← वाचस्पत्यम्/आ वाचस्पत्यम्/इ
तारानाथ भट्टाचार्य
वाचस्पत्यम्/ई →
पृष्ठ ०९०९

पु० अस्य विष्णोरपत्यम् अ + इञ् । १ कामदेवे स

हिरुक्मिण्यां विष्णोरंशात् कृष्णात् जातः तत्कथा यथा
“रूक्मिण्यां वासुदेवाच्च लक्ष्म्यां कामोधृतव्रतः । शम्बरान्त
करो जज्ञे प्रद्युम्नः कामदर्शनः” हरि० १६३ अ० ।
एवं व्युत्पत्तिमत्त्वेन कामदेवस्यैव इशब्दार्थता नाभि
णाषस्येति बहवः । कामदेवदैवत्याच्च अभिलाषे औपचारिक
इत्यन्ये । नञर्थकस्य अ इस्येदम् अ + इञ् । २ भेदे, ३ रोषो-
क्तौ, ४ निराकरणे, ५ अनुकम्पायाम्, ६ गदे, ७ विस्मये, ८
निन्दायाम्, ९ सम्बोधने च अव्य० चादि । निपातैकाच्कत्वात्
अस्य प्रगृह्यसंज्ञा तेन इ इन्द्र इत्यादौ न सन्धिः

गतौ भ्बादि० पर० सक० अनिट् । अयति ऐषीत् इयाय

इयतुः इयुः इययिथ इयेथ । अयन् इतः इतिः
अयनम् । आयः इत्वा । “उदयति स्म तदद्भुतमालिभिः”
नैष० “अयमुदयति मुद्राभञ्जनः पद्मिनीनाम्” उद्भटः ।
“उदयति विततोर्द्धरश्मिरज्वौ” माघः । अयञ्च धातः
कटी गतौ इत्यत्र इ ई इति प्रश्लेषात् लब्धः सि० कौ०

इक् स्मरणेऽधिपूर्व्वक एव कित् कित्करणमधीगर्थेत्यादौ विशेषा-

र्थम् अदादि० पर० सक० अनिट् । अध्येति अध्यैषीत्
अध्यगात् इत्यन्ये इण इवास्य तिङि रूपं न कृति ।
अघीयन् । “ससीतयोराघवयोरधीयन्” भट्टिः । एतद्योगे
कर्म्मणि संवन्धविवक्षायां षष्ठी । मातुरध्येति । प्रति-
पदविहिततयाऽनया षष्ट्या न समासः मातुरध्ययनम् ।
“कियत्स्विदिन्द्रो अध्येति कियन्मातुः कियत् पितुः”
ऋ० ४, १७, १२ । “रामस्य दयमानोऽसावध्येति तव
लक्ष्मणः” भट्टिः सम्बन्धाविवक्षायां तु द्वितीया । “अग्नि
स्वर्ग्यमध्येषि मृत्यो!” कठो० । “अयमारुणिः संप्रती-
ममात्मानं वैश्वानरमध्येति” छा० उ० । “अधीहि
भगवन् । ब्रह्मेति” छा० उ० ।

इकट पु० एति भूमिमुद्भिद्य गच्छति इ--कटच् वा गुणाभावः । वंशाङ्कुरे

इक्कट पु० ईयते इ--क्विप् इत् लभ्यः कटो यस्मात् पृ० तस्य कः ।

कटसाधने तृणविशषे त्रिका० इत्कट इति हारा० ।
तस्य सन्निकृष्टदेशादिः कुमुदा० चतुरर्थ्यां ष्ठच् । इक्वटिक
तत्सन्निकृष्टदेशादौ त्रि० स्त्रियां ङीष् । प्रेक्षा०
चतुरर्थ्याम् इनि । तदर्थे स्त्रियां ङीप् ।

इक्कवाल पु० “चेत् कण्टके (१४७१०) पनफरे (२, ५, ८, ११)

तु ग्रहाः समस्ताः स्यादिक्कवालैति राज्यसुखाप्ति हेतुः”
नोल० ता० उक्ते वर्षलग्नतः उक्तस्थानानामन्यतमस्थाने-
रव्यादिसमस्तग्रहाणां स्थितिहेतुके राजयोगभेदे ।

इक्षु पु० इष्यतेऽसौ माधुर्य्यात् इष + क्मु । मधुररसयुते

असिपत्रे स्वनामख्याते वृक्षे । तद्भेदगुणादिकमुक्तंभावप्र० ।
इक्षुर्दीर्घच्छदः प्रोक्तस्तथा भूमिरसोऽपि च । गुडमूलोऽसि-
पत्रश्च तथामधुतृणः स्मृतः । इक्षवोरक्तपित्तघ्राबल्यावृष्याः
कफप्रदाः । स्वादुपाकरसाः स्निग्धागुरवोमूत्रला हिमाः ।
अथेक्षुभेदाः “पौण्ड्रकोभीरुकश्चापि बंशकः शतपोरकः ।
कान्तारस्तापसेक्ष्वश्च काण्डेक्षुः सूचिपत्रकः । नैपालोदीर्घप-
त्रश्च नीलपोरोऽथ कोशकृत् । इत्येताजातयस्तेषां कथयामि
गुणानपि । तत्र पौण्ड्रक्रभीरुकयोर्गुणाः वातपित्तप्रशमनोमधु
रोरसपाकयोः । सुशीतोवृंहणोबल्यः पौण्ड्रकोभीरुकस्तथा
अथ (कुशिया) कोशकतोगुणाः “कोशकारो गुरुःशीतोरक्त
पित्तक्षयापहः । अथ (काजला) कान्तारेक्षु गुणाः कान्तारे-
क्षुर्गुरुर्वृष्पः श्लेष्मलोवृंहणः सरः । (वडौखा) वंशकगुणाः
“दीर्घपोरः सुकठिनः सक्षारो वंशकःस्मृतः । शतपोरकगुणाः
“शतपर्वाभबेत्किञ्चित्कोशकारगुणान्वितः । विशेषाक्तिं-
चिद्रूक्षश्च सक्षारःपवनापहः” सुश्रुते तु काण्डेक्षु रित्यत्र
काष्ठेक्षुरिति पाठः इतोऽवशिष्टानां गुणास्तत्रोक्ता यथा
“कान्तारतापसाविक्षूवंशकानुकरौ गुणे । एवंगुणस्तु
काष्ठेक्षुःस तु वातप्रकोपणः । सूचीपत्रो नीलपोरो नैपालो
दीर्घपत्रकः । वातलाःकफपित्तघ्नाः सकषाया विदाहिनः”
भाव० प्र० “बालयुववृद्धेक्षुगुणाः बालैक्षुः कफं कुर्या-
न्मेदोमेहकरश्च सः । युवा तु वातहृत्स्वादुरीषत्तीक्ष्णश्च
वातनुत् । रक्तपित्तहरोवृद्धः क्षतहृद्बलवीर्यकृत् ।
अथाङ्गभेदेन गुणभेदः मूले तु मधुरोऽत्थर्थं मध्येऽपि मधुरः
स्मृतः । अग्रेष्वक्षिषु विज्ञेय इक्षूणां लवणोरसः ।
अथ दन्तपीडितेक्षुरसस्य गुणाः दन्तनिष्पीडितस्येक्षोरसः
पित्तास्रनाशनः । शर्करासमवीर्य्यःस्यादतिदाही कफप्रदः । अथ
यन्त्रपीडितेक्षुरस गुणाः मूलाग्रजन्तुग्रन्थ्यादिपीडनान्मल-
सङ्गरात् । तस्माद्विदाही विष्टम्भी गुरुः स्याद्यान्त्रिकोरसः ।
अथ पर्य्युषितेक्षुरसगुणाः रसः पर्युषितोनेष्टोह्यम्लोवातापहो-
गुरुर्विकफपित्तकरः शोषी भेदनश्चातिभूत्रलः । अथपक्वस्ये-
क्षुरसस्य गुणाः इक्षोर्विकारास्तृड्दाहमूर्छापित्तास्रनाशनाः ।
गुरवोमधुरा बल्याः स्निग्धा वातहराःस्मृताः । वृष्यामोह-
हराःख्याता वृंहणाविषहारिणः । अथ (झोला) फाणितस्य
लक्षणंगुणाश्च इक्षोरसस्तु यः पक्वः किञ्चिद्गाढो बहुद्रवः ।
सएवेक्षुविकारेषु ख्यातःफाणितसंज्ञया । फाणितं गुर्वभि-
ष्यन्दि वृंहणं कफशुक्रकृत् । वातपित्तश्रमान् हन्ति मूत्र-
वस्तिविशोधनम् । अथ मत्स्यण्ड्याः (सारगुड) (राव) इति
ख्याताया लक्षणं गुणाश्च इक्षोरसोयः संपक्वोघनः किंचि-
द्द्रवान्वितः । मन्थवत्स्यन्दते यस्मात् मत्स्यण्डीति ततः
स्मृता । मत्स्यण्डी भेदिनी बल्या लघ्वी पित्तानिलापहा ।
मधुरा वृंहणी वृष्या रक्तदोषापहा स्मृता । अथ
(ढिमे गुड़) गुड़स्य लक्षणं गुणाश्च इक्षोरसोयः
सम्पक्वोजायतेलोष्टवद्दृढः । स गुड़ोगौड़देशे तु
मत्स्यण्ड्येव गुड़ोमतः । गुड़ोवृष्योगुरुः स्निग्धोवातघ्नो
मूत्रशोघनः । नातिपित्तहरो मेदःकफक्रमिबलप्रदः ।
अथ नवपुराणगुडगुणाः गुड़ोनवः कफश्वासकास-
क्रमिहरोऽग्निकृत् । पित्तघ्नो मधुरः स्निग्धो वातघ्नो-
ऽसृक्प्रसादनः स पुराणोऽधिकगुणो बुधैः पय्यतम
स्मृतः” द्रव्यभेदेन युक्तस्य गुड़स्य गुणाः श्लेष्माणमाशु
विनिहन्ति सदार्द्रकेण पित्तं निहन्ति च तदेव हरीत-
कीभिः । शुण्ठ्या समं हरति वातमशेषमित्थ दोषत्र-
यक्षयकराय नमो गुड़ाय” (खांड) खण्डस्य गुणाः
पृष्ठ ०९१०
खण्डन्तु मधुरं वृष्यं चक्षुष्यं वृंहणंहिमम् । वातपित्तहरं
स्निग्धं बल्यं वातहरं परम् । (चिनि) सितायाः
लक्षणं गुणाश्च खण्डन्तु सिकतारूपं सुश्वेतं शर्करा
सिता । सिता सुमधुरा रुच्या वातपित्तास्रदाहहृत् ।
सूर्च्छाच्छर्दिज्वरान् हन्ति सुशीता शुक्रकारिणी । अथ
“(मिचरि) सितोपलगुणाः भवेत् पुष्पसिता शीता
रक्तपित्तहरी मता । सितोपलनिभा लघ्वी वातपित्तहरा
हिमा । शर्करा छर्द्यतीसारतृड्दाहरक्तपित्तनुत् ।
यथा यथैव नैर्मल्यं मधुरत्वं तथा तथा । स्नेहगौरव-
शैत्यानि सरत्वं च तथा तथा” इति भावप्र० इक्षुवर्गः ।
एतत्प्रसङ्गात् सुश्रुते खण्डादिजातद्रव्याणामन्यद्रव्यजातशर्क-
राणाञ्च गुणा उक्ता यथा । “यो यो मत्स्यण्डिकाखण्ड-
शर्कराणां स्वको गुणः । तेन तेर्नव निर्देश्यास्तेषां विस्रा-
वणे गुणाः । सारस्थिता सुविमला निःक्षारा च
यथायथा । तथा तथा गुणवती विज्ञेया शर्करा बुधैः ।
मधुशर्करा पुनश्छर्द्यतीसारहरी रूक्षा छेदनी प्रह्लादनी कषा
यमधुरा मधुरविपाका च । यवासशर्करा मधुरकषाया
तिक्तानुरसा श्लेष्महरी सरा चेति । यावत्यः शर्कराः
प्रोक्ताः सर्वा दाहप्रणाशनाः । रक्तपित्तप्रशमनाश्छर्दिसू-
र्च्छातृषापहाः । रूक्षं मधूकपुष्पोत्थं फाणितं वातपित्त-
कृत् । कफघ्नं मधुरं पाके कषायं वस्तिदूषणम्”
“मन्दाक्रान्ता वितरति रसं नेक्षुयष्टिः कदाऽपि
छन्दो० । श्रीफलञ्चेक्षुदण्डश्च विप्राणां तु बलिर्मतः”
कालिकापु० “कुष्माण्डमिक्षुदण्डांश्च” देवी पु० इक्षी-
र्विकारः अण् । ऐक्षव गुड़ादौ त्रि० । “ऐक्षव गुड़-
वर्जितम्” स्मृतिः । इक्षूणां भवनं क्षेत्रं शाकटच्
शाकनच् च वा तद्भवने क्षेत्रे । इक्षूणां छाया । इक्षु-
च्छायम् न० “इक्षुच्छायानिषादिन्य” रघुः अत्र
आनिषादिन्य इतिच्छेदः सि० कौ० इक्षूणां वनम् ।
अवनस्पतित्वात् नित्यं णत्वम् इक्षुवणम् । २ कोफिलावृक्षे च
राजनि० । ३ इच्छायाम्

इक्षुक पु० इक्षुप्रकारः स्थूला० कन् ।

१ इक्षुतुल्यस्वादे (नडा) वृक्षभेदे स्वार्थेकन् । २ इक्षुवृक्षे

इक्षुकाण्ड पु० इक्षोः काण्डैव काण्डोऽस्य । १ काशवृक्षे

२ मुञ्चतृणे (मुज) इक्षुः काण्डैव ३ इक्षुदण्डे च । “क्षिप्तं
पुरो न जगृहे मुहुरिक्षुकाण्डम्” माघः ।

इक्षुकीय त्रि० इक्षवः सन्त्यस्मिन् छ नड़ा० कुक् च । इक्षु-

युक्ते देशे तत्र भवः अण् विल्व० छंस्य लुक् । ऐक्षुकस्तत्र
भवे त्रि० स्त्रियां ङीप् ।

इक्षुकुट्टक पु० इक्षून् कुट्टयति कुट्ट--शिल्पिनि क्वुन् ६ त० । इक्षु

च्छेदके गुड़कारके कृषीवलभेदे ।

इक्षुगन्ध पु० इक्षोरिव गन्ध एकेदशावयवो यस्य । १ क्षुद्रगोक्षुरे २ काशतृणे स्त्वी भावप्र०

इक्षुगन्धा स्त्री इक्षोर्गन्ध इव गन्धोऽस्याः । शुक्लविदार्य्याम्,

इक्षुज त्रि० इक्षोस्तद्रसाज्जायते जन--ड ५ त० । इक्षुविकारे

गुड़ादौ “फाणितञ्चैव मत्स्यण्डी गुड़ः खण्डकमेव च ।
सिता सितोपलाश्चैते षड्भेदा इक्षुजामताः । इक्षुशब्दे
पृष्टे तद्गुणादिकमुक्तम् ।

इक्षुतुल्या स्त्री इक्षुणा तुल्या पत्रादिना । (जनार) १ धान्यविशेषे २ काशतृणे च ।

इक्षुदण्ड पु० इक्षुर्दण्ड इव दण्डकारे दीर्घेक्षौ इक्षुयष्टिरप्यत्र स्त्री

इक्षुदर्भा स्त्री इक्षोरिव दर्भोवन्धोऽस्याः । तृणपत्रिकायाम्

राजनि० ।

इक्षुदा स्त्री इक्षुमिक्षुरसास्वादं ददाति जलेन दा--क । इक्षुरसतुल्यजलवाहिनि नदीभेदे ।

इक्षुनेत्र न० इक्षुर्नीयते पुनरुत्पादनायारोप्यतेऽनेन नी--ष्ट्रन्

इक्षोर्नेत्रमिव वा । इक्षुनेत्राकारे तद्ग्रन्थौ ।

इक्षुपत्र पु० इक्षोः पत्रमिव पत्रमस्य । (जनार) धान्यभेदे ।

इक्षुपाक पु० इक्षोः पाकः पच्यमावोरसादिः । गुड़ादौ

इक्षुप्र पु० इक्षुरिव पूर्प्यते पृ--कर्मणि घञर्थेक ह्रस्वपक्षे नोत् ।

शरवृक्षे रत्नसा० ।

इक्षुबालिका स्त्री इक्षोर्बालः केशैव बालः शीर्षस्थपत्रादि-

रस्याः । इक्षुतुल्यशीर्षे काशतृणे राजनि० ।

इक्षुभक्षिती स्त्री इक्षुर्भक्षितो यया जातिवाचकपूर्व्वपदनि-

ष्ठान्तत्वात् ङीप् परनि० । इक्षुभक्षणकर्त्त्र्यां स्त्रियाम्

इक्षुमती स्त्री इक्षुः इक्षुरसोऽस्त्यस्याम् नद्यां मतुप् ङीप् ।

नदीभेदे “सीता चेक्षुमती वेन्ना देविका च महानदी” भा०
आ०८ अ०

इक्षुमूल पु० इक्षोर्मूलं ग्रन्थिरिव मूलं ग्रन्थिर्यस्य ।

१ वंशवृक्षे । ६ त० । इक्षुमूले २ तद्ग्रन्थौ न० ।

इक्षुमूल पु० इक्षुरसतुल्योमेहः । सुश्रुतोक्ते प्रमेहभेदे तद्भेदा

विंशतिर्निदानसहितास्तत्रोक्ता यथा “दिवास्वप्नव्यायामा-
लस्यप्रसक्तं शीतस्निग्धमधुरमद्यद्रवान्नपानसेविनं पुरुषं
जानीयात्प्रमेही भविष्यतीति । तस्य चैवं प्रवृत्तस्यापरिपक्वा
एव वातपित्तश्लेष्माणो यदा मेदसा सहैकत्वमुपेत्य मूत्र-
वाहिस्रोतांस्यनुसृत्याधो गत्वा वस्तेर्मुखमाश्रित्य निर्भिद्यन्ते
तदा प्रमेहान् जनयन्ति । तेषान्तु पूर्ब्बरूपाणि हस्त-
पादतलदाहः स्निग्धपिच्छिलगुरुता गात्राणां मधुर-
शुक्लमूत्रता तन्द्रा सादः पिपासा दुर्गन्धश्च श्वासस्तालु
गलजिह्वादन्तेषु मलोत्पत्तिर्जटिलीभावः केशानां वृद्धिश्च
नखानाम् । तत्राविलप्रभूतमूत्रलक्षणाः सर्व्व एव सर्व्वं
पृष्ठ ०९११
दोषसमुत्थाः सह पिडकाभिः । तत्र कफादुदकेक्षुसुरा-
सिकताशनैर्लवणपिष्टसान्द्रशुक्रफेनमेहाः दश साध्या
दोषदूष्याणां समक्रियत्वात् । पित्तान्नीलहरिद्राम्लक्षारमञ्जि-
ष्ठाशोणितमेहाः षट् याप्या दोषदूष्याणां विषमक्रिय-
त्वात् । वातात्सर्पिर्वसाक्षौद्रहस्तिमेहाश्चत्वारोऽसाध्यतमा
महात्ययिकत्वात् । तत्र वातपित्तमेदोभिरन्वितः श्लेष्मा
श्लेष्मप्रमेहान् जनयति वातकफशोणितमेदोभिरन्वितं
पित्तं पित्तप्रमेहान् । कफपित्तवसामज्जमेदोभिरन्वितो
वायुर्व्वातप्रमेहान् । तत्र श्वेतमवेदनमुदकमेही मेहति
इक्षुरसतुल्यमिक्षुमेही, सुरामेही सुरातुल्यं,
सरुजम् सिकतानुविद्धं सिकतामेही शनैः सकफ मृत्स्नं
शनैर्मेही, विशदं लवणतुल्यं लवणमेही, हृष्टरोमा पिष्ट-
रसतुल्यं पिष्टमेही, आविलं सान्द्रं सान्द्रमेही, शुक्रतुल्यं
शुक्रमेही स्तोकं स्तोकं सफेनं फेनमेही मेहति । अत ऊर्द्धं
पित्तनिमित्तान्वक्ष्यामः । सफेनमच्छं नीलं नीलमेही मेहति
सदाहं हरिद्राभं हरिद्रामेही, अम्लरसगन्धमम्लमेही, स्रुत
क्षारप्रतिभं क्षारमेही, मञ्जिष्ठोदकप्रकाशं मञ्जिष्ठामेही ।
शोणितप्रकाशं शोणितमेही मेहति । अत जर्द्धं
वातनिमित्तान्वक्ष्यामः । सर्पिः प्रकाशं सर्पिर्मेही मेहति
वसाप्रकाशं वसामेही, क्षौद्ररसवर्णं क्षौद्रमेही, मत्तमातङ्ग
वदनुप्रवृद्धं हस्तिमेही मेहति । मक्षिकोपसर्पणमालस्यं
मांसोपचयः प्रतिश्यायः शैथिल्यारोचकाविपाकाः कफप्र-
सेकच्छर्द्दिनिद्राकासश्वासाश्चेति श्लेष्मजानामुपद्रवाः ।
वृषणयोरवदरणं वस्तिभेदो मेढ्रतोदो हृदिशूलमम्लीकाज्वरा-
तीसारारोचका वमथुः परिधूमायनं दाहो मूर्च्छा पिपासा
निद्रानाशः पाण्डुरोगः पीतविण्मुत्रनेत्रत्वञ्चेति पैत्ति-
कानाम् । हृद्ग्रहो लौल्यमनिद्रा स्तम्भः कम्पः शूलं बद्ध-
पुरोषत्वञ्चेति वातजानाम् । एवमेते विंशतिः प्रमेहाः
सोपद्रवा व्याख्याताः । तत्र वसामेदोभ्यामभिपन्नशरीरस्य
त्रिभिर्दोषैश्चानुगतधातोः प्रमेहिणो दश पिडका जायन्ते ।
तद्यथा । शराविका सर्षपिका कच्छपिका जालिनी विनता
पुत्त्रिणी मसूरिका अलजी विदारिका विद्रधिका चेति ।
शरावमात्रा तद्रूपा निम्नमध्या शराविका । गौरसर्षप-
संस्थाना तत्प्रमाणा च सर्षपी । सदाहा कूर्म्मसंस्थाना
ज्ञेया कच्छपिका बुधैः । जालिनी तीव्रदाहा तु मांस-
जालसमावृता । महती पिडका नीला पिडका विनता
स्मृता । महत्यल्पाचिता ज्ञेया पिडका सा तु पुत्त्रिणी ।
मसूरसमसंस्थाना ज्ञेया सा तु मसूरिका । रक्तासिता
स्फोटवती दारुणा त्वलजी भवेत् । विदारी कन्दवद्वृत्ता
कठिना च विदारिका । विद्रधेर्ल्लक्षणैर्युक्ता ज्ञेया विद्रधिका
बुधैः । ये यन्मयाः स्मृता मेहास्तेषामेतास्तु तत्कृताः ।
गुदे हृदि शिरस्यंसे पृष्ठे मर्म्मणि चोत्थिताः ।
सोपद्रवा दुर्ब्बलस्य पिडकाः परिवर्ज्जयेत् । कृत्स्नं शरीरं
निष्पीड्य मेदोमज्जवसायुतः । अधः प्रक्रमते वायुस्तेना-
साध्यास्तु वातजाः । प्रमेहपूर्ब्बरूपाणामाकृतिर्यत्र दृश्यते ।
किञ्चिच्चाप्यधिकं भूत्रं तं प्रमेहिणमादिशेत् । कृत्स्नान्य-
र्ड़ानि वा यस्मिन् पूर्ब्बरूपाणि मानवे । प्रवृत्तभूत्रमत्यर्थं
तं प्रमेहिणमादिशेत् । पिडकापीड़ितं गाढमुपसृष्ट-
मुपद्रवैः । मधुमेहिनमाचष्टे स चासाध्यः प्रकीर्त्तितः ।
स चापि गमनात् स्थानं, स्थानादासनमिच्छति । आसनाद्वृ-
णुते शय्यां, शयनात् स्वप्नमिच्छति । यथाहि वर्ण्णानां पञ्चा-
नामुत्कर्षापकर्षकृतेन संयोगविशेषेण शवलबभ्रुकपिलकपो-
तमेचकादीनाम् वर्णानामनेकेषामुत्पत्तिर्भवति । एवमेव
दोषधातुमलाहारविशेषेणोत्कर्षापकर्षकृतेन संयोगविशेषेण ।
भवति चात्र । सर्वएव प्रमेहास्तु कालेनाप्रतिकारिणः ।
मधुमेहत्वमायान्ति तदाऽसाध्या भवन्ति हि” तत्रैव चिकित्-
सास्थाने सर्वप्रमेहस्य प्रकारान्तरेण द्वैविध्यमुक्तम् ।
यथा “द्वौ प्रमेहौ सहजोऽपथ्यनिमित्तश्च भवतः तत्र
सहजोमातृपितृवीजदोषकृतः । अहिताहारजोऽपथ्यनि
मित्तः । तयोः पूर्व्वेणोपद्रुतः कृशोरूक्षोऽल्पाशी पिपासुर्भृशं
परिसरणशीलश्च भवति उत्तरेण स्थूलोबह्वाशी स्निग्धः-
शय्यासनस्वप्नप्रायेणेति” “तत्रोदकमेहिनं पारिजात-
कषायं पाययेत् इक्षुमेहिनं वैजयन्ती कषायम्” च सुश्रु०

इक्षुयन्त्र न० इक्षोर्निष्पीड़नं यन्त्रम् शा० त० । इक्षुनिष्पीड़के

यन्त्रे (महाशाल) “गोकुले कन्दुशालायां तैलयन्त्रेक्षु-
यन्त्रयोः । अमीमांस्यानि शौचानि” स्मृतिः ।

इक्षुयोनि पु० इक्षोरिव योनिर्यस्य । पुण्ड्रके इक्षौ राजनि०

इक्षुर पु० इष--बा०--क्सुरच् । १ कौलिकावृक्षे (कुलेखारा)

रत्ना० २ गोक्षुरे (गोखुरी) ३ इक्षौ च शब्दारत्ना० ४ काशे
राजनि० । संज्ञायां कन् । १ कोकिकावृक्षे । २ काशतृणे
३ स्थूलशरे च राजनि० ।

इक्षुरस पु० इक्षोः रस इव रसो यस्य । (नडा) इति ख्याते

काशे १ तृणमेदे । “काशःकाशेक्षुरुद्दिष्टः स स्यादिक्षुरसस्तथा ।
इक्ष्वालिकेक्षुगन्धा च तथा पोटगलः स्मृतः । काशः-
स्यान्मधुरस्तिक्तः स्वादुपाको हिमः सरः । भूत्रकृच्छ्राश्म-
रीदाहक्षयपित्तामरोगहृत्” भाव० प्र० । ६ त० ।
इक्षीः रसे पु० । तस्य गुणादिकमुक्षुशब्दे उक्तम् ।
पृष्ठ ०९१२

इक्षुरसक्वाथ पु० इक्षुरसस्य क्वाथः पाकभेदः । फाणितादौ ।

इक्षुवल्ली(ल्लरी) स्त्री इक्षुरिव सुस्वादा वल्ली वल्लरी वा लता ।

क्षीरविदार्य्याम् । (क्षीरकन्द) । राजनि०

इक्षुवालिका स्त्री इक्षुरिव बलति वल--ण्वुल् । (तालमा-

खना) इतिख्याते १ वृक्षे २ काशे च ।

इक्षुवाटी स्त्री इक्षोर्वाटीव । पुण्ड्रके इक्षौ राजनि० ।

६ त० । २ इक्षूत्पादकक्षेत्रे । स्वार्थे कन् । उभयत्र ।

इक्षुविकार पु० ६ त० । इक्षुजशब्ददर्शिते षड्विधे गुड़ादौ

इक्षुवेष्टन पु० इक्षोरिव वेष्टनमस्य । भद्रमुञ्जे । “भद्रमुञ्जःशरो-

वाततेजन स्त्विक्षुवेष्टनः । मुञ्जद्वयंतु मधुरं तुवरं शिशिरं
तथा । कम्पास्रदाहतृष्णार्त्तिमूत्रवस्त्यक्षिरोगहृत् ।
दोषत्रयहरमुष्णं मेखलासूपयुज्यते” भावप्र० ।

इक्षुशर पु० इक्षुरिव शृणाति शृ--अच् । ४ काशभेदे तद्वने

हि गन्तुर्गात्रक्षतेर्दृष्टत्वात् तस्येक्षुवत् हिंसकत्वम् ।

इक्षुशाकट न० इक्षूणां भवनं क्षेत्रम् इक्षु + शाकटच् ।

(दोकल्प) इति ख्याते इक्षुभवनयोग्ये क्षेत्रे । तदर्थे
शाकिनच् । इक्षुशाकिनशब्दोऽप्यत्रार्थे न० ।

इक्षुसमुद्र पु० इक्षुरसस्वादूदकःसमुद्रः । समुद्रभेदे । “लवणेक्षुसुरा-

सर्पिर्दधिदुग्धजलान्तकाः” पुरा० तत्स्थलम् सि० शि०
उक्तम् । “भूमेरर्द्धं क्षाररसिन्धोरुदक्स्थं जम्वुद्वीपं प्राहुरा-
चार्य्यवर्य्याः । अर्द्धेऽन्यस्मिन् द्वीपषट्कस्य याम्ये, क्षारक्षी-
राद्यम्बुधीनां निवेशः” “दध्नोघृतस्येक्षुरसस्य तस्मान्मद्यस्य
च स्वादुजलस्य चान्ते” ।

इक्षुसार पु० ६ त० । फाणितादौ ।

इक्ष्वाकु पु० इक्षुमिच्छामाकरोति इक्षु + आ + कृ--डु । १ कटुतु-

म्ब्याम् २ सूर्य्यवंश्ये आदिराजे च । “यस्येक्ष्वाकुरुपव्रते”
ऋ० १०, ६, ४ । स च वैवस्वतमनोः पुत्रः । “मनोर्वैवस्रत-
स्यासन् पुत्रा वै नव सत्तमाः । इक्ष्वाकुश्चैव नामागोधृष्णुः
शर्यातिरेव च । नरिष्यःप्रांशुषष्ठास्ते नाभागारिष्टसप्तमाः
करूषश्च पृषध्रश्च नवैते भरतर्षभ”! । “इक्ष्वाकुर्ज्येष्ठदा-
यादोमध्यदेशमवाप्तवान्” हरिवं० १० अ० “तस्योत्पत्तिप्रका-
रस्तत्रैवीक्तः क्षुवतस्तु मनोः पुत्रैक्ष्वाकुरभवत्ततः” । “तस्य
पुत्रशतं चासीदिक्ष्वाकोर्भूरिदक्षिणम् । तेषां ज्येष्ठो
विकुक्षिस्तु विकुक्षित्वादयोधिनाम्” “इक्ष्वाकुस्तु विकुक्षिंवै
अष्टकायामथादिशत्” हरि० । इक्ष्वाकोरपत्यम् । अण्
दण्डि० नि० । ऐक्ष्वाकस्तदपत्ये बहुषु तस्य लुक् इक्ष्वाकवः-
“इक्ष्वाकूणां दुरापेऽर्थे” “गलितवयसामिक्ष्वाकूणामिदं हि
कुलव्रतम्” “इक्ष्वाकुभिः पुण्यतरीकृतानि” इति च रघुः ।

इक्ष्वारि पु० इक्षुरिव समन्तादृच्छति आ + ऋ--इन् । काशतृणे।

इक्ष्वालिका स्त्री इक्षूणामालिरिव कायति प्रकाशते

कै कैक्षुरिवालति अल--ण्वुण् वा । काशतृणे भावप्र०

इख गतौ भ्वादि० पर० सक० सेट् । इखति ऐखीत् ।

इयेख ईखतुः । एखिता एखेष्यति ऐखिष्यत् ।

इख गतौ इदित् भ्वादि० पर० सक० सेट् । इङ्खति ऐङ्खीत् ।

इङ्खाम्--बभूव--आस--चकार । इङ्खिष्यति । इङ्क्षिता
ऐङ्खिष्यत् । प्रेङ्खन् प्रेङ्खितम् प्रेङ्खणम् ।

इग गतौ इदित् भ्वादि० पर० सक० सेट् । इङ्गति ऐङ्गीत् ।

इखिवत् । इङ्गितम् । “त्वया सृष्टमिदं विश्वं यच्चेङ्गं
यच्च नेङ्गति” भा० व० ४२ अ० । तस्यात्मनेपदित्वमपि
“योऽवतिष्ठति नेङ्गते” यथा दीपोनिपातस्थो नेङ्गते
सोपमा स्मृता” गीता । अत्र स्पन्दनमात्रपरतायाम-
ऽकर्म्मकत्वम् । णिच्--इङ्गयति चालयतीति प्रेरय-
तीति वार्थः । उद्--प्रेरणे “शुनमष्ट्रामुदिङ्गय” ऋ० ४,
५७५७, । सम् + सम्यक् चालने । “पुष्करिणीं समिङ्गयति
सर्व्वतः” ॠ० ४, ७, ७,

इङ् अध्ययने अधिपूर्व्व एव ङित् अदा० आत्म० सक० अनिट् ।

अधीते अधीयीत अध्यैष्ट--अध्यगीष्ट । “अधिजगे, अध्यै-
ष्यत--अध्यगीष्यत “योऽधीते शक्तितोऽन्वहम्” स्मृतिः ।
“नाधीयीत कदाचन” मनुः । “अध्यैष्ट वेदांस्त्रिदशानयष्ट”
भट्टिः शानच् अधीयानः । अकृच्छ्रिणि कर्त्तरि शतृ
अधीयन् “अधीयन्नात्मविद्विद्यां धारयन् मस्करिव्रतम्”
भट्टिः अध्येतव्यम् “श्रोतव्यमिह श्रूद्रेण नाध्येतव्यं
कदाचन” । “स्वाध्यायोऽध्येतव्यः” श्रुतिः । अध्ययनीयम् ।
अध्येयः “वेदएव सदाऽध्येयः” स्मृतिः । अध्येता । अधीतः
“अधीतवेदवेदाङ्गत्वेन” वेदन्त सा० । ज्ञानार्थत्वात् कर्त्तरिक्त
अधीतः “अधीते शतसाहस्रम्” स्मृतिः “अधीतिः
“अधीतिबोधाचरणप्रचारणैः” नैष० । अध्येष्यमाणः ।
“पीत्वापोऽध्येष्यमाणस्तु आचमेत् प्रयतोऽपि सन्” मनुः
मावे अधीतम् । अधीतमनेन इनि अधीती । “त्वगुत्त-
रासङ्गवतीमधीतिनीम्” कुमा० अधीत्य “अनधीत्य द्विजोवे-
दान् योऽन्यत्र कुरुते श्रमम्” स्मृतिः । “अधीत्य चतुरोवे-
दान्” पुरा० । अध्ययनम् । “अध्ययनेनाविप्रकृष्टः” पा० ।
“सत्ताण्डवैरध्ययनं विनापि” मथुरा० अध्यायः “स्वाध्या-
योऽध्येतव्यः” श्रुतिःणिच् अध्यापयति “अष्टवर्षं ब्राह्मण-
मुपनयीत तमध्यापयीत” श्रुतिः अध्यापिपत् अध्यजिगपत्
पृष्ठ ०९१३
“अध्यापयामास पितॄन्” मनुः णिच्--सन् । अध्यापि-
पयिषति--ते अधिजिगापयिषति--ते केवलात् सन् ।
अधिजिगांसते । अध्यापकः अध्यापकशब्दे उदा० अध्यापितः
“अध्यापितस्यीशनसापि नीतिम्” कुमा० । “भृतका-
ध्यापको यश्च भृतकाध्यापितस्तथा” मनुः ।

