पृष्ठ ०९८२

इभ्या स्त्री इभमर्हति सेव्यत्वेन दण्डा० यत् । १ हस्तिन्यां

२ शल्लकीवृक्षे च मेदि० ।

इमथा अव्य० इदम्--इवार्थे--थाल् “प्रत्नपूर्व्वविश्वेमात् थाल्

छन्दसि” पा० सू० निर्देशात् नि० इमादेशः ।
इदानीन्तनतुल्ये । “तं प्रत्नथा पूर्व्वथा विश्वथेमथा इव ज्ये-
ष्ठतातिं वर्हिषदं स्वर्विदम्” ऋ० ५, ४४, कृ । “प्रत्नथा
पुरातनयजमाना इव पूर्व्वथास्मदीया पूर्व्वे यथा । विश्वथा
विश्वे सर्वे प्राणिनो यथा । इमथा इदानीं वर्त्तमाना
यजमाना इव” भा० “इयमृक्” यजु० ७ अ० ११ च पठिता ।

इयक्षु त्रि० यज + सन उ वेदे नि संप्रसारणम् । यष्टुमिच्छौ

“धन्वन्निव प्रापा असि त्वमग्न इयक्षवे” ऋ० १०, ४, १,
वेदे प्रायेण सर्वत्र नि० संप्रसा० । “सुम्नं वां सूरिर्वृषणा-
वियक्षन्” १, १५२, २, देवानां इयन्मनो यजमान इयक्षति”
ऋ० ८, ३१, ११५,

इयत् त्रि० इदं परिमाणमस्य इदम्--वतुप् । एतावदर्थे

“नीतं यदि नवनीतं कियदिति यशोदया पृष्टः । इयदिति
गुरुजनसविधे विधृतधनिष्ठापयोधरः पायात्” उद्भटः ।
“इयान् वाव किल पशुर्यावती वपा” ऐत० “इयन्ति वर्षाणि
तथा महोग्रम्” रघुः “दृष्टिं निक्षिपतीति विश्वमियता मन्या-
महे दुःस्थितम्” सा० द० । अत्र साधनप्रकारः इदम्
+ परिमाणार्थे वतुप् वस्य घः इदम इश् “यस्येति” पा० प्रकृ-
तीकारलोपे प्रत्ययमात्रस्थितिः । अतएवात्र वैयाकरणा
औपनिषदाश्च पठन्ति । “उदितवति परस्मिन् प्रत्यये
शास्त्रयोनौ गतवति विलयञ्च प्राकृतेऽपि प्रपञ्चे । सपदि
पदमुदीतं केवलं प्रत्ययोत्थं तदियदिति मिर्मीते कोहृदा
पण्डितोऽपि” । स्त्रियां ङीप् ।

इयत्तका स्त्री कुत्सिता इयत्ता कुत्सितार्थे कन् ह्रस्वः ।

कूत्सितेयत्तायाम् । ततः अर्श आ० अस्त्यर्थे अच् । कुत्-
सितेयत्तायुते अल्पप्रमाणे “इयत्तकं कुषुम्भकस्ककं भिनद्म्य-
श्मना” ऋ० १, १९१, १५,

इयत्ता स्त्री इयतो भावः तल् । १ सीमायां, २ परिमाणे, ३

संख्यायाञ्च । “न गुणानामियत्तया” “यशः परिच्छेत्तुमि-
यत्तयालम्” “ई क्तया रूपमियत्तया वा” इति च रघुः ।

इयस् त्रि० इ--कर्त्तरि असुन् किच्च । १ गन्तरि भावे असुन् ।

२ गतौ “तेषां हैयसेवास किमिह कर्त्तव्यम्” शत० ब्रा० २,
२, ३, ३,

इर--ईर्षायां कण्ड्वा० यक् उभ० । इर्यति इर्य्यते ।

इरज् --ईर्षायां कण्ड्वादि० यक् प० । इरज्यति । “इरज्यन्नग्रे

प्रथयस्व जन्तुभिरस्मे रायः” ऋ० १०, १४०, ४ ।
“इरज्यन्त यच्छुरुधोविवाचि” ऋ०७, २३, २, यदेषामग्रं जगता-
मिरज्यसि” ऋ० १०, ७५, २ । “युवं विप्रस्य मन्मनामि-
रज्यथः” ऋ० १, १५१, ६ ।

इरण त्रि० ईरिण + पृ० । ऊषरभूमौ अमरटीका रमा० ।

इरम्मद पु० इरया जलेन अन्नेन वा माद्यति वर्द्धते इरा--मद-

खच् नि० ह्रस्वः मुम् च । १ वज्राग्नौ २ बाड़वानले च ।
“इरम्मदं वृहदुक्थं यदत्त” यजु० ११, ७४ ।
“इरया अन्नेन माद्यति उग्रं पश्येत्यादि” पा० नि०”
वेददी० । “वृहते हवामहे इत्येतदिरम्मदमितीरया ह्येष मत्तः”
शत० ब्रा० ६, ६, ३, ४ ।

इरस् इरज्वत् कण्ड्वा० इरस्यति “मात्रपूषन्नाघृण इरस्यः”

ऋ० ७, ४०, ६ । “यस्मा इरस्यसीदम्” ऋ० १०, ८६, ३ ।

इरा स्त्री इण्--रक् इं कामं राति रा--क वा । १ मूमौ, २ वाचि,

३ सुरायाम्, ४ जले, ५ अन्ने च । “इरा विश्वस्मै भुवनाय
जायते यत्पर्जन्यः पृथिवी रेतसावतिः” ऋ० ५, ८ त,
१ । “इरामस्मा ओदनं पिन्वमानाः” शत० व्रा० ६, ६, ३३ ।
६ कश्यपस्य पत्नीभेदे । “घर्मपत्न्यः समाख्याताः कश्यपस्य
वदाम्यहम् । अदितिर्दितिर्दनुःकाला अमायुः सिंहिका
मुनिः । कद्रुः प्राधा इरा क्रोधा विनता सुरभिःखशा”
इत्युपक्रम्य “इरा वृक्षलतावल्लीतृणजातीश्च सर्वशः” ।
असूतेति शेषः । गरुडपु० ।

इराक्षीर पु० इरा जलं क्षीरमिवास्य । क्षीरसमुद्रे ।

इराचर न० इरायां जले भूमौ वा चरति चर--ट ६ त० ।

१ वर्षोपले त्रिका० २ भूचरे ३ जलचरे च त्रि० ख्यियां ङीप् ।

इराज पु० इरा सुरेव अजति विक्षिपति अज--अच् न वी

भावः । कन्दर्पे हला० ।

इराम्बर न० इरा जलमम्वरमिव यस्य । वर्षोपले करकायाम् । त्रिका० ।

इरावत् इरा + भूम्रि मतुप् मस्य वः । समुद्रे तत्र भवः अण्

ऐरावतः । अर्जुनेन नागकन्यायामुत्पादिते ३ वीरभेदे
तदुत्पत्तिकथा” भा० भी० ९१ अ० ।
“अर्जुनस्यात्मजः श्रीमानिरावान्नाम वीर्य्यवान् । स्नुषायां
नागराजस्य जातः पार्थेन धीमता । ऐरावतेन सा
दत्ता ह्यनपत्या महात्मना । पत्थौ हते सुपर्णेन कृपणा
दीनचेतना । भार्य्यार्थं ताञ्च जग्राह पार्थः कामवशा-
नुगाम् । एवमेष समुत्पन्नः परक्षेत्रेऽर्जुनात्मजः । स
नागलोके संवृद्धो नात्रा च परिरक्षितः । पितृव्येण
पृष्ठ ०९८३
परित्यक्तः पार्थद्वेषाद्दरात्मना । रूपवान् बलसम्पन्नो
गुणवान् सत्यविक्रमः । इन्द्रलोकं जगामाशु श्रुत्वा तत्रा-
र्जुनं गतम् । सोऽभिगम्य महाबाहुः पितरं सत्यविक्रमः ।
अभ्यवादयदव्यग्री विनयेन कृताञ्जलिः । न्यवेदयत
चात्मानमर्जुनस्य महात्मनः । इरावानस्मि भद्रं ते पुत्त्र-
श्चाहं तव प्रभो! । मातुः समागमो यश्च तत्सर्वं प्रत्यवेद-
यत् । तच्च सर्वं यथावृत्तमनुसस्मार पाण्डवः । परिष्वज्य
सुतञ्चापि सोत्मनः सदृशं गुणैः । प्रीतिमानभवत् पार्थो
देवराजनिवेशने । सोऽर्जुनेन समादिष्टो देवलोके तदा
नृप! । प्रीतिपूर्वं महाबाहुः स्वकार्य्यं प्रति भारत ।
युद्धकाले त्वयास्माकं सह्य देयमिति प्रभो । वाढमित्येव-
मुक्त्वा च युद्धकाल इहागतः” ।
“इरावन्तं तु निहतं दृष्ट्वा पार्था महारथाः” भा० भी०
९२ अ० । “पुत्रं विनिहतं श्रुत्वा इरावन्तं धनञ्जयः ।” ९५
अ० । ३ नदीभेदे स्त्री ङीप् । भा० स० प० ९ अ० वरुण-
सभावर्णने । “इरावती वितस्ता च सिन्धुर्देवनदी तथा”
“इरावत्यां हतो भोजः कार्त्तवीर्य्यसमो युधि” भा० व० १२ अ०
“शतद्रुकामहं तीर्त्वा तथा रम्यामिरावतीम्” । भा० क० ४४
अ० । “इरावत्यां महाभोजावग्निसूर्य्यसमौ युधि” हरिवं०
१६१ । “इरावती धेनुमती हि भूतं” ऋ० ७, ९९, ३ । ४ अन्ना-
दियुक्ते त्रि० “यासिष्टं वर्त्तिरश्विनाविरावत्” ऋ० ७, ४०
५ । “इरावत् हविरन्नादियुक्तम्” भा० । “सुनृतावन्तः
सुभगा इरावन्तोहतप्रमाः” अथ० ७, ६०, ६ ।

इरावती स्त्री इरां भूमिम् अवति अव--बा० अतृ ङीप् ।

वटपत्रीवृक्षे, सा हि पाषाणभेदनेनापि भूमिमाच्छादनात्
पालयतीति तस्यास्तथात्वम् ।

इरिकावन न० इरैव कन् अत इत्त्वम् इरिकाप्रधानं वनम् ।

जुभ्ना० “इरिकादीनि वनोत्तरपदानि संज्ञायाम्” पा०
ग० सू० पाठात् न णत्वम् । जलप्रधाने वनभेदे ।
इरिकादीनि च “इरिका तिमिर समीर कुवेर हरि कर्म्मार” ।

इरिण न० ऋ--इन किच्च । १ ऊषरभूमौ, २ निरालम्बे, ३ शून्ये

च । “यथा गौरो अपाकृतं तृष्यन्नेत्यवेरिणम्” ऋ० ८, ४,
३ । “यथेरिणे वीजमुप्त्वा न वप्ता लभते फलम्” मनुः ।

इरिन् त्रि० इर--कण्ड्वा० णिनि यलोपः । १ प्रेरके । “न

येषामिरी सघस्थ ईष्ट आ” ऋ० ५, ८७, ३ । २ ईर्ष्यके च ।

इरिमेद पु० इरी रोगादीर्ष्पकः मेदोनिर्य्यासो यस्य । विट्-

खद्रिरे । “इरिमेदः कषायोष्णो मुखदन्तगदास्रजित् ।
हन्ति कण्डूविषश्लेष्मकृमिकुष्ठविषग्रहान्” भावप्र० ।

इरिविल्लिका स्त्री इरिविल्लैव कन् । “पिड़कामुत्तमाङ्गंस्था

वृत्तामुग्ररुजाज्वराम् । सर्व्वात्मिकां सर्व्वलिङ्गां जानीया-
दिरिविल्लिकामिति” निदानोक्ते मस्तकस्थे व्रणभेदे ।
कनभावे इरिविल्लाप्यत्र । “इरिविल्लां गन्धनाम्नीं कक्षां
विस्फोटकास्तथा । पित्तजस्य विसर्पस्य क्रियया साधये-
द्भिषक्” सुश्रु० ।

इरेश पु० ६ त० । १ वरुणे, २ वागीशे, ३ भूमिपतौ, ४ विष्णौ च

इर्गल न० स्त्री अर्गल + पृ० । द्वाररोधके काष्ठभेदे तस्मै

हितम् अपूपादि० यत् । इर्गल्यः छ इर्गलीयः ।
तत्साधने वृक्षे ।

इर्य्य त्रि० इर--कण्ड्वा० अच् वेदे नि० न यलोपदीर्घौ ।

प्रेरके । “यूयं राजानमिर्य्यं जनाय विभ्वतिष्ठम्”
ऋ० ५, ५८, ४ ।

इर्वारु स्त्री उर्व्व--आरु पृषो० । (काकुड़) १ कर्कट्याम् ।

२ हिंसके त्रि० । “सिंहव्याघ्रवृकतरक्ष्वृक्षद्वीपिमार्ज्जारशृ-
गालमृगेर्व्वारुकप्रभृतयो गुहाशयाः” सुश्रुतः ।
मृगेवारुकः मृगहिसकः । आलु । इर्व्वालुरप्युक्तार्थे ।

इवारु(लु)शुक्तिका स्त्री इर्वारुः (लुः) शुक्तिकेव स्वयंस्फोट-

नात् । (फुटी) (स्वयंभिन्नविपक्वकर्कट्याम्) ।

इल शयने अक० गतौ क्षेपे च सक० तुदा० पर० सेट् । इलअति ।

ऐलीतियेलं ईलतुः इलितः इलः ।

इल क्षेपणे चुरा० उभ० सक० सेट् । एलयति ते ऐलिलत् त ।

ऐलयीत् ऐलिष्ट “कथं बातमेलयति कथं न रमते मनः”
अथ० १०, ७, ३१ । “आसां देवतानां यांयां कामयते
सा भूत्वेलयति” शत० ब्रा० १०, ३, ८, ८ ।

इलविला स्त्री प्रलस्त्यमुमिपत्न्याम् कुवेरजनन्याम् । एतत्-

सम्बन्धेनैव कुवेरस्य ऐलविल इति नाम ।

इला स्त्री इल--क । १ भूमौ, २ गवि, ३ वाचि, ४ जम्बुद्वीपस्य-

नववर्षमध्ये वर्षभेदे तत्सीमा चेलावृतशब्दार्थे वक्ष्यते ।
५ वैवस्वतमनुकन्यायां बुधपत्न्याम् । सा हि विष्णुवरात्
पुंस्त्वमासाद्य पुनः शङ्करशापात् स्त्रीत्वं गता बुधस्तु तामु-
पगर्म्य पुरूरवसमुत्पादयामासेति पुराणे प्रसिद्धम् । तच्च
इडाशब्दे उक्तप्रायम् ६ स्वप्नशीले त्रि० ।

