पृष्ठ ०८०१

आरा स्त्री आ + ऋ--अच् । १ चर्म्मभेदकास्त्रभेदे । (टेको) इति

ख्याते २ लौहास्त्रे । “आराग्रमात्रो ह्यवरोऽपि दृष्टः”
श्रुतिः ३ प्रतोदे च “या पूषन् ब्रह्मचोदनीमारां विभर्ष्यामृणे”
ऋ० ६, ५, ८, । “उद्यम्यारामग्रकायोत्थितस्य” माघः ।
“आरां प्रतोदम्” मल्लिनाथः ।

आराग्र न० आरायाः अग्रम् । १ आरायाः अग्रे “आराग्र-

मात्रोह्यवरोऽपि दृष्टः” श्रुतिः । “अर्द्ध चन्द्रक्षुरप्रादिधाराग्रं
मुखमुच्यते । आराग्रन्तु मुखं तेषां पुष्पपत्रादिभेदतः”
इति हलायुधोक्ते २ अर्द्धचन्द्राकारक्षुरप्राद्यस्त्रमुखे च ।

आराज्ञी स्त्री सम्यक् राजते आ + राज--कनिन् ङीप् ।

देशभेदे धूमा० देशवाचित्वात् वुञ् । आराज्ञकः । तद्देश-
भवे त्रि० ।

आरात् अव्य० आ + रा षा० आति । १ दूरे, २ समीपे च ।

आदातुं दयितसिवावगाढ़मारात्” माघः । “तमर्च्यमाराद-
भिवर्त्तमानम्” रघुः “विचित्रमुच्चैः प्लवमानमारात्” भट्टिः

आराति पु० आ + रा--क्तिच् । शत्रौ । द्विरूपकोषः ।

आरातीय त्रि० आराद्भवः जातः आगतो वा वृद्धत्वात् छ

आराच्छब्दवर्जनात् नाव्ययस्य टिलोपः । १ निकट-
दूरयोर्भवे २ तत्र जाते ३ ताभ्यामागते च ।

आरात्रिक न० अरात्र्यापि निर्वृत्तं ठञ् । (आरति) नीराजन-

कर्म्मणि । दीपो हि रात्रावेव प्रदर्श्यते इदं दिनेऽपि
दर्श्यते इति तस्य तथात्वम् “ततश्च मूलमन्त्रेण दत्त्वा पुष्पाञ्ज-
लित्रयम् । महानीराजनं कुर्य्यात् महावाद्यजयस्वनैः ।
प्रज्वालयेत्तदर्थञ्च कर्पूरेण घृतेन वा । आरात्रिकं शुभे
पात्रे विषमानेकवर्त्तिकम्” हरि० विलासे तल्लक्षणादि ।
तस्य देहांशभेदे भ्रामणप्रमाणमपि तत्रोक्तं यथा “आदौ चतुः
पादतले च विष्णोर्द्वौ नाभिदेशे मुखमण्डलैकम् । सर्वेषु
चाङ्गेषु च सप्त वारान् आरात्रिकं भक्तजनस्तु कुर्य्यात्” ।
“शिरसि निहितभारं पात्रमारात्रिकस्य म्रमयति मयि
भूयस्ते कृपार्द्रः कटाक्षः” चतुःषष्ट्युपचारे शङ्करा०

आराधन न० आ + राध--ल्युट् । १ पाके, २ संसिद्धौ णिच्-

ल्युट् । ३ साधने ४ अवाप्तौ ५ तोषणे ६ सेवने तोषणसेवन-
योः संसिद्धिहेतुत्वात् तथात्वम् “साध्वसाराधनमपि
रमणीयमस्याः” शकु० । “आराधनायास्य सखी
समेताम्” कुमा० । आराध्यतेऽनेन णिच्--करणे ल्युट् ।
७ सेवासाधने “इदं तु ते भक्तिनम्रं सतामाराधनं वपुः”
कुमा० । “सर्व्वत्र दैत्याः । समतामुपेत समत्वमाराधन-
मच्युतस्य” भाग० प्रह्लादोक्तिः ।

आराधना स्त्री आ + राध--णिच्--युच् स्त्रीत्वात् टाप् । सेवायाम् ।

आराधनीय त्रि० आराधयितुम् शक्यः आ + राध--णिच्-

शक्यार्थे अनीयर् । आराधनयोग्ये “सोऽहं कथं नाम
तवाचरेयमाराधनीयस्य ऋषेर्विघातम्” रघुः ।

आराधय पु० आ + राध--णिच्--बा० श । आराधनकारके

ब्राह्म० भावादौ ष्यञ् । आराधय्यम् आराधनकर्तृत्वे न० ।

आराधयितृ त्रि० आ + राध--णिच्--तृच् । १ परिचारके ।

२ सेवके “नन्वयमेवाराधयिता जनस्तव समीपे वर्तते” शकु० ।

आराधित त्रि० आ + राध--णिच्--क्त । सेविते । “नाराधितोयैः

पुरुषः प्रधानः तेषां वृथा जन्म नराधमानाम्” भाग० ।

आराम पु० आरम्यतेऽत्र आ + रम--आधारे घञ् । कृत्रिम

वने १ उद्याने “आत्मारामाविहितरतयोनिर्विकल्पे
समाधौ” वेणी० आत्माआरामैव । घञन्तस्य पुंस्त्वानु
शासनात् क्लीवत्वोक्तिः प्रामादिकी । “वाप्यारामतड़ाग-
कूपभवनारम्भप्रतिष्ठाव्रतेत्यादि” मुहू० चि० । “क्षेत्रकूप-
तड़ागानामारामस्य गृहस्य च” “गृहं तड़ागमारामं क्षेत्रं
वा भीषया हरन्” “तड़ागारामदाराणामपत्यस्य
च विक्रयः” इति च मनुः “जलाशयारामसुर-
प्रतिष्ठा सौम्यायने जीवशशाङ्कशुक्रे । ऋक्षे मृदुक्षि-
प्रचरध्रुवे स्यात् पक्षे सिते स्वर्क्षतिथिक्षणे वा रिक्तार-
वर्ज्ये दिवसेऽतिशस्ता” वृत्तर० टी० उक्ते षोड़शभिश्च रगणै-
राराम इत्युक्ते २ दण्डकभेदे च । आ + रम--भावे घञ् ।
३ आरतौ “योऽन्तःसुखोऽन्तरारामः” गीता । अन्त-
रात्मनि आरामोयस्येति विग्रहः “अघायुरिन्द्रिया-
मोमोघं पार्थ! स जीवति” गीता । आरामकरण-
प्रकारः” वृहत् सं० उक्तः यथा “प्रान्तच्छायाविनिर्मुक्ता
न मनोज्ञा जलाशयाः । यस्मादतो जलप्रान्तेष्वारामान्
विनिवेशयेत् । मृद्वी भूः सर्ववृक्षाणां हिता तस्यां तिलान्
वपेत् । पुष्पितांस्तांश्च गृह्णीयात् कर्म्मैतत्प्रथमं भुवि ।
अरिष्टाशोकपुन्नागशिरीषाः सप्रियङ्गवः । मङ्गल्याः
पूर्वमारामे रोपणीया गृहेषु वा । पनसाशोककदली-
जम्बूलकुचदाडिमाः । द्राक्षापालीवताश्चैव वीजपूराति
मुक्तकाः । एते द्रुमाः काण्डरोप्या गोमयेन प्रलेपिताः ।
मूलच्छेदे ऽथवा स्कन्धे रोपणीयाः प्रयत्नतः । अजात-
शाखाञ्छिशिरे जातशाखान् हिमागमे । वर्षागमे च
सुस्कन्धान् यथादिक् प्रतिरोपयेत् । घृतोशीरतिलक्षौद-
विड़ङ्गक्षीरगोमयैः । आमूलस्कन्धलिप्तानां कुङ्कुमेन विरो-
पणम् । शुचिर्भूत्वा तरोः पूजां कृत्वा स्नानानुलेपनैः ।
रोपयेद्रोपितश्चैव पत्रैस्तैरेव जायते । सायं प्रातश्च
पृष्ठ ०८०२
घर्म्मान्ते, शीतकाले दिनान्तरे । वर्षासु च भुवः शोषे
सेक्तव्या रोपिता द्रुमाः । जम्बूवेतसवानीरकदम्बोदुम्ब-
रार्जुनाः । बीजपूरकमृद्वीकालकुचाश्च सदाडिमाः ।
वञ्चुलो नक्तमालश्च तिलकः पनसस्तथा । तिमिरो
ऽम्रातकश्चैव षोडशानूपजाः स्मृताः । उत्तमं विंशति-
र्हस्ता मध्यमं षोडशान्तरम् । स्थानात्, स्थानान्तरं कार्य्यं
वृक्षाणां द्वादशान्तरम् । अभ्यासजातास्तरवः संस्पृशन्तः
परस्परम् । पत्रैर्मूलैश्च न फलं सम्यग्यच्छन्ति पीड़िताः ।
शीतवातातपैरोगो जायते पाण्डुपत्रता । अवृद्धिश्च
प्रवालानां शाखाशोषो रसस्रुतिः । चिकित्सितमथैतेषां
शस्त्रेणादौ विशोधनम् । विड़ङ्गघृतपङ्काक्तान् सेचयेत्
क्षीरवारिणा । फलनाशे कुलत्थैश्च माषैर्मुद्गैस्तिलैर्यवैः ।
शृतशीतपयःसेकः फलपुष्पाभिवृद्धये । अविकाजशकृ-
च्चूर्णस्याढके द्वे तिलाढकम् । सक्तुप्रस्थो जलद्रोणो गोमांसं
तुलया सह । सप्तरात्रोषितैरेतैः सेकः कार्यो वनस्पतेः ।
वल्लीगुल्मलतानां च फलपुष्पाय सर्वदा । वासराणि
दश दुग्धभावितं बीजमाज्ययुतवस्तयोजितम् । गोमयेन
बहुशो विरूक्षितं क्रौड़मार्गपिशितैश्च धूपितम् । मत्स्य-
शूकरवसासमन्वितं रोपितं च परिकर्मितावनौ । क्षीर-
संयुतजलावंसेचितं जायते कुसुमयुक्तमेव तत् । तिन्ति-
डीत्यपि करोति वल्लरीं व्रीहिमाषतिलचूर्ण्णसक्तुभिः ।
पूतिमांससहितैश्च सेचिता धूपिता च सततं हरिद्रया ।
कपित्थतल्लीकरणाय मूलान्यास्फोतधात्रीधवबासकानाम् ।
पलाशिनीवेतससूर्य्यवल्लीश्यामातिमुक्तैः सहिताष्टमूली ।
क्षीरे शृते चाप्यनया सुशीते नालाशताख्यं तु कपित्थ-
बीजम् । दिने दिने शोषितमर्कपाकैर्मासं विधिस्त्वैष
ततो ऽधिरोप्यम् । हस्तायतं तद्द्विगुणं गभीरं खात्वाऽ
वटं प्रोक्तजलावपूर्ण्णम् । शुष्कं प्रदग्धं मधुसर्पिषा तत्
प्रलेपयेद्भस्मसमन्वितेन । चूर्ण्णीकृतैर्माषतिलैर्यवैश्च प्रपूरये-
न्मृत्तिकयान्तरस्थैः । मत्स्यामिषाम्भःसहितं च हन्याद्
यावद्घनत्वं समुपागतं तत् । उप्तं च बीजं चतुरङ्गुलाधो
मत्स्याम्भसा मांसजलैश्च सिक्तम् । वल्ली भवत्याशु
शुभप्रबाला विस्मापनी मण्डपमावृणोति । शतशोऽङ्कोल्लस-
म्भूतफलकल्केन भावितम् । एतत्तैलेन वा वीजं श्लेष्मा-
तकफलेन वा । वापितं करिकोन्मिश्रं मृदि तत्क्षणजन्म-
कम् । फलभारान्विता शाखा भवतीति किमद्भुतम् ।
श्लेष्मातकस्य बोजानि निष्कुलीकृत्य भावयेत्प्राज्ञः ।
अङ्कोल्लहिज्जलाद्भिश्छायायां सप्त कृत्वैवम् । माहिषगोमय-
घृष्टान्यस्य करीषे च तानि निक्षिप्य । करकाजलमृद्योगे
न्युप्तान्यह्ना फलकराणि । ध्रुवमृदुमूलविशाखा गुरुभं
श्रवणस्तथाश्विनी हस्तम् । उक्तानि दिव्यदृग्भिः पादप-
संरोपणे भानि” ।

आरामशीतला स्त्री आरामे तन्मध्ये शीतला । सुगन्धि-

पत्रयुक्ते वृक्षभेदेराजनि० “आरामशीतला तिक्ता शीतला
पित्तहारिणी” वैद्य० ।

आरामिक त्रि० आरामे तद्रक्षणे नियुक्तः ठक् । उद्यानपाले

आराल त्रि० ईषदरालम् प्रा० स० । ईषत्कुटिले तारका०

इतच् । आरालितः ईषत्कुटिलिते त्रि० ।

आरालिक त्रि० अरालं कुटिलं चरति ठक् । १ पाचके

२ कुटिलचारिणि च । धनलोभेन परप्रेरितोहि पाचको-
विषादिसंसृष्टं पचतीति तस्य कुटिलचारित्वम् ।
अतोराज्ञा यथाभूता पाचकानियोज्यास्तद्दर्शितम् सुश्रुते
यथा “रिपवो विक्रमाक्रान्ता ये च स्वेऽकृत्यतां गताः ।
सिसृक्षवः क्रोधविषं विवरं प्राप्य तादृशम् । विषैर्निह-
न्युर्निपुणं नृपतिं दुष्टचेतसः । स्त्रियो वा विविधान्
योगान् कदाचित्सुभगेच्छया । विषकन्योपयोगाद्वा
क्षणाज्जह्यादसून्नरः । तस्माद्वैद्येन सततं विषाद्रक्ष्यो
नराधिपः । यस्माच्च चेतोऽनित्यत्वमश्ववत् प्रथितं नृणाम् ।
न विश्वस्यात्ततो राजा कदाचिदपि कस्यचित् । कुलीनं
धार्म्मिकं स्निग्धं सुभृतं सततोत्थितम् । अलुब्धमशठं
भक्तं कृतज्ञं प्रियदर्शनम् । क्रोधपारुष्यमात्सर्य्य मदालस्य-
विवर्जितम् । जितेन्द्रियं क्षमावन्तं शुचिं शीलदयान्वितम् ।
मेधाविनमसंश्रान्तमनुरक्तं हितैषिणम् । पटुं प्रगल्भं
निपुणं दक्षं मायाविवर्ज्जितम् । पूर्ब्बोक्तैश्च गुणैर्युक्तं नित्यं
सन्निहितागदम् । महानसे प्रयुञ्जीत वैद्यं तद्विद्यपूजि-
तम् । प्रसन्नदिग्देशकृतं शुचिभाण्डं महच्छुचि ।
सजालकं गवाक्षाद्यमात्मवर्गनिषेवितम् । विकक्षसृष्टसंसृष्टं
सवितानं कृतार्च्चनम् । परीक्षितस्त्रीपुरुषं भवेच्चापि
महातसम् । तत्राध्यक्षं नियुञ्चीत प्रायोवैद्यगुणान्वितम् ।
शुचयो दक्षिणा दक्षा विनीताः प्रियदर्शनाः । संविभक्ताः
सुमनसो नीचकेशनखाः स्यिराः । स्नाता दृढ़ं संयमिनः
कृतोष्णीषाः सुसंयताः । तस्य चाज्ञाविधेयाः स्युर्विविधाः
परिकर्म्मिणः । आहारस्थितयश्चापि भवन्ति प्राणिनो
यतः । तस्मान्महानसे वैद्यः प्रमादरहितो भवेत् ।
माहानसिकवोढारः सौपौदनिकपौपिकाः । भवेयुर्वैद्यव-
शगा ये चाप्यन्ये तु केचन । इङ्गितज्ञो मनुष्याणां
पृष्ठ ०८०३
वाक्चेष्टामुखवैकृतैः । विद्याद्विषस्य दातारमेभिर्लिङ्गैश्च बुद्धि-
मान् । न ददात्युत्तरं पृष्टो विवक्षन् मोहमेति च ।
अपार्थं बहु सङ्कीर्णं भाषते चापि मूढवत् । स्फोटयत्य-
ङ्कुलीर्भूमिमकस्माद्विलिखेद्वसेत् । वेपथुर्जायते तस्य त्रस्त-
श्चान्योऽन्यमीक्षते । क्षामो विवर्णवक्त्रश्च नखैः किञ्चि-
च्छिनत्त्यपि । आलभेतासकृद्दीनः करेण च शिरोरुहान् ।
निर्यियासुरपद्वारैर्वीक्षते च पुनः पुनः । वर्त्तते विपरीत-
स्तु विषदाता विचेतनः । केचिद्भयात् पार्थिवस्य त्वरिता
वा तदाज्ञया । असतीमपि सन्तीऽपि चेष्टां कुर्व्वन्ति
मानवाः । तस्मात् परीक्षणं कार्य्यं भृत्यानामादितो
नृपैः । अन्ने पाने दन्तकाष्ठे तथाभ्यङ्गेऽवलेखने । उत्सा-
दने कषाये च परिषेकेऽनुलेपने । स्रक्षु वस्त्रेषु शय्यासु
कवचाभरणेषु च । पादुकापादपीठेषु पृष्ठेषु गजवाजिनाम् ।
विषजुष्टेषु चान्येषु नस्यधूमाञ्जनादिषु । लक्षणानि प्रव-
क्ष्यामि चिकित्सामप्यनन्तरम् । नृपभक्ताद्घलिं न्यस्तं सविषं
भक्षयन्ति ये । तत्रैव ते विनश्यन्ति मक्षिकावायसादयः ।
हुतभुक्तेन चान्नेन भृशं चटचटायते । मयूरकण्ठ-
प्रतिमो जायते चापि दुःसहः । भिन्नार्च्चिस्तीक्ष्णधूमश्च
न चिराच्चोपशाम्यति । चकोरस्याक्षिवैराग्यं जायते
क्षिप्रमेव तु । दृष्ट्वान्नं विषसंसृष्टं म्रियन्ते जीवजीवकाः ।
कोकिलः स्वरवैकृत्यं क्रौञ्चस्तु मदमृच्छति । हृष्येन्मयूर-
उद्विग्नः क्रोशतः शुकसारिके । हंसः क्षेडति चात्यर्थं
भृङ्गराजस्तु कूजति । पृषतो विसृजत्यश्रु विष्ठां मुञ्चति
मर्क्वटः । सन्निकृष्टांस्ततः कुर्य्याद्राज्ञस्तान् मृगपक्षिणः” ।

आराविन् त्रि० आरौति आ + रु--णिनि । सम्यक्शब्दकारके

उच्चैःशब्दकारके स्त्रियां ङीप् ।

आरित्रिक त्रि० अरित्रे भवादि काश्या० ष्ठञ् ञिठ् वा ।

अरित्रभवादौ स्त्रियां ष्ठञि ङीष् ञिठि टाप् ।

आरिन्दमिक त्रि० अरिन्दमे भवादि ष्ठञ् ञिठ् वा ।

अरिन्दमभवादौ स्त्रियां ष्ठञि ङीष् ञिठि टाप् ।

आरिष्मीय त्रि० रिष--हिंसे मन् न० त० अरिष्मः अहिं-

सकः तस्य सन्निकृष्टदेशादौ कृशा० छण् । अहिंसक-
सन्निकृष्टदेशादौ ।

आरीहणक त्रि० अरीहणेन निर्वृत्तं अरीहणादि० वुञ् ।

शत्रुघातकनिर्वृत्ते अरीहणेति गणपाठे निर्द्देशात् दीर्घः ।

आरु पु० ऋ--उण् । १ वृक्षभेदे, २ कर्कटे, ३ शूकरे, च ।

आरुज त्रि० आरुजति आ + रुज--क । १ सम्यक्पीड़के,

२ आभिमुख्येन हन्तरि च “विद्मा हित्वा धनञ्जयमिन्द्र!
दृढ़ा चिदारुजम्” ऋ० ८ ४५, १३ । “आरुजं शत्रूणा-
माभिमुख्येन मङ्क्तारम्” भा० । रावणपक्षीये २ राक्षसभेदे
पु० । “पर्व्वणः पतनोजम्भः खरः क्रोधवशो हरिः ।
प्ररुजश्चारुजश्चैव प्रघसश्चैवमादयः” भा० व० २८४ अ० ।

आरुणक त्रि० अरुणदेशे भवादि धूमा० वुञ् । अरुणदेशभवादौ।

आरुणि पु० अरुणस्यापत्यम् इञ् । १ उद्दालके गौतमे मुनौ “उद्दा-

लकोहारुणिः श्वेतकेतुं पुत्रमुवाच” छा० उ० । २ वैशम्पाय-
नान्तेवासिभेदे । तस्यान्तेवासिनश्च आलम्ब लङ्ग कमल
रुचाभारुणि ताण्ड्यश्यामायन कठ कलापिनोनवेति
बोध्यम् । तेनाधीतं णिनि । ब्राह्मणे तस्य लुक् । आरुणिः ।
३ सामवेदब्राह्मणभेदे आयोदधोम्यशिष्ये ४ मुनिभेदे
आयोदशब्दे उदा० ५ अरुणमुनेरपत्ये पुंस्त्री स्त्रियां ङीप् ।
“यदारुणीषु तावषीरयुग्ध्वम्” ऋ० १, ६४, ७ । अरुण-
स्येदम् इञ् । ६ अरुणसम्बन्धिनि अरुणस्य सूर्य्यस्यापत्यम्
इञ् । ७ अरुणतनये अरुणसुतशब्दोक्ते यमादौ ।
अरुणस्यायमनुजातत्वात् इञ् । अरुणानुजे विनतायाः
८ सुतभेदे । “तार्क्ष्य श्चारिष्टनेमिश्च गरुड़श्च महाबलः ।
अरुणश्चारुणिश्चैव विनतायाः सुताः स्मृताः” हरिवं ० २२६
अ० “अरुणश्चारुणिश्चैव तस्य प्राञ्जलयः स्थिताः” हरिवं०
२६१ अ० । अ रुणस्य गरुड़ाग्रजस्यापत्यम् इञ् । ९
गरुड़ाग्रजस्यापत्ये पुंस्त्री । स्त्रियां ङीप् ।

आरुणिन् पु० ब० व० आरुणिना वैशम्पायनान्तेवासिना

प्रोक्तमधीयते णिनि । वैशम्पायनान्तेवासिविशेषेण
आरुणिना प्रोक्ताध्यायिषु ।

आरुणेय पु० आरुणेरुद्दालस्यापत्यम् ढक् । उद्दालकपुत्रे श्वेत-

केतौ । “उद्दालकोहारुणिः श्वेतकेतुं पुत्रमुवाचेति” छा०
उ० “श्वेतकेतोरुद्दालकपुत्रत्वोक्तेस्तथात्वम्” “श्वेतकेतुरारु-
णेयः कं स्विदेवापरीषु” “श्वेतकेतुरारुणेयोब्रह्मचारी”
“श्वेतकेतुनारुणेयेन” इति च शत० ब्रा० ।

आरुत न० आ + रु--भावे क्त । आरावे “शकुनं वायसा-

रुतम्” शकुनशा० । कर्तरि क्त । २ आरावयुक्ते त्रि० ।

आरुद्ध त्रि० आ + रुध--क्त । प्रतिरुद्धे निरुद्धे वादिना कृतगति

प्रतिरोधे प्रतिवादिनि ।

आरुरुक्षु त्रि० आरोढुमिच्छति आ + रुह--सन्--उ ।

आरोढुमिच्छौ “आरुरुक्षोर्मुनेर्योगः कर्म्म कारणमुच्यते”
गीता “कैलासगौरं वृषमारुरुक्षोः” । “समारुरुक्षुर्दिव-
मायुषः क्षये” इति च रघुः ।
पृष्ठ ०८०४

आरुषी स्त्री मनोः कन्याभेदे च्यवनपत्न्याम् । तत्कथा “तस्मिन्नि-

युक्ते विधिना योगक्षेमाय भार्गवे । अन्यमुत्पादयामास पुत्रं
भृगुरनिन्दितम् । च्यवनं दीप्ततपसं धर्मात्मानं यशस्वि-
नम् । यः सरोषाच्च्युतोगर्भान्मातुर्मोक्षाय भारत! ।
आरुषी तु मनोः कन्या तस्य पत्नी मनीषिणः । और्व्वस्तस्यां
समभवदूरुं भित्त्वा महायशाः” भा० आ० ६६ अ० ।

आरुषीय त्रि० अरुषः व्रणस्य सन्निकृष्टदेशादिः कृशा० छण् ।

व्रणसन्निकृष्टदेशादौ ।

आरुह त्रि० आ + रुह--क । आरोहणकर्त्तरि ।

आरू पु० ऋ--ऊ--णिच्च । १ पिङ्गलवर्ण्णे २ तद्युक्ते त्रि० ।

आरुशब्दार्थे ३ कर्कटशूकरादौ च । ततः संज्ञायां कन् ।
(आडु) हिमाचलप्रसिद्धौषधीभेदे च ।

आरूढ़ त्रि० आ + रुह--कर्त्तरि क्त । १ आरोहणकर्त्तरि

“आरूढो नैष्ठिकं धर्मंयस्तु प्रच्यवते पुनः । प्रायश्चित्तं
न पश्यामि येन शुध्येत् स आत्महा” स्मृतिः “योगा-
रूढस्य तस्यैव शमः कारणमुच्यते” गीता । “अत्यारूढो
हि नारीणामकालज्ञोमनोभवः” रघुः । २ उत्पन्ने
“तदागमारूढगुरुप्रहर्षः” रघुः “आरूढ उत्पन्नः” मल्लि० ।
कमणि क्त । यत्रारोहणं कृतं तस्मिन् ३ कृतारोहणे
प्रासादादौ “आरूढकविताशाखं वन्दे वाल्मीकिकोकिलम्”
रामा० भावे क्त । ४ आरोहणे न० “अत्यारूढं रिपोः
सोढं चन्दनेनेव भोगिनः” रघुः ।

आरूढ़ि स्त्री आ + रुह--क्तिन् । आरोहणे । “अत्यारूढि-

र्भवति महतामप्यपभ्रं शनिष्ठा” शकु० ।

आरेक पु० आ + रिच--घञ् । १ आकुञ्चने २ अतिरेके च ।

आरेचित त्रि० आ + रिच--णिच्--क्त । ईषदाकुञ्जिते “आरे-

चितभ्रूचतुरैः कटाक्षैः” कुमा० ।

आरेवत पु० आरेवयति रेचयति मलं आ + रेव--णिच्--अतच् ।

अत्यन्तसारकफलके (सोन्दाल) १ आरग्बधवृक्षे तस्य
फलम् अण् तस्य णुक् । २ तत्फले न० । तयोर्गुणादि
आरग्बधशब्दे ७९४ पृष्ठे उक्तम् ।

आरोग्य न० अरोगस्य भावः ष्यञ् । रोगशून्यत्वे “आरोग्यं

वित्तसम्पत्तिर्गङ्गास्मरणजं फलम्” प्रा० त० पु० वैश्यं क्षेमं
समागम्य शूद्रमारोग्यमेव च” मनुः । “धर्मार्थकाममो-
क्षाणामारग्यं साधनं यतः” वैद्य० ।

आरोग्यव्रत न० आरोग्यार्थं व्रतम् । वराहपुराणोक्ते

माघशुक्लसप्तमीमारभ्य वत्सरपर्य्यन्तं प्रतिशुक्लसप्तमीतिथि
कर्त्तव्ये सूर्य्यव्रतभेदे । यथा “अतःपरं महाराज!
व्रतमारोग्यसंज्ञितम् । सितायां माघमासस्य सप्तम्यां
समुपोषितः” इत्युपक्रम्य “षष्ठ्याञ्चैव कृताहारः
सप्तम्यामुपवासकृत् । अष्टम्याञ्चैव भुञ्जीत एष एव विधि-
र्मतः । अनेन वत्सरं पूर्णं विधिना योऽर्च्चयेद्रविम् ।
तस्यारोग्यं धनं धान्यमिह जन्मनि जायते” हेमा० ब्र०
वरा० पु० इदमारोग्यसप्तमीव्रतत्वेन तत्रोक्तम् ।

आरोग्यशाला स्त्री आरोग्यार्था शाला शा० त० । चिकित्-

सार्थे राजादिकारिते गृहभेदे तत्करणप्रकारो वैद्यके
उक्तो यथा “धर्मार्थकाममोक्षाणामारोग्यं साधनं यतः ।
अतस्त्वारोग्यदाता च नरो भवति सर्वदः । आरोग्यशालां
कुर्वीत महौषधपरिच्छदाम् । विदग्धवैद्यसंयुक्तां बह्वन्नर-
ससंयुताम् । वैद्यस्तु शास्त्रवित् प्राज्ञो दृष्टौषधपराक्रमः ।
ओषधीमूलतत्त्वज्ञः समुद्धरणकालवित् । बलवीर्य्यविपाकज्ञः
शालिमांसौषधीगणे । त्यागिवद्देहिनां तद्वदनुकूलःप्रियंवदः”

आरोग्यस्नान न० आरोग्ये रोगशून्यत्वे तन्निमित्तकं स्नानम् ।

रोगनिर्मुक्तौ कर्त्तव्ये स्नाने तत्र नक्षत्रादिकमुक्तं ज्यो०
त० । “व्यादित्येषु चरेषु शक्रदिनकृत्पुष्योग्रचन्द्रेषु च
क्रूराहव्यतिपातविष्टिदिवसेष्विन्दावशस्ते तथा । केन्द्र-
स्थेष्वशुभेषु कामतिथिषु स्नानं गदोन्भुक्तितः शस्त्रं तत्र
न शोभनारविभुजङ्गर्क्षेन्दुसद्वासाराः” भुज० भीम० प० ।

आरोधन न० आ + रुध--भावे ल्युट् । १ अवरोधने २ निरोधे

“मध्य आरोधनं दिवः” ऋ० १, १०५, ११ । ल्यु ।
३ आरोधके त्रि० आरुध्यते कर्म्मणि ल्युट् । ४ आरोधनीये ।
करणेल्युट् । ५ आरोधनसाधने “विदुष्टरोदिव आरोधनानि”
ऋ० ४, ७, ८ । “आरोधनानि आरोधनसाधनानि” भा० ।

आरोप पु० आ + रुह--णिच् करणे ल्युट् । अन्यपदार्थे

अन्यधर्म्मस्यावभासरूपे मिथ्याज्ञाने । यस्मिन् यो धर्मोनास्ति
तादृशधर्मस्य तत्र बुद्ध्या अर्पणाद्बुद्धेस्तथात्वम् । यथा शुक्तौ
रजतत्वं तत्तादात्म्यं वा नास्ति बुद्ध्या च तत्र तयोरवगा-
हनेन तद्धर्म्मस्यारोपणं क्रियते इति तस्या आरोपत्वम् ।
तथा च अतद्वति तत्प्रकारकज्ञानमारोपः इति नैयायिकाः
सचाध्यास इति वेदान्तिनः अध्यासे कारणमेव तत्र
कारणम् तच्च अध्यासशब्दे १४० पृष्ठे विवृतम् स च द्विविधः
आहार्यः अनाहार्य्यश्च यत्र बाधनिश्चयसत्त्वेऽपि इच्छया
तथाज्ञानम् स आहार्य्यः । स च इच्छाप्रयोज्य एव इतरबु-
द्धेर्बाधनिश्चयप्रतिबध्यत्वात् । स च प्रत्यक्षैव शाब्दोऽपि यथा
मुखं चन्द्रं इति रूपकयुक्तवाक्यजबोधः तत्र हि मुखे चन्द्र-
त्वाभावनिश्चयेऽपि चन्द्राभेदेन मुखस्य बोधनादाहार्य्यत्वम् ।
पृष्ठ ०८०५
“परोक्षज्ञानमनाहार्य्यं निश्चयश्चेति सिद्धान्त” इति
प्रवादस्तु शाब्दबोधातिरिक्तपरः । एतदभिप्रायेणैव “रूपकं
रूपितारोपादित्यादिकं रूपकलक्षणम्” सारोपात्मकलक्षणा-
भेदकथनञ्च सा० दर्पणोक्तं वेदितव्यम् यथा । “विषयस्या-
निगीर्णस्यान्यतादात्म्यप्रतीतिकृत् सारोपा स्यात्” इति
सा० द० । “विषयस्यारोप्यस्य अनिगीर्ण्णस्य स्फुटतया
प्रतिभासमानस्यान्यतादात्म्यस्याभेदस्य प्रतीतिजनकत्वेन
लक्षणायाः सारोपात्वम् । “आरोपे सति निमित्तानुसरणं
न तु निमित्तमस्तीत्यारोपः इति” चिन्ता० । “एवं वस्तुन्य-
वस्त्वारोपः इति” वेदान्तसारः ।

आरोपक पु० आ + रुह--णिच्--ण्वुल् । वृक्षादीनां वापके

“गृहसंवेशकोदूतो वृक्षारोपक एव च” मनुः ।

आरोपण पु० आ + रुह--णिच्--ल्युट् । १ आरोपशब्दार्थे

२ आरोहणसम्पादने च । “आर्द्राक्षतारोपणमन्वभूताम्”
कुमा० रघुश्च ।

आरोपित त्रि० आ + रुह--णिच्--क्त । यस्यारोहण

कारितं १ तादृशे पदार्थे । “आरोपितं यद् गिरिशेन
पश्चात्” “तं देशमारोपितपुष्पचापः” इति च कुमा०
२ आसञ्जिते च । “आरोपितपर्याणञ्च त्वरिततुरग-
परिचारकोपनीतमिन्द्रायुधम्” काद० ।

आरोपणीय त्रि० आ + रुह--णिच्--अनीयर् । आरोपार्हे आरोप्ये वस्तुनि

आरोप्य त्रि० आ + रुह--णिच्--कर्मणि यत् । १ आरोपणीये

यथा मुखं चन्द्र इत्यादौ मुखे चन्द्रत्वमारोप्यम् । २ अध्यास-
विषये च इयांस्तु भेदः आरोप्यसन्निकृष्टस्थाने अन्यथा-
ख्यातिः यथा जवासन्निकृष्टे स्फटिकादौ लोहित्यस्य
भ्रान्तिः तदसन्निकृष्टस्थले तु अध्यासः असत्ख्यातिरेव यथा
इदं रजतमित्यादौ वेदान्तिनः । वे० प० विवरणं दृश्यम् ।
नैयाकास्तु उभयत्रान्यथाख्यातिः ।

आरोह पु० आ + रुह--घञ् । १ आक्रभणे २ नीचस्थानादूर्द्ध-

देशगमने ३ अङ्कुरादिप्रादुर्भावे शब्दच० ४ गजवाजिना
मुपरिगमने ५ दीर्घत्वे ६ उच्चत्वे च ७ नितम्बे ।
“वरारोहा मत्तकाशिन्युत्तमा वरवर्ण्णिनी” इत्यमरः
“सारमानवरारोहा” उद्भटः । “आरोहैर्निविड़वृहन्नित-
म्बविम्बैः” माघः ।

आरोहक त्रि० आ + रुह--ण्वुल् । आरोहण कर्त्तरि ।

आरोहण न० आ + रुह--ल्युट् । १ नीचस्थानादूर्द्धस्थानगमने

“आरोहणार्थं नवयौवनेन कामस्य सोपानमिव प्रयुक्तम्”
कुमा० ३ अङ्कुरादिप्रादुर्भावे च आरुह्यतेऽनेन करणे ल्युट् ।
सोपाने च “आरोहणं स्यात् सोपानम्” अमरः ।

