पृष्ठ ०९४३

इन्द्रक न० इन्द्रस्य राज्ञः कं सुखंयत्र । १ समागृहे हेम० ।

६ त० । २ इन्द्रमुखे ।

इन्द्रकर्म्मन् पु० इन्द्रस्येव ऐश्वर्य्यान्वितं कर्म्मास्य । विष्णौ

“इन्द्रकर्म्मा महाकर्म्मा कृतकर्म्मा कृतागमः” विष्णुस० ।

इन्द्रकील पु० इन्द्रम्य कील इव अत्युच्चत्वात् । १ मन्दरपर्व्वते

इन्द्रस्य कील इव । २ इन्द्रध्वजे न० “विषमेन्द्रकीलचतु-
ष्पथश्वभ्राणामुपरिष्टात्” सुश्रु० ।

इन्द्रकुञ्जर पु० ६ त० । ऐरावते तस्यामृतमन्थनकाले इन्द्रेण

गृहीतत्वात् तथात्वम् यथाह “श्वेतैर्दन्तैश्चतुर्भिस्तु
महाकायस्ततः परम् । ऐरावणो महानागोऽभवद्वज्रभृता
धृतः” भा० आ० १८ अ० । इन्द्रगजशक्रगजादयोऽप्यत्र ।

इन्द्रकूट पु० इन्द्र ऐश्वर्य्यान्वितः कूटोऽस्य । पर्व्वतभेदे

“ततस्तु पर्व्वताः सप्त केशवं समुपस्थिताः । जयन्तो
वजयन्तोऽथ नीलो रजतपर्व्वतः । महामेरुः सकैस्तास
इन्द्रकूटश्च नामतः” हरि० १७१ अ० ।

इन्द्रकृष्ट न० कृष्टं कर्षणं भावे क्त ततः अस्त्यर्थे अच् इन्द्रेण

इन्द्रहेतुकवर्षणेन कर्षणजातम् । वृष्टिजलसम्पन्ने धान्यभेदे
“इन्द्रकृष्टैर्वत्तेयन्ति धान्यैश्चैव नदीमुखैः” भा० स० ५ अ० ।

इन्द्रकोष पु० इन्द्रस्य कोषैव सुखदायकत्वात् । १ मञ्चे,

२ खट्वायाञ्च ।

इन्द्रगिरि पु० इन्द्रनामा गिरिः । महेन्द्रपर्ब्बते । इन्द्रपर्व्वतादयोऽप्यत्र ।

इन्द्रगुरु पु० ६ त० । वृहस्पतौ इन्द्राचार्य्यादयोऽप्यत्र ।

इन्द्रगोप पु० इन्द्रो गोपो रक्षकोऽस्य वर्षाभवत्वात्तस्य । वर्षा-

कालिके कीटभेदे शक्रगोपादयोप्यऽत्र । “अविरलवपुर-
सुरेन्द्रगोपाः” किरा० । “इन्द्रगोपकवर्ण्णाभां शुक्लवर्णां
मनोजवाम्” भा० स० ४० अ० । शुभ्रतया वर्णनात्
“रूढ़यौवनया शक्रगोपकालोहितरागेणांशुकेन” काद०
रक्ततया वर्णनाच्च तस्य कीटस्य दैविध्यं रक्तश्वेतभेदात् ।

इन्द्रघोष पु० इन्द्र इतिशब्देन विस्पष्टं घुष्यते घुष--कर्म्मणि

घञ् । इन्द्रे “इन्द्रघोषस्त्वा वमभिः पुरस्तात् पातु” यजु०
५, ११ ।

इन्द्रचन्दन न० इन्द्रप्रियं चन्दनम् शा० त० । हरिचन्दने श्वेतचन्दने राजनि० ।

इन्द्रचाप पु० इन्द्रे इन्द्रस्वामिके मेघे चापैव । १ शक्रधतुषि ।

“विद्युत्वन्तं ललितवनिताः सेन्द्रचाप सचित्राः”
मेघदू० । “विद्युता सहितः सूर्य्यः सेन्द्रचापे घने यथा”
भा० व० २३० अ० । तदुत्पत्तिप्रकारादि वृह० स० उक्तम्
इन्द्रायुधशब्दे विवृतिः ६ त० । २ शक्रस्य शरासने च

इन्द्रचिर्भिटी इन्द्रस्यात्मनःप्रिया चिर्भटी सा० त० । लताभद ।

सा च इन्द्रतुल्यवर्ण्णकुसुमा पुष्पान्वितमञ्जरीका दीर्घवृन्ता-
युम्मफलान्विता कष्ट्वी शीतवीर्य्या पित्तश्लेष्मकासव्रण-
दोषकृमिनाशिनी चक्षुष्या च राजनि० ।

इन्द्रच्छन्दस् न० इन्द्र इव सह त्रेण सहस्रगुच्छेन छाद्यते

छद--असुन् नि० नुट् । सहस्रगुच्छे हारभेदे हेम० ।

इन्द्रजनन न० इन्द्रस्यात्मनः जनन देहसम्बन्धभेदः । आत्म-

नोदेहसम्बन्घभेदे । तदधिकृत्य कृतः ग्रन्थेः छ । इन्द्रज-
ननीयं तदधिकारेण कृते ग्रन्थभेदे न० ।

इन्द्रजाल न० इन्द्रेण कौशलाद्यैश्वर्य्येण जालं द्रष्टुर्नेत्रावरणं

यथास्थितवस्तुदर्शनाक्षमत्वसाधनात्, इन्द्रस्य परमेश्वरस्य
जालं भायेव वा । मन्त्रौषधादिना अन्यथास्थितस्य
वस्तुनोऽन्यथात्वेन दर्शनसाधने (कुहक) (वाजी) १ पदार्थे
२ मायारूपे जाले च । “अतएव महान्तोऽस्याः प्रवदन्ती-
द्रजालताम् । एतस्मात् किमिवेन्द्रजालमपरं यद्गर्भवासस्थितं
रेतश्चेत तिहस्त मस्तकपदप्रोद्भूतनानाङ्कुरम् । पर्य्यायेण
शिशुत्वयौवनजरावेशैरनेकैर्वृतं पश्यत्यत्ति शृणोति जिघ्रति तथा
गच्छत्यथागच्छ । देहवद्वटधानामौ सुविचार्य्यावलोक्य
ताम् । क्व धानाः क्व च वा वृक्षत्मामान्मायेति निश्चिन्”
प० द० “स्थूणाकणन्द्रजालञ्च सौरञ्चापि तथार्ज्जुनः ।
आग्नेयञ्चापि सौम्यञ्च ससर्ज कुरुदनन्दनः” भा०
व० २७४ अ० । इन्द्रेण इन्द्रकृतेन योगविशेषेण जालम् ।
३ क्षद्रोपायभेदे च । इन्द्रजालञ्च द्रव्यविशेषसंयोगेन
अद्धुतवस्तुदर्शकव्यापारः (किमष्टरि) इति संलण्डभाषा
प्रसिद्धः मन्त्रद्रव्यविशेषेण वस्तुनोऽन्यथा करणव्व ।
तच्चदत्तात्रेयतन्त्रे मन्त्रविशेषसाध्यम् विस्तरणाभिहितम् ।
इन्द्रजालतन्ये तु ओषधिविशे ण तथाचरणं यदुक्तं
ततोदिङ्मात्रं प्रदर्श्यते । “अथातः संप्रवक्ष्यामि चेन्द्र-
जालमनुत्तमम्” इत्युपक्रम्य
“अथातः संप्रवक्ष्यामि ओषधीनां विधिं वरे! येन विज्ञा-
नमात्रेण सर्व्वसिद्धिर्भविष्यति । महाकालस्य वीजानि प्रस्थ-
मेकंसमाहरेत् । धात्रीरसेन देवेशि! सप्त वारान् विभाव-
येत । कर्त्तव्या गुटिका तां त स्वेनिक्षिप्य पार्ब्बति!
अचिरेणैव कालेन स्वयं पारावतो भवेत् । अथातः संप्रव-
क्ष्यामि शृण त्वं मम वल्लभे! । छागस्य शीर्षं सङ्गृह्य
तत्र कृष्णमृत्तिव रयित्क पुबर्धस्तरवीगनि वापयेत्
यत्काले तानि पुष्पितानि भवन्ति तदा यस्योपार
पृष्ठ ०९४४
निक्षिपेत् स छागो भवति । मयूरशीर्षमादायकृष्ण-
चतुर्दश्यां मृत्तिकां पूरयेत् शणवीजानि वापयेत्
यदा फलितः पुष्पितो भवति तदा शणवीजानि
ग्रींवायां बन्धयेत् मयूरो भवति । कृष्णचतुर्दश्यां
मयूरशीर्षमादाय कृष्णमृत्तिकां पूरयेत् कार्पासवीजा-
नि वापयेत् तदा फलिताः पुष्पिता भवन्ति पुष्पफले
संगृह्य समस्तं पेषयित्वा अङ्गं विलिप्य पानीयमध्ये प्रविश्य
यदा जले तिष्ठति तदा मयूरो भवति । कृष्णकाकशीर्षमा-
दाय काकमाचीवीजानि वापयेत् यदा फलिता पुष्पिता
भवति तत्फलं संगृह्य मुखे प्रक्षिप्य काको भवति । काक
इव गच्छति मह्यामुद्गीर्णे मोक्षः । पारवतशीर्षमादाय
कृष्णमृत्तिकां पूरयित्वा तिलवीजानि वापयेत् क्षीरोद-
केन सेचनीयं यदा पुष्पितो भवति तदा मुखे संस्था-
प्य अन्तर्हितो भवति । तेषां फलानां चूर्णं कृत्वा तेन
चूर्णेन यं स्पृशति स किङ्करो भवति । सर्व्वस्वं ददाति ।
तानि तिलानि संगृह्य नेत्राञ्जनेन सह पिष्ट्वा कपिला-
दुग्धेन गुटिकां कारयेत् सप्तरात्रं पाचयेत् तां गुटिकां
मुखे निक्षिप्य अन्तर्हितो भवति देवैरपि न दृश्यते
मनुष्याणां का कथा । उद्गीर्णे पुरुषो भवति । जीवेद्वर्ष-
शतं स्त्रियः सर्वे जनाश्च वश्या भवन्ति । गृध्रशिरः
समादाय कृष्णचतुर्दश्यां कृष्णमृत्तिकायां निक्षिपेत् लशुनवी-
जानि वापयेत् यदा फलं पुष्पं भवति तदा पुष्यनक्षत्रे
पुष्पं गृहीत्वा अञ्जनेन सह कपिलाघृतेन कज्जलं पातयेत्
चक्षुरञ्जनीयं यावत् तावत् योजनशतं पश्यति मेदिन्यां,
दिवा नक्षत्राण्यपि पश्यति । एवं उष्ट्रगर्द्दभमहि-
षादीनां वृहज्जीवानां शिरसि यत् यत्वीजं यस्य
शिरमि वापयेत् यदा पुष्पितः फलितो भवति तदा यस्य
वीजानि मुखे निक्षिप्यन्ते स जीवो भवति नात्र सन्देहः ।
मातुलङ्गस्य मूलन्तु धुस्तूरवीजकेन च । पलाण्डु
पुष्पमादाय सूक्ष्मचूर्णन्तु कारयेत् । योऽस्य गन्धं
समाघ्राति स च स्नेहेन पश्यति । दुन्दुभिं पटहांश्चैव
शङ्खांश्चैव तु लेपयेत् । एष भूतोपसृष्टानां कुमारीणां
गृहेषु च । भूपतिं सेवमानानां तथा तत्कर्म्म-
जीविनाम् । न चाग्निर्दह्यते वेश्म यत्रैष सोऽगदो
भवेत् । पारावतस्य हृदयं चक्षुर्जिह्वा च शोणितम् ।
अञ्जनं रोचनायुग्मं वनितावशकृत् परम् । कपालं मानुषं
गृह्य कनकस्य फलानि च । कर्पूरं मधुसंयुक्तं निघृय्य
तिलकेन च । नारी वा पुरुषोऽनेन वश्यो भवति नित्यशः ।
एष कापालिको योगो वशिष्ठस्य शुभं मतम् । नरजिह्वां
समुद्धृत्य सूक्ष्मचूर्णन्तु कारयेत् । जलेन च सुशीतेन
दापयेत्तद्विचक्षणः । पाने फले च पुष्पे च भक्ष्ये भोज्ये
च दापयेत् । प्रजापतिकुलोद्भूता यदि साक्षादरुन्धती
सापि रक्ता प्रियं याति नान्यं पुरुषमिच्छति । हरितालं
श्मशाने कृष्णचतुर्दश्यां क्षिप्त्वा कुष्ठविमिश्रं ग्राह्यम्
अवश्यं वशीभवेत् स नरः । नरतैलं प्रेताम्बरवर्त्तिकं कृत्वा
पात्रेरात्रौ प्रज्वाल्यार्कवृक्षस्कन्धे कज्ज्वलं कृत्वा चक्षुषी
अभ्यञ्जेत् यं पश्यति स वश्यो भवति । कर्णदन्तमलं
लाला स्वदेहाक्षिमलत्रयम् । नासिकोद्भवरक्तञ्च चूर्णमे-
तद्वलायुतम् । एतत् सर्वं समुद्धृत्य गुटिकां कारयेद्बुधः ।
पानभोजनके देयं वशीकरणमुत्तमम् । काकजिह्वा
वचा कुष्ठमात्मनो रुधिरं स्त्रियः । तद्भात्तदन्नं
कञ्जिष्ठा तगरं गौरसर्षपाः । शिवनिर्माल्यसंयुक्तं समभा-
गानि कारयेत् । भोज्ये पानेऽथवा देयं स्त्रीणान्तु
वशकारकम् । नित्यं पुरुषमिच्छन्तीमृतमप्यनुगच्छति ।
कृष्णसर्पस्याङ्गुलप्रमाणं शिरश्छित्त्वास्यास्यं सर्षपादिभिः ।
पूरयित्वा छायाशुषकं शोषयेत् । परतः सर्षपान् ग्राह-
यित्वा तानि यस्मै दीयते स बश्यो भवति । पूगीफलं
गिलित्वाऽपानमार्गेण निर्गतं संगृह्य धुस्तूररसान्तरितं
कृत्वा सप्त दिनानि पूजयेत् । पुनः कुङ्कुमचन्दनैरधि-
वास्य यस्मै दीयते स वश्यो भवति । दर्दुरयुग्मं गृहीत्वा
तद्धूमेन दाहयेत् । तद्भस्म सह पानेन वश्यकृत् परमो
मतः । अजगन्धस्य पत्त्राणि वचां कुष्ठेन भावयेत् ।
श्मशानभस्मसंयुक्तं चूर्णञ्चेत्त्रिषु दुर्लभम् । अनेनैव त
चूर्णेन योजयेत् त्रींश्च पादपान् । पुष्पितं फलितं दृष्ट्वा
चूर्णं वृक्षाद्विलग्नयेत् । तत् क्षणात् फलते वृक्षो नरना-
रोषु का कथा । जिह्वामूले सप्तरात्रं सैन्धवेनापि मिश्रि-
तम् । ददाति यस्य पानेषु सोऽपि वश्यो भवेत् क्षणात् ।
गोपितं सैन्धवञ्चैव वृहतीफलमेव च । लेप्यमेतत् प्रयोक्तव्यं
नरनारीवशङ्करम् । उद्गातुः पक्षमलिन आत्मनो
रुधिरान्वितम् । स्त्रीपुंसयोः प्रदातव्यं वशीकरणमुत्तमम् ।
श्वेतार्कं रोचनायुक्तमात्ममूत्रेण पेषयेत् । ललाटे तिलकं
कृत्वा त्रैलोक्यं क्षोभयेत् क्षणात् । दृष्टमात्रेण
तेनैव सर्वो भवति किङ्करः । श्वेतार्कं चन्दनेनैव
रञ्जयेत् सह लेपयेत् । दीयते कस्य चिद्वापि पश्चात्
दासो भविष्यति । मधूकं सह तैलेन सार्षपेण तु
पेषयेत् । एतेन पाणिमभ्यज्य भर्त्रा सा सहिता स्वपेत् ।
पृष्ठ ०९४५
संवृत्ते सैथुनीभावे पतिर्दासो भविष्यति” । “यानि कानि
च वीजान्यङ्कोलतैलेन मेलयेत् । सफलो जायते
वृक्षः सिद्धियोग उदाहृतः । शवमुखे विन्दुमात्रं
तत्तैलं निःक्षिपेद् यदि । एकयामं भवेत् जीवो
नान्यथा शङ्करोदितम् । शिग्रुवीजस्थितं तैलं पारावत
पुरीषकम् । वराहस्य वसायुक्तं गृहीत्वा च समं समम् ।
गर्दभस्य वसायुक्तं हरितालं मनःशिलाम् । एभिस्तु
तिलकं कृत्वा यथा लङ्केश्वरोनृपः । उल्लुविष्टां गृहीत्वा
त्वेरण्डतैलेन पेषयेत् । यस्याङ्गे निक्षिपेत् विन्दु सक्षिप्तो
जायते ध्रुवम् । सर्पदन्तं गृहीत्वा तु कृष्णवृश्चिककण्ट-
कम् । कृकलारक्तसंयुक्तं सूक्ष्मचूर्णन्तु कारयेत् ।
यस्याङ्गे निक्षिपेच्चूर्णं सद्यो याति यमालयम् । सिन्दूरं
गन्धकं तालं समं पिष्ट्वा मनःशिलाम् । तल्लिप्तवस्त्रं शिरसि
अग्निवत् दृश्यते घ्रुवम् । अर्कक्षीरं वटक्षीरं क्षीरं डुम्बरस-
म्भवम् । गृहीत्वा पात्रके लिप्ते जलपूर्णं करोति च ।
दुग्धं तत्र भवेत् सद्यो महाकौतुककौतुकम् । अङ्कोलतैल-
लिप्ताङ्गो दृश्यते राक्षसाकृतिः । पलायन्ते नराः सर्वे
पशुपक्षिगजा हयाः । अङ्कोलस्य तु तैलेन दीपं प्रज्वा-
लयेन्नरः । रात्रौ पश्यति भूतानि खेचराणि महीतले ।
बुधे वा शनिवारे वा कृकलां ग्राह्य यत्नतः । शत्रुर्मूत्रयते
यत्र कृकलां तत्र निःक्षिपेत् । निखनेद्भूमिमध्येषु उद्धृते
च पुनः सुखी । नपुंसकंभवेत् सत्यं नान्यथा शङ्करोदितम् ।
गन्धकं हरितालञ्च गोमूत्रञ्च विषं तथा । सूक्ष्मचूर्ण-
मयं कृत्वा किञ्चिद्वह्निं विनिःक्षिपेत् । विघ्नाः सर्व्वे
पलायन्ते यथा युद्धेषु कातराः” दत्तात्रेय तन्त्रे ११ प०

इन्द्रजालिक त्रि० इन्द्रजाल शिल्पतयाऽस्त्यस्य ठन् ।

इन्द्रजालकारके । इनि इन्द्रजालीत्यप्यत्र स्त्रियां ङीप् ।

इन्द्रजित् पु० इन्द्रं जितवान् जि--भूते क्विप् । दिति-

वंशीये असुरभेदे चाक्षुषमन्वन्तरे “दित्याः पुत्रद्वयं जज्ञे
कश्यपादिति विश्रुतम् । हिरण्यकशिपुश्चैव हिरण्या-
क्षश्च वीर्य्यवान्” । इत्युपक्रम्य तत्पुत्रपौत्रादिवर्ण्णने
“इन्द्रजित् सर्वजिच्चैव वज्रनाभस्तथैव च” हरिवं०
३ अ० । २ रावणपुत्रे मेघनादे च “पुत्रमिन्द्रजितं
वीरं रावणः प्रत्यधावत । जहि रामममित्रघ्न सुग्री-
वञ्च सलक्ष्मणम् । त्वया हि मम सत्पुत्र!
यशोदीप्तमुपार्ज्जितम् । जित्वा वज्रधरं संख्ये सहस्राक्षम्
शचीपतिम्” भा० व० २८७ । “तौ वीरौ शरबन्धेन
बद्धाविन्द्रजिता रणे” भा० व० २८८ अ० ।

इन्द्रजिद्धन्तृ पु० इन्द्रजितं हन्ति हन--तृच् ६ त० ।

दशरथात्मज लक्ष्मणे । तद्धननकथा । “अविध्य-
दिन्द्रजित्तीक्ष्णैः सौमित्रि मर्म्मभेदिभिः । सौमित्रि-
श्चानलस्पर्शैरविध्यद्रावणिं शरैः” । इत्युपक्रम्य “ऐकेनास्य
धनुष्मन्तं वाहुं देहादपातयत् । द्वितीयेन शरेणास्य
भुजं भूमौ न्यपातयत् । तृतीयेन तु वाणेन पृथुधारेण
भास्वता । जहार सुनसञ्चापि शिरो भ्राजिष्णुकुण्ड-
लम् । विनिकृत्तभुजस्कन्घ कबन्धं भीमदर्शनम् । तं हत्वा
सूतमप्यस्त्रैर्जघान बलिनां वरः” भा० व० २२८ अ० ।

इन्द्रतापन पु० इन्द्रं तापयति तप + णिच् + ल्यु । १ असुरभेदे

“इन्द्रतापनवातापी केतुमान् वलदर्पितः” असुर-
नामोत्कीर्त्तने” हरिवं० २६ अ० । २ मेघनादे च ।
दशग्रीवश्च बाली च मेघराजो दशावरः । टिट्टिभोविटभूतश्च
संह्रादश्चेचन्द्रतापनः” भा० स० प० ० अ० वरुणसभावर्णने ।

इन्द्रतूल न० इन्द्रस्येव तूलमाकाशे उड्डीयमानत्वात् ।

आकाशे मरुता चाल्यमाने कार्पासे सूत्रे त्रिका० ।

इन्द्रतोया स्त्री इन्द्रमैश्वर्य्यान्वितं तोयमस्याः, इन्द्रेण पूरितं

तोयमस्या वा । गन्धमादनसमीपस्थे नदीभेदे । “इन्द्रतोयां
समासाद्य गन्धमादनसन्निधौ” भा० अनु० प० २४ ।

इन्द्रदमन पु० “बाणस्य चेन्द्रदमनो लौहित्यामुदपद्यत”

हरिवं० ३ अ० उक्ते बाणासुरपुत्रभेदे ।

इन्द्रदारु पु० इन्द्रस्य तद्ध्वजस्य साधनं दारु । देवदारुवृक्षे ।

इन्द्रध्वजशब्दे ९४६ पृष्ठे तस्य तद्ध्वजसाधनत्वम् दृश्यम् ।
इन्द्रद्रुमादयोऽप्यत्र ।

इन्द्रद्युम्न इन्द्रस्येव द्युम्नं धनमस्य । भालवेये १ ऋषिभेदे

२ असुराबतारराजभेदे ३ राजभेदे च । तत्र असुररूपोनृपः
कृष्णेन हतः यथा । “इन्द्रद्युम्नोहतः कोपाद्युवनश्च
कसेरुमान् । हतः सौभपतिः शाल्वस्त्वया सौभं च
पातितम्” भा० व० १२ अध्याये कृष्णं प्रति व्यासवा-
क्यम् । ऋषिभेदस्तु । “ततस्ते ब्राह्मणाः सर्वे वकं दाम्भ्यम-
पूजयन्नित्युपक्रम्य “द्वैपायनो नारदश्च जामदग्नः
पृथुश्रवाः । इन्द्रद्युम्नोभालविश्च कृतचेताः सहस्र-
पात्” इति कतिचित् ब्राह्मणानभिधायाह । “एते चान्ये
च बहवोब्राह्मणा सशितव्रताः । अजातशत्रु-
मानर्चुः पुरन्दरमिवर्षयः” भा० व० २६ अ० ।
राजभेदस्तु मार्कण्डेयादपि प्राचीनः तत्कथा भा० व०
१९८ अ० । युधिष्ठिर प्रति मार्कण्डेयवाक्यम् । “स तानु-
वाचास्ति खलु राजर्षिरिन्द्रद्युम्ने नाम क्षोण-
पृष्ठ ०९४६
पुण्यस्त्रिदिवात् प्रच्युतः कीर्त्तिर्म्मे व्युच्छिन्नेति स
मामुपातिष्ठदथ प्रत्यभिजानाति मां भवानिति ।
तमहमब्रवं न वयं वासायनिकाः कार्य्यचेष्टाकुलत्वान्न प्रत्य-
भिजानाम्यात्मनोऽर्थानामनुष्ठानं न शरोरोपतापेनात्मनः
समारभामोऽर्थानामनुष्ठानं स मामुवाच अस्त्यन्यस्त्वत्तश्चिर-
जात इति तमहमब्रवम् अस्ति खलु हिमवति प्रावा-
रकण्णो नामोलूकः प्रतिवसति स मत्तश्चिरजातो भवन्तं
यदि जानीयादितः प्रकृष्टे चाध्वनि हिमवांस्तत्रासौ
प्रतिवसतीति । ततः स ममाश्वो भूत्वा तत्रावहद्यत्र
बभूवोलूकः अथैनं स राजा पप्रच्छ प्रतिजानाति मां
भवानिति । स महूर्त्तमिव ध्यात्वाऽब्रवीदेनं नाभिजानामि
भवन्तमिति । स एवमुक्त इन्द्रद्युम्नः पुनस्तमुलूकमब्रवी-
द्राजर्षिः । अथास्ति कश्चिद्भवतः सकाशाच्चिरजात इति
स एवमुक्तोऽव्रवीदस्ति खल्विन्द्रद्युम्नं नाम सरस्तस्मिन्नाड़ी-
जङ्घो नाम वकः प्रतिवसति सोऽस्मत्तश्चिरजाततरस्तं
पृच्छेति । तत इन्द्रद्युम्नो माञ्चोलूकमादाय तत्सरोऽगच्छ-
द्यत्रासौ नाडीजङ्घो नाम वको बभूव । सोऽस्माभिः पृष्टो
भवानिममिन्द्रद्युम्नं राजानमभिजानाति स एनं मुहूर्त्तं
ध्यात्वाऽब्रवीन्नाभिजानाम्यहमिन्द्रद्युम्नं राजानमिति ततः
सोऽस्माभिः पृष्टः कश्चिद्भवतोऽन्यश्चिरजाततरोऽस्तीति स
नोऽब्रवीदस्ति खल्वस्मिन्नेव सरस्यकूपरो नाम कच्छपः
प्रतिवसति स मत्तश्चिरजाततरः स यदि कथञ्चिदभि-
जानीयादिमं राजानं तमकूपारं पृच्छध्वमिति । ततः
स वकस्तमकूपारं कच्छपं विज्ञापयामासं । अस्त्यस्माक-
मभिप्रेतं भवन्तं कञ्चिदर्थमभिप्रष्टुं साध्वागम्यतां
तावदिति तच्छ्रुत्वा कच्छपस्तस्मात् सरसः उत्यायाभ्यगच्छ-
द्यत्र तिष्ठामो वयं तस्य सरसस्तीरे आगतञ्चैनं वयमपृच्छाम
भवानिममिन्द्रद्युम्नं राजानमभिजानातीति । स मुहूर्त्तं
ध्यात्वा वाष्पसम्पूर्णनयन उद्विग्नहृदयो वेपमानो विसंज्ञ-
कल्पः प्राञ्जलिरब्रवीत् । कथमहमेनं न प्रत्यभिज्ञास्यामी-
ह ह्यनेन सहस्रकृत्वश्चितिषु यूपा आहिताः । सरश्चेदमस्य
दक्षिणाभिर्द्दत्ताभिर्गोभिरतिक्रममाणाभिः कृतम् । अत्र
चाहं प्रतिवसामीति । अथैतन् सकलं कच्छपेनोदाहृतं
श्रुत्वा तदनन्तरं देवलोकाद्देवरथः प्रादुरासीराद्वाचश्चाश्रू-
यन्त इन्द्रद्युम्नं प्रति प्रस्तुतस्ते स्वर्गो यथोचितं स्थानं
प्रतिपद्यस्व कीर्त्तिमानस्यव्यग्रो याहीति” ।
एतत्सरश्चोक्तवाक्ये वर्णितं तच्चाधिकृत्य । “इन्द्रद्यु-
म्नसरः प्राप्य हंसकूटमतात्य च । शतशृङ्गं महाराज
तापसः ममतप्यत” इत्युक्तेः शतशृङ्गपर्व्वतसमीपे
हंसकूटानन्तरं तत्सरः इति गम्यते । “हंसकूटस्य
यच्छृङ्गमिन्द्रद्युम्नसरः प्रति” इति हरिवं० १५७ उक्तेश्च
हंसकूटसन्निकृष्टत्वमस्यावगम्यते । पुरुषोत्तममूर्त्तिप्रकाश-
कश्चापरः पुरुषोत्तमशब्दे तद्विवृतिर्वक्ष्यते ।

इन्द्रद्रु पु० इन्द्रस्य इन्द्रध्वजार्थोद्रुः । १ अर्जुनवृक्षे । तस्य

तद्ध्वजनिर्माण्णे प्रथमोपात्तत्वात् तथात्वम् । इन्द्रध्वजशब्दे
विवृतिः । इन्द्रनामा द्रुः । २ कुटजवृक्षे राजनि० ।

इन्द्रद्रुम न० इन्द्रद्रुवत् विग्रहः । अर्ज्जुनवृक्षे शब्दर० ।

इन्द्रधनुस् न० इन्द्रे इन्द्रस्वामिके मेघे धनुरिव । इन्द्रायुध

शब्देवक्ष्यमाणे पदार्थे “विद्युतोऽशनिमेघांश्च रोहितेन्द्र
धनूंषि च” मनुः । तस्य ऋजुत्वे रोहितत्वम् । वक्रत्वे
इन्द्रधनुष्ट्वमिति भेदः ।

इन्द्रध्वज पु० इन्द्रस्य तत्सन्तोषार्थोध्वजः । भाद्रशुक्ल

द्वादश्यां स्वराज्ये वृष्ट्यादिशस्यवृद्ध्यर्थं तत्प्रीतये राज्ञा
क्रियमाणे ध्वजे तदुत्पत्तितत्करणप्रकारादि दर्शितं
वृहत्संहितायां यथा
“ब्रह्माणभूचुरमरा भगवञ्छक्ताः स्म नासुरान् समरे । प्रति-
योधयितुमतस्त्वां शरण्यं शरणं समुपयाताः । देवानुवाच
भगवान् क्षीरोदे केशवः स वः केतुम् । यं दास्यति तं
दृष्ट्वा नाजौ स्थास्यन्ति वो दैत्याः । लब्धवराः क्षीरोदं
गत्वा ते तुष्टुवुः सुराः सेन्द्राः । श्रीवत्साङ्कं कौस्तुभ-
मणिकिरणोद्भासितोरस्कम् । श्रीपतिमचिन्त्यमसमं
समन्ततः यर्वदेहिनां सूक्ष्मम् । परमात्मानमनादिं विष्णु-
मविज्ञातपर्यन्तम् । तैः संस्तुतः स देवस्तुतोष नारायणो
ददौ चैषाम् । ध्वजमसुरसुरबधूमुखकमलवनतुषारतीक्ष्णां-
शुम् । तं विष्णुतेजोभवमष्टचक्रे रथे स्थितं भास्वति
रत्नचित्रे । देदीप्यमानं शरदीव सूर्य्यं ध्वजं समासाद्य
मुमोद शक्रः । सकिङ्कणीजालपरिस्कृतेन स्रक्छत्रघण्टापि-
टकान्वितेन । समुच्छ्रितेनामरराड़् ध्वजेन निन्ये विनाशं
समरे ऽरिसैन्यम् । उपरिचरस्यामरपो वसोर्ददौ चेदिपस्य
वेणुमयीम् । यष्टिं तां स नरेन्द्रो विधिवत्सम्पूजयामास ।
प्रीतो महेन मघवान् प्राहैवं ये नृपाः करिष्यन्ति ।
वसुबलहेमवन्तस्ते भुवि सिद्धाज्ञा भविष्यन्ति । मुदिताः
प्रजाश्च तेषां भयरोगविवर्जिताः प्रभूतान्नाः । ध्वज एव
चाभिधास्यति जगति निमित्तैः फलं सदसत् । पूजा तस्य
नरेन्द्रैर्बहुवृद्धिजयार्थिभिर्यथा पूर्वम् । शक्राज्ञया प्रयुक्ता
तामागमतः प्रवक्ष्यामि । तस्य बिवानं शुभकरणदिवस-
पृष्ठ ०९४७
नक्षत्रमङ्गलमूहूर्तैः । प्रास्थानिकैर्वनमियाद्दैवज्ञः सूत्र-
धारश्च । उद्यानदेवतालयपितृवनवल्मीकमार्गचितिजाताः ।
कुब्जोर्ध्वशुष्ककण्टकिवल्लीवन्दाकयुक्ताश्च । बहुविहगालय-
कठोरपवनानलपीड़िताश्च ये तरवः । ये च स्युः स्त्रीसञ्ज्ञा
न ते शुभाः शक्रकेत्वर्थे । श्रेष्ठोऽर्ज्जुनोऽश्वकर्णः प्रियक-
घवोदुम्यराश्च पञ्चैते । एतेषामन्यतमं प्रशस्तमथवाऽमरं
वृक्षम् । नौरासितक्षितिभवं सम्पूज्य यथाविधि द्विजः
पूर्ब्बम् । विजने समेत्य रात्रौ स्पृष्ट्वा ब्रूयादिमं मन्त्रम् ।
“यानीह वृक्षे भूतानि तेभ्यः स्वस्ति नमोऽस्तु वः ।
उपहारं गृहीत्वेमं क्रियतां वासपर्य्ययः । पार्थिवस्त्वां वरयते
स्वस्ति तेऽस्तु नगोत्तम! । ध्वजार्थं देवराजस्य पूजेयं
प्रतिगृह्यताम्” । छिन्द्यात् प्रभातसमये दृक्षमुदक्प्राङ्मुखो
ऽपिवा भूत्वा । परशोर्जर्जरशब्दो नेष्टः स्निग्धो घनश्च
हितः । नृपजयदमविध्वस्तं पतनमनाकुञ्चित च पूर्व्वो-
दक् । अविलग्नं चान्यतरौ विपरीतमतस्त्यजेत्पतितम् ।
छित्त्वाग्रे चतुरङ्गुलमष्टौ मूले जले क्षिपेद्यष्टिम् । उद्धृत्य
पुरद्वारं शकटेन नयेन्मनुष्यैर्वा । अरभङ्गे बलभेदो नेम्या
नाशो बलस्य विज्ञेयः । अर्थक्षयोऽक्षभङ्गे तथाणिमङ्गे
च वर्धकिनः । भाद्रपदशुक्लपक्षस्याष्टम्यां नागरैर्वृतो राजा ।
दैवज्ञसचिवकञ्चुकिविप्रप्रमुखैः सुवेषधरैः । अहताम्बर-
संवीतां यष्टिं पौरन्दरीं पुरं पौरैः । स्रग्गन्धधूपयुक्तां
प्रवेशयेच्छ्रङ्खतूर्यरवैः । रुचिरपताकातोरणवनमालालङ्कृतं
प्रहृष्टजनम् । सम्मार्जितार्चितपथं सुवेषगणिकाजना-
कीर्णम् । अभ्यर्चितापणगृहं प्रभूतपुण्याहवेदनिर्घोषम् ।
नटनतकगेयज्ञैराकीर्णचतुष्पथं नगरम् । तत्र पताकाः श्वेता
विजयाय भवन्ति रोगदाः पीताः । जयदाश्च चित्ररूपा
रक्ताः शस्त्रप्रकोपाय । यष्ठिं प्रवेशन्तीं निपातयन्तो भयाय
नागाद्याः । बालानां तलशब्दे सङ्ग्रामः सत्त्वयुद्धे बा ।
सन्तक्ष्य पुनस्तक्षा विधिवद्यष्टिं प्ररोपयेद्यन्त्रे । जागर-
मेकादश्यां नरेश्वरः कारयेच्चास्याः । सितवस्त्रोष्णीषधरः
पुरोहितः शाक्रवैष्णवैर्मन्त्रैः । जुहुयादग्निं सांवत्सरो
निमित्तानि मृह्णीयात् । इष्टोद्रव्याकारः सुरभिः स्निग्धो
घनीऽनलोऽचिर्ष्मान् । शुभकृदतोऽन्यो नेष्टो यात्रायां
विस्तरोऽभिहितः । स्वाहावसानसमये स्वयमुज्ज्वलार्चिः
स्निग्धः प्रदक्षिणशिखो हुतभुग् नृपस्य । गङ्गादिवाकर-
सुताजलचारुहारां धात्रीं समुद्ररसनां वशगां करोति ।
चामीकराशोककुरण्टकाण्डवैदूर्यनीलोत्पलसन्निभेऽग्नौ न ।
विध्वान्तमन्तर्भवनेऽवकाशं करोति रत्नांशुहतं नृपस्य । येषां
रथौघार्णवमेधदन्तिनां संमस्वनांऽग्निर्यदिवापि दुन्दुर्भः ।
तेषां मदान्धेभघटाविघट्टिता भवन्ति याने तिमिरोपमा
दिशःः । ध्वजकुम्भहयेभभूभृतामनुरूपे वशमेति मूभृताम् ।
उदयास्तधराधराधरा हिमवद्विन्ध्यपयोधरा धरा । द्विरद-
मदमहीसरोजलाजैर्घृतमधुना च हुताशने सगन्धे । प्रणत-
नृपशिरोमणिप्रभाभिर्भवति पुरश्छुरितेव भूर्नृपस्य ।
उक्तं यदुत्तिष्ठति शक्रकेतौ शुभाशुमं सप्तमरीचिरूपैः ।
तज्जन्मयज्ञग्रहशान्तियात्राविवाहकालेष्वपि चिन्तनीयम् ।
गुडपूपपायसाद्यैर्विप्रानभ्यर्च्यदक्षिणाभिश्च । श्रवणेन द्वाद-
स्याम् उपोष्याऽन्यत्र वा श्रवणात् । शक्रकुमार्य्यः
कार्याः प्राह मनुः सप्त पञ्च वा तञ्ज्ञैः । नन्दोपनन्द-
सञ्ज्ञैः पादेनार्धेन चोच्छ्रायान् । षोड़शभागाभ्यधिके
जयविजये द्वे वसुन्धरे चान्ये । अधिका शक्रजनित्री मध्ये
ऽष्टांशेन चैतासाम् । प्रीतैः कृतानि विबुधैर्यानि पुरा
भूषणानि सुरकेतोः । तानि क्रमेण दद्यात् पिटकानि
विचित्ररूपाणि । रक्ताशोकनिकाशं चतुरस्रं विश्वकर्म्मणा
प्रथमम् । रसना स्वयम्भुवा शङ्करेण चानेकवर्णधरी!
अष्टाश्रि नीलरक्तं तृतीयमिन्द्रेण भूषणं दत्तम् । असितं
यमश्चतुर्थं मसूरकं कान्तिमदयच्छत् । मञ्जिष्ठाभं वरुणः
षडश्रि तत्पञ्चमं जलोर्मिनिभम् । मायूरं केयूरं षष्ठं वायु-
र्जलदनीलम् । स्कन्दः स्वं केयूरं सप्तममददद्ध्वजाय
बहुचित्रम् । अष्टममनलज्वालासङ्काशं हव्यभुग्दत्तम् । वैदूर्य-
सदृशमिन्दुर्नवम् ग्रैवेयकं ददावन्यत् । रथचक्राभं दशमं
सूर्यस्त्वष्टा प्रभाचयैर्युक्तम् । एकादशमुद्वंशं विश्वे देवाः सरोज-
सङ्काशम् । द्वादशमपि च निवशं मुनयो नीलोत्पलाभासम् ।
किञ्चिद्घ्वजोर्ध्वनिर्गतमुपरि विशालं त्रयोदशं केतोः ।
शिरसि वृहस्पतिशुक्रौ लाक्षारससन्निभं ददतुः । यद्य-
द्येन विनिर्मितममरेण विभूषणं ध्वजस्यार्थे । तत्तत्तर्द्दैवत्यं
विज्ञातव्यं विपश्चिद्भिः । ध्वजपरिमाणत्र्यंशः परिधिः
प्रथमस्य भवति पिटकस्य । परतः प्रथमात्प्रथमादष्टां-
शाष्टांशहीनानि । कुर्यादहनि चतुर्थे पूरणमिन्द्रध्वजस्य
शास्त्रज्ञः । मनुना चागमगोतान् मन्त्रानेतान् पठेन्नियतः ।
“हरार्कवैवस्वतशक्रसोमैर्धनेशवैश्वानरपाशभृद्भिः । महर्षि-
सिद्धैः सदिगप्सरोभिः शुक्राङ्गिरःस्कन्दमरुद्गणैश्च । यथा
त्वमूर्जस्कर । नैकरूपैः समर्चितस्त्वाभरणैरुदारैः । तथेह
तान्याभरणानि देव! शुभानि सम्प्रीतमना गृहाण । अजो
ऽव्ययः शाश्वत एकरूपो विष्णुर्वराहः पुरुषः पुराणः ।
त्वमन्तकः सर्वहरः कृशानुः सहस्रशीर्षा शतमन्युरीद्ध्यः ।
पृष्ठ ०९४८
कविं सप्तजिह्वं त्रातारं त्वाम् इन्द्रमवितारं सुरेशम् ।
शक्रं वृत्रहणं सुषेणम् अस्माकं वीरा उत्तरे भवन्तु” । प्रपू-
रणे चोच्छ्रयणे प्रवेशे स्नाने तथा माल्यविधौ विसर्गे ।
पठेदिमान्नृपतिः सोपवासो मन्त्राञ्छुभान् पुरुहूतस्य केतोः ।
छत्रध्वजादर्शफलार्धचन्द्रैर्विचित्रमालाकदलीक्षुदण्डैः ।
सव्यालसिंहैः पिटकैर्गवाक्षैरलङ्कृतं दिक्षु च लोकपालैः ।
अच्छिन्नरज्ज्वा दृढकाष्ठमातृकं विश्लिष्टयन्त्रार्गलपादतोरणम् ।
उत्थापयेल्लक्ष्म सहस्रचक्षुषः सारद्रुमाभग्नकुमारिकान्वि-
तम् । अविरतजनरावं भङ्गलाशीःप्रणामैः पटुपटह-
मृदङ्गैः शङ्खभेर्यादिभिश्च । श्रुतिविहितवचोभिः पापठ-
द्भिश्च विप्रैरशुभरहितशब्दं केतुमुत्थापयीत । फलदधि-
घृतलाजाक्षोद्रपुष्पाग्रहस्तैः प्रणिपतितशिरोभिस्तुष्टुवद्भिश्च
पौरैः । धृतमनिमिषभर्तुः केतुमीशः प्रजानाम्
अरिनगरनताग्रं कारयेद्द्विड़्बधाय । नातिद्रुतं न च विलग्वि-
तमप्रकम्प्यम् अन्वस्तमाल्यपिटकादिविभूषणं च । उत्थान-
मिष्टमशुभं यदतो ऽन्यया स्यात् तच्छान्तिभिर्नरपतेः
शमयेत्पुरोधाः । क्रव्यादकौशिककपोतककाककङ्कैः केतु-
स्थितैर्महदुशन्ति भर्य नृपस्य । चाषेण चापि युवराज-
भयं वदन्ति श्येनो विलोचनभयं निपतन् करोति । छत्र-
भङ्गपतने नृपमृत्युस्तस्कराद्वसु करोति निलीनम् । हन्ति
चाप्यथ पुरोहितमुल्का पार्थिवस्य महिषीमशनिश्च । राज्ञो-
विनाशं पतिता पताका करोत्यवृष्टिं पिटकस्य पातः
मध्याग्रभूलेषु च केतुभङ्गो निहन्ति मन्त्रिक्षितिपालपोरान् ।
धूमावृते शिखिभयं तमसा च मोहो व्यालैश्च भग्नपतितैर्न
भवन्त्यमात्याः । ग्लायन्त्युदक्प्रभृति च क्रमशो द्विजाद्या
भङ्गे च वर्द्धकिबधः कथितः कुमार्याः । रज्जूत्सङ्ग-
च्छेदने बालपीडा राज्ञो मातुः पीड़नं मातृकायाः ।
यद्यत्कुर्युर्बालकाश्चारणा वा तत्तत्तादृग्भावि पापं शुभं
वा । दिनचतुष्टयमुत्थितमर्चितं समभिपूज्य नृपोऽहनि
पञ्चमे । प्रकृतिभिः सह लक्ष्म विसर्जयेद् बलभिदः खबला-
भिविवृद्धये । उपरिचरवसुप्रवर्त्तितं नृपतिभिरप्यनु सन्ततं
कृतम् । विधिमिममनुमन्य पार्थिवी न रिपुकृतं भयमाप्नुया-
दिति” ध्वज प्रमाणादि ति० त० कालि० पु० उक्त यथा ।
“अर्ज्जुनोऽप्यश्वकर्णश्च प्रियकोधवएव च । औडुम्बरश्च पञ्चैते
केत्वर्थे सत्तमाः स्मृताः । अन्ये च देवदार्वाद्याः शाला-
द्यास्तरवस्तथा । तञ्च वृक्षं तुदेदात्रौ स्पृष्ट्वा मन्त्रमिमं
पठेत्” । तुदेत् च्छेदयेत् । “यानि वृक्षे तु भूतानि तेभ्यः
स्वस्ति नमोऽस्तु वः । उपहारं गृहीत्वेम क्रियतां वा-
सपर्य्ययः । पार्थिवस्त्वां वरयते स्वस्ति तेऽस्तु नगोत्तम! ।
ध्वजार्थं देवराजस्य पूजेयं प्रतिगृह्यताम्” । ततोऽपरे
ह्नि तं छित्वा मूलमष्टाङ्गुलं पुनः । जले क्षिपेत्तदग्रस्य
च्छित्त्वैवं चतुरङ्गुलम् । ततो नीत्वा पुरद्वारं केतुं
निर्म्माय तत्रैव । शुक्लाष्टम्यां भाद्रपदे केतुं वेदिं प्रवेश-
येत् । द्वाविंशद्धस्तमानस्तु अधमः केतुरुच्यते । द्वात्रिं-
शत्तु ततोज्यायान् द्वाचत्वारिंशदुत्तमः । कुमार्य्यः पञ्च
कर्त्तव्याः शक्रस्य नृपसत्तम! । शालमय्यस्तु ताः सर्वास्त्व-
पराः शक्रमातृकाः । केतोः पादप्रमाणेन कार्य्याः शक्र-
कुमारिकाः । मातृकार्द्धप्रमाणात्तु यन्त्रं हस्तद्वयं तथा ।
एवं कृत्वा कुमारीश्च मातृका केतुमेव च । एकादश्यां
सिते पक्षे यष्टीनामधिवासनम् । अधिवास्य ततोयष्टी
र्गन्धद्वारादिमन्त्रकैः । द्वादश्यां मण्डलं कृत्वा वासवं
विस्तृतात्मकम् । अच्युतं पूजयित्वादौ शक्रं पश्चात्
प्रपूजयेत् । शक्रस्य प्रतिमां कुर्य्यात् कानकीं दारवीं तथा”
कानकीं कनकमयीम् “अन्यतैजसभूतां वा सर्वाभावे तु मृण्म-
यीम् । तां मण्डलस्य मध्ये तु पूजयित्वा विशेषतः ।
ततः शुभे मुहूर्त्ते तु केतुमुत्थापरेन्नृपः । “वज्रहस्त!
सुरारिघ्न! बहुनेत्र! पुरन्दर! । क्षेकार्थं सर्वलोकानां
पूजेयं प्रतिगृह्यताम् । एह्येहिसर्वामरसिद्धसङ्घैरभिष्टु-
तोबज्रधरामरेश! । समुत्थितस्त्वं श्रवणाद्यपादे गृहाण
पूजां भगवन्नमस्ते” । इति मन्त्रेण तन्त्रेण नानानैवेद्यव-
न्दनैः । घटेषु दश दिक्पालान् ग्रहांश्च परिपूजयेत् ।
साध्यादीन् सकलान् देवान् मातॄः सर्वास्त्वनुक्रमात् ।
ततः शुभे मुहूर्त्ते तु ज्ञानिवर्द्धकिसंयुतः । केतूपत्थानभू-
मिन्तु यज्ञवेद्यास्तु पश्चिमे । विप्रैः षुरोहितैः सार्द्धं
गच्छेद्राजा सुमङ्गलैः । रज्जुभिः पञ्चभिर्बद्धं यन्त्रश्लिष्टं
समातृकम् । कुमारीभिश्च सयुक्तं दिक्पालानाञ्च
पट्टकैः । यथावर्णैर्यथादेशैर्योजितैर्वस्त्रवेष्टितैः । युतं तं
किङ्किणीजालैर्वृहद्घण्टाढ्यचामरैः । चित्रमाल्याम्वरे-
श्चापि चतुर्भिःपरितोरणैः । उत्थापयेन्महाकेतुं राजा
मात्यैः शनैः शनैः । प्रतिमां तां नयेन्मूल केतोः शक्रं
विचिन्तयन् । यजेत्तु पूर्बवत्तत्र शचीं मातलिमेव च ।
जयन्तं तनयं तस्य वज्रमैरावतं तथा । ग्रहांश्चार्भ्यच्य
दिक्पालान् सर्वाश्च गणदेवताः । पूजितानाञ्च देवानां
शश्वद्धोमं समाचरेत् । होमान्तेतु बलिं दद्यात् वासवाय
महात्मने । तिलं घृतं चाक्षतञ्च पुष्पं दूर्व्वां तथैव च ।
एतैस्तु जुहुयादेतान् स्वैः स्वैर्मन्त्रैर्नरोत्तमः । ततोहो-
पृष्ठ ०९४९
मावसाने तु ब्राह्मणानपि भोजयेत् । एवं प्रपूजयेन्नित्य
सप्तरात्रं दिने दिने । त्रातारमिति मन्त्रोऽय वासवस्य
परः प्रियः । एवं कृत्वा दिवाभागे शक्रोत्थापनमादितः ।
श्रवणर्क्षयुतायाञ्च द्वादश्यां पार्थिवः स्वयम् । अन्तपादे
भरण्यास्त निशि शक्रं विसर्जयेत् । सुप्तेषु सर्वलोकेषु
यथा राजा न पश्यति । “सार्द्धं सुरासुरगणैः पुरन्दर!
शतक्रतो! । उपहारं गृहीत्वेमं महेन्द्रध्वज गम्यताम्”
उत्पाते सप्तरात्राणि तथोपप्लवदर्शने । व्यतीत्य
शनिभौमौ च अन्यर्क्षेऽपि विसर्जयेत् । यस्मिन्कस्मिन् दिने
चैव सूतकान्ते विसर्जयेत् । तथा रक्षेन्नृपः केतुं न पते
च्छकुनिर्यथा । शनैः शनैः पातयेत्तं यथोत्थापनमादितः ।
विसृष्टं शक्रकेतुं तं सालङ्कार तथा निशि । क्षिपेदनेन
मन्त्रेण अगाधे सलिले नृपः । “तिष्ठ केतो! महाभाग!
यावत्संवत्सरं जले । भवाय सर्वलोकानामन्तराय-
विनाशक!” । उत्थापयेत्तूर्य्यरवैः सर्वलोकस्य वै पुरः । एवं
यः कुरुते पूजां वासवस्य महात्मनः । न तस्य राज्ये दुर्भिक्षं
नतयो नाप्यधर्मकृत्” । “इन्द्रध्वजसमुत्थान प्रमादान्न
कृतं यदि । तदा द्वादशमे वर्षे कर्त्तव्यं नान्तरा पुनः”
ति० त० भविष्य० । पञ्चमाष्टमदिनयोर्विसर्जने शक्त्यपेक्षया
व्यवस्था । इन्द्रकेतुशक्रध्यजादयोऽप्यत्र ।

