पृष्ठ ०८३७

आशी स्त्री आशीर्य्यतेऽनया आ + शॄ क्विप् पृ० । “१ सर्प-

दंष्ट्रायाम् । आशीविषः । “विषमाशोभिरनारतं वमन्तः
माघः । “आशीमिव कलामिन्दोः” राजेश्वरः “आशी
उरगदंष्ट्रायाम्” वैद्य० । “आशी तालुगता दंष्ट्रा तया
विद्धो न जीवति” आशिस् पृ० । २ आशीर्व्वादे द्विरूप-
कोषः ३ वृद्धिनामोषधौ च ।

आशीयस् त्रि० अतिशयेनाशुः इयसु डिद्वत् । अत्यन्तशीघ्रे स्त्रियां ङीप् ।

आशीर्त्त त्रि० आ + श्री--क्त वेदे नि० । आश्राणे पक्वे दुग्धादौ

“मध्यत आशीर्त्तः” सि० को० धृता श्रुतिः ।

आशीर्वत् त्रि० आशीरस्त्यस्थ मतुप् वेदे मस्य वः ।

आशीर्व्वादयुक्ते “सवनान्याशीर्व्वन्ति” कात्या० २, ९, ८ लोके
तु आशीर्मानित्येव स्त्रियां ङीप् ।

आशीर्वाद पु० आशिषो वादः वचनम् । इष्टार्थाविष्करण-

वाक्ये “मङ्गल्यं दीर्घवर्ण्णान्तमाशीर्वादाभिधानवत्” मनुः
“संजानन्त्यतुलं वीर्य्यमाशीर्वादपरायणाः” भा० आ० प०
८ अ० । आशीर्वचनादयोऽप्यत्र । “आशीर्वचनसंयुक्तां
नित्यं यस्मात् प्रकुर्व्वते” सा० द० ।

आशीविष पु० आश्यां विषमस्य । १ सर्पे तद्भेदाश्चाहिशब्दे

५८१ पृष्ठे उक्ताः । “गरुत्मदाशीविषभोमदर्शनैः” रघुः
२ दर्वीकरसर्पभेदे च अहिशब्दे सुश्रुते उदा० “आशीविषैः
कृष्णसर्पैर्भीमसेनमदंशयत् । सर्व्वेष्वेवाङ्गदेशेषु न ममार
च शत्रुहा” भा० व० १२ अ० । “तैर्थिकं भुञ्जते यस्तु
मणिनागम्य भारत! । दष्टस्याशीविषेणापि न तस्य क्रमते
विषम्” भा० व० ८४ अ० । “मृद्रन् सतः सत्यशीलान्
सत्यधर्म्मानुपालिनः । आशीविषानिव क्रुद्धान् पतीन्
परिचराम्यहम्” भा० व० २३२ अ० ।

आशु त्रि० अश--व्याप्तौ उण् । १ शीघ्रे “यदाशुभिः पतति

योजना पुरः” ऋ० २, १६, ३, गुणवचनत्वात् स्त्रियां वा ङीप् ।
वर्षाभवे २ धान्यभेदे पु० (आउस) । तस्य षष्टिदिवसमघ्ये
पच्यमानतयाऽऽशुपाकात् आशुत्वम् तद्गुणलक्षणानि
भावप्र० । “वार्षिकाः काण्डिताः शुक्लाव्रीहयश्चिरपाकिणः ।
कृष्णव्रोहिः पाटलश्च कुक्कुंटाण्डक इत्यपि । शालीमुखोजतु
मुख इत्याद्याव्रीहयः स्मृताः । कृष्णव्रीहिः स विज्ञेयो
यः कृष्णतुषतण्डुलः (कोद्रव) । पाटलः पाटलापुष्प
वर्ण्णको व्रीहिरुच्यते (राङ्गिधान्य) कुक्कुटाण्डाकृतिर्व्रीहिः
कुक्कुटाण्ड इहोच्यते । शालीमुखः कृष्णशुकः कृष्णतण्डुल
उच्यते । लाक्षावर्ण्णं मुख यस्य ज्ञेयोजतुमुखस्तु सः ।
व्रीहयः कथिताः पाके मधुरा वीर्य्यतो हिमाः । अल्पाभि-
ष्यन्दिनोबद्धवर्चस्काः षष्टिकैः समाः” “कृष्णव्रीहिर्वर-
स्तेषां तस्मादल्पगुणाः परे” ३ पाटले व्रीहौ न० ।
४ क्रियाविशेषणत्वे न० । “प्रत्युद्यातः कथमपि भवान्
गन्तुमाशु व्यवस्येत्” शान्तिं नेयं प्रणयिभिरतोवर्त्म
भानोस्त्यजाशु” मेघदूतम् “स जीवसन्नेव शूद्रत्वमाशु गच्छति
सान्वयः” कुलान्येव नयन्त्याशु समस्तानि च शूद्रताम्” मनुः

आशुकारिन् त्रि० आशु शीघ्रं करोति कृ--णिनि स्त्रियां

ङीप् । १ शीघ्रकरे “आशुकारी तथाशुत्वाद्धावत्यम्भसि
तैलवत्” सुश्रुतोक्ते २ द्रवभेदे च । क्विप् । आशुकृदप्यत्र त्रि० ।

आशुक्रिया स्त्री आशु यथा तथा क्रिया । शीघ्रकरणे “अष्टा-

स्वप्यायुर्वेदतन्त्रेषु एतदेवाधिकमभिमतमाशुक्रियेति” सुश्रु० ।

आशुग पु० आशु + गम--ड । १ वायौ, २ सूर्य्ये च । एतयोः

शीघ्रगामित्वात् तथात्वम् । “वायुर्वै क्षिपिष्ठा देवतेति” श्रुतौ
क्षिप्रगामित्वोक्तेः शीघ्र गतित्वप्रसिद्ध्वत्वाच्च वायोस्तथात्वम्
सूर्य्यस्याशुगत्वमनुपदं वक्ष्यते ३ वाणे “पपावनास्वादितपूर्व्व-
माशुगः” “रावणस्यापि रामास्तोभित्त्वा हृदयमाशुगः” रघुः
४ शोघ्रगामिनि त्रि० विनीतैस्तु व्रजेन्नित्यमाशुगैर्लक्षणा-
न्वितैः” मनुः । “दिशां गजन्तु श्वेताख्यं (ऐरावतम्)
श्वेताऽजनयताशुगम्” भा० आ० प० ६६ अ० । “जवनानाशुगां-
श्चैव करार्थं समुपानयत्” भा० स० प्र० २६३ अ० “शोभ-
माना रथेयुक्तास्तरिष्यन्तैवाशुगाः” भा० व० प० १६१ अ० ।
आशुगत्वं च अल्पकालमध्ये गन्तव्यदेशगमनात् भवति
कालाल्पत्वञ्च आपेक्षिकं ततश्च “शीघ्रोऽल्पभागे बहुभाग-
मन्दे” इत्यादौ नील० ता० ग्रहाणां शीघ्रमन्दत्वमापेक्षिक-
मिति बोध्यम् तथा च स्वस्वकक्षायां ग्रहाणां तुल्यगतित्वे-
ऽपि कक्षाणामल्पत्ववृहत्त्वाभ्यां गन्तव्यदेशाल्पत्वाधिकत्वभे-
दात् गतिभेदः ग्रहाणां कक्षामानं च ग्रहकक्षाशब्दे
वक्ष्यते । तथा च स्वल्पकक्षास्थग्रहस्य वृहत्कक्षा-
स्थग्रहापेक्षया शीघ्रगत्वम् तच्च स्वाभाविकम् ।
अत्र प्रसङ्गात् ग्रहाणां शीघ्रमन्दगतित्वे कारणमुच्यते
तथा हि सर्वेषां ग्रहाणां राशिचक्रस्थस्वस्वकक्षासु
तुल्यप्राग्गतित्वेऽपि स्वस्वकक्षाणामल्पत्ववृहत्त्वाभ्याम्
अल्पाधिककालाभ्यामेव स्वस्वकक्षास्थराशिचक्रस्थस्थान-
भोगः इत्यतो यस्य कक्षा लघ्वी स शीघ्रगः यस्य च
वृहती स मन्दग इत्युच्यते एतदभिप्रायेणैव ग्रहाणां राशि-
भोगे कालभेदो दर्वितः यथा “रविर्मासं निशा-
नाथः सपाददिवसद्वयम् । पक्षत्रयं भूमिपुत्रो बुधोऽष्टा-
दश वासरान् । वषमेकं सुराचार्य्यस्त्वष्टाविंशं दिनं भृगुः ।
पृष्ठ ०८३८
शनिः सार्द्धद्वयं वर्षं राहुः सार्द्धसमां तथा” ज्यो०
सूर्य्यस्य यद्यपि चन्द्रबुधशुक्रापेक्षया मन्दगतित्वम् तथापि
कुजगुरुराहुशन्यपेक्षया शीघ्रगतित्वात् आशुगत्वम् । स्वस्व-
कक्षायां सूर्य्ययोगेन च ग्रहाणां पुनःशीघ्रगत्वं “सूर्य्य-
युक्ता ग्रहाः शीघ्रा इत्युक्तेः । ग्रहाणां शीघ्रकेन्द्रशीघ्र-
फलादिकम्” सि० शि० दर्शितं विस्तरभयान्नोक्तं तत
एवावसेयम् । किञ्च सर्ब्बग्रहापेक्षया राशिचक्रस्य शीघ्रगति-
त्वात् प्रतिदिनं स्वगत्यनुसारेण ग्रहाणां प्राग्गतित्वेऽपि
राशिचक्रस्य प्रवहवायुना पश्चात् नीयमानतया तदारूढर-
व्यादेः पश्चाद्गतित्वभ्रमात् तदनुरूपशीघ्रगत्वमारोप्यते ।
ग्रहाणां राशिचक्रभोगार्थं स्वस्वकक्षासु या प्राग्गति-
स्तस्या अल्पकालसाध्यत्वे शीघ्रत्वमिति बोध्यम् । एवं
ग्रहाणां स्वाभाविक्यां स्वस्वकक्षासु गतौ स्थितायामपि प्रव-
हानिलेन पश्चाद्भ्राम्यमाणस्य राशिचक्रस्य प्रतिदिनं पृथिवी-
भ्रमणात् तद्गतेश्च सर्व्वग्रहापेक्षयाऽतिशीघ्रत्वात् तत्र च
वंभ्रम्यमाण राशिचक्रस्य गतौ तत्स्थग्रहगतित्वारोपेण
नौकागतौ तत्स्थवस्तुगतित्वारोपवत् ग्रहाणां राशि-
चक्रतुल्यशीघ्रगतित्वं पुराणादावुक्तम् यथा “योज-
नानां सहस्रे द्वे द्वे शते द्वे च योजने । एकेन
निमिषार्द्धेन क्रममाण! नमोऽस्तु ते । नवतिर्योजनानाञ्च
सहस्राणि च सप्ततिः । यावद्घटिकमात्रेण तावच्चलति
भास्करः” आदित्यहृ० । “यदा चेन्द्र्याः पुर्य्याः
प्रचलति पञ्चदशभिर्घटिकाभिर्याम्यां सपादकोटिद्वयं
योजनानां सार्द्धद्वादशलक्षाणि साधिकानि चोपयाति”
भाग० ५ स्क० ३० अ० “साधिकानि पञ्चविंशतिसहस्रा-
धिकानि” श्रीधरः । तेन पञ्चदशभिर्घटिकाभिर्यदि
२ ३७७५००० योजनानि तदा ६० दण्डात्मके दिने
कानीति चतुर्भिर्गुणितानि तानि प्रत्यहं राशिचक्रगतिमानं
तदारोपाच्च सूर्य्यादीनां तथागतित्वमिति बोध्यम् । एतदपि
पुराणाश्रितं वस्तुतोराशिचक्रस्य प्रत्यहं पृथ्वीभ्रमणात्
राशिचक्रपरिधिमानमेव अहोरात्रे गन्तव्ययोजनमानमेतच्च
खगोलशब्दे वक्ष्यते । तथा च अल्पकालेन गन्तव्यस्थान-
गामित्वमाशुगत्वमिति सिद्धम् ।

आशुगामिन् स्त्री आशु गच्छति गम--णिनि । १ शीघ्रगामिनि

स्त्रियां ङीप् । २ सूर्य्ये पु० “आशुगामी तमोघ्नश्च
हरिताश्वश्च कीर्त्त्यते” भा० व० प० ३ अ० सूर्य्यस्तवः ।

आशुङ्ग त्रि० आशु गच्छति वेदे नि० खच् मुम् । शीघ्रगामिनि

“निर्वलासेतः प्रपताशुङ्गः शिशुको यथा” अथ० ६, १४, ३

आशुतोष पु० आशु शीघ्रं तोषो यस्य । १ शिवे स्वल्पकाला

र्चनेनैव तस्य तुष्टत्वात् तथात्वम् । २ शीघ्रतोषिणिं त्रि० ।

आशुपत्री स्त्री आशु पत्रं यस्याः गौ० ङीष् । शल्लकीलतायाम्

आशुपत्वन् पु० आशु पतति पत--वनिप् । १ शीघ्रगामिनि

“श्येनःश्येनेभ्य आशुपत्वा” ऋ० ४, ६, ४ । स्त्रियां ङीप्
रश्च । आशुपत्वरी ।

आशुमत् त्रि० आशु शैघ्र्यं विद्यतेऽस्य मतुप् । शीघ्रतायुक्ते

“यथा सूर्य्यस्यरश्मयः परापतन्त्याशुमत्” अथ० ६, १०५, ३

आशुव्रीहि पु० कर्म्म० । वार्षिके धान्यभेदे (आउस)

आशुशब्दे विवृतिः ।

आशुशुक्षणि पु० आ + शुष--सन् + अनि । १ अग्नौ, २ वायौ च ।

अस्य च वेदएव प्रयोगः लोकेऽपि क्वचित्तेन “मन्त्रपूतानि
हवींषि प्रतिगृह्णात्येतत्प्रीत्याशुशुक्षणिः” काद०
“अन्तरात्मा ह्ययं साक्षान्निश्चितोह्याशुशुक्षणिः” काशी० ।

आशुषाण त्रि० आ + शुष--बा० कानच् । सम्यक् शुष्यमाणे

आशुहेषस् त्रि० आशु + हेष--शब्दे--असुन् । शीघ्रं शब्दा-

यमाने । “इन्द्राविष्णू अश्विनी वाशुहेषसा” ऋ० ८, १०, २,
“आशुहेषसा शीघ्रं शब्दायमानौ” भा० ।

आशू त्रि० आशु + वेदे पृ० दीर्घः । शीघ्रे । “इन्द्रः प्राशू-

भवा सचा” यजु० ३४, ५६, “आशुशब्दो दीर्घश्छान्दसः”
वेददीपः ।

आशेकुटिन् पु० आशेतेऽस्मिन् आ + शी + विच् स इव कुटति--णिनि । पर्व्वतभेदे शब्दमाला ।

आशोकेय त्रि० अशोक + चतुरर्थ्यां सख्या० ढञ् । अशोक

वृक्षसन्निकृष्टदेशादौ । अशोका + शुभ्रा० ढक् । अशोकाया
अपत्ये । स्त्रियां तु शार्ङ्गरवा० ङीन् । आशोकेयी ।

आशौच न० अशुचेर्भावः अण् “नञः शुचीत्या०” पा० पूर्ब्ब

पदस्य वा वृद्धिरुत्तरपदस्य नित्यम् । अशौचशब्दार्थे ४८६
पृष्ठे विवृतिः । “दशाहं शावमाशौचं ब्राह्मणस्य विधीयते”
“सर्व्वेषां शावमाशौचं मातापित्रोस्तु सूतकम्” “त्रिरात्र-
माहुराशौचमाचार्य्ये संस्थिते सति” मनुः ष्पञ् ।
आशौच्यमप्यत्र न० “आशौच्यात् विप्रमुच्येत ब्राह्मणान्
स्वस्तिवाच्य च” शु० त० स्मृतिः ।

आश्चर्य्य न० आ + चर--यत् “आश्चर्य्य मनित्ये” पा० सुट् ।

१ अद्भुते २ विस्मयरसे ३ तद्वति त्रि० । “शेषाः स्थिरत्व
मिच्छन्ति किमाश्चर्य्यमतः परम्” भा० व० । “आश्चर्य्यवत्
पश्यतिं कश्चिदेनमाश्चर्यवत् वदति तथैव चान्यः--आश्च-
र्य्यवच्चैनमन्यः शृणोति” गीता । “पुष्पमाश्चर्य्यमेघाः”
रघुः । “किमाश्वर्य्यं क्षारदेशे प्राणदा यमदूतिकाः” उद्भटः ।
पृष्ठ ०८३९

आश्चो(श्च्यो)तन त्रि० आ + श्चु(श्च्यु)त--ल्यु । १ सम्यक्क्षरणशीले

भावे ल्युट् । २ सम्यक्क्षरणे न० । “तर्पणैः पुटपाकैश्च धूमै-
राश्च्योतनैस्तथा” । “हितमर्द्धोदकं सेके तथाश्च्योतनमेव”
च । “क्षौमावद्धं पथ्यमाश्च्योतने वा सर्पिर्घृष्टं यष्टि-
काह्वं सरोध्रम्” इति च सुश्रु० ।

आश्म पु० अश्मनोविकारः अण् वा टिलोपः । प्रस्तरविकारे

आश्मक पु० अश्मना कायति कै--क । साल्वदेशावयव

ग्रामभेदे “साल्वावयवप्रत्यग्रथकलकूटाश्मकादिञ्” पा० ।
तत्र भवः इञ् । आश्मकिः तद्ग्रामभवे त्रि० ।

आश्मन पु० अश्मनोविकार अण् वा टिलोपाभावः । पाषाण”

विकारे “यश्चापमाश्मनप्रख्यं सेषुं धत्तेऽन्यदुर्वहम्”
भट्टिः । अश्मनः सूर्य्यसारथेरपत्यम् अण् तदपत्ये पुंस्त्री

आश्मन्य त्रि० अश्मन् + चतुरर्थ्याम् संकाश्या० ण्यः । प्रस्त

रसन्निकृष्टदेशादौ ।

आश्मभारक त्रि० अश्मभारं हरति वहति आवहति वा

वंशा० ठण् । प्रस्तरस्य १ हारके २ वाहके ३ तदावाहके च ।

आश्मरथ्य पु० अश्मरथस्य मुनेरपत्यम् गर्गा० यञ् । अश्मर-

रथर्षेरपत्ये “अभिव्यक्तेरित्याश्मरथ्यः” शा० सू० । गोत्रा-
पत्ये तु कण्वा० अण् । आश्मरथ इत्येव स्त्रियां ङीप् ।

आश्मरिक पु० अश्मरर्य्येव स्वार्थे बा० ठञ् । अश्मरीरोगे

“भिन्नवस्तिराश्मरिको न सिध्यति” सुश्रुतः ।

आश्मायन पुंस्त्री अश्मनोगोत्रापत्यम् अश्वा० फञ् । अश्मना-

मर्षेर्गोत्रापत्ये स्त्रियां ङीप् ।

आश्मिक त्रि० भारभूतमश्मानं हरति वहति आवहति वा वंशा०

ठण् । भारभूतप्रस्तरस्य १ हारके २ वाहके ३ आवाहके च ।

आश्मेय पुंस्त्री अश्मन् + शुभ्रा० ढक् । अश्मनामकर्षेरपत्ये ।

आश्यान त्रि० आ + श्यै--क्त । घनीभूते शुष्कप्राये “पथश्चाश्या-

नकर्दमान्” रघुः । “अन्तरालग्नाश्यानहरिणरुधिर-
विन्दुना” काद० ।

आश्र त्रि० अश्रमेव स्वार्थेऽण् । चक्षुर्ज्जले ।

आश्रपण न० आ + श्रा--णिच् पुक् ह्रस्वे ल्युट् । पाके ।

आश्रम पुंन० आ + श्रम--आधारे घञ् अवृद्धिः । ब्रह्मचर्य्या-

दिके शास्त्रोक्ते १ धर्मभेदे, “विनाश्रमं न तिष्ठेत्तु
दिनमेकमपि द्विजः । आश्रमेण विना तिष्ठन् प्रायश्चित्तीयते
द्विजः” दक्षः । अत्र द्विजपदस्योपलक्षणपरता यत्
रघुनन्दनेन स्थापितं तदाप्लुतशब्दे निराकृतम् ७५२ पृष्ठे
दृश्यम् । मुनीनां २ वासस्थाने, ३ मठे ४ तपोवने “प्रत्युद्यया-
वाश्रममश्रमेण” “तौ दम्पती वसिष्ठस्य गुरोर्जग्मतु-
राश्रमम्” । “स किलाश्रममन्त्यमाश्रितः” स दुष्प्रा-
पयशाः प्रापदाश्रमं श्रान्तवाहनः” “अभ्युत्थिताग्नि-
पिशुनैः--अतिथीनाश्रमोन्मुखान्” इति च रघुः ।
“कमलासनमिवाश्रमगुरुम्” इति काद० । “ब्रूया देवं
तव सहचरो रामगिर्य्याश्रमस्थः” मेघदू० । सर्व्वक्लेशहानेन
विश्रामस्थाने ५ परमेश्वरे च । “आश्रमः श्रमणः क्षामः सुपर्णो
वायुवाहनः” विष्णुसह० “आश्रमवत् सर्वेषां संसारारण्य
भ्रमतां विश्रामस्थानत्वादाश्रमः” इति भा० तत्र आश्रमेषु
कुत्र कस्याधिकार इति तावन्निर्ण्णीयते । “चत्वार
आश्रमाश्चैव ब्राह्मणस्य प्रकीर्त्तिताः । गार्हस्थ्यं ब्रह्म-
चर्य्यञ्च वानप्रस्थं तु भिक्षुकम् । क्षत्रिये चापि कथिता
आश्रमास्त्रयएव हि । ब्रह्मचर्य्यञ्च गार्हस्थ्यमाश्रमद्वितयं
विशः । गार्हस्थ्यमुचितं त्वेकं शूद्रंस्य क्षणमावहेत्” माध०
धृतवामनपु० । “चत्वारो ब्राह्मणस्योक्ता आश्रमाः श्रुति-
नोदिताः । क्षत्रियस्य त्रयः प्रोक्ता द्वावेकोवैश्यशूद्रयोः”
नि० सि० कूर्मपु० वर्ण्णक्रमेण चातुराश्रम्यादयः इति । तत्र
कलौ दीर्घकालब्रह्मचर्य्यवानप्रस्थाश्रमौ न स्तःगृहस्थभिक्षु-
काश्रमावेव । “गृहस्थो भिक्षुकश्चैव आश्रमौ द्वौ कलौ युगे”
इति स्मरणात् । तत्र संन्यासे “विप्रस्यैवाधिकारः ब्राह्मणाः
प्रव्रजन्तीति जावालश्रुतेः “आत्मन्यग्नीन् समारोप्य ब्राह्मणः
प्रव्रजेत् गृहादिति” या० स्मृतेरिति” वहवः । “ब्राह्मणःक्षत्रि-
योवाथ वैश्यो वा प्रव्रजेद्गृहादिति” कौर्मवाक्यात् क्षत्रि-
यादीनामपि तत्राधिकारः पूर्ब्बवचनन्तु कषायादिवस्त्र
त्रिदण्डधारणविषयम् “मुखजानामयं धर्मो यद्विष्णोर्लिङ्ग-
धारणम् राजन्यवैश्ययोर्नैव दत्तात्रेयमुनेर्मतम्” बौधा०
स्मृतेः । अयमेव पक्षो मल्लिनाथेन समर्थितः यथा अंत्र
यद्यपि “ब्राह्मणाः प्रव्रजन्ति” इति श्रुतेः “आत्मन्यग्नीन्
समारोप्य ब्राह्मणाः प्रव्रजेद्गृहात्” इति मनुस्मरणात्
“मुखजानामयं धर्मो यद्विष्णोर्लिङ्गधारणम् । बाहु-
जातोरुजातानामयं धर्मो न विद्यते” इति निषेधाच्च
ब्राह्मणस्यैव प्रव्रज्या न क्षत्रियादेरिति तथापि
“यदहरेव विरजेत् तदहरेव प्रव्रजेत्” इत्यादिश्रुतेस्त्रैवर्णिक-
साधारण्यात् “त्रयाणां वर्णानां वेदमधीत्य चत्वार
आश्रमाः” इति सूत्रकारवचनात् “ब्राह्मणः क्षत्रियो वापि
वैश्यो वा प्रव्रजेद् गृहात्” इति स्मरणात् “मुखजानामयं
धर्मो वैष्णवं लिङ्गधारणम् । बाहुजातोरुजातानां त्रि-
दण्डं न विधीयते” इति निषेधस्य त्रिदण्डविषयत्व-
दर्शनाच्च कुत्रचिद् ब्राह्मणपदस्योपलक्षणमाचक्षाणाः केचित्
पृष्ठ ०८४०
त्रैवर्णिकाधिकारं प्रपेदिरे । तथा सति “स किलाश्रम-
मन्त्यमाश्रितः” इति अत्रापि कविनाप्ययमेव पक्षो
विवक्षित इति प्रतीमः । अन्यथा वानप्रस्थाश्रमतया व्या-
ख्याने “विदधे विधिमस्य नैष्ठिकं यतिभिः सार्द्धमनग्नि-
मग्निचित्” इति वक्ष्यमाणेनानग्निसंस्कारेण विरोधः
स्यात् अग्निसंस्काररहितस्य वानप्रस्थस्यैवाभावात्” ।
अतएव मनुना “अनेन क्रमयोगेण परिव्रजति यो द्विजः
इति द्विजमात्रस्य परिव्रज्यधिकार उक्तः । एवञ्च महता
प्रयत्नेन शङ्कराचार्य्येण ब्राह्मणस्यैव संन्यासेऽधिकारस्य
समर्थनं त्रिदण्डविषयमिति । एतेषु आश्रमेषु ब्रह्म-
चर्य्यस्य नित्यत्वम् इतराश्रमाणां “यमिच्छेत्तु तमावसेत्”
इति मिता० धृतवचनात् इच्छाधीनतया काम्यत्वम् ।
तत्राश्रमाणां समुच्चयपक्षः कामनावतएव, विकल्पस्तु
अकामनावतो विरक्तस्य, । अधिकारिभेदाच्च आश्रम समुच्चय-
विकल्पपक्षौ मिता० समर्थितौ यथा
“वनात् गृहाद्वा कृत्वेष्टिं सार्ववेदसदक्षिणाम् । प्राजा-
पत्यान्तदन्ते तानग्नीनारोप्य चात्मनि । अधीतवेदो जपकृत्
पुत्रवानन्नदोऽग्निमान् । शक्त्या च यज्ञकृन्मोक्षे मनः कुर्य्यात्तु-
नान्यथा” या० । यावता कालेन तीव्रतपःशोषितवपुषोविषय
कषायपरिपाको भवति । पुनश्च मदोद्भवाशङ्कानोद्भाव्यते ।
तावत्कालं वनवासं कृत्वा तत्समनन्तरं मोक्षे मनः कुर्य्यात् ।
वनगृहशब्दाभ्यान्तत्सम्बन्ध्याश्रमोलक्ष्यते । मोक्षशब्देन च
मोक्षैकफलकश्चतुर्थाश्रमः । अथ वा गृहात् गार्हस्थ्या-
दनन्तरं मोक्षे मनः कुर्य्यादनेन च पूर्बोक्तश्चतुराश्र मसमु-
च्चयपक्षःपाक्षिक इति द्योतयति । तथा च विकल्पो
जावालश्रुतौ श्रूयते । “ब्रह्मचर्य्यम्परिसमाप्य गृही भवेत्
गृही भूत्वा वनी भवेत् वनी भूत्वा प्रब्रजेत् यदि वेतरथा-
ब्रह्मचर्य्यादेव प्रब्रजेद्गृहाद्वा वनाद्बेति” । तथा गार्हस्थ्ये-
तराश्रमबाधश्च गौतमेन दर्शितः । “एकाश्रमन्त्वाचार्याः
प्रत्यक्षविधानात् गार्हस्थ्यस्येति” । एषाञ्च समुच्चयवि-
कल्पबाधपक्षाणां सर्बेषां श्रुतिमूलत्वादिच्छया विकल्पः ।
अतो यत्कैश्चित् पण्डितंमन्यैरुक्तम् । स्मार्त्तत्वान्नैष्ठि-
कत्वादीनाङ्गार्हस्थ्येन श्रौतेन बाधः । गार्हस्थ्यानधि-
कृतान्धक्लीवादिविषयता वेति । तत्स्वाध्यायाध्ययनवैधुर्य्य-
निबन्धनमित्युपेक्षणीयम् । किञ्च । यथा विष्णुक्रमणा-
ज्यावेक्षणाद्यक्षमतया पङ्ग्वादीनां श्रौतेष्वनधिकारस्तथा
स्मार्त्तेष्वप्युदकुम्भाहरणभिक्षाचर्य्याक्षमत्वात् कथं पङ्घ्वादिवि-
पयतया नैष्ठिकत्वाद्याश्रमनिर्वाहः । अस्मिंश्चाश्रमे ब्राह्म-
णस्यैवाधिकारः । “आत्मन्यग्नीन् समारोप्य ब्राह्मणः
प्र“व्रजेद्गृहात्” । तथा “एष वोऽभिहितो धर्मो ब्राह्मणस्य
चतुर्विधः” इत्युपक्रमोपसंहाराभ्यां मनुना ब्राह्मणस्याधि-
कारप्रतिपादनात् । “ब्राह्मणाः प्रव्रजन्तीति” श्रुतेश्चाग्र-
जन्मन एवाधिकारो न द्विजातिमात्रस्य । अन्ये तु
त्रैवर्ण्णिकानाम् प्रकृतत्वात् “त्रयाणाम् वर्ण्णानाम् वेदमधीत्य
चत्वार आश्रमा” इति सूत्रकारवचनाच्च द्विजातिमात्र-
स्याधिकारमाहुः । यदा वनात् गृहाद्वा प्रव्रजति तदा
सार्व वेदसदक्षिणाम् सार्ववेदसी सर्वधनसम्बन्धिनी दक्षिणा
यस्याः सा तथोक्ता ताम् प्रजापतिदेवताकामिष्टिं कृत्वा
तदन्ते तान्वैतानानग्नीन् आत्मनि श्रुत्युक्तविधानेन
समारोप्य चशब्दात् “उदगयने पौर्णमास्याम् पुरश्चरणमादौ
कृत्वा शुद्धेन कायेन अष्टौ श्राद्धानि निर्वपेत् द्वादश वा” इति
बौधायनाद्युक्तं पुरश्चरणादिकञ्च कृत्वा । तथाऽधीतवेदो
जपपरायणोजातपुत्रोदीनान्धकृपणार्थिसार्थाय यथाशक्त्य-
न्नदश्च भूत्वा अनाहिताग्निर्ज्येष्ठत्वादिना प्रतिबन्धाभावे
कृताधानो नित्यनैमित्तिकान् यज्ञान् कृत्वा मोक्षे मनः
कुर्य्यात् चतुर्थाश्रमं प्रविशेत नान्यथा । अनेनान
पाकृतर्णत्रयस्य गृहस्थस्य प्रव्रज्यायामनधिकारन्दर्शयति ।
तथाह मनुः । “ऋणानि त्रीण्यपाकृत्य मनोमोक्षेनिवेशयेत् ।
अनपाकृत्य मोक्षन्तु सेवमानो ब्रजत्यध इति” । यदा तु
ब्रह्मचर्य्यात् प्रव्रजति तदा न प्रजोत्पादनादिनियमः ।
अकृतदारपरिग्रहस्य तत्रानधिकाराद्रागप्रयुक्तत्वाच्च विवा-
हस्य । न च ऋणत्रयापाकरणविधिरेव दारानाक्षिपतीति
शङ्कनीयम् । विद्याधनार्जननियमवदन्यप्रयुक्तदारसम्भवे-
तस्यानाक्षेपकत्वात् । ननु “जायमानोवै ब्राह्मणस्त्रिभि-
रृणवान् जायते ब्रह्मचर्य्येण ऋषिभ्यो, यज्ञेन देवेभ्यः,
प्रजया पितृम्यः” इति जातमात्रस्यैव प्रजोत्पादनादी-
न्यावश्य कानीति दर्शयति, मैवम् न हि जातमात्रो-
ऽकृतदाराग्निपरिग्रहो यज्ञादिष्वधिक्रियते । तस्मादधि-
कारी जायमानो ब्राह्मणादिर्यज्ञादीननुतिष्ठेदिति
तस्यार्थः । ततश्चोपनीतस्य वेदाध्ययनमेवावश्यकम् । कृत
दारपरिग्रहस्य प्रजोत्पादनमपीति” ततश्च ब्रह्मचर्य्या-
श्रमस्यैव नित्यत्वमितरेषां तु “यमिच्छेत्तु तमावशेत्” इति
मिताक्षराधृतवचनात् काम्यत्वमेव । ऋणत्रयापाकरणावश्य-
कता तु कृतविवाहस्यैवेति सिद्धम् ।
आश्रमाश्च चतुर्विधाः । ब्रह्मचर्य्यगार्हस्थ्यवानप्रस्थ-
भिक्षुकभेदात् । “ब्रह्मचारी गृहस्थश्च वानप्रस्थोय-
पृष्ठ ०८४१
तिस्तथा । एते गृहस्थप्रभवश्चत्वारः पृथगाश्रमाः” मनूक्तेः
तत्र ब्रह्मचारी द्विविधः । नैष्ठिक उपकुर्व्वाणश्च
मरणान्तं गुरुकुलवासितया कृतब्रह्मचर्य्यः नैष्ठिकः ।
षटत्रिंशदब्दादिकं गुरौ वसित्वा गार्हस्थ्यार्थं कृतसमावर्त्तन
उपकुर्व्वाणः । गृहस्थोऽपि द्विविधः । अकृतदारः
स्नातकः कृतदारश्च । तत्र कृतसमावर्त्तनोऽपि
कन्यालाभात् पूर्ब्बं धृतस्मार्त्तधर्म्मभेदः स्नातकः ।
तद्धर्माश्च आप्लुतशब्दे ७५२ पृष्ठेऽभिहिताः ।
कृतदारोऽपि द्विविधः साग्निर्निरग्निश्च साग्निरपि द्विविधः
श्रौताग्नियुक्तः स्मार्त्ताग्नियुक्तश्च । वानप्रस्थोऽपि द्विविधः
सदारोऽदारश्च “पुत्रेषु दारान् निक्षिप्य वनं गच्छेत्
सहेव वा” मनूक्तेः सदारादारत्वपक्षयोः समधिगमात् । तत्र
अदारस्य अपचमानाश्मकुट्टकदन्तोलूखलादिसंज्ञा । सदारस्य
पचमानसंज्ञा । भिक्षुरपि चतुर्विधः कुटीचक बहूदक
हसपरहंसेतिभेदात् । भिक्षुकोऽपि प्रकारान्तरेण द्वि-
विधः विविदिषासन्यासी विद्वत्संन्यासी च तदेतत्
जीवन्मुक्तौ विद्यारण्येन निरूपितं यथा “वक्ष्ये विवि-
दिषान्यासं विद्वन्न्यासञ्च भेदतः । हेतू विदेहमु-
क्तेश्च जीवन्मुक्तेश्च तौ क्रमात् ॥ संन्यासहेतुर्वैराग्यं यदहर्वि-
रजेत्तदा । प्रव्रजेदिति वेदोक्तेस्तद्भेदस्तु पुराणतः ।
विरक्तिर्द्विविधा प्रोक्ता तीव्रतीव्रतरेति च । सत्यामेव तु
तीव्रायां न्यसेद्योगी कुटीचके ॥ शक्तोवहूदके तीव्रतरायां
हंससंज्ञिते । मुसुक्षुः परमे हंसे साक्षाद्विज्ञानसाधने ।
पुत्रदारधनादीनां नाशे तात्कालिकी मतिः । धिक्
संसारमितीदृक् स्याद्विरक्तेर्मन्दता हि सा ॥ अस्मिन् जन्म-
नि मा भूवन् पुत्रदारादयो मम । इति या सुस्थिरा बुद्धिः
सा वैराग्यस्य तीव्रता ॥ पुनरावृत्तिसहितो लोको मे मास्तु
कश्चन । इति तीव्रतरत्वं स्यान्मन्दे न्यासोन कोऽपि हि ॥
यात्राद्यशक्तिशक्तिभ्यां तीव्रे न्यासद्वयं भवेत् । कुटीचको-
बहूदश्चेत्युभावेतौ त्रिदण्डिनौ । द्वयं तीव्रतरे ब्रह्म-
लोकमोक्षविभेदतः । तल्लोके तत्त्वविद्धंसोलोकेऽस्मिन्
परहंसकः ॥ एतेषान्तु समाचाराः प्रोक्ताः पारा-
शरस्मृतेः । व्याख्यानेऽस्माभिरत्रायं परहंसो विविच्यते ।
जिज्ञासुर्ज्ञानवांश्चेति परहंसो द्विधा मतः । प्राहुर्ज्ञानाय
जिज्ञासोर्न्यामं वाजसनेयिनः । “प्रव्राजिनोलोक-
मेतमिच्छन्तः प्रव्रजन्ति हि” । एतस्यार्थन्तु गद्येन वक्ष्ये-
मन्दविबुद्धये ॥ लोको हि द्विविधः आत्मलोकोऽनात्म-
लोकश्चेति । तत्रानात्मलोकस्य त्रैविध्य वृहदारण्यके
तृतीयाध्याये श्रूयते । “अथ त्रयोवाव लोकाः मनुष्यलोक
पितृलोको देवलोक” इति । सोऽयं मनुष्यलोकः पुत्रेणैव
जय्योनान्येन कर्मणा । कर्मणा पितृलोको विद्यया देवलोक”
इति । आत्मलोकश्च तत्रैव श्रूयते । “योहवा अस्मा-
ल्लोकात् स्वंलोकमदृष्ट्वा प्रैति सएनमविदितो न भुनक्तीति” ।
“आत्मानमेव लोकमुपासीत” “सय आत्मानमेव लोकमुपास्ते
नहास्य कर्म क्षीयत” इति च । षष्ठाध्यायेऽपि “किं प्रजया-
करिष्यामो येषां नोऽयमात्माऽयञ्च लोक” इति । एवञ्च सति
एतमेव प्रव्राजिनो लोकमिच्छन्तः प्रव्रजन्ति” इत्यत्रात्मलोको-
विवक्षित इति गम्यते “सवा एष महानज आत्मेति” प्रक्रान्त-
स्यात्मन एव एतच्छब्देन परामृष्टत्वात् । लोक्यते
अनुभूयत इति लोकः । तथा चात्मानुभवमिच्छन्तः प्रव्रजन्तीति
श्रुतेस्तात्पर्य्यार्थः सम्पद्यते । स्मृतिश्च “ब्रह्मविज्ञानलाभाय
परहंससमाह्वयः । शान्तिदान्त्यादिभिः सर्वैः साधनैः महितो-
भवेदिति” । इह जन्मनि जन्मान्तरे वा सम्यगनुष्ठितैर्वेदानुव-
चनादिभिरुत्पन्नया विविदिषया सम्पादितत्वादयं विविदिषा
सन्यासो द्विविधः जन्मापादककर्म्मादित्यागमात्रात्मकः
प्रैषोच्चारणपूर्ब्बकदण्डधारणाद्याश्रमरूप श्चेति । त्यागश्च
तैत्तिरीयादौ श्रूयते “न कर्म्मणा न प्रजया न धनेन, त्यागे-
नैके अमृतत्वमानशुरिति” । अस्मिं श्च त्यागे स्त्रियोऽप्यधि-
क्रियन्ते । अतएव मैत्रेयीवाक्यमाम्नायते” येनाहं नामृता स्यां
किमहं तेन कुर्य्याम् यदेव भगवन्! वेद तदेव मे ब्रूहोति” ।
ब्रह्मचारिगृहस्थवानप्रस्थानां केनचिन्निमित्तेन सन्न्या-
साश्रमस्वीकारे प्रतिबद्धे सति स्वाश्रमधर्म्मेष्वनुष्ठीयमानेष्व-
पि वेदनार्थो मानसकर्म्मादित्यागो न विरुध्यते श्रुति
स्मृतीतिहासपुराणेषु लोके च तादृशान्तत्त्वविदां बहूनामुपल-
म्भात् । यस्तु दण्डधारणादिरूपी वेदनहेतुः परमहं-
साश्रमः स पूर्ब्बैराचार्य्यैर्बहुधा प्रपञ्चित इत्यस्माभिरुपर-
म्यते । इति विविदिषासंन्यासः ।
“अथ विद्वत्संन्यासं निरूपयामः ॥ सम्यगनुष्ठितैः श्रव-
णमनननिदिध्यासनैः परतत्त्व विदितवद्भिः सभ्याद्यमानोवि-
द्वत्संन्यासः । तञ्च याज्ञवल्क्यः सम्पादयामास । तथाहि विद्व-
च्छिरोमणिर्भगवान् याज्ञवल्क्योविजिगीषुकथायां बहुविधेन
तत्त्वनिरूपणेनाश्वलायनप्रभृतीन्मुनीन् विजित्य वीतराग
कथायां संक्षेपविस्ताराभ्यामनेकधा जनकं बोधयित्वा
मैत्रेयीं बुबोधयिषुस्तस्यास्त्वरया तत्त्वाभिमुख्याय स्वकर्त्त-
व्यं सन्यासं प्रतिजज्ञे ततस्तां बोधयित्वा संन्यासञ्चकार ।
तदुभयं मैत्रीयीव्राह्मणस्याद्यन्तयोराम्नायते” “अथ ह
पृष्ठ ०८४२
याज्ञवल्क्योऽन्यद्वृत्तमुपाकरिष्यन् मैत्रेयीति होवाच याज्ञ
वल्क्यः, प्रव्रजिष्यन् वा अरे अहममस्मात् स्थानादस्मीति,
एतावदरे खल्वमृतत्वमिति होक्त्वा याज्ञवल्क्यः प्रवव्राजेति” ॥
कहोले व्राह्मणेऽपि विद्वत्संन्यास आम्नायते “एतंवैत-
मात्मानं विदित्वा ब्राह्मणाः पुत्रैषणायाश्च वित्तैषणायाश्च
लोकैषणायाश्च व्युत्थायाथ भिक्षाचर्य्यञ्चरन्तीति” । नचैत-
द्वाक्यं विविदिषासंन्यासपरमिति शङ्कनीयं” पूर्ब्बकालवा-
चिनोविदित्वेति क्त्वाप्रत्ययस्य ब्राह्मणशब्दस्य च बाधप्रस-
ङ्गात् । नचात्र व्राह्मणशब्दोजातिवाचकः वाक्यशेषे
पाण्डित्यबाल्यमौनशब्दाभिधेयैः श्रवणमनननिदिध्यासनैः
साध्यं व्रह्मसाक्षात्कारमभिप्रेत्याथ व्राह्मण इत्यभि-
हितत्वात् । ननु तत्र विविदिषासंन्यासोपेतः पाण्डित्यादौ
प्रवर्त्तमानोऽपि ब्राह्मणशब्देन परामृष्टः तस्मात् व्राह्मणः
पाण्डित्यं निर्व्विद्य बाल्येन तिष्ठासेदिति” मैवं भाविनीं
वृत्तिमाश्रित्य तत्र व्राह्माणशब्दस्य प्रयुक्तत्वात् । अन्यथा
कथमथ ब्राह्मण इति साधनानुष्ठांनोत्तरकालवाचिन
मथशब्दं प्रयुञ्जीत । शारीरब्राह्मणेऽपि विद्वत्संन्यासवि-
विदिषासंन्यासौ स्पष्टं निर्दिष्टौ “एतमेव विदित्वाल्पमु-
निर्भवत्येवमेव प्रव्रजिनोलोकमिच्छन्तः प्रव्रजन्तीति” ।
मुनित्वं मननशीलत्वम् । तच्चासति कर्त्तव्यान्तरे
सम्भवतीत्यर्थात् संन्यास एवाभिधीयते । एतच्च वाक्यशेषे
स्पष्टीकृतम् “एतद्ध स्म वैतत् पूर्ब्बे विद्धांसः प्रजां न
कामयन्ते किं प्रजया करिष्यामोयेषां नोऽयमात्मायं
लोक इति” “ते स्म पुत्रैषणायाश्च वित्तैषणायाश्च लौकैष-
णायाश्च व्युत्थायाथ भिक्षाचर्य्यं चरन्तीति” । अयंलोक
इत्यापरोक्ष्येणानुभूयत इत्यर्थः । नन्वत्र मुनित्वेन
फलेन प्रलोभ्य विविदिषासंन्यासं विधाय वाक्यशेषे
स एव प्रपञ्चितः अतोन संन्यासान्तरं कल्पनीयं मैवं
वेदनस्यैव विविदिषासंन्यासफलत्वात् । न च वेदन
मुनित्वयोरेकत्वं शङ्कनीयं विदित्वा मुनिर्भवतीति पूर्ब्बो-
त्तरकालीनयोस्तयोः साध्यसाधनत्वप्रतीतेः । ननु
वेदनस्यैव परिपाकातिशयरूपमवस्थान्तरम् मुनित्वम्
अतोवेदनद्वारा पूर्व्वसंन्यासस्यैवैतत् फलमितिचेत् वाढम्
अतएव साधनरूपात् संन्यासादन्यं फलरूपमेनं संन्यासं-
ब्रूमः । यथा विविदिषासंन्यासिना तत्त्वज्ञानाय
श्रवणादीनि सम्पादनीयानि तथा विद्वत्संन्यासिनापि
जीवन्मुक्त्यै मनोनाशवासनाक्षयौ सम्पादनीयौ ।
एतच्चोपरिष्टात् प्रपञ्चयिष्यामः । सत्यप्यनयोः संन्यासयो
रवान्तरभेदे परमहंसत्वाकारेणैकीकृत्य चतुर्व्विधा भिक्षव
इति स्मृतिषु चतुःसंख्योक्ता । पूर्ब्बोक्तयोः संन्यासयोः
परमहंसत्वं जावालश्रुताववगम्यते । तत्र हि जनकेन
संन्यासे पृष्टे सति याज्ञवल्क्योऽधिकारिविशेषविधाने-
नोत्तरकालानुष्ठेयेन च सहितं विविदिषासंन्यास-
मभिधाय पश्चादत्रिणा यज्ञोपवीतरहितस्याक्षिप्तेऽ
ब्राह्मण्ये पश्चादात्मज्ञानमेव यज्ञोपवीतमिति समादधौ
अतोबाह्ययज्ञोपवीताभावात् परमहंसत्वं निश्चीयते ।
तथान्यस्यां कण्डिकायां तत्र परमहंसोनामेत्यु पक्रम्य
संवर्त्ताकादीन् बहुविधान् ब्रह्मविदोजीवन्मुक्तानुदाहृत्य
“अव्यक्तलिङ्गा अव्यक्ताचारा अनुन्मत्ता उन्मत्तवदा-
चरन्तः” इतिविद्वत्संन्यासिनोदर्शिताः । तथा “त्रिदण्डं
कमण्डलुं शिक्यं पात्रं जलपवित्रं शिखां यज्ञोपवीत-
ञ्चेत्येतत्सर्वं भूःस्वाहेत्यप्सु परित्यज्यात्मानमन्विच्छे-
दिति” त्रिदण्डिनः सत एकदण्डलक्षणं विविदिषा-
संन्यासं विधाय तत् फलरूपं विद्वत् संन्यासमेवमुदाजहार ।
“यथा जातरूपधरोनिर्द्वन्द्वो निष्परिग्रहस्तत्त्वब्रह्ममार्गे
सम्यक् सम्पन्नः शुद्धमानसः प्राणसन्धारणार्थं यथोक्तकाले
विमुक्तो भैक्षमाचरन्नुदपात्रेण लाभालाभौ समौ कृत्वा
शून्यागारे देवगृहतृणकूटवल्मीकवृक्षमूलकुलालशाला-
ग्निहोत्रनदीपुलिनगिरिकुहरकन्दरकोटरनिर्झरस्थण्डिले-
ष्वनिकेतनवास्यप्रयत्नोनिर्म्ममः शुक्लध्यानपरायणोऽध्यात्म-
निष्ठः शुभाशुभकर्म्म निर्म्मूलनपरः संन्यासेन देहत्यागं करोति
स परमहंसोनामेति” । तस्मादनयोरुभयोः परमहंसत्वं
सिद्धम् । समानेऽपि परमहंसत्वे सिद्धे विरुद्धधर्म्मा-
क्रान्तत्वादवान्तरभेदोऽप्यभ्युपगन्तव्यः । विरुद्धधर्म्म-
त्वञ्चारण्युपनिषत्परमहंसोपनिषदोः पर्य्यालोचनायामव
गम्यते । “केन भगवन्! कर्म्माण्यशेषतोविसृजामीति”
शिखायज्ञोपवीतस्वाध्यायगायत्रीजपाद्यशेषकर्म्म त्यागरूपे
विविदिषासंन्यासे शिष्येणारुणिना पृष्टेसति गुरुः प्रजापतिः
“शिखां यज्ञोपवीतम्” इत्यादिना सर्वत्यागमभिधाय “दण्ड-
माच्छादनं कौपीनञ्च परिग्रहेदिति” दण्डादि स्वीकारं विधाय
“त्रिसन्ध्यादौ स्नानमाचरेत् । सन्धिं समाधावात्मन्याचरेदिति”
“सर्व्वेषु वेदेष्वारण्यमावर्त्तयेदुपनिषदमाषर्त्तयेदुपनिषद-
मावर्त्तयेदिति” वेदनहेतूनाश्रमधर्म्माननुष्ठेयतया विधत्ते ।
“अथ योगिनां परमहंसानां कोऽयं मार्गः” इति विद्वत्
संन्यासे नारदेन पृष्टे सति गुरुर्भगवान् स्वपुत्रमित्रे-
त्यादिना पूर्व्ववत् संन्यासमभिधाय “कौपीनं दण्डमा-
पृष्ठ ०८४३
च्छादनञ्च स्वशरीरोपभोगार्थाय लोकस्योपकारार्थाय च
परिग्रहेदिति” दण्डादिस्वीकारस्य लौकिकत्वमभिधाय
“तच्च मुख्ये नास्तीति” शास्त्रीयत्वं प्रतिषिध्य “कोऽयं मुख्य
इति चेदयं मुख्योन दण्डं न शिखां न यज्ञोपवीत
नाच्छादनञ्चरति परमहंसः” इति दण्डादिलिङ्गराहित्यस्य
शास्त्रीयतामुक्त्वा “न शीतं न चोष्ण” मित्यादिना वाक्येन
“आशाम्बरो निर्नमस्कार” इत्यादिवाक्येन च लोकव्यव-
हारातीतत्वमभिधायान्ते “यत्पूर्णानन्दैकबोधस्तद्व्रह्माह-
मस्मीति कृतकृत्यो भवति” इत्यन्तेन ग्रन्थेन ब्रह्मात्मानु-
भवमात्रपर्य्यवसानमाचष्टे । अतोविरुद्धधर्म्मोपेतत्वा-
दस्त्वेवानयोर्महान् भेदः । स्मृतिष्वप्ययं भेद उक्तदिशा-
द्रष्टव्यः । “संसारमेवं निःसारं दृष्ट्वा सारदिदृक्षया । प्रव्र-
जन्त्यकृतोद्वाहाः परं वैराग्यमाश्रिताः । प्रवृत्तिलक्षणो
योगो ज्ञानं संन्यासलक्षणम् । तस्माज्ज्ञानं पुरस्कृत्य संन्य-
स्येदिह बुद्धिमान्” इत्यादिविविदिषासंन्यासः ।
“यदा तु विदितं तत्स्यात् परं ब्रह्म सनातनम् । तदैकदण्डं
संगृह्य सोपवीतां शिखां त्यजेत् । ज्ञात्वा सम्यक्परं ब्रह्म
सर्ब्बंत्यक्त्वा परिव्रजेदिति” विद्वत्संन्यासः । ननु
कलाविद्यादाविव कदाचिदौत्सुक्यमात्रेणापि बेदितु
मिच्छा सम्भवत्येव विद्वत्ताप्यापातदर्शिनः पण्डितं
मन्यमानस्याप्यबलोक्यते । न च तौ प्रव्रजन्तौ दृष्टौ
अतोविविदिषाविद्वत्ते कीदृश्यौ विवक्षिते इति चेदुच्यते ।
यथा तीब्रायां बुभुक्षायामुत्पन्नायां भोजनादन्यो
व्यापारो न रोचते । भोजने च विलम्बोन सोढु
शक्यते । तथा यदा जन्महेतुषु कर्म्मस्वत्यन्तमरुचिः
वेदनसाधनश्रवणादिषु च त्वरा महती सम्पद्यते तादृशी
विविदिषा संन्यासहेतुः । विद्वत्ताया अवधिरुपदेश
साहस्र्यामभिहितः । “देहात्मज्ञानवज्ज्ञानं देहात्मज्ञान-
वाधकम् । आत्मन्येव भवेद्यस्य स नेच्छन्नपि मुच्यते” इति ।
श्रुतावपि “भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्व्वसंशयाः । क्षी-
यन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे इति” ।
परमपि हैरण्यगर्भादिपदमवरं यस्मादसौ परावरः । हृदये
बुद्धौ साक्षिणस्तदात्म्याध्यासोऽनाद्यविद्यानिमित्तत्वेन
ग्रन्थिवद्दृढसंश्लेषरूपत्वाद्ग्रन्थिरित्युच्यते । आत्मा साक्षी-
कर्त्ता वा, साक्षित्वेऽप्यस्य ब्रह्मत्वमस्ति न वा, ब्रह्मत्वेऽपि
तद्बुद्ध्या वेदितुं शक्यते न वा, शक्यत्वेऽपि तद्वेदनमात्रेण
मुक्तिरस्ति नवेत्यादयः संशयाः । कर्माण्यनारब्धानि
आगामिजन्मकारणानि । तदेतत् ग्रन्थ्यादित्रयमविद्यानिमित्त-
त्वादात्मदर्शनेन निवर्त्तते । स्मृतावप्ययमर्थ उपलभ्यते
“यस्य नाहंकृतोभावोबुद्धिर्यस्य न लिप्यते । हत्वापि
स इमाँल्लोकान्न हन्ति न निबध्यत” इति । यस्य ब्रह्म-
विदो, भावः सत्ता स्वभाव आत्मा, नाहं कृतोनाहङ्कारेण
तदात्म्याध्यासादाविर्भावितः, बुद्धिलेपः संशयः । तदभावे
त्रैलोक्यबधेनापि न निबध्यते किमुतान्येन कर्म्मणेत्यर्थः ।
नन्वेवं सति विविदिषाफलेन तत्त्वज्ञानेनैवागामिजन्मनां
निवारितत्वाद्वर्त्तमानजन्मशेषस्य भोगमन्तरेण निवारयि-
तुमशक्यत्वादलमनेन विद्वत्सन्यासप्रयासेनेति चेन्मैवं
विद्वत्सन्यासस्य जीवन्मुक्तिहेतुत्वात् । तस्माद्वेदनाय
यथा विविदिषासंन्यासः एव” जीवन्मुक्तये विद्वत्संन्यासः
सम्पदनीयः इति विद्वत्संन्यासः” ।
“दीर्घकालं ब्रह्मचर्य्यम् इत्यादित्यपुराणे यद् कलिवर्ज्ज्ये
दीर्घकालब्रह्मचर्य्यसंन्यासाश्रमयोरुत्कीर्त्तनम् तत् नैष्ठिक-
ब्रह्मचर्य्यषट्त्रिंशदब्दादिब्रह्मचर्य्ययोर्निषेधपरम् न
पुनर्ग्रहणान्तिकब्रह्मचर्य्यमात्रस्य निषेधः दीर्घकालेतिविशेषण-
सामार्थ्यात् तेन “षट्त्रिंशदाब्दिकं चर्य्यं गुरौ त्रैवेदिकं
व्रतम् । तदर्द्धिकं पादिकं वा ग्रहणान्तिकमेव वा” इति
मनुनोक्तपक्षचतुष्टयमध्ये अल्पकालिकस्यैव कलौ कर्त्त-
व्यता । “तथाऽग्निहोत्रं गवालम्भं संन्यासं पलपैतृक-
मिति” निगमवाक्यमपि त्रिदण्डविषयम् “यावद्वर्णविभा-
गोऽस्ति यावद्वेदः प्रवर्त्तते । संन्यासञ्चाग्निहोत्रञ्च तावत्
कुर्य्यात् कलौ युगे” देवलस्मरणात् । “चत्वार्य्यव्दसहस्राणि
चत्वार्य्यव्दशतानि च । कलेर्यदा गमिष्यन्ति तदा
त्रेतापरिग्रहः । संन्यासश्च न कर्त्तव्यो ब्राह्मणेन विशे-
षत” इति व्यासवचनन्तु त्रिदण्डविषयम् । महानिर्वाण-
तन्त्रे तु । “पुरैव कथितं तावत् कलिधर्म्मविचेष्टितम् ।
तपःस्याध्यायहीनानां नृणामल्पायुषामपि । क्लेश-
प्रवाहाशक्तानां कुतोदेहपरिश्रमः । ब्रह्मचर्य्याश्रमोनास्ति
वानप्रस्थोऽपि न प्रिये । गार्हस्थ्यभैक्षुकौ चैव आश्रमौ द्वौ
कलौ युगे! गृहस्थस्य क्रियाः सर्व्वा आगमोक्ता कलौ
शिवे । नान्यमार्गैः क्रियासिद्धिः कदापि गृहमेधिनाम् ।
भैक्षुकेऽप्याश्रमे वापि वेदोक्तं दण्डधारणम् । कलौ
नास्त्येव तत्त्वज्ञे! यतस्तच्छ्रौतसंस्कृतिः । शैवसंस्कारविधिनाऽ-
पधूताश्रमधारणम् । तदेव कथितं भद्रे! संन्यासग्रह-
हणं कलौ । विप्राणामितरेषाञ्च वर्ण्णानां प्रबले कलौ ।
उभये आश्रमे देवि! सर्व्वेषामधिकारिता । सर्वेषा-
मेव संस्कारकर्म्मणी शैववर्त्मना । विप्राणामितरेषाञ्च
पृष्ठ ०८४४
कर्म्मलिङ्गं पृथक् पृथक्” । उभावेवाश्रमौ विहितौ
एतच्चागमाधिकारिणः पतितब्राह्मणादेरकृतप्रायश्चित्तस्यैव
बोध्यम् । आगमविधावधिकारिणश्च आगमशब्दे ६१४
पृष्ठे उक्ताः इतरेषान्तु न श्रौतदण्डादिधारणनिषेधः तेषां
श्रौत एवाधिकारात् । वस्तुतः आगमवाक्येऽपि प्रबले
कलाविति विशेषोक्तेः प्रबले कलौ सर्व्वेषामेव पतित
प्रायत्वस्यावश्यम्भावादागमधर्म्मस्यैवावलम्बनीयतया तेषामेव
तदानीमागमोक्ताश्रयद्वयेऽधिकार इति भेद इति दिक् ।