आरोहणीय त्रि० । आरोहणं प्रयोजनमस्य अनुप्र० छ ।

१ आरोहणसाधने पदार्थे । आ + रुह--कर्मणि अनीयर् ।
आरोढुं योग्ये २ हयादौ ।

आरोहवत् त्रि० आरोहोविशिष्टनितम्बस्थानमस्त्यस्य मतुप्

पक्षे इनि । प्रशस्तनितम्बयुक्ते स्त्रियां ङीप् ।

आरोहिन् त्रि० आ + रुह--णिनि । १ आरोहणकर्त्तरि नीचा-

दूर्द्धस्थानगामिनि स्त्रियां ङीप् । सा च ग्रहाणां १ नक्षत्र
दशाभेदे । सा च अवरोहिशब्दे ४४३ पृष्ठे लक्षितलक्षणा ।
ग्रहविशेषाणामारोहिण्याः दशायाः फलमुक्तं सर्व्वा०
चि० यथा ।
  • सूर्य्यस्य “आरोहिणी वासरनायकस्य दशा महत्त्वं कुरुते च
सौख्यम् । परोपकारं सुतदारभूमिं गोवाजिमातङ्गकृषि-
क्रियादीन्” ।
  • चन्द्रस्य “आरोहिणी चन्द्रदशा प्रपन्ना स्त्रीपुत्रवित्ताम्बरसौख्य-
कान्तिम् । करोति राज्यं सुखभोजनञ्च देवार्चमं भूसुर
तर्पणञ्च” ।
  • कुजस्य “आरोहिणी भूमिमुतस्य सौख्यं दशा तनोत्यत्र नरेशपूजाम्
प्रधानतां धैर्य्यमनोभिलाषं भाग्योत्तरं गोगजवाजिसंघम्”
  • बुधस्य “आरोहिणी सौम्यदशा प्रपन्ना यज्ञोत्सवं गोवृषवाजि
संघम् । मृद्वन्नभूषाम्बरपानलाभं बाणिज्यभूम्यर्थपरोपकारम्”
  • गुरोः “आरोहिणी देवगुरोर्महत्त्वं दशा प्रपन्ना कुरुतेऽर्थभूमिम्
गानक्रिंयास्त्रीसुतराजपूजां स्ववीर्य्यतः प्राप्तयशःप्रतापम्” ।
  • शुक्रस्य “आरोहिणी शुक्रदशा प्रपन्ना धामाम्बरालङ्कृतिकान्ति-
पूजाम् । प्रवृत्तिसिद्धिं स्वजनैर्विरोधं मातुर्दिनाशं
परदारसङ्गम्” । कुरुते इत्यनुषङ्गः सर्व्वत्र ।
  • शनेः “आरोहिणी वासरनाथसूनीर्दशा विपाके नृपलब्धभाग्यम् ।
बाणिज्यलाभं कृषिभूमिलाभं गोवाजिलाभं सुतदारलाभम्” ।

आर्कलूष पु० अर्कलूषस्य ऋषिभेदस्यापत्यम् विदा० अञ् ।

अर्कलूषापत्ये स्त्रियां ङीप् । ततोयूनि अपत्ये हरिता०
फञ् । आर्कलूषायणः । तदृषेर्यून्यपत्ये ।

आर्कलूषि पुंस्त्री अर्कलूषस्यापत्यं बाह्वा० इञ् । अर्कलूषर्षेरपत्ये ।

आर्कायण त्रि० अर्कस्य गोत्रम् हरिता० फञ् । अर्कस्य

१ गोत्रे । ततः चतुरर्थ्यां अश्वा० फिञ् । आर्कायणिः
तत्सन्निकृष्टदेशादौ० त्रि० अर्कस्यायनाय सूर्य्यलोकस्य प्राप्तये
हितम् अण् पूर्ब्बपदादिति णत्वम् । सूर्यलोकगतिसाधने
२ यज्ञादौ । “आर्कायणैः षोड़शभिश्च ब्रह्मंस्तेषां फलेनेह
च नागतोऽस्मि” भा० आनु० १०४ अ० ।
पृष्ठ ०८०६

आर्कि पु० अर्कस्यापत्यम् इञ् । अर्कपुत्रे १ यमे २ शनौ,

३ वैवस्वतमनौ ४ सुग्रीवे ५ कर्ण्णे च अर्कसुतशब्दे तत्सुतत्वकथा ।

आर्क्षोद पु० ऋक्षोदः पर्व्वतोऽभिजनोऽस्य अण् । ऋक्षोद-

पर्व्वतस्थाने पित्रादिक्रमेण वासिनि द्विजभेदे सि० कौ० ।

आर्क्ष त्रि० ऋक्षस्येदम् अण् । नाक्षत्रदिनादौ स्त्रियां ङीप् ।

आर्क्ष्य त्रि० ऋक्षे भवः गर्गा० यञ् । नक्षत्रभवे स्त्रियान्तु

लोहिता० ष्फः षित्वात् गौरा० ङीष् । आर्क्ष्यायणी

आर्गय(ण)न त्रि० ऋगयनस्य व्याख्यानोग्रन्थः तत्र भवो वा

अण् गिरिनद्या० वा णत्वम् । १ ऋगयनव्याख्याने
ग्रन्थे २ तत्रभवे च ।

आर्गल स्त्री० न० अर्गलमेव स्वार्थे अण् स्त्रीत्वे ङीप् । अर्गल

शब्दार्थे द्वाररोधककाष्ठभेदे द्विरूपकोषः ।

आर्गबध पु० आरग्बध + पृषो० । आरग्बधवृक्षे (सोन्दाल) शब्दच० ।

आर्घा स्त्री आ + अर्घ--अच् । पीतवर्ण्णायां दीर्घतुण्डायां

षट्पदाभायां मधुमक्षिकायाम् राजनि० आर्घ्यशब्दे विवृतिः ।

आर्घ्य न० आर्घया निर्वृत्तं यत् । १ आर्घाख्यमक्षिका-

निष्पादिते २ जरत्कार्य्याश्रममधूकवृक्षनिर्य्यासरूपे
च मधुनि । तद्विवृतिः भाव० प्र० “मधूकवृक्षानिर्य्यासं जरत्-
कार्य्याश्रमोद्भवाः । स्रवन्त्यार्घ्यं तदाख्यातं श्वेतकं मालवे
पुनः । तीक्ष्णतुण्डास्तुयाः पीता मक्षिकाः षट्पदोपमाः ।
आर्घास्तास्तत्कृतं यत् स्यादांर्घ्यमित्यपरे जगुः । आर्घ्यं
मध्वतिचाक्षुष्यं कफपित्तहरं परम् । कषायकटुकं पाके
तिक्तञ्च बलपुष्टिदम्” ।

आर्च त्रि० अर्चाऽस्त्यस्य श्रद्धार्चाभ्योणः” पा० ण । अर्चायुक्ते

आर्चभिन् पु० ब० व० ऋचाभेन वैशम्पायनान्तेवासिभेदेन प्रोक्त-

मधीयते णिनि । ऋचाभेन प्रोक्ताध्यायिषु । “कार्त्त-
कौजपादि० आर्चाभिनोमौद्गला इत्यत्र पूर्व्वपद-
प्रकृतिस्वरत्वम् ।

आर्चायण त्रि० ऋचिभवः नडा० फक् । ऋचिभवे सामादौ ।

आर्चिक त्रि० ऋचि भवः ऋचो व्याख्यानो ग्रन्थो वा ठञ् ।

ऋचिभवे १ सामभेदे २ तद्ग्रन्थभेदे च तत्र हि ऋचि योनौ
तत्तत् साम गीतमिति तस्य तथात्वम् यथा आर्चिकः
उत्तरार्चिकः एष च सामवेदग्रन्थभेदः । ३ तद्व्याख्याने
ग्रन्थे च ।

आर्चीक त्रि० ऋचीके पर्व्वते भवः अण् । १ ऋचीकपर्व्वतभवे

स्वार्थे अण् । २ तत्पर्व्वते च । स च पर्व्वतः पुष्करतीर्थ
सन्निकृष्टः यथोक्तं भा० व० १२५ अ० ।
“पुष्करेषु महाराज! सर्व्वेषु च जलं स्फृश । स्थाणो र्मन्त्रा-
णिचजपन सिद्धि प्राप्स्यसि भारत! । सन्धिर्द्वयोर्नरश्रेष्ठ
त्रेताया द्वापरस्य च । अयं हि दृश्यते पार्थ! सर्व्वपाप
प्रणाशनः । अत्रोपस्प श चैव त्वं सर्व्वपापप्रणाशने ।
आर्च्चीकः पर्व्वतश्चैष निवासोऽत्र मनीषिणः । सदाफलः
सदास्रोतो मरुतां स्थानमुत्तमम । चैत्याश्चैते बहुविधास्त्रिद-
शानां युधिष्ठिर! । एतच्चन्द्रमसस्तीर्थमृषयः । पर्युपासते ।
वैखानसा बालखिल्याः पावका वायुभोजनाः । शृङ्गाणि
त्रीणि पुण्यानि त्रीणि प्रस्रवणानि च । सर्व्वाण्यनु
परिक्रम्य यथाकाममुपस्पृश । शान्तनुश्चात्र राजेन्द्रः
शुनकश्च नराधिपः । नरनारायणौ चोभौ स्थानं प्राप्ताः
सनातनम् । इह नित्यशया देवाः पितरश्च महर्षिभिः
आर्च्चीकपर्व्वते तेपुस्तान् यजस्व युधिष्ठिर! । इह ते वै
चरून् प्राश्नन्नृषयश्च विशाम्पते! । यमुना चाक्षयस्रोताः
कृष्णश्चेहं तपोरतः । यमौ च भीमसेनश्च कृष्णा चामित्र
कर्षण! । सर्व्वे चात्र गमिष्यामस्त्वयैव सह पाण्डव! । एतत्
प्रस्रवणं पुण्यमिन्द्रस्य मनुजेश्वर! । यत्र धाता विधाता
च वरुणश्चोर्द्ध्वमागताः । इहतेऽप्यवसन् राजन्! क्षान्ताः
परमधर्म्मिणः । मैत्राणामृजुबुद्धीनामयं गिरिवरः शुभः ।
एषा सा यमुना राजन्! महर्षिगणसेविता । नाना-
यज्ञचिता राजन्! पुण्या पापभयापहा”

आर्जव न० ऋजोर्भावः अण् । १ सरलतायां “दूरं यात्युदरञ्च

रोमलतिका नेत्रार्जवं धावति” सा० द० २ परप्रतारणाराहित्ये
सारल्यं च दैहिकं मानसञ्च । तत्र दैहिकं कुटिलसंयोग-
राहित्यम् । मानसञ्च बाह्याभ्यन्तरे विहितनिषिद्धयो
रेकरूपप्रवृत्तिनिवृत्तिमत्त्वम् बाह्ये यथा प्रवृत्तिनिवृत्ती
अन्तरेऽपि तथैव न पुनः अन्तरस्थं भावमप्रकाश्य बाह्ये
अन्यथापादनम् । तथा स्वाधिगतार्थागोपनेन यथाज्ञा-
तार्थप्रकाशनञ्च मानसं सारल्यं वाचिकमार्जवमपि
मनोधीनत्वात् मानसमेव आर्ज्जवं च समचित्तत्वेन लक्षि-
तम् । आ० त० भारतवाक्येन । “क्षमा द्वन्द्वसहिष्णुत्व-
मार्जवं समचित्तता” । आर्जवञ्च महत्त्वसम्पादकोगुण-
विशेषः यथोक्तं भा० १ प्र० १६ अ० “सत्यं शौचं
दया क्षान्तिस्त्यागः सन्तोषआर्ज्जवम् । शमोदमस्तपः साम्यं
तितिक्षोपरतिः सुतम् । ज्ञानं विरक्तिरैश्वर्य्यं शौर्य्यं
तेजोबलं स्मृतिः । स्वातन्त्र्यं कौशलं कान्तिर्धैर्य्यं
मार्द्दवमेव च । प्रागल्भ्यं प्रश्रयः शीलं सहओजोबलं भगः ।
गाम्भीर्य्यं स्थैर्य्यमास्तिक्यंकीर्त्तिर्मानोऽनहङ्कृतिः । एते चान्ये
च भगवन्नित्या यत्र महागुणाः । प्रार्थ्यामहत्त्वमिच्छद्भिः”
पृष्ठ ०८०७
एतच्च ज्ञानसाधनं यथोक्तं गीतायाम् “अमानित्वमद-
म्भित्वमहिंसा क्षान्तिरार्जवम् । आचार्य्योपासनं शौचं
स्थैर्य्यमात्मविनिग्रहः । इन्द्रियार्थेषु वैराग्यतनहङ्कार
एव च । जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम् ।
असक्तिरनभिष्वङ्गः पुत्रदारगृहादिषु । नित्यं च
समचित्तत्वमिष्टानिष्टोपपत्तिषु । मयि चानन्ययोगेन भक्तिर-
व्यभिचारिणी । विविक्तदेशसेवित्वमरतिर्जनसंसदि ।
अध्यात्मज्ञाननिष्ठत्वं तत्त्वज्ञानार्थदर्शनम् । एतज्ज्ञान-
मिति प्रोक्तम्” ज्ञानं ज्ञायतेऽनेनेति व्युत्पत्तेर्ज्ञानसाधन-
मित्यर्थः स्वार्थे अण् । ३ सरलेऽपि । “सर्वं जिह्मं मृत्यु-
पदमार्जवं ब्रह्मणः पदम्” “किं व्याजेनार्जवे जने” रामा० ।

आर्जीक त्रि० ऋजीकस्येदम् अण् । ऋजीकदेशसम्बन्धिनि

“सुषोमे शर्य्यणावत्यार्जीके” ऋ० ८, ७, २९ । “ऋजीकोदेश-
भेदस्तत्सम्बन्धिनि” भा० ।

आर्ज्जुनायान पुंस्त्री० अर्ज्जुनस्य गोत्रापत्यम् अश्वा० फञ् ।

अर्ज्जुनगोत्रापत्ये स्त्रियां टाप् । तस्य विषयोदेशः ।
राजन्या० वुञ् । आर्ज्जुनायनकः । तद्विषये देशे ।

आर्ज्जुनावक त्रि० अर्ज्जुनवे देशे भवः धूमा० वुञ् । अर्जु-

नावनामदेशभवे ।

आर्ज्जुनि पु० अर्ज्जुनस्यापत्यं बाह्वा० इञ् । अर्ज्जुनापत्ये

अभिमन्यौ । तदुत्पत्तिकथा “ततः सुभद्रा सौभद्रं केशवस्य
प्रिया स्वसा । जयन्तमिव पौलोमी ख्यातिमन्तमजीजनत् ।
दीर्घबाहुं महोरस्कं वृषभाक्षमरिन्दमम् । सुभद्रा सुषुवे
बीरमभिमन्युं नरर्षभम् । अभीश्च मन्युमांश्चैव ततस्तमरि-
मर्द्दनम् । अभिमन्युमिति प्राहुरार्ज्जुनिं पुरुषर्षभम्” भा०
आ० प० २२१ अ० । स च वर्चोनामसोमपुत्रस्यावतारः
यथोक्तं भा० आ० ६७ अ० । “यस्तु वर्च्चा इति ख्यातः
सोमपुत्रः प्रतापवान् । सोऽभिमन्युर्वृहत्कीर्त्तिरर्ज्जुनस्य
सुतोऽभवत् । यस्यावतरणेराजन्! सुरान् सोमोऽब्रवीदिदम् ।
नाहं दद्याम्प्रियं पुत्रं मम प्राणैर्गरीयसम् । समयः क्रियता
मेष न शक्यमतिवर्त्तितुम् । सुरकार्य्यं हि नः कार्य्यमसु-
राणां क्षितौ बधः । तत्र यास्यत्ययं वर्च्चा न च स्थास्यति
वै चिरम् । ऐन्द्रिर्न्नरस्तु भविता यस्य नारायणः सखा ।
सोऽर्ज्जुनेत्यभिविख्यातो पाण्डोः पुत्त्रः प्रतापवान् ।
तस्यायं भविता पुत्रो बालोभुवि महारथः । ततः षोड़श-
वर्षाणि स्थास्यत्यमरसत्तमाः! । अस्य षोड़शवर्षस्य स संग्रामो
भविष्यति । यत्रांशा वः करिष्यन्ति कर्म वीरनिसूदनम् ।
नरनारायणाभ्यां तु स संग्रामो विना कृतः । चक्रव्यूहं
समास्थाय योधयिष्यन्ति वः सुराः! । विमुखाञ्छात्रवान्
सर्वान् कारयिष्यति मे सुतः । बालः प्रविश्य च व्यूहमभेद्यं
विचरिष्यति । महारथानां वीराणां कदनञ्च करिष्यति ।
सर्व्वेषामेव शत्रूणां चतुर्थांशं नयिष्यति । दिनार्द्धेन
महाबाहुः प्रेतराजपुरं प्रति । ततो महारथैर्व्वीरैः समेत्य
बहुशोरणे । दिनक्षये महाबाहुर्मया भूयः समेष्यति ।
एकं वंशकरं पुत्त्रं वीरं वै जनयिष्यति । प्रनष्टं भारतं वंशं
स भूयोधारयिष्यति । एतत् सोमवचः श्रुत्वा तथाऽस्त्विति
दिवौकसः । प्रत्यूचुः सहिताः सर्व्वे ताराधिपमपूजयन् ।
एवं ते कथितं राजंस्तव जन्म पितुः पितुः” अभिमन्यु-
शब्देऽस्य युद्धचर्य्या २९५ पृष्ठे उक्ता ।

आर्ज्जुनेय पु० अर्ज्जुन्या अपत्यं ढक् । अर्ज्जुनीपुत्रे “कौत्से

ऋषौ “अहं कुत्समार्ज्जुनेयं न्यृञ्जेऽहम्” ऋ० ४, २६, १
“आर्जुनेयमर्जुन्याः पुत्रं कुत्सम्” भा० । आर्जुनी च गाभीः
कुत्सस्य गाभ्या प्रतिपालितत्वेन तत्पुत्रत्वात् तथात्वम् ।

आर्त्त त्रि० आ + ऋ--क्त । १ पीड़िते, २ दुःखिते, ३ असुस्थे च ।

अप्राप्तलिङ्गसंज्ञकस्यैव धातोर्वृद्धिं वदन् दुर्गादासः अर्त्तप-
दसिद्धिं कर्त्तुमशक्नुवन् प्रत्याख्येयः । आर्त्तरवः आर्तनादः
इत्यादि । “द्वेष्योऽपि सम्मतः शिष्टस्तस्यार्त्तस्य यथौषधम्”
“तुमुलेनार्त्तरवेण वेजिताः” । “बलमार्त्तभयोपशान्तये”
“तदीयमाक्रन्दितमार्त्तसाधोः” । “राजापि यद्वियोगार्त्तः”
“अभिपेदे निदाघार्त्ता” इति च रघुः । “न दुर्वहश्रोणिपयोध-
रार्त्ता” कुमा० “विदितवात्तावार्त्तौ” दश० अत्र विदित
वार्त्तौ आर्त्तौ इत्येव च्छेदः साधुः तद्व्याख्यानेऽस्माभिर्य-
दन्यथाच्छेदमभिप्रेत्य व्याख्यातं न तत् साधु । “नार्त्तोऽप्य-
पवदेद्विप्रान्” मनुः । “सुस्थेनार्त्तेन वा दत्तं श्रावितं धर्म-
कारणात्” शु० त० स्मृतिः “आर्त्तार्त्तेमुदिता हृष्टे प्रवासे
मलिना कृशाः” शु० त० स्क० पु० “आर्त्तिर्नाशोऽ-
स्त्यस्य अच्” । ४ विनाशिनि “अतोन्यदार्त्तम्” वृह० उ० ।
“अतएतस्माद् ब्रह्मणोऽशनायाद्यतीतात्मस्वरूपान्नित्यतृ-
प्ताद्यदन्यदविद्याविषयमेषणालक्षणं वस्त्वन्तरम् तद् आर्त्तं
विनाशि, आर्तिपरिगृहीतम्” शाङ्क० भा० ।

आर्त्तगल पु० आर्त्त इव गलति गल--अच् । नीलझिण्ट्याम्

आर्त्तपर्ण्णि पु० ऋतपर्णस्यापत्यम् इञ् । ऋतपर्ण्णनृपस्यापत्ये

सुदासे सूर्य्यवंश्ये नृपभेदे । “भगीरथसुतो राजाश्रुत इत्य-
भिविश्रुतः । नाभागस्तु श्रुतस्यासीत् पुत्रः परमधार्मिकः ।
अम्बरीषस्तु नाभागिः सिन्धुद्वीपपिताऽभवत् । अयुताजित्तु
दायादः सिन्धुद्वीपस्य वीर्य्यवान् । अयुताजित्सुतादा-
पृष्ठ ०८०८
सीदृतपर्ण्णो महायशाः । दिव्याक्षहृदयज्ञोवै राजा नलसखो
बली । ऋतपर्ण्णस्य तस्यासीदार्त्तपणिर्महीपतिः । सुदास-
स्तस्य तनयो राजा इन्द्रसखोऽभवत्” हतिवंशे १५ अ०

आर्त्तभाग पुंस्त्री ऋतभागस्य ऋषेर्गोत्रापत्यम् विदा० अञ् ।

ऋतभागर्षेर्गोत्रापत्ये । स्त्रियां ङीप् ।

आर्त्तव त्रि० ऋतुरस्य प्राप्तः अण् । ऋतुभवे १ पुष्पादौ “आर्त-

वान्युपभुञ्जना पुष्पाणि च फलानि च” रामा० “स्वयमङ्गेषु
ममेदमार्त्तवम्” कुमा० स्त्रियां ङीप् । “अभिभूय विभूति-
मार्त्तवीम्” रघुः । ऋतुर्मासद्वयात्मकः हेमन्तादिः कालः
“ऋतुः स्वाभाविकः स्त्रीणां रात्रयः षोड़श स्मृताः” इति
मनूक्तः स्त्रीणां मध्यस्थशोणितदर्शनयोग्यः षोड़श
रात्रिकः कालश्च । स कालोयस्य प्राप्तः तादृशे स्त्रीणां
२ रजसि च । “नोपगच्छेत् प्रमत्तोऽपि स्त्रियमार्त्तवदर्शने” ।
तस्मात् युग्मासु पुत्रार्थी संविशेदार्त्तवे स्त्रियम्” मनुः ।
स्त्रीणामार्त्तवं (शोणितविशेषः) पुंसः शुक्रमिव मासेन रस
पाकेन जायते यथोक्तं सुश्रुते । “एवं मासेन रसः शुक्री-
भवति स्त्रीणामार्त्तवम्” । यथा च रसस्य पाकस्तयाऽसृक्-
शब्दे ४६२ पृष्ठे उक्तम् । बाल्येतस्य सत्त्वेऽपि बालस्य शुक्रप्रा-
दुर्भावाभाववत् न तस्यामवस्थायामभिव्यक्तिर्यथोक्तं सुश्रुते
“यथा हि पुष्पमुकुलस्थोगन्धोन शक्यमिहास्तीति वक्तुं नैव
नास्तीत्यथवास्ति सतां भावानामभिव्यक्तिरिति कृत्वा केवलं
सौक्ष्म्यान्नाभिव्यज्यते स एव गन्धो विवृतपत्रकेशरैः
कालान्तरेणाभिव्यक्तिं गच्छत्येवं बालानामपि वयःपरि-
णामात् शुक्रप्रादुर्भावो भवति रोमराज्यादयोऽथार्त्तवाद-
यश्च विशेषा नारीणां रजसि चोपचीयमाने शनैः शनैः
स्तनगर्भाशययोन्यभिवृद्धिः”
“तदभिव्यक्तिकालादिकं तद्दर्शने दम्पत्योरितिकर्त्तव्य-
तासहितम्” भाव० प्र० दर्शितं यथा ।
“द्वादशाद्वत्सरादूर्द्ध्वमापञ्चाशत्समं स्त्रियः । मासि मासि
भगद्वारा प्रकृत्यैवार्त्तवं स्रवेत् । आर्त्तवस्रावदिवसादृतुं
षोडश रात्रयः । गर्भग्रहणयोग्यस्तु सएव समयः
स्मृतः । सर्वेषामेव वर्णानां स्त्रीणां सर्वादिसंमतः” । स एव
पूर्ब्बोक्तः समयः । ग्रन्थान्तरे वर्णभेदात् विशेषः । तद्यथा “स्ना-
दिवसादूर्द्ध्वं द्वादशरात्रावधिर्ब्राह्मण्याः दशरात्रावधिः
क्षत्रियायाः । अष्टरात्रावधिर्वैश्यायाः षड्रात्रावधिः शुद्रायाः
गर्भधारणशक्ति” । अथ स्त्रीणां नियममाह “आर्त्तवस्राव
दिवसात् त्र्यह सा ब्रह्मचारिणी । शयीत दर्भशय्यायां
पश्येदपि पतिं न च । करे शरावे पर्णे वा हविष्यं त्र्यह-
माचरेत् । अस्रुपातं नखच्छेदमभ्यङ्गमनुलेपनम् । नेत्र-
योरञ्जनं स्नानं दिवास्वापं प्रधावनम् । अत्युच्चशब्दश्रवणं
हसनं बहुभाषणम् । आयासं भूमिस्वननं प्रवातं च
विवर्जयेत् । एतस्यानियमाकरणे दोषमाह । “अज्ञानाद्वा
प्रमादाद्वा लौल्याद्वा दैवतश्च वा । सा चेत् कुर्य्यान्निषि-
द्वानि गर्भोदोषांस्तदाप्नुयात् । एतस्यारोदनाद्गर्भो भवेद्वि-
कृतलोचनः । नखच्छेदेन कुनखी कुष्ठी त्वभ्यङ्गतो भवेत् ।
अनुलेपात्तथास्नानाद्दुःखशीलोऽञ्जनाददृक् । स्वापशीलो
दिवास्वापात् चञ्चलःस्यात्प्रधावनात् । अत्युच्चशब्दश्रवणा-
द्वधिरः खलु जायते । तालुदन्तौष्ठजिह्वासु श्यावो
हसनतो भवेत् । प्रलापी भूरिकथनादुन्मत्तस्तु परिश्रमात् ।
खलतिर्भूमिखननादुन्मत्तो वातसेवनात् । अथ रजस्वला-
कृत्यम् “ततश्चतुर्थे दिवसे स्नाता सद्वसनादिभिः । भूषिता
सुमनाःपश्येद्भर्त्तारं समलङ्कृतम् । पूर्व्वं पश्येदृतुस्नाता यादृशं
नरमङ्गना । तादृशं जनयेतपुत्रं ततः पश्येत्पतिं प्रियम् ।
प्रियमिति भर्त्तर्य्यनासन्ने पुत्रादिकमपि पश्येत् । चतुर्थ-
दिवसेऽपि रजोनिवृत्तौ स्त्री पत्या सङ्गच्छेत न तु
रजोऽनुवृत्तौ यत आह । “प्रवहत्सलिले क्षिप्तं द्रव्यं गच्छ-
त्यधो यथा । तथा वहति रक्ते तु क्षिप्तं वीर्य्यमधोव्रजेत् ।
अथ भर्तृकृत्यम् । अथ गर्भाधाने निषिद्धं विहितञ्च कालं
तयोः फलञ्चाह । “आयुःक्षयभयाद्भर्त्ता प्रथमे दिवसे
तथा । द्वितीयेऽपि दिने भर्त्ता त्यजेदृतुमतीं स्त्रियम् । तत्र
यश्चाहितो गर्भो जायमानो न जीवति । आहितो
यस्तृतीयेऽह्नि स्वल्पायुर्विकलाङ्गकः । अतश्चतुर्थी षष्ठी
स्यादष्टमी दशमी तथा । द्वादशी चापि या रात्रिस्तस्यां तां
विधिना भजेत् । विधिना गर्भाधानविधिना । अत्रो-
त्तरोत्तरं विद्यादायुदारोग्यमेव च । प्रजाः सौभाग्यमै-
श्वर्य्यं बलं चाभिगमात् फलम् । युग्मायुग्मरात्रीणां
फलमाह । “युग्मासु पुत्रा जायन्ते स्त्रियोऽयुग्मासु रात्रिषु” ।
तत्र दम्पत्योः संभोगे यादृक् पुमान् युक्तस्तादृगुच्यते “स्नात-
श्चन्दनलिप्ताङ्गः सुगन्धसुमनोऽञ्चितः । भुक्तवृष्यःसुवसनः
सुवेषः समलङ्कृतः । ताम्बूलवदनस्तस्यामनुरक्तोऽधिकस्मरः, ।
पुत्रार्थी पुरुषो नारीमुपेयाच्छयने शुभे” । तत्रायोग्यं
पुरुषमाह “अत्याशितोऽधृतिः क्षुद्वान् सव्यथाङ्गः पिपा-
सितः । बालो वृद्धोऽन्यवेगार्त्तस्त्यजेद्रोगी च मैथुनम् । तत्र
स्त्री यादृशी योग्या तादृश्युच्यते । “पुरुषस्य गुणैर्युक्ता
विहितन्यूनभोजना । नारी ऋतुमती पुंसा सङ्गच्छेत
सुतार्थिनी । तत्रायोग्यां स्त्रियमाह । “रजस्वला व्याथि-
पृष्ठ ०८०९
मती विशेषाद्योनिरोगिणी । वयोऽधिका च निष्कामा
मलिना गर्भिणी तथा । एतासां सङ्गमात् पुंसांवैगुण्यानि
भवन्ति हि” तत्र रजस्वला दिनत्रयं यावदृतौ निषिद्धा यत
उक्तम् । “प्रथमेऽहनि चाण्डाली द्वितीये ब्रह्मघातिनी ।
तृतीये रजकी पुंसा यथा वर्ज्या तथाङ्गना । व्याधिमती
वज्या तत्र स्त्रीणां व्याधयः । प्रदरादयः तद्युक्ता निषिद्धा
तत्रापि विशेषाद्योनिरोगिणी” भावप्रकाशः ।
आर्त्तवदोषाश्च सचित्साः सुश्रुते दर्शिता यथा ।
“आर्त्तवमपि त्रिभिर्दोषैः शोण्णितचतुर्थैः पृथग्द्वन्द्वैः समस्तै-
र्वोपसृष्टमवीजं भवति तदपि दोषवर्णवेदनादिभिर्विज्ञेयम् ।
तेषु कुणपग्रन्थिपूतिपूयक्षीणमूत्रपुरीषप्रकाशमसाध्यं साध्य-
मन्यद्भवति । भवन्ति चात्र । तेष्वाद्यान् शुक्रदोषांस्त्रीन्
स्नेहस्वेदादिभिर्जयेत् । क्रियाविशेषैर्मतिमांस्तथा चोत्तरव-
स्तिभिः । पाययेत नरं सर्पिर्भिषक् कुणपरेतसि । धातकी-
पुष्पखटिरदाड़िमार्जुनसाधितम् । पाययेदथ वा सर्पिः
शालसारादिसाधितम् । ग्रन्थिभूते शठीसिद्धं पालाशे वापि
भस्मनि । परूषकवटादिभ्यां पूयप्रख्ये च साधितम् । प्रा-
गुक्तं वक्ष्यते यच्च तत् कार्य्यं क्षीणरेतसि । विट्प्रभे
पाययेत् सिद्धं चित्रकोशीरहिङ्गुभिः । स्निग्धं वान्तं विरिक्तञ्च
निरूढमनुवासितम् । योजयेच्छुक्रदोषार्त्तं सम्यगुत्तरव-
स्तिना । विधिमुत्तरवस्त्यन्तं कुर्य्यादार्त्तवशुद्धये । स्त्रीणां
स्नेहादियुक्तानां चतसृष्वार्त्तवार्त्तिषु । कुर्य्यात् कल्कान्
पिचूश्चापि पथ्यान्याचमनानि च । ग्रन्थिभूते पिबेत् पाठां
त्र्यूषणं वृक्षकाणि च । दुर्गन्धे पूयसङ्काशे मज्जतुल्ये
तथार्त्तवे । पिबेद्भद्रश्रियः क्वाथञ्चन्दनक्वाथमेव च । शुक्र-
दोषहराणाञ्च यथास्वमवचारणम् । दोषाणां शुद्धिकरणं
शेषास्वप्यार्त्तवार्त्तिषु । अन्नं शालियवं मद्यं हितं
मांसञ्चपित्तलम् । स्फटिकाभं द्रवं स्निग्धं मधुरं मधुगन्धि
च । शुक्रमिच्छन्ति केचित्तु तैलक्षौद्रनिभन्तथा । शशासृक्-
प्रतिमं यत्तु यद्वा लाक्षारसोपमम् । तदार्त्तवं प्रशंसन्ति
यद्वासो न विरञ्जयेत् । तदेवातिप्रसङ्गेन प्रवृत्तमनृतावपि ।
असृग्दरं विजानीयादतोऽन्यद्रक्तलक्षणात् । असृग्दरो
भवेत् सर्वः साङ्गमर्द्दः सवेदनः । तस्यातिवृत्तौ दौर्बल्यं
भ्रमो मूर्च्छा तमस्तृषा । दाहः प्रलापः पाण्डुत्वं तन्द्रा
रोगाश्च वातजाः । तरुण्या हितसेविन्यास्तदल्पोपद्रवं
भिषक् । रक्तपित्तविधानेन यथावत्समुपाचरेत् । दौषैरावृत-
मार्गत्वादार्त्तवं नश्यति स्त्रियाः । तत्र मत्स्यकुलत्थाम्ल-
तिलमाषसुरा हिताः । पाने मूत्रमुदश्विच्च दधि शुक्तञ्च
भोजने । क्षीणं प्रागीरितं रक्तं सलक्षणचिकित्सितम् ।
तथाप्यत्र विधातव्यं विधानं नष्टरक्तवत्” ।
इत्यं दोषापसारणेन शुद्धे आर्त्तवे भोजनादिनियमवत्यां
दिवसविशेषे स्त्रिया सह संवेशादि कर्त्तव्यं यथोक्तं सुश्रुते ।
एवमदुष्टशुक्रः शुद्धार्त्तवा ऋतौ प्रथमदितसात्प्रभृति ब्रह्म-
चारिणी दिवास्वप्नाञ्जनाश्रुपातस्नानानुलेपनाभ्यङ्गनखच्छे-
दनप्रधावनहसनकथनातिशब्दश्रवणाबलेखनानिलायासान्
परिहरेत् । किङ्कारणम्--दिवा स्वपन्त्याः स्वापशीलोऽ-
ञ्जनादन्धो रोदनाद्विकृतदृष्टिः । स्नानानुलेपनाद्दुःखशील-
स्तैलाभ्यङ्गात् कुष्ठी नखापकर्त्तनात् कुनखी प्रधावनाच्च-
ञ्चलो हसनाच्छ्यावदन्तौष्ठतालुजिह्वः प्रलापी चाति-
कथनादतिशब्दश्रवणाद्बधिरोऽवलेखनात् खलति र्मारु-
तायाससेवनादुन्मत्तो गर्भो भवतीत्येवमेतान् परिहरेत् ।
दर्भसंस्तरशायिनीं करतलशरावपर्ण्णान्यतमभोजिनीं हंविष्यं
त्र्यहञ्च भर्त्तुः संरक्षेत् । ततः शुद्धस्नातां चतुर्थे ऽहन्यह-
तवाससमलङ्कृतां कृतमङ्गलस्वस्तिवाचनां भर्त्तारं दर्शयेत् ।
तत् कस्य हेतोः? । पूर्ब्बं पश्येदृतुस्नाता यादृशं
नरमङ्गना । तादृशं जनयेत् पुत्त्रं भर्त्तारं दर्शयेदतः ।
ततो विधानं पुत्त्रीयमुपाध्यायः समाचरेत् । कर्मान्ते
च क्रमं ह्येनमारभेत विचक्षणः । ततोऽपराह्णे पुमान्
मासं ब्रह्मचारी सर्पिः स्निग्धः सर्पिः क्षोराम्यां
शाल्योदनं भुक्त्वा मासं ब्रह्माचारिणीं तैलस्निग्धां तैलमा-
षोत्तराहारां नारीमुपेयाद्रात्रौ सामादिभिरभिविश्वास्य
विकल्प्यैवंञ्चतुर्थ्यां षष्ठ्यामष्टम्यां दशम्यां चोपेयादिति पुत्र-
कामः । एषूत्तरोत्तरं विद्यादायुरारोग्यमेव च । प्रजासौ-
भाग्यमैश्वर्य्यं बलञ्च दिवसेषु वै । अतः परं पञ्चम्यां
सप्तम्यां नवम्यामेकादश्याञ्च स्त्रीकामः । त्रयोदशीप्रभृतयो
निन्द्याः । तत्र प्रथमे दिवसे ऋतुमत्यां मैथुनगमनमनायुष्यं
पुंसां भवति । यश्च तत्राधीयते गर्भः स प्रसवमानो विमु-
च्यते । द्वितीयेऽप्येवंसूतिकागृहे वा तृतीयेऽप्ये वमस
म्पूर्ण्णाङ्गोऽल्पादुर्वा भवति चतुर्थे तु सम्पूर्ण्णाङ्गो दीर्घायुश्च
भवति । न च प्रवर्त्तमाने रक्ते वीजं प्रविष्टं गुणकरं
भवति यथा नद्यां प्रतिस्रोतःप्लावि द्रव्यं प्रतिक्षिप्तं
प्रतिनिवर्त्तते नोर्द्धङ्गच्छति तद्वदेव द्रष्टव्यम् । तस्मान्निय-
मवतीं त्रिरात्रं परिहरेत् अतःपरमुपेयात्” ।
दिनविशेष आर्त्तवकालगमने पुत्रादिविशेषजननमुक्तम्”
नि० सि० व्यासेन “रात्रौ चतुर्थ्यां पुत्रःस्यादल्पायुर्यल
वर्जितः । पञ्चम्यां पुत्रिणी नारी षष्ठ्यां पुत्रस्तु मध्यमः ।
पृष्ठ ०८१०
सप्तम्यां सप्रजा योषिदष्टम्यामीश्वरः पुमान् । नवम्यां सुभगा
नारी दशम्यां प्रवरः सुतः । एकादश्यामधर्म्मा स्त्री द्वादश्यां
पुरुषोत्तमः । त्रयोदश्यां सुता पापा वर्ण्णसङ्करकारिणी ।
धर्म्मज्ञश्च कृतज्ञश्च आत्मवेदी दृढ़व्रतः । प्रजायते
चतुर्द्दश्यां, पञ्चदश्यां पतिव्रता । आश्रयः सर्व्वभूतानां षोड़श्यां
जायते पुमान्” । मनुवचने स्वाभाविक इत्युक्तेः रोगाद-
न्यत्र कालेऽप्यार्तवं भवति तेन तत्राशुद्धौ विशेषः नि० सि०
व्यवस्थापिता यथा “प्रथमरजोदर्शनात् सप्तदशदिनपर्यन्तं
पुनारजोदर्शने स्नानमात्रम्, अष्टादशे एकरात्रम्, एकोन-
विंशे द्व्यहं, विंशतिप्रभृतिदिनेषु त्रिरामशुचिर्भवति । “ऊर्द्धं
चतुर्दशदिनादशुचित्वं न विद्यते” इति वाक्यन्तु स्नान-
दिनावधिचतुर्दशदिनमध्ये पुनारजोदर्शनेऽशुचित्वाभाव-
परम्” “रोगेण यत् रजः स्त्रीणामन्यत्र हि प्रवर्त्तते ।
नाशुचिस्तु भवेत्तेन यस्माद्वैकारिकं मतमिति” वचनात् ।
रोगजे रजसि शुद्धावपि धर्माधिकारिता रजोनिवृत्तावेव ।
“साध्वाचारा न तावत् स्यात् स्नातापि स्त्री रजस्वला ।
यावत् प्रतर्त्तमानं हि रजोनैव निवर्त्तते इति” हेमा०
श्रा० ख० शङ्खोक्तेः ।

