्पायुर्मध्यमोत्तमः । द्वात्रिं शत्पूर्व्वमल्पन्तु तदूर्ध्वं मध्यमं
भवेत् । आ सप्ततेस्तदूर्ध्वन्तु दीर्घायुरिति सम्मतम् ।
उत्तमायुः शतादूर्ध्वं मुनेः शंसन्ति तद्विदः । आ द्वा-
दशाब्दाज्जन्तूनामायुर्ज्ञानं न शक्यते । जपहोमचिकित्साद्यै
र्वालरक्षां तु कारयेत् । पित्रोद्देशैर्मृताः केचित्केचिद्
बालग्र हैरपि । अपरे रिष्टयोगाच्च त्रिविधाऽकालमृत्यवः ।
जन्मतः प्रबलेनैव बालानां पुष्टिवर्द्धनम् । कथयेदवशेषं तु
तथा योगोनिरूपितः । अल्पायुर्लग्नपे भानौ शत्रौ मध्यं
तु मध्यमे । मित्रे लग्नेश्वरे तस्य दीर्घमायुरुदाहृतम् ।
अल्पायुर्योगजातस्य विपत्तारे मृति” वदेत् । जातस्य मध्यमे
यागे प्रत्यरौ तु मृतिर्भवेत् । दीर्घायुर्योगजातानां बधभे तु
मृतिर्भवेत् । त्रिषु योगेषु सर्वेषु प्रत्येकं त्रिविधं भवेत् ।
अल्पायुरल्पमध्यं तु पूर्ण्णायुस्त्रिविधं स्मृतम् । मध्यमादल्पमध्यं
तु पूर्ण्णायुस्त्रिविधं भवेत् । दीर्घायुषोऽल्पमध्ये तु पूर्ण्णायुस्त्रि-
विधं भवेत् । एवन्नवविधं प्रोक्तमायुषां तु विनिर्णयः । पञ्च-
म्याराद्दशा मृत्युं दद्यात् षष्ठी गुरोस्तथा । शनेश्चतुर्थान्मृत्युः
स्याद्दशा राहोश्च सप्तमी । विपद्भेशदशा कष्टा प्रत्यरीश-
दशा तथा । बधभेशदशा कष्टा पापा स्यादशुभेक्षिता ।
नीचारातिविमूढस्था विपत्प्रत्यरिनैधनाः । दशा दद्युर्मृतिं
तस्य पापैयुक्ता विशेषतः । राशिसन्धिषु ये जातास्ते बाला
मृतजीविनः । पापदृष्टो युतोवाऽपि निःसंशयमृति प्रदः ।
गण्डान्तेषूद्भवो मर्त्यः पितृमातृबलात्ततः । यदि जीवेत्स्व-
र्गपालो गजवाजिसमन्वितः । तृतोयगौ भानुनिशाकरौ
वा क्रूरर्क्षगौ क्रूरनिरीक्षितौ च । व्याधिं नरस्यापि
वदन्ति तजज्ञास्त्रिवर्षमात्रं त्वविलम्बमेतत् । चन्द्रात् स्मरे-
वासरनाथभौमौ कुजादयो वा मरणं दशाहात् । उद्यद्रेष्काण
जामित्रे यस्व स्याद्दारुणो ग्रहः । क्षीणचन्द्रे विलग्नस्थे
सद्योहरति जीवितम् । आपोक्लिमे स्थिताः सर्वे ग्रहा
बलविवर्ज्जिताः । एकमासं द्विमासं वा तस्यायुः समुदाहृतम् ।
विलग्नाधिपतिर्नीचे निधने चार्कसंयुते । कृच्छ्रेण जीवनं
विन्देन्मृतप्रायो भविष्यति । केतोरुदयः पूर्ब्बे पश्चादु-
क्लाग्निपवननिर्घातः । रौद्रे सति च मूहर्त्ते प्राणेभ्य-
स्त्यज्यते जन्तुः । ग्रहणपरिवेशकाले जातः पापान्विते
विलग्नस्थे । लग्नेशे बलहीने जीवति पक्षत्रयं
त्रिमासं वा । अंशाधिपतिर्जन्मपतिर्लग्नपश्चास्तमुपागतो
यस्य । लग्नावसानमरणं भवेत् कतिपयाहेन । सन्धि-
चतुष्टयकाले जाते मृत्युं समादिशेत्तज्ज्ञः । पापयुते
दृष्टे वा शीघ्रैः सौम्यैरदृष्टयुते । राहौ केन्द्रे पापयुक्ते-
क्षिते वा क्षिप्रं नाशं याति सौम्यैरदृष्टे । पापैः केन्द्रे
वार्कलग्ने त्रिकोणे सौम्यैः षष्ठे चाष्टमेऽन्त्ये वदन्ति । जातः
क्षोणे शीतगौ लग्नसंस्थे पापैर्दृष्टे नाशमाशु प्रयाति ।
उच्चक्षेत्रे मेषराशिं च हित्वा राहुर्युक्तस्तेष्वपि प्राण-
नाशः । लग्नात्स्वान्त्यौ पापयुक्तौ यदि स्तस्तत्षष्ठान्त्ये वा
विनश्येन् क्षणेन । लग्नाद्बाले चाष्टमे पापचारैः सोमे क्षी-
णे त्वष्टमाब्दं च जीवेत् । केन्द्रैश्चन्द्रात्पापयुक्तैरसौम्यैः
स्वर्गे यानं प्रोच्यते वत्सरेण । जन्माधिपे लग्नगे क्रूर-
युक्ते पश्यत्यार्किश्चाष्टमे जीववर्गे । षष्ठे वर्षे द्वादशे वाऽष्टमे
वा सन्धौ राशेर्जातको मृत्युमेति । षष्ठेऽष्टमे वा हिमगौ
च यस्य क्षीणे चन्द्रे पापयुक्तेऽथ वापि । सौम्यैर्दृष्टे त्वष्ट-
माब्दञ्च जीवेत् पापैः सौम्यैर्मिश्रितैस्तद्दलं स्यात् । जीवे-
विलग्ने मिथुने तुलायां शुक्रेण युक्ते शशिसूनुना च ।
पापैर्दृष्टे मृत्युराशिस्थिते वा जीवेद्वर्षं चाष्टमं चैच बालः ।
लग्ने क्षीणे शशिनि निधनं रन्ध्रकेन्द्रेषु पापैः पापा-
न्तःस्थे निधनहिवुके द्यूनयुक्ते च चन्द्रे । एवं लग्ने भवति
मदनच्छिद्रसंस्थे च पापे मात्रा साकं यदि च न शुभैर्वीक्षितः
शक्तिमद्भिः । राहुग्रस्ते शीतरश्मौ विलग्ने क्रूरे युक्ते
चाष्टमे भूमिपुत्रे । मात्रा साद्धं चन्द्रवद्भास्करेण ग्रस्तो
वा तेनाशु मृत्युं प्रयाति । अस्तङ्गते दनपतौ रविजे
विलग्ने भौमे ऽथ वापि निधनं ब्रजति त्रिवर्षात् ।
एवं स्थितेऽपि हिमगावशुभैरदृष्टैराशुग्रहे च नियत्
पृष्ठ ०७८७
भवतीह चाष्टौ । वृहस्पतिर्भौमगृहेऽष्टमस्थः सूर्येन्दुभौमा-
र्कजदृष्टमूर्त्तिः । अन्यैस्त्रिभिर्भार्गवदृष्टिहीनो लोकान्तरं प्राप-
यति प्रसूतम् । वक्री शनिर्भौमगृहं प्रयातश्छिद्रे च
षष्ठे च चतुष्टये वा । कुजन संप्राप्तबलेन दृष्टो वर्षद्वयं
जीवयति प्रजातम् । सौरिस्मरस्थे यदि वा विलग्ने जन्म-
स्थलग्ने शशिदुश्चिके वा । सौम्येषु केन्द्रोपगतेषु सद्योजातस्य
मृत्युर्यवनोपदिष्टः । नीचस्थे देवपूज्ये तु भौमक्षेत्रगते-
ऽथ वा । सन्धित्रयेऽपि जातस्तु मासान्मृत्युं स गच्छति ।
नक्षत्रसन्धौ तिथिराशिसन्धावेकत्र तावत्प्रसवस्त्रिपक्षात् ।
जातश्च मृत्युं समुपैति सद्यः शुक्रेऽह्नि जीवेदिति नन्दि-
कोक्तम् । षष्ट्यां जातश्चार्कलग्ने कुजे वा गण्डान्ते वा
मृत्युयोगेऽथ वापि । भौमे हन्ति प्राणिनां तत्क्षणेन जीवे-
क्षिते चेन्न भवेत् प्रजातः । भौमोदये तद्दिवसे कृशेन्दौ
होरेश्वरे वारभूते शशाङ्के । जातः सुखी ब्रह्मपदं
प्रयाति प्रसाधनाद्यैरिह मन्त्रसिद्ध्या । वर्गोत्तमे लग्न-
गते कुलीरे केन्द्रे गुरौ भूमिसुते कलत्रे । सिंहासनांशे
मृगुजे विशेषाद्रसायनाद्यैरमितायुरेति । कर्मान्त्यलग्ने
सबुधे कलत्रे जीवे यदा गोपुरभागयुक्ते । मृद्वंशके वा
दिननाथपुत्रे जातस्त्वसंख्यायुरुपैति सूनुः । देवलोकांशके
शुके केन्द्रस्थे धरणीसुते । सिंहासनांशके जीवे केन्द्रे
जातस्त्वसंख्यकः । उत्तमांशे भृगो केन्द्रे शनौ पाराव-
तांशके । स्वर्गलोके गुरौ केन्द्रे त्वौषधाधारसंख्यकः ।
गोपुरांशे गुरौ केन्द्रे शुक्रे पारावतांशके । त्रिकोणे कर्कि-
लग्ने तु यगान्तं स तु जीवतिः । चापांशे कर्किलग्ने च
तस्मिन् देवेन्द्रपूजिते । त्रिचतुर्भिर्ग्रहैः केन्द्रे जातो ब्रह्म-
पदं लभेत् । तृतीयैकादशे शुक्रे गोपुराख्यांशकान्विते । वृषे
वर्गोत्तमे लग्ने ब्रह्मणः परमं पदम् । लग्ने शुक्रे गुरौ
कामे कर्मायेऽमरनायके । चापमेषांशके लग्ने जातो याति
परं पदम् । पञ्चमे बुधसंयुक्ते गोपुराख्यांशकान्विते । गुरौ
घटे विलग्नेऽस्मिन् जातो ब्रह्मपदं लभेत् । केन्द्रे गुरौ
लाभगतेऽर्कपुत्रे धने रवौ मन्दयुते कलत्रे । भाग्ये
धरासूनुयुतेऽत्र जातो युगान्तकालं सममुपैति मन्त्रैः ।
त्रिकोणगौ जीवबुधौ विशेषाल्लग्ने वृषे तत्र यते धराजे ।
निशाकरे गोपुरभागयुक्ते जातः सहस्रद्वयवर्षमेति ।
पक्षे सिते जन्म यदाह्नि काले केन्द्रे गुरौ वा शशिभे
विलग्ने । दारे कुजे भानुसुते सुखस्थे जातस्तु जीवे-
दयुताब्दसंख्यम् । जीवमन्दारशुक्राणामन्योन्यं केन्द्रसं-
भवे । त्रिकोणे वा यदा याते जातस्त्वयुतवत्सरेः ।
शुभैर्युक्ते चतुष्केन्द्रे पापैः षट्त्रिभवान्वितैः । सिंहलग्ने
यदा जातो जीवेत् षडयुतानि सः । कर्कादिस्थैर्ग्रहैः
सर्वैर्गुरुचन्द्रादिभिर्यदा । शन्यन्तैः परमोच्चस्थैर्मुनि-
तुल्यो भवेन्नरः । शन्यादिभौमपर्यन्ता लग्नादौ खचराः
स्थिताः । वैशेषिकांशसंयुक्ताजातस्त्वमरसंन्निभः । आकल्पं
जोवति नरो मृगे लग्ने कुजादिकाः । रव्यन्ताः
खचराः सर्वे स्वोच्चे जीवेऽह्नि जन्मनि । मेषान्त्यलग्ने
सगुरौ भृगौ वा निशाकरे गोधनमध्यमांशे । सिंहास-
नांशे यदि वा धराजे जातस्त्वसं ख्यायुरुपैति मन्त्रैः ।
स्थिरे रवौ सोमसुतेन युक्ते चन्द्रे वृषस्थेमिथुने च शुक्रे ।
गुरौ कुलीरे यदि वा विलग्ने शनौ तुलायां मुनिसा-
म्यमेति । देवलोकांशके मन्दे भौमे पारावतांशके । सिंहां-
शके गुरौ लग्ने जातो मुनिसमो भवेत् । मेषलग्ने रवौ
माने जीवे स्वीच्चसमन्विते । त्रिषडायगते पापे जातो
मुनिसमो भवेत् । इति चिन्तामणौ प्रोक्ता आयुःसंख्या
मनीपिणाम् यदुक्तं पूर्ब्बकैः सर्व्वेस्तद्वदेव मयाऽऽधुना” ।
पारिजातांशाद्यास्तु सर्व्वा० चिन्त दर्शिताः । “मूलत्रिकोण-
कोणोच्चस्वर्क्षकेन्द्रोत्तमांशकाः । सप्तवर्गोद्भवाः स्वांशस्वा-
धिमित्रांशमित्रकाः । वर्गा इमे दश प्रोक्ताः पूर्ब्बाचार्य्यै
र्महर्षिभिः । वर्गद्वयादिसंयोगै पारिजातादिसंज्ञकाः ।
उत्तमं तु त्रिवर्गैक्यं चतुर्वर्गं तु गोपुरम् । वर्गपञ्चक
संयोगे सिंहासनमिहोच्यते । वर्गद्वयं पारिजातं षट्कं
पारावतांशकम् । सप्तकं देवलीकाख्यं स्वर्गलोकस्तथाऽष्टकम् ।
ऐरावतन्तु नवकं फलं तेषां पृथक् पृथक्” ।
जातकपद्धतौ तु रिष्टभङ्गसहितायुर्योगविशेषः गजाद्यायुः-
प्रमाण सहित उक्तः यथा
“लग्नसप्तमगौ पापौ चन्द्रः पापयुतो यदा । शुभग्रहै र्न
दृष्टः स्यादचिरान्मृत्युकारकः । क्षीणेन्दौ व्ययगे पापै
र्लग्नाष्टमनिवासिभिः । केन्द्राणि शुभहीनानि यदि क्षिप्रं
तदा मृतिः । पापयुक्तः शशी लग्नसप्ताष्टद्वादशस्थितः ।
केन्द्रान्यस्थानगैः सोम्यैर्न दृष्टो मृत्युदायकः । पापे राश्य-
न्तगे सन्ध्याकाले होरा विधोर्यदा । मृत्युर्वा स्याच्चन्द्र-
पापै र्युते सर्व्वचतुष्टये । कर्कान्त्यगे चक्रपूर्ब्बं पश्चार्द्धे
पापदृग्युते । मृत्युर्वाष्टमैकेन्द्रस्थैः पापैः क्षीणे विधौ तनौ ।
षष्ठद्वादशगैः पापैरथवा द्व्यष्टसं स्थितैः । लग्ने वा
पापमध्यस्थे सप्तमे वा मृतिं व्रजेत् । चन्द्रे षष्ठेऽष्टमे वापि