आश्रमगुरु पु० आश्रमाणां ब्रह्मचर्य्यादीनां गुरुर्नियन्ता ।

आश्रमनियन्तरि नृपे । “कर्त्तुमाश्रमगुरुः स नाश्र-
मत्” माघः ।

आश्रमधर्म्म पु० आश्रमविहितोधर्म्मः । ब्रह्मचर्य्यादि-

विहिते धर्म्मे धर्म्मो हि षड्विधः वर्ण्णधर्म आश्रमधर्मो
वर्ण्णाश्रमधर्मो गुणधर्मो निमित्तधर्मोसाधारणधर्मश्चेति ।
तत्र वर्ण्णधर्मो ब्राह्मणो नित्यं मद्यं वर्ज्जयेदित्यादिः ।
आश्रमधर्म्मोऽग्नीन्धनभैक्ष्यब्रह्मचर्य्यादिः वर्ण्णाश्रमधर्मो ब्रा-
ह्मण्यादि क्रमेण पालाशादिदण्डधारणादि” नैमित्तिकधर्म्मो-
विहिताकरणनिषिद्धसेवननिमित्तं प्रायश्चित्तम्, साधारण-
धर्मोऽहिंसादि मांहिंस्यात् सर्व्वाभूतानीत्याचाण्डालं
साधारणधर्मः श्रत्युक्तः इति” मिता० । अन्यत्र चान्ये
आश्रमधर्माः दर्शिताः । “ब्रह्मचारिणः स्वाध्यायः,
गृहस्थस्य दानं दमो यज्ञश्च, वानप्रस्थस्य तपः, भिक्षुकस्य
“अभयं सत्वसंशुद्धिर्ज्ञानयोगव्यवस्थितिः” इत्यादिकः तथा
च “यस्त्वाश्रमं समाश्रित्य अधिकारः प्रवर्त्तते । स खल्वा-
श्रमधर्मस्तु भिक्षादण्डादिकं यथा । यतीनां तु
शमोधर्मोनियमोवनवासिनाम् । दानमेव गृहस्थानां शुश्रूषा
ब्रह्मचारिणामिति” श्रुत्या स्मृत्या च येये धर्मा यत्र यत्राश्रमे
विहितास्तेते आश्रमधर्म्मशब्देनोच्यन्ते ते च धर्म्मास्तत्तच्छब्दे
प्रपञ्चेन वक्ष्यन्ते ।

आश्रमपद न० आश्रमस्य पदम् । मुन्यादेर्विश्रामस्थाने तपोवनादौ आश्रमस्थानादयोऽप्यत्र ।

आश्रमवास पु० आश्रमे वासः । मुन्यादीनां १ तपोवनादौ

वासे आश्रमवासमधिकृत्य कृतोग्रन्थः अण् । धृतराष्ट्रा-
दोनामाश्रमवासाधिकारेण व्यासनिर्म्मिते भारतान्तर्गते
२ पर्व्वभेदे । “एतदाश्रमवासाख्यम्” भा० आ० १ अ० ।

आश्रमवासिक न० आश्रमवासः प्रतिपाद्यतयास्त्यस्य ठन् ।

भारतान्तर्गते धृतराष्ट्रादेराश्रमवासप्रतिपादके पर्व्वभेदे ।

आश्रमसद् त्रि० आश्रमे सीदति सद--क्विप् । आश्रम-

वासिनि तपोवनवासनिरते वानप्रस्थादौ ।

आश्रमिक त्रि० आश्रमोऽस्त्यस्य ठन् । आश्रमयुक्ते ।

आश्रमिन् त्रि० आश्रमोऽस्त्यस्य इनि । आश्रमयुक्ते स्त्रियां ङीप् ।

“तथैवाश्रमिणः सर्व्वे गृहस्थे यान्ति संस्थितिम्” “चतु-
र्भिरपि चैवैतैर्नित्यमाश्रमिभिर्द्विजैः” मनुः ।

आश्रय न० आश्रीयतेऽसौ आ + श्रि--कर्म्मणि अच् । १ आश्र-

यणीये “वर्द्धिष्णुमाश्रयमनागतमभ्युपैति” “द्रव्याश्रये-
ष्वपि गुणेषु रराज नीलः” माघः । “चित्रं यथाश्रय
मृते स्थाण्वादिभ्यो विना यथाच्छाया । तद्वद्विना विशेषै
र्न तिष्ठति निराश्रयं लिङ्गम्” सां० का० २ आधारे
“आसत्तिराश्रयणान्तु सामान्यज्ञानमिष्यते” “हेतोरे-
काश्रये येषां स्वसाध्यव्यभिचारिता “जन्यानां जनकःकालो
जगतामाश्रयो मतः” भाषा० “तमाश्रयं दुष्प्रसहस्य
तेजसः” रघुः ३ गृहे । “पितृमात्राश्रये गच्छ”
४ अवलम्ब्ये “विनाश्रयं न तिष्ठन्ति पण्डिता वनिता
लता” उद्भटः “निराश्रयं मां जगदीश! रक्ष” पुरा०
५ विषये “बभूव यत् प्रेमपरस्पराश्रयम्” रघुः अरिभिः-
पीड्यमानेन बलवदाश्रयणरूपे षड्गुणान्तर्गते राज्ञां
६ गुणभेदे यथाश्रयः कर्त्तव्यस्तथोक्तमग्निपुराणे “बलिनो-
र्द्विषतोर्मध्ये वाचात्मानं समर्पयन् । द्वैधीभावेन तिष्ठेत
काकाक्षिवदलक्षितः । उभयोरपि संघाते सेवेत
बलवत्तरम् । यदा द्वावपि नेच्छेतां संश्लेषं जातसंविदौ ।
तदोपसर्पेत्तच्छक्तमधिकं वा स्वयं व्रजेत् । उच्छिद्यमानो
बलिना निरुपायप्रतिक्रियः । कुलोत्पन्न सत्यमार्य्य-
मासेवेत बलोत्कटम् । तद्दर्शनोपास्तिकता नित्यं तद्भाव-
भाविता । तत्कारितप्रश्रयिता वृत्तं संश्रयिणः स्मृतम्” ।
भावे अच् । ७ अवलम्बने । “योऽवमन्येत ते मूले हेतु-
शास्त्राश्रयेण च” मनुः । ८ आश्रयणे “गुणवदाश्रयलब्ध-
गुणोदये” माघः । त्व । आश्रयत्वम् आधारत्वे न० ।
“आश्रयत्वविषयत्वभागिनी” सं० शा० तल् । आश्रयता ।
तत्रार्थे स्त्री आधारशब्दे विवृतिः ।

आश्रयण न० आ + श्रि--ल्युट् । १ आसेवायाम् २ अवलम्बने च ।

कर्त्तरि ल्युट् । ३ आश्रयकर्त्तरि त्रि० स्त्रियां ङीप् ।
“अहमेत्य पतङ्गवर्त्मना पुनरङ्काश्रयणी भवामि ते” कुमा० ।

आश्रयणीय त्रि० आ + श्रि--कर्म्मणि अनीयर् । यस्याश्रयः

क्रियते १ तस्मिन् २ अवलम्ब्ये च ।

आश्रयवत् त्रि० आश्रयोऽस्त्यस्य मतुप् मस्य वः स्त्रियांङीप् ।

आश्रययुक्ते सावलम्बे साधारे पदार्थे ।
पृष्ठ ०८४५

आश्रयाश पु० आश्रयमश्राति अश--अण् उप० स० ।

१ वह्नौ तस्य आश्रयस्य काष्ठादेर्द्दाहकत्वात्तथात्वम् ।
“दुर्वृत्तः क्रियते धूर्त्तैः श्रीमानात्मविवृद्धये । किं नाम
खलसंसर्गः कुरुते नाश्रयाशवत्” उद्भटः २ चित्रकवृक्षे
३ कृत्तिकानक्षत्रे च । ४ आश्रयनाशके त्रि० ।

आश्रयासिद्ध पु० आश्रयोऽसिद्धोऽस्य । न्यायोक्ते हेत्वाभास

भेदे यथा गगनपद्मं सुरभि पद्मत्वात् सरोजपद्मवदित्यादौ
गगनपद्मरूपस्य हेतोराश्रयस्याप्रसिद्धत्वात् हेतोर्दुष्टत्वम् ।

आश्रयासिद्धि स्त्री आश्रयस्या सिद्धिः अप्रसिद्धिः न्यायोक्ते

हेतोर्दोषभेदे असिद्धिशब्दे ५५४ पृष्ठे विवृतिः ।

आश्रयिन् त्रि० आश्रयति आ + श्रि--इनि । आश्रय

कारके आश्रिते । “मयूरपृष्ठाश्रयिणा गुहेन” रघुः “पर्य्य-
न्ताश्रयिभि र्निजस्य सदृशं नाम्नः किरातैः कृतम्” रत्ना० ।

आश्रव त्रि० आशृणोति वाक्यम् आ + श्रु--अच् । वाक्यस्थिते

वाचि प्रवणे वाक्यं श्रुत्वा तदर्थानुष्ठायिनि । “संगवस्तु
भिषजामनाश्रवः” रघुः । भावे + अप् । ३ अङ्गीकारे ३ क्लेशे च ।

आश्राव त्रि० आ + श्रु--णिच्--अच् । १ श्रावणे २ अङ्गीकारणे च

आश्रि स्त्री सम्यक् अश्रिः प्रा० स० । सम्यक्कोणे शब्दच०

आश्रित त्रि० आ + श्रि--क्त । आश्रयप्राप्ते, शरणागते, आधेये

“प्रायश्चलं गौरवमाश्रितेषु” कुमा० “अथ द्रव्याश्रिता
गुणाः” । “अन्यत्र नित्यद्रव्येभ्य आश्रितत्वमिहेष्यते
इति” च भाषा० ।

आश्रित्य अव्य० आ + श्रि--ल्यप् । अवलम्ब्येत्यर्थे ।

आश्रिन् त्रि० आश्रं चक्षुर्जलमस्त्यस्य सुखा० इनि । चक्षुर्जल-

युक्ते स्त्रियां ङीप् ।

आश्रुत् स्त्री आ + श्रु--भावे क्विप् ।

१ अङ्गीकारे । कर्त्तरि क्विप् । २ अङ्गीकर्त्तरि त्रि० ।

आश्रुत त्रि० आ + श्रु--क्त । १ अङ्गीकृते, २ आकर्णिते च ।

“एवं सर्व्वत्राश्रुतेषु” कात्या० ३, २, ६ ।

आश्रुति स्त्री आ + श्रु--क्तिन् । १ अङ्गीकारे २ श्रवणे च ।

आश्रेय त्रि० आ + श्रि--यत् । १ आश्रयणीये २ अवलम्ब्ये च ।

आश्लिष्ट त्रि० आ + श्लिष--क्त । १ आलिङ्गिते २ संबद्धे “शिखा-

भिराश्लिष्टैवाम्भसांनिधिः” “आश्लिष्टभूमिं रसितार-
मुच्चैः” इति च माघः ।

आश्लेष पु० ईषदेकदेशेन श्लेषः संबन्धः आ + श्लिष--घञ् ।

१ एकदेशसंबन्धे । “सामीप्याश्ले षविषयैर्व्याप्त्याधारश्चतुर्विधः”
मुग्धबो० । २ आलिङ्गने च । “आश्लेषलोलुपवधूस्तनकार्कश्य
साक्षिणीम्” माघः वेदे नि० क्वचित् लस्य रः ।
आश्रेषोऽप्युक्तार्थे पु० अश्लेषैव स्वार्थे अण् । अश्लेषा-
नक्षत्रे स्त्री । “आश्लेषा नक्षत्रं सर्पा देवताः” तैत्ति०

आश्व न० अश्वानां समूहः अण् । १ अश्वसमूहे अश्वैरुह्यते

र्शषिकः अण् अश्वस्येदं वाह्यम् अञ् वा । २ अश्ववाह्ये
त्रि० सि० कौ० । अश्वस्य भावः कर्म्म वा प्राणभृज्जा-
तित्वात् अञ् । ३ अश्वभावे ४ तत्कर्म्मणि च न० ।
अश्वस्येदम् अण् । ५ अश्वसंबन्धिनि त्रि० । “आश्वं
कफहरं मूत्रं कृमिदद्रुषु शस्यते” सुश्रुतः ।

आश्वतराश्वि पु० अश्वतराश्वस्यापत्यम् इञ् । वुड़िलमुनौ ।

आश्वत्थ न० अश्वत्थस्य फलमण् प्लक्षा० तस्य न लुक् । १ अश्वत्थ

फले । अश्वत्थस्येदम् अण् । २ अश्वत्थसम्बन्धिनि त्रि० स्त्रियां
गौ० ङीष् । आश्वत्थी शाखा समिद्वा । “सर्पिरासिच्याश्व-
त्थीस्त्रिस्रः समिधः” शत० ब्रा० । तस्मादाश्वत्थे ऋतुपात्रे
स्याताम्” शत० ब्रा० अश्वत्थेन युक्ता अण । अश्वत्यनक्षत्र-
युक्तायां ३ रात्रौ स्त्री । गहा० छ । आश्वत्थीयः
आश्वत्थसम्बन्धिनि त्रि० ।

आश्वत्थिक च० अश्वत्थशब्दे ५०७ पृष्ठे विग्रहादि ।

चान्द्राश्विने मासि ।

आश्वपत त्रि० अश्वपतेरिदम् अश्वपत्या० अण् । अश्वपति सम्बन्धिनि ।

आश्वपस् त्रि० आशु आप्नोति असुन् ह्रस्वः । शीघ्रप्राप्तरि ।

आश्वपालिक पुंस्त्री अश्वपाल्याः अपत्यं रेवत्या० ठक् ।

अश्वपाल्या अपत्ये ।

आश्वपेजिन् त्रि० ब० व० । अश्वपेजेन प्रोक्तमधीयते शौनका० णिनि । अश्वपेजर्षिप्रोक्ताध्यायिषु ।

आश्वबाल त्रि० अश्वबालाया ओषधेरयम् अण् । अश्व-

बालोषधेः संबन्धिनि । “आश्वबालः प्रस्तरः, यज्ञोह
देवेभ्योऽपचक्राम सोऽश्वोभूत्वा पराङावर्त्त तस्य देवा अनु
हाय बालानभिपेदुस्तानालुलुपुस्तानालुप्य सार्द्धं संन्यासुस्त
तएता ओषधयः समभवन् यदश्रबालाः शिरो वै यज्ञ-
स्यातिथ्यं जघनार्घो बाला उभयतएवैतद्यज्ञं परिगृह्णा-
ति यदाश्वबालः प्रस्तरोभवति” शत० व्रा० ।

आश्वभारिक त्रि० अश्वबाह्य भारमश्वभूतं भारं वा हरति

वहति आवहति वा वंशा० ठञ् । अश्वबाह्यस्य अश्व-
भूतस्य वा भारस्य १ हारके २ वाहके ३ आवाहके च ।

आश्वमेधिक त्रि० अश्वमेधाय हितं ठन् । अश्वमेधसाधने

द्रव्यादौ अश्वमेधद्रव्याणि च अश्वमेधशब्दे ५११ पृष्ठे
उक्तानि अश्वमेधमधिकृत्य कृतः ग्रन्थः ठण् । शतपथ-
ब्राह्मणान्तर्गते १३ प्रपाठके पञ्चाध्यायीरूपे ग्रन्थभेदे
तत्र पञ्चस्वध्यायेषु अश्वमेधस्योत्पत्तिः फलञ्च । तस्य धर्म-
विधयः आध्वर्य्यवौद्गात्रब्रह्मत्वयाजमानविषयाः तत्र
प्रथमाध्यायत्रयेण मन्त्रव्याख्यानेन सह विशेषधर्म्मा
पृष्ठ ०८४६
अनुक्रान्ताः । शेषाध्यायद्वयेन च तएव धर्म्मान्तरसहिता
अनुक्रान्ता इति भेदः । अश्वमेधमधिकृत्य कृतोग्रन्थः
ठण् । युधिष्ठिराश्वमेधाधिकारेण व्यासकृते भारतान्तर्गते
३ पर्व्वभेदे न० । “इत्याश्वमेधिकं पर्व्व प्रोक्तमेतन्महा-
द्भुतम्” भा० आ० प० १ अ० । अश्वमेधः प्रतिपाद्य-
तयाऽस्त्यस्य ठन् । अश्वमेधिकमप्यत्र न० । “ततोऽश्वमेधिकं
नाम पर्व्व प्रोक्तं चतुर्द्दशम्” भा० आ० प० १ अ० ।

आश्वयुज पु० आश्वयुजी अश्विनीनक्षत्रयुक्ता पौर्णमासी

यस्मिन् मासेऽण् । शुक्लप्रतिपदादिके दर्शान्ते चान्द्रे
आश्विने मासे । “त्यजेदाश्वयुजे मासि मुन्यन्नं पूर्ब्बसञ्चि-
तम्” मनुः “भाद्रपदाश्वयुजौ वर्षा” “गाङ्गमाश्वयुजे मासि
प्रायशोवर्षति” इति च सुश्रु० ।

आश्वयुजक त्रि० आश्वयुज्यामुप्तो माषः वुञ् । चान्द्राश्विन-

पौर्ण्णमास्यामुप्ते माषे स हि तस्यामेव तिथौ उप्तः सन्
प्ररोहति बर्द्धते च इति लोकप्रसिद्धिः ।

आश्वयुजी स्त्री अश्वयुजा अश्विनीनक्षत्रेण युक्ता पौर्णमासी

“नक्षत्रेण युक्तः कालः” पा० अण् । आश्विनमासीय-
पौर्ण्णमास्याम् “आश्वयुज्यां पौर्ण्णमास्यां निकुम्भो वालु-
कार्ण्णवात्” ब्रह्मपु० । “तेन यक्ष्यमाणः पञ्चवर्षाण्याश्व-
युजीशुक्लेषु चतुस्त्रिंशतं पशूनालभते मारुतान्” कात्या०
२३, २, ४ । “आश्वयुज्या वुञ्” पा० ।

आश्वरथ त्रि० अश्वयुक्तो रथः अश्वरथस्तस्त्येदम् पत्रपूर्व्व-

कत्वात् अञ् । अश्वबाह्यरथसम्बन्धिनि ।

आश्वलक्षणिक त्रि० अश्वलक्षणं वेत्ति तज्ज्ञापकशास्त्रम-

धीते वा ठक् । १ अश्वलक्षणाभिज्ञे २ तद्बोधकशास्त्राध्येतरि च

आश्वलायन पु० अश्वल + अश्वग्राहकः मुनिभेदस्तस्यापत्यं

नडा० फक् । ऋग्वेदीयश्रौत्रगृह्यसूत्रकारके ऋषिभेदे
“सहस्रकाण्डं स्वकृतं सूत्रं ब्राह्मणसन्निभम् शिष्याश्वलायन
प्रीत्यै शौनकेन विपाठितम्” इत्युक्तेः शौनकोपदिष्टेन तेन
च “अथैतस्य सनाम्ना यस्य विताने योगापत्तिं वक्ष्यामः”
इत्युपक्रम्य “नमः शौनकाय” इत्यन्तम् अध्यायचतुष्टयात्मकं
वैतानिककर्मोपयोगि श्रौत्रसूत्रम् “उक्तानि वैतानिकानि
गृह्याणि वक्ष्यामः” इत्युपक्रम्य “नमः शौनकाय” इत्यन्तम्
अध्यायचतुष्टयात्मकं गृह्यकर्मोपयोगि गृह्यसूत्रं, तत्
परिशिष्टञ्चाध्यायचतुष्टयात्मकं सूत्रं शौनकाचार्य्यप्रसादात्
रचितम् । तदीयसूत्रोपरि देवस्वामिना भाष्यं कृतं तन्मूलक-
तया गर्गगोत्रेण नरसिंहपुत्रेण नारायणोपाध्यायेन वृत्तिः
रुचिता तत्र श्रौत्रसूत्रे प्रतिपाद्यविषयास्तावदभिधीयन्ते ।