इङ्ग पु० इगि भावे घञ् । १ चलने कम्पने २ इङ्गिते च ।

कर्त्तरि अच् । ३ जङ्गमे “त्वया सृष्टभिदं सर्व्वं यच्चेङ्गं यच्च
नेङ्गति” भा० व० ४२ अ० । ४ अद्भुते च त्रि० मेदि० ।

इङ्गन न० इगि भावे ल्युट् । १ इङ्गिते २ चलने ३ ज्ञाने च ।

णिच्--ल्युट् । ४ चालने । “उपांशुसवनस्यानिङ्गनश्रुतेः”
कात्या० १०ऽ१, ६, यतौपांशुसवनस्यानिङ्गनमचालनम्
श्रूयते “अनिङ्ग्यमानानि सुरे आतृतीयसवनात्”
श्रुतिः । कर्क्क० । युच् इङ्गना प्यत्र स्त्री ।

इङ्गि(ड)ल पु० इगि--इलच् वा लस्य डः । इङ्गुदवृक्षे ।

“वीरणतूलमिश्रमिङ्गिड़प्रपुटेन जुहोति” श्रुतिः ।

इङ्गित न० इगि--भावे क्त । १ चलने २ हृद्गतभावावेदके चेष्टा

विशेषे “इङ्गितं हृद्गतो भावः इति” सज्जनोक्ते ३ हृदय-
स्थे भावे । “अगूढ़सद्भावमितीङ्गितज्ञया” कुमा० “बाह्यै
र्विभावयेल्लिङ्गैर्भावमन्तर्गतं नृणाम् । स्वररर्ण्णोङ्गिता
कारैश्चक्षुषा चेष्टितेन च” मनुना तस्य अन्तर्गतभावा
वेदकत्वमुक्तम् । “तत्र स्वरो गद्गदादिः, वर्ण्णोऽस्वाभाविकः
इङ्गितं स्वेदवेपथुरोमञ्चादि” व्यव० त० रघु० । “स
विद्यादस्य कृत्यानि निगूढेङ्कितचेष्टितैः” आकारमिङ्गितं
चेष्टां भृत्येषु च चिकीर्षितम्” “इङ्गिताकारचेष्टा-
ज्ञं शुचिं दक्षं कुलोद्भवम्” मनुः । “तस्य संवृतमन्त्रस्य
गूढाकारेङ्गितस्य च” रघुः । कर्त्तरि क्त ४ चलिते त्रि० ।

इङ्गु पु० इङ्गति चलत्यनेनैगि--उण् । रोगे ।

इङ्गुद पु० इङ्गुः रोगस्तम् द्यति दो--क । १ तापसतरौ

“इङ्गुदः कुष्ठभूतादिग्रहब्रणविषक्रमीन् । हन्त्यु-
ष्णः श्वित्रशूलघ्नस्तिक्तकः कटुपाकवान्” भाव० प्र० । गौरा०
ङीष् इङ्गुदीत्यप्यत्र स्त्री । “ताइङ्गुदीस्नेहकृतप्रदीपम्” रघुः
तस्याःफलम् अण् प्लक्षादि० न लुक् । ऐङ्गुदं तत्फले न० ।
अस्याः पर्य्यायद्वारा लक्षणं दर्श्यते । हिङ्गुपत्रता
विषहारिता वातनाशकता तैलफलत्वम् तीक्ष्णकण्टकता पूति-
गन्धिता क्रोष्टुफलत्वम् । २ ज्योतिष्मतीवृक्षे पु० रत्नमा० ।

इङ्ग्रेज पु० इङ्ग्यते भोगार्थम् इगि--रन् इङ्ग्रः लण्ड्रदेशस्तत्र

जायते जन--ड अलुक् समा० । लण्ड्रस्थजने । “पूर्ब्बाम्नाये
ववशतं षड़शीतिः प्रकीर्त्तिताः । फिरङ्गभाषया मन्त्रा-
स्तेषां संसाधनात् कलौ । अधिपामण्डलानाञ्च संग्रा-
मेष्वपराजिताः । इङ्ग्रेजाः नवषट्पञ्च लण्ड्रजाश्चापि
भाविनः” मेरुत० २३ प्रकाशे ।

इच्छक पु० इच्छा + अस्त्यत्रेत्यर्थे अच् इच्छंकमिव रसोऽस्य

कप् । (टावालेवु) इति ख्याते १ वृक्षे । अस्त्यर्थे अच्
स्वार्थे कन् । २ इच्छायुक्ते त्रि० ।

इच्छा स्त्री इष--भावे श । इदं मे भूयादिति वेदान्तादिमते

मनोधर्मभेदे सुखतत्साधनविषयचित्तवृत्तौ न्यायमते,
सुखादिज्ञानेन तत्साधनत्वज्ञानेन च जायमाने इदंमे
भूयादित्येवंरूपे आत्मधर्म्मे २ अभिलाषे च । “आत्मजन्या
भवेदिच्छा इच्छाजन्या भवेत् कृतिः । कृतिजन्या
भवेच्चेष्टा चेष्टाजन्या भवेत् क्रिया” न्यायसिद्धान्तः ।
“कामः संकल्पोविचित्सा श्रद्धाऽश्रद्धा धृतिरधृति
र्द्रीर्धीभीरित्येतत् सर्व्वं मन एवेति” श्रुतेः मनोधर्म्मत्व-
मिति सांख्यवेदान्तिनः । “विगतेच्छाभयक्रोधाः” गीता
“जन्मनि क्लेशबहुलं किं न दुःखमतः परम् इच्छासं-
पद्यतो नास्ति यत्नेच्छा न निवर्त्तते” हिता० । “नीतो रात्रिः
क्षणैव मया सार्द्धमिच्छारतैर्या” मेघ० । “महीं
महेच्छः परिकीर्य्य सूनौ” “विषमप्यसृतं क्वचिद्भवेदमृतं
वा विषमीश्वरेच्छया” रघुः । “योऽहिंसकानि भूतानि
हिनस्त्यात्मसुखेच्छया” “देवदत्तां पतिर्भार्य्यां विन्दते नेच्छयात्मनः”
“लक्षं शस्त्रभृतां वासाद्विदुषामिच्छयात्मनः” इति च मनुः ।
“स्वेच्छया विभजेत् सुतान्” दायभा० स्मृतिः । सा च द्वि-
विधाफलोपायरूपविषयभेदात् यथाह भाषा० “सुखन्तु
जगतामेव काम्यं धर्मेण जन्यते । अधर्म्मजन्यं दुःखं स्यात्
प्रतिकूलं सचेतसाम् । निर्दुखत्वे सुखे चेच्छा तज्ज्ञाना-
देव जायते । इच्छा तु तदुपायेस्यादिष्टोपायत्वधीर्यदि ।
चिकीर्षा कृतिसाध्यत्वप्रकारेच्छा च या भवेत् । तद्धेतुः
कृतिसाध्येष्टसाधनत्वमतिर्भवेत् । बलवद्द्विष्टहेतुत्वमतिः
स्यात् प्रतिबन्धिका । तदहेतुत्वबुद्धेस्तु हेतुत्वं कस्यचि-
न्मते” । व्याख्यातं च मुक्ता० । ‘इच्छा हि फलवि-
षयिणी उपायविषयिणी च । फलन्तु सुखं दुःखाभावश्च ।
तत्र फलेच्छां प्रति फलज्ञानं कारणम् । अतएव स्वतः
पुरुषार्थः सम्भवति । यज्ज्ञातं सत् स्ववृत्तितयेष्यते स
स्वतः पुरुषार्थ इति तल्लक्षणात् । इतरेच्छानधीनेच्छा-
विषयत्वं फलितोऽर्थः । उपायेच्छां प्रतीष्टसाधनताज्ञानं
कारणम् । कृतिसाध्यत्वप्रकारिका कृतिसाध्यक्रियाविष-
यिणीच्छा चिकीर्षा पाकं कृत्या साधयामीति तदनुभवात् ।
पृष्ठ ०९१४
चिकीर्षां प्रति कृतिसाध्यताज्ञानमिष्टसाधनताज्ञानञ्च
कारणम् । अतएव वृष्ट्यां कृतिसाध्यताज्ञानाभावान्न
चिकीर्षा । बलवदिति बलवद्द्विष्टसाधनताज्ञानं तत्र प्रतिबन्ध-
कम् । अती मधुविषसंपृक्तान्नभोजने न चिकीर्षा । बलवद्-
द्वेषः प्रतिबन्धक इत्यन्ये । कस्यचिन्मत इति । बलवद-
निष्टाजनकत्वज्ञानं कारणमित्यर्थः । कृतिसाध्यताज्ञानादि-
मतो बलवदनिष्टसाधनताज्ञानशून्यस्य बलवदनिष्टजनकत्व-
ज्ञानं विनापि चिकीर्षायां विलम्बाभावात् कस्यचिन्मत
इत्यस्वरसो दर्शितः” ।
विवृतमेतत् दिनक० यथा “तत्र तयोर्मध्ये । अतएव
फलज्ञानस्य फलेच्छां प्रति हेतुत्वादेव पुरुषार्थः संभवतीति
सुखं दुःखाभावश्च पुरुषार्थः संभवतीत्यर्थः । ननु
यज्ज्ञातं सदित्यादेः स्वविषयज्ञानजन्येच्छाविषयत्वमर्थस्त-
थाचोपायेऽतिव्याप्तिः तस्यापि स्वविषयकेष्टसाधनताज्ञान-
जन्येच्छाविषयत्वात् अत आह । इतरेच्छेति” ।
अत्र ईश्वरेच्छामादायातिव्याप्तिवारणार्थं द्वितीयेच्छायां
जन्यत्वं विशेषणीयम् । असम्भववारणाय आद्येच्छायामपि
जन्यत्वं विशेषणीयम् । भवति च सुखेच्छायाः इतरविषय-
केच्छानधीनत्वम् उपायेच्छायाश्च फलेच्छाधीनत्वञ्च । इष्ट-
साधनस्य फलेच्छाधोनेच्छाविषयित्वात् न तत्र लक्षणप्रसरः ।
पुरुषान्तरीयेच्छामादायातिव्याप्तिवारणाय समवायद्वयघटित
सामानाधिकरण्यं निवेशनीयम् वस्तुतः स्वसमवायिसम-
वेतत्वप्रयोज्यत्वोभयसम्बन्धेन स्ववत्यास्वभिन्नाया जन्येच्छ-
याविषयत्व तत्त्वम् स्वपदमिच्छापरम् इत्यन्यत्र विस्तरः ।
तत्रेदं बोध्य फलेच्छायां कारणं यत् सुखज्ञानमुक्तं तत्
स्मरणानुमित्यादिसाधारणम् । प्रत्यक्षत्वे प्रत्यक्षं प्रति-
विषयस्य हेतुतया विषयज्ञानजन्यसुखादेर्वर्त्तमानत्वे एव
तत्सम्भवेन वर्त्तमानस्य सुखस्य सिद्धत्वात् सिद्धे च इच्छा
विरहात् न तद्विषयकेच्छासम्भव इति सूचितं चैतत्
कणादसूत्रोपस्करयोः” यथा । “सुखाद्रागः” का०
सू० । “स्रक्चन्दनवनितासेवनजन्मनः सुखादुत्तरो-
त्तरं तज्जातीये सुखे तत्साधने वा राग इच्छा जायते”
उप० “तन्मयत्वाच्च” सू० विषयासङ्गजनितो दृढतरः सस्का-
रविशेषस्तन्मयत्वम् तद्वशात् कामातुरस्य कामिनीमल-
भमानस्य सर्व्वत्र कामिनीदर्शनम्” उप० । “तन्मयत्वे
तत्प्रकाशो बाह्याभ्यन्तरतस्तथा” इत्यन्यत्राप्युक्तम् । अत्र
संस्कारादेव इच्छा जायते इत्युक्तेः संस्कारसाध्यस्मृतिद्वारैव
सस्कारस्य हेतुत्वमवसीयते । क्वचिददृष्टवशात् क्वचित्
जातिभेदवशाच्च इच्छासम्भवः तदप्युक्तम् तत्रैव “अदृष्टाच्च”
“जातिघिशेषाच्च” सू० । यद्यप्यदृष्टं साधारणं कारणं
तथापि क्वचिदसाधारणकारणतामनुभवति शैशवे तज्जन्मा-
ननुभूतकामिनीसेवनसुखस्यापि यौवनोद्भेदे कामिनीरागः”
उप० । न च तत्रापि अद्यप्रसूतबालकस्य स्तन्यपा-
नरागैव जन्मान्तरीयतत्संस्कारजज्ञानस्यैव हेतुत्वमस्तु
किमदृष्टस्य साधारणकारणस्यासाधारणकारणताकल्पने
नेति चेत् तत्कल्पनेऽपि तत्र जीवनादृष्टस्येव अत्रापि
अदृष्टविशेषस्यैवोद्बोधकस्थानीयतया अवश्यकल्पनीयत्वे
तस्यैव हेतुत्वौचित्यात् । पदार्थभेदे जातिभेदकृत
एव रागः । यथा मनुष्यजातीतानामन्नदौ रागः
मृगजातीयानां तृणादौ, करभजातीयानां कण्टकादौ,
शूकरादेर्विष्ठादौ रागोत्पत्तिः । तथा च विषयविशे-
षरागं प्रति जातिविशेष एव कारणतया कल्पनीयः ।
तत्रापि जातिविशेषोत्पादकतयादृष्टस्यकारणत्वेऽपि जाति-
विशेषस्य कारणत्वमस्त्येव तमनुत्पाद्यादृष्टस्याकारणत्वादिति
वोध्यम् सुखं मे मूयादिति दुःखं मे मा भूयादित्येवं रूपः
सुखदुःखाभिलापः ।
उपायेच्छां प्रति तु इष्टसाधनताज्ञानं हेतुः । भवति च
पाके भोजनसाधनतया, भोजने च क्षुन्निवृत्तिसाधनतया
ज्ञानात् इच्छा । तदुल्लेखिवाक्यन्तु पाको जायताम्
इत्येवं रूपम् । सेयमिच्छा ज्ञानकृत्यादिवत् सविषया
तद्विषयश्च द्विविधः बाधिताबाधितभेदात् । यत्र इष्ट-
साधने वस्तुनि इष्टसाधनत्वज्ञानादिच्छासा सद्विषयिणी
यत्र तु अनिष्टसाधने वस्तुनि इष्टसाधनत्व भ्रमजा
असद्विषयिणी । सा च प्राणिमात्रसाधारणी ईश्वचेरेच्छा
तु सदा सद्विषयिणीतस्या बाधितपदार्थविषयकत्वाभावादेव
तथात्वम् तेन तस्या नित्यत्वेन इष्टसाधनत्वज्ञानाधीनत्वाभा-
वेऽपि न क्षतिः । योगिनां तु प्राकाम्यकामावसायि-
तारूपैश्वर्य्ययोगात् कामानुसारिणएव विषयाभवन्तीति
नासद्विषयिणीति भेदः यथोक्तं सां० कौ० । “प्राकाम्य
मिच्छानभिधातः यतो भूमावुन्मज्जति निमज्जति यथोदके ।
कामावसायित्वं सा सत्थसङ्कल्पता । यथाऽस्य सङ्कल्पो
भवति भूतेषु, तथैव भूतानि भवन्ति । अन्येषां निश्चया
निश्चेतव्यमनुविधीयन्ते योगिनान्तु निश्चेतव्याः पदार्थाः
निश्चयम्” । निश्चेतव्यनिश्चयशब्दौ काव्यकामावुप-
लक्षयतः तथा च यथाकामं तेषां विषया भवन्तीति
न असद्विषयकत्वं तेषां कामानामिति विवेच्यम् । इयमिच्छा
पृष्ठ ०९१५
प्रवृत्तौ हेतुः इच्छाया बाधितविपयकत्वे प्रवृत्तिर्विसं-
वादिनी तदुत्तरं फललाभाभावेन तस्याः विसंवादित्वात् ।
सद्विषयकत्वे संवादिन्येवेति भेदः तथा च प्राणि-
मात्राणां प्रवृत्तौ इच्छा हेतुर्नेश्वरस्य प्रवृत्तौ तस्या
नित्यत्वात् । गवादीनामपि हरिततृण दर्शनादिना
जायमानायाः प्रवृत्तेसपलम्भात् तत्कारणमिच्छास्तीत्यनुमीयते
इयांस्तु भेदः तेषां वस्तुनः सदसद्विवेकशून्यतया-
ऽसद्विषयेऽपीच्छा जायते । सेयमिच्छा सुबन्तोत्तरविहित
काम्यच्क्यजादिना, घातूत्तरविहितसनादिना च वाच्या ।
तत्र पुत्रकाम्या, अशनाया, उदन्या इत्यादौ काम्य-
जादिवाच्या, पिपासा बुभुक्षा लिप्सा इत्यादौ
सन्वाच्या । सर्व्वत्र च इष्टसाधनज्ञानादेव तत्ततद्विषयेषु
इच्छा जायते सन्प्रत्ययवाच्यायां चिकीर्षायां तु नैव
किन्तु तत्र मतभेदे कारणान्तरमप्यस्ति तथा हि
कृतिसाध्यत्वप्रकारकेच्छा चिकीर्षा पाकः कृत्था साध्यता-
नित्यारिका । तत्र च कृतिसाध्यत्वज्ञानं कारणमिति
गुरवः तेन वृष्टिजलादौ कृतिसाध्यत्वाभावेन न तत्र
चिकीर्षा । कृतिसाध्येष्टसाधनत्वज्ञानं बलवदनिष्टानुबन्धि-
त्वज्ञानञ्च हेतुरिति नैयायिकाः । तेन वृथाजलताड-
नादो कृतिसाध्यत्वग्रहेऽपि न चिकीर्षा तत्र इष्टसाधनत्व-
ग्रहाभावात् । विषनिश्रितान्नादेरिष्टसाधनत्वग्रहेऽपि
बलवदनिष्टसाधनत्वग्रहान्न चिकीर्षा । तदेतत् मुक्ता० उक्तं
तच्च प्राक् दर्शितं तत्रत्यदिनकरीशेषो यथा ।
“ननु कृतिसाध्यताज्ञानस्य स्वातन्त्र्येण चिकिर्षां प्रति हेतुत्वे
मानाभावः । तद्धर्मावच्छिन्नविशेष्यकेष्टसाधनताज्ञानस्य
तद्धर्मप्रकारकेच्छां प्रति हेतुतायाः कॢप्तत्वात् कृतिसाध्यपा-
कत्वावच्छिन्नविशेष्यकेष्टसाधनताज्ञानादेव चिकीर्षायाः
सम्भवादिति चेन्न यत्र कृतिसाध्यपाकत्वेनेष्टसाधनत्वं
न गृहीतमपि तु शुद्धपाकत्वेन कृतिसाध्यत्वं शुद्धपाकत्वेने-
ष्टसाधनत्वं च गृहीतं तत्रापि पाकगोचरप्रवृत्तेरानुभाविक-
तया तदनुरोधेन चिकीर्षाया अप्यावश्यकत्वेन तन्निर्वाहाय
कृतिसाध्यताज्ञानस्य स्वातन्त्येण हेतुताया आवश्यकत्वात् ।
अथ कृत्यसाध्यताज्ञानस्य प्रतिबन्धकत्वादेव वृष्ट्यादौ
चिकीर्षामुत्पादात् कृतिसाध्यताज्ञानस्य चिकीर्षां प्रति-
हेतुत्वे मानाभावैति चेन्न कृतिसाध्यत्वाभाव तद्व्याप्य-
तदवच्छेदकधर्मज्ञानानां प्रतिबन्धकत्वकल्पनापेक्षया
कृतिसाध्यताज्ञानस्य हेतुत्वे लाघवात् । इष्टसाधनताज्ञान-
मिति । अन्यथा निष्फलत्वज्ञानेऽपि चैत्यवन्दनादौ
चिकीर्षापत्तिरिति भावः । अत्रेदम्बोध्यम् । पाकविशेष्य-
केष्टसाधनताज्ञानस्य कार्य्यतावच्छेदकं न कृतिसाध्यपाक-
गोचर चिकीर्षात्वम् कृतिसाध्यत्वप्रकारकत्वनिवेशे प्रयोजनवि-
रहात् पाकोजायतामितीच्छाया असंग्रहापत्तेश्च
किन्तु पाकत्वावच्छिन्नमुख्यविशेष्यकेच्छात्वम् पाकसाध्यं
सुखं जायतामितीच्छायां व्यभिचारवारणाय मुख्येति ।
इष्टसाधनतेत्यत्रेच्छा स्वरुपसती विशेषणम् । तेनेच्छा-
ज्ञानशून्यकालेऽपि चिकीर्षानिर्वाह इति । अतएव कृतिसा-
ध्यताज्ञानस्य हेतुत्वादेव । बलवद्द्विष्टेति । द्विष्टं द्वेषविष-
यभूतं द्वेषश्च दुःखे ताद्रूप्येण ज्ञानात्, सर्पादौ तत्साधनता
ज्ञानात् । द्वेषे बलवत्त्वं च जातिविशेषः । प्रतिबन्धकमिति ।
ननु वलवद्द्वेषविषयसाधनत्वज्ञानस्य प्रतिबन्धकत्वे
चैत्रस्यागम्यागमनजन्यनरके यदा बलवान् द्वेषस्तदा मैत्रस्य
तादृशद्वेषशून्थस्यागम्यागमने तादृशनरकसाधनत्वज्ञान-
वतैच्छाप्रवृत्त्योरनुपपत्तिः एवं चैत्रस्यैव कालान्तरे
तादृशद्वेषसत्त्वेपि । न च तत्कालीनतत्प रुषीयेच्छां प्रति
प्रवृत्तिं प्रति च तत्कालीनतत्पुरुषीयवलवद्द्विष्टजनकत्व-
ज्ञानस्य प्रतिबन्धकत्वं कल्प्यते । यत्पुरुषस्य यदा न क्वापि
द्वेषस्तत्कालपुरुषान्तर्भावेन तादृशप्रतिबन्वकत्वस्याक-
ल्पनान्न तत्र तादृशप्रतिबन्धकाप्रसिद्धिरतस्ततदभावरूपका-
रणस्याभावात् प्रवृत्त्यनुपपत्तिरिति वाच्यम् यत्पुरु-
षस्य यदाऽगम्यागमनजन्यनरके बलवद्द्वेषसादा तत्पुरु-
षस्य तत्रेच्छानुत्पादादगम्यागमनगोचरतत्पुर षीयतत्का-
लीनेच्छाया अप्रसिद्ध्या तत्पुरुषतत्कालानार्भावेन
तादृशकार्य्यकारणभावस्याभावेन तत्र तत्पुरुपीयान-
म्यागमनगोचरेच्छानुत्पादप्रयोजकस्य दुर्भिक्षापत्तेरिति
चेन्न तद्धर्मप्रकारकद्वेषविशिष्टस्य तद्धर्मावच्छिन्नजनक
त्वज्ञानस्य तत्र प्रतिबन्धकत्वकल्पेनेनोक्तापत्यभावान् ।
तद्धर्मप्रकारकद्वेषानुत्तरतादृशेच्छायां तादृशद्वेष भावः,
तादृशद्वेषोत्तरतद्गोचरेच्छायां तद्धर्मावच्छिन्नजनकत्वज्ञानाभावः
कारणम् । वलवद्द्वेष इति । पाकादिगेचरेच्छायां
वलवद्द्वेषविषयसाधनत्वज्ञानजन्यः पाकगोचरोद्वेषः
प्रतिबन्धकः पूर्बोक्तप्रतिबन्धकत्वद्वयकल्पनापेक्षया
लाघवादिति भावः यत्र चोत्कठसुखोत्कटदुःखजनकमेकस्मिन्
कर्म्मणि गृहीतं तत्र सत्प्रतिपक्षस्थल इवेच्छाद्वेषयोरनु-
त्पत्तेस्त्वन्मते तत्र कार्य्यकाले द्वेषाभावस्य सत्त्वेनेच्छो-
त्पादापत्तिः । न च यत्र बलवद्द्विष्टसाधनत्वज्ञानेन
तृतीयक्षणे द्वेषोजनितस्तदुत्तरक्षणे इच्छोत्पादापत्तिस्तवा-
पृष्ठ ०९१६
पीति वाच्यम् । तत्रेच्छोत्प्रादस्येष्टत्वात् क्षणविलम्बस्य
शपथनिर्णेयत्वादिति अत्यैत्यनेनास्वरसः सूचितः ।
वलवदनिष्टाजमकत्वज्ञानमिति । अत्रापि तद्धर्मप्रकारक
द्वेषोत्तरेच्छायां तद्धर्म्मावच्छिन्नाजनकत्वज्ञानं कारणं तादृश
द्वेषानुत्तरेच्छायां तु तद्धर्मप्रकारकद्वेषाभावः कारणमिति
निष्कर्षोबोध्यः । भूले कस्य चिन्मत इत्यनेनास्वरसः
सूचितः । स च बलवदनिष्टाननुवन्धित्वज्ञानत्वस्य हेतुताव-
च्छेदकत्वे बलवदनिष्टजनकत्वप्रकारतानिरूपिताभावविशे-
ष्यताशालित्वादेस्तादृशनिरूप्यनिरूपकभावघटितत्वेन
गौरवात्तदघटितबलवदनिष्टसाधनत्वज्ञानाभावत्वेनैव हेतुत्वं
युक्तम् । नचाप्रामाण्यज्ञानानास्कन्दितबलवदनिष्टाननु-
बन्घित्वज्ञानत्वापेक्षया प्रामाण्यनिश्चयानास्कन्दिततदनु
बन्धित्वज्ञानत्वस्य प्रतिबन्धकतावच्छेदकत्वे गौरवमिति
वाच्यम् । युद्धादौ बलवदनिष्टसाध नत्वसन्देहेऽपीच्छाप्रवृत्त्योरु
दयाद्बलवदनिष्टानुवन्धित्वनिश्चयस्यैवेच्छाप्रतिवन्धकतायास्त-
दननुबन्धित्वसंशयस्यापि प्रतिबन्धकतायाश्च वाच्यतया
चविपरीतगौरवादिति । न च बलवदनिष्टाननुबन्धित्वज्ञा-
नस्याप्रवर्त्तकत्वे तद्विषयस्य विध्यर्थत्वाभावात् “न कलञ्ज
भक्षयेदित्यादि”--वाक्यानामप्रामाण्यापत्तिरिति वाच्यम् ।
तज्ज्ञानस्य प्रवृत्तिजनकत्वाभावेऽपि प्रवृत्तिप्रतिबन्धकबलव-
दनिष्टसाधनत्वज्ञानविघटकत्वेन प्रवृत्तिप्रयोजकत्वात् प्रवृ-
त्तिप्रयोजकज्ञानविषयस्य विध्यर्थत्वानपायात् । अत्र
यद्यपि यत्र प्रथमक्षणे द्वेषः द्वितीयक्षणे फलेच्छा
तृतीयक्षणे फलसाधनताज्ञानं तत्र तृतीयक्षणे द्वेषनाशाद्भ-
वत्येव चतुर्थेक्षणे उपायेच्छा । यत्र फलेच्छादिक्रमेणैषामुत्प-
त्तिस्तत्र फलेच्छारूपकारणाभावादेव नोपायेच्छा ।
एवमन्यत्रापि । आत्मविशेषगुणानां यौगपद्यानङ्गीकारादिति
बलवदनिष्ठानुवन्धिज्ञानस्य द्वेषस्य वा प्रतिबन्धकत्वं न
युक्तं न युक्तञ्च बलवदनिष्टाननुबन्धित्वज्ञानस्य हेतुत्वं
तथापि द्वित्निक्षणान्तरितेऽपि द्वेषे इच्छाप्रवृत्त्योरनुदयस्यानु-
भविकतया ज्ञानयोरेव वा यौगपद्यमित्यभ्युपगमाद्वा पूर्वोक्त-
प्रतिबन्धकत्वस्य हेतुत्वस्य वावश्यकत्वमिति ध्येयम्” ।
शब्दचिन्तामणौ तु प्रपञ्चः । तत्र कृतिसाध्यत्वनिश्चयस्य
चिकीर्षादिहेतुत्रम् पूर्ब्बपक्षीकृत्य अत्रोच्यते इत्यादिना
खमतसिद्धं कारणं दर्शयित्वा सिद्धान्तितं यथा । “विष-
भक्षणादिव्यावर्त्तकं कृतिसाध्यत्वज्ञाने इष्टसाधनत्वं विषय
तयावच्छेदकं लाघवात्० न तु स्वविशेषणवत्ताप्रतिस-
न्वानजन्यत्वं गौरवात् न च सिद्ध्यसिद्ध्यवस्ययोःसा-
ध्यत्वसाधनत्वयोर्विरोधः निर्विशेषितयोरविरोधात् पाको-
ऽसिद्धः साध्यः सिद्धः साधनञ्चेत्यनुभवात् तदा साध्यत्वं
हि तदा साधनत्वविरोधि नियमतस्तेनैव तस्य प्रतिक्षेपात्
सहानवस्थाननियमात् न तु साधनत्वस्य अन्यदा साधन-
त्वस्य वा तयोरप्रतिक्षेपात् अन्यदासाधनत्वेऽपि साधन-
त्वमस्त्येव सामान्यभावे विशेषभावप्रसङ्गात् एवन्तदासिद्ध-
त्वस्य तदऽसिद्धत्वेन विरोधः नियमयस्तस्यैव प्रतिक्षेपात् न
तु सिद्ध्वत्वमात्रेण अन्यदाषि तत्र सिद्धत्वाभावप्रसङ्गात् ।
निर्विशेषितयोर्विरोधे च सिद्धत्वासिद्धत्वयोश्चान्यतरदेव
पाकादौ स्यान्नतु समयभेदेऽप्युभयम् न च तदा कृतिसाध्य-
त्वे सति तदेष्टसाधनत्वज्ञानं प्रवर्त्तकम् । अतएव “वाजपेयेन
यजेतेत्यत्र” यागस्य करणावस्थायां सिद्धत्वेन वाजपेयस्य न
साध्यता एकदाद्वयविरोधादिति कर्मनामधेयत्वं न तु
करणस्य सिद्धत्वेन साध्यत्वविरोधः यागस्वरूपे तयोः सत्त्वात्
अथ विरुद्धयोरवच्छेदभेदमादायैकत्र प्रतीतिःस्यात् नच
कृतिसाध्यत्वेष्टसाधनत्वयोः समयभेदमादाय प्रतीतिरस्ति
तथा लिङ्गाभावादितिचेत् न साध्यत्वसाधनत्वयोरविरोधस्यो-
क्तत्वात् एवं सिद्धासिद्धत्वयोर्भावाभावरूपत्वेऽपि न विरोधः
एकधर्मिगतत्वेन मानसिद्धत्वात् । एवं संयोग तदभावयोरिव
येन प्रकारेण ययोर्विरोधस्तेन तयोरेकधर्मिगतत्वं न प्रतीयते
न तु रूपान्तरेणापीति । अपि च यदि साध्यत्वसाधन
त्वयीर्विरोधस्तदापीष्टसाधनत्वेन कार्य्यसाधनत्वेन वा कार्य्य-
त्वं नानुमीयेत हेतुसाध्ययोर्विरोधेन सामानाधिकरण्या-
भावेन व्याप्त्यसिद्धेः पक्षे साध्यसाधनयोरन्यतरासत्त्वे बाधा-
सिद्ध्योरन्यतरप्रसङ्गाच्च । न च वाच्यमिदानीं मत्कृतिसा-
घ्यत्वं साध्यम् अग्रेमदिष्टसाधनत्वं हेतुः, दैवाद्यनधीनत्वे
सति यदग्रे मदिष्टसाधनं तदिदार्नी मत्कृतिसाध्यमिति व्याप्तेः
तथा च समयभेदमादाय साध्यत्वसाधनत्वयोरविरोध
इति । इदानोमग्रिमपदार्थयोर्नानात्वादनुगतरूपाभावेन
व्याप्तेरग्रहात् एवन्यायेनान्यत्रापि तत्तत्समयान्तर्भावेन
साध्यत्वसाधनत्वयोरप्रतीतेः । प्रतीतौ वा ममापीदानीं
कृतिसाध्यत्वे सत्यग्रे इष्टसाधनत्वज्ञानं प्रवर्त्तकामस्तु । न
च पाकसाध्येष्टत्वेत कृतिसाध्यत्वमनुमेयं असिद्धावस्था-
वतः पाकादिष्टानुत्पत्तेः पाकस्य सिद्धत्वमवगम्य
तत्साध्यत्वमिष्टस्यावगन्तव्यम् असिद्धत्वञ्चावगम्य कृतिसा-
ध्यत्वमिति सिद्धत्वासिद्धत्वयोर्विरोधोऽत्रापि दुर्वारः । अपि
च स्वविशेषणधीजन्यकार्य्यताज्ञानाभावात् सुखे कथं
चिकीर्वा न हि कृतिसाध्यताज्ञानमात्रात् सा सञ्जातबा-
पृष्ठ ०९१७
धस्य विषभक्षणादौ चिकोर्षाप्रसङ्गात् । अथोपायचि-
कीर्षायां तत्कारण इच्छाकारणसुखत्वज्ञाते कृतिसा-
ध्यत्वं यदा विषयस्तदा सुखे चिकोर्षा नो चेदिच्छामात्र
मिति द्वयमेव चिकीर्षाहेतुरिति चेत् तर्हीच्छाहेतु-
ज्ञाने यदा कृतिसाध्यत्व भासते तदा चिकीर्षा नो चेदिच्छा-
मात्रमित्येव सुखतदुपायचिकीर्षाकारणमस्तु लाघवात्
सुखत्वज्ञानवदिष्टसाधनताज्ञानस्यापीच्छाकारणत्वात् ।
अतएव पाके इष्टसाधनताज्ञाने कृतिसाध्यत्वं विषय इति
चिकीर्षा न तु वृष्ट्यादिज्ञाने तद्विषयत्वमितीच्छामात्र सुख
चिकीर्षायामिच्छाकारणज्ञाने कृतिसाध्यताविषयके
चिकीर्षाजनकत्वावधारणात् अन्यथा तत्र चिकीर्षा-
नुत्पत्तेः । वस्तुतस्तु उपायचिकीर्षा इष्टसाधनताज्ञान-
साध्या उपायेच्छात्वात् वृष्टीच्छावत् न च भोगचिकीर्षावत्
तेन विनावि स्यादित्यप्रयोकत्वात् उपायेच्छायास्तदम्बय
व्यतिरेकानुविधानात् वृष्टेश्च स्वतोऽसुकरत्वेन इच्छानुत्-
पत्तेः । अनुगतोपायेच्छायामनुगतस्य प्रयोजकत्वे सम्भवति
बाधक विना त्यागायोगाच्च । न च चिकीर्षान्यत्वेसति
उपायेच्छात्वमिच्छात्वंवा तज्जन्यत्वे प्रयोजकं गौरवात् सुखेच्छ-
यां तदभावाच्च । एवञ्चोपायचिकीर्षायामिष्टसाधन-
ताज्ञाने ध्रुवेऽतिप्रसङ्गवारणार्थं कृतिसाध्यत्वप्रकारकत्वनिर्वा-
हार्थञ्चकृतिसाध्यत्वमपि विषयतयावच्छेदकमस्तु न तु
तद्विहाय तन्मात्र, कॢप्तकारणं विना कार्य्यानुत्पत्तेः । अत
एव स्तनपानप्रवृत्तावप्युपायेच्छाकारणत्वेन गृहीतस्येष्ट-
माधनताज्ञानस्यापि कल्यनं दृष्टानुरोधित्वात् कारणतायाः ।
ननु साधनत्वमिच्छाविरोधि तस्य सिद्धधर्म्मत्वात् वृष्ट्यादौ
तत्साध्येष्टज्ञानादिच्छेति चेत् न निर्विशेषितयोः सिद्धत्वा-
सिद्धत्वयोरविरोधेनेच्छासाधनत्वयोरविरोधात् तदा
असिद्धत्वं तत्सिद्धत्वञ्च नेच्छासाधनत्वयोः प्रयोजकमिति
तथा न ज्ञायत एव । यत्तु तत्साध्येष्टज्ञानात् दृष्ट्यादावि-
च्छेति तत्तुच्छं असिद्धावस्थाद्वृष्ट्यादेरिष्टानुत्पत्तेरवश्य
सिद्धत्वमवगन्तव्यमिच्छाविरोधित्वाच्चासिद्धत्वमिति तत्रापि
विरोधएव वृष्टौ संत्यामिष्टं तया विना नेत्यन्वयव्यतिरेक
ग्रहस्य वृष्टिसिद्धत्वमादाय वृष्टिनिरूपितेषु साध्यत्व-
ग्राहकत्वात् । किञ्च चिकीर्षाजन्यकृतिसाध्यं मण्डली-
करणमित्यर्थप्रतिपादकं मण्डलीं कुर्य्यादितिवाक्यं
प्रमाणं स्यात् विषयाबाधात् । एतेन नवीनमतमपास्तं
परस्य हि कृतिसाध्यत्वौदनकामनावत्त्वेष्टसाधनताज्ञानानां
ज्ञानं तथान्यस्य ओदनकामनावत्तेष्टसाधनताज्ञानस्थ
ज्ञान न प्रवृत्तिकारण गौरषात् किन्तु मत्कृतिसाध्य
त्वे सति मदिष्टसाधनताज्ञानमेव लाघवात् तथा च साध्य-
साधनत्वयोर्न विरोधोऽनागतस्य पाकादेः कृतिसाध्यताज्ञा-
नञ्च यथा, तथोपपादितं पुरस्तात् । किञ्च खकृतिसाध्यत्वम-
न्तरेणापि स्वकृतिसाध्येष्टसाधनताज्ञानात् स्वकल्पितेलिप्यादौ,
यौवने कामोद्भेदात् संभोगादौ प्रवृत्तेश्च अदृष्टं प्रव-
वर्त्तकम् । वस्तुतस्तु सिद्धविषयककृतिसाध्यताज्ञानात् कथं
“पाकं कृत्या साधयामीतीच्छा”? सिद्धे इच्छाविरहात्
असिद्धस्याज्ञानात् अथ सिद्धविषयादेव कृतिसाध्यताज्ञाना-
दसिद्धविषया कृतिसाध्यत्वेनेच्छा जायते इच्छाया
असिद्धविषयत्वस्वभावत्वात् । एकप्रकारकत्वेन ज्ञानचिकीर्षयोः
कार्य्यकारणभावोनत्वेकविषयत्वे सति गौरवात् इच्छाया
अनागतविषयत्वात्तस्य चाज्ञानात्तथा कल्पनात्
सुखादीच्छायामप्येवमिति चेत् न असिद्धविषयेच्छानु-
रोधेनानागतोपायज्ञानस्य दर्शितत्वात् । अस्तुचैवं
तथापि कृतिसाध्यताज्ञाने इष्टसाधनत्वमेव व्यावर्त्तक-
मस्तु स्वपरकीयेष्टसाधनताज्ञानस्य फलकामनाज्ञाना-
पेक्षया लघुत्वात् ज्ञानज्ञानस्य फलकामनाज्ञानस्य हेतुत्वे
मानाभावाच्च” ।
सेयमिच्छा अन्तःकरणधर्म्मोनात्मधर्म्मः इति वेदान्तिनः
प्रतिपेदिरे । आत्मनो निर्गुणत्वात् प्रागुक्तया “कामः
सङ्खल्पः इत्यादि श्रुत्था मनोधर्म्मत्वावगमाच्च तथात्वम् ।
यथा च कामादीनां नात्मधर्म्मत्वं तथा शङ्कापूर्व्वकं वृ० उ०
भाष्ये समर्थितम् । यथा
“सुखित्वदुःखित्वादिदर्शनान्नेति चेत् न “न लिप्यते
लोकदुःखेन बाह्य” इति श्रुतेः । प्रत्यक्षादिविरोधादयुक्तमिति
चेत् न उपाध्याश्रयजनितविशेषविशेषयत्वात्प्रत्यक्षा-
देः “न दृष्टेर्द्रष्टार पश्येर्विज्ञातारमरे केन विजानीया-
दविज्ञातं विज्ञातृ” इत्यादिश्रुतिभ्यो नात्मविषयं विज्ञानम्,
किन्तर्हि बुद्ध्याद्युपाध्यात्मप्रतिच्छायाविषयमेव सुखितो
दुःखितोऽहमित्येवमादिप्रत्यक्षविज्ञानमयमहमिति विषयेण
विषयिणःसामानाधिकरण्योपचारात् “नान्यदतोऽस्ति द्रुष्टृ”
इत्यन्यात्मप्रतिषेधाच्च । देहावयवविशेष्यत्वाच्च सुखदुःखयो-
र्विषयधर्म्मत्वम् “आत्मनस्तु कामाय” इत्यात्मार्थत्वश्रुतेरयुक्त-
मिति चेन्न । “यत्र वा अन्यदिव स्यात्” इत्यविद्याविषया-
त्मार्थत्वाभ्युपगमात् “तत्केन कं पश्येत्” “नेह नानास्ति
किञ्चन” “तत्र को मोहः कः शोक” इत्यादि विद्याविषये
तत्प्रतिषेधाच्च नात्मधर्म्मत्वम् । तार्क्किकसमयविरोधादयुक्तमिति
पृष्ठ ०९१८
चेन्न युक्त्याप्यात्मनो दुःखित्वानुपपत्तेः । न हि दुःखेन
प्रत्यक्षविषयेणात्मनो विशेष्यत्वं, प्रत्यक्षाविषयत्वात् । आकाशस्य
शब्दगुणवत्त्ववदात्मनो दुःखित्वमिति चेन्न एकप्रत्ययवि-
षयत्वानुपपत्तेः । न हि सुखग्राहकेण प्रत्यक्षविषयेण
प्रत्ययेन नित्यानुमेयस्यात्मनो विषयीकरणमुपपद्यते ।
तस्य च विषयीकरणे आत्मन एकत्वाद्विषय्यभावप्रसङ्गः ।
एकस्यैव विषयविषयित्वं दीपवदिति चेन्न युगपदस-
म्भवादात्मन्यंशानुपपत्तेश्च । एतेन विज्ञानस्य ग्राह्य-
ग्राहकत्वं प्रत्युक्तम् । प्रत्यक्षानुमानविषययोश्च दुःखा-
त्मनोर्गुणगुणित्वेनानुमानम् दुःखस्य नित्यमेव प्रत्य-
क्षविषयत्वाद्रूपादिसामानाधिकरण्याच्च मनःसंयोगजत्वे-
ऽप्यात्मनि दुःखस्य, सावयवत्वविक्रियावत्त्वानित्यत्वप्रसङ्गात् ।
न ह्यविकृत्य संयोगि द्रव्यं गुणः कश्चिदुपयन्नपयन्वा दृष्टः
क्वचित् । न च निरवयवं विक्रियमाणं दृष्टं क्वचित्
अनित्यगुणाश्रयं वा नित्यम् । न चाकाश आगमवादिभि-
र्नित्यतयावगम्यते । न चान्यो दृष्टान्तोऽस्ति विक्रियमा-
णमपि तत्प्रत्ययानिवृत्तेर्नित्यमेवेति चेन्न द्रव्यस्यावयवा-
न्यथात्वव्यतिरेकेण विक्रियानुपपत्तेः । सावयवत्वेऽपि
नित्यत्वमिति चेन्न सावयवस्यावयवसंयोगपूर्व्वकत्वे सति
विभागोपपत्तेः । वज्रादिष्वदर्शनान्नेति चेन्नानुमेयत्वा-
त्संयोगपूर्व्वत्वस्य । तस्मान्नात्मनो दुःखाद्यनित्यगुणाश्रय-
त्वोपपत्तिः । परस्यादुःखित्वेऽन्यस्य च दुखिनोऽभावे
दुःखोपशमनाय शास्त्रारम्भानर्थक्यमिति चेन्नाविद्या-
ऽध्यारोपितदुःखित्वम्रमापौहार्थत्वात्” ।
यथा च कामस्य हृदयाश्रितत्वतथाऽऽप्तकामशब्दे ७१८ पृष्ठे
दर्शिते वृ० भा० वाक्ये प्रपञ्चितम् । एवमेव सांख्याःपातञ्जलाश्च
ज्ञानादिवत् सुखदुःखेच्छाद्वेषप्रयत्न धर्म्मा धर्म्मा अपिबुद्धेरेव
धर्म्मा इत्याहुः । ईश्वरेच्छा तु समूहालम्बनात्मिका सर्व्वं जगत्
भूयादित्याकारिका । “सोऽकामयत बहु स्यां प्रजायेयेत्यादि”
श्रुतिः । “सोऽभिध्याय शरीरात् स्वात् सिसृक्षुर्विविधाः
प्रजाः” इति स्मृतिश्च तस्य तत्सत्त्वे प्रमाणम् । सा च नित्येति
नैयायिकादयः नित्यत्वाच्चर्न तत्र कारणापेक्षा । व्योमादि-
वदनित्येति वेदान्तिनः । मित्यत्ववादिमतेऽपि सृज्य-
मानजीवादृष्टरूपसहकारेणैवतत्तत्कार्य्योत्पत्तिरिति ईश्वर
शब्दे वक्ष्यते । मनोधर्म्मत्ववादिमते मनसस्त्रिगुणात्म-
कत्वेऽपि रजसएव तत्कारणत्वम् “काम एष क्रोध एष
रजोगुणसमुद्भवः” गोतायां कामस्य रजोगुणकार्य्यत्वोक्तेः ।
ततश्च बुद्धेस्त्रिगुणात्मकत्वेन रजःकार्य्यकामस्य
तद्गुणत्वमेवोचितम् । अतएव इच्छाशक्तिक्रियाशक्ति-
ज्ञानशक्तिस्वरूपिणीत्यादौ प्रकृतेरिच्छाशक्त्यादिरूपत्वकथन-
मपि सङ्गच्छते शक्तिशक्तिमतोरभेदात् प्रकृतिशक्तित्वाच्च
तस्या बुद्धिगुणत्वमवगम्यते । अतएव “या देवी सर्व्व
भूतेषु इच्छारूपेणसंस्थिता” देवोमा० सर्व्वभूतेषु इच्छा-
रूपेण प्रकृतिस्थितिरक्ता
ईश्वरोपाधिमायाया इच्छादिमत्त्वेनैवेश्वरस्य तद्वत्त्वं
रत्नत्रयपरीक्षायामुक्तं यथा “नित्यं निर्दोषगन्धं निरतिशय
सुखं ब्रह्म चैतन्यमेकं धर्म्मोधर्म्मीति भेदद्वितयमपि
पृथग्भूय मायावशैन । धर्म्मस्तत्रानुभूतिः सकलविषयिणी सर्व-
कार्य्यानुकूला शक्तिश्चेच्छादिरूपा भवति गुणगुणस्त्वाश्रय-
स्त्वेक एव । कर्त्तृत्वं तत्र धर्म्मी कलयति जगतां पञ्च-
सृष्ट्यादिकृत्ये धर्म्मः पुंरूपमाप्त्वा सकलजगदुपदानभावं
बिभर्त्ति । स्त्रीरूपं प्राप्य दिव्या भवति च महिषी स्वाश्न-
यस्यादिकर्त्तुः, प्रोक्तौ धर्म्मप्रभेदावपि निगमविदा धर्म्मि-
वत् ब्रह्मकोटी” इति तथा च एकमेव ब्रह्मानादिसिद्धया
मायया कर्म्मी धर्म्मश्चेति द्विविधमभूदित्यर्थः । तन्त्रोक्ते
कालिकायाः २ पीठशक्तिभेदे । “इच्छाज्ञानक्रियाश्चैव
कामिनी कामदायिनी । रतीरतिप्रिया नन्दा मघ्ये चैव
मनोन्मनी” तन्त्रसा० कालिकापीठशक्ति कथने ।