मरणं पापवीक्षिते । शुभैरेवेक्षिते वर्षाष्टकान्मिश्रैस्तदर्द्धतः ।
शुभैः षष्ठास्तगे पापैर्बलिभिः प्रविलोकिते । मासान मृत्युः
पृष्ठ ०७८८
सप्तमे वा लग्नेशे पापसंयुते । तुर्य्यसप्ताष्टगश्चन्द्रः पापान्तः-
स्थो मृतिप्रदः । क्षीण एवं लग्नगोऽपि पापे सप्ताष्टगे
सति । शुभादृष्टे विधौ भान्ते केन्द्रकोणोपगैः खलैः ।
भृतिराशु सचन्द्रेऽङ्गे पापैर्वा सप्तमैः स्थितैः । सपापोऽङ्गे
विधौ ग्रस्ते समातृकशिशोर्बधः । भौमेऽष्टमे रवावेवं-
विधे लग्ने तु शस्त्रजः । चन्द्रार्कौ वा तनौ पापैः सबलैरष्ट
कोणगैः । शुभैर्न युक्तदृष्टश्चेन्मरणं वालकस्य हि । लग्नांष्ट
नवमान्त्येषु कुजचन्द्रार्कसूर्य्यजैः । बलिष्ठगुर्व्वदृष्टैः स्या-
ज्जातस्य मरणं ध्रुवम् । पापयुक्तो विधुर्लग्नसप्तको-
णान्त्यमृत्युगः । मरणाय बलिष्ठोज्ञस्त्रिकयुग् वीक्षितो न
चेत् । योगकर्तृबलिष्ठेनाधिष्ठेते च बली विधः । स्वभे
वा लग्नभेऽब्दान्तः पापदृष्टस्तदा मृतिः । मेषालिगो गुरु-
र्मृयौ विशुक्रैरवलोकितः । त्रिवर्षान्मृत्युदोमन्दः स
सूर्य्येन्दु र्नवाब्दतः । दृश्यादृश्ये सौम्यपापैर्लग्ने ऽग्नावि-
पुभिमृतिः । बुधः सार्कविधुः पापदृष्ट एकादशाब्दतः ।
लग्नेशो रिपुगोराशिमितैर्वर्षेमृतिप्रदः । मासैर्द्रेक्काण-
नाथस्तु दिवसैरंशनायकः । लग्ने शनिः षोड़शाहात्
पापदृष्टोऽथ संयुतः । मासाद्विशुद्धो वर्षात्तु शिशोर्मृत्युकरः
स्मृतः । लग्नेऽर्ककुजमन्दाश्चेत् षष्ठे वा सप्तमे विधुः ।
क्षीणो न दृष्टो गुरुणा सप्तवर्षान् मृतिप्रदः । राशि-
लग्नेश्वरावस्तं यातौ षष्ठाष्टरिप्फगौ । राश्यङ्कतुल्यवर्षै
स्त मरणाय शिशोः स्मृतौ । राहुःपापेक्षितः केन्द्रसंस्थो
मृत्युकरः शिशोः । वत्सरैर्दशभिः कैश्चित् स्मृतः षोड़श-
वत्सरैः । एकोऽपि पापोमृत्युस्थः शत्रुगेहे खलेक्षितः ।
अमरार्भकमप्येवं वर्षान्मृत्युवशं नयेत् । शुक्रः कर्कमृगा-
रस्थोव्ययाष्टारिस्थितैः खलैः । सर्वैः प्रदृष्टः षड़्वर्षै-
र्जातस्यारिष्टकारकः । बुधः कर्कस्थितः षष्ठेऽष्टमे वा चन्द्र-
वीक्षितः । वर्षैश्चतुर्भीरिष्टस्य कारकः कथितो बुधैः । सूर्य्यः
कर्म्मणि शन्यारक्षेत्रस्थः पापवीक्षितः । मरणाय शिशोः
केतूदयभं जन्मभं तथा । षष्ठाष्टमस्थाः शुभदाश्च पापा-
धर्म्मात्मजस्थाश्च यदा भवन्ति । पापैः प्रदृष्टा न शुभा प्रदृष्टा
वर्षाष्टकान्मृत्युकराः प्रदिष्टाः । लग्नपः पापयुक् द्यू
नेरिष्टकृद्धोधनस्थितः । नवाब्दैः सखलोऽब्जांशे व्यये चेन्दोः
खलेक्षितः । सूर्य्यशुक्रशनीनाञ्च योगो भवति जन्मनि ।
गुरुदृष्टोऽपि रिष्टाय प्रदिष्टो नववत्रैः । गजैरङ्ककैर्नेत्रनेत्रै
र्द्विपक्षैः शरैरेककेनाव्धिभिर्वह्निनेत्रैः । गजाब्जैर्नखै
स्वर्गसंख्यैश्च दिग्भिर्विधोर्मेषतो भागवर्षैर्मृतिः स्यात् ।
कर्कलग्ने गरौ सेन्दौ ज्ञशुक्रौ केन्द्रगौ यदा । त्रिलाभारि-
गताः शेषा इहायुरमितं स्मृतम् । आयुषो योगजस्यापि
रिष्टं वाधकमत्र हि । तद्बाधकोरिष्टभङ्गः स चेद्बलिकृतो-
भवेत् । शुभाश्चन्द्रात् षष्ठसप्ताष्टमस्था नो खलान्विताः ।
रिष्टनाशाय गदिताः प्रणामोनृहरेर्यथा । शुभद्रेष्काणगैः
सर्वैः शुभैर्युक्तोविधुः शिशोः । रिष्टहा परिपूर्ण्णो वा द्वा-
दशांशे शुभे स्थितः । सम्पूर्ण्णाङ्गः शर्व्वरीनायकश्चेत् सर्वै
र्दृष्टोरिष्टहा संप्रदिष्टः । उच्चस्थो वा मित्रभागस्थितो वा
चन्द्रारिष्टं नाशयेत् शुक्रदृष्टः । केन्द्रे ज्ञगुरुशुक्राणामेकः
कोणेऽथ वीर्य्यवान् । अरिष्टनाशकः केन्द्रे पापोऽपि परमो-
च्चगः । मित्रराशिगताः पापाः शुभाश्च नवपञ्चमाः । नाशं
नयन्तिरिष्टानि कृष्णोरिष्टासुरं यथा । बलीजन्मेश्वरोमित्र
शुभदृष्टो हि रिष्टहा । स सर्वग्रहदृष्टो हि षष्ठे रिष्टविनष्टि
कृत् । वर्गोत्तमे शुभाः सर्व्वे स्वभे चारिष्टहानिदाः ।
शुभवर्गगता दृष्टाः सद्दृष्टा रिष्टानष्टिदाः । कृत्तिकापुष्य-
दास्रेषु चन्द्रोवाथ त्रिपुष्करे । पूर्ण्णोवर्गोत्तमगतः स्वीय-
रिष्टविनाशकृत् । मेषकर्कगतश्चन्द्रः केन्द्रे शुभनिरीक्षितः ।
अशुभं नाशयत्याशु हरिर्मत्तगजं यथा । शुक्लपक्षे निशा-
याञ्चेत् कृष्णेजन्म यदा दिवा । शुभाशुभेक्षितश्चन्द्रः
षष्ठाष्टस्थोऽवकः शिशोः । व्यतीपातेऽथ गण्डान्ते वैधृतौ
रिष्टिसन्ध्ययोः । जातस्य रिष्टं नास्त्येव स्मृतिकर्त्तुर्मतं
यथा” । इति चन्द्ररिष्टभङ्गः । “सवीर्य्ये गुरौ लग्नगे रश्मि-
युक्ते विनाशं तदैवाशुभं सर्व्वमेति” । बलिष्ठैः शुभैश्चा-
शुभैर्वीर्य्यहीनैः शुभर्क्षं तनुः सद्ग्रहैर्वीक्षितं वा । त्रिष-
ड़ेकादशे राहुः शुभदृष्टो यदा भवेत् । मृत्युनाशाय
सविभुर्मृत्युञ्जय इवापरः । मेषोक्षकर्कलग्नस्थो राहुश्चाम्यु-
दयो मुनेः । अगस्त्यस्य मुनीनां च सप्तानां रिष्टनाशकः ।
शीर्षोदयगतैः सर्वैर्मृत्युदोषो विनश्यति । प्रसन्नैः सुखदै-
श्चापि नभोदिग्वह्निवायुभिः । मृत्युभं ग्रहहीनं चेत्
केन्द्रे पूर्ण्णबले शुभे । त्रिंशद्वर्षं तदायुः स्याच्चत्वारिंश-
च्छुभेक्षिते । गुरुः स्वभे स्वदृक्काणे सप्तविंशतिवर्षकम् । स्वभ-
स्थिताः शुभाश्चन्द्रे स्वोच्चेऽङ्गस्थे स्वषट्समाः । लग्ने
गुरौ शुभैः केन्द्रस्थितैर्मृत्यौ ग्रहोज्भिते । सप्तत्यब्दं
भवेदायुरष्टाङ्गे तदवीक्षिते । कर्केऽङ्गगे गुरौ कोणस्थितैः सर्व-
शुभग्रहैः । अशीतिरायुषः काष्ठा केन्द्रेशुक्रे शतं समाः ।
सूर्य्ये बलिष्ठे पिण्डायुश्चन्द्रे स्यात्तु निसर्गजम् । लग्नेऽं-
शायुर्हीणबले त्रिकेऽस्मिन् जीवशर्म्मजम् । नन्देन्दुतत्त्व
तिथ्यर्कतिथिस्वर्गनखा रवेः । वर्षाण्युच्चे ग्रहे नीचे त्वर्द्धं
मध्येऽनुपाततः । नखैकद्वाङ्कधृतयो विंशत्खाक्षा निस-
पृष्ठ ०७८९
र्गजाः । समाः सूर्य्यात् पूर्ब्बवत् स्यादेभ्योऽप्याऽयुरथांशजे ।
इष्टग्रहलवास्त्रिघ्ना दशभक्ताश्च यत् फलम् । वर्षमासा-
दिकं ज्ञेयं भवेद् द्वादशभिः स्फुटम् । जैवे परायुः
सप्तांशो ग्रहायुः परमोच्चगे । लग्नमशसमन्त्वयु-
र्दद्याद्वीर्य्ययुतं च भैः । सर्वमर्द्धं तृतीयोऽंशः प्रादः
पञ्चाङ्गभागकौ । व्ययाद्वामं विमीयेत पापे त्वर्द्धं शुभग्रहे ।
एकभावगतानां यो बली भागहरस्तु सः । अर्द्धमस्तं
गतोहन्ति त्यक्त्वा शुक्रशनैश्चरौ । कुजन्त्यक्त्वा शत्रुभस्थैस्त्रि-
भागो नाश्यते निजः । लग्ने सपापैः लग्नस्थनवांश-
घ्नाद्ग्रहायुषः । अष्टोत्तरः शतांशः स्याद्धीनः सौम्ये-
क्षिते दलम् । उच्चचक्रगतास्त्रिघ्नं द्विघ्नं स्वांशोत्तमादिगाः ।
ददत्यायुर्ग्रहास्ते चेद्वृद्धौ नित्यं स्वभादिगाः । अपि त्रिद्व्ये
कगुणदाः केन्द्रादाविति केचन । लग्ने सपापे हानि-
र्या नासावंशभवायुषि । हानिद्वयेऽधिकैव स्याद्गुणोऽप्येवं
वराहगोः । खार्काःपरायुर्नरदन्तिनोः १२० स्याद्दन्ता ३२
हयानां च जिना २४ वृषादेः । खरोष्ट्रयोस्तत्त्वसमाः २५
शुनोऽर्का १२ व्याघ्राद्यजादेर्हिनृपाः १६ परायुः । आ
युर्नृवत् समानीय स्वस्वपूर्ण्णायुषा हतम् । गृपरायुर्हृतं
स्पष्टं गजाद्यायुर्भवेदिति । दीपस्तैलादियुक्तोऽपि यथा
वाते विनश्यति । अजितेन्द्रियतापथ्यैरेवमायुर्विनश्यति” ।
अत्र हयानां दन्तैर्यथायुर्ज्ञानं तथोक्तमश्वशब्दे
५०३ पृष्ठे जयदत्तकृतादश्वशास्त्रात्तद्विशेषोऽव गन्तव्यः ।
दन्ताद्वात्रिंशद्वर्षा इती ह क्तम्
इत्थमायुश्च सदाचारादेव, अपथ्याजितेन्द्रियादिभ्यस्तु
आयुःसत्त्वेऽपि नाशः उक्तजातकपद्धतिवचनात् अतएव भा०
आनु० प० १०४ अध्याये सदाचारादितएव आयवृद्धिरुक्ता
“शतायुरुक्त पुरुषः शतवीर्य्यश्च जायते । कस्मानिम्रयन्ते
पुरुषा बाला अपि पितामह! । आयुष्मान् केन भवति
अल्पायुर्वाऽपि मानवः । केन वा लभते कीर्त्तिं केन वा
लभते श्रियम् । तपसा ब्रह्मचर्य्येण जपहीमैस्तथौषधैः ।
कर्म्मणा मनसा वाचा तन्मे ब्रूहि पितामह! । भीष्म
उवाच । अत्र तेऽहं प्रवक्ष्यामि यन्मां त्वमनुपृच्छसि ।
अल्पायुर्य्येन भवति दीर्घायुर्वाऽपि मानवः । येन वा
लभते कीर्त्तिं येन वा लभते श्रियम् । यथा वर्त्तयन्
पुरुषः श्रेयसा सम्प्रयुज्यते । आचाराल्लभते चायुराचा-
राल्लभते श्रियम् । आचाराल्लभते कीर्त्तिं पुरुषः प्रेत्य
चेह च । दुराचारो हि पुरुषो नेहायुर्विन्दते महत् ।
यस्मात्त्रस्यन्ति भूतानि तथा परिभवन्ति च । तस्मात् कुर्य्या-
दिहाचारं यदीच्छेद्भूतिमात्मनः । अपि पापशरीरस्य
आचारो हन्त्यलक्षणम् । आचारलक्षणो धर्म्मः सन्तश्चा-
रित्रलक्षणाः । साधूक्तञ्च यथा वृत्तमेतदाचारलक्षणम् ।
अप्यदृष्टं श्रवादेव पुरुषं धर्म्म चारिणम् । भूतिकर्माणि
कुर्व्वाणं तं जनाः कुर्व्वते प्रियम् । ये नास्तिका निष्-
क्रियाश्च गुरुशास्त्राभिलङ्घिनः । अधर्मज्ञा दुराचारास्ते
चरन्ति गतायुषः । विशोका भिन्नमर्य्यादा नित्यं सङ्कीर्ण-
मैथुनाः । अल्पायुषो भवन्तीह नरा निरयगामिनः ।
सर्व्वलक्षणहीनोऽपि समुदाचारवान्नरः । श्रद्धधानोऽन-
सूयश्च शतं वर्षाणि जीवति । अक्रोधनः सत्यवादी भूता-
नामविहिंसकः । अनसूयुरजिह्मश्च शतं वर्षाणि जीवति ।
लोष्टमर्द्दी तृणच्छेदो नखखादी च यो नरः । नित्यो-
च्छिष्टः सङ्कशुको नेहायुर्व्वि न्दते महत् । ब्राह्मे मुहूर्त्ते
बुध्येत धर्मार्थौ चानुचिन्तयेत् । उत्थायाचस्य तिष्ठेत पूर्ब्बां
सन्ध्यां कृताञ्जलिः । एवमेवापरां सन्ध्यां समुपासीत
वाग्यतः । नेक्षेतादित्यमुद्यन्तं नास्तं यान्तं कदाचन ।
नोपसृष्टं न वारिस्थं न मध्यं नभसोगतम् । ऋषयो
नित्यसन्ध्यत्वाद्दीर्घमायुरवाप्नुवन् । तस्मात्तिष्ठेत्सदा पूर्ब्बां