तत्र प्रथमाध्याये प्रधानस्याङ्गसंहतिज्ञानाय सर्वादौ
दर्शपूर्ण्णमासयोर्व्याख्यानम् । १ अग्निहोत्रादिषु ऋक्समाम्ना
यस्य प्रयोगस्वरूपकथनप्रतिज्ञा । २ ऋक्समाम्नातकर्मसु
आहिताग्नेरधिकारकथनम् । ३ अङ्गसङ्घरूपविध्यन्तरज्ञानायादौ
दर्शपूर्णमासयोर्व्याख्यान प्रतिज्ञा । ४ दर्शपूर्णमासयोर्व्याख्या-
रम्भः । ५ अनोषधिहविष्करूपेऽप्रणीते कर्मणि अपरेणेध्म-
प्रपदनम् । ६ अवटरूपचात्वालवत्सु पशुसोमादिषु
अपरेण चात्वालप्रपदनम् । ७ चात्वालरूपस्याध्वनो वैदिकी
तीर्थसंज्ञा । ८ होतुः प्राङ्मुखत्वस्य मनोवाक्काययन्त्रणा-
दीनाञ्च चेष्टाया नित्यता । इति परिपाषा संग्रहः ।
९ उरूपस्थीकरणरूपाया अङ्कधारणाया नित्यत्वम् । १०
यज्ञोपवीतग्रहणनियमस्यान्तर्विहारे शौचनियमस्य च नित्य
त्वम् । ११ विहारे कर्म कुर्वतस्तत्पृष्ठतः करणनिषेधः ।
१२ एकाङ्गोल्लेखे दक्षिणप्रतीतिः । १३ सर्व्वदक्षिणा-
नुल्लेखेऽपि दक्षिणप्रतीतिः । १४ कर्तृरहिते क्रिया-
विधौ होतर्य्येव कर्तृज्ञानम् । १५ दानविधौ यजमाने
कर्तृज्ञानम् । १६ कुहोति जपतीति प्रायश्चित्ते ब्रह्मणि
कर्तृज्ञानम् । १७ ऋचो मूलग्रहणे ऋत्विग्वेदनम् । १८
सूक्तादौ गायत्र्यादिभागरूपे पादे हीने गृह्यमाणे सूक्त-
ज्ञानम् । १९ सूक्तादावसूक्तादौ चाधिकपादग्रहणे
तृचज्ञानम् । २० अस्मिन् शास्त्रे जपादीनामुपांशुप्रयोक्तव्य-
त्वम् । २१ मन्त्राणां कर्मकरणानाञ्चोपांशुत्वकथनम् ।
२२ सामान्यविशेषयोर्विशेषविधेर्बलीयस्त्वम् । २३--२४
होतुरवस्थानकथनम् । २५ कर्तुरासनकथनम् । २६
वचनादतिरिक्तस्य कर्त्तव्यत्वम् । २७ सामिधेन्यर्थं प्रेषितस्य
होतुर्जपविधानम् । २७ सूत्राणि प्रथम कण्डिकायाम् ।
१ साकिधेन्यर्थजपः । २ तज्जपानन्तरं सामिधेनीनाम्
ऋचामनुवचनम् । ३ हिङ्ककरणपूर्वकप्रणवान्तव्याहृतित्रयजप-
बिधानम् । ४ सजपहिङ्कारस्याभिहिङ्कारसंज्ञाकथनम् ।
५ कौत्समते निरोङ्कारव्याहृतित्रयजपानन्तरहिङ्करणदर्श-
नम् । ६ कौत्समते सामिधेन्यर्थोक्तजपस्याकरणम् । ७
ऋचामेव सामिधेनीत्वप्रदर्शनम् । ८ सामीधेनीनाम् ऋचामैकश्रुत्येन
सान्तत्येन चानुवचनम् । ९ ऐकश्रुत्यलक्षणम् १० सन्ततलक्षणम्
११ सन्ततस्यावसानत्वकथनम् । १२ पूर्वोच्छ्वासाविभ्रेषे उत्त-
रोच्छ्वासारम्भः । १ ३ प्रणवेनावसानकथनम् । १४ विहिते
एवावसाने प्रणवस्य चतुर्मात्रत्वेनोच्चारणम् । १५ प्रणवा-
न्तमकारस्य वर्णान्तरापत्तिकथनप्रतिज्ञा । १६ प्रणवान्त-
मकारेण स्वस्मात् परस्य यस्य कस्यचित् स्पर्शवर्णस्य तद्वर्गी-
पृष्ठ ०८४७
यान्तवर्णापादनम् । १७ प्रणवान्तमकारेण यवलान्त-
स्थांसु परान्तस्थानामनुनासिकत्वापादनम् । १८ रेफोष्मसु
वर्णेषु प्रणवान्तमकारस्यानुस्वारत्वापत्तिः । १९ प्रथमो-
त्तमे ऋचौ त्रिरध्यर्धीकृत्य तयोरनुवचनम् । २० अध्यर्धयो
रृचोर्वचनावसानेऽध्यर्धचतुष्कात्मिकयोर्द्वयोरृचोर्वचनम् ।
२१ उत्तमायामृचि आदौ द्वे पश्चात् अध्यर्धा । २२
एकादशानामृचां द्वयोस्त्रिरभ्यासयोगेन पञ्चदशसंख्यापूरण-
निदर्शनम् । २३ शस्त्रयाज्यादिषु सामिधेनीनां कतिपयधर्मा-
तिदेशः । २४ सामीधेनीभ्योऽन्यत्राध्यर्धकरणप्रतिषेधादयः
२५ विहितेऽवसानेऽभिहिङ्काराभ्यासनिषेधः । २६ शस्त्रे-
ष्वेव होत्रकाणामभिहिङ्कारविधानात् ग्रावस्तुतस्तन्निषे-
धसाधनम् । २७ प्रणवेन निगदसन्धानानन्तरं तेनैव
तदवसानविधानम् । २७ सू० १ अ० २ क० । १ यजमानस्यार्षेय-
प्रवरणम् । २ अन्यक्षेत्रजातद्व्यामुष्यायणार्थमार्षेयप्रवरण-
प्रकारः । ३ राजन्यविशां त्रैवर्णिकानुलोमस्त्रीजातानाञ्च
पुरोहितार्षेयभागित्वम् । ४ राज्ञां राजर्षिप्रवरणं पौरोहित्य
प्रवरणं वा ५ प्रवराज्ञाने तत्संशये च वर्णत्रयस्य मानव-
प्रवरः । ६ चतुर्दशनिवित्पदकथनम् आवाहननिगदकथनं,
सामिधेन्यादीनां चावाहनीयाभिधायित्वम् । ७ अग्निरूप-
प्रथमदेवतावाहनम् । ८ अग्नीषोम दैवताज्यभागयाग-
योराख्या । ९ अग्नेरग्नीषोमयोश्च पौर्ण्णपास्यां प्रधान-
देवतात्वम् । १० अमावास्यायां दधिपयोभ्यां यागमकुर्वतो-
ऽग्नीषोमयोः स्थाने इन्द्राग्न्योः प्रधानदेवतात्वम् । ११
तद्दिने उक्तयागरूपसन्नयनकारिणोऽग्नीषोमस्थाने इन्द्रमहे-
न्द्रयोरन्यतरावाहनम् । १२ उभयोरपि पर्वणोरैतरेयिणाम्
विष्णुदेवताकोपांशुयागकरणम् । १३ शाखान्तरीयाणाम्
उभयोरपि पक्षयोरुपांशुयागभिन्नयागाभावः । १४ पित्र्याद्यङ्गो-
पांशुयागानाम् आवाहनादिनिगदचतुष्टये आवाहनादीनां
षण्णां पदानाम् उच्चैरितिसंज्ञाविधानम् । १५ उपांशुयाज-
वचनानामन्येषाम् परोक्षाणाम् उपांशुत्वानुवादः, विकल्पे-
नोच्चैः संज्ञाविधानं च । १६ विहितदेवतानामरूपस्य
प्रत्यक्षस्योपांशुत्वम् । १७ प्रतिनोदितदेवतमावाहनभेदः ।
१८ एकप्रदानानां सर्वासां देवतानामावाहने सकृदेवावह-
शब्दप्रयोगः । १९ उत्तरनिगमेषु एकदेवतात्वेन संस्तवः ।
२० एकप्रयोजनार्थाया देवतायाः कारणवशात्
एकववनेनैव समानता । २१ अपराव्यवहिताया देवताया निगमेषु
सकृदेकवचनभाक्त्वम् । २२ आवापोद्धारयोग्यासु प्रधानदेव-
तासु कृतावाहनासु देवाज्यपास्विष्टकृतामावाहनप्रकिया ।
२३ आश्रावयिष्यतेऽध्वर्यवेऽनुमन्त्रणं तदनन्तरकरणीयञ्च ।
२४ उत्थानपूर्वकं षष्टिश्चेतिमन्त्रपाठः । २५ अंसे पार्श-
स्थेन पाणिनाध्वर्य्वन्वारम्भणम् । २६ सव्येन पाणिनाङ्के-
नोरुणा वाऽऽग्नीध्रकर्तृकमन्वारम्भणम् । २७ उक्तोभया-
न्वारम्भणे साधारणमन्त्रः । २८ इध्मसन्नहनरूपैस्तृणैरा-
त्ममुखसंमार्जनम् । २९ संस्कारकर्म्मावृत्तिमात्रे सकृन्म-
न्त्रेण द्विस्तूष्णीं संस्करणम् । ३० उदकस्पर्शानन्तरं
होतृषदनाभिमन्त्रणम् । ३१ दक्षिणोत्तरिणोपस्थेनोपवेशनं
होतृषदनात् तृणनिरसनञ्च । ३२ उक्तयोरेतयोर्निर-
सनोपवेशनयोः सर्वासनेषु प्रथमप्रयोग एव समानत्वम् ।
३३ गौतमाचार्य्यमते द्वितीयेऽपि प्रयोगे तादृशनिरसनोप-
वेशनयोः सद्भावः । ३३ सू० १ अ० ३ क० । १ अग्न्याधेये
ब्रह्मौदनप्राशनकाले ब्रह्मणो द्विर्निरसनोपवेशनकरणम् ।
२ सर्वेषु सोमेषु बहिष्पवमानात् प्रत्येत्य ब्रह्मणः
पूर्ब्बासने पुनः करणम् । ३ आसने पश्वर्थमुपविष्टस्य
होतुः सदःप्रसर्पणानन्तरं तत्रैव पुनः करणम् । ४ पशौ
स्वाहाकृत्यर्थयोः स्रुगवदापनयोः पुनः करणम् । ५ पत्नी-
संयाजार्थोपवेशनाकरणम् । ६ कौत्समते होतृभिन्ना-
नामेतयोर्निरशनोपवेशनयोरकरणम् । ७ उपविश्यानन्तरं
देवेत्यादिमन्त्रपाठः । ८ जान्वग्रेण बर्हिरुपस्पृश्य
अभिहिषेत्यादिमन्त्रजपः । ९ इध्मप्रदीप्ते उक्तजपानन्तरं
भूपतये नम इति निगदेनाध्वर्यवे स्रुगावदापनम् । १०
अग्निर्होतेति निगदमवसाय होतारमवृथा इति मन्त्रजपः
११ अग्निर्होतेत्यादिना सह घृतवतीत्यादिकमेकनिगदं
विधाय तत्समापनम् । १२ उक्तनिगदे समाप्तेऽध्वर्युकर्तृ-
कमाश्रावणम् । १३ उत्करदेशे तिंष्ठत आग्नीध्रं प्रत्या-
श्रावणप्रकारः । १३ सू० १ अ० ४ क० । १ शाब्दलक्षणप्रया-
जैर्यजनम् । २ तनूनपान्नराशंसयोरन्यतरेण प्रयाजानां
पञ्चसङ्ख्याकत्वम् । ३ सकृत्प्रेषितस्य न सर्वयजनम् ।
४ अननुयाजानां सर्वासां याज्यानामादिरागू-
र्भवतीति । ५ ये यजामह इति आगूः स्वरूपं, वषट्कारस्व-
रूपञ्च । ६ याज्याया एव उच्चैस्तरत्वबलीयस्त्वोभयधर्म-
वत्त्वम् । ७ आगूर्वषट्कारयोराद्योः प्लुतिकरणम् ।
८ याज्यान्तस्य प्लावनम् । ९ विविक्तयोः सन्धिजात
योरेकारैकारयोरोकारौकारयो आ इ, इति आउ इत्येवं,
व्यञ्जनान्तानां सन्ध्यक्षराणां सर्वदा स्वरूपेणैव च प्लावनम् ।
१० अनवर्णोपधस्य विसर्जनीयस्य रेफिभावः । ११ रेफि-
संज्ञिनोऽवर्णोपधस्य विससर्जनीयस्य रेफिभावः । १२ वषट्-
पृष्ठ ०८४८
कारसन्धौ अरेफसंज्ञस्यावर्णोपधस्य विसर्जनीयस्य लोपः ।
१३ वर्गाणां प्रथमस्य स्ववर्गीयतृतीयवर्णापादनम् । १४
मकारे सानुनासिकभावस्य नित्यत्वम् । १५ वौषट्शब्दस्य
वषटकारस्वरूपत्वम् । १६ इत्येवंरूपः प्रथमप्रयाजः । १७
वषट्कारोच्चारणपूर्ब्बकोऽनुमन्त्रणप्रकारः । १ ८ वषट्कारस्य
दिवाकीर्त्तनीयत्वम् । १९ अनुमन्त्रणस्यापि दिवाकीर्त्त-
नीयत्वम् । २० इत्येवं याज्यास्वरूपम् । २१ वशिष्ठादि-
भिन्नाना तनूनपादित्यादिः द्वितीयप्रयाजः । २२ वशिष्ठादीनां
नरांश स इत्यादिः द्वितीयप्रयाजः । २३ इडो अग्न इत्यादिः
सर्वेषां तृतीयप्रयाजः २४ बर्हिरग्ने इत्यादिः चतुर्थः स्वाहा-
मुमित्यादि पञ्चमप्रयाजः । २५ अग्निमन्थनादौ मन्द्रस्वरप्र-
योजः । २६ शंयुवाकादूर्ध्वं मन्द्रस्वरेण प्रयोगः । २७ प्रयाजेभ्य
ऊर्द्ध्वमास्विष्टकृतो मध्यमेन प्रयोगः । २८ इडादिशंयु-
वाकान्तरूपस्य शेषस्योत्तमेन प्रयोगः । २९ पूर्ब्बोत्तरयो-
राज्यभागनामकयागयोरागोरणदेवतादेशयाज्यासन्धानपूर्बको
यागः । ३० अनुवाक्यावतीनामप्रैषाणां चान्याया-
त्याभ्योऽन्यासां देवतानाम् आदेशपूर्ब्बकयागः । ३१ अङ्ग-
प्रधानरूपे सोमकर्म्मणि वैश्वानरीयप्रत्नीसंयाजशब्दबोधि-
तयोः पदार्थयोर्मध्ये तत्रोत्पन्नाभ्यो देवताभ्योऽन्यासाम्
आदेशपूर्व्वको यागः । ३२ पौर्णमास्यामाज्यभागयोः
सनिमित्ता वार्त्रघ्नसंज्ञा । ३३ अनुवाक्यातएवविचारा-
वगमादि । ३४ याज्ययोरानुवाक्यादेवतानन्यत्वम् । ३५
आदित आरभ्याज्यभागपर्य्यन्तं वाग्यमनम् । ३६ याज्या-
दिभ्योऽन्यदप्यारभ्यासमाप्तेर्वाग्यमनम् । ३७ यज्ञसाधन-
वचसोऽन्यत्र वाग्यमननियमः । ३८ वाग्यमननिय-
मातिक्रमे अतो देवा अवन्तु न इति वैष्णव्या ऋचो
जपः । ३९ उक्तातिक्रमेऽन्यस्या अपि वैष्णव्या ऋचो
जपविधानम् । ३९ सू० १ अ० ५ क० । १ विधिक्रमप्राप्तानां देवतानां
वक्ष्यमाणलिङ्गक्रमाभ्यां याज्यानुवाक्यायोजना । २ प्रधा-
नानन्तरं स्विष्टकृतो यागः सर्वत्र च पूर्ब्बमनुवाक्यायाः
पश्चाद्याज्याया प्रयोगः । ३ ये याजमहे इत्युक्त्वा षष्ठ्या
विभक्त्या देवतामादिश्य प्रिया धामान्ययाडिति मन्त्रपाठः ।
४ प्रथमदेवतायाः पुरस्तादयाडग्निशब्दन्त्यक्त्वा उत्तरासाम-
याट्शब्दस्यैव सर्व्वासामुपरिष्टात् प्रिया धामानिशब्दस्य च
सन तप्रयोगः । ५ याज्याविशेषेऽनुच्छ्वासस्य कर्त्तव्यत्वम् ।
६ याज्यापाठे अर्धर्चे वोञ्छ्वासकर्त्तव्यता । ६ सू० १ अ० ६ क०
१ अध्वर्युणा प्रदेशिनीपर्वाञ्जनपूवकौष्ठापवर्गशोधने । २
ओष्ठाधरशोधनस्य मन्त्रविशेषः । ३ अध्वर्युणा इड़ा-
ग्रहणपूर्वकावान्तरेडावदापनप्रकारः । ४ स्वयं यज मानेन
इड़ाया अवान्तरेडाग्रहणप्रकारः । ५ अध्वर्युकर्तृकं वा
तद्गहणम् । ६ इडोपह्वानप्रकारः । ७ सह दिवेत्यादिना
तस्मिन्नुपह्वत इत्यन्तेन मन्त्रेण इडोपह्वानम् । ८ होतुर्य-
जमानपञ्चमानां वा सर्व्वेषामवान्तरेडाभक्षणपूर्ब्बकेडाभक्ष-
णम् । ८ सू० अ० ७ क० । १ इडाभोक्तुर्मार्जनपूर्व्वकमनु-
याजचरणम् । २ मार्जनप्रकारः । ३ अनुयाजलक्षणम् ।
४ प्रयाजानुयाजयोर्गुणकथनम् । ५ अनुयाजानां त्रित्व-
व्यवस्थापनम् । ६ एकैकं प्रेषितस्य यजनविधानम् ।
७ अनुयाजमन्त्राणां स्थलविशेषे क्वचिदवसानपूर्ब्बकं क्वचि-
च्वानवसानपूर्त्तकं यजनविधानम् । ७ सू० अ० ८ क० । १ सूक्त-
वाकाय सम्प्रेषितस्य देवतादेशानन्तरम् इदं हविरित्युपस-
न्तननम् । २ उत्तरा अपि देवता आदिश्येदं हविरित्येव-
मुपसन्तननम् । ३ द्विदैवतबहुदैवतयोरर्थवशेनाकृतेत्यस्य
स्थाने अक्रातामक्रतेत्यूहस्य कर्त्तव्यता । ४ आवह स्वाहेति-
निगदस्य पशुयागेऽपि प्रयोगः । ५ आवापिकदेवताक्रमप्राप्त्य-
र्थम् आवापिकान्तमित्येतदादिकथनम् । ५ सू० १ अ० ९ क० ।
१ शंयुवाकाय प्रेषितस्य तच्छंयोरिति मन्त्रपाठे प्रणवनिषेधः ।
२ तादृशप्रेषितायाध्वर्युणा वेददानम् । ३ वेदग्रहणे
वेदोऽसीति मन्त्रपाठः । ४ प्रकृतिविकारभावेऽपि कृत्स्नमन्त्र-
प्राप्तिः, आज्येन सोमयाग एव याज्यानुवाक्याव्यवस्थापनं
यागएव केवलं देवताविशेषाणामनुवृत्तिकथनं च । ५ मन्त्र-
भेदानां पत्नीसंयाजसंज्ञाविधानम् । ६ प्रजाकामस्य
यजमानस्य यागभेदः । ७ यजमाने सन्निहितेऽपि होतुरेव कर्तृत्वं
याज्यानुवाक्ययोर्होतृकर्त्तृत्वस्यान्यतः प्रसिद्धिः, कुहूमह-
मिति मन्त्रपाठे यजमानस्य स्वयंकर्तृत्वं च । ८ पाणि-
तलस्थाज्यरूपेडोपह्नानानन्तरं तद्भक्षणविधिः । ९ आज्ये-
डाया ऊर्द्ध्वं शंयुवाको मवति न वेति संशये इतिकर्त्तव्यता-
विधानम् । ९ सू० १ अ० १० क० । १ होत्राऽध्वर्युणा वा पत्न्यै
वेदं प्रदाय वेदोऽसीत्यादि--कामायेत्येवमन्तमन्त्रवाचनम् ।
२ प्रजाकामायाः पत्न्या वेदशिरसा स्वनाभ्यालम्भनम् ।
३ कामनाभावे वाचनानन्तरं योक्त्रविमोकः । ४ द्विगुणितं
योक्त्रं निधाय तस्योपरिष्टात् वेदतृणानां निधानम् ।
५ तृणेभ्यः पुरस्तात् वेदतृणसंश्लिष्टस्य पूर्णपात्रस्य निधानम् ।
६ आत्मानमभिभृशतीं पत्नीमभिशमृतः पूर्णमसीति मन्त्रवाच-
नम् । ७ पूर्ण्णपात्रादुदकं गृहीत्वा तदुदुक्षन् तां चैवं कुर्वतीं
वाचयतीत्युक्तिः । ८ योक्त्रस्याधस्तात् पत्न्यञ्जलिमुत्तानमात्मनश्च
सव्यं पाणिमुत्तानं निधाय पूर्ण्णपात्रं निनयन् माहं प्रजा-
पृष्ठ ०८४९
मिति तां वाचयतीत्युक्तिः । ९ वेदतृणानि गृहीत्वा गार्हपत्या-
दारभ्य तन्तु तन्वन्नित्यादिना सन्ततं स्तृणन् आहवनीयं
गच्छतीत्युक्तिः । १० सर्व्वाणि वेदतृणानि न स्तरितव्यानि
नियमेन शेषितव्यान्युत्तरक्रियार्थमित्युक्तिः । ११ श्रौता-
तिरिक्तेषु गार्ह्येष्वपि मन्त्रसाध्येषु कर्म्मसु स्वाहाकारस्यैव
कर्त्तव्यत्वं न वषट्कारस्येत्युक्तिः । १२ अविहितविशेषाणां
होमाभ्याधानोपस्थानानां, तत्तदितिकर्त्तव्यताप्रकारस्य च
विधानम् । १३ एकमन्त्राणि कर्म्माणीति न्यायेन व्याहृ-
तिमिरिति बहुवचननिर्देशात् चतुर्णां कर्म्मणां क्रमेणैव
करणम् । १४ प्रयोगमध्ये मार्गान्तरेण निष्क्रान्तस्यापि
नियमा भवन्त्येवेत्यस्य व्यतिरेकमुखेण व्यवस्थापनम् । १५
संस्थाजपः तस्य च सोमेष्टिषुनिषेधः । १६ होतुरेव केवल-
मेतावत्त्वम् अग्नीध्रस्यान्यदपीत्युक्तिः । १६ सू० १ अ० ११ क० ।
१ ब्रह्माधिकारे विधयः । २ व्याख्यातानां होत्राचमन-
यज्ञोपवीतशौचानां ब्रह्माधिकारेऽतिदेशनम् । ३ तत्र कर्म्मसु
कश्चिद्गच्छति कश्चित्तिष्ठति तत्र भूयसामेव धर्म्मस्याचरणं
ब्रह्मणः इति व्यवस्थापनम् । ४ बहिर्वेदि ऋत्विजामभिमुखा-
यादिशः प्राचीत्वोक्तिः । ५ एकस्मिन्नपि प्रयोगे क्वचिदासनस्य
क्वचित् स्थानस्य च लाभोक्तिः । ६ तिष्ठतां होमेषु
अवषट्कारेषु च स्थानासनयोर्विकल्पः । ७ अनन्तरसूत्रद्वयविष-
यादन्यत्रासनकथनम् । ८ समस्तपाण्यङ्गुष्ठस्याग्रेणाहवनीयं
परीत्य तस्य दक्षिणतः कुशेषूपवेशनम् । ९ उक्तोपवेशना-
नन्तरं मन्त्रभेदजपः । उक्तजपस्य ब्रह्मजपत्वम् । ११ अध्व-
र्युकर्तृकम् उपविष्टातिसर्जनम् । १२ ॐ प्रणयेत्येता-
दृशातिसर्जनरूपानुज्ञाप्रकारः । १३ कर्म्मानुरूपाणाम्
आदेशानां कर्त्तव्यतोक्तिः । १४ उत्तरविवक्षार्थम् उच्चैः
प्रणवादिकथनम् । १५ प्रणवादूर्द्ध्वं वा उच्चैर्भावोक्तिः ।
१६ प्रणीताप्रणयनकालादूर्द्ध्वं हविष्कृन्मन्त्रोच्चारणपर्यन्तं
वाग्यमनपूर्ब्ब कमासनम् । १७ पशुयागे चात्वालमार्जन-
पर्य्यन्तं वाक्यसंयमः । १८ सर्व्वसोमेषु धर्म्माभिप्रैषा-
रम्भपूर्ब्बकं सुब्रह्मण्यापर्य्यन्त वाङ्नियमः । १९ प्रात-
रनुवाककालात् परम् अन्तर्यामग्रहयागपर्य्यन्तं वाग्य-
मनोक्तिः । २० सवनत्रयेऽपि पुरोडाशप्रचारादि, तदिडा-
पर्य्यन्तं वाग्यमनोक्तिश्च । २१ स्तोत्रादौ स्तुध्वमित्यादि-
शस्त्रयाज्यावषट्कारपर्य्यन्तं वाग्यमनोक्तिः । २२
पवमानस्तोत्रेषु उपाकरणादि समाप्तिपर्य्यन्तं वाग्यमनोक्तिः
२३ सर्व्वत्र मन्त्रवति कर्म्मणि वाग्यमनोक्तिः ।
२४ उक्तादन्यत्रापि विषये होतृतुल्यवाग्यमनभावः ।
२५ वाग्यमनभ्रेषे प्रायश्चित्तविधानम् । २६ अग्नीषो-
मीयप्रणयनावधिवाग्यमनम् । २७ दक्षिणतो ब्रजत
एवाशुःशिशान इति सूक्तजपः । २८ गमनापरिसमाप्तावपि
उपवेशनादिकरणं, ब्रह्मजपविधानञ्च । २९ सोमयागे
अग्निप्रणयनान्ते ब्रह्मजपनिषेधः । ३० विसृष्टवाक्यस्यापि
यज्ञमनस्त्वोक्तिः । ३१ विपर्य्यासान्तरितयोः प्रायश्चित्त-
विशेषोक्तिः । ३२ वेदभेदेन भ्रेषेऽग्निभेदे प्रायश्चित्तभेदः ।
३३ सर्व्वेभ्यी वेदेभ्यो यूगपद्भ्रेषापाते समस्ताभि-
रृग्मिरेकाहुतिरूपप्रायश्चित्तम् । ३४ स्रुगादापनात्
प्रागङ्गारस्य बहिःपरिधि पाते कर्म्मभेदः । ३५ तत्र
दिग्भेदेन निर्गतौ होमभेदः कर्म्मणि स्वाहाकारान्तत्व-
भावः । ३६ अध्वर्ष्वनुप्रहरणोक्तिः ३७ । सहस्रशृङ्ग
इत्यादिना प्रकृताङ्गारहोमोक्तिः । ३७ सू० १ अ०
१२ क० । १ प्राशित्रहरणनिधानपूर्ब्बकं तत्प्राशनम् ।
२ इड़ाभक्षणमार्जनपूर्ब्बकं चतुर्धाकरणे कृते प्राशित्र-
हरणे ब्रह्मण आनीतब्रह्मभागस्य निधानम् । ३ प्राशित्र
हरणदेशस्य पश्चात् कुशेषु यजमानभागनिधानम् ।
४ प्रजापतेरित्यादि मन्त्रेणान्वाहार्य्यावेक्षणम् । ५ अन्ये-
नाङ्गेनान्वाहार्य्यावघ्राणविधानं ब्रह्मभागे शिष्टभागविधा-
नञ्च । ३ प्रस्थास्याम इति अध्वर्रुमन्त्रपाठानन्तरं प्रति-
ष्ठेत्येवानुज्ञोक्तिः । ७ समिदनुज्ञानं, जघन्यीभवतः
सर्वप्रायश्चित्तहोमः, आग्नीध्रस्य ब्रह्मान्वारम्भणं च ।
८ इतरेषां होत्रारम्भणविधिः । ९ उक्तयोरेतयोर्होम
एव कार्य्ये अन्वारम्भस्य परस्परभावः । १० सर्वेषां
होमकर्तॄणामन्वारम्भकर्तॄणां च संस्थाजपेन उपासनविधा-
नम् । १० सू० १ अध्याये १३ क० ।
१ पौर्ण्णमासेनेष्टिपशुसोमानामुपदिष्टत्वम् । २
उपदिष्टैरिष्टिपशुसोमैरमावास्यायां पौर्ण्णवास्यां वा यागस्य
कर्त्तव्यत्वोक्तिः । ३ क्षत्रियवैश्ययोः पर्व्वणोरेवाग्नि-
होत्रहोमकर्त्तव्यताविधानम् । ४ राजन्यवैश्ययोः
पर्व्वेतरेषु कालेषु तपस्विब्राह्मणायौदनदानम् । ५
ऋतसत्यस्वभावस्य सोमयाजिनश्च क्षत्रियस्य वैश्यस्य वा सदा
होमविधानं न केवलं पर्व्वणोरित्युक्तिः । ६ बहूनां
समानानां पश्चाद्विधाने सति क्रमेण सम्बन्धोक्तिः ।
७ एकस्या एकस्या देवताया द्वे द्वे ऋचौ याज्यानु-
वाक्ये । ८ देवताविशेषस्य तल्लिङ्गयाज्यानुवाक्यानादेशे
नित्ययोस्तयोर्ग्रहीतव्यत्वोक्तिः । ९ कर्म्मानुष्ठानभूता-
नामग्न्याधेयप्रभृतीनां मध्ये गार्हपत्याद्यग्न्युत्पत्त्यर्थमङ्गार-
पृष्ठ ०८५०
निधानरूपाग्न्याधानम् । १० कृत्तिकादीनां सप्तानां
नक्षत्राणामन्यतमेऽग्न्याधानविधानम् । ११ उक्तानां
सप्तानां कस्मिंश्चित् नक्षत्रे पर्व्वणि वाऽग्न्याधानस्य
कर्त्तव्यत्वम् । १२ वसन्ते ब्राह्मणगुणकाधानविधिः ।
१३ ग्रीष्मे क्षत्रियगुणकं वर्षासु वैश्यगुणकं शरदि
उपक्रुष्टगुणकं चेति आधानत्रयविधानम् । १४ आपदि
आधानपक्षे कालनियमाभावः । १५ कृतसोमयाग-
सङ्कल्पस्य आधानमिच्छत आधानकालानवेक्षणम् ।
१६ आधानार्थमध्वर्युयजमानयोःशमीगर्भादश्वत्थादरण्या-
हरणविधिः । १७ अग्न्याधेयस्य पूर्णाहुत्यन्तस्य कर्त्त-
व्यत्वम् । १८ इष्टीनामग्निसाधनत्वोक्तिः । १९ प्रथ-
मायामिष्टौ केवलाग्निपवमानाग्निनामके द्वे देवते । २०
पवमानगुणकस्य द्वितीयस्याग्नेर्याज्यानुवाक्योक्तिः । २१
स्विष्टकृत्सम्बन्धिन्योर्याज्यानुवाक्ययोरृचोः संयाज्यात्वसं-
ज्ञा । २२ सर्वत्र देवतागमे प्राकृतीनां सर्वासां देवताना-
मुद्धारोक्तिः । २३ आज्यभागौ स्विष्टकृतं चान्तरा
यष्टव्यानां देवतानामुद्धर्त्तव्यत्वं विकृतौ पुनर्विहितानां
तद्धर्मिकत्वञ्चेति । २४ देवताभ्योऽन्यत्रापि अतिदिष्टस्य
विधेरेककार्य्यत्वोक्तिः । २५ द्वितीयायामिष्टौ पावकाग्नि-
शुच्यग्निनामिके द्वे देवते । २६ साह्वानित्यादेरृग्-
द्वयस्य संयाज्यात्वकथनं, तृतीयायामिष्टौ अधिकसामि-
धेनीद्वयोक्तिः । २७ अग्नीषोमाविन्द्राग्नी विष्णु-
रित्यस्य वैकल्पिकत्वम् । २८ अदितिनामिका इष्टिः ।
२९ अदितीष्टेर्याज्योक्तिः । ३० प्रेद्धो अग्न इमो
अग्न इत्यनयोः संयाज्यात्वोक्तिः विराजौ धाय्ये
इत्युक्तिश्च । ३१ आद्योत्तमे इष्टी । ३२ आद्या वा इष्टिः ।
३३ आद्यायां धाय्याविराजौ । ३४ वैराजतन्त्राया
इष्टेर्ज्ञापनम् । ३५ आधानेनेष्टिभिश्च सिद्धा अग्नयो
द्वादशाहोरात्रं सर्वे स्वरूपेणैव धार्यन्ते इत्येतदजस्रधार-
णोक्तिः । ३६ गतश्रियामग्नयो यावज्जीवमजस्रा भवन्ति न
द्वादशाहमेवेत्युक्तिः । ३६ सू० २ अ० १ क० । १ गार्हपत्यात्
ज्यलदाहवनीयोद्धरणम् । २ देवं त्वेति मन्त्रेणाग्निहोत्रार्थ-
मुद्धरणम् । ३ आहवनीयं प्रति मन्त्रपूर्ब्बकाग्निप्रणयनमन्त्रः ।
४ आहवनीयायतनेऽग्निनिधानमन्त्रः । ५ सायं प्रातरूषःकालेषु
निधानान्तकर्म्मकरणम् । ६ रात्र्यां यदेन इति मन्त्रेणा-
ग्निप्रणयनम् । ७ आहिताग्नेर्व्रतचारित्वोक्तिः । ८
अनुदितहोमिन ओदयाद्व्रतचारित्वोक्तिः । ९ अस्तमन-
समये होमविधानम् । १० आचमनस्य नित्यत्वम् ।
११ अग्निपर्य्युक्षणमन्त्रोदकादानविधिः पर्य्युक्षणे अग्नी-
नामुत्पत्तिक्रमस्य होमक्रमस्य वा विधानम् । १३ दक्षि-
णाग्निगार्हपत्याहवनीयपर्य्युक्षणे क्रमोक्तिः । १४ गार्हपत्या-
दविच्छिन्नोदकधाराहरणम् । १५ अधिश्रयणार्थं गार्हपत्यात्
कतिपयाङ्गारपृथक्करणविधिः । १६ होमसाधनभूताग्निहो-
त्राधिश्रयणम् । १७ अधिश्रयणे मन्त्रविकल्पः । १८ दध्यधिश्र-
यणानधिश्रयणविकल्पः १८ सू० २ अ० २ क० । १ अकाम-
कर्तृकस्य नित्याग्निहोत्रहोमस्य पयसा कार्य्यता । २ ग्रामा-
न्नाद्येन्द्रियतेजस्कामानां यवाग्वोदनदधिसर्पींषि यथासङ्ख्य-
मग्निहोत्रद्रव्याणि भवन्तीत्युक्तिः । ३ कालविक्षेपं विना
अधिश्रितमात्र एवावज्वलनविधानम् । ४ अपक्वद्रव्यदध्या-
दीनामधिश्रितानामप्यवज्वलनविधिः । ५ पयसा होमे
समन्त्रक दोहनपात्रप्रक्षालनपूर्वं स्रुवेण प्रतिषेकविकल्पः । ६
एकस्मिन् पुरुषे प्रतिषेकाप्रतिषेकयोरसङ्करत्वोक्तिः । ७
अवज्वलनार्थं मन्त्रपूर्वकं गार्हपत्यात् गृहीतेनोल्सुकेन पुनः
परिहरणविधानम् । ८ पच्यमानपयोऽवतारणमन्त्रः ।
९ गार्हपत्येऽङ्गाराणां प्रक्षेपमन्त्रः । १० आहिताग्नेर-
तिसर्ज्जनमन्त्रः । ११ आहिताग्नेः पत्न्याश्च
इतिकर्त्तव्यताकलापः । १२ अतिसृष्टस्योन्नयनविधिः ।
१३ पुत्राणां तारतम्यमिच्छतः सपुत्रस्य यजमानस्य
काम्यकल्पः । १४ एकपुत्रस्यापि काम्यकल्पः । १५
समिद्धरणानन्तरं समन्त्रकं तदाधानविधानम् । १६ समिदा-
धानानन्तरम् आचमनपूर्वकं तदवधिहोमविधानम् । १७ पूर्वा-
हुत्यनन्तरं कुशेषु स्रुक्सादनतूर्वकं गार्हपत्यावेक्षणम् ।
१८ पूर्व्वाहुतेः प्रागुदक् उत्तरतो वा उत्तराहुत्यर्थं
द्रव्योत्पादनविधानम् । १९ होमेषु सर्व्वत्र प्रजापतिध्यान-
विधानम् । २० भूयिष्ठद्रव्यपूर्ण्णस्रुक्कम्पनानन्तरं तद्ग-
तलेपवमर्जनं पाणितलगतलेपमार्जनञ्च । २१ लेपनिमा-
र्जनकुशमूलानां दक्षिणत उत्तानाङ्गुलिनिधानम् । २२
कुशमूलानां दक्षिणतो जलावनिनयनविधानम् । २३ स्रुङ्-
निधानानन्तरं जलोपस्पर्शनम् । २४ आहिताग्निकर्तृकानु-
मन्त्रणविधानम् । २५ समन्त्रकमाधीयमानसमिदनुमन्त्रणम् ।
२६ ता अस्येत्यृचा पूर्वाहुत्यनुमन्त्रणम् । २७ समीपस्थेन
सकटाक्षमीक्षित्याहुत्यनुमन्त्रणम् । २८ याभिः काभिश्च
त्र्यवराभिराग्नेयीभिरृग्भिरुत्तराहुत्यनुमन्त्रणम् । २९ पूर्व-
सूत्रोक्तस्य ऋचां त्रयस्य निरूपणम् २९ सू० २ अ० ३ क० ।
१ पूर्णेपूर्णे संवत्सरेऽधिकाभिरृग्भिः सकृदनुमन्त्रणम् ।
२ पर्वविहितयवाग्वादिना सायम्प्रातर्होमेषु यजमानस्य स्वयं
पृष्ठ ०८५१
कर्तृत्वम् । ३ पूर्णसंवसत्सरेतरकाले येन केनापि
ऋत्विजाग्निहोत्रहोमः । ४ पुत्रशिष्ययोरन्यतरेणान्ते-
वासिना होमस्तद्गतविशेषश्च । ५ होमकर्त्तुः स्रुग्ग-
तशेषभक्षणप्रकारः । ६ अपरर्त्विजोहोमपूर्वकं स्रुग्गतशेष-
भक्षणम् । ७ प्रथमोत्तरभक्षणद्वये मन्त्रभेदौ । ८
समिदाधानपूर्वको गार्हपत्ये होमविधिः । ९ उत्तराहुते-
र्नित्यत्वोक्तिः । १० समिदाधानपूर्वकं दक्षिणाग्निहो-
मप्रकारः । ११ उत्तराहुतेः पूर्ववत् नित्यत्योक्तिः ।
१२ उक्तशेषभक्षणानन्तरं स्रुचाऽपां निनयनम् । १३ स्रुक्-
प्रक्षालनानन्तरं प्रागुदीच्योः चतुर्णां पूर्णानां स्रुचां
निनयनीयत्वम् । १४ कुशदेशे पञ्चमी स्रुक् गार्हपत्यस्य
पश्चात् षष्ठीत्युक्तिः । १५ आहवनीये प्रतापितायाः स्रुचो-
ऽन्तर्वेदिदेशे निधानम् । १६ परिचारकरूपाय परिक-
र्म्मिणे वा तादृश्याः स्रुचोदानम् । १७ उदङ्मुखेन
समित्त्रयस्याधानं पर्य्युक्षणादिकरणञ्च । १८ तिसृणां समिधां
प्रथमायाः समन्त्रकाधानम् । १९ आवहनीयगार्हपत्यदक्षि-
णाग्निषु दीदिहि दीदाय दीदिदायेति मन्त्राणां क्रमेण
स्वाहान्तानां पाठ्यत्वम् । २० उक्तकार्ये पूर्ववत् पर्य्युक्षण-
विधानम् । २१ पर्य्युक्षणद्वयधर्म्मस्य परिसमूहनद्वयेऽतिदेशः ।
२२ पर्य्युक्षणाभ्यां परिसमूहनयोः पूर्ब्बभावोक्तिः । २३ सायं-
प्रातरुभयत्राग्निहोत्रहोमयोरेकाकारत्वम् । २४ सूर्य्योदयस-
मीपकालशेषकालादित्योदयकालानां प्रातर्होमस्य प्रधानका-
लत्वम् । २५ प्रातर्होमे विशेषोक्तिः २ अ० ४ क० । १ प्रवत्स्यत
आहिताग्नेरग्निप्रज्वालनाचमनाभिक्रमानन्तरं तदुपस्था-
नम् । २ दक्षिणाग्न्यु पासनानन्तरं समन्त्रकं गार्हपत्याहव-
नीयेक्षणविधानम् । ३ आहवनीयदक्षिणाग्न्युपासनपूर्वकं
गार्हपत्याहवनीयेक्षणं कृत्वाहवनीयसमीपं गत्वा
तदुपस्थानम् । ४ पृष्ठतोऽग्नीननवेक्षमाणस्याहिताग्नेर्यथेष्ट-
गमनम् । ५ अग्निसमीपं गत्वा वाग्विसर्गविधानम्, इतः
प्राक् वाग्यमविधानञ्च । ६ अभिलषितदेशगामिनं
पन्थानं प्राप्य सदा सुगः पितुरिति मन्त्रपाठः ।
७ यदि दैवात् मानुषाद्वा निमित्तात् अनुपस्थिताग्नेः
प्रोषितस्य इहैवेति मन्त्रपूर्व्वकं प्रतिदिशमग्न्युपस्था-
लम् । ८ प्रोष्य स्वग्रामसमीपं प्राप्य अपि पन्थामिति
मन्त्रपाठः । ९ समित्प्राणेर्वाग्यतस्याहिताग्निज्वलनज्ञाना-
भिक्रमपूर्वकम् आहवनीयेक्षणम् । १० नानाग्निषु समिध
उपनिधायाहवनीयोपस्थानम् । ११ उपनिहितानां
समिधामभ्याधानम् । १२ दक्षिणाग्निसमीपे स्थितस्याहिता-
ग्नेः गार्हपत्याहवनीयेक्षणविधानम् । १३ वाग्विसर्गस्य
प्रकारभेदः । १४ दशरात्रादूर्द्ध्वं प्रोष्य चतुर्गृ-
हीतेनाज्येन प्रायश्चित्तहोमः । १५ एकानेकाग्निहोत्रवि-
च्छेदे पूर्वोक्तयाहुत्या होमविधानम् । १६ उक्ताहुति-
होमानन्तरं प्रतिहोमविधानम् । १७ अनाहिताग्नेरपि
ईक्षणप्रपदनयोः कर्त्तव्यत्वविधानं न केवलमाहिताग्नेस्त-
दित्युक्तिः । १८ प्रवासादागतस्य तदहनि विदितस्याप्यलीकस्य
न निवेदनीयत्वम् । १९ प्रवासादागतस्याहरहरग्निहोत्र-
होमोपस्थानं तत्स्थानं तत्प्रयोगक्रमश्च २ अ० ५ क० ।
१ अमावास्यायामपराह्णे पिण्डपितृयज्ञविधानम् ।
२ दक्षिणाग्नेरेकोल्मुकं गृहीत्वा तस्मादेव प्राग्दक्षि-
णायां दिशि मन्त्रपूर्वकं तत्प्रणयनम् । ३ अविशिष्ट-
दिक्कानां सर्व्वेषां कर्म्मणां प्राग्दक्षिणां दिशमभि-
कर्त्तव्यत्वम् । ४ उभयोरपि अग्न्योरुपसमाधानपरिस्तर-
णपूर्व्वकं दक्षिणाग्नेः प्रागुदक् प्रत्यगुदग् वा एकैकशः
चरुस्थालीप्रभृतीनां यज्ञपात्राणां सादनम् । ५ अग्निसमी-
पस्थितं शकटं दक्षिणत आरुह्य शूर्पोपरि व्रीहिपूर्ण-
स्थालीनिमार्जनरूपतदास्यदेशाद्व्रीहिपातनम् । ६ स्थाल्या-
स्यदेशात् शूर्पोपरि पातितानां व्रीहीणां शकटे निधा-
नम् । ७ कृष्णाजिननिहिते उलूखले स्थाल्यन्तर्गताव-
शिष्टान् व्रीहीन् कृत्वा यजमानपत्नीकर्तृकस्तदवघातः ।
८ अवहतानां व्रीहीणां दक्षिणाग्नो श्रपणम् । ९ दक्षि-
णाग्न्यतिप्रणीतयोरन्तराले रेखोल्लेखनम् । १० सकृदाच्छि-
न्नावस्तीर्ण्णाभ्युक्षितरेखायां ध्रुवास्थितमाज्यं दक्षिणतो
दक्षिणाग्नेर्निधाय तेनाज्येन अभिघारितस्य स्थाली-
पाकस्य दक्षिणाग्नेः पश्चादासादनम् । ११ आञ्जना-
दीनां दक्षिणाग्नेर्दक्षिणतो निधानम् । १२ प्राचीना-
वीतिनो यजमानस्य उपसमाहितैरिघ्मैर्म्मेक्षणेन गृही-
तैरवदानसम्पदा होमः । १३ स्वधानमःशब्दस्य स्थाने
स्वाहाकारं कृत्वा होमः । १४ अग्नौ मेक्षणानुप्र-
हरणपूर्वकं पिण्डस्थानेषु लेखायां त्रिभिर्मन्त्रैस्त्रि-
र्निनयनम् । १५ रेखायां पिण्डनिपरणम् (दानम्) ।
१६ गाणगारिमते पित्रादीनां त्रयाणां ये मृताः स्युस्तेषां
पिण्डदानं जीवतां प्रत्यक्षार्चनम् । १७ तौल्वलि-
मते पित्रादिभ्यस्त्रिभ्यः प्रेतेभ्यो जीवद्भ्यश्च सर्वेभ्यो
निपरणम् । १८ गौतममते त्रयाणामेकस्मिन् द्वयोः सर्वेषु
वा जीवत्सु यावदर्थं परान् पितॄन् गृहीत्वा त्रिभ्यः
प्रेतेभ्यः पिण्डनिपरणम् । १९ पित्रादोनां जीवितानां
पृष्ठ ०८५२
मृतानाञ्च पिण्डदाने उपायविशेषकथनप्रतिज्ञा । २०
क्रमेण गौतमगाणगारितौल्वलीनां मतदूषणाति । २१
जीवव्यवहितेभ्यः पितृभ्यो न निपरणम् । २२ जीवेभ्यो
होमः मृतेभ्यो निपरणम् । २३ सर्व्वजीविनः सर्व-
हुतविधाने तत्र पिण्डहोमस्य निपरणमन्त्रेण स्वाहा-
कारेण कर्त्तव्यत्वम्, अन्येषामपि प्रयोजनानां चिन्त्य-
नीयत्वञ्च । २४ पित्रादीनां नामाज्ञाने तत्पितामह-
प्रपितामहशब्दानां नामस्थाने प्रयोगः । २ अ० ६ क० ।
१ निपूर्त्तानां पिण्डानामनुमन्त्रणम् । २ उक्तानुमन्त्रणप्रयोगे
नियमोक्तिः । ३ तूष्णीमेव चरोः प्राणभक्षणस्य कार्यत्वम् ।
४ उदकोपनयननिनयनस्य नित्य कर्तव्यत्वम् । ५ पिण्डेषु अभ्य-
ञ्जनाञ्जनदानम् । ६ पिण्डेषु वासोदानं तत्र विशेषोक्तिः ।
७ यजमानस्य पित्रुपासनं तत्र मन्त्रश्च । ८ तिसृभि-
रृग्भिः पित्रुपस्थानम् । ९ पिण्डस्थानां पितॄणां
प्रवाहणम् । १० यजमानस्य दक्षिणाग्निं प्रति गतिः ।
११ दक्षिणाग्निप्रतिगत्यनन्तरं यजमानस्य गार्हपत्याग्निं
प्रति गतिः । १२ यजमानकर्तृकं पिण्डानां मध्यमादानम् ।
१३ पत्नीकर्घृकं तादृशगृहीतमध्यमपिण्डप्राशनम् ।
१४ अवशिष्टपिण्डद्वयस्याप्सु प्रक्षेपः । १५ अतिप्रणीते
वाऽग्नो प्रक्षिप्य तादृशपिण्डद्वयदाहः । १६ यस्या-
न्नेच्छाभावोनिर्निमित्तः ताद्वशेन पिण्डस्य प्राशनम् ।
१७ क्षयकुष्ठादिमहारोगवतः तादृशपिण्डाशने सद्य
एवारोगित्वमरणयोरन्यतरगतिलाभोक्तिः । १८ अनाहिता-
ग्नेरप्येवं पिण्डपितृयज्ञकरणम् । १९ चरुश्रपणानन्तरं
तदतिप्रणयनं ततस्तदुपसमाधानतत्परिस्तरणे कृत्वा
होमकरणम् । २० द्विशः चरुपूर्णपात्राणामुत्सर्गः ।
२१ एकस्यातिरिक्तस्य तृणेन द्वित्वं सम्पाद्य तदुत्सर्ग-
करणविधानम् । २ अ० ७ मक० । १ दर्शपूर्णमासा-
वारप्स्यमानस्यान्वारम्भणीयेष्टिकरणम् । २ अग्नेर्भगीति-
गुणोक्तिः । ३ इष्टेर्याज्यानुवाक्योक्तिः । ४
आधानानन्तरं तत्संवत्सरे रोगार्थहानिरूपनिमित्तसद्भावे
पुनराधेयस्य, पुनराधेये च वक्ष्यमाणाया इष्टेः कर्त्तव्य-
त्वम् । ५ उक्तायामिष्टौ विभक्तिभिः सहिताभ्यां प्रयाजानु-
याजाभ्यां यजनम् । ६ नराशंसिनां नराशंसः ।
७ आग्नेययोराज्यभागयोरुक्तिः । ८ आज्यभागयोर्गुण-
द्वयोक्तिः । ९ निगमेषु सगुणयोरेवानुवृत्त्युक्तिः ।
१० याज्यायां देवतादेशरूपाया इज्यायाः कथनम् ।
११ अनुब्राह्मणिनामाचार्याणां मते पूर्व्वस्य केवल-
स्याग्नेः, अग्निर्वृत्राणीत्यनुवाक्यायाश्च नित्यत्वम् । १२ उक्त-
मते उत्तरस्यापि केवलस्याग्नेरुक्तानुवाक्याया नित्यत्व-
विधानम् । १३ उत्तरे याज्यामन्त्रे हविःशब्दस्य नित्य-
त्वोक्तिः । १४ संयाज्यामन्त्रभेदः । २ अ० ८ क० ।
१ व्रीहिश्यामाकयवैः संवत्सरे प्रथमनिष्पन्नैः आग्रयण-
कर्मकरणम् । २ आग्रयणेनानिष्ट्वा नवनिष्पन्नस्य भोजन-
निषेधः । ३ वर्षतृप्तस्य लोकस्य आग्रयणेन यागविधानं
व्रीह्याग्रयणे शरत्कालस्य प्राधान्यम् । ४ आग्रय-
णाख्या इष्टिः प्रथमः कल्पः, तदसम्भवेऽग्निहोत्रीयां
धेनुं व्रीहिश्यामाकयवानामन्यतममाशयित्वा तत्प-
यसा सायंप्रातरग्निहोत्रहोम इति द्वितीय इति
कल्पद्वयम् । ५ यवैराग्रयणस्य क्रियाऽक्रिया वा इति
विकल्पः । ६ अविशेषेण वर्णत्रयाणां कल्पद्वये प्राप्रे
राज्ञ इष्टिरेव नान्य इति विशेषोक्तिः । ७ एकेषां मते
सर्वेषां इष्टिरेवेति व्यवस्थापनम् । ८ वर्षायां श्यामा-
काग्रयणेष्टौ सोमदैवत्यचरुव्यवस्थापनम् । ९ अवान्तरे-
डाजपानन्तरम् सव्ये पाणौ कृत्वा तदभिमर्शनम् ।
१० इडाप्राशनानन्तरम् आचमनपूर्वको नाभ्यालम्भः ।
११ उक्तेन विधिना सर्बभक्षेषु सर्व्वेषां भक्षिणां सर्वभक्षणम् ।
१२ व्रीहीणां यवानां चाग्रयणेष्टौकालादि तत्र यवाग्रयणस्य
वसन्तकालविधानम् ध्याय्याविराजग्रहणञ्च । १३ श्यामाका-
ग्रयणस्य समानतन्त्रेण करणेसोमस्य तृतीयत्वव्यवस्थापनम् ।
१४ तत्र इन्द्राग्न्योः सोमस्य च याज्यानुवाक्याः । २ अ०
९ क० । १ चातुर्मास्येभ्यः पूर्वं काम्या इष्टयः । २ आयुष्का-
मेष्ट्यां जीवातुमत्यौ द्वे देवते अग्निरिन्द्रश्च । ३ उक्तयो-
र्देवतयोरग्नेरायुष्मन्त्वं गुणः, इन्द्रस्य च त्रातृत्वं गुणः ।
४ आयुष्कामेष्ट्याम् अग्नीन्द्रयोर्देवतयोः संयाज्ये । ५
स्वस्त्ययनीयेष्ट्यां रक्षितवन्तौ देवौ अग्निः सीमश्च । ६ उक्त-
योरग्नीषोमयोः संयाज्ये । ८ पुत्रकामेष्टौ अग्निः पुत्री
देवता । ९ उक्तायामिष्टौ द्वे संयाज्यो । १० वक्ष्यमाश्च-
योरिष्ट्योरग्निदेवतात्वम् । ११ मूर्द्ध्वन्वतोऽग्नेर्नित्ये संयाज्ये ।
१२ कामगुणकस्याग्नेर्याज्यानुवाक्ये । १३ उत्तरयो-
रिष्ट्योर्वेमृध्यत्वं, तयोर्याज्यानुवाक्यायुगलयोर्वक्ष्यमाण-
योरिन्द्रदेवतात्वं, तस्य चेन्द्रस्य विमृस्यद्गुणकत्वं वैमृध्य-
र्थगुणकत्वं वा, अतस्तयोर्वैमृध्यसंज्ञाभाक्त्वञ्च । १४ पुष्टि-
कामस्य याज्यानुवाक्ये । १५ इन्द्रो दाता स
पुनर्दाता वा देवता भवति । १६ उभयथापि इन्द्रस्य
याज्यातुवाक्ये । १७ आशानामाशापालानां वा देवता-
पृष्ठ ०८५३
त्वम् । १८ आशाशापालानां याज्यानुवाक्यासाम्यम् ।
१९ इष्टिविशेषस्य लोकेष्टिसंज्ञोक्तिः । २० पृथिव्यादीनां
पृथग्देवतात्वकथनम् । २१ त्रयाणां हविषां याज्यानुवाक्यारू-
पास्तिस्रऋचः । २२ त्रयाणां हविषां तिसृणाम् ऋचां विनि-
वेशनम् २ अ० १० मक० । १ मित्रलब्धिहेतुभूता महावैराजी
नामेष्टिः । २ महावैराज्यामग्न्यादीनां दशानां देवतात्वम्
एकप्रदानत्वञ्च । ३ उक्तानां दशानां देवतानामनु-
वाक्योक्तिः । ४ प्रतिलोममादिष्टानामुक्तानां दशानां
यजनम् । ५ अष्टौ वैराजतन्त्रा इष्टयः । ६ तासां
प्रथमाः षडिष्टय एकहविषः । ७ स्नुषाश्वशुरीया नाम
आभिचारिकी इष्टिः । ८ स्नुषाश्वशुरोयेष्टौ याज्या-
वाक्यालिङ्गात् देवतायाः कल्पनीयत्वं, सा चेन्द्रः इन्द्रः
सूरगुणो वेति । ९ पूर्वोक्ताया देवतायाः संयाज्ये ।
१० स्वामिभृत्ययोः सम्मतिकामानां संज्ञानी नाम इष्टिः ।
१ संज्ञान्यां चतसृणां गुणानां देवतानाम् एकप्रदान-
त्वम् । १२ अग्निसोमेन्द्रादित्यानां सगुणानां देवतानां
प्रतिपादनम् । १३ भेदकामानाम् ऐन्द्रामारुती इष्टिः ।
१४ इन्द्रस्य नित्ये याज्यानुवाक्ये । १५ इन्द्रमरुतो-
र्विकल्पविधानम् । १६ मारुताद्यागादूर्द्धम् ऐन्द्रो यागः ।
१७ राजविशीरसम्पत्तिकामानाम् आहिताग्नीनां च प्रकृ-
त्यैव संज्ञानी नामेष्टिः । १८ शत्रुभिः प्रधृष्यमाणानाम्
एन्द्रावार्हस्पत्या नाम इष्टिः । १९ अध्वर्यवश्चेत् ऐन्द्रा-
वार्हस्पत्यं निरुप्य इन्द्राय नोदयेयुः यद्वा वार्हस्पत्यं
निरुप्य इन्द्राय नोदयेयुः तदा उभयोरपि पक्षयोः
याज्यानुवाक्यासाम्यम् १९ सू० । २ अ० ११ क० ।
१ संवत्सरमतिप्रवसतः शुद्धिकामस्य पवित्रेष्टिविधानम् ।
२ पवित्रेष्टौ पावकवत्यौ धाय्ये । ३ पवित्रेष्टौ न याज्ये ।
४ पवित्रेष्टौसंयाज्ये । २ अ० १२ क० वर्षकामाणां कारीरी
नामेष्टिः । २ कारीर्यां धाय्याद्वयम् । ३ वर्षकामेष्टिमात्रे-
ऽप्सुमन्तौ गायत्रौ देवौ । ४ वर्षकामेष्टिमात्रेऽग्नेः
सोमस्य च मन्त्रभेदः । ५ उक्तेष्टिसात्रे धामच्छद्गुणको-
ऽग्निः । ६ उत्तरास्तिस्रो मरुद्देवत्याइष्टयः पिण्डी-
संज्ञकाः । ७ घामच्छद्गुणकस्याग्नेर्याज्यानुवाक्याद्वयस्य व्यव-
स्थया योजनीयत्वम् । ८ पिण्डीयागस्य करणम्
९ संस्थितायामिष्टौ सर्वासां दिशाम् उपासनम् २ अ०
१३ क० । १ इष्ट्ययनसंज्ञकानि कर्म्माणि । २
एकानेकसंवत्सरसाध्यानि सांवत्सरिकाणि कर्माणि । ३ सांव-
त्सरिकाणां कर्म्मणां फाल्गुन्यां पौर्ण्णमास्यां चैत्र्यां वा
प्रयोग । ४ तुरायणं नाम इष्ट्ययनम् । ५ अहन्यहनि अग्नि-
देवत्या इन्द्रदेवत्या विश्वदेवदेवत्या चैतास्तिस्र इष्टयः त्रिषु
सवनेषु यथासङ्ख्यम् एकैकेष्टेः कार्य्यत्वञ्च । ६ त्रिहवि-
ष्काया एकस्या एवेष्टेरुक्ताभिर्देवताभिर्युक्तायाः प्रतिदिनम्
प्रातःसवन एव कर्त्तव्यत्वम् । ७ दाक्षायणयज्ञे पौर्ण्ण-
मास्यामावास्ययागद्वयम् । ८ आवृत्तयोः पूर्व्वे ये ते
नित्ये न विकृते । ९ उत्तरयोस्तु एष विकारो यत्
पौर्ण्णमास्यां द्वितीयं हविस्तस्य ऐन्द्रत्वम् । १०
अमावस्यायां द्वितीयस्य हविषो मेत्रावरुणत्वम् । ११ प्रतिपर्व्व-
कर्त्तव्यं प्राजापत्यम् इडादधो नामेष्ट्ययनम् । १२ द्यावा-
पृथिव्योरयनं नामेष्ट्ययनम् । १३ उक्तस्य इष्ट्ययनस्य
कालविधाम् । १४ एतच्छास्त्रानाम्नातास्विष्टिषुपौर्ण्णमासात्
तन्त्रान्यत्वविधानम् । १५ यजुर्वेदएव प्रकृतं तन्त्रं नान्य-
दपरमिति । १६ अग्निमन्थनसंयुक्तायामिष्टौ वैराजमेव
तन्त्रम् । १७ अग्निमन्थने सत्यपि धाय्ये एव केवले तन्त्रं
न तदन्यत् । १८ याज्यानुवाक्यास्वरूपोक्तिः ।
१९ अनुवाक्यालक्षणोक्तिः । २० असम्भवे विहितच्छन्द-
सोऽन्यस्य वा याज्यानुवाक्यानां कर्त्तव्यत्वम् । २१ सर्वथा-
ऽनुवाक्यापेक्षया याज्याया न ह्रसीयस्त्वम् । २२ उष्णि-
ग्वृहत्योर्न याज्यात्वम् । २३ क्षामनष्टहतदग्धवतीनां वर्ज-
नम् । २४ देवतासदसत्त्वे न लक्षणान्तरान्वेषणम् । २५
देवतापदेऽव्यक्ते लक्षणस्य गायत्र्यादेराश्रयणीयत्वम् । २६
देवतानामानधिगमे शाखान्तरादाहर्त्तव्यत्वोक्तिः । २७ सर्व्व-
थाऽनधिगमे याभ्यां काभ्याञ्चिदृग्भ्यां यागोऽनुवच-
नञ्च । २८ व्याहतिभिर्वा यागानुवचने । २९ द्वितीयया
विभक्त्या देवतामादिश्य प्रणवनं यजनञ्च । ३० नम्रसंज्ञा-
भ्याम् ऋग्भ्यां वा प्रणवनयजने । ३१ नम्रसंज्ञके ऋचौ ।
३२ देवतापदरहिते ऋचौ भवत इति । २ अ० १४ क० ।