इच्छाकृत त्रि० इच्छया कृतः । “कामकृते । १ अशीतिभागो

वृद्धिः स्यात्” इत्युक्तातिक्रमेण अधमर्णेन यथेष्टं कृतायां
२ वृद्धौ स्त्री “वृद्धेर्वृद्धिश्चक्रवृद्धिः प्रतिमासन्तु कालिकी ।
इच्छाकृता कामकृता कायिका कायकर्म्मणा” आह्नि०
त० याज्ञ्यवचनत्वेन धृतम् । मिताक्षरायां तु
नैतद्वचनं दृश्यते । तत्र कारिता वृद्धिर्नारदवचनेन दर्शि-
ता “वृद्धिः सा कारिता नाम यर्णिकेन स्वयंकृतेति”

इच्छानिवृत्ति स्त्री ६ त० । पित्रादीनां धनादिभोगतृष्णो

परमे । “पितर्युपरतस्पृहे इत्यादि” स्मृतेः तादृशस्पृहा
निवृत्तौ पित्रादेः स्वत्वहानिः, पुत्रादेः स्वत्वोत्पत्तिश्च ।
तेन पुत्रादोनां तत्र पैत्रादिधनविभागः ।

इच्छावत् त्रि० इच्छाऽस्त्यस्य मत्प् मस्य वः । घनादिस्पृहा

युक्ते स्त्रियां ङीप् । सा च घनादितृष्णायुक्तायां कामुकायाम्
स्त्रियां रमणेच्छायुक्तायां तु कामुकीति भेदः ।

इच्छावसु पु० इच्छयैव वमु यस्य । कुवेरे जटा०

इच्छित पु० इच्छा जातास्य तारका० इतच् । स्पृहायुक्ते

इच्छ त्रि० इच्छति इष--उ नि० इच्छादेशः । इच्छाशीले “वस्त-

चर्म्मणि पुष्टीच्छः” “उमयेच्छरभयोः” कात्या० १८, ५, १२, १३
पृष्ठ ०९१९

इज्जल पु० ईयते कर्म्मणि--क्विप् इत् सन्निपृष्टतया गतं

जलमनेन । (हिजोल) वृक्षे तस्य जलसन्निकृष्टदेश-
जातत्वात् तथात्वम् ।

इज्य पु० इज्याऽस्त्यस्य अर्श० अच् । १ वृहस्पतौ “जीवा-

र्किभानुजेज्यानां क्षेत्राणि स्युरजादयः” ज्यो० त० “वित्-
सितेज्यदिवसे” मु० चि० । जीवदेवताके २ पुष्यनक्षत्रे च
“त्यक्त्वा हरीज्येन्दुकरान्त्यमैत्रेत्यादि दीपि० ३ गुरौ ४
परमेश्वरे ५ विष्णौ च । “यज्ञैज्यो महेज्यश्च” विष्णु० स० ।
“यष्टव्योऽप्ययमेवेतीज्यः” ये यजन्ति च सार्वाणि दैवतानि
पितॄनपि । आत्मानमात्मना नित्थं विष्णुमेव यजन्ति
ते ४ हरिवंशोक्तेः” भा० ६ पूज्यमात्रे त्रि० । सुरेज्यः

इज्या स्त्री यज--भावे क्यप् स्त्रीत्वात् टाप् । १ यज्ञे “सोऽह-

मिज्याविशुद्धात्मा” । “जगत्प्रकाशं तदशेषमिज्यया”
रघुः यजेर्दानाद्यर्थत्वात् २ दाने, ३ सङ्गमे च । कर्म्मणि
क्यप् । ४ प्रतिमायाम् ५ कुट्टिनन्याञ्च ।

इज्याशील पु० इज्या शीलमस्य । सततयजनशीले यायजूके अमरः ।

इञ्चाक पु० चञ्चा दीर्धाऽस्त्यस्य आकन् पृ० । (चिङ्गिड़ि)

मत्स्यभेदे त्रिका० २ जलवृश्चिके इति केचित् ।

इट गतौ भ्वादि० पर० सक० सेट् । एटति ऐटीत् । इयेठ ईटतुः

“त्वं त्यमिटतो रथमिन्द्रप्रावः सुतावतः” ऋ० १०, १७१, १ ।

इटसून न० इट--क इटं सूनं शूनं श्वि--क्त पृ० शस्य सः ।

शाखामये कटे । “वैतसे इठसून उत्तरतोऽश्वस्यावद्यन्ति”
शत० व्रा० १३, २, २, १९, “इटसूने शाखामये कटे” भा०

इट्चर पु० इष--संपदा० भावे क्विप् इषा कामेन चरति

चरअच् । गोपतौ (षाँड़) वृषभे

इड्(ल) स्त्री इल--क्विप् बा लस्य ड । १ हविषि अन्ने “होता

रमिलः प्रथमं यतध्यै” ऋ० ३, ४, ३, “इड़ो हवीरूपाण्य-
न्नानि” भा० “इड़स्पतिर्मघवा दस्मवर्चाः” ऋ० ६, ५८,
४, “इड़ः अन्नस्य पतिः” भा० २ भूमौ “इन्द्रपानमूर्मिम
कृण्वतेड़ः” ऋ० ७, ४७, १, “इड़ैड़ाया भूमेः” भा० ईड्यते
ईड--क्विप् पृ० । ३ अन्ने ४ वर्षर्त्तौ ५ प्रजासु दर्शपौर्ण्णमासा-
ङ्गेषु पञ्चसु प्रयाजेषु तृतीये ६ प्रयाजे च । प्रयाजाश्च
“समिधो यजति तनूनपातं यजति इडो यजति बर्हिर्यजति
स्वाहाकारं यजतीति” श्रुत्युक्ताः पञ्च । तेषां प्रयाजत्व-
निर्वचनपूर्बकं पञ्चानामृतुरूपत्वमुक्तम् यथा “ऋत
वोह वै प्रयाजाः तस्मात् पञ्च भवन्ति पञ्च ऋतव”
इत्युपक्रम्य “ततो देवा अर्चन्तः श्राम्यन्तश्चेरुस्तएतान् प्रया-
जान् ददृशुस्तैरयजन्त ते ऋतून् संवत्सरं प्रायजन्नृतुभ्यः
संवत्सरात् सपत्नानन्तरायंस्तस्मात् प्रजया प्रजया ह वै
नामैतत् यत् प्रयाजाः इति तथो एवैष एतैरृतून्
संवत्सरं प्रजयत्युतुभ्यः संवत्सरात् सपत्नानन्तरेति तस्मात्
प्रयाजैर्यजते” इति प्रयाजनिर्बचनेन ऋतुरूपत्वमेषा
मभिधाय समिदादीनां वसन्ततादिरूपत्वमुक्तं तत्रैव यथा
“समिधो यजति तद्वसन्तं, समिन्धे स वसन्तः समिद्वोऽन्या-
नृतून् समिन्धे ऋतवः समिद्धाः प्रजाश्च प्रजनयन्त्योषधीश्च
पचन्ति तद्वेव खलु सर्वानृतून्निराहाऽथ यजयजेत्येवोत्तरा
नाहाऽजामितायैजामिह कुर्य्याद्यत्तनूनपातं यजेड़ो
यजेति व्रूयात्तस्माद्यज यजेत्येवोत्तरानाह, स वै समिधो
यजति । वसन्तो वै समिद्वसन्तमेव तद्देवा अवृञ्जत वसन्तात्
सपत्रानन्तरायन् वसन्तं वेष एतद्वृङ्क्ते वसन्तात् सपत्नान-
न्तरेति तस्मात् समिधो यजति । अथ ततूनपातं
यजति । ग्रीष्मो वै तनूनपाद्ग्रीष्मो ह्यासां प्रजानां तनूस्तपति
ग्रीष्ममेव तद्देवा अवृञ्जत ग्रीष्मात् सपत्नानन्तरायन् ग्रीष्मे-
वेष एतद्वृङ्क्ते ग्रीष्मात् सपत्नानन्तरेति तस्मात्तनूनपातं
यजति । अथेड़ो यजति । वर्ष वाइड़ इति हि वर्षा
इड़ो यदिदं क्षुद्रं सरीसृपं ग्रीष्महेमन्ताभ्यां नित्यक्त
भवति तद्वर्षा ईड़ितमिवान्नमिच्छमानं चरति तस्माद्वर्षा
इड़ो, वर्षा एव तद्देवा अवृञ्जत वर्षाभ्यः सपत्नानन्तरायन्
वर्षा उएवैष एतद्वृङ्क्ते वर्षाभ्यः सपत्नानन्तरेति
तस्मादिड़ी यजति । अथ बर्हिर्यजति । शरद्वै बर्हिरिति
हि शरद्बर्हिर्या इमा ओषधयो ग्रीष्महेमन्ताभ्यां
नित्यक्ता भवन्ति ता वर्षा वर्धन्ते ताः शरदि बर्हिषो रूपं
प्रस्तीर्णाः शेरे तस्माच्छरद्बर्हिः शरद मेव तद्देवा अवृञ्जत
शरदः सपत्नानन्तरायञ्छरदं वेष एतद्वृङ्क्ते शरदः सपत्ना-
नन्तरेति तस्माद्बर्हिर्यजति । अथ स्वाहास्वाहेति यजति ।
अन्तो वैष यज्ञस्य स्वाहाकारोऽन्त ऋतूनां हेमन्तो वसन्ताद्धि
परार्द्धोऽन्तेनैव तदन्तं देवा अवृञ्जतान्तेनान्तात् सपत्नानन्त-
रायन्नन्तेनो एवेष एतदन्तं वृङ्क्तेऽन्तेनान्तात् सपत्नानन्तरेति
तस्मात् स्वाहास्वाहेति यजति” शत० ब्रा० १, ५, ३, ११ ।
समिदादीनां निरुक्त्यन्तरं प्रदर्श्य प्रजारूपत्वमिड़स्तत्रोक्तं
यथा “स वै समिधो यजति । प्राणा वै समिधः प्रा-
णानेवैतत् समिन्धे प्राणैर्ह्ययं पुरुषः समिद्धस्तस्मादभिमृ-
शेति ब्रूयाद्यद्युपतापी स्यात्स यद्युष्णः स्यादेव तावच्छंसेत
समिद्धो हि स तावद्भवति यद्यु शीतः स्यान्नाशंसेत ।
तत्प्राणानेयास्मिन्नेतद्दधाति तस्मात् समिधो यजति ।
अथ तनूनपातं यजति । रेतोवै तनूनपाद्रेत एवैतत्सिञ्चति
पृष्ठ ०९२०
तस्मात्तनूनपातं यजति । अथेड़ो यजति प्रजावा इड़ो
यदा वै रेतः सिक्तं प्रजायतेऽथ तदीड़ितमिवान्नमि-
च्छमानं चरति तत् प्रेवैतज्जनयति तस्मादिड़ो यजति ।
अथ बर्हिर्यजति । भूमा वै बर्हिर्मूमानमेवैतत् प्रजनयति
तस्माद्बर्हिर्यजति । अथ स्वाहास्वाहेति यजति । हेमन्तो
वा ऋतूनां स्वाहाकारो हेमन्तो हीमाः प्रजाः स्वं
वशमुपनयते तस्माद्धेमन्तान्म्लायत्न्योषधयः प्र वनस्पतीनां
पलाशानि मुच्यन्ते प्रतितरामिव वयांसि भवन्त्यधस्तरा-
मिव वयांसि पतन्ति विपतितलोमेव पापः पुरुषो
भवति हेमन्तोहीमाः प्रजाः स्वं वशमुपनयते” । शत०
ब्रा० १, ५, ४, ३ । ऋतूनां पञ्चप्रयाजभागित्वमग्नितः
प्रार्थनयैव जातम् इत्यप्युक्तं तत्रैव “ऋतवोह वै देवेषु यज्ञे
भागमीषिरे आनो यज्ञे भजत मा नो यज्ञादन्तर्गतास्त्वे-
व नोऽपि यज्ञे भाग इति । तद्वै देवा न जज्ञुः । त ऋतवो-
देवेष्वजानस्वसुरानुपावतन्ताप्रियान्देवातां द्विषतो भ्रातृ-
व्यान् । ते हैतामेधितुमेधाञ्चक्रिरे । यानेषामेतामनु
शृण्वन्ति कृषन्तो ह स्मैव पूर्व्वे वपन्तोयन्ति लुनुन्तोऽ-
परे मृणन्तः शश्वद्धैभ्योऽकृष्टपच्या एवौषधयः पेचिरे ।
तद्वै देवानामागआस । कनीयैन्न्वतोद्विषन्द्विषतेऽरा-
तीयति किम्वेतावन्मात्रमुपजानीत यथेदमितोऽन्यथा
सदिति । ते होचुः ऋतूनेवानुमन्त्रयामहा इति के
नेति प्रथमानेवैनान् यज्ञे यजामेति । सहाग्निरुवाच ।
आययन्मां पुरा प्रथमं यजथ क्वाहं भवानीति न त्वामा-
यतनाच्च्यावयाम इति ते यदृतूनभिह्वयमानाअथाग्नि-
मायतनान्नाच्यावयंस्तस्मादग्निरच्युतोनो ह वा आयतना
च्च्यवते यस्मिन्नायतने भवति य एवमेतमग्निमच्य्युतं वेद ।
ते देवा अग्निमब्रुवन् । परे ह्येनांस्त्वमेवानुमन्त्रयस्वेति स
हेत्याग्निरुवाच, ऋतवोऽविदं वै वो देवेषु यज्ञे भागमिति
कथं नोऽविद इति प्रथमानेव वो यज्ञे यक्ष्यन्तीति । त
ऋतवोऽग्निमब्रुवन् आ वयं त्वामस्मासु भजामो यो नो
देवेषु यज्ञे भागमविद इति स एषोऽग्निरृतुष्वाभक्तः
समिधो अग्ने तनूनपादग्न इड़ो अग्ने बर्हिरग्ने स्वाहाग्नि-
मिति” शत० ब्रा० १, ६, १, ७, ८ । प्रयाजैश्चरन्तीत्युपक्रम्य “इड
अग्न आज्यस्य व्यन्त्विति तृतीयः” आश्रु० श्रौ० । “इडस्पदे
समिध्यसे” यजु० १५, ३० “इड़्ःपृयिव्याः” वेददी० ।

इड़ा(ला) स्त्री इल--अच् वा लस्य डत्वम् । १ गवि, २ वाचि,

३ भूमौ “प्रबुध्यते नूनमिड़ातलस्थः भा० व० २३५ अ० ।
“इला पिन्वते विश्वदानीम्” ऋ० ४, ५००८, “इला
भूमिः” भा० । इल + गतौ करणे घञर्थे क । देहस्थे
४ नाडीभेदे । “इड़ा च पिङ्गला चैव सुथुस्णा च सरस्वती
अलम्बूषा कुहूश्चैवं शङ्खिनी चित्रिणी तथा । विश्वो-
दरी विश्वमुखी व्याप्त्याह्येताश्चतुर्दश” इति तन्त्रोक्तासु प्रधा-
नासु चतुर्दशसु नाडीषुतिस्रः प्रधानाः तथा हि । “शिराः
शतानि सप्तैव” या० “शिराः नाभिसंबद्धाश्चत्वारिंशत्
वातपित्तश्लेष्मवाहिन्यः सकलकलेवरव्यापिन्योनानाशाखाः
सत्यः सप्त शतानि भवन्तीति” मिता० । “सप्त शिराशतानि,
सुश्रु० । तेन देहमध्ये सप्त शतानि नाड्यः तन्मध्ये
एताश्चतुर्दश प्रधानतयोक्ताः । तासु मध्येऽपि तिस्रः प्रधानाः
देहस्थनाड़ीरुपक्रम्य । शारदा० “नाड्यस्तत्र समुद्भूतामुख्या-
स्तिस्रः समीरिताः । इड़ा वामे स्थिता नाड़ी पिङ्गला
दक्षिणे मता । तयोर्मध्यगता नाड़ी सुषुस्णा च
समाहिता । पादाङ्गुष्ठद्वयं याता शिखाभ्यां शिरसा पुनः ।
ब्रह्मस्थानं समापन्ना सोमसूर्य्याग्निरूपिणी । तस्या मध्यगता
नाड़ी चित्राख्या योगिवल्लभा । ब्रह्मरन्धं विदुस्तत्र पद्म-
सूत्रनिभं परम् । इड़ायां सञ्चरेच्चन्द्रः पिङ्गलायां दिवा-
करः । ज्ञातौ योगनिदानज्ञैः सुषुस्णायां तु तावुभौ”
तत्स्थानमुक्त्वा कार्य्यमाह “इड़याकर्षयेद्वायु बाह्यं षोडशमा-
त्रया । धारयेत्पूरित योगी चतुःषष्ट्या तु मात्रया । सुषु-
सणामध्यगं सम्यक् द्वात्रिंशन्मात्रया शनैः । नाड्या पिङ्गलया
चैनं रेचयेद्योगवित्तमः । प्रणायाममिमं प्राहुर्योगशास्त्र-
विशारदाः” २५ पटले । “पिङ्गलायां स्थिता ह्रस्वा इड़ायां
सङ्गताः परे (दीर्घाः) । सुषुष्णामध्यगा ज्ञेयाश्चत्वारो
ये नपुंसका” शार० ५ प० । दीर्घादिरयमित्येके । ५
हविरन्ने च “यजमानपञ्चमा इड़ां भक्षयन्ति” श्रुतिः । डस्य
लत्वे प्यत्रैव “इड़ां नोमित्रावरुणोत वृष्टिम्” ऋ० ७, ६४, २
“इड़ामन्नम्” भा० “घृतैर्गव्यूतिमुक्षतमिलाभिः” ऋ०
७, ६४, ४ । “इड़ाभिरन्नैः” भा० । ६ देवीभेदे “श्रुतिः प्रीति-
रिडा कान्तिः, शान्तिः पुष्टिःक्रिया तथा । शिष्टाश्च देव्यः”
इत्युपक्रम्य । “उपतस्थुर्महासत्त्वं बलिमिन्द्र महारथम्”
हरिवं० २५६ अ० “इड़ा देवी भारती विश्वतूर्त्तिः” ऋ०
५, २, ८ । “अभि न इड़ायूथस्य माता” ऋ० ५, ४१, १९ ।
“इलागोरूपधरा मनोः पुत्री माध्यमिकी वाक् वेति”
भा० । बुधस्य जायायां पुरूरवसो मातार पश्चात्मनु-
पुत्रत्वे सुद्युम्नतया ख्यातायां मित्रावरुणयोरंशजातायां
कन्यायाञ्च तत्कथा हरिवं० “अकरोत् पुत्त्रकामस्तु
मनुरिष्टिं प्रजापतिः । मित्रावरुणयोस्तात पूर्व्वमेव
पृष्ठ ०९२१
विशाम्पते! । अनुत्पन्नेषु नवसु पुत्रेष्वेषु तु भारत! ।
तस्यान्तु वर्त्तमानायामिष्ट्यां भरतसत्तम! । मित्रावरुण-
योरशे मनुराहुतिमाजुहोत् । आहुत्यां हूयमानायां
देवगन्धर्वमानवाः । तुष्टिञ्च परमां जग्मुर्मुनयश्च
तपोधनाः । अहोऽस्य तपसो वीर्य्यमहो श्रुतमहोऽद्भुतम् । तत्र
दिव्याम्बरधरादिव्याभरणभूषिता । दिव्यसंहनना चैव
इड़ा जज्ञे इति श्रुतिः । तामिलेत्येव होवाच मनुर्द्दण्ड-
धरस्तदा । अनुगच्छस्वमां भद्रे तमिला प्रत्युवाच ह । धर्म-
युक्तमिदं वाक्यं पुत्त्रकामं प्रजापतिम् । इड़ोवाच ।
मित्रावरुणयोरंशे जाताऽस्मि वदतांवर! । तयोः सकाशं
यास्यामि न मां धर्मो हतोऽबधीत् । सैवमुक्त्वा मनुं
देव मित्रावरुणयोरिला । गत्वाऽन्तिकं वरारोहा प्राञ्जलि-
र्वाक्यमव्रवीत् । अंशेऽस्मिन् युवयोर्जाता देवौ! किं
करवाणि वाम् । मनुना चाहमुक्ता वै अनुगच्छस्व
मामिति । तां तथा वादिनीं साध्वीमिलां धर्मपरा
यणाम् । मित्रश्च वरुणश्चोभावूचतुर्यन्निबोध तत् । अनेन
तव धर्म्मेण प्रश्रयेण दमेन च । सत्येन चैवं सुश्रोणि । प्रीतौ
स्वो वरवर्णिनि! । आवयोस्त्वं महाभागे ख्यातिं कन्येति
यास्यसि । मनोर्वंशकरः पुत्त्रस्त्वमेव च भविष्यसि । सुद्युम्न
इति विख्यातस्त्रिषु लोकेषु शोभने । जगत्प्रियो धर्म्म-
शोलो मनीर्वंशविवर्द्धनः । निवृत्ता सा तु तच्छ्रुत्वा
गच्छन्ती पितुरन्तिकम् । बुधेनान्तरमासाद्य मैथुनायोपम-
न्त्रिता । सोमपुत्त्राद्बुधाद्राजस्तस्यां जज्ञे पुरूरवाः ।
जनयित्वा सुत सा तमिला सुद्युम्नतां गता” ।
८ दुर्गायाञ्च “आचार्य्यां मदिरां चण्डींमिलां मलयवासि-
नीम्” हरिवं० १७८ अ० दुर्गास्तवः । इड़ैव स्वार्थेकन् तत्रार्थे