पश्चिमाञ्चैव वाग्यतः । ये न पूर्ब्बामुपासीरन्द्विजाः सन्ध्यां
न पश्चिमाम् । सर्व्वांस्तान् धार्मिको राजा शूद्रकर्म्माणि
कारयेत् । परदारा न गन्तव्याः सर्व्ववर्ण्णेषु कर्हिचित् ।
नहीदृशमनायुष्यं लोके किञ्चन विद्यते । यादृशं पुरुष-
स्येह परदारोपसेवनम् । यावन्तो रोमकूपाः स्युः स्त्रीणां
गात्रेषु निर्मिताः । तावद्वर्षसहस्राणि नरकं पर्य्युपासते ।
प्रसाधनञ्च केशानामञ्जनं दन्तधावनम् । पूर्ब्बाह्णएव
कार्य्याणि देवतानाञ्च पूजनम् । पुरीषमूत्रे नोदीक्षेन्ना-
धितिष्ठेत् कदाचन । नातिकल्यं नातिसायं न च मध्य-
न्दिने स्थिते । नाज्ञातैः सह गच्छेत नैकोन वृषलैः सह ।
पन्थादेयो ब्राह्मणाय नीभ्यो राजभ्य एव च । वृद्धाय
भारतप्ताय गर्भिण्यै दुर्ब्बलाय च । प्रदक्षिणं प्रकुर्व्वीत
परिज्ञातान् वनस्पतीन् । चतुष्पथान् प्रकुर्र्व्वीत सर्व्वानेव
प्रदक्षिणान् । मध्यन्दिने निशाकाले अर्द्धरात्रे च सर्व्व दा ।
चतुष्पथं न सेवेत उभे सन्ध्ये तथिव च । उपानहौ च
वस्त्रञ्च धृतमन्यैर्न धारयेत् । ब्रह्मचारी च नित्यं स्यात्
पादं पादेन नाक्रमेत् । अमावास्या पौर्ण्णमास्यां चतुर्द्द-
श्याञ्च सर्व्वशः । अष्टम्यां सर्वपक्षाणां व्रह्मचारी सदा
भवेत् । । वृथा मांसं न खादेत पृष्ठमांसं तथैव च ।
आक्रोशं परिवादञ्च पैशुन्यञ्च विवर्ज्जयेत् । नारुन्तुदः स्यान्न
पृष्ठ ०७९०
मृशंसवादी न हीनतः परमभ्याददीत । ययाऽस्य वाचा
पर उद्विजेत न तां वदेदुषतीं पारलोक्याम् । वाक्-
सायका वदजान्निष्पतन्ति तैराहतः शोचति रात्र्यहाणि ।
परस्य नो मर्म्मसु निष्पतन्ति तान् पाण्डितो नावसृजेत्
परेषु । रोहते सायकैर्विद्धं वनं परशुना हतम् । वाचा
दुरुक्तया विद्धं न संरोहति वाक्क्षतम् । कर्ण्णिनालिका
नाराचान्निर्हरन्ति शरीरतः । वाक्शल्यस्तु न निर्हर्त्तुं
शक्यो हृदिशयो हि सः । हीनाङ्गानतिरिक्ताङ्गान् विद्या-
हीनान् विगर्हितान् । रूपद्रविणहीनांश्च सत्त्वहीनांश्च
नाक्षिपेत् । नास्तिक्यं वेदनिन्दाञ्च देवतानाञ्च कुत्सनम् ।
द्वेषस्तम्भाभिमानञ्च तैक्ष्ण्यञ्च परिवर्ज्जयेत् । परस्य दण्डं
नोद्यच्छेत् क्रुद्धो नैनं निपातयेत् । अन्यत्र पुत्त्राच्छिष्याच्च
शिष्टार्थं ताड़नं स्मृतम् । न ब्राह्मणान् परिवदेत् नक्ष-
त्राणि न निर्द्दिशेत् । तिथिं पक्षस्य न ब्रूयात्तथाऽस्या-
युर्न रिष्यते । कृत्वा मूत्रपुरीषे तु रथ्यामाक्रम्य वा पुनः ।
पादप्रक्षालनं कुर्य्यात् स्वाध्याये भोजने तथा । त्रीणि
देवाः पवित्राणि ब्राह्मणानामकल्पयन् । अदृष्टमद्भिर्नि
र्णिक्तं यच्च वाचा प्रशस्यते । संयावं कृशरं मांसं शष्कुली-
म्पायसन्तथा । आत्मार्थं न प्रकर्त्तव्यं देवार्थन्तु प्रकल्पयेत् ।
नित्यमग्निं परिचरेद्भिक्षां दद्याच्च नित्यदा । वाग्यतो
दन्तकाष्ठञ्च नित्यमेव समाचरेत् । न चाभ्युदितशायी
स्यात् प्रायश्चित्ती तथा भवेत् । मातापितरमुत्थाय पूर्ब्ब-
मेवाभिवादयेत् । आचार्य्यमथ वाप्यन्यं तथायुर्व्विन्दते
महत् । वर्ज्जयेद्दन्तकाष्ठानि वर्ज्जनीयानि नित्यशः ।
भक्षयेच्छास्त्रदृष्टानि पर्व्वस्वपि विवर्ज्जयेत् । उदङ्मुखश्च
सततं शौचं कुर्य्यात् समाहितः । अकृत्वा पादशौचञ्च
नाचरेद्दन्तधावनम् । अकृत्वा देवपूजाञ्च नाभिगच्छेत्
कदाचन । अन्यत्र तु गुरुं वृद्धं धार्मिकं वा विचक्षणम् ।
अवलोक्यो न चादर्शो मलिनो बुद्धिमत्तरैः । न चाज्ञातां
स्त्रियं गच्छेद्गर्भिणीं वाऽकदाचन । उदक्शिरा न स्वपेत
तथा प्रत्यक्शिरा न च । प्राकशिरास्तु स्वपेद्विद्वानथवा
दक्षिणाशिराः । न भग्ने नावशीर्णे च शयने प्रस्वपीत च ।
नान्तर्द्धाने न संयुक्ते न च तिर्य्यक्कदाचन । न चापि
गच्छेत् कार्य्येण समयाद्वाऽपि नास्तिके । आसनन्तु
पदाकृष्य न प्रसज्येत्तथा नरः । न नग्नः कर्हिचित्
स्नायान्न निशायां कदाचन । स्नात्वा च नावमृज्येत
गात्राणि सुविचक्षणः । न चानुलिम्पेदस्नात्वा स्नात्वा वासो
न निर्द्धुनेत् । न चवार्द्राणि वासांसि नित्यं सेवेत मानवः ।
स्रजश्च नावकृष्येत न बहिर्द्धारयीत च । उदक्यया च
संभाषां न कुर्व्वीत कदाचन । नोत्सृजेत पुरीषञ्च क्षेत्रे
ग्रामस्य चान्तिके । उभे मूत्रपुरीषे तु नाप्सु कुर्य्यात्
कदाचन । अन्नं बुभुक्षमाणस्तु त्रिर्मुखेन स्पृशेदपः ।
भुक्त्वा चान्नं तथैव त्रिर्द्विः पुनः परिमार्ज्जयेत् । प्राङ्मुखो
नित्यमश्नीयाद्वाग्यतोऽन्नमकुत्सयन् । प्रस्कन्दयेच्च मनसा
भुक्त्वा चाग्निमुपस्पृशेत् । । आयुष्यं प्रङ्मुखो भुङ्क्ते यशसयं
दक्षिणामुखः । धन्यं प्रत्यङ्मुखो भुङ्क्ते ऋतं भुङ्क्ते
उदङ्मुखः । अग्निमालभ्य तोयेन स र्व्वान् प्राणानुपस्पृशेत् ।
गात्राणि चैव सर्व्वाणि नाभिं प्राणितले तथा । नाधि-
तिष्ठेत्तुषं जातु केशभस्मकपालिकाः । अन्यस्य चाप्यव-
स्नातं दूरतः परिवर्ज्जयेत् । शान्तिहोमांश्च कुर्व्वीत
सावित्राणि च धारयेत् । निषण्णश्चापि खादेत न तु गच्छन्
कदाचन । मूत्रं नोत्तिष्ठता कार्य्यं न भस्मनि न गोव्रजे ।
आर्द्रपादस्तु भुञ्जीत नार्दपादस्तु संविशेत् । आर्द्रपादस्तु
भुञ्जानो वर्षाणां जीवते शतम् । त्रीणि तेजासि नोच्छिष्ट
आलभेत कदाचन । अग्निं गां ब्राह्मणञ्चैव तथा ह्या-
युर्न हीयते । त्रीणि तेजांसि नोच्छिष्ट उदीक्षेत
कदाचन । सूर्य्याचन्द्रमसौ चैव नक्षत्राणि च सर्व्वशः ।
ऊर्द्ध्वं प्राणा ह्युत्क्रामन्ति यूनः स्थविर आयति । अभ्यु-
त्थानाभिवादाभ्यां पुनस्तान् प्रतिपद्यते । अभिवादयेत
वृद्धांश्च दद्याच्चैवासनं स्वयम् । कृताञ्जलिरुपासीत गच्छन्तं
पृष्ठतोऽन्वियात् । न चासीतासने भिन्ने भिन्नकांस्यञ्च वर्ज्ज-
येत् । नैकवस्त्रेण भोक्तव्यं न न्ग्नः स्नातुमर्हति ।
स्वप्तव्यं नैव नग्नेन न चोच्छिष्टोऽपि संविशेत् । उच्छिष्टो
न स्प्शेच्छीर्षं सर्व्वे प्राणास्तदाश्रयाः । केशग्रहं प्रहा-
रांश्च शिरस्येतान् विवर्ज्जयेत् । न संहताभ्यां पाणिभ्यां
कण्डूयेतात्मनः शिरः । न चाभीक्ष्णं शिरःस्नाया-
त्तथाऽस्यांयुर्नरिच्यते । शिरःस्नातैश्च तैलैश्च नाङ्गं किञ्चि-
दपि स्पृशेत् तिलभृष्टं न चाश्नीयात्तथाऽस्यार्नरि-
ष्यते । नाध्यापयेत्तथोच्छिष्टो नाधीयीत कदाचन ।
वाते च पूतिगन्धे च मनसाऽपि न चिन्तयेत् । अत्र गाथा
यमोद्गीताः कीर्त्तयन्ति पुराविदः । आयुरस्य निकृन्तामि
प्रजास्तस्याददे तथा य उच्छिष्टः प्रवदति स्वाध्यायञ्चाधि-
गच्छति । यश्चानन्यायकालेऽपि मोहादभ्यस्यति द्विजः ।
तस्य वेदः प्रणश्येत आयुश्च परिहीयते । तस्नाद्युक्तो
ह्यनध्याये नाधीयीत कदाचन । प्रत्यादित्यं प्रत्यनलं
प्रति गाञ्च प्रति द्विजान् । ये मेहन्ति च प्रन्थानं ते भवन्ति
पृष्ठ ०७९१
गतायुषः । उभेमूत्रपुरीषे तु दिवा कुर्य्यादुदङ्मुखः । दक्षिणा-
भिमुखो रात्रौ तथा ह्यायुर्नरिष्यते । त्रीन् कृशान्नावजानी-
याद्दीर्घमायुर्जिजीविषुः । ब्राह्मणं क्षत्रियं सर्पं सर्वे ह्या-
शीविषास्त्रयः । दहत्याशीविषः क्रुद्धो यावत् पश्यति
चक्षुषा । क्षत्रियोऽपिदहेत् क्रुद्धोयावत् पश्यति तेजसा ।
ब्राह्मणस्तु कुलं हन्याद्ध्यानेनावेक्षितेन च । तस्मादेतत्त्रयं
यत्नादुपसेवेत पण्डितः । गुरुणा चैव निर्ब्बन्धो न कर्त्तव्यः
कदाचन । अनुमान्यः प्रसाद्यश्च गुरुः क्रुद्धो युधिष्ठिर! ।
सम्यङ्मिय्याप्रवृत्तेऽपि वर्त्तितव्यं गुराविह । गुरुनिन्दा-
दहत्यायुर्म्मनुष्याणां न संशयः । दूरादावसथान्मूत्रं
दूरात् पादावसेचनम् । उच्छिष्टोत्सर्ज्जनं चैव दूरे कार्य्यं
हितैषिणा । रक्तमाल्यं न धार्य्यं स्यात् शुक्लं धार्य्यन्तु
पण्डितैः । वर्ज्जयित्वा तु कमलं तथा कुवलयं प्रभो! ।
रक्तं शिरसि धार्य्यन्तु तथा वानेयमित्यपि । काञ्चनी-
याऽपि माला या न सा दुष्यति कहिचित् । स्नातस्य
वर्णकं नित्यमार्द्रं दद्याद्विशाम्पते! । विपर्य्ययं न कुर्व्वीत
वाससो बुद्धिमान्नरः । तथा नान्यधृतं धार्य्यं न चापदश-
मेव च । अन्यदेव भवेद्वासः शयनीये नरोत्तम! ।
अन्यद्रथ्यासु देवानामर्च्चायामन्यदेव हि । प्रियङ्गुचन्दना-
भ्याञ्च विल्वेन तगरेण च । पृथगेवानुलिम्पेत
केशरेण च बुद्धिमान् । उपवासञ्च कुर्व्वीत स्नातः शुचिरल-
ङ्कृतः । पर्व्वकालेषु सर्वेषु ब्रह्मचारी सदा भवेत् ।
समानमेकपात्रे तु भुञ्जेन्नान्नं जनेश्वर! । आलीढया
परिवृतं न शयीत कदाचन । तथा नोद्धृतसाराणि प्रोक्षितं
नाप्रदाय च । न सन्निकृष्टो मेधावी नाशुचेर्न च सत्मू च ।
प्रतिषिद्धान्न धर्मेषु भक्ष्यान् भुञ्जीत पृष्ठतः । पिप्पलञ्च
वटञ्चैव शणशाकं तथैव च । उडुम्बरं न खादेच्च भवार्थी
पुरुषोत्तम! । आव्यं गव्यं तथा मांसं मायूरञ्चैव वर्ज्ज-
येत् । वर्ज्जयेच्छुष्कमासिञ्च तथा पर्य्युषितञ्च यत् । न
पाणौ लवणं विद्वान् प्राश्नीयान्न च रात्रिषु ।
दधिसक्तून्न भुञ्जीत वृथामांसञ्च वर्ज्जयेत् । सायं प्रातश्च
भुञ्जीत नान्तराले समाहितः । बालेन तु नभुज्ञीत
परश्राद्धं तथैव च । वाग्यतो नैकवस्त्रश्च नासंविष्टः
कदाचनै । भूभौ सदैव नाश्नीयान्नानासीनो न शब्दवत् ।
तोयपूर्ब्बं प्रदायान्नमतिथिभ्यो विशेषतः । पश्चाद्भुञ्जीत
मेधावी न चाप्यन्यमना नरः । समानमेकपङ्क्त्यान्तु
भोज्यमन्नं नरेश्वर! । विषं हलाहलं भुङ्क्ते योऽप्रदाय सुहृ-
ज्जने । पानीयं पायसं सक्तून् दधि सर्पिर्म्मधून्यपि ।
निरश्य शेषमेतेषां न प्रदेयन्तु कस्यचित् । भुञ्जानो
मनुजव्याघ्र! नैव शङ्कां समाचरेत् । दधि चाप्यनुपानं वै कर्त्त-