इ(ए)ला कण्ड्वा० यक् प० अक० सेट् । इ(ए)लायति ।

इलावृत न० इला पृथिवीवावृतं निषधादिभिः ।

नववर्षात्मकजम्बुद्वीपस्य वर्षभेदे तच्च वर्षम् “पश्चान्माल्यवतः,
प्राच्यां गन्घमादनशैलतः । इलावृतं नीलगिरेर्याम्यतो,
निषधादुदक्” इत्युक्त चतुःसीमावच्छिन्ने देशेऽस्ति । “माल्यवांश्च
पृष्ठ ०९८४
यमकोटिपत्तनाद्रोमकाच्च किल गन्धमादनः । नीलशैलनि-
षधावधी च तावन्तरालमनयोरिलावृतम् । निषधनीलसुग-
न्धसुमाल्यकैरलमिलावृतमावृतमाबभौ । अमरकेलिकुलाय-
समाकुलं रुचिरकाञ्चनचित्रमहीतलम्” सि० शि० । “एतेन
भारतभिलावृतवद् विभाति” माघः । इलावृतस्थपर्व्वता-
दिवर्ण्णनम् । भाग० ५ स्क० ६ अ० ।
“एषां मध्ये इलावृतं नामाभ्यन्तरवर्षं यस्य नाभ्यामवस्थितः
सर्वतः सौवर्णः कुलगिरिराजोमेरुर्द्वीपायामसमुन्नाहः कर्णि-
काभूतः कुवलयकमलस्य मुर्द्धनि द्वात्रिंशत्सहस्रयोजन-
विततो मूले षोड़शसाहस्रं तावतान्तर्भूम्यां प्रविष्टः ।
उत्तरोत्तरेणेलावृतं नीलः श्वेतः शृङ्गवानिति त्रयोरम्यक-
हिरण्मयकुरूणां वर्षाणां मर्य्यादागिरयः प्रागायता
उभयतः क्षारोदावधयोद्विसाहस्रपृथव एकैकशः पूर्वस्मात्
पूर्वस्मादुत्तरोत्तरेण दशांशाधिकांशेन दैर्घ्यएव ह्रसन्ति ।
एवं दक्षिणेनेलावृतं निषधोहेमकूटो हिमालय इति प्रागा-
यता यथा नीलादयः । अयुतयोजनोत्सेधा हरिवर्षकिं-
पुरुषभारतानां यथासंख्यम् । तथैवेलावृतमपरेण
पूर्वेण च माल्यवद्गन्धमादनावानीलनिषधायतौ द्विसहस्रं
पप्रथतुः । केतुमालभद्राश्वयोः सीमानं विदधाते । मन्द-
रोमेरुमन्दरः सुपार्श्वः कुमुद इत्ययुतयोजनविस्तारोन्नाहा
मेरोश्चतुर्दिशमवष्टम्भगिरय उपकॢप्ताः । चतुर्ष्वेतेषु चूत
जम्बूकदम्बन्यग्रोघाश्चत्वारः पादपप्रवराः पर्वतकेतव इवद्वि-
सहस्रयोजनोन्नाहास्तावद्विटपविततयः शतयोजनपरिणा-
हाः । ह्रदाश्चत्वारः पयोमध्विक्षुरसमृष्टजलाः । यदुप-
स्पर्शिन उपदेवगणा योगैश्चर्य्याणि स्वाभाविकानि भरतर-
र्षभ! धारयन्ति । देवोद्यानानि च भवन्ति चत्वारि नन्दनं
चैत्ररथं वैम्राजकं सर्वतोभद्रमिति । येष्वमरपरिवृढाः
सहसुरललनाललामयूथपतय उपदेवगणैरुपगीयमानम-
हिमानः किल विहरन्ति । मन्दरोत्सङ्ग एकादशशत-
योजनोत्तुङ्गदेवचूतशिरसो गिरिशिखरस्थूलानि
फलान्यमृतकल्पानि पतन्ति । तेषां विशीर्य्यमाणानामतिमधुर
सुरमिगन्धबहलारुणरसोदेनारुणोदा नाम नदीं मन्दर-
गिरिशिखरान्निपतन्ती पूर्वेणेलावृतमुपप्लावयति ।
यदुपजोषणाद्भवान्या अनुचरीणां पुण्यजनवधूनामवयवस्पर्श
सुगन्धवातो दशयोजनं समन्तादनुवासयति । एवं जम्बू-
फलानामत्युच्चनिपातविशीर्णानामनस्थिप्रायाणामिभकाय-
निभानां रसेन जम्बूनदी नाम मेरुमन्दरशिखरादयुत-
योजनादवनितले निपन्ती दक्षिणेनात्मानं यावदिलावृत
मुपस्यन्दति । तावदुभयोरपि रोधसोर्मृत्तिका तद्रसे-
नानुविध्यमाना च वाय्वर्वसंयोगविपाकेन सदामरलोका
भरणं जाम्बूनदं नाम सुवर्णं मवति । यदुह वाव विवुधा-
दयः सहयुवतिभिर्मुकुटककटिसूत्रकुण्डलाद्याभरणरूपेण
खलु धारयन्ति । यस्तु महाकदम्बः सुपार्श्वपार्श्वनिरूढ-
स्तस्य कोटरेभ्यो विनिःसृताः पञ्चायामपरिणाहाः
सुमधुराः सुपार्श्वशिखरात् पतन्त्योऽपरेणात्मानमिला-
वृतमनुमोदयन्ति । याह्युपयुञ्जानानां मुखनिर्वासितो
वायुः समन्ताच्छतयोजनमनु वासयति । एवं कुमुदनि-
रूढो यः शतवल्लोनाम वटस्तस्थ स्कन्धेभ्योनीचीनाः
पयोदधिमधुघृतगुड़ान्नादाम्बरशय्यासनाभरणादयः सर्व एव
कामदुघानदाः कुमुदाग्रात् पतन्तमुत्तरेणेलावृतमुप-
योजयन्ति । यानुपजुषाणानां न कदाचिदपि प्रजानां
वलीपलितक्लमस्वेददौर्गन्ध्यजरामयापमृत्युशीतोष्णवैवर्ण्यो-
पसर्गादयस्तापविशेषा भवन्ति । यावज्जीवं सुखं
निरतिशयमेव कुरङ्गकुररकुसुम्भवैकङ्कत्रिकूटशिखरपतङ्गरुच-
कनिषधसितिकासकपिलशङ्खवैदूर्य्यजारुधिहंसर्षभनागका-
ञ्जरनीरदादयोगिरयो मेरोः कर्णिकाया इव केशर-
भूतामूलदेशे परित उपकॢप्ताः । जठरदेवकूटौ मेरुं पूर्वे-
णाष्टादशयोजनसहस्रमुदगायतौ द्विसहस्रःपृथुतुङ्गौ भवतः ।
एवमपरेण पवनपारिपात्रौ दक्षिणेन कैलासकरवीरौ
प्रागायतौ । एवमुत्तरतः त्रिशृङ्गमकरौ । अष्टाभिरेभिः
परिष्कृतोऽग्निरिव परितश्चकास्ति काञ्चनगिरिः । मेरोर्मू-
र्द्ध्वनि भगवत आत्मयोनेर्मध्यत उपकॢप्तां पुरीमयुतयोजन-
साहस्रीं समचतुरस्रां शातकौम्भीं वदन्ति । तामनु परितो
लोकपालानामष्टानां यथादिशं यथारूपं तुरीयमानेन
पुरोऽष्टावुपकॢप्ताः” । भा० भी० ६ अ० जम्बूखण्डविभागे तु ।
“धनुःसंस्थे महाराज! द्वे वर्षे दक्षिणोत्तरे । इलावृतं
मध्यमन्तु पञ्च वर्षाणि चैव ह । उत्तरोत्तरमेतेभ्यो वर्ष-
मुद्रिच्यते गुणैः । आयुःप्रमाणं चारोग्यं धर्म्मतः कामतो-
ऽर्थतः । समन्वितानि भूतानि तेषु वर्षेषु भारत! ।
एवमेषा महाराज! पर्व्वतैः पृथिवी चिता । हेमकूटस्तु
सुमहान् कैलासो नाम पर्वतः । यत्र वैश्रवणो राजन्! गुह्यकैः
सह मोदते । अस्त्युत्तरेण कैलासात् मैनाकं पर्वतम्प्रति ।
हिरण्यशृङ्गः सुमहान् दिव्यो मणिमयो गिरिः । तस्य
पार्श्वे महद्दिव्यं शुभं काञ्चनवालुकम् । रम्यं विन्दुसरो
नाम यत्र राजा भगीरथः । दृष्ट्वा भागीरथीं गङ्गामुवास
बहुलाः समाः । यूपा मणिमयास्तत्र चैत्याश्चापि हिर-
पृष्ठ ०९८५
ण्मयाः । तथेष्ट्वा तु गतः सिद्धिं सहस्राक्षो महायशाः ।
स्रष्टा भूतपतिर्यत्र सर्वलोकैः सनातनः । उपास्यते तिग्मतेजा
यत्र भूतैः समन्ततः । नरनारायणौ ब्रह्मा मनुः स्थाणुश्च
पञ्चमः । तत्र दिव्या त्रिपथगा प्रथमन्तु प्रतिष्ठिता ।
ब्रह्मलोकादपक्रान्ता सप्तधा प्रतिपद्यते । वस्वोकसारा
नलिनी पावनी च सरस्वती । जम्बूनदी च सीता च गङ्गा
सिन्धूश्च सप्तमी । अचिन्त्या दिव्यसङ्काशाः प्रभोरेवैष
संविधिः । उपासते यत्र सत्रं सहस्रयुगपर्य्यये । दृश्यादृश्या
च भवति तत्र तत्र सरस्वती । एता दिव्याः सप्त गङ्गा
स्त्रिषु लोकेषु विश्रुताः” ।

इलिनी स्त्री चन्द्रवंश्यमेधातिथिनृपकन्यायाम् । “मेधातिथिः

सुतस्तस्य यस्मात् कण्वोऽभवद् द्विजः । इलिनी नाम
यस्यासीत् कन्या वै जनमेजय!” हरिवं० २२ अ० ।

इली स्त्री इल--गतौ क गौरा० ङीष् । करबाले (काटार) ।

इलीविश पु० असुरभेदे “न्यविध्यदिलीविशस्य दृढाविशृङ्गिण

मभिनच्छुष्णमिन्द्रः” ऋ० १, ३३, १२,

इलीश पु० इलीव करबालिकेव शोभते शुभ--ड । करबालिका

सदृशावयवे स्वमानख्याते मत्स्यभेदे ।

इल्लिश पु० इलीश + पृ० । इलीशमत्स्ये (इलिश) ।

इल्वल पु० इल + स्वप्ने वलच्--नि० गुणाभावः । १ मत्स्यभेदे

२ असुरभेदे च मेदि० स च सिंहिकापुत्रभेदः “सिंहिकाया
यथोत्पन्ना विप्रचित्तेः सुतास्तथा । दैत्यदानवसंयोगा-
ज्जातास्तीव्रपराक्रमाः । सैहिकेया इति ख्यातास्त्रयो-
दश महावलाः । व्यंशः शल्यश्च बलिनौ नभश्चैव महाबलः ।
वातापिर्नमुचिश्चैव इल्वलः सुसृमस्तथा । आञ्जिकोनरक-
श्चैव (कालनेमि) कालनाभस्तथैव च । राहुर्ज्येष्ठस्तु तेषां
वै सूर्य्यचन्द्रप्रमर्द्दनः” हरि० ३ अ० । तच्चरितं यथा
“इल्वलो नाम दैतेय आसीत् कौरवनन्दन! ।
मणिमत्यां पुरि पुरा वातापिस्तस्य चानुजः । स ब्राह्मणं
तपोयुक्तमुवाच दितिनन्दनः । पुत्रं मे भगवानेकमिन्द्रतुल्यं
प्रयच्छतु । तस्नै स ब्राह्मणो नादात् पुत्रं वामवसन्नि-
भम् । चुक्रोध सोऽसुरस्तस्य ब्राह्मणस्य ततो भृशम् ।
तदाप्रभृति राजेन्द्र! इल्वलो ब्रह्महाऽसुरः । मन्युमान्
भ्रातरं छागं मायावी ह्यकरोत्ततः । मेषरूपी च
वातापिः कामरूपोऽभवत् क्षणात् । संस्कृत्य च भोजयति
ततो विप्रं जिघांसति । स चाह्वयति यं वाचा गतं
वैवस्वतक्षयम् । स पुनर्देहमास्थाय जीवन् स्म प्रत्यदृश्यत ।
ततो वातापिमसुरं छागं कृत्वा सुसंस्कृतम् । तं ब्राह्मणं
भोजयित्वा पुनरेव समाह्वयत् । तामिल्वलेन महता
खरेण वाचमीरिताम् । श्रुत्वाऽतिमायो बलवान् क्षिप्रं
ब्राह्मणकण्टकः । तस्य पार्श्वं विनिर्भिद्य ब्राह्मणस्य
महासुरः । वातापिः प्रहसन्राजन्निश्चक्राम विनाशयन् । एवं
स ब्राह्मणान्राजन्! भोजयित्वा पुनः पुनः । हिसयामास
दैतेय इल्वलो दुष्टचेतनः” भा० व० ९६ अ० ।
३ मृगशिरोनक्षत्रशिरःस्थासु पञ्चसु तारासु स्त्रीब० व० ।
तत्र इन्वका इति पाठान्तरम । इन्वन्ति प्रीणयन्ति
इविप्रीणने क्वुन् इदित्त्वात् नुम् क्षिपकादि० न अत इत्त्वम्
इति भानुदीक्षितः । तेन इल्वका इति लकारमध्यपाठ-
कल्पनं प्रामादिकमेव ।

इव व्याप्तौ प्रीणने च इदित् भ्वा० पर० सक० सेट् । इन्वति ऐन्वीत् । इन्वकाः ।

इव अव्य० इन्व--निरु० क । १ सादृश्ये, २ उत्प्रेक्ष याम्, ३ ईषदर्थे,

वाक्यालङ्कारद्योतकता चास्य तत्र उपमायाम् “इवेन नित्य-
समासोविभक्त्यलोपश्चेति” वार्त्ति० उक्तेर्नित्यसमासः
विभक्तेर्लोपाभावश्च स च समासस्वरार्थ एव । “वागर्थाविव
संपृक्तौ वागर्थप्रतिपत्तये” रघुः । “हंसीव कृष्ण! ते कार्त्तिः
स्वर्गङ्गामवगाहते” चन्द्रालोकः । एतत्प्रयोगे श्रौती उपमा
“श्रौती यथेववाशब्दा इवार्ये वा वतिर्यदि” सा० द० उक्तेः ।
उत्प्रेक्षायाम् । “गुणा गुणानुबन्धित्वात् तस्य सप्रसवा इव”
रघुः । “गङ्गाम्भसि सुरत्राण! कृपाणस्तव निःस्वनः ।
स्नातीवारिवधूवर्गगर्भपातनपातकी” “मुखमेणीदृशोभाति
पूर्णचन्द्रैवापरः” सा० द० इवादिशब्दप्रयोगे उत्प्रेक्षाया
वाच्यत्वम् । “वाच्येवादिप्रयोगे स्यादप्रयोगे परा पुनः”
सा० द० उक्तेः । वाक्यालङ्कारे “सर्वदा क इव वा
सहिष्यते” किरा० “किमिव हि मधुराणां मण्डनं नाकृतीनाम्”
शकु० “सृजति सा कियतीमिव न व्यथाम्” नैष० ईषदर्थे
“तदस्तिपर्युषितमिव” शत० ब्रा० “आवर्जिता किञ्चिदिव
स्तनाभ्याम्” कुमा० ४ अवधारणार्थे च । “श्रिये पूषुन्निषु-
कृते वदेवाः” ऋ० १, १८४, ३ । “इष्कृतेव इवशब्द एवार्थे”
भा० । “श्लक्ष्णेव तु वा ईश्वरा” शत० ब्रा० । इवशब्दो-
ऽवधारणार्थे” भा० ।

इशीका स्त्री इषीका पृ० । इषीकाशब्दार्थे अमरटीका ।

इष गतौ सर्पणे च दिवा० पर० सक० सेट् । १ इष्यति, ऐष्यत् ।

ऐषीत् इषितः एषित्वा । “इष्यन् वाचमुपवक्तेव होतः”
ऋ० ९, ६४, ९ । “योऽभिवात इषितः प्रवाति” अथ०
१०, ८, ३५ । “स तत्कृषीषितस्तूयमग्ने” अथ० ६, ३५,
५ । “हिन्वानो वाचमिष्यसि” ऋ० ९, ६४, ९ । इच्छा-
पृष्ठ ०९८६
यामपि “अप इष्य होतरित्थप इच्छ होतरित्यैवेतदाह”
शत० ब्रा० ३, ९, ३, १५ । गतौ तुदादिरपि इषति निरु० ।
  • अनु + अन्वेषणे गवेषणे “अन्विष्यन्तस्ततःसीताम्” रामा०
“यावदेनामन्वेष्यामि” शकु० । “न रत्नमन्विष्यति मृग्यते
हि तत्” कुमा० । “तस्यान्विष्यन् वेतसगूढं प्रभवं सः”
रघुः । स्वार्थे णिच् । तत्रैव “राममन्वेषयामि” सा० द० ।
  • प्र + प्रेरणे । “अप्रैषीद्राजपुत्री मां सुराहारीं तवान्तिकम्”
भा० व० १६ अ० । “गत्वा प्रैषीच्चरावणम्” भट्टिः
“अध्वर्युप्रेषितोमैत्रावरुणः प्रेष्यति” आश्व० गृ० । “शौनः
शेफं च प्रेष्यति” कात्या० १३, ६, १ “अग्नीषोमाभ्यां छागस्य
वपायै मेदसे प्रेष्य” शत० ब्रा० ३, ८, २, २७ । घञ्
प्रैष्यः । ण्यत् प्रैषः । स्वार्थेणिच् । प्रेषयति प्रेषयामास ।
“स च मां प्रेषयामास” रामा० ।
  • परि + सत्कारपूर्व्वकनियोजने पर्य्येष्यति स्वार्थे णिच् पर्य्येषितः पर्य्येषणा ।

इष वाञ्छायाम् तुदा० पर० सक० सेट् वेट् क्त्वः । १ इच्छति,

“इच्छामि संबर्द्धितमाज्ञयाते” कुमा० । इच्छेत् “यदीच्छे-
द्विपुलान् भोगान्” मल० त० पु० । “राजान्तेवासि-
याज्येभ्यः सीदन्नोच्छेद्धनं क्षुधा” या० स्मृ० । ऐच्छत्
ऐषीत् “ऐषीः पुनर्जन्मजयाय यत्त्वम्” भट्टिः इयेष “इयेष
सा कर्त्तुमबन्ध्यमात्मनः” कुमा० ईषतुः । इच्छन् “किमच्छन्
कस्य कामाय किमर्थमनुसंज्वरेत्” श्रुतिः ।
  • एषिता--ऐष्टा एषित्वा--इष्ट्वा । भावे श इच्छा “आत्मजन्या
भवेदिच्छा” न्यायका० । इष्टः “इष्टोऽसि मे सखा चेति” गीता ।
कर्मणि इष्यते “त्रिरात्राच्छुद्धिष्यते” स्मृतिः । एष्टव्यः
एषितव्यः । “एष्टव्या बहवः पुत्रायद्येकोऽपि गयां व्रजेत्” पु० ।
  • अनु + अन्वेषणे । “तं खलन्त इवान्वीषुः” शत० ब्रा० । “हन्त
तमात्मानमन्विच्छामो यमन्वेष्टा” छा० उ० । “अनु-
पदसन्वेष्टा” पा० “वयं तत्त्वान्वेषात् मधुकर! हतस्त्वं
खलु कृती” शकु०
  • प्रति + प्रतिग्रहे प्रतीच्छति (प्रतिगृह्णाति) । “ततः
प्रतीच्छ प्रहरेति वादिनी” नैष० “स्नुषां प्रतीच्छ
मे कन्याम्” प्राप्तौ च “बुद्धौ शरणमन्विच्छ” गीता ।
स्वार्थे णिच् वेदे० नि० गुणाभावः । इषयति “इच्छंस्तदा-
स्तरायेष मदन्त इपयेम ज्योतिः” ऋ० १, १८५, ९ । “इषयेम
इच्छाम” भा० ।
  • परि + अन्वेषणे च परीच्छति (अन्विष्यति) “भगवन्तं वा
अहमेभिरार्त्विज्यैः पर्य्यैषिषम्” छा० उ० ।
  • अभि + मस्मगिच्छायाम् अभोष्टम् ।