आर्त्ति स्त्री आ + ऋ--क्तिन् । १ पीड़ायाम् २ मनोव्यथायाञ्च ।

“आर्त्तिं न पश्यसि पुरूरवसस्तदर्थाम्” विक्रमो० ।
“पार्श्विकद्यूतचौर्य्यार्त्ति प्रतिरूपकसाहसैः” नारदः । “यदि
दीक्षितमार्त्तिर्विन्देत्” शत० ब्रा० । “न विद्यमानेष्वर्थेषु नार्त्त्या-
मपि यतस्ततः” “नचार्त्तिमृच्छति क्षिप्रम्” इति च मनुः
“दाहातिसारपित्तासृङ्मूर्च्छामद्यविषार्त्तिषु” सुश्रु० ३ विनाशे च ।

आर्त्नि(र्त्नी) स्त्री आ + ऋ--बा० नि आर्त्तभावश्च वा ङीप् ।

गतिकर्त्त्र्याम् । “संविदाने आर्त्नी इमे” ऋ० ६, ७५, ४ ।
“अत्रैव वोऽपिनह्याम्युभे आर्त्नी इव ज्यया” ऋ० १०, १६६, ३ ।

आर्त्विज त्रि० ऋत्विज इदम् अण् । ऋत्विक्सम्बन्धिनि ।

आर्त्विजीन पु० ऋत्विजं तत्कर्मार्हति खञ् । स्वयं यजमाने”

सि० कौ० । “दक्षिण्यदिष्टं कृतमार्त्विजीनैः” भट्टिः “वयं
वा आर्त्विजीनाःस्मोवयं दक्षिणीयाम्” शत० ब्रा० ।

आर्त्विज्य न० ऋत्विजोभावः कर्म वा ष्यञ् । ऋत्विक्-

कर्मणि याजने “स मा सर्व्वैरार्त्विज्यैर्वृणीते” “सहोवाच
भगवन्तं वा सर्वैरार्त्विज्यैः” इति च” छा० उ० ।

आर्थ त्रि० अर्थादागतः अण् । अर्थतः प्राप्ते वाक्यार्थ-

मर्य्यादया प्राप्ते” स्त्रियां ङीप् । सा च अलङ्कारोक्तायामर्थ-
सम्भवायां २ व्यञ्जनायाम् । तल्लक्षणादि सा० द० । यथा
एवं शाब्दीं व्यञ्जनामुक्त्वा आर्थीं व्यञ्जनामाह “वक्तृबोद्ध-
व्यवाक्यानामन्यसन्निधिवाच्ययोः । प्रस्तावदेशकालानां
काकोश्चेष्टादिकस्य च । वैशिष्ट्यादन्यमर्थं या बोधयेत्सार्थ-
सम्भवा” । व्यञ्जनेति सम्बध्यते तत्र वक्तृवाक्यप्रस्तावदेशका-
लवैशिष्ट्ये यथा । “कालोमधुः कुपितएष च पुष्प-
धन्वा धीरावहन्ति रतिखेदहराः समीराः । केलीवनीय-
मपि वञ्जुलकुञ्जमञ्जुर्दूरे पतिः कथय किं करणीयमद्य” ।
अत्रैतं देशं प्रति शीघ्रं प्रच्छन्नकामुकस्त्वया प्रेष्यतामिति
सखीं प्रति कयाचित् द्योत्यते । बोद्धव्यवैशिष्ट्ये यथा ।
“निःशेषच्युतचन्दनं स्तनतटं निर्मृष्टरागोऽधरोनेत्रे
दूरमनञ्जने पुलकिता तन्वी तवेयं तनुः । मिथ्यावादिनि! दूति!
बान्धवजनस्याज्ञातपीडागमे! वापीं स्नातुमितोगतासि, न
पुनस्तस्याधमस्यान्तिकम्” । अत्र तदन्तिकमेव गतासीति
विपरीतलक्षणया लक्ष्यं तस्य च रन्तुमिति व्यङ्ग्यं प्रति-
पाद्यदूतीवैशिष्ट्याद्बोध्यते । अन्यसन्निधिवैशिष्ट्ये यथा
“उअ णिच्चल णिप्पन्दभिसिणीपत्तम्मि रेऐ बलाआ ।
णिम्मलमरगअभाअण--परिठिटआ संखसुत्ति ब्ब” । उत्र
वलाकाया निस्पन्दत्वेन विश्वस्तत्वं तेनास्य देशस्य
विजनत्वमतः सङ्केतस्थानमेतदिति कयापि सन्निहितप्रच्छन्न-
कामुकं प्रत्युच्यते । अत्रैव स्थाननिर्ज्जनत्वरूपव्यङ्ग्यार्थ-
वैशिष्ट्यं प्रयोजनम् । भिन्नकण्ठध्वनिर्धीरैः काकुरित्यभि-
धीयते । इत्युक्तप्रकारायाः काकोर्भेदाः आकरादिभ्यो-
ज्ञातव्याः । एतद्वैशिष्ट्ये यथा । “गुरुपरतन्त्रतया वत
दूरतरं देशमुद्यतोगन्तुम् । अलिकुलकोकिलललिते
नेष्यति सखि! सुरभिसमयेऽसौ” । अत्र नेष्यति अपि तर्हि
एष्यत्येवेति काक्का व्यज्यते । चेष्टाबैशिष्ट्ये यथा ।
“सङ्केतकालमनसं विटं ज्ञात्वा विदग्धया । हसन्नेत्रार्पिता
कूतं लीलापद्मं निमीलितम्” । अत्र सन्ध्यासङ्केतकाल इति
पद्मनिमीलनादिचेष्टया कयाचित् द्योत्यते । एवं वक्त्रा-
दीनां व्यस्तसमस्तानां वैषिष्ट्ये बोद्धव्यम् । त्रैविध्यादियभ-
र्थानां प्रत्येकं त्रिविधा मता । अर्थानां वाच्यलक्ष्यव्यङ्ग्य-
त्वेन त्रिरूपतया सर्व्वा अप्यनन्तरोक्ताव्यञ्जनास्त्रिविधाः
तत्र वाच्यार्थस्य व्यञ्जना यथा । कालोमधुरित्यादि ।
लक्ष्यार्थस्य यथा । निःशेषच्युतचन्दनमित्यादि । व्यङ्ग्या-
र्थस्य यथा उअ णिच्चलेत्यादि” ।
भाट्टमते ३ भावनाभेदे । भावना हि भावयितुर्व्यापारः सा
च द्विविधा श्रौतो आर्थी च । तत्र प्रयोजनसाधनतया
तदिच्छाविषयनिष्पादको व्यापारःआर्थी भावना सा चाख्या-
तेनोच्यते आख्यातसामान्यस्य व्यापारवाचित्वात् । सा चां-
पृष्ठ ०८११
शत्रयवती किं भावयेत्, केन भावयेत् कथं भावयेदित्याका-
ङ्क्षात्रयोदयात् । तत्रपोक्षणीयमंशत्रयञ्च साध्यं साधनमिति-
कर्त्तव्यता चेति । तथा च किंभावयेदिति साध्याकाङ्क्षायां
स्वर्गादिफलं साध्यंत्वेनान्वेति, साधनाकाङ्क्षायां यागादिः-
साधनत्वेन, इतिकर्त्तव्यताकाङ्क्षायां प्रयाजाद्यङ्गजातमिति-
कर्त्तव्यतात्वेन । तेन प्रायाजाद्यङ्गजातेतिकर्त्तव्यताकेन
यागेन स्वर्गादिफलं साधयेदिति विशिष्टवाक्यार्थ बोधः इति
भाट्टा मन्यन्ते ।

आर्थिक त्रि० अर्थं गृह्णाति ठक् । १ अर्थग्राहके । अर्थश्चेह

अभिधेयं प्रयोजनं धनञ्च । अर्थादागतः ठक् । २ अर्था-
दागते वाक्यार्थमर्य्यादया प्राप्ते च ।

आर्द्द त्रि० आ + अर्द्द--अच् । सम्यक्पीड़के स्त्रियां गौरा० ङीष् ।

आ(अ)र्द्धकंसिक त्रि० अर्द्धकंसेन क्रीतम् ठक् “अर्द्धात्

परिमाणस्येति” पा० उत्तरपदस्य वृद्धेः “पूर्व्वपदस्य वेति” च
प्राप्तौ नातः पारस्येति” पा० निषेधात् नोत्तरपदवृद्भिः
“कंसाट्टिठन्” पा० इति तु न प्रवर्त्तते समासे तदन्तविधि-
प्रतिषेधात् । अर्द्धकंसक्रीते । एवं आ(अ)र्द्धप्रस्थिकः ।
अर्द्धप्रस्थक्रीते आ(अ)र्द्धकौड़विकः आ(अ)र्द्धद्रौणिकः इत्यादौ
अदन्तत्वाभावात् उत्तरवृद्धिः । अर्द्धकुड़वादिक्रीते त्रि० ।

आर्द्धधातुक न० “आर्द्धधातुकं शेषः” पा० परिभाषिते

तिङ्शिदद्भ्योभिन्ने धात्वधिकारविहिते प्रत्ययभेदे “आर्द्ध-
धातुकस्येड्वलादेः” सार्व्वधातुकार्द्धधातुकयोः” इति च पा० ।

आर्द्धपुर न० अर्द्धं पुरस्य एकदेशित० स्वार्थे अण् । पुरस्य

समानेऽर्द्धे प्रतिपूर्ब्बस्य तत्पुरुषे अश्वादि० नान्तोदात्तता ।

आर्द्धरात्रिक त्रि० अर्द्धरात्रे भवः ठञ् । अर्द्धरात्रभवे ।

आर्द्धवाहनिक त्रि० “अर्द्धवाहनेन जीवति वेतना० ठक् ।

अर्द्धवाहनेन जीविनि ।

आर्द्धिक पुंस्त्री “वैश्यकन्यासमुत्पन्नो ब्राह्मणेन तु संस्कृतः ।

आर्द्धिकः स तु विज्ञेयोभोज्योविप्रैर्न संशयः” इति
पराशरोक्ते । अम्बष्ठवर्णे स्त्रियां जातित्वात् ङीप् । अर्द्धं क्षेत्र
शस्यार्द्धमर्हति ठक् । क्षेत्रशस्यार्द्धस्य वेतनरूपतया स्वामिस-
काशात् ग्राहके २ कृषकभेदे पु० । “आर्द्धिकः कुलमित्रं च
गोपालोदासनापितौ । एते शूद्रेषु भोज्यान्नायश्चात्मानं
निवेदयेदिति” मनुनाऽऽर्द्धिकस्य शूद्रत्वेन कीर्त्तनात् अम्ब-
ष्ठस्य च शूद्रभिन्नत्वे नास्य पराशरोक्तार्द्धिकाद्भिन्नत्वं प्रती-
यते । एतदभिप्रायेणैव” मिता० कृता अर्द्धसीरिशब्दे दर्शित
याज्ञवल्क्यस्मृतिव्याख्याने कृषिफलशस्यार्द्धहारिण एव
शूद्रेषु भोज्यान्नतोक्ता ।

आर्द्र त्रि० अर्द्द--रक् दीर्घश्च । १ क्लिन्ने २ सरसे ३ सजले वस्तुनि

तद्भेदाश्च वैद्य० दर्शिताः । “आर्द्रं द्रव्यं द्विधा प्रोक्तं सरसं
नीरसं तथा । सदुग्धं गुप्तरसकं द्विधा नीरसमुच्यते ।
वास्तूकं सार्षपं शाकं निर्गुण्ड्येरण्डमार्षकम् । धस्तूराद्य-
मिदं सर्व्वमार्द्रं सरसमुच्यते । वटाश्वत्थकरीराद्यमार्द्रं द्रव्यं
तु नीरसम् । सदुग्धं तु द्विधा प्रोक्तं मृदु तीक्ष्णमिति
क्रमात् । शातलावज्रसीहुण्डसौरिण्याद्यास्तु तीक्ष्णकाः ।
दुग्धिकाक्षीरिण्याद्याश्च मृदुदुग्धाः प्रकीर्त्तिताः” । आर्द्रा-
क्षतारोपणमन्वभूताम्” कुमा० रघुश्च । “तेषां गुर्वीस्वादु शीता
पिप्पल्यार्द्रा कफावहा” आर्द्रा कुस्तुम्बरी कुर्य्यात् स्वादु-
सौगन्ध्यहृद्यताम्” सुश्रु० “धूपोष्मणा त्याजितमार्द्र भावम्”
कुमा० “४ काठिन्यशून्ये आनुगुण्ययुक्ते च “धनुर्भूतोऽप्यस्य
दयार्द्रभावम्” रघुः । अश्विन्यवधिके राशिचक्रस्थे मिथुन-
राशिघटके ५ षष्ठे नक्षत्रे स्त्री न० । “कन्यायां कृष्णपक्षे तु
पूजयित्वार्द्रभे दिवा । नवम्यां बोधयेद्देवीं यथाविभव
विस्तरैः” दु० त० लिङ्ग पु० । “इषे मास्यसिते पक्षे
नवम्यामार्द्रयोगतः” बोधनमन्त्रः । “आर्द्राद्यादि विशाखान्तं
रविचारेण वर्षति” ज्यो० मृगशिरसोऽर्द्धं चार्द्रा पुनर्वसुत्रि-
पादं मिथुनम्” ज्यो० आर्द्रास्वरूपयोगतारादिकम्
अश्लेषाशब्दे ४९७ पृष्ठे उक्तम् अस्याधिष्ठाता शिवः ।

आर्द्रक न० अर्द्दयति रोगान् अर्द्द--अन्तर्भूतण्यर्थे रक् वीर्घश्च

संज्ञायां कन् आर्द्रायां भूमौ जातं वा वुन् आर्द्रयति
जिह्वां आर्द्र + णिच्--क्वुन् वा । (आदा) मूलप्रधाने
वृक्षभेदे आर्द्रिकाप्यत्र स्त्री । “आर्द्रिका भेदिनी
गुर्व्वी तीक्ष्णोष्णा दीपनी च सा । कटुका मधुरा पाके
रूक्षा वातकफापहा, ये गुणाः कथिताः शुण्ठ्यास्तेऽपि
सन्त्यार्द्रकेऽखिलाः । भोजनाग्रे सदा पथ्यं लवणार्द्रकभ-
क्षणम् । अग्निसन्दीपनं रुच्यं जिह्वाकण्ठविशोधनम् ।
कुष्ठे पाण्ड्वामये कृच्छ्रे रक्तपित्ते कफज्वरे । दाहे निदाघे
शरदि नैव पूजितमार्दकम्” भा० प्र० । “चक्षुष्यं रोचनं
स्वर्य्यं विकाशि विशदं सरम् । स्तम्भाटोपानिलघ्नञ्च
लवणार्द्रकभक्षणम् । गुड़ार्द्रकं वातहरं चक्षुष्यं पित्त-
नाशनम् । ज्वरघ्नं चातितृष्यञ्च वर्चोभेदिकफापहम् ।
मृत्त्वचारहितमङ्कुरतः सत् क्षालितं विमलकैर्बहुतो-
यैः । मिश्रितं लवणनिम्बपयोभिर्बालमार्द्र कमुपैति योग्य-
ताम् । तैलासुरीरजनिसिन्धुजपङ्कसङ्गिप्रस्यन्दमाननवनिम्बु-
रसप्रसक्तम् । स्वादूत्तरं शिशिरवासरभोजनेषु कस्यैति
वण्ण नपथं खलु शृङ्गवेरम्” । वृषोष्णं दीपनं हृद्यं सस्नेहं
पृष्ठ ०८१२
लघु पाचनम् । रोचनं तर्पणं बल्यं चार्द्रकं परिकीर्त्ति-
तम् । वातपित्तकफेभानां शरीरवनचारिणाम् । एक
एवनिहन्तास्ति लवणार्द्रककेशरी” वैद्य० ।

आर्द्रपदी स्त्री आर्द्रौ पादौ यस्याः कुम्भपद्या० नि० पाद्भावः

ङीप् च पदादेशः । आर्द्रचरणायां स्त्रियाम् ।

आर्द्रमाषा स्त्री० नित्यकर्म० । (माषाणी) माषपर्ण्ण्यां राजनि० ।

आर्द्रम् अव्य० आ + अर्द्र--बा० रमु साक्षादादिगणपाठात्

नि० मान्तत्वं वा । सरसत्वे । आर्द्रङ्कृत्य आर्द्रंकृत्वा ।

आर्द्रशाक न० आर्द्रं शाकमस्य । आर्द्रके ।

आर्द्रवृक्ष पु० कर्मधा० । सरसवृक्षे ततः उत्करा०

चतुरर्थ्यांछ । आर्द्रवृक्षीयः तद्वृक्षसन्निकृष्टदेशादौ त्रि० ।

आर्द्रालुब्धक पु० आर्द्रानक्षत्रे तत्सन्निकृष्टस्थाने लुब्धकैव ।

केतुग्रहे हलायुधः ।

आर्भव पु० ऋभुणा दृष्टं साम ऋभुर्देवतास्य वा अण् । तृतीयसवने

गेये पञ्चसूक्तात्मके सप्तसामात्मके पवमानभेदे । “आन्धीगव-
शब्दे ७३३ पृष्ठे विवृतमेतत् । “अथ तृतीयसवने आर्भवे
पवमान उद्गातारमन्वारभमाणाः ऋभुरसि जगच्छन्दाः”
शत० ब्रा० । “पञ्चच्छन्दा आवाप आर्भवः पवमानः सप्त
सामा” सा० सं० भा० धृता श्रुतिः ।

आर्य्य पु० ऋ--ण्यत् । १ स्वामिनि, २ गुरौ, ३ सुहृदि च ।

४ श्रेष्ठकुलोत्पन्ने ५ पूज्ये ६ श्रेष्ठे, ७ सङ्गते, नाट्योक्तौ ८ मान्ये,
९ उदारचरिते, १० शान्तचित्ते “कर्त्तव्यमाचरन् कार्य्यम-
कर्त्तव्यमनाचरन् । तिष्ठति प्रकृताचारे स वा आर्य्य इति
स्मृतः इत्युक्तलज्ञणे ११ जने च त्रि० । “ग्रहीतुमार्य्यान्
परिचर्य्यया मुहुः” माघः । “त्यजेदकस्मात्, पतिरार्य्यवृत्तः”
“वर्णापेतमविज्ञातं नरं कलुषयोनिजम् । आर्यरूपमिवानार्यं
कर्मभिः स्वैर्विभावयेत्” “जातो नार्य्यामनार्यायामार्यादार्यो
भवेद्गुणैः । जातोऽप्यनार्यादार्यायामनार्यैति निश्चयः” ।
“अनार्य्य मार्यकर्माणमार्यं चानाय्यकर्मिणम्, । संप्रधार्या
व्रवीदेतौ न समौ नासमाविति” इति च मनुः ।
आर्य्यत्वेन सम्भाषणे नाटके नियमविशेषाः सा० द०
उक्ता यथा “राजन्नित्यृपिभिर्वाच्यः सोऽपत्यपत्ययेन च ।
स्वेच्छया नामभिर्निव्रैर्विप्र आर्य्येति चेतरैः” विप्रेतरै
र्विप्रः आर्य्येति वाच्यः “वाच्यौ नटीसूत्रधारावार्यनाम्ना
परस्परम्” । नट्या सूत्रधारः आर्य्येति वाच्यः सूत्रधारेण
च नटी आर्य्या इति वाच्या । “वयस्येत्युत्तमैर्वाच्योमध्यै
रार्य्येति चाग्रजः” । “आर्य्यबालचरितप्रस्तावनाडि-
ण्डिम” इति वीरच० रामचरितवर्ण्णने लक्षणोक्तिः । “वत्स!
पुत्रक तातेति संज्ञागोत्रेण वा युतः । शिष्योऽनुजश्च वक्त-
व्योऽमात्य आर्य्येति चेतरैः” इतरैरमात्य आर्य्येति वक्तव्यः
“वृत्तेन हि भवत्यार्य्यो न धनेन न विद्यया” भा०
उ० ८९ अ० उक्तेः सदाचारेणैव नराणामार्य्यत्वम् ।
आर्य्याऽप्यरुन्धती तत्र व्यापारं कर्त्तुमर्हति” कुमा०
१२ प्राकृतभाषायां स्त्री “मुखबाहूरुपज्जानां या लोके
जातयो बहिः । म्लेच्छवाचश्चार्य्यवाचः सर्वेते दस्यवः
स्मृताः” मनुः । १३ श्वशुरे पु० । आर्य्यपुत्रः पतिः
“आर्य्यो ब्राह्मणकुमारयोः” पा० उक्तेः कर्मधारये
ब्राह्मणकुमारयोः परतः प्रकृतिस्वरः ।

आर्य्यक त्रि० आर्य्य + स्वार्थे कन् । आर्य्य शब्दार्थे स्त्रियां टापि

वा अतं इत्त्वम् आर्य्यका--आर्यिका । संज्ञायां कन् ।
२ पितामहे पु० । “बालां मामार्य्यकस्तुभ्यं क्रीड़न्तीं
कन्दुहस्तिकाम् । अदात्तु कुन्तिभोजाय सखा सख्ये
महात्मने” भा० उ० प० ८९ अ० तुभ्यमार्य्यकः तवार्य्यकः पिता-
मह इत्यर्थः । कृष्णं प्रति तत्पितृस्वसुः कृन्त्या वाक्यमिदम् ।

आर्य्यगृह्य त्रि० आर्य्यस्य गृह्यः पक्ष्यः । आर्य्यपक्षीये ।

“तमार्य्यगृह्यं निगृहीतधेनुः” रघुः ।

आर्य्यदेश पु० आर्य्याणां वासार्होदेशः । आर्य्यावर्त्तादौ देशे

आर्य्यधर्म पु० आर्य्यस्य धर्मः । सदाचारे ।

आर्य्यपथ पु० आर्य्याणां पन्थाः अच् समा० । सदाचारे

आर्य्यमार्गादयोऽप्यत्र ।

आर्य्यपुत्र पु० आर्य्यस्य श्वशुरस्य पुत्रः । १ भर्त्तरि २ मान्यस्य पुत्रे च ।

आर्य्यप्राय पु० आर्य्यः प्रायो बहुलोऽत्र । आर्य्यावर्त्तादौ

देशे “जाङ्गलं शस्यसम्पन्नमार्य्यप्रायमनाविलम् । वश्यमान-
तसामन्तं स्वाजीव्यं देशमावसेत्” मनुः ।

आर्य्यभट्ट पु० ज्योतिषग्रन्थविशेषकारके विद्वद्भेदे सहि

“प्रणित्यैकमनेकं सत्यां देवतां परं ब्रह्म । आर्य्यभट्टस्त्रीणि
वदति गणितं कालक्रियां गोलम्” इत्युपक्रम्य
गणितकालक्रियाभूगोलं निर्ण्णीतवान् । भूगोलखगोलशब्दयोः
तन्मतमुदाहरिष्यते । तस्य च जन्मकालः स्वग्रन्थे एव
तेनोक्तः “षष्ट्यब्दानां षष्टिर्यदा व्यतीतास्तयश्च युगपादाः ।
अधिका विंशतिरव्दास्तदिह मम जन्मनोऽतीताः” । तेन
कलेः ३६२० वर्षेषु गतेषु तस्य जन्म । तन्मतमुत्थाप्य च
सि० शि० क्वचित् क्वचित् दूषितमिति तस्य भास्कराचा-
र्य्यात् प्राचीनत्वम् ।

आर्य्यमिश्र पु० कर्म० । गौरवान्विते “एवमार्य्यमिश्रान् प्रणिपत्य विज्ञापयामि” प्रबो० ।

पृष्ठ ०८१३

आर्य्यवृत्त न० आर्य्यस्य वृत्तम् । १ सदाचारे “सत्यधर्मार्य्यवृत्ते

च शौचे चैवारमेत् सदा” मनुः । आर्य्यं श्रेष्ठं वृत्तमस्य ।
२ सदाचारयुते त्रि० “रक्षणादार्य्यवृत्तानां कण्टकानाञ्च
शोधनात्” मनुः ।

आर्य्यवेश पु० आर्य्यस्य वेशः । १ साधूनां वेशे ।

आर्य्यस्येव वेशोऽस्य । २ आर्य्यलिङ्गधारिणित्रि०

आर्य्यव्रत न० आर्य्यस्य व्रतं नियमः । आर्य्यस्य कर्त्तव्ये १ नियम-

भेदे । आर्य्यस्येव व्रतमस्य । २ श्रेष्ठव्रतधारिणि “आर्य्यव्रतश्च
पाञ्चाल्यो न स राजा धनप्रियः” भा० आ० २०१ अ० ।

आर्य्यश्वेत पु० आर्य्यं श्रेष्ठं श्वेतं चरितं यस्य । श्रेष्ठचरिते

ततः शिवादि० अपत्ये अण् । आर्य्यश्वेतस्तदपत्ये पुंस्त्री
स्त्रियां ङीप् ।

आर्य्यहलम् अव्य० आर्य्यं हन्ति हन--ड तस्मिन् लीयते

ली--बा० डमु । बलात्कारे बलात्कारस्य आर्य्यहन्तरि
समाश्रयनियमात् तथात्वम् स्वरा० अव्ययत्वम् ।

आर्य्या स्त्री ऋ--ण्यत् । पार्वत्याम् आर्य्याशतकम् । २ श्वश्र्वां

श्रेष्ठायां ३ स्त्रियाञ्च ४ मात्रावृत्तभेदे “लक्ष्मैतत्
सप्तगणा गोपेता नेह भवति विषमे जः । षष्ठोजश्च नलघू
वा प्रथमेऽर्द्धे नियतमार्य्यायाः । षष्ठे द्वितीयलात्
परके नले मुखलाच्च सयति पदनियमः । चरमेऽर्द्धे पञ्चमके
तस्मादिह भवति षष्ठोलः” वृत्त० र० उक्ते ५ छन्दोभेदे स्त्री ।
साचार्या नवविधा यथा “पथ्या विपुला चपला मुखचपला
जघनचपला च । गीत्युपगीत्युद्गीतष आर्यागीतिश्च
नवधा चार्या” इति । तासां लक्षणम् वृत्तर० । “त्रिष्वं-
शकेषु पादो दलयोराद्येषु दृश्यते यस्याः । पथ्येति १ नाम
तस्याः प्रकीर्त्तितं नागराजेन । उल्लङ्घ्य गणत्रयमादिमं
शकलयोर्द्वयोर्भवति पादः । यस्यास्तां पिङ्गलनागो
विपुलामिति २ समाख्याति । उभयार्द्धयोर्जकारौ द्वितीय-
तुर्यौ गमध्यगौ यस्याः । चपलेति ३ नाम तस्याः
प्रकीर्त्तितं नागरांजेन । आद्यं दलं समस्तं भजेत लक्ष्म
चपलागतं यस्याः । शेषे पूर्बजलक्ष्मा मुखचपला ४ सोदिता
मुनिना । प्राक्प्रतिपादितमर्द्धे प्रथमे प्रथमेतरे तु
चपलायाः । लक्ष्माश्रयेत सोक्ता विशुद्धधीभिर्जघनचपला ५ सा ।
आर्या प्रथमदलोक्तं यदि कथमपि लक्षणं भवेदुभयोः ।
दलयोः कृतयतिशोभां तां गीतिं ६ गीतवान्
भुजङ्गेशः । आर्याद्वितीयकेऽर्द्धेयद्गद्रितं लक्षणं तत् स्यात् ।
उभयोरपि दलयोरुपगीतिं ७ तां मुनिर्ब्रूते । आर्याश-
कलद्वितयं व्यत्ययरचितं भवेद् यस्याः । सोद्गीतिः ८
किल गदिता तद्वदंशभेदसंयुक्ता । आर्यापूर्ब्बार्द्ध्वं यदि
गुरुणैकेनाधिकेन निधने युक्तम् । इतरत्तद्वन्निखिलं
यदीयमुदितेयमार्यागीतिः” ९ । “पादे द्वादश विषमे
मात्राष्टादश द्वितीये हि । पञ्चदश चेत् तुरीये
कथिता गाथा तथैवार्य्या” ग्रन्थान्तरे यथाकथञ्चिद्द्वादशाष्टा-
दशाक्षरादिमात्रात्मकपादत्वोक्तावपि वृत्तरत्नाकरोक्तेर्गण-
नियमोऽस्त्येव सामान्यशास्त्रऽतोऽपवादशास्त्रस्य प्रबल-
त्वात् । तेन यथाकथञ्चित्तथामात्रानिवेशोऽनुचितएव ।
“शिष्यपरम्परयागतमीश्वरकृष्णेन चैतदार्य्योभिः । संक्षिप्त-
मार्य्यमतिना सम्यग्विज्ञाय सिद्धान्तम्” सां० का० “क्वचिदत्र
भवेदार्याक्वचिद्वक्त्रापवक्त्रके” सा० द० कथालक्षणम् । “आर्या
वक्त्रापवक्त्राणांछन्दसा येन केनचित्” सा० द० । “अति-
स्पष्टवर्णस्वरसंस्कारवत्या गिरा राजानमुद्दिश्यार्यामिमां
पपाठ” काद० ।

आर्य्यागीति स्त्री आर्या गीतिरिव । घृत्तर० उक्ते मात्रावृत्तभेदे आर्याशब्दे तल्लक्षणमुक्तम् ।

आर्य्यावर्त्त पु० आर्या आवर्त्तन्ते अत्र आ + वृत--आधारे

घञ् । देशभेदे स च देशोमनुना दर्शितः । “आ समुद्रात्तु
वै पूर्व्वादा समुद्राच्च पश्चिमात् । तयोरेवान्तरं गिर्योरार्या-
वर्तं विदुर्बुधाः” इति तयोः विन्ध्यहिमाचलयोः” कैवर्त
मिति यं प्राहुरार्यावर्तनिवासिनः” मनुः ।

आर्य्याविलास पु० आर्याणां प्राकृतभाषायुतमात्रावृत्तानां

विलासो बाहुल्यम् यत्र । प्राकृतभाषया रचिते “भाषा
विभाषानियमात् काव्यं सर्गसमुज्झितम् । एकार्थप्रवणैः
पद्यैः सन्धिसामग्र्यवर्ज्जितमिति” सा० दर्पणोक्तलक्षणयुक्ते
प्राकृतकाव्यभेदे । ६ त० । आर्य्यायादुर्गायाविलासे च ।