व्यञ्च भवार्थिना । आचम्य चैकहस्तेन परिप्लाव्यं तथोद-
कम् । अङ्गुष्ठं चरणस्याथ दक्षिणस्यावसेचयेत् । पाणिं
मूर्द्ध्नि समाधाय स्मृष्ट्वा चाग्निं समाहितः । ज्ञातिश्रैष्ट्य-
मवाप्नोति प्रयोगकुशलो नरः । अद्भिः प्राणान् समालभ्य
नाभिं पाणितले तथा । स्पृशंश्चैव प्रतिष्ठेत न चाप्या-
र्द्रेण पाणिना । अङ्गुष्ठस्यान्तराले च ब्राह्मं तीर्थमुदा-
हृतम् । कनिष्टिकायाः पश्चात्तु देवतीर्थमिहोच्यते ।
अङ्गुष्ठस्य च यन्मध्यं प्रदेशिन्याश्च भारत! । तेन पित्र्याणि
कुर्व्वीत स्पृष्ट्वापो न्यायतस्तथा । परापवादं न ब्रूयान्ना-
प्रियञ्च कदाचन । न मन्युः कश्चिदुत्पाद्यः पुरुषेण
भवार्थिना । पतितैस्तु कथां नेच्छेद्दर्शनञ्च विवर्ज्जयेत् । संसर्गं
न च गच्छेत तथायुर्विन्दते महत् । न दिवा मैथुनं गच्छेन्न
कन्यां न च बन्धकीम् । न चास्नातां स्त्रियं गच्छेत्तथायु-
र्व्विन्दते महत् । स्वे रो तोर्थे समाचम्य कार्य्ये समुप-
कल्पिते । त्रिः पीत्वापो द्विः प्रमृज्य कृतशौचो भवेन्नरः ।
इन्द्रियाणि सकृत् स्पृश्य त्रिरभ्युक्ष्य च मानवः । कुर्व्वीत
पित्र्यं दैवञ्च वेददृष्टेन कर्मणा । ब्राह्मणार्थे च यच्छौचं
तच्च मे शृणु कौरव! । पवित्रञ्च हितञ्चैव भोजनाद्यन्त-
योस्तया । सर्व्वशौचेषु ब्राह्मेण तीर्थेन समुपस्पृशेत् ।
निष्ठीव्य तु तथा क्षुत्वा स्पृश्यापो हि शुचिर्भवेत् । वृद्धो
ज्ञातिस्तथा मित्रं दरिद्रो यी भवेदपि । गृहे वासयि-
तव्यास्ते धन्यमायुष्यमेव च । गृहे पारावता धन्याः शुकाश्च
सहसारिकाः । गृहेष्वेते तु पापाय तथा वै तैलपा-
यिकाः । उद्दीपकाश्च गृध्राश्च कपोता भ्रमरास्तथा । निवि-
शेयुर्यदा तत्र शान्तिमेव तदाचरेत् । अमङ्गल्यानि चैतानि
तथोत्क्रोशा महात्मनाम् । महात्मनोऽतिगुह्यानि न
वक्तव्यानि कर्हिचित् । अगम्याश्च न गच्छेत राज्ञः पत्नीं
सखीं तथा । वैद्यानां वालवृद्धानां भृत्यानाञ्च
युधिष्ठिर! । बन्धूनां ब्राह्मणानाञ्च तथा शारणिकस्य च ।
सम्बन्धिनाञ्च राजन्द्र! तथायुर्विन्दते महत् । ब्राह्मणस्थ-
पतिभ्याञ्च निर्मितं यन्निवेशनम् । तदावसेत् सदा प्राज्ञो
भवार्थी मनुजेश्वर! । सन्ध्यायां न स्वपेद्राजन्! विद्यां
न च समाचरेत् । न भुञ्जोत च मेधाधी तथायुर्व्विन्दते
महत् । नक्तं न कुर्यात्पित्र्याणि भुक्त्वा चैव प्रसाधनम् ।
पानीयस्य क्रिया नक्तं न कार्या भूतिमिच्छता । वर्ज्ज-
नीयाश्च वै नित्यं सक्तवो निशि भारत! । शेषाणि चाव-
पृष्ठ ०७९२
दातानि पानीयञ्चापि भोजने । सौहित्यं न च कर्त्तव्यं
रात्रौ न च समाचरेत् । द्विजच्छेदं न कुर्व्वीत भुक्त्वा न
च समाचरेत् । महाकुले प्रसूताञ्च प्रशस्तां लक्षणैस्तथा ।
वयस्थाञ्च महाप्राज्ञः कन्यामावोडुमर्हति । अपत्यमुत्-
पाद्य ततः प्रतिष्ठाप्य कुलं ततः । पुत्त्राः प्रदेया ज्ञानेषु
कुलधर्मेषु भारत! । कन्या चोत्पाद्य दातव्या कुलपुत्राय
धीमते । पुत्त्रा निवेश्याश्च कुलाद्वृत्त्या लभ्याश्च भारत! ।
शिरःस्नातोऽथ कुर्व्वीत दैवं पित्र्यमथापि वा । नक्षत्रे
न च कुर्व्वीत यस्मिन् जातो भवेन्नरः । न प्रौष्ठपदयोः
कार्य्यं तथाग्नेये च भारत! । दारुणेषु च सर्व्वेषु प्रत्यरिञ्च
विवर्ज्जयेत् । ज्योतिषे यानि चोक्तानि तानि सर्व्वाणि
भारत! । प्राङ्मुखः श्मश्रुकर्माणि कारयेत् सुसमाहितः ।
उदङ्मुखो वा राजेन्द्र! तथायुर्व्विन्दतेमहत् । परिवादं
न च ब्रूयात्परेषामात्मनस्तथा । परिवादो ह्यधर्माय प्रोच्यते
भरतर्षभ! । वर्जयेद्व्यङ्गिनीं नारीं तथा कन्यां नरोत्तम! ।
समार्षां व्यङ्गिताञ्चैव मातुः सकुलजां तथा । वृद्धां प्रव्र-
जिताञ्चैव तथैव च पतिव्रताम् । अयोनिञ्च वियोनिञ्च
न च गच्छेद्विचक्षणः । पिङ्गलां कुष्ठिनीं नारीं न त्वमा-
वोढुमर्हसि । अपस्मारिकुले जातां निहीनाञ्चैव वर्जयेत् ।
श्वित्रिणाञ्च कुले जातां क्षयिणां मनुजेश्वर! । लक्षणै-
रन्विता या च प्रशस्ता या च लक्षणैः । मंनोज्ञा दर्शनीया
च तां भवान् वोढुमर्हति । महाकुले निवेष्टव्यं सदृशे
वा युधिष्ठिर! । अपरा पतिता चैव न ग्राह्या भूतिमिच्छता ।
आनीनुत्पाद्य यत्नेन क्रियाः सुविहिताश्च याः । वेदे च
ब्राह्मणैः प्रोक्तास्ताश्च सर्व्वाः समाचरेत् । न चेर्ष्या स्त्रीषु
कर्त्तव्या रक्ष्या दाराश्च सर्व्वशः । अनायुष्या भवेदीर्ष्या
तस्मादीर्ष्यां विवर्ज्जयेत् । अनायुष्यं दिवा स्वप्नं
तथाऽभ्युदितशायिता । प्रगे निशामाशु तथा ये चोच्छिष्ठाः
स्वपन्ति वै । पारदार्य्यमनायुष्यं नापितोच्छिष्टता तथा ।
यत्नतो नैव कर्त्तव्यमभ्यासश्चैव भारत! । सन्ध्यायां न च
भुञ्जीत न स्नायान्न पठेत्तथा । प्रयतश्च भवेत्तस्यां न च
किञ्चित् समाचरेत् । ब्राह्मणान् पूजयेच्चापि तथा स्नात्वा
नराधिप! । देवांश्च प्रणमेत् स्नातो गुरूंश्चाप्यभिवादयेत् ।
अनिमन्त्रितो न गच्छेत यज्ञं गच्छेत दर्शकः । अनर्चिते
ह्यनायुष्यंगमनं तत्र भारत! । न चैकेन परिव्रज्यं न गन्तव्यं
तथा निशि । अनागतायां सन्ध्यायामातत्य च गृहे वसेत् ।
मातुः पितुर्गुरूणाञ्च कार्य्यमेवानुशासनम् । हितं
वाऽप्यहितं वाऽपि न विचार्य्यं कथञ्चन । धनुर्वेदे च वेदे
ऽथ यत्नः कार्य्यो नराधिप! । हस्तिपृष्ठेऽश्वपृष्ठे च
रथचर्य्यासु चैव ह । यत्नवान् भव राजेन्द्र! यत्नवान्
सुखमेधते । अप्रधृष्यश्च शत्रूणां भृत्यानां स्वजनस्य च ।
प्रजापालनयुक्तश्च न क्षतिं लभते क्वचित् । युक्तिशास्त्रञ्च
ते ज्ञेयं शब्दशास्त्रञ्च भारत! । गान्धर्ब्बशास्त्रञ्च
कलाः परिज्ञेया नराधिप! । पुराणमितिहासाश्च
तथाख्यानानि यानि च । महात्मनाञ्च चरितं
श्रोतव्यं नित्यमेव च । पत्नी रजस्वला या च
नाभिगच्छेन्न चाह्वयेत् । स्नाताञ्चतुर्थे दिवसे रात्रौ
गच्छेद्विचक्षणः । पञ्चमे दिवसे नारी षष्ठेऽहनि पुमान्
भवेत् । एतेन विधिना पत्नीमुपागच्छेत पण्डितः ।
ज्ञातिसम्बन्धिमित्राणि पूजनीयानि सर्व्वशः । यष्टव्यञ्च
यथाशक्ति यज्ञैर्विविधदक्षिणैः । अत ऊर्द्ध्वमरण्यञ्च सेवि-
तव्यं नराधिप! । एष ते लक्षणोद्देश आयुष्याणां प्रकी-
र्त्तितः । शेषस्त्रैविद्यवृद्धेभ्यः प्रत्याहार्यो युधिष्ठिर! ।
आचारो भूतिजनन आचारः कीर्त्तिवर्द्धनः । आचाराद्व-
र्द्धते ह्यायुराचारो हन्त्यलक्षणम् । आगमानां हि सर्वे-
षामाचारः श्रेष्ठ उच्यते । आचारप्रभवो धर्मो धर्मादायु-
र्विवर्द्धते । एतद्यशस्यमायुष्यं स्वर्ग्यं स्वस्त्ययनं महत् ।
अनुकम्प्य सर्व्ववर्णान् ब्रह्मणा समुदाहृतम्” । अन्येचा-
चारा आचारशब्दे ६३० पृष्ठे उक्तास्तेऽपि आयुर्वृद्धिकराः ।
आयुःकालश्च स्वाभाविकः जीवभेदेन भिन्नः । तथा हि
“ब्रह्मणोवर्षशतमिति” श्रुतेः ब्रह्मणोनिजपरिमाणेन
वर्षशतायुः तच्च” सि० शि० दर्शितम् “चतुर्युगसहस्रेण
ब्रह्मणो दिनमुच्यते । निजेनैव तु मानेन
आयर्वर्षशतं स्मृतम् । तत् पराख्यं तदर्द्धं तु परार्द्धम-
भिधीयते” “सूर्य्याब्दसंख्यया द्वित्रिसागरैरयुताहतैः
संध्यासन्ध्यंशसहितं विज्ञेयं तच्चतुर्युगम् । इत्थं
युगसहस्रेण भूतसंहारकारकः । कल्पोब्राह्ममहः
प्रोक्तं शर्वरी तस्य तावती । परमायुः शतं तस्य
तयाहोरात्रमंख्यया” सू० सि० । तेन सौरैः ४३२००००
वर्षैः चतुर्युगं तेन सहस्रगुणितेन ब्राह्ममहः
४३२००००००० रात्रिश्च तावतीति ८६४०००००००
वर्षास्तस्याहोरात्रमानं तस्य ३६० गुणने तस्य वर्षमानम्
३११०४०००००००० एतच्छतगुणितं तस्यायु र्मानम्
अयमेव महाकल्पः “शतायुः सदानन्द एवं प्रदिष्टस्त-
दायुर्महाकल्प इत्युक्तमाद्यैः” सि० शि० उक्तेः । जैगी-
षव्यस्य च दशमहाकल्पजीविता “दशसु महाकल्पेषु
पृष्ठ ०७९३
विपरिवर्त्तमानेन मयेति” सा० कौ० “तद्वाक्यात् तेन
ब्राह्मायुःकाला दशगुणिताः” ३१०४४०००००००००००
तस्यायुः । अथ मनूनामायुःप्रमाणम् । “युगानां सप्ततिः
सैका मन्वन्तरमुदाहृतम्” सू० सि० । चतुर्युगमानञ्च
४३२०००० तच्च ७१ गुणितम् ३०६७२०००० सौरवर्षाःए-
कैकमनूनामायुःकालः । मार्कण्डेयस्य सप्तकल्पान्तजोवितेत्युक्तेः
४३२००००००० सप्तभिगुणितम् ३०२४०००००००
तस्यायुः कालः । देवानामायुस्तु ब्राह्मदिनमानम् “यदा
स देवो जागर्त्ति तदेदं चेष्टते जगत् । यदा स्वपिति
शान्तात्मा तदा सर्वं निमीलति” सनूक्तेः ब्राह्मदिनपर्य्यन्तं
तेषां स्थायित्वम् “कर्म्मात्मनाञ्च देवानां सोऽसृजत् प्राणिनां
प्रभुः” इति मनुना कल्पादौ तेनैव तेषां स्रष्टृत्वोक्तेः प्रति-
कल्पेऽपि तथैव स्रष्टृत्वमिति । एवं युगभेदेन नराणामायुर्भेदः
मनुनोक्तः । “अरोगाः सर्वसिद्धार्थाश्चतुर्वर्षशतायुषः । कृते
त्रेतादिषु ह्येषामायुर्ह्रसति पादशः” तेन सत्ययुगे ४००
वर्षाः । त्रेतायां ३०० वर्षाः । द्वापरे २०० वर्षाः । कलौ शतं
वर्षाः । पुराणान्तरे सत्यादिषु लक्षायुतसहस्रशतव-
र्षायुष्ट्वोक्तिः मनुविरोधादग्राह्यैव । सत्कर्म्म भिस्तु प्राणा-
यामतपस्यादिभिः रसायनादिभिश्चायुर्वर्द्धते तच्चायुर्वृद्धिशब्दे
७७५ पृष्ठे उक्तम् । तेन दशरथादीनां दशवर्षसहस्रराज्य-
करणं रामायणोक्तं सङ्गच्छते । सत्कर्म्माभिप्रायेणैव
पुराणवचनं लक्षाद्यायुष्ट्वबोधकं मन्तव्यमिति तु युक्तम् ।
ततश्च जातकप० उक्तेः नरगजयोः, १२० वर्षाः । अश्वस्य
दन्तसंख्यया । ३२ वर्षा वा । गोमहिषादेः २४ वर्षाः
खरोष्ट्रयोः १५ वर्षाः । शुनः १३ वर्षाः व्याघ्रादेः १६ वर्षाः
परमायुः । तत्र नरस्य शतायुष्ट्वस्यश्रुत्युक्तावपि विंशोत्त-
रीयविभार्गार्थमिह १२० वर्षोक्तिरिति बोध्यम् ।