इडाचिका स्त्री इडावत् सूक्ष्मं मध्यभागम् अचति अच--ण्वुल्

६ त० टापि अत इत्त्वम् । वरटायाम्” (वीलता) शब्दच०

इडिक्क पु० वनभवे छागे हेम०

इड्वर पु० इच्छतीति इट् वृषस्यन्ती तया व्रियते वृ--कर्म्मणि अप् । वृषे क्षीरस्वा०

इडीय त्रि० इड़ाया अन्नस्यादूरदेशः उत्करा० छ । अन्न-

स्यादूरदेषादौ

इण् णित् इङोभेदार्थम् अदा० पर० सक० अनिट् । एति

इतःयन्ति । इयात् इहि ऐत् आयन् अगात् इयाय
ईयतुः ईयुः इययिय इयेथ ईयिव । एता एष्यति ऐष्यत्
एतव्यम अयनीयम् इत्यम् । एता, आयकः इतः इतिः
अयनम् अयः आयःऽयन् ईयिवान् ईयुषी । इत्या
इत्वा उपेत्य । “स्तनयन्नेति नानदत्” ऋ० १, १४०, ५,
“इतः स्म मैत्रावरुणौ किमेतौ?” भट्टिः “अहञ्च भाष्य-
कारश्च कुशाग्रीयधियावुभौ, नैव शब्दाम्बुधेः पारम्”
कलापप० “एमीदेषां निष्कृतं जारिणीव” ऋ० १०, ३४, ५,
“आयन्नापोऽयनमिच्छमानाः” ऋ० ३, ३३, ७, “अगात्
सराजं जलमभ्ययोध्यम्” “ईयुर्भरद्वाजमुनेर्निकेतम्”
“तत्पृष्ठतः प्रष्ठमियाय नम्रः” भट्टिः “सुवृद्रथोवर्त्तते यन्”
ऋ० १, १८३, २ “यन्ति वा आप एत्यादित्य एति चन्द्रमा
यन्ति नक्षत्राणि” शत० ब्रा० ११, ५, ७, १० “मामेवैष्यत्य
संशयम्” “मामेवैष्यति कौन्तेय!” इति च गीता “अपी०
दानीं स घर्म्मात्मा इयान्मेदर्शनम् रहः” भा० आ० ८२ अ०
कर्म्मणि ईयते “इन्द्रोमायाभिः पुरुरूपईयते” श्रुतिः
“वनितयाऽनितया” रजनीवधूः” रघुः
  • अति + अतिक्रमे सक० “नात्येति “सकृदाहृता” स्मृतिः “षड़-
शीतिमुखेऽतीते” “अतीते चोत्तरायणे” स्मृतिः “अथ चेत्
पञ्चमीं रात्रिमतीत्य परतोभवेत्” शुद्धित० स्मृतिः अभि +
अति + आभिमुख्येनातिक्रमे सक० “योऽस्य स्वर्गोंलोकोऽ-
र्जितोभवेत् तमभ्यत्येति” शत० ब्रा० १२, ५, २, ८, ।
वि + अति + विशेषेणातिक्रमे “व्यतीतकालस्त्वहमभ्युपेतः”
  • अधि + चिन्तने गत्यर्थस्य प्राप्त्यर्थत्वात् ज्ञानार्थनाच्च लाभे
ज्ञाने च । इकवत्
  • अनु + अनुगमने सक० । “आदित्यं वा अस्तंयान्तमन्ये देवा
अनुयन्ति” शत० ब्रा० ११, ६, २, ४ । “श्रुतान्वितो दशरथ
इत्युदाहृतः” भट्टिः सन्ततसम्बन्धे अग्वयः “तदन्वये
शुद्धिभति” रघुः शाब्दबोधोपयोगिसम्बन्धभेदे च ।
“साकाङ्क्षशब्दैर्यो बोधस्तदर्थान्वयगोचरः “शब्दशक्ति०
सम + अनु सम्यगऽन्वये । “तत्तुसमन्वयात्” पा० सू० ।
  • अन्तर् + अन्तर्गतौ अन्तरायः अन्तरेति इड् शब्दे ९१९ पृ० उदा०
  • अप + अपगमने अपसरणे अक० “अनुपेतमपेतकृत्यम्” भाग०
“ध्रुवमपायेऽपादानम्” “अपाये यदुदासीनम्” भर्त्तृह०
“सत्वे निविशतेऽपैति” भाष्यका० वि + विशेषेण विगमे
“व्यपैति ददतः स्वधा” स्मृतिः “स्मृत्याचारव्यपेतेन मार्गेणा-
धर्षितः परैः” या० स्मृतिः ।
  • अपि + प्राप्तौ सक० “स्वमपीतो भवतीति स्वपितीत्याच
ते” श्रुतिः “पञ्च नद्यः सरस्वतीमपियन्ति सस्रोतसः” वाज्०
लये अक० अप्ययः अपीतिः “अपीतौ दर्शनात्” “स्वाप्य-
यात्” शा० सू०
  • अभि--आमिमुख्येन गतौ सक० “देहान् यथेष्टमभ्येति हित्वे-
मां मानुषीं तनुम्” अभि + उप + आभिमुख्येन प्राप्तौ सक० ।
पृष्ठ ०९२२
“व्यतीतकालस्तहमभ्युपेतः” रघुः “यच्चेतसा न गणितं
तदिहाभ्युपैति” उद्भटः स्वीकारे “अभ्युपेत्य चसुश्रूषाम्” स्मृतिः
  • अव--अवगमे, ज्ञाने, सक० “अवैमि ते सारमतः खलु त्वाम्”
कुमा० । अधोगतौ अक० । अनु + अव + सन्ततसम्बन्धे । अन्व-
वायः । वि + अव + व्यवधाने “गार्हपत्याहवनीयौ न व्यवे-
यात्” कात्या० १, ८, २ ३ । “नान्तरा यज्ञाङ्गानि व्यवे-
यात्” श्रुतिः “अनुमत्या व्यवेयात्” स्मृतिः स्त्रीपुंसयोः संभो-
गार्थव्यापारे व्यवायः । सम् + अव + सम्यक्सम्बन्धे अयुतसिद्ध्व-
रूपसंबन्धे । स चावयवावयविनोः, गुणगुणिनोः, क्रिया-
क्रियावतोः जातिव्यक्त्योश्च सम्बन्धः । समवेतः समवायः ।
“संयुक्तसमवायतः तत्रापि समवेतानाम्” भाषा० ।
सम्बन्धमात्रे च “एते ह वै रात्री सर्व्वारात्रयः समवयन्ति”
शत० ब्रा० ११, १, ७, ४, सांहत्ये, “सेनायां समवेताये सैन्यास्ते”
अमरः “धर्म्मक्षेत्रे कुरुक्षेत्रे समवेतायुयुत्सवः” गीता ।
  • आ--आगमने सक० । “पञ्चालनां समितिमेयाय” “स्तब्ध-
एयाय” तस्माल्लोकात् पुनरैत्यस्मै लोकाय” छा०
उ० “यूनः स्थविरआयति” मनुः अनु + आ + सम्यग्गमने
सक० । अभि + आ + अभ्यागमने आभिमुख्येनागतौ
“गङ्गामभ्येहि सततं प्राप्स्यसे सिद्धिमुत्तमाम्” भा० अनु०
२६ अ० । उद् + आ + उद्गमने । उप + आ । समोपागमने ।
प्रति + आ + प्रत्यागमने “प्रत्यायत्यां रात्रौ” शत० ब्रा० २,
३, ४०३ । “नैनमेते रश्मयः प्रत्यायन्ति” शत० ब्रा० १४,
८, ६, ३ ।
  • उद्--उद्गतौ अक० । “उदेति सविता ताम्रस्ताम्र एवास्तमेति
च” सा० द० । उदयः । उत्क्रमणे अक० । उदेति
हवै सर्वेभ्यः पाप्मभ्योय एवं वेद” छा० उ० । अभि +
उद् + आभिमुख्येनोद्गतौ “किञ्चिदभ्युदिते रवौ” म० त० पु० ।
प्रति + उद् प्रत्युद्यानेन गतौ “प्रत्यदियाय पार्व्वती” कुमा०
सम् + उद् सम्यगुदये “यषादित्यःसमुद्यन् वै तमः पूर्ब्बं व्यपो-
हति” भा० व० २०६ अ० । “एककार्य्यसमुद्यन्तौ कृष्णौ
युद्धेऽपराजितौ” भा० सभा० १ अ० । सांहत्ये च समुदयः
  • उप + समीपगमने प्राप्तौ च “उपेयुषां मोक्षपथं मनीषिणाम्”
माघः “योगो परं स्थानमुपैति दिव्यम्” गीता उपायः
  • दुर + दुर्गमे ।
  • निर्--निर्गमने । “र्नियदन्त्रविभूषितम्” दुर्गाध्यानम् । निरगाच्छत्रुहस्तं त्वम्” भट्टिः
  • परा--प्रेतभावप्राप्तौ परेतः । पलायने च “यः परैति
स जीवति” प्रतिपत्तौ “नैव श्रेयो धार्तराष्ट्रः परैति”
भा० वन० ५ अ० ।
  • परि--व्याप्तौ सक० परीतः “पवित्रं पर्य्योषि विश्वतः” ऋ० ७,
१०६, १४, परिक्रमणे “प्रदक्षिणमग्निं परीत्य” गृह्य० ।
परिपाठ्याम् पर्य्यायः “जिह्वा पर्य्येति मे सुखम्” भा०
आदि० १५२ अ० ।
  • अनु + परि + परिपाट्या अनुगमने “संवत्सर एतदृतवोऽनुपरियन्ति” अथ० १५, १७, ८ ।
  • आ + परि अभिमुख्येनव्याप्तौ वि + परि + व्युत्क्रमप्राप्तौ
विपर्य्ययः “विपर्य्ययन्तौ वा एतावग्निं भवतः” शत०
७, २, १, १५ । “विपरीतमतोन्यथा” ज्योति० । “निमित्तानि
च पश्यामि विपरीतानि केशव!” गीता
  • प्र + परलोकगतौ अक० प्रेतः “प्रेत्य संज्ञास्ति” कठो०
अपगतौ च “तस्मात्तदातृण्णात् प्रैति रसः” वृह० उ० ।
प्रकर्षेण गतौ सक० “प्रयन्ति सर्ववीजानि रोप्यमाणानि
चैव ह” भा० व० १९१ अ० ।
  • अभि + प्र + अभिलाषे “कर्मणा यमभिप्रैति स सम्प्रदानम्”
पा० अभिप्रायः “अभिप्रेतार्थसिद्धिर्मङ्गलम्” रघु० ।
  • प्रति + प्रतिगमने “सरस्ततोद्वैतवनं प्रतीयुः” “राज्ञः प्रती-
याय गुरोः सकाशम्” रघुः प्रतीयुषा पूर्ददृशे जनेन”
भट्टिः । ज्ञाने प्रत्ययः प्रतीतिः । “उच्चावचा
जानपदधर्मा ग्रामधर्माश्च तान् विवाहे प्रतीयात्” आश्व०
प० “सर्वोह्यात्मास्तीति प्रत्येति न नाहमस्मीति” “सर्वो-
लोको नाहमस्मीति प्रतीयात्” शा० भा० “कलहंसमालाः
प्रतीयिरे श्रोत्रसुखैर्निनादैः” भट्टिः । विख्यातौ “सोऽयं
वटःश्यामैति प्रतीतः” रघुः “तं प्रतीतं स्वधर्मेण”
मनुः “चतुबर्गफलप्राप्तिर्हि काव्यतः--प्रतीतैव” सा० द०
विश्वासे “पतिः प्रतीतः प्रसवीन्मुखीं प्रियाम्” रघुः
“बलवदपि शिक्षितानामात्मन्यप्रत्ययं चेतः” “वलवदपि दूयमानं
प्रत्यापयतीव मां हृदयम्” शकु० “ताः खचारित्रमुद्दिश्य
प्रत्याययतु मैथिली” रघुः ।
  • सम् + प्रति + सम्यग्ज्ञाने निश्चये सम्यग्विश्वासे च । “किं तत्कथं
वेत्युपलब्धसंज्ञाविकल्पयन्तोऽपि न संप्रतीयुः” भट्टिः ।
  • वि + विगमे करिष्ये “पितरः कामं “व्येतु वोमानसोज्वरः” भा०
आ० ९६ अ० “अनुमानं द्विविधं वीतमवीतञ्च” सा० कौ०
“वीतशोकभयो विप्रो ब्रह्मलोके महीयते” “नियतो
वीतवत्सरः” मनुः । “वीतशोकभयक्रोधः” गीता ।
  • सम् + सङ्गमे मेलने अक० “आप्यायस्व समेतु ते विश्वतः सोम!
वृष्ण्यम्” ऋ० १, ९१, १६, “पार्थिवाःसर्वेसमीयुस्तत्र भारत!”
भा० आ० १८० अ० “राक्षसौ हरियुग्माभ्यां समरायं सुमी-
यतुः” “क्रिंनर्य्यो राक्षसैश्चैव समीयुर्मानुर्षैः सह” रामा०
पृष्ठ ०९२३
  • अभि + सम् आभिमुख्येन सम्यग्गतौ सक० “तं जातमभिस-
यन्ति देवाः” अथ ११, ५, २, णिचि अबोधने गमादेशः ।
गमयति ते अजीगमत् त बोधनेतु प्रत्या(प)ययति ते प्रत्यापिपत्
त--प्रत्यायियत् त । सनि अबोधने गमादेशःजिगमिषति
बोधे तु प्रतीयियिषति । उपसर्गस्थावर्ण्णात् परस्य
गुणभावेन एत्वं प्राप्तौ वृद्धिरेकादेशः । अवैति अवैमि उपैति ।

इण्ड्र पु० न० इदि--रण् पृ० । उखाकर्षके संदशाकारे पदार्थे

“अथैनमिण्ड्रकाभ्यां परिगृह्णाति असौ वा आदित्य
एषोऽग्निरहोरात्रे इण्ड्रे अमुं तदादित्यमहोरात्राभ्यां
परिगृह्णाति तस्मादेषोऽहोरात्राभ्यां परिगृहीतः यद्वे-
वैनमिण्ड्राभ्यां परिगृह्णाति असौ वा आदित्य एषो
अग्निरिमा उभवलोकाविण्ड्वे अमुं तदादित्यमाभ्यां
लोकाभ्यां परिगृह्णाति तस्मादेष आभ्यां लोकाभ्यां
परिगृहीतः परिमण्डले भवतः परिमण्डलौ हीमौ लोकौ
मौञ्जे त्रिवृती तस्यो एवोक्तोऽथो अनतिदाहाय” शत०
ब्रा० ६, ७, १, २५, २६, “परिमण्डलाभ्यामिण्ड्राभ्यामुखां
परिगृह्णाति” कात्या० १६, ५, २, ३, “उस्वा याभ्यां
गृह्यते तौ इण्ड्रौ” कर्क० ।

इत् त्रि० एति गच्छति इ--क्विप् । १ गत्वरे व्याकरणोक्ते प्रक्रिया-

कालोच्चारिते प्रयोगकालेऽस्थायिनि वर्ण्णवेदे यथा तिप्
मिप् इत्यादौ पकारादि ते च “उपदेशेऽजनुनासिक
इत्” “हलत्यम्” “न विभक्तौ तुस्माः” “आदिञिटुडवः”
“षः प्रत्ययस्य” “चुटू” “लशक्वतद्धिते” पा० सूत्रेषु
सापवादं दर्शिताः तस्य लोप” इत्यनेन तस्य प्रयोगेऽदर्शनञ्च
विहितम् “आदिरन्त्येन सहेता” पा० ३ अनन्तरार्थे
४ अवधारणार्थे च अव्य० “यदेदन्ता अददृहन्त पूर्व
आदिद्” यजु० १७, २५,, “आत् इत् इति च्छेदः इत्
एवार्थे” बेददी० “उपोपेन्नु मघवन्! भूय इन्नु” यजु० ३, ३४,
इत् एवार्थे” वेददी० ५ इत्थमित्यर्थेच “सम्राड्विश्वेत्तानि
वरुणस्य व्रतानि” यजु० ४, ३०, इदित्यव्ययमि-
त्थमित्यर्थे” वेददी०

इत त्रि० इ--क्त १ गते “वनितानितया रजनीबधूः” रघुः भावे क्त ।

२ गतौ “तदितादियादथो पयः” शत० ब्रा० ६, २, १, १३ ।
३ ज्ञाने च न० । “वीतमवीतञ्चेति” सां० कौ० ।

इतर त्रि० इना कामेन तीर्य्यते तॄ--अप् तरति पचाद्यच् वा ।

१ नीचे पामरे “इतरैव परिमूय ज्ञानम्, अविगणय्य
तपःप्रभावम्, उन्मूल्य गाम्भीर्य्यं, मन्मथेन जड़ीकृतः”
काद० । ईयतेऽनेन इतः विशेषस्त राति रा क ।
२ भेदाश्रये । “इतरतापशतानि यथेच्छया वितर तानि
सहे चतुरानन!” उद्भटः । “यत्र हि द्वैतमिव भवति
तत्रेतर इतरम् पश्यति” श्रुतिः । “ते यतध्वं परं
शक्त्या विजयायेतराय वा” भा० आ० १० अ० । वर्ण्णा-
श्रमेतराणां नो ब्रूहि धर्म्मानशेषतः” या० स्मृ०
“इतराणि च रक्षांसि पेतुर्वानरकीटिषु” “इतरोदहने
स्वकर्म्मणाम्” रघुः “तमिसं कुरु दक्षिणेतरम्” कुमा० ।
अस्य सव्वनाम कार्य्यम् । इतरे इतरस्मै इतरस्मात्
इत्यादि । “विजयायेयराय वै इत्यादि छान्दसम् न
तत्कार्य्यम् । वर्णश्रमेतराणामित्यत्र बहुव्रीहिः तेन न
सर्व्वनामकार्य्यम् । एवं “शरं मव्येतरे भुजे” रघुश्लोकेऽपि
बहुव्रीहिः । तसिल् इतरतः । “जन्माद्यस्य यतोऽन्वया
दितरतश्चार्थेष्वभिज्ञः स्वरराट्” भाग० । थाल् इतरथा “एवं
देवत्रेतरथा मानुषे” शत० ब्रा ६ऽ८१, ८, इतरेण निर्वृत्तम्
संकलादि० अञ् । ऐतरः । इतरनिर्वृत्ते त्रि० इतरस्या
पत्यम् शुभ्रा० ढक् । ऐतरेयःतदपत्ये पुंस्त्री ।

इतरेतर त्रि० इतर + द्वित्वं समासवद्भावश्च । अन्योन्यशब्दार्थे ।

“स्त्रीनपुंसुकयोरुत्तरपदस्थायाविभक्तेराम्भावो वा वक्तव्यः”
वार्त्ति० इतरेतराम् इतरेतरं वा इमे ब्राह्मण्यौ कुले
बा भोजयतः “सि० कौ० । समासवद्भावात् वृत्तिमात्रे पुंभावः
इतरेतरेण “दलद्वये टाबभावः क्लीवे चाड्विरहःस्वमोः ।
समासे सोरलुक् चेति सिद्धं बाहुलकात्त्रयमित्युक्तं कार्य्यं
तेन क्लीवे इतरेतरमित्येव । “इतरेषां तु वर्ण्णानामित
रेतरकाम्यया” मनुः । “यथा नाभिचरेतां तौ वियुक्ता
वितरेतरम्” मनुः । परमतदादिवत् सर्व्वनामकार्य्यम् ।
किन्तु नाद्ड इति भेदः “व्यूहावुभौ तावितरेतरस्मात्” रघुः

इतरेतरयोगः पु० इतरेतरस्य योग १ अन्वयः । प्रत्येकप्राधा-

न्येन सर्व्वेषामन्वये । तदर्थे हि द्वन्द्वसमास इष्यते सचाने-
कवत् प्रत्येकप्राधान्यात् । धवश्च खदिरश्च इति वाक्ये हि
धरखदिरौ इत्यत्र भिनत्तीत्यादि क्रियायां प्रत्येकस्य प्राधा-
नान्येनैवान्वयः तथा च एकजातीयक्रियान्वयितावच्छेदक
विशिष्टेप्रत्येकान्वयबोधकत्वे इतरेतर योगाख्यः द्वन्द्वः संहति-
प्राधान्ये तु समाहारद्वन्द्वः इति भेदः । २ परस्परसम्पन्धे च ।

इतरेतराश्रय पु० इतरेतरमाश्रयति आ + श्रि--अच् । अन्यो-

न्याश्रये तर्कदोषंभेदे अन्योन्याश्रय शब्दे २१७ पृष्ठे विवृतिः ।

इतरेद्युस् अव्य० इतरस्मिन्नह्नि इतर + एद्युस् ।

इतरदिवसे इत्यर्थे

इतश्चेतश्च अव्य० । इतश्च द्वित्वम् । अनियतदिग्भागादौ ।

“इतश्चेतश्च विचरन् तस्मिन् मुनिवराश्रमे” देवीमा० ।
पृष्ठ ०९२४

इतस्ततस् अव्य० द्वन्द्वः । अनियतस्थाने इत्यर्थे “लाङ्गूल-

विक्षेपविसर्पिशोभैरितस्ततश्चन्द्रमरीचिगौरैः” कुमा० ।

इतस् अव्य० इदम् + तसिन् इशादेशः । १ अस्मादित्यर्थे “इतः

स दैत्यः प्राप्तश्रीर्नैत एवार्हति क्षयम्” कुमा० ।
२ अस्मिन्नित्यर्थे च । “इतोनिषीदेति विसृष्टभूमिः” कुमा० ।
“प्रयुक्तमप्यस्त्रमितो वृथा स्यात्” रघुः ।

इति अव्य० इण--क्तिच् । १ हेतौ, २ प्रकाशने, ३ निदर्शने,

४ प्रकारे, ५ अनुकर्षे, ६ समाप्तौ, ७ प्रकरणे, ८ स्वरूपे,
९ सान्निध्ये, १० विवक्षानियमे, ११ मते, १२ प्रत्यक्षे, २३
अवधारणे, १४ व्यवस्थायाम्, १५ परामर्शे, १६ माने, १७ इत्थ-
मर्थे, १८ प्रकर्षे, १९ उपक्रमे च । तत्र स्वरूपद्योतकता त्रिधा
शब्दस्वरूपद्योतकता प्रातिपादिकार्थद्योतकता वाक्यार्थ
द्योतकता चेति भेदात् । तत्र शब्दस्वरूपद्योतकत्वे तद्योगे
न प्रथमा । “कृष्णेति मङ्गल नाम यस्य वाचि प्रवर्त्तते”
पुरा० “अतएव गवित्याह भूसत्तायामितीदृशम्”
भर्त्तृहरिः “रामरामेति रामेति कूजन्तं मधुरं वचः”
रामा० “रामेति रामभद्रेति रामचन्द्रेति वा जपन्”
रामकवचम् । प्रातिपदिकार्थद्योतकत्वे प्रथमा ।
“चयस्त्विषामित्यवधारितं पुरस्ततः शरीरीति विभाविता-
कृतिम् । विभुर्विभक्तावयवं पुमानिति क्रमादमुं नारद
इत्यबोधि सः” माघः । “दशरथ इत्युदाहृतः” भट्टिः ।
“वदन्त्यपर्ण्णेति च तां पुराविदः” कुमा० । वाक्यार्थ-
द्योतकत्वे न प्रथमा निपातेनाभिहिते प्रतिपादिकार्थे एव
प्रथमाविधानात् वाक्यस्य च शक्त्या लक्षणया वा एकार्थ-
बोधकत्त्वाभावेन प्रातिपदिकत्वाभावात् “भूसत्तायामिती-
दृशम्” भर्त्तृ० “श्रुतार्थस्य परित्यागादश्रुताश्रुतार्थस्य
कल्वनात् । प्राप्तस्य बाधादित्येवं पारसंख्या त्रिदोषिका”
मीमांसाका० । तत्र हेतौ “इतीव धारामवधीर्य्य” नैष०
“इति स्म सा कारुतरेण लेखितम्” नैष० । प्रकारे “इति
मदमदनाभ्यां रागिणः स्पष्टरागाः” माघः प्रकाशार्थे
इतिहरि इत्यादौ अव्ययी० इदमर्थे “विरोधिसिद्धमिति-
कर्त्तुमुद्यतम्” प्रकरणे इतिकृत्यमितिकर्त्तव्यम् ।
इतिवृत्तम् । भावे क्तिन् । २० गतौ २१ ज्ञाने च स्त्री
“प्रासावीद्द्विपत्प्र चतुष्पदित्यै” ऋ० १, १२४, १” । २२
ऋषिभेदे पु० ।

इतिक त्रि० इत गमनमस्त्यस्य ठन् । गतिमति ततः नडा०

षोत्रापत्ये फक् । ऐतिकायनः तद्गोत्नापत्ये पुंस्त्री

इतिकथ त्रि० इति इत्थं कथा यस्य । अर्थशून्यवाक्य-

प्रयोक्तरि अश्रद्धेयवचने ।

इतिकथा स्त्री इति इत्यं कथा । अर्थशून्यवाक्ये मेदि० ।

इतिकर्त्तव्य त्रि० इति इत्थं कर्त्तव्यम् । इत्थंकर्त्तव्ये

परिपाटीयुक्ते कर्तव्ये । “एवं सर्व्वविधायेदमितिकर्त्तव्यमा-
त्मनः” मनुः “संदिदेशेतिकर्त्तव्यम् वज्रवेगप्रमाथिनौ”
भा० व० २८५ अ० “स च व्यवहारः कोदृशः कतिविधः कथञ्चे-
तिकर्त्तव्यताकलापोनाभिहितः” इति मिता०” कथयन्त्विति
कर्त्तव्यं श्वःकाले करवामहे” भा० आ० १९५ अ० ।
“धर्म्मे प्रमीयमाणे हि वेदेन करुणात्मना । इतिकर्त्तव्यता
भागं मीमांसा पूरयिष्यति” पुरा० इतिकृत्यादयोष्यत्र ।
“तेषु तेष्वितिकृत्यं हि पुरुषस्य समाप्यते” मनुः ।
“ततोऽर्ज्जुनश्च कृष्णश्च विनिश्चित्येतिकृत्यताम्” भा०
आ० २२० अ० ।

इतिवृत्त न० इत्थं वृत्तम् । इदंप्रकारान्विते चरिते । “इति-

वृत्तं नरेन्द्राणामृषीणाञ्च महात्मनाम्” भा० आ० २ अ०
उपचारात् तज्ज्ञापके २ पुराणादौ च । “ममेतिवृत्तं
किल गेयमद्भुतम्” रामा० । “दूरानुवर्त्तिनि स्यात्
तस्य प्रासङ्गिकेतिवृत्ते तु” सा० द० ।

इतिश पु० ऋषिभेदे । तस्य गोत्रापत्यम् नडा० फक् ।

ऐतिशायनस्तद्गोत्रापत्ये पुंस्त्री ।

इतिह अव्य० इति एवं ह किल द्वन्द्वः । उपदेशपरम्परायाम्

यथाऽत्र वटे यक्ष इत्युपदेशपरम्परैव न तु केनापि
दृष्ट्वा तथा कुथितम् । इति तख प्रसिद्धिमात्रता “इति
होचुर्वृद्धा” सा० कौ० ।

इतिहास पु० इतिह पारपार्य्योपदेश आस्तेऽस्मिन्

आसआधारेघञ् ६ त० । “धर्मार्थकाममोक्षाणामुपदेशसमन्वितम् ।
पूर्बवृत्तकथाथुक्तमितिहासं प्रचक्षते” इत्यक्तलक्षणे पुरावृत्त-
प्रकाशके भारतादिग्रन्थे । “इतिहासपुराणाद्यैः षष्ठं
सप्तमं नयेत्” दक्षः “खाध्यायं श्रावयेत् पित्र्ये धर्मशास्त्राणि
चैव हि । आख्यानानीतिहासांश्च पुराणानि खिलानि च”
मनुः । “वाकोवाक्येतिहासपुराणः पञ्चमोवेदानां वेदः”
छा० उ० “इतिहासोत्तमादस्माज् जायन्ते कवि बद्धयः ।
पञ्चभ्य इव भूतेभ्योलोकसंविधयस्त्रयः । भारतस्येतिहासस्य
पुण्यां ग्रन्थार्थसंयुताम् । संस्कारोपगतां ब्राह्मों
नानाशास्त्रोपवृंहिताम्” भा० आ० १ अ० इत्युक्ते, भारतस्येति
हासरूपत्वम् । “इतिहासपुराणाद्यैर्वेदं समुपवृंहयेत्”
स्मृतिः । २ अन्यस्मिन् पुरावृत्ते स च भारते शातिप-
पृष्ठ ०९२५
र्व्वादौ “अत्राप्युदाहरन्तीममितिहासं पुरातनम्” इत्यनेन
बहुकत्वो दर्शितः । “नवमेऽहनि तार्क्ष्योवै वैपश्चितस्तस्य
वयांसि विशस्तानीमान्यासत इति वयांसि ब्रह्मचारिण
इत्युपसमानीताः स्युस्तानुपदिशतीतिहासोवेदः सोयमि-
तीतिहासमाचक्षीत” आश्व० श्रौ० वेदभागविशेषस्यैवेतिहा-
सरूपत्वमुक्तम् । तच्च पुरावृत्तप्रतिपादकत्वात् तथेति
बोध्यम् तदभिप्रायेणैव “वाकोव्याक्येतिहासपुराण इति”
छान्दोग्यवाक्यमिति द्रष्टव्यम् । पौराणिकमतसिद्धे ३ ऐतिह्ये
प्रमाणे च ।

इतिहासपुराण न० इतिहासावेदकं पुराणम् । आथर्वण-

वेदभागभेदे समा० द्व० २ इतिहासपुराणसमाहारे च ।

इत्कट पु० इतं गन्तारं जनं कटति आवृणोति स्वशिखास्थफलेन

कट--आवरणे अच् ६ त० (ओकड़ा) वृक्षे तत्समीपगन्तुर्व-
स्त्रादौ हि तत्फलसंयोगात् गतिनिरोध इति लोकप्रसिद्धम् ।

इत्किला स्त्री किल--शौक्ल्ये क किलः इत् गतः किलः शौक्ल्य

यस्मात् । रोचनायाम् गन्धद्रव्यभेदे शब्द च० ।

इत्थम् अव्य० इदम् + थमु । १ इदंप्रकारे इत्थम्भावः इत्थम्भूतः ।

२ अनेन प्रकारेणेत्यर्थे च “इत्थसमसुंविलपन्तममुञ्चत्” नैष० ।
“इत्थं रतेः किमपि भूतमदृश्यरूपम्” कुमा० “इत्थं व्रतं
धारयतः प्रजार्थम्” रघुः । “इत्यमाराध्यमानोऽपि” कुमा०
“इत्थ क्षितीशेन वसिष्ठधेनुः” रघुः । “सिद्धाप्रयोगे एतस्मिन्
उपपदे णमुल् । इत्थङ्कारम् इत्थम्भावमित्यादि ।

इत्थम्भाव पु० इत्थं भावः प्राप्तिः भू--प्राप्तौ वञ् । कस्यचित्

प्रकारस्य प्राप्तौ ।

इत्थम्भूत त्रि० इत्थं कञ्चित् प्रकारं भूतः प्राप्तः भू--कर्त्तरि क्त ।

कञ्चित् प्रकारं प्राप्ते “इत्थम्भूतलक्षणे” लक्षणेत्यम्भूता-
ख्यानभागवीप्सास्विति” च पा० ।

इत्थशाल पु० इत्थं शल--अच् पृ० । नील० ता० उक्ते योगभेदे

तद्विवृतिः यथा “शीघ्रेऽल्पभागैर्बहुभागमन्देऽग्रस्थे निजं
तेज उपाददोत स्यादित्थशालोऽयमथो विलिप्तालिप्तार्द्ध-
हीनोयदि पूर्ण्णमेतत् । शीघ्रोयदा भान्त्यलवस्थितः सन्
मन्देऽग्रभस्थे निदधाति तेजः । स्यादित्यशालोयमथैष
दीप्तांशकाधिकाशैरिह मन्दपृष्ठे । तदा भविष्यद्गणनीयमि-
त्थशालं त्रिधैवं मुथशीलमाहुः” । “लग्नेशकार्व्याधिपयो-
र्यदैष योगस्तदा कार्य्यमुशन्ति सन्तः । लग्नेशकार्य्याधि-
पतत्सहाथायत्र स्युरस्मिन् पतिसौम्यदृष्टे । तदा बलाढ्यं
कथयन्ति योग विशेषतः स्नेहदृशाऽतिशस्तः । स्वर्क्षा-
दिसत्स्थानगतः शुभैश्चेत् युतेक्षितोभूद्भविताप्यथास्ते ।
तदा शुभं प्रागभवत् सुपूर्ण्णमग्रे भविष्यत्यपवर्त्तते च ।
व्यत्यस्तमस्माद्विपरीतभावेऽथेष्टेक्षितीऽनिष्टग्रहं प्रपन्नः ।
अभूच्छुभं प्रागशुभं त्विदानीं संयातुकामे न च भावि
वाच्यम्” नील० ता० । “प्रागिक्कवालोऽपर इन्दुवारस्तथे-
त्थशालोऽपर ईसराफः” “चेदष्टमेशेन कृतेत्थशालः” नील०
ता० कम्बूलादौ विशेषः ततच्छब्दे वक्ष्यते अस्त्यर्थे इनि ।
इत्थशाली तादृशयोगवति ग्रहे ।

इत्था अव्य० इदम् + थाल्--इदादेशः । १ इत्थमित्यर्थे । “क इत्था

वेद यत्र सः” कठो० “इन्द्रमित्थागिरोममाच्छाः” ऋ०
३०२, ४, ३ । २ सत्ये निरु० इदम् + थम् डादेशः । ३
इदंप्रकारेत्यर्ये । “इत्थाधिया यज्ञवन्तः” ऋ० ३, २७, ६,

इत्य त्रि० इण--कर्म्मणि क्यप् । गम्ये । “इत्यः शिष्येण

गुरुवत्” भट्टिः । “इत्येऽनभ्यासस्थ” वार्त्ति० मुम् अन्य-
भ्यासमित्यः दूरतः परिहर्त्तव्यः” सि० कौ० । भावे क्यप् ।
२ गतौ स्त्री । “स्तेनस्थेत्यामन्विहि तस्करस्य” यजु० १२, २३
“इत्यां गतिम्” वेददी० ।

इत्यक पु० इत्यार्थं कायति शब्दायते कै--क इत्यायां गतौ

राजभवनप्रवेशे अधिकृतोवा कन् ह्रस्वः । प्रतीहाराघि-
कारिणि द्वारपाले ।

इत्वन् त्रि० इण्--क्वनिप् । गन्तरि स्त्रियां ङीप् वनोरश्च । ईत्वरी ।

इत्वर त्रि० इण्--क्वरप् । १ पथिके, २ नीचे, ३ क्रूरकर्म्मणि च ।

४ षण्डेंपु० । स्त्रियां क्वरबनतत्वात् ङीप् । सा चाभि-
सारिमायां ५ स्त्रियाञ्च “सपतत्रीत्वरं स्था जगत्” ऋ०
१०, ८८, ४ ।

इद् अव्य० इदि क्विप् वा० नलोपः । इत् इत्यस्यार्थे एवकारार्थे इच्छब्दे उ० ।

इद ऐश्वर्य्ये इदित् भ्वा० पर० अक० सेट् । इन्दति ऐन्दीत्

इन्दाम्--बभूव आस चकार । इन्द्रः ।

इदंयुग न० कर्म्म० । एतद्युगे । इदंयुगे साधुः प्रत्रियुगा०

खञ् । ऐदंयुगीनः एतद्युगसाधौ त्रि० ।

इदङ्कार्य्या स्त्री इदं कार्य्यं यस्याः । १ दुरालभायां शब्दच०

२ एतद्रूपकार्य्यान्विते त्रि० ।

इदन्तन त्रि० अस्मिन् काले भवः नि० ट्युल् तुट् च । इदानो-

न्तने “शक्त्विहीनरिदन्तनैः” वृह० स्मृतिः ।

इदन्ता स्त्री इदमो भावः । इदंशब्दार्थभावे अङ्गुल्यादिना

दर्शनयोग्यतायाम् “अनिर्द्देश्यमिति” श्रुतिपदव्याख्याने
“इदन्तयानिर्द्देष्टुमशक्यम्” भाष्यम् ।
पृष्ठ ०९२६