१ अग्निदैवत्ये चातुर्भास्याख्येष्ट्ययनस्यारम्भार्थं पूर्वेद्यु-
र्वैश्वानरपार्जन्याया इष्टेः कर्त्तव्यत्वम् । २ अग्न्याधेयादीनां
उपांशुप्रधानत्वोक्तिः । ३ सोमोत्पन्ना इष्टयः । ४
प्रायश्चित्तप्रकरणोत्पन्ना इष्टयः । ५ अन्वायात्यानाम्
एककपालानाञ्च यागानां उपांशुप्रयोक्तव्यत्वम् । ६ सर्वत्र
वा वारुणवर्जम् उपांशुत्वम् । ७ चातुर्मास्येषु सावित्रयागस्य
उपांशुत्वम् । ८ वैश्वदेववरुणप्रघासमाहेन्द्रशुनासीरीयेष्ट्याम्
उपांशुत्वम् । ९ तन्त्रयुक्तानां पित्रोपसन्नामकानामिष्टीना-
मुपांशुत्वम् । १० उत्तमादनुयाजात् प्राक् पुनराधेयेष्टेः
स्वतन्त्रोपांशुत्वम् । ११ स्वतन्त्रोपांशुत्वविशिष्टानां सर्वसाम-
पृष्ठ ०८५४
धेनीष्टीनां सुमन्द्रतन्त्रत्वम् । १२ आगूःप्रणववषट्काराणां सर्वत्र
उच्चैर्भावोक्तिः । १३ आग्रयणेष्टौ आग्नेन्द्रस्य ऐन्द्राग्नस्य
वा प्रथमस्य हविष उच्चैर्भावकथनम् । १४ उच्चविहितस्य
पुरोऽनुवाक्याप्रणवस्य प्राणसन्ततत्वम् । १५ याज्याया आगूर्व-
षट्कारयोः प्राणसन्ततत्वम् । १६ उपांशोस्तन्त्रस्वराणाम् उच्च-
त्वम् । १७ उपांशुतन्त्राणां तानि उच्चानि मन्द्रस्वराणि
भवन्तीत्युक्तिः । २ अ० १५ क० । १ प्रातर्वैश्वदेव्यां प्रेषित-
स्याग्निमन्थनीयानुवचनाभिहिङ्कृतिकरणे । २ संप्रैषश्रवण-
पर्य्यन्तं पूर्वऋगवसाने आरामो नोत्तरादानम् । ३ मध्ये
ऋगवसाने यत्रारामविधिः तत्राप्यासम्प्रैषान्नोत्तरारम्भः ।
४ मथ्यमानोऽग्निश्चेन्न जायते तदाऽग्नेराजन्मनः पुनः
पुनः अन्ने हंसीति सूक्तावापनम् । ५ अग्निजन्मश्रवणा-
नन्तरम् उक्तसूक्तीयप्रणवेन शिष्टार्धर्चोपसन्तननम् ।
६ अनावापपक्षे जातश्रवणानन्तरं शिष्टेनार्द्धर्चेन उत्तराया
ऋच उपसन्तननम् । ७ यज्ञेनेत्यनया ऋचा समापनम् ।
८ सर्वत्र शस्त्रादिषु उत्तमाया ऋचः समापनीयत्वम् ।
९ बहिरग्न इति प्रयाजानन्तरं प्रयाजान्तरादीनामावपनम्
१० देवताष्टकोल्लेखः मरुतां स्वतवरुवेति गुणकथनञ्च ।
११ प्रकरणपठितानां निर्गुणानां मरुतां धाय्याद्वयकथ-
नम् । १२ अनुयाजानां देशकथनम् । १३ अनुयाजाद्यन्य-
तमे काले वाजिभ्यो यागः । ०१४ ऊर्द्ध्वजानुनाऽन-
वानयाज्याप्रयोगः । १५ यत्र क्कच विषये एकस्मिन्नेवा-
ध्वर्युसंप्रैषे तुल्यरूपयोरतुल्यरूपयोर्द्वयोर्वषट्कारयोः
समस्तयोर्द्विरनुमन्त्रणम् । १६ याज्याधर्मसु इतरेषु अनुवषट्-
कारादिषु आगुरः प्रतिषेधः । १७ इष्टशिष्टं वाजिनम्
इडामिव भक्षार्थं अञ्जलौ निधाय उपहवयाचनम् । १८ अध्व-
र्य्युब्रह्माग्नीध्राणां समीपे उपहवयाचनम् । १९ उक्तवाजि-
नस्य किञ्चिदादाय सूत्रोक्तमन्त्रेणावध्राणम् । २० होतुर्भक्ष-
णानन्तरम् अध्वर्य्युब्रह्माग्नीध्राणां क्रमेण वाजिनभक्षणम् ।
२१ यजमानादितरेषां सर्वेषां दीक्षितानां गृहपतेरन्येषाञ्च
प्रत्यक्षमेव तद्भक्षणम् । २२ वैश्वदेवीष्टिदिवसादपरिस्मन्
दिने पौर्णमासेनेष्ट्वा तदानीमेव वक्ष्यमाणानां चातुर्मास्यव्र-
तानां केशनिवर्त्तनमध्वादिवर्जनरूपाणाम् आचरणारम्भः ।
२ ३ केशनिवर्त्तनम् । २४ श्मश्रुवापनाधःशय्ये कार्य्ये
मधुमांसलवणस्त्र्यवलेखनानि वर्ज्यानि । २५ कालविशेषे प्रति-
षिद्धस्य प्रतिप्रसवार्थम् ऋतौ भार्य्योपगमनविधानम् ।
२६ उत्तरविवक्षार्थानुवादरूपं सर्वपर्वसु वापनम् ।
२७ आद्योत्तमयोर्वा पर्वणोर्वापनं न मध्यमयोरिति ।
२ अ० १६ क० । १ प्रकृतवैश्वदेवेष्टिकायां पौर्णमासीमारभ्य पञ्च-
म्यां पौर्ण मास्यां वरुणप्रधासैर्यागविधानम् । २ प्रणीयमान-
स्याग्नेः पश्चादुपविश्य प्रोषितस्याग्निप्रणयनीया प्रतिपत्तिः ।
३ आसीनस्य सप्रणवायाः प्रथमाया उपांश्वनुवचनम् ।
४ उपांशुस्वरस्थानां स्वरान्तरस्थानसङ्क्रमणे प्रणवेनावसाय
अनुच्छ्वस्य उत्तरस्या ऋच आरम्भः । ५ उक्तावसानानुच्छ्वा-
सपूर्ब्बकम् उत्तरारम्भस्य प्राणसन्ततभावित्वम् । ६ प्रणीय-
मानयोर्द्वयोरुत्तरमग्निमनुव्रजत उत्तरासामृचामनुवच-
नम् । ७ राजन्यवैश्वयोराद्ये ऋचौ । ८ उत्तरस्या
वेदेः पश्चादवस्थाय शेषसमापनम् । ९ सोमेषु उत्तर-
वेदेः पश्चादवस्थाय समापनम् । १० यस्मिन्नेवासने पूर्ब्बोक्त
मनुवचनमारब्धं तस्मिन्नुपविस्य व्याहृतित्रयरूपवाग्विस-
र्जनम् । ११ अन्यत्रापि अनुवचनानुव्रजनयोर्वाग्विसर्गः ।
१२ तिष्ठतः संप्रैषेषु तिष्ठत एव वाग्विसर्गः । १४ वैश्वदेव्या
समानाऽग्निमन्थना नाम इष्टिः । १४ षष्ठ्यादीनां तिसृणां
हविषाम् ऐन्द्राग्न्यादीनां कर्त्तव्यत्वम् । १५ तत्सूत्रगतम-
न्त्रस्य उपहवयाचने तृतीयत्वम् । भक्षणे चतुर्थत्वम् । उपहव
याजनभक्षणयोश्च विशेषकथनम् । वैश्वदेव्यामपि एवम्भावश्च ।
१६ इष्टौ संस्थितायामवभृतकर्म्मनिमित्तं अध्वर्यूणाम्
उदकदेशगमनम् । १७ अवभृशस्यानित्यत्वत्व इष्ट्यभावेऽन्येषामपि
अव--धानादीनां सम्भवश्च । १८ चातुर्मास्याङ्गत्वेन द्वयोर्मा-
सयोरैन्द्राग्ननामकपश्वन्तरविधानम् । २ अ० १८ क० ।
१ वरुणप्रघासेभ्यः परम् ऐन्द्राग्नवत्परं अनीक-
वदाद्यादित्यान्तकर्म्मरूपाणां साकमेधानां यजनम् ।
२ साकमेधीयपौर्ण्णमास्याः पूर्ब्बेद्युः सवने सवने एकैका
इष्टिः । ३ उक्तानुसवनीयानामिष्टीनां प्रथमायामनीकवान्
अग्निः एतदुतरस्यां वृधन्वन्तौ, मरुतः सान्तपनाः
तदुत्तरा आज्यभागप्रभृतीड़ान्ता इष्टिः । ४ गृहमेधेभ्यो
मरुद्भ्यो देवताभ्य आम्नातयोरृचोरुल्लेखः । ५ पुष्टि-
मतोर्विराजयोर्निगदरहितसंयाज्यात्वम् । ६ गृहमेधीया-
दन्यत्रापि आवहनरहिते स्थले अनिगदयोः संयाज्ययोः
सम्भवः । ७ पित्र्यायां पशौ चेतीष्टिद्वये आवाहने सत्यपि
अनिगदं संयाज्याद्वयम् । । ८ समापितैष्टिकायां रात्रौ
बहूनां याज्ञिकानाम् अन्नदानम् । ९ रात्रेः पश्चाद्भागे
पौर्ण्णदर्वनामकस्य होमकर्म्मणः कर्त्तव्यत्वम् । १० वृषभरवे
श्रूयमाणे उक्तहोमकालः । ११ मेघध्वनौ श्रूयमाणे
तद्धोमकालः । १२ तस्योक्तद्वयस्याप्याभावे ब्रह्मपुत्र-
शब्देनाग्नीध्रं सम्बोध्य कैश्चित् रवप्रावर्त्तनम् ।
पृष्ठ ०८५५
१३ पूर्ण्णादर्व्वीत्यादिमन्त्रयोरध्वर्य्युणा होतृप्रेरणे याज्यानु-
वाक्यात्वम् । १४ क्रीड़िभ्यो मरुद्भ्य उत्तरा इष्टिः । १५
क्रीड़िनां मरुतां परोक्षवार्त्तघ्नावाज्यभागौ । १६ अक्रीड़िनां
मरुतां याज्यानुवाक्ये । १७ माहेन्द्री इष्टिः । १८ माहे-
न्द्र्यामिष्टौ अष्टदेवतोक्तिः । १९ माहेन्द्र्यां याज्याकथनम् ।
१९ सू० २ अ० १८ क० । १ दक्षिणाग्नेरग्निमानीय
तमन्यत्र स्थापयित्वा तत्र पित्र्याख्यकर्मकरणम् । २
पित्र्याया इष्टेर्लुप्तजपानुमन्त्रणादित्वम् । ३ तस्यां पित्र्या-
यामिष्टौ कर्मणां प्राङ्मुखत्वम् । ४ अन्यस्यामिष्टौ दक्षि-
णामुस्वत्वम् । ५ इतरदिङ्मुखानि प्रकृतौ यथान्वयं
करणीयानि । ६ अनुच्छ्वसता उशन्तस्त्वेतस्या ऋचस्त्रि-
रनुवचनं तत्र च तासामेव सामिधेनीनां न पुनरभ्यासः ।
७ तासां सामिधेनीनामुत्तमेन प्रणवेन प्रतिपत्तिः ।
८ आज्यपान्तदेवतावाहनानन्तरं प्राकृतात् स्विष्टकृता-
वाहनात् परं कव्यवाहनाख्याग्निसमावाहनम् । ९
उत्तमे च प्रयाजे आज्यपेभ्यः पूर्वं कव्यवाहनाख्याग्नि-
निगमनम् । १० सूक्तवाके विशेषोल्लेखः । ११ कार्यार्थमन्त्र-
लोपेऽपि कार्यलोपप्राप्तौ कार्यस्य लोपप्रतिषेधः ।
१२ पित्र्यायामिष्टौ अवान्तरेड़ाभक्षणेड़ाभक्षणयोरभावः ।
१३ इड़ाभक्षणे मार्जनाभावः । १४ सूक्तवाके यजमान-
नामादेशाभावः । १५ ईक्षितः सीद होतरिति वोक्तस्योपवे-
शनम् । १६ सव्योपर्युपस्थानां प्राचीनावीतिनां हविर्भिजींवा-
तुमदुच्चारणम् । १७ पित्र्यायामाग्नीध्रस्य दक्षिणत्वम्
अध्वर्योरुत्तरत्वम्, अनुवाक्याद्वयम्, अध्यर्द्धायामनवानम् ।
१८ आश्रावणप्रत्याश्रावणसम्प्रैषेषु ॐ स्वधेत्यादीनां दीर्घा-
न्तानां प्रयोक्तव्यत्वम् । २० प्लुतीनां नित्यत्वव्यवस्थापनम् ।
२१ पितॄणां सोमवत्ता सोमस्य पितृमत्ता बर्हिषदः अग्नि-
ष्वात्ताचेतिगुणोक्तिः । २२ पञ्चानां पितॄणां तिस्रस्तिस्र ऋच
इत्युक्तिः । २३ वैवस्वतस्य चेद्देवतात्वं तदा उत्तमे त्रिके
मध्यमायां याज्यात्वं प्रथमोत्तरयोरनुवाक्यात्वम् । २४
स्विष्टकृतो याज्योक्तिः । २५ स्विष्टकृतोऽग्नेः कव्यवाहन-
संज्ञा । २६ स्विष्टकृत ऊर्द्धं प्रकृतिभावः । २७ मन्त्र-
लोपादिभिन्नानां सव्यापर्युपस्थतादीनामभावाय प्रकृ-
तिभावविधानम् । २८ प्रकृतिभावादेवानुवाक्याया
एकैकत्वम् । २९ वषट्कारक्रियायामेव संयाज्याद्वयम् ।
३० विशेषनियमार्थं दक्षिणावृतो दक्षिणाग्नेरुपस्थानम् ।
३१ पित्र्ययामिष्टौ आवर्त्तनविरहेणोपस्थानम् । ३२ दक्षि-
णाग्नेरुपह्वानमन्त्रः । २३ गार्हपत्याहवनीययोरुपस्थानम् ।
३४ आहवनीयोपस्थानमन्त्रः । ३५ तन्मन्य इत्येकयर्चा
गार्हपत्योपस्थानम् । ३६ प्रादक्षिण्येन गार्हपत्यमभितः
समागमने मन्त्रः । ३७ गार्हपत्यानन्तरं सव्यावृद्भिस्त्र्यम्बकरूपकर्म-
भेदार्थगमनम् । ३८ अध्वर्यूक्तस्य यजमानैरपि कर्त्तव्यत्वम् ।
३९ प्रत्येत्य अदितिदेवताकया ऋचा चरणम् । ४० पुष्टि-
मत्यौ धाय्ये निराजौ । ४० सू० २ अ० १९ क० ।
१ साकमेधकालमारभ्य पञ्चम्यां पौर्ण्णमास्यां शुनासीरोया
नामेष्टिः । २ पञ्चम्याः पौर्णमास्या अर्वागपि वा शुना-
सोरीयारम्भः । ३ नियुत्त्वानिति वायोर्गुणः
शुनासीरीयः शुनश्चेति इन्द्रस्य गुण इत्युक्तिः । ४ एतत्-
प्रकरणगतानां शास्त्रान्तरीयाणाञ्च देवतानां एतत्-
प्रकरणाम्नाता एव याज्यानुवाक्या इत्युक्तिः । ५ ज्योतिष्टो-
मप्रकृतिकौ चातुर्मास्याङ्गभूतौ पशुसोमौ ताभ्यां शक्तिभेदेन
व्यस्तसमस्ताभ्यां यागः । ६ चातुर्मास्यानां समाप्तौ
पुनरभ्यासः ६ सू० २ अ० २० क० ।
३ अध्याये पशुकर्माधिकारः । १ प्रायश्चित्तात् पूर्वं
पशुगुणकं कर्म्म । २ पशोरुभयतोऽन्यतरतो वा इष्टिकरणम् ।
३ पशुयागसम्वन्धिन्या इष्टेरग्निदैवत्यधिकल्पः । ४
पशुयागसम्बन्धिन्या इष्टेः करणपक्षे देवताविकल्पः । ५
एकस्मिन् पशुप्रयोगे आग्नेयी चाग्नावैष्णवी चेति इष्टि-
द्वयम् । ६ उभयेष्टिकरणपक्षे एकस्याः पुरस्तात् अपरस्या
उपरिष्टात् कर्त्तव्यत्वम् । ७ सविधिकस्य वारुणप्राघा-
सिकस्योक्तस्याग्निप्रणयनस्य पुनरुल्लेखः । ८ पशुबन्धयाग-
सम्बन्धिन्या वेदेः पश्चादुपविष्टस्यानुवचनार्थं प्रेषितस्य
यूपमज्यमानमभिधातुम् ऋग्विशेषानुवचनम् । ९ अज्य-
मानयूपानुवचनपरिधानयोर्म्मन्त्रभेदौ । १०
सपशुकयूपबहुले एकपशुतन्त्रके कर्मणि अन्त्ययूपानुवचनं
परिधायान्त्ययूपसंस्तवनञ्च । ११ प्रथमोत्तमयोरनभ्यासवि-
धानम् । १२ पशुदेवताभ्योऽनन्तरं वनस्पत्यावाहनम् ।
१३ संमार्गैः संभार्जनानन्तरं प्रवृताहुतिभिर्होमः ।
सकृद्ग्रहणपूर्वकैकाहुतिहवनानन्तरं पुनः सकृद्ग्रहण-
पूर्वकपञ्चाहुतिहोमः, मन्त्रविग्रहणञ्च । १५ सौत्ये
एवाहनि पूर्वोक्तहोमः । १६ तीर्थेनैव लब्धविहारप्र-
पदनाय प्रशास्त्रे समन्त्रकदण्डदानम् । १७ प्रशास्तुर्द-
क्षिणोत्तराभ्यां पाणिभ्यां समन्त्रकदण्डप्रतिग्रहणम् ।
१८ यावत् प्रैषवचनं नास्ति तावत् उक्तेन दण्डेन
स्वपरयोः संस्पर्शननिषेधनियमः । १९ उपयुक्तानाम-
न्येषामपि यज्ञाङ्गानां विहारेण व्यवायंनिषेधः ।
पृष्ठ ०८५६
२० प्रेषितस्य मैत्रावरुणस्य प्रैषानुवचनप्रकारः । २१
मैत्रावरुणस्यानुवाक्यानुवचनम् । २२ मैत्रावरुणस्य पर्य्यग्नि
स्तोकमनीयतोन्नीमानसूक्तपाठः । २३ आसीनेनैव मैत्राव-
रुणस्य सोमाधिकरणककर्मान्तरस्य करणम् । २३ सू० ३ अ०
१ क० । १ पशुयागे एकादशप्रयाजनियमः । २ तत्र
तेषां प्रयाजानां प्रैषा अपि एकादशसंख्याः । ३ प्रकृता-
वुक्तमप्राकृतेष्वपि प्रैषेषु स्यादित्येवमर्थं पूर्वोक्तस्य प्रैष-
सूक्तस्य पुनरुपदेशः । ४ अध्वर्य्युप्रैषस्य होतुरना-
काङ्क्षणीयत्वम् । ५ प्रैषलिङ्गाभिराप्रीभिर्होतृयजनम् ।
६ शुनकानां, वसिष्ठानां, सर्वेषाञ्चाप्रीसूक्तभेदकथनम् ।
७ ऋषिनामधेयस्यानुगुणानामाप्रीणां ग्राह्यत्वम् ।
८ प्राजापत्ये तु वसिष्ठगुणकसहितानां सर्वासामाप्रीणां
जामदग्न्यत्वम् । ९ दशसु सूक्तेषु प्रेषितस्य मैत्रा-
वरणस्य प्रैषवचनम् । १० उक्तप्रैषवचनस्य होतुरन्तर्वेदि
दण्डनिधानम् । ११ अध्रिगुशब्दवाच्ये दैव्याः शमितार
इत्यादिके मन्त्रेऽङ्गादि शब्दानामूहः । १२ स्त्रीपुंसयोः
समाहारे पुंलिङ्गेनैवोहः । १३ स्त्रीदेवतायामभिधेयायां
मेधपतिशब्दस्य पुंवद्वचनम् । १४ स्त्रीपशौ मेधशब्दस्य पुंवद्वा
स्त्रीवद्वा वचनविकल्पः । १५ अध्रिगोरूर्द्धम् अङ्गादिशब्दाना-
मितरेषाञ्चोहनं, स्त्रीपुंसमाहारेषु सर्ब्बत्र पुंवदेवाभिधा-
नञ्च । १६ न केवलमस्योहविधेः पशुकर्मार्थत्वं किन्तर्हि सर्वेषु
यजुःषु निगदेषु चार्थवशेन कार्य्यत्वम् । १७ प्रकृतौ समर्थ-
निगमेषूहनम् । १८ मन्त्रगतानां शब्दानां प्राकृतत्वेन
ऊहनम् । १९ प्रतिनिधिष्वपि प्राकृतातां शब्दानामूहनम् ।
२० उपमार्थानां श्येनादीनां शब्दानामूहनम् । २० सू०
३ अ० २ क० । १ अध्रिगुनामकमन्त्रविशेषकथनं तत्रस्थानां
पदानामूहश्च । २ अस्नेत्यादीनां त्रयाणां शब्दानां स्वे
स्वे स्थाने उपांशुप्रयोक्तव्यत्वम् । ३ षट्विंशतिशब्दस्याभ्यास-
नियमः । ४ मन्त्रविशेषजपानन्तरं विहारादावृत्य दक्षिणावृत
आवर्त्तनम् पृष्ठतः कृत्वा आसनञ्च । ५ मैत्रावरुण-
स्यावृत्य पृष्ठतः करणम् । ६ पुनरावर्तनकाले पराचामेवासनम्
६ सू० ३ अ० ३ क० । १ वपायां श्रप्यमाणायां
तत्सस्कारार्थं प्रेषितस्य स्तोकेभ्योऽनुवचनम् । २ स्वाहाकृत्यर्थं
स्रुगादापनस्य कर्तव्यत्वम् । ३ उत्तमा आप्रीयाज्या ।
४ वपा पुरोड़ाशोहविरिति पशोर्यागाः । ५ नानादैवतेषु
पशुषु याज्यानुवाक्याभेदादेव वपायागवत् पृथग्भावः ।
६ प्रतिपशु मनोतामन्त्रस्यावर्त्तनम् । ७ एकेषां मते
मनोताया अनावर्त्तनम् । ८ उक्तप्रदानगतप्रैषाणां समान-
लिङ्गत्वोक्तिः । ९ प्रदानप्रैषेषु विकृतिषु च या
देवतास्तासामेकैकस्या देवताया अग्नीषोमस्थाने निर्द्दिश्य
यष्टव्यत्वम् । १० गोमेषहयानामेकैकस्या जातेर्द्वयोर्द्वयोः
शब्दयोर्नियमनस्य वैकल्पिकत्वम् । ११ वनस्पतिस्विष्ट-
कृत्सूक्तवाकप्रैषेषु प्रदानप्रैषीयप्रयोगवत् प्रयोगः ।
१२ सूक्तवाकप्रैषेषु पुरोड़ाशेन पशुदेवतावर्द्धनम् ।
१३ हविषां नानारूपत्वात् स्वेनं स्वेनैव शब्देन
निगमने प्राप्ते पुरोडाशशब्देनैव चर्वादीनां निगमनविधा-
नम् । १४ मेधोरभीयानित्येतयोः पदयोः पश्वभिधायकत्वम् ।
१५ आम्नायसिद्धानां द्विवचनान्तानाम् एकवचनवहुवचनयो-
रिष्टलकारपरिग्रहार्थ पाठविशेषः १५ सू० ३ अ० ४ क० ।
१ वपाहोमानन्तरं सब्रह्मकानां बद्धृचानां सर्व्वेषां सह मार्ज-
नम् । २ इदमाप इत्यनयर्चा यजुषा च उभाभ्यां मार्जनम् ।
३ प्रत्यङ्गभूतायामिष्टौ आतिदेशिकमार्जनस्य प्रवृत्त्यर्थम्पशौ
मार्जनस्य एतावत्त्वोक्तिः । ४ पुरोडाशश्रपणपर्य्यन्तं
तीर्थेन निष्क्रम्यासृमविधिः । ५ प्रधानस्विष्टकृतो-
र्भेदप्रतिपत्त्यर्थं प्रधानेन चरित्वा स्विष्टकृता चरणविधिः ।
६ स्विष्टकृच्चरणावसरे आगन्तुकैर्यागैरग्रे पशुपुरोडाश-
स्विष्टकृतां चरणम् । ७ अन्वायत्तदेवतानां हविषां चावाहना-
दिषु निगमेषु अनुवृत्त्यभावः । ९ पुरोडाशानामिति हविर्भेदे
प्रैषस्योह्यत्वम् । १० इड़ाया ऊर्द्धम् उक्तप्रैषस्योह्यता १० सू०
३ अ० ४ क० । १ इड़ोपधानानन्तरं मनोतानुचरणम् ।
२ हविषा चरणभ् प्रैषाणां तत्सलिङ्गत्वञ्च । ३ हविःप्रैषे कतर
एवाग्नीषोमावेवेत्यत्र ऐतरेयाणां सम्मतिः । ४ द्विदैवता-
दन्यत्र एकदैवते बहुदेवते पशौ मैत्रावरुणयोर्देवतात्वम् ।
५ एकदैवतेषु वहदैवतेषु च प्रैषेषु तथादृष्टत्वम् । ६ प्रकृति-
भावे गाणगारिमतोल्लेखः । ७ अर्थभेदरहिते आम्नाये
विकारस्य निरार्थकत्वम् । ८ वपाहोमे कृते अर्द्धर्चयोर्मध्ये
याज्यायाः समापनम् । ९ प्रैषसमाम्नायपठितं वनस्पति-
प्रैषमभितो ये ऋचौ तयोर्वनस्पतियाज्यानुवाक्यात्वम् ।
१० आज्यभागयोः करणे प्रैषे प्रधानदेवताङ्गदेवतयोर्नि-
गमनम् । ११ स्विष्टकृति इड़ोपह्वानानन्तरम् अनुयाजैश्च-
रणम् । १२ उक्तस्थलेऽनुयाजानामेकादशसङ्ख्याविधानम् ।
१३ प्रकृतिभ्योऽन्यासां वैश्वदेव्यानामाहर्त्तव्यत्वम् । १४ प्रैषा-
धिकारनिवृत्त्यर्यम् अनवानशब्दस्य पुनरावृत्तिः । १५
पुनरनवानस्य व्याख्यानार्थोल्लेखः । १६ सूक्तवाकप्रैषे
आज्यभागयोर्ग्रहणम् । १७ पशुतन्त्रे पदत्रयस्याभ्यासत्वां-
भावाय पठितस्यापि पुनरभ्यासः । १८ देवताना-
पृष्ठ ०८५७
मेकजातीयपशुकत्वकथनम् । १९ पशुशब्दानामेवावर्त्तनं
नान्ययोर्देवयोः । २० उत्तरे पूर्वेणोक्तस्योल्लेखः । २१
अनवभृथे कर्म्मणि सूक्तवाकप्रैषसमापनानन्तरम् आहवनीये
दण्डानुप्रहरणम् । २२ सावभृथे कर्म्मणि अवभृथानु-
प्रहरणम् । २३ वेदस्तरणोत्तरकल्पः संस्थाजपात् प्राक्
निष्क्रम्य उदस्यमानस्य हृदयशूलस्यानुमन्त्रणे मन्त्रश्च ।
२४ उदस्यमानस्य हृदयशूलस्य उपरिष्टात् अपामुपस्प-
र्शनमन्त्रः । २५ अस्पृष्टादृष्टहृदयशूलानाम् अन्योन्यसंस्प-
र्शावेक्षणमन्तरेणैव सर्वेषामेकैकेन समित्त्रयस्य ग्रहणम् ।
२६ मन्त्रविशेषपूर्वकं प्रथमायाः द्बितीयायाः तृतीयायाश्च
समिधोऽभ्याधानम् । २७ पूर्वग्रहीतुरेव पूर्व्वमाभ्याधानं
न सर्वेषां युगपत्” । २८ संस्थाजपान्तं पशुतन्त्रम् ।
२८ सू० ३ अ० ६ क० । १ प्रदानाख्यकर्म्मोक्तप्रैषा एव
सर्व्वत्र भवन्ति नान्ये इत्युक्तिः । २ येषां पशूनां
यानि प्रदानानि तेषां पशूनां याज्यानुवाक्याकथन-
प्रतिज्ञा । ३ सर्वत्र पूर्वमुक्ता अनुवाक्याः उत्तरा याज्या इति
ज्ञापनम् । ४ याज्यानुवाक्यालिङ्गितदैवतेन वक्ष्यमाणानां
पशूनां नानात्वोक्तिः । ५ अग्नेर्याज्यानुवाक्याः । ६
सरस्वत्या याज्यानुवाक्याः । ७ सोमदेवतायाः याज्यानुवाक्याः ।
८ पूष्णो याज्यानुवाक्याः । ९ वृहस्पतेर्याज्यानुवाक्याः ।
१० विश्वेषां देवानां याज्यानुवाक्याः । ११ इन्द्रस्य
याज्यानुवाक्याः । १२ मरुतां याज्यानुवाक्याः । १३ इन्द्रा-
ग्न्योर्याज्यानुवाक्याः । १४ सवितुर्याज्यानुवाक्याः । १५
वरुणस्य याज्यानुवाक्याः । १५ सू० ३ अ० ७ क० । १ अष्टा-
दशभिरृग्भिः पशुकर्मविधानम्, तासाञ्चर्चां प्रजापति-
देवताकत्वम् । २ याज्यानुवाक्यालिङ्गकल्पितदैवत्याना
मिष्टिरूपाणां पशूनां विधानं, साकल्येनैतदध्यायगणितानां
तासां त्रिंशत्सङ्ख्यकत्वोक्तिः । ३ खण्डद्वये समाम्ना-
तानां पशूनां मध्ये केषाञ्चित् सोमाङ्गत्वं केषाञ्चित्
स्वतन्त्रत्वञ्च । ४ पशूनां प्रकृतिभूतस्य ऐन्द्राग्न्यस्य निरूढ-
नामकस्य पशोः कर्त्तव्यत्वम् । ५ निरूढस्य पंशोः षट्षु
षट्सु मासेषु वत्सरे वत्सरे वा कार्य्यता । ६ प्राजापत्योपांशु-
सावित्रसौर्य्यवैष्णववैश्वकर्म्मणरूपपाशुकतन्त्रेषु उपांशुजप-
विकारोक्तिः । ७ प्रैषादेरपि आगुरः स्थानभाजित्वम् ।
८ आददादोनां सप्तानां यथास्थानमुपांशुत्वम् । ८ सू०
३ अ० ८ क० । १ सौत्रामण्याख्य कर्म्माधिकारः । २ तत्राश्विनसा-
रस्वतैन्द्राःपशवःवार्हस्पत्यश्चतुर्थः ऐन्द्रसावित्रवारुणाः
पशुपुरोडाशाः यथासङ्ख्येन भबन्तीत्युक्तिः । ३ चात्वालमार्जना-
नन्तरम् आश्विनसारस्वतैर्ग्रहै प्रचरणं तेषाञ्चानुवाक्या प्रैष
याज्यानां कथनम् । ४ कुम्भीस्थसुरावेक्षणमन्त्रः ग्रहपा-
त्रस्थसुरावेक्षणप्रकारश्च । ५ सुराग्रहपयोग्रहयोर्भक्षजप-
विधानम् । ६ सुराग्रहेष्वेव प्राणभक्षविधानम् । ६ सू०
३ अ० ९ क० । १ विधानान्यथाभावे प्रायश्चित्ताधिकारः ।
२ विहितस्याभावे प्रतिनिध्युपादानम् । ३ इष्टिमध्य-
रूपस्यान्वाहिताग्नेः प्रयाणोपपत्तौ अग्नीनां पृथगु-
न्नयनम् । ४ समन्त्रकं साज्याहुतिहोमकं समारोपणं
कृत्वा गमनविधानम् । ५ समारोपस्वरूपम् ।
६ यजमानकर्तृकं गार्हपत्ये पाणिद्वयस्य सकृत्प्रतप-
नम् । ७ उक्तप्रकारेणाहिताग्नेः समारोपणानन्तरमहुत्वा-
गमनविधानम् । ८ यजमानकर्तृकं समन्त्रकमरणी-
मन्थनविधानम् । ९ अवदीप्यमानस्याहवनीयस्य शम्यापरा-
सादर्वाक् संवपनम् । १० यदि त्वतीयाद्यद्यमावास्या
पौर्ण्णमासीं वातीयाद्यदि वाऽन्यस्याग्निषु यजेत यदि वास्या-
न्योऽग्निषु यजेत यदि वास्यान्योऽग्निरग्नीन् व्यवेयाद्यदि
वा साग्निहोत्र उपसन्ने हविषि वा निरुप्ते चक्री-
वच्छ्वा पुरुषोवाऽविर्विहारमन्तरियाद्यदि वाध्ये प्रमीयेत
इत्येवं निमित्ते इष्टिविधानम् । ११ उक्ताया इष्टेः
पथिकृद्गुणकाग्निदेवताकत्वम् । १२ उक्तायामिष्टौ अनडु-
द्दक्षिणा । १३ पूर्वोक्ताया इष्टेः अग्निभिन्नव्यवधाननि-
मित्तकत्वे विधानभेदः । १४ शुना व्यवाये श्वपदानां भस्मना
परिपूरणम् । १५ भस्मराज्योदकराज्या च सन्तनने
प्रतिराजि मन्त्रावृत्तिः । १६ उक्तराजिभ्यां समानं कृत्वा
ऽऽहवनीयानुगमनानन्तरं ततः प्रणीय तदुपस्थानम् । १७
पथि मृतस्य अन्यवत्सेन दोहनीयाया गोः पयसाग्निहोत्रा-
न्तरं प्रातरादौ प्राक् देहाग्निसंस्कारात् कृत्वा दाह इत्यु-
क्तिः । १८ अपरपक्षे आहिताग्नेर्मरणशङ्कायां तत्पक्षा-
वशिष्टाहुतिभिः एतत्पूर्वपक्षनयनम् । १९ आवाहनानन्तरं
प्रधानयागादर्वाक् हविर्व्यापत्तौ तस्य प्रधानयागादेः
सर्वस्याज्येनेष्टिं समाप्य पुनरिज्या न भवतीत्युक्तिः । २०
च्युतकेशनखादिभिरन्यैर्वा बीभत्सैर्हविःषु दुष्टेषु नान्यः
स्मृत्युक्तःशुद्ध्युपायः । २१ कठिनानां भेदने द्रवाणां क्षरणे
हविषां दुष्टत्वम् । २२ दुष्टानां हविषां अप्सुप्रक्षेपः ।
२३ सान्नाय्यस्य दुष्टस्य मध्यमेन पलाशपर्ण्णेन वल्मीक-
द्वारे प्रतिषेचनम् अप्सु वा तूष्णीमिति विकल्पः ।
२४ अन्तःपरिधिदेशे विष्यन्दमानस्य हविषो निर्वपणम् ।
२५ प्रातर्दोहे अदुष्टे द्वयोः पात्रयोः कृत्वाऽन्यतरत्
पृष्ठ ०८५८
दधिभावाय आतच्य ताभ्यां दधिपयोभ्यां प्रचरणम् ।
२६ पयसि दुष्टे तत्स्थाने पुरोडाशव्यवस्था । २७
दधिपयोरूपे सान्नाय्यद्वये दुष्टे इन्द्राग्निदैवत्योदनसिद्ध्यर्थं
पञ्चशरावपरिमितव्रीहिनिर्वपणम् । २८ इन्द्राग्न्योः
पृथक् चरणम् । २९ एकेषां मते केवलमित्रदेवताकपञ्च-
शरावोत्पादनानन्तरम् इन्द्राग्न्योः पृथक्चरणम् ।
३० सान्नाय्यार्थमपाकृतानां वत्सानां पाने वायुदेव-
त्यया यवाग्वा यजनम् । ३१ गर्भमिति मन्त्रेण स्रव-
तोऽधिश्रितस्याग्निहोत्रस्याभिमन्त्रणम् । ३१ सू० ३ अ०
१० क० । १ उपावसृष्टाया दुह्यमानायाश्च अग्निहोत्र्या
गोरभिमन्त्रणम् । २ उक्ताया गोरुत्थापनम् । ३ उक्ताया
गोरूधसि मुखे चोदपात्रमुपोद्गृह्य दुग्ध्वा ब्राह्मणाय
पानार्थन्तत्प्रदानम् । ४ शब्दायमानायै उक्तायै गवे
यवसदानम् । ५ दुग्धस्य शोणिताकारत्वे निरवशेषस्य गार्हपत्ये-
दाहविधानमन्येन द्रव्येण च होमकरणम् । ६
दोहनोत्तरं पात्रस्य भेदने पात्रात् पतने वा विक्षिप्तपतित-
त्यागेनान्यस्यादुष्टस्याभिमन्त्रणम् । ७ दोहनावस्थायां पयसः
स्कन्दने स्कन्नांशाभिमन्त्रणम् । ८ परिशिष्टेन स्थालीस्थेन
होमः । ९ होमस्यापर्य्याप्तौ अभ्यानीयान्येन होमः ।
१० पयसिस्कन्ने प्रायश्चित्तम् । ११ स्कन्ने स्कन्नाभिमर्शनम् ।
१२ पयःशेषेण होमविधिः । १३ स्रुग्गतस्याऽशेषे
पुनरुन्नीय होमकरणम् । १४ स्थालीपात्रेशेपाभावे संस्कृते-
नाज्येनोन्नीय होमः । १५ प्रधानहोमद्वयपर्य्यन्तम्
उक्तरूपा प्रायश्चित्तिः । १६ पूर्व्वोक्तहोमे प्राकृतस्य मन्त्र-
स्यापवादरूपया वारुण्या ऋचा होमः वारुणीजपश्च ।
१७ वारुणीजपो वारुणीहोमः अनशनमिति त्रयस्य
शेषेण होमे मात्रापचारहोमे पुनरुन्नीय होमे च
कर्त्तव्यता । १८ गाणगारिमते उक्तपक्षत्रये पुनर्होमः ।
१९ सरसरेति शब्दायमानस्याग्निहोत्रद्रव्यस्य अभिमन्त्र-
णम् । २० उद्वासिते विष्यन्दिते च प्रायश्चित्तान्तरम् ।
२१ बीभत्से मध्यमेन पलाशपर्णेन होमः । २२
अभिवृष्टेऽधिकसमिदाधानम् । २३ उत्तरस्या आहुतेः
स्कन्दने समिदाधानम् । २३ सू० ३ अ० ११ क० । १
सायं होमस्य प्रदोषान्तकालविधानम् । २ सङ्गवान्तस्य
प्रातर्होमकालत्वम् । ३ सायं प्रातर्होमेऽतीते
चतुर्गृहीतेनाज्येन होमः । ४ कस्मिन् काले केन मन्त्रेण
होमस्तदुक्तिः । ५ अग्निहोत्रे समाप्ते वारुणीष्टिः
कार्य्या । ६ होमोत्तरकाले प्रातः वृष्ट्यन्ते वरदानम् ।
७ अग्निहोत्रसमाप्तौ आहवनीयस्यानुगमनं कृत्वा पुनस्तदुद्ध-
रणम् । ८ तन्निमित्ता मित्रसूर्य्योभयदेवताका इष्टिः । ९
इष्टिसमाप्तौ यतवाचोः पत्नीयजमानयोरग्नीन् ज्वलयतो-
रनश्नतोरहःशेषमुपोषणम् । १० द्वयोर्गवोर्दुग्धेन रात्रेः
पूर्वचतुर्थभागे सायमग्निहोत्रहोमः । ११ एकस्मिन्
पयस्यविश्रिते द्वितीयमवनीय तेन होमकरणम् । १२ प्रातःका-
लातिपातनिमित्ता प्रातरिष्टिः । १३ उक्तायामिष्टौ व्रत-
भृद्गुणकस्याग्नेर्देवतात्वम् । १४ स्वकाले एव प्रणीतेष्वग्निषु
होमकालातिपत्तौ प्रायश्चित्तोक्तिः । १५ दुःखेनाश्रु-
पाते प्रायश्चित्तिः । १६ अग्निहोत्रार्थं विधिनानुद्धृते-
आहवनीये यद्यस्तमियादर्कस्तदा बहुविद्ब्राह्मणेन तस्य
निधानान्तं कारयेदित्युक्तिः । १७ पूर्ब्बवत् अनुद्धुतेऽभ्युदितो
यद्यर्को बहुविद्ब्राह्मणेन तत्प्रणयनम् । १८ आज्यस्य हेमर-
जताग्रनयनरूपकार्य्यान्तरोक्तिः । १९ कालात्ययेन प्रायश्चित्त-
विशेषोक्तिः । २० उक्तविषये प्रातःकाले विशेषोक्तिः । २१ विद्य-
माने आहवनीये गार्हपत्यानुगमने इतिकर्त्तव्यताविधानम् ।
२२ मथनसमर्यक्षामाभावे भस्मनाऽरणी लेपयित्वा तन्म-
न्थनम् । २३ सन्थनविषये इतिकर्त्तव्यताकलापः ।
२४ उक्तमन्थनविषये द्वितीयः कल्पःः । २५ पुनर्मन्थन-
विषये कल्पान्तरम् । २६ त्रिगुणयुक्तोऽग्निरेवात्र मन्थनवि-
षये एका देवता । २७ अग्निहोत्रार्थं प्रणीते आहवनी
येऽनुगतप्रायश्चित्तत्वेन इष्टिविशेषोक्तिः । २८ ज्योतिष्मद्गु
णकाग्निवरुणयोः प्रकृते देवतात्वोक्तिः । २९ सर्वेष्वग्नि-
ष्वनुगतेषु आदित्येऽस्तमिते उदिते वाऽस्याग्नेः पुनरा-
धानरूपप्रायश्चित्तोक्तिः । ३० अरण्योः समारूढ़ेषु
अग्निषु अरुण्योर्नाशे अग्न्याधेयस्य पुनराधेयस्य वा कर्त्तव्य-
त्वम् । ३० सू० ३ अ० १२ क० । १ अतःपरं भाविनीनामिष्टीनाम्
आग्नेयत्वोक्तिः । २ ब्रतातिपाते आग्नेयीष्टिः । ३ कृतेऽग्नि-
कर्म्मणिदोषेनेष्टिः किन्तु व्याहृतिहोमः । ४ आगारदाहे
क्षामायाग्नये, शावाग्निसंसर्जने च शुचयेऽग्नये, इष्टिः ।
५ सर्वेषां द्वयोर्वा अग्न्योः परस्परं संसर्गे विविचयेऽग्नये
उक्तेष्टिः । ६ गार्हपत्याहपनीययोः संसर्गे वीतयेऽग्नये इष्टिः
७ पचनाग्निना संसर्गे संवर्गायाग्नये इष्टिः । ८ वैद्यु
तेऽग्नौ अप्सुमद्गुणकाय, शत्रूणामन्नभीजने वैश्वानरनाम-
कायाग्नये चेष्टिकरणम् । ९ पुरोडाशकपाले नष्टेऽनु-
द्वासिते पूर्ब्बोक्तैवेष्टिः । १० अभ्याश्राविते उक्ताया
इष्टेः कर्त्तव्यत्वम् । ११ जीवत्येवाहिताग्नौ मृतशब्दोल्लेखे
सुभतयेऽग्नये इष्टिः । १२ तत्रेष्टौ मरुतोदेवता ।
पृष्ठ ०८५९
१३ आमावास्याख्ये कर्मण्यारब्धे चन्द्रमसः पुरस्ताद-
भ्युंदये जाते मरुद्देवताका उक्तेष्टिः । १४ प्रायश्चित्त-
प्रकरणोक्तानां ब्राह्मणोक्तानाञ्चेष्टीनां वैकल्पिकत्वकथ-
नम् । १५ हविषां स्कन्नानामभिमर्शनम् । १६
बहिष्परिधि स्कन्नया आहुत्या आग्नीध्रकर्त्तृको होमः । १७
हुतवते आग्नीध्राय पूर्णपात्रदानम् । १८ देवताविपर्य्यास-
रूपव्युत्क्रमे महाव्याहृतिहोमः प्रायश्चित्तं हिरण्यदानञ्च ।
१९ कस्मिंश्चित् कर्मणि यष्टव्यदेवतावाहनमकृत्वा उत्तरकर्म्म-
प्रवृत्तौ यदा स्मरणम् भवति तदैवीत्थाय तदावाहनं कर्त्तव्यम्।
२० मनसा वा तदावाहनमित्यन्यमतम् । अस्थानिन्याः
देवताया स्मरणक्रमेण यागः । २० सू० ३ अ० १३ क० ।
१ अपक्वहविषा होमे कृते चतुःशरावौदनेन चतुर्ब्राह्मण-
भोजनरूपा प्रायश्चित्तिः । २ अदग्धं किञ्चिद्धविरवदानेभ्यो
न पर्य्याप्तञ्चेत्तदा पूर्ब्बोक्तप्रायश्चित्तम् । ३ हविष्यशेषे दग्धे
पुनरावृत्तिः कार्य्या । ४ आवाहनात् प्राक् हविर्दोषे
पुनरावृत्तिरेव । ५ गुणभूतानां पुनरावृत्तिकथनम् ।
६ स्विष्टकृतः प्राक् प्रधानभूतानां पुनरावृत्तिकथनम् ।
७ अवदानदोषे पुनरायतनादवदानोक्तिः । ८ क्षामे शेषे-
णेष्ट्वा द्वेष्ट्रे दक्षिणादानं न ऋत्विग्भ्य इत्युक्तिः । ९ सर्वेषु कर्मसु
विहितदक्षिणादाने शस्यसम्प्रन्नभूमिदानम् । १० पुरोडाश-
श्रपणादूर्द्ध्वं प्रायश्चित्ताभावः । ११ श्वादिभिरवलीढ़ानां
तद्दर्शनादिभिरभिक्षिप्तानाम् अन्यया वाऽशुचिसम्बन्धानां
कपालानामभिन्नानाम् अपामभ्यवहरणम् । १२ कपालेभ्यो-
ऽन्येषां मृण्मयानां भिन्नानामभिन्नानाञ्च अपामभ्यवहर-
णम् । १३ स्फुटितोत्पतितपुरोडाशानां निधानाभिमन्त्र-
णे । १४ अग्निहोत्रहोमायाग्निप्रणयनकाले मथ्यमाने-
ऽग्नौ न जाते सौतिकमग्निं प्रणीय तत्र होमकरणम् ।
१५ अग्न्यादीनुक्त्वा तेषां पूर्वपूर्ब्बालाभे उत्तरोत्तरग्रहणम् ।
१६ ब्राह्मणपाण्यादिषु पञ्चषु आहुतिधारणार्था समिद्भ-
वति इन्धनार्थाः समिधो न भवन्त्येवेति । १७ होमानन्तरं
मन्थनमपि भवतीत्युक्तिः । १८ यदि पाणौ जुहुयात् तदा
वासार्थिनो ब्राह्मणस्य नावरोधः करणीय इत्युक्तिः । १९
यद्यजकर्णे जुहुयात् तदा छागमांसवर्जनम् । २० स्तम्बे
चेत् दर्भाणामनधिशयनम् । २१ अप्सु चेत् भोजनीयाभोज-
नीयरूपविवेकाभावः । २२ सांवत्सरिकयावज्जोविकयोर्व्र-
तयोर्विवेकोक्तिः । २३ आहुत्योरन्तराऽग्न्यनुगमने सति
निहिते हिरण्ये द्वितीयाहुतिहोमः । ३ अ० १४ क०
चतुर्थाध्याये सोमयागेतिकर्त्तव्यताकलापः ।
१ आधानामन्तरमारब्धयोर्दर्शपूर्णमासयोरनन्तरम् इष्टि-
पशुचातुर्मावैरिष्ट्वा सोमेन यजनम् । २ एकेषां मते
दर्शपूर्णमासानन्तरम्, अन्येषां मते ताभ्यां पूर्ब्बमपि
सोभेन यजनम् । ३ सोमयागकर्तॄणामृत्विजां
संख्यानिरूपणाय प्रतिज्ञा । ४ ते च त्रिपुरुषवन्तश्चत्वारस्तेन
तत्र षोड़शर्त्विजः । ५ वक्ष्यमाणसूत्रे षोड़शर्त्विजां
मध्येस्वस्वापेक्षया उत्तरे त्रयः स्वस्वग्णभूता इति
चतुर्ण्णामेव सुख्यत्वमित्युक्तिः । ६ होता मैत्रावरुणोऽ-
च्छावाकोग्रावस्तुत् इत्येकोगणः । अध्यर्य्युः प्रतिप्रस्था-
ता नेष्टेन्नेता इत्येकोगणः । ब्रह्मा ब्राह्मणाच्छंसी
आग्नीध्रः पोता” इत्येको गणः उद्गाता प्रस्तोता प्रतिहर्त्ता
सुब्रह्मण्य इत्येको गण इत्येवं चतुर्षु ऋत्विग्गणेष्याद्या
श्चत्वारोमुख्याः । ७ एतेषामेव ऋत्विजाम् अहीनैकाहैर्याजनं
न सदस्यशमितृचमसाध्वर्यूणां कर्तृत्वमिति ज्ञापनम् ।
८गृहपतिसप्तदशानामुक्तानां षोड़शानाम् ऋत्विजां सत्रै-
र्यजनम् । ९ ऐष्टिके तन्त्रे सत्रिणां पुरुषाणां समावापा-
दिकर्म्मणि यथार्थमूहस्य कर्त्तव्यत्वम् । १०
अनग्नीनां दीक्षणात् प्रभृत्येव यथार्थमभिधानमैष्टिके तन्त्रे
इत्युक्तिः । ११ याज्यानुवाक्ययोः अग्निर्मुखमित्यूहः ।
१२ दण्डप्रदाने ऊहविधानम् । १३ प्रैषेषु निवित्सु
अप्राप्तस्य ऊहस्य विधानम् । १४ अनैष्टिकत्वात्
ऋक्त्वाच्च घृतयाज्यायामप्राप्तोहविधानम् । १५ ऋक्त्वाद प्राप्तौ
कुह्वाञ्चोहविधिः । १६ अच्छावाकस्य निगदे उपहवे प्रत्युप-
हवे चोहः । १७ आर्षेयप्रवरणे गृहपतिप्रवरणानन्तरम्
आत्मादीनां मुख्यानां प्रवरणम् । १८ सर्व्वात्मवर्गादित्वं
सूत्रोक्तक्रमश्च । १९ समानार्षेयाणां समानगोत्राणां
तन्त्रता । २० द्रव्यान्वयानां संस्काराणाम् आवर्त्तनम् ।
२१ एकेषां मते अग्निचित्यावत्सु क्रतुषु उखासम्भरणीयम्
ऐष्टिकं कर्म्म । २२ ब्रह्मण्वत्क्षत्रवत्क्षत्रभृद्गुणक्वानां
त्रयाणामग्नीनां देवतात्वोक्तिः । २३ इदम्प्रभृतिकर्म्मणाम्
उत्तरोत्तरं शनैस्तरां भवितव्यत्वम् । २३ उक्तस्योखासम्म-
रणीयस्य पौर्णमासात् शनैस्तरत्वाक्तिः । २५ सोमप्रवह-
णम्य प्रायणीयातुल्यतोक्तिः । २६ औपवसथ्येऽग्निप्रणय-
नस्य प्रथमाया ऊर्द्ध्वं स्वरेषु नियमाभावः । २७ वर्मे भध्य-
मोत्तमयोर्नियमाभावोक्तिः । २७ सू० ४ अ० १ क० ।
१ दीक्षणीयायामिष्टौ विराजौ धाय्ये । २ दीक्षणी-
यायामग्नाविष्णू देवते । २ साग्निचित्ये त्रीण्यन्यानि
हवींषि । ४ अन्त्ययोरुभयोराग्नावैष्णवादधिकानि ह-
पृष्ठ ०८६०
वींषि । ५ भुवद्वद्भ्य आदित्येभ्यः भुवनपितेभ्यो वा
आदित्येभ्यो याज्यानुवाक्ये । ६ इदमादिषु उदयनीयायाः
प्राक् मार्जनाभावोक्तिः । ७ इड़ायां सूक्तवाके च
स्थितानामाशिषां स्थाने आगूर्नामकमन्त्रस्य प्रयोगः ।
८ इड़ानिगदकथनम् । ९ सूक्तवाकनिगदोक्तिः । १०
नामादेशाभावोक्तिः । ११ सवनीयपश्विड़ायाः कथनम् ।
१२ अग्निप्रणयनोत्तरकालं गार्हपत्याहवनीययोर्मध्ये
दीक्षितानामासनशयनरूपसञ्चारदेशः । १३ सत्रिणां दीक्षा-
विधानम् । १४ महाव्रतसहिते सत्रे विशेषोक्तिः १५ द्वाद-
शाहतापश्चितेषु यत्संख्याः सुत्यास्तत्संख्याएवोपसदो
दीक्षाश्च भवन्तीति । १६ विकृत्ये काहानां कर्माचारः ।
१७ दीक्षाकालएव विधातव्ये दीक्षोपसत्सहितानामेकाहः-
प्रयोगकालविधानम् । १८ दीक्षाहःसु परिसमाप्तेषु अनन्तरं
यदहस्तस्मिन्नहनि सोमक्रयविधानम् । १८ सू० ४ अ०
२ क० । १ सोमक्रयदिवसे प्रायणीयेष्टिकरणम् । २ प्रायणी-
येष्टेः शंय्यन्तत्वम्, नोदयनीयान्तत्वमिति । ३ उक्ताया
इष्टेरनाज्यभागत्वं नोदयनीयत्वमिति । ४ अहर्गणेषु
सोमक्रयस्य सकृदेव कर्त्तव्यत्वम् । ४ सू० ४ अ० ३ क० ।
१ सोमक्रयरूपं कर्म । २ क्रीतं सोमं प्राग्वंशसमीपं
नेष्यत्सु अध्वर्य्युषु अनसः पश्चात् त्रिपदमात्रेऽतीते
चक्रवर्त्मनोर्मध्यभागस्य सरलदेशे प्रेषितस्य सतः पार्ष्णी-
अचास्नयतः प्रपदेन दक्षिणस्यां दिशि त्रिःपांशूद्वपनम् ।
३ अन्तरेणैव वर्त्मनी अनुव्रजतएव उत्तराअनुवचनम्
न व्रजनविक्षेपे इत्युक्तिः । ४ अवस्थितस्यानसो दक्षिणपार्श्वेन
सोमसमीपं गत्वा तमीक्षमाणस्य तत्रैवावस्थानम् ।
५ अवस्थितेऽनसि दक्षिणात् पक्षादभिक्रान्तस्य सोमा-
भिमुखं अवस्थानम् । आहवनीयस्याग्रतोनुव्रजनञ्च । ६ सोमे
निहिते तिष्ठतएव परिधानोक्तिः । ७ उपस्पर्शनविष-
यस्य विकल्पोक्तिः । ७ सू० ४ अ० ४ क० ।
१ इड़ान्ता आतिथ्या नाम इष्टिः । २ आतिथ्यैरग्नि-
मन्थनरूपाङ्गकथनम् । ३ आतिथ्येष्टौ धाय्याद्वयं,
संयाज्यद्वयम्, आर्त्विज्यं करिष्यतां स्वयमभिमर्शनम् ।
४ उदकस्पर्शानन्तरं सोमाप्यायनम् । ५ उपसत्सु
उदकस्पर्शे उष्णोदकग्रहणम् । ६ आप्यायनमन्त्रः ।
७ उदकस्पर्शानन्तरं नमस्काराञ्जलिरूपेण प्राणिनिधानस्य
कर्त्तव्यत्वम् । ७ सू० ४ अ० ५ क० । १ उदकस्पर्शनानाम्
आप्यायननिह्नवप्रवर्ग्याङ्गत्वोक्तिः । २ प्रत्यृचमनवानमुक्त्वा
प्रणयेन तदवसानम् । ३ पूर्ब्बस्याभिष्टवनस्य एतावत्त्वकथनम्
३ सू० ४ अ० ६ क० । १ याज्याव्यवधाने सत्यप्येक-
मेवाभिष्टवनम् । २ होत्रादिषु उपविष्टेषु अंध्वर्य्यु-
कर्तृकघर्मदुघाह्वानस्य उत्तरारम्भे हेतुत्वोक्तिः ।
३ अभिहिङ्कारवर्जम् उत्तराभिष्टवनविधानम् । ४ उत्तर-
पटलस्य समष्टिप्रयोजनानि । ५ उत्तमयोः प्रवर्ग्ययोः
स्वरूपकथनम् । ५ सू० ४ अ० ७ क० । १ प्रव-
र्ग्योपसदोः सम्बन्धाय प्रवर्ग्यार्थं प्रपन्नस्य उपसत्करण
विधानम् । २ उपसदि पित्र्याया जपलोपः । ३ पित्र्ययैव
प्रवेशोपेवशनयोर्व्याख्यानम् । ४ पित्र्याया उपवेशनाति-
देशात् दक्षिणोपर्युपस्थताविधानम् । ५ उपसद्यायमीढुषे
इत्याद्याः तिस्रः सामिधेन्यः । ६ तासामुत्तमेन प्रणवेनाग्निं
सोमं विष्णुमावाह्योपवेशनम् । ७ एकेषां मते देवतानाम्
नावाहनम् अनावाहनेऽपि उक्ता एव देवताः इत्युक्तिः ।
८ स्विष्टकृदादिप्रयाजाज्यभागलोपकथनम् । ९ आप्या-
यननिह्नवयोर्नित्यत्वकथनम् । १० अपराह्णेऽपि कर्त्तव्याया-
मुपसदि विशेषादिकथनम् । ११ तत्र पूर्व्वापराह्णिककर्म्माणि ।
१२ पौर्व्वाह्णिकीनामुपसदां सुपूर्व्वाह्णे, आपराह्णिकीनाञ्च
स्वपराह्णे कार्य्यतोक्तिः । १३ पूर्व्वाह्णिक्यापराह्णिक्या-
वुपसदौ एकीकृत्य एकोपसद्व्यवहारः, तादृश्या उपसदश्च
त्रिष्वहःसु कर्त्तव्यत्वम् । १४ षट्सु वेति व्यवस्थाविकल्पः ।
१५ अहीनादीनाम् अध्वर्य्युप्रत्ययादुपसन्निश्चयः । १६ एकेषा
शाखिनां ज्योतिष्टोमस्य प्रथमप्रयोगे धर्म्मेच्छाभावोक्तिः ।
१७ औपवसथ्येऽहनि वर्त्तमानयोरुपसदोः पूर्वाहणएव
कर्त्तव्यत्वम् । १८ होता दीक्षितश्चेत् तदा औपवसथ्येऽ-
हनि प्रथमोपसदि समाप्तायां प्रेषितः पुरीष्यचित्यर्थम-
नुवचनम् । १९ होतरि अदीक्षिते यजमानस्यानुवचनम् ।
२० पश्चात् पदमात्रे स्थित्वाऽभिहिङ्कृत्य पुरीष्यासोऽग्नयः
इति सप्रणवाया ऋचस्त्रिरनुवचनम् । २१ सुमन्द्रेणैवा-
नुवचनं नोपांश्विति । २२ व्रजत्सु अध्वर्य्युषु अनुब्रुव-
तोऽनुव्रजनम् । २३ तिष्टत्सु अध्वर्य्युषु अनुवचनारम्भ-
स्थाने स्थित्वा भूर्भुवः स्वरिति वाचं विसृज्य प्रणयतेति
सम्प्रैषानुवचनम् । २४ होता दीक्षितश्चेत् प्रस्तोतृकर्तृ
सञ्चितस्य अग्नेः अनुगीतस्याशंसनरूपसंस्कृतिः ।
२५ त्रिर्म्मध्यमया वाचा पूर्वोक्तमग्न्यनुशंसनम् । २६ अग्नि-
पुच्छस्य पश्चात् वैश्वानरीययजनम् ॥ साग्निचित्येषु क्रतुषु
पुरीष्यचितिः, अनुशंसनं, वैश्वानरीयमित्येतत् त्रयं
भवतीत्युक्तिः । २८ ब्रह्मणो नियमभेदः । २९ उक्तस्याग्नि-
प्रणयनस्य कर्त्तव्यत्वम् । ३० दीक्षितश्चेद्ब्रह्मा तदा तस्य
पृष्ठ ०८६१
वसोर्धाराहोमकाले तत्प्रतिगमनविधानम् ३० सू० ४ अ०
८ क० । १ हविर्धानयोः शकटयोः अध्वर्य्युकर्तृकं प्रवर्त्तनम् ।
२ उक्तप्रर्वत्तने सोमप्रवहणेन कार्य्यतोक्तिः । ३ पूर्व्वो-
क्तानुवचने विशेषकथनम् । ४ रराट्यामबद्धायाम् अधिद्वयोरि-
त्यस्या ऋच अर्द्धर्चेऽवसानम् । ५ बद्धां रराटीमीक्षमाणस्य
ऋग्विशेषानुवचनम् । ६ उपनिहतयोर्मेथ्योः ऋग्विशेषेण
परिधानम् ६ सू० ४ अ० ९ क० । १ प्रेषितानुवचने इतिकर्त्त-
र्व्यताकलापः । २ अनुव्रजत उत्तरानुवचनम् ।
३ ऋग्विशेषसमाप्तौ प्रणवेनोपरमः । ४ आग्निध्रोयम-
भिव्रजत्सु अध्वर्य्युषु उत्तरेण तमतिब्रज्य ऋग्विशेषस्यानु
वचनम् ऋग्विशेषस्य चार्द्धचे आरामः । ५ प्रपद्यमानस्य
सोमस्याऽनुप्रपदनप्रकारः । ६ शालासुखे भतोपवेशन-
प्रकारः । ७ व्रह्मकर्तृकस्य सोमप्रणयनस्य पाक्षिकत्वकथनम् ।
८ सोममप्रणयतो ब्रह्मणः कर्त्तव्यभेदः । ९