आयोग पु० आ + युज--घञ् । गन्धमाल्योपहारे, २ व्यापारे

३ रोधे ४ सम्यक्सम्बन्धे च “शरलैः कर्ण्णिकारैश्च किंशुकैश्च
सुपुष्पितैः । स देशोभ्रमरायोगःप्रदीप्त इव लक्ष्यते” रामा०

आयोगव पुं स्त्री० अयोगव एव स्वार्थे अण् । वैश्यकन्यायां

शूद्रेणोत्पादिते जातिभेदे । “शूद्रादायोगवः क्षत्ता
चाण्डालश्चाधमो नृणाम् । वैश्यराजन्यविप्रासु जायन्ते
वर्ण्णसङ्कराः” “आयोगवोऽयं क्षत्ता च चाण्डालश्चाधमो-
नृणाम् । प्रातिलोम्येन जायन्ते शूद्रादपसदास्त्रयः” इति
च मनुः “मत्स्यघातो निषादानां तष्टिस्त्वायोगवस्येति”
मनूक्तम् काष्ठतक्षणं तस्य वृत्तिः । स्त्रियां जातित्वात् ङीप्

आयोजन न० आ + युज--ल्युट् । १ उद्योगे, २ आहरणे च ।

आयोजित त्रि० आ + युज--णिच्--क्त । १ कृताहरणे २ सम्यक्

सम्पादिते च “कुसुमायोजितकार्मुकं मधुः” कुमा० ।

आयोद पु० अयोदस्यापत्यम् बा० अण् । धौम्ये मुनौ ।

“एतस्मिन्नन्तरे कश्चिदृषिर्धौम्यनामायोदस्तस्य शिष्यास्त्रयो
वमूवुरुपमन्यरारुणिर्वैदश्चेति” भा० आ० ३ अ० ।

आयोधन न० आ + युध + आधारे ल्युट् । १ युद्वस्थाने ।

“आयोधने स्थायुकमस्त्रजातम्” भट्टिः “आयोधने
कृष्णगतिं सहायम्” रघुः । “आयोधनाग्रसरतां त्वयि
वीर! याते” रघुः । भावे ल्युट् । २ योधने, युद्ध-
क्रियायाम् ।

आर पु० आ + ऋ--कर्त्तरि संज्ञायां घञ् । १ मङ्गलग्रहे,

२ शनिग्रहे, “आरे खस्थे चतुष्पाद्भ्योभयम्” नील० ता० तत्र
मङ्गलस्य वक्रगत्वात् शनेश्च स्वभावेन मन्दगतित्वात् तथात्वम्
कुजस्य त्रिकोणाकारत्वादपि तथात्वम् ३ मधुराम्लफले वृक्ष-
भेदे च । ४ प्रान्तभागे ६ मुण्डलोहे ७ पित्तले च न० ।
अरा इव स्वार्थे वा अण् । ८ कीणे । कोणस्य चक्राकार-
सदृशाकारवत्त्वात् तथात्वम् । द्वादशारचक्रं षोड़शार-
चक्रम् । “विन्दुत्रिकोणवसुकोणदशारयुग्मम्--श्रोचक्रमेत-
दुदितं वरदेवतायाः” तन्त्रम् । “आरान्तरेणावपतत् संक्षि-
प्याङ्गं क्षणेन ह” इति भा० आ० ३३ अ० । भावे घञ् ।
९ गमने पु० । आ + ऋ--कर्म्मणि घञ् । १० दूरे च
दूरस्य च बहुयत्नेन प्राप्यत्वात् तथात्वम् । “इषुविस्त-
वारेऽस्मन्निधेहि” यजु० १६, १२, “आरे दूरे” वेददी० ।
“आरेबाधस्व दुच्छुनाम्” य० १९, ३८,

आरकूट पु० न० । आरं पित्तलं कूटयति स्तूपीकरोति अच्

१ पित्तलाभरणे । “किमारकूटाभरणेन न श्रियः” इति
नैपचम् । आरमतिभृशं कूट्यते दंदह्यते कूट--दाहे
कर्म्मणि घञ् । २ पित्तलमात्रे च तस्यातिशयदाहस-
हत्वात् तथात्वम् ।

आरक्त पु० ईषत् रक्तः प्रा० स० । १ ईषद्रक्तवर्ण्णे २ तद्वति

३ सम्यगनुरक्ते च त्रि० । भावे क्त । ४ अनुरागे न०

आरक्ष पु० आ + रक्ष--अच् । १ हस्तिकुम्भाधः स्थले,

“आरक्षमग्नमवमत्य सृणिं शिताग्राम्” माघः २ हस्तिमस्तक
चर्म्मणि, ३ सैन्ये च । ४ रक्षके त्रि० । “शतसाहस्रमारक्षं
मध्यगं रक्षसां कपिः” भट्टिः । “तेषामारक्षभूतन्तु पूर्ब्बं दैवं
नियोजयेत्” मनुः । भावे घञ् । ४ रक्षायाम पु० “रक्षांसि
हि विलुम्पन्ति श्राद्धमारक्षवर्जितम् । भावे अ । आरक्षा
तत्रार्थे स्त्री रक्षा च वैदिककर्म्मादौ श्वेतसर्षपादिक्षेपेण
मन्त्रसूक्तादिपाठेन विघ्नकारकनिवारणार्थोव्यापारः ।
पृष्ठ ०७९४

आरग्बध पु० आ + रगे--शङ्कयां क्विप् आरगं रोगशङ्कामपि

हन्ति अच् बधादेशश्च । (सोंदाल) इति ख्याते वृक्षे ।
“आरग्बधो गुरुः स्वादुः शीतलः स्रंसनोत्तमः । ज्वर-
हृद्रोगपित्ताम्लवातोदावर्त्तशूलनुत् । तत्फलं स्रंसनं
रुच्यं कुष्ठपित्तकफापहम् । ज्वरे तु सततं पथ्यं कोष्ठ-
शुद्धिकरं परम्” इति भावप्रकाशे तद्गुणा उक्ताः ।
आरग्वधाद्यतैलं श्वित्रहरं यथा । “आरग्बधं धवं
कुष्ठं हरितालं मनःशिला । रजनीद्वयसंयुक्तं पचेत्
तैलं विधानवत् । एतेनाभ्यञ्जयेच्छित्री क्षिप्रं श्वित्रं
विनश्यति” चक्रद० ।
आरग्वधतैलं रोमहम् । “आरग्बधमूलं कर्षद्वितयं
शङ्खचूर्णस्य । हरितालस्य च खरजे मूत्रप्रस्थे कटुतैलं
पक्वम् । तैलं तदिदं शङ्खहरितालचूर्णितं लेपात् । निर्मूल-
यति च रोमाण्यन्येषां सम्भवो नैव” चक्रद०
आरग्वधादिपाचनम् तत्रैव यथा “आरम्बध-
ग्रन्थिकमुस्ततिक्ता हरीतकीभिः क्वथितः कषायः । सामे
सशूले कफवातयुक्ते ज्वरे हितो दीपनपाचनश्च” ।

आरट त्रि० आरटति आ + रट--अच् । १ सम्यक् शब्दकारके

२ नटे पु० स्त्रियां गौरा० ङीष् ।

आरट्ठ पु० आरट्यते विख्याप्यते आ + रट टच् टस्य नेत्त्वम् ।

विशिष्टाश्वोत्पत्तिस्थाने (आरव) देशे । अश्वशब्दे विवृतिः ।

आरठ्ठज पु० आरट्टे देशे जायते जन--ड । (आरव)

देशजाते घोटके । “आरट्टजश्चटुलनिष्ठुरपातमुच्चैः”
माघः अश्वशब्दे ५०४ तद्दे शाश्वधर्म्मा ज्ञेयाः ।

आरणि पु० आ + ऋ--अनि । जलानां स्वयं भ्रमणे आवर्त्ते ।

आरणेय पु० अरण्यां भवः अरणी + ढक् । १ शुकदेवे तस्या-

रणीसम्भवकथा अरणीसुतशब्दे ३५९ पृष्ठे विवृता ।
अरणिमरणिहरणमधिकृत्य कृतोग्रन्थः ढक् । भारतवन-
पर्वान्तर्गते अरणिहरणाधिकारेण व्यामेन कृते
अवान्तरपर्व्वभेदे तच्च पर्व्व,बनपर्वणि ३११ अध्यायावधि ३१४
अध्यायपर्य्यन्तम् “आरणेयं ततः पर्व” भा० आ० १ अ०
अरुण्याइदं, स्वार्थे या ढक् । अरणीसम्बन्धिनि ३ यन्त्रभेदे
४ अरण्यां च “आरण्येयं ददुस्तस्मै ब्राह्मणाय तपस्विने ।
भा० व० ३१४ अ० ।

आरण्य त्रि० अरण्ये भवः ण । वनभवे १ पशुपभृतौ पशवश्च

द्विविधा ग्राम्या आरण्याश्च यथाह पैठी० “ग्राम्यारण्याश्च-
तुर्द्दश गोरविरजोऽश्वोऽश्वतरोगर्द्दभोमनुष्यश्चेति सप्त ग्राम्याः
पशवः, महिषवानरऋक्षसरीसृपरुरुपृषन्मृगाश्चेति सप्तार-
ण्याः” एते च कर्मविशेषोपयुक्ता एतद्भिन्ना अन्येऽपि पशवः
ग्राम्या आरण्याश्च अश्वमेधशब्दे ५०८ पृष्ठादौ उक्ताः ।
पशुत्वञ्चेह यागार्थालभ्यमानत्वसाम्यात् शकुनादीनामपि
“उष्ट्रो वा यदि मेषश्च्छागो वा यदि हयः । पशुस्थाने
नियुक्तानां पशुशब्दोविधीयते” इति यज्ञपार्श्वोक्तेः । अत
एव अश्वमेधे “वसन्ताय कपिञ्जलानालभेत ग्रीष्माय
कलविङ्गान्” इत्यादौ पक्षिणामपि य० वे० २४ अ० मन्त्रव्या-
ख्याने “अथारण्याः पशव उच्यन्ते” वेददीपे उपक्रान्तम्
अन्ते च कपिञ्जलादयः पृषतान्ताः आरण्याः पशव
इत्युक्तं तच्च अश्वमेधशब्दे ५१० पृष्ठे दृश्यम् तत्र
स्त्रीपशूनामहिंस्यत्वम् “अबध्याञ्च स्त्रियं प्राहुस्तिर्य्यग्योनि
गतामपीति” शास्त्रात् ति० त० यन्निर्ण्णीतं तत् अश्वमेधा-
तिरिक्तविषयं तत्र स्त्रीपशूनां बहूनामालम्भनविघा-
नात् तच्च अश्वमेधशब्दे दृश्यम् । “आरण्यानाञ्च सर्वेषां
मृगाणां महिषं विना” । “आरण्यांश्च एशून् सर्व्वान्”
इति च मनुः । “आरण्याःसुमनसईषिरे न भृङ्गैः” माघः
“सप्त ग्राम्या ओषधयः सप्तारण्याः” तैत्ति० व्रा० तद्विशेषा-
श्चोषधिशब्दे वक्ष्यन्ते २ अकृष्टपच्यधान्यभेदे च । “यदकृष्टे
पच्यते तेनारण्यम्” शत० ब्रा० । ज्योतिषोक्ते ३ मकरा-
दिमार्द्धे ४ सिंहे दिवसे ५ मेषे ६ वृषे च राशौच स च
“मकरादिमार्द्धसिंहौवन्यौ दिवसेऽजवृषभौच,” ज्यो० त० उक्तः
७ अरण्यभवे गोमये पु० सि० कौ० । अरण्यमरण्यवासमधि-
कृत्य कृतोग्रन्थः अण् । यधिष्ठिरादीनां वनवासाधिकारेण
व्यासेन कृते भारतार्गते ८ पर्वभेदे । रामस्य बनवासाधि-
कारेण वाल्मीकिकृते रामायणान्तर्गते ९ काण्डभेदे च ।

आरण्यक त्रि० अरण्ये भवः मनुष्यादिः वुञ् । १ अरण्यभवे

पथि अध्ययने न्याये विहारे मनुष्ये हस्तिनि च एवार्थेवुञः
साषुत्वं तद्भिन्ने न वुञ् किन्तु ण एव । आरण्यः पशुः
गोमये तु वा आरण्यकः पक्षे णः । तत्र मनुष्ये “आरण्य-
कोपात्तफलप्रसूतिः” रघुः । अध्ययने ऐतरेयारण्यकम्
तैत्तिरीयारण्यकं वृहदारण्यकम् “अरण्येऽध्ययनादेव-
आरण्यकमुदाहृत” मित्युक्तेरारण्यकत्वमेषाम् । तानि च
तत्तद्वेदभागभेदाः । “आरण्यकमधीत्य च” मनुः ।
“आरण्यकञ्च वेदेभ्यश्चौषधिभ्योऽमृतं यथा” भा० १ अ० ।
“शास्त्रे चारण्यके गुरुः” भा० उद्यो० १७४ अ० ।
“अनुस्मृत्य तु शास्त्राणि कवयः समवस्थिताः । अपीह
स्यादपीह स्यात् सारसारदिदृक्षया । वेदवादानतिक्रम्य
पृष्ठ ०७९५
शास्त्राण्यारण्यकानि च । विपाट्य कदलीस्तम्भं सारं
ददृशिरे न ते” इति भा० शा० १८ अ० । ४ अरण्यगेये
सामभेदे च । स्वार्थे कन् । उक्तार्थे भारतान्त्रर्गते ५
वनपर्व्वणि “एतदारण्यकं पर्व्व भा० आ० प० १ अ० ।
आरण्यककाण्डम् । रामायणान्तर्गते ६ काण्डभेदे

आरण्यकुक्कुट पुं स्त्री० अरण्ये भवः आरण्यः कुक्कुटः

कर्म्म० । वनकुक्कुटे “आरण्यकुक्कुटः स्निग्धो वृंहणः श्ले-
ष्मणोगुरुः । वातपित्तक्षयवमीविषमज्वरमाशनः” इति भा०
प्र० तन्मांसगुणा उक्ताः । स्त्रियां जातित्वात् ङीप् ।

आरण्यगान न० आरण्यं वनगेयं गानम् । सामवेदान्तर्गते

गानग्रन्थभेदे तस्यारण्ये गेयत्वात् तथात्वम् ।

आरण्यपशु पु० कर्म्म० । स्मृत्युक्ते महिषादौ सप्तविधे

१ पशौ आरण्यशब्दे विवृतिः ।

आरण्यमुद्ग पु० नि० कर्म० । वनमुद्गे । आरण्यमुद्गस्येवाकारः

पर्णेऽस्त्यस्याः अच् टाप् । (मुगानी) मृद्गपर्ण्यां स्त्री राजनि०

आरण्यराशि पु० नि० कर्म्म० । आरण्यशब्दोक्ते १ सिहे २

मकरादिमार्घे दिवसे ३ मेषे ४ वृषे च राशौ ।

आरति स्त्रो आ + रम--क्तिन् । १ उपरमे, २ निवृत्तौ च ।

आरत त्रि० आ + रम--क्त । १ उपरते २ विरते च “अनारतं

तेन पदेषु लम्भिताः” किरा० ।

आरथ पु० ईषद्रथः प्रा० स० । एकाश्वेन गमनसाधने रथे (एक्वा) (वगी) प्रभृतौ ।

आरद्ध त्रि० आ + रध--क्त । संसिद्धे तिका० फिञ् ।

आरद्धायनिः तदपत्ये पुं स्त्री० ।

आरनाल न० आर्च्छति आ + ऋ--अच्, आरः नल--गन्धे

घञ् आरो नालोगन्धो यस्य । काञ्जिके । “आरनालन्तु
गोधूमैरामैः स्यान्निस्तुषीकृतैः । पक्वैर्वा सन्धितैस्तैस्तु
सौवीरसदृशं गुणैः” भा० प्र० । “आरनालं दवि क्षीरं
कन्दुपक्वं च सक्तवः । स्नेहपक्वञ्च तक्रञ्च शूद्रस्यापि न
दुष्यति” अत्रिस० । वा कप् । आरनालकमप्यत्र ।