आर्ष त्रि० ऋषेरिदस् अण् । १ ऋषिसम्बन्धिनि तत्कृतपुराण

काव्यादौ । “धर्म्मो यस्याभि शङ्क्यः स्यादार्षं वा दुर्बलात्मनः ।
वेदात् शूद्र इवापेयात् स लोकादजरामरात्” भा०
व० प० ३१ अ० । आर्षं मन्वादिमतं यस्याभिशङ्क्य-
मित्यर्थः “अस्मिन्नार्षे पुनःसंज्ञा भवेदाख्यानसंज्ञका” ः
सा० द० । “इत्यार्षेरामायणे” इत्येवं रामायणसर्गसमाप्तौ
भूरिप्रयोगः । ऋषिणा जुष्टम् । २ ऋषिसेविते वेदे पु० ।
“आर्षं धर्म्मोपदेशञ्च वेदशास्त्राविरोधिना । यस्तर्केणा-
मुसंधत्ते स धर्मं वेद नेतरः” मनुः ।
ऋषिर्वेदस्तस्येदम् अण् । ३ वैदिके । “सम्बुद्धौ शाकल्यखेता
वानार्षे” पा० “अनार्षे अवैदिके” सि० कौ० । “आर्षं
प्रमाणमुत्क्रम्य धर्म्मं न प्रतिपालयन्” भा० व० प० ३१ अ० ।
ऋषेरयं वाचकः अण् । ५ ऋष्यभिधायिनि “ण्यक्षत्रिय-
ञितोयूनि अणिञोः” पा० (आर्षात्) “ऋष्यभिधायिनः”
सि० कौ० संस्कारहीनत्वेपि ऋषिणा प्रयुक्तः अण् ।
पृष्ठ ०८१४
व्याकरणोक्तानुशासनसुल्लङ्घ्य ऋषिणा प्रयुक्ते असाधुन्यपि
साधुत्वेनाभिमते ५ शब्दभेदे । आर्षः प्रयोगः । ऋषीणां
समूहः प्रवरगणभेदः अण् । गोत्रप्रवर्त्तकमुनीनां ७ व्या-
वर्त्तकप्रवरर्षिसमूहे न० “अरोगिणीं भ्रातृमतीमसामानार्ष-
गोत्रजाम्” या० । मिता० तु ऋषेरिदमार्षं नाम प्रवर इति
व्याख्यातम् ऋषिर्वेदस्तत्र विहितः अण् । ७ विवाहभेदे
“यज्ञस्थायर्त्विजे दैव आर्ष आदाय गोयुगम् । चतुर्द्दश
प्रथमजः पुनात्युत्तरजश्च षट्” या० “अष्टाविमान् समासेन
स्त्रीविवाहान् निबोधत । ब्राह्मोदैवस्तथैवार्षः प्राजापत्य-
स्तथाऽऽसुरः । गान्धर्ब्बो राक्षसश्चैव पैशाचश्चाष्टमः स्मृतः”
इत्युपक्रम्य “एकं गोमिथुनं द्वे वा वरादादाय धर्मतः । कन्या-
प्रदानं विधिवदार्षो धर्मः स उच्यते” मनुस्मृतौ धर्म्म
इत्युपादानात् कन्यानृशंस्यार्थं गोयुगग्रहणेऽपि न दोषः ।
अतएव मनुना तादृशस्य गोमिथुनग्रहणस्य स्वभोगसाधन
त्वाभावेन शुल्कत्वमेव निराकृतम् “आर्षे गोमिथुनंशुल्कं
केचिदाहुर्मृषैव तदिति” “आर्षोढाजः सुतस्त्रीन्
त्रीन्” मनुः ।
गोत्रभेदे प्रवरभेदाश्च विश्वादर्शे दर्शिता यथा । “अत्र
गोत्रप्रवराणां स्वरूपं महाप्रवरपाठादवगतन्तव्यम् ।
तत्र महान्तः प्रवरा एकद्वित्रिपञ्चार्षेया ऊनपञ्चाशदेव
ते च सप्तानां गोत्राणां गणश उच्यन्ते । तावतैवापेक्षित-
सिद्धेः । यथा वत्सानां भार्गवच्यवनाप्लुवानौर्वजामदग्न्येति १
विदानां भार्गवच्यवनाप्लुवानवौर्वविदेति ३ । आर्ष्टिषेणानां
भार्गवच्यवनाप्लुवानौर्वार्ष्टि षेणेति २ । जामदग्न्यानां भार्गव-
च्यवनाप्लुवानौर्वजामदग्न्येति ४ । एते समानप्रवराः ।
अर्घाधिकर्षितुल्यत्वात् । यास्कानां भार्गववीतहव्यसा-
वेदसेति ५ । मित्रध्रुवाणां भार्गववाध्र्यश्वदैवोदासेति ६ ।
वैण्यानां भार्गववैण्यपार्थेति ७ । एते भार्गवानुवृत्तावपि
न मिथः समानप्रवराः भृगुं मुक्त्वेति वचनात् ।
शुनकानां शौनकेति वा गार्त्समदेति वा । अत्र गोत्र
प्रवरभेदोपयोगित्वेन पक्षे प्रवरैक्यादविवाहः । एते सप्त
भृगवः । अथाङ्गिरसा गौतमा भारद्वाजाः शुद्धाश्वेति त्रि-
विधाः । तेषु गौतमास्तावत् । आयास्यानामाङ्गिरसायास्य
गौतमेति १ । शारद्वतानामाङ्गिरसशारतद्वतगौतमेति २ ।
कौमण्डकानामाङ्गिरसौदक्यकाक्षीवत गौतमकौमण्डेति ३ ।
दीर्घतमानामाङ्गिरसौदक्यकाक्षीवतगौतमदैर्व्यतमेति ४ ।
कारेणुपालानामाङ्गिरस गौतमकारेणुपालेति ५ । वामदेवा-
नामाङ्गिरसगौतमवामदेवेति ६ । औशसानानामाङ्गिरसौशस-
नगौतमेति ७ । एते सप्त गौतमाङ्किरसाः समानप्रवराः
अर्द्धाधिकर्षितुल्यत्वात् । भारद्वाजानामाङ्गिरसबार्हस्पत्य-
भारद्वाजेति १ । रौक्षायणानामाङ्गिरसबार्हस्पत्यभारद्वाज
चान्दनमातृवचसेति । गर्गाणामाङ्गिरसवार्हस्पत्यभार-
द्वाजगार्ग्यशैन्येति । आङ्गिरसगार्ग्य शैन्येति वा ३ ।
त्रय एते भरद्वाजाङ्गिरसाः समानप्रवराः अर्घाधिक-
र्षितुल्यत्वात् । गार्ग्याणां त्र्यार्षेयपक्षेऽर्द्धाधिकर्षितुल्यत्वा-
भावेऽपि पक्षे समानप्रवरत्वाद्भारद्वाजैरविवाहः । विष्णु-
वृद्धानामाङ्गिरसपौरुकुत्सजामदग्न्येति १ । काण्वानामा-
ङ्गिरसाजमीढकाण्वेति २ । हरितानामाङ्गिरसाम्बरीष
यौवनाश्वेति ३ । सांकृतीनामाङ्गिरससांकृत्यगौरवीतेति ४ ।
रथीतराणामाङ्गिरसवैरूप्यरथीतरेति ५ । मुद्गलानामाङ्गिरस
भार्म्याश्वमौद्गलेति ६ । कपीनामाङ्गिरसामक्षय्यवार्क्षय्येति ७ ।
एते सप्त शुद्धाङ्गिरसाः भिन्नप्रवराः आङ्गिरसानु-
वृत्तावपि आङ्गिरसम्मुक्त्वेति वचनात् । अत्रीणामात्रेया-
र्चनानसश्यावाश्वेति १ । गबिष्ठिराणाम्पत्रेयार्चनानस
गविष्ठिरेति २ । बभ्रूदकानाम् आत्रेयार्चनानसबभ्रूदकेति ३ ।
मुद्गलानामात्रेयार्चनानसपौर्वतिथेति” ४ । एते चत्वारः
समानप्रवराःतुल्यर्षित्वात् । काश्यपानां काश्य पावत्सा-
रनैध्रुवेति १ । रेभाणां काश्यपावत्साररैभेति २ । शाण्डि-
ल्यानां काश्यपावत्सारशाण्डिल्येति ३ । काश्य पावत्सार-
वैदेति वा काश्यावत्सारासितेति वा शाण्डिल्या-
सितदेवलेति वा इति चतुर्धा प्रवराः । लौगाक्षीणां
काश्यपावत्सारवासिष्ठेति ५ । एते समानप्रवराः । काश्य-
पानुवृत्तेः चतुर्थप्रवरे काश्यपानुवृत्त्यभावेऽपि त्रिभिः
प्रवरैः समानप्रवरत्वात् काश्यपैरविवाहः । लौगाक्षीणां
वासिष्ठपदानुवृत्त्या द्व्यामुष्यायणत्वाद्वसिष्ठैरविवाहः ।
वसिष्ठानां वासिष्ठेति १ । कुण्डिनानां वासिष्ठमैत्रावरुण
कौण्डिन्येति २ । उपमन्यूनां वासिष्ठेन्द्रप्रमदभारद्वस्विति ३ ।
पराशराणां वसिष्ठशक्तिपराशरेति ४ । एते वासिष्ठाश्च-
त्वारः समानप्रवराः वसिष्ठानुवृत्तेः । कुशिकानां वैश्वा-
मित्रदैवरातौदलेति १ । रौहितानां वैश्वामित्राष्टकरोहि-
तेति २ । रौत्थकानां विश्वामित्ररौत्थक रैवतेति ३ । विश्वा-
मित्राणां वैश्वामित्रारसदेवतरसेति ४ । मौञ्जायनानां
विश्वामित्रमधुच्छन्दमौञ्जेति ५ । धनञ्जयानां वैश्वामित्र-
माधुच्छन्दसधनञ्जयेति ६ । कतकानां वैश्वामित्रकात्याक्षी-
लेति ७ । इन्द्रकौशिकानां विश्वामित्रेन्द्रकौशिकेति ८ ।
अघमर्षणानां वैश्वामित्राघमर्षणकौशिकेति ९ । पौराणां
पृष्ठ ०८१५
वैश्चामित्रपौराणेति १० । एतेषां दशानां कुशिकानां विश्वा-
मित्रपदानुवृत्तेर्मिथः समानप्रवरत्वम् । अगस्तीनाम-
गस्तिदार्ढ्यच्युतेध्मवाहेति । दार्भवाहानामगस्त्यागस्त्यदा-
र्ढ्यच्युतदार्भवाहेति १ । साम्भवाहानामागस्त्यदार्ढ्यच्युत-
साम्भवाहेति २ । सोमवाहनानामागस्त्यदार्ढ्यच्युत सोमवा-
हेति ३ । यज्ञवाहानामागस्त्यदार्ढ्यच्युतयज्ञवाहेति ४ ।
चतुर्णामगस्तीनामागस्त्यपदानुवृत्त्या मिथः समानप्रवरत्वमिति
प्रवरनिर्णयः । अत्र संग्रहश्लोकाः । “एकोऽपि चं मुनि-
र्येषां प्रवरेष्वनुवर्त्तते । सगोत्रास्तेमिथोज्ञेया भृगुमङ्गि-
रसं विना । शुनकाः स्युर्गृत्समदैः काश्यपैः शाण्डिला
अपि । भारद्वाजास्तथा गर्गाः पक्षे तुल्यर्षिदर्शनात्” ।
यद्वा । “च्यवनो गोतमोऽगस्त्योभरद्वाजोऽत्रिकश्यपौ ।
विश्वामित्रोवशिष्ठश्च यद्गणप्रवरेष्वमी । वर्त्तन्ते ते सगोत्राः स्युः
कश्यपैः शाण्डिलास्तथा । शुनकाःस्युर्गृत्समदैर्भारद्वाजैश्च
गर्गका” इति । अत्र प्रमादेन समानगणगोत्रप्रवरकन्यो-
द्वाहे ज्ञानोत्तरकालं मातृवदेनाम्बिभृयात् । गर्भश्चेदुत्पन्नः
स न दुष्यति । काश्यपो भवति गोत्रेण । ज्ञात्वा गच्छन्
गुरुतल्पगः । तदुत्पन्नश्चण्डालवद्भवति । श्राद्धमपि
सगोत्रप्रवराय न देयमित्याहुः । प्रवरविज्ञानात् विहीनो
भवति एतत्समस्तं संप्रधार्य निश्चितं दास्यामीति तेषामुक्त
ते गृहङ्गच्छन्ति” ।
तत्रैव अथ मतान्तरम् । “सर्वे समानगोत्राःस्यु-
रिति गाणगारिः । कथं ह्याप्रीसूक्तानि भवेयुः । कथं
प्रयाजा इत्यपि । नानागोत्राः स्युरिति शौनकः । तन्त्राणां
व्यापित्वात् गृहपतिगोत्रान्वयाविशेषात् । तस्य राद्धि-
रनुराद्धिः । सर्वेषां प्रवरास्त्वावर्त्तेरन् आवापधर्मि-
त्वात् । जामदग्न्या वत्सादयः पञ्चार्षेयाः । यथा भार्ग-
वाप्नवानौर्वजामदग्न्येति । वत्सश्रीवत्सयोश्च तथैव ।
आर्ष्टिषेणानां भार्गवच्यवनाप्नुवानौर्वार्ष्टिषेणेति । विदानां
भार्गवच्यवनाप्नुवानौर्वविदेति । यास्कवाधूलमौलमौक-
शार्कराक्षिसार्ष्टिसावर्णिशालङ्कायनदैवन्त्यायनानां भार्गववै-
तहव्यसावेदेति । शैन्यानां भार्गवशैन्यपार्थेति । मित्र-
यूनां भार्गवदैवोदासवाद्ध्र्यश्वेति । शुनकानां भार्गवशौनक-
गात्र्समदेति । गौतमानामाङ्गिरसायास्यगौतमेति उतथ्याना-
माङ्गिरसौतथ्यगौतमेति । राहुगणानामाङ्गिरसराहुगण-
गौतमेति । सोमराजिकीनामाङ्गिरससौमराजिगौतमेति ।
वामदेवानामाङ्गिरसवामदेवगौतमेति । वृहदुक्थानामाङ्गि-
रसबार्हदुक्थगोतमेति । पार्षदश्वानामाङ्गिरसपार्षदश्ववैरू-
पेति । अष्टादंष्ट्रा इत्येके ब्रुवते अतीत्याङ्गिरसम् । अष्टा-
दंष्ट्रापौरुकुत्सत्रासदस्यवेति । ऋक्षाणामाङ्गिरसवार्हस्पत्यभ-
रद्वाजवान्दनमातृवचसेति । कक्षीवतामाङ्गिरसगौतमौशि-
जकाक्षीवतेति । दीर्घतमसामाङ्गिरसौतथ्यदैर्घतमसेति ।
भारद्वाजाग्निवेश्यानामाङ्गिरसवार्हस्पत्यभारद्वाजेति । मुद्ग-
लानामाङ्गिरसभार्म्यश्वमौद्गल्येति । तार्क्ष्यं हैके ब्रुवते
अतीत्याङ्गिरसं तार्क्ष्यभार्म्यश्वमौद्गलेति । विष्णु-
वृद्धानामाङ्गिरसपौरुकुत्सत्रासदस्यवेति । गर्गाणामाङ्गिरस
वार्हस्पत्यभारद्वाजगर्गशैन्येति । आङ्गिरसशैन्यगार्गेति
वा । हरितकुत्सपिङ्गशाङ्खदर्भभैमगवानाम् आङ्गिरसा-
म्बरीषयौवनाश्वेति सङ्कृतिपूतिमाषतण्डिशङ्खभौमगवा-
नाम् आङ्गिरसगौरुवीतसांकृत्येति । शाक्तिगौरुवीत
सांकृत्येति वा । काण्वानामाङ्गिरसाजमीढकाण्वेति ।
घोरमिहैके ब्रुवते अतीत्याजमीढम् । आङ्गिरसघोर-
काण्वेति । कपीनामाङ्गिरसामक्षय्यवार्क्षय्येति । अथ
शौङ्गशैशिरयः । भरद्वाजाः स्युः शुङ्गाः कताः शैशिरयः ।
तेषामुभयतः प्रवृणीते एकमितरोद्वावितरः त्रीनितरः ।
न हि चतुर्णां प्रवरोऽस्ति न पञ्चानाम् । आङ्गिरसवार्ह-
स्पत्यभारद्वाजेत्यादि । कपी प्रसिद्धावुदिताविह द्वौ स्वतन्त्र
एकस्त्वपरोऽस्वतन्त्रः । तत्र स्वतन्त्रस्य कपेर्विवाहं मिथो
भरभाजकुलेन चाहुः । अथात्रीणामात्रेयार्चनानसश्या-
वाश्वेति । गविष्ठिराणामात्रेयगाविष्ठिरपौर्वतिथेति ।
विकितगालवकालवमनुतन्तुकुशिकानां वैश्वामित्रदेव-
रातौदलेति । श्रौमतकामकायनानां वैश्वामित्रदेवश्रव-
सदैवोदासेति । धनञ्जयानानां वैश्वामित्रमाधुच्छन्दस
धानञ्जयेति । अजानां वैश्वामित्रमाधुच्छन्दसरौहि-
णेति । पूरणवारिधापयन्तानां वैश्वामित्रदेवरातपौरा-
णेति । कतानां वैश्वामित्रकात्याक्षीलेति । अघमर्षणार्ना
वैश्वामित्राघमर्षणकौशिकेति । रेणूनां वैश्वामित्रगाथिन-
रैणवेति । वेणूनां वैश्वामित्रगाथिनवैणवेति ।
शालङ्कायनशालाक्षलोहिताक्षलोहितजह्नूनां वैश्वामित्र-
माधुच्छन्दसधानञ्जयेति शालङ्कायनकौशिकेति वा ।
काश्यपानां काश्यपावत्सारासितेति । निध्रुवाणां काश्यपा-
वत्सारनैध्रुवेति । रेभाणां काश्यपावत्साररैभ्येति । शाण्डि-
लानां काश्यपावत्सारदैवलेति शाण्डिलासितदैवलेति वा ।
वासिष्ठवसिष्ठानां योऽन्यौपमन्युपराशरकुण्डिनेभ्यः ।
उपमन्यूनां वासिष्ठाभरद्वस्विन्द्रप्रमदेति । पराशराणां वासिष्ठ-
शक्तिपराशरेति । कुण्डिनानां वासिष्ठमैत्रावरुण-
पृष्ठ ०८१६
कौण्डिन्येति । अगस्तीनामागस्त्यदार्ढाच्युतेध्मवाहेति ।
सोमवाहानामागस्त्यदार्ढ्यच्युतसौमवाहेति । पुरोहितप्रवरो
राज्ञाम् । अथ यदि सार्ष्ट्यं प्रवृणीरन् । मानवेड़-
पौरूरवःकुत्सेति शस्त्राणि । तान्यदक्षिणानि । तेषामन्ते
ज्योतिष्टोमः पृष्ट्यशमनीयसहस्रदक्षिणः । अन्यो वा
प्रजातदक्षिणः । दक्षिणाचेता पृष्ट्वा शमनोयेरन्निति विज्ञा-
यते । स एव हेतुः प्रकृतिभावे । “भृगूणां न विवाहो-
ऽस्ति चतुर्ण्णामादितोमिथः । शैनादयस्त्रयस्तेषां विवाहो
मिथ इष्यते । यस्मात् वै गौतमादीनां विवाहोनेष्यते
मिथः । दीर्घतमस्तथौतथ्यः कक्षीवांश्चैव गोत्रजः ।
भरद्वाजाग्निवैश्यर्क्षाः शौङ्गाः कात्याश्च शैशिराः । एते
समानगोत्राः स्युर्गर्गानेके वदन्ति वै । पृषदश्वामुद्गला
विष्णुवृद्धाः काण्वोऽगस्त्यो हारितः सङ्कृतिश्च । यस्क-
श्चैषां मिथ इष्टोविवाहः सर्वैरन्यैर्जासदग्न्यादिभिश्च ।
द्व्यार्षेयाणां त्र्यार्षेयसन्निपाते न विवाहः । त्र्यार्षेयाणां
पञ्चार्षेयसन्निपाते न विवाहः । “एते समानगोत्राः
स्युर्विश्वामित्रोऽनुवर्त्तते । अत्रयश्च वसिष्ठाश्च कश्यपाश्च
पृथक् पृथक् । जमदग्निर्गौतमश्च भरद्वाजोऽत्रयस्तथा ।
विश्वामित्रः कश्यपश्च वसिष्ठोऽगस्तयोऽष्टमाः” । सप्ताना-
मृषीणामगस्त्यष्टमानां यदपत्यं तद्गोत्रमित्याचक्षते
“एकएव ऋषिर्यावत् प्रवरेष्वनुवर्त्तते । तावत् समानगोत्राः
स्युर्भृगुमङ्गिरसं विना । वसिष्ठौ द्वौ च विज्ञेयौ ब्रह्म-
पुत्रोऽथ शापतः । मैत्रावरुणिरित्येव वासिष्ठोवि-
ग्रहान्तरात् । ब्रह्मात्मजाच्छक्तिपराशरव्यासशुकादयः ।
ज्ञेयो विवेकस्त्वनयोर्द्वितीयात् कुण्डिनादयः । अतएव
भिन्नशरीरत्वात् भिन्नगोत्रप्रवरत्वाच्च वसिष्ठवासिष्ठगणयो-
र्विवाहः । जामदग्न्यविश्वामित्राणां देवरातवर्जं सर्वत्र
विवाहः । अत्रिविश्वामित्राणां धनञ्जयवर्जं सर्व्वत्र
विवाहः इति” प्रवरनिर्ण्णयः ।
अथ सौत्रप्रवराः तत्रैव “जामदग्न्यावीतहव्यागार्त्स
मदा वाध्य्रश्वावैन्या गौतमाः भरद्वाजाः कपयोहारीताः
काण्वा विरूपा मौद्गला विष्णुवृद्धा आत्र या विश्वा-
मित्राः कश्यपा वासिष्ठा आगस्त्या इत्यष्टादश गणाः
स्युः । आदितः पञ्चगणा भृगवो भवन्ति । भृगुजाम-
दग्न्या वत्सश्रीवत्सच्यवनाप्नवानाः । और्व्वसावर्णि-
जीवन्तिजावाल्यतिशाट्यायनवैरोहित्थावटमण्डुप्राचीनयो-
ग्यार्ष्टिषेणानां भृगवो न मिथो विवाह्याः ।
वीतहव्ययास्कवाधूलमौनमौकसावेदसा भृगवो न मिथो वि-
बाह्याः । गार्त्समदशौनकौ भार्गवौ न मिथो विवाह्यौ ।
वाध्र्युश्वमित्रयवौ भार्गवौ न मिथो विवाह्यौ । वैण्य-
पार्थौ भार्गवौ न मिथो विवाह्यौ । आङ्गिरसाया-
स्यौतथ्यौशिजकाक्षीवतवामदेववृहदुक्थ्यान्ता गौतमा
न मिथो विवाह्याः । आङ्गिरसवार्हस्पत्यभारद्वाज-
कुक्कुटाग्निवेश्यौज्जापनसर्वस्तम्बस्तम्बशुङ्गकतशैशिरिपक्षिऋ-
क्षवान्दनमातृवचसस्वतन्त्रकपिगार्ग्यकपिशैन्यान्ता
भरद्वाजा न मिथो विवाह्याः । आङ्गिरसकथ्यमहा-
योक्षाजः कथवंश्या न मिथो विवाह्याः । आङ्गिरसमौह-
पिताम्बरीषयौवनाश्वमान्धातृशङ्खपिङ्गदर्भकुत्सहारिताः न
मिथो विवाह्याः । आङ्गिरसाजमीढकण्वा न मिथो
विवाह्याः । आङ्गिरसविरूपपृषदश्वरथीतराष्टादंष्ट्रा
विरूपाः न मिथो विवाह्याः । आङ्गिरसमौद्गल्यऋक्ष-
वोमुद्गला न मिथो विवाह्याः । आङ्गिरसविष्णुवर्धन-
त्रासदस्यवाघमर्षणभद्रणमद्रणवादरायणौपमित्यौपगविसात्य-
किसात्यकाम्यारुणिनितुन्दयाविष्णुवर्धा न मिथो विवाह्याः
आत्रेयार्चनानसश्यावाश्वगविष्ठिरधनञ्जयातिथिसुमङ्गलवाम-
रथ्यवीजवाप्यमुद्गलान्ता आत्रेया न मिथो विवाह्याः ।
विश्वामित्रदेवरातचिकितमनुदन्त्वौलकिबालकियज्ञवल्कोलू-
कलवृहदग्निबभ्रुशाललिश्यालायनश्यालङ्कायनकालव
वौदरश्रौमतकामकायनदैवश्रवसाज्यमाधुच्छन्दसधनञ्जयाष्टकलो-
हितपूरणपारिधायाघमर्षणकौशिककतसूनुपनसधूम्रजठरवा-
वलौकहव्याग्निदैव्यन्ता विश्वामित्रा न मिथो विवाह्याः ।
काश्यपावत्सारनैध्रवरेभरैभशाण्डिल्यशाण्डिल्यदैवरातासि-
तान्ताः काश्यपा न मिथो विवाह्याः । वसिष्ठशक्ति-
प्रराशरवासिष्ठा न मिथो विवाह्याः । आगस्त्यदार्ढ्य-
च्युतेध्मवाहदार्भवाहसाम्भवाहसोमवाहयज्ञवाहान्ता
अगस्तयो न मिथो विवाह्याः” । एवं प्रवरज्ञानस्य विवाहो-
पयोगितोक्ता । अस्य होमविशेषोपयोगिताऽपि आर्षेयशब्दे
वक्ष्यते । निर्ण्णयसिन्धौ अत्र कश्चिद्विशेष उक्तो यथा ।
“अथ गोत्राणि प्रवराश्चोच्यन्ते । तत्र बौधायनः
गोत्राणां तु सहस्राणि प्रयुतान्यर्बुदानि च ऊनपञ्चाशदेवैषां
प्रवरा ऋषिदर्शनात्” ।
“तत्र सप्त भृगवः वत्सा विदा आर्ष्टिषेणा यस्का
मित्रयवावैन्याः शुनका इति ७ । वत्सानां भार्गवच्यबना-
प्नवानौर्वजामदग्न्येति १ । भार्गवौर्वजामदग्न्येति वा
भार्गवच्यवनाप्नवानेति वा । विदानां पञ्च भार्गवच्यव-
नाप्नवानोर्ववैदेति २ । भार्गकौर्वजामदग्न्येति वा एतौ
पृष्ठ ०८१७
द्वौ जामदग्न्यसंज्ञौ । आर्ष्टिषेणानाम् मार्गवच्यवना-
प्नवानार्ष्टिषेणानूपेति । भार्गवार्ष्टिषेणानूपेति वा ।
एषान्त्रयाणां परस्परमविवाहः । वात्स्यानाम् भार्गव-
च्यवनाप्नवानेति वत्सपुरोधसयोः पञ्च भार्गवच्यवनाप्न-
वानवात्स्यपौरोधसेति । वैजवननिमतिथयोः पञ्च भार्गव-
च्यवनाप्नवानवैजवननैमतिथेति । एते त्रयः क्वचित्
एषामपि पूर्वैरविवाहः । अत्र तत्तद्गणस्थाऋषयोऽन्यश्च विशेष
स्तत्कृते प्रवरदर्पणे ज्ञेयः । यस्कानाम् भार्गववैतहव्य-
सावेदसेति । मित्रयूनाम् भार्गववाध्य्रश्वदिवोदासति ।
भार्गवच्यवनदिवोदासेति वा वाध्य्रश्वेत्येको वा । वैन्यानां
भार्गववैन्यपार्थेति । एतएव श्यैताः । शुनकानां
शुनकेति वा गार्त्समदेति वा भार्गवगार्त्समदेति द्वौ वा
भार्गवशौनहोत्रगार्त्समदेति त्रयो वा । वेदविश्वज्योतिषां
भार्गववेदवैश्वज्योतिषेति । शाठरमाठराणां भार्गवशाठ-
रमाठरेति एतौ द्वौ क्वचित् यस्कादीनां स्वगणन्त्यक्त्वा
सर्वैर्विवाहः । तदुक्तं स्मृत्यर्थसारे “यस्कामित्रयवावैन्याः
शुनकाः प्रवरैक्यतः । स्वं स्वंहित्वा गणं सर्वे विवहेयुः
परावरैरिति” ।
“अथाङ्गिरसः ते गौतमाः भरद्वाजाः केवलाङ्गिरस-
श्चेति त्रिधा । अत्र गोतमा दश आयास्याः शरद्वन्तः
कौमण्डादीर्घतमसः औशनसः कारेणुपालाः राहु-
गणाः सोमराजकाः वामदेवाः वृहदुक्थाश्चेति तत्राया-
स्यानाम् आङ्गिरसायास्यगौतमेति शरद्वताम् आङ्गि-
रसगौतमशारद्वतेति । कौमण्डानां आङ्गिरसौतथ्यकाक्षी
वदिति गौतमकौमाण्डेति वा । आङ्किरसानामायास्यौशिज-
गौतमकाक्षीवदिति वा आङ्गिरसौतथ्यगोतमौशिज-
काक्षीवदिति वा । आङ्गिरसौशिजकाक्षीवदिति त्रयो वा ।
दीर्घतमसाम् आङ्गिरसौतथ्यकाक्षीवतगौतमदैर्घतमसेति
आङ्गिरसौतथ्यदैर्घतमसेति त्रयो वा । औशनसानाम्
आङ्गिरसगौतमौशनसेति त्रयः । कारेणुपालानाम्
आङ्गिरसगौतमकारेणुपालेति त्रयः राहुगणानां आङ्गिरस-
राहूगणगौतमेति । सोमराजकानाम् आङ्गिरससोमरा-
जकगौतमेति । वामदेवानाम् आङ्गिरसवामदेव्यगौतमेति
वृहदुक्थानाम् आङ्गिरसवार्हदुक्थगौतमेति । आङ्गि-
रसवामदेववार्हदुक्थेति वा । उतथ्यानामाङ्गिरसौतथ्य-
गौतमेति । औशिजानामाङ्गिरसौशिजकाक्षीवदित्याप-
स्तम्वः । आङ्गिरसायास्यौशिजगौतमकाक्षीवदिति कात्या-
यनः । एतौ द्वौ क्वचित् रघुवाणाम् । आङ्गिरसराघुवन
गौतमेति केचित् । तत्र मूलं चिन्त्यम् । एषां सर्वेषां
गौतमानामविवाहः ।
अथ भरद्वाजाः ते चत्वारः । भरद्वाजा गर्गा-
ऋक्षाःकपय इति भरद्वाजानामाङ्गिरसवार्हस्पत्यभारद्वा-
जेति त्रयः । गर्गाणामाङ्गिरसवार्हस्पत्यभारद्वाज-
शैन्यगार्ग्येति पञ्च । आङ्गिरसशैन्यगार्ग्येति वा अन्त्ययो-
र्व्यत्ययो वा । भारद्वाजगार्ग्यशैन्येति वा । गर्गभेदानाम्
आङ्गिरसतैत्तिरकापिभुवेति ऋक्षाणां कपिलानां चाङ्गि-
रसवार्हस्पत्यभरद्वाजवान्दनमातृवचसेति पञ्च । आङ्गि-
रसवान्दनमातृवचसेति त्रयो वा । कपिलानामाङ्गिरसा-
महीयवऋक्षयसेति । आत्मभुवाम् आङ्गिरसभारद्वाजवार्ह-
स्पत्यमन्त्रवरात्मभुवेति पञ्च । अयं क्वचित् भरद्वाजानां
सर्वेषामविवाहः ।
अथ केवलाङ्गिरसः हरितानाम् आङ्गिरसाम्बरी
षयौवनाश्वेति । आद्योमान्धाता वा । कुत्सानाम्
आङ्गिरसमान्धातृकौत्सेति । कण्वानामाङ्गिरसाजमीढ-
काण्वेति आङ्गिरसघोरकाण्वेति वा । रथीतराणामा-
ङ्गिरसवैरूपराथीतरेति आङ्गिरसवैरूपपार्षदश्वेति वा ।
अष्टादंष्ट्रपार्षदश्ववैरूपेति वा । अन्त्ययोर्व्यत्ययो वा ।
मुद्गलानामाङ्गिरसभार्म्याश्वमौद्गल्येति आद्यस्तार्क्ष्यो वा
आङ्गिरसताविमौद्गल्येति वा । विष्णुवृद्धानामाङ्गिरस-
पौरुकुत्सत्रासदस्यवेति । एषां स्वगणं विहाय सर्वैर्विवाहो
भवति । हरितकुत्सयोस्तु न भवति ।
अथात्रयः ते चत्वारः आत्रेयाः वाद्भुतकाः गविष्ठिराः
मुद्गला इति । आद्यानामात्रेयार्चनानसश्यावाश्वेति । वाद्भु-
तकानाम् आत्रेयार्चनानसवाद्भुतकेति । धनञ्जयानाम्
आत्रेयार्चनानसधानञ्जयेति क्वचित् । गविष्ठिराणामात्रेया-
र्चनानसगविष्ठिरेति । आत्रेयगाविष्ठिरपौर्वातिथेति वा ।
मुद्गलानामात्रेयार्चनानसपौर्वातिथेति । वामरथ्यसुमङ्गल-
वैजवापानामात्रेयार्चनानसतिथेति आत्रेयार्चनानस-
गाविष्ठिरेवि वा । सुमङ्गलानाम् अत्रिसुमङ्गलश्यावाश्वेति
केचित् । अत्रेः पुत्रिकापुत्राणाम् आत्रेयवामरथ्यपौत्रि-
केति । अत्रीणां सर्वेषामविवाहः ।
अथ विश्वामित्राः ते दश कुशिकाः लौहिताः रौक्षकाः
कामकायनाः कताः धनञ्जयाः अधमर्षणाः पूरणाः इन्द्र-
कौशिका इति कुशिकानां विश्वामित्रदेवरातौदलेति ।
लौहितार्ना विश्वामित्राष्टकलौहितेति । अन्त्ययो-
र्व्यर्त्ययो वा वैश्वामित्रमाधुच्छन्दसाष्टकेति वा । विश्वा-
पृष्ठ ०८१८
मित्राष्टकेति द्वौ वा । रौक्षकाणां वैश्वामित्रगाथिनरैवणेति
वैश्वामित्ररौक्षकरैवणेति वा । कामकायनानां वैश्वा-
मित्रदेवश्रवसदैवतरसेति वा । अजानां वैश्वामित्र-
माधुच्छन्दसाजेति वैश्वामित्राश्मरथवाधूलेति वा
अघमर्षणानां वैश्वामित्राघमर्षणकौशिकेति । पूरणानां वैश्वा-
मित्रपौरणेति द्वौ वा । वैश्वामित्रदेवरातपूरणेति वा
इन्द्रकौशिकानां विश्वामित्रेन्द्रकौशिकेति द्वौ । धनञ्ज-
यानां विश्वामित्रमाधुच्छन्दसधानञ्जयेति । वैश्वामित्र-
माधुच्छन्दसाघमर्षणेति वा कतानां वैश्वामित्रकात्याक्षी-
लेति एते वौधायनोक्ताः । रौहिणानां वैश्वामित्रमा-
धुच्छन्दसरौहिणेति । रेणूनां वैश्वामित्रगाथिनरैण-
वेति । जन्हूनां वैश्वामित्रशालङ्कायनकौशिकेति ।
आश्मरथ्यानां वैश्वामित्राश्मरथ्यवाधूलेति । वेणूनां वैश्वामित्र-
गाथिनवैणवेति एते आश्वलायनामात्स्योक्ताः अन्यैस्त्व-
न्येऽपि षढ्गणा ऊक्ताः तेऽन्यत्र तत्कृतौ ज्ञेयाः एषां
विश्वामित्राणामविवाहः ।
अथ कश्यपाः ते पञ्च निध्रुवाः कश्यपाः शण्डिलाः
रेभाः लौगाक्षयश्च । निध्रुवाणां काश्यपावत्सारनैध्रुवेति ।
कश्यपानां काश्यपावत्सारासितेति । रेभाणां काश्यपावत्सा-
रैभेति । शण्डिलानां काश्यपावत्सरशाण्डिल्येति । अन्त्य-
स्थाने देवलोवासितो वा । शाण्डिलासितदेबलेति वा ।
कश्यपासितदेतलेति वा । अन्त्ययोर्व्यत्ययो वा
देवलासितेति द्वौ वा । लौगाक्षीन् वक्ष्यामः । एषां कश्य-
पानामविवाहः ।
अथ वसिष्ठाः ते पञ्च वसिष्ठाः कुण्डिनाः उपमन्यवः
पराशराः जातूकर्ण्याश्चेति । वासिष्ठेन्द्रप्रमदाभरद्वस्विति
वासिष्ठेत्येकं वा । कुण्डिनानां वासिष्ठमैत्रावरुणकौण्डि-
न्येति । उपमन्यूनां वासिष्ठेन्द्रप्रमदाभरद्वस्विति ।
वासिष्ठाभरद्वस्विन्द्रप्रमदेति वा । आद्ययोर्व्यत्ययो वा
पराशराणां वासिष्ठशाक्त्यपाराशर्येति । जातूकर्ण्यानां
वासिष्ठानां सर्वेषामविवाहः । अन्त्यस्याऽत्रिभिश्च ।
अथागस्त्याः ते चत्वारः इध्मवाहाः साम्भवाहाः
सोमवाहाः यज्ञवाहाश्चेति आद्यानाम् आगस्त्यदार्ढ्य-
च्युतैध्मवाहेति आगस्त्येको वा । सोमवाहानाम्
आगस्त्यदार्ढ्यच्युतसोमवाहेति । सांभवाहानां साभवाहोऽन्त्यः
आद्यौ पूर्वकावेव सोमवाहानां तदन्तास्त्रयः दर्भवाहानां
तदन्तास्त्रयः ।
अगस्तीनामागस्त्यमाहेन्द्रमायोभुवेति पूर्णमासानाम्
आगस्त्यपौर्णमासपारणेति । हिमोदकानाम् आगस्त्यहैमच-
र्चिहैमोदकेति । पाणिकानामागस्त्यपैनायक पाणिकेति ।
एते षट् क्वचित् । अगस्तीनां सर्व्वेषामविवाहः ।
अथ द्विगोत्राः शौङ्गशैशिरीणाम् आङ्गिरसवार्हस्पत्य-
भारद्वाजकात्याक्षीलेति पञ्च कात्याक्षीलयोः स्थाने शौङ्ग-
शैशिरी वा आङ्गिरसकात्याक्षीलेति त्रयो वा एषां
भरद्वाजैर्व्विश्वामित्रैश्चाविवाहः । एवं कपिलानां कतानाञ्च
संकृतिपूतिमाषादीनाम् आङ्गिरसगौरुवीतसांकृत्येति
शात्यगौरुवीतसांकृत्येति वा एषां स्वगणस्थैर्वसिष्ठैः शौङ्कशै-
शिरैर्लौगाक्षिभिश्चाविवाहः । कश्यपैरपीति प्रयोगपारि-
जाते । लौगाक्षीणां काश्यपावत्सारवासिष्ठेति काश्यपा-
वत्सारासितेति वा एतेऽहर्वसिष्ठा नक्तं कश्यपाः एषां
वसिष्ठैः कश्यपैः संकृताद्यैश्चाविवाहः । देवरातस्य
जामदग्न्यैर्विश्वामित्रैश्चाविवाह इति प्रयोगपारिजाते
यदुक्तं बह्वृचश्रुतौ “यथैवाङ्गिरसः सन्नुपेयात्तव पुत्र-
ताम् । आङ्गिरसोजन्मनास्याजीगर्तिः श्रुतःकविरित्थ-
ङ्गिरसगणस्थत्वेन भार्गवजामदग्नत्वस्मृतेर्बाधात् । तेन
प्रत्यक्षश्रुत्या हरिवंशादिस्मृतेश्च बाचात् तेन द्वौ
देवरातौ एक आङ्गिरसः श्रुत्युक्तः अन्यो भार्गवः तयोः
कल्पभेदेऽप्याङ्गिरसेन देवरातेन जामदग्नैर्भवत्येव विवाहः
भार्गवेण तु नेति तत्त्वम् । धनञ्जयानां विश्वामित्रैर-
त्रिभिश्चाविवाहः जातूकर्ण्यानां वसिष्ठैरत्रिभिश्चाविवाहः
एवं दत्तक्रीतकृत्रिमस्वयंदत्तपुत्रिकापुत्रादीनाम् उत्पादक-
पालकयोः पित्रोर्गोत्रप्रवरा वर्ज्या इति प्रवरमञ्जरी
नारायणवृत्तिप्रयोगपारिजातादयः । अत्र सर्वत्रोपपत्तयः
मूलं च तत्कृते प्रवरदर्पणे ज्ञेयमिति दिक् । क्षत्रियवै-
श्ययोस्तु पुरोहितगोत्रप्रवरावेवेति सर्व्वसिद्धान्तः यद्यपि
बह्वृचपरिशिष्टे कपिभरद्वाजयोर्विवाह उत्तस्तथापि
“भरद्वाजाश्चंकपयोगर्गारौक्षायणा इमे । चत्वारीऽपि
भरद्वाजगोत्रैक्यान्नान्वियुर्मिथः । कपिगर्गभरद्वाजामिथोरौ-
क्षायणा द्विजाः । नोद्वहेयुः सयोत्रत्वात् प्रवरैक्याच्च
कुत्रचिदिति” स्मृत्यर्थसाराद्यक्तेरविवाह एव तयोरिति
प्रवरमञ्जर्य्यां यद्यपीदमुक्तम् तथापि भृग्वङ्गिरोगणेषु तु
भबत्येव यथा बह्वृ परिशिष्टे बौधायनः “एक
एवऋषिर्यावत्प्रवरेष्वनुवर्त्तते । तावत्समानगोत्रत्वमृते भृग्वङ्गि-
रोगणात्” माधवीये स्मृत्यन्तरं “पञ्चानां त्रिषु सामान्याद-
विवाहस्त्रिषु द्वयोः । भृग्वङ्गिरोगणेष्वेवं शेषेष्वेकोऽपि
वारयेदिति” एवं विश्वादर्शप्रयोगपारिजाताचारमाधवीय-
पृष्ठ ०८१९
निर्ण्णयसिन्धुप्रभृतिषु भृग्वङ्गिरोगणेषु पञ्च प्ररवाणां
मध्ये त्रिषु साम्ये । त्रिषु प्रवरेषु द्वयोः साम्येऽपि
शेषगोत्राणामेकर्षिसाम्येऽपि समानप्रवरत्वादविवाह्यत्वं
सिद्धमेतेन अन्यूनानतिरिक्तसंज्ञासंख्याकत्वेन समानार्षत्वं
यत् रघुनन्दनेनोक्तं तन्निर्मूलत्वादग्राह्यं बौधायनादिस्मृति
विरुद्धत्वात्तदर्शनविजृम्भितत्वाच्च एवं वत्ससावर्णिगो-
त्रप्रवरेषु आप्नुवत्प्रवरत्वकथनमपि प्रवरध्यावाज्ञानवि-
लसितम् । अधिकमार्षेयशब्दे वक्ष्यते । ऋषेरयं अण् ।
ऋषिकृतस्मरणे । वेदे यन्मन्त्रं येन ऋषिणा कल्पादौ स्मृतं
तन्मन्त्रस्य तदार्षत्वम् । “आर्षं छन्दश्च दैवत्यं विनियोग-
स्तथैव च । वेदितव्यं प्रयत्नेन ब्राह्यणेन विशेषतः”
योगिया० ।