आहवनीयस्य दक्षिणतः व्रह्मोपवेशने नियमः । १० अग्नि-
चित्यासहितायां सोमयागक्रियायाम् अग्निपुच्छस्य
दक्षिणत उपवेशनम् । ११ अग्निषोमीये प्रशौ उक्त
ब्रह्मासनातिदेशः । ११ सौत्ये चाहनि वपाहोमचर्य्यन्तमाह-
वनीयस्य दक्षिणत आसनम् । १३ गृहपतये सोमं प्रक्ष्यय
हविर्धाने चाग्रेण यदि गतः स्यात्तदा प्रपद्य-
माने सोमे आसादनार्थं पुनः प्रत्येयादित्युक्तिः । १३ सू०
४ अ० १० क० । १ अग्निषोमीयेण पशुना चरणम ।
२ प्रणयनपर्य्यन्तमुत्तरवेदिसमीपे आदण्डप्रदानञ्च कार्य्य-
भेदाः । ३ होतुः स्वस्य धिष्ण्यस्य पश्चादुपवेशने कार्य्यभेदः ।
४ मैत्रावरुणस्य स्वधिष्ण्यस्य पश्चादवस्थानम् । ५
देवसूनां हवींषीति संज्ञाकथनम् तत्र सर्व्वासामष्टानां
देवनानां सगुणत्वम्, रुद्रस्य गुणविकल्पश्च । ६ उक्तदेवतानां
याज्यानुवाक्याकथनम् । ६ सू० ४ अ० ११ क० । १ सर्व्व-
पृष्ठानीतिवक्ष्यमाणानां हविषां संज्ञा, तासाञ्चान्वायात्यत्व
तद्देवतोपदेशस्य ध्यानार्थत्वं तासामष्टौ संङ्ख्याः तत्रादितः
षण्णामेकैकस्याश्चत्वारश्चत्वारो गुणशब्दाः ततोविष्णुपत्नी
अदितिरित्येका, ततश्चानुमतिरिति द्वे । उक्तानामष्टानां
देवतानां याज्यानुवाक्याकथनम्, । वैश्वानरीयस्य
नवमत्वं, कायस्य दशमत्वञ्च । ३ औपयाजैरङ्गारैर्व्यवायपरि-
हारे यत्नस्य कार्य्यता । ४ आग्नीध्रस्थोत्तरेण होतुर्नयनं
दक्षिणे होत्रीये निधानम् । ५ शामित्रोदाहरणे दक्षिणेन
मैत्रावरुणं, होत्रीय एव निधानम् । ६ उपोत्याननिष्क्रमणे
कृत्वा वेदग्रहणम् । ७ हृदयशूलोद्वासनप्रकारः ।
८ वसतीवरीणां परिहारे क्रियमाणे दीक्षितानामन्तर्भावः
अदीक्षितानां बहिर्भावश्च । ४ अ० १२ क० । १ यस्यां
रात्रौ पशोः समाप्तिस्तस्यान्तुर्य्यभागे पक्षिप्रवादनात्
प्राक् प्रातरनुवाकायामन्त्रितस्य विधिपूर्व्वकः आहुति-
होमः । २ उक्तविषये द्वितीयाहुतिहोमः । ३ ब्रह्म-
णश्च होतुश्चायं विधिः समान इति । ४ हविर्धाने
प्राप्य रराट्यभिमर्शनम् । ५ दक्षिणेन पाणिना पर्य्यायेण
रराट्यभिमर्शनम् । ६ मन्द्रस्वरेण प्रातरनुवाकानुवच-
नम् । ७ प्रातरनुवाकार्थमाम्नानविशेषः । ८ अग्नि-
देवताकक्रतुः ४ अ० १३ क० । १ औषस्यक्रतुः ॥ २ तत्रेति-
कर्त्तव्यताकलापः ४ अ० १४ क० । १ आश्विनः क्रतुः । २ तत्र
प्रातरनुवाकः । ३ पूर्व्वोक्तादन्यः प्रातरनुवाकः । ४ अन्यै-
श्छन्दोभिराग्नेयस्य गायत्रस्य च्छन्दसोनात्यावपनम् ।
५ राजन्यस्य न त्रैष्टुभ, वैश्यस्य न जागतमिति ।
६ अध्यासवत् एकपदद्विपदाना संहितानामन्ते प्रणवक-
रणम् । ७ माङ्गलादीनां यथाक्रमं वक्तव्यता । ८ प्रेष्यतः
स्वर्गकामस्य माङ्गलकथनम् । ९ तमसोपघातपर्य्यन्तं
इडेद्यावीयसूक्तावर्त्तनम् । १० त्रमसोपघातकाले ईडेद्या-
वीयस्य उत्तमयर्चा प्रतिप्रियतममिति सूक्तस्योपसन्तननम् ।
११ उत्सर्पणस्वरूपकथनम् । ११ सू० ४ अ० १५ क० ।
५ अध्याये । १ परिधानोत्तरानुवचनप्रकारः । २ तत्र
निगदादि । ३ अपोनप्तीयाणां प्रयोगमन्त्रौ । ४
प्रातःसवनस्य मन्द्रस्वरेण प्रयोगः । ५ अध्यर्द्धकारस्या-
नुच्छासेन वचनम् । ६ वृष्टिकामस्य सामधेनीवत् प्रकृत्या-
वचनम् । ७ प्रकृतिभावे यथर्चमर्द्धर्चे लिङ्गाकाङ्क्षा । ८
दशमीग्रहणे ब्रह्मणानुवादः । ९ एकधनासु अप्सु
आवर्त्तनीयर्चकथनम् । १० दृष्टिपथमागतासु तासु जप्यमन्त्रः ।
११ समीपागतासु तासु जप्यमन्त्रः । १२ वसतीयरीषु
समायातासु ब्राह्मणोक्तकार्य्यचरणम् । १० तीर्थदेशे होतृचमसे
अपां पूर्य्य माणे आपोनदेवीः इति मन्त्रं समाप्य प्रणवेनोषरमः ।
१४ निगदकथनेन निष्क्रमणविधिः । १५ आसामेकधना-
नामागच्छन्वीनां सुखतो गत्वा ता! अपरेणातीत्य उत्तरतः
स्थितिविधिः । १६ तास्वदूरेणातीतास्वन्वावर्त्तनम् । १७
अन्वावृत्य मन्त्रक्रमेण व्रजनम् ऋगवानपक्षे प्रणवेनस-
न्तानक्रिया । १८ तिसृणाम् उत्तमयानुप्रपदनम् । १९ तृणानि-
रसनेन होमाभिमुखे उपवेशनप्रकारः । १९ सू० ५ अ०
१ क० । १ उपांशुनामग्रहे हूयमाने तदभिमुखीभूय प्राण-
वायोर्नासिकाद्वारेण बहिष्करणम् । २ वहिःस्थस्य बायो-
पृष्ठ ०८६२
र्नासिकया देहे प्रवेशनप्रकारमन्त्रौ । ३ उपांशुग्रहार्थसो-
मसवनसाधनपाषाणं व्यानाय त्वेत्यभिमृश्य वाग्विसर्गः ।
४ मैत्रावरुणब्रह्मणोः कार्य्यभेदः । ५ ताभ्यामितरेषां
दीक्षितानां कार्य्यभेदः । ६ विप्रुड्ढोमौ कृत्वा अध्वर्य्यु-
मुखा अन्योन्यं स्पृशन्त आतीर्थदेशात् सर्पन्तीत्युक्तिः ।
७ बहिष्पवमानस्तुत्यर्थमुद्गातारमभिमूखीकृत्य ऋत्विजा-
मुपवेशनम् । ८ तत्रैवासोनेन होत्रा तेषामुपविष्टानामनु
मन्त्रणेमन्त्रः । ९ होतुर्दीक्षितत्वेऽनुमन्त्र याजमानार्थं
गमनम् । १० दीक्षितस्य होतुरुत्तरसवनयोः सर्पणमपि ।
११ ब्रह्ममैत्रावरुणयोर्विधानभेदः । १२ प्रातःसवने ब्रह्मणः
कार्य्यभेदः । १३ तस्यैव द्वितीयतृतीयसबनयोः कार्य्यभेदः ।
१४ मन्त्रभेदं जत्वा मैत्रावरुणं प्रति स्तुध्वमित्युच्चैस्तेन
नियोजनम् । १४ सू० ५ अ० २ क० । १ सवनीयेन
पशुना चरणम् । २ शाखान्तरे या देवता पाशोरुक्ता
तद्दैवतः पशुः कार्य्यः । ३ । ४ क्रतुभेदे देवताभेदः । ५
अग्नीषोमीयपशुधर्म्मविशेषातिदेशः । ६ परिव्ययणप्र-
कारः । ७ ऐष्टिकेषु निगमेषु आवाहनप्रकारः । ८
हारियोजने विशेषः । ९ विषयभेदे प्रावित्रादिनिषेधः ।
१० अनिर्दिष्टदेवताकसोमानां देवताः सवनदेवता एवेति
तासामावाहनम् । ११ सूक्तवाकेऽपि तासामनुवर्त्त नम् ।
१२ अच्छावाकं विनाऽन्येषां वषट्कर्त्तॄणाम् प्रवृताहुति
होमः । १३ चात्वालमार्ज्जनप्रभृति पाशुक कर्म्मकृत्वा
सौमिककर्म्मकरणम् आदित्याद्युपस्थानञ्च । १४ आदित्या-
द्युपस्थानप्रकारः । १५ निर्म्मन्थदेशे यूपादिभिः सह
आदित्वादीनामुपस्थानम्। १६ शामित्रोवध्यगोहचात्वालोत्-
करास्तावानां सव्यावृतामुपस्यानम् (आस्तावोबहिष्पवमान-
स्तुतिदेशः) । १७ आग्नीध्राच्छावाकवदनस्थानदक्षिणमार्जा-
लीयग्रहचमससादनदेशरूपखराणां दक्षिणावृतामुक्तप्रकारेण
उपस्थानम् । १८ आग्नीध्रमुत्तरेण परिव्रज्य सदोद्वारं प्राप्य
सदोऽभिमर्शनमन्त्रः १९ द्वारिभवे स्थूणे अभिमृश्य शाला-
मुखोयादीनामुपस्थानम् । २० उपस्थितानुपस्थितयोर्दर्शन-
पूर्ब्बकं सर्व्वतोदृष्ट्या सदसः पूर्व्वद्वारस्थेनोपस्थानं कार्य्य-
म् । २१ उरुन्न इत्यृचं सह जपन्तः होता मैत्रावरुणः
ब्राह्मणाच्छंसी पोता नेष्टेत्येते पञ्च पूर्ब्बद्वारेण सदःप्रविश्यो-
पतिष्ठेरन्नित्युक्तिः । २२ तेषामुक्तक्रमेण सदः प्रवेशः, व्युत्-
क्रमेण उपवेशनं ततो मन्त्रविशेषजपः । २३ प्रसर्पकाणा
मृत्विजामुपस्थानादिजपान्तधर्म्मस्य ब्रह्मण्यतिदेशः ।
२४ स्वस्वभक्ष्यचमससमीपे तेषामुपवेशनम् । २५ उक्त-
रूपेणाग्नीध्रस्य सुप्रकाशम् आग्नीध्रीयस्थानप्रवेशः ।
२६ प्रसर्पिणांतेषां दक्षिणादय उदक् संस्थानानीत्युक्ति ।
२७ आद्ययोर्होतृमैत्रावरुणयोर्वैपरीत्यं ततश्च मैत्रावरुण-
दक्षिणतः स्रस्थानतश्चोत्तरतोहोतुः स्थानम् । २८ तेषां
यथास्थान मुपविष्टानां स्वस्वस्थानस्योत्तरदेशस्य विसंस्थितसंचार-
संज्ञा । २९ अनुक्तस्थानानामृत्यिजां दक्षिणधिष्ण्यमुत्तरेण
विसंस्थितसञ्चारैत्युक्तिः । २९ सू० ५ अ० ३ क० ।
१ प्रतिसवनमिन्द्रदैवतैः पुरोडाशैश्चरणम् । २ प्रातःसवने
धानावन्त करस्भिणमित्यनुवाक्या । ३ माध्यन्दिनतृतीय
सवनयोः प्रैषभेदः । ४ आदेशपदमुद्धृत्य तेनैव पदेन यागः ।
५ यत्र क्वचित् कर्म्मणि प्रैषेण यागे कर्त्तव्ये यज योऽस्तु
इत्युद्धृत्य तयोः स्थाने आगूर्वषट्कारौ कृत्वा यागैत्युक्तिः ।
६ अनुसवनमनुवाक्याभेदः । ७ अनुवाक्यास्थपुरोडाशस्य
बहुवचनान्ततोक्तिः । ८ ऋग्भेदे ऊहनिषेधः । ८ सू०
५ अ० ४ क० । १ द्विदैवत्ययाज्याप्रैषानुवाक्याभिश्चरणम् ।
२ द्विदैवत्ययोरनुकाक्ययोरुक्तिः, तेअप्यपृथक्सप्रणवे प्रयोज्ये
ते च सहानवानम् । ३ प्रैषाणामनवाननिर्ण्णयः । ४
ऋग्भेदे द्वे याज्ये ते च सहानवानम् एकागुरे पृथक् वषट्
कारे च वक्तव्ये इत्युक्तिः । ५ प्रातःसवने इदमादि अनवानं
याज्यानुवाक्ययोरिति निर्ण्णयः । ६ प्रैषौ याज्यानुवाक्ये च
उत्तरयोर्ग्रहयोरनवानं भवतीत्युक्तिः । ७ सोमग्रहण-
पात्रमहुत्वा अघ्वर्युणा तद्ग्राह्यम् । ८ तत्र च मन्त्रः । ९
तद्गृहीत्वा दक्षिणोरुच्छ्वादनेन तत्र स्थापयित्वा आकाश-
वतीभिरङ्कुलीभिरपिधानम् । १० एवमुत्तरपात्रयोर्ग्रहणा-
सादनपिधानानि । ११ प्रतिग्रहभक्षणकाले सव्येन पिधा-
नम् । १२ मैत्रावरुणस्यासादने विशेषः । १३ अनुवचन-
याज्यासंप्रैषाः नित्यमध्वर्युणा कार्य्याः । १४
अनुसवनं चमसेषून्नीयमानेभ्यः सोमेभ्य एकैकसूक्तजपः ।
१५ अनुसवनं प्रेषितस्य होतुःस्वाभिः प्रस्थितयाज्याभि-
र्यजनम् । १६ प्रशास्त्रादीनां नामादेशं प्रेषिताना-
मेव यजनम् । १७ प्रशास्त्रादिग्राह्यकथनम् । १८ प्रा-
तःसवनीयप्रस्थितयाज्योक्तिः । १९ तृतीयसवनीयानु-
वषट्कारः । २० मारुत्वतीये हारियोजने प्रस्थितया-
ज्यादिभेदः आश्विने याज्याशून्यत्वञ्च । २१ यज्ञ-
गाथा । २२ प्रतिवषट्कारं भक्षणम् । २३ तूष्णीमेवो-
त्तरभक्षणम् । २४ अध्वर्योराहवनीयदेशात् सदसो-
गतिः । २५ अगच्छन्तमध्वर्य्युं प्रति अयभिग्नीदिति होतुः
प्रश्नः । २६ पृष्टस्य तस्य होतारं प्रति अयाडित्युत्तरोक्तिः ।
पृष्ठ ०८६३
२७ ततो होतृजप्यमन्त्रः । २७ सू० ५ अ० ५ क० ।
१ इतरपात्रद्वयं सव्येनापिधाय ऐन्द्रावायव पात्रं दक्षिणह-
स्तेनोत्तरभागे गृहीत्वा अध्वर्युणापि तस्य ग्रहणाय एष
वसुरिति मन्त्रेण होत्रा प्रणयनम् । २ नासिकाभ्यामव-
घ्राय होत्रा सोमस्य भक्षणे मन्त्रः । ३ होत्रा भक्षितमध्व-
र्युणा च प्रतिभक्षितं होतृचमसे किञ्चिदवनीय अनाचम्यै
वोपह्वानाटि क्रत्वा पुनः सह भुक्त्वा शेषं होतृचमसे
आनीय तत्पात्रोत्सर्गः । ४ उत्तरग्रहपात्रे उक्तधर्म्मा-
तिदेशः । ५ उत्तरग्रहपात्रयोर्न पुनर्भक्षणम् । ६ द्विदै-
वत्यानां मध्ये कस्यचित् ग्रहस्य होतृचमसे अनवनीतस्य
नोद्सर्गः । ७ होत्रा मैत्रावरुणस्य ग्रहपात्रस्याध्वर्यवे
पूर्व्ववत् प्रणयनम् । ८ तस्य दक्षसव्याभ्यां नेत्राभ्यां
क्रमेणेक्षणम् । ९ मैत्रावरुणस्योत्सर्गान्तं कर्म्म कृत्वा
दक्षहस्तेनाश्विनमपिधाय सव्येन होतृचमसादाने-
मन्त्रोक्तिः । १० सव्यस्यारत्निना सव्योरुवसनमाच्छाद्य
तत्र निधायावृताङ्गुलीभिरपिधानम् । ११ होतृचमसं
सव्येनापिधाय दक्षिणेनाश्विनं गृहीत्वा पूर्व्ववत् प्रणाम-
नम् । १२ आश्विनमुतसृज्य दक्षहस्तेन होतृचमसं
निधाय जलं स्पृष्ट्वा इडोपह्वानम् । १३ इडोपह्वान-
काले चमसिनः स्वस्वचमसस्येड़ासमीपे उद्यमनम् ।
१४ अवान्तरेडां प्राश्याचम्य होतृचमसभक्षणम् । १५
दीक्षितस्य होतुः दीक्षिता उपह्वयध्वमित्युक्त्वा
चमसभक्षणम् । १६ यजमाना उपह्वयध्वमित्युक्त्वा वा होतुश्चमस
भक्षणम् । १७ मुख्यान् प्रति पृथक् तत्तन्नासोत्कीर्त्तनेन
इतरानमुख्यान् प्रति होत्रका उपह्वयध्वमिति कीर्त्तनेन च
चमसभक्षणम् । १८ उक्तरूपेण दीक्षितादीक्षितानां मैत्रा-
वरुणादीनां स्वस्वचमसभक्षणम् । अदीक्षितानां समान
भक्षं प्रति पूर्व्ववत् उपह्वानं कृत्वा चमसभक्षणमिति भेदः
२० अचमसानां मुख्यचमसाद्भक्षणम् । २१ द्रोणकलशा-
दुद्धृत्याचमसानां सोमभक्षणम् । २२ सर्व्वत्र सोमभक्षणे
वाग्देवीत्यादिमन्त्रजपः । २३ होतुर्वषट्कर्त्तृत्वात् प्रथम-
भक्षणं पश्चादुद्गात्रादीनां भक्षणमिति गौतममतम् ।
२४ तौल्वलिमते इतरेषामभक्षणम् । २५ गाणगारिमते
सर्वेषां भक्षणम् । २६ सोमभक्षोत्तरं मुखहृदयस्पर्शे मन्त्रः
२७ प्रथमद्वियीययोः सवनयोराद्यानां द्वितीयानाञ्च
चमसानां जलेनाभिमर्शने मन्त्रद्वयम् । २८ तृतीयसवने आद्या-
नामे व तथाभिमर्शनम् । २९ ऊर्द्ध्वपात्राणि विना सर्व-
पात्राणां मुखहृदयाभिमर्शनम् । ३० इत्थमाप्यायनेन
भादितानां चमसानां नाराशंससंज्ञा ३० सू० ५ अ० ६ क० ।
१ अस्मिन्काले अच्छावाचस्याग्नीध्रस्योत्तरं सदोगत्वा
स्वस्थाने उपवेशनम् । २ अध्वर्य्युणा दत्तं पुरोडाशखण्ड-
मिड़ामिवोद्यम्य प्रेषितस्याच्छावाकस्य जप्यं नृचम् । ३
यजमानेत्यादिना अन्त्येन प्रणवेनोपसन्तननरूपनिगदः ।
४ उक्तनिगदसमाप्तौ अध्वर्युणा होतुरुपहवाकाङ्क्षा । ५
उपह्वाने प्रकारः । ६ उन्नीयमानाय प्रत्यस्मा इति सूक्तस्या-
च्छाबाकेनानुवचनपूर्ब्बकंयजनम् । ७ पुरोडाशखण्डं
निधाय जलं स्पृष्ट्वा चमसभक्षणम् । ८ अस्पृष्टोदकानां सोमे-
लेतरहविषां स्पर्शनिषेधः । ९ पुरोडाशखण्डप्राशनप्र-
कारः । १० यदाच्छावाक उपविष्टस्तदा ब्रह्मा तीर्थेन निष्क्रम्य
बहिर्वेद्यामाग्नीध्रीयं प्राप्नोति अच्छावाकश्च दृगलरूपं पुरो-
डाशखण्डं प्राश्य तीर्थेन निष्क्रम्याचम्य तं देशं प्राप्नु-
यात् इतरे होत्रादयोऽप्यनुपविष्टएवाच्छावाके तं देशं
प्राप्नुयुरित्युक्तिः । ११ अस्मिन् काले क्षुन्निवृत्त्यर्थभन्यदपि
प्राश्य प्रतिसृप्य उत्तरकण्डिकीक्तं कर्म्म कार्य्यम्
११ सू० ५ अ० ७ क० । १ सर्व्वेषु प्रतिसृप्तेषु ऋतुयाजै-
श्चरणम् । २ तत्र प्रैषाः । ३ प्रैषसमाम्बाये पञ्चमसूक्तस्य
ॠतुयाजानां प्रैषत्वम् । ४ स्वस्वप्रैषेण प्रेषि तस्य यजनम् ।
५ अध्वर्य्युगृहपतिभ्यां प्रेषितस्य होतुर्यजनम् । ६
पार्ष्णिके षष्ठेऽहनि अध्वर्य्युगृहपतिभ्यां स्वयंयजनम् ।
७ तयोर्यजनप्रकारः । ८ वषट्कर्तॄणामानान्तर्य्येण
ऋतुपात्रभक्षणम् । ९ तत्र अध्वर्य्योः पृथक्भक्षणम् । १० तत्रैव
काले प्रतिभक्षकस्योपहानम् ५ अ० ८ क० । १
ऋतुपात्रभक्षोत्तरमध्वर्योः कार्य्यप्रकारः । २ प्रातःसवने शस्त्रा-
दिषु पूर्वोक्तप्रकारातिदेशः, पर्य्यायप्रभृतीनां सर्व्वत्रान्तःश-
स्त्रत्वम् । ३ उक्तेनोपाह्वानेनोत्तरयोरुपसन्तननम् ।
४ ओथामोदैवेत्यस्य प्रतिगरसंज्ञा सच शस्त्रस्वरतुल्यस्वरः
इत्युक्तिः । ५ आहावे शोंसामोदैवेत्यादेः प्रतिगरसंज्ञा
६ प्रणवे प्लुतादि अवसाने अप्लुतादिरिति परिभाषितम् ।
७ आहावोत्तरे प्रणवे प्रणवत्वं न प्लुतादित्वम् । ८
अवसाने प्रणवस्य प्रतिगरमंज्ञा । ९ प्राणवान्तस्य उक्तविषयद्वय
विकल्पः । १० अन्तःशस्यप्रणवावसानो प्रतिगरसंज्ञा शस्त्रान्ते
तु प्रणवत्वं न प्लुतादित्वम् ११ त्रिपदषट्पदादौ
शंसनावसानविशेषः । १२ निविदो यथापठितमवसानं
कर्त्तव्यं तत्रैकश्रुत्यञ्च । १३ निविदां आह्वानाभावः ।
१४ तस्या उपसन्तननाभावश्च । निविदामुत्तमेन
पदेनाज्यसूक्तस्योपसन्तननम् । १६ उक्तप्रकारेण सर्व्वा
पृष्ठ ०८६४
निविदः शंस्तव्या इत्युक्तिः । १७ पदसमाम्नायानामपि
निविदां तुल्यशस्तव्यत्वम् । १८ अस्या निविदोऽन्यासु
निवित्सु पदसमाम्नायेषु च उपसन्तननम् । १९ अन्यासु
निवित्सु आह्वानञ्च भवतीत्युक्तिः । २० यत्र द्वे सूक्ते
त्रीणि वा आज्यकार्य्ये विहितानि तत्राद्यस्यैवाद्ययाः
त्रिःशंसनं नोत्तरस्येति नियमनम् अर्द्धर्चशोविगृह्य च
तथात्वम् । २१ विग्रहे प्राणसन्तानस्य कार्य्यता । २२ प्रति-
पदामाद्याया ऋचः पूर्वोक्तप्रकारेण गन्तव्यता ।
ऋगावानस्य तथात्वञ्च । २३ ब्राह्मणविहितस्य आनुपूर्व्येवि-
कल्पः । २४ याज्यान्तानां शस्त्रत्वमुत्तमाया आह्वानपूर्ब्बकप-
रिधानीयत्वञ्च । २५ सर्व्वासु शस्त्रपरिधानीयासु उक्तधर्म्मा-
तिदेशः । २६ उक्थं वाचीत्यादि शस्त्वा जपः तत्र याज्या,
उक्थपात्रस्याग्रे भक्षणञ्च २७ सर्व्वशस्त्रयाज्यान्तेषु
चमसिनश्चमसभक्षणम् । २८ आदित्यसावित्रग्रहयोर्वषट्कर्त्तु-
र्भक्षणाभावः । ५ अ० ९ क० । १ शस्त्रात् परं स्त्रोत्रं भवती-
त्युक्तिः । २ एषेति प्रोक्ते प्रस्तोत्रा उद्गातुर्हिङ्कार काले प्रातः
सवने शस्त्रायाह्वयीरन् इत्युक्तिः । ३ उत्तरयोः सवनयोः
प्रतिहारकाले तथाह्वानम् । ४ वायुरग्रेगा यज्ञ-
प्रीरित्यादीनां सप्तानामृचां पुरोरुक्संज्ञा तस्यास्तस्या-
उपरिष्टात् तृच तृच तत्र शंसेदित्युक्तिः । वायवायाहि
दर्शतेति सप्तानां तृचसंज्ञा ६ शस्त्रस्य प्रौगसंज्ञा ।
तत्र द्वितीयायास्त्रिःपाठ्यत्वम् । ७ पुरोरुक्संज्ञकानां
सप्तानमृचां मध्ये विश्वान् देवानित्येतस्या षष्ठ्याः अर्द्धर्चे
अर्द्धर्चे त्रिरवसानेनाह्वानम् । ८ पुरोरुचा उत्तमया न
शंसेत् तस्या अंशसने ऽपि तृचे आह्वानं क्तर्त्तव्यम् ।
९ प्रौगस्य भाधुच्छन्दआर्षत्वम् । १० उक्थं वाचि श्लोकाय-
त्वेति शस्त्वा जपः । तत्र विश्वेभिः सोम्यं मध्विति
याज्या । पशस्तां ब्राह्मणाच्छंसी अच्छावाक इत्येते त्रयः
शस्त्रिणोहोत्राकाश्च इत्युक्तिः । ११ उक्तानां त्रयाणां प्रातः
सवने चतुराहवानि शस्त्राणि । तृतीयसवने पर्य्यायेषु
अतिरिक्तेषु भवन्तीत्युक्तिः । १२ माध्यन्दिने पञ्चाहावानि ।
१३ स्तोत्रियानुरूपेभ्यः प्रतिपदनुचरेभ्यः प्रगाथेभ्यःधाय्या-
भ्यश्च पृथगाह्वानं कार्य्यम् । १४ होतुरप्येतानि उपहावस्य
निमित्तानि । १५ तेभ्योऽन्यदप्यनन्तरम् । होत्रा
कर्त्तव्यम् । १५ आदौ निविद्धानीयानां सूक्तानामनेकञ्चेत्
प्रथमेष्वाहावः । १७ आपोहि ष्ठा इत्यादि तृचे आहावः
कार्य्यः । १८ तेषां शस्त्रादिषु ये तृचास्ते स्तोत्रियानु
रूपास्तेषु आहावः कार्य्यः । १९ माध्यन्दिने तेषामेव
शस्त्रेषु तृतीया आदेशास्ते प्रगाथाः ज्ञेयाः । २० प्रगाथ
इत्युक्ते स्तोत्रियोभवति नान्यथेत्युक्तिः । २१ याज्या-
न्तानि शस्त्राणि । उक्थं वाचीत्यादि शस्त्वा प्रातः सवने
जपः । २३ षोड़शिन ऊर्द्ध्वं यानि शस्त्राणि तेष्वपि
अयमेब शस्त्वा जपः कार्य्यः । २४ सषोडशिनि उक्थे
उक्थ वाचीत्यादे र्माध्यन्दिने विशेषः । २५ अनन्तरस्य
पूर्ब्बेण तुल्यविधत्वोक्तिः । २६ छन्द्रःप्रमाणलिङ्गदैवतैः
स्तोत्रियाणां तुल्यता । २९ आर्षेणापि तुल्यतेत्येके-
आहुः । २८ आनोमित्रावरुण इत्यादयोयाज्याभेदाः तासां
मध्ये कासाञ्चित् स्तोत्रीयानुरूपत्वम् । तासां मध्ये यासु-
कासुचिद्यदि छन्दोगाः स्तुवीरन् तदा तिसृभिरेव स्तोस्त्रि-
यां कृत्वा शिष्टाभिरनुरूपः कर्त्तव्य इत्युक्तिः ५ अ० १० क० ।
१, २, ३, ४, ५ अतिरात्रषोड़शिनि होत्रादीनां निष्क्रमण-
प्रवेशादिप्रकारः । ६ यजमानस्य पूर्व्वद्वारेण प्रतिसर्पणम्
५ अ० ११ क० । १ उक्तकाले ग्रावस्तुतः प्रपदनम् । २ तस्य
उपसर्पणमपि तदैव । ३ तस्य हविर्द्धानशकटस्य उत्तरशिरोरूपा-
क्षशिरोदेशे तृणनिरसनं कृत्वा सोमाभिमुखं स्थितिः ।
४ तत्रोपवेशने मन्त्राभावः । ५ उपविष्टस्य यो अद्य सौम्येति
मन्त्रजपः । ६ अध्वर्य्युणा तस्मै उष्णीषदानम् । ७ तस्या-
ञ्जलिना ग्रहणेन तेन संमुखे शिरसोवेष्टनोत्तरं सोमाभिषवाव
ग्रावाभिष्टवनम् । ८ इदमादि मध्यमसवनं तत्र मध्यमस्वरेण
प्रयोगश्च । ९ अर्वुदनामधेयसूक्तोक्तिः । १० तस्य प्रा-
गुत्तमायाः आ व ऋञ्जसे इति सूक्तपाठः । ११ उक्त
सूक्तयोरुपरिष्टात् शिष्टयाऽर्वुदस्योत्तमया परिधाय वेद्यं
यजमानस्योष्णीषं तस्मै देयम् । १२ अन्त्येषु दिनेषु आदाय
पुनर्यजमानाय दानम् । १३ अन्यदिनेषु येन तद्दत्तं तस्मै
एव तद्दानम् । १४ गाणगारिमते अपराभिरूपकरणम् ।
१५ आप्यायस्व समेतु ते इत्यादयः द्वादश ऋचस्ताश्च चत्वार
स्तृचा भवन्ति अर्वुदस्य चतुर्थी उद्धर्त्तव्या तत्र उत्तमा
परिधानीया शिष्टा द्वादश ता अपि चत्वारस्तृचा एताः
पावमान्यः । १६, १७, १८, १९, एषां चतुर्ण्णां तृचानां
क्रमेण कर्म्मभेदे विनियोगज्ञापनम् यथा उदकसेकरूपे
आप्यायने प्रथमम् मार्जने द्वितीयम् दोहने तृतीयं
अभिषवेण द्रवीकृतस्याधवनीये सम्भरणरूपे आसेचते
चतुर्थम् । १० प्रतिवृहच्छब्दं चतुर्थ्या विनियोगः । ११ शब्दने
मा चिदन्यद्धीति ऋचो विनियोगः । १३ अर्वुदपावमावीभ्यो-
ऽन्यत् सर्वं समानम् । १४ केषाञ्चिन्मते अर्बुस्यैव समता
१५ अन्यमते प्र वो ग्रावाण इत्यस्य समता १६, १७ स्तुते
पृष्ठ ०८६५
माध्न्यन्दिने पावमाने विहृत्याङ्गारान् उपसर्पणम् । ५ अ०
१२ क० । १ प्रवर्ग्यवति क्रतौ दधिधर्मेण चरणम् । (दधिधर्मः
कर्मभेदः) । २ ऋगावानस्य तद्धर्मत्वम् । ३ भक्षिण
इज्या । ४ होतर्वदस्वेत्युक्तस्य उत्तिष्ठतोऽवपश्यतेत्युक्तिः ।
५ श्रातं हविरित्युक्तौ श्रातं हविरित्यनुवचनम् इयमनु-
वाक्याः । ६ परि त्वाग्ने इत्यादि मन्त्रजपे निमित्त-
भदोक्तिः । ७ दीक्षितस्यैव अनिष्ट्वा जपः । ८
सवनीयानां पुरस्तादुपरिष्टाद्वा पशुपुरोडाशेन चरणम् । ९
एकमते तेन नाचरणम् । १० आश्मरथ्यमते तेनाचरणम् ।
११ अहीनैकाहेषु नारांशंसासादनात् परं दक्षिणानयनम्
१२ अहीनैकाहेषु दीक्षितस्य जप्यमन्त्रोक्तिः । १३ आग्नी-
ध्रेण उल्लेख्यमानानां दक्षिणाहुतीनां हवनम् । १४ आहुति-
मन्त्रप्रकारौ १५ विहारदेशाभिक्रमेण नीतेषु दक्षिणाद्रव्येषु
मध्ये प्राणिरूपदक्षिणाद्रव्यप्रतिग्रहे मन्त्रभेदः । १६ अप्राणि-
द्रव्यस्याभिमर्शनमात्रम् । १७ कन्याया दैवविवाहविधि-
ना दत्ताया आदानेऽभिमर्शनमात्रम् न पाणिग्रहणम् ।
१८ एवं प्रतिग्रहनियमः सर्वत्र । १९ प्रतिगृह्याग्नीध्रीयं
प्राप्य उच्छिष्टहविषः सर्वैः घ्राणम् । ५ अ० १३ क० ।
१ मरुद्दैवतेन ग्रहेन चरणम् । २ तत्पात्रभक्षणे मन्त्रः ।
मरुद्दैवतशस्त्रशंसनम् । ३ माध्यन्दिनसवने शस्त्रादिषु
अध्वर्य्योराहावप्रकारः । ४ मरुद्दैवतौ प्रतिपदनुचरसंज्ञौ
तृची । इन्द्रनिहवः प्रगाथः । ६ ब्राह्मणस्पत्यप्रगाथः ।
७ तृचाः प्रतिपदनुचराः, द्व्यृचाः प्रगाथाः । आज्यमारभ्य
ब्राह्मणस्पत्यपर्य्यन्तं सर्व्वमर्द्धर्चम् । ८ स्तोत्रियानुचराः
प्रतिपदनुचराः सर्व्वत्र प्रगाथाः । ९ गायत्रादीनि
पङ्क्त्यन्तानि अर्द्धर्चशः शस्यानि भवन्तीत्युक्तिः । १० पङ्क्त्या
उत्तरेषु त्रिषु या अचतुष्पदास्तासामर्द्धर्चशः शंसनम् ।
११ पञ्चपदासु पङ्क्तिषु द्वयोर्द्वयोः पादयोर्द्विरवसानम् ।
१२ आश्विनशस्त्रे याः पङ्क्तयस्तासामर्द्धर्चशः शंसनम् ।
पङ्क्तिशंसनं वेति विकल्पः । १३ सूक्तगतायाः षङ्क्तेः पच्छ्वः
शंसनकथनम् । १४ पङ्क्तैः पच्छः शंसने ये उत्तमे पदे
अतिरिच्येते तयोः समं कृत्वा शंसनम् । १५ उक्ता-
दन्यत्र पच्छः शंसनम् । १६ अर्द्धर्चान्ते प्रणवं कृत्वा
सन्तननम् । १७ तत्र धय्याभेदाः । १८ मरुद्दैवतः प्रगा-
थः । १९ जनिष्ठा उग्र इति सूक्तोक्तिः । १० उक्त
सूक्तस्यार्द्धा एकाधिकाः शस्त्वा तदन्तराले इन्द्रोमरु-
त्वान् इत्येतस्या निविदोधानम् । ११ माध्यन्दिने
अयुग्मासु तथा धानम् । १२ तृचे एकां शस्त्वा युग्मासु च
अर्द्धां शस्त्वा निविद्धानम् । १३ तृतीयसबने एकां
शस्त्वा निविद्धानम् । १४ त्रिष्वपि सवनेषु नेत्रे मृजतात्मनः
पापं ध्यायता च निविद्धेया । १५ सर्व्वत्र तयैव परिधाना-
तिदेशः । १६ शस्त्वा जप्यमन्त्रः याज्यामन्त्रश्च । ५ अ० १४ क० ।
१ निष्केवल्येति शस्त्रनाम । २ यदि पृष्ठकार्य्ये रथन्तरं
सामसामगाः कुर्वीरन् अभि त्वा शूर! नोनु मः” अभि त्वा
पूर्व्वपीतय इत्येतौ प्रगाथौ स्तोत्रियानुचरौ स्याताम् पृष्ठ-
शब्देनात्र ज्योतिष्टोमाङ्गभूतं सामाभिव्यक्तमृगक्षरं
सम्पाद्य स्तुतिजन्थं शास्त्रैकसमधिगम्यं कार्यमुच्यते ।
३ अन्ययोरपि प्रगाथयोः स्त्रोत्रियानुरूपत्वोक्तिः ।
४ उक्तानां सर्वेषां प्रगाथत्वम् सामगैर्द्विपदोत्तरं तृचाकार-
तया गानेऽपि बद्धृचैरर्द्धर्चत्वेन शंसनम् कार्य्यम् ।
अनभ्यासेन तृचाकारस्तवनेऽपि ता द्वृचा एव न तृचाः
कार्य्याः ताभिश्च शंसनं कार्य्यम् । ६ वृहतीच्छन्दस्के द्व्यूच
प्रगाथे चतुर्थषष्ठौ पादौ पुनरभ्यस्य पञ्चमसप्तमयोः
पादयीरवसानकरणविधिः । ७ यदि तिस्रोवृहत्य एव चिकी-
र्षितास्तदा चतुर्थषष्ठौ पादौ द्विरभ्यस्यावसानं कार्य्यम् ।
काकुभेषु प्रगाथेषु तृतीयपञ्चमौ अभ्यस्यावसानं कार्य्यम्
९ प्रत्यादानेन उत्तरा ऋग्रूपा भवति । १० येष्वहःसु-
वृहद्रथन्तरं वा तयोः संहतिर्वा पृष्ठकार्य्ये भवति तत्र
वृहद्रथन्तरस्तोत्रियानुरुपयोः शसनं यथा भवति तथा
इन्द्रनिहवब्रह्मणस्पत्यानां शंसनम् । ११ इतरपृष्ठेषु तेषां
वृहतीं कृत्वा शंसनम् । १२ यदा वृहद्रथन्तरे
गायत्र्यादिषु अभ्यस्तापु तिसृषु ऋक्षु स्तुवते स्वयोनिषु वा
द्विपदोत्तराकारं तदापीन्द्रनिहवब्राह्मणास्पत्यानां वृहतीं
कृत्वा शंसनम् । १३ येषां हीत्रकाणां प्रगाथाः स्तोत्रियानु
रूपाःतेऽपीन्द्रनिहवब्राह्मणस्पत्यवच्छस्याः । १४ उक्तभिन्नस्य
सर्वस्य यथाश्रुतं शंसनम् । १५ एकस्मिन् दिने सर्व-
धर्म्मभागितया उपदिश्यमानोज्योतिष्टोम एकाहशब्दवाच्यां
परिमितशस्यः परिपूर्ण्णशसनयुक्तः । १६ स एकाहः यद्यु-
भयसामा वृहद्रयन्तरसामसाध्यः तस्य पवमाने योनिरनुरूपा
भवतीति । १७ ज्योतिष्टोमभिन्नः यःकश्चिदुभयसामा एकाहः
स्यात् तत्र पवमाने यत् कृतं तस्य योनिरनुरूपा शस्या ।
१८ निष्केवल्ये धाय्याया ऊर्द्ध्वं स्थानं योनिस्थानं तदेव
शंसनस्थानम् । १९ अनेकासां सामयोनीनां सह शंसने
प्राप्ते आदावेव सर्वासामाह्वानं सकृत् पृथक् वा कार्य्यम् ।
२० ब्राह्मणस्पत्यमरुत्वतीयसामप्रगाथानामनेकेषां
सहपातेषु इन्द्रनिहवादूर्द्ध्वमाहावः कार्य्यः । २१ तत्र
पृष्ठ ०८६६
धाव्यासामप्रगाथयोः प्रदर्शनम् । २२ ऋग्विशेषे ऐन्द्री
निविद् धेयेत्युक्तिः । २३ अनुब्राह्मणं स्वरः उक्थं वाची-
त्यस्य शस्त्वा जपः । पिबा सोममित्यादि याज्या । ५ अ०
१५ क० । १ होत्रकाणां स्तोत्रियानुरूपौ प्रगाथौ याज्या चेति-
निर्ण्णयः । १ तत्रैव याज्यान्तरं तत्काले सवनसंस्था
निमित्तकर्म्मकार्य्यता ५ अ० १६ क० । १ उत्तमस्वरेण
तृतीयसवनम् २ आदित्यग्रहेण चरणम् । ३ हूयमान
ग्रहाणामीक्षणे जप्यमन्त्रः । ४ स्तुते आर्भवे पवमाने विहृ-
त्याङ्गारान् मनोतादिपश्विड़ान्तं पशुकर्म्म कृत्वा नारा-
शंससादनपर्य्यन्तं पुरोडाशादिकर्म्म कार्य्यम् । ५ नाराशंसेषु
सादितेषु पुरोडाशस्य मृदुतमात् प्रदेशात् गृहीत्वा सर्व्वे
चमसिनः पुरोडाशं तिस्रःतिस्रः पिण्डीकृत्य स्वात् स्वा-
च्चमसात् दक्षिणतः स्वान् स्वान् पितॄनुद्दिश्य चमसान्तिके
अत्र पितर इति मन्त्रे स्व स्व पित्युपस्यतेत्युक्तिः ६ सव्यावृतः
आग्न्यीध्रीयं प्राप्य हविरुच्छिष्टं सर्व्वेप्राश्नीयुः । ५ अ०
१७ क० । १ सावित्रेण ग्रहेण चरणम् । २ तत्र मन्त्रभेदः ।
३ वषट्कृते होतुः शस्यवैश्वदेवशस्त्रोक्तिः । संशता तेन
द्वेष्यदिशं विहाय सर्व्वदिग्ध्यानञ्च । ४ माध्यन्दिनसव-
ने शस्त्रादिषु आहावमन्त्रः । ५ तत् सवितुरित्यादि
नवर्चां वैश्वदेवतोक्तिः तत्र उत्तमायाः परिघानीय
त्वं । ६ वैश्वदेवाग्निमारुतयोः सूक्तेषु सावित्रादिनि
विदोधानम् । ७ तत्र चतस्रोवैश्वदेवशस्त्रे प्रयोज्याः
८ आग्निमारुते शस्ते उत्तरास्तिस्रऋचः पाठ्याः ।
९ सूक्तानां दैवतस्यैव निविद्देवतात्वम् । १० दैवतेन
सूक्तान्तनानात्वम् तथाच यावतां सूक्तानामेकं दैवतं
तावदेक एव सूक्तान्त इत्युक्तिः । ११ वैश्वदेवाग्निमारु-
तयोरेकपातिन्य एव धाय्याः । १२ सर्व्वत्र प्रकृतौ विकृतौ
च वैश्वदेवेशस्त्रेद्विः पच्छः अर्ङ्खर्चशः सकृद् भूम्यु पस्पर्शने
परिधाने च मन्त्रः १३ उक्थं वाचीत्यादि शस्त्वा जपः ।
विश्वे देवाः शृणुतेत्यादियाज्याः । ५ अ० १८ क० ।
१ सौम्यस्य चरुहविष्ककर्म्मभेदस्य याज्या । २ तस्योभय
पार्श्वे घृतयाजाभ्यामुपांशुयागः । ३ तत्रैव विशेषोक्तिः ।
४ अध्वर्युणाऽऽहृतस्य उद्गातृभ्यः पूर्ब्बं गृहीत्वे क्षणस्य मन्त्रः ।
५ तस्मिंश्चरौ घृतयुते स्वस्वच्छायाऽदर्शने नैमित्तिकः मन्त्र-
द्वयजपः तौ च मन्त्रौ । ६ अङ्गुष्ठोपकनिष्ठाभ्यामाज्येन
नेत्रे अभ्यज्य छन्दोगेभ्यः प्रदानार्थमध्वर्य्यवे दानम् ।
७ दर्भेषीकाभवाग्निषु विहृतेषु पात्नीवतस्य आग्नीध्रस्य
उपांशुजप्यमन्त्रः । ८ नेष्टुर्विसंस्थितसञ्चारेण तमनु
प्रपद्य तस्यान्तिक उपविश्य पात्नीवतस्य भक्षणम् । ५ अ०
१९ क० । १ सदसोनिष्क्रम्य आग्नीध्रं प्रति गतिः ।
२ आग्निमारुत शस्त्रं द्रुतयावृत्त्या प्रयोक्तव्यम् । ३
तस्याद्यामृचं पच्छःऋगावानं शंसेत् यदि सा पच्छः शस्या
भवेत् तदा पादेपादेऽनुच्छूसन्नेव शंसेत् । ४ यदि सा
अर्द्धचशःशस्या तदार्द्धचेऽवसायानवानम् । ५ उत्तमेन
वचनेन द्वितीयायाः सन्तननं कत्त व्यम् । ६ स्तोत्रारम्भे
प्रावृतशिरस्कत्वादिभूमिस्पर्शान्तगुणोक्तिः । ७
परिधानीयाया उत्तमेन वचनेन ध्रुवग्रहस्यावसेचनं होतृच
मसे कार्य्यम् । ८ आग्निमारुते याज्याकथनम् ।
एतदन्तसोमयागस्याग्निष्टोमसंज्ञा ५ अ० २० क० ।
६ अध्याये । १ तृतीयसवने होत्रकाणामपि शस्त्राणि
भवन्ति । २ तत्र याज्याङ्गर्शस्त्राणां प्रदर्शनम् ।
३ तदन्तस्य उक्थ्यक्रतुत्वम् । ३ सू० ६ अ० १ क० । १ यदि
षोड़शी क्रतुःस्यात् तदा तृतीयसवने होत्रकशस्त्रानन्तरं
तस्य कार्य्यता । अथ शस्त्रनाम षोड़शी तस्य विधाना-
धिकारः । २ तत्र स्तोत्रियानुरूपौ तत्र च षडृचः ।
३ तत्र तिस्रोगायत्र्यः । ४ एका द्व्यृचा पङ्क्ती । ५ तृचौ
उष्णिहवार्हतौ । आधूर्ष्वस्मा इति द्विपदा साच पच्छः
शस्या । ६ अन्येषां तृचानां त्रिष्टुबादीनामुक्तिः ।
७ तत्र पूर्वं तृचं द्वेधा कृत्वा शंसेत् एकैकामृचं द्वे द्वे
कृत्वा शंसेत् । अस्य तृचस्य सप्तपदात्मकत्वात् एकैका
मृचमेकैकामनुष्टु भमेकैकां गायत्रीञ्च सम्पादयेत् तथा च
आद्यैश्चतुर्भिश्चतुर्भिः पादैरनुष्टुभः शिष्टैस्त्रिभिस्त्रिभिः
गायत्र्यः । अनेन प्रकारेण तृचा अपि षड़्भवन्तीति ।
९ निविदतिपत्तौ अस्मिन्नप्यानुष्टुभे तृचे निविद्धेयेति
परिधानीयानुष्टुभतृचदर्शनम् । १० उत्तरमस्योत्तमां-
शिष्ट्वा उत्तमां निविदं दध्यात् । ११ निविद्विशेषस्य लिङ्ग-
प्रदर्शनम् । १२ परिधानीया ऋक् । तां उप्त्वा यागः
६ अ० २ क० । १ विहृतस्य षोडशिनः इन्द्रा
जुषस्वेत्याद्याः सूत्रे पठिताः षडृचः स्तोत्रियानु-
रूपौ भवतः । २ स्तोत्रियानुरूपाभ्यामूर्द्धं विहृते
यच्छस्यं तदेव गन्तव्यम् । ३ द्वाभ्यां पादाभ्यामनर्द्ध-
र्चान्तेऽवसानम् अनृगन्ते प्रणव इत्यमर्द्धर्चशः शंसनम् ।
४ पूर्वासां पूर्वपदानां शंसनम् । ५ गायत्रीणां पङ्क्ति-
भिर्विहरणम् । ६ पङ्क्तीनां द्वे द्वे शिष्येते ताभ्यां प्रणव-
नम् । ७ उष्णिहोवृहतोभिर्विहरणम् उष्णिहामुत्त-
मान् पादान् द्वौ कुर्य्यात् । ८ चतुरोभागान् कृत्वा
पृष्ठ ०८६७
वृहतीपादैर्विहरणम् तेन अष्टाक्षरमन्त्यमाद्यं चतुरक्षरं यथा
भवति तथा विहरणम् । ९ द्विपदाश्च तत्र ताः सर्वाश्च-
तुर्द्धा कर्त्तव्याः । प्रथमायां सर्वे भागा व्यूहेनाव्यूहेन च
पञ्चाक्षराः उत्तरास्तु चतुरक्षराः । तत्र च प्रथमां
त्रिष्टुभा विहरेत् । उत्तरास्तिस्रोजगतीभिः । १० उत्त-
मायाद्विपदाया यच्चतुर्थमक्षरं तत् प्रथमस्य भागस्यान्त्यं
तदेव द्वितीयस्याद्यम् । ११ तत्र विहरणप्रकारः । १२ उत्त-
रासु इतरान् पादान् षष्ठान् कृत्वाऽनुष्टुभं च कृत्वा
शंसनम् । १३ स्तोत्नियानुरूपाभ्यामूर्द्ध्वं प्रोष्वस्मा इत्ये
बदन्तस्य शस्त्रावयवस्य विहृतसंज्ञा । १४ यत्र यत्र
विहृतो भवति तत्र तत्र यौ प्रतिगरौ तयोरुदा-
हृतिः । १५ याज्यायाजपेन मिश्रणम् । १६ मिश्रणप्रकारः ।
१७ विहृतस्य विशेषस्ततोऽन्यत्र सर्वमविहृतेन समानम् ।
१८ विहृतस्यैव विशेषः । १९ आहुतं षोड़शिपात्र
समुपहावं भक्षयेत् । २० धर्म्मोये भक्षिणस्तेऽपि भक्ष-
यन्तीत्यतिदेशः । २१ सुब्रह्मण्यवर्ज्जितमैत्रावरुणादय-
स्त्रयश्छन्दोगाः । २२ षोड़शिभक्षमन्त्रः । ६ अ०
३ क० । १ अतिरात्राधिकारः । २ प्रथमे पर्य्याये ये
स्तोत्रियानुरूपास्तेषामाद्यस्याद्यामृचं विना अन्यासु
सर्वासु ऋक्षु प्रथमानि पदानि द्विरुक्त्वा तत्रावसानम् ।
३ शिष्टयोः पादयोः समस्य प्रणवनम् । ४ होतुराद्यां
विना मध्यमानि सर्वासां पदानि सकृदुक्त्वाऽवसाय तान्येव
प्रत्यादाय तैरृगन्तानि सन्धाय प्रणवनम् । ५ उत्तमे पर्य्याये
स्तोत्रियानुरूपेषु सर्वामामृचामुत्तमानि पदानि मध्ये सर्वेसा-
च्छावाकाः द्विरुक्त्वा तैः प्रणुयुः । ६ उत्तमे पर्य्याये अच्छा-
वाकः अन्तश्चतुरक्षराणि द्विरुक्त्वा प्रणुयात् । ७ शस्त्राणां
चतुःपर्य्यायत्वम् । ८ तत्राद्यं शस्त्रं होतुः । ९ याज्याभ्यः पूर्ब्ब-
प्रतीकानि पर्याससंज्ञा । १० पर्यासोदाहरणम् । तेषां पर्या-
यसंज्ञापि । ११ पर्य्यासभिन्नानां गायत्राणामावापत्वम् ६ अ०
१ अतिरात्रे पर्य्यायेषु समाप्तेषु छन्दोगा आश्विनशस्त्रेण
स्तुवते । २ शंसिष्यन् विसंस्थितसञ्चरेण निष्क्रम्याग्नी-
ध्रीये जानुभङ्गेन षड़ाहुतीर्जुहुयात् तत्र मन्त्राः
ततआज्यशेषप्राशनं तुष्णोमेव कुर्य्यात् । ३ होमार्थं पृथक्,
कृतस्याज्यस्य शिष्टमाज्यं प्राश्य अप उपस्पृशेन्नाचामेत्
अनाचमनेऽपि नाशुद्धिरित्यत्र देवरथ इत्यादिश्रुतिनिद-
र्शनम् । ४ प्राश्य प्रतिप्रसृप्य पश्चात् स्वस्वस्थानस्य, समस्त-
जङ्खोरुररत्निभ्याम् उपस्थं कृत्वा (पादाङ्गुलीभिर्भूमिमा-
श्रित्य) उत्पतिष्यन् पक्षीव उपविशेत् । ५ कृतोपस्थोपवेशन-
स्यैव आश्विनशंसनम् । ६ एकपातिन्याः प्रतिपदः पच्छः
शंषनम् । ७ प्रतिपदा गायत्रस्याग्नेयस्योपसन्तननम् ।
८ स्तोत्रशंसने प्रातरनुवाकधर्म्मातिदेशः । ९ त्रयो वार्हता
स्तृचा स्तोत्रियाः प्रगाथा वा तान् यथादैवतं यथाश्रुतं शंसेत् ।
१० अन्येषु च्छन्दःसु यथादैवतं शंसेत् । ११ द्विपदाः
पच्छः शंसेत् । १२ एकपदाः प्रणवेनोपसन्तनुयात् ।
१३ एकपदाभ्यो याउत्तराः ताः एकपदान्तगैः प्रणवैरुप-
सन्तनुयात् । १४ अर्द्धर्चशस्येषु पच्छः शस्याः पच्छः शस्येषु
चार्द्धर्चशस्या यास्ता उद्धरेत् । १५ सूक्तन्यायेन वा
शंसनम् नोद्धार इति विकल्पः । त्रिष्टुब्जगतीभ्योऽन्यत्र
विशेषः । १७ उदिते सूर्य्ये प्रतिप्रियतममि यस्योत्तमेन
प्रणवेन सूर्य्योनोदिव इत्येतत् सन्धाय तदादीनि सौर्य्याणि
सूक्तानि शंसेत् । १८ सौर्य्यसूक्तानि सूर्य्योनोदिव इत्या-
दोनि दर्शितानि । १९ वृहस्पते अति यदर्य इत्यादि
परिधानीया । २० प्रतिपदे परिधानीयाया आहावत्वविधा-
नम् । २१ यदि वृहत्साम कुर्य्यात् तस्य योनिम् त्वामिद्धि-
हवामह इति तृचम् । एतेषु प्रगाथेषु द्वितीयाम् इन्द्र-
केतुमित्यस्योपरिष्टात्, तृतीयाम् अभि त्वेत्यस्योपरिष्टात्
शंसेत् । २२ तत्र विकल्पः । २३ आश्विनग्रहेण पुरोडाशेन
चरणम् । तत्र अनुवाक्या प्रैषः याज्याद्वयम् अध्यर्द्धा
आनवानञ्चक्रमेणोक्तानि । २५ आश्विनपुरोडाशस्य स्विष्ट-
कृताचरणेसंयाज्याद्वयम् इत्यन्तोऽतिरात्रः क्रतुः । ६ अ०
५ क० । १ नैमित्तिककार्यभेदकथनायीत्तरग्रन्थः यदि सर्वे
पर्य्यायाः प्रयुक्ता न भवन्ति इत्यवमाशङ्का स्यात् अतिक्रान्तः
प्राया रात्रिः सा पर्य्यायाणामाश्विनस्य चापर्य्याप्तेति तदा
सर्वेभ्यःपर्य्यायेभ्यः एकं पर्य्यायं समुद्धुत्य कुर्य्युः । २ तत्र
करणप्रकारः । प्रथमात् पर्य्यात् होता स्वंशस्त्रमाददीत ।
मैत्रावरुणब्राह्मणाच्छंसिनौ द्वितीयात् पर्य्यायात् स्वे शस्त्रे,
उत्तमादच्छवाकः स्वमेव शस्त्रमित्येवं प्रकारः । ३ यदा तु
प्रथमः पर्य्यायः प्रयुक्तः मध्यमोत्तमावप्रयुक्तौ तयोराश्वि-
नस्य चापर्य्याप्ता रात्रिरित्याशङ्का स्यात् तदैवं कुर्य्युः । द्वौ
होतृमैत्रावरुणौ प्रथमात्, ब्राह्मणाच्छंस्यच्छावाकौ
तु उत्तमात् शस्त्रमाददीत । ४ सर्वेषां वा स्तोमनिर्ह्रासः ।
५ स्तोमनिर्ह्रासे शस्यनिर्ह्रामप्रकारः । ६ स्तोमनिर्ह्रास
सम्भरणयोर्निह्रासविधानम् । ७ एके शाखिनः होतृ-
चर्ज्जं स्तोमनिर्ह्रासं कुर्व्वन्ति । ८ अग्ने! विवस्वदूषस
इत्येतत् आश्विनीय एकस्तोत्रियः । ९ आग्नेये क्रतौ
तस्य एकस्तोत्रियस्य वृहतीच्छन्दः । १० त्रीणि षष्टिशतानि
पृष्ठ ०८६८
आश्विने पुरस्तात् सकृच्छ शनम् यथाश्रुतमनुदैवतं
११ । १२ द्विषामद्विषां वा नद्यादिभिरव्यवधाने सुत्या-
सन्निपाते सम्भवोदोषः । १३ तथा दोषसम्भावनायाम्
आसवनदेवतावाहनात् सम्यक्त्वरां कृत्वा कर्म्म कार्य्यम् ।
१४ सम्भवे दोषे सति मरुत्वतीये शस्त्रं यस्मिन् सूक्ते निवि-
द्धीयते तस्य सूक्तस्य पुरस्तादिदं सूक्तं शंसेत् । १५ निष्के-
वल्ये योजात इवेति सूक्तशसनम् । १६ वैश्वदेवशस्त्र वैश्व-
देवसूक्तस्य पुरस्तात् शंसनम् । १७ एतेषु आगन्तुषु
निविदादध्यात् यस्य पुरस्तात् शस्यानि सूक्तानि विहि-
तानि तान्युद्धारेत् । १८ निविदः स्थानं यद्यतिहरेत्
तदा यस्मिन् सूक्ते निविदतिपन्ना तत्पूर्व्वापरभूतं
समाप्य आगन्तुकात् दैवतात् पुरस्तात् “मा प्रगामेति” मूक्तम-
खण्डितं शस्त्वाऽन्यस्मिन्नागन्तुके तद्दैवतानां निविदं
दध्यात् । ६ अ० ६ क० । १ सवनार्यस्य सोमस्य सवने
समाप्ते अतिरेके सोमातिरेकसंज्ञा । स च स्तुतशस्त्रो-
पजननो भवति तत्र छन्दोगैः स्तोतव्यं, बह्वृचैः शस्तव्यम् ।
२ तत्र प्रातःसवने स्तोत्रियानुरूपयाज्याकथनम् । ३
गायत्र्या वैष्णव्या यजनं वेति विकल्पः । ४ गाणगारि-
मते इन्द्रावैष्णव्या यजनम् । ५ “ऐन्द्रावैष्णवी” च सं वां
कर्म्मणेत्यादि” त्रिष्टुप्छन्दस्कात्र यजने ग्राह्या । ६
माध्यन्दिनमवने स्तोत्रियानुरूपयोः याज्यायाश्च उक्तिः ।
७ तृतीयसवने यद्यग्निष्टोमे सोमातिरेकः तदा उक्थ्यं
कुर्य्यात् । यद्युक्थ्ये सोमातिरेकस्तदा षोड़शिनं कुर्य्यात्
यदि षोड़शिनि तथा स्यात् तदाऽतिरात्रं कुर्य्यात्
इत्युक्तिः । ८ आतिरात्राच्चेत् सोमातिरेकस्तदा प्रतत्तेइत्यादि
स्तोत्रियानुरूपौ कृत्वा माध्यन्दिनसवनवत् शेषकरणम् ।
९ माथ्यदिनीययाज्यात्रयम् ६ अ० ७ क० । १ क्रीते
सोमे नष्टे दग्धे वा प्रायश्चित्तविधिः । २ सदोऽपिधा-
नानि हविर्धानानि अमन्त्रकं कुर्युरिति पूर्व्वपक्षः । ३
समन्त्रकं वा तदाचरणमिति सिद्धान्तः । ४ सोमेन यागसिद्धिरि-
त्यतोऽन्यसोमविधानेन सोमाभिषवः । ५ सोमान्तरालाभे
पूतिका फाल्गुनानि वा संसृष्टान्थभिषुणुयुः । (पूतिका
सोमसदृशी लतारूपा फाल्गुनानि च स्तम्बरूपा ओषधिभेदा
अभियुक्तोपदेशेन स्वरूपतोज्ञेयाः) । ६ फाच्छनालाभे
दूर्व्वादिसंसृष्टपूतिकाग्रहणम् । ७ दीक्षास्वकृतासु क्रीतसोम-
नाशे आ सोमनाशात् दीक्षाकालवर्द्धनम् उपसत्सु जातासु
सोमनाशे उपसत्कालवर्द्धनम् । तत्र सर्व्वत्र प्रधानका-