आरब्ध त्रि० आ + रभ--क्त । कृतारम्भणे “प्रारब्धादन्य-

कार्य्याणां करणं परिवर्त्तकः” सा० द० “अनारब्धकार्य्ये
एव तु” इत्यादि शा० सू० । यस्य कियदंशं कर्त्तुमारेभे
तादृशः पदार्थः आरब्धः । भावे क्त । २ आरम्भे न० “व्रतय-
ज्ञविवाहेषु श्राद्धे होमेऽर्चने जपे । आरब्धे सूतकं न स्याद-
नारब्धेतु सूतकम्” तिथि० त० विष्णुः ।
आरब्धफलयोः सुकृतदुष्कृतयोः तत्त्वज्ञानोत्पत्तावपि
यावत्फलसमाप्ति न नाशः इत्येतत् शा० सू० भा० स्थिरीकृतम्
यथा “बन्धहेत्वोर्विद्यासामर्थ्यादशेषविनाशसिद्धेरवश्यं भावि-
नी विदुषः शरीरपाते मुक्तिरित्यवधारयति । “अनारव्वकार्य्ये
एव तु पूर्व्वे तदवधि” शा० सू० “पूर्व्वयोरधिकर-
णयोर्ज्ञाननिमित्तः सुकृतदुस्कृतयोर्विनाशोऽवधारितःस
किमविशेषेणारब्धकार्य्ययीर्भवत्युत विशेषेणानारब्धकार्य्य-
योरेवेति विचार्य्यते तत्र “उभे हैवैष एतेन तरतीत्येव-
मादि” शुतावविशेषश्रवणादविशेषेणैव क्षयैत्येवंप्राप्ते
प्रत्याह अनारब्धकार्य्ये एव त्विति । अप्रवृत्तफले
एव पूर्ब्बे जन्मान्तरसञ्चिते, अस्मिन्नपि च जन्मनि
प्राक्ज्ञानोत्पत्तेः सञ्चिते च सुकृतदुस्कृते ज्ञानाधिगमात्
क्षीयेते नत्वारब्धकार्य्ये सामिभक्तफले, याभ्यामेतद्ब्रह्म-
ज्ञानायतनंजन्मनिर्मितम् । कुतएतत्? “तस्य तावदेव चिरं
यावन्न विमोक्ष्य इति” शरीरपानावधिकरणात् क्षेमप्राप्तेः ।
इतरथा हि ज्ञानादशेषकर्मक्षये सति स्थितिहेत्वभावात्
ज्ञानप्राप्त्यनन्तरमेव क्षेमश्नुवीत तत्र शरीरपातप्रतीक्षां
नाचक्षीत । ननु वस्तुबलेनैवायमकर्त्रात्मबोधः कर्म्माणि-
क्षपयन् कथं कानिचित् क्षपयेत् कानि चिच्चोपेक्षेत
नहि समानेऽग्निवीजसम्पर्के केषाञ्चिद्वीजशक्तिः क्षीयते
केषाञ्चिन्न क्षीयते इति शक्यमङ्गीकर्त्तुमिति, उच्यते
न तावदनाश्रित्यारब्धकार्यं कर्माशयं ज्ञानोत्पत्तिरुप
पद्यते । आश्रिते च तस्मिन् कुलालचक्रवत् प्रवृत्तवेग-
स्यान्तराले प्रतिबन्धासम्भवाद्भवति वेगक्षयप्रतिपालनम् ।
अकर्त्रात्मबोधोऽपि हि मिथ्याज्ञानबाधनेन कर्म्माण्यु-
च्छिनत्ति । बाधितमपि मिथ्याज्ञानं द्विचन्द्रज्ञानवत्
संस्कारवशात् कञ्चित् कालमनुवर्त्ततएव । अपि च
नैवात्र विवदितव्यं ब्रह्मविदां कञ्चित् कालं शरीरं ध्रियते
न ध्रियत इति । कथं ह्येकस्य स्वहृदयप्रत्ययं ब्रह्मवेदनं
देहधारणञ्चापरेण प्रतिक्षेप्तुंशक्येत । श्रुतिस्मृतिषु च
स्थितप्रज्ञलक्षणनिर्द्देशेनैतदेव निरुच्यते । तस्मादनारब्धकार्य-
योरेव सुकृतदुष्कृतयोविर्द्यासामर्थ्यात् क्षय इति निर्णयः”
भा० । “चक्रभ्रमणवद्धृतशरीरः” सांख्यसूत्रेण फलजनकस्य
कर्मणोनाशेऽपि चक्रजन्यवेगस्य चक्रनाशेऽपि स्थितिवत्
देहरूपस्य कर्मफलस्य संस्कारात्मना स्थितिरित्यवधारितम् ।
यथा च आरब्धफलस्य कर्म्मणो यावदधिकारस्थितिस्तथा
निर्ण्णीतं शा० सू० भा० ३ अ० ३ पादे यथा “यावदधि-
क्वारमवस्थितिराधिकारिकाणाम्” शा० सू० “विदुषो वर्त्त
मानदेहपातानन्तरं देहान्तरमुत्पद्यते न वेति चिन्त्यते ।
ननु विद्यायाः साधनभूतायाः सम्पत्तौ कैवल्यनिर्वृत्तिः
स्यान्नवेति नेयं चिन्तोपपद्यते । न हि पाकसाधनसम्पत्ता-
पृष्ठ ०७९६
वोदनोभवेन्नवेति चिन्ता सम्भवति नापि भुञ्जानस्तृप्यति
न वेति चिन्त्यते । उपपन्ना त्वियं चिन्ता ब्रह्मविदामपि
केषाञ्चिदितिहासपुराणयोर्देहान्तरोत्पत्तिदर्शनात् ।
तथाह्यपान्तरतमा नाम वेदाचार्य्यः पुराणर्षः विष्णु
नियोगात् कलिद्वापरयोः सन्धौ कृष्णद्वैपायनः सम्ब-
भूवेति स्मरन्ति । वशिष्ठश्च ब्रह्मणोमानसः पुत्रः
सन्निमिशापादपगतपूर्ब्बदेहः पुनर्व्रह्मादेशान्मित्रावरुणाभ्यां,
भूग्वादीनामपि ब्रह्मण एव मानसानां उत्राणां वारुणे
यज्ञे पुनरुत्पत्तिः स्मर्य्यते । सनत्कुमारोऽपि व्रह्मण
एव मानसः पुत्रः स्वयं रुद्राय वरप्रदानात् स्कन्दत्वे-
न प्रादुर्बभूव । एवमेव दक्षनारदप्रभृतीनामपि भूयसी
देहान्तरोत्पत्तिकथा तेन तेन निमित्तेन भवति स्मृतौ, श्रुता
वपि मन्त्रार्थवादयोः प्रायेणोपलक्ष्यते । ते च क्वचित्
पतिते पूर्व्वदेहे देहान्तरमाददते, क्वचित्तु स्थितएव तस्मिन्
योगैश्वर्य्य वशादनेकदेहादानन्यायेन । सर्वे चैते समधिगत-
सकलवेदार्थाः स्मर्य्यन्ते । तदेतेषां देहान्तरोत्पत्ति-
दर्शनात् प्राप्तं ब्रह्मविद्यायाः पाक्षिकं मोक्षहेतुत्व-
महेतुत्वं वेत्यत उत्तरमुच्यते । न, तेषामपानतरतमः प्रभृ-
तीनां वेदप्रवर्त्तनादिकलोकस्थितिहेतुष्वधिकारेषु नियुक्ता-
नामधिकारतन्त्रव्वात् स्थितेः । यथासौ भगवान्
सविता सहस्रयुगपर्य्यन्तं जगतोऽधिकारं चरित्वा तदवसाने
उदयास्तमयवर्जितं कैवल्यमनुभवति “अथात ऊर्द्धं
उदेत्य नैवोदेता नास्तमेतैकलएव मध्ये स्थातेति” श्रुतेः ।
यथा च वर्त्तमाना व्रह्मविदः प्रारव्यभोगक्षये कैवल्यमनु
भवन्ति “तस्य तावदेव चिरं यावन्न विमोक्ष्येऽथ सम्पत्स्य”
इति एवमपान्तरतमःप्रभृतयोऽपीश्वराः परमेश्वरेण तेषु
तेष्वधिकारेषु नियुक्ताः सन्तः सत्यपि सम्यग्दर्शने
कैवल्यहेतावक्षीणकर्माणो यावदधिकारमवतिष्ठन्ते
तदवसाने चापवृज्यन्त इत्यविरुद्धम् । सकृत्प्रवृत्तमेव हि तेऽधि-
कारफलदानाय कर्माशयमतिवाहयन्तः स्वातन्त्र्येण
गृहादिव गृहान्तरमन्यमन्यं देहं सञ्चरन्तः स्वाधिका-
रनिर्वर्त्तनायापरिमुषितस्मृतयएव देहेन्द्रियप्रकृतिवशि-
त्वान्नियामकबलेन युगपत् क्रमेण वाऽधितिष्ठन्ति! नचैते
जातिस्मरा इत्युच्यन्ते तएव त इति स्मृतिप्रसिद्धेः । यथा
सुलभा बह्मवादिनी जनकेन विवदितुकामा व्युदस्य स्वं
देहं, जानकं देहमाविश्य व्युद्य तेन, पश्चात्तं स्वमाविवेशे
ति स्मर्य्यते । यदि ह्युपयुक्ते सकृत्प्रवृत्ते कर्मणि कर्मा-
न्तरं देहान्तरारम्भकारणमाविर्भवेत् ततोऽन्यदप्यदग्ध
वीजं कर्म्मान्तरं तद्वदेव प्रसज्यतेति ब्रह्मविद्यायाः पाक्षिकं
मोक्षहेतुत्वमहेतुत्वं वाशङ्क्येत न तवेयमाशङ्का युक्ता
ज्ञानात् कर्म्मवीजदाहस्य श्रुतिस्मृतिप्रसिद्धत्वात् । तथा हि
श्रुतिः “भिद्यते हृदयग्रन्थिरित्येवमादिः” “स्मृतिलम्भे च सर्व
ग्रन्थीनां विप्रमोक्ष” इति च । स्मृतिरपि “यथैधांसि
समिद्धोऽग्निर्भस्मसात् कुरुतेऽर्जुन! । ज्ञानाग्निः सर्व्वकर्म्माणि
भस्मसात् कुरुतेतथेति” । “वीजान्यग्न्यपदग्धानि न रोहन्ति
यथा पुनः । ज्ञानदग्धैस्तथाक्लेशैर्नात्मा सम्पाद्यते
पुनरिति” चैवमाद्या । नचाविद्यादिक्लेशदाहे सति क्लेश
वीजस्य कर्माशयस्यैकदेशदाहएकदेशप्ररोहश्चेत्यृपपद्यते न
ह्यग्निदग्धस्य शालिवीजस्यैकदेशप्ररोहो दृश्यते । प्रवृत्त-
फलस्य तु कर्माशयस्य मुक्ते शरीरवेगक्षयान्निवृत्तिः “तस्य
तावदेव चिरमिति” शरीरपातक्षेपकरणात् । तस्मादुप-
पन्ना यावदधिकारमाधिकारिकाणामवस्थितिः” भा० ।
अतएव वाचस्पत्ये उक्तम् “उपासनादिसंसिद्धितोषिते-
श्वरनोदितम् । अधिकारं समाप्यैव प्रविशन्ति परं पदम्”
३ अवरुद्धे “ध्वान्तं घनारब्धमिवार्द्धरात्रः” किरा० ।
“घनारब्धम् मेघावरुद्धम्” मल्लि० । घनारुद्धैत्येव ज्यायान्
पाठः तेनास्य अवरुद्धार्थकत्वे प्रमाणाभावेऽपि न क्षतिरिति

आरभटी स्त्री० आरभ्यतेऽनया आ + रभ--अटि ङीप् । नाट्ये

अर्थविशेषयुक्ते सा० दर्पणोक्ते रचनाभेदे सा च भेदो-
दाहरणसहिता सा० द० उक्ता यथा
“मायेन्द्रजालसंग्रामक्रोधोद्भान्तादिचेष्टितैः । संयुक्ता
पणबन्धाद्यैरुद्भटाऽऽरभटी मता । वस्तूत्थापनसऽफेटौ संक्षिप्ति
रवपातनम् । इति भेदास्तु चत्वार आरभट्याः प्रकी-
र्त्तिताः । मायाद्युत्थापितं वस्तु वस्तूत्थापनमुच्यते ।
यथोदात्तराघवे । “जीयन्ते जयिनोनिशान्ततिमिरव्रातैर्व्वि-
यद्व्यापिभिर्भास्वन्तः सकला रवेरपि कराः कस्मादकस्मा-
दमी । एते चोग्रकबन्धकण्ठरुधिरैराध्मायमानोदरामुञ्च-
न्त्याननकन्दरानलमुचस्तीव्रान् रवान् फेरवः” इत्यादि ।
संफेटस्तु समाधाय युद्धसत्वरयोर्द्वयोः । यथा मालस्त्यां
माधवाघोरघण्टयोः । संक्षिप्ता वस्तुरचना शिल्पैरित-
रथाऽपि वा । संक्षिप्तिः स्यात् निवृत्तौ च नेतुर्नेत्रन्तर-
ग्रहः । उदयनचरिते किलिञ्जहस्तिप्रयोगः । द्वितीयं
यथा । बालिनिवृत्त्या सुग्रीवः यथा वा परशुरामयौ द्धत्थ-
निवृत्त्या शान्तत्वापादानं “पुण्या ब्राह्मणजातिरन्वयगुणः
शास्त्रं चरित्रं च मे येनैकेन हृतान्यमूनि हरता चैतन्य
सात्रामपि । एकः सन्नपि भूरिदोषगहनं सोऽयं त्वया
पृष्ठ ०७९७
प्रेयसा वत्स! ब्राह्मणवत्सलेन शमितः क्षेमाय दर्पोमम” ।
प्रवेशश्रासनिष्क्रान्तिहर्षविप्लवसम्भवम् । अवपातनमित्युक्तम् ।
यथा कृत्यरावणे षष्ठेऽङ्के । प्रविश्य खङ्गहस्तः पुरुष इत्यतः
प्रभृति निष्क्रमणपर्य्यन्तम् । सर० क० उक्ते शब्दालङ्का-
ररूपे २ वृत्तिभेदे च सा च ३८८ पृष्ठे दृश्या । आरः
सामर्थ्येन गामी भटः । ३ शूरे वीरे पु० हेमचन्द्रः ।

आरभ्य अव्य० आ + रभ--ल्यप् । १ उपक्रम्येत्यर्थे “आरभ्य

तस्यां दशमीञ्च यावत् प्रपूजयेत् पर्व्वतराजपुत्रीम्”
दुर्गो० त० पु० अनारभ्याधीतत्वात्” मीमांसा । कर्मणि
क्यप् । २ आरम्भणार्हे आरम्भणीये त्रि० ।

आरमण न० आ + रम--भावे ल्युट् । १ आरामे, विश्रामे

आरम्यतेऽनेन करणे ल्युट् । आरतिसाधने “स आत्मन्नार-
मणं नाविन्दत्” तैत्ति० चक्षुषोरेवैते आरमणे कुरुतः”
शत० ब्रा० ।

आरम्बण न० अ + लबि--ल्युट् वेदे लस्य रः । आलम्बने

“तस्मात्तान्यन्तरिक्षेऽनारम्वणान्यादायात्मानं परियन्ति”
छा० उ० अनारम्बणानि अनालम्बनानि” भा० “यदिदम-
न्तरिक्षमनारम्बणमिव केनाक्रमेण यजमानःस्वर्गलोक-
नाक्रमेत्” वृ० उ०