इदन्द्र पु० इदं पश्यति दृश--बा० ड्रम् ६ त० । परमात्मनि

तस्य निरुक्तिरैतरेये दर्शिता यथा “स एतमेव पुरुष ब्रह्म
ततममपश्यदिदमदर्शमिति तस्मादिदन्द्रोनाम इदन्द्रो-
हवै नामैनमेवमिदमिन्द्रं सन्तमित्याचक्षते परोक्षेण, परोक्ष
प्रिया हि देवाः” ऐत० उ० विवृतञ्चैतद्भाष्ये । “यस्मादिदमि-
त्येव यत्साक्षादपरोक्षाद्ब्रहृ सर्व्वान्तरमप्रश्यन्नपरोक्षेण ।
तस्मादिदं पश्यतीति इदन्द्रो नाम परमात्मा । इदन्द्रो-
हवै नाम प्रसिद्धो लोक ईश्वरः । तमेवं इदन्द्रम् ।
इदमितिपरोक्षाभिधानेनाचक्षते ब्रह्मविदः संव्यवहारार्थं
पूज्यतमत्वात् प्रत्यक्षनामग्रहणभयात् । तथा हि
परोक्षप्रियाः परोक्षनामग्रहणप्रिया एव ह्येव हि यस्माद्देवाः
किमु सर्व्वदेवानामपि देवो महेश्वरः” विवृतमेतदानन्दगि-
रिणा “तस्येदन्द्रनामप्रसिद्ध्यापि तस्य ज्ञानस्याऽपरोक्षत्वमिति
वक्तु तस्मादिन्द्रैति वाक्यम् तद्व्याचष्टे । यस्मादिति ॥
यस्मात् सर्वान्तरं ब्रह्म इदमित्यपरोक्षं प्रत्यगात्मेत्येवाऽपश्य-
दित्यन्वयः । कथमिदन्द्रनामत्वमत आह । इदन्द्रो ह वा
इति । नन्विन्द्रो मायाभिरित्यादादिन्द्रप्रसिद्धेर्न त्विदन्द्र
इत्यत आह । तमेबमिति । इदन्द्रस्यैव स्वतः परोक्ष-
त्वार्थम् अक्षरलोपेनेन्द्र इत्याहुरित्यर्थः । परोक्षोक्तेः
प्रयोजनमाह । पूज्येति । पूज्यानां परोक्षतयैव नाम
वक्तव्यमित्यत्र प्रमाणमाह । तथा हीति । देवा इति
पूज्या इत्यर्थः । अत एवाचार्य्या उपाध्याया इत्युक्तावेव
प्रीतिं कुर्व्वन्ति लोके, न तु विष्णुमित्रादिनामग्रहण
इति भावः । नाम्नः परोक्षत्वं नाम यथार्थनाम्नो रूपा-
न्तरकरणेन स्वरूपाच्छादनमिति ज्ञेयम्” ।

इदम् त्रि० इदि--कमि नलोमश्च १ पुरोवर्त्तिनि २ दृश्ये ३ बुद्ध्यो-

पस्थापिते “इदमस्तु सन्निकृष्टं समीपवर्त्ति चैतदोरूपम् ।
अदसस्त विप्रकृष्टम् तदिति परोक्षे विजानीयात्” इत्युक्तेः
सन्निकृष्टवाचित्वभस्य अतएव “अस्येति प्रत्यक्षादिसन्निधापितस्य
जगत इदमा निदशः” शा० भा० उक्तम् । सन्निकृष्टत्वञ्च बुद्धि-
मात्रेण, तच्च ज्ञानलक्षणया स्मरणादिना च भवति तेन
“कौमुदीयं विरच्यते” इत्यत्र भाविन्यामपि कौमुद्यां बुद्ध्या
सन्निधापितत्वेन इदंशब्दप्रयागः । अतएव तदादेः बुद्धिस्थ-
त्वोपलक्षितधर्म्मावच्छिन्ने शक्तिसिति नैयायिकादयः । तादृ-
शार्थपरत्वे एवास्य सर्व्वनामता शब्दस्वरूपपरत्वे तु न ।
“इदमोऽन्वादेशे” पा० “इदमा निर्देश्चः” शा० भा० “इदमस्तु सन्नि-
कृष्टम्” “अयमुदयति विततोर्द्धरश्मिजालः” बाघः ।
“अयमञ्चति पञ्चशरानुचरः” सा० द० टी० “इदं किलाव्याजम-
नोहरं वपुः” शकु० “अयमसौ भगवानुत पाण्डवः”
किरा० । “इनं विव्यस्वते योगम्” गीता “इमं
लोकं मातृभक्त्या पितॄ भक्त्या तु मध्यमम्” मनुः । अन्वा-
देशे एनादेशः द्वितीयाटोस्सु “एनं युवानं पतिं वः” इति
वृषोत्सर्गमन्त्रः” । “यद्येनमुज्झसि तदा कतरोवरस्ते”
नैष० । “अनेन यूना सह पार्थिवेन” रघुः । अनूक्तौ
एनेन । एवम् अनयोः एनयोः । सर्व्वनामकार्य्यम् । इमे
अस्मै अस्मात् एषाम् अस्मिन् स्त्रियाम् इयम् । “इयं
महेन्द्राभृतीनधिश्रियः” कुमा० “इतीयं वैदिकी श्रुतिः”
मनुः । अस्यैः अस्याः आसाम् । अत्राकच् । इमकौ
इमकेनेत्यादि प्रत्यक्षविषयतयास्मच्छब्दार्थेऽस्य क्वचित्
वृत्तिः “अयं जनः प्रष्टुमनास्तपोधने!” “जनोऽयमुच्चैः
पदलङ्घ्रनोत्सुकः” “इतः स दैत्यः प्राप्तश्रीर्नेतएवार्हति
क्षयम्” कुमा० । इह । थमु इत्थम् थाल् इत्था । दानीम्
इदानीम् । त्रल् अत्र तसिल् इतः । अयम् अव्यय-
मपि । तेन ट्युल तुट्च । इदन्तनः । मयट् इदस्मयः ।
स्त्रियां ङीप् । वति इयान् स्त्रियाम् ङीप् इयती ।

इदा अव्य० इदम् दाच् वेदे नि० । इदानामित्यर्थे “इदाहिते

वे विषतः” ऋ० ६, २१ “इदा इदानीमिति भा० । इत्
आ द्वन्द्व० । सम्यगवघारणादौ तद्युक्ते इत्येवंरूपे ।
इदावत्सरः । तस्य निरुक्तिस्तच्छब्दे वक्ष्यते ।

इदानीम् अव्य० इदम्--दानीम् इश् च । सम्प्रत्यर्थे । “इदा-

नीमावयोर्मध्ये सरित्सागरभूधराः” उद्भटः । “सा
चेदानीं प्रचेतसः” रघुः “इदानीञ्चेन्मातः क्षिपसि शमना-
ग्रेव द तदा” जगन्नाथः । भवार्थे ट्युल् तुट्च् । इदानीन्तनः
वत्तमानकालभवे त्रि० स्त्रियां ङीप् । “वासना चेदानीन्तनी
प्राक्तनी वेति” सा० द० ।

इदावत्सर पु० इदाचिह्नितः वत्सरः । वत्सरपञ्चकान्त-

र्गते वत्सरभेदे तदानयनप्रकारो यथा “शकाङ्कात् पञ्च-
भिःशेषात् समाद्याद्यास्तु वत्सराः । सपरीदानुपूर्व्यास्ते
तथोदापूर्ब्बका मताः” ज्यो० तथा च एकाङ्के शिष्टे सवत्सरः,
द्व्यङ्के परिवत्सरः, त्र्यङ्के इदावत्सरः, चतुरङ्के अनुवत्सरः,
पञ्चाङ्के शिष्टे उदावत्सरः । तेषां फलन्तु मल० त० विष्णु-
ध० । “संवत्सरे तथा दानं तिलस्य तु महाफलम् ।
परिपूर्व्वेतथा दानं यवानाञ्च द्विजोत्तम! । इदापूर्व्वेऽन्नव-
स्त्राणां धान्यानाञ्चानुपूर्ब्बके । उदासंवत्सरे दानं रजतस्य
महाफलम्” उदावत्सरस्थाने इद्वत्सरोऽपि “परिवत्स-
रोऽसीदावत्सरोऽसीद्वत्सरोऽसि” राज० श्रु० “नभोमण्डलं
सह द्यावापृथिव्योर्मण्डलाभ्यां कात्र्स्न्येन सह भुञ्जीत तं
कालं लवत्सररं परिवत्सरमिदावत्सरमनुवत्सरमुद्व-
पृष्ठ ०९२७
त्सरमिति भानोर्मान्द्यशैघ्य्रसमागतिभिः समामननन्ति”
भाग० ५ स्क० । “मण्डलाभ्यां चन्द्रार्कमण्डलाभ्यां
सहभुञ्जीतेति तेन यदा सूर्य्यस्य शुक्लप्रतिपदि संक्रान्तिर्भवति
तदा सौरचान्द्रयोर्मासयोर्युगपदुपक्रमो भवति स संवत्स-
रः । ततः सौरमानेन वर्षे षट् दिनानि वर्द्धन्ते चान्द्र-
मानेन च षट् ह्रसन्तीति द्वादशदिनव्यवधानादुभयोरग्रप-
श्चाद्भावो भवति एवं पञ्च वर्षाणि गच्छन्ति तत्र द्वौ
मलमासौ भवतः । ततः पुनः षष्ठः संबत्सरः” श्रीधरः ।
तथा च समकालारब्धसौरचान्द्रमासयुक्तोबत्सरःसंवत्सरः
चान्द्रसौरमासयोरारम्भे समत्वपरिवर्ज्जितमासारब्धोवत्
सरः परिवत्सरः । इद् इत्थं परिवत्, आरम्भे
समत्वपरिवर्ज्जनवत्त्वेऽपि अन्ते तयोः समत्वस्यागतिमान्
वत्सरः इदावत्सरः । अनुगतः सौरसंक्रान्तिं चान्द्रो-
मासो यत्र तादृशोवत्सरः अनुवत्सरः । अस्य वर्षस्या-
सक्रान्तमासशून्यतया संक्रान्त्यनुगतचान्द्रमास घटितत्वेन
तथात्वम् । उत्क्रान्तो रविसंक्रान्तिं चन्द्रमासोऽत्र पुनः
समकालारम्भागतिमांश्च योवत्सरः स उदावत्सरः ।
अस्येव इद्वर्षत्वं चान्द्रसौरयोर्मासयोरारम्भेसमकालप्राप्त्यैव ।
एवमेषामन्वर्थकता द्रष्टव्या । पञ्चमवर्षे मलमासद्वय-
पातकथनभपि “पञ्चमे षञ्चमे वर्षे द्वौ मासावधिमासकौ ।
तेषां कालातिरेकेण ग्रहाणामतिचारतः” एतच्च प्रायिकं
“द्वात्रिंशद्भिर्गतैर्मासैः दिनैः षीड़शभिस्तथा । घटिकानां
चतुष्केण पतति ह्यधिमासकः” काल० धृतसिद्धान्तवाक्यात्
तेन प्रागुक्तभारतवाक्यं “मलमासः स विज्ञेयोमासे
त्रिंशत्तमे भवेदिति” काठकगृह्यवाक्यञ्च ज्योतिःशास्त्रो-
क्तमध्यमानमाश्रित्यैव । सिद्धान्तवाक्यं तु स्फुटमानमा-
श्रित्येत्यनयोरविरोधः । एवमेव माधवादयः

इदुवत्सर पु० इद्--उ वत्सरः । इदावत्सरे । “इदुवत्सराय

परिवत्सराय संवत्सराय” अथ० ६, ५५, ३ ।

इद्ध न० इन्ध--भावे क्त । १ आतपे, २ दीप्तौ, ३ आश्चर्य्ये ।

च । कर्त्तरि--क्त । ४ दीप्ते ५ दग्धे च त्रि० । “समिद्धशर-
णादीप्ता” भट्टिः । “तमिद्धमाराधयितुं सकर्ण्णकैः” माघः ।
“इद्धाबोधैरिति” भट्टौ बोधे इद्धत्वं सर्वशास्त्रसूक्ष्मार्थग्रा-
हित्वम् शासने इद्धत्वमप्रतिहतत्वम् ।

इद्धा अव्य० इन्ध--धाच् नि० । प्राकाश्ये स्वरादिः “समिद्धमिद्धेश! महो ददासि” भाग० ।

इध्म न० इध्यतेऽग्निरनेन इन्ध--मक् । १ काष्ठे “यस्त इध्म

जतरत् सिष्विदानः” ऋ० ४, २, ६, “इध्मं काष्ठभारम्”
भा० । २ यज्ञियसमिद्भेदे पु० । तत्प्रमाणकरणप्रका-
रादि कात्या० श्रौ० दर्थितम् । “अयुग्धातू नि यूनानि” सू० ।
“इध्मबन्धनबर्हिर्बन्धनार्थानि यूनानि संनहनानि रज्ज-
वोऽयुग्धातूनि भवन्ति । धातवस्तृणमुष्टिप्रक्षेपाः
अयुजो विषमा एकत्रिपञ्चसप्तनवादिविषससंख्या
धातवोयेषां तान्ययुग्धातूनि । तथा चापस्तम्बः “त्रिधातु
पञ्चधातु वा शुल्वं करोतीति” शुल्वं रज्जुमित्यर्थः ।
“पञ्चविंशतिकुशमयानि यूनानि” इति यज्ञपार्श्वे । तथा
“समूलानामसूलानां वा दर्भाणां पूर्ववत् शुल्वं कृत्वो-
दगग्रं निधायेति” इध्मप्रस्तावे । मानवे च “शुल्वं प्रति-
दधात्ययुग्धातु प्रदक्षिणमिति” । तित्तिरिसूत्रे ।
“अथत्रिरन्वाहितं शुल्वं कृत्वेति” कर्क० बर्हिषो बन्धन
प्रकारमाह । “प्रागग्रे यूनौदगग्रं बर्हिराचिनोति” सू० ।
प्रागग्रे यूने प्रागग्रे संनहने बन्धनार्थायां रज्जौ
उदगग्रं बर्हिराचिनोति बन्धनार्थ स्थापयति” कर्क० ।
अथेध्मबन्धनस्य प्रकारमाह । “उदगग्रे प्रागग्रमिध्मम्” सू० ।
आचिनोतीत्यनुवर्तते उदगग्रे यूने सनहने प्रागग्रमि-
ध्ममाचिनोति बन्धनार्थं निदधाति” कर्क० । “प्रत्यग्ग्र-
न्थीनवगूहति” सू० । इध्मवर्हिर्बन्धनार्थानां यूनानां
ग्रन्थीन् प्रत्यगवगूहति यूने गाढं बद्ध्वा यूनस्याग्रमूले
संकल्प्य प्रदक्षिणमावेष्ट्य इध्मबर्हिषोरग्रभागे प्रोत-
यित्वा पश्चादिति तयोर्मूलभागे अवगूहति प्रेरयति
प्रत्यक्शब्देन इध्मबर्हिषोःपश्चाद्भागो मूलभाग इत्यु-
च्यते दिग्वाचिनोवर्हित्थुदगग्रे निहिते असम्भवात् ।
क्मठके “ग्रन्थि कृत्वा पुरस्तात् प्रत्यञ्चमपकर्षतीति” ।
मानवे “शुल्वस्यान्तौ समायग्य “पूषा ते ग्रन्थिमिति”
प्रदक्षिणमावेष्टयति पश्चात् प्रत्यञ्चमपकर्षतीति”
तैत्तिरीयेऽपि “पश्चात्प्राञ्चमुपगूहतीति” । आपस्तम्बः
“पुरस्तात् प्रत्यञ्चं ग्रन्थिमुपगूहति पश्चाद्वा प्राञ्चमिति” ।
“अष्टादशेध्मं परिधिवृक्षाणाम्” सू० । “परिधीनां वृक्षाः
पलाशखदिरविकङ्कतादयः परिधिवृक्षाः तेषां परिधिवृक्षाणां
सम्बन्धिनः अष्टादशसंख्यकाष्ठकमिध्मं कुर्य्यात् । मानये
“समूलैर्दर्भैः पालाशं खादिरं रौहितकं वाष्टादशदार्विध्मं
संनह्यति त्रिंश्च परिधीन् योयज्ञियवृक्षस्तस्येति” । काठके
“अष्टादशदारु शुल्वं समानवृक्षस्य संनह्यति विंशति
मिष्टौ पशुबन्धे चेति” । अतएव सामिधेनीविवृद्धौ काष्ठ
वृद्धिर्भवति ह्रासे च ह्रासो न भवति पित्र्यादौ,
तथाहापस्तम्बः “सामिधेनीविवृद्धौ काष्ठानि विवर्धन्ते प्रकृतितो
ह्रसमानासु प्रकृतिवदिति” । उपसत्सु तु “मात्रावदिध्मा
पृष्ठ ०९२८
बर्हिरिति” वचनात् ह्रासः । “इध्मप्रमाणं चारत्निरिति
सद्भिः प्रकीर्तितमिति” कात्यायनः (कर्मप्रदीपे) तथा “समित्-
पवित्रं वेदं च कुर्य्यात् प्रादेशसंमितम् । इध्मस्तु द्विगुणः
कार्य्यः परिधिस्त्रिगुणः स्मृतः” “स्मार्ते प्रादेश इध्मो वा
द्विगुणः परिधिस्तत” इति । “एकविंशति वा” सू० । अथ
वा एकविंशतिमेकविशतिसख्याककाष्ठकमिध्मं कुर्य्यात् तथा
चापस्तम्बः “खादिरं पालाशं वैकविंशतिदारुकमिध्मं
करोति” । “ततः परिधीनेके” सू० । एके आचार्या-
स्तत एकविंशतिसंख्यकाष्ठकादिध्मात्त्रीणि काष्ठान्यरत्नि
मात्राण्येवोपादाय परिधीन् परिदधति “तद्धेकैध्मस्यैवैतान्
परिधीन् परिदधतीति” श्रुतेः । अथ वैकमेवेदं सूत्रम्
“एकविंशति वा ततः परिधीनेके” इति एके आचार्य्या
विकल्पेन एकविंशतिसंख्यकाष्ठमिध्मं कुर्वन्ति तत इति
तस्मादेवैकविंशतिकाष्ठकेध्मात् परिधीन् परिदधति च ।
एतदेव युक्ततरम् आपस्तम्बसूत्रे एकविंशतिकाष्ठानां
विभागदर्शनात् । तथाचाहापस्तम्बः “खादिरं पालाशं
वैकविंशतिदारुकमिध्मं करोति त्रयः परिधयः पालाशकाष्ठकाः
खादिरोदुम्बरविल्वरोहितकविकङ्कतानां ये वा यज्ञिया
वृक्षा आर्द्राः शुष्का वा सत्वच्काः, स्थविष्ठो मध्यमोऽणी-
यान्द्राधीयान्दक्षिणार्ध्यो ह्रसिष्ठ उत्तरार्ध्यो द्वे, आधार
समिधावनुयाज समिदेकविंणतिः समूलानाममूलानां वा
दर्भाणां पूर्ब्बवच्छुल्वं कृत्वोदगग्रं निधायेति” । अथ
एवंविधमेकीयमतम् यदेकविंशतिकाष्ठकः इध्मः ।
तस्मिन् पक्षे चेध्मादेव त्रीणि काष्ठान्यादाय परिघिपरि-
धानमिति । बन्धनानन्तरमिध्मवर्हिषोर्भूमौ निधानं न
कायम् आपस्तम्बसूत्रे अनधोनिदधातीत्युक्तत्वात् । तद्धैक
इध्मस्यैवैताम् परिधीन् परिदधतीत्यत्न हरिस्वाभिनः तदु
तथा न कुर्य्यादनवक्लऽप्ता हि तस्यैते भवन्तीति बाहुमात्रैः
परिधिमिरार्द्रैश्च भवितव्यम् । इधुस्तु शुष्कः इन्धनत्वादेव
द्विप्रादेशश्च तेन ते इध्मैकदेशभूताः परिधित्वायासमथोः
स्युः तदिदमाह अभ्याधानाय हीति शुष्को ह्यादावाधेयः
यावत्खर मात्रआहवनींये खरे सम्भवन्तीत्यभिप्रायः यस्तु
परिधिवुद्ध्या आहरति सोऽवध्यवेष्टनीयादग्निखरादति-
रिक्तमेवाहरति अग्निवेष्टनं च दाहभयान्न शुल्वमिति
तऽएषावकॢप्ता इति” कात्या० १, ३, १४, २१ ।
“अपरमितं प्रणयनीयं त्रियूनम” सू० । “प्रणयनस्यायं प्रण-
यनीयः तं प्रणयनीयमग्निप्रणयनार्थमिध्ममपरिमितमपरि-
मितकाष्ठक्वं त्रियूनं तिसृभिः संनहनरज्जुभिर्वेष्टितं कुर्य्यात्
त्रीणि यूनानि बन्धनानि यस्य स त्रियूनः तं त्रियूनमिति ।
अपरिमितत्वं च प्रागुक्तेध्मकाष्ठसंख्यापेक्षयातिशये-
नाधिकसंख्यकाष्ठकत्वम् । तेन चतुर्विंशतिसामिधेनीको
षैष्टकापशुस्तत्र सप्तविंशतिः काष्ठानि भवन्ति । ततश्च
प्रणयनीये ततो ऽप्यधिकानि अष्टाविंशतिप्रभृतीनि
इष्टकासंख्यानि काष्ठानि भवन्ति” कर्क० ।
छन्दोगप० “प्रादेशद्वयमिध्मस्य प्रमाणं परिकीर्त्तितम् ।
एवंमिताः स्युरेवेह सषिधः सर्व्वकर्म्मसु । समिधोऽष्टा-
दशेद्मस्यप्रवदन्ति मनीषिणः । दर्शे च पौर्ण्णमासे च क्रियास्व-
न्यासु विंशतिः । समिदादिषु होमेषुमन्त्रदैवतवर्ज्जिता ।
पुरस्ताच्चोपरिष्टाच्च इन्धनार्थं समिद्भवेत् । इध्मोऽप्ये-
धार्थमाचार्य्येर्हविराहुतिषु स्मृतः । यत्र चास्य निवृत्तिः-
स्यात्तत् स्पष्टीकरवाण्यहम् । अङ्गहोमसमित्तन्त्रसोष्यन्त्या-
ख्येषु कर्म्मसु । येषां चैतदुपर्य्युक्तं तेषु तत्सदृशेषु च ।
अक्षभङ्गादिविपदि जलहोमादिकर्म्मणि । सोमाहुतिषु
सर्व्वासु नैतेष्विध्मो विधीयते । “इध्मजातीयकाष्ठार्द्धप्रमाणं
मेक्षणं भवेत्” । “सुन्वन्दभीतिरिध्मभृतिः पक्थ्यकैः”
ऋ० ६, २०, १३ । “इध्मानां काष्ठानां भृतिः” भा० । तुषि-
तदेवगणमेदे स च भाग० ४ स्क० १ अ० दर्शितो यथा
“तोषः प्रतोषः सन्तोषो भद्रः शान्तिरिलस्पतिः । इध्मः
कविर्विभुः स्वाह्नः सुदेवो रोचनोद्विषट् । तुषिता नाम ते
देवा आसन् स्वायम्भुवेऽन्तरे” भाग० ।

इध्मजिह्व पु० इध्मं काष्ठं जिह्वेवास्य । वह्नौ ।

इध्मवाह पु० लोपामुद्रागर्भजाते अगस्त्यपुत्रे ऋषिभेदे

“सहस्रसम्मितः पुत्र एकोऽप्यस्तु तपोधन!” इति लोपामुद्रया-
प्रार्थितोऽगस्त्यस्तस्या पुत्रमुत्पादयास तस्य नाम दृदस्युरि-
ध्मवहनाच्च इध्मवाह इति नामान्तरं तदेदुक्तं भा० व० ।
९९ । “तत आधाय गर्भन्तमगमत् वनमेव सः” “तस्मिन्वन-
गते गर्भोववृधे सप्त शारदान् । सप्तमेऽव्दे गते चाथ प्रा-
च्यवत् स महोज्ज्वलः । ज्वलदग्निप्रभावेन दृढस्युर्नाम
भारत! । साङ्गोपनिषदान् वेदान् जपन्निव महातपाः ।
तस्य पुत्रोऽभवदृषेः स तपस्वी महाद्विजः । स वालएव
तेजस्वी पितुस्तस्य निदेशने । इध्मानां भारवहनाच्चेध्म-
वाहस्ततोऽभवत्” ।

इन गतौ तना० पर० सक० सेट् । निरुक्ते इन्वतीति बहुवचनान्त

इति केचित् इनोति इनुतः इन्वन्ति इनोमि इन्वः इनुवः
इनुयात् इनोतु इनु इनवानि ऐनोत् । ऐनीत् इयेन ।
निरुक्ते इन्वति इति एकवचनान्तस्तेन इन्वधातुरेवायमिति
बहवः स च भ्वादि० प० सेट् । इन्वति ऐन्वीत् इन्वामास
तद्रूंपम् । “ऋघायमाण इन्वसि” ऋ० १, १७६, १ ।
पृष्ठ ०९२९

इन पु० इण--नक् । १ सूर्य्ये, “नन्दत्रिषड्लग्नभवर्क्षपुत्र-

व्यया इनाद्धर्षपद स्वभोच्चम्” नील० ता० । २ प्रभौ
“न न महीनमहीनपराक्रमम्” रघुः । ३ नृपविशेषे च ।

इनक्ष णक्ष गतौ छान्दस इकारोपसर्जनः भ्वा० पर० स० नक्ष-

वद्रूपम् इनक्षति “दूरेचत्तायछन्त सद्गहनं यदिनक्षत्”
ऋ० १, १३२, ६, “इनक्षत् व्याप्नोति णक्ष गतौ छान्दसै-
कारोपसर्जन इति भा० “शुक्रेण शोचिषाद्यामिनक्षत्,
ऋ० १०, ४५, ७,

इनानी स्त्री इनमानयति अन--णिच्--अण् गौरा० । वटपत्री वृक्षे राजनि० ।

इन्थिहा स्त्री ताजकोक्तायां मुथहायाम् । तदानयन-

प्रकारादि नील० ता० उक्तम् यथा “स्वजन्मलग्नात् प्रति-
वर्षमेकैकराशिभोगा मुथहा क्रमेण । स्वजन्मलग्नं
रवितष्टयातंशरद्युतं सा भमुखेन्थिहा स्यात् । प्रत्यहं शरलिप्ता-
भिर्वर्द्धते सानुपाततः । सार्द्धमंशद्वयं मासैत्याहुः केऽपि
सूरयः । स्वामिसौम्येक्षणात् सौम्यं क्षुतदृष्ट्या भयं रुजः ।
भावालोकनसंयोगात् फलमस्या निरूप्यते । वर्षलग्नात्
सुखास्तान्त्यरिपुरन्ध्रेष्वशोभना । पुण्यकर्मायगा स्वाम्यं
दत्तेऽन्यत्रोद्यमाद्धनम् । शत्रुक्षयं मानसतुष्टिलाभं प्रतापवृद्धिं
नृपतेः प्रसादम् । शरीरपुष्टिं विविधोद्यमांश्च ददाति
सौख्यं मुथहा तनुस्था । उत्साहतोऽर्थागमनं यशश्च
स्वबन्धुसम्मानमुपाश्रयाच्च । मिष्टान्नभोगोबलपुष्टिष्टौख्यं
स्यादर्थभावे मुथहा यदाव्दे । पराक्रमाद्वित्तयशःसुखाप्तिः
सौन्दर्य्यसौख्यं द्विजदेवपूजा । सर्वोपकारस्तनुपुष्टिकान्तिर्नृ-
पाश्रयश्चेन्मुथहा तृतीये । शरीरपीड़ा रिपुभीः स्ववर्गैर्वैरं
मनस्तापनिरुद्यमत्वे । स्यान्मुन्थहायां सुखभावगायां
जनापवादामयवृद्धिदुःखम् । यदीन्थिहा पञ्चमगाव्दवेशे
सद्बुद्धिसौख्यात्मजवित्तलाभः । प्रतापवृद्धिर्विविधाविलासा
देवद्विजार्च्चा नृपतिप्रसादः । क्लमत्वमङ्गेषु रिपूदयश्च भयं
रुजस्तस्करतो नृपाद्वा । कार्य्यार्थनाशो मुथहाऽरिगा चेत्
दुर्बुद्धिवृद्धिः स्वकृतेऽनुतापः । कलत्रबन्धुव्यसनारिभीतिरुत्-
साहभङ्गो धनधर्म्मनाशः । स्मरोपगा चेन्मुथहा तनोः स्या-
द्रुजा मनोमोहविरुद्धचेष्टा । भयं रिपोस्तस्करतोविनाशो
धर्मार्थयोःसुव्यसनामयश्च । मृत्युस्थिता चेन्मुथहा नराणां
बलक्षयः स्याद्गमनं विदूरे । स्वामित्वमर्थोपगमो नृपे
भ्योधर्मोत्सवःपुत्रकलत्रसौख्यम् । देवद्बिजार्च्चा परमं
यशश्च भाग्योदयो भाग्यगतेन्थिहा स्यात् । नृपप्रसादं च
जनोपकारं सत्कर्मसिद्धिं द्विजदेवभक्तिम् । यशोऽभिवृद्धि
विविधार्थलाभं दत्तेऽम्बरस्था मुथहा धनाप्तिम् । यर्दा
न्थिहा लाभगता विलाससौभाग्यनैरुज्यमनःप्रसादाः ।
भवन्ति राजाश्रयतोधनाप्तिः सन्मित्रपुत्राभिमताप्तयश्च ।
व्ययोऽधिको दुष्टजनैश्च सङ्गोरुजस्तथा विक्रमतोऽप्यसिद्धिः ।
धर्मार्थहानिर्मुथहाव्ययस्था यदा तदा सज्जनतोऽपि वैरम् ।
क्रूरैर्दृष्टःक्षुतदृशा यो भावो मुथहात्र चेत् । शुभं तद्भा-
वजं नश्येदशुभञ्चापि वर्द्धते । शुभस्वामियुक्तेक्षिता वीर्य्य-
युक्सेन्थिहा स्वामिसौम्येत्थशालं प्रपन्ना । शुभं भावज
पोषयेन्नाशुभं साऽन्यथात्वेऽन्यथा भाव ऊह्योविमृश्य ।
जनुर्लग्नतोऽस्तान्त्यषण्मृत्युबन्धुस्थिताव्दे हता क्रूरखेटैस्तु
चेत् । विनश्येत् स यत्रेन्थिहा भाव एवं शुभस्वामिदृष्ट्या
न नाशः शुभं च । यदोभयत्रापि हतो भावोनश्येत्
स सर्वथा । उभयत्र शुभत्वेऽपि भावोऽसौ वर्द्धतेतराम् । वर्षेत्व-
निष्टगेहस्था यद्भावे जनुषि स्थिता । क्रूरोपघातात्तंभावं
नाशयेत् शुभयुक् शुभा । जनुर्लग्नतस्तुर्य्यगा सौम्ययुक्ताव्दवेशे
पितुर्द्रव्यलाभं विधत्ते । नृपाद्भीतिदा पापयुक्तातिकष्टाष्टमा-
दावपीत्थं विमृश्याभिधेयम् । यस्मिन् भावे स्वामिसौम्येक्षिता
सा भावोजन्मन्येष यस्तस्य वृद्धिः । एवं पापैर्नाश उक्तस्तु
तस्येत्यूह्यं वीर्य्याद्वर्षतः सौख्यमेव । यदीन्थिहा सूर्य्यगृहे
युतेक्षिता सूर्य्येण राज्यं नृपसङ्गमञ्च । दत्ते गुणानां
परभागमाप्तिं स्थानान्तरस्था फलदा दृशेति । कुजेन युक्ता
कुजभे कुजेन दृष्टा च पित्तोष्णरुजन्तनोति । शस्त्राभिघातं
रुधिरप्रकोपं सौरेक्षिता सौरगृहे विशेषात् । चन्द्रेण युक्ते-
न्दुगृहेऽथ दृष्टेन्दुनापि वा धर्मयशोऽभिवृद्धिः । नैरुज्यस-
न्तोषमतिप्रवृद्धिं ददाति पापेक्षणतोऽतिदुःखम् । वुधेन
शुक्रेण युतेक्षितापि तद्भेऽपि वा स्त्रीमतिलाभसौख्यम् ।
धर्मं यशश्चाप्यतुलं विधत्ते कष्टं च पापेक्षणयोगतः स्यात् ।
युतेक्षिता वा गुरुणा गुरोर्भे यदीन्थिहा पुत्रकलत्रसौ-
ख्यम् । ददाति हेमाम्बररत्नकोषं शुभेत्थशालादिह
राज्यलाभः । शनेर्गृहे तेन युतेक्षितापियदीन्थिहा वातरुजं-
विधत्ते । मानक्षयं वह्निभयं धनस्य हानिं च जीवेक्षणतः
शुभाप्तिम् । तमोमुखे चेन्मुथहा धनाप्तिर्यशःसुखं धर्भसमु-
न्नतिश्च । सितेज्ययोगेक्षणतः पदाप्तिः सुवर्ण्णरत्नाम्बरल-
ब्धयश्च । भोग्या राहोर्लवास्तस्य मुखं पृष्ठं गता लवाः ।
ततः सप्तमभं पुच्छं विमृश्येति फलं वदेत् । तत्पृष्ठभागेन
शुभा यदा स्यात्तत्पुच्छगापद्रिपुभीतिदुःखम् । पापेक्ष-
णादर्थसुखस्य हानिश्चेज्जन्मनीत्थं गृहवित्तनाशः । ये जन्म-
पृष्ठ ०९३०
काले बलिनोऽव्दकाले चेद्दुर्बलास्तैरशुभं समान्ते । विपर्य्यये-
पूर्ब्बमनिष्टमुक्तं तुल्यं फलं स्यादुभयत्र साम्ये । षष्ठेऽष्टमेऽ-
ऽन्त्ये भुवि चेन्थिहेशोऽस्तगोऽथ वक्रोऽशुभदृष्टयुक्तः । क्रूरा-
च्चतुर्थास्तगतश्च भव्योन स्याद्रुजं यच्छति वित्तनाशम् । यद्य-
ष्टमेशेनं युतोऽथदृष्टःक्षुताख्यदृष्ट्या न शुभस्तदापि । योगद्बये
स्यान्निधनं यदैकोयोगस्तदा मृत्युसमत्वमाहुः । मुथहा-
तत्पतिर्वापि जन्मनीक्षितयुक् शुभैः । वर्षारम्भे शुभं
दत्तेऽव्देचेदन्तेऽन्यथा शुभम्” ।

इन्दम्बर इदि--क्विप् इन्द् ऐश्वर्य्यान्वितमम्बरमिव नीलवर्ण्ण-

त्वात् । नीलोत्पले” शब्दमा० ।

इन्दि(न्दी) स्त्री इदि--इन् । लक्ष्म्याम् वा ङीप् तत्रैव ।

इन्दिन्दिर पु० इन्दि--किरच् नि० । भ्रमरे त्रिका० ।

इन्दिरा स्त्री इदि--किरच् । लक्ष्म्याम् “इन्दिरा लोकमाता च

लक्ष्मीस्तवः ।

इन्दिरामन्दिर न० इन्दिरायामन्दिरमिव । १ विष्णौ राजवल्लभः २ पद्मे ६ त० । ३ लक्ष्मीगृहे ।

इन्दिरालय पु० ६ त० । १ पद्मे २ नीलोपले च । क्लीवत्वमपि ।

इन्दिवर न० इन्दिर्लक्ष्मीस्तस्यावरं वरणीयम् । नीलोत्पले वा ङीष्

इन्दीवरमप्यत्र । “इन्दीवरदलश्याममिन्दिरानन्दवर्द्धनम्”
विष्णुस्तवः “इन्दीवरैरुत्खचितान्तरेव” रघुः २ उत्पलमात्रे
च “नीलेन्दीवरलोचनत्रययुताम्” तन्त्र०