द्धानुरोधेन कालवर्द्धनन् । कालवर्द्धनेऽपि सोमालाभे
प्रतिनिधिना प्रधानकालमध्ये यागसमापनम्
इत्येकः पक्षः । भूः स्वाहेति प्रायश्चित्तं कृत्वारब्धं
प्रयोगं विसृज्य सोमं सम्पाद्य पुनर्यागकरणमिति सिद्धान्त
पक्षः । ८ सुत्यासु नष्टे सोमे तदलाभे प्रति-
निधिप्रयोगकरणमेव न तत्राहर्वृद्धिः प्रयोगत्यागोवेति
सिद्धान्तः । प्रातःसवने सोमे नष्टे प्रतिनिधिद्रव्यम-
मिषुत्य तद्रसेन प्रतिदुहोमिश्रणम् (सद्योदुग्धं पयः
प्रतिधुक्) । १० माध्यन्दिने तत्र पक्वपयोमिश्रणम् ।
११ तृतीयसवने पूर्ब्बवत् दधिमिश्रणम् । १२ फाल्गुना-
नां प्रतिनिधित्वेन ग्रहणे श्रायन्तीयं साम ब्रह्म-
साम भवति वारवन्तीयञ्च यज्ञायज्ञीयस्थाने ।
१३ ब्रह्मसाम तु तत्रविषये श्रायन्तीयं साम यज्ञायज्ञीयंतु
यथोक्तमेवेति एकमतम् । १४ प्रतिनिधिना उदवसानी-
यान्त यज्ञं समाप्य तस्माद्देशादुदवसाय सोमं सम्पाद्य
पुनर्यागः कार्य्यः । १५ पुनः प्रयोगे पुनर्दक्षिणा । १६ यद्यु-
पात्तेऽपि प्रतिनिधौ यागात् प्राक् सोमलाभः
तदाप्रतिनिधिद्रव्यत्यागेन यथोक्तमेव सोमेन यजनम् प्रतिनि-
धिनिमित्तानि सोमश्रपणादीनि न भवन्ति । यदा पुनर-
हर्गणेषु मुख्यासम्भवात् प्रतिनिधिनैवैकमहः क्रियते
तदा सत्रप्रयोगं समाप्य उदवसाय तदेवाहः पुनः
प्रयुञ्जीरन् तथा च आरब्धं फलसाधनं यज्ञ प्रयुज्य-
समाप्यैतत् कर्त्तब्यं नावान्तरमेकस्याह्नः प्रयोगः
एकाहेषु प्रतिनिधावुपात्ते प्रतिनिधिनैवेष्ट्वा पुनर्यागः । १६ सू०
६ अ० ८ क० । १ दीक्षितानां मध्ये कस्यचित् व्याध्या-
द्युपतापे प्रायश्चित्तविधानम् । २ जीवानामस्थता इत्यादि
मन्त्रचतुष्टयेन या ओषधीरिति सृक्तेन च पीड़ितं
स्नपयित्वानुमार्जनं कार्य्यम् एतत्सर्व्वं ब्रह्मणा कार्य्यम् ।
३ अनुमार्जने मन्त्रभेदाः । ४ एवमुपतप्तस्य कर्म्मणि कृते
सर्वेषां यथास्थानं गतिः । ५ तस्मिन्निमित्ते त्रातार-
मिन्द्रमित्याद्या ऋक् तार्क्ष्यकार्य्यंस्याद्या भवति । ६ तस्मिन्
वैश्वदेवसूक्तादिजपः कार्य्यान्तरञ्च । ७ रोगनिवृत्तौ
यथोपदिष्टतया प्रकृत्यैव सर्व्वं कार्यम् । ७ सृ० ६ अ० ९ क० ।
१ मृते तस्मिन् अतीर्थेन निर्गमय्य अवभृतार्थं सङ्कल्पिते
देशे मृतस्य प्रेतालङ्कारादिकरणम् । २ मृतस्य कशश्मश्रु-
लोमनखवापनम् । ३ उशीरेणानुलेपनम् । ४ नलकृत-
मालापरिधापनम् । ५ प्रेतस्य देहस्थान्त्राणि निःपुरीषाणि
कृत्वा पृषदाज्येन पूरयित्वा पुनर्देहे बन्धनीयानी
त्येकमतम् । ६ मृतस्य वाससा वेष्टनप्रकारः । ७ तस्यैव
पृष्ठ ०८६९
वस्त्रस्यैकदेशस्य प्रेतक्रियाधिकारिणा ग्रहणम् । ८ प्रतेस्या-
ग्नीन् द्वयोररण्योः समारोप्य देवयजनस्य बहिर्वेदिप्रेतमा-
नीयाग्निं मथित्वा विहृत्य तत्रैव दहेयुः । ९ अनाहिताग्ने-
रौपासनरूपेणाऽऽहार्येण दाहः । १० दीक्षितस्य पत्नीमर-
णेऽपि लौकिकाग्निना दाहः । आहिताग्नेरपि सर्वा-
धाने लौकिकाग्निनैव पत्न्या दाहः । औपसनाग्निसत्त्वे
तु तेन दाह इति भेदः । ११ प्रेतदाहदेशादागत्य पूर्वा-
परीभूताहःसमापनं यथाविहितं कुर्य्युः । १२
दीक्षितदहनोत्तरं शास्त्रानुवचनाभिष्टवनसंस्तवनेषु विशे-
षोक्तिः । १३ श्मशानायतने परितः कर्त्तव्यभेदः ।
१४ होतुःस्वस्थानात् पश्चादुपवेशनम् । १५ तत्र अध्व-
र्य्योरुपवेशनप्रकारः । १६ तत्र आयं गौरित्यादिषु ऋक्षु
उपांशुस्तुतिप्रदर्शनम् । १७ स्तवनोत्तरंहोतुः कर्त्त-
व्यम् । १८ । १९ । तत्र यमदृष्टान्ततया प्रेहिप्रेहीत्यादि
सूक्तजपः । २० अनुद्रवणास्थिसञ्चने कृत्वा यथासन-
मृत्विजामासादनम् । २१ तेषां भक्षणप्रकारादि । २२
दीक्षितस्य मृत्युदिने उक्तप्रकारं कर्म्म समाप्य सप्तदशस्तोमं
त्रिवृत्पवमानकं रथन्तरपृष्ठमग्निष्टोमसंस्थं वृहद्रथन्तरं
दीक्षितमरणनिमित्तं सत्रमध्ये सत्रिणः कुर्य्युः । २३ उक्ते
अह्नि समाप्ते एतान्यस्थीनि अवभृतकाले अवभृतार्थं संङ्क-
ल्पितास्वप्मु कुम्भेन सह क्षिपेयुः एतस्य मृतस्य
तदहरिति वदन्तः सर्वे सत्रिणः कुर्य्युः । २४ मृतस्य दाहा-
दारभ्य कार्य्यान्तरोपदेशः । २५ शेषसमापने मृतस्य संख्या-
पूरणाय तत्सन्निकृष्टं दीक्षयित्वा सत्रसमापनं कुर्य्युः
२६ गृहपतौ मृते तदहःप्रवृत्तं समाप्यावभृथं
कृत्वा सदोदग्ध्वा च सत्रादुत्थानं भवति न पुनः
शेषसमापनम् । २७ गृहपतेरपि अस्थिसंञ्चषादयः पूर्व्वेणतुल्याः
कार्य्याः । २८ एकाहेषु यजमानस्य पूर्ब्धासने तस्य तस्य
शयनम् । २९ मृतस्य गृहपतेः वहन्तीषु अप्सु अवभृथ
कर्म्म कृत्वा प्रेतस्य तत्र निक्षेपः एवमालेखनस्य आचा
र्य्यस्योक्तिः । ३० आश्मरथ्यमते तस्य यज्ञपात्रैः
सहदाहः । ३१ एतत्पक्षे अयमेव अवभृथोनान्यः ।
६ अ० १० क० । १ सोमयागस्य अग्निष्टोमोऽत्यग्नि-
ष्टोम उक्थ्यः षोड़शी वाजपेयोऽतिरात्रोऽप्तोर्याम इति
सप्त संस्थाः । २ तासां मध्ये यामुपयन्ति तस्यान्ते यज्ञपुच्छं
नाम कर्म्म कर्त्तव्यम् । ३ यज्ञपुच्छस्य प्रकारः । तत्र
सूक्तवाकप्रैषस्य उत्तमत्वम् । ५ तत्र पुरोडाशकरणं
तद्देवता च । ६ सवनीयस्य पशोःपशुपुरोडाशपक्षे अवीवृधेतां
पुरोडाशैरिति वचनमित्युक्तिः । ७ सवनीयैः कार्म्मभिः
इन्द्रवृद्धिः पशुपुरोडाशेन पशुदेवतावृद्धिः । ८ शंयु-
वाकादूर्द्ध्वं हारियोजनं कार्य्यम् । ९ हारियोजनस्य
अनुवाक्याप्रैषयाज्याः । १० अहर्गणेषु अन्त्येष्वहःसु उक्ते
एव याज्यानुवाक्ये । ११ अहर्गणेष्वन्त्येभ्योऽन्यानि, तेषां च
प्रतीकोक्तिः । १२ सारस्वतसत्रादिषु यानि सुत्यानि सौत्या-
होभिरुत्तरवन्ति तेष्वन्त्येष्वनुवाक्या । १३ हारियो-
जने मैत्रावरुणस्य अनुवषट्कारात् प्राकतिप्रैषनामक-
प्रैषकथनम् । १४ अतिरात्रे तेऽश्वः इत्यत्र तेऽद्येति
प्रयोगः । १५ वक्ष्यमाणे श्वःसुत्यामित्यत्र अद्य सुत्या-
मिति प्रयोगः । १६ आग्नीध्रः अतिप्रैषस्यान्तं श्रुत्वा
यज्ञः श्वः मुत्यामित्यादि मन्त्रं वदेत् ६ अ०
११ क० । १ उन्नेत्राहृतं द्रौणकलशमिडामिव प्रतिगृह्यो-
पहवमिष्ट्वा द्रोणकलशस्थसोममवपश्येत् । २ शस्तुः प्राणभक्ष
मन्त्रः हरिवत इत्यादि । द्रोणकलशस्थमोमं गृहीत्वा
मन्त्राभ्यां मुखहृदथमभिमृश्य येन पथा सदोहवि-
र्धानं वा गतः तेन पथा तत्र प्रतिनिवृत्तिः । विनि-
सृप्ताहुतिनामकौ होमौ कुर्य्यात् तत्र होममन्त्रौ च ।
३ षड्भिर्मन्त्रैः आहवनीये षट्षट्शकलाभ्याधानम् ।
ते च देवकृतस्यैनसैत्यादयः सूत्रोक्ताः षट् । ४ द्रोण-
कलशाद्धानागृहीत्वा पश्येयुः तत्र मन्त्रः आपूर्य्या इत्युक्तिः
४ तुष्णीमवघ्राय ता धानाः अन्तःपरिधिदेशे निवपेयुः ।
आहवनीयदेशात् सर्वे दक्षिणावृतः प्रत्येत्याग्नीघ्रीयं
गच्छेयुः विनिसृप्ताहुतिपर्य्यन्तमेतत् सर्वं सर्वे कुर्युः ।
७ तांश्चमसान् गत्वा आर्द्रदूर्वाजातीयानि निष्पीड्य
स्वेस्वे चमसेंऽन्तरा प्रक्षिप्य सर्वे चमसिनः स्वान् स्वान्
चमसान् दूर्वादिरसयुक्तान् गृहीत्वा प्रोक्षिताभिरद्भिः स्वं
खमात्मानं दक्षिणैः पाणिभिरप्रदक्षिणं पर्युक्षेरन् । ८ सव्यै
र्वा पाणिभिः प्रदक्षिणं पर्युक्षेरन् । ९ तत्र पर्युक्षणे गाथा-
मन्त्रः । १० पित्रादित्रयजीवने नैता गाथा पाठ्याः नापि
पर्युक्षणं कुर्य्युः तद्वर्जं सर्वं सर्वे कुर्युः । ११ अवध्राणा-
भिमर्शनमन्त्राः । १२ सयजमानर्त्विजां परस्परस्य हस्त
ग्रहणे मन्त्राः ६ अ० १२ क० । १ पत्नीसंयाजैश्चरित्वा-
पत्न्यै वेदप्रदानादि पूर्ण्णपात्रनियननान्तं कर्म्म कृत्वा
वेदस्तरणं कृत्वाऽकृत्वा वा प्रायश्चित्तानि जुहूयात् ।
२ पञ्चभक्तिकस्य साम्नोनिधनरूपामन्त्यां भक्तिं कृत्वा
सर्वेऽवभृथं कुर्युः । ३ जले क्रियमाणा इष्टिरवभृथेष्टिः ।
तया चरणम् । ४५ अत्र विशेषाः । अस्यामिष्टौ प्रया-
पृष्ठ ०८७०
जाद्यनुयाजान्ता नास्यामिड़ा न बर्हिष्मन्तौ प्रयाजानुया-
जावप्सु मन्तौ तौ च गायत्रौ । ६ तत्र वारुणं हनिः
हविर्दोषे सति यागावसरे हविरेवोत्पाद्य यष्टव्यम् । ७
स्विष्टिकृद्यागे अग्नीवरुणौ देवते अव ते होड़ोवरुण
नमोभिरिति द्वे ऋचौ तत्र साधनम् । अत्र च निगदाभावात्
अग्नीवरुणावादिश्य स त्वंन इत्यृचा यष्टव्यम् । ८ अस्या-
मिष्टौ नमोवरुणाय इति मन्त्रेण दक्षिणान्पादानुदके
निदध्युः । ९ तत्र आचमने मन्त्रत्रयम् । १०
आचमनप्रकारः । ११ शौचाङ्गमाचमनं कृत्वा स्नाना-
ङ्गमाचमनं कृत्वा आस्नायुः तत्र मन्त्राः । १२ अदीक्षिता-
नामुक्तमन्त्रैराप्लावनं वाऽभ्युक्षणं वा । १३ उन्नेता
स्वशास्वोक्तविधिना सर्व्वानुदकदादुत्तारयेत् । १४ उन्ने
त्रा उन्नीयमानाः उन्नेतरित्यादि मन्त्रं जपेयुः । १५
उदकादुत्तीर्य उद्वयं तमस इत्यादि मन्त्रं जपेयुः । १६ इत
ऊर्द्धं संस्थाजपपर्य्यन्तं हृदयशूलेन समानं तथा च
अनवेक्षमाणाः इत्यादयः समिदाधानान्ताः सर्व्वैः
कार्य्याः । १७ अपवृत्तकर्म्माणः संस्थाजपं कुर्य्युः १७ सू०
६ अ० १३ क० । १ गार्हपत्ये उदयनीयया चरणम् ।
२ सा च प्रायणीयया तुल्या । ३ सर्व्वसाम्येऽपि अयं
विशेषः । तत्र चतस्र आज्यहविषोदेवता अदितिः
पञ्चमी चरुहतिः पथ्या स्वस्तिस्तत्र प्रथमा इह
चतुर्थी भवतीति । ४ याज्यानुवाक्ये च विपरीते तत्र या
याज्या सा इह अनुवाक्या । तत्रानुवाक्या इह याज्या ।
५ प्रायणीयायाः कर्त्तार एवात्र कर्त्तारः । ६ संया-
ज्याया ऐकरूप्यं न याज्यात्वेन वैपरीत्यम् । ७
उदयनीयायां समाप्तायां मैत्रावरुणदैवतोऽनूबन्ध्यः पशुः ।
८ सदसि आसीनैर्होत्रादिभिः पशुः कार्य्यः स च वारुणीय
इत्येके ९ उत्तरवेदिसमीपे आसीनैस्तैः कार्य्य
इत्येके । १० तत्र नैमित्तिकः कर्म्मभेदः । अनूवन्ध्य्यपशो-
र्वपायां हुतायां यद्येकादशिन्यग्रतः कृता तदाऽग्निषो-
मायीयेण सञ्चरेण गत्वा गार्हपत्ये त्वाष्ट्रेण पशुना चरणम् ।
११ त्वाष्ट्रपशुकरणप्रकारः । त्वाष्ट्रं पशुं यूपाञ्जनादि-
कृत्वा उत्सृजेत् इत्येकः पक्षः । १२ यदि अध्वर्य्यव
आज्येन तं पशुयागं समापयेयुः तदा होतापि तथा कुर्य्यात्
१३ आज्येन समापने अनेके पक्षाः । ब्राह्मणोक्तदिशा-
वेद्याः । १४ आज्येन करणपक्षे पशुवत् शब्दप्रयोगः । १५
यद्यत्र देषिका हवींषि अनुनिर्वपेयुः धाताऽनुमतिः राका
सिनीवाली कुहूरिति पञ्च देवताः । १६ तत्र धातुरुपस्थाने मन्त्र-
भेदः । १७ एषाञ्च पञ्चानां देव्य इति संज्ञा । देवीत्वपक्षे सूर्यः
द्यौः ऊषा गौः पृथिवीति पञ्च देवताः । १८ तत्र सूर्यस्य
चातुर्मास्येभ्यो याज्यानुवाक्येग्राह्ये । १९ अनुबन्ध्यपशुद्रव्यस्या-
लाभे मैत्रावरुणीया पयस्या कर्त्तव्याः । २० सा च आज्य-
भागादिः वाजिनान्ता कार्य्या । २१ कर्म्मिणो वाजिनं भक्ष-
येयुः । सत्रविषये सर्वे भक्षयेयुः । २३ उदवसनीयया चरणं
तत्करणप्रकारः । २४ प्रकृतेन ज्योतिष्टोमाख्येन सोमेन
यजमानदक्षिणीयया दीक्षां प्रविष्टः स सोमेनेष्ट्वा अवभृथेष्टौ
दीक्षोन्मोचनं कृत्वा तस्मादुत्थित एवानूबन्ध्यान्तं प्रयोगं
समाप्य तदन्तेऽग्नीनरण्योः समारोप्य उदग्देवयजनात् यो
देशस्तस्मिन्नग्नीन्मथित्वोदवसानीयया यजते इत्येकोऽर्थः ।
अपरस्तु यदि सर्वे दीक्षिताः स्युः सत्रञ्चेति दीक्षिता
उत्यिता इति पाठः कर्त्तव्यः समासपाठेऽर्थस्य दुर्गमत्वात्
यदि सर्वे दीक्षिताः स्युस्तदा पूर्ववदेवानूबन्ध्यान्तं कर्म-
कृत्वा सर्वे स्वान् स्वानाग्नीन् स्वे स्वे चारणीषु पृथक्
पृथक् समारोप्य पूर्बवन्मथित्वा पृथगेवोदवसानीयया
यजेरन्निति विशेषतोऽर्थः । सेयमुदवसानीया
एवंरूपा भवति । पुनराधाने याम्नाता इष्टिस्तद्रूपा ।
सा च अविकृता अविभक्ताज्य भागविकारा उपांशुत्वरहिता
केवलमग्निदेवता । ६ अ० २४ क०
इथं पूर्वार्द्धस्य षष्टाध्यायीरूपस्य प्रतिसूत्रमभिधेयार्था
दर्शिताः उत्तरार्द्धमपि षड़ध्यायीरूपम् बाहुल्यभयात् तत्र-
त्यप्रतिसूत्रप्रतिपाद्यार्था न दर्शिता मूलग्रन्थे दृश्याः । संक्षे-
पेणायमर्थस्तत्रत्यः । सप्तमाष्टमाध्याययोः सत्राधिकारेण
इतिकर्त्तव्यतादिदर्शनम् । नवमे अहीनेकाहाधिकारेण इति
कर्त्तव्यताकलापः । दशमे रात्रिसत्रविवरणम् । एकादशे कामना
विशेषेण तदाचरणम् गवामयनचरणञ्च । द्वादशेगवायमनस्यैव
दिनसङ्कलनादि । प्रागस्य चतुरध्यायात्मकत्वोक्तिः प्रामादिकी ।
तदीयगृह्यसूत्रे प्रतिपाद्यविषया स्तावदभिधोयन्ते ।
तत्र प्रथमाध्याये । स्थालीपाकाद्यु पाकर्म्मान्तानि कर्म्माणि ।
१ गृह्यव्याख्यानप्रतिज्ञा । २ पाकयज्ञप्रकारः ।
३ पाकयज्ञप्रकारस्य त्रैविध्योपदेशः । ४ एतान्यपि
कर्माणि नित्यानि श्रौतैस्तुल्यानि आहिताग्नेरपीत्युक्तिः ।
५ पाकयज्ञानामर्थवादरूपं ब्राह्मणम् । १ अ० १ क० ।
१ सायम्प्रातःपक्वहविष्यहोमः । २ देवयज्ञः । ३ स्वा-
हाकारेण बलिहरणम् । ४ बलिप्रदानार्हदेवतानिर्णयः ।
५ दिक्षु देवताभ्यो देवतापुरुषेभ्यो बलिहरणम् । ६ मध्ये
ब्रह्मणे ब्रह्मपुरुषेभ्यश्च बलिहरणम् । ७ मध्ये विश्वेभ्यो
पृष्ठ ०८७१
देवेभ्यो बलिहरणम् । ८ मध्ये, दिवसे, दिवाचारिभ्यो
भूतेभ्यो बलिहरणम् । ९ रात्रौ, नक्तञ्चारिभ्यो भूतेभ्यो
बलिहरणम् । १० सर्व्वशेषे रक्षोभ्यो बलिहरणम् ।
११ पितृयज्ञे प्राचीनावीती अन्यत्र निनयादिषु दक्षि-
णावीतीत्युक्तिः । १ अ० २ क० । १ वक्षामाणकर्म्मणां
होमविधिः । २ पवित्राभ्यामाज्यस्योत्पवनम् । ३ पवित्रलक्षणो-
त्पवनयोर्निर्ण्णयः । आज्यहोमेषु परिस्तरणं कार्य्यं वा न
रेति निर्ण्णयः । ५ पाकयज्ञेषु आज्यभागौ कार्य्यौ वा न
वेति निर्ण्णयः । ६ धन्वन्तरियज्ञं शूलगवञ्च वर्जयित्वा
सर्वेषु पाकयज्ञेषु ब्रह्मा कार्य्यो वा नवेति निर्ण्णयः ।
७ अनादेशे नामधेयेन होमः । ८ अनादेशे देवता-
निर्ण्णयः । ९ एकबर्हिरादियज्ञाः समानकालिकाः ।
१० पूर्वोक्तस्य प्रमाणार्थं यज्ञगाथोदाहरणम् । १ अ०
३ क० । १ चौलकर्म्मादीनां कालविधिः । २ एके आचार्य्याः
सर्व्वस्मिन् काले विवाहमिच्छन्ति । ३ आज्यहोमः ।
४ ऋगाहुतयोव्याहृत्याहुतयश्च । ५ उभयाहुतिसमुच्च-
यपक्षः । एके अनादेशाहुतिमिच्छन्तीत्युक्तिः । ७ तेषा-
माहुतयः । १ अ० ४ क० । १ वंशपरीक्षा । २ वरगुणकथ-
नम् । ३ कन्यागुणकथनम् । ४ परीक्षान्तरम् । ५ क्षेत्रा-
द्यष्टमृत्पिण्डैः परीक्षा । ६ पिण्डानां मृद्विशेषकथ-
नम् । १ अ० ५ क० । १ ब्राह्माद्यविधविवाहोक्तिः । १ अ०
६ क० । १ विवाहे देशधर्म्मग्रामधर्म्मकुलधर्म्माणां कर्त्त-
व्यता । २ जनपदादिधर्म्मस्य सर्वत्र समानत्वमित्युक्तिः ।
३ पाणिग्रहणविधिः । पुत्रकामिना अङ्गुष्ठस्य ग्रहणम् ।
४ दुहितृकामिना अङ्गुलेर्ग्रहणम् । ५ उभयकामिनां
अङ्गुष्ठाङ्गुलिसहितहस्तस्य ग्रहणम् । ६ अग्न्युदककुम्भ-
प्रदक्षिणे वधूजप्यमन्त्रः । ७ अश्मारोहणे आचार्य्यज-
प्यमन्त्रः । ८ लाजहोमप्रकारः । भ्रात्रादिर्द्विर्लाजानावप-
तीत्युक्तिः । ९ वरोजामदग्न्यश्चेत् त्रिर्लाजानावपति ।
१० लाजेषु हविरवधारणम् । ११ वरकर्त्तृकमवदा-
नम् । १२ अवदानस्य सर्व्वत्रातिदेशः । १३ वरकर्तॄक-
होममन्त्राः । १४ अमन्त्रकं शूर्पपुटेन वधूकर्तृकं
लाजदानम् । १५ एके लाजानोप्य पश्चात्परिण-
यमाहुरित्युक्तिः । १६ शिखाविमोचनम् । १७ दक्षिणशिखा
विमोचनम् । १८ उत्तरशिखाविमोचनम् । १९ सप्त
पदीनमनम् । २० उभयोः शिरसि उदकुम्भसेचनम् ।
२१ ग्रामान्तरगमने अन्तरा वसतिः । १२ ध्रुवारुन्धत्यादिं
दृष्ट्वा वाग्विसर्जनम् । १ अ० ७ क० । १ यानारोहणमन्त्रः ।
२ नावारोहणमन्त्रः । ३ उदकादुत्तारणमन्त्रः । ४ वधूर्यदि
रोदिति तदा ऋग्विशेषं जपेत् । ५ विवाहाग्निं गृहीत्वा
गन्तव्यम् । ६ देशवृक्षचतुष्पथादौ जप्यमन्त्रः । ७ पथिका
ईक्षकाः सन्ति चेत् तदीक्षणमन्त्रः । ८ गृहप्रवेश-
मन्त्रः । ९ उपवेशनदधिप्राशनहृदयाञ्जनादयः । १०
विवाहावधि ब्रह्मचर्य्यधारणादिः । ११ त्रिरात्रं द्वादश-
रात्रं वा ब्रह्मचर्य्यधारणम् । १२ संवत्सरं वा ब्रह्म-
चर्य्यधारणम् । १३ व्रतानन्तरं वधूवस्त्रदानम् । १४ ब्राह्म-
णेभ्योऽन्नदानम् । १५ स्वस्तिवाचनम् । १ अ० ८ क० ।
१ पाणिग्रहणप्रभृतिगृह्याग्निपरिचरणम् । २ अग्नौ
नष्टे प्रायश्चित्तं कृत्वा पुनरग्निपरिग्रहणम् । ३ एके
अग्न्युपशान्तौ पत्न्या उपवासं वदन्तीत्युक्तिः । ४ तदग्निप-
रिग्रहणं अग्निहोत्रविधानेनेत्युक्तिः । ५ होमादिकालव्य-
वस्था । ६ होमद्रव्याणि । ७ उक्तद्रव्याभावे द्रव्यान्तरप्रति-
निधिः । ८ सायम्प्रातर्होमः । १ अ० ९ क० । पार्व्वणस्थाली-
पाकः । २ भोजननियमः । ३ इध्मबर्हिषोर्व्वन्धनम् ।
४ तद्देवता । ५ काम्यदेवता । ६ शूर्पमुष्टिनिर्व्व-
पणम् । ७ शूर्पमुष्टिप्रोक्षणम् । ८ अवघातप्रक्षालनेना-
नेकत्र श्रपणानि । ९ एकत्र श्रपणं वा । १० नानाश्रपण-
प्रकारः । ११ एकत्र श्रपणप्रकारः । १२ आज्यो-
त्पवनादिः । १३ आघाराज्यभागौ स्विष्टिकृद्धोमश्च ।
१४ आग्नेयादिहोमः । १५ आज्यभागयोर्यज्ञचक्षुरूप-
त्वम् । १६ यज्ञपुरुषस्य उपवेशननियमः । १७ अग्ने-
रुत्तरपूर्ब्बदेशे होमः । १ ८ हविःस्थापनदेशः । १९ पश्चाद्वर्त्ति-
होमनिर्णयः । २० स्विष्टिकृद्धोमनियमः । २१ स्विष्टकृद्धोमे
हविःशेषाभावः । २२ स्विष्टिकृद्धोममन्त्रः । २३ पूर्णपात्रनिन-
यनम् । २४ पूर्णपात्रनिनयनकालः । २५ पाकयज्ञतन्त्रम् ।
२६ दक्षिणादानम् । १ अ० १० क० । १ पशुकल्पः । २ प्रशूप-
स्मर्शनम् । ३ पशुप्रोक्षणम् । ४ पशुनिनयनम् । ५ मन्त्र-
वर्जम् पशुनिनयनम् । ६ उल्मूकाहरणम् । ७ शामि-
त्रोक्तिः । ८ पश्वन्वारम्भणम् । अन्वारम्भे कर्त्तृकथनम् ।
१० वपाहोमः । ११ स्थालीपाकश्रपणम् । १२ पश्वव-
दानं स्थालीपाकहोमश्च । १३ अवदानसहितहोमो वा ।
१४ प्रत्येकावदाने द्विर्द्विरवदानम् । १५ तूष्णीं हृदय-
शूलाचरणम् । १ अ० ११ क० । १ चैत्ययज्ञे स्विष्टि-
कृतः प्राक् बलिहरणम् । २ विदेशस्थचैत्यपक्षे पलाश-
दूतेन बलिहरणम् । ३ भयसम्भावनायां दूताय शस्त्र-
दानम् । ४ नद्यन्तरा चेत् प्लवदानम् । ५ धन्वन्तरि-
पृष्ठ ०८७२
चैत्यश्चेत्पुरोहिताय बलिहरणम् । १ अ० १२ क० ।
१ पुंसवनम्, अनवलोभनञ्च । २ तृतीयमासे पुष्यनक्षत्रे
उपोष्य तुल्यवर्ण्णावत्सायागोर्दधिमात्रया प्राशनम् । ३ प्रश्न-
वचनम् । ४ त्रिःप्राशनम् । ५ दूर्वारसस्य नासिकायां
सेचनम् । ६ नस्तस्तद्धरणम् । ७ हृदयस्पर्शमन्त्रः । १ अ०
१ ३ क० । १ सीमन्तोन्नयनं कर्म्म । २ तस्य कालनिर्णयः ।
३ होममन्त्रः । ४ सीमन्तव्यूहनम् । ५ चतुर्धा व्यूहनम् ।
६ वीणागाधकप्रेषणम् । ७ गेयगाथाकथनम् । ८ ब्राह्मण्यो
यद्ब्रूयुस्तदाचरणम् । ९ दक्षिणादानम् । १ अ० १४ क० ।
१ जातकर्म । २ मेधाजननजपः । ३ अंसस्पर्शनम् ।
४ नामकरणम् । ५ नामलक्षणम् । ६ चतुरक्षरं वा नाम ।
७ नाम्नि कामनाभेदेनाक्षरनिर्ण्णयः । ८ पुंनामधेयानि युग्मा-
क्षराणि । ९ स्त्रीनामधेयानि अयुग्माक्षराणि । १० येन
नाम्ना उपनीतः तेनाभिवादनं कुर्य्यात् । ११ मूर्द्धावघ्राणे
मन्त्रजपः । १२ कुमार्य्या अमन्त्रकं कर्म्म । १ अ० १५ क० ।
१ अन्नप्राशनम् । २ अजमांसान्नाशनम् । ३ तित्तिरिमां-
सान्नाशनम् । ४ घृतौदनान्नाशनम् । ५ अन्नाशनमन्त्रः ।
६ कुमार्य्या अमन्त्रकम् । १ अ० १६ क० १ चौलं कर्म ।
२ पूर्णापात्राधानम् । ३ कुमारावस्थानं द्रव्यासादनञ्च ।
४ कुशपिञ्जूलहस्तकुमारपित्रवस्थानम् । ५ ब्रह्मा वा
कुशपिञ्जूलानि धारयेत् । ६ अपां निनयनमन्त्रः ।
७ शिरौन्दनमन्त्रः । ८ कुशपिञ्जूलनिधानमन्त्रः ।
९ तेषु ताम्रक्षुरस्थापनमन्त्रः । १० केशच्छेदनमन्त्रः ।
११ केशस्थापनम् । १२ द्वितीयस्य तृतीयस्य मन्त्रौ ।
१३ चतुर्थस्य मन्त्रः । १४ एवमुत्तरतस्त्रिर्वारम् । १५ क्षुर-
धारशोधनमन्त्रः । १६ नापितानुशासनम् । १७
केशसन्निवेशकरणम् । १८ कुमार्य्या अमन्त्रकम् । १ अ० १७
१ गोदानं कर्म्म । २ तत्र कालनिर्णयः । ३ मन्त्रे
केशशब्देषु श्मश्रुशब्दकरणम् । ४ श्मश्रुवपनम् । ५ क्षु-
रधारशोधने विशेषमन्त्रः । ६ नापितानुशासनम् ।
७ आचार्याय दानप्रार्थना । ८ गोमिथुनदक्षिणा-
दानम् । ९ संवत्सरव्रताचरणादेशः । १ अ० १८ क० ।
१ उपनयनम् । अष्टमे वर्षे ब्राह्मणस्य । २ गर्भाष्टमे
वर्षे वा । ३ एकादशे वर्षे क्षत्रियस्य । ४ द्वादशे वैश्यस्य ।
५ आ षोड़शात् ब्राह्मणस्य नातीतः कालः । ६ आ द्वा-
विंशात् क्षत्रियस्य, आ चतुर्विंशात् वैश्यस्य । ७ अत ऊर्द्ध्वम्
अचीर्णप्रायश्चित्तान् नाध्यापयेत् । ८ संवीतचर्मनि-
र्णयः । ९ परिधेयवासोनिर्णयः । १० मेखलाविकारः ।
११ जातिभेदे मेखलानिर्णयः । १२ दण्डाधिकारः ।
१३ जातिभेदे दण्डनिर्णयो दण्डपरिमाणञ्च । १ अं० १९
क० । १ सर्वे दण्डाः सर्वेषां वा भवन्ति । २ आचार्य्या-
न्तिके उपवेशननिर्ण्णयः । ३ ब्रह्मचारिण उपवेशननिर्ण्णयः ।
५ साङ्गुष्ठापाणिग्रहणम् । ५ पाणिग्नहणमन्त्रः । ६
आदित्यावेक्षणम् । ७ तत्र जप्यमन्त्रः । ८ प्रदक्षिणावर्त्तनम् ।
हृदयस्पर्शनम् । १० अमन्त्रकं समिदाधानम् । १ अ०
२० क० । १ एकमते मन्त्रेण समिदाधानम् । २
मुखमार्ज्जनम् । ३ तेजसा मार्जनम् । ४ सावित्र्युपदेशप्रार्थना ।
५ सावित्र्युपदेशः । ६ सावित्रीवाचनम् । ७ ब्रह्मचारिणो
हृदयदेशे ऊर्द्ध्वाङ्गुलिस्थापनं मन्त्रश्च । १ अ० २१ क० । १ ब्रह्म-
चर्य्यादेशः । २ ब्रह्मचर्य्यादेशमन्त्रः । ३ वेदब्रह्मचर्य-
कालनिर्ण्णयः । ५ वेदग्रहाणान्तं वा ब्रह्मचर्य्यं भवति ।
५ भिक्षाकालनिर्ण्णयः । ६ सभिदाधानकालनिर्ण्णयः ।
७ प्रथमभिक्षानिर्णयः । ८ भिक्षामन्त्रः । ९ भैक्ष्यमाहृत्या-
चार्य्याय निवेदनम् । १० पाकयज्ञः । ११ आघाराज्य-
भागान्तहोममन्त्रः । १२ सावित्र्या द्वितीयम् । १३
महानाम्न्यादिहोमः । १४ ऋषिभ्यस्तृतीयम् । १५ सौविष्टिकृतं
चतुर्थम् । १६ वेदसमाप्तिवाचनम् । १७ ब्रह्मचर्य्यव्रत-
धारणम् । १८ मेधाजननम् । १९ उदकम्भाभिषेक-
वाचनम् । २० व्रतादेशशेषः । २१ अनुपेतस्य
विधिविशेषः । २२ उपेतस्य विधिः । २ ३ कृतम-
कृतञ्च । २४ गोदानमनूक्तम् । २५ कालोऽनिरुक्तः ।
२६ प्रायश्चित्तार्थे सावित्र्यन्तरम् । १ अ० २२ क० ।
१ ऋत्विग्लक्षणम् । २ एके युवानं वदन्ति । ३
वरणनिर्णयः । ४ वरणविशेषनिर्णयः । ५ सदस्यवरणम् ।
६ वरणविशेषः । ७ होतृवरणमन्त्रः । ८ ब्रह्मवरण-
मन्त्रः । ९ अध्वर्य्वादिवरणमन्त्रः । १० होतृप्रतिज्ञा ।
११ ब्रह्मप्रतिज्ञा । १२ अपरप्रतिज्ञा जप्यमन्त्रश्च । १३ याज्य-
लक्षणम् । १४ । १५ । १६ । १७ । १८ आयाज्य
निर्णयः । १९ सोमप्रवाकप्रश्नः । २० कल्याणैः सह संप्रयोगः ।
२१ तत्र निषिद्धानि । २२ आज्याहुतिहोमः । २३
अनाहिताग्निगृह्यशेषः । १ अ० २३ क० १ ऋत्विजे
मधुपर्काहरणम् । २ एवं गृहागताय स्नातकाय, विवा-
हार्थिने । ३ राज्ञे उपस्थिताय । ४ आचार्य्यश्वशुर
पितृव्य मातुलेभ्यः । ५ मधुपर्कस्वरूपनिर्ण्णयः । ६ सध्व-
लाभे घृतद्रव्यप्रतिनिधिः । ७ आसनपाद्यार्घाचसनीयानि
गाञ्च त्रिस्त्रिर्वेदयेत् । ८ आसनग्रहणे मन्त्रप्रकारौ ।
पृष्ठ ०८७३
९ पादप्रक्षालननिर्णयः । १० वामपादादिप्रक्षालनम् ।
११ अर्घ्यग्रहणम् । १२ अर्घ्य ग्रहणमन्त्रः ।
१३ मधुपर्केक्षणमन्त्रः । १४ मधुपर्कग्रहणादिमन्त्राः ।
१५ त्रिरुद्धरणम् । १६ मधुपर्कभोजनम् । १७ सर्व्व-
भक्षणनिषेधः । १८ तृप्तिनिषेधः । १९ अवशिष्टमधुपर्क-
प्रक्षेपः । २० सर्व्वभक्षणं वा । २१ आचमनम् । २२ द्वि-
तीयाचमनम् । २३ आचान्तोदकाय गोदानम् । २४
आलम्भनपक्षे जपोऽनुज्ञा च । २५ उत्सर्गपक्षे उत्स-
र्गमन्त्रः । २६ मधुपर्काङ्गं भोजनममांसं न भवति ।
१ अ० २४ क० ।
२ अध्याये । १ श्रवणाकर्म्मकालः । २ सक्तुकलश-
दर्व्वीस्थापनम् । ३ दिवाक्षतदानादि । ४ अस्तमिते
स्थालीपाकहोमः । ५ अवस्थाननिर्णयः । ६ पुरोड़ाशो-
परिहोमः । ७ धानाञ्जलिहोमः । ८ हुतशेषस्य प्रतिपत्तिः
९ सर्पबलिहरणम् । १० प्रदक्षिणोपवेशने परिदान-
मन्त्रश्च । ११ अमात्याय परिदानम् । १२ परिदानान्त-
रम् । १३ बलिमात्मानं चान्तरा न व्यवेयुरन्ये । १४
सायम्प्रातर्बलिहरणम् । १५ प्रकारान्तरबलिहरणम् । २ अ०
१ क० आश्वयुज्याम् आश्वयुजीकर्म्म । २ स्थालीपाक-
होमः । ३ पृषातकहोमः । ४ आहिताग्रेः आग्रहय-
णन्त्रेतायां स्थालीपाकश्च । ५ अनाहिताग्नेर्लौकिकेऽग्नौ-
२ अ० २ क० । मार्ग शीर्ष्यां चतुर्द्दश्याम् प्रत्यवरोहण-
कर्म्म । २ पौर्णमास्यां वा । ३ पायसहोममन्त्रौ ।
४ स्विष्टिकृन्निषेधः । ५ ध्यानं तन्मन्त्रश्च । ६ पुनर्जप्य-
मन्त्रः । ७ अमात्यप्रवेशः । वृद्धवृद्धतर प्रवेशः । ९ मन्त्र-
विदो मन्त्रजपः । १० उत्थाय त्रिर्जप्यमन्त्रः । ११ त्रिदिङ्मु-
खानां जपब्राह्मणभोजनस्वस्त्ययनानि, चतुर्थजप्यमन्त्रश्च
१२ स्वस्त्ययनवाचनम् । २ अ० ३ क० । १ अष्टकाकर्म्मकालः ।
२ एकस्याम् अष्टम्यां वा । ३ पूर्ब्बदिवसे सप्तम्यां पितृभ्यो
दानम् । ४ तत्र ओदनकृषरपायसानां श्रपणम् ।
५ चतुःशरावपरिमितधान्यं पिष्ट्वा पूपश्रपणम् । ६ मन्त्रा
ष्टकैर्होमः, यावद्भिः कामयेत तावद्भिर्व्वा । ७ परदिने
अष्टम्याम् अष्टका, पशुना स्थालीपाकेन वा । ८
अनुडुहो यवसमाहरेद्वा । ९ त्रयाणामप्यसम्भवे अग्नि-
ना कक्षं दहेत् । १० यवसदाने कक्षदाहे मनसा
ध्यानम् । ११ चतुर्णामेकस्याप्यनुष्ठाने नानष्टकः स्यात् ।
१२ देवताविकल्पप्रदर्शनम् । १३ वपाहोममन्त्रः ।
१४ सप्त होममन्त्राः । १५ स्विष्टिकृति अष्टमहोमः ।
१६ ब्राह्मणभोजनोत्तरं स्वस्त्ययनवाचनम् । २ अ० ४ क० ।
१ आन्वष्टक्यं तदुत्तरनवस्यां कार्य्यम् । २ मांसकल्पादि । ३
पिण्डपितृयज्ञकल्पत्वप्रदर्शनम् । ४ पितृभ्यः मधुमन्थवर्जं
पिण्डनिपरणम् । ५ मातृपितामहीप्रपितामहीभ्यः सुराच-
मेन पिण्डनिपरणम् । ६ अवटसंख्यानिर्ण्णयः । ७ पित्रा-
दिपिण्डस्थानम् । ८ मात्रादिपिण्डस्थानम् । ९ भ्राद्रापरप-
क्षीयसप्तम्यादिदिनत्रये कर्त्तव्ये साध्यावर्षे उक्तधर्म्माति
देशः । १० कृष्णपक्षे अयुग्मासु तिथिषु आन्वष्टक्यवत् ।
मासि मासि पितृभ्य एव श्राद्धं कर्त्तव्यं न मात्रादिभ्यः ।
११ आन्वष्टक्ये नवावरान् भोजयेत् । १२ अशक्तौ सप्त पञ्च
त्रीन् एकं वा । १३ वृद्धिकर्म्मणि पूर्त्तकर्म्मणि च युग्मान्
भोजयेत् । १४ इतरत्र युग्मब्राह्मणभोजनम् तिलस्थाने
यवदानञ्च । २ अ० ५ क० । १ रथारोहणात् पूर्व्वं
तत्स्पर्शनमन्त्रः । २ अक्षस्पर्शनमन्त्रः । ३ आरोहणक्रमस्त-
न्मन्त्रश्च । ४ रश्मिस्पर्शनमन्त्रः । ५ गमनप्रवर्त्तमानेषु
रथेषु जप्यमन्त्रः । ६ शकटाद्यारोहणेऽपि तस्य जपः । ७
शकटाद्यङ्गस्पर्शनमन्त्रः । ८ नावारोहणमन्त्रः । ९ नवरथे
विशेषः । १० कुटुम्बोपयोगिद्रव्याहरणम् । ११ गृहसमीपाग-
मनम् । १२ रथावरोहणमन्त्रः । १३ नवरथावरोहणमन्त्रः ।
१४ तत्र जप्यमन्त्रः । १५ तत्र पुनर्जप्यमन्त्रः । २ अ० ६ क० ।
१ वास्तुपरीक्षा । २ भूमिलक्षणम् । ३ मूमेरपरलक्षणम् ।
४ भूमेरन्यलक्षणञ्च । ५ विरूढ़दुष्टवृक्षोत्पाटनम् । ६ मूमेरुच्च-
निम्नतानिर्णयः । ७ भोजनगृहस्याननिर्णयः । ८
तत्फलम् । ९ सभागृहस्थाननिर्णयः । १० तत्फलम् ।
११ तदपरस्थाननिर्णयः २ अ० ७ क० । १ वास्तुपरीक्षण
क्रमः । २ तत्र खातखननं तत्पूरणञ्च । ३ प्रशस्तमध्य-
मगर्हितवास्तुनिर्णयः । ४ अस्तमितेऽर्के जलैस्तत्पूरणम् ।
प्रशस्तमध्यमगर्हितनिर्णयः । ६ ब्राह्मणवास्तुनिर्णथः ।
७ क्षत्रियवास्तुनिर्णयः । ८ वैश्यवास्तुनिर्णयः । ९
बहुहलैः वास्तुकर्षणम् । १० समचतुष्कोणं दीर्घं वा । ११
वास्तुप्रोक्षणम् । १२ अविच्छिन्नधारया प्रोक्षणे मन्त्रः ।
१३ अवान्तरगृहप्रभेदनिर्णयः । १४ स्थूणानां गर्त्तेषु विशे-
षविधिः । १५ मध्यमस्थूणागर्त्तेविशेषः । १६ मध्यमस्थूणा-
गर्त्ते मन्त्रः । २ अ० ८ क० । १ वंशाधानानुमन्त्रणम् । २ वर्शा-
धानमन्त्रः । ३ मणिकप्रतिष्ठापनम् । ४ तन्मन्त्रान्तरविधानम् ।
५ मणिकसेचनमन्त्रः । ६ वास्तुदोषशमनम् । ७ तत्प्रो-
क्षणम् । ८ अविच्छिन्नजलधारादानम् । ९ स्थालीपा-
कश्रपणादि शिववाचनञ्च । २ अ० ९ क० । १ गृहप्रपदनम् ।
पृष्ठ ०८७४
२ वीजवद्गृहप्रपदनम् । ३ तत्कालनिर्णयः । ४ तत्र
होमकर्म्म । ५ अनुमन्त्रणम् । ६ आयतीनां गवामनुमन्त्रणे
मन्त्रः । ७ एके अन्यसूक्तमिच्छन्ति । ८ अयातीनां
गवाभनुमन्त्रणे । २ अ० १० क०
तृतीयाध्याये पञ्चयज्ञादिसन्नाहान्तानि कर्माणि ।
१ पञ्चयज्ञप्रतिज्ञा । २ पञ्चानां नामकथनम् । ३ पञ्चानां
स्वरूपकथनम् । ४ तेषामहरहःकर्त्तव्यता । ३ अ० १ क० ।
१ स्वाध्यायविधिः । २ स्वाध्यायाध्ययननियमः । ३
ओंपूर्व्वा व्याहृतोः समस्ता ब्रूयात् । ४ सावि-
त्र्यध्ययननियमः । ३ अ० २ क० । १ स्वाध्यायक्रमः ।
२ अध्ययने दैवाहुतिनिर्ण्णयः । ३ अध्ययने पैत्राहु-
तिनिर्ण्णयः । ४ अध्ययने कालावधिनिर्ण्णयः । २ अ०
३ क० । १ देवतर्पणम् । २ ऋषितर्पणम् । ३ प्राचो-
नावीती । ४ आचार्य्यतर्पणम् । ५ पितृतर्पणम् ।
दक्षिणावीती । ६ तिथिविशेषादौ निषेधवचनं नित्यस्वाध्या-
यस्यैव, न ब्रह्मयज्ञस्य । ७ ब्रह्मयज्ञानध्यायः ३ अ० ४ क० ।
१ अध्ययनप्रारम्भः । ३ अध्ययनकालनिर्ण्णयः । ३ तत्र
कालाऽन्तरम् । ४ आज्यभागाहुतिः । ५ दधिसक्तु-
होमः । ७ होममन्त्रः । ७ तत्रान्ये द्व्यृचा मन्त्राः ।
८ एकोमन्त्रः । ९ तत्रापरोमन्त्रः । १० देवताहोमादिमार्ज-
नम् । ११ जपनियमः । १२ व्याहृतिसावित्रीजपोवे-
दारम्भश्च । १३ उत्सर्गविधिः । १४ अध्ययनकालनिर्देशः ।
१५ ब्रह्मचारिधर्म्मयुक्तोऽधीयीत । १६ ब्रह्मचारिणामपि
अध्ययनम् । १७ समावृत्तोजायां गच्छेदित्येके । १८
प्रजोत्पत्त्यर्थं जायागमनमपरे । १९ उपाकरणकर्म्म । २०
माध्यां पौर्ण्णमास्यां तत्करणम् । २१ तत्र सावित्र्यादि-
तर्पणम् । १२ आचार्य्यादितर्पणम् । २३ ततः षण्मासो-
त्तरमुत्सर्जनकर्म्म । ३ अ० ५ क० । १ काम्यकर्म्म-
स्थाने पाकयज्ञः । पुरोडाशस्थाने चरुः । ३
कामप्राप्तिफलम् । ४ नैमित्तिकहोमः । ५ होममन्त्रः ।
६ अशुभस्वप्नदर्शने उपस्थानमन्त्रः । ७ तत्र मन्त्रान्तरम् ।
८ जृम्भणादौ जप्यमन्त्रः । ९ अगमनीयगमनादौ आज्य-
होमः । १० तत्र समिदाधानं वा । ११ तत्र मन्त्र-
जपो वा । ३ अ० ६ क० । १ अभ्युदितेऽर्के स्वपतःप्रायष्टित्तम्
२ तत्र भन्त्रचतुष्टयम् । अभिनिर्मुक्तस्य प्रायश्चित्तहोमः ।
३ सन्ध्योपासनम् । ४ तत्र सायङ्काले कर्त्तव्यभेदः ।
५ तत्र प्रातर्नियमभेदः । ६ तत्र कालनिर्णयः । ७ कपोत-
पाते होमजपौ । ८ अर्थार्थं गच्छतो होमजपौ ।
९ नष्टं वस्तु लब्धुमिच्छतो होमजपौ । १० महान्तम-
ध्वानं गमिष्यतो होमजपौ । ३ अ० ७ क० । १ समाव-
र्त्तनम् । तत्र आचार्य्याय आत्मने वा एकादशद्रव्या-
हरणम् । २ उभयोद्देश्यद्रव्यालाभे आचाय्यायैव दानम् ।
३ समिदाहरणनियमः । ४ कामनाविशेषे समिन्निर्णयः ।
५ उभयकामस्यार्द्रशुष्का समित् । ६ समिदाधानादि गोदा-
नम् । ७ मन्त्रान् आत्मवाचकान् कुर्य्यात् । ८ करञ्चोन्ममर्दनम् ।
९ स्नानाञ्जनविधिः । १० कुण्डलबन्धनम् । ११
अनुलेपनविधिः । १२ स्रग्बन्धनम् । १३ त्रान्यविधिः ।
१४ छत्रादानम् । १५ वैणवदण्डादानम् । १६ मण्युष्णी-
षसमिधादानम् । ३ अ० ८ क० ।
तृतीये १ उपदेशमन्त्रः । २ प्रत्यृचं समिदा-
घानम् । ३ मधुपर्केण पूजनम् । ४ अनुज्ञाते
समावर्त्तनस्नानम् । ५ व्रतविशेषः । ६ निषेधविशेषः । ७
निषेधान्तरम् । ८ स्नातकस्य माहात्म्यम् । ३ अ० ९ क० ।
१ गुरवे नामकथनम् । २ उपवेशनानुज्ञा । ३ उच्चै-
र्नामकथनम् । ४ उपांशुकथने मन्त्रः । ५ शिष्य-
स्य उपांशुकथने मन्त्रः । ६ आचार्य्यजप्यमन्त्रः । ७
जपान्तरम् अनुमन्त्रणञ्च । ८ तत्प्रशंसा । ९ पक्षिणाम्
अमनोज्ञा वाचः श्रुत्वा जप्यमन्त्रः । १० मृगस्यामनोज्ञा
वाचः श्रुत्वा जप्यमन्त्रः । ११ भयप्राप्तौ जप्यमन्त्रः ।
३ अ० १० क० । १ सर्व्वाभ्योदिग्भ्यो भयप्राप्तौ जप्यमन्त्रो-
होमश्च । २ तत्र जप्यमन्त्रः सूक्तविशेषश्च । ३ अ० ११ क० ।
१ राजसन्नाहनम् । २ तत्र जप्यमन्त्रः । ३ राज्ञे कवचदाने-
मन्त्रः । ३ धनुर्दाने मन्त्रः । ५ राज्ञोजप्यमन्त्रः ।
६ स्वीयजप्यमन्त्रः । ७ इषुधिदाने मन्त्रः । ८ रधगमने
जप्यमन्त्रः । ९ अश्वानुमन्त्रणम् । १० इषूनवेक्षमाणस्य जप्य-
मन्त्रः । ११ संनह्यमानराजजप्यमन्त्रः । १२ मारथिनारो-
प्यमाणे नृपे जप्यमन्त्रः । १३ राजेक्षणमन्त्रः । १४ सौपर्ण-
मन्त्रः । १५ अनुक्रमेण रथगमनम् । १६ युद्धप्रदेशनिर्णयः ।
१७ दुन्दुभिवादने मन्त्रः । १८ वाणत्यागमन्त्रः । १९ युध्यमाने
राजनि पुरोहितजप्यमन्त्रः । २० तत्रपुनर्म्मन्त्रः । ३ अ० १२ क०
चतुर्थाध्याये । आहिताग्नेः पीड़ाप्रशमनादिशन्ताती-
यजपान्तानि कर्माणि । १ व्याधिपीडितस्याहिताग्रेः कर्त्त-
व्यम् । २ ग्रामकामत्वे प्रमाणम् । ३ ग्रामे वास्तव्यत्वे प्रमाणम् ।
४ अगदः सोमादिभिरिष्ट्वा ग्रामं प्रविशेत् । ५ अनिष्ट्वा वा
ग्रामं प्रविशेत् । ६ मृतस्याहिताग्नेश्चिताभूमिखननम् ।
७ खातस्य निम्नोच्चतानिर्णयः । ८ खातस्य आयामनिर्णयः ।
पृष्ठ ०८७५
९ खातस्य विस्तृतिनियमः । १० खातस्य अधोनिर्णयः ।
११ श्मशानदेशनिरूपणम् । १२ तत्स्थानस्य बहुलौष-
धिकत्वम् । १३ कण्टकिवृक्षाद्युद्वासनम् । १४
दहनलक्षणश्मशानस्य विशेषविधिः । १५ प्रेतस्य केशादि-
वपनम् । १६ बर्हिराज्यादिसंस्थापनम् । १७ पृषदाज्य-
नयनम् । ४ अ० १ क० । १ अग्नियज्ञपात्रादिनयनम् ।
२ प्रेतनयनकर्त्तृनिर्ण्णयः । ३ शकटादिना प्रेतन-
यनमित्येके । ४ अनुस्तरणीपशुस्त्रीनयनम् । ५
अनुस्तरणीं गामाहुरेके कृष्णाम् एकवर्ण्णामजामित्यपरे
८ पशोः सव्यबाहुवन्धनं कृत्वा आनयनम् । ९ तदनु-
अमात्यादोनामागमनम् । १० दाहकर्त्तुः कर्त्तव्यभेदः ।
११ दक्षिणपूबदेशै आहवनीयनिधानम् । १२ उत्तरपश्चिमे
गार्हपत्यनिधानम् । १३ दक्षिण पश्चिमे दक्षिणाग्निनिधानम् ।
१४ चिताग्निचयनम् । १५ चितायां प्रेतसंवेशनम् ।
१६ प्रेतपत्नीसंवेशनम् । १७ क्षत्रियप्रेतस्य धनुःसवे-
शनम् । १८ देवरादिना पत्न्याउत्थापनम् । १९ तत्र वृषले
उत्थापके कर्त्त्रा, देवरे तेनैव मन्त्रस्य जपः । २० धनुरप-
नयने मन्त्रः । २१ पुनः कर्त्रुत्थापकयोर्मन्त्रजपः ।
२२ धनुर्भक्त्वा क्षेपः । ४ अ० २ क० । १ पात्रयोजनम् ।
२ दक्षहस्ते जुहूयोजनम् । ३ सव्ये उपभृतानयनम् ।
दक्षे पार्श्वे स्फ्यस्य सव्येऽग्निहोत्रहवन्या योजनम् ।
५ उरः प्रभृतिषु ध्रवादिनिधानम् । ६ नासिकयोः
स्रुवाधानम् । ७ एकां स्रुवं भित्त्वा नासिकाद्वये
योजनम् । ८ कर्णयोः प्राशित्राधानम् । ९ एकञ्चेत्
भित्त्वोभयत्र तन्निधानम् । १० उदरे हविः पात्रीनिधा-
नम् । ११ तत्र समवत्तधानचमससंयोजनम् । १२ उपस्थे
शभ्यानिधानम् । १३ अरणीसूर्वोः, उदूखलमुषले जङ्घयो
र्निदध्यात् । १४ प्रादद्वये शूर्पनिधानम् । १५ एकञ्चेत्
छित्वा निधानम् पूर्ब्बवत् । १६ आसेचनपात्रे पृषदा-
ज्यपूरणम् । १७ दृषदुपलाद्यु पयोगद्रव्यनिधानम् ।
१८ लोहमृण्मयादिनिधानम् । १९ अनुस्तरण्या वपामुत्-
खिद्य तत्र प्रेतस्य शिरोमुखाच्छादनं तन्मन्त्रश्च । २०
प्रेतपाण्योर्वुक्कयोर्निधानम् । २१ हृदये हृदयाधानम् ।
२२ प्रेतपाण्योः पिण्ड्याधानमित्येके । २३ वुक्काभावे
पिण्ड्याधानभित्यन्ये । २४ प्रणीताप्रणयनानुमन्त्रणे ।
२५ दक्षिण जानुपातेन दक्षिणाग्नौ चतुराज्याहुतिहोमः ।
२६ प्रेतस्योरसि पञ्चमाहुतिहोममन्त्रः । ४ अ० ३ क० । १ युगप-
दग्निप्रज्वालने प्रेषणम् । आहवनीयस्य प्राक् प्रेतदेहप्राप्तौ
प्रेतस्य स्वर्गलांकगतिः पुत्रविशिष्टर्द्धिश्च फलम् । गार्हप-
त्यस्य तथात्वे प्रेतस्यान्तरिक्षलोकप्राप्तिः पुत्रस्य वृद्धिश्च
फलम् । दक्षिणाग्नेस्तथात्वे प्रेतस्य मनुष्यलोकप्राप्तिः
पुत्रस्य वृद्धिश्च फलम् । ५ युगपत्प्राप्तौ सर्वसमृद्धिः फलम् ।
६ दहनमन्त्रः । ७ दहनप्रशंसा । ८ जानुमात्रे गर्चेऽव-
स्थाय दाहोत्तरमातिवाहिकशरीरमास्थाय धूमेन सह
स्वर्गलोकगमनम् । ९ दाहकर्त्तृजप्यमन्त्रः पृष्ठतोऽनीक्षित्वा
सर्वेषां गमनञ्च । १० सकृत्स्नात्वा प्रेताय
जलाञ्जलिं दत्त्वान्यानि वासांसि परिधाय दिवा
आनक्षत्रदर्शनात् तत्रावस्थानम् । ११ रात्रौ आदित्यमण्डलं
दृष्ट्वा गृहं प्रविशेत् । १२ गृहप्रवेशे वृद्धादिपूर्व्वापरनिर्णयः
१३ गृहमागत्य अश्मादीनामुपस्पर्शः । १४ तस्मिन् दिने
अन्नं न पचेरन् । १५ क्रीताद्यन्नेन वर्त्तेरन् । १६
सपिण्डानां त्रिरात्रमक्षारलवणान्नाशनम् । १७ महागुरु-
मृतौ द्वादशारात्रं तथाशनं दानाध्ययनवर्जनञ्च
१८ सपिण्डेषु दशाहं दानाध्ययनवर्ज्जनम् । १९
उपनेतृगुरौ असपिण्डेऽपि दशाहं द्वादशाहं वाऽशौ-
चम् । २० अदत्तासु स्त्रीषु मृतासु दशाहम् । २१
एकदेशाध्यापकेषु त्रिरात्रम् । २२ असपिण्डज्ञातौ
त्रिरात्रम् । २३ दत्तासु स्त्रीषु त्रिरात्रम् । २४ अद
न्तजाते त्रिरात्रम् । २५ असम्पूर्णगर्भे त्रिरात्रम् । २६
सहाध्यायिषु मृतेषु एकाहम् । २७ समानग्रामीये
श्रोत्रिये एकाहम् । १ अस्थिसञ्चयनम् । २ स्त्रीपु-
रुषभेदेन कुम्भनियमः । ३ प्रोक्षणमन्त्रः । ४ सञ्चयने
पूर्ब्बापरनिर्ण्णयः । ५ सञ्चयनानन्तरमवधाननिर्ण्णय ।
६ पांशुप्रक्षेपः । ७ पांशुप्रक्षेपानन्तरम् उत्तरामृचं
जपेत् । ८ मृत्कपालेन कुम्भं पिधाय पृष्ठतोऽनवेक्षं प्रत्या
गत्याप उपस्पृश्य प्रेताय श्राद्धदानम् । ४ अ० ५ क० । १
मृतगुरुकस्यान्यतोवाऽपक्षीघमाणपश्वादिकस्यामावस्यायां शान्ति-
कर्म । २ क्रव्यादाग्निहरणम् । ३ चतुष्पथे तदग्निपरित्यागः ।
४ पृष्ठतोऽनबवेक्षणादि कृत्वा प्रत्यागत्याप उपौस्पृश्य केशा-
दीन् वापयित्वा नवघटादिकुशपिञ्जूलान्तकल्पनम् । ५
पचननामाग्निजननम् । ६ अग्निदीपनम् । ७ अग्निसेचनम् ।
८ अनडुच्चर्म्मण्यमात्यारोहणम् (कर्तृभिन्नाः सर्व्वे पुमां-
सः स्त्रियश्चामात्याः) । ९ परिधिपरिधानम् । १० आहुति
चतुष्टयमन्त्रः । ११ अमात्याः स्त्रियः तरुणतृणैर्नवनीतं
गृहीत्वा तेनाङ्गुष्ठोपकनिष्ठाभ्यां चक्षुषी आञ्जीरन् । १२ अज्य-
मानानां स्त्रीणां कर्त्त्रावीक्षणम् । १३ कर्त्तुः अश्माभिमर्शनम्
पृष्ठ ०८७६