आर्षधर्म्म पु० न० कर्म्म० । १ मन्वादिप्रोक्ते धर्म्मे । आर्षशब्दे २ उक्तआर्षविवाहे च ।

आर्षभ त्रि० ऋषभस्य वृषस्येदम् अण् । वृषसम्वन्धिनि ।

“यदन्यगोषु वृषभो वत्सानां जनयेच्छतम् । गोमिनामेव
तत् सर्व्वं मोघं स्कन्दितमार्षभम्” मनुः ऋषभदेव
चरिते न० ।

आर्षभि पु० ऋषभस्यापत्यम् इञ् । ऋषभदेवपुत्रे चक्रवर्त्तिनि नृपभेदे ।

आर्षभी पु० ऋषभस्येयं प्रिया अण् ङीप् । १ कपिकच्छ्वाम्

राजनि० । ऋषस्येयम् तुल्याकारत्वात् अण् ङीप् । वायुपुरा-
णोक्ते मध्यमार्गस्थवीथीत्रयमध्येवीथीभेदे ऐरावतीशब्दे विवृतिः

आर्षभ्य पु० ऋषभस्य प्रकृतिः ञ्य । वृषभतायोग्ये

वत्से वत्सो हि वयःक्रमेण वृषभतां प्राप्तोतीति तस्य वृषभ
प्रकृतित्वात् तथात्वम्

आर्षिक्य न० ऋषिरेव ऋषिकः ऋषिकस्य भावः पुरो० यक् । ऋषिधर्म्मे

आर्षिषेण पु० स्त्री ऋषिषेणस्य गोत्रापत्यम् विदा० अञ् ।

ऋषिषेण ऋषेर्गोत्रापत्ये स्त्रियांङीप् । ऋष्टिषेण इति वा
गणे पाठे आर्ष्टिषेणस्तदपत्ये आर्षशब्दे प्रवरनिर्ण्णये उदा० ।

आर्षेय न० ऋषीणां समूहः ढक् । ऋषिगणरूपे प्रवर

भेदे तज्ज्ञानस्य विवाहोपयोगिता आर्षशब्दे उक्ता ।
होमभेदोपयोगिताऽपि प्रवराध्याये दर्शिता यथा । “प्रव-
रान् व्याख्यास्याम आर्षेयं वृणीते बन्धोरेव नैत्यथो सन्तत्या
इति विज्ञायते तदुवै न मनुष्यैरार्षेयं वृणीत
ॠषिभिरेवार्षेयं वृणीत इति विज्ञायत आर्षेयमन्वाचष्ट
ऋषिणा हि देवाः पुरुषमनुबुध्यन्त” इत्युक्रम्य ।
“योवा अन्यःसन्नथान्यस्यार्षेयं प्रवृणीते स वा अस्यत
ऋषिरिष्टं वीतं वृङ्क्त इति विज्ञायते । त्रीन् वृणीते मन्त्र-
कृतो--वृणीते यथर्षिमन्त्रकृतो वृणीत इति विज्ञायतेऽ
थैकेषामेकं वृणीते द्वौ वृणीते त्रीन् वृणीते न चतुरो-
वृणीते न पञ्चातिप्रवृणीत इति विज्ञायते । तत ऊर्द्ध्वा
नध्वर्युर्वृणीते सुतरेर्वाचोहोतेति विज्ञायते । पुरोहितस्य
प्रवरेण राजा प्रवृणीत इति विज्ञायते । भृगूणामेवाग्रे-
व्याख्यास्यामो जामदग्न्यावत्सास्तेषां पञ्चार्षेयः प्रवरो-
भार्गवच्यवनाप्नवानौर्वजामदग्न्येति जमदग्निवदूर्ववदाप्न-
वानवच्च्यवनवद्भृगुवदिति त्र्यर्षेयमुहैके भार्गवौर्वजाम-
दग्न्येति जमदग्निवदूर्ववद्भृगुवदित्येष वा विकृतः ।
सावर्णिजीवन्तिजाबालैतिशासनवैरोहित्थावटमण्डुप्राचीन-
योग्यानामथार्ष्टिषेणानां पञ्चार्षेयो भार्गवच्यवनाप्न-
वानार्ष्टिषेणानूपेति । अनूपवदृष्टिषेणवदाप्नुवानवच्च्यव-
नवद्भृगुवदिति त्र्यार्षेयमुहैके भार्गवार्ष्टिषेणानूपेति
अनूपवदृष्टिषेणवद्भृगुवदिति । अथ वीतहव्या यास्कवा-
धूलमौनमौकास्तेषां त्र्यार्षेयो भार्गववीतहव्यसावेदसेति
सवेदोवद्वीतहव्यवद्भृगुवदिति । गात्र्समदाः शुनकास्ते-
षामेकार्षेयो गार्त्समदेति होता वदति गृत्समदवत् इत्य-
ध्वर्युः अथ वाध्र्यश्वामित्रयवस्तेषामेकार्षेयो वाध्य्रश्वेति
होता वदति वध्र्यश्ववदित्यध्वर्युः । अथ वैन्याः पार्थास्तेषां
त्र्यार्षेयो भार्गववैन्यपार्थिव्येति । पृथिवीवद्वेनवद्भृगुवदिति ।
इमे भृगवोव्याख्याताः । अथातोऽङ्गिरसामायास्यागोतमा-
स्तेषां त्र्यार्षेयआङ्गिरसायास्यगोतमेति । गोतमवदयास्य
वदङ्गिरोवदिति । अथौ तथ्यागौतमास्तेषां त्र्यार्षेय आङ्गि-
रसौतथ्यगौतमेति गोतमवदुतथ्यवदङ्गिरोवदिति ।
अथौशिजागोतमास्तेषां त्र्यार्षेयः आङ्गिरसौशिजकाक्षी-
वदिति कक्षीवदुशिजवदङ्गिरोवदिति । अथ वामदेवा
गौतमास्तेषां त्र्यार्षेयः आङ्गिरसवामदेववार्हदुक्थेति
वृहदुक्थवद्व्रामदेववदङ्गिरोवदिति । अथभरद्वाजानां त्र्यार्षेय
आङ्गिरसबार्हस्पत्यभारद्वाजेति भरद्वाजवद्वृहस्पतिवदङ्गि-
रोवदित्येष वा विकृतः । कुक्कुटाग्निवेश्योज्जायनानां सर्वेषां
च स्तम्बस्तम्भशब्दानामथ द्व्यामुष्यायणानां कुलानाम् ।
यथा शुङ्गशैशिरयोः भारद्वाजाः शुङ्गाः कता शैशि-
रयस्तेषां पञ्चार्षेयआङ्गिरसवार्हस्प त्यभारद्वाजकात्या-
क्षीवदिति अक्षीवत्कतवद्भरद्वाजवद्वृहस्पतिवदङ्गिरोवदिति
त्र्यार्षेयमुहैके आङ्गिरसकात्याक्षीवदिति अक्षीवत्कतवद-
ङ्गिरोवदिति । अथ रुक्षाणां पञ्चार्षेय आङ्गिरसवार्हस्पत्य-
भारद्वाजवान्दनमातृवचसेति । मातृवचोवद्वन्दनवद्भरद्वा-
जवद्वृहस्पतिवदङ्गिरोवदिति त्र्यार्षेयमुहैके आङ्गिरस-
वान्दनमातृवचसेति मातृवचोवद्वन्दनवदङ्गिरोवदिति । अथ
पृष्ठ ०८२०
कपोनांत्र्यार्षेय आङ्गिरसामहीयवौरुक्षय्येति उरक्षय्यवदम-
हीयुवदङ्गिरोवदिति । अथ गर्गाणां त्र्यार्षेय आङ्गिरसगार्ग्य-
शैन्येति शिनिवद्गर्गवदङ्गिरोवदिति । भरद्वाजमुहैकेऽ-
ङ्गिरसःस्थाने भरद्वाजगार्ग्यशैन्येति शिनिवद्गर्गवद्भरद्वाजव-
दिति । अथ हरितानां त्र्यार्षेय आङ्गिरसाम्बरीषयौवनाश्वेति
युवनाश्ववदम्बरीषवदङ्गिरोवदिति । मान्धातारमुहैकेऽङ्गि-
रसःस्थाने मान्धात्राम्बरीषयौवनाश्वेति । युवनाश्ववद-
म्बरीषवन्मान्धातृवदिति । अथ कुत्सानां त्र्यार्षेय आङ्गि-
रसमान्धात्रकौत्सेति । कुत्सवन्मान्धातृवदङ्गिरोवदिति । अथा
गमीढाः काण्वास्तेषां त्र्यार्षेय आङ्गिरसाजमीढकाण्वेति
कण्ववदजमीढवदङ्गिरोवदिति । अथ विरूपा रथीतरास्तेषां
त्र्यार्षेय आङ्गिरसवैरूपपार्षदश्वेति पृषदश्ववद्विरूप-
वदङ्गिरोवदिति अष्टादंष्ट्रमुहैकेऽङ्गिरसःस्थान आष्टादंष्ट्र
वैरूपपार्षदश्वेति पृषदश्ववद्विरूपवदष्टादंष्ट्रवदिति । अथ मुद्ग-
लानां त्र्यार्षेय आङ्गिरसभार्म्यश्वमौद्गलेति मुद्गलवद्भर्म्य-
श्ववदङ्गिरोवदिति । तृक्षमुहैकेऽङ्गिरसःस्थाने तार्क्ष्यभार्म्य
श्वमौद्गल्येति मुद्गलवद्भर्म्यश्ववत्तृक्षवदिति । अथ विष्णु वृद्धानां
त्र्यार्षेय आङ्गिरसपौरुकुत्सत्रासदस्यवेति । त्रसदस्युव-
त्पुरुकुत्सवदङ्गिरोवदित्येष एव विकृतः । अघमर्षणमद्रण-
मद्रणवादरायणौपमित्यौपगविसात्यकिसात्यकाम्यारुणिनितु-
न्दोनामथात्रीणां त्र्यार्षेयआत्रेयार्चनानसश्यावाश्वेति
श्यावाश्ववदर्चनानसवदत्रिवदिति । अथ गविष्ठिराणां
त्र्यार्षेयआत्रेयार्चनानसगाविष्ठिरेति गविष्ठिरवदर्चना-
नसवदत्रिवदिति । अथातिथीनां त्र्यार्षेय आत्रेया-
र्चनानसातिथेति अतिथिवदर्चनानसवदत्रिवदित्येष एव
वा विकृतो वामरथ्यसुमङ्गलवीजवापी नाम् । अथ विश्वा-
मित्राणां देवराताऽश्विकितमनुतन्त्वौलकिबालखिल्ययज्ञ-
वल्कोलूकवृहदग्निबभ्रुशाललिशालावतशालङ्कायनकालवा-
स्वेषां त्र्यार्षेयो वैश्वामित्रदेवरातौदलेति । उदलवद्देवरात-
वद्विश्वामित्रवदिति । अथ श्रौमन्तकामकायनानां त्र्यार्षेया
वैश्वामित्रदैवश्रवसदैवतरसेति देवतरसवद्देवश्रवोवद्विश्वा-
मित्रवदिति । अथाजानां त्र्यार्षेयो वैश्वामित्रमाधुच्छन्द-
साज्येति । अजवन्मधुछन्दोवद्विश्वामित्रवदिति । अथ धान
ञ्जयानां त्र्यार्षेयो वैश्वामित्रमाधुच्छन्दसधानञ्जयेति
धनञ्जयन्मवधुच्छन्दोवद्विश्वामित्रवदिति । अथाष्टकालोहितास्तेषां
द्व्यार्षेयो वैश्वामित्राष्टकेति । अष्टकवद्विश्वामित्रवदिति । अथ
पूरणपारिधापयन्तास्तेषां द्व्यार्षयो वैश्वामित्रपौरणेति
पूरणरवद्विश्वामित्रवदिति । अथ कतानां त्र्यार्षेयो वैश्वामित्र का-
त्याक्षीलेतिअक्षीलवत्कतवद्विश्वामित्रवदिति । अथाघमर्षणाः
कुशिकास्तेषां त्र्यार्षेयो वैश्वामित्राघमर्षणकौशिकेति कुशि-
कवदघमर्षणवद्विश्वामित्रवदिति । अथ कश्यपानां त्र्यार्षेयः
काश्य पावत्सारनैध्रुवेति निध्रुववदवत्सारवत्कश्यपवदिति ।
अथ रैभास्तेषां त्र्यार्षेयः काश्यपावत्साररैभेति । रेभव-
दवत्सारवत्कश्यपवदिति । अथ शाण्डिलानां द्व्यार्षेयो
देवलासितेति । असितवद्देवलवदिति । त्र्यार्षेयमुहैके
काश्यपदेवलासिवेति असितवद्देवलवत्कश्यपवदिति
द्व्यार्षेयास्त्वेवं न्यायेनैकार्षेया वसिष्ठा अन्यत्र पराशरेभ्यो
वासिष्ठेति होता वसिष्ठवदित्यध्वर्युस्त्र्यार्षेयमुहैके वासिष्ठे-
न्द्रप्रमदाभरद्वसवेति अभरद्वसुवदिन्द्रप्रमदवद्वसिष्ठवदिति ।
अथ पराशराणां त्र्यार्षेयो वासिष्ठशाक्त्यपाराशर्येति
पराशरवच्छक्तिवद्वसिष्ठवदिति अथ कुण्डिनानां त्र्यार्षेयो
वासिष्ठमैत्रावरुणकौण्डिन्येति । कुण्डिनवन्मित्रावरुणवद्व-
सिष्ठवदिति । अथ संङ्कृतिपूतिमाषाणां त्र्यार्षेयःशाक्त्यसां-
कृत्यगौरुवीतेति । गुरुवीतवत्संङ्कृतिवच्छक्तिवदिति । अथा
गस्तीनाम् एकार्षेय आगस्त्येति होताऽगस्त्यवदित्यध्वर्यु-
स्त्र्यार्षेयमुहैके आगस्त्यदार्ढ्यच्युतेध्मावाहेति इध्मवाहवत्
दृढच्युतवदगस्तिवदिति । अथ क्षत्रियाणां यद्व्यहसार्षं प्रवृ-
णीरन्नेष एवैषां प्रवरो मानवेड़पौरूरवसेति पुरूरवोवदिड़-
वन्मनुवदिति अथ येषामुह मन्त्रकृतो न स्युः पुरोहित
प्रवरास्ते प्रवृणीरन् अथ येषां स्युः पुरोहितप्रवरास्ते
पुरोहितप्रवरार्षे यास्तेषां न्यायेनैकार्षेया एव विशां वात्स
प्रेति होता । वत्सप्रीवदध्वर्युः । अथाप्रज्ञातबन्धुराचा-
र्यामुष्य यणमनु प्रब्रवीताचार्यप्रवरं प्रवृणीताह्युह ताण्डिन
एकार्षेयं सार्ववर्णिकं समामानन्ति मानवेति होता मनुव-
दित्यध्वर्युर्मानव्यो हि प्रजा इति हि ब्राह्मणम्” । एवं
प्रवरभेदं निर्ण्णीय होमविशेषोपयोगिता तदुत्तरग्रन्थे नोक्ता ।
“आर्षेयाणि गृहपतेः प्रवरित्वात्मादीनां मुख्यानाम्”
आश्व० श्रौ० “आर्षेयवरणे गृहपतेः प्रथमं वरित्वा आत्मा
दीनां मुख्यानां प्रवृणीते” इति वृत्तिः । ऋषिं कुटस्थमृषि
मारभ्य अयं प्रवरैत्यर्थेढकि मूलपुरुषावधिप्रवरर्षिभेदर्षेया
एवायः यथोक्तं “अथार्षेयं प्रवृणीते ऋषिभ्ययैवैनमेतद्देवे-
भ्यश्च निवेदयत्ययं महावीर्य्योयो यज्ञं प्रापदिति । तस्मा-
दार्षेयं प्रवृणीते परस्तादर्वाक् प्रवृणीते । परस्ताद्ध्य
र्वाच्यः प्रजाः प्रजायन्ते ज्यायसस्पतय उ चैधैतं निह्नुत-
इदं हि पितैवाग्रेऽथापुत्रोऽथ पौत्रस्तस्मात्परस्तादर्वाक्
प्रवृणीते । स आर्षेयमुक्त्वाह” शत० ब्रा० । “होतृकर्त्त
पृष्ठ ०८२१
प्रवरो विधीयते । तत्र धर्म्मविशेषमाह परस्तादिति
तस्मिन्नार्षेयप्रवरणे कूटस्थमृषिमारभ्य तत्पुत्रपौत्रादि
क्रमेणार्वाचीनं वरणं कर्त्तव्यम् । यथा आङ्गिरसवार्ह-
स्पत्यभारद्वाजेत्यादि । तथा च ज्येष्ठस्य पतये एवैतं निह्नुते
अनेन प्रवरणेन निवेदयति भा०” । “असमानार्षेयां
कन्यां वरयेत्” विष्णुः । “प्रवरस्तु गोत्रप्रवर्त्तक
मुनेर्व्यावर्तको मुनिगण” इति माधवाचार्यः ।
ऋषिरेव स्वार्थेढक् । ३ मन्त्रद्रष्टरि ऋषौ “प्रजापतिः प्रथमां
चिति मपश्यत्” प्रजापतिरेव तस्या आर्षेयं, देवा द्वितीयां चिति
मपश्यन्देवां एव तस्या आर्षेयम्, इन्द्राग्नी च विश्वकर्म्मा
च तृतीयां चितिमपश्यंस्त एव तस्या श्चार्षेयम्
ऋषयश्चतुर्थीं चितिमपश्यन्नृषय एवं तस्या आर्षेयं परमेष्ठी-
पञ्चमीं चितिमपश्यत् परमेष्ठ्येव तस्या आर्षेयं स यो
हैतदेवं चितीनामार्षेयं वेदार्षेयवत्यो हास्य वन्धु मत्यश्चि-
तयी भवन्ति” इति शत० व्रा०

आर्ष्टिषेण पु० १ चन्द्रवंस्ये शलनृपात्मजे नृपभेदे “क्षत्र

वृद्धात्मजस्तत्र सुनहोत्रोमहायशाः । सुनहोत्रस्य दायादा
स्त्रयः परमधार्म्मिकाः । काशः शलश्च द्वावतौ तथा गृत्-
समदः प्रभुः । पुत्रोगृहत्समदस्याथ शुनकोयस्य शौनकः ।
ब्राह्मणाः क्षत्रियाश्चैव वैश्याःशूद्रास्तथैव च । शलात्मज-
श्चार्ष्टिषेणस्तनयस्तस्य काश्यपः” । हरि० वं० २०१ अ० ।
आर्ष्टिषेणोदिलीपश्च महात्मा चाप्युशीनरः” स० भा० प० ।
२ गोत्रप्रवरभेदे आर्षशब्दे उदा० ।

आर्ष्टिषेणाश्रम न० ६ त० । तीर्थभेदे तच्च व० प०

१५५ अध्याये दर्शितं यथा । “अनैनैव पथा राजन् ।
प्रतिगच्छ यथागतम् । नरनारयणस्थानं वदरीत्यभिविश्रु-
तम् । तस्याद्यास्यसि कौन्तेय! सिद्धचारणसेवितम् ।
बहुपुष्पफलं रम्यमाश्रमं वृषपर्वणः । अतिक्रम्य च तं
पार्थ! चार्ष्टिषेणाश्रमे वसेः” ।

आर्हत त्रि० अर्हत इदम् अण् । १ जैनसम्बन्धिनि । २ तन्मते

न० तन्मतञ्चार्हच्छब्दे ३८२ पृष्ठे दर्शितम् ।

आर्हन्ती स्त्री न० अर्हतो भावः ब्रह्म० ष्यञ् नुम् च षित्त्वात्

ङीष् यलोपः । योग्यतायाम् । “श्रौत्रार्हन्तीचणर्गुण्यै
र्महर्षिभिरहर्निशम्” सि० कौ० । स्त्रीत्वाभावपक्षे ।
आर्हन्त्यमित्यपि तत्रार्थे न० ।

आर्हायण स्त्री अर्हस्यापत्यम् अश्वा० फञ् । अर्हन्नाम-

कर्षेर्गोत्रापत्ये । स्त्रियां ङीप् ।

आर्हीय पु० अर्हमभिव्याप्य आर्हम् तत्र विहितः तस्येदम् वा

वृद्धत्वात् छ । “आर्हात् इत्यारभ्य “तदर्हति” इत्यन्त
सूत्रजातेन तत्तदर्थेषु पाणिनिविहिते १ प्रत्ययभेदे ।
२ तद्बोध्ये तत्तदर्थे च । “आर्हीयेष्वर्थेषु” सि० कौ०

आल न० आलति भूषयति आ + अल--भूषादौ अच् ।

१ हरिताले तद्धि वर्ण्णोत्कर्षेण स्वयुक्तपदार्थं भूषयतीति तस्य
तथात्वम् । “ततो हरिद्रागृहधृमरोध्रपत्राङ्गचूर्ण्णैः समनः-
शिलालैः” । “मनःशिलालमधुककुष्ठचन्दनपद्मकैः”
“रसाञ्जनं चन्दनसैन्धवञ्च मनःशिलाले लशुनञ्च तुत्थम्”
सुश्रु० । हरितालभेदगुणाद्युक्तम् भा० प्र० । “हरि-
तालं तु तालं स्यादालं तालकमित्थपि । हरितालं द्विधा प्रोक्तं
पत्राख्यं पिण्डसंज्ञितम् । तयोराद्यं गुणश्रेष्ठं ततोहीन-
गुणं परम् । स्वर्ण्णवर्ण्णं गुरु स्निग्धं सपत्रं चाभ्रपत्रवत् ।
पत्राख्यं तालकं विद्याद् गुणाढ्यं तद्रसायनम् । निष्पत्रं
पिण्डसदृशं स्वल्पसत्वं तथा गुरु । स्त्रीपुष्पहारकं स्वल्प
गुणं तत् पिण्डतालकम् । हरितालं कटु स्निग्धं
कषायोष्णं हरेद्विषम् । कण्डूकुष्ठास्यरोगाभ्रकफपित्तक
फव्रणान् । हरति च हरितालं चारुतां देहजातां
सृजति च बहुतापानङ्गसङ्कोचपीड़ाः । वितरति कफवातौ
कुष्ठरोगं विदध्यादिदमशितमशुद्धं मारितं वाप्यसम्यक्” ।
आ + अल--पर्य्याप्तौ अच् । २ अनल्पे ३ श्रेष्ठे च त्रि० ।

आलक्षि त्रि० आ + लक्ष--इन् । ज्ञातरि स्त्रियां गौरा० ङीष् ।

आलक्षित त्रि० आ + लक्ष--क्त । १ सम्यग्ज्ञाते, २ लिङ्गेन ज्ञाते च

आलक्ष्य त्रि० आ + लक्ष--यत् । १ सम्यग्ज्ञेये २ लक्षणेन वेद्ये च

“आलक्ष्यपारिप्लवसारसानि” रघुः । आलक्ष्याश्चैव
पुरुषाः कुले जाता महागुणाः भा० व० २०७ । ल्यप् ।
३ सम्यक् ज्ञात्वेत्यर्थे अव्य० ।

आलगर्द्ध पु० अलगर्द्ध एव स्वार्थे अण् । जलसर्पे ।

आलजि त्रि० आ + लज--इन् । आभाषके स्त्रियां गौरा० ङीष्

आलब्ध त्रि० आ + लभ--क्त । १ संसृष्टे २ संयुक्ते “चन्दनेन

समालब्धे कुङ्कुमेन विलिपिते” दुर्गार्चामन्त्रः! ३ स्पृष्टे
४ हिंसिते च ।

आलब्धि स्त्री आ + लभ--क्तिन् । स्पर्शे २ हिंसायां चक्तिन्नन्तत्येऽपि गौरा० वा ङीष् ।

आलभन न० आ + लभ--ल्युट् । १ हिंसायां २ स्पर्शे । पक्षे नुम्

३ मर्द्दने च । “तिला भक्षयितव्याश्च सदा त्वालम्भनञ्च
तैः” भा० आ० प० ६८ अ० । तत्रार्थे “आलम्भनम्”
कात्या० ९, २, १८ ।

आलभनीय त्रि० आ + लभ--अनीयर् । १ स्पृश्ये २ हिंसनीये

च नुम् । ३ मर्द्दनीये “मङ्गलालम्भनीयानि प्राशनीया-
न्युपस्करान्” । यागादौ आलम्भनीयः पशुः ।
पृष्ठ ०८२२

आलभ्य त्रि० आ + लभ--यत् । १ स्पृश्ये २ हिंस्ये

अ + लभ--ल्यप् । ३ स्पृष्ट्वेत्यर्थे ४ हिंसित्वेत्यर्थे च अव्य० ।

आलम्ब पु० आ + लबि--कर्म्मणि घञ् । आश्रयणीये, “निरालं-

म्बोलम्बोदरजननि! कंयामि शरणम्” जगन्नाथः “इह हि
पततां नास्त्यालम्बो न चापि निवर्त्तनम्” शान्ति० श
“रामे सलक्ष्मणे याते सोतां शून्ये यथासुखम् । निरा-
लम्बां हरिष्यामि” रामा० । ३ वैशम्पायनान्तेवासिभेदे
आरुणिशब्दे ८०३ पृष्ठे विवृतिः । भावे घञ् । ४ आश्रयणे

आलम्बन न० आ + लबि--कर्मण्णि--ल्युट् । १ आश्रयणीये

“यस्मादेष विभावादिसमूहालम्बनात्मकः” सा० द०
उक्ते २ रसालम्बने नायकादौ । “आलम्बनं नायकादिस्त-
मालम्ब्य रसोद्गमात्” इति तस्यालम्बमशब्दार्थत्वेकारणमुक्तं
तत्रैव । रसभेदे आलम्बनभेदाश्च” सा० द० उक्तायथा शृङ्गारे
“परोढां वर्जयित्वा तु वेश्याञ्चाननुरागिणीम् । आलम्बनं
नायिकाः स्युर्दक्षिणाद्याश्च नायकाः” । रौद्रे “आलम्ब-
नमरिस्तत्र तच्चेष्टोद्दीपनं मतम्” । हासे “विकृताकार-
वाक्चेष्टं यदालोक्य हसेज्जनः । तदत्रालम्बनं प्राहुस्त-
च्चेष्टोद्दोपनं मतम्” । करुणे । “शोच्यमालम्बनं मतम्” ।
वीरे “आलम्बनविभावास्तु विजेतव्यादयोमताः”
भयानके । “यस्मादुत्पद्यते भीतिस्तदेवालम्बनं मतम्” । जुगु-
प्सायाम् । “दुर्गन्धमांसपिशितन्तदेवालम्बनं मतम्” ।
विस्मये । “विस्मये च वस्तु लोकातिगमालम्बनं मतम्” शान्ते
“अनित्यत्वादिनाऽशेषवस्तुनोऽसारता तु या । परमात्मस्वरूपं
वा तस्यालम्बनमिष्यते” । ४ बौद्धमतसिद्धे प्रत्ययभेदे च
“चत्वारः प्रत्ययाः प्रसिद्धा आलम्बनसमनन्तरसहकार्य्य-
धिपतिरूपा” इति विभज्य “तत्र ज्ञानपदवेदनीयस्य
नीलाद्यवभासस्य चित्तस्य नीलोल्लेखिप्रत्ययात् नीलाकारता
भवतीति” सर्वदर्श० । अधिकमालयविज्ञानशब्दे वक्ष्यते ।

आलम्बि स्त्री आलम्बस्य ऋषिभेदस्यापत्यम् इञु । वैशम्पाय-

नान्तेवासिन आलम्बर्षेरपत्ये स्त्रियां गौ० ङीष् ।
सा च शुक्लयजुर्वंशान्तर्गतर्षेर्माता “आलम्बीपुत्रात्
आलम्बीपुत्रः” शत० ब्रा० । इञन्तात् यूनि फञ् । आलम्बायानः
तस्य यून्यपत्येस्त्रियां ङीप् । सा च शुक्लयजुर्वेदवंशान्तर्गतर्षि-
भेदमाता । “आलम्बायनीपुत्रादालम्बायनीपुत्रः” शत० ब्रा०

आलम्बित त्रि० आ + लबि--क्त । १ धृते २ गृहीते च ।

आलम्बिन् त्रि० आ + लबि--णिनि । आश्रयिणि ।

गजाजिनालम्बि दुकूलधारि वा” कुमा० “देवसूतभुजालम्बी-
जैत्रमध्यास्त राघवः” रघुः । “आलम्बिभिश्चन्द्रकिणां
कलापैः” माधः स्त्रियां ङीप् । आलम्बेन वैशम्पा-
यनान्तेवासिभेदेन प्रोक्तमधीयते णिनि । आलम्बप्रोक्ता-
ध्यायिषु ब० व० ।

आलम्भ पु० आ + लभ--घञ् मुम् । संस्पर्शे । वर्ज्जयेदित्य-

नुषङ्गे “स्त्रीणाञ्च प्रेक्षणालम्भमुपघातं परस्य च” मनुः
२ हिंसने च । “अश्वालम्भं गवालम्भं संन्यासं पल
पैतृकम्” आदिपु० । “कृष्टजानामोषधीनां जाता-
नाञ्च स्वयं वने । वृथालम्भेऽनुगच्छेद्गां दिनमेकं
पयोव्रतम्” मनुः” । “सास्मै प्रीतान्यमालम्भायानुमन्यते
तयानुमतमालभते” शत० ब्रा० । “आलम्भसमये तस्मिन्
गृहीतेषु पशुष्वथ । महर्षयो महाभाग! वभूवुः कृपया-
न्विताः” भा० आ० ९१ अध्याये ।

आलम्भ्य त्रि० आ + लभ--नुम् ण्यत् । हिंस्ये । “आलम्भ्यो गौः” सि० कौ”

आलय पु० आलीयतेऽस्मिन् आ + ली--आधारे अच् । “गृहे

२ आधारे च “हिमालयोनाम नगाधिराजः” कुमा०
“तत्रामरालयमरालमरालकेशी” नैष० । “न हि
दुष्टात्मनामार्य्या निवसत्यालये चिरम्” रामा० “आलयं
देवशत्रूणां सुघोरं खाण्डवं वनम्” भा० आ०
२२३ अ० । भावे घञ् । ३ संश्लेषे मर्यादायामव्ययी० ।
४ लयपर्य्यन्ते अव्य० । “पिबत भागवतं रसमालयम्” भाग० ।

आलयविज्ञान न० आलयं लयपर्य्यन्तस्थायि विज्ञानम् ।

बौद्धमतसिद्धे अहमास्पदे विज्ञानभेदे । “तत् स्यादालयविज्ञानं
यद्भवेदहमास्पदम् । तत् स्यात् प्रवृत्तिविज्ञानं यन्नीलादिक
मुल्लिखेत्” तेषां मते हि विज्ञानातिरिक्तो बाह्यपदार्थो
नास्ति, ज्ञानस्यैवाकारविशेषः अर्घोल्लेखी । आलयविज्ञानस्य
सदातनत्वेऽपि कदाचित् नीलाद्युल्लेखिता तथा हि विवादा-
ध्यासिताः प्रवृत्तिप्रत्ययाः सत्यप्यालयविज्ञाने कदाचिदेव
नीलाद्युल्लखनाः काचित्कत्वात् इति विज्ञानस्य कादाचित्कत्व
सिद्धिः “तस्मादालयविज्ञानसन्तानातिरिक्तः कादाचित्कः
प्रवृत्तिविज्ञानहेतुर्बाह्योऽर्थो ग्राह्य एव न, वासनापरिपाक-
प्रत्ययस्य कादाचित्कत्वात् कदाचिदुत्पाद इति वेदितव्यम् ।
विज्ञानवादिनये हि वासनानामेकसन्तानवर्त्तिनामालय-
विज्ञानानां तत्तत्प्रवृत्तिजननशक्तिः तस्याश्च स्वकार्य्योत्-
पादं प्रत्याभिमुख्यं परिपाकः तस्य च प्रत्ययः कारणं
स्वसन्तानवर्त्तिपूर्ब्बक्षणः कक्षीक्रियते सन्तानान्तरनिबन्ध
त्वानङ्गीकारात् । ततश्च प्रवृत्तिज्ञानजननालयविज्ञान-
वर्त्तिवासनापरिपाकं प्रति सर्व्वेऽप्यालयविज्ञानवर्त्तिनः
पृष्ठ ०८२३
क्षणाः समर्था एवेति वक्तव्यम् । न चेदेवं कोऽपि न
समर्थः स्यादालयविज्ञानसन्तानवर्त्तित्वाविशेषात् । सर्व्वे
समर्था इति पक्षे कार्य्यक्षेपानुपपत्तिः ततश्च कादाचित्-
कत्वनिर्व्वाहाय शब्दस्पर्शरूपरसगन्धविषयाः सुखादि-
विषयाः षड़पि प्रत्ययाश्चतुरः प्रत्ययान् प्रतीत्योत्पद्यन्ते
इति चतुरेणानिच्छताप्यच्छमतिना स्वानुभवमनाच्छाद्य
परिच्छेत्तव्यम् । ते चत्वारः प्रत्ययाः प्रसिद्धाः आलम्बन-
समनन्तरसहकार्य्यधिपतिरूपाः । तत्र ज्ञानपदवेदनीयस्य
नीलाद्यवभासस्य चित्तस्य नीलालम्बनप्रत्ययात् नीला-
कारता भवति, समनन्तरप्रत्ययात् प्राचीनज्ञानाद्बोधरूपता,
सहकारिप्रत्ययादालोकात्, चक्षुषोऽधिपतिप्रत्ययाद्विषय-
ग्रहणप्रतिनियमः । विदितस्य ज्ञानस्य रसादिसाधारण्य-
प्राप्तेर्नियामकं चक्षुरधिपतिर्भवितुमर्हति लोके नियामक-
स्याधिपत्वोपलम्भात् । एवं चित्तचैत्तात्मकानां सुखा-
दीनां चत्वारि कारणानि द्रष्टव्यानि । एवं चित्तचैत्तात्म-
कस्कन्धः पञ्चविधः रूपविज्ञानवेदनासंज्ञासंस्कारसं-
ज्ञकः । तत्र रूप्यन्त एभिर्विषया इति रूप्यन्त इति च
व्युत्पत्त्या सविषयाणीन्द्रियाणि रूपस्कन्धः ।
आलयविज्ञानप्रवृत्तिविज्ञानप्रवाहो विज्ञानस्कन्धः । प्रागुक्त-
स्कन्धद्वयसम्बन्धजन्यः सुखदुःखादिप्रत्ययप्रवाहो वेदना-
स्कन्धः । गौरित्यादिशब्दोल्लेखिविज्ञानप्रवाहः संज्ञास्कन्धः
वेदनास्कन्धनिवन्धना रागद्वेषादयः क्लेशा उपक्लेशाश्च
मदमानादयो धर्म्माधर्म्मौ च संस्कारस्कन्धः” सर्वद०
विज्ञानानां क्षणिकत्वेऽपि पूर्ब्बपूर्ब्बक्षणिकविज्ञानसंस्कारा-
णामुत्तरोत्तरविज्ञाने संक्रमः तत्संक्रमाच्च स्मरणं, सुषुप्तौ
च आलयविज्ञानस्य सत्त्वात् तत्रैव सर्व्वसंस्काराणामव-
स्थितेः सुप्तोत्थितस्य स्मरणसम्भव इत्यतो बौद्धैः
आलयपर्य्यन्तं क्षणिकविज्ञानव्यक्तिधाराणां स्थायित्वमङ्गीक्रियते ।