इन्दीवरिणी स्त्री इन्दीवर + समूहे इनि । १ उत्पलसमुदाये, २ तद्युक्तलतायाञ्च ।

इन्दीवरी स्त्री इन्दीं लक्ष्मीं वृणाति वृ--अच् गौरा० ङीष् ।

शतमूल्याम् । मेदि० इन्द्रचिर्भट्यां टाबन्तः राजनि० ।

इन्दीवार पु० इन्द्यालक्ष्म्यावारो वरणमत्र । नीलोत्पले ।

इन्दु पु० उनत्ति चन्द्रिकया भुवं क्लिन्नां करोति उन्द--उ

आदेरिच्च । १ चन्द्रे, “दिलीप इति राजेन्दुरिन्दुः
क्षीरनिधाविव” रघुः “तस्याः प्रसन्नेन्दुमुखप्रसादम्”
महोदधेः पूरैवेन्दुदर्शनात्” रघुः “रामस्येन्दोरिव श्रियः” रघुः
“न नर्म्मसाचिव्यमकारि नेन्द ना” “क्षिप्ताइवेन्दोः सरुचो-
ऽधिवेलम्” माघः “करैरिन्दोरन्तश्छुरित इवसंभिन्नमुकुलः”
वेणी० अमृतकरैः सकलतापनिवारणेनास्य इन्दुत्वम् ।
२ तद्देवताके मृगशिरोनक्षत्रे “त्यक्त्वा हरीज्येन्दुकरान्त्य-
मैत्रे दीपिति ३ एकसंख्यायुक्ते, नवेन्दुवेदेषुहुताश-
लब्ध्व्या” सि० शि० । ४ कर्पूरे च ।
अथं गगनमण्डले राशिचक्रे ग्रहाणां मध्ये सर्व्वेषाम
वस्तात् स्थितः यथाह सू० सि० । “मन्दामरेज्यभूपुत्र
सूर्य्यशुक्तेन्दजेन्दवः । परिभ्रमन्त्यधोऽधस्थाः” । तस्थ
कक्षामानमुक्तम् । सि० शि० यथा “सार्द्धाद्रिगोमनु
सुराब्धिमितार्ककक्षा (४३३१४९७ । ३०) चान्द्री सहस्र
गुणिता जिनरामसंख्या” (३२४०००) । एतन्मितयोजनानि
इन्दुकक्षामानम् । अनुक्षण गच्छतां ग्रहाणां राशिचक्रे
इष्टसमये कीदृशांशेऽवस्थितिरिति ज्ञानाय अहर्शणेन तस्य
स्थुटी करणप्रकारादि तत्रैव दर्शितं यथा । “अभ्रेष्विभाङ्क
गजकुञ्जरगोऽङ्कपक्षाः (२५९८८९८५०) कक्षां गृणन्ति
गणका भगणस्य चेमाम् । “अत्र रविकक्षातो भकक्षा षष्टि
गुणा, एवं भकक्षायाः षष्ट्यंसोरविकक्षा” प्रमि०
“कल्पोद्भवैः क्षितिदिनैर्गगनस्य कक्षा मक्ता भवेद्दिनगति
र्गगनेचरस्य । “पादोनगोऽक्षघृतिभूमितयोजनानि
(११८५८४०) खेटा व्रजन्त्यनुदिनं निजवर्त्मनीमे”
सि० शि० “यदि कुदिनौ कक्षामितयोजनानि गच्छन्ति
तदैकेन किमिति फलं दिनगतियोजनानि । तानि
च स्थुलत्वेन तावत् पादोनगोऽक्षधृतिभूमितानि
स्युः” प्रमि० । ग्रहानयनमाह । “अहर्गणात्
क्वक्षिनवाङ्कनिघ्नात् (९९२१) नवेन्दुवेदेषुहुताश
(३५४१९) लब्ध्या । अहर्गहणो गोऽक्षधृतीन्दु (११
८५९) निघ्नो विवर्जितः स्युर्गतयोजनानि”
खयास्वया तानि पृथक् च कक्षया हृतानि वा स्युर्भगणादिका-
ग्रहाः” सि० शि० । “अहर्गणे भूनेत्रनवनन्द ९९२१
गुणे नवशशिश्रुतिवाणाग्निभिः ३५४११ भक्ते यल्लब्धं
तेन बिवर्ज्जितः कार्य्यः । कः? । नन्देन्द्रियधृतीन्दु ११८
गुणोऽहर्गणः । एवं गतयोजनानि स्युः तेभ्यः पृथक्पृथक्व्
खया स्वया कक्षया भाजितेभ्यो भगणादिका ग्रहालभ्यन्ते
अत्रोपपत्तिः । दिनगतियोजनैरहर्गणे गतयोजनानि
भवन्तीति सुनमम् । अत्र सुखार्थं गोऽक्षधृतीन्दुभिः ११८५९
संपूर्णैरहर्गणो गुणितः । सोऽधिको जातः । यदधिकं
तच्छोध्यम् । तस्याधिकस्य ज्ञानार्थमुपायः । परमोऽ-
हर्गणः कुदिनतुल्यः । तेन गुणकेन गुण्यः । एवं
गोऽक्षधृतीन्दुनिघ्रः सन् खकक्षातोऽधिको भवति । तस्मात्
खकक्षां विशोध्य शेषेणानुपातः । यदि कुदिनतुल्येनाह-
र्गणेनैतावदधिकं भवति तदिष्टेनाहर्गणेन किमिति । अत्र
कुदिनानां तस्य शेषस्य च पञ्चपञ्चयुगवेदैरयुतगुणितै ४४५
५०००० रपवर्ते कृते सति शेषस्थाने क्वक्षिनवाङ्का उत्पन्नाः
कुदिनस्थाने नन्देन्दुवेदेषहुताशाः । एव त्रैराशिकेन
यल्लभ्यते तेन स्थूलगतिगुणितेऽहर्गणे वर्जिते गतयोज-
नानि भवन्ति । सर्वेषां ग्रहाणां तान्येव गतेस्तु-
ल्यत्वात् । अथ ग्रहार्थमनुपातः । यदि कक्षातुल्यैर्ग-
पृष्ठ ०९३१
तयोजनैरेको भगणस्तदैभिः किमिति फलं गतभग-
णाद्याः सर्वे ग्रहा भवन्तीत्युपपन्नम्” प्रमिता० ।
“ग्रहस्य कक्षैव हि तुङ्गपातयोःपृथक् च कल्प्यात्र तदीय-
सिद्धये । अर्कस्य कक्षैव सितज्ञयोः सा ज्ञेया तयोरानयना-
र्थमेव । उक्ते तयोर्ये चलतुङ्गकक्षे तत्रैव तौ च भ्रमतोऽ-
र्कगत्या” सि० शि० “अत्रोच्चस्य पातस्य च या कक्षा गच्छति सा
तयोरानयनार्थमेव कल्प्या । अन्यथा या ग्रहस्य कक्षा
सैव तयोरपि । यतो ग्रहकक्षाया उच्चप्रदेशस्योच्चव्यप-
देशः । यत्र च विमण्डलेन सह संपातस्तस्य प्रदेशस्य
पातसंज्ञेति गोले सम्यक् प्रतिपादितमस्ति । तथा बुधशु-
क्रयोरत्र ये अर्ककक्षातुल्ये कक्षे आगच्छतस्ते तयोरान
यनार्थमेव । किन्तु तयोर्ये चलकक्षे तत्रैव च भ्रमतः
परमर्कगत्या । एतदुक्तं भवति भूमध्यादर्कं प्रति नीतं
सूत्रं यत्र ज्ञचलकक्षायां लगति तत्र बुधो यत्र शुक्रच
चलकक्षायां लगति तत्र शुक्रो भ्रमतीत्यर्थः” प्रमि० ।
अत्र गगनकक्षा च कल्पार्हगणः । यथाहार्य्यभट्टः ।
“योयत्र भ्रमति खगस्तद्वृत्तं भवति तस्य कक्षाख्यम् ।
अम्बरकक्षा कल्पाहर्गणनामा भवेद्द्युगतिः” । स्वस्व-
फक्षायां स्थितानामपि ग्रहाणां नीचोच्चस्थानस्थितिवशतः
परिघिभेदादिकं भवतीति ग्रहशब्दे वक्ष्यते । अत्र बुधशुक्र-
कक्षयोः रविकक्षातुल्यत्वं यदुक्तं तन्मध्यकक्षया फलानयना-
र्थम् । श्रीपतिना तु ग्रहान्तराणां कक्षामितिरुक्ता यथा ।
“अष्ट्यङ्कषण्मनुगजाः (८१४६९१६) क्षितिनन्दनस्य, ज्ञस्येशदन्त
कृतखेन्दुमिताथ (१०४३२११) जैवी । रूपाश्विनाग
युगशैलगुणेन्दुवाणाः (५१३७४८२१) खाग्न्यङ्गसागर
रसोत्कृतयः (२६६४६३०) सितस्य । भूधराहिन-
गनागरसर्त्तुक्ष्माधराश्विशशिनः (१२७६६८७८७)
शनिकक्षा । एतच्च खगोलशब्दे विस्तरेण वक्ष्यते ।
इन्दुश्च जलमयः सूर्य्यसम्पर्कात् उज्ज्वलितो भवति तेन च
दिने दिने यथा यथा शुक्ले पक्षे रविवियोगभेदात्तेजः
सम्पर्कविशेषस्तथा तथा वर्द्धते कृष्णे तु रविमण्डलसन्नि-
कृष्टतया क्रमशो दिने दिने तत्तेजःसम्पर्कविशेषाभावस्तेन
क्रमेण दिने दिने क्षय इत्यादिकमप्युक्त सि० शि० ।
“तरणिकिरणसङ्गादेष पीयूषग्रिण्डो दिनकरदिशि चन्द्रश्च-
न्द्रिकाभिश्चकास्ति । तदितरदिशि बालाकुन्तलश्यामलश्री
र्घट इव निजमूर्त्तिच्छाययैवातपस्थः । सूर्य्यादधःस्थस्य
विघोरधःस्थमर्धं नृदृश्यं स्वकलाऽसितं स्यात् । दर्शेऽथ
भार्धान्तरितस्य शुक्तं तत् पौर्णमास्यां परिवर्त्तनेन । कक्षा-
चतुर्थे तरणेर्हि चन्द्रःकर्णान्तरे तिर्यगिनो यतोऽब्जात् ।
पादोनषट्काष्ट (८५ । ४५) लवान्तरेऽतो दलं नृदृश्यस्य दलस्व
शुक्लम् । उपचितिमुपयाति शौक्ल्यमिन्दोस्त्यजत इनं व्रजतश्च
मेचकत्वम् । जलमयजलजस्य गोलकत्वात् प्रभवति तीक्ष्णवि-
षाणरूपतास्य । यद्याम्योदक् तपनशशिनोरन्तर सोऽच
बाहुः कोटिस्तूर्ध्वाधरमपि तयोर्यच्च तिर्यक्स कर्णः ।
दोर्मूलेऽर्कः शशिदिशि भुजोऽग्राच्च कोटिस्तदग्रे चन्द्रः
कर्णो रविदिगनया दीयते तेन शौक्ल्यम्” ।
“प्राग्वद्भित्तेरुत्तरपार्श्वे चन्द्रकक्षां रविकक्षां च विलिख्य
तत्रोर्ध्वरेखां तिर्यग्रेखां च कृत्वा चन्द्रकक्षोर्ध्वरेखासंपाते
चन्द्रविम्बं विलिख्येदं दर्शयेत् । तिर्यग्रेखाया उपरि
चन्द्रकक्षाव्यासार्धमितेऽन्तरेऽन्यां तिर्यग्रेखां कुर्यात् । सा
रेखा प्रत्यग्रविकक्षायां यत्र लग्ना तत्र स्थित एवार्के ऊर्ध्व
रेखावच्छिन्नचन्द्रविम्बार्धं पश्चिमतः शुक्लं भवति । तस्यार्ध-
मधस्तनं मनुष्यदृश्यम् । तत्रस्थेऽर्के व्यर्केन्दुसपादचतु-
र्भागोनं (८५ । ४५) राशित्रयं भवति । एतावत्येव व्यर्केन्दुभुजे
विम्बार्धं पश्चिमं पूवं वा शुक्लं भवितुमर्हति प्रमि० “धाम्ना
धामनिधेरयं जलमयो धत्ते सुधादीधितिः सद्यःकृत्त-
मृणालकन्दविशदच्छायां विवस्वद्दिशि । हर्म्येधर्मघृणेः
करैर्घट इवान्यस्मिन्विभागे पुनर्बालाकुन्तलकालतां कलयति
स्वच्छां तनोश्छायया” श्रीपतिः । “भानुश्चेत् प्रतिविम्बितो
जलमये शीतांशुगोले दिवा निस्तेजा निशि सुप्रभः कथमथो
किं सूर्यबिम्बासमः । गोलार्घं रविणोज्ज्वलं च सकलं न
स्यात् तड़ागे यथा मासार्धेऽखिलदृश्यतेति गणकान्
ज्ञानाह्वयः पृच्छति” ज्ञानराजः ।
वृह० सं० शौक्ल्यादि प्रकारादि प्रदर्श्य तच्चारादिफलमुक्तं
यथा “नित्यमधःस्थस्येन्दोर्भाभिर्भानोः सितं भवत्यर्द्धम् ।
स्वच्छाययान्यदसितं कुम्भस्येवातपस्थस्य । सलिलमये शशिनि
रवेर्दीधितयो मूर्च्छितास्तमो नैशम् । क्षपयन्ति दर्पणोदर-
निहिता इव मन्दिरस्यान्तः । त्यजतोऽर्कतलं शशिनः
पश्चादवलम्बते यथा शौक्ल्यम् । दिनकरवशात्तथेन्दोः
प्रकाशतेऽधःप्रभृत्युदयः । प्रतिदिवसमेवमर्कात् स्थान-
विशेषेण शौक्ल्यपरिवृद्धिः । भवति शशिनोऽपरार्द्धे पश्चा-
द्भागे घटस्येन । ऐन्द्रस्य शीतकिरणो मूलाषाढाद्वयस्य वा
यातः । याम्येन, बीजजलचरकाननहा वह्निभयदश्च ।
दक्षिणपार्श्वेन गतः शशी विशाखानुराधयोः पापः ।
मध्येन तु प्रशस्तः पित्र्यस्य विशाखयोश्चापि । षडनाग-
तानि पौष्णाद् द्वादश रौद्राच्च मध्ययोगीनि । ज्यठाद्यानि
पृष्ठ ०९३२
नवर्क्षाण्युडुपतिनातीत्य युज्यन्ते । उन्नतमीषच्छृङ्गं नौसं-
स्थाना विशालता चोक्ता । नाविकपीडा तस्मिन् भवति
शिवं सर्वलोकस्य । अर्धोन्नते च लाङ्गलमिति पीड़ा
तदुपजीविनां तस्मिन् । प्रीतिश्च निर्निमित्तं मनुजपतीनां
सुभिक्षं च । दक्षिणविषाणमर्धोन्नतं यदा दुष्टलाङ्गलाख्यं
तत् । पाण्ड्यनरेश्वरनिधनकृदुद्योगकरं बलानां च ।
समशशिनि सुभिक्षक्षेमवृष्टयः प्रथमदिवससदृशाः स्युः ।
दण्डवदुदिते पीड़ा गवां नृपश्चोग्रदण्डोऽत्र । कार्मुकरूपे
युद्धानि यत्र तु ज्या ततो जयस्तेषाम् । स्थानं युगमिति
याम्योत्तरायतं भूमिकम्पाय । युगमेव याम्यकोट्यां किञ्चि-
त्तुङ्गं स पर्व्वशायीति । विनिहन्ति सार्थवाहान् वृष्टेश्च
विनिग्रहं कुर्यात् । अभ्युच्छ्रायादेकं यदि शशिनोऽवाङ्मुस्वं
भवेच्छृङ्गम् । आवर्जितमित्यसुभिक्षकारि तद्गोधनस्यापि ।
अव्युच्छिन्ना रेखा समन्ततो मण्डला च कुण्डाख्यम् ।
अस्मिन्माण्डलिकानां स्थानत्यागो नरपतीनाम् । प्रोक्तस्थाना-
भावादुदगुच्चः सस्यवृद्धिवृष्टिकरः । दक्षिणतुङ्गश्चन्द्रो दुर्भिक्ष-
भयाय निर्दिष्टः । शृङ्गेणैकेनेन्दुं विलीनमथवाप्यवाङ्मुखम
शृङ्गम् । सम्पूर्णं चाभिनवं दृष्ट्वैको जीविताद्भयं पश्येत् ।
संस्थानविधिः कथितो रूपाण्यस्माद्भवन्ति चन्द्रमसः । स्वल्पो-
दुर्भिक्षकरो महान् सुभिक्षावहः प्रोक्तः । मध्यतनुर्वज्राख्यः
क्षुद्भयदः सम्भ्रमाय राज्ञां च । चन्द्रो मृदङ्गरूपः
क्षेमसुभिक्षावहो भवति । ज्ञेयो विशालमूर्तिर्नरप-
तिलक्ष्मीविवृद्धये चन्द्रः । स्थूलः सुभिक्षकारी प्रियधान्य-
करस्तु तनुमूर्तिः । प्रत्यन्तान् कुनृपांश्च हन्त्युडुपतिः
शृङ्गे कुजेनाहते, शस्त्रक्षुद्भयकृद्यमेन, शशिजेनावृष्टिदुर्मि-
क्षकृत्! श्रेष्ठान् हन्ति नृपान्महेन्द्रगुरुणा, शुक्रेण चाल्पा-
न्नृपान्, शुक्ले याप्यमिदं फलं ग्रहकृतं कृष्णे यथोक्तागमम् ।
भिन्नः सितेन मगधान् यवनान् पुलिन्दान् नेपालभृङ्गि-
मरुकच्छसुराष्ट्रमद्रान् । पाञ्चालकैकयकुलूतकपूरुषादान्
हन्यादुशीनरजनानपि सप्त मासान् । गान्धारसौवीरक-
सिन्धुकीरान् धान्यानि शैलान्द्रविड़ाधिपांश्च । द्विजांश्च
मासान्दश शीतरश्मिः सन्तापयेद्वाक्पतिना विभिन्नः ।
उद्युक्तान् सह वाहनैर्नरपतींस्त्रैगर्तकान्मालवान् कौलि-
न्दान् गणपुङ्गवानथ शिवीनायोध्यकान् पार्थिवान् । हन्यात्
कौरवमत्स्यशुक्त्यधिपतीन् राजन्यमुख्यानपि प्रालेयांशुरसृग्-
ग्रहे तनुगते षण्मासमर्यादया । यौधेयान् सचिवान्
सकौरवान् प्रागीशानथ चार्जुनायनान् । हन्वादर्कजमिन्न-
म्ण्डलः शीतांशुर्दशमासपीडया । मगधान्मथुरां च पीड-
येद् वरणायाश्च तटं शशाङ्कजः । अपरत्र कृतं, युगं वदेद्
यदि भित्त्वा शशिनं विनिर्गतः । क्षेमारोग्यसुभिक्षविनाशी
शीतांशुः शिखिना यदि भिन्नः । कुर्यादायुधजोविविनाशं
चौराणामधिकेन च पीड़ाम् । उल्कया यदा शशी ग्रस्त
एव हन्यते । हन्यते तदा नृपो यस्य जन्मनि स्थितः ।
भस्मनिभः पुरुषो ऽरुणमूर्तिः शीतकरः किरणैः परिहीणः ।
श्यावतनुः स्फुटितः स्फुरणो वा क्षुत्समरामयचौरभयाय ।
प्रालेयकुन्दकुमुदस्फटिकावदातो यत्नादिवाद्रिसुतया परि
मृज्य चन्द्रः । उच्चःकृतो निशि भविष्यति मे शिवाय योदृ-
श्यते स भविता जगतः शिवाय । यदि कुमुदमृणालहार-
गौरस्तिथिनियमात् क्षयमेति वर्धते वा । अविकृतगतिमण्ड
लांशुयोगी भवति नृणां विजयाय शीतरश्मिः । शुक्ले पक्षे
सम्प्रवृद्धे प्रवृद्धिं ब्रह्मक्षत्रं यातिवृद्धं प्रजाश्च । हीने
हानिस्तुल्यता तुल्यतायां कृष्णे सर्व्वं तत्फलं त्यत्ययेन” ।
“भूमध्यात् चन्द्रादेरुच्छ्रितियोजनमपि” सि० शि० उक्तं
यथा “नगनगाग्निनवाष्टरसा (६८९३७७) रवेः रसरसेषु
महीषुमिता ५१५६६ विधोः । निगदितावनिमध्यत
उच्छ्रितिः श्रुतिरियं किल योजनसंख्यया” “अत्रोपपत्तिः
कक्षाध्याये चन्द्रार्कयोः कक्षे कथिते किन्तु व्यासौ
नोक्तौ तौ त्रैराशिकेनानेयौ । यदि भनन्दाग्निमित
३९२७ परिधेः खवाणसूर्य्यमितो १२५० व्यासः (लीला-
कत्युक्तदिशा आनीतः तदा) ४३३१४९७ । ३० मितायाः
सूर्य्यकक्षयाः, ३२४००० मितचन्द्रक्षाया वा कीदृश
इत्यनुपातेन व्यास आनेयः तदर्द्धमेव श्रुतिः । इयमेव
भूमध्यात् चन्द्रार्कयोः उच्छ्रितिः प्रमि०” इयं मध्यश्रुतिः, उच्च-
नीचयोरन्यैव यथा “मन्दश्रुतिर्द्राक् श्रुतिवत् प्रसाध्या”
सि० शि० उच्चनीचवृत्तपरिधिना उच्छ्रितिः साध्या
त्रैराशिकेनानेया” प्रमि० युक्तञ्चेदम् ग्रहाणां स्वस्व-
कक्षाया मुच्चादिस्थानविशेषाऽस्ति तत्रोच्चस्थानस्थितौ
परिधेराधिक्यं नीचस्थाने तु न्यूनता मध्ये मध्यता इति
तदनुसारेण परिधिवैलक्षण्यात् उच्छ्रितिवैलक्षण्यमिति ।
एवमन्येषां ग्रहाणामपि स्वस्वकक्षाभिरनुपातेन व्यासमानीय
तदर्द्धं मध्य श्रुतिरित्याद्यवगम्यम् । अथेदं सूक्ष्ममीक्षणीयम्
अत्र भूमध्यादिति भूमिव्यासार्द्धमध्यादित्येवार्थकं न तु
भूपृष्ठमध्यत इत्यर्थकम् । तथा च भूव्यासार्द्धस्य तत्तदुच्छ्रि-
तेर्वर्ज्जने भूपृष्ठादुच्छ्रितिर्भवति भूपृष्ठात्तु उक्तः उच्छ्रायोः
नैव युज्यते ग्रहाणां कक्षारूपपरिधेर्व्यासार्द्धस्य भूगोला-
र्द्धकान्तत्वेन तदर्द्धपर्य्यन्तमेव तद्वृत्तव्यासार्द्धत्वौचित्यादिति
पृष्ठ ०९३३


एवं सौरागमादिभिः इन्दुमण्डलस्य सूर्य्यमण्डलादधः
स्थायित्वे सिद्धे” भाग० ५ स्कु० । “एवं चन्दमा अर्कगभ-
स्तिभ्य उपरिष्टात् लक्षयोजनत उपलभ्यमानोऽर्कस्य संवत्-
सरभुक्तिं, पक्षाभ्यां मासभुक्तिं सपादर्क्षाभ्यां दिनेनैव पक्ष-
भुक्तिमुग्रचारी द्रुततरगमनोभुङ्क्ते अथापूर्य्यमाणाभिरप-
क्षीयमाणाभिश्च कलाभिः पितॄणामहोरात्राणि पूर्ब्बाप-
रपक्षाभ्यां वितन्वन् सर्व्वजीबनिवहप्राणो जीवश्च एकमेकं
नक्षत्रं त्रिंशता मुहूर्त्तैर्भुङ्क्ते य एष षोड़शकलः पुरुषो
भगवान्मनोमयोऽम्मयोऽमृतमयोदेवपितृमनुष्यपशुपक्षिसरी-
सृपवीरुधां प्राणाप्यायनशीलत्वात् सर्व्वमय इति वर्ण्णय-
न्ति” । अत्र अर्क्तगभस्तिभ्य इत्यत्र हेतौ पञ्चमी अन्वयश्चास्य
उपलभ्यमान इत्यत्र । यथा च सूर्य्यकिरणैरेय चन्द्रस्यो-
पलब्धिस्तच्च प्रागुक्तवचनैः समर्थितम् । न तु अपादाने
षञ्चमी उपरिष्टात् इत्यत्रान्वयिनी । तथात्वे सौरा-
गमविरोधः स्यात् । उपरिष्टात् इत्यत्र भूमेरित्यध्या-
हार्य्यं लक्षयोजनमिति बहुयोजनपरमिति न काचिद-
नुपपत्तिः । एवमन्यान्यपि पौराणिकवचनानि व्याख्या
तव्यानि । इन्दुपक्षद्वयेन यथा पित्र्यदिनस्य सम्पा-
दनं तदप्युक्तम्” सि० शि० । “विधूर्द्धभागे पितरो वसन्तः
स्वाधःसुधादीधितिमामनन्ति । पश्यन्ति तेऽर्कं
निजमस्तकोर्द्धे दर्शे यतोऽस्मात् द्युदलं तदेषाम् । भार्द्धान्त-
त्वान्न विधोरधःस्थं तस्मान्निशीथः खलु पौर्ण्णमास्याम् ।
कृष्णे रविः पक्षदलेऽभ्युदेति शुक्लेऽस्तमेत्यर्थत एव सिद्ध्वम्”
अत्राधःस्थत्वमर्कस्य पित्र्यपेक्षया बोध्यम् तद्विषयमेव वा
पौराणिकं सूर्य्यस्याधःस्थत्ववचनमिति न किञ्चिद-
नुपपन्नम्” । चन्द्रस्याधःस्थित्यैव यथा तिथ्यादिसम्भवः
तथोक्तम् कालमाधवीये “अर्काद्विनिःसृतः प्राचीं
यद्यात्यहरहः शशीति” वचननव्याख्याने ।
“अयमर्थः अधः प्रदेशवर्त्ती शीघ्रगामी चन्द्रः ऊर्द्ध्व-
प्रदेशवर्त्ती अशीघ्रगामी सूर्य्यः । तथा सति तयोर्गतिविशेष
वशाद्दर्शे चन्द्रमण्डलमन्युनमनतिरिक्तं सत् सूर्य्य-
मण्डलस्याधो भागे व्यवस्थितं भवति तदा सूर्य्यरश्मिभिः
साकल्येनामिभूतत्वाच्चन्द्रमण्डलमीषदपि न दृश्यते ।
उपरितने दिने शीघ्रगत्या प्राचीं याति राशेर्द्वादभिरशैः
सूर्य्यमुल्लङ्घ्य गच्छति । तदा चन्द्रस्य पञ्चदशसु भागेषु प्रथम
भागोदर्शनयोग्योभवति । सोऽयं भागः प्रथमकलेत्यभि-
धीयते तत्कलानिष्पत्तिपरिमितकालः प्रतिपत्तिथिर्भवति
यवं द्वितीयादितिथिष्ववगन्तव्यमिति” । तदेतद्विष्णु
धर्म्मोत्तरे विस्पष्टमभिहितम् “चन्द्रार्कगत्या कालस्य परिच्छेदे
यदा भवेत् । तदा तयोः प्रवक्ष्यामि गतिमाश्रित्य निर्णयम् ।
भगणेन समग्रेण ज्ञेया द्वादश राशयः । त्रिंशांशश्च तथा
राशेर्भाग इत्यभिधीयते । आदित्याद्विप्रकृष्टस्तु भाग--द्वा-
दशकं यदा । चन्द्रमाःस्यात्तदाराम! तिथिरित्यभिधीयते”
“सेयं द्वादृशभिर्भागैः सूर्य्यमुल्लङ्घितवती प्रथमा चन्द्रकला
शृङ्गद्वयोपेतसूक्ष्मरेखाकारा शौक्ल्यमीषदुपयाति उत्त-
रोत्तरदिनेषु सूर्य्यमण्डलविप्रकर्षात् तारतम्यानु
सारेण शौक्ल्यमुपचीयते । अनयैव रीत्या सन्निकर्षतार
तम्येन मेचकत्वमुपचीयते तदेतदुक्तम” सि० शि० ।
उपचयमुपयाति शौक्ल्यमिन्दोरित्यादि । ९३१ पृष्ठे उक्तम् ।
सूर्य्याचन्द्रमसोर्यौ सन्निकर्षविप्रकर्षाउ तयोरवसानन्दर्श-
पूर्ण्णिमयोः संपद्यते तदाह गोभिलः । “यः परोविप्र-
कर्षः सूर्य्याचन्द्रमसोः सा पूर्ण्णमासी यः परः सन्निकर्घः
सामावास्येति” नन्वत्र चन्द्रकलानां सूर्य्ये प्रवेशनिर्गमौ प्रती-
येते सोमोत्पत्तौ ९३४ पृ० तु वह्न्यादिदेवतासु । नायन्दोषः ।
अस्मदादिदर्शनापेक्षया ज्योतिःशास्त्रस्य प्रवृत्तत्वात् सोमो-
त्सतौ तु वह्न्यादिदेवतानान्तत्कालप्रयुक्ता तृप्तिर्विवक्षिता
तत्र यदि सूर्य्ये प्रवेशनिर्गमौ यदि वा बह्न्यादिदेवतादिषु
सर्व्वथापि कलाप्रयुक्ता एव प्रतिपदादितिथयः” कालमा०
ग्रहाणां कक्षानुसारेणैव स्वस्वकक्षास्थराश्यंशादिमानम्
तथा च स्वल्पकक्षायां स्थितस्य राश्यंशकलादिकं स्वल्पं
महत्यां स्थितस्य महत् यथोक्तमार्य्यभट्टेन । “षष्ट्या सूर्य्याब्दानां
प्रपूरयन्ति ग्रहा भपरिणाहम् । दिव्येन भपरिधिं समं
भ्रमन्तः स्वकक्षासु । मण्डलमल्पमधस्तात् कालेनाल्पेन
पूरयति चन्द्रः । उपरिष्टात् सर्व्वेषां महच्च महता
शनैश्चापि । अल्पेहि मण्डलेऽल्पोमहति महान्तश्च
राशयोज्ञेयाः । अंशाः लास्तथैवं विभागतुल्याः खल्वेषु ।
भानामधःशनैश्चरः सुरगुरुभौमार्कभृगुबुधचन्द्राः ।
एषामधश्च भूमिर्मेधीभूता च मध्यस्था” । तेन ग्रहाणां
प्रागुक्तस्वस्वकक्षा द्वादशभिर्भक्ताः राशिप्रमाणयोजनानि ।
ते च पुनस्त्रिंशद्भक्ता अशमानयोजनानि । ते षष्ठ्या
भक्ता कलामितयोजनानि एव षष्ठ्याभागे विकलादियोज-
नानि । अधिकं ग्रहशब्दे वक्ष्यते । एतन्मण्डलाधिष्ठातृ-
चन्द्रोत्पत्तिरत्रिजातशब्दे १११ पृष्ठे उक्ता ।

इन्दुक पु० इन्दुरिव शुभ्रत्वात् कन् । अश्मन्तकवृक्षे । राजनि०

इन्दुकक्षा स्त्री ६ त० । चन्द्रस्य राशिचक्रस्थे परिधौ तन्मा-

नमिन्दुशब्दे ९३१ पृ० उक्तम् ।
पृष्ठ ०९३४

इन्दुकमल न० इन्दुरिव शुभ्रं कमलम् । सितोत्पले राजनि०

इन्दुकला स्त्री ६ त० । चन्द्रस्य षोड़शभागैकभागे । कलाश्च

षोड़श । अमाशब्दे ३२० पृष्ठे दर्शितास्ताश्च कृष्णप्रक्षे
क्रमेण वह्न्यादिभिः पीयन्ते यथोक्तं कालमा० सोमोत्-
पत्तिवाक्यम् “प्रथमां पिबते वह्निर्द्वितीयां पिबते रविः ।
विश्वे देवास्तृतीयां तु चतुर्थीं सलिलाधिपः । पञ्चमीं
तु वषट्कारः षष्ठीं पिषति वासवः । सप्तमीमृषयो-
दिव्या अष्टमीमजएकपात् । नवमीं कृष्णपक्षस्य यमः
प्राश्नाति वै कलाम् । दशमीं पिबते वायुः पिबत्येकादशी
मुमा । द्वादशीं पितरःसर्वे समं प्राश्नन्ति भागशः ।
त्रयोदशीं धनाध्यक्षः कुवेरः पिबते कलाम् । चतुर्द्दशीं
पशुपतिः पञ्चदशीं प्रजापतिः । निष्पीतः कलया शेषश्च-
न्द्रमा न प्रकाशते । कला षोडशिका या सा त्वपः प्रविशते
सदा । अमायां तु सदा सोमस्त्वोषधीः प्रतिपद्यते ।
तमोषधिगतं गावः पिबन्त्यनुगतं च यत् । तत्क्षीर-
ममृत भूत्वा मन्त्रपूतं द्विजातिभिः । हुतमग्निषु यज्ञेषु
पुनराप्याय्यते शशी । दिने दिने कलावृद्धिः पौर्ण्ण-
मास्यान्तु पूर्य्यते” इति । “पुनश्च ताः पीताः कलास्तेनैव
क्रमेण वह्न्यादिदेवताभ्यो निर्गत्य चन्द्रमण्डलं पूरयन्तीति”
माधवः । यथा च कलापानसम्भवस्तथा इन्दुशब्दे
दर्शितेन ९३३ पृ० कालमा० वाक्येन समर्थितम् । तासांक-
लानां यद्यपि तिथिविशेषरूपता तथापि नामान्तराणि
शारदा० उपासनार्थमुक्तानि यथा । “अमृता मानदा
पूषा तुष्टिः पुष्टीरतिर्धृतिः । शशिनश्चन्द्रिका कान्तिः
ज्योत्स्ना श्रीः प्रीतिरङ्गदा । पूर्ण्णा पूर्ण्णामृताह्वा च
कामदा स्वरजाः कलाः” । तथा च षोड़शभ्यः स्वरेभ्य
आसामुत्पत्तिरपि ध्येयाः” “शतमिन्दुकलाक्षये” स्मृतिः ।

इन्दुकलिका स्त्री इन्दुरिब शुभ्रा कलिका यस्याः । १

केतक्याम् । ६ त० स्वार्थे कन् । २ चन्द्रकलायाम् ।

इन्दुकान्त पु० इन्दुःकान्तैब निष्यन्दकारित्वात् प्रियोऽरा ।

१ चन्द्रकान्ते मणौ इन्दुःकान्तः पतिः स्वोदयेन कारकत्वा-
दीशो यस्याः । २ रात्रौ । इन्दुःकान्तैव प्रकाशकत्वात्
यस्याः । ३ केतक्याम् । ६ त० । ४ चन्द्रप्रियायाञ्च स्त्री ।

इन्दुक्षय पु० । इन्दुःक्षीयतेऽत्र क्षि--आधारे अच् ६ त० ।

१ दर्शे तत्र हि इन्द्रोः कलानां सूर्य्यकिरणास्पर्शात् क्षय-
इव भवतीति इन्दुकलाशब्दे दर्शितम् “शतमिन्दुक्षये पुण्यं
सहस्र तु दिनक्षये” मल० त० पु० । भावेऽच् । २ चन्द्रस्यक्षये ।