इन्द्रनक्षत्र न० । इन्द्रस्वामिकं नक्षत्रम् । १ ज्येष्ठानक्षत्रे तस्य

तत्स्वामिकत्वात् तथात्वम् । अश्लेषाशब्दे ४९९ पृष्ठे नक्षत्रे-
श्वरा उक्ताः । इन्द्रनामकं नक्षत्रम् । २ फल्गुनीनक्षत्रे च ।
फल्गुनीनक्षत्रस्य इन्द्रनामकत्वमाह शत० ब्रा० २, १,
२, ११ । यथा “फल्गुनीष्वग्नी आदधीत । एता वा इन्द्र-
नक्षत्रं यत्फल्गुन्योऽप्यस्य प्रतिनाम्न्योऽर्ज्जुनोहवै नामेन्द्रो-
यदस्य गुह्यं नामार्ज्जुन्योवैनामैतास्त्वा एतत् परोक्षमाच-
क्षते फल्गुन्य इति कोऽह्येतस्या गुह्यं नाम ग्रहीतुम्
इन्द्रोवै यजमानस्तत्तस्य एवैतन्नक्षत्रे अग्नी आधत्ते”

इन्द्रनेत्र न० ६ त० । १ शक्रनेत्रे २ सहस्रसंख्यायाञ्च ।

इन्द्रनील पु० इन्द्रैव नीलः श्यामः । (पान्ना) इति

ख्याते जरकतमतमणौ” तल्लक्षणमुक्तं रत्नपरीक्षायाम्
“क्षीरमध्ये क्षिपेन्नीलं क्षीरञ्चेन्नीलतां व्रजेत् । इन्द्रनील
इति ख्यातः सर्व्वरत्नोत्तमोत्तमः” । अस्य नीलवर्णत्वं च
रघौ गङ्गायमुनासंगमे यमुनासादृश्याय वर्ण्णितम् यथा
“कचित् प्रभालेपिमिरिन्द्रनीलैर्मुक्तामयी यष्टिरिवानुविद्धा
अन्यत्र माला सितपङ्कजानामिन्दीवरैरुत्खचितान्तरेव”
“प्राप्येन्द्रनीलं किमुतोन्मयूखम्” रघुः । “एकं मुक्तागुण-
मिव भुवः स्थूलमध्येन्द्रनीलम्” “पेशलैरिन्द्रनीलैः” मेघदू० ।
अस्य हिंहलद्वीपसम्भवत्वे महानीलसंज्ञा यथा हि “महा-
महानीलशिलारुवः पुरः” माघव्याख्यायां मल्लिनाथेन
“सिंहहास्याकरोद्भूता महानीलास्तु ते स्मृताः” इति
अगस्त्यवाक्यं प्रमाणतयोपन्यस्तम् । “वापीष्वन्तर्महानीलद-
लासु” माघः वाख्याने तेन तथेवोक्तम् ।

इन्द्रपत्नी स्त्री ६ त० । १ पुलोमजायां शच्याम् । “उताहमस्मि-

वीरिणीन्द्रपत्नी मरुत् सखा विश्वस्मादिन्द्र उत्तरः” ऋ०
१०८६, ९ । इन्द्रस्य पतिः पालयित्री “सपूर्व्वाच्चेति” पा०
ङीप् नुक् च । २ इन्द्रपालयित्रीषु इड़ादिषु त्रिसृसु देवीषु
च “होता यक्षत्तिस्रोदेवीर्न भेषजं त्रयस्त्रिधातवोऽपस
इडासरस्वती मारती महीः । इन्द्रपत्नीर्हविष्मतीः” यजु०
२८, ८ । “इन्द्रपत्नीः इन्द्रस्य पालयित्र्यः, वेददी० शची
तु शुक्रग्रहस्य प्रत्यधिदेवता “शवी प्रत्यधिदैवतमिति शुक्र-
ध्यानम् । विवाहादौ पूजनीयषोड़शमातृकान्तर्गता च ।

इन्द्रपर्ण्णी स्त्री इन्द्र इव लीलं पर्ण्णमस्याः जातित्वात् ङीय् ।

ओषधिभेदे । “कालानुसार्य्यगुरुकोचमुञ्जारास्नाशीत
शिवेन्द्रपर्ण्ण्यः” सुश्रु० ।

इन्द्रपर्व्वत पु० इन्द्रनामकः पर्व्वतः । १ महेन्द्रपर्व्वते इन्द्रवर्णः

पर्व्वतः । २ नीलवर्णे गिरिभेदे “वैदेहस्थस्तु कौन्तेय इन्द्र-
पर्व्वतवासिनः । किरातानामधिपतीनजयत् सप्त
पाण्डवः” भा० स० २८ अ० ।

इन्द्रपुत्रा स्त्री इन्द्रः पुत्रो यस्याः । अदित्याम् । तस्या इन्द्र-

जननीत्वात् तथात्वम् ।

इन्द्रपुष्पी स्त्री इन्द्र इव नीलं पुष्पमस्याः जातित्वात् ङीप् ।

(विषलाङ्गला) जाङ्गलीवृक्षे । “अर्कालर्ककरञ्जद्वयनागदन्ती-
मयूरकभार्गीरास्नेन्द्रपुष्पीक्षुद्रश्वेतेत्यादि” सुश्रुतः । वा कपि
अतैत्त्वे इन्द्रपुष्पिकाप्यत्र

इन्द्रपुरोहित पु० ७ त० । सुराचार्य्ये वृहस्पतौ

इन्द्रप्रमति पु० ऋग्वेदाध्ययनार्थं व्यासेन शिष्यत्वेन गृहीतस्य

पैलस्य ऋषेः शिष्यभेदे । “प्रथमं व्यासशिष्यस्तु पैल
ऋग्वेदपादपम् । इन्द्रप्रमतये प्रादात् विभज्य पञ्च संहिताः”
अग्नि पु० । “एकैकां संहितां ब्रह्मन् एकैकस्मै ददौ विभुः ।
पैलाय संहितामाद्यां वह्वृचाख्यामुवाच ह” । इत्युपक्रम्य
“पैलः स्वसंहितामूचे इन्द्रप्रमतये मुनिः” भाग० १२ स्क० ६ अ०

इन्द्रप्रस्थ न० इन्द्रस्य इन्द्रस्थानभेरोः प्रस्थैव (दिल्लीति)

ख्याते पुरे । “इन्द्रप्रस्थगमस्तावत् कारि मा सन्तु चेदयः”
माघः । “इन्द्रप्रस्थं कृकप्रस्थं माकन्दं वारणावतम् । इति
पृष्ठ ०९५०
मे चतुरोग्रामान्कञ्चिदेकञ्च पञ्चमम्” वेणी० खाण्डव-
प्रस्थे युधिष्ठिरेण यदभिनवपुरं निर्म्पितं तदिन्द्रप्रस्थतया
विख्यातम् । तदेतत् भारते आ० २०६ अ० वर्ण्णितम् ।
“प्रतिगृह्यतुतद्घाक्यं नृप सर्व्वेप्रणम्य च । प्रतस्थिरे ततो
घोरं वनं तन्मनुजर्षभाः । अर्द्धं राज्यस्य सम्प्राप्य खाण्ड-
वप्रस्थमाविशन् । ततस्ते पाण्डवास्तत्र गत्वा कृष्णपुरो-
गमाः । मण्डयाञ्चक्रिरे तद्वै पुरं स्वर्ग्गवदच्युताः । ततः
पुण्ये शिवे देशे शान्तिं कृत्वा महारथाः । नगरं
मापमासुर्द्वैपायनपुरोगमाः । सागरपतिरूपाभिः परिखाभिर-
लङ्कृतम् । प्राकारेण च सम्पन्नं दिवमावृत्य तिष्ठता ।
पाण्डुराभ्रप्रकाशेन सोमरश्मिनिभेन च । शुशुभे तत्पुर-
श्रेष्ठं नागैर्भोगवती यथा । द्विपक्षगरुड़प्रख्यैर्द्वारैः
सौधैश्च शोभितम् । गुप्तमभ्रचयप्रख्यै र्गोपुरैर्म्मन्दरोपमैः ।
विविधैरपि निर्व्विद्यै शस्त्रोपेतैः सुसवृतैः । शक्तिभिश्चावृतं
तद्धि द्विजिह्वैरिव पन्नगैः । तल्पैश्चाभ्यासिकैर्युक्तं शुशुभे
योघरक्षितम् । तीक्ष्णाङ्कुशशतघ्नीभिर्यन्त्रजालैश्च शोभि-
तम् । विरोचमानं विविधैः पाण्डरैर्भवनोत्तमैः । तत्त्रि-
पिष्टपसङ्काशमिन्द्रप्रस्थं व्यरोचत । मेघवृन्दमिवाकाशे
विद्धं विद्युत्सभागृहम् । तत्र रम्ये शिवे देशे कौरवस्य
निवेशनम् । शुशुभे धनसम्यूर्णं धनाध्यक्षक्षयोपमम्” “एवं
सम्प्राप्य राज्यन्तदिन्द्रप्रस्थं तपोधन!” तत्र २०७ अ० ।

इन्द्रप्रहरण न० ६ त० । वज्रास्त्रे तच्च दधीचोमुनेरस्थि-

निर्म्मितं तत्कथ अशनि शब्दे ४६४ पृ० उक्ता ।

इन्द्रभूति पु० हेमचन्द्रोक्ते गौतमगोत्रजे जिनभेदे ।

इन्द्रभेषज न० इन्द्रेण प्रकाशितं भेषजम् । शुण्ठ्यां शब्दरत्ना० ।

इन्द्रमख पु० इन्द्रस्य तत्पूजार्थोमखः । वर्षादौ शक्रतोषार्थे

यज्ञभेदे । स च मखःनन्दादिभिः प्रवर्त्तितः कृष्णेन
निवर्त्तितश्च तत्र तत्करणे नन्देभ हेतुरुक्तः भा० १०
स्क० २३ अ० “पर्जन्यो भगवानिन्द्रो मेघास्तस्यात्ममूर्त्तयः
तेऽभिवर्षन्ति भूतानां प्रोणनं जीवनं पयः । तं तात!
वयमन्ये च वार्मुचां पतिमीश्वरम् । द्रव्यैस्तद्रेतसा-
सिद्धैर्यजन्ते क्रतुभिर्नराः तच्छेषेणोपजीवन्ति त्रिवर्गफल
हेतवे । पुंसां पुरुषकाराणां पर्ज्जन्यः फलभावनः”
इति नन्देनोक्ते कृष्णेन तन्मखनिवारणेन गोवर्द्धनमखस्य
प्रवर्त्तनं कृतम् तदपितत्रैवोक्तं यथा “सत्वं रजस्तमैति
स्थित्युत्पत्त्यन्तहेतवः । रजसोत्पद्यते विश्वमन्योन्यं
विविधं जगत् । रजसा नोदितामेघा वर्षन्त्यम्बूनि सर्व्वतः
प्रजास्तेरेव सिद्ध्यन्ति किं महेन्द्रः करिव्यति न नः
पुरोजनपदा न ग्रामा न गृहा वयम् । वनौकसस्तात!
नित्यं वनशैलनिवासिनः । तस्माद्गवां ब्राह्मणानामद्रेश्चार-
भ्यतां मखः । यैन्द्रमखसम्भरास्तैरयं साध्यतां मखः” ।
भाग० १० स्क० २४ अ० । अधिकं गोवर्द्धनधरशब्दे
वक्ष्यते । “मया तेऽकारि मघवन्! मखभङ्गोऽनुगृह्णता ।
मदनुस्मृतयोनित्यं मत्तस्येन्द्रश्रिया भृशमिति” २७ अ० ।

इन्द्रमह पु० इन्द्रस्य सन्तोषार्थोमहः । इन्द्रसन्तोषार्थे वर्षादौ

कर्त्तव्ये उत्सवभेदे । इन्द्रस्य महोयत्र । वर्षाशरत्कालयोः ।
इन्द्रोत्सव शक्रोत्सवादयोऽप्युभयत्र ।

इन्द्रमहकामुक पु० इन्द्रमहे वर्षादिकाले कामुकः काम

यिता । कुक्वुरे वर्षादाबेव तेषां व्यवायधर्म्मोलोकप्रसिद्धः ।

इन्द्रमार्ग पु० इन्द्रलोकप्राप्त्यर्थोमार्गः । वदरीपाचनसन्नि-

कृष्टस्थे तीर्थभेदे । “वदरीपाचनं गच्छेद्वसिष्ठस्याश्रमं गतः”
इत्युपक्रम्य “इन्द्रमार्गं समासाद्य तीर्थसेवी नराधिपः! ।
अहोरात्रोपवासेन शक्रलोके महीयते” भा० व०
८३ अ० । तच्च जलमयं तीर्य्यम् “देविकामिन्द्रमार्गञ्च
स्वर्गविन्दु विगाह्य च । सप्तगङ्गे त्रिगङ्गे च इन्द्रमार्गे च
तर्पयन्” भा० व० २५ अ० तत्र अवगाहनतर्पणोक्तेः ।

इन्द्रयव न० पु० इन्द्रस्य कुटजवृक्षस्य यवाकृतिवीजत्वात् यव

इव वीजम् । कुटजवृक्षस्य यवाकारे तिक्तरसे वीजे स्वनाम
ख्याते । “ऐन्द्रोयवस्त्रिदोषघ्नः संग्राही कटुशीतलः ।
ज्वरातिसाररक्तार्शःकृभिवीसर्पकुष्ठनुत् । दीपनो
गुदकीलास्रवातास्रश्लेष्मशूलजित्” भावप्र० ।

इन्द्रलाजी स्त्री इन्द्रस्य कुटजस्य लाजाइव लाजायस्याजातत्वात्

ङीप् । ओषधिभेदे ततः कुर्वा० ण्य । ऐन्द्रलाज्यस्तद्भवे त्रि०

इन्द्रलुप्त न० इन्द्र इन्द्रवर्ण्णोनीलः केशो लुप्तोयस्मात् ।

केशनाशके (टाक) ख्याते रोगभेदे । तन्निदानादि “रोम-
कूपानुगं रक्तं पित्तेन सह मूर्च्छितम् । प्रच्यावयति रोमाणि
ततः श्लेष्मा सशोणितः । रुणद्धि रोमकूपास्तु ततोऽन्येषा
ससम्भवः । तदिन्द्रलुप्तं खालत्यं रुज्येति च विभाव्यते”
निदा० उक्तम् । निदानटीकाकृता तु इन्द्रलुप्तं श्मश्रुणि
भवति । खालत्यं शिरोरुहेष्व व रुज्या सवेदनेति तेषां
भेद उक्तः । वा कप् । इन्द्रलुप्तकं तत्रैवार्थे ।

इन्द्रलोक पु० इन्द्रस्य लोकः भोगभूमिः । अमरावती-

नामपुरीयुक्तेस्वर्गस्थानभेदे तत्स्थानममरावतीशब्दे ३२०
पृष्ठे उक्तं तत्स्वरूपप्राप्तिकारणादिकमुक्तं काशी० । "लोके-
ऽत्र रमते विप्र! सहस्राक्षः, पुरी त्वियम् । तपोबलेन
महता विहिता विश्वकर्मणा । दिवापि कौमुदी यस्यां
पृष्ठ ०९५१
सौधश्रेणीश्रियम् श्रयेत् । यदा कलानिधिः क्वापि दर्शेऽ
दृश्यत्वमावहेत् । तदा स्वश्रेयसीं ज्योत्स्नां सौधेष्वेषु-
निगूहयेत् । यदच्छभित्तौ वीक्ष्य स्वमन्ययोषिद्विशङ्किता ।
मुग्धा नाशु विशेच्चित्रमपि स्वां चित्रशालिकाम् । हर्म्येषु
नीलमणिभिनि र्मितेष्वत्र निर्भयम् । स्वनीलिमानमाधाय
तमोऽहःस्वपि तिष्ठति । चन्द्रकान्तशिलाजालस्रुतमात्रा-
मलं जलम् । तत्र चादाय कलसैर्नेच्छन्त्यन्यज्जलं जनाः ।
कुविन्दा न च सन्त्यत्र न चात्र पश्यतोहराः । चेलान्यलङ्कृ-
तान्यत्र यतः कल्पद्रुमार्पणात् । गणका नात्र विद्यन्ते
चिन्ताविद्याविशारदाः । यतश्छिनत्ति सर्वेषां चिन्तां चिन्ता-
मणिर्द्रुतम् । सूपकारा न सन्त्यत्र रसपाकविचक्षणाः ।
दुग्धे सर्वरसानेका कामधेनुरतोऽनिशम् । कीर्त्तिरुच्चैःश्रवा-
यस्य सर्वतो वाजिराजिषु । रत्नमुच्चैःश्रवाः सोऽत्र
हयानां पौरुषाधिकः । ऐरावतो दन्तिवरश्चतुदेन्तोऽत्र
राजते । द्वितीय इव कैलासोजङ्गमः स्फटिकोज्ज्वलः ।
तरुरत्नं पारिजातः स्त्रीरत्नं चोर्वशी त्विह । नन्दनं
वनरत्नं च रत्नं मन्दाकिनी ह्यपाम् । त्रयस्त्रिंशत् सुराणां या
कोटिः श्रुतिसमीरिता । प्रतीक्षते सावसरं सेवायै प्रत्यहं
त्विह । स्वर्गेष्विन्द्रपदादन्यन्न विशिष्येत किञ्चन । यद्यत्त्रि
लोक्यामेश्वर्य्यं न च तुल्यमनेन हि । अश्वमेधसहस्रस्य
लभ्यं विनिमयेन यत् । किन्तेन तुल्यमन्यत् स्यात् पवित्र-
मथवा महत् । अर्च्चिस्मती संयमनी पुण्यवत्यनिलावती ।
गन्धवत्यलकैशी च नैतत्तुल्या महर्द्धिभिः । अयमेव
सहस्राक्षस्त्वयमेव दिवस्पतिः । शतमन्युरयं देवोनामान्ये-
तानि नामतः । सप्तापि लोकपाला ये तएनं समुपासते ।
नारदाद्यैर्मुनिवरैरयमाशीर्भिरिज्यते । एतत्स्थैर्य्येण
सर्वेषां लोकानां स्थैर्य्यमिष्यते । पराजयान्महेन्द्रस्य र्त्र-
लोक्यं स्यात् पराजितम् । दनुजा मनुजादैत्यास्तपस्यन्त्यु
ग्रसंयमाः । गन्धर्वयक्षरक्षांसि माहेन्द्रपदलिप्सवः ।
सगराद्यामहीपालावाजिमेधविधायकाः । कृतवन्तो
महायत्नं शक्रैश्वर्य्यजिघृक्षवः । निष्प्रत्यूहं क्रतुशतं यः
कश्चित् कुरुतेऽवनौ । जितेन्द्रियोऽमरावत्यां स प्राप्नोति
पुलोमजाम् । असमाप्तक्रतुशता वसन्त्यत्र महीभुजः ।
ज्योतिष्टोमादिभिर्यागैर्ये यजन्त्यपि ते द्विजाः । तुलापुरु-
षदानादि महादानानि षोड़श । ये यच्छन्त्यमलात्मा-
नस्तेलभन्तेऽमरावतीम् । अक्लीववादिनोवीराः संग्रामेष्व-
पलायिनः । विश्रान्तावीरशयने तेऽत्र तिष्ठन्ति भूभुजः
इत्यद्देशात् समाख्याता महेन्द्रनगरीस्थितिः । यायजू-
कावसन्त्यत्र यज्ञविद्याविशारदाः” १० अ० । “अतिथि-
स्त्विन्द्रलोकेशः” इति मनुना अतिथिपरिचर्य्याभिरपि
तत्प्राप्तिरुक्ता । एवं राजसूययज्ञेनापि तत्प्राप्तिः
भा० स० उक्ता । शक्रलोकादयोऽप्यत्र

इन्द्रवंशा स्त्री “स्यादिन्द्रबंशा ततजैरसंयुतैः” वृत्त० र०

उक्ते द्वादशाक्षरपादके वर्णवृत्तभेदे ।

इन्द्रवज्रा स्त्री “स्यादिन्द्रवज्रा यदि तौ जगौ गः” वृत्त० र०

उक्ते एकादशाक्षरपादके वर्ण्णवृत्तभेदे ।

इन्द्रवल्ली स्त्री इन्द्रप्रिया वल्ली शाक० त० । १ पारिजातलतायाम्

“सोमवल्लीमिन्द्रवल्लीं शमीं विश्वस्य कण्टकान्” मश्रु० ।
(राखालससा) २ इन्द्रवारुण्यां लतायाञ्च इन्द्रवल्लरीत्यम्यत्र ।

इन्द्रवस्ति पु० इन्द्रस्यात्मनो वस्तिरिव । जङ्घामध्यभागे । “इन्द्र-

वस्तिपरिणाहांसपीठकूर्परान्तरायाम षोड़शाङ्गुलः”
सक्खिमर्म्माणि । क्षिप्रतलह्{ऋदयकूर्च?कूर्चशिरोगुल्फन्द्रवस्ति-
जात्वुर्वीलोहिताक्षाणि विटपञ्चेति” विभज्य “पार्ष्णिं
प्रति जङ्घामध्य इन्द्रवस्तिर्नाम तत्र शोणितक्षये मरणम्”
इति च सुश्रु० । अतोऽस्य जीववसतितुल्यत्वात्तथात्वम् ।

इन्द्रवारुणी स्त्री इन्द्रस्यात्मनोवारुणीव प्रिया (राखालससा)

तिक्तरसायां श्वेतमूलायां पीतपुष्पायां लतायाम् । स्वार्थ
कन् । इन्द्रवारुणिकापि अत्रैवार्थे ।

इन्द्रवीज न० इन्द्रस्य कुटजस्य वीजम् । इन्द्रयवे । “चव्ये-

न्द्रवीजं त्रिफलासर्पिर्मासरसाम्बुभिः” सुश्रु० ।

इन्द्रवृक्ष पु० ६ त० देवदारुवृक्षे जटाधरः । तस्य इन्द्र वजहेतु-

त्वात्तथात्वम् । तस्येन्द्रध्वज साधनत्वञ्चन्द्रध्वजशब्दं उक्तम् ।

इन्द्रवृद्धा स्त्री “अथातः क्षुद्ररोगान् व्याख्यास्याम इत्यु-

पक्रम्य । “बल्मीकमिन्द्रवृद्धेत्यादि विभज्य” । “पद्मपुष्-
करवन्मध्ये पिड़्काभिः समाचिताम् । इन्द्रवृद्धान्तु तां
विद्याद्वातपित्तोत्थितां भिषक्” सुश्रुतोक्तलक्षणे क्षुद्ररो-
गभेदे । “विवृतामिन्द्रवृद्धाञ्च गर्द्दभीं जालगर्हभम् ।
इरिविल्लां गन्घनाम्नीं कक्षां विस्फोटकांस्तथा । पित्तजस्य
विसर्पस्य क्रियया साधयेत् भिषक्” इति सुश्रु०

इन्द्रव्रत न० इन्द्रस्येव, वर्षणे व्रतम् । “वार्षिकांश्चतुरो मासान्

यथेन्द्रोऽप्यभिवर्षति । तथाभिवर्षेत् स्वं राष्ट्रं कामैरिन्द्र
व्रतं चरन्” इति स्मृत्युक्ते प्रजापालने राज्ञोव्रतभेदे ।

इन्द्रशत्रु पु० इन्द्रः शत्रुः शातयिता यस्य । वृत्रासुरे । वृत्ता-

सुरस्य तथात्वमुक्तम् यथा “स त्वष्टा चुक्रोध । कुविन्मेऽनुप-
हूतः सोसमभक्षदिति स स्वयमेव यज्ञवैशसं चक्रे सयोद्रोण-
कलसे शुक्रः परिशिष्ट आ शतं प्रवत्तता चकारेन्द्रशत्रु-
पृष्ठ ०९५२
र्वर्धस्वेति सोऽग्निमेव प्राप्य सम्वभूवान्तरैव सम्बभूवेत्युहैके
प्राहुः अग्नीषोमावेवाभि सम्बभूव सर्वाविद्याः सर्वं यशः
सर्वमन्नाद्यं सर्वां श्रीम् । स यद्वर्तमानः समभवत् । तस्मा-
द्वृत्रोऽथ यदपात् समभवत्तस्मादहिस्तं दनुश्च दनायुश्च ।
मातेव च पितेव च परिजगृहतुस्तस्माद्दानव इत्याहुः अध
यदव्रवीदिन्द्रशत्रुर्वर्धस्वेति तस्मादुहैनमिन्द्र एव
जघानाथ यद्ध शश्वदवक्ष्यदिन्द्रस्य शत्रुर्वर्धरति शश्वदु ह स
एवेन्द्रमहनिष्यत्” शत० ब्रा० १, ६, ३, ८, ९, १०, “इन्द्रशत्रु-
रिति पूर्वपदोदात्ततयेन्द्रः शत्रुर्यस्येति वहुव्रीहिसमासं
कृत्वा मन्त्रं प्रयुक्तव नतस्तमिन्द्रो जघान । यद्यसौ अन्त्यो-
दात्ततया तत्पुरुषसममासेनं, इन्द्रस्य शत्रुरिति व्यस्तनि-
र्देशेनवा ब्रूयात्तदानिश्चितमेव स इन्द्रं हन्यात्” इति मा०
भा० तथा च षष्ठीतत्पुरुषेऽन्तोदात्तस्वरः तथात्वे इन्द्रस्य
शत्रुरित्यर्थके भवेत् बहुव्रीहौ तु पूर्वपदस्वरतेति तथा तेन
प्रयोगात् तमेव इन्द्रोजघान “अतएव वेदे स्वरहीनतयोच्चा-
रणे यजमानस्यानिष्टं फलं भवति यथोक्तं शिक्षयायाम् ।
“मन्त्रोहीनः स्वरतो वर्णतो वा मिथ्याप्रयुक्तो न तमर्थ-
माहः स वाग्वज्रो यजमानं हिंनस्ति यथेन्द्रशत्रुः
स्वरतोऽपराधात्” । उक्तश्रुत्यनुसारिणी कथा भाग० यथा
त्वष्टः पुत्रस्य विश्वरूप गुणादिकमुपवर्ण्य “तस्यासन्
विश्वरूपस्य शिरांसि त्रीणि भारत । सोमपीथं सुरा
पीथमन्नादमिति शुश्रुम । सर्वे बर्हिषि देवेभ्यो भागं
प्रत्यक्षमुच्चकैः । अवदद्यस्य पितरो देवाः सप्रश्रय नृप! ।
स एव हि ददौ भागं परोक्षमसुरान् प्रति । यजमानो
ऽवहद्भार्ग मातृस्नेहवशानुगः । तद्देवहेलनं तस्य धर्मा-
नीक सुरेश्वरः । आलक्ष्य तरसा भीतस्तच्छीर्षाण्यच्छिन
द्रुषा । सोमपीथं तु यत्तस्यशिर आसीत् कपिञ्जलः ।
कलविङ्कः सुरापीथमन्नादंयत् स तित्तिरिः । ब्रह्महत्या-
मञ्जलिना जग्राहयदपीश्वरः । संवत्सरान्ते तदघं भूतानां
म विशुद्धये । भूम्यम्बुद्रुमयोषिद्भ्यश्चतुर्द्धा व्यभजद्धरिः ।
भूमिस्तुरीयं जग्राह खातपूरवरेण वै । ईरिणं ब्रह्महत्या-
या रूपं भूमौ प्रदृश्यते । तुर्य्यं छेदविरोहेण वरेण जगृहु-
र्द्रुमाः । तेषां निर्यासरूपेण ब्रह्महत्या प्रदृश्यते । शश्वत्
कामवरेणांहस्तुरीयं जगृहुः स्त्रियः । रजोरूपेण तास्व-
होमासिमासि प्रदृश्यते । द्रवमूयोवरेणापस्तुरायं जगृहु-
र्म्मलम् । तासु बुद्बुदफेनाभ्यां दृष्टं तद्धरति क्षिपन् ।
हतपुत्रस्ततस्त्रष्टा जुहावेन्द्राय शत्रवे । इन्द्रशत्रुर्विवर्द्धस्व
मा चिरं जहि विद्विपम् । अथान्वाहार्य्यपचनादुत्थिती
घोरदर्शनः । कृतान्त इव लोकानां युगान्तसमयो यथा,
विष्वग्विवर्द्धमानं तमिषुमात्रं दिने दिने । दग्धशैल-
प्रतीकाशं सन्ध्याभ्रानीकवर्च्चसम् । तप्तताम्रशिखाश्मश्रुं
मध्याह्नार्कोग्रलोचनम् । देदीप्यमाने त्रिशिखे शूल
आरोप्य रोदसी । नृत्यन्तमुल्वदन्तञ्च चालयन्तं पदा महीम् ।
दरीगम्भीरवक्त्रेण पिबता च नभस्तलम् । लिहता जिह्वय-
र्क्षाणि ग्रसता भुवनत्रयम् । महता रौद्रदंष्ट्रेण जृम्भमाणं
मुहुर्मुहुः । वित्रस्तादुद्रुवुर्लोका वीक्ष्य सर्वे दिशो दश ।
येनावृता इये लोकास्तपसा त्वाष्ट्रमूर्त्तिना । स वै वृत्र
इति प्रोक्तः पापः परमदारुणः भा० ६ स्क० ८ अ० । ततः
“सैन्द्रशत्रः कुपितोभृशं तया महेन्द्रवाहुं गदयोग्रवि-
क्रम इति” तयोर्युद्धमभिधाय “भित्त्वा वज्रेण तत्कक्षिं निष्-
क्रम्य बलभिद्रुषा । उच्चकर्त्त शिरः शत्रोर्ग्गिरिशृङ्गमिवो-
न्नतम्” भाग० ६ स्क० १० अ० इन्द्रेण तस्य इननं वर्णितम् ।