१४ परिक्रमणजपः । १५ स्विष्टिकृदादिसमापनम् । १६
अहतवाससाच्छाद्योपवेशनम् । १७ आ उदयादस्वपन्त
आसीरन् । १८ होमसमापनम् । ४ अ० ६ क० । १ श्राद्भाधि-
कारः । २ पार्व्वणकाम्यवृद्धिश्राद्धैकोदिष्टरूपश्राद्धे पात्रविप्र-
लक्षणसंख्ये । ३ सपिण्डीकरणभिन्ने यथेष्टं विप्रसंख्या तत्र
तु त्रयाणां त्रय एव कार्य्या इति भेदः । ४ पिण्डपितृयज्ञे
उक्तानां पिण्डनिपरणादीनां श्राद्धेऽतिदेशः । ५ ब्राह्मणाय
जलदानम् । ६ दर्भासनदानम् । ७ पुनर्जलदानम् । ८ अर्घ-
पात्रे तिलावपनं तन्मन्त्रश्च । ९ पित्र्यं कर्म्म अप्रदक्षिणं
कार्य्यम् । १० अर्घदानम् । ११ अर्घदानात् पूर्ब्बं
जलदानम् । १२ अर्घस्थजलनिवेदनम् । १३ अर्घानुमन्त्रणं-
तन्मन्त्रश्च । १४ अर्घ्या आपो यस्मिन् पात्रे एकीकृताः तत्
प्रथमपात्रं नोद्धरेत् । ४ अ० ७ क० । १ गन्धादिदानम् ।
२ अग्नौ करणानुज्ञा । ३ प्रत्यनुज्ञा । ४ अग्नौ
करणहोमः । ५ पाणिष्वेव बा होमः । ६ देवपितॄणां क्रमे-
णाग्निमुखपाणिमुखत्वे । ७ भोजनपात्रेऽन्नदानविधा-
नम् । ८ हुतशेषान्नदानम् । ९ भोजनपात्रे अधिकान्न-
दानम् । १० भोजनात् तृप्तेषु पाठ्यमन्त्रः । ११ पिण्डार्थमन्नमुद्धृत्य
शेषनिवेदनम् । १२ अनाचान्तेषु पिण्डनिपरणम् ।
१३ आचान्तेषु तदित्येके । १४ ब्राह्मणानुज्ञानविकिरदानम् ।
१५ अस्तु खधेति प्रत्यनुज्ञानम् विसर्जनञ्च । ४ अ० ८ क० ।
१ अथ शूलगवः । २ तस्य कालादिनिर्णयः । ३
पशुनिरूपणम् । ४ पशुलक्षणम् । ५ कृष्णविन्दुयुक्तःपशुरित्येके ।
६ जम्बुसदृशं कृष्णं कामं गृह्णीयात् । ७ पश्व-
भिषेकः । ८ शिर आरभ्य पुच्छदेशपर्य्यन्तमभिषेकः । ९
पशूत्सर्गः । १० पशोर्वृद्धिपर्य्यन्तं पालनम् । ११ तत्र दिग्-
निर्ण्णयः । १२ ग्रामदर्शनायोग्यदेशे पालनम् । १३ अर्द्धरा-
त्रादूर्द्ध्वमुदितेऽर्के वा काले शूलगवः कार्य्यः । १४ यूपनिस्वननं
तत्र पशुबन्धनञ्च । १५ प्रोक्षणादि पशुकल्पेन समानम् ।
१६ विशेषस्त्रयं पात्र्या पलाशेन वा वपाहोमः । १७ हरादि
द्वादशनामकः होममन्त्रः । १८ उग्रादिषड़्नामको
वा मन्त्रः । १९ रुद्रनामको वा मन्त्रः । २० बलिहरणम् ।
२१ चतुर्भिः सूक्तैश्चतुर्दिशमुपस्थानम् । २२ सर्व्वरुद्रयज्ञेतस्या-
तिदेयः । ३३ स्थालीपाकव्रीहीणां तुषफलीकरणानां पुच्छच-
र्म्मशिरःपादानामग्नावनुहरणम् । (सूक्ष्मकणाः फलीक-
रणाः) २४ शांवात्यमते विशेषः । २५ अङ्गावदनसमये
शोणितनिनयनम् । २६ संज्ञपनदेशेभूमौ निपतितं रुधिरं
सर्पेभ्य उद्दिशेत् । २७ सर्व्वशब्दानां रुद्रनामधेय
त्वोत्या तस्य सर्वात्मत्वम् । २८ अस्यैव सर्ब्बा सेनाः ।
२९ सर्व्वाण्युत्कृष्टान्यस्यैवांशभूतानि । ३० इत्येवं विदं
यजमानं रुद्रः प्रीणाति । ३१ अस्य कर्म्मणो वक्तारञ्च रुद्रो
न हिनस्ति । ३२ अस्य हुतशेषं न प्राश्नोयादेकमतम् ।
३३ अस्य द्रव्याणि ग्रामं नाहरेयुः । ३४ नात्रागन्त-
व्यमिति पुत्त्रादीन् प्रतिषेधयेत् । ३५ नियमेन हुतशेषं
प्राश्नीयाति सिद्धान्तः । ३६ शूलगवस्य फलानि ३७ शूलग-
वेतेष्टा अन्यं पशुमुत्सृजेत् । ३८ सर्व्वथानुत्सृष्टपशुर्नैव
स्यात् ३९ शूलगवनामकेन पशुकर्म्मणा रहितो न भवेत्
तेन शूलगवस्य नित्यता । ४० शन्तातीयं जपित्वा
गृहप्रवेशः । ४१ पशूपतापे गोष्ठे अस्यैव रुद्रस्य यजनम् ।
४२ स्थालीपाकं निधाय सर्वहुतं कुर्य्यात् । ४३ प्रतिधूमं
गवानयनम् । ४४ शन्तातीयं जपन् पशूनां मध्यमियात् ।
४५ समाप्तिज्ञापनार्थ आचार्य्यनमस्कारः । ४ अ० ४५ क०
आश्वलायनगृह्यपरिशिष्टप्रतिपाद्यार्थाः । १
आचमनादि सामान्याङ्गम् । २ सन्ध्योपासनाङ्गाचमनादि ।
३ मार्जनम् । ४ पापशोधनम् । ५ गायत्रीस्वरूपादि ।
६ तस्या ध्यानादि । ७ आचमनमन्त्रादि । ८ मन्त्राणा-
मृषिदैवतच्छन्दांसि । ९ स्नानविधिः । १० माध्यन्दिन
स्नानविधानम् । ११ मन्त्रस्नानम् । १२ वैश्वदेवः । १३
स्वस्तिवाचनादि । १४ होमे स्थण्डिलादि । १५ स्रुक्स्रुवा-
दिसम्मार्गः । १६ ब्रह्मणः पञ्चकर्म्माणि । १७ पार्व्वण-
स्थालीपाकः । १८ नित्यमौपासनम् । १९ पुनरा-
घानम् । २० अनेकभार्य्यस्य परतऊढ़ाया धर्म्मभागित्वम् ।
२१ कन्यावरणम् । २२ उपयमनादि । २३ अन्योन्या-
वलोकनम् । २४ आर्द्राक्षतारोपणादि । २५ ऋतुमती-
कृत्यादि । २६ जातकर्म्मादि । इत्येते १ अ० गताः
२ अध्याये १ ग्रहयज्ञादि । २ ग्रहयज्ञसम्भारादि ।
३ अर्च्चनाङ्गानि । ४ अर्च्चनविधिः । ५ आवाहनमन्त्राः ।
६ ग्रहाणामधिदेवतादि । ७ गणपत्यादिदेवतावाहनम् ।
८ अग्न्युपधानादि । ९ यजमानाभिषेकः । १०
होमविधानादि । ११ भोजनविधिः । १२ शयनादि-
विधिः । १३ श्राद्धानि । १४ ब्राह्मणनियमः ।
१५ गन्धादिदानादिपिण्डपितृयज्ञान्तं कर्म । १६ अग्नौ
करणादिकर्म । १७ पिण्डदानादिश्राद्धशेषसमापनान्तं
कर्म । १८ अग्निदग्धपिण्डदानादि । १९ आभ्युदयिके
विशेषः । इत्येते २ अ० गताः पदार्थाः ।
तृतीयाध्याये १ पितृमेधः । २ अग्निदाननियमः ।
पृष्ठ ०८७७
३ अग्निकार्य्यसमापनम् । ४ कर्त्तुरुदकावाधः । ५ पिण्ड-
क्रिया । ६ नवश्राद्धानि । ७ सञ्चयनम् । ८ दशाहकृत्यम्
९ एकोद्दिष्टम् । १० एकोद्दिष्टविधिः । ११ सपिण्डीकर-
णम् । १२ आमश्राद्धम् । १३ अतीतसंस्कारः । १४ पाला-
शविधिः । १५ नारायणवलिः । १६ नागवलिः । १७
पुराणमेकोद्दिष्टम् । १८ वृषोत्सर्गः । ३ अ० पदार्थाः ।
४ अध्याये १ पूर्त्तकर्म्मादीनि अग्निकार्य्यान्तानि कर्म्माणि ।
१ पूर्त्तानि । २ मण्डलादिविधिः । ३ प्रतिमाद्रष्याणि । ४
प्रासादप्रतिष्ठादि । ५ तदनुष्ठानादि । ६ अग्निस्थापनादि ।
७ देवाभिषेकादि । ८ शान्तिप्रतिष्ठादि । ९ वाप्यादिविधिः
१० आरामादिविधिः । ११ होमविशेषः । १२ प्राचीं
दिशमन्वावर्त्तते । १३ दक्षिणां दिशमन्वावर्त्तते । १४
प्रतीचीं दिशमन्वाबर्त्तते । १५ उदीचीं दिशमन्वावर्त्तते
१६ पृथिवीमन्वावर्त्तते । १७ अन्तरिक्षमन्वावर्त्तते
१८ दिवसमन्वावर्त्तते । १९ रात्रिमन्वावर्त्तते । २०
परमन्वावर्त्तते । २१ सर्व्वा दिशोऽन्वाघर्त्तते । २२
अग्निकार्य्यफलम् । ४ अ० गताः एते पदार्थाः ।