आरम्भ पु० आ + रभ घञ् मुम् । १ उद्यमे २ त्वरायां स्वार्थं परार्थं

वा ३ गृहादिसम्पादनव्यापारे ४ उपक्रमे प्रथमकृतौ ५
प्रस्तावने ६ बधे ७ दर्पे च । “अनारम्भेऽपि प्ररगृहसुखी
सर्पवत्” सा० सू० “आरम्भे कर्मणां विप्र! पुण्डरीकं
स्मरेद्धरिम्” स्मृतिः “न कर्मणामनारम्भात् नैष्कर्म्यं पुरु-
षोऽश्नुते” गीता “मीनादिस्थोरविर्येषामारम्भः प्रथमक्षणे ।
इति म० त० व्यासः “अयथाबलमारम्भः” माघः ।
“आगमैः सदृशारम्भा आरम्भसदृशोदयः” इति
रघुः क्रियाकूटात्मकपाकादिक्रियाणां प्राथमिक-
व्यापारोपक्रमआरम्भः । श्रौतस्मार्त्तकर्म्मविशेषे अङ्ग-
विशेषारम्भेऽपि प्रकृतकर्म्मारम्भस्तेन आरब्धत्वान्न
सूतकादेः प्रतिबन्धकत्वम् । यथा “आरम्भोवरणं यज्ञे
संकल्पोव्रतजप्ययोः । नान्दीश्राद्धं विवाहादौ श्राद्धे
पाकपरिष्क्रिया । तथा निमन्त्रणं श्राद्धे आरम्भः स्यादिति
श्रुतिः आरब्धे सूतकं नस्यादिति” ति० त० विष्णुः । द्रव्याणां
द्रव्यान्तरेण गुणानां गुणान्तरेणोत्पादते वैशेषिकोक्ते
८ व्यापारे “द्रव्यारम्भश्चतुर्षु स्यात्” भाषा० कर्मणि घञ् ।
९ आरभ्यमाणे “फलानुमेयाः प्रारम्भाः संस्काराः प्राक्तना
इव” रघुः । “चित्रार्पितारम्भैवावतस्थे” कुमा० ।

आरम्भक त्रि० आरभते आ + रभ--एवुल् मुम् । १ आरम्भ-

कारके वैशेषिकादिमतसिद्धे महत्त्वाद्यु पचयाय अवयावानां
२ विजातीयसंयोगे च । “तत आरम्भकसंयोगनाशः”
मुक्ता० आरम्भवादशब्दे शा० भा० उदा० ।

आरम्भण न० आ + रभ--ल्युट् मुम् । २ आरम्भशब्दार्थे

कर्मणि ल्युट् । २ आरभ्यमाणे च । यथा “सौभ्यैकेन
मत्पिण्डेन विज्ञातेन सर्वमिदं मृण्मयं विज्ञातं भवति
वाचारम्भणं विकारोनामधेयं मृत्तिकेत्येव सत्यम्” छा० उ०
“तदनन्यत्वमारम्भणशब्दादिभ्यः” शा० सू० आरम्भणं प्रयो-
जनमस्य अनुप्रचना० अण् । ३ आरम्भणप्रयोजनपदार्थे
त्रि० । आरभ्यतेऽनेन करणे ल्युट् । ४ उपादानकारणे “किं
स्विदासीदधिष्ठानमारम्भणं कतमत् स्वित्कथासीत्” यजु०
१७, १८ । “लोके हि घटादि चिकीर्षुः कुलालो गृहा-
दिकं स्थानमधिष्ठाय मृद्रूपेणारम्भकद्रव्येण चक्राद्युपायै
र्निष्पादयति ईश्वरस्य तदाक्षिप्यते । स्विदिति वितर्के द्यावा-
भूमी सृजतोविश्वकर्म्मणोऽधिष्ठानं किमासीत् निवासस्थानम्,
अद्यतना निरधिष्ठानाः किमपि न कुर्वन्ति । स्विदिति
वितर्के आरम्भणं कतमत् किमासीत् आरभ्यतेऽनेनेति
आरम्भणमुपादानकारणम् मृदिव घटानाम्” वेददी० ।

आरम्भणीय त्रि० आ + रभ--शक्यार्थे अनीयर् मुम् । यस्य

आरम्भःकर्त्तुं शक्यते तस्मिन् प्रयीजनादियुक्ते पदार्थे
“तत्पुनः शास्त्रमारम्भणीयमिति” विवरणोपन्यासः ।