इन्द्रशलभ पु० इन्द्रजातः वर्षाकालजातः शलभः । इन्द्रगोपे ।

इन्द्रसारथि पु० ६ त० । इन्द्रस्य सारथौ मातलौ ।

इन्द्रसावर्णि पु० चतुर्द्दशे मनौ । “मनुर्वा इन्द्रसावर्णिश्चतु-

र्द्दशमएष्यति । उरुगम्बरव्रध्नाद्या इन्द्रसावर्णिवीर्य्यजाः ।
पवित्राश्चाक्षुषा देवाः शुचिरिन्द्रो भविष्यति । अग्नि
बाहुः शुचिः शुक्रो मान्धाताद्यास्तपस्विनः । सत्रायणस्य
तनयो वृहद्भानुस्तदा हरिः । विनतायां महाराज! क्रिया-
तन्तून् वितायिता” भा० ८ स्क० १३ अ० । हरिवंशे तु “भूत्या-
ञ्चोत्पादितो देव्यां भौत्योनाम रुचेःसुतः” इति भौत्योत्पत्ति
मुक्त्वा “चतुर्द्दशेऽथ पर्याये भौत्यस्यैवान्तरे मनोः । अग्नीध्नः
कश्यपश्चैव पौलस्त्योगार्गवस्तथा । भार्गवह्यश्चिग्निबहु
शुचिराङ्गिरसस्तथा । युक्तश्चैव तथात्रेयः शुक्रोवासिष्ठ एव
च । अजितः पौलहश्चैव मान्याः सप्तर्षयश्च ते इति” चोक्त्वा
“देवतानां गणाः प्रोक्ताः पञ्च वै भरतर्षभ । तरङ्गमीरु
र्वप्रश्च तरआनुग्रएव च । अभिमानी प्रवीणश्च श्रुतः
संक्रन्दनस्तथा । तेजस्वी सरणश्चैव भीत्यस्येते मनोः सुता ।
भौत्यस्यैवाधिकारे तु पूर्णेकल्पस्तु पूर्य्यते” । अग्निपु० च
“मनुश्चतुर्द्दशो भौत्यः शुचिरिन्द्रो भविष्यति । चाक्षुषाद्याः
सुरगणा अग्निबाह्वादयो द्विजाः । चतुदर्शस्य भौत्यस्य
पुत्रा उरुमुखा मनोः” इत्युक्तं तेन नामभेदविरोधः
कल्पभेदात् समाधेयः ।

इन्द्रसुत पु० ६ त० । १ जयन्ते, २ मध्यमपाण्डवे पार्थे, ३ अर्जुन

वृक्षे, ४ वालिनामके वानरे च । इन्द्रषुत्रादयोऽप्यत्र

इन्द्रसुरस पु० इन्द्रः कुटजवृक्ष इव सुरसः पथ्यरसः । (निसिन्दा)

सिन्धवारे । अमरे इन्द्रसुरिसेति पाठान्तरे पृ० । तत्रैव
पृष्ठ ०९५३

इन्द्रसुरा स्त्री इन्द्रस्यात्मनः सुरेव प्रिया । (राखालससा) इन्द्र-

वारुण्याम् राजनि० “वार्त्ताकुशिम्बीन्द्रसुरापटोलेत्यादि”
सुश्रु० । “गुडुचीन्द्रसुरा कृष्णा कुष्ठसर्षपनागरैः । तैलमेभिः
शनैः पक्वं सुरास्नादिरसाप्लुतम्” सुश्रु० ।

इन्द्रसूक्त न० इन्द्रदेवताकं सूक्तम् । ऋग्वेदान्तर्गते सूक्त-

भेदे तच्च “इन्द्रं विश्वा अवीवृधन्” इत्यादि एकादशर्च्चम् ।
ऋ० १ म० ११ सूक्तम् एतच्च तत्तत्कर्मणि इन्द्रस्तुत्यर्थं
पठनीयं तथा द्वारपालेन तुलादानादौ मण्डपस्य पूर्वदिशि
पाठ्यञ्च “श्रीसूक्तं पावमानञ्च सोमसूक्तं सुमङ्गलम् । शान्त्य-
ध्यायञ्चेन्द्रसूक्तं रक्षोघ्नं चेति बह्वृचौ । पूर्वं द्वारं
समाश्रित्य पठेतामिति निश्चयः” विधानपारि० पु० । तच्च सूक्तं
तुलादानादिपद्धतौ ९२ पृष्ठेऽस्माभिः प्रदर्शितम् ।

इन्द्रसेन पु० इन्द्रस्य सेना इव सेना यस्य । १ नृपभेदे स च

परिक्षितः पुत्रभेदः “परिक्षितोऽभवत् पुत्राः सर्वे धर्मार्थकोविदाः
कक्षसेनोग्रसेनौ च चित्रसेनश्च वीर्य्यवान् । इन्द्रसेनः
सुषेणश्च भीमसेनश्च नामतः” भा० आ० ९४ अ० अयञ्च
प्रसिद्धात् परिक्षितः प्राचीनः कुरुवश्यएव इन्द्राभशब्दे
विवृतिः । युधिष्ठिरस्य २ भृत्यभेदे । “इन्द्रसेनादयश्चैव भृत्याः
परि चतुर्द्दश । रथैरनुययुः शीघ्रैः स्त्रिय आदाय सर्वशः”
भा० व० १ अ० “इन्द्रसेनो विशोकश्च पुरुश्चार्ज्जुनसारथिः ।
अन्नाद्याहरणे युक्ताः सन्तु मत्प्रियकारिणः” भा० स० ३२ अ०

इन्द्रसेना स्त्री ६ त० । इन्द्रस्य १ सेनायाम् । २ बध्नस्यमातरि

मौद्गल्यस्य ज्येष्ठ पुत्रपत्न्याम् । “मौद्गल्यस्य सुतो ज्येष्ठो
ब्रह्मर्षिः सुमहायशाः । इन्द्रसेना यतोगर्भं वध्राख्यं प्रत्य-
पद्यत” हरि० ३२ अ० “नारायणीवेन्द्रसेना बभूव वश्या
नित्यं मुद्गलस्याजमींढ” भा० व० ११३ अ० ।

इन्द्रसेनानी पु० इन्द्रसेनां नयति नी--क्विप् ६ त० । शक्रस्य

सेनापतौ कार्त्तिकेये तत्कथा । कार्तियेन पराजितेनेन्द्रेण
कार्त्तिकाय इन्द्रत्वपदं दातुमीहमानेन सह तस्य उक्तिप्रत्युक्ति
वर्णनेन तेन तत्सेनापत्यममङ्गीकृतमेतत् भा० व० २८ अ०
वर्ण्णित यथा “शक्रौवाच भवस्वेन्द्रो महावाहो! सर्व्वेषां
नः सुखावहः । अभिषिच्यस्वचैवाद्य प्राप्तरूपोऽसि सत्तम! ।
शाधि त्वमेव त्रैलोक्यमव्यग्रोविजये रतः । अहन्ते किङ्करः
शक्रोन ममेन्द्रत्वमीप्सितम् । बलं तवाद्भुतं वीर! त्वं देवा-
नामरीन् जहि । अवज्ञास्यन्ति मां लोका वीर्य्येण तव
विस्मिताः । इन्द्रत्वं तु स्थितं वीरे! बलहीनं पराजितम् ।
आवयोश्च मिथोभेदं प्रययिष्यन्त्यतन्द्रिताः । भेदिते च त्वयि
विभो! लोकोद्वैधमुपैष्यति । द्विधाभूतेषु लोकेषु निश्चितेष्वा
वयोस्तदा । विग्रहः मंप्रवर्त्तेत भूतभेदान्महावल! ।
तत्र त्वं मां रणे तात! यथाश्रद्धंविजेष्यसि । तस्मादिन्द्रो
भवानेव भविता मा विचारय । स्कन्द उवाच । त्वमेव
राजा भद्रन्ते त्रैलोक्यस्य ममैव च । करोमि किञ्चते
शक्र । शासनं तद्ब्रवीहि मे । इन्द्र उवाच । अहमिन्द्रो
भविष्यामि तव वाक्यान्महाबल! । यदि सत्यमिदं वाक्यं
निश्चयाद्भाषितं त्वया । यदि वा शासनं स्कन्द! कर्त्तुमि-
च्छसि मे शृणु । अभिषिच्यस्व देवानां सेनापत्ये महाबल ।
स्कन्द उवाच । दानवानां विनाशाय सेनापत्येऽभिषिञ्च
माम्” । भा० व० २२८ अ० शक्रसेनापतिशक्रसेनाधि-
पादयोऽप्यत्र । “शक्रसेनापतिः स्कन्दः” पु०

इन्द्रस्तुत् पु० इन्द्रःस्तूयतेऽत्र । इन्द्रस्तुत्यधिकरणे उक्थ्य

यज्ञे द्वितीयाहे “इन्द्रस्तुदुक्थ्यो द्वितीयमहर्भवति ।
इन्द्रोवै सर्व्वेदेवाः सर्व्वेषां देवानामाप्त्यौ तस्यैन्द्राग्रहा
भबन्त्यौन्द्र्यः पुरोरुचः सर्व्वमैन्द्रमसदिति” शत०, १३, ७,
१, ४, अयमुक्थ्यसाध्यः तदुपक्रमएव कात्या० २१, १, ४, ।
“त्रय उक्थ्या अग्निष्टुतिन्द्रस्तुत् सूर्य्यस्तुत्” इत्यभिधानात् ।

इन्द्रस्तोम पु० अतिरात्राङ्गे यागभेदे स च कात्या० २४

४, ६, । अतिरात्रोपक्रमेण “इन्द्रस्तोमो विश्वजिता”
विश्वजितः स्थाने इन्द्रस्तोमः कार्य्यः” कर्क० ।
पूर्व्वोक्तमुपक्रम्य तत्प्रकारादि तत्र दर्शितम् । अयञ्चराज्ञा
कार्य्यः “इन्द्रस्तोमो राजयज्ञः” “सहस्रं दक्षिणा” कात्या०
२२, ११, १५, १६, स च उक्थसाध्यः “उक्थ्यः” कात्या०
१२, ११, १७ उक्तेः ।

इन्द्रहू स्त्री इन्द्रः हूयतेऽनया ह्वे--क्विप् ६ त० । शक्राह्वान

साधने ऋग्भेदे । कर्त्तरि क्विप् । २ तदाह्वानकर्तृमुनिभेदे च ।
ततो गर्गा० अपत्ये यञ् । ऐन्द्रहव्यस्तदपत्ये पुंस्त्री ।

इन्द्रा स्त्री इदि--रन् । १ फणिज्झकवृक्षे (काटाजमीर)

सेदिनिः (राखालससा) २ इन्द्रवारुण्याम् । राजनि०
३ शच्याम् शब्दर० ।

इन्द्राग्नि पु० द्वि० व० । इन्द्रश्चाग्निश्च देवताद्व० । शक्राग्न्यो-

र्मिलितयोर्देवयोः । “इन्द्राग्नी यत्र हूयेते” म० त०
स्मृतिः “पुरोहितकामस्येन्द्राग्न्योः स्तोमः” कात्या० २२,
११, २०, २१ उक्तः । तत्र स्तोमे पुरोहितस्य राज्ञो वा
सह वाऽधिकारः तत्र ब्राह्मणस्य दक्षिणा चतुर्विशातर्गावः
राज्ञः अष्टचत्वारिशद्गावः” कर्क० तौ देवते अस्य अण् ।
ऐन्द्राग्नं तद्देवताके हविषि शस्त्रे च । इन्द्रस्य पर्जन्य-
स्याग्निः । मेतभवे विद्युदग्न्यादौ पु० । २ इन्द्राग्निधूमः ।
पृष्ठ ०९५४

इन्द्राग्निधूम पु० इन्द्राग्नेः पर्ज्जन्याग्नेर्धूम इव । हिमे

धूमस्य यथाऽग्निप्रभवत्वम् तथा जलमयहिमस्य पर्ज्जन्या-
ग्निसम्पर्कादेब जायमानत्वात् तथात्वम् ।

इन्द्राणी स्त्री इन्द्रस्य पत्नी--ङीप् आनुक् च । १ इन्द्रपत्न्यां

शच्याम् “अदित्ये रास्नासीन्द्राण्या उष्णीषः” यजु०
३८, २ “नैवेन्द्राणी न रुद्राणी न मनायी न रोहिणी”
भट्टिः यथेन्द्राणी हरिहये स्वाहा चैव विभावसौ” भा०
आ० १८९ अ० । “आजगाम सहेन्द्राण्या शक्रः
सुरगणौर्वृतः” भा० व० ४१ अ० । इन्द्रं परमैश्वर्य्यमानयति
आ + नी--बा० ड गौ० ङीष् । “ऐश्वेर्य्यं परमं यस्या वशे चैव
सुरासुराः । इदि च परमैश्वर्य्ये इन्द्राणी तेन सा स्मृता” इति
देवीपु० उक्तनिरुक्तिर्वा । २ दुर्गाशक्तिभेदे । “ब्रह्माणीन्द्राणि ।
रुद्राणि! भूतभव्ये! यशस्विनि! त्राहि मां सर्व्वदुःखेभ्यो
नारायणि! नमोऽस्तु ते” हरिवं० १७८ अ०” सा च
अष्टमार्तृकान्तर्गता ऐन्द्रीत्यपरपर्य्याया तस्याश्च इन्द्ररू-
पानुकाविरित्वादपि तथात्वम् । इन्द्रैव आनयति जीवयति
रोगोपशमनेन अन + णिच्--अच् पूर्व्वपदा० णत्वम् । ३ स्थूलै-
लायां राजनि० । ४ स्त्रीणां करणे ५ नीलसिन्दुवारवृक्षे
(सोन्धाल) मेदि० । (निसिन्दा) ६ वृक्षे अमरः, स्वार्थे कन् ।
इन्द्राणिकाप्युक्तार्थेषु ।

इन्द्रादृश पु० । इन्द्रस्येवादर्शनमस्य आ + दृश--टक् ६ त० ।

इन्द्रगोपे कीटे ततः ताला० विकारे अञ् । ऐन्द्रादृश० ।
स्तद्विकारे त्रि० ।

इन्द्रानुज पु० ६ त० । १ वामने स हि अदित्यामिन्द्रजन-

नीत्तरं कश्यपेनोत्पादितः तदवतारयुक्ते २ नारायणे च
“इन्द्रानुजानुचरभूपतयोऽध्यवात्सुः” माघः । इन्द्रा-
वरजादयोऽप्यत्र ।

इन्द्राभ पु० कुरुवंश्यधृतरष्ट्रस्य पुत्रभेदे अयञ्च धृतराष्ट्रः आग्वि-

केयादन्यः तथा हि “ततः संवरण्णात् सौरी सुषुवे तनय
कुरुम्” इत्युपक्रम्य तस्य “अविक्षितमभिष्यन्तमित्यादिना”
अष्टौ अविक्षिदादीन् सुतानुक्त्रा “अविक्षितः परिक्षित्तु”
इत्यादिना तस्यापि परिक्षिदादीनष्टौ सुतानुक्त्वा
“जनमेजयस्य तनया भुवि तत्र महाबलाः । धृतराष्ट्रः प्रथमजः
पाण्डुर्वाह्लीक एव० च । निषधश्च महातेजास्तथा जाम्बू-
नदो बली” इत्यादिना जनमेजयस्याष्टौ पुत्रानुक्त्वा
धृतराष्ट्रोऽथ राजासीत् तस्यपुत्रोऽथ कुण्डिकः हस्ती वितर्कः
क्राथश्च कुण्डिनश्चापि पञ्चमः । हरिश्रवास्तथेन्द्रामः
भूमन्युश्चापराजितः” इति भा० आ० ९४ अ० उक्तः ।

इन्द्रायुध न० ६ त० । १ शक्रस्यास्त्रेवज्रे “सनादं मेघनादस्य

धनुश्चेन्द्रायुधप्रभम्” रघुः । इन्द्रे तदधिष्ठितमेघे आयुध-
मिव । सूर्य्यकिरणसंपर्कात् मेघे जायमाने २ धनुराकारे-
पदार्थभेदे तल्लक्षणाद्युक्तं वृ० स० “सूर्य्यस्य विविधवर्ण्णाः
पवनेन विघट्टिताः कराः साभ्रे । वियति धनुःसंस्थाना
ये दृश्यन्ते तदिन्द्रधनुः । केचिदनन्तकुलोरगनिःश्वासो-
द्भूतमाहुराचार्य्याः । तद्यायिनां नृपाणामभिमुखमज-
यावहं भवति । अच्छिन्नमवनिगादं द्युतिमत् स्निग्धं घनं
विविधवर्णम् । द्विरुदितमनुलोमं च प्रशस्तमम्भः प्रय-
च्छति च । विदिगुद्भूतं दिक्स्वामिनाशनं व्यभ्रजं
मरककारि । पाटलपीतकनीलैः शस्त्राग्निक्षुत्कृता दोषाः ।
जलभध्येऽनावृष्टिर्भुवि शस्यबधस्तरौ स्थिते व्याधिः ।
वल्मीके शस्त्रभयं निशि सचिवबधाय धनुरैन्द्रम् । वृष्टिं
करोत्यवृष्ट्यां वृष्टिं वृष्ट्यां निवारयत्यैन्द्र्याम् । पश्चात् सदैव
वृष्टि कुलिशभृतश्चापमाचष्टे । चापं मघोनः कुरुते
निशायाम् आखण्डलायां दिशि भूपपीड़ाम् । या
म्यापरोदक्प्रभवं निहन्यात् सेनापतिं नायकमन्त्रिणौ
च । निशि सुरचापं सितवर्णाभं जनयति पीड़ां द्विजपू-
र्ब्बाणाम् । भवति च यस्यां दिशि तद्देश्यं नरपतिमुख्यं
न चिराद्धन्यात्” । “न दिवीन्द्रायुधं दृष्ट्वा कस्यचिद्-
दर्शयेद्बुधः” मनुः “इन्द्रायुधद्योतिततोरणाङ्कम्” रघुः ।
ततः तालादि० विकारे अञ् । ऐन्द्रायुधस्तद्विकारे त्रि० ।

इन्द्रारि पु० ६ त० । असुरे ।

इन्द्रालिश पु० इन्द्रमिन्द्रधनुरालिश्यति लिश--तौच्छ्ये--क ।

इन्द्रगोपे कीटभेदे तस्य विकारः ताला० अञ् । ऐन्द्रालि-
शस्तद्विकारे त्रि० ।

इन्द्रावसान पु० इन्द्रस्य पर्जन्यस्यावसानमत्र । मरुदेशे ।

ततः उत्सादि० भवार्थे अञ् । ऐन्द्रावसानः मरुभवे त्रि०

इन्द्राशन पु० इन्द्राय ऐश्वर्य्याय अश्यते भुज्यते अश--कर्म्मणि

ल्युट् । (सिद्धि) १ भङ्गायाम् शब्दर० । तत्सेवने हि राज्य-
मपि तुच्छ भवतीति तस्यास्तथात्वम् । इन्द्रः इन्द्रधनुरिव
अश्नुते अर्द्धरक्तवर्णफलत्वात् । (कुँच) २ गुञ्जावृक्षे हारा० ।

इन्द्रासन पु० इन्द्र आत्मा अस्यते विक्षिप्यतेऽनेन अस--क्षेपे

करणे ल्युट् । (सिद्धि) १ संविदावृक्षे तत्सेवने हि आत्म-
नोविक्षिप्तत्वात्तस्य तथात्वम् । पञ्चमात्रिकस्य प्रस्तावे आदि
लघुके शेषगुरुद्वयात्मके २ प्रथमे भेदे न० ।
पृष्ठ ०९५५

इन्द्रिय न० इन्द्रस्य आत्मनो लिङ्गं इन्द्र + घ । ज्ञान-

क्रियासाधने १ चक्षुरादौ २ हस्तादौ च । “इन्द्रियमिन्द्र-
लिङ्गमिन्द्रदृष्टमिन्द्रसृष्टमिन्द्रजुष्टमिन्द्रदत्तमिति वा” पा०
तस्या नेकाविधार्थकता दर्शिता इतिशब्दः प्रकारार्थे इन्द्रेण
दुर्जयमिन्द्रियमित्यपि” सि० कौ० । अत्र सूत्रे इन्द्रेण
परमात्मना दृष्टमित्युक्तिरपि इन्द्रियस्य अस्मदादीनां
प्रत्यक्षागीचरतां निरस्यति । यद्वा इन्द्रेणात्मना दृष्ट-
सात्मत्वेनाभिमतं काणोऽहं बधिरोऽहमित्याद्यभिमतम् ।
“एतस्माज्जायते प्राणोमनः सर्व्वेन्द्रियाणि चेति” श्रुतेः
इन्द्रियस्य ईश्वरसृष्टत्वम् । इन्द्रदत्तमिति इन्द्र ऐश्वर्य्यं
दत्तोऽस्मै स्वस्वकार्य्ये हि तेषामैश्वर्य्यमीश्वरेण दत्तम् अतएव
तानि बलादिव गृहीत्वा विषयेषु प्राणिनं स्वस्वविषयग्र-
हणाय प्रवर्त्तयन्ति । असति ह्यैश्वर्य्ये न तद् सम्भवति ।
चक्षुरादीनामात्मानुमापकत्वञ्चेत्थम् । करणव्यापारः
सकर्त्तृकः करणव्यापारेत्वात् छिदिक्रियायां
वास्यादिव्यापारवदिति करणव्यापारेण कर्त्तुरमानगम्यत्वे
तत्साजात्यात् ज्ञानक्रियाकरणमपि सकर्त्तुकं करणत्वा-
दिति चक्षुरादिना ज्ञानसाधनेनात्मनोऽनुमानम् । तथा
इन्द्रियस्याप्रत्यक्षत्वेऽपि ज्ञानक्रिया सकरणिका क्रिया-
त्वात् छिदिक्रियावत् इत्यनुमानम् तत्सत्त्वे प्रमाणम् ।
तत्तन्मतभेदेन इन्द्रियस्य भौतिक त्वामौतिकत्वसर्व-
गतत्वासर्वगतत्वप्राप्यकारित्वाप्राप्यकारित्वादिकम् आत्म-
शब्दे ६६५ पृष्ठे प्रपञ्चेन परीक्षितम् ।
इन्द्रियञ्च द्विविधं ज्ञानकार्म्मोन्द्रियभेदात् तत्र श्रोत्रा-
दीनि ज्ञानेन्द्रायाणि हस्तादीनि कर्मेन्द्रियाणि । “श्रोत्रं
त्वक्चक्षुषी जिह्वा नासिका चैव पञ्चमी । पायूपस्थं
हस्तपादं वाक् चैव दशमी स्मृता” मनुः । “नासिका-
लोचने जिह्वा त्वक् श्रोत्रं चेन्द्रियाणि च । हस्तौ पायु-
रुपस्थश्च वाक्पादौ च दशैव तु” शारदा० । “बुद्धीन्द्रि-
याणि श्रोत्रघ्राणरसनत्वगाख्यानि । वाक्पाणिपादपायू-
पस्थानि कर्म्मेन्द्रियाण्याहुः” सां० का० । एतानि च
षाह्येन्द्रियाणि । “उभयात्मकमत्र मनः संकल्पकमिन्द्रियञ्च
साधर्म्म्यात्” सा० का० मनस्तूभयविधकरणोपकारित्वात्
करणम् । तच्च ज्ञानकर्म्मव्यापारसामान्ये कारणमपि
न तत्र करणम् असाधारणकारणस्यैव करणत्वात् रूपा-
दिज्ञाने चक्षुरादीनामिव तस्य असाधारणबाह्यग्राह्यवि-
शेषाभावात् किन्तु सुस्वाद्युपलब्धौ असाधारण्यात् तत्रैवास्य
करणत्वमिति नैयायिकादयः । वेदान्तिनस्तु मनसोनेन्द्रि-
यत्वमङ्गीकुर्व्वन्तितच्च आत्मशब्दे दर्शितम् । अतएव “पञ्च-
प्राणमनोबुद्धिदशेन्द्रियसमन्वितम् । अपञ्चीकृतमूतोत्थ
सूक्ष्माङ्गं भोगसाधनमिति” मनोबुद्ध्योरिन्द्रियात् पृथग्-
निर्द्देशः । सांख्यमते “सात्विक एकादशकः प्रवर्त्तते वैकृ-
तादहङ्कारात् । भूतादेस्तन्मात्रः स तामसस्तैजसादुभयम्”
सां० का० रजोगुणोपष्टब्धसात्विकादेवाहङ्कारात् एकाद-
शेन्द्रियोत्पत्तिरुक्ता तेनाहङ्कारिकाणीन्द्रियाणि । “घ्राण-
रसनचक्षुस्त्वक्श्रोत्राणीन्द्रियाणि भूतेभ्यः” गो० सू०
भौतिकानीति नैयायिकाः । “एतस्माज्जायते प्राणः मनः
सर्वेन्द्रियाणि चेति” श्रुतेः आत्मोपादानानीति वेदान्तिनः ।
अत्र इन्द्रियेभ्यः मनसः पृथग्निर्देशादपि मनसोनेन्द्रिय-
त्वम् अतएव कठोपनिषदि गीतायाञ्च “इन्द्रियेभ्यः
पराह्यर्था अर्थेम्यश्च परं मनः” इन्द्रियाणि हयानाहुर्मनः प्रग्रह
मेव चेति” च इन्द्रियमनसोर्भेदनिर्देशः” । यथा च तदुत्प-
त्तिः तथा पञ्चदश्यां दर्शितम् यथा । “तमःप्रधानप्रकृते
स्तद्भोगायेश्वरेच्छया । वियत्पवनतेजोऽम्बुभुवो भूतानि
जज्ञिरे । सत्वांशैः पञ्चभिस्तेषां क्रमाद्धीन्द्रियपञ्चकम् ।
श्रोत्रत्वगक्षिरसनघ्राणाख्यमुपजायते । तैरन्तःकरणं
सर्वैर्वृत्तिभेदेन तत् द्विधा । मनोविमर्शरूपं स्याद्बुद्धिः
स्यान्निश्चयात्मिका । रजोंशैः पञ्चभिस्तेषां क्रमात् कर्म्मेन्द्रि-
याणि तु । वाक्पाणिपादपायूपस्थाभिधानानि जज्ञि-
रे” १ दीपे । तेषां स्थानकार्य्यादिकमुक्तं तत्रैव २ दीपे
“श्रोत्रं त्वक्चक्षुषी जिह्वा घ्राणं चेन्द्रियपञ्चकम् ।
कर्णादिगोलकस्थं तत्प्राप्त्यै धावेत् बहिर्मुखम् । कदाचित्
पिहिते कर्ण्णेश्रूयते शब्द आन्तरः । प्राणवायौ
जाठराग्नौ जलपानेऽन्नभक्षणे । व्यज्यन्तेह्यान्तराः स्पर्शा-
मीलने चान्तरं तमः । उद्गारे रसगन्धौ चेत्यक्षाणामा-
न्तरग्रहः । पञ्चोक्त्यादानगमनविसर्गानन्दकाः क्रियाः ।
कृषिवाणिज्यसेवाद्याः पञ्चस्वन्तर्भवन्ति हि । वाक्पाणिपाद
पायूपस्थं कर्मेन्द्रियपञ्चकम् । मनो दशेन्द्रियाध्यक्षं हृत्-
पद्मगोलकस्थितम् । तच्चान्तःकरणं नाह्येष्वस्वतन्त्रं विने-
न्द्रियैः । अक्षेष्वर्थार्पितेष्वेव गुणदोषविचारकम् । सत्वं
रजस्तमश्चास्य गुणा, विक्रियते हि तैः । वैराग्यं क्षान्तिरौदा-
र्य्यमित्याद्याः सत्वसम्भवाः । कामक्रोधौ लोभमोहावि-
त्याद्या रजौत्थिताः । आलस्यभ्रान्तितन्त्राद्या विकारास्त-
मौत्थिताः । सात्विकैः पुण्यनिष्पत्तिः पापोत्पत्तिश्च
राजसैः । तामसे नोभयं किन्तु वृथायुःक्षपण भवेत्” । तत्रे-
न्द्रियाणां कार्य्यभेदा अपि सां० का० दर्शिताः यथा “शब्दादिषु
पञ्चानामालोचनमात्रमिष्यते वृत्तिः । वचनादानविहरणोत्
पृष्ठ ०९५६
सर्गानन्दाश्च पञ्चानाम्” । आदिपदात् स्पर्शरूपरसगन्धा-
नां ग्रहणम् तथा च श्रोत्रस्य शब्दग्रहणम्, त्वचः स्पर्श-
ग्रहणम्, चक्षुषो रूपग्रहणम् । जिह्वाया रसग्रहणम् ।
घ्राणस्य गन्धग्रहणमसाधारणं कार्य्यं भवति । एवं वागा-
दीनां वचनादिकर्म्माण्युक्तानि । “अन्तःकरणं त्रिविधं दशधा
बाह्यं त्रयस्य विषयाख्यम् । साम्प्रतकालं बाह्यं, त्रि-
कालमाभ्यन्तरं करणम्” सां० का० । “अन्तःकरणं
त्रिविधं बुद्धिरहङ्कारो मन इति । शरीराभ्यन्तरवृत्ति-
त्वादन्तःकरणम् । दशधा बाह्यमिन्द्रियं त्रयस्यान्तःकरणस्य
विषयाख्यं विषयमाख्याति विषयसंकल्पाभिमानाध्यव-
सायेषु कर्त्तव्येषु द्वारीभवति । तत्र बुद्धीन्द्रयाण्यालो-
चनेन, कर्मेन्द्रियाणि तु यथास्वं व्यापारेण” सा० कौ० ।
“विषयाणां ग्रहीतॄणि शनैः पञ्चेन्द्रियाणि च” मनुः ।
“शौचमिन्द्रियनिग्रहः” मनुः । “इन्द्रियस्येन्द्रियस्यार्थे
रागद्वेषौ व्यवस्थितौ” “इन्द्रियाणि प्रमाथीनि” गीता० ।
पञ्च बाह्यानि ज्ञानेन्द्रियाणीति मनुष्याद्यभिप्रायम् कृचित्
जीवे अदृष्टवशात् ततो न्यूनताऽपि । यथा वृक्षाणाम्
स्पर्शसाधनत्वगिन्द्रियमात्रम् शङ्खशुक्त्यानीनाम् त्वग्जिह्वे
द्वे इन्द्रिये महीलतादीनां त्रीणीन्द्रियाणि । सर्पादीनां
चत्वारीन्द्रियाणि तेषां श्रोत्राभावात् कुम्भीरस्य च चत्वारि
तस्य जिह्वाभावात् इत्यबधेयम् । एतेषाञ्च जीवानां लिङ्ग-
शरीरसत्त्वेऽपि तत्तद्गोलकस्थानशून्यत्वान्न तत्तत्कार्य्यार्थं
वृत्तिः । बौद्धमते गोलकान्येवेन्द्रियायाणि । तन्मतं
विवरणीपन्यासे दूषितं तच्च ६६६ पृ० दर्शितम् । २ रेतसि
३ वीर्य्ये च । “इन्द्रियकामस्य” श्रुतिः “समावदिन्द्रिया
भवन्ति” ताण्ड्य० “समानसामर्थ्याः” भा०

इन्द्रियगोचर पु० इन्द्रियस्य गोचरः विषयः । शब्दादिषु

विषयेषु ते हि प्रतिनियतमेकैकस्येन्द्रियस्य ग्राह्या यथा
श्रोत्रस्य ग्राह्यः शब्दः, त्वगिन्द्रियस्य स्पर्शस्तद्विशिष्टद्रव्यञ्च,
चक्षुषोरूपं तदाश्रयद्रव्यञ्च, रसनायाः रसः, घ्राणस्य गन्ध
इत्यादि । एवमन्यान्यपि न्यायादिमते तत्तदिन्द्रियग्राह्या
ण्युक्तानि यथा “घ्राणस्य णोचरोगन्धो गन्धत्वादिरपि
स्मृतः । तथा रसोरसज्ञायास्तथा शब्दोऽपि च श्रुतेः” ।
आदिपदात् सुरभिदु गन्धत्वयोर्ग्रहणम् । तथा रसत्वमा-
धुर्य्यादिसहितः । एवं शब्दत्वतारत्वमन्दत्वादिसहितः
“उद्भूतरूपं नयनस्य गोचरोद्रव्याणि तद्वन्ति पृथक्त्व
संख्ये । विभागसंयीगपरापरत्वस्नेहद्रव्यत्वं परिमाणयुक्त-
म् । क्रियां जातिं योग्यवृत्तिं समवायं च तादृशम् । गृ-
ह्णाति चक्षुः सम्बन्धादालोकोद्भूतरूपयोः । उद्भूतस्पर्श-
वद्द्रव्यं गोचरः सोऽपि च त्वचः । रूपान्यच्चक्षुषो योग्यं
रूपमत्रापि कारणम्” भाषा० सोऽपि उद्भूतस्पर्शो-
ऽपि चकारात् तद्वृत्तिस्पर्शत्वमृदुत्वकठिनत्वादि ग्राह्यम् ।
एते च बाह्येन्द्रियाणां विषयाः । तेषां मते मनस
इन्द्रियत्वात् तद्ग्राह्यास्तत्रैवोक्ता यथा “मनोग्राह्यं सुखं
दुःखमिच्छा द्वेषोमतिः कृतिः” एवं सुखत्वदुःखत्वादिकमपि

इन्द्रियग्राम पु० ६ त० । इन्द्रियसमुदाये “बलवानिन्द्रियग्रामो

विद्वांसमपि कर्षति” मनुः । इन्द्रियवर्गादयोऽप्यत्र । “निर्व-
वार मधुनीन्द्रियवर्गः” माघः ।

इन्द्रियज त्रि० इन्द्रियाज्जायते जन--ड५ त० । इन्द्रियसन्नि-

कर्षजाते प्रत्यक्षे । “तदिन्द्रियजतद्धर्म्मबोधसामग्र्यपेक्षते”
भाषा० । इन्द्रियजातादयोऽप्यत्र इन्द्रियाणि च विषय
सन्निकर्षद्वारा ज्ञाने करणानि विषयसन्निकर्षश्च तत्र व्या-
पारः व्यापारेणैव तेषां जनकत्वात् ज्ञानानां तज्जन्यत्वम् ।

इन्द्रियज्ञान न० इन्द्रियेण जनितं ज्ञानम् । प्रत्यक्षे ज्ञाने ।

इन्द्रियनिग्रह पु० इन्द्रियाणां निग्रहः यथेष्टं प्रवृत्तानां स्वस्व-

विषयेभ्यः निवर्त्तनेन निरोधः । इन्दियाणां यथेष्टं प्रवृ-
त्तानां स्वस्वविषयेषु १ प्रसङ्गनिवारणे । स च सर्व्ववर्णसाधारण
धर्म्मः “धृतिः क्षमा दयाऽस्तेयं शौचमिन्द्रियनिग्रहः ।
धीर्विद्या सत्यमक्रोधो दशकं धर्म्मलक्षणम्” मनुः ।
इन्द्रियनिग्रहः अप्रतिषिद्धेऽपि विषयेऽनतिप्रसङ्गः”
एका० त० रघु० । २ योगसाधनाङ्गे श्रोत्रादीनां
ज्ञानेन्द्रियाणां वागादीनां च कर्ण्णेन्द्रियाणां स्वस्व
व्यापारेषु अनियोजनरूपे रोधने च । सर्वेषामनिरोधे
योगसिद्ध्यभावोभङ्ग्या गीतायामुक्तः” । “इन्द्रियाणान्तु
सर्व्वेषां यद्येकं चरतीन्द्रियम् । तदस्य हरति प्रज्ञां दृतेः
पात्रादिवोदकम्” मनसोनिग्रहादेवान्येषां निग्रहो भवति
नान्यथा “इन्द्रियाणां हि चरतां यन्मनोऽनुविधीयते ।
तदस्य हरति प्रज्ञां वायुर्नावमिवाम्भसि” गीतायां तथोक्तेः ।
मनोनिग्रहोपायश्च “असंशयं महाबाहो! मनोदुर्निग्रहं
चलम् । अभ्यासेन तु कौन्तेय! वैराग्येण च गृह्यते”
गीतोक्तेः अभ्यासवैराग्यैरूपः । यथेच्छमिन्द्रियप्रसङ्गे
पापमप्युक्तम् “विहितस्याननुष्ठानात् निन्दितस्य च सेवनात् ।
अनिग्रहाच्चेन्द्रियाणां नरः पतनमृच्छति” या० स्मृ० ।
इन्द्रियजयोप्यत्र इन्द्रियजये च शौचमेव हेतुः । यथा
ह पात० सूत्रभाष्ययोः “शौचात् स्वाङ्गजुगुप्सा परैर-
ससर्गः” “सत्वशुद्धिसौमनस्यैकाग्र्येन्द्रियजयात्मदशनानि
पृष्ठ ०९५७
च” सू० “शुचेः सत्वशुद्धिस्ततः सौमनस्यं तत ऐकाग्र्यं
तत इन्द्रिययस्ततश्चात्मदशनयोग्यत्वम् बुद्धिसत्त्वस्य
भवतीति” भा० एष च बाह्य उपायः । आभ्यन्तर उपायस्त
त्रैवोक्तः । “ग्रहणस्वरूपास्मितान्वयार्थवत्त्वसंयमादिन्द्रिय-
जयः” पा० सू० “सामान्यविशेषात्मा शब्दादिर्ग्राह्यः तेष्वि-
न्द्रियाणां वृत्तिर्ग्रहणं (१ रूपम्) न च तत्सामान्यमात्रग्रह-
णाकारम् कथमनालोचितः सविषयविशेष इन्द्रियेण
मनसानुव्यसीयेतेति! स्वरूपं पुनः प्रकाशात्मनोबुद्धिसत्त्वस्य
सामान्यविशेषयोरयुतसिद्धावयवभेदानुगतः समूहो द्रव्य-
मिन्द्रियम् । (२ रूपम्) तेषां तृतीयं रूपम् । अस्मिताल-
क्षणोऽहङ्कारः तस्य सामान्यस्येन्द्रियाणि विशेषाः । चतुर्थं
रूपं व्यवसायात्मकाः प्रकाशक्रियास्थितिशीला गुणाः,
येषामिन्द्रियाणि साहङ्काराणि परिणामः । पञ्चमं रूपं
गुणेषुयदनुगतं पुरुषार्थवत्त्वमिति पञ्चस्वेतेषुइन्द्रियरूपेषु
यथाक्रमं संयमः तत्र तत्र जयं कत्वा पञ्चरूपजयादिन्द्रिय-
जयः प्रादुर्भवति योगिनः” भाष्यम् तत्फलमपि तत्रोक्तम् ।
“ततो मनोजवित्वं विकरणभावः प्रधानजयश्च” पा०
सू० “कायस्य मनोबदनुत्तमगतिलाभो मनोजवित्वम् ।
विदेहानाम् (देहानपेक्षाणाम्) इन्द्रियाणामभिप्रे-
तदेशकालविषयापेक्षी वृत्तिलाभः अतीतानागतदूरस्थ-
बाह्यार्थविषयश्च वृत्तिलाभो विकरणभावः । सर्वप्रकृतिवि-
कारवशित्वं प्रधानभावः इत्येतास्तिस्रः सिद्धयो मधुप्रतीका
उच्यन्ते एताश्च करण पञ्चकरूपजयादधिगम्यन्ते” भा०
एतासाञ्च बाह्यसिद्धीनां पारम्पर्य्येण सत्वपुरुषान्यत-
माख्यातिरेव तु मुख्यं फलमिति तत्रैव प्रसिद्धम् ।

इन्द्रियबध पु० इन्द्रियाणां बधः स्वस्वकार्य्येषु शक्तिविधातः ।

इन्द्रियाणां स्वस्वकार्य्यानुकूलशक्तिप्रतिघाते ते च
एकादशधा यथाह सां० का० कौमुद्योः “एकादशेन्द्रियबधाः
सह बुद्धिबधैरक्तिरुद्दिष्टा” का० एकादशेन्द्रियबधाः स्वस्व-
कार्य्ये वैकल्यरूपाः तच्च “बाधिर्य्यमित्यादि कौ० वाक्यम्
अशक्तिशब्दे ४७३ पृष्ठे उदाहृतम्

इन्द्रियबोधन त्रि० इन्द्रियं बोधयति स्वपानसाध्यवैकल्य बुध +

णिच् + ल्यु । स्वपानसाध्यवैकल्यबोधके मद्ये मद्यपाने हि
इन्द्रियमात्रस्य स्वस्वकार्य्यव्यापारापाटवकरणात् आत्मवीर्य्यं
तानि बोधयतीति तस्य तथात्वम् । “सर्वं पित्तकर
मद्यम्” इत्युपक्रम्य “पाके लघु विदाह्युष्ण तीक्ष्णमिन्द्रिय-
बोधनम्” । “कषायमधुरं मद्यं सुगन्धीन्द्रियबोधनम्” ।
“वातघ्नो मधुरप्रायोहृद्य इन्द्रियबोधनः” सुश्रु० ।