इष ओभोक्ष्ण्ये क्र्यादि० पौनःपुन्ये पर० अक० सेट्

इष्णाति इष्णातु इषाण । “इष्णन्निषाणामुं महेषाण
सर्व्वलोकं मैषाण” यजु० ३१, २२, अ० । ऐष्णात्
ऐषीत् । एषितः एषित्वा । प्रेरणे च । “भिनद्गिरिं
शबसा वज्रमिष्णन्” ऋ० ४, १७, ३ । इष्णन् प्रेरयन्”
भा० । इच्छार्थेऽपि “पूर्वीरिषश्चरति मध्व इष्णन्” ऋ०
१, १८१, ६ । “मध्वः मधुनः इष्णन् इच्छन” भा० ।
आभीक्ष्ण्यञ्च क्रियापौनःपुन्यम् । क्रिया च धात्वर्थविशेषः स
च वाञ्छागत्यादिरेव तस्यैवाभीक्ष्ण्यद्योतनेऽस्य साधुत्वम्

इष गतौ भ्वा० उभ० सक० सेट् । एषति ते । ऐषीत् ऐषिषट

अनु--अनुसरणे । अन्वेषति । “अन्वेषन्तोवनं राजन्”
“देशमन्यं दुराचारमन्वैषन् वानरास्तथा” रामा० ।

इष् त्रि० इष--इच्छायां क्विप् । इच्छायुक्ते । इट्चरः ।

“विदादूर्जं शतक्रतुं विदादिषम्” ऋ२, १२, ४ । कर्मणि
क्विप् । २ इष्यमाणे त्रि० ३ अन्ने स्त्री “मधुमतीर्न इषस्कृधि”
यजु० ७, २, “आश्विनायज्वरीरिषः १, ३, १ । “इषे
त्वोर्ज्जो त्वा” यजु० १, १, । इष्यतेइष--अन्तर्भूतण्यर्थे
कर्म्मणि क्विप् । ४ एषणीये । “इषस्तुतो महामहे”
ऋ० ५, ५०, ५, “इषः एषणीयस्य” भा० । इष--गतौ
भावे क्विप् । ५ यात्रायाम् स्त्री

इष पु० इष--गतौ क्विप्--इट् यात्रा सास्मिन् मासे जिगीषूणा-

मस्ति अर्श आ० अच् । सौरे चान्द्रे च आश्विने १ मासि ।
“श्रावण्ये भाद्रमासे युवतिगृहगते चार्थलाभः प्रदिष्टः”
राजमा० उक्तेः “सौराश्विनस्य यात्राया अर्थलाभदत्वात्तथा-
त्वम्” । अत एव रघौ “सरितः कुर्वती गाधाः पथश्चाश्या-
नकर्दमान् । यात्रायै नोदयामास तं शक्तेः प्रथमं शरत्” ।
शरत्कालस्य राज्ञां यात्रार्थत्वमुक्तम् । शरदुतुश्च “इषश्चोर्जश्च
शरदिति” श्रुत्युक्त आश्विनकार्त्तिकमासरूपःकालः तस्य
च सौरत्वमृतुशब्दे वक्ष्यते “आमेखलं सञ्चरतां घनानां
छायामिषे सानुगतां निषेव्य” कुमा० पाठान्तरम् । “ध्वनि-
मिषेऽनिषेक्षणमग्रतः” माघः । तत्र चान्द्रे “इषे मास्यसिते
गक्षे नवम्यामार्दयोगतः” तिथि० देवीपु० अत्र चान्द्रोगौणः
“यच्छरद्यूर्जश्च औषधः पच्यन्ते तेनोहैताविषश्चोर्जश्च”
शत० ब्रा० ऋ० ४, ३, १, १७, “अन्तर्भूतण्यर्थे भावे घञर्थे
क” । २ प्रेषणे “इषवान् मम रेजति” ऋ० १, २९, ६,
“इषवान् प्रेषणवान्” भा० । इष--इच्छायां कर्मणि
धञर्थे क ३ अन्ने न० निरु० ।
पृष्ठ ०९८७

इषणि स्त्री इष--भावे अनि वेदे० नि० गुणाभावः । प्रेषणे

“दुहाना धेनुर्वृजनेषु कारवेत्मना शतिनं पुरुरूपमिषणि”
ऋ० २, २, ९, इषणि एषणायाम् भा० । सप्तम्या लुक् ।
लोके तु एषणिः वा ङीप् । इषणिमिच्छति क्यच् । वेदे०
नि० इलोपः इषण्यति “ऋतस्य बुध्न उषसामिषण्यन्” ।
ऋ० ३, ६१, ७, ततः भावे अ । “इषण्या प्रेषणायाम्
“इषण्यया नः पुरुरूपमाभेर” ऋ० ८, ४९, १८ ।

इषव्य त्रि० इषुणा विध्यति इषौ कुशलो वा यत् । शरलक्ष्ये,

१ शरव्ये २ शरत्यागकुशले च “आराष्ट्रे राजन्यः शूर
इषव्योऽतिव्याधी” यजु० ऋ० २२, २२ “इषुभिर्विध्यति इषव्यः
यद्वा इषौ कुशलः” वेददी०

इषि त्रि० इष--कि । इच्छावति “विचिदश्नाना इषयोव्यधातयः” ऋ० ९, ७९, १,

इषिका स्त्री इष--गत्यादौ क्वुन् अत इत्त्वम् । इषीकाशब्दार्थे

तूलशब्दपरे ह्रस्वः इषिकतूलम्” तदीयतूले ।

इषीका स्त्री ईष--गत्यादिषु ईकन् कित् ह्रस्वश्च । १

गजनेत्रगोलके । २ काशे, ३ मुञ्जामध्यवर्त्तितृणे च तदालम्ब्यैव
अश्वत्थाम्ना पाण्डवबधाय महास्त्रं प्ररित्यक्तम् यथा
भा० प० १४ अ० “व्यथितात्माऽभवत् द्रोणिः प्राप्त-
क्षेममन्यत । तत्र दिव्यमदीनात्मा परमास्त्रमचिन्तयत् ।
जग्राह च स चेषीकां द्रौणिः सव्येन पाणिना । स
तामापदमासाद्य दिव्यमस्त्रमुदैरयत्” इत्युपक्रम्य
“ततस्तस्यामिषीकायां पावकः समजायत । प्रधक्ष्यन्निव
लोकांस्त्रीन् कालान्तकयमोपमः” इमामिषीकामधिकृत्य
कृतोग्रन्थः अण् ऐषीकं भारतान्तगेतपर्वभेदे “मुञ्जा
वेषीका तूलमिति” शत० ब्रा० “यदि नडानां यदि वेणूनां
यदि वेषीकाणाम्” शत० ब्रा० १, १, ४, १९, ४ शरशला-
कायां ५ वीरणकाष्ठिकायाञ्च उज्ज्व० “तस्मिन्नास्थदिषी-
कास्त्रं रामोरामावबोधितः” रघुः ।

इषिर त्रि० इष--गतौ किरच् । १ गतिशीले । “श न इषिरो

अभिया रातः” ऋ० ७, ३५, ४, “इषिरः गतिशीलः” भा०
२ चलनशीले च “निसामनामिषिरामिन्द्र! भूमिम्” ऋ० ३,
३०, ९ । “इषिरां चलन्तीम्” भा० ४ अग्नौ पु० उज्ज्व०

इषु पुंस्त्री ईष्यते हिंस्यतेऽनेन ईष--उ ह्रस्वश्च । १ वाणे

“पतिसंहरन्निषुम्” रघुः । “इषुमतिरघुसिंहे दंदशूकान्
जिषांमौ” भट्टिः । “इषुभिः प्रतियोत्स्यामि” गीता
स्त्रीत्व “तस्य साध्वीरिषवो याभिरस्यति” ऋ० २, २१, ४, ८ ।
“यामिषुं गिरिशन्त! बिभर्ष्यस्तवे” यजु० १६, ३ ।
तत्त ल्यसंख्ये २ पञ्चसंख्यान्विते च । पञ्चशरशब्दे वक्ष्यमा-
णस्य कामशरस्य पञ्चसंख्याकत्वस्यानुसारेण शरशब्देन हि
पञ्चसंख्या बोध्यते । “पञ्चपञ्चाष्टसप्तेषु ज्ञेयमोजः
सु राशिषु” ज्योति० । ३ वृत्तक्षेत्रान्तर्गते जीवावधिप-
रिधिपर्य्यन्तकृतसरलरेखायाञ्च तदानयनप्रकारः सोदा-
हरणः लीला० दर्शितो यथा
“ज्याव्यासयोगान्तरघातमूलं व्यासस्तदूनोदलितः शरः स्यात् ।
व्यासाच्छरोनाच्छरसङ्गुणाच्च मूलं द्विनिघ्नं भवतीह जीवा ।
जीवार्द्धमक्ते शरभक्तयुक्ते व्यासप्रमाणं प्रवदन्ति वृत्ते” उदा०
दशविस्तृतिवृत्तान्तर्यत्र ज्या षण्मिता भवेत् । तत्रेषुं
वद वाणाज्ज्यां ज्यावाणाभ्याञ्च विस्तृतिम्” न्यासः ।
व्यासः १०, ज्या ६, अनयोर्योगः १६, अन्तरं ४
तयोर्घातो ६४, तस्य मूलं ८, तेनोनोव्यासः २, दलितः शरः १ ।
तेन १० हस्तव्यासके वृत्तक्षेत्रे यदि जीवमितिः ६ तदा शर
मानम् १ एकहस्त इति ज्ञेयम् । ज्ञातशरव्यासके वृत्त-
क्षेत्रे जीवानयनं यथा व्यासः १० हस्तः, शरः १ हस्तः
तेनोनितः व्यासः ९, तस्य मूलम् ३ । द्वाभ्यां गुणितम्
६, जीवामानम् । ज्ञाताभ्यां ज्यावाणाभ्यां व्यासानय-
नम् । यथा जीवा ६ तस्यार्द्धं ३, तस्य वर्गः ९ ।
शरसंख्यया १ भक्ते ९ । शरसंख्यया १ योगे व्यासमानम्
१० । एवमन्यसंख्यकजीवादौ अनया दिशा शराद्या-
नयनम् । ग्रहाणां क्रान्तिवृत्त क्षेत्रस्य शरानयनं संक्षेपेण
दर्शितम् सि० शि०
“सत्रिराशिग्रहद्युज्यानिघ्नस्त्रिज्योद्धृतः शरः । स्फुटोऽसौ
क्रान्तिसंस्कारे दृक्कर्मण्यक्षजे तथा” मू० । “अयं संक्षिप्तो
गौणप्रकारः । मुख्यस्तु पूर्वं व्याख्यात एव । तथापीह
युक्तिमात्रमुच्यते । विषुवद्वृत्तात् क्रान्तिर्ध्रुवाभिमुखी ।
क्रान्त्यग्राच्छरः कदम्बाभिमुखः । कथं तेन तिर्य्यक्स्थेन सा
संस्कार्या । अतः क्रान्त्यग्रे यद्द्युज्यावृत्त तस्य शराग्रस्य
च यदन्तरमृजु तेन संस्कृता सती स्फुटा भवति । तज्ज्या-
न्तरं कोटिरूपम् । शरः कर्णरूपः । तद्वर्गान्तरपदं द्युज्या
वृत्ते भुजः । एतत् त्र्यस्रं दिग्वलनजत्र्यस्रसंभवम् । तत्र
सत्रिराशिग्रहक्रान्तिः कदम्बध्रुवसूत्रयोरन्तरम् । तज्ज्या
भुजः । तद्द्युज्या कोटिस्त्रिज्या कर्णः । यदि त्रिज्य-
येयं कोटिस्तदा शरेण केत्युपपन्नम् । कोटिरूपस्यैव शरस्य
ध्रुवोन्प्रुखस्याक्षज्ययाऽक्षजं दृक्कर्म्म कर्त्तुं युज्यते” प्रमि०
विस्तरस्तत्रैव “विक्षेपलिप्ताः क्षितिजादिकानां खेशा ११०
द्विवाणेन्दुमिता १५२ रसाश्वाः ७६ । षट्त्रीन्दवः
१३६, खाग्निभुवः १३० सितज्ञपातौ स्फुटौ स्तश्चल-
केन्द्रयुक्तौ” मू० “क्षितिजस्य खरुद्रमिता ११० मध्यमा
पृष्ठ ०९८८
विक्षेपलिप्ताः । बुधस्य द्विवाणेन्दुमिताः १५२ । गुरोः
षट्सप्ततिः ७६ । शुक्रस्य षड्विश्व १३६ तुल्याः ।
शनेः खत्रीन्दु १३० मिता वेदितव्याः । तथा
बुधशुक्रयोर्यौ गणितागतौ पातौ तौ स्वस्वशीघ्रकेन्द्रेण
युक्तौ कार्यौ । एवं स्फुटौ स्तः । अत्रोपपत्तिः । मध्य-
मगतिवासनायां वेधप्रकारेण वेधवलये ग्रहविक्षेपोपप-
त्तिर्दर्शितैव । किंत्वन्त्यफलज्यार्धधनुषा सत्रिगृहेण तुल्यं
यदा शीघ्रकेन्द्रं भवति तदा त्रिज्यातुल्यः शीघ्रकर्णो भवति
तस्मिन् दिने वेधवलये यावान् परमो विक्षेप उपलभ्यते
तावान् ग्रहस्य परमो मध्यमविक्षेपः । एवमेते भौमा-
दीनामुपलब्धाः पठिताः । अथ ज्ञशुक्रयोः पातस्य स्फु-
टत्वमुच्यते । भगणाध्याये ये बुधशुक्रयोः पातभगणाः
पठितास्ते स्वशीघ्रकेन्द्रभगणैरधिकाः सन्तो वास्तवा भवन्ति ।
ये पठितास्ते स्वल्पाः कर्मलाघवेन सुखार्थम् । अतः
पठितचक्रभवौ स्वशीघ्रकेन्द्रयुतौ वास्तवभगणनिष्पन्नौ स्फुटौ
भवतः । तथा चोक्तं गोले । “ये चात्र पातभगणाः
पठिता ज्ञभृग्वोस्ते शीघ्रकेन्द्रमगणैरित्यादि” । इदानीं ग्रह-
विक्षेपानयनमाह” प्रमि० । “मन्दस्फुटात् खेचरतः स्वपात
युक्ताद्भुजज्या पठितेषुनिघ्नी । स्वशीघ्रकर्णेन हृता शरः स्यात्
सपातमन्दस्फुटगोलदिक्कः” सू० । “मन्दस्फुटाद्ग्रहात्
स्वपातयुक्ताद्भुजज्या साध्या । सा ग्रहस्य पठितेन शरेण
गुण्या स्वशीघ्रकर्णेन भाज्या फलं स्फुटविक्षेपः स्यात् । सपातो
मन्दस्फुटो ग्रहो यदि राशिषट्कादूनस्तदोत्तरो विक्षे-
पोऽन्यथा दक्षिणः । अत्रोपपत्तिः । मन्दस्फुटो ग्रहः
स्वशीघ्रप्रतिमण्डले भ्रमति । तत्र च तस्य पातोऽपि ।
पातो नाम प्रतिमण्डलविमण्डलयोः संपातः । तस्मादा-
रभ्य विक्षेपप्रवृत्तिः । इह सुसरलबंशशलाकया कक्षाम-
ण्डलं तत्प्रतिमण्डलं च छेद्यकोक्तविधिना विरचय्य तत्र
शीघ्रप्रतिमण्डले मेषादेः प्रतिलोमं पातस्थानं च चिह्न-
यित्वा तत्र विमण्डलं निवेश्यम् । पातचिह्नाद्राशिषट्-
कान्तरे विमण्डलप्रतिमण्डलयोरन्यं सम्पातं कृत्वा
पातात् पूर्व्वतस्त्रिभेऽन्तरे पतितविक्षेपप्रमाणेन प्रति-
मण्डलादुत्तरतो विमण्डलं केनचिदाधारे स्थिरं कृत्वा
मेषादेरनुलोमं मन्दस्फुटं ग्रहं प्रतिमण्डले विमण्डले
च दत्त्वा विक्षेपोपपत्तिं दर्शयेत् । तत्र तयोर्ग्रहयो-
र्यावान् विप्रकर्षस्तावाँस्तत्र प्रदेशे विक्षेपः । अथ तस्या-
नयनम् । पातस्थाने हि विक्षेपाभावः । ततस्त्रिभेऽन्तरे
परमो विक्षेपः । अन्तरेऽनुपातेन । अतः पातग्रह-
चिह्नयोरन्तरं तावज्ज्ञेयम् । तच्च तयोर्योगे कृते
भवति । यतो भेषादेरनुलोमं ग्रहो दत्तः । पातस्तु
प्रतिलोमम् । अतस्तयोर्योगः शरार्थं किल केन्द्रम् । तस्य
दोर्ज्या साध्या । यदि त्रिज्यातुल्यया दोर्ज्यया पठित-
विक्षेपतुल्यं प्रतिमण्डलविमण्डलयोरन्तरं लभ्यते तदाऽ-
भीष्टया ग्रहस्थानभवया दोर्ज्यया किमिति फलं शीघ्र-
कर्णाग्रे विक्षेपः । अथ द्वितीयोऽनुपातः । यदि शीघ्रक-
र्णाग्रे एतावान् विक्षेस्तदा त्रिज्याग्रे क इति । अत्र
गुणभाजकयोस्त्रिज्यातुल्ययोस्तुल्यत्वान्नाशे कृते सति दोर्ज्या-
याः पठितविक्षेपो गुणः शीघ्रकर्णो हरः । फलं कक्षाप्र-
देशे विक्षेपो ज्यारूपस्तस्य चापं स्फुटविक्षेप इत्यर्थः ।
भूचिह्ने सूत्रस्यैकमग्रं बद्ध्वा द्वितीयमग्रं विमण्डले ग्रहस्थाने
निबद्वं सूत्रं कर्णः । सूत्रकक्षमण्डलयोरन्तरं स्फुटः शर
इत्यादि सर्वं छात्राय दर्शनीयम् । इदानीं विक्षेपस्य
क्रान्तिसंस्कारयोग्यतालक्षणमन्यत् स्फुटीकरणमाह” ।
प्रमि० “चिज्यावर्गादयनवलनज्याकृतिं प्रोह्य मूलं यष्टि-
र्यष्ट्या द्युचरविशिखस्ताड़ितस्त्रिज्ययाप्तः । यद्वा राशि-
त्रययुतखगद्युज्यकाघ्नस्त्रिमौर्व्या भक्तः स्पष्टीभवति नियतं
क्रान्तिसंस्कारयोग्यः” मू० । ग्रहस्य “युतायनांशोडुप-
कोटिशिञ्जिनीत्यादिनायनं वलनं साध्यम् । अत्र
वलनशब्देन वलनज्या ग्राह्या न धनुः । तथा इतः प्रभृति
वृहज्ज्याभिः कर्म कर्तव्यम् । यतो वृहज्ज्याभिः शरज्या
शरकलातुल्यैव भवति । तस्यानयनम् । वलनस्य वर्गं
त्रिज्यावर्गादपास्य यन्मूलं लभ्यते तद्यष्टिसंज्ञं ज्ञेयम् ।
तया यष्ट्या ग्रहविक्षेपो गुणितस्त्रिज्यया भक्तः स्फुटः
क्रान्तिसंस्कृरयोग्यो भवति । अथानुकल्प उच्यते । यद्वा
राशित्रययुतखगद्युज्यकाघ्न इति राशित्रययुतस्य ग्रहस्य
यावती द्युज्या तया वा गुण्यस्त्रिज्यया भक्तः स्फुटो
भवति । अत्र भाजकस्यैकप्त्वाद्गुणकस्यान्यत्वात् फलं
स्वल्पान्तरमित्यतोऽनुकल्पेनोक्तम् । अत्रोपपत्तिः । क्रा-
न्त्यग्रात् किल शरो भवति । शराग्रे ग्रहः क्रान्तिः
शरेण संस्कृता स्फुटा भवति । अत्र गणितागतेनैव शरेण
क्रान्तिः स्फुटा क्रियते तदयुक्तम् । यतः क्रान्ति
र्विषुवन्मण्डलात् तिर्यग्ध्रुवाभिमुखी । विक्षेपस्तु क्रान्ति-
मण्डलात् तिर्यग्रूपः कदम्बाभिमुखः यथोक्तं गोले ।
“सर्वतः क्रान्तिसूत्राणां ध्रुवे योगो भवेद्यतः । विषुवन्म-
ण्डलप्राच्या ध्रुवे याम्या तथोत्तरा” । सर्वतः क्षेप-
सूत्राणां ध्रुवाज्जिनलवान्तरे । योगः कदम्बसंज्ञोऽयं ज्ञेयो
पृष्ठ ०९८९
वलनबोधकृत् । तत्रापमण्डलप्राच्या याम्या सौम्या च दिक्
सदा । कदम्बभ्रभवृत्तं चेति” । अतो विक्षेपः कदम्बाभि-
मुखो भवति । ध्रुवाभिमुख्या क्रान्त्या सह कथं तस्य मिन्न-
दिक्कस्य योगवियोगावुचितौ । तयोर्यद्भिन्नदिक्त्वं तदायन-
वलनवशात् । अथ तद्गोलोपरि प्रदर्श्यते । यथोदितं गोलं
विरचय्य क्रान्तिवृत्ते यद्ग्रहचिह्नं तस्मात् परितो नवति-
भागान्तरेऽन्यत् त्रिज्यावृत्तं निवेश्यम् । अथ ग्रहचि-
ह्नाद्ध्रुवोपरिगामि सूत्रं तस्मिन् वृत्ते यत्र लगति तत्क-
दम्बयोरन्तरस्य ज्या त्रिज्या स कर्णः । तयोर्वर्गान्तरपदं
कोटिः । सा च यष्टिसंज्ञा । क्रान्त्यग्राद्विक्षेपः कदम्बा-
भिमुखः कर्णरूपः । तस्य कोटिरूपकरणायानुपातः ।
यदि त्रिज्याकर्णे यष्टिः कोटिस्तदा शरकर्णेका । फलं
क्रान्तिसंस्कारयोग्यो विक्षेपो मवति । तेन संस्कृता
क्रान्तिः स्फुटा । विक्षेपाग्रस्थस्य ग्रहस्य विषुवन्मण्डलस्य
च यद्याम्योत्तरमन्तरं सा स्फुटा क्रान्तिरुच्यते अथानु-
कल्पेऽपीयमेव वासना । अत्र सत्रिराशिग्रहक्रान्तिज्या
भुजस्थाने कल्पिता स भुजः । तद्द्युज्या यष्टिस्थाने
कल्पिता सा कोटिः । तत्रापि त्रिज्या कर्ण इति सर्व-
मुपपन्नम्” प्रमि० । तत्रैव स्थानारेऽप्युक्तम् ।
“नाड़िकामण्डलात् तिर्य्यगत्रापमः क्रान्तिवृत्तावधिः
क्रान्तिवृत्ताच्छरः । क्षेपवृत्तावधिस्तिर्य्यगेवं स्फुटो नाड़ि-
कावृत्तखेटान्तरालेऽपमः” मू० । “क्रान्तिवृत्ते यत् स्फुटग्र-
हस्थानं तस्य नाडिकावृत्तात् तिर्य्यगन्तरं सा क्रान्तिः अथ
विमण्डले च यत् ग्रहस्थानं तस्य क्रान्तिवृत्ताद्यत् तिर्य्य-
गन्तरं स विक्षेपः । अथ विमण्डलस्थग्रहस्थ नाडीवृत्ता-
द्यत् तिर्य्यगन्तरं सा स्फुटा क्रान्तिः” प्रमि० ।
३ सामवेदविहिते यज्ञभेदे । “इषुवज्रौ सामवेदे विहितौ”
सि० कौ० । इषुप्रकारः स्थूला० कन् । इषुकःशरप्रकारे