इन्दुज पु० इन्दोर्जायते जन--ड । वृहस्पपतिभार्य्यातारागर्भे

चन्द्रेणोत्पादिते बुधे तदुत्पत्तिकथा हरिवं० २६ अ०
सोमस्य राजसूययज्ञकरणानन्तरमैश्वर्य्येण मत्तस्य
मतिभ्रान्तिमुपवर्ण्य “वृहस्पतेः स वै भार्य्यां तारां नाम
यशस्विनीम् । जहार तरसा सर्वानवमत्याङ्गिरःसुतान्”
इत्युपक्रम्य ऋषीणां तत्र युद्धं वर्णयित्वा तत्र युद्धोप-
द्रवेण उपद्रुतदेवैः प्रार्थितेन ब्रह्मणा यत् कृत
तदुक्तं तत्रैव “ततोनिवार्य्योशनसं तं वै रुद्रं भयङ्क-
रम् । ददावङ्गिरसे तारां स्वयमेव पितामहः ।
तामन्तःप्रसवां दृष्ट्वा तारामाह वृहस्पतिः ।
मदीयायां न ते योनौ गर्भो धार्य्यः कथञ्चन । योनेरुदसृत्तं
वै कुमारं दस्युहन्तमम् । इषीकास्तम्बमासाद्य
ज्वलन्तमिव पावकम् । जातमात्रः स भगवान् देवानामक्षि-
पद्वसु । ततः संशयमापन्नास्तारामूचुः सुरोत्तमाः ।
सत्यं ब्रूहि सुतः कस्य सोमस्याथ वृहस्पतेः । पृच्छ्यमाना
यदा देवैर्नाह सा साध्वसाधु वा । तदा तां शप्तुमारब्धः
कुमारोदस्युहन्तमः । तं निवार्य्य ततो ब्रह्मा तारां प्रपच्छ
संशयम् । यदत्र तथ्यं तद्ब्रूहि तारे! कस्य सुतोह्ययम् ।
सा प्राञ्जलिरुवाचेदं ब्रह्माणं वरदं शनैः । सोमस्येति
महात्मानं कुमारं दस्युहन्तमम् । तं भूर्द्ध्न्याघ्राय तनयं
सोमोधाता प्रजापतिः । बुध इत्यकरोन्नाम तस्य पुत्रस्य
धीमतः” । अस्यैव ग्रहत्वप्राप्तिः काशी० वर्णिता यथा”
हरिर्वशवत् बुधस्योत्पत्तिं वर्ण्णयित्वा । “ततः सर्व्वेभ्योदेवेभ्य-
स्तेजोरूपबलाधिकः । बुधः सोमं समापृच्छ्य तपसे धृत
निश्चयः । जगाम काशीं निर्वाणरार्शिं विश्वेशपालिताम् ।
ततो लिङ्गं प्रतिष्ठाप्य स्वनाम्ना स बुधेश्वरम् । तपश्चचार
चात्युग्रमुग्रं संशीलयन् हृदि” । इति तत्तपोवणितम्
तत्तपसा तोषितश्च महादेवस्तस्मै ग्रहरूपेण गगनेस्थिति
रूपं वरं ददौ” यथा “ततः प्राह महेशानस्तत्स्तुत्या
परितोषितः । रौहिणेय! महाभाग्य! सौम्य । सौम्यवचो-
निधेः । नक्षत्रलोकादुपरि तव लोको भविष्यति । मध्ये
सर्वग्रहाणाञ्च सपर्य्यां लप्स्यसे पराम्” राशिचक्रे
तत्स्थानञ्च सू० सि० “मन्दामरेज्यमूपुत्रसूर्य्यशुक्रेन्दुजे-
न्दवः । परिभ्रमन्त्यधोऽधःस्थाः सिद्धविद्याधराघनाः”
इत्यनेन चन्द्रस्थानादुपरि शुक्राच्चाधः प्रदेशे उक्तम् ।
तत्कक्षामानञ्च । इन्दुशब्दे पृ० ९३१ श्रीपतिवाक्ये उक्तम्
तस्य चारप्रकारः वृहत्संहितायां दर्शिता यथा ।
“नोत्पातपरित्यक्तः कदाचिदपि चन्द्रजो व्रजत्युदथम् ।
जलदहनपवनभयकृद्ध्वान्यार्घक्षयविवृद्ध्यै वा । विचरञ्छ्रवण-
पृष्ठ ०९३५
धनिष्ठाप्राजापत्येन्दुविश्वदेवानि । मृद्नन् हिमकरतनयः
करोत्यवृष्टिं सरोगभयाम् । रौद्रादीनि मघान्तान्युपाश्रिते
चन्द्रजेप्रजापीड़ा । शस्त्रनिपातक्षुद्भयरोगानावृष्टिसन्तापैः ।
हस्तादीनि विचरन् षडृक्षाण्युपपीड़यन् गवामशुभः ।
स्नेहरसार्घविवृद्धिं करोति चोर्वीं प्रभूतान्नाम् । आर्यम्णं
हौतभुजं भाद्रपदामुत्तरां यमेशं च । चन्द्रस्य सुतो निघ्नन्
प्राणभृतां धातुसङ्क्षयकृत् । आश्विनवारुणमूलान्युपमृद्गन्
रेवतीं च चन्द्रसूनुः । पण्यभिषग्नौजीविकसलिलजतुर-
गोपघातकरः । पूर्वाद्यृक्षत्रितयादेकमपीन्दोः सुतोऽभिमृ-
द्नीयात् । क्षुच्छस्त्रतस्करामयभयप्रदायी चरन् जगतः ।
प्राकृतविमिश्रसङ्क्षिप्ततीक्ष्णयोगान्तघोरपापाख्याः । सप्त
पराशरतन्त्रे नक्षत्रैः कीर्तिता गतयः । प्राकृतसंज्ञा वायव्य-
याम्यपैतामहानि बहुलाश्च । मिश्रा गतिः प्रदिष्टा
शशिशिवपितृभुजगदैवानि । सङ्क्षिप्तायां पुष्यः पुनर्वसुः फल्गु-
नीद्वयं चेति । तीक्ष्णायां भाद्रपदाद्वयं सशाक्राश्वयुक्
पौष्णम् । योगान्तिकेति मूलं द्वे चाषाढे गतिः
सुतस्येन्दोः । घोरा श्रवणस्त्वाष्ट्रं वसुदेवं वारुणंचैव । पापाख्या
सावित्रं मैत्रं शक्राग्निदैवतं चेति । उदयप्रवासदिवसैः
स एव गतिलक्षणं प्राह । चत्वारिंशत्त्रिंशद् द्विसमेता
विंशतिर्द्विनवकं च । नव मासार्धं दश चैकसंयुताः प्राकृता-
द्यानाम् । प्राकृतगत्यामारोग्यवृष्टिसस्यप्रवृद्धयः क्षेमम् ।
सङ्क्षिप्तमिश्रयोर्मिश्रमेतदन्यासु विपरीतम् । ऋज्व्यतिवक्रा
वक्रा विकला च मतेन देवलस्यैताः । पञ्चचतुर्द्व्येकाहा
ऋज्वापादीनां षड़भ्यस्ताः । ऋज्वी हिता प्रजानामतिवक्रार्थं
गतिर्विनाशयति । शस्त्रभयदा च वक्रा विकला भयरोग-
सञ्जननी । पौषाषाढश्रावणवैशास्वेष्विन्दुजः समाघेषु ।
दृष्टो भयाय जगतः शुभफलकृत् प्रोषितस्तेषु । कार्त्तिके
ऽश्वयुजि वा यदि मासे दृश्यते तनुभवः शिशिरांशोः ।
शस्त्रचौरहुतभुग्गदतोयक्षुद्भयानि च तदा विदधाति ।
रुद्धानि सौम्येऽस्तमिते पुराणि यान्युद्गते तान्युपयान्ति
मोक्षम् । अन्येतु पश्चादुदिते वदन्ति लाभः पुराणां
भवतीति तज्ज्ञाः । हेमकान्तिरथ वा शुकवर्णः सस्यकेन
मणिना सदृशो बा । स्निग्धमूर्तिरलघुश्च हिताय व्यत्यये
न शुभकृच्छशिपुत्रः” । गगने बुधस्थानमुक्तं भा० ५ स्क० ।
“ततो बुधः सोमसुत उलभ्यमान तत उपरिष्टात् प्रायेण
शुक्रवत् । यदार्कात् व्यतिरिच्येत तत्रातिभयप्रायाना-
वृट्यादिभयमाशंसते” । इन्दुजातन्दुनन्दनेन्दुपुत्रादयोऽ-
प्यत्र । २ नर्म्मादायां नद्यां स्त्री सा च मेकलकन्यका
सोमसुता मुनिशापात् नदीत्वमाप्ता । इयं च प्रतीच्यामबन्तिषु
स्थिता प्रत्यक्स्रोतोवहा च यथा । “अवन्तिषु प्रतीच्यां वै
कीर्त्तमिष्यामि ते दिशि । यानि तत्र पवित्राणि पुण्या-
न्यायतनानि च । प्रियङ्ग्वाम्रबणोपेता वानीरफलशालिनी ।
प्रत्यक्स्रोता नदी पुण्या नर्मदा तत्र भारत! ।
त्रैलोक्ये यानि तीर्थानि पुण्यान्यायतनानि च । सरिद्व-
नानि शैलेन्द्रा देवाश्च सपितामहाः । नर्मदायां कुरुश्रेष्ठ!
सह सिद्धर्षिचारणैः । स्नातुमायान्ति पुण्यौधैः सदा वारिषु
भारत” भा० आ० ८९ अ० ।

इन्दुजनक पु० ६ त० । १ अत्रिमुनौतस्य ततौत्पत्तिकथा अत्रि-

जातशब्दे १११ पृष्ठे दृश्या । २ समुद्रे ततस्तस्योतपत्तिकथा
“ततः शतसहस्रांशुर्मथ्यमानात्तु सागरात् । प्रसन्नात्मा
समुत्पन्नः सोमः शीतांशुरुज्ज्वलः” भा० आ० १८ अ० ।
दृश्या ।

इन्दुपुष्पिका स्त्री इन्दुरिव शुभ्रं पुष्पमस्याः । (विषलाङ्गाला) जाङ्गलीवृक्षे ।

इन्दुभ न० इन्दोश्चन्द्रस्य भं नक्षत्रं राशिर्वा । चन्द्रदेवताके

१ मृगशिरोनक्षत्रे अश्लेषाशब्दे ४९८ पृष्ठे नक्षत्राणामीशा
दर्शिताः । २ कर्कटराशौ च “कुजशुक्रबुधेन्द्वर्कसौम्यशुक्रावनो
भुवाम्--क्षेत्राणि स्युरजादयः ज्यो० ।

इन्दुभा स्त्री इन्दुना भाति भा--क ३ त० । १ कुमुद्वत्याम् । ६ त० । २ चन्द्रप्रभायाम् ।

इन्दुभृत् पु० इन्दुं बिभर्त्ति भृ--क्विप् । शिवे । तस्य चन्द्र-

लाधारणमिन्दुमौलिशब्दे ९३६ पृष्ठे सप्रमाणं दर्शयिष्यते ।

इन्दुमणि पु० इन्दुः कान्तोऽस्य तत्करेण स्यन्दनात् तादृशो

मणिः शाक० त० । १ चन्द्रकान्तमणौ तस्य चन्द्रोदये निष्य-
न्दात् तन्मणित्वम् । तत्प्रियोमणिः स इव शुभ्रोमणिर्वा ।
२ मुक्तायाम् ।

इन्दुमण्डल त्रि० ६ त० । चन्द्रस्य विम्बे मण्डलाकारे

पदार्थे “हुत्वा स्तुत्वा नमस्कृत्य विसृजेदिन्दमण्डले”
तन्त्रसा० । तन्मण्डलमानञ्च सि० शि० दर्शितं यथा ।
“विम्बं रवेर्द्विद्विशरर्तु (६५२२) संख्यानीन्दोः खनागा
म्बुधि (४८०) योजनानि । भूव्यासहीनं रविबिम्बमि-
न्दुकर्णाहतं भास्करकर्णभक्तम् । भूविस्तृतिर्लब्धफलेन हीना
भवेत् कुभाविस्तृतिरिन्दुमार्गे” “रवेर्योजनात्मकविम्बं मध्यमं
द्वियमबाणषट्कतुल्यानि (६५२२) योजनानि इन्दोस्तु
शून्यवसुवेद (४८०) मितानि । अथ राहोरुच्यते ।
रविबिम्बं भूव्यासेन (१५८१) हीनं (१५१) कृत्वेन्दुकर्णेन स्फु-
टेन योजनात्मकेन संगुण्य रविकर्णेन स्फुटेन भजेत् फलेन
भूव्यासतो वर्ज्जितश्चन्द्रकक्षायं भूभाव्यासो भवति ।
पृष्ठ ०९३६
फलानि योजनविम्बानि । अत्रोपपत्तिः यस्मिन् दिने
अर्कस्य मध्यतुल्यैव स्फुटा गतिः स्यात् तस्मिन् दिने
उदयकाले चक्रकलाव्यासार्धमितेन यष्टिद्वितयेन
भूलमिलितेन तत्रस्थदृष्ट्या तदग्राभ्यां बिम्बप्रान्तौ विध्येत् ।
या यष्ठ्यग्रयोरन्तकलास्ता रविबिम्बकला भवन्ति मध्यमाः ।
ताश्च द्वात्रिंशत् किञ्चिदधिकैकत्रिंशद्विकलाधिकाः ३२
३१ । ३३ । एवं विधोरपि पौर्णमास्यां यदा मध्यैव
गतिः स्पष्टा तदा विध्येत् तस्यैवं द्वात्रिंशत् कलाः
३२ । ० । ९ । उत्पद्यन्ते । बिम्बकलानां योजनीकरणा-
यानुपातः । यदि त्रिज्याव्यासार्ध एतावत्प्रमाणं विम्बं
तदा पठितश्रुतियोजनैः किमित्येवमुत्पद्यन्ते द्विद्विश-
रर्तु (६५२२) संख्यानि योजनानि । विधोस्तु खनागा
म्बुधि (४८०) मितानीति” । प्रमि० । बिम्बमेव गोलस्य
व्यासशब्देनाभिधीयते “व्यासारवीन्दक्षितिगोलकानां क्रमेण
तेजोजलमृण्मयानाम् । स्युर्योजनन्याकृतिवाणषड़्भि (६५
२२) र्व्योमाष्टवेदैः (४८०) कुगजेषुचन्द्रैः । (१५८१)
इति श्रीपतिना विम्बस्थाने व्यासश्ब्दप्रयोगात् । तस्यैव विष्-
कम्भ इति संज्ञा । “विष्कम्भमानं किल यत्र सप्त” इति
लीला० व्यासस्थाने विष्कम्भशब्द प्रयोगात् अतएवार्य्यभट्टेन
ग्रासनिरूपणे । “शशिबिष्कम्भविवर्जितमित्युक्तम् । “व्यासे
भनन्दाग्नि (१९२७) हते विभक्ते खबाणसूर्य्यैः (१२५०
परिधिः स सूक्ष्मः” इति लीला० उक्तदिशा रविचन्द्र-
योरुक्तव्यासमानेन परिधिरानेयः । स च रवेः किञ्चिदून
(२०४९९) योजनमितः, चन्द्रस्य किञ्चिन्न्यून (१५०८)
योजनमितः । तथा च मण्डलशब्दस्य व्यासपरत्वे (४८०)
योजनानि परिधिपरत्वे किञ्चिन्न्यून (१५०८)
योजनानि इन्दोर्मण्डलस्य मानमित्यवधेयम् ।

इन्दुमती स्त्री इन्दुःप्रशस्तोऽस्त्यस्याम् प्राशस्त्ये मतुप् ।

१ पौर्ण्णमास्याम् २ अजनृपपत्न्यां विदर्भराजभगिन्याञ्च ।
“अथेश्वरेण क्रथकैशिकानां स्वयंवरार्थं स्वसुरिन्दुमत्याः”
रघुः । “मनोबभूवेन्दुमतीनिरासम्” रघुः । सा च
हरिणी नाम सुराङ्गना तृणविन्दशापात् मानुषजन्मप्राप्ता
तदेतत् वर्ण्णितं रघौ । “चरतः किल दुश्चरं तपस्तृण-
विन्दोः परिशङ्कितः पुरा । प्रजिघाय समाधिभेदिनीं
हरिरस्मै हरिणीं सुराङ्गनाम् । स तपःप्रतिबन्धमन्युना प्रमुखा
विष्कृतचारुविक्रिया । अशपद्भव मानुषीति तां शमवेला-
प्रलयोर्म्मिणा भुवि । भगवन्! परवानयंजनः प्रतिकूला-
चरित क्षमस्व मे । इति चोपनतां क्षितिस्पृशं कृतवानासु-
रपुष्पदर्शनात् । क्रथकैशिकवंशसम्भवा तव भूत्वा महिषी
चिराय सा । उपलब्धवती दिवश्च्युतं विवशा शापनिवृ-
त्तिकारणम्” इति अजं प्रति वसिष्ठसन्देशः ।

इन्दुमौलि पु० इन्दुर्मौलावस्य । महादेवे स हि इन्दुतपसा

तुष्टस्तत्कलां शिरस्येकां दधारेति काशी० कथा यथा
“तुष्टेन देवदेवेन स्वमौलौ या धृता सदा । आदाय तां
कलामेकां जगत्संजीवनीम् पराम् । पश्चात् दक्षेण
शप्तोऽपि मासान्ते क्षयमाप्य च । आप्याय्यतेऽसौ
कलया पुनरेव तया शशी” ।

इन्दुरत्न न० ६ त० इन्द्रुरिव शुभ्रं रत्नम् वा । मुक्तायां तस्या

श्चन्द्रदेवताकत्वात् चन्द्रदोषोपशान्त्यर्थत्वेन तत्प्रीतये
दीयमानत्वात् तद्वच्छुभ्रत्वाच्च तद्रत्नत्वम् । ग्रहशब्दे ग्रह-
रत्नानि वक्ष्यन्ते ।

इन्दुलेखा स्त्री इन्दोर्लेखेव । १ चन्द्रकलायाम् २ तदंशजम्यायां

१ सोमलतायाम्, तस्याः सोमादुद्भवकथा इन्दुवल्लीशब्दे
९३९ पृष्ठे दृश्या । तद्वदाप्यायनकारिण्याम् ३ अमृतायां, तद्व-
द्बहुलगुणत्वात् ४ यमानिकायाञ्च । लस्यरः । इन्द्ररेखाप्यत्र ।

इन्दुलोक पु० ६ त० । चन्द्रलोके । स हि कर्म्मिणामुपभोग-

स्थानतया श्रुत्यादिषु कथितः । चन्द्रलोके कर्म्मिणाम्
आप्यशरीरं जायतेतच्च कर्म्मसमवायिजलसूक्ष्माऽंशेभ्य
एवेति निरूपणाय छा० उ० पञ्चाग्निविद्या प्रस्ताविता यथा
“असौ वाव लोको गौतमाग्निस्तस्यादित्य एव समिद्,
रश्मयो धूमो, ऽहरर्चि, श्चन्द्रमा अङ्गारा, नक्षत्राणि विस्फुलि-
ङ्गाः । तस्मिन्नेतस्मिन्नग्नौ देवाः श्रद्धां जुह्वति तस्या आहुतेः
सोमो राजा सम्भवति १ । पर्जन्यो वाव गौतमाग्निस्तस्य
वायुरेव समिदभ्रं धूमो, विद्युदर्चिरशनिरङ्गारा, ह्रादु-
नयो विस्फुलिङ्गाः । तस्मिन्नेतस्मिन्नग्नौ देवाः सोमं
राजानं जुह्वति तस्या आहुतेर्वर्षं सम्भवति २ । पृथिवी
वाव गौतमाग्निस्तस्याः संवत्सर एव समिदाकाशो षूमो,
रात्रिरर्च्चिर्दिशोऽङ्गारा, अवान्तरदिशो विस्फुलिङ्गाः ।
तस्मिन्नेतस्मिन्नग्नौ देवा वर्षं जुह्वति तस्या आहुतेरन्नं
सम्भवति ३ । पुरुषो वाव गौतमाग्निस्तस्य वागेव समित्,
प्राणो धूमो, जिह्वाऽर्च्चिश्चक्षुरङ्गाराः, श्रीत्रं विस्फुनिङ्गाः ।
तस्मिन्नेतस्मिन्नग्नौ देवा अन्नं जुह्वति तस्या आहुतेरेतः
सम्भवति ४ । योषा वाव गौतमाग्निस्तस्या उपस्थ एव
समिद्यदुपमन्त्रयते स धूमो, योनिरर्च्चिर्यदन्तः करोति
तेऽङ्गारा, अभिनन्दा बिस्फुलिङ्गाः । तस्मिन्नेतस्मिन्नग्नौ
देवा रेतो जुह्वति तस्या आहुतेर्गर्भः सम्भवति ५ । इति
पृष्ठ ०९३७
तु पञ्चम्यामाहुतावापः पुरुषवचसो भवन्तीति स उलबावृतो
गर्भो दश वानव वा मासानन्तः शयित्वा यावद्वाथ जायते
स जातो यावदायुषं जीवति तं प्रेतं दिष्टमितोऽग्नय एव
हरन्ति यत एवेतो यतः सम्भूतो भवति” छा० उ० । “असौ
वाव लोकोऽग्निर्हेगौतम! यथाऽग्निहोत्राधिकरणम्
आहवनीयम् इह तस्याग्नेर्द्युलोकाख्यस्यादित्यएव समित्
तेन हीद्धोऽसौ लोको दीप्यते अतः समिन्धनात्
समिदादित्यः । रश्मयो धूमस्तदुत्थानात् समिधो हि धूम
उत्तिष्ठति । अहरर्चिः प्रकाशसामान्यात् आदित्यका
र्य्यत्वाच्च । चन्द्रमा अङ्गाराः अह्नः प्रशमेऽभिव्यक्तेः
अर्चिषो हि प्रशमेऽङ्गारा अभिव्यज्यन्ते । नक्षत्राणि
विस्फलिङ्गाश्चन्द्रमसोऽवयवा इव विप्रकीर्ण्णत्वसामान्यात् ।
तस्मिन्नेतस्मिन् यथोक्तलक्षणेऽग्नौ देवाः यजमानप्राणा
अग्न्यादिरूपाः अधिदैवतं श्रद्धाम् अग्निहोत्राहु-
तिपरिणामावस्थरूपाः सूक्ष्मा आपः श्रद्धाभाविताः
श्रद्धा उच्यन्ते “पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ती”
त्यपां हौम्यतता प्रश्रे श्रुतत्वात् । “श्रद्धा वा आपः श्रद्धामे-
वारभ्य प्रणीय प्रचरन्तीति” च विज्ञायते । तां श्रद्धामब्रूपां
जुह्वति । तस्या आहुतेः सोमो राजा । अपां श्रद्धाश-
ब्दवाच्यानां द्युलोकाग्नौ हुतानां परिणामः सोमो
राजा सम्भवति । यथा ऋग्वेदादिपुष्परसा ऋगादिमधु-
करोपनीतास्त आदित्ये यश आदिकार्य्यं रोहितादिरूप-
लक्षणमारम्भन्त इत्युक्तम् । तथेमा अग्निहोत्राहुतिसम-
बायिन्यः सूक्ष्माः श्रद्धाशब्दवाच्या आपोद्युलोकमनुप्र-
विश्य चान्द्रं कार्य्यमारभन्ते फलरूपमग्निहोत्राहुत्योः ।
यजमानाश्च तत्कर्त्तार आहुतिमया आहुतिभावना-
भाविता आहुतिरूपेण कर्म्मणाऽऽकृष्टाः श्रद्धाप्समवायिनो
द्युलोकमनुप्रविश्य सोमभूताभवन्ति । तदर्थं हि तैरग्नि-
होत्रं हुतम् । आहुतिपरिणाम एव पञ्चाग्निसम्बन्धक्र-
मेण प्राधान्येन बिवक्षित उपासनार्थम् । न यजमानानां
गतिम् । तां त्वविदुषां धूमादिक्रमेणोत्तरत्र वक्ष्यति
विदुषाञ्चोत्तरां विद्याकृताम् १ । द्वितीयहोमपर्य्यायार्थमाह ।
पर्जन्यो वाव पर्जन्य एव गौतमाग्निः पर्जन्योनाम वृष्ट्यु-
पकरणाभिमानी देवताविशेषः । तस्य वायुरेव समित्,
बायुना हि पर्जन्योऽग्निः समिध्यते पुरोवातादिप्रा-
बल्ये वृष्टिदर्शनात् । अभ्रं धूमो, धूमकार्य्यत्वाद्धूमवच्च
लक्ष्यमाणत्वात् । विद्युदर्चिः प्रकाशसामान्यात् ।
अशनिरङ्गाराः काठिन्यात् विद्युत्सम्बन्धाद्वा । ह्रादुनयो
विस्फुलिङ्गाः । ह्रादुनयो गर्जितशब्दाः मेघानां
विप्रकीर्णत्वसामान्यात् । तस्मिन्नेतस्मिन्नग्नौ देवाः पूर्ववत् सोमं
राजानं जुह्वति । अस्या आहुतेर्वर्षं सम्भवति ।
श्रद्धाख्या आपः सोमाकारपरिणता द्वितीये पर्य्याये पर्जन्या-
ग्निं प्राप्य वृष्टित्वेन परिणमन्ते २ । पृथिवी वाव गौतमा-
ग्निरित्यादि पूर्ववत् । तस्याः पृथिव्याख्यास्याग्नेः संवत्-
सर एव समित् संवत्सरेण हि कालेन समिद्धा पृथिवी
व्रीह्यादिनिष्पत्तये भवति । आकाशो धूमः पृथिव्या
इवोत्यित आकाशो दृश्यते यथाऽग्नेर्धूमो, रात्रिरर्चिः,
पृथिव्याह्यप्रकाशात्मिकाया अनुरूपा रात्रिः तमीरूप-
त्वात् अग्नेरिवानुरूपमर्चिः । दिशोऽङ्गारा उपशान्तत्वसा-
मान्यात् । अवान्तरदिशो विस्फुलिङ्गाः क्षुदत्वसा-
मान्यात् । तस्मिन्नित्यादि समानम् । तस्या आहुतेरन्नं
व्रीहियवादि सम्भवति ३ । पुरुषो वाव गौतमाग्निः तस्य
वागेव समित् वाचा हि मुखेन समिध्यते पुरुषो न मूकः ।
प्राणो धूमो धूम इव मुखान्निर्गमनात् । जिह्वार्चिर्लो-
हितत्वात् । चक्षुरङ्गारा भास आश्रयत्वात् । श्रोत्रं
विस्फुलिङ्गाः विप्रकीर्ण्णत्वसाम्यात् । समानमन्यत् । अन्नं
जह्वति व्रीह्यादि संस्कृतम् । तस्या आहुते रेतः
सम्भवति ४ । योषा वाव गौतमाग्निः । तस्या उपस्थ एव
समित् तेन हि सा पुत्त्राद्युत्पादनाय समिध्यते ।
यदुपमन्त्रयते स धूमः स्त्रीसम्भवादुपमन्त्रणस्य ।
योनिरर्च्चिर्लोहितत्वात् । यदन्तः करोति तेऽङ्गारा
अग्निसम्बन्धात् । अभिनन्दाः सुखलवा विस्फुलिङ्गाः
क्षुद्रत्वात् । तस्मिन्नेतस्मिन्नग्नौ देवा रेतो जुह्वति तस्या
आहुतेर्गर्भः सम्भवतीति ५ । एवं श्रद्धासोमवर्षान्नरेतोह-
वनपर्य्यायक्रमेणाप एव गर्भीर्भूतास्ताः । तत्रापामाहुति-
समवायित्वात् प्राधान्यविवक्षा आपः पञ्चम्यामाहुतौ
पुरुषवचसो भवन्तीति । नत्वाप एव केवलाः सोमादिका-
र्य्यमारभन्ते । न चापोऽत्रिवृत्कृताः सन्तीति । त्रिवृ-
त्कृतत्वेऽपि विशेषसञ्ज्ञालाभो दृष्टः पृथिवीयमिमा
आपोऽयमग्निरित्यन्यतमबाहुल्यनिमित्तः । तस्मात्समु-
दितावभृतानि बाहुल्यात्कर्म्मसमवायीनि सोमादिकार्य्या-
रम्भकाण्याप इत्युच्यन्ते । दृश्यते च द्रवबाहुल्यं
सोमवृष्ट्यन्नरेतोदेहेषु बहुद्रवञ्च, शरीरं यद्यपि पार्थिवं तत्र
पञ्चम्यामाहुतौ हुतायां रेतोरूपा आपो गर्भीभूताः ।
इति तु एवन्तु पञ्चम्यामाहुतावापः पुरुषचचसो भवन्तीति
व्याख्यात एकः प्रश्नः । यत्तुद्युलोकादीनां प्रत्यावृतयोरा-
पृष्ठ ०९३८
हुत्योः पृथिवीं पुरुषंऽस्त्रियं क्रमेणाविश्य लोकं प्रत्युत्थायी
भवतीति वाजसनेयके उक्तं तत्प्रासङ्गिकमिहोच्यते । इह
च प्रथमे प्रश्न उक्तं वेत्थ यदितोऽधि प्रजाः प्रयन्तीति ।
तस्य चायमुपक्रमः । स गर्भोऽपां पञ्चमः परिणामविशेषः
आहुतिकर्म्मसमवायिनीनां श्रद्धाशब्दावाच्यानाम्, उलबा-
वृत उल्बेन जरायुणाऽऽवृतो वेष्टितो दश वा नव वा
मासानन्तर्मातुः कुक्षौ शयित्वा यावता कालेन न्यूनेना-
तिरिक्तेनानन्तरं जायते । उल्बावृत इत्यादिवैराग्यहे-
तोरिदमुच्यते । कष्टं हि मातुः कुक्षौ मूत्रपुरीष-
वातपित्तश्लेष्मादिपूर्ण्णे तदनुलिप्तस्य गर्भस्योल्बाऽशुचि-
पूयावृतस्य लोहितरेतोऽशुचिवीजस्य मातुरशितपीतर-
सानुप्रवेशेन च विवर्द्धमानस्य निरुद्धशक्तिबलवीर्य्य-
तेजःप्रज्ञाचेष्टस्य शयनम् । ततो यीनिद्वारेण पीड्य-
मानस्य कष्टतरा निःसृतिर्जन्मेति वैराग्यं ग्राह-
यति । मुहूर्त्तमप्यसह्य दश वा मासानतिदीर्घकालमन्तः
शयित्वेति । स एवं जातो यावदायुषं पुनर्घटीयन्त्रवद्ग-
मनागमनाय कर्म्मकुर्व्वन् कुलालचक्रवद्वा तिर्य्यग्भ्रमणाय
यावत्कर्मणोप्रात्तमायुस्तावज्जीवति । तमेवं क्षीणायुषं
प्रेतं मृतं दिष्टऽ कर्मणा निर्द्दिष्टं परलोकं प्रति । यदि
चेज्जीवन् वैदिके कर्मणि ज्ञाने वाधिकृतस्तमेनं मृतमितोऽ
स्माद्ग्रामादग्नयेऽग्न्यर्थमृत्विजो हरन्ति पुत्रा वान्त्यकर्मणे,
यत एव इत आगतोऽग्नेः सकाशाच्छ्रद्धाद्याहुतिक्रमेण,
यतश्च पञ्चभ्योऽग्निभ्यः सम्भूत उत्पन्नो भवति तस्मा
एवाग्नये हरन्ति स्वामेव योनिमग्निमापादयन्तीत्यर्थः” भा० ।
एवं चन्द्रभावप्राप्तिप्रकारगुक्त्वा तत्प्राप्त्यनुगुणं कर्मभेदं
प्रदर्श्य तत्र गतिप्रकारमाह “अथ य इमे गृहस्थाः
ग्राम इष्टापूर्त्तेदत्तमित्युपासते ते धूममभि सम्भवन्ति,
धूमाद्रात्रिं, रात्रेरपरपक्षम्, अपरपक्षाद्यान् षड्दक्षिणैति
मासांस्तान्नैते संवत्सरमभिप्राप्नुवन्ति, मासेभ्यः पितृलोकं,
पितृलोकादाकाश, माकाशाच्चन्द्रमसमेष सोमो राजा तद्दे-
वानामन्नं तं देवा भक्षयन्ति । तस्मिन् यावत्सम्पातमुषि-
त्वाऽथैतमध्यानं पुनर्निवर्त्तन्ते” छा० उ० । “अथेत्यर्थान्तर
प्रस्तावनार्थो य इमे गृहस्थाः । ग्राम इति गृहस्थानाम-
साधारणं विशेषणमरण्यवासिभ्यो व्यावृत्त्यर्थम् । यथा
वानपस्थपरिव्राजकानामरण्यं विशेषणं गृहस्थेभ्यो व्यावृ-
त्त्यर्थं तद्वत् । इष्टापूर्त्तेइष्टभग्निहोत्रादि वैदिकं कर्म
पूत्तं वापीकूपतड़ागारामादिकरणम् । दत्तं च बहिर्वेदि
यथाशक्त्यर्हेभ्यो द्रव्यसम्भागो दत्तम् इत्येवंविधं परिचरण-
परित्राणाद्युपासते इतिशब्दस्य प्रकारदर्शनार्थत्वात् ।
ते दर्शनवर्जितत्वाद्धूमं धूमाभिमानिनीं देवतामाभिमु-
ख्येन सम्भवन्ति प्रतिपद्यन्ते । तयाऽतिवाहिता धूमा-
द्रात्रिं रात्रिदेवतां, रात्रेरपरपक्षदेवताम्, एवमेव कृषणपक्षा-
भिमानिनीम्, अपरपक्षाद्यान् षण्मासान् दक्षिणा दक्षिणां
दिशमेति सविता तान्, मासान् दक्षिणायनान् षण्मा-
साभिमानिनीर्देवताः प्रतिपद्यन्त इत्यर्थः । सङ्घचारिणी
हि षण्मासदेवता इति मासानिति बहुवचनप्रयोगस्तासु ।
नेते कर्मिणः प्रकृताः संवत्सरं संवत्सराभिमानिनीं
देवतामभिप्राप्नुवन्ति । कुतः पुनः संवत्सरप्राप्तिप्रसङ्गो
यतः प्रतिषिध्यते । अस्ति हि संवत्सरस्य प्रसङ्गोह्ये-
कस्यावयवभूते दक्षिणोत्तरायणे तत्रार्चिरादिमार्गप्रवृ-
त्तानामुदगयनमासेभ्योऽवयविनः संवत्रस्य प्राप्तिरुक्ता ।
अत इहापि तदवयवभूतानां दक्षिणायनमासानां प्राप्ति
श्रुत्या तदवयविनः सवत्सरस्यापि पूर्ववत्प्राप्तिरापन्नेत्यत-
स्तत्प्राप्तिः प्रतिषिध्यते नैते संवत्सरमभिप्राप्नुवन्तीति ।
मासेभ्यः पितृलोकं, पितृलोकादाकाशमाकाशाच्चन्द्रमसम् ।
कोऽसौ यस्तैः प्राप्यते चन्द्रमा य एष दृश्यतेऽन्तरिक्षे सोमो
राजा ब्राह्मणानां तदन्नं देवानां तं चन्द्रमसमन्नं देवता
इन्द्रादयो भक्षयन्ति । अतस्ते धूमादिना गत्वा चन्द्रभूताः
कर्मिणो देवैर्भक्ष्यन्ते । नन्वनर्थायेष्टादिकरणं यद्यन्नभूता
देवैर्भक्ष्येरन्, नैष दोषः अन्नमित्युपकरणमात्रस्य
विवक्षितत्वात् । न हि ते कवलोत्क्षेपेण देवैर्भक्ष्यन्ते, किं
तर्ह्युपकरणमात्रं देवानां भवन्ति ते, स्त्रीपशुभृत्यादि-
वत् । दृष्टश्चान्नशब्द उपकरणेषु स्त्रियोऽन्नं पशवोऽन्न
राक्षामित्यादि । न च तेषां स्त्र्यादीनां पुरुषोपभोग्यत्वे
ऽप्युपभोगो नास्ति । तस्मात्कर्मिणो देवतानामुपभोग्या अपि
सन्तः सुखिनो देवैः क्रीड़न्ते । शरीरञ्च तेषां सुखीप-
भोगयोग्यं चन्द्रमण्डले आप्यमारभ्यते । तदुक्तं पुरस्ता-
च्छ्रद्धाशब्दा आपोद्युलाकाग्नौ हुताः सोमो राजा
सम्भवतीति । ता आपः कर्मसमवायिन्य इतरैश्च भूतैरनुगताः
द्युलोकं प्राप्य चन्द्रत्वमापन्नाः शरीराद्यारम्भिका इष्टाद्यु-
पासकानां भवन्ति । अन्त्यायाञ्च शरीराहुतावग्नौ
हुतायामग्निना दह्यमाने शरीरे तदुत्था आपो धूमेन
सहोर्द्ध्वं यजमानमावेष्ट्य चन्द्रमण्डल प्राप्य कुशमृत्तिका-
स्थानीया बाह्यशरीरारम्भिका भवन्ति । तदारब्धेन
च शरीरेणेष्टादिफलमुपभुञ्जाना आसते यावत्तदुपभोगनिमित्तस्य
क्षयः कर्मणः । सम्पतन्ति येनेति सम्पातः कर्मणः क्षयो या-
पृष्ठ ०९३९
चत्सम्पातं यावत्कर्मणः क्षय इत्यर्थः । तावत्तस्मिंश्चन्द्रमण्डले
उषित्वा अथाऽनन्तरमेतमेव वक्ष्यप्राणमध्वानं मार्गम्
पुनर्निवर्त्तन्त इति प्रयोगात्पूर्वमप्यसकृच्चन्द्रमण्डलं गता निवृ-
त्ताश्चासन्निति गम्यते । तस्मादिह लोके इष्टादिकर्मोपचित्य
चन्द्रं गच्छन्ति तत्क्षये चावर्त्तन्ते । क्षणमात्रमपि तत्र
स्थातुं न लभ्यते स्थितिनिमित्तकर्मक्षयात् स्नेहक्षया-
दिव प्रदीपस्य । किं तत्र येन कर्मणा चन्द्रमण्डलमारूढ-
स्तस्य सर्वस्य क्षये तस्मादवरोहणं किं वा सावशेष इति ।
किन्ततः । यदि सर्वस्यैव क्षयः कर्मणश्वन्द्रमण्डलस्थस्यैव
मोक्षः स्पात् न वेति तत आगतस्येह शरीरोपभोगादि न
सम्भवति । ततः शेषेणेत्यादिस्मृतिविरोधश्च स्यात् । नन्विष्टा-
पूर्त्तदत्तव्यतिरेकेणापि मनुष्यलोके शरीरोपभोगनिमित्तानि
कर्माण्यनेकानि सम्भवन्ति न च तेषां चन्द्रमण्डल
उपभोगः । अतः क्षीणानि यन्निमित्तं चन्द्रमारूढास्तान्येव
क्षीणानीत्यविरोधः शेषशब्दश्च सर्वेषां कर्मत्वसामान्याद-
विरुद्धः” भा० । एवं चान्द्रायणादिकं तत्प्राप्तिहेतुः ।