इन्द्रियवत् त्रि० इन्द्रियं वश्यतया प्राशस्त्येन वास्त्यस्य मतुप् मस्य

वः । १ वश्येन्द्रिये २ प्रशस्तेन्द्रिये च स्त्रियां ङीप् ।
इन्द्रियेण तुल्यम् इन्द्रियस्येव इन्द्रिये इव वा वति । इन्द्रि-
यतुल्ये अव्य० इन्द्रियं वीर्य्यमस्त्यस्य मतुप् मस्यवः
वेदे पूर्ब्बपद नि० दीर्घः । वीर्य्यान्विते । “तेजः पशूनां
हविरिन्द्रियावत्” वाज० । हविष्य इन्द्रियवान्
मदिन्ततम” वाज० । क्वचित् वेदे दीर्घोन । सर्व
हुतमिन्द्रियवत” यजु० १४, २,

इन्द्रियवृत्ति स्त्री ६ त० । “शब्दादिषु पञ्चानामालोचनमा-

त्रमिष्यते वृत्तिः । वचनादानविहरणोत्सर्गानन्दाश्च पञ्चा-
नाम्” सांख्योक्ते श्रोंत्रादीनां शब्दादिषु प्रकाशनार्थे १ व्या-
पारे कर्म्मोन्द्रयाणां २ वचनादानादिव्यापारे च । तत्र बुद्धी-
न्द्रिय वृत्तिश्च इन्द्रियजन्या बुद्धेस्तत्तदाकारेण परिणामः
साच निर्विकल्पकस्थानीया इति सा० कौ० समर्थितं तच्च
८२६ पृ० आलोचनशब्दे दर्शितम् कर्म्मोन्द्रियवृत्तिश्च
वचनादानादिरूपोव्यापारः । मनोरूपेन्द्रियवृत्तिस्तु
संकल्पविकल्पाध्यवसायरूपा मनोबुद्ध्योः परिणामभेदः ।

इन्द्रियसंप्रयोग पु० इन्द्रियाणां संप्रयोगः स्वस्वविषयेषु

प्रयोगःव्यापारणम् । विषयेरिन्द्रियसम्बन्धे असतख्याति-
शब्दे ५२३ पृष्ठे उदा० ।

इन्द्रियसन्निकर्ष पु० इन्द्रियस्य स्वस्वविषयैः सह सन्निकर्षः

मम्बन्धभेदः । प्रत्यक्षसाधने इन्द्रियस्थ स्वस्वविषयैः सम्बन्ध-
भेदरूपे प्रत्यक्षजनकव्यापारे । स च न्यायमते षोढा यथा
“विषयेन्द्रियसंबन्धोव्यापारः सोऽपि षद्धिधः । द्रव्यग्रहस्तु
संयोगात् संयुक्तसमवायतः द्रव्येषु समवेतानां, तथा
तत्समवायतः तत्रापि समवेतानां, शब्दस्य समवायतः । तद्वृ-
त्तीनां समवेतसमवायेन तु ग्रहः । विशेषणतया तद्वद-
भावानां ग्रहो भवेत्” भाषा० । तथा च द्रव्यस्य प्रत्यक्षे
इन्द्रियसंयोगः कारणम् द्रव्यसमवेतगुणकर्म्मजातीतां प्रत्यक्षे
इन्द्रियसंयुक्तसमवायः । द्रव्यसमवेतसमवेतानां गुणत्वकर्म्म-
त्वादीनां प्रत्यक्षे इन्द्रियसंयुक्तसमवेतसमवायः । शव्दस्य
प्रत्यक्षे श्रोत्रसमवायः शब्दवृत्तिशब्दत्वादेः, श्रोत्रसम-
वेतसमवायः कारणम् । “अभावप्रत्यक्षे समबायप्रत्यक्षे च
इन्द्रियसंयुक्तस्वरूपसम्बन्धविशेषणता हेतुः । वैशषिकमते
तु समवायस्य न प्रत्यक्षम् । अत्र यद्यपि विशेषणता
नानाविधा तथा हि भूतलादौ घटाभावः संयुक्तविशेष-
णतया गृह्यते संख्यादौ रूपाद्यभावः संयुक्तस-
मवेतविशेषणतया, संख्यात्वादौ रूपाद्यभावः सयुक्तसम-
पृष्ठ ०९५८
वेवतमवेतविशेषणतया । शब्दाभावः केवलश्रोत्रावच्छिन्न-
विशेषणतया । कादौ खत्वाद्यभावः श्रोत्रावच्छिन्नसमवेत-
विशेषणतया । एवं कत्वावच्छिन्नाभावे खत्वाभावादिकं
विशेषणविशेषणतया । एवं घटाभावादौ पटाद्यभावः
संयुक्तविशेपणविशेषणतया । एवमन्यदप्यूह्यम् तथापि
विशेषणतात्वरूपेणैकैव सा गण्यते अन्यथा षीढा सन्निकर्ष
इति प्राचां प्रवादो व्याहन्यतेति” मुक्ता० । इन्द्रिय
संयोगादयोऽप्यत्र

इन्द्रियस्वाप पु० इन्द्रियाणां खस्वविषयेषु स्याप इव अप्र

वृत्तिरत्र । १ सुषुप्त्यवस्थायाम् तत्र हि मनःसहितसर्व्वे-
न्द्रियाणामुपरमः श्रुत्यादावुक्तः “सुषुप्तिकाले सकले
प्रलीने” इति स्मृत्या “यत्र सुप्तोन कञ्चन पश्यतीति” श्रुत्था
इन्द्रियमात्रलयश्रवणात् । इन्द्रियैःस्वस्य स्वकारणभावस्यापः
प्राप्तिर्यत्र । इन्द्रियाणां स्वरूपतः स्वकारणलयकाले
प्रलये । मरणे तु न स्वरूपतस्तेषां लयः । “तमुत्क्रामन्त
प्राणोऽनुत्क्रामति प्राणमुत्क्रामन्तं मनोऽनुक्रामतीत्यादि”
श्रुतेः “पञ्चप्राणमनोबुद्धिदशेन्द्रियसमन्वितम् । अपञ्ची-
कृतभूतोत्थं सूक्ष्माङ्गं भोगसाधन” मिति स्मृतेश्च प्राणा-
नामाप्रलयस्थायित्वावगतेः । तत्र गोलकाभावेन वृत्तिमात्र
न भवति पुनर्देहान्तरे गोलकोदये वृत्तिलाभ इति भदः
“तदन्तरप्रतिपत्तौ रंहति संपरिष्वक्त” इति शां० सू०
भाष्ययोर्विवृतिः एवं सांख्यमतेऽपि किन्तु तन्मते लिङ्गदेहे
प्राणपञ्चकं विहाय पञ्चभूतानां प्रवेश इत्येतावन्मात्रभेदः ।

इन्द्रियात्मन् पु० इन्द्रियमेवात्मा । १ इन्द्रियस्वरूपे कर्म्मधा० ।

२ इन्द्रियेषु ।

इन्द्रियादि पु० ६ त० । सांख्यमतसिद्धे इन्द्रियकारणे अहङ्कारे

“सात्विक एकादकः प्रवर्त्तते वैकृतादहङ्कारात्” सा० का०

इन्द्रियाधिष्ठातृ ६ त० । इन्द्रियाणामचेतनानां स्वस्वकार्य्येषु

व्यापारसम्पादनाय ईश्वरनियोजिते देवभेदे । तेच देवाः
“दिग्मातार्कप्रचेतोऽग्निवह्नीन्द्रोपेन्द्रमित्रकाः” । शारदा०
दर्शिताः पदार्थादर्शेएतद्व्या० “एते इन्द्रियाधिष्यातृदेवाः ।
यदाहुः वैकारिकादिगाद्याश्च चन्द्रेणैकादश स्मृताः ।
इन्द्रियाणामधिष्ठातृदेवास्ते सात्विकाः मता” इति तथा
च श्रोत्रस्याधिष्ठातृदेवता दिक् । त्वचः वायुः, चक्षुषः
अर्कः । रसनायाः प्रचताः, घ्राणस्याश्विनौ, वःचः
अग्निः पाणेः शक्रः, पादस्य उपेन्दः (विष्णुः), पायोः
मित्रः उपस्थस्य कः ब्रह्मा । मनसः चन्द्रमाः ।

इन्द्रियायतन ६ त० । श्रोत्राद्याधारे देहे तस्य इन्द्रियाधा-

रत्वत्ताथात्वम् । स च सूक्ष्मएव देहः । यथाह सा० का०
“पूर्व्वोत्पन्नम (श) सक्तं नियतं महदादिसूक्ष्मपर्यन्तम् ।
संसरति निरुपभोगं भावैरधिवासितं लिङ्गम्” । “प्रधाने-
नादिसर्गे प्रतिपुरुषमेकैकमुत्पादितम् आ चादिसर्गात् आ
च महाप्रलयादवतिष्ठते महदादिसूक्ष्मपर्य्यन्तं महदहङ्का-
रैकादशेन्द्रियपञ्चतन्मात्रपर्य्यन्तम् एषां समुदायः सूक्ष्मश-
रीरं शान्तघोरमूढैरिन्द्रियैरन्वितत्वाद्विशेषः । नन्वस्त्वेत-
देव शरीरं भोगायतनं पुरुषस्य, कृतं दृश्यमानेन षाट्कौशि-
केन शरीरेणेत्यतआह संसरतीति उपात्तमुपात्तंच शरीर
जहाति हायंहायं चोपादत्ते, कस्मात्? निरुपभोगं यतः,
षाट्कौशिकं शरीरं विना सूक्ष्मं निरुपभोगं, तस्मात्संस-
रति । ननु धर्म्माधर्म्मनिमित्तः ससारः न च सूक्ष्मशरीर-
स्यास्ति तद्योगः, तत्कथं संसरतीत्यत आह भावैरधिवा-
सितं धर्म्माधर्म्मज्ञानाज्ञानवैराग्यावैराग्यैश्वर्य्यानैश्वर्याणि
भावास्तदन्विता बुद्धिः तदन्वितञ्च सूक्ष्मशरीरमिति तदपि
भावैरधिवासितं यथा सुरमिचम्पकसम्पकार्द्वस्त्रं तदामो
दवासितम्भवति तस्माद्भावैरेवाघिवासितत्वात्संसरति ।
कस्मात्पुनः प्रधानमिव महाप्रलयेऽपि तच्छरीरं न तिष्ठती-
त्यत आह लिङ्गम् लयं गच्छतीति लिङ्गं हेतुमत्त्वेन चास्य
लिङ्गत्वमिति” भावः । सा० कौ० । “पञ्चप्राणमनोबुद्धिदशे
न्द्रियसमन्वितम् । अपञ्चीकृतभूतोत्यं सूक्ष्माङ्गं भोगसा-
धननम्” स्मृतिः । पञ्चद० इदमेव वाक्यमुपन्यस्तम् ।
न्यायादिमते स्थूलदेहएव इन्द्रियायतनं तैः सूक्ष्मदेहा-
नङ्गीकारात् इति भेदः जीवादृष्टवशादेवापूर्ब्बदेह एव
तत्तदिन्द्रियाण्यपि तत्तद्देहे उत्पद्यन्ते मनासि तु
अनन्तानि तानि च नित्यानि तेषाञ्च अदृष्टवशात् एर्कक-
स्मिन् देहे एकैकस्य प्रवेश इति हि तेषां सम्मतम् ।
२ आत्मनि च “आत्मेन्द्रियाद्यधिष्ठतो” लिङ्गशरीरशब्दे
एतेषां युक्तायुक्तत्वपरीक्षणम् करिष्यते ।

इन्द्रियाराम त्रि० इन्द्रियेषु आरमति आ + रम--घञ् । इ

न्द्रियार्थभोगप्रसक्ते “अघायुरिन्द्रियारामो मोधं पार्थ ।
स जीवति” गीता० ।

इन्द्रियार्थ पु० ६ त० । इन्द्रियगोचरशब्दार्थे शब्दार्दो

“इन्द्रियार्थेषु सर्वेषु न प्रसज्येत कामतः” मनुः । द्वन्द्वः
१ इन्द्रिये तद्विषये च द्वि० व० । “इन्द्रियार्थसन्निकर्षोत्प-
न्नम्” गौ० सू० । इन्द्रियेणार्थस्यसन्निकर्ष इत्येव तत्र
विग्रहस्तु न्याय्यः ।
पृष्ठ ०९५९

इन्द्रियाविन् त्रि० इन्द्रिय वश्यतया प्राशस्त्येन वास्त्यस्य बा०

विनि वेदे पूर्व्वपददीर्घ । १ वश्येन्द्रिये २ प्रशस्तेन्द्रिये च ।
“सएवास्मिन्निन्द्रियं दधा तन्द्रियाव्येव भवति” श्रुतिः ।

इन्द्रियेश पु० ६ त० । १ जीवे तदधिष्ठानेनैब तेषां वृत्त्यु-

त्पत्तेस्तथात्वम् २ इन्द्रियाधिष्ठातृदिगादिदेवादिषु च ।

इन्द्रेज्य पु० ६ त० । वृहस्पतौ शक्रेज्येन्द्रपूज्यादयोऽप्यत्र

इन्द्रेश्वर पु० इन्द्रेण स्थापित ईश्वर ईश्वरलिङ्गम् ।

महेन्द्रपर्वतस्थे वृत्रासुरबधजनितब्रह्महत्याविघातार्थं शक्रेणं
स्थापिते शिवलिङ्गभेदे तत्कथा प्रा० वि० कालि० पुरा-
णम् । “वृत्तं हत्वा ततः शक्रोमाहेन्द्रे स्थाप्य शङ्करम् ।
लिङ्गं विमुक्तः पापौघैस्ततः स त्रिदिवं गतः । अद्यापी-
न्द्रेश्वरं दृष्ट्वा तथा रामेश्वरं प्रभुम् । मुच्यते ब्रह्महत्या-
या नरो वै नात्र संशयः” ।

इन्ध दोप्तौ रुधा० आ० अक० सेट् निष्ठायामनिढ् । वर्त्त-

मानेचाऽतोनिष्ठा । इन्धे, इन्धाते, इन्धते, “यं त्वां जनास
इन्धते ऋ० ८, ४, ३ इन्धीत, इन्धाम् । इन्त् स्य इन्ध्वम् ।
ऐन्ध ऐन्धिष्ट इन्धाम्--बभूव । आस चक्रे इन्धिष्यते ऐन्धि-
ष्यत । इन्धितव्यम् । इन्धिता इन्धनम् । इद्धोवर्त्तते ।
क्विप् समित् इन्धानः “अग्निमिन्धानो मनसा वियम् सचेत
मर्त्यः” ऋ० । भावे इध्यते ऐन्धि । “परो यदिध्यते दिवि
छा० उ० तु पदगणव्यत्यासः ।

इन्ध पु० इन्घ + करणे--घञ् । १ काष्ठे इन्ध--अच् । २ दीप्तियुक्ते ।

३ तन्नामके ऋषिभेदे पु० ततः गोत्रे नडा० फक् । ऐन्धा-
यनस्तद्गोत्रापत्ये पुंस्त्री । दीप्तियुक्ते दक्षिणनेत्रे विशेषेण
स्थिते ४ परमात्मनि पु० । तस्य तदर्थत्वञ्च समर्थितम्
वृ० उ० भा० । “इन्धोह वै नामैष योऽयं दक्षिणेऽक्षन्
पुरुषस्त वा एतमिन्धं सन्तमिन्द्र इत्याचक्षते परोक्षैणेव,
परोक्षप्रिया इव हि देवाः प्रत्यक्षद्विषः” “इन्धोह वै नाम
इन्ध इत्येवं नामायं “चक्षुर्वै ब्रह्मेति”
आदित्यान्तर्गतः पुरुष एषः, योऽयं दक्षिणेऽक्षन् अक्षिणि विशे-
षेण व्यवस्थितः । स च सत्यनामा तं वा एतं पुरुषं
दीप्तिगुणत्वात् प्रत्यक्षं नामास्य इन्ध इति तमिन्धं
सन्तमिन्द्र इत्याचक्षते परोक्षेण, यस्मात् परोक्षप्रिया
इव हि देवाः प्रत्यक्षद्विषः प्रत्यक्षनामग्रहणं द्विषन्ति” भा०
“इन्धयति दीपयति इन्ध--णिच्--अच् । ५ दीपके त्रि० ।
एतस्मात् पूर्वस्थयो! म्राष्ट्राग्नेयोः समासे मुम् । भ्रा-
ष्ट्रमिन्धः अग्निमिन्धः । “होत्राध्वर्युरावया अग्निमिन्धो
ग्रावग्राभः” यजु० २५, २८, अग्निमिन्धश्च अग्नीत्
नाम ऋत्विक् ।

इन्धन न० इध्यतेऽनेन इन्ध + करणे--ल्युट् । १ काष्ठे “इन्धनौघ

घगप्यग्निस्त्विषा नात्येति पूषणम्” माघः । “कामिनीषु
विवाहेषु गवां भक्ष्ये तथेन्धने” मनुः । इन्धने इन्धना-
पहारे इत्यर्थः “इन्धनार्थमशुष्काणाम्” प्रा० वि० स्मृतिः ।
इन्धयति इन्ध--णिच्--ल्यु । २ दीपनकर्त्तरि त्रि० । भावे
ल्युट् । ३ प्रज्वालने न० ।

इन्धन्वन् त्रि० इन्धन + मत्वर्थीयः । वेदे वनिप् नि० वर्ण्ण-

लोपः । इन्धनयुक्ते । “इन्धन्वभिर्धेनुभीरप्सदूधभिः” ऋ०
२, ३४, ५, “इन्धन्वभिः समिन्धनवद्भिः” भा० ।