इषुकामशमी स्त्री पुरीभेदे “पूर्व्वेषुकामशमी” सि० कौ० ।

इषुकार पु० इषुं करोति कृ--अण् उप० । बाणकारके

शिल्पिभेदे “पिङ्गला कुररः सर्पः सारङ्गोऽन्वेषणं विना ।
इषुकारः कुमारी च षडेते गुरवोमस” बौद्धेनोक्तं
समर्थयितुं पिङ्गलादीनां यथोपदेशकारित्वात् गुरुत्वं तथा
वर्णितम् यथा । “आशा बलवती राजन्! नैराश्यं परमं
परमं सुखम् । आशां निराशां कृत्वा तु सुखं स्वपिति
पिङ्गला । सामिषं कुररं दृष्ट्वा बध्यमानं निरामिषैः ।
आमिषस्य परित्यागात् कुररः सुखमेधते । गृहारम्भो हि
दुःखाय न सुखाय कदाचन । सपः परकृतं वेश्म प्रविश्य
सुखमेधते । सुखं जीवन्ति मुनयोभैक्ष्यवृत्तिसमाश्रिताः ।
अयत्नेनैव जीवन्ति सारङ्गाइव पक्षिणः । इषुकारो नरः
कश्चिदिषावासक्तमानसः । समीपेनापि गच्छन्तं राजा-
नं नावबुद्धवान्” बहूनां कलहोनित्यं द्वयोःसङ्कथनं ध्रुवम् ।
“एकाकी विचरिष्यामि कुमारीशङ्कको यथा” भा० शा०
प० अ० १७८ इषुकृदादयोऽप्यत्र ।

इषुकृत त्रि० इषुरिव शीघ्रगामी ऋजुगामी वा कृतः ।

बाणतुल्यं शीघ्रगामितया ऋजुगामितया च कृते । “श्रिये
पूषन्निषुकृतेव देवा नासत्या” ऋ० १८४, ३ । इषुकृतेव इवशब्द
एवार्थे । आजिधावनाय इषुवच्छ्रीघ्रमृजुगामिनौ कृता-
विव सन्तौ” भा० इषुकृता इव नासत्या इत्यादौ सर्वत्र
छान्दस आ । एतेन इषुकृच्छब्दस्योदाहरणतया एतस्या
ऋच उपन्यासः प्रमादिक एव ।

इषुध शरधारणे कण्ड्वा प० अक० सेट् । इषुध्यति ऐषुध्यीत्

इषुध्यिता--इषुधिता । याच्ञायामपि “विश्वो राय
इषुध्यति द्युम्नं वृणीत पुष्यसि” ऋ० ६, ५०, १ । पतिं वो
अघ्न्यानां धेनूनामिषुध्य” ऋ० ८, ५८, २ । भावे अ ।
इषुध्या प्रार्थनायां स्त्री । “दिवोवास्तोष्वसुरस्य वीरै-
रिषुध्येव मरुतो रोदस्योः” ऋ० १, १२२, १ । उण् इषध्यु
प्रार्थके “इषध्यव ऋतमापः पुरन्धीः” ऋ० ५, ४१, ६ ।

इषुधर पु० इषुं धरति धृ--अच् ६ त० । बाणधरे इषुभृदा-

दयोऽप्यत्र । “यशांसि सर्वेषुभृतां निरास्थत्” भट्टिः ।

इषुधि पुंस्त्री० इषवो धीयन्तेऽत्र धा--कि इषुध--इन्

यलोपो वा । वाणाघारे वाणधारके वा तूणे । स्त्रीत्वे
“धनुर्गाण्डीपमादाय तथाऽक्षय्ये महेषुधी” भा० व० ।
३८ अ० । निसर्वमेन इषुधीरसक्तः” ऋ० १, ३३, ३ । पुंस्त्वे
“बद्ध्वाऽऽक्षय्यौ महेषुधी” रामा० । “बह्वीनां पिता बहुरस्य
पुत्रश्चिश्चोवृणोति समनावगव्य” । “इषुधिः सङ्का पृतनाश्च”
ऋ० ६, ७५, ५ । “बहव इषवो धीयन्ते इषूणां निधान-
त्वात् “इषुधिरिषूणां निधानम्” यास्कः” भा० ।

इषुप पु० इषुं पिवति पा० पाने क उप० प० । असुरभेदे

सहि अंशावतारे नग्नजिन्नामा राजासीत् यथाह भा०
आ० ६७ अ० “इषुपोनाम यस्तेषामसुराणां बलाधिकः ।
नग्नजिन्नाम राजासीत् भुवि विख्यातविक्रमः” ।

इषुपुङ्खा स्त्री इषोः पुङ्खमिव पुष्पमस्याः । शरपुङ्खावृक्षे ।

इषुपुष्पा स्त्री इषुरिव पुष्पमस्याः । शरपुष्पायाम् ।

इषुमत् पु० इषवःसन्त्यस्य प्राशस्त्येन मतुप् । प्रशस्तनाणधरे ।

“इषुमति रघुसिंहे दन्दशूकान जिघांसौ” भट्टिः ।
पृष्ठ ०९९०

इषुमात्र न० इषुप्रभाणमस्य इषु + मात्रच् । १ शरप्रमाणे

ऋग्वेदिनां २ कुण्डेकुण्डशब्दे विवृतिः । ३ इषुप्रमाणमात्रे त्रि०
स्त्रियां ङीप् । “यद्येकः पशुः स्यात् एकप्रादेशां कुर्य्यात्
अथ यदि पञ्च पशवः स्युः पञ्चप्रादेशां कुर्य्यादिषुमात्रीं
वा वीर्य्यं वा इषुर्वीर्य्यसम्मितैव तद्भवति । पञ्चप्रादेशा हस्म
त्वेव पुरेषुर्भवति” शत० ब्रा० ६, ५, २, १० । इदमुखा-
मधिकृत्य प्रवृत्तम् । उखां करोतीत्युपक्रम्य “पञ्चप्रादेशा
गिषुमात्री वा तिर्य्यक् पञ्चपशौ” कात्या० १६, ३, ३५,
उक्तेः । इषुमानं च अङ्गुल्यवधिबाहुमूलपर्य्यन्तमानं
तच्च प्रादेशत्रयम् याज्ञिकसम्प्रदायप्रसिद्धम् । ४ शरगतिपर्य्य-
न्तमाने च । “अथ यदब्रवीत् वर्द्धस्वेति । तस्मादु ह स्मेषु-
मात्रमेव तिर्य्यक् वर्द्धते इषुमात्रं प्राङ्क्सोऽवैवावरं
समुद्रम् दघावव” शत० ब्रा० १, ६, ३, ११ वृत्तासुरवर्द्धन
प्रकारः । “इषुमात्रं धनुषः सकाशात् बलात् प्रयुक्तेषु-
र्यावद्दूरं गच्छति तावन्मात्रं प्रतिक्षणं तिर्य्यक् उभय
पार्श्वतः अवर्द्ध्वत” भा० । शरविक्षेपप्रमाणञ्च ।
इषुविक्षेपशब्दे दृश्यम् ।

इषुविक्षेप पु० इषोर्विक्षेपयोग्यदेशः । सार्द्धशतहस्तमिते

शरविक्षेपयोग्ये देशे तन्मानमाह श्रा० त० पितामहः
“मध्यमेन च चापेन प्रक्षिपेत्तुशरत्रयम् । हस्तानाञ्च शते
सार्द्धे लक्ष्यं कृत्वा विचक्षणः । तत्प्रमाणदेशातिक्रमेणैव
पुरीषोत्सर्गः कार्य्यः । “ततः कल्यं समुत्थाय कुर्य्यात्
मैत्रं नरेश्वर! नैरृत्यामिषुविक्षेपमतीत्याभ्यधिकं भुवः” ।
मैत्रं मित्रदेवताकपायुसम्बन्धात् पुरीषोत्सर्गं इषुविक्षेप
मतीत्य इषुविक्षेपयोग्यदेशाद्वहिः” श्रा० त० रघु० ।

इषेत्वक पु० इषे त्वा इतिभागोऽस्त्यत्रानुवाके अध्याये वा

गोपषा० वुन् । इषेत्वा इतिशब्दयुक्ते अनुवाके अध्याये
च । स च यजुर्वेदीयः प्रथमाध्यायः तत्रादौ इषे त्वो-
र्ज्जेत्वेति शब्दवत्त्वात् तस्य तथात्वम् एवं तदन्तर्गतोऽनु-
वाकोऽपि तथा ।

इष्कर्त्तृ त्रि० निस् + कृ--तृच् “निशब्दोबहुलमिति” प्राति-

शाख्यसूत्रेणोपसर्गैकदेशनकारलोपः । निष्कर्त्तरि ।
“इषकर्त्तारमध्वरस्य प्रचेतसम्” ऋ० १०, १४०, ५ ।
इष्कृदादशोऽप्यत्र ।

इष्कृति स्त्री निष् + कृ--क्तिच् इष्कर्त्तृवत् नलोपः । गर्भान्

निष्क्रमकारिण्यां मातरि जनन्याम् । “इष्कृतिर्नाम
वो माता वोयूयं स्थ्निष्कृतीः” यजु० १२, ८३, । “इष्-
कृतिर्नाम निष्कृतिनाम्नी माता जननी” वेददी० ।