आलर्क न० अलर्कस्येदम् अण् । क्षिप्तकुक्कुरविषे । “निहन्ति-

विषमालर्कं मेघवृन्दमिवानिलः” सुश्रु० ।

आलवण्य न० न लवणं त० न० अलवणस्य भावः ष्यञ् ।

लवणरसभिन्नत्वे । नास्ति लवणं यत्र बहु० तल् त्व वा
न ष्यञ् । अलवणता स्त्री अलवणत्वं तु न० लवणशून्यत्वे

आलवाल न० समन्तात् लवं जललवमालाति आ + ला--क ।

वृक्षमूले सेकार्थं मृदादिनिर्म्मिते जलाधारे सेतौ । “विश्वा-
साय विहङ्गानामालवालाम्बुपायिनाम्” रघुः । “विपुला-
लबालभृतवारिदर्पणः” माघः । पृ० वस्यबः वर्ग्यमध्योऽपि
“जरद्गृहमुनिभिरिव जटालबालकमण्डलधरैः” (पादपैः)काद०

आलस त्रि० आलसति ईषत् व्याप्रियते अच् । १ क्रियामन्दे

अलसस्यापत्यम् विदा० अञ् । २ अलसापत्ये पु० स्त्री० यून्य-
पत्ये हरिता० फञ् । आलसायनः तस्य यून्यपत्ये पुंस्त्री० ।

आलस्य न० अलसस्य भावः ष्यञ् । विहितक्रियाकरणायानुत्साहे

आलस्यञ्च “किमालस्यं च कः शोकऽ” इति यक्षप्रश्ने “धर्म्म-
निषिक्रयतालस्यं शोकस्त्वज्ञानमुच्यते” भा० व० ३१२ अ०
युधिष्ठिरेण लक्षितम् । “शक्तस्य चाप्यनुत्साहः कर्म्मस्वालस्य-
मुच्यते” सुश्रुतेन लक्षितञ्च बोध्यम्” सा० द० उक्ते व्यभि-
चारिभावभेदे च “आलस्यं श्रमगर्भाद्यैर्जाड्यं जृम्भासिता-
दिकृत्” यथा “न तथा भूषयत्यङ्गं न तथा भाषते सखीम् ।
जृम्भते मुहुरासीना बाला गर्भभरालसा” सा० द०
“आलस्यादन्नदोषाच्च मृत्युर्विप्रान् जिघांसति” मनुः ।
भारतोक्तधर्मक्रियाशून्यत्वरूपम् अत्रालस्यम् ।

आलात न० अलातमेव स्वार्थेऽण् । अलाते वह्निदीप्ताङ्गारे ।

आलान न० आलीयतेऽत्र आ--ली--ल्युट् । १ गजबन्धन-

स्तम्भे करणे ल्युट् । २ तद्बन्धनरज्ज्वाम् भावे ल्युट् ।
३ बन्धनमात्रे च । तत्र स्तम्भे । “अरुन्तुदमिवालानमनि-
र्वाणस्य दन्तिनः” रघुः । “इभमदमलिनमालानस्तम्भयुग-
लमुपहसन्तमिवोरुदण्डद्वयेन” काद० “तद्गजालानतां
प्राप्तैः सह कालागुरुद्रुमैः” बन्धने “गजालानपरिक्लि-
ष्टैराक्षौटैः सार्द्धमानताः” रघुः ।

आलानिक त्रि० आलानमिव स्वार्थे विनयादि० ठक् ।

१ आलाने । आलानं बन्धनं प्रयोजनमस्य ठक् । गजबन्धन-
साधने काष्ठादौ “आलानिकं स्थाणुमिव द्विपेन्द्रः” रघुः

आलाप पु० आ + लप--करणे--घञ् । स्वरसाधनाक्षरे सारिग-

मादौ (आलापचारी) “आलापैरिव गान्धर्ब्बमदीप्यत
पदातिभिः” माघः “आलापैः स्वरसाधनैरक्षरविशेषैः”
मल्लि० । भावे घञ् । २ कथनमात्रे च” “काव्यालापाश्च ये
केचित् गोतकान्यखिलानि च” विष्णुपु० आ +
लपणिच्--अच् । ३ परस्परकथने । “अये दक्षिणेन पुष्पवा
टिकामालापैव श्रूयते” शकु० । एकस्य कञ्चित् प्रति
कथने तेन तत्कथनप्रेरणात् तं प्रति कथ्यते इति
परस्परकथनस्य इतरेतरकथनप्रयोज्यत्वात्तथात्वम् ।

आलापन न० आ + लप--णिच्--करणे ल्युट् । १ परस्पर

कथोपकथने आभाषणे आलापशब्देऽस्य प्रवृत्तिहेतुत्व-
मुक्तम् “स्यादालापनमाभाषः इत्यमरः २ स्वस्तिवाचने
च “मङ्गलालापनैर्होमैः” रामा० ।

आलाप्य त्रि० आ + लप--कर्म्मणि ण्यत् । १ कथनीये णिच्--यत् । २ आभाष्ये

पृष्ठ ०८२४

आलाबु(बू) स्त्री अलाबु पु० पूर्व्वपदीदर्घः वा उङ् ।

(लाउ) तुम्ब्याम् शब्दरत्नावली ।

आलावर्त्त न० आलं पर्य्याप्तमावर्त्त्यते आ + वृत--णिच्

कर्मणि--अच् । वस्त्रनिर्म्मिते व्यजने हेम० ।

आलास्य पु० आलं पर्य्याप्तमास्यं यस्य । कुम्भीरे । प्रा० स० । सम्यग्नृत्ये न०

आलि पु० आलति दंशे समर्थो भवति आ + अल--पर्य्याप्तौ इन् ।

१ वृश्चिके २ भ्रमरे ३ तज्जातिस्त्रियां स्त्री ङीप् ।
आलयति भूषयति अलभूषणे--णिच् + इन् । ४ सख्यां वयस्या-
याम् “असम्भवद्घनरसा शतालिपरिषेविता । करं न
सहते राजन्! भूमिर्नववधूरिव” उद्भटः वा ङीप् ।
आलीत्यप्यत्र । “आलीव पश्य प्रतिषेधतीय कपोतहुङ्कारगिरा
वनाली” नैष० । “तत्कालमालीभिरहस्यतालम्” नैष०
“ममालि! प्राचीनैः प्रचुरसुकृतैरद्य फलितम्” उद्भटः ।
“निवार्य्यतामालि! किमप्ययं वटुः” कुमा० “स्मित-
मुपगतामालीं दृष्ट्वा सलज्जमवाञ्चितम्” सा० द० ।
“आलति वारयति जलम् आ + अल--इन् वा ङीप् ।
आगन्तुकस्य क्षेत्रस्थस्य च जलस्य निवारके ५ सेतौ” । “शता-
लिपरिषेबितेति” आ + अल--पर्य्याप्तौ इन् बा ङीप् ।
६ सन्ततौ श्रेणौ च बनाली नैष० “तोयान्तर्भास्करालीव
रेजे मुनिपरम्परा” कुमा० लीनामालीमिव तरवोबि-
भ्राणाः” माघः । ७ रेखायाञ्च स्त्री वा ङीप् “विषमहरि-
चन्द्रनालिना” माघः । ८ शुद्धान्तःकरणे ९ अनर्थे
च त्रि० मेदि० ।

आलिगव्य पुंस्त्री अलिगोरपत्यं गर्गा० वञ् । अलिगुमुने-

रपत्ये स्त्रियां यञन्तत्वात् ष्फः षित्त्वात् गौरा० ङीष् ।
आलिगव्यायनी ।

आलिङ्गन न० आ + लिगि--ल्युट् । आश्लेषणे अङ्गेनाङ्गसं-

योजनभेदे । “आलिङ्गनान्यधिकृताः स्फुटमापुरेव” माघः
“प्रियालिङ्गननिर्वृतिम्” रघुः । तच्च सप्तधा ।
आमोदालिङ्गनं मुदितालिङ्गनं प्रेमालिङ्गनं मानसालिङ्गनं
रुच्यालिङ्गनम् मदनालिङ्गनम् विनोदालिङ्गनमिति भेदात् ।

आलिङ्गित त्रि० आ + लिगि--कर्म्मणि क्त । १ आश्लिष्टे “तरु-

ण्यालिङ्गितः कण्ठे नितम्बस्थानमाश्रितः” सा० द०
टीकाधृतप्रहेलिका “योगोनाभ्यसितोव्रतं न चरितम्-
नालिङ्गिता कामिनी इत्थं जन्म निरर्थकं क्षितितलेऽरण्ये
यथा मालती” सा० द० । “विंशत्यर्ण्णात्त्रिंशदर्णोयः स्यादा-
लिङ्गितो ह्यसौ” तन्त्रसारोक्ते विंशत्यक्षरावधि त्रिं
शदक्षरके २ मन्त्रे भेदे पु०

आलिङ्गिन् त्रि० अ--लिगि--णिनि । आलिङ्गनकर्त्तरि

स्त्रियां ङीप् ।

आलिङ्ग्य पु० आ + लिग--ण्यत् । आलिङ्गनीये प्रियादौ

२ आलिङ्ग्य वादनीये मृदङ्गभेदे पु० स च “चतुरङ्गुलही-
नोऽङ्क्यान्मुखे चैकाङ्गुलेन यः । यवाकृतिःस आलिङ्ग्य
आलिङ्ग्य स हि वाद्यते” इति शब्दार्णवोक्तलक्षणः ।
आ + लिगि--ल्यप् । ३ आश्लिष्येत्यर्थे अव्य०

आलिङ्ग्यायन पु० आलिङ्ग्यस्य मृदङ्गभेदस्यायनं यत्र ।

१ ग्रामभेदे तस्यादूरभवं नगरम् अण् वरणा० तस्य लुप् ।
तद्ग्रामस्यादूरभवे नगरे । “लुपि व्यक्तिवचने” पाणि-
त्युक्तेः नगरेऽपि पुंस्त्वम् ।

आलिञ्जर पु० अलिञ्जर एव स्वार्थे अण् । (जाला) मृण्मये वृहत्पात्रे त्रिका० ।

आलिन्द पु० अलिन्द एव स्वार्थे अण् । १ बहिर्द्वारप्रकोष्ठे

२ गृहाभ्यन्तरशय्यार्थवेद्याञ्च शब्दर० ३ गृहैकदेशे अमरमा० ।
स्वार्थे कन् । आलिन्दकः तेष्वर्थेषु पु० ।

आलिप त्रि० आ + लिप--क । आलेपनकारके ।

आलिप्त त्रि० आ + लिप--क्त । १ कृतालेपने २ दत्तादीपने च

आलिम्पन न० आ + लिप--ल्युट् पृ० मुम् । तण्डुलचूर्ण्ण-

मिश्रितोदकेन मङ्गलार्थं दीयमाने आलेपने आदीपने ।
(आलिपना,) त्रिका० ।

आलीढ त्रि० आ + लिह--क्त । १ आस्वादिते २ क्षते “सेन्यान्य

मालीढमिवासुरास्त्रैः” रघुः । “स्थानानि धन्विनां पञ्च
तत्र वैशाखमस्त्रियाम् । त्रिवितस्त्यन्तरौ पादौ मण्डलं
तोरणाकृति । अन्वर्थं स्यात् समपदमालीढं तु ततोऽ-
ग्रतः । दक्षिणे वाममाकुञ्च्य प्रत्यालीढं विपर्य्ययः” इत्यु-
क्तलक्षणे अग्रतो दक्षिणं पादं व्यवस्थाप्य वामपादाकु-
ञ्चनेन स्थितिरूपे ३ युद्धार्थे धन्विनां स्थानभेदे न० । “अतिष्ठ-
दालीढ़विशेषशोभिना” रघुः । “पायान्नीलोत्पलाभा
रविशशिविलसत्कुण्डलालीढपादा” तन्त्रसा० रक्षाकालीध्यां०
अग्निपुराणे तु समपदादीन्यन्यथा निरुक्तानि यथा
“अङ्गुष्ठगुल्फपार्ष्ण्यङ्घि श्लिष्टाःस्युः सहिता यदि । दृष्टं
समपदंस्फीतमेतल्लक्षणतस्तथा । बाह्याङ्गुलिस्थितौ पादौ
स्तब्धजानुकमायतौ । त्रिवितस्त्यन्तरे स्थानमेतद्वैशा-
खमुच्यते । हंसपङ्क्त्याकृतिसमे दृश्येते यत्र जानुनी ।
चतुर्वितस्त्या विच्छिन्ने तदिदं मण्डलं स्मृतम् । भुग्नवाम-
पदं पश्चात्, स्तब्धजानूरुदक्षिणम् । वितस्त्यः पञ्च विस्तारे
तदालीढं प्रकीर्त्तितम् । एतदेव विपर्य्यस्तं प्रत्यालीढं-
प्रकीर्त्तितम्” विकटादिस्थानं धन्विस्थानशब्दे वक्ष्यते ।
पृष्ठ ०८२५
“नतांसमाकुञ्चितसव्यपादम्” कुमा० टी० मल्लिनाथेन
आकुञ्चितसव्यपादत्वेन आलीढस्थानके स्थितमिति
व्याख्यातम् । स्वार्थे कन् तत्रैव । शुभ्रा० पाठात् ढक् ।
आलीढेयः तद्भवे त्रि० । संज्ञायां कन् । आलीढकम् ।
वत्सानां स्थलेषु क्रीड़नभेदे न०

आलीन त्रि० आ + लो--कर्त्तरि क्त । १ आश्लिष्टे भावे क्त ।

२ संश्लेषे न० । तत्र साधु अण् । ३ वङ्गे धातुभेदे तस्य
धात्वन्तरसंश्लेषकारकत्वात् तथात्वम् संज्ञायां कन् ।
तत्रैव । तद्गुणादि रङ्गशब्दे वक्ष्यते ।

आलु पु० आलाति आ + ली--मित० डु । ऋ--उ णिच्च रस्य

लः वा । १ पेचके २ भेलके शब्दरत्ना० स्वल्पवारिधानिकायां
सनाले ३ जलपात्रभेदे (झारी)स्त्री० । ४ कन्दभेदे न०
राजनि० । तस्य भेदा नानाविधाः “कन्दो बहुविधो लोके
आलुशब्देन भण्यते । कच्चालु चैव घण्टालु पिण्डालु शर्करा-
दिकम् काष्ठालु चैवमाद्यं स्यात् तस्य भेदा अनेकशः” ।
इत्युक्ते । आलुकशब्दे विवृतिः ।

आलुक पु० आ + लाति पृथ्वीं कासरोगं वा आ + ला--मित० डु

संज्ञायां कन् । १ शेषनागे २ कासालौ च । आलु + स्वार्थे
कन् कन्दभेदे न० तद्भेदगुणादि भा० प्र० उक्तं यथा ।
“आलुकमप्यालूकं तत् कथितं वीरसेनश्च । काष्ठालुकशङ्खालुक-
हस्त्यालुकानिकथ्यन्ते । पिण्डालुकमध्वालुकरक्तालुकानि
कथितानि” तत्र काष्ठालुकं काठिन्ययुक्तं (कठारु) शङ्खालुकं
श्वेततायुक्तं शङ्खाकारम् (शांखआलु) हस्त्यालुकं दीर्घतायुक्तं
महाशरीरम् (चुवड़ीआलु) पिण्डालुकं वर्त्तुलाकारं (सुथ्नी)
मध्वालुकं माधुर्य्ययुतं दीर्घमुखं शर्क रालु (शकरन्द) रक्तालुकं
रक्ततायुक्तं (रतालु) तेषां गुणास्तत्रोक्ताः “आलुकं शीतलं
सर्वं विष्टम्भि मधुरं गुरु । मृष्टमूत्रमलं रूक्षं दुर्जरम्
रक्तपित्तनुत् । कफानिलकरं बल्यं वृष्यं स्तन्यविवर्द्धनम्” ।
गौरा० ङीष् । दीर्घाकारशुङ्गयुक्तरक्तालुके स्त्री ।
“रक्तालुभेदो वा दीर्घा तन्वो च प्रथितालुकी । आलुकी-
वलकृत् स्निग्धा गुर्व्वी हृत्कफनाशिनी । विष्वम्भकारिणो-
तैले तलिताऽतिरुचिप्रदा” भावप्र०

आलुञ्चन न० आ + लुचि ल्युट् । उत्पाटने । केशादेः

बन्धराहित्ये च ।

आलुञ्चित त्रि० आ + लुचि--क्त । उत्पाटिते असंयते केशादौ आलुञ्जितमूर्द्धजा” ।

आलुण्टन आ + लुटि--ल्युट् । बलादपहरणे (लुट्) ।

आलुल त्रि० आ + लुल--क । उन्मुक्ते चलीभूते । भृशा० च्च्यर्थे

क्यङ्क्त--आलुलायितः असंयते त्रि० ।

आलू पु० आलूनाति आ + लू--क्विप् । आलुशब्दार्थे स्वार्थे

कन् तत्रैव । “आलुकमप्यालूकमिति” भाव० प्र० । “आलूकं
शीतलं सर्व्वमिति” भाव० प्र० पाठान्तरम् ।

आलून त्रि० आ + लू--क्त । १ ईषच्छिन्ने २ सम्यक्छिन्ने च

“तेनामरबधूहस्तैः सदयालूनपल्लवाः” कुमा० ।

आलेख पु० आ + लिख--घञ् । १ सम्यक्लेखने । आधारे घञ् । लेखपत्रे ।

आलेखन न० आ + लिख--भावे ल्युट् । १ सम्यग्लेखे ।

आलिखति ल्यु । २ आलेखनकर्त्तरि त्रि० । ३ आचार्य्ये
पु० तस्योपदेशकर्त्तृत्वात्तथात्वम् । “संस्थिते ऽपायती-
ष्ववभृथं गमयेयुरित्यालेखनः” । आश्व० श्रौ० । आलेखन
आचार्य्यः” वृत्तिः । करणे ल्युट् लेखनसाधने स्त्रियांङीप्

आलेख्य त्रि० आ + लिख--ण्यत् । चित्रादौ लेख्यदेवादिप्रति-

विम्बे “विधातुमालेख्यमशक्नुवन्तः” माघः “इति संरम्मिणो
वाणीबलस्यालेख्यदेवताः” माघः । “अहोरूपमालेख्यस्य”
शकु० २ लेखनीये त्रि० । आधारे ण्यत् । ३ चित्रे ।

आलेख्यशेष त्रि० आलेख्यं चित्रमेव शेषो यस्य बहु० । मृते,

हेम० । मृतस्य हि चित्रे एव प्रकृतिरूपेण अवस्थानात्
तथात्वम् । “आलेख्यशेषस्य पितुर्विवेश” । रघुः ।

आलेप पु० आ + लिप--घञ् । १ उपलेपे २ आलिम्पने च ।

(आलिपना) ल्युट् तत्रैवार्थे न० । “जाताताङ्का-
रचयति चिरं चन्दनालेपनानि” सा० द० । आलिप्यते
कर्म्मणि ल्युट् । ३ आलिप्यमाने च ।

आलोक पु० आलोक्यतेऽनेन आ + लुक--लोक--वा करणे

घञ् । (आलो) १ सूर्य्यादिप्रकाशे, “गृह्णाति
चक्षुः सम्बन्धादालोकोद्भूतरूपयोः” भाषा० उक्तेः
अलोकसंयोगस्य द्रव्यचाक्षुषप्रत्यक्षे कारणत्वम् इति
नैयायिकाः अन्धकारस्य द्रव्यत्ववादिनां मते तद्भिन्न-
द्रव्यप्रत्यक्षे कारणत्वमिति भेदः । तथाहि पेचकादिचा-
क्षुषस्य आलोकसंयोगमन्तरेणैव उत्पत्तिदर्शनात्
आलोकसंयोगस्य न सर्व्वत्र कारणत्वमित्यतोऽन्धकारेऽपि
तथा कल्पनमिति । एतदभिप्रायेणैव” दिवान्धाः प्राणिनः
केचिन्द्रात्रावन्धास्तथा परे । केचिद्दिवा तथा रात्रौ
प्राणिनस्तुल्यदृष्टय इति” देवीमा० केषांचिद्दिवान्धत्वोक्तिः ।
“आलोकमार्गं सहसा व्रजन्त्या” कुमा० रघुश्च । भावे
घञ् । २ दर्शने । “आलोकमात्रेण सुरानशेषान्” कुमा० ।
“वत्सालोकप्रवर्त्तिना” रघुः । “वैवर्ण्ण्यकम्पवैरस्यपार्श्वा-
लोकास्यशोषकृत्” सा० द० । “स्त्रीणां प्रियालोकफलो
हि वेशः” कुमा० । “मलिनो हि यथादर्शोरूपालोकस्य
पृष्ठ ०८२६
स क्षमः” या० स्मृ० “यदालोके सूक्ष्मं व्रजति सहसा
तद्विपुलताम्” शकु० । “जनास्तदालोकपथात् प्रतीयुः” रघुः ।

आलोकन न० आ + लुक--लोक--वा भावे ल्युट् । दर्शने

“ततस्तदालोकनतत्पराणाम्” । “भुवनालोकनप्रीतिः
स्वर्गिभिर्नानुभूयते” कुमा० “व्रजति हि सफलत्वं वल्लभा-
लोकनेन” माघः ।

आलोकनीय त्रि० आ + लुक--लोक--वा अनीयर् । दर्शनीये

द्रष्टुं योग्ये “चित्रन्यस्ताइव गताः प्रकामालोकनीय-
ताम्” कुमा० ।

आलोकित त्रि० आ + लोक--क्त । दृष्टे ।

आलोकिन् त्रि० आ + लुक्--लोक--वा--णिनि । दर्शके स्त्रियां ङीप् ।

आलोक्य त्रि० आ + लोक--ण्यत् । दर्शनीये । ल्यप् । दृष्ट्वत्यर्थे अव्य०

आलोचक त्रि० आ + लुच--णिच् ण्वुल् । आलोचनाकारके ।

आलोचन न० आ + लुच--णिच्--भावे ल्युट् । १ विशेषधर्म्मा-

दिना १ विवेचने नैया० सामान्यविशेषशून्यतया इन्द्रिय-
जन्ये निर्विल्यकस्थानीये सांख्यमतसिद्धे २ अन्तःकरणवृत्ति-
भेदे । यथोक्तं सां० कौ० आलोचितमिन्द्रियेण भवति
इदमिति सम्मुग्धम् । इदंनैवमिति एवं कल्पनया विशे-
ष्यविशेषणभावेन विवेचयतीति यथाहुः । “सम्मुग्धं
वस्तुमात्रन्तु प्राक्गृह्णन्त्यविकल्पितम् । तत्सामान्यविशे-
षाभ्यां कल्पयन्ति मनीषिणः” । तथा हि “अस्ति ह्यालोचनं
ज्ञानं प्रथमं निर्व्विकल्पकम् । बालमूकादिविज्ञानसदृशं
मुग्धवस्तुकमिति । ततःपरं पुनर्वस्तु धर्म्मैर्जात्यादिभिर्यया ।
बुद्ध्यावसीयते सा हि प्रत्यक्षत्वेन सम्मता” । तच्च विशेष्यवि-
शेषणसंसर्गानवगाहि ज्ञानम् “शब्दादिषु पञ्चानामालो-
चनमात्रमिष्यते वृत्तिः” सां० का० णिच्--युच् ।
आलोचनाप्यत्र स्त्री ३ दर्शने च । “पश्यार्थैश्चानालोचने” दृशेरना-
लोचने कञ् च” पा० । ४ लोचनपर्य्यन्ते अव्य० “आलो-
चनान्तं श्रवणं वितत्य” रघुः ।

आलोचित त्रि० आ + लुच्--णिच्--क्त । आलोचना-

विषयीभूते विशेषदर्शनादिना कृतालोचने “आलोचित-
मिन्द्रियेणेति” सां० कौ० । इतिकर्त्तव्यतया २ अवधारिते च

आलोच्य त्रि० आ + लुच्--ण्यत् । आलोचनार्हे आलोचना-

विषयीकार्य्ये । आ + लुच्--णिच्--ल्यप् । आलोचनं
कृत्वेत्यर्थे अव्य० ।

आलोडन न० आ + लुड--मन्थे--ल्युट् । १ विलोडने २ मर्द्दने

मन्थने “भावनालोडने चास्य कर्त्तव्ये भेषजैर्हितैः” सुश्रु० ।

आलोडित त्रि० आ + लोड़--क्त । १ मथिते २ मर्द्दिते ३ चूर्ण्णी-

कृते च “अलोडितः काञ्चनभूपरागः” इति माघः ।

आलोल त्रि० ईषत् लोलः प्रा० स० । ईषच्चञ्चले “आलोल-

पुष्करमुखोल्लसितैरभीक्ष्णम्” माघः । “क्रीडालोलाः
श्रवणपरुषैर्गर्जितैर्भीषयन्त्यः मेघदूतम् ।

आलोलित त्रि० आ + लुल--णिच्--क्त । ईषच्चञ्चलीकृते

आलोष्टी अव्य० ईषत् लोष्टमिव करोत्यनेन आलोष्ट +

णिच्--बा० ई उर्य्यादि । हिंसायां गणर० ।

आलोहायन त्रि० अलोहे भवः नड़ा० फक् । अलोहभवे

आवक त्रि० अवति अव--ण्वुल् । रक्षके ।

आवट्य पुंस्त्री अवटस्य ऋषेर्गोत्रापत्यम् गर्गा० यञ् ।

अवटर्षेर्गोत्रापत्ये स्त्रियाम् “आवट्याच्चाप्” पा० चाप् ।
आवट्या । अवटश्च प्रवरभेदः आर्षशब्दे दृश्यः ।

आवनतीय त्रि० अवनतस्य सन्निकृष्टदेशादिः कृशा० छण् ।

अवनतसन्निकृष्टदेशादौ ।

आवनेय पु० अवन्या अपत्य ढक् । मङ्गलग्रहे तस्य महीत

उत्पत्तिकथा काशी० १७ अ० । “उत्पत्तिंचास्य वक्ष्यामो
भूसूतोऽयं यथाऽभवत् । पुरा तपस्यतः शम्भोर्दाक्षायण्या
वियीगतः । भालस्थलात् पपातैकः स्वेदविन्दुर्महीतले ।
ततः कुमारः संजज्ञे लोहिताङ्गोमहीतलात् । स्नेह-
संवर्द्धितः सोऽथ धात्र्या धात्रीस्वरूपया । माहेय इत्यतः
ख्यातिं परामयं गतस्ततः” अतएव तस्य कुजभौमेत्यादिसंज्ञा

आवन्त पु० अवन्तेरयं राजाअण् । अवन्तिदेशाधिपे चन्द्र-

वंश्ये नृपभेदे । “कुन्तेर्धृष्टःसुतोजज्ञे रणधृष्टः परान्
प्रति । धृष्टस्य जज्ञिरे शूरास्त्रयः परमधार्म्मिकाः ।
आवन्तश्चदशार्हश्च बली विषहरश्च यः” हरि० ३ ७ अ० ।
“वृद्धेत्कोसलाजादाञञ्यः” पा० ञ्यविधानात् आवन्त्य-
एवेति पाठः उचितः आवन्त इति तु लिपिकरप्रमादात् ।

आवन्त्य त्रि० अवन्तिषु भवः तस्य राजा वा इदत्तत्वात् ञ्य ।

१ अवन्तिदेशभवे २ तन्नृपे च बहुषुलुक् अवन्तयः । विन्द्या-
नुविन्द्यावावन्त्यौ सैन्थेन महतावृतौ” भा० व० प०
३० अ० । “विन्द्यानुविन्द्यावावन्त्यौ दन्तवक्रश्च वीर्य्यवान्”
हरि० व० ९ २ अ० । ब्रात्याद्ब्राह्मणात् सवर्ण्णायामुत्पन्ने
३ वर्ण्णभेदेव्रात्यात् तु जायते विप्रात् पापात्मा भुर्जकण्टकः
“आवन्त्यवाटपुधानौ च पुष्पधःशैख एव च” मनुः ।

आवपन न० ओप्यते स्थाप्यतेऽत्र आ + वप--आधारे ल्युट् ।

१ धान्यस्थापनपात्रे (थल्या) इति ख्याते । “गोणी आवपन-
ञ्चेत्” सि० कौ० आ + वप--भावे ल्युट् । ३ भूमौ वीजादेर्निधाने
(वोना) “अथात आसूतीनामेवावपनस्य” कात्या० ।
पृष्ठ ०८२७
प्रभुरग्निः प्रपचने भूमिरावपने प्रभुः” भा० आ० ८८ अ० ।
करणे ल्युट् । ४ वपनसाधने त्रि० “भूतानामावपनं
सर्व्वेषाम्” शत० ब्रा० स्त्रियां ङीप् । त्वमस्यावपनी
जनानाम्” अथ० १२, १, ६१ । अन्तर्भूतण्यर्थे ल्युट् ।
५ केशादेः सर्व्वमुण्डने ।

आवपनिष्किरा स्त्री आवप निष्किर इत्युच्यते यस्यां क्रियायां

मयूर० स० । आवपननिष्किरणार्थनिदेशक्रियायाम् ।

आवय पु० आ + अज--अच् वीभावः । १ आगतौ । कर्त्तरि

अच् । २ आगन्तरि ३ देशभेदे पु० । धूमा० वुञ् आवयकः ।
आवयदेशभवे त्रि० ।

आवरक न० आ + वृ--करणे अप् संज्ञायांबुन् । अपवरके, आच्छादके वस्त्रादौ ।

आवरण न० आव्रियते देहः चैतन्यं वाऽनेन आ + वृ--करणे

ल्युट् । (ढाल) १ चर्म्मफलके । वेदान्तिमतसिद्धे
चैतन्यावरणे २ अज्ञाने आवरणशक्तिशब्दे विवृतिः ।
३ आच्छादनसाधनमात्रे “तमश्रु नेत्रावरणं प्रमृज्य”
रघुः “स्फुटमिवावरणं हिममारुतैः” माघः “लब्धान्तरा
सावरणेऽपि गेहे” रघुः पुरादिषु आच्छादनसाधने ४ प्राची-
रादौ च यथा काश्यां सप्तावरणानि । वेड़ा) ५ वेष्टने
भावे ल्युट् । ६ आवृतौ” “हृदयावरणं नित्यं कुर्य्याच्च मित्र
मध्यगः” सुश्रु० । “स्रोतसां भेदकोयश्च तेषां चावरणे
रतः” मनुः । “सूर्य्ये तपत्यावरणाय दृष्टेः” “तस्य सावरण
दृष्टिसम्भवः” रघुः “नलिनीदलकल्पितं स्तनावरणम्” शकु०

आवरणशक्ति स्त्री आवरणे शक्तिः आवृणोति

संज्ञायां कर्त्तरि ल्युट् कर्म्म धा० वा । वेदान्तिमतसिद्धे
अज्ञानस्य चैतन्यापिधानशक्तिभेदे यथोक्तं वेदा० सा०
आवरणशक्तिस्तावदल्पोऽपि मेघोऽनेकयोजनायतमादित्य-
मण्डलमवलोकयितृनयनपथपिधायकतया यथाच्छादयतीव
तथाऽज्ञानं परिच्छिन्नमप्यात्मानमपरिच्छिन्नमसंसारिण-
मवलोकयितृबुद्धिपिधायकतयाच्छादयतीव तादृशं
सामर्थ्यम् । तदुक्तं “घनच्छन्नदृष्टिर्घनाच्छन्नमर्कं यथा निष्प्रभं
मन्यते चातिमूढ़ः । तथा बद्धवद्भाति यो मूढदृष्टेः स
नित्योपलब्धिस्वरूपोऽहमात्मा” अनयावृतस्यात्मनः कर्त्तृत्व-
भोक्तृत्वसुखित्वदुःखित्वादिसंसारसंभावनाऽपि भवति यथा
स्वाज्ञानावृतायां रज्ज्वां सर्पत्वसम्भावना” ।

आवरसमक न० अवरं समानाम् एक० त० “ग्रीष्मावर-

समात् वुञ्” पा० नि० ह्रस्वः अवरसमे वर्षस्याद्यकाले
देयमृणम् वुञ् । वर्षश्याद्यसमये देये ऋणे ।

आवर्जित त्रि० आ + वृज--णिच्--क्त । १ दत्ते २ त्यक्ते “न हि

तेन पथा तनुत्यजस्तनयावर्ज्जितपिण्डकाङ्क्षिणः” नूनमाव-
र्जितं मया” “हविरावर्ज्जितं होतस्त्वया विधिवदग्निषु”
इति च रघुः । ३ निम्नीकृते च “अधःप्रस्थापिताश्वेन
समावर्ज्जितकेतुना” “आवर्ज्जितजटामौलिविलम्बिश-
शिकोटयः” कुमा० ।