इन्व गतौ भ्वा० निरु० । इनधातौ ९२८ पृष्ठे विवृतिः ।

इन्वका स्त्री इन्वति इन्व--अक् स इव कायति कै--क ।

मृगशिरोनक्षत्रोपरिस्थे इल्वलाख्यतारासु अमरटीका ।

इभ पु० इण्--भ किच्च । १ हस्तिनि, “वन्येभदानाविलगन्ध-

दुर्द्धराः माघः २ तत्संख्यातुल्यसंख्याके अष्टलंख्यान्विते
च । गजाहि अष्टसु दिक्षु ख्यिता ऐरावतादयोऽष्टौ
वर्त्तन्ते इति तेषामष्टत्वम् । ते च “ऐरावतः पुण्डरीकः
वामनः कुमुदोऽञ्जनः । पुष्पवन्तः सार्व्वभौमः सुप्रतीकश्च
दिग्गजाः” अमरोक्तक्रमेण पूर्व्वादीशानान्तदिक्षु स्थिताः ।
अस्य च उत्तरपदस्थत्वे श्रेष्ठार्थद्योतकता व्याघ्रादेराकृति
गणत्वात् उपमितसमासः । स्त्रियां ङीप् । जातित्वात्
पोटाशब्देन समासेऽस्य पूर्बनिपातः पुंवद्भावश्च इभपोरा
इभलक्षणविभागादि वृह० सं० “मध्वाभदन्ताः सुविभ-
क्तदेहा न चोपदिग्धाश्च कृशाः क्षमाश्च । गात्रैः समेश्चाप-
समानवंशा वराहतुल्यैर्जघनैश्च भद्राः ॥ वक्षोऽथ कक्षावलयः
श्लथाश्च लम्बोदरं त्वग्वृहती गलश्च । स्थूला च कुक्षिः
सह पेचकेन सैंही च दृङ्मन्दमतङ्गजस्य ॥ मृगास्तु
ह्रस्वाधरवालमेढ्रास्तन्वङिघ्रकण्ठद्विजहस्तकर्णाः । स्थूलेक्ष-
णाश्चेति यथोक्तचिह्नैः सङ्कीर्णनागा व्यतिमिश्र
चिह्नाः ॥ पञ्चोन्नतिः सप्त मृगस्य दैर्घ्यमष्टौ च हस्ताः
परिणाहमानम् । एकद्विवृद्धावथ मन्दभद्रौ सङ्कीर्णनागो
ऽनियतप्रमाणः ॥ भद्रस्य वर्णो हरितो मदस्य मन्दस्य
हारिद्रकसन्निकाशः । कृष्णो मदश्चाभिहितो मृगस्य
सङ्कीर्णनागस्य मदो विमिश्रः ॥ ताम्रौष्ठतालुव-
दनाः कलविङ्कनेत्राः स्निग्धोन्नताग्रदशनाः पृथुलाय-
तास्याः । चापोन्नतायतनिगूढनिमग्नवंशास्तन्वेकरोमचित-
कूर्मसमानकुम्भाः । विस्तीर्णकर्णहनुनाभिललाटगुह्याः
कूर्मोन्नतैर्द्विनवविंशतिभिर्नखैश्च । रेखात्रयोपचितवृत्तकराः
सुबालाः धन्याः सुगन्धिमदपुष्करमारुताश्च । दोघोङ्गु-
पृष्ठ ०९६०
लिरक्तपुष्कराः सजलाम्भोदनिनादवृंहिणः । वृहदायत-
वृत्तकन्धरा धन्या भूमिपतेर्मतङ्गजाः । निर्मदाभ्यधिक-
हीननखाङ्गान् कुब्जवामनकमेषविषाणान् । दृश्यकोशफल-
पुष्करहीनान् श्यावनील शवलासिततालून् । स्वल्पवक्त्र-
रुहमत्कुणषण्ढान् हस्तिनीं च गजलक्षणयुक्ताम् ।
गर्भिणीं च नृपतिः परदेशं प्रापयेदतिविरूपफलास्ते” ।
हेमा० षरि० ख० लक्षणसमुच्चये विष्णुध० । “नागाः प्रशस्ता
धर्म्मज्ञ! प्रमाणादधिकाश्च ये । दीर्घहस्ता महोच्छ्राया-
ऽवामनाश्च विशेषतः । निगूढवंशामध्वक्षा व्यूढा व्यूढ़ोच्च
मस्ताकाः” (व्यूढा विपुलाः) “विंशत्यष्टादशनखाः । शीतका-
लमदाश्च ये । ते प्रशस्तामहानागाः ये तथा सप्तसूच्छ्रिताः ।
दन्तच्छदेषु दृश्येत येषां स्वस्तिकलक्षणम् । भृङ्गारबालव्य-
जना वर्द्धमानाङ्कुशास्तथा । धार्य्या नैते तथा धार्या वामना
ये च मत्कुणाः । हस्तिन्योयाश्च गर्भिण्योये च भूढ़ा मत
ङ्गजाः । अपाकलाश्च कुब्जाश्च सद्दन्ताएव भार्गव! ।
कुदन्ताश्च तथा वर्ज्या वामकूटाश्च यत्नतः । अश्रु-
स्मृशश्च कूटाश्च ये षण्ढा विकटाश्च ये” । राम उवाक्ष
वामनाद्याश्च ये नागाः प्रोक्तानिन्दितनक्षणाः । तेषां तु
श्रोतुमिच्छामि लक्षणं वरुणात्मज! । पुष्कर उवाच ।
आनाहायामसंपूर्ण्णोयोऽधिह्रस्वो भवेद्गजः । वामनः स
समाख्यातोमत्कुणोदन्तवर्जितः । (आनाहःस्थूलता)
(आयामो देर्घ्यम्) दशां चतुर्थी संप्राप्य वर्द्धेते यस्य न द्विजौ ।
स्थूणाघनायतौ स्यातां स मूढो हि गजोऽधमः ।
अपाकलो विशालेन दन्तेनैकेन वारणः । संक्षिप्तवक्षोज
घनः पृष्ठमध्यसमुन्नतः । प्रमाणहीननाभिश्च स कुब्जोवा-
रणाधमः । अनुन्नताभ्यां सद्दन्तः कुदन्तःस्यात्ततो बहिः ।
(बहिर्दन्तसीमनि) । वामदन्तोन्नतो नागो वामकू-
टश्च कथ्यते । दन्तावश्रुस्पृशौ यस्य सोऽश्रुस्पृगिति
कोर्तितः । एकदन्तस्तथा नागः कूट इत्यभिधीयते । पादयोः
सन्निकर्षः स्यात् यस्य नागस्य गच्छतः । स षण्डोऽध्वनि युद्वे
च लक्षण ज्ञैर्न पूजितः । अरत्न्यभ्यधिकं यस्य विस्तरेण-
स्तनान्तरम् । विकटः सविनिर्दिष्टो दुर्गतिर्निन्दितोगजः ।
राम उवाच । श्रोतुमिच्छाम्यहम् देव! कुञ्जरंसप्तसूच्छ्रितम् ।
यं प्राप्य किल राजानोजयन्ति वर्सुर्धा नृपाः । पुष्कर
उवाच । वर्चः सत्वम्बलं रूपङ्कान्तिःसहननञ्जवः । सप्तैतानि
सदा यस्य स गजः सप्तसूच्छ्रितः । ये वामवद्दक्षिणपार्श्व-
भागेनाप्लातुकामाःपिटकोत्थयापि । ते नागसुख्या विजयाय
युद्धे भवन्ति राज्ञां न हि संशयोऽत्र” तत्रैव पराशर-
संहिता । “हस्तिनां जातिदेशवर्णाकृतिप्रमाणचेष्टादि-
लक्षणमनुव्याख्यास्यामः । तत्र जातयश्चतस्रो मवन्ति ।
भद्रा मन्दा मृगा मिश्राश्चेति तत्परिज्ञानमाकृतिचेष्टा-
दिभिरुपदिश्यते । तत्र भद्र जातिश्चारुदृष्ट्यायतमुखोव्यूढो-
च्चमस्तकः उदग्रसत्वोऽनुवृत्तकरः श्रोता दोर्घपुष्क-
राङ्गुलिबालधिः महामन्योरोमशग्रीवः । स्थूलमेढ्रोदर-
ताम्रतालुजिह्वौष्ठः सुपार्श्वः स्निग्धः सवर्ण्णमृदुरोमा
कूर्म्मपादः स्तध्वस्थितिश्चितांसः पृथ्वासनः सूक्ष्मविन्दु-
चित्रोबह्वनुरोमोपचितश्रोत्रःसुनखो धनुःपृष्ठवंशो
मधुवर्णतालुर्यूथाभिरक्षिता सहिष्णुरन्वर्थवेदी बलवान् कामा-
तुरोवृक्षावमर्दी मृदुनोपायेन साध्य आशूपदे शग्राही च
भवति” । (उदग्रो उच्चः अनुवृत्तकरः अनुक्रमेण वृत्तकरः
पुष्करः कराग्रं मन्या धमनी अन्वर्थवेदी अग्रे वक्ष्यते) ।
मन्दजातिः संकेताभिज्ञः सुह्रस्वो महोदरकरश्रोताः
स्थूलदन्तस्ततपृष्टवंशः स्थूलहस्तजिह्वांसग्रीवः, पृथुह-
स्तमस्तकः सुविभक्तोरःशिराःसुमृदुवृत्तश्रोत्रः स्थूलास्थि-
करकवापीविलपादः सूक्ष्मनाभिस्तनुताम्रत्वक्कर्णकटः
दीर्घोच्चमेढ्राङ्गुलिर्बालबालधिर्मुष्करन्ध्रकक्षवरणोपदिग्धोह-
र्य्यक्षः सुबद्धजघनः सवृत्तोरक्तोगम्भीरवेदी मन्दजातिः
जातशङ्कोदृढमन्मथस्तीक्ष्णसाध्योयूथानुगाभी ग्रहणगतोपि
नारिभयमाविशति । (गम्भीरवेदी वक्ष्यते उपदिग्धो लिप्तः)
मृगजातीयः पुनर्ह्रस्वपुष्करोच्चहनुहस्तबाह्यमेहनसुद-
न्तनखपृथुवंशग्नीवास्योदरमेढ्रतनुर्विशालनेत्रस्तथावृत्ततनु-
श्रोत्रः कुण्ठोष्ठो घनायताग्रकायः संक्षिप्तकरालो
न्यस्तमस्तकोदीर्घजिह्वोविषाणोपनीतः शीघ्रोबह्वशनोभार-
साहो मनस्वी दुर्दमः स्वयूथपर्य्यन्तानुचारी भिन्नपुरीषोऽ-
तिक्रमणवेदी क्लेशासहः क्रन्दनश्चेति । मिश्रास्तु तेषां
परस्परसंयोगजाः सर्वसंकुललक्षणा इति । भद्रा श्रेष्ठाभव-
न्त्यासां मन्दा मध्या कनीयसी । मृगा मिश्राऽधिकै र्ज्ञेया
गुणदोषैः समासतः । अथ वनभेदेन गजनेदाः । अथैषां
प्राच्यकारूषदशार्णमार्गणेयककालिङ्ककापरान्तिकसौराष्ट्र
पञ्चनदाख्यान्यष्टौ वनानि वासस्थानानि तेषां पृथक्
पृत्यक् कर्म्मलक्षणमुपदेक्ष्यामः तत्र हिमवद्गङ्गा-
प्रयागलौहत्यान्तरे प्राच्यवनमत्रोत्पन्नाः कपिलाः अव्यग्राः
कुनखपार्ष्णयोवारणाश्चलपृथुपेचकवंशपिण्डकाः पृथुहस्ता-
मन्दवेगारूक्षाश्चपलाकृतयो भवन्ति । (पेचकः पुच्छभू-
लम्) मेकलो मत्स्यो गङ्गावतारश्चेति कारूकाख्यवन-
मत्रोत्पन्नाः श्यामाश्चण्डाः सुचरणाह्रस्वानात्या-
पृष्ठ ०९६१
यताः शीघ्रोदग्रावृहद्भिरुद्दामैर्द्दन्तैर्द्दन्तिनो भवन्ति ।
महागिरिदशार्णविन्ध्याटवीरावतीनां मध्ये दशार्णं
वनमभिख्यातमत्र दीर्घाङ्गुलिपुष्कराः पाद्मभाः श्यामा
वा दुर्ग्रहाः सुवृत्तजघनाग्राः सितसूक्ष्मविन्दुचित्रा-
श्चूतफलतुल्यमद गन्धिनोविशालोत्सङ्गदन्ताः स्थूलह-
स्तास्यशिराग्रीवा मध्वक्षाः स्वासनाःसत्ववन्तश्च । पारि-
पात्रवैदिशब्रह्मावर्त्तवनानामन्तर्मार्गणेयकं वनमत्रोदग्नाः
शीघ्रदीर्घक्रमेणोपदिग्धाङ्गाः बलवन्तोऽभिजाताः सुप्र-
माणाः मध्वक्षामृदुत्वचः कचाविलप्राया अल्पपेच-
काहरिश्यावाखण्डच्छन्नाः सुहस्ताः स्निग्धरोमाणः
स्थिराः सुशरीराः कुरेणूनामधिपतयः स्वल्पतापाश्च ।
विपुलसह्यदक्षिणारण्योत्कलानां मध्ये कालिङ्गकं
वनमत्र कलविङ्काक्षाः सर्व्वश्वेताः स्थिरपदाः शीघ्राः
मृद्वरुणरीमाणस्तनुत्वगुदरादीर्घकेशबालधयो दीर्घ-
क्रमाः बलवन्तोऽल्पपेचकाः पद्मप्रभा यातुरुदग्ना धनुः-
पृष्ठवंशारक्ततालुजिह्वौष्ठाः सुप्रयोगग्रहसुखाःवराहज-
धनाः नीचवृत्तनखाःस्थिरचरणाः आशुसुवेदिनोमधुद-
शनाः पीतह्रस्वशिरोधराः महोरगवृहत्कराः मृदु-
दीर्घहस्ताहस्तिनो भवन्ति । नर्म्मदोदधिसेवदेशान्तो-
पहारणामन्तरतोऽपरान्तिकं वनमत्र मानिनो धीराः
श्यामाःसप्तप्रतिष्ठिताः दृश्यजघनशिरोधरा पीनायतविषा-
णाः स्वास्यका मृदुत्वच उदग्रादीर्घरक्तताल्वोष्ठजिह्वा-
महोत्सङ्गाः पद्ममदगन्धिनो धनुःपृष्ठवंशाविवृत्तास्या-
नान्यवनविचारिणः । द्वारकार्बुदावर्त्तनर्मदान्तरतः
सौराष्ट्रकं वनमत्राल्पायुषश्चण्डाः पिङ्गायताक्षाः मध्या-
यताङ्घ्रयोऽल्पपेचका मृदुविभक्तमात्राप्रतिलोमलोमशचर
रणास्तनुत्वक्कर्णनखाः सूक्ष्मदन्ताः शिक्षात्यज इति ।
हिमवत्सिन्धुकुरुजाङ्गलकानामभ्यन्तरे वनं पञ्चनदाख्यं
तत्र स्फुटितरूक्षश्वेतांशुदन्तास्तनुविन्दूपचितकराः
सुगन्धयोगृदवोमहापेचकदेशाङ्गप्रमाणाःसूक्ष्मवृहत्त्वचोदु-
र्विनेयाध्यानशीलाः कवलतृषो भवन्त्यपि । वनेष्वेतेषु
जायन्ते प्रधानामध्यमोत्तमाः । प्रशस्ता निन्दिताश्चापि तेषां
वक्ष्यामि लक्षणम् । नम्रजतुकाष्ठसङ्काशं ह्रस्वमल्पाङ्गु-
घपुष्रं दुर्गन्धं कर्कशत्वग्रोमाणमाततस्तव्यस्थूलविरलप-
र्वाणं हस्तिनो हस्तमध्यन्यविघातधन्यं पीतं मृदुरोमा-
णमनुपूर्वपतितं चारुदीर्घाङ्गुलिपोनं पृथुपुष्करंमृदुवलि-
नम् । सुगन्धिवृत्तं पञ्चहस्तायतं द्विरक्तं वृहत्च्छ्रोतोग्रो-
वुकाश च । कक्षस्फुटिताह्रस्वमलिनविषमचक्रखण्ड-
सूक्ष्मदन्तावपूजितौ पूजितौ च स्निग्धश्लक्ष्णप्रदक्षिणोन्न-
तामलिनसममाहितौ मधुसवर्ण्णौ मुकुलिताग्रावावाधमन्या-
यातावष्टादशाङ्गुलपरिणाहौ । अथ विरूपविषमे वराह-
नकुलध्वाङ्क्षवानराभे रूक्ष्मविच्छिन्नेक्षणे सन्निमीलिते
लोचने न पूजिते पूजिते च कलविङ्काभसूर्य्यमणि
वह्नितुल्ये स्वनुपहिते च । प्रशस्तं समाहितमायतपृथु
बाहित्यमवस्थितरक्ततालुजिह्वौष्ठचारुसूक्ष्मश्लक्ष्णविन्दूप-
चितं सर्व्वसंपूर्ण्णम् । मृदुमृदुनिर्याणपीडितपुष्करं
विषममासनात् षडङ्गुलावाग्बन्धनाभावेन नतकुम्भल-
म्बम्बेनातिरिक्त प्रमाणं घण्टाघनपिङ्ग रूक्षास्थूलद्वन्द्व
रोमोपचितमपूजितं शिरोवारणानां पूजितं
महोदयस्थानमुपवितसप्तकमनिम्नखरनिर्याणं पृथुपुष्करं स्नि-
ग्धमृदुसूक्ष्णयुग्नरोमसुविभक्तोष्णीषवितानावग्राहं वा
ह्रस्वीत्क्रुष्टोपक्रष्टौ वृत्तौ स्तब्धौ तनुविषमसिराततौ
पीडितान्तावतिरुद्धप्रमाणौ संवृतच्छिद्रौ सान्द्रमृदुसु-
प्रमाणसिरालावपाठितपुटसंविपुलमूलिकौ, पृष्ठच्छिद्रौ
दुन्दुभिस्वनौ वा । क्लेशावहाच्छिद्रातिदीर्घानुपचित-
पीड़िका सुमुहती पृष्ठालम्बनात्युद्गतायतास्थानावपीडिता
ग्रीवा वारणस्याप्रशस्ता शस्ता तु प्रह्वोपरि पिण्डिका
दृढारक्षी त्रि बलिः सास्नारत्निपरीणाहा द्वादशाङ्गुलायता
सर्वसम्पूर्ण्णा वा । विषममवाग्रं संक्षिप्तलम्वं संपुटमा-
नसं विगर्हितं स्थिरं च विनतमत्युद्गतं वक्तं पृष्ठवंशय-
शोभनम् । शोभनमुपचितसूक्ष्मं धनुःप्रमाणमेवं संस्थानं
विद्यात् । अथ पूर्व्वगात्रञ्छिद्रोन्नतांसं विकलितहस्तयो-
र्वृत्तं सिरालम्भनं स्तब्धव्याधिद्वन्द्वोहनिर्लग्नं विषमक-
चाबिलम् प्रमाणहीनमनिष्टम् इष्टमनुपूर्णोपचितं
स्थिरविमक्ताजिलसत्कीटमनुपविम्बमुखमच्छिद्ररन्ध्रोपचितम-
थोरक्तं वा । अथ जघनं घनमुच्छ्रितास्थि निर्मांसपेचकं
कलाहीनातिरिक्तप्रमाणं बालध्यनुयायि समनर्थकरम् ।
अर्थकरमत्पपेचकं पलोपचितमदृश्यशुष्कस्पष्टचतुरस्रमाय-
ताग्नं चारुबालधिपरिपूर्ण्णाण्डकोषायततया नासिरा-
लपल्लवाकारमेहनमजयनञ्जयनं च श्यावाल्परूक्षस्फुटित-
नखश्लिष्टसन्धि, परुषासारतलसहा न पूजिताः पादाः
अन्ये भवन्त्यपि च । विंशत्यष्टादशनखाः स्थिराः कूर्मस-
माहिताः । गजानां पूजिताः पादा ये च स्युर्विकचाविलाः ।
पादाः कचाविला रुक्षविबर्ण्णाः परुषाः कृशाः ।
वारणानान्न शस्ताः स्युर्ये वा स्निग्धतनूरुहाः । सूक्ष्मबिन्दु
चितां स्निग्धां त्वचं शंसन्ति दन्तिनाम् । आस्यस्पृशौ
पृष्ठ ०९६२
विशालस्य विषाणौ पार्श्वौन्नतौ । उपाहतो विशालेन
दन्तैकेन वारणः । अनुन्नताभ्यां संपन्नःकुदन्तः स्यान्न-
तावधिः । ऊर्द्ध्वं वक्त्रान्तरालस्य प्रतिमानसमौ द्विजौ ।
ह्रष्वस्थूलातिदीर्घेण दन्तेनैकेन वा गुणाः । वर्ज्यास्ते शुभ
कामेन सर्व्व एवातिगर्हिताः । अव्दद्वये नदीजानां पञ्चमे-
ऽव्दे वनौकसाम् । दन्तमूलपरीणाहान् द्विगुणान्कल्पयेत्परे ।
शरशक्तिधनुश्चक्रशूलपट्टिसलक्षणाः । दन्ताग्रराजयो
यस्य स नृपं वोढुमर्हति । रोम्णां तु संश्रयो यश्च
पिटक स उदाहृतः । सं ज्येष्ठः सप्तभागोनोमध्यभोऽसौ
मतङ्गजः । अन्त्यः षड्डागहीनः स्यादतोऽन्योहि न पूजितः ।
सुखाय पेचके दैघ्यं पृष्ठपार्श्वोदरान्तरम् । आनाहौच्छ्रय
पादाद्विज्ञेयो यावदासनम्” । वनविशेषेण गजलक्षणं
तत्रैव वार्हस्यत्यसंहिता । “वनानां मध्ये प्राच्यं कालि
ङ्गकमापरान्तिकं च त्रीणि वनान्यतिशोभनानि । त्रया-
णमपि प्राच्यं वनं मध्यवनमपरेषामिव शोभनम् ।
तत्रैरावतकुलप्रसूतिसम्भवाः प्रायेण मृगमिश्रभद्रण
क्षणाः महाकायाः करिणो भवन्ति । विनयसत्व-
शक्तिसम्पन्नाःपूगफलप्रभास्ताम्रत्विषः प्रविरलमदा गजा
युद्धेचापसर्पणोपसर्वणनीरवा भवन्ति नातिक्रोधनाः
समुद्वेजिताः सत्वं दर्शयन्ति । ते च वृक्षैः कवलैः कायो-
पवघातातिशयेन मदाभिमुखाः कर्त्तृव्याः । कालिङ्गके
वाऽऽपरान्तिके च त्रेतायुगोत्पन्नाः मन्दा महागजा-
न्वयजा मन्दाभिधानाः प्रायशो मृगावयवाः सङ्कीर्ण्णा-
गजाः समुत्पद्यन्ते । नात्युदग्रा जलदघ्रभा नातिस्थिरा
मन्दा युद्धप्रियाश्च गजा भवन्ति । तथा कारूषदाशार्णमा-
र्गणेयकाभिधानेषु मध्यमा गजाः समुत्पद्यन्ते
मृगमन्दजातयः ते च चार्बवयवाः मध्यमबलामध्यम
प्रमाणाः स्थूलरोमाबिलशरीरास्तनुरदा मन्दगतयः ।
तथा सौराष्ट्रे पाञ्चनदाभिधाने द्वापरयुगोत्पन्ना मृगमत-
ङ्गजान्वया मृगप्राया गजाभवन्ति भीरवः कुत्सिताङ्गाः
नातिचण्डादुर्मदाः दुर्वृत्ताश्च एवंविधागजाः
समुत्पद्यन्ते वनाच्च वनान्तरे गतेषुदुर्वृत्तेषु गजेषु धेनुकासम्प-
र्केण गुप्तवनेऽपि कालिङ्गकेऽपि । त्रासशीलश्च भीरुश्व ह्रस्व
वामनमस्तकः । हीनाग्रभोगो दुःशीलस्त्वसंहतशरीर-
भृत् । समुच्छ्रितस्त्वनायामी परीणाहविवर्जितः ।
मृगस्वरूपोदीनश्च मृगजातिर्गजाधमः । अतः परं
प्रवक्ष्यामि संर्कीण्णस्य च लक्षणम् । पशुत्वाद्वारणानाञ्च
गच्छतां च वियोनिषु । धेनुकासु भवन्त्येते गजा सं-
कीर्ण्णलक्षणाः । मद्रोमन्दोमृगोवाथ शुद्धजातिः प्रजायते ।
तस्मान्मिश्राणि रूपाणि गदतोमे निबोधत । आनन्त्यान्मि-
श्रजातानां निश्चयोनोपपद्यते । तथापि किञ्चिदु-
द्वेशाम्निश्रलक्षणमुच्यते । भद्रमन्दो भद्रमृगो भद्रमन्द
मृगस्तथा । इह भेदत्रयं मन्दमृगयोरपि जायते ।
भद्रादीनां च सर्वेषां रूपं संकीर्ण्णसंज्ञितम् । ऊर्द्ध्वाघः
कार्य्यभेदेन तज्जनिर्मिद्यते द्विधा । त्रिधा च भिद्यतेमूय
एकैकन्तु यथाक्रमम् । एवमष्टादशविधं कीर्त्तितं मिश्रलक्ष-
णम् । शुभाशुभं विमागेन साम्प्रतम् निगदाम्यहम् । भद्र
मन्दोभवेदिष्टोमृगमन्दस्तथाधमः । भद्रमन्द मृगश्चैव मध्यमः
परिकीर्त्तितः । भद्रजाति र्महाकायोगजोमध्ये तु दन्तिनाम् ।
मन्दोऽवयवलेशेन स मुक्तो भवति द्विपः । मृगस्यापि हि रूपेण
किञ्चिच्चानुगतेन वै । अशुभत्वं न भद्रस्य जायते शोभनो-
हि सः । लोचनानां प्रधानत्वं यस्माच्छास्त्रेषु कीर्त्ति-
तम् । तस्मान्मृगाक्षिसंसक्तोभद्रोऽपि हि न शस्यते । भाद्रेणो
परिकायेन मान्देनाधोगतेन वा । उन्नतोहि
गजानान्तु भद्रमन्दोभवेद्गजः । अनेनैव हि रूपेण विपर्य्यासेन
यो गजः । सोऽपि शोभन एव स्यान्मन्दभद्रैति स्मृतः । एवं
विधात् मृगे चापि लक्षणान्मिश्रलक्षणम् । महावयवबाहु-
ल्यात् मृगरूपस्यलेशतः । भद्रावयवनिर्मुक्तोमध्यमोऽसौ गजो
भवेत्” कायेन यो भवेद्भद्रो सन्दोवापि मतङ्गजः । मृगगा-
त्रोऽपरश्चैव स भवेद्वेगवान् गजः । मृगरूपाधिकत्वं च दृश्यते
यस्य दन्तिनः । अधमस्तु स विज्ञेयः सत्वशक्तिविवर्जितः ।
करदन्ताक्षिकुम्भैश्च यो मृगोजायते गजः । शेषावयवभद्रो-
ऽपि हीन एव भवेदसौ । एवमुद्देशमात्रेण मिश्रभेदा
मयोदिताः । नोदिता येऽपि तेऽत्रापि मिश्रा ज्ञेया
मनीषिभिः । मिश्रलक्षणसंयोग उक्तष्टं यस्य दृश्यते । रूपन्त-
न्नामधेयोऽसौ जायते हि मतङ्गजः । अतः परम्प्रवक्ष्मामि-
लक्षणं गिरिचारिणाम् । तथा नदी चराणां च तथैवोभमय-
चारिणाम् । महाबला महाकायाश्चितांसा गिरिचारिणः ।
सुपाश्वाश्चारुदिग्धाङ्गादृढपादागतक्लमाः । उदग्रानिर्भया-
श्चैव सल्लकीकवलप्रियाः । तटाघातविधौ भुग्नदन्तदारित
भूतलाः । शार्दूलादिमहासत्वसंस्फोटातङ्कवर्जिताः ।
मदस्रावक्षतोत्साहादुर्दमावारिभीरवः । पांशुक्रीडारता
नित्यं द्रुमोन्मूलनतत्पराः । विषाणवेष्टनाशीलाः खेष्ट-
सन्तापनीरकाः । कराग्रस्फोटनिरता सीत्कारकरण-
प्रियाः । अनुदग्राघनश्यामाः सीकरोद्गिरणप्रियाः ।
तोयकर्म्मणि निःशङ्कामतङ्गाश्च नदीचराः । उभयेषुचर-
पृष्ठ ०९६३
न्त्ये ते नदीपर्व्वतसानुषु । ये गजाहृष्ट मनसस्ते भवन्त्यतिशो-
भनाः । सर्वेषामेव नागानां छायालक्षणमुत्तमम् । यद्यथा
जायते यस्य तत्तयैवाभिधीयते । सत्वांशकत्वाद्भद्रस्य
पाटला भवति प्रमा । नवपल्लवसच्छाया स्निग्धा तनुतनूरुहा ।
तयातमोऽंशकचाच्च कृष्णा मन्दस्य जायते । तरुणाम्बुद
संकाशा स्थूलकृष्णकवाबिला । रजोऽंशकत्वाच्च तथा
मृगस्यापि हि धूसरा । मलिनाम्बुदसंकाशा रूक्षा
तनुतनूरुहाः । एवंछायाविशेषाः स्युर्भद्रादीनान्मयोदिताः ।
छाया संमिश्रभावाच्च मिश्रा भवति दन्तिनाम् । वनजाति-
गुणैर्भद्रः गजश्रैष्ठो नरोत्तम! । तमोऽशकत्वं मन्दस्य यद्य-
दुक्तं निबोध मे । दुर्मनस्त्वं तथाऽऽलस्यं निद्रालुत्वं च
मूढता । गम्भीरवेदिता चेति मन्दस्य तम उत्थितेः । एवं
रजीगुणो राजन् मृगस्तेन रजोऽंशकः । धैर्थ्यं स्थैर्य्यं
पटुत्वं च विनीतत्वं सुकर्मता । अन्वर्थवेदिता चैव
भयस्थानेषु मूढता । सुभगत्वं च धीमत्त्वं सत्वस्यैते गुणाः
स्मृताः । अतः सत्वांशकोराजन् भद्रजातिरुदाहृतः ।
चित्रत्वं बाहुशिरसोरन्तर्मणिगतं तथा । दन्तयोर्मधु
वर्णत्वं नेत्रयोर्मधुपिङ्गता । आसनस्य पृथुत्वञ्च पूर्णता
कुक्षिपार्श्वपोः । पृथुत्वं पृष्ठभागस्य घनत्वं समसन्धिता ।
स्निग्धच्छाया त्वथायामःपरिणाहोच्छ्रयौ तथा । सश्री-
कत्वं गुरुत्वं च कायस्यैते गुणाः स्मृताः । सर्वलक्षणसं-
पूर्णो दृश्यते न मतङ्गजः । प्रधानावयवे लोके यत्नः
कार्यो मनीषिभिः । हीनं कृष्णं च कल्माषं पुष्करं न प्रश-
स्यते । संपूर्णं मांसलं रक्तं सुकुमारं शुभं स्मृतम् । त्र्यङ्गुल-
न्तुभवेद्धीनं हीनम्पतिविनाशनम् । कृष्णं भर्तुर्विघाताय-
कल्माषं भर्तृरीगदम् । संपूर्णं सिद्धिदं भर्तुः पुष्कर चतुर-
ङ्गुलम् ॥ सौभाग्यदं मांसलन्तु सुकुमारं तथार्थदम् । रक्तपद्म-
दलच्छायं तथा मिष्टान्नपानदम् । अतः परं शुभेज्ञेये श्रीत-
सी पाटलोदरे । पञ्चाङ्गुलप्रमाणेन वर्तुलत्वेन चार्थदे ।
अवाङ्मुखंच ताम्रं च कर्णतालं सुखप्रदम् । ह्रस्वा स्थूला च
विपुला चित्रिणी श्यामलोनिता । कुञ्चिता च तथा दृष्टिः
सप्तधादन्तिनां मता । तासां तु त्र्यङ्गुलायामा सा ह्रस्वेत्य-
भिसंज्ञिता । ह्रस्वा करोति नृपतेर्विनाशं शीघ्रमेव हि ।
स्थूल दुर्भिक्षकरणी श्यामला नृपदुःखदा । करोति चित्रिणी-
नित्यं तस्यैव तु वसुक्षयम् । भुग्ना दृष्टिर्विनाशाय राज्ञो-
धनविनाशिनी । कुञ्चिताहीनयोश्चैव युद्वकाले रिपो-
र्जयम् । अतः परं प्रवक्ष्यामि क्रमेण करलक्षणम् ।
न करं दीर्घमिच्छन्ति बालधेः शास्त्रपण्डिताः । न बाल-
धिसमं हस्तं नातिदीर्घं क्रमायतम् । न तनुं नातिकायं
च न रूक्षं न कृतव्रणम् । नाक्रमेण कृतोत्सेधं न हीनं
दशनान्तरम् । न ह्रस्वाङ्गुलिसंयुक्तं नातिसंकटपुष्करम् ।
एतल्लक्षणसंयुक्तं करं शंसन्ति कोविदाः । बालधेः सुसमो-
हीनः समोवा दन्तिदुःखदः । अतिदार्घोभवेद्भर्तुरायुषः
क्षयकारकः । तनुर्व्याधिकरो यातुरतिकायोऽर्थनाशनः ।
रूक्षोव्याधिव्रणङ्कुर्य्याद्यातुर्व्रणकृतां व्यथाम् । प्रतिलोमेन
च स्थूलोगजस्य सुस्वनाशनः । असमञ्जसहीनश्व असमञ्जस
वर्तुलः । दुःखशोकभयायासकर्त्ता भवति नित्यशः ।
दशनान्तरहीनश्च जायते दन्तिरीगकृत् । कथितं पूर्वमेवेषु पुष्-
कराङ्गुलिलक्षणम् । अतो मया न कथितं साम्प्रतङ्करलक्षणे ।
निर्वलीकोदीर्घरोमा क्रमवृत्तत्वसंयुतः । अणुबिन्दुविचित्रश्च
दैर्व्येण च शताङ्गुलः । बालधेः पुष्करं यावदायामोजात्यपे
क्षया । अरत्नित्रयाऽऽनाहश्च हीनहीनतरक्रमात् । युक्त-
स्त्वनेन मानेन करः पूज्यतमो भवेत् ॥ निर्बलीके च
सौभाग्यन्दीर्घरोमार्थदः स्मृतः । क्रमवृत्तोजयं कुर्य्यादणु-
बिन्दुयुतोधनम् । सुप्रमाणं भवेद्राज्ञः करस्य परिवर्द्धनः ।
आनाहबांश्च सततं राज्यस्फीतिकरोभवेत् । करस्य
कीर्त्तितं ह्येतल्लक्षणं शुभसंज्ञितम् । अतःपरं प्रवक्ष्यामि
लक्षणं दन्तबेष्टयोः । कचहीनावतिस्थूलौ विषमौ शिथिलौ
तथा । दन्तवेष्टौ सदा भर्तुः प्रमाणाभ्याससौख्यदौ ।
दन्तमूले सुसम्बद्वौ सकचौ किञ्चिदुन्नतौ । दृष्टौ सदा तथा
भर्त्तुर्वृद्विदौ परिकीर्त्तिती । अतःपरं प्रवक्ष्यामि लक्ष्णन्तु
विषाणयोः । व्यस्तता सङ्कटत्वं च प्रांशुता भस्मशुभ्रता ।
वक्रत्वं ह्रस्वता चैव धूसरत्वं च रूक्षता । मृदुताऽधो-
गतित्वञ्च हीनता मूलमध्ययोः । प्रान्तयोः स्थूलता चैव
दीर्घता चातिमात्रता । सर्पच्छत्रककान्तित्वं दोषाह्येते
चतुर्द्दश । दन्तयोस्तु समाख्याताः फलं तेषान्निबोध मे ।
व्यस्तौ च सङ्कटौ दन्तौ मदहानिकरौ तु तौ । दन्तिनस्तनु-
तायुक्तौ व्याधिदौ परिकीर्त्तितौ । भस्मशुभ्रौ तथा भर्तु-
र्महा क्लेशकरौ मतौ । वक्रौ चार्थविनाशाय ह्रस्वौ च
परिकीर्त्तितौ । धूसरौ रूक्षतायुक्तौ गजस्यायुर्विनाशनौ ।
मृदुत्वयुक्तौ नागस्य शल्यव्रणकरौ मतौ । स्थूलाग्राधो
गतित्वे च भर्तुर्यातुश्च दुःखदे । अशुभं लक्षणं ह्येतद्दन्तयोः
कथितं मया । शुभं च साम्प्रतम्बक्ष्ये यथावदनुपूर्वशः ।
स्निग्धौ समौ सुनिष्क्रान्तौ संपूर्ण्णौव्रणवर्जितौ । मुकुलाग्रौ
दृढौ वापि ताम्नचूडौ हलोपमौ । दक्षिणाभ्युन्नतौ किञ्चित्
मृणालकुमुदप्रभौ । मुधकुन्ददलच्छायौ हेमचम्प्रक-
पृष्ठ ०९६४
पिञ्जरौ । मधुपिङ्गौ घृतच्छायौ पीपूषसदृशप्रभौ । केतकी-
कुसुमाभौ च मृगाङ्ककिरणप्रभौ । अध्यर्द्ध्वारत्निमानौ च
तदर्द्धानाहसंयुतौ । अमीमिर्लक्षणैर्युक्तौ दन्तौ नागस्य
सम्मतौ । स्निग्धौ धनप्रदौ भर्तुरायुषश्च करौ मतौ ।
अरिघ्नौ तु सुनिष्क्रान्तौ संपूर्ण्णौ राज्यदौ मतौ ।
निर्व्रणौ राज्यलाभाय मुकुटाग्रौ जयप्रदौ । दृढौ रोगवि-
नाशाय ताम्रवूडौ हलोपमौ । अरिसंघविनाशाय कीर्त्ति-
तौशास्त्रपण्डितैः । दक्षिणाभ्युन्नतौ भर्त्तुः कीर्त्तितौ भाग्य-
कारकौ । मृणालकुमुदच्छायौ सुभिक्षारोग्यकारकौ ।
हेमचम्पकसङ्काशौ वज्रामरणदौ स्मृतौ । कुरुतो मधुपिङ्गौ च
निःसपत्नं महीतले । पशुलाभकरौ ज्ञेयौ घृतपीपूषसन्निभौ ।
केतकीकुसुमाभौ च भर्तुर्वंशविवर्द्धनौ । अध्यर्द्वारत्निकौ-
दन्तौ सुतभृत्यजयप्रदौ । आनाहमानसंयुक्तौ सदास्फीति-
करौ मतौ । इदं शुभकरं राजन्! दन्तयोर्लक्षणं मतम् ।
अतःपरं प्रवक्ष्यामि नेत्रयोरपि लक्षणम् । मार्जारनकुलक्रौ-
ञ्चशाखामृगनिमेक्षणान् । सर्वदोषकरान् राजन्! गजान्
दूरेण वर्जयेत् । स्निग्धे मधुनिभेदीप्ते कलविङ्काक्षिसन्निभे ।
रक्तपद्मदलच्छाये पद्मरागमणिप्रभे । निर्धूमाग्निशिखा-
कारे इन्द्रनीलसमप्रभे । सौम्यदृष्टिसमायुक्ते त्र्यङ्गुले
लोचने शुभे । स्निग्धे वृद्धिकरे भर्त्तुर्मधुपिङ्गे जयप्रदे । दीप्ते
दीप्तिकरे चैव प्रतापायतने तथा । कलविङ्गाक्षिरूपे च
धनधान्यविवर्द्धने । चामीकरकरे नित्यं रक्तपद्मदलप्रभे ।
पद्मरागनिभेचैव रत्नालङ्कारकारके । निर्धूमाग्निशिखाकारे
प्रतिपक्षभयङ्करे । मानयुक्ते च सौम्ये च लोचने बलवर्द्धने ।
अक्षिकूटकटोद्देशनिम्नौ राज्यविनाशनौ । संपूर्णौ च
बलोत्साहमदवृद्विकरौ मतौ । दन्ताश्रयं भवेन्नित्यं
तालुकं षोडशाङ्गुलम् । षडङ्गुलं पृथुत्वेन वंश
गध्यगतं भवेत् । तथा शुभाशुभं चैव लक्षणज्ञैः प्रकी-
र्त्तितम् । कृसरम्परिदग्धञ्च कृष्णंकल्माषमेववा । चतुर्विध-
मनिष्टं स्याद्यथावदभिधीयते । कृष्णं मसीसमं ज्ञेयंक-
ल्माषं कृष्णलोहितम् । मांसलं धूम्रवर्ण्णं च परिदग्धं प्रकी
र्त्तितम् । कृसरञ्च तिलच्छायं कथितं शास्त्रवेदिभिः ।
गर्भस्थस्य यदा पित्तं वीयते तालुकं भृशम् । कृष्णतालुस्तदा
नागोजायते पापलक्षणः । व्याघिभिः पीद्ध्यते नित्यं
वातपित्तकफोद्भवैः । तृतीयां वा चतुथीं वा दशां प्राप्य
विनश्यति । संग्रामे वा पलायेत बहुशस्त्रकृतव्रण्णः । शस्त्र
सङ्घातपूर्णाङ्गः कृतान्तभवनं व्रजेत् । वातपित्तकफा यस्य
कुर्वन्ति तालुके गदम् । गर्भस्थस्यैव कल्माषतालुकं तस्य जा-
यते कृष्णतालुनि ये दोषा रक्ते चैव गुणाः स्मृताः ।
कल्माष तालुनस्तेतु भवन्ति च द्वयोरपि । रक्तच्छायं यदा वंशे
पार्श्वयोस्त्वसितं भवेत् । तदा मध्यफलं ज्ञेयं गुणदोष
समाश्रयात् । यदा वंशे च कृष्णं स्यात्पार्श्वयोस्ताम्रता
भवेत् । भर्त्तुरुद्वेगजनकं कल्माषं तालुकं तदा । किञ्चि-
द्धीनं तु यत्तालु परिदग्धं तदा भवेत् । नागस्याधोरण-
स्यापि बलक्षयकरं हि तत् । कृसरं च भवेत् तालु पित्त-
कोपसमुद्भवम् । महामात्रविनाशाय वारणस्योपजा-
यते । (महामात्रोहस्तिपकः) कृष्णतालोरपि यदा दक्षि-
णावर्त्तनं भवेत् । दृश्यते नित्यमेवं हि तदासौ दोषवर्जितः ।
यथा गृह्णाति नो दोषान् सुलोकः मुसमाहितः । गुणान्
करोति हृदये न तथा कथितानपि । दोषघ्नं लक्षणं शस्तं
यदाचार्यैरुदाहृतम् । तत्तथैवावगन्तव्यं नान्यथात्रापि
भाषितम् । एवं जिह्वापि मन्तव्या तालुनः समलक्षणा ।
अरत्निमात्रा दैर्घ्येण विस्तारेऽष्टाङ्गुला मता । अशुभं लक्षणं
ह्येतत्तालुकस्य मयोदितम् । शुभं च साम्प्रतं वक्ष्ये लक्षणं
शृणुचानघ! । रक्तं श्वेतंकषायं च तालुकंस्यात् शुभप्रदम् ।
रक्तं वृद्धिकरं भर्तुस्तथा चायुर्विवर्द्धनम् । दन्तिनोऽ-
शोकपुष्पाभं रिपुक्षयकरम्मतम् । श्वेतं पुष्टिकरं चापि वा
रणस्योपजायते । चम्पकाभं तथा भर्त्तुरारौग्यस्य
विवर्द्धनम् । कषायं सर्वदा ख्यात प्रयातुः सौख्यवर्द्धनम् । एवं
जिह्वापि रक्ताभा सर्वसौख्यप्रदा मता । अतःपर प्रव-
क्ष्यामि सृक्कण्याश्रित्य लक्षणम् । दन्तिनो मानहीने च
सृक्कणी मानवर्जिते । (सृक्कणी ओष्ठसन्धी) मुखरीगकरे
नित्यं पण्डितैः परिकीर्त्तिते । सर्वसौख्यप्रदे तस्य
संपूर्णे द्वादशाङ्गुले । अतःपरं व प्रवक्ष्यामि लक्षणंचिवु-
कोष्ठयोः । अरोमशम्बलीयुक्तमाताम्रं च तथा लघु ।
गजस्यौष्ठं न शंसन्ति मुनयो दन्तरोगदम् । दीर्घरोमा सुसंपूर्ण्ण
ओष्ठः पद्मदलप्रभः । षोड़शाङ्गुलानाहश्च हस्तार्द्धं वायतः
शुभः । भर्तुरायुःकरोदीर्घो दीर्घरोमा च कीर्त्तितः ।
पूर्ण्णः पूरयते कोशं रक्तः सौभाग्यदोभवेत् । अरोमशं
तथाहीनं चिबुकं न प्रशस्यते । तद्धि वारणनाथस्य मुखरो-
गकरम्मतम् । चतुरङ्गुलमानन्तु स्थूलं रोमाविलं यत्
तत्प्रशस्तं गजेन्द्राणां सुखालङ्खारकारकम् । निम्ने च
विषमे चैव हीने चैवाशुभे मते । मदहानिकरे “नित्य
सगदे कर्णरोगदे । शश्वन्निनादयुक्ते च समे चैव सुखप्रदे ।
मानं च कर्णपाल्यास्तु मूलादारभ्य गृह्यते । बाहित्थावघि
कुम्भं च हीनं निम्नं च गर्हितम् । मुखरोगकरं नित्य
पृष्ठ ०९६५
सत्यहानिकरं च तत् । पूर्ण्णं चैवोन्नतं सार्द्धहस्तमात्रायतं
भवेत् । तद्धि वारणनाथस्य मुखरोगकरं मतम् । चतुरङ्गुग-
मान तु स्थूलम् रोमाबिलञ्च यत् । तत् प्रशस्तं गजेन्द्राणां
सुखालङ्कारकारकम् । अरत्निपरिणाहञ्च करिणां सत्वश-
क्तिदम् । वामनं हस्तहीनञ्च परिणाहविवर्जितम् ।
अव्यक्तञ्च न शंसन्ति वातकुम्भं विपत्करम् । द्वादशाङ्गुल-
विस्तारन्दैर्घ्येणाष्टादशाङ्गुलम् । व्यक्तंशुक्तिपुटाकारं तद्भ-
र्तुर्लाभकारकम् । गर्त्ताकारे च निर्याणे कठिने चातिकु-
त्सिते । शिरसोरोगजनने गजस्यारोहकस्य च । संपूर्णे सुकु-
मारे च सुप्रशस्ते प्रकीर्त्तिते । राज्यवृद्धिकरे नित्यं भर्तुर्वि-
जयकारके । इदमेव हि विज्ञेयं लक्षणं कटपार्श्वयोः ।
अतःपरं प्रवक्ष्यामि लक्षणं कुम्भयोरपि । विषमत्वमरो-
मत्वं देहच्छायाविवर्णता । समता कण्ठपृष्ठाभ्यां
समाधिक्यमपूर्ण्णता । व्यक्तता वामनत्वं च परिणाहविही-
नता । तनुभावः शिखरयोः कुम्भदोषा दश स्मृताः । भर्तु-
श्चापत्करौ ज्ञेयौ विषमौ रोमवर्जितौ । देहच्छायावि-
वर्णौ तु शत्रुलोकविवर्द्धनौ । कण्ठपृष्ठसमौ चैव प्रयातुः
प्रविनाशनौ । मानाधिकौ च हीनौ च भर्तुरुच्छेदकारकौ ।
व्याप्तौ च वामनौ चैवभर्त्तुः कीर्त्तिविनाशनौ । परिणाह
विहीनौ च कोशक्षयकरौ मतौ । शिखरस्य तनुत्वेन युक्तौ
कुम्भौ तु रोगदौ । अशुभं लक्षणं ह्येतत्साम्प्रतञ्च शुभं
शृणु । समौ दीर्घकचाक्रान्तौ विस्तीर्णशिखरौ तथा । कर्ण
मूलात्समारभ्य हस्तार्द्वजमितोच्छ्रयौ । सुसंहतौ च पीनौ
च कामिनीकुचसन्निभौ । समाकान्तललाटौ च देहच्छाया
समप्रभौ । आरोहकशरीरार्द्धदर्शनावरणक्षमौ । सश्रीकौ
च सुवृत्तौ च शुभौ कुम्भौ प्रकीर्त्तितौ । समौ च दीर्घ-
रोमाणौ भर्तुः श्रीसौख्यकारकौ । समानौ रिपुनाशाय
तथैव च समुन्नतौ । सुसंहतौ च पीनौ च वरस्त्रीलाभका-
रकौ । शत्रुनाशकरौ ज्ञेयौ कामिनीकुचसन्निभौ ।
समाक्रान्तललाटौ च सुस्वदौ रोगनाशनौ । आरोहिस्थ-
गितार्द्धौ च सश्रीकौ च जयप्रदौ । वृत्तौ च हस्तिनां कुम्भौ
पुष्पालङ्कारकारकौ । अतःपरं प्रवक्ष्यामि कर्णयोरपि
लक्षणम् । निर्लोमशौ स्नसाकीर्ण्णौ तनुच्छिद्रौ तनुत्वचौ ।
(स्नसा सिरा) सङ्कटौ विषमौ रूक्षौ त्रु टिताग्रौ च निष्ठुरौ ।
स्तब्धौ च वर्तुलौ चैव कर्ण्णौ नागस्य निन्दितौ । फलञ्च
साम्प्रतं वक्ष्ये यथावदनुपूर्वशः । निर्लोमशौ स्नसाकीर्ण्णौ गजस्य
कर्णरोगदौ । निष्ठुरौ त्रुटिताग्रौ च यातुःकोशहरौ मतौ ।
स्तब्धौ च वर्तुलौ चैव गजस्यायुर्विनाशनौ । अतःपरं प्रव-
क्ष्यामि शुभकर्णविनिश्चयम् । द्विरत्निमानसंयुक्तौ सिरा-
जालविवर्जितौ । सप्तत्वचौ महाच्छिद्रौ स्निग्धौ दुन्दुभि
निस्वनौ । कपोलमण्डलास्फालात्ततशब्दौ मुहुर्मुहुः ।
कर्ण्णौ चामरसंकाशौ मृदुरोमकृतार्चनौ । अजर्जरमृदुप्रा-
न्तावीषद्गुप्तावचूलिकौ । मयूरतालवृन्ताभौ सुविस्तीर्णसमौ
शुभौ । द्विरत्निमानसंयुक्तौ भर्तुरायुःकरौ मतौ । स्नसाजा-
लविनिर्मुक्तौ शिरोरोगविनाशकौ । समत्वचौ महाच्छिद्रौ
गजलाभकरौ मतौ । स्निग्धौकान्तिकरौ नित्यं जयदौ
दुन्दुमिस्वनौ । शत्रुनाशकरौ प्रोक्तौ मृदुरोमीकृतता-
र्च्चनौ । अजर्जरमृदुप्रान्तौ प्रयातुः सौख्यकारकौ ।
गजस्योपचयायैव ईषद्गुप्तावचूलिकौ । मयूरताल-
वृन्ताभौ तुरङ्गबलवर्द्धनौ । सुविस्तीर्ण्णौ समौ भर्तु
र्भूमिलामकरौ मतौ । कर्णयोस्तु समाख्यातं मयैतत्-
शुभलक्षणम् । कण्ठस्य साम्प्रतं वक्ष्ये यथावदनुपूर्वशः ।
अवक्रोहीनो दीर्घश्च कण्ठश्च शुभदोभवेत् । आरोह-
कप्रभूणाञ्च क्रमशः कुञ्जरस्य च । अवक्रः परिणाहेन
सप्तषष्ट्यधिकं शतम् । अङ्गुलानां तथायामे द्वाद-
शैवाङ्गुलानि तु । सम्पूर्ण्णपिण्डितोदग्रश्चान्तर्मणिविभू-
षितः । कण्ठोवारणनाथस्य एवं भूतः सुपूजितः । ऋजुः
प्रमोदजननः सम्पूर्णःकार्य्यसिद्धिदः । अह्रस्वोजय-
कृद्भर्त्तुः कीर्त्तितः पूर्ण्णपिण्डकः । उदग्रोवंशवृद्धिं च
प्रतापं कुरुते तथा । अन्तर्म्मंणिसमायुक्तोमणिरत्नप्रदो
भवेत् । करालञ्चातिनिम्नं च आसनं न प्रशस्यते ।
करालं यातुरशुभं निम्नं च व्रणकारकम् । दैर्घ्येण
हस्तमात्रं तु विस्तीर्णञ्च शुभं स्मृतम् । विस्तीर्णं विस्तृतं
राज्यं सम्पूर्णं कुरुते जयम् । वंशस्याथ प्रवक्ष्यामि लक्षणं
तु शुभाशुभम् । अत्युच्छ्रितोनिम्नपारः ह्रस्वो वंशोन-
शस्यते । राज्ञां च पादरोगाणां कर्त्ता च स मवेत्सदा ।
षण्णवत्यङ्गुलायासमासनात्पश्चिमासनम् । यावत् प्रपूर्य्यते
पार्श्ववंशोऽश्वफलकाकृतिः । शुभो ज्ञेयो गजेन्द्राणामा-
यामः कुरुते सुखम् । पूर्णपार्श्वस्तु लाभाय धनुःपृष्ठः
श्रियं नयेत् । अरत्निद्वयमानं तु पेचकात्पश्चिमासनम् ।
घनास्थि विषमं निम्नङ्गहितं पुच्छरोगदम् । मांसोप-
चयपूर्णं च विस्तीर्णञ्च शुभं मतम् । जघनोपरि रोगाणां-
तद्धि नाशकरं मतम् । (पेचकात्पुच्छमूलात्) । पुच्छोगजस्य
नो शस्तो बहुदीर्घोऽतिलम्बितः । करोति महतीं पीडां-
राज्ञश्चाधोरणस्य च । द्व्यङ्गुलस्तु पृथुत्वेन दैर्घ्येणाष्टाद-
शाङ्गुलः । संपूज्यः पेचकोज्ञेयो गजभर्त्तुः सुखप्रदः ।
पृष्ठ ०९६६
वक्रं स्थूलञ्च ह्रस्वं च पुच्छं कचविवर्जितम् । समानाहं
च नागस्य सर्व्वदोषकरं भवेत् । अवक्र ऋजुदीर्घश्च ग्रन्थि-
हीनः सुपेचकः । गोपुच्छबालप्रतिमकचब्रातविभूषितः । भूमिं
तु न स्पृशेत् यस्तु चतुर्भिश्चाङ्गुलैः सदा । स शुभो
बालधिर्ज्ञेयो गजभर्त्तृसुखप्रदः । अतिप्रमाणं ह्रस्वं च कर्वूरं
विगतप्रभम् । सिरालं चाशुभं मेढ्रं राजहस्तिपदुःखदम् ।
शस्तं षड़ङ्गुलायामं नाहतः षोड़शाङ्गुलम् । सिरा-
जालविनिर्मुक्तमाम्रपल्लवसप्रभम् । द्व्यङ्गुलं स्रोतसा युक्तं
विन्दुमात्रविवर्जितम् । मेढ्रं प्रशस्तं विज्ञेयं भर्तुर्जीवित-
वर्द्ध्वनम् । अतःपरं प्रवक्ष्यामि लक्षणं गात्रयीरपि । हीने
तनूच दीर्घे च सममांसोच्छ्रये तथा । विषमे च कचाक्रान्ते
गात्रे नागस्य निन्दिते । हीने तनू च कुरुतः प्रयातु-
र्विनिपातनम् । सममांसोच्छ्रये यातुर्विषमे च विपत्करे ।
कवाविले गजस्यैव गात्ररोगकरेतथा । अतःपरं प्रवक्ष्यामि
मात्रयोः शुभलक्षणम् । सार्द्धद्विरत्निस्त्रिरत्निः शताङ्गुल-
समानता । एवंमिते स्मृते गात्रे भर्तुरारोग्यसौख्यदे ।
समे च कचहीने च गजलाभकरे तथा । गजस्य पुष्टि-
दे नित्यं मांसले च घने स्मृते । मात्रे वारणनाथस्य
एवंभूते शुभे मते । चिपिटे वा सफलके गात्ररोगकरे सदा ।
संपूर्णे राज्यदे भर्तुर्गजस्य वसुसुप्रदे । तथैव
रोमनिहिते गजस्य गलोरगदे । अतःपरं प्रवक्ष्यामि
नखानाञ्च शुभाशुभम् । हीनाःकृष्णाश्च खण्डाश्च रूक्षाश्च
न नखाः शुभाः । सदा च रोगदा हीनाःकृष्णा भर्तृविना-
शनाः । खण्डारूक्षागजस्यैव पादव्याधिविवर्द्धनाः । स्नि-
ग्धाश्चन्द्रार्द्धसङ्काशा मानेनैव पुरोनखाः । सप्तादिपञ्च
संख्यानि अङ्गुलानि क्रमेण हि । एवं विधानखाः शस्ता
भर्तुरारोग्यकारकाः । अतःपरं प्रवक्ष्यामि पादयोरपि
लक्षणम् । हीनौ सुष्ठुतलौ रूक्षौ चरणौ दन्तिदुःखदौ ।
हस्तप्रमाणौ दैर्घ्येण कूर्माकारौ सुखप्रदौ । अतःपरं
प्रवक्ष्यामि लक्षणञ्चापराश्रितम् । अत्युच्छ्रिते च हीने च
निन्दिते चापरे तनू । सम्पूर्ण्णेच शुभे ज्ञेयेत्र्यरत्न्यायामसं
युते । निन्दिते रोगदे ज्ञेये पूजिते प्रभुसौख्यदे । द्वादशा-
ङ्गुल हीनं तु आसनात्पश्चिमासनम् । अपरपादयोश्चापि
आयामोऽरत्निमात्रकः । नखानां च तथा मानं षड़ादि-
चतुरङ्गुलम् । प्रधानावयवानान्तु लक्षणं कथितं यथा ।
उत्सेधायामनाहानां साम्प्रतं कथयाम्यहम् । समतन्तुस-
मायुक्ततन्तुना वर्त्तितेन च । सुप्रशस्ते दिने नित्यं मानं
कुर्वीत मानवित् । सप्तारत्नि गजेन्द्राणां प्रमाणं वनजन्मनाम् ।
आसनं यावदुत्सेधस्तलसन्धिसु कीर्त्तितः । पेचकात्प्रति-
मानन्तु आयामोरत्नयो नव । मध्यदेशे तदानाहों
दशरत्निः प्रकीर्त्तितः मानमेतद्धि भद्रस्य मुनिभिःपरिप्रकी-
र्त्तितम् । सप्तमेन तु भागेन हीनं मन्दस्य जायते । मन्दा-
द्धीनं मृगाख्यस्य षड्भागेन प्रकीर्त्तितम् । एवं क्रमेण
वक्तव्यं मानं मानविशारदैः । किञ्चिन्मानाधिके वापि न
दोषः संप्रपद्यते । दोषाणां च गुणानाञ्च वृद्धिरेव
फलप्रदा । सत्वं हि वारणेन्द्राणां नित्यं तन्त्रेषु संस्थितम् ।
स्निग्धे मधुनिभे दीप्ते कलविङ्काक्षिसन्निभे । रक्तपद्मदल-
च्छाये पद्मरागमणिप्रभे । नीलच्छाये अतीक्ष्णे च गजे सत्वं
प्रतिष्ठितम् । माजारवानरादीनां सदृशे नोबलं गजे ।
हीनसत्वाश्च जायन्ते गिरिकूटोपमा अपि । अधिकंपुषकरं
यस्य मांसलत्वेन जायते । प्रभयाच कषायं स्यान्मानेनाङ्गु-
लपञ्चकम् । किञ्चिदूने च विज्ञेये श्रोतसी चतुरङ्गुले ।
स्थूलपञ्जाङ्गुलायामा त्र्यङ्गुला नाह मानता । हस्तोऽपि पूर्व-
मानस्य स्थूलत्वेनाधिकोभवेत् । रोमशोनातिवृद्धश्च पृथुलः
षड्भिरङ्गुलैः । आयामेन च हीनःस्यात् पूर्वमानात् षड़-
ङ्गुलैः । नातिगोपुच्छसंस्थानःकृष्णविन्दुविभूषितः ।
आनाहे रत्नि मानौ तु सार्द्धहस्तद्वयायतौ । पीयूषकुमुदच्छा-