इष्ट त्रि० इष--कर्मणि क्त । १ अभिलषिते, २ प्रिये “इष्टोऽसि

सखा चेति गीता० च । यज भावे क्त । ३ यज्ञादौ
न० कर्म्मणि, क्त । ४ पूजिते ५ एरण्डवृक्षे पु० ।
६ संस्कारे न० । “एकाग्निकर्म्म हवनं त्रेतायां यच्च
हूयते । अन्तर्वेद्याञ्च यद्दानमिष्टं तदभिधीतते ।
अग्निहोत्रं तपः सत्यं वेदानाञ्चानुपालनम् । आतिथ्यं
वैश्वदेवञ्च प्राहुरिष्टमिति स्मृतम्” जातूकर्णोक्ते ७ धर्म्म-
कार्य्ये न० । इष्टञ्च इच्छाविषयः तच्च द्विविधं गौणं
मुख्यञ्च । तत्र इतरेच्छानधीनेच्छाविषयोमुख्यं तत्वाघनं
गौणम् । तत्र मुख्यमिष्टं सुखं दुःखाभावश्च । तदिच्छाया
इतरेच्छानधीनत्वात् । तत्साधनं पाकभोजनादि गौणं
सुखदुःखाभावेच्छयैव तदिच्छायाः समुन्मेषात्
अधिकमिच्छाशब्दे ९१३ पृष्ठे उक्तम् । तत्रेच्छाविषये
“सह यज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः । अनेन
प्रसविष्यध्वमेष वोऽस्त्विष्टकामधुक्” । “अनिष्टमिष्टं मिश्रञ्च
त्रिविधं कर्म्म चोच्यते” । “इष्टं हि वो देवा दास्यन्ते यज्ञ
भाविताः” इति च गीता । यज्ञे “पुरोडाशभुजामिष्टमिष्ट
कर्त्तुमलन्तराम्” माघः इष्टं यागः इष्टममीष्टं कर्त्तुमल-
न्तरामित्यर्थः । “इष्टं दत्तमधीतं वा विनश्यत्यनुकीर्त्तनात्”
देवलः । इष्टं यजनम्” शु० त० रघु० ८ कृते च “यज्ञेरिष्टं
क्रतुशतम्” विक्रमो० स्मृतिपरिभाषिते इष्टकर्म्मणि
द्विजातीनामेवाधिकारः न स्त्रीशूद्रयोः यथाह “इष्टमुक्त
द्विजातीनां धर्मः सामान्य उच्यते । अधिकारी भवेच्छूद्रः
पूर्त्तेधर्मे न वैदिके” जातूकर्णः “वैदिके वेदसाध्ये अग्नि-
होत्रादाविति” रत्नाकरः । “पितृव्यगुरुदौहित्रान् भर्त्तुः
स्वस्रीयमातुलान् । पूजयेत् कव्यपूर्त्ताभ्याम् वृद्धानाथाऽति-
थीन् स्त्रियः” वृहस्पतिवचने स्त्रिया पूर्त्तमात्रेऽधिकार-
विधानात् तत्र “जलाशयोत्सर्गरूपपूर्त्ते गोरवतारणानुम-
न्त्रणयायजमानकर्तृकमन्त्रपाठ विधानात् तत्र अमन्त्रकतया
स्त्रीशूद्रयोरनधिकारेण तद्वति यागेऽपि तयोर्नाधिकारः
विशेषोपदेशाभावात्” इति द्वैतनिर्णयानुसारिणः । वृषोत्सर्ने
तदङ्गहोम इव ब्राह्मण द्वारा तन्मन्त्रपाठसम्भवात्तयोरपि
तत्राधिकारः इति रघुनन्दनादयः । “अमन्त्रस्य तु शूद्रस्य
विप्रोमन्त्रेण गृह्यते” वराहपु० “तद्धुतमहुतञ्चाग्नौ न स्त्री
जुहुयादनुपेतः” आप० वचनं तु स्वयंहोमविषयम् ।
“श्रौतस्मार्त्तक्रियाहेतोर्वृणुयादृत्विजः स्वयम्” याज्ञ० श्रौत
इव स्मार्त्तोऽपि कर्मणिः ऋत्विग्वरणोक्तेः । अतएव
“ऋत्विग्वादे नियुक्तश्च समौ संपरिकीर्त्तितौ । यज्ञे स्वाम्याप्नु-
पृष्ठ ०९९१
यात् पुण्यं हानिं वादेऽथ वा जयमिति” वृह० उक्तेः ९ “श्रौते
कर्मणि न० “उद्बुध्यस्वाग्ने प्रतिजागृहि त्वमिष्टापूर्त्ते
संसृजेथामयञ्च” यजु० १५, ५४ इष्टापूर्त्ते श्रौतस्मार्त्ते
कर्मणी” वेददी० । १० इच्छया कल्पिते त्रि० “इष्ट-
कृतिरष्टगुणिता व्येका दलिता विभाजितेष्टेन” लीला०
११ यज्ञेन तोषिते परात्मनि १२ विष्णौ च पु० “इष्टो-
विशिष्टः शिष्टेष्टः” विष्णुस० “इष्टः परमानन्दात्मकत्वेन
प्रियः यज्ञेन पूजितो वेति” भा० । यज--करणे वा०
क्त, भावे क्त अस्त्यर्थे अच् वा । १३ इष्टकायां न० ।
“मरुतार्केण शुध्यन्ति पक्वेष्टरचितानि च” विष्णु० ।

इष्टकचित त्रि० इष्टकया चितः ह्रस्वः । इष्टकाभिर्व्याप्ते

इष्टकर्मन् न० इष्टप्रसिद्ध्यर्थं कर्म शाक० त० । लीलावत्युक्ते

गणितभेदे तत्प्रकारो यथा “अथेष्टकर्मसु करणसूत्रं
वृत्तम् “उद्देशकालापवदिष्टराशिः क्षुण्णो हृतोऽशैरहितो
युतो वा । इष्टाहतं दृष्टमनेन भक्तं राशिर्भवेत् प्रोक्तमितीष्ट
कर्म । अत्रोद्देशकः । पञ्चघ्नः स्वत्रिभागोनोदशभक्तः
समन्वितः । राशित्र्यंशार्द्धपादैः, स्यात् कोराशिर्द्यूनसप्ततिः ।
न्यासः गुणः ५ । स्वत्रिभागः (१३) । हरः १० । राश्यंशाः
(१३) (१२) (१४) । दृश्यम् । ६८ । अत्र किल कल्पित-
राशिः ३ । पञ्चघ्नः । १५ । स्वत्रिभागोनः । १० ।
दशभक्तः । १ । कल्पित ३ राशेस्त्र्यंशार्द्धपादैः (३३) (३२)
३४ समन्वितोहरोजातः १७४ । अथ दृष्टम् ६८
इष्टेन ३ गुणितम् २०४ । हरेण १७४ भक्तं
जातोराशिः । ४८ । एवं सर्वत्रोदाहरणे राशिः केनचि-
द्गुणितोभक्तोवा राश्यंशेन रहितोयुतोबा दृष्टस्तत्रेष्टं राशिं
प्रकल्प्य तस्मिन्नुद्देशकालापवत्कर्मणि कृते यन्निष्पद्यते तेन
भजेद्दष्टमिष्टगुणं फलं राशिः स्यात् । तत्र दृष्टजात्यु-
दाहरणम् । यूथार्द्धं सत्रिभागं वनविवरगतं कुञ्जराणाञ्च
दृष्टं षड्भागश्चैव नद्यां पिबति च सलिलं सप्तमांशेन
मिश्रः । पद्मिन्या चाष्टमांशः स्वनवमसहितः क्रीड़ते
सानुरागोनागेन्द्रोहस्तिनीभिस्तिसृभिरनुगतः का भवेद्यूथ-
संख्या । न्यासः
(१२) (१६) (१८) दृश्यम् ४ । एषां सवर्णने
(१३) (१७) (१९) द्वाभ्यामपवर्त्तितं (२३) । (४२१) ।
(५३६) । पुनरेषां सवर्णितानामैक्यं नवभिरपवर्त्तितं
(२५१२५२) इष्टोनं (१२५२) अनेन ४ दृष्टे इष्टगुणिते
भक्ते जाता हस्तिसंख्या १००८ । अपरोदाहरणम् ।
अमलकमलराशेस्त्र्यंशपञ्चांशषष्ठैस्त्रिनयनहरिसूर्यायेन तु-
र्येण चार्या । गुरुपदमथ षड्भिः पूजितं शेषपद्यै
सकलकमलसंख्यां क्षिप्रमाख्याहि तस्य । न्यासः १ ३
(१५) (१६) (१४) दृश्यम् । ६ । अत्रेष्ट राशिम् १
प्रकल्प्य प्राग्वज्जातोराशिः । १२० । अन्यदुदाहरणम् ।
हारस्तारस्तरुण्यानिधुवनकलहे मौक्तिकानां विशीर्णोभू-
मौ यातस्त्रिभागः शयनतलगतः पञ्चमांशोऽस्य दृष्टः ।
प्राप्तः षष्ठः सुकेश्या गणक! दशमकः संगृहीतः प्रियेण
दृष्टं षट्कञ्च सूत्रे कथय कतिपयैर्मौक्तिकैरेष हारः ।
न्यासः (१३) (१५) (१६) (११०) दृश्यम् । ६ । अत्रेष्टं
राशिम् १ प्रकल्प्य प्राग्वज्जातीराशिः ३० । अथ
शेषजात्युदाहरणम् । स्वार्द्धं प्रादात्प्रयागे नवलवयुगलं
योऽवशेषाच्च काश्यां शेषाङ्घ्रिं शुल्कहेतोः पथि दशमल-
वान् षट् च शेषाद्गयायाम् । शिष्टा निष्कत्रिषष्टिर्नि-
जगृहमनया तीर्थपान्थः प्रयातस्तस्य द्रव्यप्रमाणं वद
यदि भवता शेषजातिः श्रुतास्ति । न्यासः ।
(११) दृश्यम् ६३ । अत्र रूपम् १ राशिं प्रकल्प्य
(१ं२) भागान् शेषाम् शेषादपास्य अथवा भागा-
(२ं९) पवाहविधिना सवर्णिते जातम् । (७६०)
(१ं४) अनेन १ इष्टगुणिते ६३ दृष्टे । भक्ते जातं
(६ं१०) द्रव्यप्रमाणम् । ५४० । इदं विलोमसूत्रे-
णापि सिध्यति । अथ विश्लेषजात्युदाहरणम् । “पञ्चां-
शोऽलिकुलात्कदम्बमगमत्त्र्यंशः शिलीन्ध्रं तयोर्विश्लेष-
स्त्रिगुणोमृगाक्षि! कुटजं दोलायमानोऽपरः । कान्ते!
केतकमालतीपरिमलप्राप्तैककालप्रियादूताहूतैतस्ततोभ्रम
ति खे भृङ्गोऽलिसंख्यां वद । न्यासः (१५) (१३) (२५)
दृश्यम् । १ । जातमलिकुलमानम् । १५ । एवम् अन्यत्रापि” ।