आवर्त्त पु० आ + वृत--भावादो घञ् । चक्राकारेण जलस्य

स्वयं १ भ्रमणे, (घुरणो) घ्रवाख्ये घोटकचिह्ने २ रोमसंस्थान-
भेदे राजावत्तनामके ३ मणौ ४ आवर्त्तने, । ५ मेघा-
धिपभेदे च ६ माक्षिकधातौ न० । “नृपं तमावर्त्तमनोज्ञ-
नाभिः” रघुः “तथापि समतावर्त्ते मोहगर्त्ते निपातिताः”
देवीमा० “त्रियुते, शाकवर्षे तु चतुर्भिः शेषिते क्रमात् ।
आवर्त्तं विद्धि संवर्त्तं पुष्करं द्रोणमम्बुदम् । आवर्त्तो
निर्जलोमेघः संवर्त्तश्च बहूदकः । पुष्करोदुष्करजलो
द्रोणः सम्यक्प्रपूरकः” ज्यो० त० । “आवर्त्तिनः शुभफल-
प्रदशुक्तियुक्ता आपन्नदेवमणयोभृतरन्ध्रभागाः । अश्वा-
प्यघुर्वसुमतीमतिरोचमानास्तूर्ण्णं पयोधय इवोर्मिभिरा-
पतन्तः” माघः । “आवर्त्तिनः दशावर्त्तयुक्ताः प्रशसायो
णिनि । ते च “द्वावुरस्यौ शिरस्यौ द्वौ द्वो द्वौ रन्ध्रोपर-
न्ध्रयोः । एकोभाले ह्यपाने च दशावर्त्ता ध्रवाः स्मृताः”
पयोधिपक्षे जलभ्रमः” मल्लि० आश्वावर्त्तश्च अश्वशब्दे
५०३ पृष्ठे उक्तः । ७ आवर्त्ताकारे देहिनां रोमसंस्थानभेदे
पु० अश्वानामपि उक्तध्रुवरूपावर्त्तोरोमसंस्थानविशेष एवेति
बोध्यम् । णिच्--भावे अच् । ८ पुनः पुनश्चालने ९ परिघट्टमे
(आओटान) १० धातूनां द्रावणे (गलान) ११ चिन्ता-
याञ्च चिन्तया हि चित्तं स्वविषयेषु पुनःपुनश्चाल्यते
इति तस्याः तथात्वम् । आवर्त्त्यते समन्तात् अनेक-
कोटिषु आ + वृत--णिच्--कर्म्मणि अच् । अनेक कोटिस्पर्शिनि
१२ संशये “भ्रमं संमोहमावर्त्त मभ्यासाद्विधितोजयेत्”
भा० शा० २७३ अ० आवर्त्तमनेककोटिस्पर्शेन संशयम्
अभ्यासात् तत्त्वाभ्यासात्” नीलक० । आवर्त्तते कर्त्तरि
अच् । १३ आवर्त्तमाने त्रि० “दक्षिणावर्त्तशङ्खोऽयं हन्त
चूर्ण्णीकृतोमया” सा० द० १४ संसारे पु० तस्यानिशमावर्त्त-
मानत्वात्तथात्वम् । “इममावर्त्तं नावर्त्तन्ते” इति श्रुतिः
“शङ्खनाभ्याकृतिर्योनिस्त्रावर्त्ता मा प्रकीर्त्तिता । तस्यास्तृतीये
त्वावत्त गर्मशय्या प्रतिष्ठिता” “शङ्खावर्त्तनिभाश्चापि
उपर्य्युपरि संस्थिताः । गजतालुनिभाश्चापि वर्णतः सुप्र-
कीर्त्तिताः” इति सुश्रुतोक्ते देहान्तर्वर्त्तिनि आवर्त्ताकारे
१३ नाडीसन्निवेशभेदे च ।
पृष्ठ ०८२८

आवर्त्तक पु० आवर्त्तएव स्वार्थे कन् । १ मेघाधिपभेदे “रजनि-

करविम्बचुम्बितावर्त्त काम्बुदविड़म्बकेन” काद० । तदीयास्तो-
यदेष्वद्य पुष्करावर्त्तकादिषु” कुमा० जातं वंशे भुवनविदिते
पुष्कराकर्त्तकानाम्” मेघदू० । आवर्त्त इव कायति
कै--क । २ आवर्त्ताकारे आवर्त्तशब्दोक्ते अश्वरोमचिह्नभेदे
आवर्त्तयति आ--वृत--णिच् ण्वुल् । ३ पुनः पुनराघट्टकेत्रि०

आवर्त्तकी स्त्री आवर्त्त इव कायति प्रकाशते कै--क--गौ०

ङीष् । कोङ्कणे (भगतवल्ली) प्रसिद्धे लताभेदे सा तु
विषाणाकारा रक्तपुष्पी रङ्गाकारा पीतकीलकयुक्ता
चर्म्मरञ्जनकारिणी “कषायाम्ला शीतवीर्य्यकारिणी पित्त-
नाशिनी” वैद्य० २ भद्रदन्तिकायां च राजनि० ।

आवर्त्तन न० आ + वृत--आधारे ल्युट् । सूर्य्यस्य पश्चिमदि-

गवस्थितच्छायायाः १ पूर्ब्बदिग्ग मनसमये मध्याह्नकाले
“आवर्त्तनात्तु पूर्ब्बाह्णोऽपराह्णस्तु ततःपरम्” स्मृतिः ।
“आवर्त्तनसमीपे वा वृद्धिश्राद्धमुपक्रमेत्” स्मृतिः आ +
वृत--णिच्--भावे ल्युट् (आओटान) २ आलोडने ३ गुणने च
धातूनां ४ द्रावणे (गलान) । आवर्त्तयति संसारचक्रम् आ +
वृत--णिच् कर्त्तरि ल्यु । ५ विष्णौ “आवर्त्तनोनिवृत्तात्मा”
विष्णु सह० ६ जम्बुद्वीपोपद्वीपभेदे च । आवर्त्त्यतेऽनया
ल्युट् ङीप् । ७ दर्व्याम् स्त्री आधारे ल्युट् ङीप् ।
(मुचि) धातुद्रव्यद्रावणाधारे ८ मूषायाम् स्त्री करणे
ल्युट् । ९ वेष्टने प्राचीरादौ न० ।

आवर्त्तनीय त्रि० आ + वृत--णिच्--अनीयर् । १ द्रावणीये

धात्वादौ २ आलोड्ये दुग्धादौ गुण्ये ३ अङ्कादौ च । पुनः
पुनः ४ पाठ्ये पदादौ च । “लिङ्गिपदमावर्त्तनीयम्” सा० कौ०

आवर्त्तमणि पु० आवर्त्ताकारोमणिः । राजावर्त्तमणौ ।

आवर्त्तिक त्रि० आवर्त्तः प्रयोजनमस्य ठक् । आवर्त्ताकारधूम-

साधने धूपादौ “आवर्त्तिकैर्गु ग्गुलुभिर्धूपैरामोदिमन्दिरे”
काशी० ।

आवर्त्तित त्रि० आ + वृत--णि --क्त । १ कृतावर्त्तने दुग्धादौ

द्राविते २ धात्वादौ, ३ गुणिते ४ अभ्यस्ते च । आवर्त्तो
जातोऽस्य तार० इतच् । ५ जातावर्त्ते जलादौ ।

आवर्त्तिन् त्रि० आ + वृत--णिनि । १ पुनःपुनर्वर्त्तनशीले

“आब्रह्मभुवनाल्लोकाः पुनरावर्त्तनोजनाः” गीता “कालान्त-
रावर्त्तिशुभाशुभानि” हितो० । णिच्--णिनि । आवर्त्तके
२ द्रावके ३ दुग्धादेरावर्त्तनकारके स्त्रियामुभयतो ङीप् ।

आवर्त्तिनी स्त्री आवर्त्तः षशृङ्गाकारवेष्टनमस्त्यस्याः इनि

ङीप् । अजशृङ्गीवृक्षे राजनि० ।

आव(ब)र्हित त्रि० आ + वृह--उद्यमे णिच्--क्त आ + वर्ह--हिं-

सायां क्त वा । उत्पाटिते उन्मूलिते ।

आव(लि)ली स्त्री आ + बल--इन् वा ङीप् । १ श्रेणौ सजाती-

यसमुदायेन कृतपङ्क्तौ “वृक्षावलिः धनावलिरिति । “के वा
न सन्ति भुवि तामरसावतंसा हंसावलीबलयिनो जलसन्नि-
वेशाः” उद्भटः । “द्विजावलीबालनिशाकरांशुभिः”
माघः । “व्यलोकयच्चम्पककोरकावलीः” नैष०
२ परम्परायाञ्ज ।

आवलित आ + वल--चलने क्त । ईषच्चलिते सम्यक्चलिते च ।

आवशीर पु० अवशीरदेशे भवः तस्य राजा वा अञ् । १

अवशीरदेशभवे जने २ तन्नृपे च । “आवशीरांश्च योधांश्च अहिच्छत्रं
च योधयन्” भा० व० २५३ । स च देशः वत्सभूमेः
पूर्ब्बदिग्वर्त्ती “पूर्व्वां दिशं विनिर्ज्जित्य वत्सभूमिं
तथागमत्” इत्यनन्तरश्लोके पूर्व्वां दिशमित्यभिधानात् ।

आवश्यक न० अवश्यं भावः मनोज्ञा० वुञ् । १ अवश्यंभावे

नैयत्ये “ण्य आवश्यके” पा० अवश्यं भवः बा० २ वुञ्
२ नियते त्रि० “एतेष्वावश्यकस्त्वसौ” भाषा०” ३ अवश्य-
कर्त्तव्ये नियमात् कर्त्तव्ये “उत्थायावश्यकं कृत्वा
कृतशौचः समाहितः” मनुः । कालप्रतीक्षाराहित्येन
४ निरवकाशे च “नेहेतात्र विशेषेज्यामन्यत्रावश्यकाद्विधेः”
पु० “आवश्यकात् निरवकाशात्” मल० त० रघु० ।

आवश्यपुत्रक न० न वश्यः अवश्यः पुत्रः तस्य भावः मनोज्ञा०

वुञ् । पुत्रस्य वश्यत्वाभावे ।

आवसति स्त्री वसत्यत्र गृहे वसतिः रात्रिः सम्यक्वसतिः

प्रा० स० । निशीथे वसतेः सम्यक्त्वञ्चावश्यगृहवासयो-
ग्यत्वं तच्चार्द्धरात्रेऽवश्यं भवतीति तस्य तथात्वम् ।

आवसथ पु० आवसत्यत्र आ + वस--अथच् । १ वसतिस्थाने,

२ विश्रामस्थाने ३ ग्रामे ४ व्रतभेदे च । तत्र वासस्थाने
“दूरादावसथान्मूत्रं दूरात् पादावसेचनम्” मनुः
विश्रामस्थाने । “आसनाव सथौ शय्यामनुव्रज्यामु-
पासनाम्” मनुः विश्रामस्थाने “स किलाश्रममन्त्यमा-
श्रितो निवसन्नावसथे पुराद्बहिः” रघुः । ग्रामे
“सहसर्व्व त आवसथान् मापयाञ्चक्रे” छा० उ० । ५ आर्य्या-
च्छन्दोरचिते कोषभेदे ।

आवसथिक त्रि० आवसथे गृहे वसति ठण् स्त्रियां ङीप् । गृहस्थे ।

आवसथ्य पु० अवसथस्यायं ञ्य । १ गृहसम्बन्धिनि लौकि-

केऽग्नौ “आवसथ्यं द्विजाः प्राहुर्दीप्तमग्निं महाप्रमम्”
भा० व० २१ अ० । “आवसथ्यस्तथाधाने” इत्युक्ते
पृष्ठ ०८२९
अग्न्याधानकर्माङ्गे २ वह्नौ च । “आवसथ्याहवनीयौ
दक्षिणाग्निस्तथैव च । अन्वाहार्य्योगार्हपत्य इत्येते पञ्च
वह्नयः इत्युक्ते यज्ञाङ्गवह्निपञ्चकान्तर्गते ३ वह्निभेदे च ।
स च गृह्याग्निः अवसथशब्दार्थगृहसम्बन्धाच्च तस्य
गृह्यत्वम् ।

आवसान त्रि० अवसानमभिजनोऽस्य तक्ष० अञ् । ग्रामसीमान्तवासिनि स्त्रियां ङीप् ।

आवसानिक त्रि० अवसाने तत्काले भवः ठञ् ।

अवसानकाले (शेषकाले) भवे स्त्रियां ङीप् ।

आवसित न० आ + अव + सो--क्त । १ पक्वधान्ये मर्द्दनानन्तर-

मपनीततृणे राशीकृते २ धान्ये च । ३ निर्ण्णीते ४
अवधारिते ५ समाप्ते च त्रि० ।

आवस्थिक त्रि० अवस्थायां भवः ठञ् । कालकृतावस्थाभवे

“आवस्थिकं क्रमञ्चापि मत्वा कार्य्यं निरूहणम्” सुश्रु० ।

आवह पु० आवहति आभिमुख्ये न गच्छति आ + वह--अच् ।

सप्तस्कन्धापन्नवायोः प्रथमे स्कन्धे १ भूवायौ । “भूवायुरावह
इह प्रवहस्तदूर्द्धम्” सि० शि० । अनिलशब्दे १६४
पृष्ठे विवृतिः “आवहः प्रवहश्चैव विवहश्च समीरणः ।
परावहः संवहश्च उद्वहश्च महाबलः । तथा परिवहः
श्रीमान्” हरिवं० २३६ अ० । आवहति प्रापयति आ +
वह--अच् । २ प्रापके त्रि० “क्लेशावहा भर्त्तुरलक्षणाहम्”
रघुः । फलैधःकुसुमस्तेयमधैर्य्यञ्च मलावहम्” मनुः ।
“समुत्सृजेत् साहसिकान् सर्वभूतभयावहान्” मनुः ।

आवहमान त्रि० आ + वह--शानच् । क्रमागते ।

आवाप पु० आ + वप--आधारे वा घञ् । १ आलवाले तत्र हि

जलसेकेन वृक्षान् आवपन्तीति तस्य तथात्वम् २ धान्यादेः
पात्रभेदे, (थल्या) मावे घञ् । ३ समन्तात् वपने । “शस्यावापे
कृषीवलाः” भार० ४ धान्यादिस्थापने ५ शत्रुचिन्तने ६
परराष्ट्रचिन्तने, “तन्त्रावापविदा योगैर्मण्डलान्यधिष्ठिता”
माघः । ७ प्रधानहोमे च । ८ आक्षेपे, “आवापो
द्वापाभ्याम्” सा० द० । आक्षेपोत्क्षेपाभ्यामित्यर्थः
आ + वप--कर्म्मणि घञ् । ९ आवपनीये प्रक्षेपणीये
“पञ्चच्छन्दा आवाप चार्ववःपवमान” इति ताण्ड्य० ब्रा०
अवापः आवनीयः आवापश्च स्तोमवृद्धये साम्न आक्षेप
इति भा० १० वलये च” । ईषद्दृश्यतेऽत्र आधारे घञ् ।
११ निम्नोन्नतभूमौ तत्र हि शस्यादिक न सम्यक् वप्तुं
शक्यते इति तस्यास्तथात्वम् ।

आवापक पु० आ + वप--कर्म्मणि घञ् संज्ञायां कन् । १ प्रकोष्ठा-

भरणे वलयादौ । कर्त्तरि ण्वुल् । २ आवपनकर्त्तरि त्रि० ।

आवापन न० आ + वप--णिच्--करणे ल्युट् । (ताँत) १ सूत्रयन्त्रे ।

भावे ल्युट् । २ केशादेः सम्यग् मुण्डने च ।

आवापिक न० आवापाय साधु ठक् । आवापे साधौ ।

आवारि न० समन्तात् व्रियते आच्छाद्यते आ + वृ--बा० इण् ।

१ समन्तादाच्छाद्ये हट्टस्थाने शब्दचि० । २ सम्यग्जल-
युक्ते० त्रि० ।

आवाल न० आवाल्यते जलमनेन आ + वल सञ्चरणे णिच्

करणे अच् । १ आलवाले वृक्षादेरधोभागे मृदादिनिर्म्मिते
जलाधारे सेतुभेदे । आ + वन--भावे--घञ् । २ सञ्चारे ।

आवास पु० आ + वस--आधारे घञ् । १ वासस्थाने गृहादौ

“आवासोन्मुखवर्हिणान्” रघुः । आवासमेवोपशमाय
शीघ्रम्” भा० आ० ११६ अ० । भावे घञ् । २ सम्यग्वासे

आवाहन न० आ + वह--णिच् ल्युट् । सान्निध्याय देवा-

नामाह्वाने । “चकारावाहनं तत्र भागार्थं सर्वदैवतम्” पुरा०
“प्रतिमास्थानेष्वप्स्वग्नौ नावाहनविसर्ज्जने” ति० त० पुरा० ।

आवाहनी स्त्री आवाह्यतेऽनया आ + वह--णिच्--करणे ल्युट्

ङीप् । देवाह्वानार्थे “हस्ताभ्यामञ्जलिं बद्ध्वाऽनामिका
मूलपर्व्वणोः । अङ्गुष्ठौ निक्षिपेद्यत्र मुद्रा सावहनी स्मृता”
तन्त्रोक्तलक्षणे मुद्राभेदे ।

आविक स० अविना तल्लोम्ना निर्म्मितं ठक् । १ कम्बले ।

“सर्वञ्च तान्तवं रक्तं शाणक्षौमाविकानि च” मनुः
अवेर्मेषस्यं २ सम्बन्धिनि त्रि० “आविकं सन्धिनीक्षीरं
विवत्सायाश्चगोः पयः” । “वसीवन्नानुपूर्व्येण शाणक्षौमा-
विकानि च” मनुः । कौशेयाविकयोरूषैः कुतपानामरि-
ष्टकैः” मनुः ।

आविकसौत्रिक न० सूत्रमेव सौत्रं कर्म्म० आविकसूत्रेण

निर्म्मितम् टक् । मेषलोमनिर्म्मिते । “वैश्यस्त्वाविक-
सौत्रिकम्” मनुः ।

आविक्य न० आविकानां भावः पुरो० यक् । आविकसम्बन्धित्वे

आविग्न पु० आ + विज--कर्त्तरि क्त । उद्विग्ने (पाणिआमला)

वृक्षे पु० ।

आविज्ञान्य न० अविज्ञानमेव चातु० स्वार्थे ष्यञ् । विज्ञान-

हीने “तदाविज्ञान्यमिव हवींषि” शत० ब्रा० “आवि-
ज्ञान्यं विज्ञानविहीनमिव” भा० ।

आविदूर्य्य न० अविदूरस्य भावः ष्यञ् । सन्निकर्षे । “अभेश्चाविदूर्य्ये” पा० ।

आविद्ध त्रि० आ + व्यध--क्त । १ ताडिते २ विद्धे ३ छिद्रिते

४ क्षिप्ते च “नश्यतीषुर्यथाऽऽविद्धः” मनुः ।

आविद्धकर्णो स्त्री आविद्धौ कर्णाविव पत्रमस्याः गौ० ङीष् । पाठायाम् ।

पृष्ठ ०८३०

आविध पु० आविध्यतेऽनेन आ + व्यध--घञर्थे क । काष्ठादि-

वेधनसाधने (भमर) (तुरपिन) सूच्याकाराग्रे अस्त्रे ।

आविर्भाव पु० आविस् + मू--षञ् । १ प्रकाशे सांख्यमतसिद्धे

उत्पत्तिस्थानीयेऽभिव्यक्तिस्वरूपे २ भावधर्मभेदे तथा हि
नैयायिकादयः क्रियानिरोधबुद्धिव्यपदेशार्थक्रियाव्यवस्था-
भेदात् कार्य्यस्य कारणात् भिन्नतया कारणादुत्पत्तिरित्य-
ङ्गीचक्रुः तदेन्मतमनूद्य सां० त० कौ० दूषयित्वा सतामेव
कार्य्याणामाविर्भावः इति स्थिरोकरणेन कार्य्यकारणयो-
रभिन्नत्वं समर्थितम् यथा स्वात्मनि क्रियानिरोधबुद्धि-
व्यपदेशार्थक्रियाव्यवस्थाभेदाश्च नैकान्तिकं भेदं साधयितु
मर्हन्ति एकस्मिन्नपि तत्तद्विशेषाविर्भावतिरोभावाभ्यामेतेषा
मविरोधात् यथा हि कूर्मस्याङ्गानि कूर्मशरीरे निविशमानानि-
तिरोभवन्ति निःसरन्ति चाविर्भवन्ति न तु कूर्मतस्तदङ्गा
न्युत्पद्यन्ते प्रध्वंसन्ते वा एवमेकस्या मृदः सुवर्णस्य
वाषटमुकुटादयोविशेषा निःसरन्त आविर्भवन्त उत्पद्यन्त
इत्युच्यन्ते न पुनरसतामुत्पादः सतां वा निरोधः । यथाह
भगवान् कृष्टद्वैपायनः “नासतोविद्यते भावो नाभावो विद्यते
सत इति” । यथा कूर्मः स्वावयवेभ्यः सङ्कोचिविकाशिभ्योन
भिन्नः एवं घटमुकुटादयोऽपि मृत्सुवर्णादिभ्योन भिन्नाः ।
एवञ्चेत् तन्तुषु पटैति व्यपदेशो यथेह वने तिलका इत्यु
पपन्नः । न चार्थक्रियाभेदोऽपि भेदमापादयति एकस्यापि
नानार्थक्रियादर्शनात् यथैक एव वह्निर्दाहकः प्रका-
शकः पाचकश्चेति । नाप्यर्थक्रियाव्यवस्था वस्तुभेदे हेतुः
तेषामेव समस्तव्यस्तानामर्थक्रियाव्यवस्थादर्शनात् यथा
प्रत्येकं विष्टयो वर्त्मदर्शनलक्षणामर्थक्रियां कुर्व्वन्ति न तु
शिविकावहनं, मिलितास्तु शिविकां वहन्ति एवं तन्तवः
प्रत्येकं प्रावरणमकुर्व्वाणा अपि मिलिताः
आविर्भूतपटभावाः प्रावरिष्यन्ति । स्यादेतत् । आविर्भावः
पटस्य कारणव्यापारात् प्राक् सन्नसन् वा असंश्चेत् प्राप्तं
तर्ह्यसत उत्पादनम् । अथ सन्, कृतं तर्हिकारणव्यापारेण,
न हि सति कार्य्येकारणव्यापारप्रयोजनं पश्यामः ।
आविर्भावे चाविर्भावान्तरकल्पनेऽनवस्थाप्रसङ्गः । तस्मादाविर्भू-
तपटभावास्तन्तवः क्रियन्त इति रिक्तं वचः । अथासदुत्पद्यत
इत्यत्रापि मते केयमसदुत्पत्तिः सती असती वा, सती चेत् कृतं
तर्हि कारणैः, असती चेत्तस्या अप्युत्पत्त्यन्तरमित्यनवस्था ।
अथोत्पत्तिः पटान्नार्थान्तरम् अपि तु पटएवासौ तथापि
यावदुक्तं भवति पटैति तावदुक्तं भवत्युत्पद्यतैति । ततश्च
पटैत्य क्ते उत्पद्यतैति न वाच्यं पौनरुक्त्यात् विनश्यतीत्य-
पि न वाच्यं उत्पत्तिविनाशयोर्युगपदेकत्र विरोधात्
तस्मादियं पटोत्प्रत्तिः स्वकारणसमवायो वा स्वसत्तासम-
वायोवा उभयथापि नोत्पद्यते अथ च तदर्थानि कारणानि
व्यापार्यन्ते एवं पटादेराबिर्भावेऽपि कारणापेक्षेत्युपपन्नम् ।
न च पटरूपेण कारणानां सम्बन्धः, तद्रूपस्याक्रिय-
त्वात् क्रियासम्बन्धित्वाच्च कारकाणाम् अन्यथा कारणत्वा-
भावात् । तस्मात् सत्कार्य्यमिति पुष्कलम्” सा० कौ० ।
प्रपञ्चस्तु अभिव्यक्तिशब्दे ३०० पृष्ठादौ दृश्यः । बाह्य-
मेयविमुखतापादकः कश्चनान्तरो धर्मः सत्त्वं तस्योद्रेकः
रजस्तमसी अभिभूयाधिर्भावः” सा० द० । देवादीनां
मनुष्याद्याकारग्रहणरूपे ३ अवतारे च । “तदा मे मनसा-
ध्यातो दयासिन्धुर्जनार्द्दनः । भक्तानामनुकम्पार्थं यश्चा-
विर्भावमिच्छति जैमि० भा० ।

आविर्भूत त्रि० आविस् + भू--कर्त्तरि क्त । १ प्रकटिते २ अभिव्यक्ते

“आविर्भूता महाघोरा योगिनीकोटिभिः सह” योगि० त०
आभिर्भूतप्रथममुकुलाः कन्दलीश्चानुकच्छम्” मेघदू०
“आविर्भूतपटभावाः” सा० कौ० ।

आविल त्रि० आविलति दृष्टिंस्तृणाति विल्--स्तृतौ क ।

१ कलुषे अय बिल भेदने बिलप्रकृतिकत्वात् वर्ग्य बमध्य-
इतिरायमु० “समलक्ष्यत बिभ्रदाबि(वि)लाम्” “तस्याबि-
(वि)लाम्भःपरिशुद्धिहेतोः” । “ननन्दुरानन्दजलावि(बि)
लाक्षाः,” रघुः “यथा त्वदीयैश्चरितैरनावि(बि)लैः” कुमा ।

आविष्करण न० आविस् + कृ--भावे ल्युट् षत्वम् । १ प्रकाशने

“असूया गुणेषु दोषाविष्करणम्” सि० कौ० करणे ल्युट् ।
२ प्रकाशसाधने स्त्रियां ङीप् । घञ् । आविष्कारोऽप्युभयत्र
पु० आविष्कारातिशयश्चाभिधेयवत्प्रतीयते” सा० द० ।

आविष्कर्त्तृ त्रि० आविस् + कृ--तृच् । प्रकाशके स्त्रियां ङीप् ।

आविष्कृत त्रि० आविस् + कृ--कर्मणि क्त । प्रकाशिते ।

“कृतापचारोऽपि परैरनाविष्कृतविक्रयः” माघः “बाल्या-
दनाविष्कृतलाञ्छनेन” कुमा० “आविष्कृतमुदन्वता” रघुः

आविष्ट त्रि० आ + विष--क्त । १ भूतादिग्रस्ते, २ आवेशयुक्ते,

३ निविष्टे ४ व्याप्ते च ।

आविस् अव्य० आ + अव--इसुन् । प्रकाशे । कृभ्वस्तियोगेऽस्य

गतित्वम् । एतेन सह भूधातुः प्रकाशार्थे यथा
आविर्भावः, कृञ्धातुः प्रकाशकरणेऽर्थे यथा आविष्कारः ।
“स्वरादिपाठात् अव्ययत्वम् “तेषामाविरभूत् ब्रह्मा
परिम्लानमुखश्रियाम्” कुमा० देवानां कार्य्यसिद्ध्यर्थमावि-
र्भवति सा यदा” देवीमा० । “आचार्य्यकं विजयि मान्म-
थमाविरासीत्” “सरसक्षतमण्डितमाविष्कुरुते भुजा-
मूलम्” सा० द० ।
पृष्ठ ०८३१

आविस्तराम् अव्य० आविस् + तरप् आमु । अतिशय

प्रकाशे “आविस्तरां वा अग्निः कर्म्मणा” श० ब्रा० । तमप्
आमु आविस्तमाम् । अत्यन्तप्रकाशे ।

आवी स्त्री अवीरेव स्वार्थे अण् ङीप् । रजस्वलायां १ नार्य्यां

२ गर्भवत्याञ्च । “गर्भस्पन्दनमावीनां प्रणाशःश्यावपाण्डुता”
सुश्रु० ।

आवीत त्रि० आ + व्ये--क्त । १ समन्तात्स्यूते उत्क्षिप्य २ धृते

च । भावे क्त । ३ सम्यक् स्यूतौ ४ उत्क्षिप्य धारणे च न० ।

आवीतिन् पु० आवीतमनेन इष्टा० इनि । “उद्धृते दक्षिणे

पाणावुपवीत्युच्यते बधैः । सव्ये प्राचीन आवीती निवीती
कण्ठलम्बिते” मनूक्ते सव्यपाणिं बहिष्कृत्य दक्षिणस्कन्धो-
परिधृतयज्ञसूत्रे प्राचीनावीतिनि ।

आवुक पु० अवति रक्षति अव--वा० उण् संज्ञायां कन् । नाट्योक्तौ जनके ।

आवीरचूर्ण्ण पु० आ समन्तात् विशेषेण ईर्य्यते क्षिप्यते

आ + वि + ईर--घञ् कर्म्मधा० । (आवीर) इति ख्याते
फल्गुनि “आवीरचूर्णं रुचिरं गृह्यतां परमेश्वर”! पुरा०

आवृत् स्त्री आ + वृत--सम्प० क्विप् । १ आवर्त्तने २ भ्रामणे

३ पुनःपुनश्चालने “सूर्य्यस्यावृतमन्वावर्त्ते दक्षिणामन्वावृतम्”
अथ० १०, ५, ३७, ४ पुनःपुनरेकजातीयक्रियाकरणे ।
आधारे क्विप् । ५ परिपाट्याम् अनुक्रमे ६ इतिकर्त्तव्यताप्र-
कारे । “अनयै वावृता कार्य्यं पिण्डनिर्वापणं बुधैः” मनुः ।
“आवृते सोमपीतये” ऋ० ३, ४२, ३, ७ संस्कारे च । “अ
“मन्त्रिका तु कार्य्या वै स्त्रीणामावृदशेषतः । संस्कारार्थं
शरीरस्य यथाकालं यथाक्रमम्” मनुः । ८ तूष्णीम्भावे
च । “आवृतैव पर्य्यग्नि कृत्वोदकं नयन्ति” आश्व० गृ० ।
“आवृतैव तूष्णीमेवेत्यर्थः” वृत्तिः । कर्त्तरि क्विप् ।
९ आवर्त्तमाने त्रि० ।

आवृत त्रि० आ + वृ--क्त । १ कृतावरणे अप्रकाशीकृते आच्छा-

दिते “अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः” गीता
एतच्चानावृतक्षेत्रविषयम् आवृते तु पुनर्मार्गक्षेत्रेऽपि
दोष एवेति” मिता० “ब्राह्मणादुग्रकन्यायामावृतो नाम
जायते” मनूक्ते २ संकीर्ण्णवर्ण्णभेदे पुंस्त्री स्त्रियां जाति-
त्वात् ङीप् ।

आवृति स्त्री आ + वृ--क्तिन् । आवरणशब्दार्थे ।

आवृत्त त्रि० आ + वृत--क्त । १ पुनःपुनरभ्यस्ते २ आवर्त्त्यमाने च

३ परावृत्ते ४ प्रतिनिवृत्ते च “आवृत्तानां गुरुकुलात् विप्राणां
पूजकोभवेत्” मनुः । “कश्चिद्धीरः प्रत्यगात्मानमेक्षद
वृत्तचक्षुरमृतत्वमिच्छन्” कटोप० “आवृत्तं व्यावृत्तं चक्षुः
श्रोत्रादिकमिन्द्रियजातं विषयाद्यंस्य” भा० ।

आवृत्ति स्त्री आ + वृत--क्तिन् । १ पुनः पुनरभ्यासे २ भूयएक-

जातीयक्रियाकरणे “आवृत्तिः सर्व्वशास्त्राणां बोधादपि
गरोयसी” उद्भटः । “उदयावृत्तिपथेन नारदः” रघुः ।
“एकद्रव्ये कर्म्मावृत्तौ सकृन्मन्त्रवचनम्” कात्या० १, ७, ९ । “आवृ-
त्तिरसकृदुपदेशात्” शा० सू० । ३ प्रत्यावृत्तौ ४ “पुनरागतौ
“अनावृत्तिः शब्दात्” शा० सू० “तत्र प्राप्तविवेकस्याना-
वृत्तिः” सां० सू० । “यत्र काले त्वनावृत्तिमावृत्तिं चैव
योगिनः” गीता । “गुर्व्वी कामापदं हन्तुं कृतमा-
वृत्तिसाहसम्” किरा० । “तपोवनावृत्तिपथं
गताभ्याम्” रघुः ।

आवृत्तिदीपक न० आवृत्त्या दीपकम् । दीपकावृत्ति-

रूपे अर्थालङ्कारभेदे तल्लक्षणं ३०० उक्तम् ।

आवृष्टि स्त्री आ + वृष--क्तिन् । सम्यग्वर्षणे “भूयश्च शत

वार्षिक्यामनावृष्टावनम्भसि” देवीमा० ।

आवेग पु० आ + विज--घञ् । उत्कण्ठाजनके त्वरान्विते च

मानसे वेगे । वेगश्च क्रियाजन्यः गुणविशेषः मानसवेगस्योत्
कण्ठादिसाधनत्वे आवेगत्वम् । “सावेगमग्राङ्गुलिरस्य
तूणौ” किरा० । २ व्यभिचारिभावभेदे । व्यभिचारिणस्तु
सा० द० दर्शिता यथा निर्वेदावेगदैन्यश्रममदजड़ता
औग्र्यमौहौ विबोधः” इत्यादयः । तत्र आवेगः सम्भ्रमस्तत्र
वर्षजे पीड़िताङ्गता । उत्पातजे स्तब्धताङ्गे धूमा-
द्याकुलताग्निजे । राजविद्रवजादेस्तु शस्त्रनागादियो
जनम् । गजादेः स्तम्भकम्पादिः पांश्वाद्याकुलता
निलात् । इष्टाद्धर्षाः शुचोऽनिष्टाज्ज्ञेयाश्चान्ये यथायथम्” ।

आवेगी स्त्री आवेगोऽस्त्यस्याः अर्श आद्यच् गौरा० ङीष् ।

वृद्धदारकवृक्षे ।

आवेदक त्रि० आ + विद--णिच्--ण्वुल् । १ विज्ञापके “स्मृत्या-

चारव्यपेतेन मार्गेणाधर्षित परैः । आवेदयति चेद्राज्ञे व्यव-
हारपदं हि तदिति” स्मृत्युक्ते व्यवहारोत्थापके २ वादिनि च