यौ किञ्चिच्चम्पकपिङ्गलौ । स्निग्धौ मुग्धतभावेव दन्तौ
नागस्य कीर्तितौ । दन्तावेष्टावतिस्थूलौ कचाक्रान्तौ सुनि-
ष्ठुरौ । पञ्चाङ्गुलौ कटौ ज्ञेयौ मांसीपचयपूरितौ ।
ज्ञेये कटोपरि तथा श्रोतसी द्व्यङ्गुलान्तरे । एकाशीत्य-
ङ्गुलानाहे द्वाविंशत्यङ्गुलायते । किञ्चिन्नतं कचाक्रान्तं
वाहित्थं परिकीर्तितम् । पतिमानं तु विज्ञेयं हस्तः
सचतुरङ्गुलः । अध्यर्द्धरत्निमानं च प्रमाणान्तर-
भेदतः । आयाममनु विज्ञेयस्त्वधरस्तु दशाङ्गुलः । विंश-
त्यङ्गुमानस्तु परिणाहोऽभिधीयते । पञ्चाङ्गुलं तु चिबुकं
सृक्विणी तु नवाङ्गुले । षड्विंशदङ्गुलायामे सङ्गते परिकी-
र्त्तिते । अध्यर्द्धरत्निकौ कर्णौ विस्तारेण कचाचितौ ।
कषायपल्लवौ स्थूलौ कृष्णविन्दुविचित्रितौ । सषद्भामकरा-
यामाववचूलौ कचाविलौ । पञ्चाङ्गुलान्तरौ पीनावुभावोष्ठौ
दशाङ्गुलौ । कर्णात् कर्णान्तरं यावत् षण्णवत्यङ्गुलं शिरः ।
वातकुम्भं तथा ज्ञेयं स्थूलं सप्तदशाङ्गुलम् । अङ्गुला-
नां शतं सार्द्धमानाहि द्व्यङ्गुलाघिकम् । आयतत्वं च कण्ठस्य
दशाङ्गुलमिति स्मृतम् । भद्रस्यैवासनं ज्ञेयं तथोक्तं सप्त-
रत्निकम् । षडङ्गुलोच्छ्रितं स्थूलं तुल्यं लाङ्गूलमानतः ।
पुच्छमूलाद् द्विहस्तन्तु जायते पश्चिमासनम् । उच्छ्रयेण
पृष्ठ ०९६७
तु हीनं स्यादासनं षड़भिरङ्गुलैः । पेचकस्त्र्यङ्गुला-
यामोलम्बत्वेनाङ्गुलत्रयम् । विंशत्यङ्गुलमानाहे भवेत्
पुच्छोयथागमम् । प्रान्तपादक्रमेणैव तथायामेऽङ्गुलत्रयम् ।
दैर्व्येण तु स विज्ञेयो भूमेरष्टाङ्गुलोच्छ्रितः । इदं
बालधिमानं तु मन्दस्य परिकीर्त्तितम् । सार्द्धद्व्यरत्निके मूले
अपरेसंप्रकीर्त्तिते । उदरे चातिमात्रं स्यान्मेढ्रं हस्तद्वया-
यतम् । विंशत्यङ्गुलमानाहे कृष्णच्छायं सदा भवेत् । पञ्च
चत्वारि च त्रीणि अङ्ग लानि नखाः क्रमात् । आपाण्डुवि-
वराः कुन्दाभासाश्चापरपादयोः । अनेनैव तु मानेन गात्र-
पादसमाश्रयाः । नखा मन्दस्य विज्ञेयाश्चरणाश्च
कचाबिलाः । अतिस्थूलः पृथुत्वेन सार्द्धहस्ताधिकः करः ।
अरत्निकं वा, दैर्घ्येण प्रमाणं गात्रयोरपि । उरोमणि
स्तथा ज्ञेयोरत्निमात्रोऽतिमांसलः । विंशत्यङ्गुलमानस्तु
अन्तर्गलमणिर्भवेत् । अनेनैव हि मानेन वातकुम्भः
प्रकीत्तितः । एते प्रशस्ता मन्दस्य मूनाथ! कथितास्तव ।
नोक्ता ये तेऽपि भद्रस्य विज्ञेयाः समलक्षणाः । मृगस्य
साम्प्रतं वक्ष्ये प्रदेशान् लक्षणान्वितान् । त्र्यङ्गुलं पुष्करं
तस्य त्र्यङ्गुले श्रोतसी तथा । अङ्गुलानि च चत्वारि
कीर्त्तितास्तस्य चाङ्गुलाः । तनुः करः त्र्यरत्निःस्या-
दानाहे सार्द्धरत्निकः । बाहित्थात् पुष्करं याव
न्मानं सद्भिरुदाहृतम् । तथा तनुतरौ दन्तौ दीर्घ्ये
सार्द्धद्व्यरत्निकौ । ह्रस्वौ च मस्तकौ स्यातान्तयोः सप्त-
दशाङ्गुलौ । प्रतिमानं तथा ज्ञेयं निम्नं पञ्चदशा-
ङ्गुलम् । द्व्यङ्गुलं चिबुकं तस्मादधरस्तु षड़ङ्गुलः ।
अष्टादशाङ्गुलानाहे सृक्वणी तु षड़ङ्गुले । स्याता-
मङ्गुलविंशत्यौ कपोलौ निम्नमध्यगौ । कटौ द्व्यङ्गुमानौ
तु निर्याणे चतुरङ्गुले । नेत्रे चापि तथा स्यातान्निष्प्रभेस्थू-
लतारके । नातिव्यक्तं समांसं स्पाद्वातकुम्भं दशाङ्गुलम् ।
गर्त्ताकारञ्च निम्नं च कटकुम्भंतथैव तु । अष्टाङ्गुलान्तरं
कुम्भ आयामे षोड़शाङ्गुलः । विंशत्यङ्गुलकौ कर्णौ स्तब्धौ रूक्षौ
च वर्त्तुलौ । षण्णवत्यङ्गुलानाहा आयामे षोड़शाङ्गुला ।
ग्रीवा मृगस्य विज्ञेया करालमासनं भवेत् । सार्द्धद्व्यरत्नि-
कायामः कुब्जतुङ्गोऽतिमात्रया । वंशोमृगस्य विज्ञेयो निम्न-
तल्पनिभप्रभः । स्थूलास्थि विषमं निम्नं पुच्छमध्यर्द्धरत्नि-
कम् । आसनेन समं चैव मृगस्य पश्चिमासनम् । पञ्चाङ्गु-
लस्तु विज्ञेयः पेचकोगुदसंसृतः । कचाग्रन्थिसमाकीर्ण्णः
स्थूलोह्रस्वश्च बालधिः । अपरापादपार्ष्णिभ्यां हस्त-
मात्रसमुच्छ्रयः । दीर्घतनुरुहच्छन्नोद्विसप्तत्यङ्गुलायतः ।
तत्प्रमाणे तथा गात्रे चिपिटे चापि निष्प्रभे । चरणाश्च
गतच्छायैश्चतुस्त्रिद्व्यङ्गुलैर्नखैः । संयुक्ताःस्फुटिता निम्ना माने-
नाष्टादशाङ्गुलाः । एतदुद्देशमात्रेण कथितं मृगलक्षणम् ।
अतःपरं प्रवक्ष्यामि तेषां बलपरीक्षणम् । गजा न बलर्हानेन
सुरूपेणापि शोभनाः गुणेष्वपि बलं श्रेष्ठं तत् परीक्षीत
पण्डितः । शरीरान्तर्गतः प्राणो बलशब्देन कीर्त्त्यते । क्रियते
वारणस्याथ तस्योपायैः परीक्षणम् । जाम्बूनदस्य ताम्रस्य
पलानां रजतस्य वा । अष्टादशसहस्राणि युक्त्या
संगृह्य वेगवान् । दशयोजनमध्वानं गच्छति श्रमवर्जितः ।
यो गजो गजमध्ये तु स उत्तमबलः स्मृतः । यश्चतुर्दश-
साहस्रभारमादाय गच्छति । सप्तयोजनमध्वानं स मध्य-
मबलोमतः । दशसाहस्रिकं भारं गृहीत्वा पञ्चयोजनम् ।
अध्वानं योहि संयाति स हीनबल उच्यते । सत्रिभा-
गद्विहस्तेन परिणाहेन संयुतम् । चतुर्हस्तनिस्वातं तु
योभिनत्त्युत्तमोहि सः । अथ वोत्पाटयेद्वापि बलेन
महता युतः । सार्द्धत्रिहस्तखातन्तु सप्तहस्तोच्छ्रितं
तथा । पञ्चाशदङ्गुलीकेन परिणाहेन संयुतम् । भिनत्ति
योगजः शीघ्रं क्षिपत्युद्धृत्य वा पुनः । स गजानान्तु
सर्वेषां मध्ये मध्यबलो मतः । हस्तत्रयनिखातन्तु
षढस्तोच्छ्रयमेव वा । युक्तं स्थूलतया चैव पूर्वसं-
ख्यार्द्धमात्रया । भिनत्ति हेलया यस्तु उत्खातं वा
करोति वा । स्तम्भं कुञ्जरमध्येतु स हीनबल उच्यते ।
गुरुत्वं च यतः श्रेष्ठं गुरुत्वादधिकं बलम् । बलादभ्यधिकं
सत्वं तस्मात्सत्वं निरूपयेत् । शुद्धस्फटितसङ्काशं सत्वं हृदि
शरीरिणाम् । दुर्लक्ष्यं विद्यते सम्यगुपायैस्तद्धि लक्षयेत् ।
सुप्रशस्ते दिने लग्ने गजोगैरिकमण्डितः । कर्ण्णे
चामरशङ्खादिसुखाभरणभूषितः । पादान्दोलनसंजात-
घण्टारवनिभस्वनः । आरोहककरास्फालकृतोत्साहोन्नता
ननः । अत्यन्तं ढोकयेच्छ्रीघ्रं पार्श्वकोलाहलाकुलः ।
वेगोत्थानकृतास्फोटदन्तसंघट्टमर्दनैः । कृतां कामपि न हस्तस्य
वेदनां यो न मन्यते । यो हि मदैःकृतास्फालैः स्वकटं
भर्त्तुमिच्छति । नापसर्पति भीत्यानोप्रतियातं रणात् क्वचित् ।
कण्ठगर्जितनादेन परिपूरितदिग्मुखः । निवर्त्त्यते च
दुःखेन स भवेत् सत्ववान् गजः । प त्यश्वसमूहं वा
गजमालातिमीषणम् । रागोत्थानसमुद्भूतगम्भोरकल-
हाकुलम् । उत्थाय समरे गच्छेद्रोषरञ्जितलोचनः ।
दन्तदारणरागेण प्रतिनागकृतेक्षणः । प्रसारितैरतिस्तर्व्वै-
र्निःशङ्कं कर्णपल्लवैः । यो गच्छत्यतिवेगेन स भवेत् सत्ववान्-
पृष्ठ ०९६८
गजः । शार्दूलाकृतिसत्वानां त्रासवर्जितमानसः । कृतकं च
तथा नागं योभिनत्त्युत्तमो हि सः । दावानलशिखिश्रे-
णीशब्दसंत्रासवर्जितः । वनेषु विचरत्येष स सत्वसहितो
गजः । कृतशङ्कावशाद्यस्तु न वारोहिणमीयते । सङ्क-
चन् मस्तकं दीनोमन्दान्मन्दतरो भवेत् । आलोकयति
पार्श्वानि चीत्कारकरणप्रियः । आलोकयति सोष्मभ्यां
लोचनाभ्याम्प्रतिद्विपम् । पदात्यश्वसमूहं वा ज्वलन्तमिव
मन्यते । अधमस्तु सुविज्ञेयो गज सः श्रमवर्जितः । यस्तुसं-
धटते मन्दं घटितश्चापसर्पति । तथापसर्प्य वेगेन दन्ताघातं
प्रयोजयेत् । किञ्चित्तिर्य्यन्मुखोभूत्वा कृतचीत्कारनि-
स्वनः । कुरुते दन्तसंघातम् स विज्ञेयोऽघमोगजः” ।
प्रथमादिपञ्चसुदशासु मदविकारभेदमुक्त्वाह तत्रैव ।
“तटतरुभवनोन्मूलनरतस्तु षष्ट्याङ्गजो भवति । करवद-
नाक्षिकटस्थल गलन्मदसलिलसिक्तभूमितलः । संग्रामे
रिपुभरकरविमुक्तशरनिकरशल्यसहः । करवीरपुष्पलो-
हितलीघनः स चारुदारुणाकारः । प्रतिनागसंघदारणप्र-
कृतिरंशलस्तु सप्तम्याम् । न शृणेति नैव पश्यति च न
भयञ्जानाति सर्वसत्वकृतम् । यश्च घनास्फालितं मुखरितं
चाननं पतति कारयन् । न सहन्ते तस्य गन्धं सङ्कोचि-
तगात्रकुब्जकरकटाः करिणः । मर्द्दितनिजबला विमुक्त-
नादाः प्रणश्यन्ति । न तथा शङ्खाभरणैर्न चामरैर्नाक्ष-
मालाभिः । भवति यथा मदसारैर्मुखस्य शोभा
गजेन्द्राणाम् । क्लमविरहिता भवति हि षष्ठी वा पञ्चमी
चतुर्थी वा । दोनावस्था करिणां सत्ववतां मदविशेषेण ।
अतिवृद्धमदविकारे मृह्यन्ति शिशुमदेऽपि मातङ्गाः ।
सत्वातिरेकयुक्ताबलस्य शोभां परां प्राप्ताः” । स्थलभेदे न
मदोद्गमफलं तत्रैवाह । “कुरुते नरपतितुष्टिं दक्षिणगण्ड-
स्थलोद्गतन्दानम् । रोमोद्गतं च यातुर्विशेषसुखदं सदा
भवति । उभयकटस्थलसमनिर्गतं च विषयस्य वृद्धि-
करम् । शिशिरसुगन्धिपरिमलं सुखप्रदं जायते भर्तुः ।
माङ्गल्यं श्रीजननं सोभाग्यकरं सत्वजननं च । माद्यन्ति
यत्र देशे दशाविपाकेन बलकृतानन्दाः । करिणस्त-
स्मिन् राजा वर्द्धितवंशः सुखं वसति । कतकबहुलैलापरि-
मलश्च सुखदोमदो भवति । मूत्रपुरीषस्वेदासृक्वफरसो-
नादितीब्रगन्धधरः । अशुभकरोऽसौ नरपतियातॄणाञ्जा-
यते मदः । जायन्ते ये भावा राजन्! मदखण्डमण्डित
मुखस्य । नागस्य मद विशेषास्तांस्तान् प्रवक्ष्यामि ।
चालयति दुर्गन्धमिवाघ्राय पुष्करं क्षिपति प्रेरयति । लेढि-
जिह्वाग्रेण सृक्वणी विघटितोष्ठपुटः । संपीड्य पुषुकराग्रेण
चाङ्गुलिं निःश्वसच्चाधोवदनः । तिर्यक्प्रेक्षी भवति
मीलिताक्षः क्षणं स्थित्वा । तिर्यक् चालितवदनमङ्गुल्या पुष्-
करप्रकम्पेन । किञ्चित्समुन्नतास्यः कर्णकण्डूयनं कुरुते ।
किञ्चिच्च दर्शयित्वा मेढ्रंनाशयति कीशकृन्मूत्रम् । हृष्टः
क्रीड़ति परिवर्त्तिताननो बन्धनस्तम्भ कृतमत्सरः । प्रधा-
वति संवेष्ट्य करं विषाणमुद्यम्य गर्जति सलिलपूरितज-
लधरगम्भीरनादेन । उन्नामिताग्रहस्तः स्वच्छन्दङ्गच्छ-
तिक्वापि । गुरुमक्षिकश्व भवति वनतरुगहनोन्मूलनानुर-
तः । वागङ्कुशमुखजातं बाधनं न सहते ह्यभिन्नसत्वोयः ।
तिर्यग्विकलत्वाश्च तथा सगजो गुरुमक्षिकोज्ञेयः ।
रमते च पांशुविकरणकर्दमावगाहाद्यैः । एवंविधस्व-
भावो मदभेदवशाद्गजो भवति । यो यस्मिन्नेव ऋतौ
गृह्णाति मदम्भतङ्गजः सुखदम् । स च तस्मिन्नेव पुनः
प्रभिद्यते दानयुक्तश्च । इति मदवृद्धिविशेषाः कथितास्तव
भूतलेश! तत्त्वेन । परिवर्त्तते मदोयैर्हेतुभिरशुभैस्तु
तान्वक्ष्ये । प्रतिवारणाभियानाद्दूराध्वगमनात्कुभो-
जनाच्चापि । बन्धनदोषाच्च तथा तृष्णाक्षुत्पीड़नाच्चापि ।
शार्दूलादित्रासाद्दावानलोल्काशनिप्रपतनाच्च । (अशनि-
रत्र विद्युत्) । नश्यति मदोगजानां शीघ्रं वर्त्मविघ्नतश्च
तथा । मातापितृजैर्दोषैर्मन्दमदानन्दबर्जिताश्च तथा ।
जायन्ते द्विरदा यैर्यथा तथा साम्प्रतं वक्ष्यामि । मन्दमदेन
हि करिणा जातः किञ्चिम्मदोगजो भवति । मदविरहितेन
तथा जनितोमदविवर्जितोऽस्त्येव । समदेन तु यो जातो-
गजो गजेन्द्रेण भवति तस्य मदः । एवं मदप्रकारा
मातङ्गानां समुद्दिष्टाः । शृणु साम्प्रतं नरेश्वर! मदापसरणो-
द्गवानि चिह्नानि । यानि भवन्ति गजानां मन्दमृदुमद-
विगलितसमुदयानाम् । रूक्षच्छायायुक्तोनिम्लोचितगण्ड-
स्थलगतश्रीः । कुप्यति येभ्यः शङ्काङ्करोति तेभ्योऽपि सत्वस्थः ।
गण्डस्थलेन जिघ्रति करेणुकां स्पृशति नैव हस्तेन । मूत्र-
पुरीषाणि च नो जिघ्रति वारणकृतानि यातुर्वा शनैर्गच्छति ।
सततंपरिमृष्टदानराजिपरीकीर्णकटोहस्नेनातीव सङ्घर्षणं
कुरुते । मुहुरभिनन्दति निद्रामलसो मनसा न तुष्टिमुप-
याति । लिङ्गान्येतानि करिणो मदेन मुच्यमानस्य जायन्ते ।
प्रतिकुञ्जरयुद्धकृतो बलहर्षदशावयोभ्यस्त्वशुभः । भवति
मदोनागानां तापादिसमुद्भवश्च शुभः” । “रूपवान्मदसम्प-
न्नोविन्ध्यशैलसमप्रभः । जायते सत्वहीनस्तु कुञ्जरः केन हेतु-
ना । केन वा रूपहीनोऽपि मदोच्छ्रयविवर्जितः । सत्ववान्
पृष्ठ ०९६९
जायते नागो एतदाख्यातुमर्हसि” इति नहुषपुष्टो वृहस्पति
रुवाच । “यथा जातकयोगेन जन्तूनां च शुभाशुभम् ।
तथा बन्धनकालोत्थङ्गजानामपि जायते । सुसग्नावस्थितैः
सौम्यग्रहैः पीड़ाविवर्जितैः । बन्धनं यस्य जायेत
स भवेत् सत्ववान् गजः । स्त्रीनक्षत्रेषु गृह्यन्ते ये
गजाः क्रूरदृष्टिभिः । ये चालोकितनक्षत्रास्ते भवन्ति
भयाकुलाः” । उक्तञ्च शम्भुना “मृगजातयीऽपि हि शूरा
भवन्ति मधुपिङ्गललोचनाः स्निग्धाः । वृषसिंहमीम-
वृश्चिकलग्नेषु स्वीकृताः करिणः” । पुनर्नहुषप्रश्ने गुरोः
प्रत्युक्तिस्तत्रैव । “राजन् पञ्चविधं चैव गजानां विदितं मतम् ।
अत्यर्थं प्रथमं ज्ञेयं प्रत्यर्थं च तथापरम् । अन्वर्थं चैव गम्भीर-
मुत्तानं पञ्चमं भवेत् । प्रतोदाङ्कुशदण्डाद्यै र्विद्यादुद्वेजितानि
यः । तीव्रसङ्कुचितस्पृष्टः स स्यादत्यर्थवेदिता । स्तोकं बहु
बहु स्तोकं क्षतं मन्येत योगजः । वागङ्कु शादिभिर्नित्यं सहि
प्रत्यर्थवेदिता । जानात्यङ्कुशतोत्राद्यैर्यद्यथा तत्तथैव हि ।
क्षतङ्कायभयैर्मुक्तोऽन्वर्थज्ञःस गजोभवेत् । अङ्कुशादिब्रणान्
राजन्! यश्चिरेणावगच्छति । तीव्रानपि स गम्भीरवेदी
भवति वारणः । रोम्णामग्रं तृणेनापि स्पृष्टंवेत्ति तु यो
गजः । उत्तानवेदिनं तन्तु गजं विद्धि महाभुज! सर्वाणि
वेदितव्यानि भद्रादीनां भवन्ति वै । प्रकृतिस्थस्य सततं
भद्रस्यान्वर्थवेदिता । गम्भीरवेदिता चापि मन्दस्यैव प्रकी-
र्त्तिता । उत्तानवेदिता नित्यं मृगस्यैव भवेन्नृप! । वेदि-
त्वंगजजातीनां तिसृणामपि जायते । साम्प्रतञ्च
यथाशास्त्रं कथ्यते वेगलक्षणम् । तिसृणामपि जातीना मुत्तमा-
धममध्यमम् । न चाल्पं न च वृद्धं द्विपञ्चपदसं स्थितम् ।
गजोत्थानसहोत्थानं नरं प्राप्नोति येन तु । रयाविष्टेन
मनसा स वेगौत्तमोमतः । (द्विपञ्चपदसंस्थितं दशपदस्थितं
गजोत्थानसहोत्थानं गजधावनसमसयधाविनम्) येन
वेगेन गृह्णाति नरं सप्तपदान्तरम् । पदानां शतमात्रन्तु
स मध्यमजवो भवेत् । येन पञ्चपदस्थं हि नरं गृह्णाति
नोदितः । पदानान्तु शतं सार्द्धं स हीनोजव उच्यते ।
शतद्वयं वा धनुषां गच्छेदुन्नमिताननः । द्वात्रिंशता च
मात्राभिः स उक्तमजवो भवेत् । पञ्चाशता च मात्नाभिः
यायाद्यस्तु शतद्वयम् । स मध्यमोऽधमोज्ञेयो मात्राणाञ्च
शतद्वयात् । एवं परीक्ष्यते राजन्! वेगो वीथिषु दन्तिनाम् ।
अतःपरं प्रवक्ष्यामि गजस्य गुणलक्षणम्” ।
तत्र कल्याणशीलः “भारार्द्दितोवा तृषितः क्षीणः
श्रान्तोबुभुक्षितः । रात्रौ वा दिवसे वापि निर्विकारस्तु
यो भवेत् । कल्याणशीलः स ज्ञेयो समस्तगजलक्षणैः
विकारं कुरुते यस्तु पीड्यमानःक्षुधादिभिः । तमकल्या-
णिनं राजन् गजन्दुष्टं प्रकल्पयेत् । कोपोऽपि द्विविधोज्ञेयः
शिशुश्चैवाशिशुस्तथा । द्विविधस्यापि राजेन्द्र! यथावच्छृणु-
लक्षणम् । उद्वेजितोऽपि कालेन कोपं बध्नाति निर्भरम् ।
क्षिप्रं गृह्णाति च क्रोधं दुर्निवारं सुदुः सहम् । शिशु-
क्रोधः स विज्ञेयो गजलक्षणकोविदैः । वार्यमाणोऽपि
यत्नेन न शमं याति मुह्यति । स ज्ञेयस्त्वशिशुक्रोधो
राजन्! स हि रणप्रियः । साम्प्रतं चैववक्ष्येऽहमायुर्लक्षण
मुत्तमम् । आभ्यन्तरं च बाह्यञ्च लक्षणं द्विविधं स्मृतम् ।
आभ्यन्तरं योगसाध्यं बाह्यं किञ्चिच्च लक्ष्यते । तेनान्तरं
परित्यज्य बाह्यं लक्षणमुत्तमम् । क्षेत्रसत्वसमायोगा ।
भवन्ति द्वादशैव हि । एकं हस्तगतं क्षेत्रं द्वितीयं वदना-
श्रितम् । तृतीयञ्च विषाणस्थञ्चतुर्थं शिरसिस्थितम् ।
पञ्चमं नयनस्थं च षष्ठं कर्णाश्रितं भवेत् । कण्ठस्थं सप्तम-
ञ्चैव अष्टमङ्गात्रसंस्थितम् । नवमं चरणे ज्ञेयं शेषाङ्गस्थं-
द्विपञ्चमम् । एकादशञ्च कान्तिस्थं द्वादशं सत्वसंस्थितम् ।
एवं द्वादश क्षेत्राणि मातङ्गानां भवन्ति हि । द्वादशैव
दशाज्ञेयाः शेषाङ्गेष्वभिलक्षिताः । विंशोत्तरं वर्षशतम्भद्र-
स्यायुः प्रकीर्त्तितम् । अव्दान्यशीतिर्मन्दस्य चत्वारिंशत्
मृगस्य च । मिश्रस्य चायुषः संख्या जातिभावेन जायते ।
प्रदेशज्ञानतत्त्वज्ञोजातिं समुपलक्षयेत् । सर्वक्षेत्रैः सुसंपूर्णः
संपूर्णायुर्गजो भवेत् । हीनैश्च हीयते चायुर्यथावदभिधी-
यते । दशाव्दानां क्षयं कुर्य्याद्धस्तलक्षणवर्जितः । विशं-
त्यव्दविनाशश्च हीने क्षेत्रद्वये भवेत् । क्षेत्रत्रयावहीने च
त्रिंशदव्दपरिक्षयः । चत्वारिंशत्समाहानिर्हीने क्षे-
त्रचतुष्टये । (समा संवत्रः) । पञ्चाशदव्दाहीयन्ते हीने
तु क्षेत्रपञ्चके । षट्क्षेत्रहीनतायान्तु षष्टिवर्षविनाशनम् ।
सप्तत्यब्दविनाशाय सप्तक्षेत्रविहीनता ॥ अशीतिरष्टभि-
र्हीने वर्षाणाञ्च विनश्यति । नवतिर्नवभिर्हीनै क्षेत्रैर्नाशं-
हि प्रयाति । दशभिश्च तथा हीनैर्नश्यत्यव्दशतं ध्रुवम् ।
दशोत्तरं चाव्दशतं हीना च्छाया विनाशयेत् । विंशोत्तरं
चाव्दशतं हीने सत्वे विनश्यति । एवं दशाव्दनाशंच
क्षेत्रं कुर्यादलक्षणम् । एवमायुःक्षयं विद्यात् गजस्य
गजकोविदः । सामान्यलक्षणं ह्येतत् जीवितस्य परीक्षणे ।
विशेषलक्षणं यावद् ग्रहलक्षणजातितः । एवमुद्देशमा-
त्रेण गजायुर्लक्षणं तव । कथितं साम्प्रतं राजन्! दोषघ्नं
वच्मि लक्षणम् । पादानां लक्षणं सम्यक्दन्तदोषं प्रणाशयेत्
पृष्ठ ०९७०
--येत् । दन्तयोर्लक्षणं हन्ति दोषान् वाहित्थसंश्रितान् ।
वाहित्थलक्षणैः सम्यक् नेत्रदोषक्षयो भवेत् । नेत्र-
योर्लक्षणं हन्ति दोषांस्तालुसमाश्रितान् । सृक्वदोषवि-
नाशश्च क्रियते तालुलक्षणैः । सृक्वाणां लक्षणं कुर्य्यात्-
सगददोषनाशनम् । कपोलकटदोषघ्नाः सगदस्थागुणा
नृप! । निर्याणवातकुम्भानान्दोषघ्नः करयोर्गुणः ।
कुम्भदोषविनाशाय तयोरेव गुणो भवेत् । कर्ण्ण-
दोषविनाशस्तु क्रियते कुम्भलक्षणैः । कण्ठदोषविना-
शाय कर्णलक्षणमेव हि । आसनस्य हि ये दोषास्तान्
हरेत्कर्णजोगुणः । वंशदोषक्षयकर आसनस्य गुणो भवेत् ।
गुणाघ्नन्ति हि वंशस्य दोषान् तत्स्थलसंश्रितान् ।
पश्चिमासनदोषघ्नं लक्षणं तत्स्थलश्रितम् । कुक्षिपेचक-
दोषघ्नं पश्चिमासनलक्षणम् । गुणाः पेचककुक्षिस्थाः
पुच्छदोषविनाशनाः । मेढ्रदोषक्षयं कुर्य्यात् पुच्छलक्षणमेव
हि । मेहनस्य गुणा हन्ति दोषांश्चैवापराश्रितान् । अण्ड-
कोषगतं दोषमपरालक्षणं हरेत् । नाभिदोषक्षयं कुर्याद-
ण्डकोशस्य लक्षणम् । नाभेर्गुणैश्च हन्यन्ते दोषास्तनस-
माश्रिताः । उरोमणिगतान् दोषान् नाशयेत् स्तनल-
क्षणम् । चिबुकस्य हरेद्दोषान् उरोमणिगतोगुणः । यथा
दोषक्षयो राजन्! लक्षणैः क्रियते शुभैः । दोषातिरेकोऽपि
तथा प्रदेशगुणनाशकः । प्रदेशोऽनन्तरस्यैव प्रदेशस्यगुणा-
न्वितः । कुरुते दोषनाशं हि स दोषोगुणनाशनः । करकु-
म्भविषाणाक्षिकर्णलक्षणसंयुतः । सर्वैरेवाशुभैरन्यैर्ल्लक्षणै-
श्चाशुभोगजः । शूलं चन्द्रांशुशुभ्रं स्याद्वक्रं च ज्वलन प्रभम् ।
वज्रं काञ्चनसङ्काशङ्कालदण्डःसुपिङ्गलः । एतेषां च
समायोगाद्दन्तानां मधुपिङ्गता । यतो गजविषाणानामतो
मधुनिभाः शुभाः । भद्रजातेर्गजस्यैतन्मन्दस्य च मृगस्य च ।
घृतपीपूषकुन्देन्दुकेतकीच्छविपञ्चकम् । एवं जातित्रयस्यापि
सामान्यं शोभनं मतम् । कपोतधूमभस्मास्थिसर्पच्छत्रक-
सन्निभाः दन्तयोस्त्वशुभारजन्! छाया पञ्चविधा अपि ।
अध्यर्द्वारत्निकं राजन् प्रमाण दन्तयोः शुभम् ।
अत ऊर्द्धं प्रवक्ष्यामि गजानां वर्ण्णलक्षणम् । आहारस्य
विशेषेण वातपित्तकफैस्तथा । देशलक्ष्मगुणैश्चैव वीजयोनि
वशेन । ग्रहालोकननक्षत्रलग्नराशिवशेन च । पूर्वकर्म्म-
वशाच्चापि धातूनाञ्च विपर्ययात् । भवन्तिकारणैरेभिर्वर्ण्णा-
नानाविधा नृप! । दिव्यसत्वाः शुभैर्भेदैर्विविधास्ते भवन्ति
हि । मिन्दूरशङ्खषैदूर्य्यविद्युज्जाम्बूनदप्रभाः । इन्द्रनीलस-
मानाभा भवन्ति शुभकान्तयः । अतिश्वेताश्च रक्ताश्च शुकव-
र्हिणसप्रभाः । एते देवगजाः सर्व्वेमूतले न भवन्ति हि ।
अतिश्वेताश्च रक्ताश्च शुकवर्हिणसप्रभाः । दैवयोगाद्वने प्राच्ये
क्वचिदेव भवन्ति हि । वन्दनीयश्च पूज्योऽसौ नासौ ग्राह्यो-
नराधिपैः । शृङ्गाराङ्गारभस्मास्थिपङ्कमाञ्जिष्ठसन्निभाः । म्ला-
पुष्पसवर्ण्णाश्च गजास्त्वेतेऽतिनिन्दिताः । एवं वर्णविशेषास्तु
कथितास्तव सुव्रत! । गजमेकादशगुणं वक्ष्यमाणं निबोध
मे । मधुसन्निभदन्तश्च श्यामोमधुनिभेक्षणः । उदरेपाण्डु
वर्णश्च वक्त्रे च कमलप्रभः । द्विरेफसमबालश्च कुन्देन्दु
सदृशैर्नखैः । स्थूलतारोमयुक्तश्च शेषेष्वङ्गेषु पीतकः । विचित्रञ्च
मुस्वं यस्य रक्तैःश्वेतैश्च विन्दुभिः । स नागोगजयूथानां
मध्ये राजाऽत्र जायते । तं प्राप्य नृपतिर्भुङ्क्ते सागरान्तं
महीतलम् । नीलसवर्णसंस्थानः स गजोयूथनायकः ।
मुखे मदे च हस्ते च कर्णोदरशिरस्मुयः । केशैः शुभैश्चः
वलिभिर्विन्दुभिः परिमण्डलैः । सवर्ण्णोयो भवेद्दन्ती
कैलासः सोऽभिधीयते । अतःपरप्रवक्ष्यामि निःश्वासस्य तु
लक्षणम् । निःश्वासोद्विविधोज्ञेयः शुभश्चैवाशुभस्तथा ।
शुभः सुरभिगन्धः स्यात् पूतिगन्धोऽशुभोमतः । विशेषेण
तयोश्चैव लक्षणं भूप! कीर्त्त्यते । सूक्ष्मता दीर्घता चैव समता
च सुंगन्धिता । सौकुमार्य्यं मृदुत्वं च निश्वासस्य तु षड़्-
गुणाः । स्थूलता ह्रस्वता चैव दुर्गन्धत्वं तथोष्णता ।
पारुष्यं विषमत्वञ्च दोषाश्चापि भवन्ति षट् । दशा
रत्निप्रमाणं च रेणुकं पित्तलक्षणम् । यो निश्वसिति
दीर्घं च स दीर्घायुर्गजो मतः । अरःपरं प्रवक्ष्यामि
गजालोकित लक्षणम् । स्निग्धं स्थिरं च सौम्यं च वारि-
जोत्पुल्लतारकम् । सलक्षं प्रतिनागं तु प्रेक्षितं शुभका-
रणम् । उद्विग्नञ्चञ्चलं दीनमविकाशिततारकम् । ऊर्द्धाधः
पार्श्व दृष्टञ्च निर्लक्षं निन्दितं भवेत् । कचानां साम्प्रतं
भेदान् वक्ष्यमाणान्निबोध मे नेत्रयोः पुटपालिस्थाः कचाः
शुभफलाः स्मृताः । संख्या तस्यैव मानन्तु रोम्णां चैव
प्रकीर्त्तितम् । देहच्छायासवर्णत्वं मृदुत्वं च तथा परम् ।
अनाबिलत्वं घनता नम्रा च स्फुटिताग्रता । अंशुमत्ता च
सूक्ष्मत्वं रोम्णां सप्त गुणा स्मृताः । दोषाश्च सप्तसंख्याः
स्युर्गुणानां च विपर्य्ययात् । शुभानि शुभकर्त्तृणि दुःख-
दान्यशुभानि च । अतःपरं प्रवक्ष्यामि लक्षणं पक्ष्म-
संश्रयम् । बाह्योत्तानानि रूक्षाणि दीर्घाण्या यतनानि च ।
मृदूनि पिङ्गवर्ण्णानि पक्ष्माणि करिणः सदा । स्निग्ध
च्छायानि कृष्णानि समानि च दृढानि च । अयनानि
मच्छि द्राणि पक्ष्माण्यतिशुभानि च । गजानां स्वामिनः
पृष्ठ ०९७१
सौख्यं कुर्व्वन्ति रमणीयताम् । दृढाः स्निग्धाग्रलम्बाश्च
सुवृन्ताश्च च्छदप्रभाः । तालवृन्तसमाकारा बाला भर्तुर्जय
प्रदाः । शुनःपुच्छसमा रूक्षाः कपिलाः स्फुटितास्तथा ।
घनत्वातिशयोपेताः सुवृत्तास्त्वतिनिन्दिताः । भर्त्त्रारो-
हिगजानान्तु नित्योद्वेगकरास्तु ते । अतःपरं प्रवक्ष्यामि
केशानामपि लक्षणम् । अभिन्ना ऋजवः स्निग्धा घना
मधुकरप्रभाः । केशा वारणनाथस्य क्षेमवृद्धिकरा मताः ।
रूक्षास्तु निष्ठुराः पिङ्गाः स्फुटिताश्च जुगुप्सिताः ।
कुर्व्वन्ति दन्तिनां नित्यं स्वस्य नाथस्य चाशुभम् । पक्ष्मवा-
लकेशरोम्णां लक्षणं कथितं मया । फणिमार्जारमण्डू-
कशृगालैश्च समप्रभम् । वानरस्य समं चैव मुखं नागस्य
निन्दितम् । स्निग्धान्यापूर्णगण्डानि गिरिकूटनिभानि
च । आपूर्णमेघरूपाणि पूजितानि मुखानि चै । मदहीनं
कृशं ह्रस्वं बाहित्थनिःप्रभं तथा । वराहलोचना-
क्रान्तमदृष्टचिबुकं तथा । ललाटतटपर्य्यन्तगर्त्ताकृतिभिर-
न्वितम् । सगदं हीनतायुक्तं मुखं नागस्य निन्दितम् ।
मुखस्य लक्षणं सम्यक् कथितं तव सुव्रत! । अतःपरं प्रव-
क्ष्यामि मातङ्गगतिलक्षणम् । समा च लघुपादा च वेगे-
ऽप्यतिशुभा मता । दीर्घक्रमा सुखोत्क्षिप्ता गात्रसंवरहा-
रिणी । शुभलक्षणसंयुक्ता पुरुषस्य वकस्य च ।
मातङ्गवृषसिंहानां गतिर्मुख्या शुभा मता । क्लेशचालि-
तगात्रा या विषमा सुलघुक्रमा । वेगेऽपि मन्दसञ्चारा-
विशेषान्दोलितासना । मृगस्य कृकलासस्य जम्बूकस्य खरस्य
च । गमनेन समा या, सा शुभा नो दन्तिनाङ्गतिः । कथितं
तव राजेन्द्र! गजानां गतिलक्षणम् । स्थितानाञ्च यथायीगं
साम्प्रतं लक्षणं शृणु । पञ्चस्थितसप्तस्थित नवस्थित द्वादश-
स्थिताश्चैव । पुण्यवतां जायन्ते राज्ञां गिरिसन्निभाः करि
णः । लक्षणसहितैः स्निग्धैः करकुम्भविषाणकर्णनयनैश्च ।
संयुक्तो भवति गजो वसुदः पञ्चस्थितो नागः । (वसुदःधनदः)
परिणाहायामोच्छ्रयबलविक्रमधैर्य्यकान्तिसम्पन्नः । भर्त्तुः
प्रतापजननो ज्ञेयः सप्तस्थितो हस्ती । उत्साहवेग-
साहसमदसत्वगुरुत्वदक्षतायुक्तः । करदन्तकर्मसु कुशलो-
नवस्थितः करी भवति । बुद्धिर्मेधा सत्वं यत्नःकुम्भौ
तथाऽक्षिणी हृदयम् । रोमाणि च्छविपादाः तथासनं पृष्ठवं-
शश्च । द्वादश चैतानि सदा स्थितानि दृश्यन्ते यस्य नागस्य ।
स द्वादशस्थितोवै भवति गजः सर्व्वसौख्यकरः । सञ्चार
स्थितभेदाः कथिता गुणसंश्रया गजेन्द्राणाम् । दिव्या-
धमसत्वानां लक्षणमिह साम्प्रतं वक्ष्ये । निहतद्विपदचतु-
ष्पदकुणपान्न स्पृशति च न यो मृह्णाति । न च जिघ्रति
भूत्रादीन् स वारणोदिव्यसत्वस्तु । दत्तञ्च योऽत्ति मांस
सत्वानां सर्वं तु लोभेन । जिघ्रति मूत्रपुरीषाणि पिशाचसत्वः
स विज्ञेयः । एवं सत्वपरीक्षा क्रियते नरनाथ! वारणेन्द्रा-
णाम् । स्वरलक्षणमिदानीमशुभं शुभञ्च वक्ष्यामि । स्थाना-
न्यष्टौ नृपते! भवन्ति शब्दस्य वारणेन्द्राणाम् । ताल्वोष्ठ-
शिरौरःकरजिह्वामूलं गलकपोलौ च । गम्भीरसौम्यहृ-
ष्टास्तब्धाश्रमीरितास्तथा स्निग्धाः । नादाः शुभाःनराधिप!
षडेवकथिता गजेन्द्राणाम् । चत्वारस्त्वशुभा रौद्राभयशोक-
सङ्गमोत्पन्नाः । एवं शुभाशुभाश्च दशप्रकाराःस्वराःस्वरा ज्ञेयाः ।
अन्येऽपि गलवक्त्रगानिलास्फालनोद्भवा बहवः । शब्दाभ-
वन्ति करिणां शुभाशुभं न तैर्भवति । निम्नोचितचिवुका-
यितविरुक्षितकूजितखरोष्ट्रनादनिभाः । वायसजम्बूककपि-
काष्ठभङ्गसदृशारवास्त्वशुभाः । ज्ञेयानि शुभानि सदा
मृदङ्गजीमूतदुन्दुभिनिभानि । पातायितगर्जितहसितानि
वृंहितानि नागानाम् । पातायितञ्च ताल्वोष्ठसम्भवंग-
र्जितकं चैव । जिह्वासमुद्भवं च फेनायितमित्यभिख्यातम् ।
हसितं कपोलजनितं पुष्करविवरोद्भवञ्च नागानाम् । भवति
धनघान्यवाहनभूलाभकरं नरेन्द्रस्य । हस्तेन मृदङ्गरवं तु
कर्णाभ्यां दुन्दुभिस्वनञ्चैव । दर्दुररवं तु पेचकेन करोति
योऽसौ जयकरः । सर्वस्थानसमुत्था शब्दा नरनाथ!
वारणेन्द्राणाम् । आचार्यैः सर्वैर्वृंहितसंज्ञाश्च रवाः शुभा
ज्ञेयाः । एते च जयपराजयकथनसमर्था भवन्ति
भूपानाम् । गर्हितशुभप्रदेशस्थानाङ्गपरिवर्द्धिता नादाः ।
शुष्कतृणकाष्ठकण्टकवल्मीकास्थिश्मशानदुष्टासु । पाषा-
णाङ्गारादिषु भूमिषु यदि संस्थिताः करिणः । वृंहन्ति
हीनलक्षणमेतद्भर्तुस्तदाऽसुखं भवति । प्रभूतमृदङ्गरवं तु
यदि वृंहन्त्यानन्दपूरिताः करिणः । प्रस्थानं भवति तदा
नराधिपस्य विजयस्तदा राजन् ।! सभामध्ये च यदा वृं०
हन्ति शार्दूलवत् गजाह्रष्टाः । भवति ससैन्यस्य
तदाविजयः संख्ये नरेन्द्रस्य । (संख्यं संग्रामः) कलहंसनाद
मधुरं किञ्चिदिवोत्क्षिप्तपुष्करस्तु यदा । वृंहति सदा च
हस्ती तदापि जयोभवेद्भर्त्तुः । मुखविवरकपीलगतंवृंहत्यसकृत्
गजो यदा हृष्टः । मधुरङ्गजहसितञ्च जयप्रदं भवति
भूपानाम् । त्रीन् वारान् क्रौञ्चरवं हंसरवं वृहितं
यदा कुरुते । एतदपि नागहसितञ्जयप्रदम्भवति भूपा-
नाम् । गर्जति घनवत् सततं यदि वारणः प्रहृ-
मनाः मुखरन्धुनिविष्टकरस्तदाऽरिविजयोऽभवेद्भर्त्तुः । घनैव
पृष्ठ ०९७२
गृहीतसलिलं ससीत्करं वृंहितं यदा कुरुते । भवति तदा
वारणनाथस्य भवति शत्रुनाशः खल्वेव । कथितान्ये तानि
मया शुभानि गजवृंहितानि नरनाथ! । अशुभानि च
नागानामतःपरं प्रवक्ष्मामि । शङ्काचालितनयनोवराह घुरित-
निःस्वनं कुरुते । तत्प्रतिबलस्य नूनम् तदा क्षयो भवति ।
भूपाल! वेष्टितभूतलहस्तो नदति यदा धरणिप्रकम्पनाद-
समम् । नरपतिराष्ट्रविनाशो मबति तदा शत्रुसैन्यकृतः ।
मदमुदितखरतरसदृशं निःस्वनं यदि करी कुरुते । जनयति
विजयविनाशात् पुरराष्ट्रपीड़नं च तदा । बलिभ्वग्निस्वन
सदृशं यदि वा समुत्फाल्य च हस्तम् । वामान्दोलितचर-
णोयदा करी वृंहति सनिःश्वासम् । आलानगतः कुरुते
तदा बद्धोयातावैरिभिःपाशैः । एवं प्रकृतिस्थायदि मतङ्गजा
वृंहितानि कुर्वन्ति । आत्यन्तिकानि राज्ञां चैव भवन्ति
नान्यानि” । “यदि रिपुगजाभिमुखो निवाय्यमाणोऽपि
याति रभसेन । विंशतिपदानि नागस्तत्रापि जयोभवत्येव ।
अमदोगृह्णाति मदं दुर्गन्धमदश्च सुरभिमदम् । दुष्टगजानां
प्रथमन्दुलक्षणमेवं सकलम् । ह्रस्वतनुर्मणिवदनो हि
महाशिरास्तब्धकर्णयुगलश्च । नातिस्थूलोऽसिसवर्ण्णस्तब्धानि च
गात्र वदनरोमाणि । व्यासः स भवति हस्ती दुष्टात्मा दुष्ट-
शीलश्च । स्थूलाक्षिपाण्डुरूक्षो दीर्घविषाणोनामितमुख-
श्रीः । पृथुपादःश्यावनस्वो वक्रोहनुपुटदण्डेन । विसृत-
कुक्षिल म्वोदरश्च कृष्णोवराहनयनश्च । ज्ञेयोवकीलनामा
ख्यातोऽयं सर्वदोषकरः । अतिह्रस्वापरगात्रो वृहन्मुखः
काककृष्णनयनश्च । स्थूलतराधोमुखदन्तदीनमुशलस्फुटित
वहिर्नखपादः । स्थूलनखःस्थूलपुष्करकरश्च वामन संज्ञो
गजाधमो दुष्टशीलश्च । विषाणे चातिदृढे ह्रस्वे
परिमण्डलौ तथा कर्ण्णौ । वदनञ्च मांसलं स्यादधोगतस्थूलन-
यनञ्च । सममांसलत्वयुक्तो ह्रस्वो ह्रस्वाङ्गुलिः करो यस्य ।
नाम्ना च विश्वरूपमुख इति ख्यातो दुष्टमातङ्गः । करकर्ण्ण
शिराबालधिविषाणगात्राणि यस्य हीनानि । आदग्धभोऽ-
तिवामनाङ्गः पापात्मा स स्वामिनाशकरः । शयनादुत्थाय
बलाद्द्वावपि पादौ कर्वति कृच्छ्रेण । प्रत्युषसि गच्छति
पुनः कापि समुपस्थापितमुखश्च । अनिभृतगात्रस्तिष्ठे-
द्विचलति तस्याननं च कर्ण्णाभ्याम् । स ज्ञेयो वातकरः
पापात्मा सर्वपापकरः । यस्य च किलाल्पं मेढ्रं ह्रस्वं
ह्रस्वाङ्गुलिस्तनुर्ह्रस्वा । अतिनिम्नञ्च बाहित्थं कर्ण्णौ च
तनुत्वचौ ह्रस्वौ । गात्रापरञ्च दीर्घं नखाश्च जनितान्तरा-
स्तथा । सर्वाणि च काकाभपक्ष्मरोमाणि च विदग्धानि ।
उदरञ्चाकृष्ण स्यात् ग्रीवा तन्वायता च वक्रा च । वंशिक-
नामा मतोऽसौ दुष्टगजोवर्जनीयश्च । यस्य करालौ दशनौ
स्थूलौ मात्रान्तरन्तथा ह्रखम् । मस्तिष्कशुक्लवर्ण्णःकषि-
जम्बुकलोचनोऽतिविकृततनुः । पापात्मायं हस्ती राज्ञा
हेयः प्रयत्नेन । दिवसमपि यत्र तिष्ठति तं देशं दहति
यावकप्रख्यः । राज्ञा विन्ध्यावने वा परराष्ट्रे वा स
मोक्तव्यः । अतिखरपरिघतनुर्नकुलच्छायस्तनूरुहैस्तब्धैः ।
यो हस्ती पातारं स पातयित्वा विनाशयति । धन्वासदृश
मुखोयः कर्ण्णकचायस्य कर्कशारूक्षाः । कृष्णारूक्षात्वयोऽसौ
भर्त्तुर्विपदेव मातङ्गः । रोमभिरधोमुखगतैः काकाक्षो दीर्घवक्त्र
श्च । स्थिरह्रस्वकर्ण्णयुगलः स राक्षसोहस्ती रूपेण । तिर्य्यक्
प्रेक्षणनिरतोदुर्गन्धः काककुम्भवदनश्च । भूत्रपुरोषघ्राणे
समुत्सुको भवति चण्डालः । कुम्भौ यस्य विशालौ विक्षिप्त
स्थूलतारके च नेत्रे । तन्वायतं त्रिकं स्यात् बालघिबाला-
स्तु बहुरूप्राः । रक्तौ पेचककोशौ मेढ्रोपरिसंस्थितोदरञ्च
महत् । चलपक्ष्मलस्तु हस्ती स भवति नाम्ना महादुष्टः ।
अङ्गं प्रसार्य्य वदनं विधूय चाधोरणं निपातयति । स जले
स्थले च नागो विबजंनीयः प्रयत्नेन । ह्रस्वकराङ्गुलिबालतनु
दशनश्चाल्पायामगात्रश्च । मत्कुणजातिः स गजः सुदुष्ट-
शीलश्च रुष्टश्च । कालनखो हरिवर्ण्णोहर्य्यक्षो ह्रखबाल
धिश्चैव । बहुपक्ष्मा दुर्गन्धिर्म्मणिसन्निभतालुकै-
रूक्षैः । अतिपिङ्गलकर्णचूलोरोमशहस्तो वराहनयनश्च ।
तनुनखसिरालकृष्णैर्नखान्तरैर्दुष्टचरणैश्च । विखुरोनाम
गजोऽसौ स्वाङ्गैः सर्वत्र कर्कशोजान्वोः । बहुपापकर्म्म-
युक्तो व्यालानामग्रणीश्चायम् । रूक्षोबाहित्थभागो विषमौ
दन्तौ च यस्य नागस्य । धूमशिखेव च्छाया स निन्दितो
वर्जनीयश्च । दन्तौ चातिह्रस्वौ स्थूलौ रूक्षौ च मांसलो
हस्तः । चिबुकं मांसविशुष्क स्थूलतरे तारके यस्य ।
स्थूलमुखो दुष्टात्मा नासौ सांग्रामिको भवेद्द्विरदः । अति
दुष्टकर्ननिरतो भयालुको वर्जनीयश्च । कृष्णा रूक्षा च्छाया
वायसजङ्घा च दृश्यते यस्य । मूतोदनञ्च कुरुते निःशङ्कं यः
कराग्रेण । निःशेषं शब्दांश्च करोति यः सहस्तनिष्येषम् ।
परिहरणीयो राज्ञायाने रणे स महता प्रयत्नेन । अतीव-
विरलपस्मा ध्यानपरः शब्दकरणनिरतश्च । द्विगुणीकृत्य
कराग्रन्तुदति च भूतलन्तु नित्यम् । वामेन च लिखंति
महीम्पादेन कुञ्चिताग्रेण । जर्जरविरूपकर्ण्णः पापात्मा
निन्दितो हस्ती । आनाहायामोच्छ्रयसत्वमुक्तो महासिरा-
लविडः । ह्रस्वाङ्गुलिबालकरो ह्रस्वापरगात्रकर्णश्च ।
पृष्ठ ०९७३
एषोऽपि वामनःस्याद्यद्यपि भवेद्युद्धप्रियोऽसौ द्विरदः ।
राज्ञा तथापि लक्षणविवर्जितो वर्जनीयश्च । स्थूलमुखहस्त-
कर्णोविहीनजघमापरस्तनूरूक्षः । महता मेढ्रेण युतो-
नष्टमदः कोशमहांश्च । मन्दालोकननिरतोमहाशिराः
पृथुविषाणनयनश्च । हस्ती नपुंसकोऽसौ विवर्जनीयश्च
संग्रामे । अल्पायुषो भवन्ति हि सङ्कालजिह्वोष्ठतालुका-
नागाः । नरपतिभिस्ते सततं विवर्जनीयाः प्रयत्नेन!
आयामपरिहीनं समनाहोच्छ्रायमुखेन नमितम् ।
उच्छ्रितवक्त्रं कुब्जंविषमकुम्भं कुक्कुरसमानहीनहस्तं च ।
एवंभूतं तु गजं राजा दूरेण वर्ज्जयेन्मतिमान् । गृह्-
णाति मन्दबुद्विर्यस्तस्य कुलक्षयो भवति । लक्षणयुक्तोऽपि
गजो द्वाविंशत्येकविंशतिनखश्च । एकोनविंशतिनस्वः सप्तद-
शनखश्च यो भवति । षोड़श पञ्चदश वा नखान् धत्तेयुक्तो
वा चतुर्द्दशभिः । एकादशत्रयोदशनवदशभिर्द्विदशनखै-
श्चैव । संयुक्तस्त्वशुभकरः सप्ताष्टाभिश्च पापनखैः । द्विर-
दाश्चाष्टादशनखाः विंशतिनखयुक्ताश्च शुभाः । कुरुते
स्वामिविनाशं द्वाविंशतिनखोयश्च । एकोनविंशतिनखो
युवराजविनाशं कुरुते । सप्तदशनखस्तु गजो नरपतिपात्र
विनाशने समर्थः । षोड़शनखमातङ्गोनायकनाशं ध्रुवं
कुरुते । पञ्चदशनखश्च योऽसौ सेनापतिनिधनकृद्गजो
भवति । कुरुते चतुर्दशनखोव्याधिं पुरवासिनां हस्ती । त्रयो-
दशनखो राष्ट्रवित्तविनाशङ्करोति भूपस्य । द्वादशनखस्तु
कुरुते पदातितुरगक्षयं संख्ये । एकादशनखयुक्ती
नजहानिकरो भवेत् स गजः । पुरदाहं च दशनखः
करोति हस्ती दुरालोकम् । चतुरङ्गस्य बलस्य
नाशवन्तु नवनखो गजः कुरुते । अष्टनखश्च पुरोहित
बंशसमुन्मूलनसमर्थः । सप्तनखः प्रतिहारं नाशयति
च षड़्नखोऽमात्यम् । पञ्चनखो भक्तिकरं चतुर्नखो द्वार-
पालञ्च । त्रिनखोविषयाक्षेपं द्विनखश्चान्तः पुरानुबन्धञ्च ।
एकनखोनखरहितोराष्ट्रविनाशं ध्रुवं कुरुते । एवम्भूत-
नखाये नरपतिना न ते गजाग्राह्याः । लाक्षमञ्जिष्ठा-
भोऽतिलोमशोहीनकर्णकरबालः । हस्ती विवर्जनीयो
हीननखः पूतिलोमा च । ज्वलनकृतं शस्त्रकृतं दुर्भिक्ष-
कृतं महद्भयं कुरुते । यस्मिन् देशे वसति नाशयति वन
स दुष्टात्मा । यस्य न भवतोदन्तौ ज्वलनकृतं दुर्भिक्षकृतं
महद्भय कुरुते । यस्मिन्देशे स वसति नाशयति वनं स
दुष्टात्मा । यस्य न भवती दन्तौ कुलरूपवतोऽपिं गर्भ-
दोषेण । स गजोमत्कुणनामा न तं रणे योजयेद्राजा ।
कुञ्जरघटागतोऽसौ हरति गजानां बलं च सत्यञ्च । अतएव
समरकाले नराधिपैर्वर्जनीयश्च । तनुह्रस्वदीर्घदन्तोह्यति-
सङ्कटवक्रविघटितविषाणः । एकदशनस्त्वधोमुखरदनश्च गजः
प्रभंत्यजति । रदनविहीनो हस्ती निःशेषलक्षणयु-
तोऽपि । भवति न नृपतियोग्योमदजलसंसिंक्तं
गण्डोऽपि । दूषितविरहितदीने सत्वरहिते
विवर्णे च । निष्प्रभकुञ्जकुहरे राजा नारोहति सन्नाहर
हिते च । एवम्भूतास्त्याज्याः मित्रनाशका रणे करिणः ।
अक्षिभ्यामश्रुजलं निपतति नागस्य यस्य नित्य हि ।
नयनव्याधिवियुक्तस्य तस्य भर्त्ता रणेम्रियते । वद्धनशीलाश्च
नखा भर्तुश्चैव संबाधनकराः । जिह्वानखमुखमेह-
ननयनानि भवन्ति यस्य कृष्णानि । बाहित्थचित्र
कृष्णः स गजोभर्तुः क्षयं कुरुते । बाह्यांसफलकपीठी
राजन्! कृशेन पृष्ठवंशेन । वदनेन च कपिवदनानुका-
रिणानिन्दितो हस्ती । कर्णौ दन्तौ च समौ न नतौ भवती
यस्य नरनाथ! । स नराधिपबलविनाशकरः करीजायते
समरे । चित्रौ रोमचितौ वा स्थूलौ वातिप्रलम्बिताग्रौ वा ।
कोषौ कोषविनाशं स करोति नागश्च भूपानाम् । सितबि-
न्दुभिर्विचित्रंश्वेतं वा यस्य जायते मेढ्रम् । स गजःशक्ति
विनाशङ्करोति भूपस्य संग्रामे । छागस्येव विचित्राणि
यस्य देहे भवन्ति रोमाणि । स गजःप्रतिगजबलेन
विह्वलो निजबलं दहति । सुप्तोत्थितस्य वदनात्
यस्य गजेन्द्रस्य गलति रुधिरजालम् । ज्वलनकणं मुञ्चति
शश्वदसौ भर्तृनाशकरः । इति कथितं तव नृपते!
दुष्टमातङ्गलक्षणं सम्यक् । पापकरिण्यालक्षणमतः
परं संप्रवक्ष्यामि । यल्लक्षणं मयोक्तम्भद्रादीनां शुभं
च दुष्टं च । तत्करिणीष्वपि योज्यं जातिविभागेन च
युक्तासु । सुलक्षणेन ललितानि करेणुकानामङ्गानि
भवन्ति । युवतिसदृशान पुरुशोचितानि च तथा पीनान्य-
ङ्गानि करेणूनाम् । गजसंस्थाना करिणी निर्मतदन्ता
सुपीनकाया च । स्थूलायता च सततं प्रभूतदया
मताच करिणीनाम् । प्राच्यवनसमुद्भूताः प्रायेण लक्षणयुता
भवन्ति करिण्यः । सुलक्षणेषु च च्छाया लक्षणं प्रधानं
तच्च पञ्चविधं भवति । पृथिव्यप्तेजोवाय्वाकाशात्मकम् ।