इष्टका स्त्री इष--तक्न् टाप् इष्टकेषीकामालानाम्” पा०

निद्दैशान्नात इत्त्वम् । (इट्) मृददिनिर्म्मिते १ मृत्खण्डभेदे
यज्ञिये अग्निचयनार्थे २ मृदादिनिर्मिते द्रव्यभेदे च शत०
ब्रा० तु निर्वचनान्तरमुक्तं यथा । “यावद्यावद्वैजुहुयात्ता-
वत्तावत् भवतीति तद्यस्मा इष्टेकमभवत्तस्माद्धेवेष्टका” ६, ।,
२, २३ । “तं देवा अग्न्योराहुतिभिरभिषज्यन् ते यांयामा-
हुतिमजुहवुः सासैनं पक्वेष्टका भूत्वा समपद्यत तद्यदिष्टात्
कमभवत्तस्मादिष्टकास्तस्मादग्निना इष्टकाः पचन्त्याहु-
तीरेवैनास्तत् कुर्वन्ति” इति च तत्रैव । इष्टकाकरणकाल-
प्रकारादि” कात्या० श्रौ० १६, २ क० दर्शितं यथा ।
“उखासम्भरणमष्टम्याम्” १ सू० । “उस्वायाः सम्भरणमुखा
सम्भरणम तदष्टम्यां भवति “अष्टकायामुखां सम्भरतीति
पृष्ठ ०९९२
(६, २, २, २३) शत० ब्रा० वचनात् । उखा चोपलक्षणम्
अषाढाद्यप्यत्र सम्भ्रियतएव ततश्चान्तराले तस्या अपि
प्रयोकृत्वम् । सम्प्रदायस्तु फाल्गुनकृष्णाष्टम्याम्” कर्कः
“आहवनीयस्य पुरस्तान्मत्या चतुरश्रे श्वभ्रे मृत्पिण्ड-
मवदधाति भूमिसमम्” २ सू० । “भूमिसममन्यूनान-
तिरिक्तम्” क० । “पिण्डमपरेण व्यध्वे वल्मीकवपां छिद्रां
निदधाति” ३ सू० । “पिण्डाहवनीययोर्व्यध्वे अर्धपथे” क० ।
“व्यध्वे पिण्डाहवनीययोर्मध्ये, वन्मीकवपाम् उपदी-
काकृतस्य मृच्चयस्य वपामिव वपाम् अन्तःपुटां छिद्रां छिद्र-
संयुक्ताम्” संग्र० । “आहवनीयं दक्षिणेन त्रिवृन्मुञ्ज-
पञ्चाङ्गीबद्धास्तिष्ठन्ति प्राञ्चोऽश्वगर्दभाजाः पूर्वापरा
रासभोमध्येऽश्वपूर्वाः” ४ सू० । “आहवनीयस्य दक्षिणतः
त्रिवृद्भिर्मुञ्जमयीभिः पञ्चाङ्गीभिः पञ्चाङ्ग्यो मुखरिकाः
ताभिर्बद्धास्तिष्ठन्ति प्राङ्मुखाः अश्वगर्द्धभाजाः पूर्वापर-
रीत्या रासभोमध्येऽश्वपूर्वाः” क० । “उत्तरत आहवनी-
यस्यारत्निमात्र उभयतस्तीक्ष्णा वैणवी सुषिराभ्रिः कल्मा-
ष्यभावेऽकल्माषी प्रादेशमात्र्यरत्निमात्री वा” ५ सू० ।
“आतन्तर्य्यात्पशूनामुत्तरतो मा भूदित्याहवनीयग्रहणम्” क० ।
“परिपाकवशात्कर्बुरा” संग्र० । “हिरण्मयीमेके” ६ सू० ।
“एके आचार्य्या इच्छन्ति, अतश्च विकल्पः” क० । “अष्ट-
गृहीतं जुहोति संततमुद्गृह्णन् युञ्जान इति (११, १)
७ सू० । “अष्टगृहीतमाज्यद्रव्यं संततं जुहोति” क० ।
“देवस्य त्वेति (११, ३) अभ्रिमादाय “हस्त आधायेत्येनाम-
भिमन्त्रयते” । (११, ११) ८ सू० । “अश्वप्रभृतींश्च प्रत्यृचं
प्रतूर्त युञ्जाथां योगे योगऽइति (११, १२, १४) ९ सू० ।
“अभिमन्त्रयते” क० । “अनुपस्पृशन्नुत्क्रमयत्येनान्
प्राचः प्रतिमन्त्रं प्रतूर्वन्नुर्वन्तरिक्षं पृथिव्याः सधस्थादिति”
(११, १५, १६) १० सू० । “अग्निषु ज्वलत्सु पिण्डं
गच्छन्त्यग्निं पुरीष्यमिति” (११, १६) । (६, ३, ३, १)
शत० ब्रा० ११ सू० । “दक्षिणतश्च पशवो युगपत्”
१२ सू० । “गच्छतां च दक्षिणतः पशवः, उत्तरतश्च
पुरुषाः युगपद्गमनं कुर्वन्ति” क० । “अनद्धा पुरुषमीक्षते
देवपितृमनुष्यानर्थकमग्निं पुरीष्यमिति” । (११, १६)
१३ सू० । “यो देवादीन्नावति स देवपितृमनुष्यार्थ-
तकः” क० । “वल्मीकवपामादाय छिद्रेण पिण्डमीक्ष-
तेऽन्वग्निरिति” (११, १७) १४ सू० । “दृष्ट्वा निदधात्येनाम् ।
१५ सू० । “वल्मीकवपाम्” क० । “आगत्येत्यभिमन्त्रयतेऽ-
द्यम्” (११ २८) १६ सू० । “आक्रम्येत्येनेन (११, १९)
पिण्डमधिष्ठापयति” १७ सू० । “एनेनेत्यश्वोऽभिधीयते”
क० “द्यौस्त इति (११, २०) पृष्ठस्योपरि पाणिं धारयन्न-
नुपस्पृशन्नुत्क्रामेत्युत्क्रामयति (११, २१) १८ सू० ।
“अश्वम्” क० । “उदक्रमीदित्यभिमन्त्रयते (११, २२) १९
क० । “अश्वमेव” क० । “आहवनीयवत् स्थापयति पिण्डस्य”
२० सू० । “पशून्” क० “उपविश्य मृदमभिजुहोत्या
त्वा जिघर्मीति (११, २३) “व्यतिषक्ताभ्यामृग्भ्यामाहुती
(११, २२, २३) स्रुवेणाश्वपदे” २१ सू० । “मृत्-
संस्कारत्वादुपविश्येत्युच्यते, व्यतिषङ्गश्च एकस्याः पूर्वार्ध
इतरार्धः इतरयोरप्येवमेव” क० । “अभ्र्या पिण्डं त्रिः
परिलिखति परि वाजपतिरिति (११, २५ २७)
बहिर्बहिरुत्तरयोत्तरयाभ्र्या पिण्डं खनति देवस्य त्वेति
(११, २८) २२ सू० । “अभ्रिग्रहणमभ्र्यन्तरनिवृत्त्यर्थम्
तथा चाह “अत्र सा वैणव्यभ्रिरुत्सीदतीति “(६,
५,४, ३ शत० ब्रा० उत्तरया परया ऋचा पूर्वलिखिता-
द्बहिबहिर्बाह्यप्रदेशे परिलिखति” । क० “कृष्णाजिनमा-
स्तीर्योत्तरतस्तस्मिन् पुष्करपर्णमपां पृष्ठमिति” (११, २९)
२३ सू० । “तस्मिन्कृष्णाजिने” क० । “विमार्ष्ट्येनद्दिव
इति (११, २९) २४ सू० । “पुष्करपर्णम्” क०
“आलभत उभे शर्म्म च स्थैति” (११, ३०३१) २५ सू० । “उभे
कृष्णाजिनपुष्करपर्णे, शक्यत्वाच्च युगपदालम्भनम्”
क० । “पिण्डं पुरीष्योऽसीति (११, ३२) ।” २६ सू०
“आलभते” क० । “पाणिभ्यां परिगृह्णोत्येनं दक्षिणीत्त-
राभ्यां दक्षिणः साभ्रिस्त्वामग्नैति” (११, ३२ ३८) ।
षड्भिः सर्वं सकृद्धृत्वा” २७ सू० “ग्रहणे मन्त्रः “अथैनं
परिगृह्णातीति” शत० ब्रा० (६, ४, २, २) वचनात्” क०
इति द्वितीया कण्डिका ।
“पुष्कतपर्णे निदधाति” १ सू० । “अपः श्वभ्रेऽपनयत्यपो
देर्वारिति (११, ३८) २ सू० । “श्वभ्रः पिण्डावटः” क० ।
सं तैति (११, २९) वा तमपक्षिपति” ३ सू० । “श्वभ्र-
एव” क० । “अनामिकया संवपति पुरस्तात्पश्चाद्दक्षिणत
उत्तरतश्च” ४ सू० । “संवापश्चावटे पुरीषस्य” क० ।
“आस्तीर्णयोरन्तानुद्गृह्णाति सुजात इति” (११, ४०)
५ सू० । “अस्तीर्णयोः कृष्णाजिनपलाशपर्णयोः” क० ।
“बन्धनायोभयोः प्रान्तान् सर्वत ऊर्ध्वान् करोति” सग्र० ।
“त्रिवृता मुञ्जयोक्त्रेणोपनह्यति वासोअग्नैति । (११, ४०)
६ सू० । “उद्गृहीतानन्तान्” क० । “उत्तिष्ठति पिण्ड-
मादायोदु तिष्ठेति” (११, ४१) ७ सू० । “ऊर्ध्वबाहुः
पृष्ठ ०९९३
प्राञ्चं प्रगृह्णात्यूर्ध्व ऊ षुण इति” (११, ४२) ८ सू० ।
“प्रसारितबाहुः पिण्डम्” क० । “अवहृत्यीपरिनाभि
धारयन्नश्वप्रभृतीनभिमन्त्रयते स जातः स्थिरो मव शिवो
भवेति” । (११, ४२, ४५)” ९ सू० । “अवहृत्य पिण्डं नाभे-
रुपरि धारयन्” क० । “धारयत्येषामुपरि पिण्डमनुस्पृशन्
प्रैतु वाजी वृषाग्निमित्यश्वखरयोः” (११, ४६) १० सू० ।
“एषां पशूनामुपरि पिण्डमनुपस्पृशन् धारयति प्रैतु
वाजीत्यश्वस्य, वृषाग्निमिति खरस्य” क० । “अग्न
आयाहीत्याहृत्य (११, ४६) खराच्छागस्यर्तं सत्यमित्यानिधा-
नात्” (११, ४७) ११ सू० । “धारयत्यनुपस्पृशन्नेव”
क० । “आयन्त्यावर्त्य पशूनजः पुरस्ताद्रासभो मध्ये”
१२ सू० । “स्वस्थानस्थितानामेवावृत्तिः” क० । “अनद्धा
पुरुषमीक्षते पूर्ववदग्निं पुरीष्यमिति” । (११, ४७) १३
सू० । “अनन्यार्थत्वात् पूर्ववच्छब्देनाग्निषु प्रज्वलत्-
स्वित्युच्यते (२, ११)” क० । “उत्तरत आहवनीयस्यो-
द्धतावोक्षिते सिकतोपकीर्णे परिवृते प्राग्द्वारे
निदधात्योषधय इति” (११, ४७, ४८) १४ सू० । “वि
पाजसेति” (११, ४९) प्रमुच्यैनमजलोमान्यादाय प्रागुदीचः
पशूनुत्सृजति १५ सू० । “प्रमुच्य पिण्डमजलोमानि
गृहीत्वा प्रागुदीचीं दिशं प्रति पशूनुत्सृजति” क० ।
“आपो हि ष्ठेति (११, ५०) पर्णकषायप्रक्वमुदकमासिञ्चति
पिण्डे” १६ सू० । “पर्णकषायं पलाशकषायम्”
क० । पलाशत्वग्भिःक्वथितमुदकं पलाशकषायपक्वम्”
संग्र० । “फेनं च तूणों ततः कृत्वा” १७ सू० । “तत
एवोदकात् पूर्वतरं फेनं कृत्वोदकमासिञ्चति चशब्दात्-
फेनम्” क० । “अजलोमभिः संसृजति मित्रः
संसृज्येति (११, ५३)” १८ सू० । “पिण्डम्” ।
“शर्करायोरसाश्मचूर्णैश्च रुद्राः संसृज्येति (११, ५४)”
१९ सू० । “शर्करा प्रसिद्धा अयोरसो लोहसिङ्घाणः कीट
इति यः प्रसिद्धः अश्मचूर्णः पाषाणचूर्णः चशब्दादेतैः
पिण्डं संसृजति” क० । “शर्कराः सूक्ष्मकन्दुकाः
अथोरसो लोहरसो यस्ताप्यमानाल्लोहात्पृथग्भवतीति
कीट इति लोके प्रसिद्धः अश्मा दृढपाषाणः तेषां चूर्णैः
संसृजति” संग्र० । “संसृष्टामिति” (११, ५५, ५७)
संवौति” २० सू० । “पिण्डं मिश्रयति आड्वालयतीत्यर्थः”
क० । “अषाढां करीति महिषी प्रथमविन्ना तदाख्या”
२१ सू० । “अषाढाख्यामिष्टकां महिषी करोति ।
महिषीशब्दस्यान्यत्राप्रसिद्धत्वादाह प्रथमविन्ना तदाख्या”
“तद्धैव महिषीति” ब्रा० (६, ५, २, १) क० । “भार्याणां
मध्ये प्रथमं लब्धा प्रथमपरिणीता या स्त्री सा तदाख्या”
संग्र० । “यजमानपादमात्रीं त्र्यालिखिताम्” २२ सू० ।
“महिषीपादमात्री मा भूदिति यजमानग्रहणम्” क० ।
“त्रिषु स्थानेषु लिखिताम्” संग्र० । “यजमान उखां
करोति मृदमादाय मखस्य शिर इति (११, ५७) २३
सू० । “मृदादाने मन्त्रः” क० । “प्रादेशमात्रीं तिर्य-
गूर्ध्वां च” २४ सू० । “तिर्यगायामप्रमाणे विस्तार-
प्रमाणे च” क० । “पञ्चप्रादेशामिषुमात्रीं वा तिर्यक्-
पञ्चपशौ” २५ सू० । “ऊर्ध्वं तु प्रादेशमात्र्येव पञ्च-
पशावपि” क० । “बसवस्त्वेति (११, ५८) प्रथयति” २६
सू० । “आत्तं पिण्डम्” क० । “अन्तानुन्नीय सर्वतः
प्रथमं धातुमादधाति रुद्रास्त्वेति” (११, ५८) २७ सू०
“धातुशब्दान्मृत्प्रक्षेप एव” क० । “प्रथितस्य
तलप्रान्तानुन्नीय ऊर्ध्वान् गमयति, धातुं प्रथमपिण्डिकाम्”
संग्र० । “संलिप्य श्लक्ष्णां कृत्वोत्तरमादित्यास्त्वेति”
(११, ५८) २८ सू० । “संलिप्य शिथिलया मृदा संलिप्य
वारिणा संश्लक्ष्णां सुकुमारां कृत्वा” संग्र० । “विश्वे
त्वेति (११, ५८) समीकरोति” २९ सू० । (६, ५, २, ३)
शत० ब्रा० । “वितृतीयौत्तरे वर्तिं सर्वतः करोत्यदित्यै
रास्नेति (११, ५९) ३० सू० । उखाया ऊर्ध्वप्रमाणस्यो-
त्तरे वितृतीये उपरि वर्त्तमाने तृतीये भागे सर्वतः
सर्वासु दिक्षु मृण्मयीं वर्त्तिं वृत्त्याकारां रास्नां (काञ्ची
गुणस्थानीयाम्) करोति” क० । “ऊर्द्ध्वास्तूष्णीं प्रतिदशं”
३१ सू० । “वर्त्तीः करोति चतस्रोऽपरावर्तिं प्राप्ताः” ३२ सू० ।
उखाशब्दस्याकृतिवचनत्वाद्वृत्तैवोखा भवति” क० । “सर्वासु