इन्दुलौह न० ६ त० । इन्दुदेवताके, लौहे धातौ रौप्ये

धातुमध्ये तस्येन्दुवर्ण्णत्वात् इन्दुदोषोपशान्त्यर्थं
देयत्वाच्च तथात्वम् । स्वार्थे कन् । तत्रैव ।

इन्दुवदना स्त्री “इन्दुवदना जजसनैः सगुरुयुग्मैः” वृत्त० र०

उक्ते चतुर्दशाक्षरपादके वर्ण्णवृत्तभेदे

इन्दुवल्ली स्त्री ६ त० । चन्द्रनामिकायां सोमलतायाम् ।

तत्प्राप्तिस्थानमुक्तं सुश्रुते यथा “नैवासादयितुं शक्या
सोमाः सोमसमास्तथा । पीतावशेषममृतं देवैर्ब्रह्मपुरो-
गमैः । निहितं सोमवीर्य्यासु सोमे चाप्योषधीगतौ । देवसुन्दे
ह्रदवरे तथा सिन्धौ महानदे । दृश्यते च जलान्तेषु
मध्ये ब्रह्मसुर्च्चलाः” तत्समाश्च ओशधिशब्दे वक्ष्यन्ते

इन्दुवार पु० “आपोंक्लिमे (३, ६, ९, १२,) यदि खगाः स किले-

न्दुवारो न स्याच्छुभः क्वचन ताजकशास्त्रगीतः” नी०
ता० उक्ते वर्षलग्नतः (३, ६, ९, १२,) स्थानानामन्यतम-
स्थाने सर्व्वग्रहस्थितिरूपयोगभेदे ।

इन्दुव्रत न० इन्दुलोकप्राप्त्यर्थं व्रतम् शाक० त० । चान्द्रायणे

व्रते तस्य चन्द्रलोकप्राप्तिसाधनत्वात् चन्द्रह्रास्ववृद्धिवशानु-
सारेण भोजने ह्रासवृद्धिमत्त्वाच्च चान्द्रायणत्वम् तदेतत्
पञ्चविधं तत्स्वरूपविभागादि प्रा० वि० दर्शितं यथा ।
“एकैकं ह्रासयेत् पिण्ड कृष्णे, शुक्ले च बर्द्धयेत् । उपस्पृशं-
स्त्रिषवणमेतच्चान्द्रायणञ्चरेत् । एतदेव विधिं कृत्वा
आचरेत् यवमध्यमे । शुक्तपक्षादि नियतश्चरेच्चान्दायणव्रतम्” ।
“अष्टावष्टौ समश्नीयात् पिण्डान्मध्यदिने गते ।
नियतात्मा हविष्यस्य यतिचान्द्रायणञ्चरन् । चतुरः प्रातर-
श्नीयात् पिण्डान् विप्रः समाहितः । चतुरोऽस्तमिते
सूर्य्ये शिशुचान्द्रायणं व्रतम् । अष्टावष्टौ समश्नीयात्
पिण्डान्मध्यदिने गते । मासेनाश्नन् हविष्यस्य चन्द्रस्यैति
सलोकताम्” मनुः । एतत् पञ्चविधं चान्द्रायणम्
पिपीलिकातनुमध्यम्, यवमध्यं, यतिचान्द्रायणम्, सर्वतो-
मुखं शिशुसंज्ञञ्च । यथाह जावालः “षिपीलिकायव-
मध्यं यतिचान्द्रायणन्तथा । चान्द्रायणन्तथा ज्ञेयं चतुर्थं
सर्वतोमुखम् । पञ्चमं शिशुसंज्ञञ्च तुल्यं पुण्यफलो-
दयम्” । कृष्णप्रतिपदमारभ्य मासमेकं यदा क्रियते तदा
पिपीलिकामध्यं भवति, शुक्लप्रतिपदारम्भे यवमध्यमुभयत्रा-
मावास्यायामभोजनं कृष्णप्रतिपदि चतुर्द्दशग्रासभोजना-
रम्भे ह्रासक्रमेण चतुर्द्दश्यामेकग्रासः अमावास्यायः-
मभोजनम् एवं प्राप्नोति तथा च वसिष्ठः । “मासस्य
कृष्णपक्षादौ ग्रासानद्याच्चतुर्द्दश” । नन्वेवं क्रमेण पञ्चविंश-
त्युत्तरं ग्रासशतद्वयं स्यात् न चत्वारिंशद्ग्रासाधिकं शतद्व-
यम् तच्च याज्ञवल्क्येनोक्तम्” “यथा कथञ्चित् पिण्डानाञ्च-
त्वारिंशच्छतद्वयमिति” । “यथा कथञ्चित् पिण्डानां तिस्रो-
ऽशीतीः समाहितः” इति मनुनाप्युक्तम् । उच्यते संयम-
दिवसे पौर्णमास्याम् अमावास्यायां वा पञ्चदशग्रासभोज-
नेन संख्यापूरणसम्भवात् अथ वा पञ्चदश्यादिकमेवेदं
व्रतम् न प्रतिपदादिकं चतुर्द्दश्यामेव व्रतसङ्कल्पः ।
यथाह गोतमः पौर्ण्णमास्यां पञ्चदश ग्रासान् भुक्त्वै
कैकापचयेनापरपक्षमश्नीयात् अमावास्यायामुपोष्य
एकैकोपचयेन पूर्बपक्षम्, विपरीतमेकेषाम्” शङ्खलिखितौ
“अमावस्यायां व्रतोपायनं यवमध्यम् अमावस्यायां पञ्च-
दश पिण्डानश्नीयात्” उपायनमारम्भः । युक्तञ्चेदम्
अवास्यायामपि पञ्चदशकलात्मकस्य चन्द्रमसः सूर्य्यप्रविष्ट-
त्वात् तत एकैककलानिर्गमस्य प्रतिपदादिषु वृद्धिशब्द
वाच्यत्वात् । जावालः “एकैकं वर्द्धयेग्रासं शुक्ले कृष्णे
च ह्रासयेत् । अमावस्यां न भुञ्जीत यवमध्यञ्चरन् द्विजः ।
एकैकं ह्रासयेद्ग्रासं कृष्णे शुक्ले च वर्द्धयेत् । पौर्ण्णमास्यां
न भुञ्जीत पिपीलितनुमध्यमम्” । अत्र कल्पतरुव्याख्या-
नम् । एकैकं ह्रासयेदिति कृष्णप्रतिपदि पञ्चदशग्रास-
मारभ्य एकैकापचयेनामावास्यायामेकोग्रासः तदनन्तरं
शुक्लप्रतिमदि द्वौ ग्रासावेवं वृद्धिक्रमेण चतुर्द्दस्यां पञ्चदश
ग्रासाः सम्पद्यन्ते पौर्ण्णमास्याञ्चोपवास इति” पिपोलिका
पृष्ठ ०९४०
तनुमध्यं चान्द्रायणम्” । ऋषिचान्द्रायणमाह यमः
“त्रींस्त्रीन् पिण्डान् समश्नीयात् नियतात्मा दृढ़व्रतः ।
हविष्यान्नस्य वै मासमृषिचान्द्रायणं स्मृतम्” । अत्र
चत्वारिंशच्छतद्वयसंख्या नास्ति । ग्रासपरिमाणमाह
पराशरः “कुक्कुटाण्डप्रमाणन्तु यावद्वा प्रविशेन्मुखम् ।
एवं ग्रासं विजानीयाच्छुद्ध्यर्थं कायशोधनम्” । सकल
चन्द्रायण एव चतुर्द्दश्यामुपवासं कृत्वाऽपरदिने पञ्चदश्यां
संयमः कार्य्यः । यथा बौधायनः “शुक्लां चतुर्द्दशीमुप-
वसेत् कृष्णचतुर्द्दशीं वा केशश्मश्रुनखलोमानि वापयित्वा”
इत्याद्यभिधाय “तिथिनक्षत्रादिहोमं प्रत्यहमुक्तवान्”
विस्तरभयान्न लिखितम् । अत्र सामान्यव्रतधर्म्मः कर्त्तव्यः ।
विशेषमाह यमः “आर्द्रवासाश्चरेत् कृच्छ्रं स्नात्वा वस्त्रं
न पीड़येत् । अङ्गुल्यग्रस्थितं ग्रासं गायत्र्या चाभि-
मन्त्रयेत् । भक्षयित्वा उपस्पृश्य पुनरेवाभिमन्त्रयेत् ।
आयसं तैजसं पात्रं चक्रोत्पन्नं विवर्ज्जयेत् । असुराणां
हि तत् पात्रं पानपात्रमचक्रजम्” अचक्रजं कुलालचक्रा-
निष्पन्नम् । अपरे धर्म्मा बौधायनादिषु द्रष्टव्याः । तेन
एकत्रिंशद्दिनसाध्यं चान्द्रायणव्रतम्” । या० स्मृ० ।
“तिथिवृद्ध्या चरेत् पिण्डान् शुक्ले शिख्यण्डसम्मि-
तान् । एकैकं ह्रासयेत् कृष्णे पिण्डं चान्द्रायणं
चरन् । यथाकथञ्चित् पिण्डानां चत्वारिंशच्छतद्वयम् ।
मासेनैवोपभुञ्जीत चान्द्रायणमथापरम् । कुर्य्यात्त्रिषवण
स्नायी कृच्छ्रं चान्द्रायणं तथा । अनादिष्टेयु पापेषु
शुद्धिश्चान्द्रायणेन तु । धर्म्मार्थं यश्चरेदेतच्चन्द्रस्यैति
सलोकताम्” अत्र (२४०) ग्राससंख्योक्तेर्मध्ये नोपवास इति
प्रतीयते तथा हि प्रतिपादादिपञ्चदशसु ग्रासवर्द्धनेन
भक्षणे “सैकपदघ्नपदार्द्धमथैकाद्यङ्कयुतिः किल सङ्कलिता-
ख्येति” लीला० उक्तदिशा (१२०) ग्राससंख्या, पुनः कृष्णे
ह्रासेन तथैव संख्येति (२४०) भोज्यग्राससंख्या ।
तथाच समर्थासमर्थभेदेन अनयोर्व्यवस्थोति सिद्धान्तः ।

इन्दुशेखर पु० इन्दुः शेखरे यस्य । महादेवे इन्द्रमौणि

शब्दे ९३६ पृ० विवृतिः । चन्द्रशेखरादयोऽप्यत्र ।

इन्दूर पु० उन्दूर + पृ० उत्त्वम् । मूषिके जटाध० ।

इन्द्र पु० इदि--रन् । १ परमेश्वरे । “इन्द्रोमायाभिः पुरुरूप

ईयते” श्रुतिः । द्वादाशादित्यमध्ये २ आदित्यभेदे ।
ते च अदित्यां कश्यपेनोत्पादिताः “धाताऽर्य्यमा च मित्रश्च
वरुणोऽंशुर्भगस्तथा । इन्द्रोविवस्वान् पूषा च पर्ज्जन्यो
दशमः स्मृतः । ततस्त्वष्टा ततोविष्णुरजघन्यो जघन्यजः”
विष्णुध० । भा० आ० ६५ अ० तु इन्द्रस्थाने शक्रनाम्ना
पठितः यथा “अदित्यां द्वादशादित्याः सम्भूता भुवनेश्वराः ।
ये राजन्नामतस्तांस्ते कीर्त्तयिष्यामि भारत! । धाता-
मित्रोऽर्यभा शक्रो वरुणस्त्वंशुरेव च । भगो विवस्वान्
पूषा च सविता दशमः स्मृतः । एकादशस्तथा त्वष्टा
द्वादशोविष्णु रुच्यते । जघन्यजस्तु सर्व्वेषामादित्यानां गुणा-
धिकः” । कल्पभेदान्नामभेद इति न विरोधः ।
३ कुटजवृक्षे ४ रात्रौ च धरणिः ५ भारतवर्षोप-
द्वीपभेदे शब्दमा० इन्द्रदेवताके ६ ज्येष्टानक्षत्रे विष्कम्भा-
दिषु योगेषु ७ षड्विंशे योगे छन्दोग्रन्थप्रसिद्धे षण्मात्रा
प्रस्तावे आद्यन्तगुरुद्वयेन लघुद्वयमध्येन युते ८ चतुर्थेभेदे ।
९ देवराजे स च मन्वन्तरभेदात् चतुर्द्दशविधः यथा
“मन्वन्तरं मनुर्देवा मनुपुत्राः सुरेश्वरः । ऋषयोऽंशा-
वतारश्च हरेः षड्विधमुच्यते” भाग० ८ स्क० १ अ० । इत्थं मन्व-
न्तरे षड़्बिधकीर्त्तनीयमुपक्रम्य मन्वन्तरभेदेन तत्तन्नामानि
कथितानि अतोनामभेदात्तस्य चतुर्द्दशसंख्या तत्रोक्ता यथा
“तुषिता नाम ते देवाः आसन् स्वायम्भुवेऽन्तरे । मरीचि-
मिश्राऋष योयज्ञः सुरगणेश्वरः” भाग० ८ स्क० १ अ० । १ मन्व-
न्तरे यज्ञः । “स्वारोचिषो द्वितीयस्तु मनुरग्नेः सुतोऽभवत्”
इत्युपक्रम्य “तत्रेन्द्रोरोचनस्त्वासीत् देवाश्च तुषितादयः”
तत्रैव । २ म० रोचनः । “तृतीय उत्तमोनाम
प्रियव्रतसुतो मनुः” इत्युपक्रम्य “सत्यावेदश्रुता भद्राः
देबा इन्द्रस्तु सत्यजित्” तत्रैव । ३ म० सत्यजित्” “चतुर्थ-
उत्तमभ्राता मनुर्नाम्ना च तामसः” इत्यु० “सत्यका
हरयो वीरा देवास्त्रिशिख ईश्वरः” तत्रैव । ‘ईश्वरैन्द्रः’
श्रीधरः । ४ म० त्रिशिखः । “पञ्चमो रैवतोनाम
मनुस्तामससोदरः” इत्यु० “विभुरिन्द्रः शुरगणा राजन्!
भूतरयादयः” तत्रैव ५ अ० । ५ म० विभुर्नाम । “षष्ठश्च चक्षुषः
पुत्रश्चाक्षुषो नाम वै मनुः” इत्यु० “इन्द्रो मन्त्रद्रुमस्तत्र
देवा आस्यादयो मताः” तत्रैव ५ अ० । ६ म० मन्त्रद्रुमः ।
“मनुर्विवस्वतः पुत्रः श्राद्धदेव इति श्रुतः । सप्तमो वर्त्त
मानोऽयम्” इत्युप० “आदित्यावसवोरुद्रा विश्वे देवा
मरुद्गणाः । अश्विनावृभवो राजन्निन्द्रस्तेषां पुरन्दरः” ।
तत्रैव अ० १३ । ७ म० पुरन्दरः । “अष्टमेऽन्तर आयाते
सावर्ण्णिर्भविता मनुः” इत्यु० “तत्र देवाः सुतपसो
विरजा अमृतप्रजाः । तेषां विरोचनसुतो बलिरिन्द्रो
भविष्यति” १३ अ० । ८ म० वलिः । “नवमो दक्षसावर्ण्णिर्मनुर्व-
रुणसम्भवः” इत्युप० “परोमरीचिगर्भाद्या देवा इन्द्रः
पृष्ठ ०९४१
श्रुतः स्मृतः” तत्रैव १३ अ० । ९ म० श्रुतः । “दशमोब्रह्म-
सावर्ण्णिरुपश्लोकसुतोमहान्” इत्यु० “सुवासनविरु-
द्धाद्या देवाः शग्भुः सुरेश्वरः” १३ अ० । १० म० शम्भुः ।
“मनुर्वै धर्मसावर्ण्णिरेकादशम आत्मवान्” इत्यु० “विह-
ङ्गमाःकामगमानिर्वाणरुचयः सुराः । इन्द्रस्तु वैधृतस्तेषा
मृषयश्चारुणादयः” १३ अ० । ११ म० वैधृतः । “भविता रुद्रसा-
वर्ण्णिर्नाम द्वादशमी मनुः” इत्यु० “ऋतधामा च देवेशो
देवाश्च हरितादयः” १३ अ० । ११ म० ऋतधामा । “मनुस्त्र-
योदशोभव्यो वेदसावर्ण्णिरात्मवान्” इत्युप० “देवाः
सुकर्म्मसूत्रामसंज्ञा इन्द्रोदिवस्पतिः” १३ अ० । १३ म०
दिवस्पतिः । “मनुर्वा इन्द्रसावर्णिश्चतुर्दशम एष्यति” इत्यु०
“पवित्राश्चाक्षुषादेवाः शुचिरिन्द्रो भविष्यति” १३ अ० ।
१४ म० शुचिः । पुराणन्तरादौ नामान्तराणि चतुर्दश
कल्पभेदादविरुद्धानि । विस्तरभयात्तनि नीक्तानि । एवंशक्र-
नामसंख्यासाम्यात् १० चतुर्दशसंख्यायाम् । स च
शचीपतिः वृत्रादिहन्ता, पूर्वदिग्पालः, वृष्टिदायकः,
अमरेशः मेषवृषणः तस्य पुत्रो जयन्तः, वनं नन्दनं
हयौच्चैःश्रवाः गजऐरावतः, पुरी अमरावती नेत्राणि
सहस्रं वज्रमस्त्रम् हरीवाहः । विवृतिस्तत्तच्छब्दे दृश्या ।
तस्यानेकविधानि कार्य्याणि पुराणादौ वर्णितानि विस्त-
रभयान्नोक्तानि मनुकालपर्य्यन्तं तस्याधिकारकालस्तत्-
समाप्तौ तस्य प्रजापतेः सकाशात् ब्रह्मविद्याप्राप्तेरग्रे
वक्ष्यमाणत्वात् कैवल्यप्राप्तिः “योयो देवानां प्रत्यबुध्यत”
इत्यादिश्रुतेः । इत्येतत् नानाशास्त्रश्रुतीतिहासेषु प्रसिद्धम्
स्वकालमध्येऽपि त्वष्टृपुत्रविश्वरूपबधजनितब्रह्महत्या-
स्कन्दनभिया तस्य स्वपदच्युतिः । तत्पापस्य विभज्यान्यत्र
संक्रामसे पुनः स्वपदप्राप्तिः । असुरादिभिरपि बलाधिक्य-
वशात् तं युधि निर्जित्य कियत्कालपर्य्यन्तं तत्पदेऽधिकारिता
प्राप्ता इत्यपि पुराणादौ प्रसिद्धम् “जित्वा च सकलान् देवान्
इन्द्रोऽभून्महिषासुरः” देवीमा० “शताश्वमेधकरणे अन्यस्यापि
इन्द्रत्वप्राप्तियोग्यतेत्यत्र इन्द्रलोकशब्दे प्रमाणं वक्ष्यते ।
इन्दश्च प्रजापतिसकाशात् एकशतवर्षं ब्रह्मचर्य्याचरणेन
ब्रह्मविद्यां प्रापेति छा० उ० वर्ण्णितं यथा “यदाहुरेकशतं
हैकं वर्षाणि मघवान् प्रजापतौ ब्रह्मचर्य्यमुवास तस्मै
हीवाच । मघवन्! मर्त्यं वा इदं शरीरमात्तं मृत्थुना
तदस्यामृतस्याशरीरस्यात्मनोऽधिष्ठानमात्मा वै सशरीरः प्रिया-
प्रियाभ्यामात्तो न वै सशरीरस्य सतः प्रियाप्रिययोरपह-
तिरस्त्यशरीरं वाव सन्तं न प्रियाप्रिये स्पृशतः इत्यादि ।
“मघवन्! मर्त्थं वै मरणधर्म्मि शरीरम् । यन्मन्यसेऽक्ष्या-
धारादिलक्षणः सम्प्रसादलक्षण आत्मा मयोक्तो विनाश-
मेवापीतो भवतीति । शृणु तत्र कारणम् । यदिदं शरीरं वै
पश्यसि तदेतन्मर्त्यं विनाशि । तच्चात्तं मृत्युना ग्रस्तं सन्तत-
मेव । कदाचिदेव म्रियत इति मर्त्यमित्युक्ते न तथा
सन्त्रासो भवति यथा ग्रस्तमेव सदा व्याप्तमेव मृत्युने-
त्थुक्ते इति वैरग्यार्थं विशेष इत्युच्यते आत्तं मृत्यु-
नेति । कथं नाम देहाभिमानतो विरक्तः सन्निवर्त्तत
इति । शरीरमित्यत्र सहेन्द्रियमनोभिरुच्यते । तच्छ-
रीरमस्य सम्प्रसादस्य त्रिस्थानतया गम्यमानस्यामृतस्य
मरणादिदेहेन्द्रियमनोधर्म्मवर्जितस्येत्येतत् । अमृतस्येत्य-
वेनैवाशरीरत्वे सिद्धे पुनरशरीरस्येति वचनं वाय्वादिवत्सा-
वयवत्वमूर्त्तिमत्त्वे मा भूतामिति । आत्मनो भोगाधिष्ठानम्
आत्मनो वा सत ईक्षितुस्तेजोऽबन्नादिक्रमेणोत्पन्नमधि-
ष्ठानम् जीवरूपेण प्रविष्य सदेवाधितिष्ठत्यस्मिन्निति वाघि-
ष्ठानम् । यस्येदमीदृशं नित्यमेव मृत्युग्रस्तं धर्म्माधर्म्म-
जनितत्वात्प्रियाप्रियवदधिष्ठानं तदधिष्ठितस्तद्बान् सशरीरो
भवति । अशरीरस्वभावस्यात्मनस्तदेबाऽहं शरीरं शरीरमेव
चाहमित्यविवेकादात्मभावः सशरीरत्वम् । अत एव
सशरीरः सन्नात्तो ग्रस्तः प्रियाप्रियाभ्याम् । प्रसिद्धमेतत् तस्य
च न वै सशरीरस्य सतः प्रियाप्रिययोर्बाह्यविषयसंयीग-
वियोगयोर्निमित्तयोर्बाह्यसंयोगवियोगौ ममेति मन्यमा-
नस्यापहतिर्व्विनाश उच्छेदः सन्ततिरूपयोर्नास्तीति । तं
पुनर्देहाभिमानादशरीरस्वरूपविज्ञानेन निर्वर्त्तितविवेक-
ज्ञानमशरीरं सन्तं प्रियाऽप्रिये न स्पृशतः । स्पृशिः
प्रत्येकं सम्बध्यते प्रियं न स्पृशत्यप्रियं न स्पृशतीति
वाक्यद्वयं भवति । न म्लेच्छाशुच्यधार्म्मिकैः सह सम्भा-
षेतेति यद्वत् । धर्म्माधर्म्मकार्य्ये हिताहिते, यतोऽ-
शरीरता एतत्स्वरूपमिति । तत्र धर्म्माधर्म्मयोरसम्भवात्त-
त्कार्य्यभावो दूरत एवेत्यतो न प्रियाप्रिये स्पृशतः ।
ननु यदि प्रियमप्यशरीरं न स्पृशतीति यन्मघवतोक्तं
सुषुप्तस्य विनाशमेवापीतो भवतीति तदेवेहाप्यापन्नम् ।
नैष दोषो धर्म्माधर्म्मकार्य्ययोः शरीरसम्बन्धिनोः प्रिया-
प्रिययोः प्रतिषेधस्य विवक्षितत्वात् “अशरीरं न प्रिया-
प्रिये स्पृशतः” इत्यादिश्रुत्या । आगमापायिनोर्हि स्पर्श-
शब्दो दृष्टो यथा शीतस्पर्श उष्णस्पर्श इति । न त्वग्ने-
रुष्णप्रकाशयोः स्वभावभूतयोरग्निना स्पर्श एव भवति ।
तथाग्नेः सवितुर्वोष्णप्रकाशवत्स्वरूपभूतस्य नित्यस्य प्रियस्यापि
पृष्ठ ०९४२
नेह प्रतिषेधो “विज्ञानमानन्दम्” “आनन्दो ब्रह्मेति”
श्रुतिभ्यः इहापि “भूमैव सुखम् इत्युक्तत्वात्” भा० । इत्यु-
पक्रम्य बहूपदेशः कृतः । प्रपञ्चस्तत्र दृश्यः ।
इन्द्रश्च देवानां मध्येऽतिशयेन ब्रह्मवित्तमः तथाहि ।
केनोपनिषदि असुरविजये देवानां महिमाभिमाने जाते
तदभिमानापनोदनार्थं यक्षभूतेनाविर्भूतेन परब्रह्मणा
अग्निवाष्वोरभिमाननिरसने तयीर्निवृत्तौ दृढ़भक्तिमिन्द्रं प्रत्येव
हैमवत्युपदेशेन तस्यातिशयमहिमा सूचितः ततो दिग्मात्रं
तद्भाष्यञ्चदर्श्यते । “ब्रह्म ह देवेभ्यो विजिग्ये तस्य ह
ब्रह्मणो विजये देवा अमहीयम्त त ऐक्षन्तास्माकमेवायं
विजयोऽस्माकमेवायं महिमेति तद्धैषां विजज्ञौ तेभ्यो ह
प्रादुर्बभूव तन्न व्यजानन्त किमिदं यक्षमिति । तेऽग्निमब्रुवन्
जातवेदः! एतद्विजानीहि किमेतद्यक्षमिति तथेति
तदभ्यद्रवत्तमभ्यवदत् कोऽसीति अग्निर्व्वाऽहमस्मीत्यब्र-
वीज्जातवेदा वा अहमस्मीति । तस्मिंस्त्वयि किं वीर्य्य-
मित्यपीदं सर्व्वं दहेयं यदिदं पृथिव्यामिति । तस्मै तृणं
निदधावेतद्दहेति तदुप प्रेयाय सर्व्वजवेन तन्न शशाक दग्धुं
स तत एव निववृते नैतदशकं विज्ञातुं यदेतद्यक्षमिति”
के० उ० । एवं वायोरप्यभिमाननिरसनमुपवर्ण्य
“अथेन्द्रमब्रुवन्मघवन्नेतद्विजानीहि किमेतद्यक्षमिति तथेति
तदभ्यद्रवत्तत्तस्मात्तिरोदधे । स तस्मिन्नेवाकाशे स्त्रियमाज-
गाम बहुशोभमानामुमां हैववतीं तां होवाच किमेतद्यक्ष-
मिति । सा ब्रह्मेति होवाच ब्रह्मणो वा एतद्विजये
महीयध्वमिति ततो हैव विदाञ्चकार ब्रह्मेति । यस्माद्वा एते
देवा अतितरामिवान्यान्देवान् यदग्निर्वायुरिन्द्रस्ते ह्येन
न्नेदिष्ठं पस्पर्शुस्ते ह्येनत् प्रथमो विदाञ्चकार ब्रह्मेति
तस्माद्वा इन्द्रोऽतितरामिवान्यान् स ह्येनन्नेदिष्ठं पस्पर्श
स ह्येनत् प्रथमो विदाञ्चकार ब्रह्मेति” के० उ० । “तथेन्द्र-
मब्रुवन्मघवन्नेतद्विजानीहि इत्यादिपूर्व्व वदिन्द्रः परमेश्वरो-
मघवान् बलवत्त्वात्तथेनि तदभ्यद्रवत्तस्मादिन्द्रादात्मसमीपग-
तात्तद्ब्रह्म तिरोदघे तिरोभूतमिन्द्रत्वाभिमानोऽतितरां
निराकर्त्तव्य इत्यतः संवादमात्रमपि नादात् ब्रह्मेन्द्राय ।
तद्यत्र यस्मिन्नाकाशे आकाशप्रदेशेआत्मानं दर्शयित्वा तिरो-
मूतमिन्द्रश्च ब्रह्मणस्तिरोधानकाले यस्मिन्नाकाशे आसीत्
स इन्द्रस्तस्मिन्नेवाकाशे तस्थौ । किं तद्यक्षभिति ध्या-
यन्न निववृतेऽग्न्यादिवत्तस्येति यक्षे भक्तिं बुद्धा
विद्या उमारूपिणी प्रादुर्भूता स्त्रीरूपा । स इन्द्र-
स्तामुमां सर्वेषां हि शोभमानानां शोमनतमां विद्यां
तदा बहुशोभमानेति विशेषणमुपपन्नम्भवति । हैववती
हेमकृताभरणवतीमिव बहुशोभामानामित्यर्थः । अथवा
उमैव हिमवतो दुहिता हैमवती नित्यमेव सर्व्वज्ञेन
ईश्वरेण सा वर्त्तत इति ज्ञातुं समर्था इति कृत्वा
तामुपजगाम इन्द्रस्तां ह उमां किलोवाच पप्रच्छ
ब्रूहि किमेतद्दर्शयित्वा तिरोभूतं यक्षमिति । सा
ब्रह्मेति होवाच ह किल ब्रह्मण ईश्वरस्यैव विजये ईश्वरे-
णैव जिता असुरा यूयं तत्र निमित्तमात्रं तस्यैव
विजये यूयं महीयध्वं महिमानं प्राप्नुथ । एतदिति
क्रियाविशेषणार्थम् । मिथ्यामिमानश्च युष्माकमेव
महिमेति । ततस्तस्मादुमावाक्याद्ध एव विदाञ्चकार व्रक्ते
तीन्द्रोऽवधारणात्ततो हैवेति न स्वातन्त्र्येण । यस्मादग्नि-
वाय्विन्द्रा एते देवा ब्रह्मणः संवाददर्शनादिना
समीपमुपगतास्तस्मादैश्वर्य्यगुणैरतितरामिव शक्तिगुणादि-
भिर्महाभ्याग्यैरन्यान्देवानतितरामतिशयेन शेरते इवैते
देवाः । इवशब्दोऽनर्थकोऽवधारणार्थो वा । यदग्निर्वा-
युरिन्द्रस्ते हि देवा यस्मादेतद्ब्रह्म नेदिष्ठमन्तिकं समीपं
प्रियतमं पस्पर्शुः स्पृष्टवन्तो यथोक्तैर्ब्रह्मणः संवादादि-
प्रकारैस्ते हि यस्माच्च हेतोरेनद्ब्रह्म प्रथमः प्रथमाः
प्रधानाः सन्त इत्येतद्विदाञ्चकार विदाञ्चक्रुरित्येतद्ब्र-
ह्मेति । यस्मादग्निवायू अपीन्द्रवाक्यादेव विदाञ्चक्रतुः
इन्द्रेण ह्युमावाक्यात्प्रथमं श्रुतं ब्रह्मेत्यतस्तस्माद्वै इन्द्रो-
ऽतितरामतिशयेन शेते इवान्यान्देवान्, स ह्येतन्नेदिष्ठं
पस्पर्श यस्मात्स ह्येनत्प्रथमो विदाञ्चकार ब्रह्मेति” भा०
११ अन्तरात्मनि “इन्दियमिन्द्रलिङ्गमित्यादि” पा०
१२ ऐश्वर्य्यान्विते त्रि० । भावे रन् । १३ ऐश्वर्य्ये । १४ इन्द्र
वारुण्यां स्त्री टाप् । राजनि० । “इन्द्रायेन्दो! पवस्वते”
ऋ० ९, ६४, २२ । “तदिन्द्रसन्दिष्टमुपेन्द्र! यद्वचः” माघः! ।
“हरी इन्द्रस्य” निरु० । १५ नृपमात्रे “महीमहेन्द्रस्तमवेक्ष्य
सक्षणम्” नैष० । “राष्ट्रस्यैतत् कृत्यतमं राज्ञां चैवाभिषेचनम् ।
अनिन्द्रमबलं राष्ट्रंदस्यवोऽभिभवन्त्युत” भा० शा० ६७ अ०
“देवताद्वन्द्वेउत्तरपदस्थस्य नेन्द्रस्य परस्य न वृद्धिः आग्ने-
न्द्रम् कर्म सि० कौ० लिङ्गाद्यर्थे घ । इन्द्रियम् ।
इन्द्रियशब्दे विवृतिः । इन्द्रोजीविकास्य देपपथा० कन्
तस्य लुप् । इन्द्रस्तन्मूर्त्तिजीविकावति लुपि व्यक्तिवचन-
त्वात् पु० । इन्द्रोदेवताऽस्य अण् । इन्द्रदेवताके हविरादौ
“ऐन्द्रं दध्यमावस्यायाम्” श्रुतिः । स्त्रियां ङीप् ।
“ऐन्द्र्या गार्हपत्यमुपतिष्ठते” श्रुतिः । “ऐन्द्रीतमसुरेश्वरम्”
देवीमा० ऐन्द्री दिक् “उपमितसमासे उत्तरपददस्थः
श्रेष्ठंत्वद्योतकः मनुजेन्द्रः वारणेन्द्र इत्यादि ।
"https://sa.wikisource.org/w/index.php?title=वाचस्पत्यम्/इ&oldid=85276" इत्यस्माद् पुनः प्राप्तिः