तत्र पृथिव्यप्तेज आत्मकं प्रशस्त वाय्वाकाशात्मकमप्र-
शस्तम् । क्रमेण च्छायाभिधीयते बलोपचयपशेन
समुतपद्यते । तस्यैव देहोद्द्योतजननी स्थिरा प्रभाऽ-
भिधीयते । छायाफलस्य द्विगुणपलसम्पादनसमर्था प्रभा
पृष्ठ ०९७४
भवति । छाया देहसमाश्रिताः स्थिरप्रभावाऽस्थिरा च्छाया
यलोपचयवशेन सुमुत्पद्यते । नरेन्द्रस्यैवोद्योगकाले
शुभकर्मफलसूचनार्थं गजस्य प्रभा प्रकटीभवत्येव । एवं छाया-
गतो भेदोऽवगन्तव्यः । साम्प्रतं छायारूपमभिधीयते ।
स्निग्धा गम्भीररूपा पार्थिवी च्छाया भवति । स्निग्धाजी-
भूतसन्निभा च सलिलसम्भूता, स्निग्धा रक्ता च ताम्रा च
तेजसी च्छाया । त्रयं चैतल्लक्षणंशुभमशुभलक्षणानि गजस्य
स्तम्भयित्वा सुखप्रदं भवति । अथाशुभा कथ्यते निःप्रमा
परुषा रूक्षा भस्मनाकुलवर्ण्णा च वाषवी । रूक्षा तन्वीकृ-
ष्णादिविविधवर्ण्णा आकाशात्मिका । इत्थं छ्याद्वयमति
गर्हितम् गजलक्षणानि तिरस्कत्याशुभप्रदम्भवत्यनेन प्रका-
रेण च्छायालक्षणमुत्तमं भवति । विकटह्रस्वबालवृद्धकृशा-
ङ्गहीनाङ्गेषु व्याधिपीड़ितविकलाङ्गेषु गजेषु
नारोहति राजा भृत्याश्चैतेष्वारोहन्तीति । यादृशं च
समरकाले मातङ्गं राजा समारोहति तादृशस्य लक्षण-
मभिधीयते । बलं कण्ठै स्थितं नित्यं कुञ्जराणां
नरेश्वर! । अतःसंपूर्णकण्ठस्तु शिखिपिङ्गललोचनः ।
घनमांसचितांसस्तु दिशोऽवघ्राणतत्परः । वराहजघनश्चैव सुवि-
षाणोवराननः । सुप्रतिष्ठितपादस्तु यः स्यादगुरुमक्षिकः ।
प्राजापत्योगजोह्येष संग्रामार्हः प्रकीर्त्तितः । मधुपिङ्गल-
दन्तोयः किकिवापीतकच्छबिः । रोमाणि चैव रूपाणि
मुख च कमलप्रभम् । रक्तोत्पलदलच्छाये सूक्ष्मे तीक्ष्णे
च लोचने । ऐन्द्रोगजस्तु विज्ञेयोरिपुवृन्दविनाशनः ।
ताम्रतालुकजिह्वोष्ठसुजातनिविड़ापरः । पीनोन्नतशरी-
रस्तु रक्तकोकनदच्छविः । आयतेन तु दन्तेन करेण
मुखशोभिना । पीयूषपिङ्गदन्तो हि गजःकौवेर उच्यते ।
तरुणाम्बुदसंकार्शीघृतप्रभविषाणभृत् । संपूर्णकण्ठपादस्तु
संपूर्णसममस्तकः । मृदङ्गध्वनिगम्भारनादपूरितदिङ्मुखः ।
आयतेन च हस्तेन सीकरोत्किरणप्रियः । वारुणोऽयं
गजोराजन् संग्रामेष्वतिपूजितः । कण्ठस्त्रिवलिसंयुक्तः
संपूर्णोयस्य दृश्यते । लोचने ताम्बपिङ्गे च दन्तौ
केतकसप्रभौ । पादौ च वलिनौ यस्य पीनगात्रसमांसलौ ।
पृथुलौ विन्दुचित्रौ च कर्ण्णौ चातास्रपल्लवौ । ऐशानोऽयङ्गजो
राजन्! रणकर्मणि युज्यते । तालुन्युरसि वक्त्रे च पक्षयो-
रुभयोरपि । आताम्रा यस्य दृश्येत च्छाया मृदुतनूरुहा ।
असौ सौम्यस्तु विज्ञेयः कुञ्जरः समरोचितः । अर्चिःपिङ्गल
रोमा यः केशैश्च श्वेतपिङ्गलः । पिङ्गलाक्षिविषाणश्च रक्त
पुष्करतालुकः । आग्नेयः स गजोज्ञेयस्तेजसाग्निसम-
प्रभः । राज्ञा बुद्विमता नित्यं धार्य्यः समरकर्मणि ।
कृष्णवर्ण युताग्राणि मुखश्रोतांसि लोचने । निर्घूंमाग्निस-
मच्छाये भूलग्नश्च करस्तथा । कायश्च पीननासःस्याद्वेगे
वायुसमः शुभः । राजनु । वायव्यमिच्छन्ति तङ्गजं
शास्त्रकोविदाः । संख्ये नियुक्तश्च गजोनाशयेद्रिपुवाहि-
नीम् । निरङ्कुशत्वं चण्डत्वं तस्य दोषद्वयं भवेत् ।
निरङ्कुशत्वं शमयेत् प्रयोगाश्वासनादिभिः । चण्डत्वं च तथा
नित्यं सुकुमारक्रियादिभिः । रोमाण्यञ्जनरूपाणि नखाः
शङ्खसमप्रभाः । निस्त्रिंशविमलच्छायः स भवेद्वैष्णवोगजः ।
स वैरिणं जयेद् राजन्! रिपुसैन्यविमर्दनः । कुम्भवक्त्रः
कटौ यस्य निस्त्रिशघनसंनिभौ । बिन्दुभिश्चित्रि तं यस्य
स विचित्रश्रवो गजः । तेन संग्रामकर्माणि कुरुते यो
नराधिपः! । नित्यं चारिजयं तेन स राजा फलमश्नुते ।
सुदन्तो दीर्घहस्तश्च वृहदङ्गुलिपुष्करः । घनमांसशरीरश्च
कूर्म्माकारोहि सत्तम! । सांग्रामिकोनजोह्येष जीवत्यपि
समाशतम् । संग्रामविजयी नित्यं प्रतापजननक्षमः ।
महाशिरा महाकायो महामेढ्रो महाकरः । महादन्तोदरश्चैव
महानागोवरासनः । महानेत्रो महौष्ठश्च महाकर्णोमहा-
मुखः । महामदो महाकण्ठो भवेत्सांग्रामिकोगजः । यद्भ-
द्रलक्षणं पूर्वमुक्तं नृप! तच्छुभमेव हि । मन्दस्यापि हि
शस्तं स्यदाद्द्वावेतौ च महागजौ । संपूर्णलक्षणोपेतो
न भवेच्च महीतले । अनयोरेव भेदास्तु नागानां समुदा-
हृताः । सांग्रामिका द्विपा रजान्! शुभलक्षणलक्षिताः ।
कथितास्तव तत्त्वेन राजसौख्यकरागजाः” । आभिषेच-
निकगजलक्षणं तत्रैव । “पीनमांसचितांसश्च कूर्म्माकारनख-
स्तथा । समवचितसांसस्तु सुवृत्तः कल्पनापरः । छानकुक्षिः
सुपार्श्वश्च रोमानाहसमन्वितः । ज्वलनोज्ज्वलनेत्रस्तु सुविषा-
णो महाकरः । संपूर्णचिबुकश्चैव क्रमायामोरयान्वितः ।
बलसत्वसमायुक्तः स्निग्धच्छविमनोरमः । सांग्रामिको
भवेष्ट्राज्ञ आभिषेचनिको गजः” ।
तत्रैव पालकाव्ये गजहृदये । “आयुः सविंशति शतं मानं
स्यात् सामजन्मनाम् । राजपुत्र! दिशाम्येवमायुष्यादि
दशादश । लक्षणानि वदे तेषां क्षेत्राण्येवं विषाणिनाम् ।
लक्षणालक्षणं ज्ञेयमायुष्यादिदशाफलम् । क्षेत्राणि
हस्तौष्ठमुखं दन्तौ शीर्षं च चक्षुषी । कर्णौ ग्रीवा च गात्रञ्च
वक्षः कार्य्यस्य भेदतः । लक्षणं सन्निकृष्टं यद्बिप्रकृष्टञ्च यद्भ-
वेत् । मतञ्चित्रबलोपेतं प्रभूतञ्ज मनीषिभिः । तुल्ये कुले
वने जातौ प्रचारे यत्तु लक्षणम् । दशायाञ्च तदाख्यातं
पृष्ठ ०९७५
घ्रभूतमिति सूरिभिः । दक्षिणन्दक्षिणाङ्गं च हस्तिनः पुण्य-
दं मतम् । तथा वामं च वामाङ्गं हस्तिनीफलदं मतम् ।
लक्षणं दक्षिणाङ्गोत्थं फलं भूमिभुजां मतम् । महद्व्यक्तं
भवेयद्यच्च लक्षणं तन्महाफलम् । यदल्पमप्रकाशञ्च
तदल्पफलदं मतम् । मध्यमानफलं मव्यं लक्षणंतु समादिशेत् ।
शुभाशुभेन मिश्रेण बहुत्वेनादिशेत् फलम् । कदाचित्
शुभद चास्य गजानामप्यलक्षणम् । शुभकर्म्माणमासाद्य-
राजानमथ वा द्विजम् । यथा हि सर्वसरितः समुद्रं
समुपेत्य हि । स्वरसेन वियुज्यन्ते मवन्ति लवणाम्भसः ।
एवमासाद्य भर्त्तारं बहुलक्षणलक्षितम् । भवन्ति बाधिता-
नीह दुर्लक्षणफलानि च” । इत्युपक्रम्य गजदेहस्थानवि-
भागनामभेदस्तत्रैव दर्शितः । यथा “विषाणयीर्यस्तिर्य्यक्स्या-
दायताग्रो ग्रहोऽपि सः । किविवा च ग्रहस्याधःकुम्भो-
परि च बिम्बकः । अथ ग्रहोपरिस्थोऽपि पुरष्करोऽपि
भवेत्तथा । तथा ग्रहोपरिस्थे च किविवोपरिभागके ।
वाहित्थोपरि केशाश्च मस्तकं च तथा मतम् । स्यातां
मस्तकपिण्डौ च मस्तकस्थश्च विन्दुकः । तथा विन्दूपरिस्यातां
वितानौ विन्दुपार्श्वतः । ततोऽन्तरवितानं च पृष्ठं तत्र
विनिर्दिशेत् । विन्दुवितानयोश्चान्तः पुरस्तात् पाकिलौ किल ।
नीचे मस्तकपिण्डाद्धि वितानविन्दुपाकलः । निर्याणं च
वितानोर्द्ध्वं कर्णौ वापि ततः कटौ । कटयोः श्रोतसी
वापि कटस्वावस्तयोरधः । पृष्ठतः कटिसंधी च गण्डौ च
कटयोरधः । कटगण्डान्तसद्भागे घाटसन्धी च घाटके ।
घाटासन्ध्युपरिष्टाच्च कर्णसन्धिसमीपगे । श्रवणे गात्रग-
ण्डाधःकपोलौ च तदन्तरे । रोमकूर्चौ च पादौ च
कपोलाधस्तथा मतौ । ततः सगदसन्धी च सगदान्तरमत्र च ।
आसगदात् हन्ववघिः प्रदेशः शिरसोमतः । अक्षिकूटाबुप-
र्य्यक्षावुभाबुपरि वै तयोः । गुहेवाक्षाऽधरः स्यात्तु नेत्रस्रावौ
तयोरधः । अपाङ्गावक्षिबाह्ये च तत्सन्धी चाक्षिपृष्ठतः ।
पक्ष्मणोर्मण्डले चाथ तत्सन्धी वर्त्ममण्डलौ । वर्त्ममण्डल
सन्धी च ततश्च श्वेतमण्डले । श्वेतमण्डलसन्धी च ततः
कृष्णे च मण्डले । तत्सन्धी च ततः कृष्णे सत्सन्धी
वर्त्ममण्डले । तयोरपि तथा सन्धी प्राग्भागे चक्षुषो-
रपि । कनीनिके समाम्नाते सन्धी तत्र तथानयोः ।
इत्यक्षिगतदेशानां समुद्देशो भवेदिह । किल वित्तौ च
कर्ण्णौ च कर्णयोश्चूलिका ततः । तदधः कर्णपिप्पल्यौ
बलिके द्वे प्रदेशगे । कर्णमस्तकसन्धी च पश्चात् कर्णापव-
र्त्तयः । तदन्तश्च समस्थानावुद्घातौ परिकीर्त्तितौ । कर्ण्ण-
चूलिकयोरग्रे पिङ्गलाख्यौ च भाषितौ । पुरस्तात् कर्णपि
पल्याः कर्ण्णसंवेशचर्मणी । कर्ण्णान्तः कर्ण्णनाड्यौ च लम्बे-
तां तस्य भागतः । तयार्वीथिःकवन्धश्च सशङ्खमध्यकर्ण्णयोः ।
कर्ण्णसन्ध्योरधस्ताच्च तथाधःसन्धिसंज्ञितौ । तदधःकर्ण-
पाल्यौ च प्राक् कर्णोपरितस्तयोः । नाड़ीपार्श्वगतौ चात्र
मध्यकर्ण्णौ तयोरधः । अधःकर्ण्णौ समाख्यातौ बहिःकर्ण्णा-
पवर्त्तयोः । पार्श्वकर्ण्णौ बहिःकर्ण्णौ कर्ण्णयोश्च क्रमाद्
बहिः । अन्तरान्तरकर्ण्णौ च पर्य्यन्तकर्णपाशयोः । अधस्ता-
च्चेति भागाः स्युः कर्ण्णयोः करिणोऽपि च । ग्रीवायाः
प्राग्भवोभागो ग्रीवा सन्धिस्ततस्तथा । ग्रीवापृष्ठं
ततस्याच्च मध्ये तच्च कृकाटिका । ग्रीवापृष्ठे तथाधस्ताद्गल-
माहुर्द्विपस्य च । अधःकण्ठस्तयोश्चोर्द्धं मन्ये ते गलकण्ठ-
योः । धमन्यौ कण्ठपार्श्वे च तयोश्चाबलिपिण्डिका ।
गलस्य पार्श्वयीरूर्द्ध्वं दर्दुरौ चात्र निर्दिशेत् । गुहे मन्यो-
परिस्यातामुपरिष्टात्तयोस्तथा । किविकौ च तथा चोक्तौ
पश्चादुपरि चैतयोः । पार्ष्णिघातौ च संख्यातौ पार्ष्णि-
घातान्तरे तथा । उत्सङ्गावुपरि स्यातां स्कन्धादूर्द्धं
तथानयोः । तन्मध्ये पणवश्चोर्द्ध्वमिति ग्रीवांशसंग्रहः । (हस्ति-
पकेन पार्ष्णिभ्यां यौ देशौ हन्येते तौ पार्ष्णिघातौ) गात्र-
मात्रमायतं च भवेदासनमादितः । तत्पार्श्वयोः प्रतीकाशौ
तावंसौ च तयोरधः । तदधःप्रत्यगंसौ च तथैवांसफले तथा ।
तदधस्तात्ततोबाहू ततोबाहूत्तरं तथा । अर्वागत्र गुहे तत्र
बाहुपृष्ठोद्भवे अपि । अपारे च तदूर्द्ध्वं च तयीस्तद्भाविकौ
तथा । पाल्यावथाङ्गादूर्द्धञ्च तयोरायामपृष्ठतः । पाल्यन्ताङ्ग-
पुरस्ताच्चभुजयोरुदितौ यवौ । यवभागोपरि तथा पुरस्तात्
फलकोच्छ्रितौ । पिण्डिकाधश्च वेमाख्यौ विशोषौ
यवयोरधः । उत्सङ्गौ च विशोषाधः प्रहौ चापि तयोरधः ।
तत्सन्धी च ततः पर्व्वसन्धानौ तदधोमतौ । तदधः
पालिपादौ वै कूर्चौ चानु तयोरधः । तदधोनखकूर्चाश्च
ततो नखशिखा दश । पुरःपुरोनखौ नाम्ना सनखौ चैव
विस्तृतौ । तत्पश्चात्तु नखग्रीवा विशोषाः पार्श्वतोनताः ।
अन्तःपार्श्वबहिःपार्श्वे स्यातां पार्श्वनखेषु च । कवास
राजयश्चात्र पादनाहाविकास्तथा । तलसन्धी ततः स्यातां
तले च तदनन्तरम् । तलप्रदेशपुरतस्तत्परा नखबुध्नतः ।
तलकर्षौ ततः पश्चात् तलप्रहौ ततःपरौ । तलयोरन्तरं
चैव हृदये च करीरके । किंविनोराजयश्चेति तलसद्भाविका
अपि । पलहस्तौ ततः स्यातामन्तर्बाहू ततोऽन्तरे ।
बहिर्बाहू बहिश्चोर्द्ध्वं गात्र सर्वं ततोऽपि च । कक्षौ गात्र
पृष्ठ ०९७६
प्रहोर्द्धञ्च कक्षयोरन्तरं ततः । इति प्रदेशा गदिता
गजानां गात्रगोचराः । कण्ठस्यान्तर्मणिः पूर्वं ग्रीवापर्व
समाश्रयः । उरोमणिः समाम्नातस्ततः स्यादुरसः स्थितिः ।
याऽधोभा पार्श्वगा तत्र गात्रसन्धिसमाश्रिता । आवर्त्तमणि
रप्यत्र विक्षो भास्वरसङ्गतः । ततः सन्धिकरस्तु स्यात्तस्याधः
स्तनयोः पुरः । मात्रयोरन्तरं चापि चतुरक्षान्तरं भवेत् ।
अधःस्तनौ च स्तनयोरन्तरे चाथ चूचुके । स्तनान्तौ स्तन-
कूर्च्चौ च क्षीरिकौ चापि कूर्चके । चतुरक्षान्तरालं च भवे
च्चूचुकयोरधः । स्तनयोरप्यधस्ताच्च पुरस्तात् स्तनयो-
र्भवेत् । हृदयं चास्य पार्श्वस्थावायामौ च बहिस्तयोः ।
स्यातामायामकाण्डौ च तदघोविवशौ ततः । ततः क्रोड़ं
पदाधस्तात् पश्चाच्चायामकाण्डयोः । रन्ध्रे चापरवस्तिश्च
स्तनयोरप्यनन्तरम् । जठरे नाभिरित्येते प्रदेशाः किल
वक्षसः । आपराङ्घ्रिपरःशेफोरेतःस्रावावघिः स्मृतः ।
ततोऽण्डकोषसन्धिः स्यात् कोषसन्धिश्च शेफतः । क्रमान्-
मेहनमत्र स्यात् मेढ्रसंज्ञो भवेदपि । आनिर्गमात्तथा तस्य
बाहुपार्श्वगतौ मतौ । अग्रतस्तत्र ककुदं तस्याश्री
पार्श्वयोरपि । मेहनस्य पुरःस्रोतो वङ्क्षणौ कोषपार्श्वगौ ।
अपराश्रयिणी शुक्रे तथा वङ्क्षणमध्यगे । इत्यण्डकोष-
भागाः स्युः क्रमादासनमुच्यते । तदन्तश्चासनञ्चोर्द्धं वक्र-
वंशस्य पृष्ठतः । भवेदपरवंशश्च ततोन्यच्चाध आसनम् ।
पश्चिमासनमप्यस्य पृष्ठतः परगस्य च । अत आस्तिप्र-
देशश्च ततो वंशश्च बालधिः । (आस्तिरासनम्) ।
आश्रयेत्यभिधानाश्च भागाः पश्चान्निषादिनः । स्यातां च
तत्पलाधस्तात् पक्षसन्धी तथा ततः । स्याताञ्च पक्षपार्श्वे
च गर्मूकाश्चक्रमादपि । पक्षाधोनन्तरौ चानुकुक्षी पक्षसमा-
स्तुती । निष्काभौ मध्यगौ तत्र शङ्कूचैवोर्द्धमध्यतः ।
कक्षाभोगौ काकपक्षौ शङ्कुच्छायाकरौततः । उत्कृष्टौकु-
क्षिपश्चाच्च त्र्यस्थिपार्श्वगतावपि । कालकोत्कृष्टदेशानां
पालवंशश्च पार्श्वयोः । कालके पिण्डिके चाधो विद्याच्चापर-
योः स्थिते । उत्कृष्टपिण्डिका त्र्यस्थिस्थानमेवालम्बनम् ।
जघनं परतोऽस्माच्च एवं कालवका दश । भवेत् पायुश्च
पायोस्तु गुदमभ्यन्तरं तथा । वहिर्गुदस्य वर्त्मस्यात् गुदान्तः
कन्दरं विदुः । विलपाय्वन्तरे कक्षौ तथा पिण्डिकयोरपि ।
अधस्तादन्तरे किंविन्यन्तरे तस्य संस्थितिः । पिण्डिका-
घथ मण्डूक्यावष्ठीलौ पिण्डिकान्तरे” । अवयवप्रमाणभेदा-
स्तर्त्रव । “पिण्डिकारत्निकामाना पुष्करोऽपि भवेत्तथा ।
कर्णसन्धिर्भवेच्चापि तच्चारत्निप्रमाणतः । कर्ण्णापवर्त्तौ
पाल्यौ च स्यातां हस्तसमुच्छ्रिती । कर्ण्णाश्री च तथा
विद्याद्विस्तारे द्वादशाङ्गुले । कर्ण्णाश्रावपि हस्तौ द्वावायाम
परिणाहतः । कर्णवर्त्तिं विद्धि कर्णप्रमाणेन च रत्निकाम् ।
शिर आसनमुद्दिष्टं मानेन त्रिकहस्तकम् । शिरसस्तु
प्रमाणेन स्यात् षड़ङ्गुलमासनात् । आसनेन समंशीर्षं
कल्याणकरमित्यपि । यस्यासनं च नीचेन शिरसः स्यात् षड़-
ङ्गुलम् । अवाग्रो नाम स प्रोक्तो गजोनिन्दितलक्षणः ।
शिरो यस्य भवेदुच्चमासनाद् द्वादशाङ्गुलम् । सोऽभ्युद-
ग्राभिधानेन लक्षणादासनं भवेत् । आसनं वङ्क्षणोद्देशाद्
ग्राहश्च पक्षभागतः । मञ्चसमानफलक उत्कृष्टोऽष्ठीस्थितो-
ऽपि च । अष्टीत्येवं समाख्यातं लक्षणादासनं भवेत् ।
हस्तद्वयप्रमाणेन पेचकात् पश्चिमासनम् । द्वादशाङ्गुलनिम्नं
स्यादासनात् पश्चिमासनम् । सार्द्धहस्तत्रयं चाधः प्रमाण-
मपि बालधेः । सप्ताङ्गुलप्रमाणेन पायुश्च परिमण्डलः ।
अरत्निपरिमाणेन विदुस्तद्वद्गुणान्तरम् । अरत्नितोऽघिकं
यस्य विस्तरेण स्तनान्तरम् । तिर्य्यग्रोमचयं गात्रमरिभ्यः
शीकदोगजः । अरत्नित्रयमानेन नाभिदेशस्तनान्तरम् ।
नाभिश्च भूत्रकोषश्च गुदारत्न्यर्द्धमानतः । अण्डकोषश्च
हस्तार्द्धप्रमाणेन समन्वितः । द्वे चारत्नी तथार्द्धं च
कोषमानं भवेदपि । सोऽर्द्धहस्तद्वयायामोहस्तानाहयुतोमतः ।
प्रौहे तु परिणाहः स्यादरत्निद्वितय तथा । हस्तयोश्चार्द्ध
मानं स्यात् चतुर्भागेण संयुतम् । तलस्य पार्श्वतः प्रौहाव-
रत्निप्रमितौ मतौ । चतुर्भागयुतारत्निर्भवेन्नम्रतलोपरि ।
अष्टाङ्गुलप्रमाणेन स्यातां ततः पुरोनखौ । सप्ताङ्गुलश्चाप-
नखः पार्श्वे पञ्चाङ्गुलानखाः । चतुर्विंशत्यङ्गुलञ्च भवेद्गात्रा-
परे तथा । अपराभ्यां भवेद्ग्रन्थिररत्न्यर्द्धेन मानतः ।
अरत्निश्च तलायामोभवेच्च करयोरपि । सप्ताङ्गुलास्तु वैशोषाः
पाल्योः पार्श्वनखास्तथा । पञ्चाङ्गुलास्त्र्यङ्गुलाश्च
नवचापि नखा मताः । इत्यङ्गमानं नागस्य दिङ्मात्रमिह-
दर्शितम् । समाङ्गा अपि माताङ्गा दृश्यन्ते दुःखदाः
क्वचित् । दृश्यन्ते विषमाङ्गाश्च क्वचित् कल्याणदायिनः ।
तस्मात् प्रमाणं केषाञ्चिदप्रमाणतया मतम् । प्रमाणं
कृतसाचार्य्यैः सर्वैर्लक्षण वेदिभिः । अथाङ्गसङ्गमात्तावत्
मातङ्गानां गुणागुणाः । भूयोऽन्यगुणदोषाभ्यां प्रसङ्गात्
कथिताः पुनः । उपरिक्रमतो वृद्धो नातिस्तब्धोमृदुस्थि-
तिः । वृत्तम्निग्धाच्छरोमा च लोहिताङ्गुलिषुष्करः ।
सर्व्वव्यक्तप्रमाणश्च गजः कल्याणकारकः । भाग्यप्रदी
बालहस्तस्तथायततनूरुहः । अर्थदो हीनविन्दुश्च गजो दुःख-
पृष्ठ ०९७७
प्रदो मंतः । द्विपामृत्युकरा ह्रस्वा हीनपार्श्वाश्च वृद्धिदाः ।
पुष्करं हीनमव्यक्तं विद्याद्भर्त्तृविनाशनम् । युक्तमाने निगा-
ले च निर्मलश्रोतसी शुभे । सुसमाहिते च स्यातामुत्
पलाग्रसमद्युती । उन्नद्धौ क्रमवृद्धौ च सिग्धावभ्यु-
दितौ समम् । दक्षिणौ च समानौ च प्रहारप्रगुणच्छवी ।
ततः प्रदक्षिणावर्त्तावुदात्तौ दन्तिनां रदौ । करस्पृगा-
कृती चापि श्वेतास्थिसदृशद्युती । विषाणे च तथा म्यातां
चापाग्रे वारणस्य च । यो दक्षिणैकदन्तस्य श्रिया तु
रहितो गजः । वामैकदन्तो दन्ती च दुःखदः सादि-
नोमतः । दशां प्राप्य चतुथीं च द्वितीयां यस्य न द्विजौ ।
स्थूलावनायतौ स्यातां स मूढो नाम दुर्गजः । ऊर्द्धसं-
स्थानवक्रौ च प्रतिमानगतौ न वा । युयुत्सामिव कुर्व्वाणा
यस्य बालाः सदुर्द्विपः । दन्तौ हलोपमौ यस्य दीर्घौ
पार्श्वेन चोन्नतौ । दक्षिणेन विषाणेन वामदन्तदरन्तथा ।
कारयेद्यस्तु मातङ्गो वामदारी स वै भवेत् । तथा दक्षिण-
दारी च दक्षिणदरणं तथा । वामेन कारयेन्नोष्टो यातुः
स्वामिनएव सः । तथा हलविशालेन दन्तेनैकेन दन्तिनः
स्थूलेनाखर्वदीर्घेण दुःस्थिताख्योऽपि वर्ज्जितः । अन्तर्न-
ताभ्यां सद्दन्तः कुदन्तोऽपि नतावघः । कूपे वामोन्नतिश्चापि
रदाभ्यां द्विरदः क्वचित् । दन्तदुर्वाससाख्यो हि द्विरदो-
मध्यलक्षणः । बहिर्नतौहस्तलम्बौ रदौ यस्य स दुर्गजः ।
कृष्णायतौ रदौ मूले विनहिन्ति मदागतिम् । श्यामलाकार
रदनाग्रन्थिमद्दशनास्तथा । दुर्जाता विषमा वक्रफलकाश्च
कृशास्तथा । आतदीर्घातिह्रस्वाश्च वदनेनाघशंसिनः ।
त्रिरत्निमितमेढ्रस्य पञ्चरत्निमितोरदः । यष्टिदन्तोनुकथितो
राजपुत्र! मनीषिभिः । प्रपूर्णं प्रतिमानञ्च ताराभं
बलिवजितम् । सूक्ष्मविन्दु समानद्धं मृदुत्वक्कायरोमशम् । स्वायतं
पृथुबाहित्यं सर्व्वगात्रसमाहितम् । रक्तौष्ठतालुदशन-
विलग्नमुस्त्वणस्थितिम् । तं राजा वर्जयेत् युद्धे शुभलक्षण
वर्जितम् । बालार्कसदृशे यस्य हरिवर्णविलोचने । मनःशि-
लाप्रभे वापि हर्यक्षोऽसौ सुभिक्षदः । पद्मापाङ्गे च विपुले
सुप्रसन्ने सितासिते । यस्याक्षिणी सचाक्षिभ्यां विभक्ताख्यो
हितप्रदः । यस्यतुङ्गे च नयने महती दृष्टिमण्डले । स्नि-
ग्धनिर्मलवर्ण्णश्च तारकाक्षः स सम्मतः । यस्यासृजः समा
भासे वृत्ताकारे विलोचने । पारावताक्षं नागं तं प्रशं-
सन्ति शिवप्रदम् । ह्रस्वे नात्यायते नेत्रे प्रसन्ने सूक्ष्मद-
र्शने । यस्य स्यातां सचाध्यक्षो वारणः शुभलक्षणः ।
ईषद्गैरिकसङ्काशे दृश्येते यस्य चाक्षिणी । ध्वाङ्क्षाक्षः
स विनिर्दिष्टो दुर्भिक्षारिभयावहः । कृष्णापाङ्गे शुभे
नेत्रे कांस्यसदृशसप्रभे । यस्य स्यातां भवेच्चायं शूकराक्षा
स गर्हितः । समन्ततो नोपचिते संसृष्टे च मनाग्दृशौ
प्रौढाकूटौ यस्यापि विष्वगक्षः स दुर्भगः । वैषम्याद्विष-
मप्रेक्षी नेष्टो हरितया दृशा । तथा निष्प्रभया दृष्ट्या
वर्ज्जितः कालपिङ्गलः । तन्द्रीर्यस्यानुदृश्येत विरूपं
विषमं तथा । तथैव तिर्य्यग् दृक् हस्ती तिर्य्यक्प्रेक्षी म
दूषणः । अधःप्रेक्षी च यो यः स्यादूर्द्धगामिविलोचनः ।
सदृशो बभ्रुमार्जारप्रभृत्यमतचक्षुषाम् । स स्यादनिष्ट
दृक् हस्ती तिर्य्यक्प्रेक्षी च दूषणः । अधःप्रेक्षी
च सज्ञेयो मृदूर्द्ध्वगामिदर्शनः । दृष्टिः स्निग्धा प्रफुल्ला च
सुस्थितामलतारका । ऊर्द्ध्वपक्ष्म प्रसन्नस्य वारणस्य विलो-
क्यते । उदग्रतारको नाम्ना साम्ना पार्श्वविसर्पिणी ।
विस्तब्धाचलपक्ष्मा तु कुपिताऽनेकपस्य दृक् । सर्वाङ्गलक्षणे-
भ्योऽपि चक्षुर्लक्षणमुत्तमम् । इत्येवं लक्षणज्ञानां पूर्वेषा-
मनुशासनम् । प्रशस्तनेत्रे द्विरदे नृपोभद्राणि पश्यति”
मस्तकादिलक्षणन्तु प्रायेण बार्हस्पत्योक्तलक्षणसममित्यत-
स्तन्नोक्तं यत्र विशेषस्तदुच्यते । “एककूपप्रजातानि
स्निग्धानि च मृदूनि च । रोमाणीष्टानि रोम्णाञ्च
पेचको दक्षिणाङ्गजः । लाङ्गूलस्यैव रोमाणि दृश्यन्ते यस्य
हस्तिनः । संहतानि विचित्राणि स पूज्यो वारणोरणे ।”
करिणो वामनत्वादौ कारणान्तरं तत्फलञ्चोक्तं तत्रैव
“वाय्वाकाशगुणाधिष्ठपृथिवीगुणसर्ज्जनात् । जायतेकिल
मातङ्गः कुब्जो वा वामनोऽपि च । यतो भूतगुणोऽन्योन्यम-
धितिष्ठति मानतः । तैर्गुणै र्जायते खर्वा दन्तीति मुनयो-
विदुः । हीनाङ्गोहानिकारी स्यादधिकाङ्कोऽधिकं हरेत् ।
राष्ट्राहितौ भवेताञ्च खञ्जकुब्जाविति स्थितिः । आयामानाह
संयुक्तो हृस्वाकारो हि वामनः । नष्ठीव्यन्तरनिर्याणो
महास्थिसगदोऽपि च । अस्थिश्वेतौ च रूक्ष्मौ च दन्तौ
यस्याश्रितौ करम् । स चालयित्वा राजानं हत्वा वाथ
पलायते । ह्रस्वमेढ्राङ्गुलिकरः श्रोत्राश्रिश्वेतरोमयुक् ।
कपिकौशिककाकाहिनकुलप्रख्यलोचनः । कालापङ्गलनेत्रश्च
तन्वाननहनुस्तथा । बल्या समाननिर्याणः प्रत्यग्रपृथुपेचकः ।
मण्डूकाभरुचित्वक् च सास्नानलसमोऽपि च । परिमण्डल
कर्णश्च स्पष्टध्वाङ्क्ष शिवध्वजः । प्रौढोन्नताक्षि कूटाक्षः सकिला-
साङ्घ्रिमेहनः । व्यालैत्यवगन्तव्यो निर्मदो दन्तिदूषणः ।
सबली यस्य सदानौ प्रौहौ चापि कचाचितौ । चिवुके
चायतस्थूले व्रणैश्च तनुराबिला । अधोवक्त्राणि रोमाणि
पृष्ठ ०९७८
हनू च कृशरोमगे । सुढक्काकृतयः पादा डिम्बैत्यपि विश्रुतः ।
आस्यौष्ठतालुरसनाः काल कल्माषकान्तयः । कर्ण्णौकचाचितौ
न्यूनौ ताम्बवर्णश्च बालधिः । कराभिप्रेषणासक्तौ मानोना-
ङ्गुलिपुष्कले । स्थूले च पक्ष्मणी नेत्रप्रभे दुष्प्रेक्षणे तथा ।
दुर्बद्धानि तथाङ्गानि बलीमुखनिभं मुखम् । रेणुद्विरेफा-
नुरूपा मक्षिकाभिश्चिताकृतिः । अरत्निमानौ दन्तौ च
शुष्कावप्यनिगूहितौ । कर्ण्णे च कठिने यस्य नीलगोपक
विद्युति । विवर्णं कठिनं रूक्षं भिन्नमिश्रतनुरुहम् ।
नपुसकश्च मातङ्गो स दूरे त्यागमर्हति । मञ्जिष्ठारागभावेन
यत्तनुर्वानरोपमा । स पूतनोऽग्निभयदो यूथहा परिव-
र्ज्जितः । तिर्य्यक्प्रेक्षी चाधःप्रेक्षी दुर्गन्धमदसंयुतः ।
कालपिङ्गोदरोनेष्टो मातङ्गः स्यात् मतङ्गजः । पुष्करे
स्तनमध्ये च वामहस्ते मतङ्गजः । किलासैरावृतः स्याच्च
तद्राष्ट्रे दुर्नयं दिशेत् । पश्चात्समुत्थितावापोनित्यमीलितलो-
चनः । बाहित्थसंक्षिप्तमुखोनिबद्धाक्षो मतङ्गजः । न्यूनं
विंशतिवर्षस्य दन्तौ यस्य प्रमाणतः । अतिमात्रौ न वै
स्यातां नागोनागसमस्तु सः । हीनातिरिक्तदशनो यस्य
वै तस्य मृत्युदः” इत्यवयवदोषाः ।
“अथ वर्ण्णस्तथावर्त्ताः पुष्पाण्याभा स्वरोगतिः ।
बलं सत्वमनूकञ्च गन्धोबोधितमिङ्गितम् । स्याद्भूत-
गुणवैशेष्याद् वर्णवैशेष्यमेव हि । वातादिभ्योऽपि
दोषेम्योवर्णवैशेष्यमिष्यते । रौक्ष्यं परातिरेकेण सर्वं
वातस्य वैभवेत् । सोष्मता शोणितात्, पित्तात् रौद्रता,
सौम्यतेन्दुजा” इत्युपक्रम्य “कफो गर्भशयानस्य
स्निग्धतां प्रतिपद्यते । पित्तं गर्भशयानस्य स्तब्धत्वं
प्रतिपद्यते । तत्करी कथितः कालस्तथैव स्निग्धदर्शनः ।
पित्तं कफश्च युगपद् वेविष्टि तु ततस्ततः । श्यामवर्णोऽपि
मातङ्गो जायते स्निग्धएव वै । गर्भे च मांससहिते कफरक्ते
यदा स्थिते । चिरं गर्भशयानस्य हरिस्निग्धस्ततोऽप्यसौ ।
रक्तपित्तकफानाञ्च सङ्करत्वगतौ तथा । हरितारुणपी-
ताद्या नानावर्ण्णा भवन्ति हि । सर्वत्रानुगवातेन मीलनाद्रू-
क्षता भवेत् । पारुष्यं धूसरत्वं च सुस्निग्धत्वं भवेत्तथा ।
क्वचिद्वर्णविभेदाश्च पूर्वसम्भवकारणात् । ग्रहनक्षत्रचाराच्च
पितृवीजवशात्तथा । तत्रापि श्वेतवर्ण्णाश्च शुकवर्हिमणि-
त्विषः । शुद्धहेमरुचश्चेभाः सुरेषु प्राचि च क्वचित् ।
नृणान्तु हरयः कृष्णाः श्यामाश्च करिणः स्मृताः ।
हरिर्मधुसवर्णश्च कृष्णश्चाञ्जनसन्निभः । न कालो न हरिर्ना-
गोमध्वाभः श्याम इष्यते । एतेषु त्रिपु वर्णेषु हरिवर्णो-
वरोमतः” । इति वर्णभेदकारणादिनिरूपणम् ।
“आवर्त्तः षड़िधश्चैव त्वग्जोदशनभङ्गजः । कोषजः
पक्ष्मजातश्च बालजो रोमजोऽपि च । कोषरोमभवौ
शस्तौ दन्तकल्पनजः शुभः । शीकानर्थप्रदाः प्रोक्तास्त्वग्ज-
पक्ष्मजबालजाः । भूमिदोरोमजावर्त्तः कोषावर्त्तोजय-
प्रदः । दशनसम्भवावर्त्तः सुतदारप्रदस्तथा । कथितः
पक्ष्मजावर्त्तोज्ञातिजातभयप्रदः । व्रणकृद्बालजावर्त्तः
सामहा रोमसम्भवः । प्रशस्तोदक्षिणावर्त्तोवामावर्त्तो
विगर्हितः । मतो व्यक्तो मृदुस्निग्धः सवर्णः पीतरोमजः ।
वामाङ्गे दक्षिणावर्त्तोवामावर्त्तश्च दक्षिणे । आवर्त्तः
सम्मतोऽभीष्टो द्विजराजसमप्रभः । शुभोऽप्यक्षेत्रजातो-
ऽसौ शुभं नैव प्रयच्छति । अशुभक्षेत्रजातश्च नानिष्टफलदः
शुभः । अवग्रहे ग्रहतले स्तनयोरन्तरे तथा । ग्रीवाया
मक्षिकूटोर्द्धं कुम्भयोरन्तरे तथा । उत्पले दन्तवेष्टे च
कर्ण्णमध्ये च वक्षसि । आवर्त्ता वारणानां हि सुनिश्चेयाः
शुभप्रदाः । स्तनान्तरे शिरोमध्ये कुम्भान्तश्चूलिकान्तरे ।
वक्षस्यावर्त्तसम्पन्नः कुञ्जरः पञ्चमङ्गलः । शीर्षावर्त्तोऽ-
भिषेकाय स्तनावर्त्तोजयाय च । सुखाय चूलिकावर्त्तः
कुन्भोरोरोमजः श्रिये । वंशे प्रौहेऽथ बाहित्थे मन्यास्य
सगदे कटे । कर्णेऽक्षिकूटे नाभौ च कक्षपक्ष्मांसकूक्षिषु ।
बालधौ पेचके मेढ्रे रन्ध्रसन्धिकलासु च । आवर्त्ता न
प्रशस्यन्ते कर्णभागगताश्च ये । कोणप्रमाणलघवोमर्मपर्व-
प्रदेशगाः । अशुभक्षेत्रजाताश्च सकिलासान्तरोत्थिताः ।
मनोनेत्राभिरामो हि सुसूक्ष्मोगदितो महान् । ऊर्द्ध्व-
प्रवृत्तोदीर्घश्च रोमजोऽर्थजयावहः । मर्मभागेषु नागस्य
निष्ठास्ते रोमजादयः । समभागगतावर्त्ताः सर्व्वतः सुखदा-
मताः” । इत्यावर्त्तः ।
“स्वस्तिकादिसुसंस्थानं पुष्पं दर्शनदेहजम् । स्निग्धं
भवेत् शुभच्छायमच्छिन्नं वाञ्छितप्रदम् । कबन्धादिक-
संस्थानं विषतन्तुसमं स्फुटम् । रूक्षं कृष्णञ्च कुसुमं
तातानर्थकसंज्ञकम् । दद्यात् सुतं सितं पुष्पं स्निग्धपीतञ्च
हेमदम् । नीलोत्पलाभं शीलाप्त्यै स्निग्धकालञ्च वृत्ति-
दम् । यदि स्यात् पूजिते भागे कुसुमं स्निग्धपाण्डुरम् ।
सुरचापसमाकारं तद्भनेद्मूभुजः शुभम् । शक्रंचापनिभं
पुष्पं दन्तोपरि च दन्तिनः । दिशेदिष्टं सुमिक्षं च क्षे-
मं च क्षितिरक्षिणः । स्तनान्तः स्निग्धरुक्षे च पुष्पे नाग
समे तथा । पुष्पे श्रोत्रान्तःकाले च म्लानिवृद्धिं विनिर्दि-
शेत् । श्रीवृक्षादिनिभाकारे वैजयन्तीध्वजोपमे । शैलप्रा-
पृष्ठ ०९७९
सादसदृशे छत्रचामरवीथिभिः । सोमसूर्य्यसमाभासे
शिविकायानमूर्त्तिभिः । दिष्टे शुभाय नृपतेर्निन्द्यमहि-
समाकृति । श्वक्रव्यादनिभाकारं रणापसरकारणम् ।
धूमाभं पुष्पमिच्छन्ति मृत्यवेऽग्निभयाय च । कृष्णं पुष्पं
तथा नेष्टं द्विषद्भोगविवर्द्धनम्” । इति पुष्पम्
“भूखाग्न्यम्बुमरुज्जाता भवेच्छाया विषाणिनाम् ।
शस्ता भूजलवह्न्युत्था न शस्ता खानिलोद्भवा । छायायाः
सम्भवः पूर्वं, परतः परितः प्रभा । छायायाः सम्भवः पूर्वं
प्रभा तत्परमश्नुते । वर्ण्णमात्रश्रिता च्छाया प्रभा वर्णस्य
नाश्रयः । लक्षणानि तु नागानां पापानि च शुभानि च ।
छायावशात् फलन्त्येव छाया तेनातिलक्षणम् । यस्य स्या-
ल्लक्षणं भद्रं छाया भद्रा भवेन्न तु । न चासौ शुभदोहस्ती
छायोपहतलक्षणः । पापलक्षणयुक्तोऽपि शुभच्छायायुतो-
गजः । फलं लक्षणजं हित्वा छायाफलमवाप्नुयात् ।
नीराजनेऽभिषेके च ध्वजोच्छ्राये रणोदये । तेषु तेषु च
कालेषु भवेच्छाया च शोमना । वक्षसि प्रतिमानेऽंसे
कुम्भे कर्णे कटेषु च । निर्याणे मस्तकस्थाने वेष्टयोश्च
कपोलयोः । पिण्डिकाजघनाभोगे तेषु तेषु पदेषु
च । प्रदेशेषु प्रधानेषु छायाया वीक्षणं भवेद् । प्रशस्ता
पार्थिवी छाया बह्निजा जलजापि च । नेष्यते व्योमजा
छाया मातरिश्वभवापि च । पार्थिवी स्निग्धगम्भीरा
सर्ववर्णे विभाव्यते । छाया ह्यासां च रक्ता च स्निग्धा जाम्बू-
नदाग्निजा । छाया नीलाम्बुदाभासा स्निग्धा सलिलस-
म्भवा । अव्यक्तपरुषा तस्यछाया गगनजा मता । धूम्रा
रूक्षा च वायव्या भस्माभा निष्प्रभा तथा । एताश्छायाः
परीक्ष्याः स्युर्मातङ्गे राजपूजिते । नीलाम्बुजेन्द्रनीलाभा
नीलाञ्जननिभाऽपि च । क्वाप्युक्ता पार्थिवी च्छाया
सुभिक्षक्षेमकारिणी । बालार्कपद्मकिञ्जल्कशक्रगोपकस-
न्निभा । ज्वालाभा तप्तहेमाभा वह्निजा विजयप्रदा ।
छायाम्मयी पयःशङ्खकुन्दरूप्यनिभद्युतिः । सौग्याख्यया
प्रतीता च भर्त्तुरर्थप्रदा सदा । जलबुद्वुदसङ्काशा धूम्र-
द्युतिरतिस्थिरा । निन्द्या च व्योमजा छायानित्योद्वेग-
करी मता । सर्ववर्णैरुपेताऽपि निष्प्रभा भस्मसन्निभा ।
विच्छिन्ना विकृता च्छाया वायवी सा भयावहा । वैरिञ्ची
वैष्णवी शैवी छाया माघवनी तथा । कौमारी राक्षसी
सार्पी गान्धर्वी च तथाऽऽसुरी । पैशाची चेति याश्छाया
श्छायादिव्याः क्वचित् शुभाः । भूतोत्थलक्षणे तासां भेदो-
नेह तु कीर्त्तितः । तेजोऽतिसक्ता भद्रस्य पाटला भ-
वति प्रभा । छाया रक्तकला रुक्मपद्मपूगनिभाऽपि वा ।
कृष्णा च मन्दकरिणश्छाया तु मृगहस्तिनः ।
मलिनाम्बरधूम्रेव गीर्वाणायुधदर्शना” इति छाया ।
“हस्तिनां विविधा ध्वानाश्छिद्रेभ्यः करतोऽपि च ।
भवन्ति वायुवशतो गात्राणां वेष्टनेन च । प्रयाणेष्वभिषिक्तेषु
ध्वजे जातिकुलेषु च । नागेषु वृंहितं ग्राह्यं मत्तस्तब्धे न
जातिषु । हृषितोऽत्यस्तनिद्रान्तस्तृषितो वृंहति क्वचित् ।
यदि दन्ती शुभे देशे समये च वसुप्रदः । दर्शयेद्वृंहितं
भद्रं तत्फलं स्फीतमादिशेत् । सरोवरे तथाऽऽरामे गोष्ठे
विबुधवेश्मनि । निकुञ्जे हृद्यदेशे हि विज्ञेयः शुभदो-
ध्वनिः । यात्रायामभिषेके च यज्ञादिसमये तथा । समये
चैव पुण्ये च वृंहितं स्याच्छिवप्रदम् । अश्मादिकाष्ठ
बल्मीकदुष्टस्थाने भयप्रदः । सुनीचे च प्रधूमे च प्रति-
श्यायदिनेषु च । अतिशीतेऽतिघर्मे च प्रभाते चाशुभोरवः ।
मूतले न्यस्तहस्तो हि पर्य्यश्रुनयनोगजः । कूजन् निर्व्यथनं
कुर्य्यात् यदि वा नश्यतीश्वरः । करेण वृंहितोनागो दुश्चि-
त्ताश्रुपरिप्लुतः । आदिशेन्मन्त्रिणोनाशमथ वा पृथना-
पतेः । व्यायतश्रमहस्तस्य सास्राधोगतचक्षुषः । जघने
वामतो बालं तथा निक्षिपतोऽसकृत् । (बालं बालधिम्) ।
निषीदतो लङ्घयतो हृष्टरोम्णोविमूर्च्छतः । वामे
निक्षिप्य गण्डूषं वृंहितं स्यादनर्थकृत् । खेयः स्रवति
नागानां धमतां यदि शोणितम् । (खेभ्यः छिद्रेभ्यः) तथा
मन्यान्तदेशे च प्राणिनां क्षयमादिशेत् । यद्याग्नेयी-
मुखोभूत्वा प्राच्यां बाऽर्कोदयं प्रति । दन्ती तीक्ष्णरवं
कुर्य्यात्तदा स्यात् पावकाद्भयम् । करेण यदि मातङ्गो वृंह-
माणः स्तनं स्पृशेत् । आलाने लम्बमानस्तु संयुति क्षयमा-
दिशेत् । (संयुति युद्धे) । आलाने लम्बमानस्तु शीत्कुर्वन्
कुरुते ध्वनिम् । गात्रं प्रंङ्खोलयन्नागस्ततः प्रस्थानमादि-
शेत् । क्षिप्त्वा करं विषाणस्थं विषमं कूजते यदि ।
निरीक्षमाणो गगनं हतां वृष्टिमुदाहरेत् । यदाभ्युन्नतवक्त्रेण
स्तनस्थानञ्च जिघ्रतः । तथा कुञ्चितहस्तेन मुखं गात्रं च
जिघ्रतः । कुर्वतो दक्षिणं हस्तं शनैर्निक्षिपतोऽपि यत् ।
वृंहितं स्यात्तदिष्टञ्च तथान्योन्यकरस्पृशः । गृहीत्वा
शुभवस्तूनि कुसुमादीनि चेद् द्विपः । कुर्य्याच्छब्दं शुमं तेन
फलं शुभतरं भवेत् । उच्चैरभिमुखः शान्तो यदा नदति
वारणः । अरूक्षमध्यमानेन तदा तत्र जयी ध्रुवः । मुखेन
मण्डूकरवान् कर्ण्णाभ्यां दुन्दुभिध्वनिम् । करेण
मुरजारावान् कुर्वन् कल्याणकारकः । कलणादिसमारावा
पृष्ठ ०९८०
विकटान समाः स्मृताः” । इति ध्वनिः । गतिबले तु प्रा-
गुक्ते एवात्र प्रायेण दर्शिते नातस्ते अत्रोदाहृते ।
“सत्वं त्रिविधमिच्छन्ति श्रेष्ठमध्याधमैर्गुणैः । सात्विकं
राजसं चापि तामसञ्च विषाणिनाम् । एषामपि गुणाज्ञेया
बहवस्ते न कीर्त्तिताः । सत्वस्योक्तागुणाः शौर्य्यं
बुद्धिर्धैर्य्यं सुहर्षता । रजसोये गुणास्ते च क्रोधोत्साहा
वपि क्वचित् । गुणाश्च तमसस्तन्त्रातमोमोहप्रमादिताः ।
ह्रीमन्तः कान्तियुक्ताश्च प्राज्ञाश्च चिरजीविनः । क्रिया-
क्लेशसहाः श्रान्ताः सात्विकाः सामसम्भवाः । शिष्याश्च
मध्यसाध्याश्च कीर्त्तितानिर्भयाः क्वचित् । क्रियायोगसहाः
किञ्चिद्राजसा मध्यमायुषः । तामसा दुःखिता मूढा विरूपा
लघुजीविताः । युक्तोऽप्यन्यगुणैः सर्वैर्युतश्चेत् सात्विकै
र्गुणैः । श्रेयोगुणः स समरे तथाऽध्वनि मतङ्गजः । एषां
वागीशनिर्दिष्टा विषयापेक्षया स्थितिः । भद्रे सन्निहितं
सत्वं, रजोमन्दे, तमो मृगे । देवगन्धर्वयक्षाणां पन्नगा-
सुररक्षसाम् । पिशाचानां नृणां तुल्यं वेद्यं नागस्य
चेष्टितम्” । इति सत्वम् ।
“यत् पूर्व्वसम्भवं स्पष्टं सत्वं रूपं गतिः स्वरः । तस्या-
नुकरणात् युक्तमनूकमिति कोविदाः । सत्वरूपजवारावैः
शुभानुकारिता शुभा । देवर्षिगणगन्धर्वनागानूकाः शुभा-
मताः । एवमेव च दुष्टानुकृतोदुष्टाः प्रकीर्त्तिताः । दैत्य-
रक्षःपिशाचानामनूकं परिवर्ज्जितम् । वृषसिंहतुरङ्गादि
समानूकामता द्विपाः । नेष्टाः सरदगृध्रादिसमानाकृतियो-
गिनः” । अनूकम् ।
“आस्याक्षिकुम्भकर्ण्णेषु मदनिश्वासवायुषु । शकृद्वमथु-
मूत्रेषु गन्धं समुपलक्षयेत् । इष्टगन्धान्निषेवेत वारणान्
धरणीपतिः । दुष्टगन्धान् सदा भूपोयत्नतः
परिवर्ज्जयेत् । सर्पिर्मधुसुरालाजदधिक्षीरानुकारकः । शाल्य-
न्नोशीरमदिरापद्मकाष्ठादिसन्निभः । मालतीकेतकीजातो-
चन्दनाधिकसौरभः । सुरसालफलामोगोगन्धोनागस्य
सम्मतः । असृङ्मूत्रशकृत्पूतिवसाकुणपकुत्सितः । पक्षि-
नीड़पलाण्ड्वादिसप्ततिग्मविनिर्म्मितः । खरोष्ट्रशूकरसमः
श्यशानधूमसन्निभः । मीनमत्कुणतुल्यश्च गन्धोनागस्य
दुःखदः” । इति गन्धः ।
“पञ्चधा विदितं स्याच्च विज्ञेयं सामजन्मनाम् । अत्य-
र्थोत्तानगम्भीरप्रत्यर्थान्वर्थभेदतः । यस्तूद्घातादुद्विजते दूरा-
दंसादि संकुचेत् । अत्यर्थं सङ्कुचेत् स्पृष्टः स गजोऽत्यर्थवे
दिता । योऽपि त्वक्स्पर्शमात्रेण रोमस्पर्शवशेन वा ।
विद्याद्दण्डाङ्कुशादींश्च स स्यादुत्तानवेदिता । त्वग्भेदात्
शोणितस्रावात् तीव्रप्रव्यथनादपि । अङ्कुशादीन् विजानाति
स हि गम्भीरवेदिता । शनैर्हतोभृशं वेत्ति शनैर्वेत्ति
भृशाहतः । विपरीतमतिर्नागो ज्ञेयः प्रत्यर्थवेदिता । प्रत्ये-
ति वार्य्य माणो यो निगृहीतश्च गच्छति । प्रतिलोमा-
यते संज्ञां सोऽपि प्रत्यर्थवेदिता । शनैर्हतः शनैर्वेत्ति-
भृशं वेत्ति भृशाहतः । प्रत्येति प्रतिषिद्धश्च नोद्यमानश्च
गच्छति । यथासंज्ञं विदध्याच्च सर्वकर्माणि योऽद्भुतम् ।
अन्वर्थवेदिनं प्राज्ञोजानीयात्तं शुभं गजम्” इति विदितम् ।
“मतङ्गजेङ्गितं वक्ष्ये शृणु तदवधानतः । शुभज्ञा-
नञ्च येन स्यात् यात्रादिसमये नृप! । अनुयात्रं
गतोहन्यात् किञ्चिद्रूपं यदि द्विपः । तज्जयः, प्रतियात्रं तु
रूपाहत्या पराजयः । दृष्ट्वा रिपूनभिमुखान् वार्य्यमाणो-
ऽपि चेद्गजः । व्रजेत्तद्विजयोनूनं यदि वा प्राप्तवान् वशे ।
दक्षिणेनाग्रपादेन क्षितिमुत्पाटयेद्यदि । उत्तोलयेद्वाम-
पादं तदा जयमुदीरयेत् । करेण चाग्रहस्तेन यदा पृथ्वीं
प्रमार्जयेत् । सिञ्चत्यनेन कर्णौ च तदा सौख्यं समादि-
शेत् । पेचकं कुटिलं कृत्वा करं जिघ्रति चेत् द्विपः ।
प्रहृष्टहृदयाङ्घ्रिश्च तदाभ्युदयमादिशेत् । दक्षिणं तु यदा
दन्तं दन्ती प्रमुदितेन्द्रियः । परिष्वजति हस्तेन तदा स्यात्
प्रियसङ्गमः । तथैव गलसन्धिञ्च पष्करेण परामृशन् ।
श्रीयोगमुपयातं तु वारणोविनिवेदयेत् । सङ्कोच्य दक्षिणं
पादं वामपादेन वा भुवम् । विलिखेद्वारणः खिन्न-
स्तद्भर्त्तुः स्यात् पराजयः । यदा तु दुर्मनादन्तं वामं
हस्तेन शोधयेत् । तदात्मनोवदेन्नाशं यातुर्वाथ निषा-
दिनः । करेण वामगात्रं च खिन्नगात्रः प्रमार्ष्टि चेत् ।
तदानिष्टं भवेद्भर्त्तुरन्यथा च शुभं भवेत् । व्यथमानः
पतेत् त्रस्तः कक्षबन्धे यदा द्विपः । नाभिनन्देच्च माल्यादि
तदा परिभवो भवेत् । अकस्मादेव कुप्यन्ति भ्रमन्ति च
पतन्ति च । करिणो यदि तद्विद्यात् विग्रहं समुपस्थितम् ।
यदा पश्यति मातङ्गोविद्रवञ्च पराजयम् । प्रवासं
परराष्ट्रं वा तदा भवति दुर्मनाः । अदंशव्रणपीड़ायां
करेण परिवीजनात् । गण्डूषदेशनिष्पेषात् सव्याजमुप-
सर्पणात् । अकस्माच्च स्खलद्गत्या धरण्यां प्रणिपातनात् ।
जलप्रतारवैमुख्यादहितभक्ष्यसेवनात् । स्तब्धकर्णतया गत्या
पादाग्रवेशनादपि । द्रुतदद्र्वादिपीलुत्वादकल्याणकरः करी ।
आत्तग्रहोजलोत्तीर्णोरिपूणां ग्रहणं वदेत्” इङ्गितम् ।
“जायते द्विविधः कोपः संश्चासंश्च विषाणिनाम् ।
पृष्ठ ०९८१
शिष्यक्रोधोह्यभीष्टः स्यादनिष्टोऽशिष्यरोषणः । यः
क्रुध्यति चिरेणैव मृदुक्रोधो भवेदपि । वाग्दण्डमात्रबन्धैश्च
प्रतिषिद्धो न मुह्यति । अनुशाम्यति रोषाच्च स शिष्य-
क्रोधसंज्ञितः । इष्यते सर्व्वकार्य्येषु शुभजातिर्मतङ्गजः ।
यः क्रुध्यत्यचिरिणैव भृशक्रोधो भवेदपि । प्रतिषिद्धश्च
वाग्दण्डतीक्ष्णप्रजनकाङ्गुशैः । मुह्यत्येव चिरेणापि रोषा-
द्विरतिमेति च । अशिष्यक्रोधसंज्ञोऽसौ विज्ञेयो वारणा-
धमः” इति कोपः । विस्तरस्तु पालकाव्यादौ दृश्यः ।