दिक्षु पार्श्वमध्ये बाह्यप्रदेश अपराश्चसस्रो वृत्तीरूर्ध्वास्तूर्ष्णो
करोति किम्प्रमाणाः मूलत आरभ्य वृत्तिं प्राप्ताः
तिरश्ची रास्नां यावदुच्चाः” संग्र० इति ३ कण्डिका
“स्तनानिवाग्रेषून्नयति” १ सू० । “ऊर्ध्ववर्त्ती-
नामेकैकस्याः” क० । “आसां चतसृणां वृत्तीनाम-
ग्रेषु तिरश्च्या वृत्तेरुपरि स्तनानिव स्तनसदृशान्मृद-
वयवानुन्नयति” संग्र० । “द्विस्तनामष्टस्तनामेके” २ सू० ।
“तां हैके द्विस्तनामष्टस्तनामिति (६, ५, २, १२) श्रुतेः
द्विस्तनपक्षएकस्मिन्नेव वर्त्यग्रे क्रियते अष्टस्तनपक्षे द्धौ
द्वाविति क० । “बिलं गृह्णात्यदितिष्टैति” (११, ५२) ३ सू० ।
“मुखे गृह्णातीत्यर्थः” क० । “कृत्वायेति (११, ५२)
निदधाति उखाम्” ४ सू० । “तिस्रएके” ५ सू० । “उखाः
पृष्ठ ०९९४
कुर्वन्ति” (६, ५, २, १२) श० ब्रा० । “तथा च मृत्प्रिण्ड-
ग्रहणाद्येकैका निधानान्ता क्रियते” क० । “इष्टकास्तु
तिस्रो विश्वज्योतिषः पृथग्लक्षणास्त्र्यालिखिताः” ६ सू० ।
“तुशब्दश्चार्थे चशब्दाद्यजमान एव तिस्र इष्टकाः
विश्वज्यीतिःसज्ञकाः पृथग्लक्षणाः करोति लक्षणकरणं
च प्रथमाद्वितीयाप्रज्ञप्त्यत्यर्थमेवोपघानं यथा स्यादिति”
क० । “मृदमुपशयां निदधाति” ७ सू० । “उखां क्रिय-
माणामुपशेतैत्युपशया तां मृदमतिरिच्यमानां
निदधाति कार्यार्थम्” क० । “अवशिष्टां मृदमुपशयसज्ञां”
निदधाति” संग्र० । “सप्तभिरश्वशकृद्भिरुखां धूपयति
दक्षिणाग्न्यादीप्तैरेकैकेन वसवस्त्वेति (११, ६०)
प्रतिमन्त्रम् ८ सू० । “शकृद्भिरश्वलेण्डैः” संग्र० ।
“अभ्र्या श्वभ्रं चतुरश्रं खनत्यदितिष्ट्वेति (११, ६१)
९ सू० । “अभ्रिश्च पूर्वोक्तैव प्रकृतत्वात् अत्र सा
वैणव्यभ्रिरुत्सीदतीति (६, ५, ४, ३) श० ब्रा० वचनात्” क० ।
“श्रपणमास्तीर्य यथाकृतमवदधाति” १० सू० । श्वभ्रे, येनैव
क्रमेण कृता अषाढाद्याः उखायां तु विशेषः, “देबानां
त्वेत्युखां (११, ६१) न्युब्जाम्” ११ सू० । “अवदधाति”
क० । “श्रपणेनावच्छाद्य दक्षिणाग्निनादीपयति
धिषणास्त्वेति (११, ६१) १२ सू० । “निर्मन्थ्येन वा धूपन-
श्रपणे” १३ सू० । “कर्त्तव्ये” क० । “वरुत्रीष्ट्वेतीक्षमाणो
(११, ६१) जपति” १४ सू० । “उखाभीक्षमाणः” क० ।
“आचरति मित्रस्येति (११, ६२) १५ सू० ।
“आचरणं च श्रपणप्रक्षेपः” क० । अषाढादीनामधस्तादुपरिष्टाच्च
पुनः श्रपणं प्रक्षिपति” संग्र० “यावद्धाचरेत्” १६ सू० ।
“यावद्भिः प्रकारैः श्रपणं प्रक्षिपेत्तावद्धानेनैव मन्त्रेणा-
चरेत्” संग्र० । “दिवैव प्रदहनोद्धरणे” १७ सू० । “कर्तव्ये”
(६, ५, ४, १०) श० ब्रा० । “प्रदहनं पचनम् उद्धरणं
बहिर्सिष्काशनम्” संग्र० । “उद्वपति श्रपणम्” १८ सू० ।
“पदार्थतया” क० । “भस्मसाद्भूतं पराकरोति” संग्र० ।
देवस्त्वेत्युखाम्” १९ सू० (११, २३) । “उद्वपति” क० ।
“उत्तानां करोत्यव्यथमानेति (११, ६३) २० सू० । “उद्य-
च्छत्युखाम्” (११, ६४) २१ स० । “ऊर्ध्वं यच्छति” क० ।
“परिगृह्य पात्रे करोति मित्रैतां तैति” (११, ६४,
२२ मू० । “अजापयसावसिञ्चति वसवस्त्वेति” (११, ६५)
प्रतिमन्त्रम्” २३ सू० । “उखाम् । त्रित्वपक्षे च उत्तान-
करणाद्येकैका अजापसावसेकान्ता कर्त्तव्या” क० ।
“इष्टकाकियातस्त्र्यालिखितानाम्” २४ सू० । “अत
ऊर्ध्वमिष्टकास्त्र्यालिखिताः क्रियन्ते” क० । “अपरि-
मितालिखिता वोत्तरयोः” २५ सू० । “द्वितीयाच-
तुर्थ्योः कुत एतत् ते हि प्रकृत्याम्नायते “रसो हैते चिती
अपरिमित उ वै रस इति” (८, ७, २, १७), श० व्रा० ।
“अतश्च विकल्पोऽयम्” क० । “पूर्ववदग्निः पाके” २६
सू० । “इष्टकानां पाके भवति निर्मन्थ्यो दक्षिणाग्निर्वा” क०
फाल्गुनामावास्यायां दीक्षामुक्त्वा कृत्यशेषं तत्राह । “दण्डो-
च्छ्रयणान्तं कृत्वाध्वर्युयजमानयोरन्यतर उखामाहवनीयेऽ-
धिश्रयति मुञ्जकुलायशणकुलायावस्तीर्णाम् अन्तरेशणां मा
सु भित्था इति (११, ६८) तिष्ठन्नुदङ्प्राङ्” ३१ सू० ।
दण्डीच्छ्रयणान्तमाध्वरिकं कर्म कृत्वा उखामाहवनीये-
ऽधिश्रयति, सा च मुञ्जकुलायावस्तीर्णा भवति अन्तरे-
शणा । प्रागुदीचीं दिशमभिमुखः । अधिकारसुपजीव-
न्नाह” क० “रुक्मप्रतिमोचनविष्णु क्रमवात्सप्रेषुच” ३२ सू०
प्रागुदीचीं दिशमभिमुखो भवति” क० “अग्नावारूढेत्रयो-
दशास्यां प्रादेशमात्रीः समिधआदधाति” ३३ सू० । “उखाया-
मग्नावारूढे त्रयोदश समिधआदधाति, प्रादेशमात्रीग्रहणं
च शिष्टानुस्मरणप्रज्ञप्त्यर्थम्” क० । “अनारोहत्यङ्गारानो-
प्यैके” ३४ सू० । अनारोहत्यग्नावुखायाम् अङ्गारानोप्यैके
समिदाधानं कुर्वन्ति” क० । ता इदानीमाह, “घृतोन्नां
कार्मुकीं द्र्वन्न इति” (११, ७०) ३५ सू० । “आदधाति,
कृमुको धमनः तदीया कार्भुकी” क० । “वैकङ्कतीं परस्या
इति (११, ७१) ३६ सू० । “औदुम्बरीं परमस्या इति”
(११, ७२) ३७ सू० । “अपरशुवृक्णां यदग्नैति” (११, ७३)
३८ सू० । “या परशुना न छिन्ना” क० । “अकुठार-
च्छिन्नाम्” संग्र० । “अधःशयां यदत्तीति” (११, ७४)
३९ सू० । “भूमिसंलग्ना या सदा रूढा भवति” संग्र० ।
“पालाशीः प्रत्यृचमहरहरिति” (११, ७५) । ४० सू० ।
“आदधाति अथैताः पालाश्यो भवन्तोति (६, ६, ३, ७) श० ब्रा
वचनात्, एवं चापरशुवृक्णा अधःशया चौदुम्बर्यावेव भवतः
जात्यन्तरादिधानात्” अ० । “उपोत्तमां क्षत्रियस्येच्छन्”
४१ सू० । “उत्तमायाः समीपे उपोत्तमा द्धादशी, तां
क्षत्रियस्य यजमानस्येच्छयादधाति अन्यस्य क्षत्रियपुरो-
हितव्यतिरिक्तस्य उभे उपोत्तमोत्तमे इच्छयाधीयेते, एवं
हि श्रूयते” श० ब्रा० (६, ६, ३, १२) क० । “एवं च
मति, उत्तमां पुरोहितस्य” ४२ सू० । “इच्छयादधाति”
क० । “उत्तमाम् बाहूइति” (११, ८२) संग्र० ।
“अन्यस्योभे” ४३ सू० । “अन्यक्षत्रियस्वापुरोहितस्य च
पृष्ठ ०९९५
एकादश भवन्ति त्रयोदश वा” क० । “क्षत्रियपुरो-
हितव्यतिरिक्तस्य द्वादशीत्रयोदश्याविच्छया भवतः” संग्र०
“स्वाहाकारः सर्वासूखायाम्” ४४ सू० । “उखाया-
माधीयमानासु समित्सु, अतोऽन्यत्रापि स्वाहाकारो
भवति सर्वास्वित्यभिधानात्” क० । “उखायां सर्वासु
समित्सु स्वाहाकारो भवति” संग्र० । “औद्ग्रभणादि
दण्डान्तमत्रैके” ४५ सू० । “एवं सति प्रागौद्ग्रभणहोमा-
दुखाधिश्रयणादि” तान्यु हैकौखायामेवैतान्यौद्ग्रभणानि
जुह्वतीति वचनात्” (६, ६, १, २२) क० । “अत्रावसरे”
संग्र० इति ४ कण्डिका ।
“यजमानः कण्ठे रुक्मं प्रतिमुञ्चते परिमण्डल-
मेकविंशतिपिण्डं कृष्णाजिननिष्यूतं लोमसु शुक्ल-
कृष्णेषु शणसूत्रे त्रिवृत्योतमुपरिनाभि बहिष्पिण्डं
दृशानो रुक्म इति” (१२, १) । “रुक्मं हि प्रकृत्य सर्व-
मेवैतच्छूयते (६, ६, १, २), यजमानग्रहणाच्च स्वय-
मेव यजसानः प्रतिमुञ्चते, द्वादशाहे च सर्वे यजमानाः
प्रतिमुञ्चैयुः अत ऊर्ध्वमिण्ड्वाद्यन्वारम्भः एवं हि सर्वैः
कृतं भवति” क० । “परिमण्डलं वर्तुलम्, एकविंशति-
पिण्डम् पिण्डं निर्बाधम् निर्बाध्यन्ते उन्नताः निःका-
श्यन्ते उन्नताः स्यरूपाद्बहिर्निःसृता भवन्ति, कृष्णाजिन
शुक्लकृष्णेषु लोमसु निष्यूतं नितरां स्यूतम्, पुनः कीदृ-
शम् त्रिगुणे त्रिवृति शणमये सूत्रे ओतं प्रोतम् तथा उप
रिनाभि, पुनः बहिष्पिण्डं बहिर्निर्बाधम्” संग्र० ।
“इण्ड्वशिक्यासन्दीषुंमुञ्जरज्ज्ववस्त्रिवृतो मृद्दिग्धाः” २ सू०
उखा याभ्यां गृह्यते तौ इण्ड्वौ, शिक्यं प्रतिद्धम्,
आसन्दी च । अनुरक्ता रज्ज्ववो मृद्दिग्धा भवन्ति” क० ।
“मृद्दिग्धाः कर्दमलिप्ताः” संग्र० । “परिमण्डलाभ्या-
मिण्ड्वाभ्यामुखां परिगृह्णाति नक्तोषासेति” (१२, २)
३ सू० । “हरति आवाक्षामेति” (१२, २) ४ सू० ।
“तामेवोखाम्” क० । “आहवनीयस्य पुरस्तादुद्गात्रा-
सन्दीवदासन्द्यां चदुरश्राङ्ग्यां शिक्यवत्यां निदधाति देवा
अग्निमिति (१२, २) ५ सू० । “उद्गात्रासन्दीवदिति
प्रादेशपादी गम्यते” (१३, ४, २) क० । सा च चतुरङ्गी
सह पादैः, तस्यां शिक्यवत्यामासन्द्या च, निदधाति
उखाम्” क० । “शिक्यपाशं प्रतिमुञ्चते षडुद्यामं विश्वा
रूपाणीति” (१२, ३) ६ सु० “ग्रीवायाम्” क० ।
“सशिक्यं प्राञ्चं प्रगृह्णाति सुपर्णोऽसीति” (१२, ४)
पिण्डवत् ७ सू० । “सह शिक्येन प्राञ्चमग्निं प्रगृह्णाति,
पिण्डवदित्यूर्ध्वबाहुः (३, ९) । “धारणं च” ८ सू० ।
“पिण्डवदेव उपरिनाभि” क० । अत्र द्वाभ्यामङ्काभ्यां
शुक्लयजुर्वेदस्याध्यायादि, त्रिभिरङ्कैः कात्यायनश्रौतसूत्रस्या-
ध्ययकण्ढिकादि । चतुर्भिरङ्कैः शतपथब्राह्मणस्याध्यायादि
ज्ञेयं तेन तत्तत्प्रतीकमात्रगृहीतमन्त्रसूत्रादि तत्तत्स्थाने
दृश्यम् विस्तरस्तु शत० ब्रा० ६ अ० दृश्या । लौकि-
केष्टरचितप्राचीरादौ इष्टकाघनफलेन इष्टकासंख्या-
ज्ञानोपायो दर्शितोलीला० यथा “चितौ करणरूत्रं
सार्द्धवृत्तम् । उच्छ्रयेण गुणितं चितेः किल क्षेत्रसम्भव-
फलं घनं भवेत् । इष्टकाघनहृते घने चितेरिष्टकापरि-
मितिश्च लभ्यते ॥ इष्टलोच्छ्रयहृदुच्छ्रितिश्चितेः स्युःस्तराश्च
दृषदां चितेरपि ॥ उदाहरणम् । अष्टादशाङ्गुलं दैर्घ्यं
विस्तारो द्वादशाङ्गुलः । उच्छ्रितिस्त्र्यङ्गुला यासामिष्ट-
कास्ताश्चितौ किल ॥ यद्विस्तृतिः पञ्चकराष्टहस्तं दैर्घ्यं
च यस्यां त्रिकरोच्छ्रितिश्च । तस्यां चितौ किं फलमिष्टकानां
सङ्ख्या च का ब्रूहि कति स्तराश्च ॥ इष्टकायाः घनहस्त-
मानम् (३३६) चितेः क्षेत्रफलम् ४० । उच्छ्रयेण ३ गुणितं
चितेर्घनफलम् १२० । यथोक्तकरणे लब्धा इष्टका सङ्ख्या
२५६० । स्तरसङ्ख्या २४ । एवं पाषाणचयेऽपि”
ऽव्यासात् षोड़शभागः सर्वेषां सद्मनां भवति भित्तिः ।
पक्वेष्टकाकृतानां दारुकृतानां च स विकल्पः । वृह० स० ।
“नेष्टकारचिते पितॄन् संतर्पयेत्” शङ्खलि० । “मृण्मयात्
कोटिगुणित फलं स्याद्दारुभिः कृतात् । कोटिकोटिगुणं
पुण्यं फलं स्यादिष्टकामये” मठ० त० पु० । वास्तु-
यागे ‘आकाशपदे’ इष्टकारोपाचारः वास्तु
यागशब्दे दृश्यः ।