आश्वायन पुंस्त्री अश्व + गोत्रे अश्वा० फञ् । अश्वर्षेर्गोत्रापत्ये

स्त्रियां ङीप् ।

आश्वावतान पुंस्त्री० अश्वावताननामर्षेरपत्यम् विदा० अञ् । अश्वावतानर्षेरपत्ये स्त्रियां ङीप् ।

आश्वास पु० आ + श्वस--घञ् । १ निर्वृत्तौ २ आश्रयदाने ३ भीतस्य

भयनिवारणार्थे व्यापारे ४ सान्त्वने च “धारणमाश्वास-
जननं श्रमघ्नञ्च” सुश्रु० ।

आश्वासक त्रि० आ + श्वस--णिच्--ण्वुल् । १ आश्वासकारके २ सान्त्वनासम्पपादके ।

आश्वासन न० आ--श्वस--णिच्--ल्युट् । १ सान्त्वने । “आश्वा-

सनञ्च कृष्णेन दुःखार्त्तायाः प्रकीर्त्तितम्” भा० आ० १ अ०
कर्त्तरि ल्यु । २ आश्वासकारके “तदिदं द्वितीयं हृदया-
श्वासनम्” शकु० ।

आश्वासिन् त्रि० आ + श्वस--णिनि । प्रत्थाशायुक्ते । “मनस्तु तद्भावदर्शनाश्वासि” शकु० ।

आश्वास्य त्रि० आ + श्वस--णिच्--यत् । १ सान्त्वनीये । ल्यप् ।

२ सान्त्वयित्वेत्यर्थे अव्य० ।

आश्विक त्रि० अश्वान् भारभूतान् हरति वहति आवहति

वा ठञ् । भारभूतस्याश्वस्य १ हारके २ वाहके ३ आवाहके
च । अश्वस्य निमित्तं संयोग उत्पातो वा ठक् ।
अश्वलाभसूचके ४ संयोगे ५ उत्पाते ६ निमित्ते च ।

आश्विन पु० आश्विनी पूर्ण्णिमा यस्मिन् मासे अण् । स्वनाम

ख्याते चान्द्रेमासभेदे “अहमप्याश्चिने तद्वत् सायाह्ने
बोधयाम्यहम्” दुर्गाबोधनमन्त्रः । १ अश्विमानुपधान आसा-
मिष्टकानाम् अण् मतोर्लुक् । २ इष्टकाभेदे स्त्री ङीप् । “ये
हैता आश्वेनीरुपदधाति” शत० ब्रा० ८, २, १, ११ । आश्विनौ
देवते अस्य अण् । ३ चितिभेदे च “प्र त आश्विनीः पवमानः”
ऋ० ९, ८६, ४, पञ्चाश्वित्योह ऋतव्येपञ्च वैश्वदैव्यः पञ्च-
प्राणभृतः पञ्चायस्या एकया न विंशतिर्वयस्यास्ता एकचत्वा-
शिशद्द्वितीया चितिः” शत० ब्रा० । ४ यज्ञियकपालभेदे पु०
“सौम्येन सहाश्विनो द्विकपालः सर्वत्र” कात्या० १२, ६, ३,
“मैत्रावरुणश्च म आश्विनश्च मे इति” यजु० १८, १९,
अश्विन्यां भवः अण् । ५ अश्विनीकुमारयोः द्वि० व० । अश्विनौ
देवते अस्य अण् । अश्विनीकुमारदेवताके ६ यज्ञे
७ शस्त्रे च । आश्वलायनशब्दे उदा० ।

आश्विनी स्त्री अश्विना अश्वाकारवता नक्षत्रेण युक्ता पूर्ण्णिमा

नक्षत्राण् । १ आश्वनपौर्णमास्याम् २ आश्विनशब्दोक्तार्थे च ।

आश्विनेय पु० द्विव० अश्विन्याः घोटकाकारवत्याः संज्ञायाः

अपत्यं ढक् । १ अश्विनीकुमारयोः तयोः तस्या उत्पत्ति-
कथा अरुणात्मजशब्दे ३२९ पृष्ठे दृश्या । तस्यापत्यं विदा०
अञ् । २ नकुले ३ सहदेवे च पु० तयोर्माद्र्यामश्विनीकुमारा-
भ्यामुत्पादितत्वात् तथात्वम् । “जिगाय समरे वीराना-
श्विनेयः प्रतापवान्” भा० स० प० ३ अ० । अश्वस्यैकाहगमः
पन्थाः ढक् । ३ अश्वस्यैकाहगम्ये अध्वनि ।

आश्वीन पु० अश्वस्यैकाहगमः पन्थाः वा खञ् । अश्वस्यैकाह-

गम्ये देशे “सहस्राश्वीनो वा इतः स्वर्गो लोकः” ऐत०
ब्रा० । चतुश्चत्वारिंशाश्वीनानि” श्रुतिः ।

आश्वेय त्रि० अश्वा देवता अस्य ढक् । १ तद्देवताके

हविरादौ अश्वाया अपत्यम् शुभ्रा० ढक् । २ अश्वाभवे ।

आषाढ पु० आषाढी पूर्ण्णिमाऽस्मिन् मासेऽण् । स्वनाम

ख्याते चान्द्रे १ मासभेदे “आषाढस्य प्रथमदिवसे” मेघदू०
“शेते विष्णुः सदाषाढे कार्त्तिके प्रतिबुध्यते” इति पुरा० ।
आषाढी पूर्ण्णिमा प्रयोजनमस्य अण् । व्रतिनां धार्य्ये
पालाशे २ दण्डे “उपहिताषाढम्” काद० “तत्पुत्रेण च
गृहीतव्रतेनाषाढिना” काद० । “अथाजिनाषाढघरः
प्रगल्भवाक्” कुमा० । ३ मलयपर्व्वते पु० मेदि० पृ० ढस्य डः ।
आषाडोऽप्युक्तार्थेषु । स्वार्थे कन् आषाढकोऽप्युक्तार्थेषु ।

आषाढा स्त्री आ + सह--क्त “श्रवणाषाढेति” पा० निर्द्दे-

शात् नि० षत्वमोत्त्वाभावश्च । राशिचक्रस्थे १ विंशतितमे
२ एकविंशे च नक्षत्रे “मूलं पूर्व्वाषाढा प्रथमश्चाप्युत्तरांश-
कोधन्वी । मकरस्तत्परिशेषं श्रवणा चार्द्धं धनिष्ठाया” इत्युक्तेः
सा च पूर्व्वा उत्तरा च । तत्र पूर्ब्बस्याः प्रथमपादस्य
पृष्ठ ०८७८
धनूराशिघटकत्वमुत्तरायाश्च शेषपादत्रिकस्य मकरराशि-
घटकत्वम् तत्रार्थे न० च आषाढभूः” भङ्गलग्रहः तस्य
तत्र जातत्वात्तथात्वम् ।

आषाढाभव पु० आषाढायां नक्षत्रे भवति भू--अच् । मङ्गल-

ग्रहे आषाढाजातोऽप्यत्र क्विप् । आषाढाभूरप्यत्र ।

आषाढि स्त्री आ + सह--क्तिन् नि० न ओत् षत्वञ्च । १ सम्यक्

सहने “तथाषाढेः सौश्रमतेयस्योपदधुः” शत० ब्रा० ६, २, १,
३७ । २ रतिदेव्याः स्थाने च शब्दार्थर० ।

आषाढी स्त्री आषाढया नक्षत्रेण युक्ता पूर्ण्णिमा “नक्षत्रेण

युक्तः कालः” पा० इत्यण् । १ आषाढमासीयपौर्ण्णमास्याम् ।
२ यज्ञियेष्टकाभेदे च ।

आषाढीय त्रि० आषाढायां भवः “श्रविष्ठाषाढायामिति” पा०

तस्येदम् वृद्धत्वात् वा छ । १ आषाढानक्षत्रे भवे २
आषाढसम्वन्धिनि च ।

आष्टम पु० अष्टमोभागः अण् । अष्टमे भागे ।

आष्ट्र अश--व्याप्तौ ष्टन् वृद्धिश्च । आकाशे उज्ज्व० ।

आस उपवेशनेअदादि० आ० अक० सेट् । आस्ते आस्ताम्

आसते आसीत आस्ताम् आस्स्व आद्ध्वम् आस्त आसत
आसिष्ट आसांबभूव आसामास आसाञ्चक्रे आसिता
आसिष्यते । आसीनः आसितम् आसितवान् आसितुम्
आसिता आस्तिः आसः आसनम् आसना “य आस्ते मनसा
स्मरन्” गीता “दिवि देवास आसते” ऋ० १, २०, २ ।
“आसीतामरणात् क्षान्ता” नासीत गुरुणा सार्द्धं शिला-
फलकनौषु च” इति च मनुः । “सुखितमास्स्व ततः शरदां
शतम्” सा० द० । “निबद्ध्वमाध्वं पिबतात्त शेध्वम्” भट्टिः ।
“जगन्ति यस्यां सविकाशमासत” माघः । “आसिष्ट नैकत्र
शुचा व्यरंसीत्” भट्टिः भावे आस्यते “आस्यतामिति
चोक्तः सन्नासीताभिमुखं गुरोः” मनुः । “इच्छामि नित्य-
मेवाहं त्वया पुत्र । सहासितुम्” भा० व० । अ०
“जनकोह वैदेह आसाञ्चक्रे” शत० व्रा० १४, ६, १, १ ।
तूष्णींभूय भयादासाञ्चक्रिरे मृगपक्षिणः” भट्टिः “कैलास-
शिखरासीनम्” तन्त्रम् “आसीनानां सुरभितशिलं नाभि-
गन्धैर्मृगाणाम्” मेघदू० । “आसितं भाषितं चैव मतं
यच्चाप्यनुष्ठितम्” रामा० । “जृम्भासितादिकृत” सा० द० ।
  • अधि--अध्यारोहणे सक० । गगनमध्यमध्यास्ते दिवाकरः
काद० “छायामध्यास्य सैनिकाः “ययौ मृगाध्यासित-
शाद्वलानि” इति च रघुः । जम्बूविटपमध्यास्ते
परभृता” विक्रमो० । “आचख्यौ दिवमध्यास्स्व
शासनात् परमेष्ठिनः” रघुः । अत्राधारस्य कर्म्मता ।
  • अनु--पश्चादुपवेशनेन सेवने सक० । “अन्वासितमरुन्धत्या
स्वाहयेव हविर्भुजम्” रघुः । “वृतः सखायमन्वास्ते
सदैव धनदं नृपः” भा० स० १० अ० ।
  • अभि--आभिमुख्येन स्थितौ नैकट्ये च अक० अभ्यासः
अभ्यासोयत्ते कपूययोनिमापद्येरन्” छा० उ० ।
  • उद--औदास्ये प्रकृतकर्म्मण उपरमे अक० “विधाय वैरं सामर्षे
नरोऽरौ य उदासते” माघः । “उदासीनवदासीनः” गीता
  • उप--सेवने सक० । “नोपास्ते यश्च पश्चिमाम्” मनुः ।
“उपास्येते हरिहरौ लकारोदृश्यते यतः” वाक्यप० ।
“वायुवच्चानुगच्छन्ति तथा दीनानुपासते” मनुः । “ऋतवस्त-
मुपासते” कुमा० ।
  • परि--उप--उपासनस्य प्रकर्षार्थे “यथैव क्षुधिता बाला मातरं
पर्य्युपासते” “पितामहं च के तस्यां सभायां पर्य्युपासते”
भा० स० १ अ० । (एनम्) “भुजङ्गाःपर्य्युपासते” कुमा० ।
  • सम्--उप--सम्यगुपासने सक० । “समुपास्यत पुत्रभोग्यया” रघुः
  • परि--परितः स्थितौ अक० सम्यक् सेवने सक० । तामेतद्देवाश्च
पर्य्यासते ये चेमे ब्राह्मणाः” शत० ब्रा० ।
  • सम्--सम्यक् स्थितौ उपवेशने च । “भोगिभोगसमासीनम्”
“पश्चिमां तु समासीनः” मनुः ।

आस् अव्य० आ + अस्--क्विप्--आस + क्विप् वा । १ स्मरणे,

२ आक्षेपे “आः क एष मयि जीवतीति” मुद्रारा० ।
“आदुरात्मन् वृथामङ्गलपाठक” वेणी० । ३ कोषे,
४ सन्तापे, ५ पीड़ायां सगर्वगर्जने च । “आःकिमेतदिति
क्रोधादाभाष्य महिषासुरः” देवीमा० । ६ खेदे “विद्या-
मातरमाः प्रदर्श्यनृपशून् भिक्षामहे निष्त्रपाः” उद्भटः ।

आस पु० आस--घञ् । १ आसने २ स्थितौ ३ उपवेशने आस्यतेऽ-

नेन करणे घञ् । ४ उपवेशनस्थाने गुह्यपार्श्वभागे “यथा
कप्यासं पुण्डरीकमेवमस्याक्षिणी” छा० उ० छान्दसं न० ।
अस्यते क्षिप्यतेऽनेन अस--करणे घञ् । ५ धनुषि “स सासिः
सासुसूः सासः” किरा० “सासः सचापः” मल्लि० ।
इष्वासः अस क्षेपे भावे घञ् । ६ विक्षेपे निरासः ।

आसक्त क्रि० आ + सन्ज--क्त । १ आसङ्गयुक्ते विषयान्तरपरि-

हारेण तदेकतानतयाभिनिष्टे २ अनवरते न० जटा०
३ तद्वति ४ सम्यक्संवद्धे च त्रि० आसक्तचित्तः आसक्तचेताः ।

आसक्ति त्रि० आ + सन्ज--क्तिन् । विषयान्तरपरिहारेणै-

कविषयावलम्बने “ते देवा आसक्तिमन्तं वदन्तः”
“आसक्त्यनृतं वदन्तः इति च” शत० व्रा० ९, २, १, ११, १२ । “नील-
लोहितं मवति कृत्यासक्तिर्व्यज्यते” ऋ० १०, ८५, २८ ।
"https://sa.wikisource.org/w/index.php?title=वाचस्पत्यम्/आशी&oldid=57658" इत्यस्माद् पुनः प्राप्तिः