इभकणा स्त्री० इभोपपदा कणा शाक० त० । गजपिप्पल्याम् ।

इभकेशर पु० इभमद इव केशरोऽस्य । नागकेशरे “शृङ्गा-

टकात्मगुप्तेभकेशरागुरुचन्दनैः” सुश्रु० ।

इभगन्धा स्त्री इभस्य गन्ध एकदेशोदन्त इव पुष्पमस्याः ।

नागदन्त्याम् सा च स्थावरविषभेदः यथा सुश्रुते “मूलं पत्रं
फलं पुष्पं त्वक्क्षीरं सारएव च । निर्य्यासोधातवर्श्चवकन्दश्च
दशमः स्मृतः” इत्युपक्रम्य “कुमुद्वतीरेणुकाकरम्भमहाक-
रम्भकर्कोटकरेणुकखद्योतकचर्म्मरीभगन्धा सर्पघातिनन्दन
सारपाकादीनि द्वादश फलविषाणि” इति विभज्य “शुष्क-
शेफः फलविषैर्दाहोऽन्नद्वेष एव चेति” तद्विकारो दर्शितः ।

इभदन्ता स्त्री इभस्य दन्तैव शुभ्रं पुष्पमस्याः । गजदन्त

शुभ्रपुष्पवत्यां १ नागदन्त्याम्, सा च स्थावरफलविषा ।

इभनिमीलिका स्त्री इभं हस्तिनमपि निमीलयति सेवनात्

निद्रापयति । १ भङ्गायाम् । इभस्येव निमीलिका । २
वैदग्ध्याम्

इभपालक पु० इभं पालयति । (माहुत) हस्तिपके ।

इभपोटा स्त्री पोटा पुंलक्षणा इभी परनिपातः पुंवद्भावश्च ।

पुंगजलक्षणयुक्तायां हस्तिन्याम् ।

इभभर पु० ६ त० । गजसमूहे

इभमाचल पु० इभमाचलयति आ + चल--णिच्--बा० ख । सिंहे ।

इभया स्त्री इभैर्यायते भक्ष्यतया प्राप्यते या--कर्मणि घञर्थे क

३ त० । स्वर्णक्षीरीवृक्षे रत्नमाला इभषेति वा पाठः ।

इभयुवति स्त्री युवतिरिभी पूर्वनि० पुंवद्भावश्च । युवत्यां

हस्तिन्याम् वा ङीप् ।

इभाख्य पु० इभस्याख्याख्या यस्य । नागकेशरे त्रिका० ।

इभानुन पु० इभस्याननमेवाननं यस्य । गजानने गणेशे तस्य

यथा तदाननत्वं तथोक्तं “स्वयं गोलकनाथश्च पुण्यकस्य
प्रभावतः । पार्व्वतीगर्भजातश्च तव पुत्रो भविष्यति । स्वयं
देवगणानाञ्च यस्मादीशः कृपानिधिः । गणेश इति विख्या-
तो भविष्यति जगत्त्रये । “शनिदृष्ट्या शिरच्छेदात् गज-
वक्त्रेण योजितः । गजाननः शिशुस्तेन नियतिः केन
बाध्यते” ब्रह्मवै पु० ६ अ० । शनिदृष्ट्या तच्छिरश्छेद-
कथा तत्रैव १२ अ० । “पार्व्वतीवचनं श्रुत्वा सोऽनु-
मेने हृदा स्वयम् । पश्यामि किं न पश्यामि पार्व्वतीसुत-
मित्यहो । यदि बलो मया दृष्टस्तस्य विघ्नो मवेद्
ध्रुवम् । अन्यथा मे प्रलापस्तत्परतः खात्मरणम् । इत्या-
लोच्य च धर्मिष्ठो धर्मं कृत्वा स्वसाक्षिणम् । बालं द्रष्टं
मनश्चक्रे न बालमातरं शनिः । विषण्णमानसः पूर्वं शुष्क-
कण्ठीष्ठतालकः । सव्यलोचनकोणेन ददर्श च शिशोर्मु-
खम् । शनिश्च वृष्टिमात्रेण चिच्छेद मस्तकं मुने! ।
चक्षुर्निवारयामास तस्थौ नम्राननः शनिः” एवं शिरश्छे-
दमुक्त्वा । “तान् सर्व्वान् मूर्च्छितान् दृष्ट्वा चारुह्य गरुड़ं
हरिः । जगाम पुष्पभद्रां स उत्तरस्यां दिशि स्थिताम् ।
पुष्पभद्रानदीतीरे ददर्श काननस्थितम् । गजेन्द्रं निद्रितं
तत्र शयानं हस्तिनीयुतम् । दिश्युत्तरस्यां शिरसं
मूर्च्छितं सुरतश्रमात् । परितः शावकान् कृत्वा परमान-
न्दमानसम् । शीघ्रं सुदर्शनेनैव चिच्छेद तच्छिरो मुदा ।
स्थापयामास गरुड़े रुघिराक्तं मनोहरम्” ।
गजशिरश्छेदमुक्त्वा तत्पत्न्या स्तुतेन हरिणा तस्य कल्पान्त
जीवनं वरोदत्त इत्युपवर्ण्य । “आगत्य बालकस्यानं बालं
कृत्वाऽथ वक्षसि । रुचिरं तच्छिरः कृत्वा योजयामास
बालके । ब्रह्मस्वरूपी भगवान् ब्रह्मज्ञानेन लीलया ।
जीवनं योजयाभास हुङ्कारोच्चारणेन च । पार्व्वतीं
बोधयित्वा तु दत्त्वा क्रोड़े च तं शिशुम् । बोधयामास तां
नाथ आध्यात्मिकविबोधनैः” “सेनाचरीभवदिभाननदानवा-
रिवासेन यस्य जनितासुरभीरणश्रीः” नैष० । इभवक्त्रेभमुख-
गमाननादयोऽप्यत्र । “तं नमामि गजाननम्” माधवः ।

इभारि पु० ६ त० । सिंहे इभामित्रादयोऽप्यत्र ।

इभोषणा स्त्री इभोपपदा उषणा शाक० त० । गजपिप्पल्यां शब्दच० ।

इभ्य त्रि० इभं गजमर्हति दण्डा० यत् । १ प्रचुरगजादि-

धनाढ्ये २ नृपे ३ हस्तिपक च पु० । “उषस्तिर्ह चाक्रायण
इभ्यग्रामे प्रद्राणक उवास” छा० उ० तस्य भाष्ये इभो
हस्ती तमर्हतोतीभ्य ईश्वरोहस्त्यारोहोवेति । “जामिः
सिन्धूनां भ्रातेव स्वस्रामिभ्यान्न राजा वलान्यत्ति” ऋ० १,
६५, ४, स्वार्थे कन् । इभ्यकस्तत्रैव स्त्रियान्तु टापि वा अत
इत्त्वम् इभ्यका--इभ्यिका । इनाढ्यायां स्त्रियाम् ।

इभ्यतिल्विल त्रि० इभ्यस्तिल्विलः पुष्टैव । गजादिभिः प्रचु-

रे आढ्ये । “यदि प्रतीचीयादिभ्यतिल्विल इव धान्यति-
ल्विलो भविष्यतीति विद्यात्” शत० व्रा० ४, ५, ८, ११,
"https://sa.wikisource.org/w/index.php?title=वाचस्पत्यम्/इन्द्रक&oldid=57662" इत्यस्माद् प्रतिप्राप्तम्