आवेदन न० आ + विद--णिच्--ल्युट् । १ विज्ञापने व्यवहा-

२ रोत्थापने (नालिशकरा) “राज्ञे कुर्य्यात् पूर्ब्बमावेद-
नं यः” इति नारदः । आवेद्यते अनेन करणे ल्युट् ।
व्यावहारोत्थापके ३ भाषापत्रे (आरजी) तल्लक्ष-
णादि स्मृतौ दर्शितं यथा “प्रत्यर्थिनोऽग्रतोलेख्यं
यथाऽऽवेदितमर्थिना । समामासतदर्द्धाहर्नामजात्यादि-
पृष्ठ ०८३२
चिह्नितम्” या० स्मृ० । “निवेश्य कालं वर्षञ्च मासं पक्षं
तिथिं तथा । वेलां प्रदेशं विषयं स्थानं जात्याकृती
वयः । साध्यं प्रमाणं द्रव्यञ्च संख्यां नाम तथात्मनः ।
राज्ञां च क्रमशोनाम निवासं साध्यनाम च । क्रमात्
पितॄणां नामानि पीड़ामाहर्त्तृदायकौ । क्षमालिङ्गानि
चान्यानि पक्षं संकल्प्य कीर्त्तयेत्” कात्या० । “अर्थवत्-
क्रमसंयुक्तं परिपूर्णमनाकुलम् । साध्यवद्वाचकपदं प्रकृता-
र्थानुबन्धि च । प्रसिद्धमविरुद्धञ्च निश्चितं साधनक्षमम् ।
संक्षिप्तं निखिलार्थञ्च देशकालाविरोधि च । वर्षर्त्तु-
मासपक्षाहर्वेलादेशप्रदेशवत् । स्थानावसथसाध्याख्या-
जात्याकारवयोयुतम् । साध्यप्रमाणसंख्यावदात्मप्रत्यर्थिनाम
च । परात्मपूर्ब्बजानेकराजनामभिरङ्कितम् । क्षमालिङ्गा-
त्मपीड़ावत् कथिताहर्त्तृदायकम् । यदावेदयते राज्ञे
तद्भाषेत्यभिधीयते” नार० अत्र विशेषः वीरमि० । “देशश्चैव
तथा स्थानं सन्निवेशस्तथैव च । जातिः संज्ञा निवासश्च
प्रमाणं क्षेत्रनाम च । पितृपैतामहञ्चैव पूर्ब्बराजानुकीर्त्त-
नम् । स्थावरेषु विवादेषु दशैतानि निवेशयेत्” कात्या०
संख्याविशेषनिर्द्देशे “आसनं शयनं यानं ताम्रं कांस्य-
मयोमयम् । धान्यमश्ममयं यच्च द्विपदञ्च चतुष्पदम् ।
मणिमुक्ताप्रबालानि हीरकं रूप्यकाञ्चनम् । यदि द्रव्यसमूहः
स्यात् संख्या कार्य्या तदैव तु । यस्मिन् देशे च यद्द्रव्यं
येन मानेन मीयते । तेन तस्मिंस्तदा संख्या कर्त्तव्या
व्यवहारिभिः” हारी० “देशकालविहीनश्च द्रव्यसंख्या
विवर्ज्जितः । क्रियामानविहीनश्च पक्षोनादेय इष्यते”
कात्या० । क्रिया प्रमाणं, मानं साध्यपरिमाणम् ।
भाषादोषाश्च नारदोक्ता यथा । “अन्यार्थमर्थहीनञ्च
प्रमाणागमवर्ज्जितम् । लेख्यहीनाधिकं भ्रष्टं भाषादोषा
उदाहृताः” इति विभज्य तेषां लक्षणान्याह स एव ।
“अर्थे साधारणेऽप्येकोऽसम्बन्धोऽथानियुक्तकः । लेखयेत्
यन्तु भाषार्थमन्यार्थं तं विदुर्बुधाः । ब्रह्महायमिति द्वेषात्
क्रोधाद्वापि वदेत्तु यः । साध्यञ्च मोचयेत् पश्चादर्थहीनन्तु
तं विदुः । गणिते लिखिते मेये तथा क्षेत्रगृहा-
दिषु । यत्र संख्या न निर्दिष्टा सा प्रमाणविवर्ज्जिता ।
विद्यया प्राप्तमर्थार्थं लब्धं क्रीतं क्रमागतम् । न त्वेवं
लिख्यते यत्र सा भाषा स्यादनागमा । समा मासस्तथा
पक्षस्तिथिर्वारस्तथैव च । यत्रैतानि न लिख्यन्ते लेख्य-
हीनां तु तां विदुः” लेखयित्वा तु तां भाषामनि-
र्दिष्टे तथोत्तरे । निर्दिशेत् साक्षिणः पूर्ब्बमधिकां तां
विनिर्दिशेत् । यत्र स्यात्तु यथापूर्ब्धं निर्दिष्टं पूर्व्व-
वादिना । सन्धिग्धमेव लेख्येन भ्रष्टां भाषां तु तां
विदुः” । भाषादोषान्तरमाह” कात्या० । अप्रसिद्धं
निराबाधं निरर्थं निःप्रयोजनम् । असाध्यं वा विरुद्धं वा
पक्षाभासं विवर्ज्जयेत्” । तत्र अप्रसिद्धमाह वृह० “न
केनचित् कृतोयस्तु सोऽप्रसिद्ध उदाहृतः” । यथा हलसहस्र
कृष्टं क्षेत्रमपहृतम्” वीरमि० “मदीयं शशविषाणं गृहीत्वा
न प्रयच्छति” मिता० “स्वल्पापराधः स्वल्पार्थो निरर्थक इति
स्मृतः” वृह० “यथाहमनेन सस्मितमीक्षित इति” स्मृति-
चन्द्रिका । “कार्य्यबाधाविहीनस्तु विज्ञेयोनिंष्प्रयो-
जनः” वृह० । “यथाऽयं देवदत्तोमदीयगृहसन्निधौ
सुस्वरमधीते इत्यादि” मिता० निरर्थकनिष्प्रयोजनौ
अन्यथाऽपि वृह० लक्षितौ यथा “कुसीदाद्यैः पदै
र्हीनोव्यवहारोनिरर्थकः । वाक्पारुष्यादिभिश्चैव विज्ञे-
योनिष्प्रयोजनः” । “कुसीदमृणदानं तत्प्रभृतिभिश्च-
तुर्द्दशभिरर्थविषयव्यवहारैः हीनो निरर्थकः, पारुष्यादिभि-
हिंसात्मकैश्चतुर्भिर्हीनोनिष्प्रयोजनः” वीरमि० ।
असाध्यविरुद्धावाह वृह० । “ममानेन प्रदातव्यं शशशृङ्गकृतं
धनुः । असम्भाव्यमसाध्यं तं पक्षमार्हुमनीषिणः ।
यस्मिन्नावेदिते पक्षे प्राड्विवेकेऽथ राजनि । पुरे
राष्ट्रे विरोधः स्याद्विरुद्धः सोऽभिधीयते” अन्येऽपि
पक्षाभासाः स्मृतिचन्द्रिकायामुक्ता यथा “भिन्न-
क्रमोव्युत्क्रमार्थः प्रकीर्ण्णार्थो निरर्थकः । अतीत-
कालोवा द्विष्ठःपक्षोनादेय इष्यते । यथास्थानानिवेशेन
नैव पक्षार्थकल्पना । गम्यते तेन पक्षः स भिन्नक्रम
उदाहृतः” । व्यत्यस्ताक्षरसन्निवेशोभिन्नक्रम इत्यर्थः । व्युत्-
क्रमार्थो व्यवहितान्वयेनार्थबोधक्वः । प्रकीर्ण्णार्थोऽस-
ङ्कलितार्थः । “मूलमर्थं परित्यज्य तद्गुणोयत्र लिख्यते ।
निरर्थकः स वै पक्षो भूतसाधनवर्ज्जितः । भूतकालमति-
क्रान्तं द्रव्यं यत्र हि लिख्यते । अतीतकालः पक्षोऽसौ
प्रमाणे सत्यविस्मृतः । यस्मिन् पक्षे द्विधा साध्यं भिन्नकाल-
विमर्षणम् । विमृष्यते क्रियाभेदात् द्विष्ठः स इह चोच्यते” ।
अन्ये च भाषाया दोषास्तत्रैवोक्ताः । “अन्याक्षरनिवेशेन
अन्यथागमनेन च । आकुलं तु भवेल्लेख्यं क्रिया चैवा-
कुला भवेत् । साधनं सह साध्येन निर्द्दिष्टं यत्र लेखयेत् ।
उक्तिक्रमविहीनत्वात् सोऽपि पक्षो न सिद्ध्यति । विरु-
द्धश्चाविरुद्धश्च द्वावप्यर्थौ निवेशितौ । एकस्मिन् यत्र दृश्येते
तं पक्षं दूरतस्त्यजेत् । परापरविरुद्धानि यः पदानि
पृष्ठ ०८३३
निवेशयेत् । विरुद्धपदसंकीर्ण्णा भाषा तस्य न सिध्यति”
अनेकपदसंकीर्ण्णस्य दुष्यत्वं च युगपत्तत्साधनायोग्यस्थले
एव । क्रमेण तु तत्साधनयोग्यत्वे तदपि ग्राह्यमेव “बहु प्रतिज्ञं
यत् कार्य्यं व्यवहारेषु निश्चितम् । कामं तदपि गृह्णीयाद्राजा
तत्त्वबुभुत्सयेति” कात्या० उक्तेः भाषापत्रञ्च संस्कृतदेशभा-
षान्यतरेण यथाबोधं लेख्यम् मूर्खाणामपि वादिप्रतिवादि
तादर्शनात् अतएव अध्यापनेऽपि तथात्वं विष्णु ध० उक्तम् ।
“संस्कृतैः प्राकृतैर्वाक्यैर्यः शिष्यमनुरूपतः । देशभाषाद्युपा-
यैश्च बोधयेत् स गुरुः स्मृतः” इति । येन सर्वेषामवबोधस्तथा
लेख्यम् व्य० त० रघु० । तच्च यावदुत्तरं पाण्डुलेखं कृत्वा
शोधनीयम् यथोक्तं पूर्ब्बपक्षं स्वभावोक्तं प्राड्विवेकोऽभि-
लेखयेत् । पाण्डुलेखेन फलके ततः पत्रे निवेशयेत्”
वृह० । “पाण्डुलेखेन फलके भूमौ वा प्रथमं लिखेत् ।
ऊनाधिकं तु संशोध्य पश्चात् पत्रे निवेशयेत् ।
शोधयेत् पूर्ब्बवादन्तु यावन्नोत्तरदर्शनम् । अवष्टब्धस्योत्तरेण
निवृत्तं शोधनं भवेत्” नार० ।

आवेदनीय त्रि० आ + विद--णिच्--अनीयर् । १ विज्ञापनीये

यं प्रति ज्ञानाय आवेदनं क्रियते तस्मिन्, यस्य
पदार्थस्यावेदनं क्रियते तस्मिंश्च । व्यवहारे २ आवेद्ये
ऋणादानादौ च ।

आवेदित त्रि० आ + विद + णिच्--कर्म्मणि क्त । १ विज्ञापिते

यं प्रति विज्ञापनं कृतं तस्मिन्, यस्य पदार्थस्य वेदनं कृतं
तस्मिंश्च । व्यवहारे आवेदनकाले ३ निवेदिते पदार्थे च ।
“लिखितं साक्षिणो वापि पूर्ब्बमावेदितं न चेत्”
नारदः “यथावेदितमर्थिना” या० स्मृतिः ।

आवेदिन् त्रि० आ + विद--णिच्--णिनि । १ विज्ञापके । व्यवहारे

२ वादिनि च । “अनिष्टावेदिनं स्वप्नं दृष्ट्वा” रामा० स्त्रियां
ङीप् । आ + विद--णिनि । २ आज्ञातरि त्रि० स्त्रियां ङीप्

आवेद्य त्रि० आ + विद--णिच्--यत् । १ विज्ञाप्ये २ आवेदनीयार्थे

आ + विद--णिच्--ल्यप् । ३ विज्ञाप्येत्यर्थे अव्य० ।

आवेध्य त्रि० आ + विध--ण्यत् । आवेधार्हे मुक्तादिमणौ ।

आवेश पु० आ + विश--घञ् । १ अहङ्कारभेदे, २ संरम्भे, ३

अभिनिवेशे, ४ आसङ्गे, ५ अनुप्रवेशे, यथा भूतावेशः ।
६ ग्रहभये, ७ भूताद्यावेशरोगे च । “तस्मै स्मयावेश-
विवर्ज्जिताय” रघुः “तपनं प्रियविच्छेदे स्मरावेशोऽ-
न्यचेष्टितम्” सा० द० । “आवेशमोहौ क्रोधश्च गान्धारी-
धृतराष्ट्रयोः” भा० आ० प० १ अ० “पञ्चाना-
मिन्द्रियार्थानां शोकावेशैवातुलः” भा० व० ११ अ०

आवेशन न० आ + विश--आधारे ल्युट् । १ शिल्पशालायाम्

तत्र हि मनोऽभिनिवेशेनैव कार्य्यकरणात्तस्यास्तथात्वम्
२ भूतावेशादिरोगे ३ सूर्य्येन्दुपरिधौ च । “मनःक्षेपस्त्वपस्मारो
ग्रहाद्यावेशनादिजः” सा० द० । “जीर्णोद्यानान्यरण्यानि
कारुकावेशनानि च” मनुः आवेशशब्दार्थे ४ कोपादौ च
आधारे ल्युट् । ५ गृहे च । आ + विश--णिच् + ल्युट् ।
६ प्रवेशसम्पादने व्यापारे

आवेशिक त्रि० आवेशे गृहे भवः आगतो वा टञ् तत ।

१ अतिथौ २ असाधारणे ३ बान्धवादौ च । २ वेष्टके (वेड़ा)

आवेशित त्रि० आ + विश--णिच्--क्त । निवेशिते, “न मय्या-

वेशितधियां कामः कामाय कल्पते” भाग० । “मध्यावेशित
चेतसः” गीता ।

आवेष्टक पु० आवेष्टयति ण्वुल् । आवरणकारक्रे प्राचीरादौ

आवेष्टन न० आ + वेष्ट--भावे ल्युट् । १ आवरणे करणे ल्युट् ।

आवरंणसाधने २ प्राचीरादौ । (वेड़ा)इति ३ पदार्थे च

आव्दिक त्रि० अव्दे भवः ठक् । वर्षभवे श्राद्धादौ “आब्दिके

पितृकृत्ये च चान्द्रं मासं विनिर्दिशेत्” स्मृतिः “तथा
ल्पाल्पोग्रहीतव्योराष्ट्राद्राज्ञाव्दिकः करः” मनुः षट्त्रिं-
शदाब्दिकं चर्य्यम्” मनुः असंक्रान्तेऽपि कर्तव्यमाव्दिकं प्रथमं
द्विजैः” लघुहा० । “एकाहः पुनराव्दिके” स्मृतिः ।

आव्य त्रि० अवेर्मेषस्य विकारः ष्यञ् । मेषसम्बन्धिनि दुग्धलोमादौ

आव्याध पु० आ + व्यघ--घञ् उपसृष्टत्वात्न अप् । सम्यक्पीड़ने

आव्याधिन् त्रि० आ + व्यध--णिनि । सम्यक्पीडके । स्त्रियां

ङीप् । सा च २ चोरसेनायाम् “नर्क्षीकाः पुरुषव्याघ्राः
परिमोषिण आव्याधिन्यस्तस्करां अरण्येष्वाजायेरन्”
शत० ब्रा० “आव्याधिन्यः चोरसेनाः” भा० ।

आव्रश्चन न० ईषत् व्रश्चनं छेदनम् प्रा० स० । १ ईषच्छेदने,

“आव्रश्चनाद्वनस्पतयोऽनुप्रजायन्ते” शत० ब्रा० । आधारे
ल्युट् । २ छेद्यवृक्षप्रदेशे त्रि० आहुत्या हि यो यूपः
संस्कर्त्तव्यःसस्थाणुः आव्रश्चनशब्देनौच्यते “अतस्त्वमित्या-
व्रश्चने जुहोति” कात्या० ६, १, २० । आवृश्छ्यते यूपोऽस्मा-
दाव्रश्चनः स्थाणौ छेदनप्रदेशः” वृत्तिः “आव्रश्चनमभिजु-
होति” शत० ब्रा० ।

आव्रस्क पु० आ + व्रश्च--घञ् कुत्वम् । ईषच्छेदने । आत्मनो-

ऽनाव्रस्काय” तैत्ति० श्रुतिः ।

आव्रीडक पु० अव्रीडस्य निर्लज्जस्य विषयो देशः राजन्या० वुञ् । निर्लज्जदेशे ।

आश पु० अश--भोजने घञ् । भोजने । प्रातराशः, भायमाशः,

कर्मणि उपपदे कर्त्तरि अणे उपपदस० । तत्तद्वस्तुभक्षके
यथा हुताशः आश्रयाशः मांसांशः पलाशः हविष्याशः ।
पृष्ठ ०८३४

आशंसा स्त्री आ + शस--अ । अप्राप्तस्य १ प्राप्तीच्छायाम्,

२ इष्टार्थाशंसने च । “निदधे विजयाशंसां चापे सीताञ्च
लक्ष्मणे” रघुः “आशंसायां भूतवच्च” “आशंसावचने”
तिङ्” पा० । ल्युट् आशसनमप्यत्र न० “इष्टार्थाशंसन
माशीः” रघु० ।

आशंसित त्रि० आ + शन्स--क्त । १ कथिते २ इच्छाविषयीभूते । भावे क्त ३ आशंसायाम् न० ।

आशंसितृ त्रि० आ + शंस--तृच् । भाविशुभेच्छावति । स्त्रियां

ङीप् ।

आशंसिन् त्रि० आ + शन्स--णिनि । आशंसौ आशंसा कर्त्तरि स्त्रियां ङीप् ।

आशंसु त्रि० आ + शन्स--उ । इच्छाकारके भाविशुभाशंसा-

वति “लक्ष्मीः पुंयोगमाशंसुः कुलटेव कुतूहलात्” भट्टिः

आशक त्रि० अश्नाति अश--ण्वुल् । १ भक्षके २ भोगयुक्ते ।

णिच्--ण्वुल् । ३ भोगसम्पादके । “तमेतं ब्राह्मणा-
विविदिषन्ति--तपसाऽनाशकेन” श्रुतिः ।

आशक्त प्रि० सम्यक् शक्तः प्रा० स० । सम्यक्शक्तियुक्ते

आशङ्कनीय त्रि० आ + शकि--अनीयर् । १ शङ्कया

विषयीकार्य्ये २ अनिष्टतया चिन्तनीये च ।

आशङ्का स्त्री आ + शकि--अ । १ भये त्रासे अनिष्टतया

२ चिन्तने “समुद्धृताशङ्कमनीचकाशे” माघः । “रत्या च
साशङ्कमनुप्रयातः” कुमा० । “गुदपरिकर्त्त नमाशङ्का पाण्डु-
रोगग्रहणीदोष शोषाणाम्” सुश्रु० सम्यक्शङ्कायां ३ सन्देहे
इत्याशङ्कायामाह इति भूरिशः जगदीशः गदाधरश्च प्रायुङ्क्त ।

आशङ्कित त्रि० आ + शकि--कर्त्तरि क्त । १ भीते कर्मणि क्त

अनिष्टतया २ चिन्तिते ३ सन्दिग्धे च । भावे क्त । ३ भये
४ सन्देहे ५ अनिष्टतया चिन्तने च न० ।

आशङ्किन् त्रि० आ + शकि--णिनि । आशङ्कायुक्ते “रघोरभि-

भवाशङ्कि चुक्षुभे द्विषतां मनः” रघुः । अशुभाशङ्कि
हृदयम्” रामा० कुब्जा नोचतयैव यान्ति शनकैरात्मेक्षणा-
शङ्किनः” रत्ना० । स्त्रियां ङीप् ।

आशङ्क्य त्रि० आ + शकि--कर्मणि ण्यत् । १ सन्देहविषयीकार्य्ये

२ अनिष्टतया चिन्त्ये ल्यप् । ३ संदिह्येत्यर्थे ४ अनिष्टतया
ज्ञात्वेत्यर्थे च अव्य० अव्याप्यवृत्तिसाध्यकसद्धेताव-
व्याप्तिमाशङ्ग्याह” दीधितिः ।

आशन पु० अशनएव स्वार्थे अण् । १ अशनवृक्षे द्विरूपकोषः

अश--णिच् ल्यु । २ भोजयितरि त्रि० । अशनिः अशनि-
जीवी स्वार्थे पर्श्वा० अण् । ३ वज्रजीविनि त्रि० आशनः
आशनौ बहुषु तस्य लुक् अशनय इत्येव । अशनिरेव प्रज्ञा०
अण् । ४ वज्रे स्वार्थिकप्रत्ययस्य प्रकृतिलिङ्गत्वात् पुंस्त्री० ।

आशय पु० आ--शी--अच् । १ अभिप्राये, २ आधारे, ३ विभवे,

४ पनसवृक्षे वैद्यकोक्ते ५ स्थानभेदे च । आ फलविपाकात्
चित्तभूमौ शेते इति कर्त्तरि अच् कर्मजन्ये ६ वासनारूपे
संस्कारे, “क्लेशजन्मकर्मविपाकाशयैरप्ररामृष्टः पुरुषविंशेष
ईश्वरः” पात० सू० धर्माधर्मरूपे ८ अदृष्टे च । अधारे अच् ।
आशयवति ९ चित्ते । “अहमात्मागुड़ाकेश । सर्व्व-
भूताशयस्थितः” गीता० । भावे अच् । १ ० शयने ११ स्थाने
च “यो वक्ता नेदृगाशयः” किरा० “ग्रहीतुकामादरिणाश-
येन” नैष० विषमोऽपि विगाह्यते नयः कृततीर्थः पयसा-
मिवाशयः” किरा० “गृहीत्वैतानि संयाति वायुर्गन्धा-
निवाशयात्” वैद्यकोक्ताः देहान्तर्वर्त्तिन आशयास्तु सप्त
यथा ह” सुश्रुते “त्वंचः सप्त, कलाः सप्त, आशयाः
सप्त” इति विभज्य आशयास्तु वाताशयः पित्ताशयः
श्लेष्माशयः रक्ताशयः आमाशयः पक्वाशयः मूत्राशयः,
स्त्रीणां गर्भाशयोऽष्टम” इति । एषां स्थानानि भावप्र० ।
“उरोरक्ताशयस्तस्मादधःश्लेष्माशयः स्मृतः ।
आमाशयस्तु तदधः तल्लिङ्गं चरकोऽवदत्” नाभिस्तना-
न्तरं जन्तोराहुरामाशयं बुधाः । आमाशयादधः
पक्वाशयादूर्द्ध्वं तु या कला । ग्रहणीनामिका सैव
कथितः पावकाशयः । ऊर्द्ध्वमग्न्याशयो नाभेर्मध्य-
भागे व्यवस्थितः । तस्योपरि विलं ज्ञेयं तदधः पवना-
शयः । पक्वाशयस्तु तदधः सएव च मलाशयः । तदधः
कथिता वस्तिः सा हि मूत्राशयो मतः । पुरुषेभ्योऽधिका-
श्चान्ये नारीणामाशयास्त्रयः । एकोगर्भाशयः प्रोक्तः पित्त-
पक्वाशयान्तरे । स्तनौ प्रसिद्धौ तावेव बुधैःस्तन्याशयौ
स्मृतौ” । १ २ कोष्ठागारे १३ बौद्धमतसिद्धे आलयविज्ञान
रूपे विज्ञानसन्ताने १४ आश्रये १५ किंपचाने पशुधार-
णार्थगर्त्तरूपे १६ खातभेदे च । “अयञ्च पार्थो वीभत्सु-
र्वरिष्ठोज्याविकर्षणे । आस्ते परमसन्तप्तो नूनं सिंह
इवाशये” भा० व० ३५ अ० ।

आशयाश पु० आशयमाश्रयमश्नाति अश--अण् उप० स० ।

वह्नौ क्षीरस्वामी तस्य स्वाश्रयकाष्ठादेभेक्षकत्वेन तथात्वम्

आशर पु० आशृणाति अ + शॄ--अच् । १ अग्नौ, २ राक्षसे च ।

आशव न० आशोर्भावः पृथ्वा० वा अण् । शीघ्रत्वे पक्षे

इमनिच् आशिमा पु० । त्व आशुत्वम् न० तल् आशुता स्त्री
तत्रार्थे ।

आशस् त्रि० आ + शन्स--क्विप् । १ आशंसनकर्त्तरि । भावे क्विप्

आशंसने “नमसा पृच्छ्यमानस्तवाशसा जातवेदोयदी-
दम्” ऋ० ४, ५, ११, “तवाशसा त्वत्स्तुत्या” भा० ।
पृष्ठ ०८३५

आशसन न० आ शन्स--बा क्युन् । १ कथने २

आशंशायाञ्च । “तस्या आहननं कृत्या मेनिराशसनम्” अथ०
१२, ५, ३९, “क्षिप्रेऽस्याशसनं जनिष्यते” शत० ब्रा० ।

आशस्त त्रि० आ + शन्स--क्त । स्तुते । “यच्चिद्धि सत्य सोमपा

अनाशस्ता इव स्मसि” ऋ० १, २, ९१ ।

आशा स्त्री समन्तात् अश्नुते आ + अश--अच् । दिशि,

“अगस्त्याचरितामाशामनाशास्यजयोययौ” रघुः
“करभकण्ठकड़ारमाशाः” माघः । “गच्छतस्तस्य चित्ररथतनया
न केवलमन्तर्बहिरपि सैव सर्व्वाशानिबन्धनमासीत्” काद० ।
दिक् च नैयायिकादिमते संख्यापरमितिपृथक्त्वसंयोगवि-
भागाश्रयोद्रव्यभेदः दैशिकपरत्वापरत्वयोरसमवायिकारण-
संयोगाश्रयतया तत्सिद्धिः तस्या एकत्वेऽपि उपाधि-
भेदात् प्राच्यादिव्यवहारः तथा च यत्पुरुषस्य उदय
गिरिसन्निहिता या दिक् सा तस्य प्राची, उदयगिरिव्यव-
हिता प्रतीची तत्पुरुषीयमेरुसन्निहिता दिगुदीची “सर्वे-
षाञ्चैव वर्षाणां मेरुरुत्तरतः स्थितः” इत्युक्तेस्तस्यास्तथा-
त्वम् । तद्व्यवहिता दिक् अवाची । इयञ्च दिक् ईश्वर
एवेति रघुनाथः “दिक्कालावीश्वरान्नातिरिच्यते” इति
पदार्थखण्डने तस्योक्तेः सां० कौ० मते यदुपाधिना पूर्ब्बा-
परत्यव्यवहारस्तदुपाधेरेव दिक्शब्दवाच्यत्वं न तदाश्रयत्वे-
नातिरिक्तदिक्कल्पनम् तथा च गगनात्मकत्वमेव दिशः
“दिक्कालावाकाशादिभ्यः” सां० सू० आकाशोपा-
धिभ्यामेव दिक्कालयोर्नार्थान्तरत्वमिति व्यवस्थापितम् ।
२ अशक्योपायार्थविषयायाम् तीव्राकाङ्क्तायाम्
३ अप्राप्तप्राप्तीच्छायां तृष्णायां च । “आशा बलवती
राजन्! शल्योजेष्यति पाण्डवान्” “तामाशां हृदये
कृत्वा” भा० शल्यप० । “आशा हि परमं दुःखं
नैराश्यं परमं सुखम् । यथा संछिद्य कान्ताशां सुखं
सुष्वाप पिङ्गला” पुरा० “मनो बभूवेन्दुमतीनिराशम्” ।
“राघवोरथमप्राप्तां तामाशाञ्च सुरद्विषाम्” रघुः
आशायाश्च व्रह्मरूपेणोपासनं श्रुतौ विहितं यथा “स्मरा-
द्वाव भूयोऽस्तीति तन्मे भगवान् ब्रवीत्विति” प्रश्ने “आशा-
वाव स्मराद्भूयस्याशेद्धोवै स्मरोमन्त्रानधीते कर्म्माणि कुरुते
पुत्रांश्च पशूंश्चेच्छत इमं च लोकममुञ्चेच्छत आशामुपा-
स्वेति । स य आशां ब्रह्मेत्युपास्ते आशयास्य सर्व्वे कामाः
समृध्यन्त्यमोघाः हास्याशिषो भवन्ति यावदाशाया
गतं तत्रास्य यथा कामचारो भवति य आशां ब्रह्मेत्यु-
पास्ते” छा० उ० व्याख्यातं च भा० । यथा “आशा वाव
स्मराद्भूयसी । अप्राप्तवस्त्वाकाङ्क्षा आशा तृष्णा काम
इति यामाहुः पर्य्यायैः । सा च स्मरात् भूयसी । कथम्?
आशया ह्यन्तःकरणस्थया स्मरति स्मर्त्तव्यम् । आशा
विषयरूपं स्मरन्नसौ स्मरो भवति आशेद्ध आशयाभिवर्द्धितः
स्मरभूतः स्मरन्नृगादीन्मन्त्रानधीतेऽधीत्य च तदर्थं ब्राह्म-
णेभ्यो विधींश्च श्रुत्वा कर्म्माणि कुरुते तत्फलाशयैव ।
पुत्रांश्च पशूंश्च कर्म्मफलभूतानिच्छतेऽभिवाञ्छति आशयैव
तत्साधनान्यनुतिष्ठन् इमञ्च लोकमाशेद्धएव स्मरन्
लोकसंग्रहसेतुभिरिच्छन्नमुञ्च लोकमाशेद्धः स्मरन् स्मराकाशा-
दिनामपर्य्यन्तं जगच्चक्रीभूतं प्रतिप्राणि, अत आशायाः
स्मरादपि भूयस्त्वमित्यत आशामुपास्व । यस्त्वाशां
ब्रह्मेत्युपास्ते शृणु तस्य फलम् आशया सदोपासितयास्यो-
पासकस्य सर्वे कामाः समृद्ध्यन्ति समृद्धिं गच्छन्त्यमोघा-
हास्याशिषः प्रार्थनाः सर्व्वा भवन्ति यत् पार्थितं सर्व्वं
तदवश्यं भवतीत्यर्थः” । ईषद्भेदमादायैव आशाकामतृष्णादे-
र्भेदः तदभिप्रायेणैव “आशा नाम नदी मनोरथजला तृष्णा-
तरङ्गाकुला” इत्यादौ आशादीनां भेदेन वर्ण्णनम् ।

आशा(ड)ढ़ पु० आषाढ़ + पृ० । आषाढ़शब्दार्थे द्विरूपकोषः

आशाढ़ा(डा) स्त्रीपृ० आषाढ़ानक्षत्रे “मार्गे च फाल्गुने चैव

आशा(डे)ढे कार्त्तिके तथा । पक्षयोर्माघमासस्य द्वितीयां
परिवर्ज्जयेत्” मल० त० पु० । आशाढ़ा प्रयोजनमस्य
अण् । २ ब्रह्मचारिधार्य्ये पालाशे दण्डे । आशाढानक्षत्र-
युक्ता पौर्णमामी अण् ङीप् । आशाढी चान्द्राशाढपौर्ण-
मास्याम् स्त्री सा यत्र मासे अण् । चान्द्राशाढे पु० ।

आशादामन् न० आशा दामेव उपमि० स० । आशारूप

बन्धनसाधने दामनि आशारूपशृङ्खले ।

आशापाल पु० आशां दिशं पालयति पा--णिच्--अण्

उप० स० । १ दिक्पाले इन्द्रादौ ते च “इन्द्रोवह्निः
पितृपतिर्नैरृतोवरुणोमरुत् । कुवेरईशः पतयः
पूर्व्वादीनां दिशां क्रमात्” इत्यमरोक्ता अष्टौ उर्द्धा-
धोदिशोश्च ब्रह्मानन्तौ चेति दश । २ अश्वमेधीयपशुरक्षके
राजकुमारभेदे च । तेषां स्वरूपादिकमुक्तं शत० ब्रा० ।
“आदित्यानेवैनं गमयति देवा आशापाला एतं देवेभ्यो-
ऽश्वं मेधाय प्रोक्षितं रक्षतेति शतं वै तल्प्या राजपुत्रा
आशापालास्तेभ्य एवैनं परिददातीह रन्तिरिह रमता-
मिह धृतिरिह स्वधृतिः स्वाहेति संवत्सरमाहुतीर्जुहोति
पृष्ठ ०८३६
षोडश नवतीरेता वा अश्वस्य बन्धनं ताभिरेवैनं बध्नाति
तस्मादश्वः प्रमुक्तोबन्धनमागच्छति षोडश नवतीरेता
वाअश्वस्य बन्धनं ताभिरेवैनं बध्नाति तस्मादश्वः प्रमुक्तोबन्धनं
जहाति । राष्ट्रं वा अश्वमेधः राष्ट्रएते व्यायच्छन्ते
येऽश्वं रक्षन्ति तेषां य उदृचं गच्छन्ति राष्ट्रेणैव ते राष्ट्रं
यन्ति अथ ये नोदृचं गच्छन्ति राष्ट्रात्ते व्यवच्छिद्यन्ते तस्मा-
द्राष्ट्रियोऽश्वमेधेन यजेत परा वा एष सिच्यते योऽबलोऽश्व-
मेधेन यजते यद्यमित्रो अश्वं विन्देत यज्ञोऽस्य विच्छिद्येत
पापीयान् तस्माच्छतं कवचिनो रक्षन्ति यज्ञस्य संतत्या
अव्यवच्छेदाय न पापीयान् भवत्यथान्यमानीय प्रोक्षेयुः, सैव
तत्र प्रायश्चित्तिः” शत० ब्रा० । अधिकमश्वमेधशब्दे दृश्यम्-

आशापुर न० पुरभेदे यत्र प्रशस्तगुग्गुलुसम्भवस्तादृशे नगरे ।

आशापुरसम्भव न० आशापुर सम्भवति सम् + भू अच् ।

गुग्गुलुभेदे ।

आशाबन्ध पु० आशां दिशं बध्नाति अच् । १ मर्कटजाले,-

बन्ध--घञ् ३ त० । २ तृष्णाबन्धे ६ त० । ३ दिशां बन्धे च ।
४ समाश्वासे । आशा बन्धैव । ५ आशारूपे बन्धे ।
“आशाबन्धः कुमुमसदृशं प्रायशोह्यङ्गनानाम्” मेघदू० ।

आशावह त्रि० वह--अच् ६ त० । १ आशाधायके आशासं-

पादके । २ नृपतिभेदे “आशावहो निरुद्धश्चसमीकः सारि-
मेजय” भा० आ० १८६ अ० ३ दिवः पुत्रभेदे च पु० “दिवः
पुत्रो वृहद्भानुश्चक्षुरात्मा विभावसुः । सविता स
ऋचीकोऽर्कः भानुराशावहो रविः” भा० आ० १ अ० ।

आशास्य त्रि० आ + शास--ण्यत् । आशीःसाध्ये,

आशंसनीये “आशास्यमन्यत् पुनरुक्तमेव” रघुः । “अना-
शास्यजयोययौ” रघुः ।

आशित त्रि० आश्नाति आ + अश--क्त । १ सम्यग्भुक्ते, अन्नादौ

भावे क्त । २ सम्यग्भक्षणे न० । आशितमस्त्यस्य अर्श०
अच् । ३ अशनेन तृप्ते त्रि० “नातिप्रगे नातिसायं न
सायं प्रातराशितः” मनुः ।

आशितङ्गवीन त्रि० आशिता अशनेन तृप्तागावो यत्र खञ्

नि० मुम् । यत्र स्थले घासादिभक्षणेन गावस्तृप्तिमाप्तास्ता-
दृशे प्रचुरघासे स्थले “हित्वाशितङ्गवीनानि” भट्टिः ।

आशितम्भव त्रि० आशितोऽशनेन तृप्तो भवत्यनेन आशित +

भूकरणे खच् मुम् उ० स० । १ यस्य भोजनेन प्राणिनस्तृप्ता-
भवन्ति २ तादृशेऽन्नादौ । भावे खच् । ३ अशनेन तृप्तभवने
न० । “फलैर्येष्वाशितम्भवम्” भट्टिः ।

आशितृ त्रि० आ + अश--तृच् । तृप्त्या भक्षके हेम० । स्त्रियां ङीप् ।

आशिन् त्रि० अश--भोजने णिनि । भक्षके “श्मशानवासी

मांसाशी खर्पराशी मखान्तकृत्” वटुकस्तोत्रम् । “नायन्त्रित-
स्त्रिवेदोऽपि सर्व्वाशी सर्वविक्रयी” “भोजनार्थन्तु ते शंसन्
वान्ताशीत्युच्यते बुधैः” “आगारदाही गरदः कुण्डाशी
सोमविक्रयी” “विघसाशी भवेन्नित्यं नित्यं वाऽमृतभोजनः”
इति च मनुः । “दिवोपवासी तु निशामिषाशी” हास्या०
“एवं कृत्वा हविष्याशी जपेल्लक्षमनन्यधीः” तन्त्रम् ।

आशिन त्रि० आशिन् + स्वार्थे अण् वेदे नि० न टिलोपः ।

भक्षके “नमोयुवभ्योनम आशिनेभ्यः” ऋ० १, २७, १३ ।

आशिमन् पु० आशोर्भावः पृथ्वा० इमनिच् डिद्वत् । शीघ्रत्वे ।

आशिर् त्रि० आश्रीयते पच्यते आ + श्री--क्विप् नि० ।

पच्यमाने क्षीरादौ “शुक्रा आशिरं याचन्ते” ऋ० ८, २,
१० । “आशिरं क्षीरादिकं श्रपणद्रव्यम्” भा० ।
“ताँ आशिरं पुरोडाशमिन्द्रियम्” ऋ० ८, २, १० । “इन्द्रा
य गाव आशिरं दुदुह्रे वज्रिणे मधु” ऋ० ८, ५८, ६ ।

आशिर त्रि० आशीरेव स्वार्थे अण् । श्रपणीये क्षीरादौ ।

“अथ यद्धेनुर्भवति साशिरमेवैतत् क्रीणाति” शत० ब्रा०
३, ३, १ । आ + अश--व्याप्तौ भोजने वा इरच् । २ अग्नौ
३ सूर्य्ये ४ राक्षसे च पु० सि० कौ० । अग्निराक्षसयोः
सर्वभक्षकत्वात्, सूर्यस्य च दीप्त्या सर्व्वव्यापित्वात्तथात्वम् ।

आशिषिक त्रि० आशिषा चरति ठक् “इसुसुक्तान्तात्”

पा० सूत्रे प्रतिपादोक्तस्यैव इसो ग्रहणात् न कः किन्तु
इक एव । आशीर्व्वादेन चारिणि आशीरभिरते ।

आशिष्ट त्रि० आ + शास--क्त । कृताशीर्व्वादे ।

आशिष्ठ त्रि० अतिशयेन आशु इष्ठन् डिद्वत् । अत्यन्तशीघ्रे ।

आशिस् स्त्री आ + शास् क्विप् आङ्पूर्वकत्वात् अतैत्त्वम् ।

१ इष्टार्थाविष्करणे । “यां वै काञ्च यज्ञ ऋत्विज
आशिषमाशासते यजमानस्यैव सा” शत० ब्रा० १, ३, १, २६ ।
“आशीर्नमस्त्रिया वस्तुनिर्देशोवाऽपि तन्मुखे” सा० द० ।
“जगच्छरण्यस्य निराशिषः सतः” कुमा० “अमोघाः प्रति-
गृह्णन्तावर्घानुपदमाशिषः” रघुः । २ प्रार्थनायाञ्च तस्य
कामाः समृध्यन्त्यमोघाहास्याशिषो भवन्ति” छा० उ० ।
“आशिषः प्रार्थनाः” भा० “वेदीक्तमायुर्मर्त्त्यानामाशिषश्चैव
कर्मणाम्” मनुः । आशीश्च “वात्सल्याद्यत्र मान्येन कनिष्ठ-
स्याभिधीयते । इष्टावधारकं वाक्यमाशीः सा परिकी-
र्त्तिता” इत्येवं लक्षणा प्रार्थना वाक् अत्र कनिष्ठस्येत्युपलक्ष-
णम् । “तस्मै जयाशीः ससृजे पुरस्तात् सप्तर्षिभिस्तान्
स्मितपूर्व्वमाह” कुमा० सप्तर्षिकृतशिवाशीर्व्वादवर्ण्णनात्
"https://sa.wikisource.org/w/index.php?title=वाचस्पत्यम्/आरा&oldid=315193" इत्यस्माद् प्रतिप्राप्तम्