आरम्भवाद पु० आरम्भस्य वादः परीक्षापूर्ब्बकः कथाभेदः ।

वैशेषिकाद्यभिमते परमाणुभ्य एव जगदुत्पत्तिनिर्ण्णायके
वादे । स च “द्रव्याणि द्रव्यान्तरमारभन्ते गुणाश्च गुणा-
न्तरमिति” वै० सू० दर्शितः “आत्माकाशाणुमुखतः कारणं
पूर्व्वमिष्यते । कुलालादिवदण्डन्तु घटवज्जन्मनाशभाक् ।
पृथिव्यम्भोऽग्निवायूनां कर्मसंयीजिताणवः । द्यणुकादि
क्रमेणाण्डमारभन्ते इदं महदिति” हि तेषां वादः ।
शा० भाष्ये तु तदेतन्मतमुत्थाप्य निराकृतं यथा
“परमाणुकारणवादैदानीं निराकर्त्तव्यः । तत्रादौ
तावद्योऽणुकारणवादिना ब्रह्मवादिनि दोष उत्प्रेक्ष्यते स
प्रतिसमाधीयते । तत्रायं वैशेषिकाणामभ्युपगमः कारण
द्रव्यसमवायिनोगुणाः कार्य्यद्रव्यसमानजातीयं गुणा-
न्तरमारभन्ते शुक्लेभ्यसुन्तुभ्यः शुक्लस्य पटस्य प्रसवद-
र्शनात्तद्विपर्य्ययाऽदर्शनाच्च । तस्माच्चेतनस्य ब्रह्मणो
जगत्कारणत्वेऽभ्युपगम्यमाने कार्य्येऽपि जगति चैतन्यं
समवेयात् तददर्शनात् । न चेतनं ब्रह्मजगत्कारणम्भवितुमर्ह-
पृष्ठ ०७९८
तीति । इममभ्युपगमन्तदीययैव प्रक्रियया व्यभिचारयति ।
“महद्दीर्घवद्ग्रस्वपरिमण्डलाभ्याम्” सू० । “एषा तेषां
प्रक्रिया परमाणवः किल किञ्चित्कालमनारब्धकार्य्या
यथायोगं रूपादिमन्तः पारिमाण्डल्यपरिमाणास्तिष्ठन्ति । ते च
पश्चाददृष्टादिपुरःपराः संयोगसचिवाश्च सन्तोद्व्यणुकादि-
क्रमेण कृत्स्नं कार्य्यजातमारभन्ते कारणगुणाश्च कार्य्येगुणा-
न्तरम् । यदा द्वौ परमाणू द्व्यकणुकमारभेते तदा परमा-
णुगता रूपादिगुणविशेषाः शुक्लादयोद्व्यणुके शुक्लादीनार-
भन्ते । परमाणुगुणविशेषस्तु पारिमाण्डल्यम् न द्व्यणुके
पारिमाण्डल्यमपरमारभते द्व्यणुकस्य परिमाणान्तरयोगा-
भ्युपगमात् । अणत्वह्रस्वत्वे हि द्व्यणुकवर्त्तिनी परिमाणे
वर्णयन्ति । यदापि द्वे द्व्यणुके चतुरणुकमारभेते तदापि
समानं द्व्यणुकसमवायिनां शुक्लादीनामारम्भकत्वम् ।
अणुत्वह्रस्वत्वे तुद्व्यणुकसमवायिनी अपि नैवारभेते चतुर-
णुकस्य महत्त्वदीर्घत्वपरिमाणयोगाभ्युपगमात् ।
यदापि बहवः परमाणवो बहूनि वा द्व्यणुकानि द्व्यणु कसहितो
वा परमाणुः कार्य्यमारभन्ते तदापि समानैषा योजना ।
तदेवं यथा परमाणोः परिमण्डलात्मनोऽणु ह्रस्वञ्च द्व्य-
णुकं जायते महद्दीर्घञ्च त्र्यणुकादि न परिमण्डलम् । यथा
वा द्व्यणुकादणोर्ह्रस्वाच्च सतोमहद्दीर्घञ्च त्र्यणुकादि
जायते नाणु नोत ह्रस्वम् एवं चेतनाद्ब्रह्मणोऽचेतनं जगज्ज-
निष्यत इत्यभ्युपगमे तव किं छिन्नम् । अथ मन्यसे विरो-
धिना परिमाणान्तरेणाक्रान्तं कार्य्यद्रव्यं द्व्यणुकादि
ततोनारम्भकाणि कारणगतानि पारिमाण्डल्यादीनि इत्य-
भ्युपगच्छामि न तु चेतनाविरोधिना गुणान्तरेण जगत
आक्रान्तत्वमस्ति येन कारणगता चेतना कार्य्ये चेतनान्तरं
नारभेत । नह्यचेतनानां चेतनाविरोधी कश्चिद्गुणोऽ
स्ति चेतनाप्रतिषेधमात्रत्वात् । तस्मात् पारिमाण्डल्यादि
वैषम्यात् प्राप्नोति चेतनाया आरम्भकत्वमिति, मैवं
मंस्थाः यथा कारणे विद्यमानानामपि पारिमाण्डल्यादी-
नामनारम्भकत्वमेवं चैतन्यस्यापीत्यस्यांशस्य समानत्वात् ।
न च परिमाणान्तराक्रान्तत्वं पारिमाण्डल्यादीनामनार-
म्भकत्वे कारणं प्राक् परिमाणान्तरारम्भात् पारिमाण्ड-
ल्यादीनामारम्भकत्वोपपत्तेः आरब्धमपि कार्य्य द्रव्यं
प्राग्गुणारम्भात् क्षणमात्रमगुणं तिष्ठतीत्यभ्युपगसात् ।
न च परिमाणान्तरारम्भेव्यग्राणि पारिमाण्डल्यादी-
नीत्यतः स्वममानजातीयं परिमाणान्तरं नारभन्ते
परिमाणान्तरस्यान्यहेतुकत्वाभ्युपगमात् । “कारणबहुत्वात् प्रच-
यविशेषाच्च महत्” “तद्विपरीतमण्” । “एतेन दीर्घत्वह्रस्व-
त्वे व्याख्याते” इति हि काणभुजानि सूत्राणि । न च
सन्निधानविशेषात् कुतश्चित् कारणबहुत्वादीनि एवार-
भन्ते न पारिमाण्डल्यादीनीत्युच्यते द्रव्यान्तरे गुणा-
न्तरे वाऽऽरभ्यमाणे सर्वेषामेव कारणगुणानां स्वाश्रयसम-
वायाविशेषात् । तस्मात् यथा स्वभावादेव पारिमाण्डल्या-
दीनामनारम्भकत्वं तथा चेतनाया अपि द्रष्टव्यम् संयो-
गाच्च द्रव्यादीनां विलक्षणानामुत्पत्तिदर्शनात् समान-
जातीयोत्पत्तिव्यभिचारः । द्रव्ये प्रकृते गुणोदाहरणम-
युक्तमिति चेन्न दृष्टान्तेन विलक्षणारम्भमात्रस्य विवक्षित-
त्वात् । न च द्रव्यस्य द्रव्यनेवोदाहर्त्तव्यं गुणस्य वा
गुणएवेति कश्चिन्नियमे हेतुरस्ति । सूत्रकारोऽपि भवतां द्रव्यस्य
गुणमुदाजहार “प्रत्यक्षाणामप्रत्यक्षत्वात् संयोगस्य पञ्चा-
त्मकत्वं न विद्यत” इति । यथा प्रत्यक्षापत्यक्षयोर्भूम्याकाशयोः
समवयन् संयोगोऽप्यप्रत्यक्षः एवं प्रत्यक्षाप्रत्यक्षेषु पञ्चसु
भूतेषु समवयत् शरीरमप्रत्यक्षं स्यात् प्रत्यक्षन्तु शरीरं
दृश्यते तस्मान्न पाञ्चभौतिकमिति । एतदुक्तं भवति गुणश्च
संयोगोद्रव्यं शरीरम् । दृश्यतेत्विति चात्रापि विलक्षणोत्पत्तिः
प्रपञ्चिता । नन्वेवं सति तेनैवैतद्गतम्, नेति ब्रूमः
तत्सांख्यं प्रत्युक्तं एतत्तु वैशेषिकं प्रति । नन्वतिदेशोऽपि
समानन्यायतः “एतेन शिष्टापरिग्रहा अपि व्याख्याताः”
इति सत्यमेतत् तस्यैव त्वयं वैशेषिकपरीक्षारम्भे तत्प्रक्रि-
यानुगतेन निदर्शनेन प्रपञ्चः कृतः । “उभयथापि न कर्मा-
ऽतस्तदभावः” सू० । इदानीं परमाणुकारणवादं निराक-
रोति । स च वादैत्थं समुत्तिष्ठति । पटादीनि हि सावयवानि
द्रव्याणि स्वानुगतैः संयोगसचिवैस्तन्त्वादिभिर्द्रव्यैरारभ्य-
माणानि दृष्टानि तत्सामान्येन यावत्किञ्चित् सावयवं
सर्वन्तत् स्वानुगतैरेव संयोगसचिवैस्तैस्तैर्द्रव्यै रारब्धमिति
गभ्यते । सचायमवयवावयविविभागोयतो निवर्त्तते सोऽपक-
र्षपर्य्यन्तगतः परमाणुः । सर्वञ्चेदं गिरिसमुद्रादिकं
जगत् सावयवं सावयवत्वादाद्यन्तवत् न चाकारणेन कार्य्येण
भवितव्यमित्यतः परमाणवोजगतः कारणमिति कणभुग-
भिप्रायः । तानोमानि चत्वारि भूतानि भूम्यप्तेजःपवना-
ख्यानि सावयवान्युपलभ्य चतुर्विधाः परमाणवः परिक-
ल्प्यन्ते । तेषाञ्चापकर्षपर्य्यन्तगतत्वेन परतोविभागासम्भवा-
द्विनश्यताञ्च पृथिव्यादीनां परमाणुपर्य्य न्तविभागो भवति
स प्रलयकालः । ततः सर्गकाले च वायवीयेष्वणुष्वदृष्टापेक्षं
कर्मोत्पद्यते तत्कर्म स्वाश्रयमणुमण्वन्तरेण संयुनक्ति ततो
पृष्ठ ०७९९
द्व्यणुकादिक्रमेण वायुरुत्पद्यते एवमग्निः एवमापः एवं
पृथिवी एवं शरीरं सेन्द्रियमित्येवं सर्वमिदं जगदणुभ्यः
सम्भवति । अणुगतेभ्यश्च रूपादिभ्यो द्व्यणुकादिगतानि
रूपादीनि सम्भवन्ति तन्तुपटन्यायेनेति काणादा सन्यन्ते ।
तत्रेदमभिधीयते वियोगावस्थानां तावदणूनां संयोगः
कर्मापेक्षोऽभ्युपगन्तव्यः कर्मवतां तन्त्वादीनां संयोगदर्शनात् ।
कर्मणश्च कार्य्यत्वान्निमित्तं किमप्यभ्युपगन्तव्यम् अनभ्युप-
गमे निमित्ताभावान्नाणुष्वाद्यं कर्म्म स्यात् । अभ्युपगमेऽपि
यदि प्रयत्नोऽभिघातादिर्वा यथादृष्टं किमपि कर्म्मणीनिमि-
त्तमभ्युपगम्येत तस्यासम्भवान्नैवाणुष्वाद्यं कर्म्मस्यात् न हि
तस्यामवस्थायामात्मगुणः प्रत्यत्नः सम्भवति शरीराभावात् ।
शरोरप्रतिष्ठे हि मनस्यात्ममनःसंयोगे सत्यात्मगुणः
प्रयत्नो जायते । एतेनाभिघाताद्यपि दृष्टनिमित्तं प्रत्या-
ख्यातव्यम् । सर्गोत्तरकालं हि तत्सर्वं नाद्यस्य कर्म्मणो
निमित्तं सम्भवति । अथादृष्टमाद्यस्य कर्म्मणोनिमित्तमि-
त्युच्येत तत्पुनरात्मसमवायि वा स्यादणुसमवायि वा
उभयथापि नादृष्टनिमित्तमणुषु कर्मावकल्प्येत अदृष्टस्याचेतम-
त्वात् । नह्यचेतनं चेतनेनानधिष्ठितं स्वतन्त्रं प्रवर्त्तते प्रव-
र्त्तयति वेति साङ्ख्यपरीक्षायामभिहितम् । आत्मनश्चानु-
त्पन्नचैतन्यस्य तस्यामवस्थायामचेतनत्वात् । आत्मसमवा-
यित्वाभ्युपगमाच्च नादृष्टमणुषु कर्म्मणोनिमित्तं स्यात्
असम्बन्धात् । अदृष्टवता पुरुषेणास्त्यणूनां सम्बन्ध इति चेत्
सम्बन्धसातत्यात् प्रवृत्तिसतत्यप्रसङ्गः नियामकान्तराभा-
वात् । तदेवं नियतस्य कस्यचित् कर्म्मनिमित्तस्याभावा-
न्नाणुष्वाद्यं कर्म्मस्यात् कर्म्माभावात् तन्निबन्धनः संयोगो-
म स्यात् संयोगाभावाच्च तन्निबन्धनं द्व्यणुकादि कार्य्यजातं
न स्यात् । संयोगश्चाणोरण्वन्तरेण सर्वीत्म्ना वा स्यादेकदे-
शेन वा, सर्वात्मना चेदुपचयानुपपत्तेरणुमात्रत्वप्रसङ्गोदृष्ट
विपर्य्ययप्रसङ्गश्च प्रदेशवतोद्रव्यस्य प्रदेशवता द्रव्यान्तरेण
संयोगस्य दृष्टत्वात् । एकदेशेन चेत् सावयवत्वप्रसङ्गः ।
परमाणूनां कल्पिताः प्रदेशाः स्युरिति चेत् कल्पितानाम-
वस्तुत्वादवस्त्वेव संयोग इति वस्तुनः कार्य्यस्यासमवायि
कारणं न स्यात् असति चासमवायिकारणे द्व्यणु-
कादि कार्य्यद्रव्यं नोत्पद्येत । यथा चादिसर्गे
निमित्ताभावात् संयोगोत्पर्त्त्यर्थं कर्म नाणूनां सम्भवति
एवं महाप्रलयेऽपि विभागोत्पत्त्यर्थं कर्म नैवाणूनां
सम्भवेत् । न हि तत्रापि किञ्चिन्नियतं तन्निमित्तं
दृष्टमस्ति । अदृष्टमपि भोगप्रसिद्ध्यर्थं न प्रलयप्रसिद्ध्यर्थ-
मिति अतोनिमित्ताभावान्न स्यादणूनां संयोगोत्प-
त्थर्थंविभागोत्पत्त्यर्थञ्च कर्म । अतश्च संयोगविभागायत्तयोः
सर्गप्रलययोरभावः प्रसज्येत । तस्मादनुपपन्नोऽयं
परमाणुकारणवादः । “समवायाभुपगमाच्च साम्यादनवस्थितेः”
सू० समवायाभ्युपगमाच्च तदभाव इति प्रकृतेनाणृवादनिरा-
करणेन सम्बध्यते । द्वाभ्याञ्चाणभ्यां द्व्यणुकमुत्पद्यमान-
मत्यन्तभिन्नमणुभ्यामण्वोः समवैतीत्यभुपगम्यते भवता न
चैवमभ्युपगच्छता शक्यतेऽणुकारणवादः समर्थयितुमुकुतः?
साम्यादनवस्थितेः । यथैव ह्यणुभ्यामत्यन्तभिन्नं सत्द्व्यणुकं
समवायलक्षणेन सम्बन्धेन ताभ्यां सम्बध्यते एवं समवा-
योऽपि समवायिभ्योऽत्यन्तभिन्नः सन् समवायलक्षणेनान्येनैव
सम्बन्धेन समवायिभिः सम्बध्येत अत्यन्तभेदसास्यात् ततश्च
तस्य तस्यान्योऽन्यः सम्बन्धः कल्पयितव्य इत्यनवस्था प्रस-
ज्येत । नन्विह प्रत्ययग्राह्यः समवायो नित्यसम्बन्धएव
समवायिभिर्गृह्यते नासम्बद्धः सम्बन्धान्तरापेक्षो वा ततश्च न
तस्यान्यः सम्बन्धः कल्पतयिव्योयेनानवस्था प्रसज्येत ।
नेत्युच्यते । संयोगोऽप्येवं सति संयोगिभिर्नित्यसम्बन्ध
एवेति समवायवन्नान्यं सम्बन्धमपेक्षेत । अथार्थान्तरत्वात्
संयोगः सम्बन्धान्तरमपेक्षते, समवायोऽपि तर्ह्य-
र्थान्तरत्वात् सम्बन्धान्तरमपेक्षेत । स च गुणत्वात् संयोगः
सम्बन्धान्तरपेक्षते न समवायोऽगुणत्वादिति युज्यते वक्तुम्
अपेक्षाकारणस्य तुल्यत्वात् गुणपरिभाषायाश्चातन्त्रत्वात् ।
तस्मादंर्थान्तरं समवायमभ्युपगच्छतां प्रसज्येतैवानवस्था ।
प्रसज्यमानायां चानवस्थायामेकासिद्धौ सर्व्वासिद्धेर्द्वाभ्या-
मणुभ्यां द्यणुकं नैवोत्पद्येत तस्मादप्यनुपपन्नः परमाणु-
कारणवादः । “नित्यमेव च भावात्” सू० । अपि च अणवः
प्रवृत्तिस्वभावा वा निवृत्तिस्वभावा वा उभयस्वभावा वा
अनुभयस्वभावा वाऽभ्युपगम्येरन् गत्यन्तराभावात्
चतुर्द्धापि नोपपद्यते । प्रवृत्तिस्वभावत्वे नित्यमेव प्रवृत्तेर्भा-
वात् प्रलयाभावाप्रसङ्गः । निवृत्तिस्वभावत्वेऽपि नित्यमेव
निवृत्तेर्भावात् सर्गाभावप्रसङ्गः । उभयस्वभावत्वञ्च विरो-
धादसमञ्जसम् । अनुभयस्वभावत्वे तु निमित्तवशात् प्रवृ-
त्तिनिवृत्त्योरभ्युपगम्यमानयोरदृष्टादेर्निमित्तस्य नित्यसन्नि-
धानान्नित्यप्रवृत्तिप्रसङ्गः । अतन्त्रत्वेऽप्यदृष्टादेर्नित्यप्र-
वृत्तिपरसङ्गः तस्मादप्यनुपपन्नः परमाणुकारणवादः ।
“रूपादिमत्त्वाच्चविपर्य्ययो दर्शनात्” सू० । नावयवानां द्रव्या-
णामवयवशोविभज्यमानानां यतः परोविभागो न सम्भ-
वति ते चतुर्बिधा रूपादिमन्तः परमाणवश्चरुर्विधस्य रूपा-
पृष्ठ ०८००
दिमतो भूतभौतिकस्यारम्भका नित्याश्चेति यद्वैशेषिका
अभ्युपगच्छन्ति स तेषामभुपगमो निरालम्बन एव
यतोरूपादिमत्त्वात् परमाणूनामणुत्वनित्यत्वविपर्य्ययः प्रस-
ज्येत परमकारणापेक्षयास्थूलत्वमनित्यत्वञ्च तेषामभिप्रेत
विपरीतमापद्येतेत्यर्थः । कुतः? एवं लोके दृष्टत्वात् ।
यद्धि लोके रूपादिमद्वस्तु तत् स्वकारणापेक्षया स्थूलम-
नित्यञ्च दृष्टं तद्यथा पटस्तन्तूनपेक्ष्य स्थऊलोऽनित्यश्च भवति
तन्तवश्चांशूनपेक्ष्य स्थूला अनित्याश्च भवन्ति । तथा
चामी परमाणवोरूपादिमन्तस्तैरभ्युपगस्यन्ते तस्मात्तेऽपि
कारणवन्तस्तदपेक्षया स्थूला अनित्याश्च प्राप्नुवन्ति । यच्च
नित्यत्वे कारणं तैरुक्तं “सदकारणवन्नित्यमिति” ।
तदप्येवं सत्यणुषु न सम्भवति उक्तेन प्रकारेण कारणवत्त्वो-
पपत्तेः यदपि नित्यत्वे द्वितीयं कारणमुक्तम्
“अनित्यमिति च विशेषतः प्रतिषेधाभाव” इति । तदपि
नावश्यं परमाणूनां नित्यत्वं साधयति असति हि यस्मिन्
कस्मिंश्चिन्नित्ये वस्तुनि नित्यशब्देन नञः समासो नोपपद्यते
न पुनः परमाणुनित्यत्वमेवापेक्षते तच्चास्त्येव नित्यं
परमकारनं ब्रह्म । न च शब्दार्थव्यवहारमात्रेण कस्यचिद-
र्थस्य प्रसिद्धिर्भवति प्रमाणान्तरसिद्धयोः शब्दार्थयोर्व्यव-
हारावतारात् । यदपि नित्यत्वे तृतीयं कारणमुक्तम् ।
“अविद्या चेति” । तद्यद्येवं विब्रियेत सतां परिदृश्यमनका-
र्य्याणां कारणानां प्रत्यक्षेणाग्रहणमविद्येति ततोद्व्यणुकनि-
त्यताप्यापद्येत । अथाद्रव्यवत्त्वे सतीति विशेष्यते तथाप्य-
कारणवत्त्वमेव नित्यतानिमित्तमापद्येत तस्य च प्रागे-
वोक्तत्वादविद्या चेति पुनरुक्तं स्यात् । अथापि कारण-
विभागात् कारणविनाशाच्चान्यस्य तृतीयस्य विनाशहेतोर-
सम्भवोऽविद्या सा परमाणूनां नित्यत्वं ख्यपयतीति व्या-
ख्यायेत । नावश्यं विनश्यद्वस्तु द्वाभ्यामेव हेतुभ्यां विनंष्टुमर्ह-
तीति नियमोऽस्ति संयोगसचिवे ह्यनेकस्मिश्च द्रव्ये द्रव्या-
न्तरस्यारम्भकेऽभ्युपगम्यमाने एतदेवं स्यात् यदा त्वपास्तविशेषं
सामान्यात्मकं कारणं विशेषवदवस्थान्तरमापद्यमानमारम्भ-
कमभ्युपगम्यते तदा घृतकाठित्यविलयनवत् मृर्त्त्यवस्थाविलय-
नेनापि विनाश उपपद्यते । तस्माद्रूपादिमत्त्वात् स्यादभि-
प्रेतविपर्य्ययः परमाणूनां, तस्मादप्यनुपपन्नः परमाणुकार-
णवादः । “उभयथा च दोषात्” सू० । गन्धरसरूपस्पर्शगुणा
स्थूला पृथ्वी, रसरूपस्पर्शगुणाः सूक्ष्मा आपः, रूपस्पर्श-
गुणं रूक्ष्मतर तेजः,स्पर्शपुणः सूक्ष्मतमोवायुरित्येव-
मेतानि चत्वारि भूतान्यपचितापचितगुणानि स्थ लसूक्ष्म-
तारतम्योपेतानि च लोके लक्ष्यन्ते तद्वत् परमाणवोऽप्युप-
चितापचितगुणाः कल्प्येरन् न वा । उभयथापि तद्दो-
षानुषङ्गोऽपरिहार्य्य एव स्यात् । कल्प्यमाने तावदुपचि-
तापचितगुणत्वे उपचितगुणानां मूर्त्युपचयादपरमाणुत्व
प्रसङ्गः । नचान्तरेणापि मूर्त्त्युपचयं गुणोपचयो भवती-
त्युच्येत कार्य्येषु भूतेषु गुणोपचये मूर्त्युपचयदर्शनात् ।
अकल्प्यमाने तूपचितापचितगुणत्वे परमाणुत्वसाम्यपेरसिद्धये
यदि तावत् सर्व्वएव एकैकगुणाएव कल्प्येरन् ततस्तेजसि
स्पर्शस्योपलब्धिर्न स्यात् अप्सुरूपस्पर्शयोः, पृथिव्यां
रूपरसस्पर्शानां, कारणगुणषूर्ब्बकत्वात् कार्य्यगुणानाम् । अथ
सर्वे चतुर्गुणाएव कल्प्येरन् ततोऽप्स्वपि गन्धस्योपलब्धिः
स्यात् तेजसि च गन्धरस्योः, वायौ च ग्नधरसरूपाणां, न
चैवं दृश्यते । तस्मादप्यनुपपन्नः परमाणुकारणवादः” ।
एतेनादृष्टस्य सातत्येऽपि कालवशात् नित्यमसमर्थनम्
परेषामकिञ्चित्करम् । महाकालस्यैकत्वेन नियामकत्वाभा-
वात् खण्डकालस्य च तदानीं क्रियाद्यभावेन विशेषाकत्वा-
सम्भवात् क्रियायाः मूर्त्तद्रव्याधीनत्वान्मूर्त्तस्य चावयव-
संयोगाधीनत्वेन सर्गोत्तरमेवोत्पत्तेस्तदाऽसत्त्वात् । यच्च
निरवयवस्य परमाणोर्दिगवच्छेदेन संयोगसम्भवसमर्थनं
तदप्यकिञ्चित्करं नित्यायादिशस्तदवच्छेदकत्वासम्भवात्
दिग्विभागस्यैवावच्छेदकत्वस्य लोके दृष्टत्वात् दिग्विभा-
जकस्य चावयवभेदस्य परमाणोरसम्भवेन तत्त्वायो
गात् । किञ्च “षट्केन युगपद्योगात् परमाणोः
षड़ंशतेत्यापत्तिश्च तथाहि दिगवच्छेदेन संयोगे हि
पूर्ब्बादिचतुर्द्दिग्भेदेन ऊर्द्धाधोदिग्भेदेन च षट्सु दिक्षु
विनिगमनाभावेन युगपद्यीगापत्त्या परमाणोः पड़ं-
शतापत्तिस्तेन निरवयवत्वं तस्य न सिध्येत् । वस्तुतः प्रा-
च्यादिव्यवहारस्य उदयगिर्य्यादिसम्बन्धाधीनत्वेन तस्य च
सर्गोत्तरकालीनतया तदानीं तद्व्यवहारः सर्वथा न
सम्भवत्येवेति दिगवच्छेदेन परेषां संयोगकल्पनं सर्ब्बथा
ऽयुक्तमेव । अधिकम् अवयविशब्दे ४३३ पृष्ठादौ दृश्यम्

आर(रा)व पु० आ + रु--अप् पक्षे घञ् । सम्यक्शब्दे ।

“वानराश्चक्रुरारवम्” रामा० । “उच्छ्रायवान् घनारावो
वानरं जलदारवम्” भट्टिः ।

आरस्य न० अरसस्य भावः चतुरादि० ष्यञ् । रसभिन्नत्वे

नास्ति रसोयस्य बहु० तु त्वतलौ न ष्यञ् । अरसत्वसर-
सता वेत्येव “उच्चैरस्यति मन्दतामरसतामिति” चन्द्रा० ।
"https://sa.wikisource.org/w/index.php?title=वाचस्पत्यम्/आमोद&oldid=57656" इत्यस्माद् प्रतिप्राप्तम्