इष्टकाचयन न० इष्टकयाऽग्नेश्चयनम् । इष्टकया अग्नेश्च-

यने तत्प्रकारः कात्या० श्रौ० सू० । “एतया विकृत्याभिमन्त्र्ये
केऽन्यचितं चिन्वन्ति द्रोणचिद्रथचक्रचित्कङ्कचित्प्रौगचिदु-
भयतःप्रौगः समुह्य पुरीषः” १६, ५, ९ । “एते ह्यग्नि-
विशेषाः तदाकारांश्चिन्वन्त्येके एके सुपर्णचितम् विलि-
ङ्गत्वादस्या विकृतेरग्न्यन्तरेष्वप्राप्तिर्मा भूदित्युच्यते एवं
हि श्रूयते “तं हैकएतय विकृत्याभिमन्त्र्यान्यां चितिं
चिन्वन्तीति” (६, ७, २, ८ शत० ब्रा०) क० । “विकृत्या
एतया ऋचा अन्यचितं षद्ध्विवधमन्यमग्निं चिन्वन्ति
तमेवाह द्रोणचिदित्यादि” संग्र० । “समुह्य पुरीषे प्रतिदिश
पुरीषाहरणम्” १० सू० । प्रतिदिशं पुरीषमाहृत्याहृत्य
तेनैव चयनम्” क० । “विष्णुक्रमान् क्रमते विष्णो-
पृष्ठ ०९९६
रिति” (१२, ५ यजु०) “प्रतिमन्त्रमग्न्युद्ग्रभणं च तस्मिं-
स्तस्मिन्” ११ सू० । “तस्मिन् क्रमणे” क० । “अक्रम-
श्चतुर्थे” १२ सू० । “उद्ग्रहणं तु भवत्येव” क० । दिशो
वीक्षते दिशोऽनुविक्रमस्वेति (१२, ५) १३ सू० “प्रतिदिशं
मन्त्रः” क० । “पिण्डवत्प्रागुदञ्चं प्रगृह्णात्यक्रन्ददग्नि-
रिति” (१२, ६) १४ सू० । पिण्डवदित्यूर्ध्वबाहुः
(३, ८) क० । “अवरोहत्यग्नेऽभ्यावर्तिन्निति” (१२, ७)
१५ सू० “प्रत्यवरोहत्यग्निम् यावत्कृत्य ऊर्ध्वोऽवरोहतीति”
(६, ७, ३, ६) “श्रुतेस्तद्वत्प्रत्यवरोहणम्” कर्कः । “उपरि-
नाभि धारयन्ना त्वाहार्षमित्यभिमन्त्रयते” (१२, ११) १६ सू० ।
“अग्निस्” क० । “पाशा उन्मुच्योदुत्तममिति” (१२, १२)
“पिण्डवत्प्राग्दक्षिणा प्रगृह्णात्यग्रे वृहन्निति” (१२, १३)
१७ सू० । “अवहरति हंसः शुचिषदिति” (१२, १४) ।
१८ सू० । “आसन्द्यां करोति वृहदिति” (१२, १४)
१९ सू० । “उपतिष्ठते सीद त्वमिति” (१२, १५) २० सू० ।
“वात्सप्रेण च दिवस्परीत्येकादशभिः” (१२, १८, २८)
२१ सू० । “उपतिष्ठते” क० । “अनुवाकेनैके” (१२, १८, २९)
२२ सू० । “उपतिष्ठन्ते” क० । “अत्र दीक्षितोऽयमिति”
२३ सू० । “अस्मिन्नवसरे दीक्षितोऽयमित्याह (७, ४, ११)
“दण्डात्ते ह्युखाधिश्रपणाद्युक्तम् अतः प्राकृतानुवृत्त्यर्थ-
मिदमुच्यते” क० । “आवृत्तिरतः संवत्सरम्” २४ सू० ।
“अत ऊर्ध्वं यदुच्यते तत् संवत्सरं यावदावर्तते” क० ।
“अत ऊर्ध्वं यत्कर्मोच्यते भस्मोद्वपनादि तस्य संवत्सरं
यावदावृत्तिर्भवति” संग्र० । ५ कण्डिका
“उखाया भस्मोद्वपनमस्तमिते पात्रे” १ सू० । “तच्च
प्राग्वाग्विसर्गात्” “भस्मोदुप्य वाचं विसृजत” इति श्रुतेः
(६, ७, ४, १४) क० । “भस्मोद्वपनं भस्मोद्धरणम्” संग्र० ।
“वाचं विसृज्य समिदाधानं रात्रीं रात्रीमप्रयावमिति”
(११, ७५) २ सू० । “एवमुदिते भस्मोद्वपनादि” ३ सू० ।
“कर्तव्यम् अयं तु विशेषः” क० । “अहरहरित्याधानम्”
(११, ३५) ४ सू० । “विष्णुक्रमवात्सप्रे चाहर्व्यत्यासमुदिते
सभिधमाधाय” ५ सू० । “अहर्व्यत्यासेन कर्तव्ये” क०
“अस्मिन्दिने विष्णुक्रमाः उत्तरस्मिन्वात्सप्रम् एवं
यावद्दीक्षं कर्तव्यम्” संग्र० । “रुक्मप्रतिमोचनादि प्राग्वात्स-
प्राद्विष्णुक्रमाः” ६ सू० । “तयोर्विभागमाह । साग्निके
क्रतौ संवत्सरं दीक्षा आम्नाताः संवत्सरमित्युपक्रम्य
चिन्वीतेति (१०, २, ६, ९) पवित्रे त्ततस्रो दीक्षा आम्नाताः
पवित्रश्चतुर्दीक्ष इति (१५, १, ४) तत्राग्नौ सति चिन्त्य-
ते किमग्निनिमित्ता दीक्षा भवन्तु उत सौमिक्य इति
उभयं चैतच्चरितार्थम् पवित्राद्बहिराग्निक्यश्चरितार्थाः
अनग्निके च पवित्रे सौमिक्य इति तेन साग्निमति
पवित्रं कथं भवत्विति नियमकारणाभावादनियमे प्राप्त
आह” क० “सोमाविरोधेन वा तत्प्रधान्यात्” ७ सू० ।
“सोमस्य प्रधानभूतत्वात् तदीया एव दीक्षा भवन्ति” क०
“सोमयागेनाविरोधः सोमाविरोघः तेनाविरोधेनैव दीक्षा
भवति वावघारणे कुतः तत्प्रधान्यात् सोमस्य प्राधान्यात्
अग्नेश्च तदङ्गत्वात् तेन द्वादशाहे वाजपेये द्वादश सप्त-
दश वा भवन्ति नाग्निप्रयुक्तसंवत्सरदीक्षाः” संग्र० ।
“न्यज्य समिधं व्रते प्रत्ते--प्रत्तेऽन्नपतैत्याधानम् । (११, ८३)
८ सू० “उख्येऽग्नौ यजमानः करोति” संग्र० । “संव-
त्सरभृतिनोऽसंवत्सरभृतेऽपि” ९ सू० । पूर्वं कस्मिं-
श्चिद्यज्ञे साग्निके येनैकवारं संवत्सरमुख्योऽग्निर्भृतो भवति
स संवत्सरभृती तस्यासंभृतेऽप्युख्येऽग्नौ चयनं भवति
(९, ५, १, ६५) संग्र० “संवत्सरं सोष्यतः” १० सू० ।
“संवत्सरमभिषवं करिष्यतः असंवत्सरभृतेऽपि चर्थनं
भवति (९, ५, १ ६६) क० । “संवत्सराहिताग्नेः” ११ सू० ।
“असंवत्सरभृतेऽपि चयनमिष्यते” (९, ६, १, ६७) क० ।
“जातस्य च” १२ सू० । “संवत्सरे जातस्य च असंवत्-
सरभृतेऽपि चयनं भवति” (९, ५, १, ६८) क० ।
“गर्भाधानदिनादारभ्य संवत्सरे पूर्णेऽतोते वा यो
जातस्तस्य भवति” संग्र० । “षाण्मास्यमन्त्यम्” १३ सू० ।
“अन्त्यं जघन्यमिदं पक्षान्तरम् षण्मासानुख्यभरणं कृत्वा-
ग्निश्चीयत इति (९, ५, १, ६३) क० । “षाण्मास्यं षण्मासा-
नुख्यमग्निं भृत्वा चयनं भवति” संग्र० । “अचयनं
वा परस्मै” १४ सू० । चयनं वेति विकल्पः एवं हि
श्रूयते (९, ५, २, १२) त्रयो ह वै” इत्युपक्रम्य परस्मै
करोतीति निन्दार्थवादः प्रतिषेधार्थः तस्मादप्येवंवित् कामं
परस्मा अग्निं चिनुयादिति ९, ५, २, ३, प्रतिप्रसवः अतः
प्रतिषेधप्रतिप्रसवाभ्यांविकल्पः” संग्र० । “प्रागनः कृत्वो-
ख्यस्योत्तरतः समिदाधानं समिधाग्निमिति (१२, ६०) १५
सू० । “उख्यपुरतः प्राङ्मुखमनः कृत्वोख्यएव समिदाधा-
नम्” क० । “सासन्दीकमुद्यम्योदुत्वेति (१२, ६१) दक्षिण-
तोऽनसि करोति” १६ सू० । “सासन्दीकमुख्यमुदु त्वेत्युत्-
क्षिप्यानसो दक्षिणतोऽवस्थितोऽनसि करोति” कर्कः ।
“स्थाल्यां गार्हपत्यं पश्चात्” १७ सू० । “अनसि करोति
दक्षिणाग्निं च वितृतीये करोति” क० । “अनड्वाहौ युक्त्वा
पृष्ठ ०९९७
प्रेदग्न इति (१९, ३९) प्राङ् यात्वा यथार्थम्” १८ सू० ।
“गच्छेत्” क० । “आरोहेत् पार्श्वतो गच्छेत्” १९ सू० ।
“यजमानः संस्कारात्” क० । “अक्षेखर्जत्यक्रन्ददग्निरिति
(११, ३३) जपति” २० सू० । “खर्जनं च शब्दकर-
णम्” क० । “वासेऽवहरत्युद्धतावोक्षितौत्तरतः
समिदाधानं प्र--प्रायमिति (१२, ३४) २१ सू० । “यत्र
वासस्तत्रैवावहरणम् न प्राग्वसतेः एवं ह्याह (६, ८, १, १२)
स यदि पुरावसत्यै विमुञ्चेतानस्येवाग्निः स्यादिति” वसत्यां
तु उत्तरतोऽग्नीनवतार्य समिदाधानं “प्र--प्रायमिति” ।
उद्धतावोक्षितग्रहणं च परिसमूहनाद्युपसंग्रहार्थमपि
स्मार्तं ह्येतदनूद्यते (६, ४, ४, १८) उद्वते वाऽअवोक्षिते-
ऽग्निमादधातीति” एवं च सति तदपचारे स्मार्तं प्राय-
श्चित्तम्” क० । “वासार्थे रथे उत्तरस्यां दिशि अग्निमव-
तारयति” संग्र० । “वनीवाहनमेतद्दीक्षासु यदेच्छेत्”
२२ सू० । “वनीवाहनमिति” संज्ञास्य कर्मणः सा च
संव्यवहारार्था “ऊर्द्ध्वं वनीवाहनादिति” (२५ सू०)
तच्च दीक्षासु कर्तव्यम् । यदेच्छोपजायते महावीरकरण-
यूपच्छेदनवनीवाहनानि दीक्षासु क्रियन्ते क्रमस्तु नैषाम्
पाठाभावात्” क० “अप्सूख्यभस्मावपनं क्रयणीयादौ”
२३ सू० । उख्यभस्मावपनमप्सु कर्तव्यम् आदौ क्रयणीय-
स्याह्नः” क० । “अन्यत्र चेच्छन्” २४ सू० । “करोति” क० ।
“ऊर्ध्वं वनीवाहनात् क्रमयोगात्” २५ सू० । अन्यत्रे-
च्छयाकुर्वन् वनीवाहनादूर्ध्वं करोति मन्त्राणां पाठक्रम-
योगात्” क० । “वनीवाहनादूर्ध्वं सोमक्रयदिने आदौ
अन्यत्र दीक्षा भस्मावपनम् । कुतः क्रमयोगात्
पूर्वं वनीवाहनमन्त्राः पश्चाद्भस्मापोऽभ्यहरणस्य” संग्र०
“पलाशपुटेनापो देवीरित्येकया (१२, ३५) २६ सू० ।
“पलाशपुटेन भस्म गृहीत्वाप्स्वावपति” क० । “ततोद्वाभ्या-
म्” (१२, ३६--३७) २७ सू० । “पुनश्चावपति द्वाभ्या-
मृग्भ्याम्” क० । “आद्याभ्यां (१२, ६५--३६) वा पूर्वम्”
२८ सू० । “पूर्वमावपनं द्वाभ्यामृग्भ्याम् तत एकयर्चा”
वाशब्दो विकल्पार्थः तुंल्यश्रुतित्वात्” क० । “अनामिकया
प्रास्तादादत्ते प्रसद्येति (१२, ३८--४१) २९ सू० । “प्रास्ता-
द्भंस्मनः कियदप्यनाभिकयादत्ते” (६, ८, २, ७) । “प्रास्यो-
खामुपतिष्ठते बोधा मैति” (१२, ४२) ३० सू० । “यत्त-
दात्तं भस्म तत्प्रास्य” क० । “प्रायश्चित्तिं समिधोप-
हत्य” ३१ सू० । ६ कण्डिका ।
“आज्यं विश्वकर्भखैति (१२, ४३) जुहोति” १ सू० ।
“प्रायश्चित्तिरित्यस्य होमस्य संज्ञा उपपूर्वश्च हन्तिर्ग्रह-
णार्थो दृष्टोऽन्यत्रापि “अथस्त्रुचोपहत्याज्यमिति (३, ४,
१, २५)” क० । “समिधा करणभूतया स्रुक्स्थानीयणा
उपहत्य गृहीत्वा” संग्र० । “उत्थाय दधाति समिधं
पुनस्त्वेति (१२, ४४) २ सू० । उत्थानग्रहणं च प्रति-
पत्तित्वात् गुणार्थं चेति । नैमित्तिकान्यत्रैव प्रकरणे पठ्यन्ते
तदर्थमाह” क० “गार्हप्रत्येऽनुगते निर्मथ्य” ३ सू० ।
“आदधाति मन्थनं प्राप्तत्वादवाच्यम् उच्यते प्रायश्चित्ता-
र्थम्” । “प्राजहिते उपशान्ते मथित्वा प्रायश्चित्ती करोति”
संग्र० । “सुत्यावाहनीये सांकाशिनेन हृत्वाः”
४ सू० । “सुत्यासु वर्तमानासु आहवनीयेऽनुगते सांकाशिनेन
हृत्वा तमादधाति” सांकाशिनशब्दः प्रगुणमेव हृत्वेत्यर्थकः
एतच्चोच्यते पूर्ववत्प्रणयनं मा भूदिति” क० । “आहवनीये
ऽतिप्रणीतेऽनुगते सांकाशिनेन हृत्वा ऋजुना सदोहवि-
र्धानमध्यमार्गेणैव हृत्वा” संग्र० । “आग्नीध्रीयमुत्तरेण
सदः” ५ सू० । “हृत्वा निदधाति उत्तरेण सदो हृत्वे-
तीध्मव्युदासार्थः” क० । आग्निध्रीयमग्निमनुगतं सदस
उत्तरेणैव हृत्वा” संग्र० । “प्रवृञ्ज्यादावृतोख्ये” ६ सू० ।
“उख्ये चानुगते पूर्ववत्प्रवृञ्ज्यात् अयं तु विशेषः आवृता
आवृद्ग्रहणं च मन्त्रनिवृत्त्यर्थम् । “एतयैवावृतानुपहरन्
यजुरिति (६, ६, ४, ९) श्रुतेः” क० । “उख्येऽग्नावनुगते
गार्हपत्यादाहवनीयमन्वग्निरित्याहृत्य (११, १७) समितमित्यु-
पस्थाय (१२, ५७) आवृता मन्त्ररहितकियामात्रेण पूर्व-
वदुखां प्रवृञ्ज्यात् उखामाहवनीयेऽधिश्रित्योख्यमग्नि-
मुत्पादयेत्” संग्र० । “अध्वरप्रायश्चित्तं च सर्वेषु
यथाकालं पूर्वां--पूर्वाम्” ७ सू० । “अध्वरप्रायश्चित्तिं च
करोति सर्वेषु निमित्तेषु तां च पूर्वाम् पूर्वां चशब्दा-
दाग्निकीं च । सर्वग्रहणं च भस्मापोऽभ्यवहरणार्थम् ।
(२ ३) तत्रापि हि विधीयेते (६, ८, २, ११) उभे प्राय-
श्चित्ती “करोतिये एवाग्नावनुगते इति” यथाकालमिति
चाध्वरप्रायश्चित्त्यर्थमुच्यते आग्निकी तु विश्वकमण-
इत्येव” क० “सर्वेषु पूर्वोक्तेष्वग्न्यनुगमेषु यथाकालं
परमेष्ठ्यादिकालाहुतिं (२६, ६, १) पूवां पूर्वां जुहुयात्
श्चादग्निप्रायश्चित्तिम् चकारात्” संग्र० “उखाभेदने
नवस्थाल्यां महामुख्यामुखाकपालमवधायावपति” ८ सू० ।
यद्येषोखाभिद्येतेति” (६, ६, ४, ८) प्रकृत्य सर्वमिदमाम्ना-
तम् एतच्चेकोखापक्षे भवति । त्रित्वपक्षे तु द्वयोरेवैकस्या-
मावपनम्” (६, ५, २, २२) क० । “उखोपशये पिष्ट्वा मृदा स-
पृष्ठ ०९९८
होखां करोत्यावृता” ९ सू० । “उखाखण्डमेकमुखायां
प्रक्षिप्तम् द्वितीयमुपशयया सह--पिष्ट्वा, आवृता मन्त्रमर्जम्,
आवृच्छब्देन क्रियामात्रमुच्यते तथा चोक्तम् (६, ६, ४,
२) एतयैवावृतानुपहरन् यजुरिति” क० । “आवृता
मन्त्ररहितेतिकर्त्तव्यतया” संग्र० । “पक्वायामावपति कपालं
च १० सू० । “पक्वायामुखायाम् अग्निं कपालं च” क० ।
“उखोपशये पिष्ट्वा संसृज्य निदधाति” ११ सू० । “उखा-
कपालमुपशयां च पिष्ट्वा संसृज्य स्थापयति” क० ।
इदानीं चयनप्रकारमाह । अभ्यात्मं चयनमुपविश्य”
१२ सू० । “आत्मनआभिमुख्येन चयनं कर्तव्यम् न
परागिति, तथा च नैरृतीषु वचनात्पराक्चयनमुक्तम् (७,
२, १, १३) । अपरो विशेषः” “सव्यबाहुमन्तरं कृत्वोत्तर-
लक्षणाभिरिष्टकाभिः” १३ सू०” । “चेतव्यः” क० । “नित्ये
सादनसूददोहसाउपधानादुत्तरे तया देवतया ता
अस्येति (१२, ५३, ५५,) १४ सू० । “सर्वास्विष्टकासु एते
नित्ये भवतः तया देवतयेति सादनम् ता अस्येति
सूददोहसाधिवदनम्” क० । “अविशेषोपदेशात्” १५ सू० ।
“अविशेषेण ह्यनारभ्य कञ्चिदिष्टकाविशेषमेते श्रूयेते” क० ।
“विशेषमनुपादाय सामान्येन तयोरुपदेशात् विधा-
नात्” संग्र० । “अनाम्नातप्रतिषेधाच्च” १६ सू० । “यत्र
नैरृत्यादिषु नाम्नायेते नित्ये संहितायां न पठ्येते तत्रा-
पि प्रतिषेधः श्रूयते (७, १, १, १४) सादनसूददोहसाधि-
वदतीति” “अतः प्रतिषेधात् सर्वत्राप्येते भवतः” संग्र० ।
“एकनोदनास्वेकदेशासु तन्त्रेण” १७ सू० । एकनोदना
अपस्या वपस्या इत्येवमादि, एकनोदना अपि यद्येकदेशा
भवन्ति, यथा तासामेव देशभेदः अपस्याः पञ्चपञ्चानूकान्ते-
ष्विति (१७, ६, २) अतश्च प्रत्यनूकं नित्ये, देशभेदे त्वसति
तन्त्रेणेति” क० । “एकनोदना एकं विधिवाक्यं यासां
ताः । एको देश एकमुपधानस्थानं यासां ताः तत्र
तन्त्रेण नित्ये भवतः” संग्र० । “आत्मनि यजुष्मतीः”
१८ सू० । “इष्टका उपदधाति न पक्षपुच्छयोः” क०
(८, ७, २, ३) । लोकम्पृणासु दशसु दशसु मन्त्रो लोकं
पृणेति (१२, ५४) । (९, १, २१२) १९ सू० । “आसा-
दनं च” २० सू० । लोकं पृणानाम्, सूददोहसाघिवदनं
तु भवति अप्रतिषिद्धत्वात्” क० । “प्रतिचिति द्वे--द्वे
उपधाय” २१ सू० । लोकं पृणामन्त्रवचनम्, पुनर्दशसु--दशसु ।
“प्रथमं द्वे--द्वे उपधाय तती दश--दशोपदध्यात्” संग्र० ।
“अयुग्मगणमध्यमानूके” २२ सू० । अयुग्मो य इष्टकागणो
यथा वालखिल्याः सप्त तासां मध्यमानूके उपधेये” क० ।
“त्रिपञ्चसप्रादिगणः” संग्र० । “एका च” २३ सू० ।
“या चैकेष्टका साप्यनूक एव, यथा विश्वज्योतिर्द्वियजु-
श्चेत्येवमादि” क० । “अभितोयुग्माः” २४ सू० । “अनूकमभि-
तोऽर्धार्धिकया युग्मा उपधीयन्ते” क० । “उदञ्चो वर्गाः
पूर्वापरे” २५ सू० । “यत्र पूर्वापरैति देशव्यपदेशः
तत्रोदग्लक्षणा इष्टकावर्गा उपधीयन्ते” क० ।
“तिर्यगमूकमभितोऽक्ष्णयावधिके पूर्वापरे देशे इष्टकानां वर्गाः
समूहाः उदग्लक्षणा उपधेयाः” संग्र० । “प्राञ्चो
दक्षिणोत्तरे” २६ सू० । “यत्र तु दक्षिणोत्तरव्यपदेशः
तत्र प्राग्लक्षणा इति” क० । “प्रागनूकभितोऽक्ष्णाया-
वधिके दक्षिणोत्तरे प्राञ्चः प्राग्लक्षणाः उपधेयाः”
संग्र० । “भिन्नकृष्णयोरचयनम्” (८, ७, २, १६) २७
सू० । “दीक्षाणामुत्तमेऽहनि वेद्यग्निमानम्” २८ सू० ।
“कर्त्तव्यम्” क० । “उख्यस्थानेऽर्धव्यामेन गार्हपत्यस्य
परिलिखति” २९ सू० । “मण्डलमिति शेषः” क० । “मण्ड-
लाद्वा प्रक्रमणमन्तःपात्यस्य” ३० सू० । “पूर्वार्धाद्व्यामस्य
त्रीन् प्राचः प्रक्रमान् प्रक्रामतीति वचनात् (१०, २, ३, १) ।
“पूर्वार्धादेव व्यामस्य प्रक्रमणम् न स्तम्भाद्धि प्रक्रमणमनग्नौ
चरितार्थम” क० । “वावधारण, मण्डलादेवान्तःपात्यस्य
क्रमणम् न पूर्वार्द्धात् स्तम्भात्” संग्र० । “पश्चाद्यूपावट्या-
त्पादमात्रे चित्यस्य” ३१ सू० । यूपावटे भवः शङ्कुर्यू-
पानट्यः तस्मात्पश्चात् पद्यालोकमात्रे चित्यस्याग्निक्षेत्रस्य
स्थानं भवति” संग्र० । “यजमानेनोर्ध्वबाहुप्रपदोच्छ्रि-
तेन समस्थितेन वा” ३२ सू० । (१०, २, २, ६) ।
“प्रपदोच्छ्रितः पादाग्रे व्यवस्थितः समस्थितः प्रसिद्ध
एव, तत्क्रियायानोदितत्वात्प्रक्रमणवदध्वर्युर्मा भूदिति
यजमानग्रहणम्” क० । ७ कण्डिका ।
“द्विपुरुषां रज्ज्वुंमित्त्वा” १ सू० । “द्विपुरुषांरज्ज्वुंभित्त्वेति
निगदे व्याख्यातम्” । “उभयतःपाशाम्” २ सू० । “मध्ये
लक्षणम्” ३ सू० । “अभितोऽर्धपुरुषयोश्च” ४ सू० । “मध्य-
मात्लक्षणात् पुरुषपञ्चमे” संग्र० “अर्धे च” ६ सू० । “पुरुष-
पञ्चमस्यार्धे” क० । “अनुपृष्ट्यामायम्य पाशयोः शङ्कू मध्ये
ऽर्धपुरुषयोश्च” ७ सू० । “पाशाउन्मुच्यार्धपुरुषीययोः
प्रतिमुच्य दक्षिणायाम्य मध्यमे नितोदं करोति” ८ सू० ।
“गर्तम्” संग्र० “उन्मुच्य पाशावेकं मध्यमे प्रतिमुच्य
दक्षिणाधिनितोदमायम्य मध्यमे शङ्कुः” ९ सू० । “तस्मिन्
पाशं प्रतिमुच्य पूर्वार्धे च दक्षिणायम्य मध्यमे शङ्कुः”
पृष्ठ ०९९९
१० सू० । “पश्चादर्धपुरुषे च” ११ सू० । “उन्मुच्य
पूर्वार्द्धात् पश्चार्धे प्रतिमुच्य दक्षिणायम्य मध्यमे शङ्कुः”
१२ सू० । “अभितोऽर्धपुरुषयोश्च” १३ सू० ।
“एवमुत्तरोऽन्तः” १४ सू० । “दक्षिणे पार्श्वे पूर्ववदाथम्य
पञ्चमभागीये शङ्कुः” १५ सू० । “तस्मिन् पाशं प्रतिमुच्य
पूर्वे चार्धपुरुषीये पञ्चमभागीयार्धपुरुषीययोः सन्निपात्य
तस्मिञ्छङ्कुः” १६ सू० । “एवं पश्चात्” १७ सू० ।
“एवमुत्तरः पक्षः” १८ सू० । “तथा पुच्छं वितस्त्या” १९ सू० ।
इच्छन् पक्षपुच्छाप्ययेषु चतुरङ्गुलंचतुरङ्गुलं संकर्षति विकर्ष-
न्यन्ते” २० सू० । “यत्र पक्ष आत्मानमप्येति स पक्षाप्ययः एवं
पुच्छाप्ययः । अप्ययेषुपक्षयोः पुच्छस्य च आत्मसम्बन्धिसमीपे
चतुरङ्गुलं चत्वारि--चत्वार्यङ्गुलान्युभयोः पार्श्वयोः सङ्कर्षति
सङ्कोचयति, तथा अन्ते पक्षपुच्छप्रान्ते उभयोः पार्श्वयोः
चतुरङ्गुलं विकर्षति विस्तारयति” संग्र० । “पञ्चारत्निः-
पुरुषो दशपदो द्वादशाङ्गुलं पदं प्रक्रमस्त्रिपदः
समविभक्तस्य” २१ सू० । “पञ्चारत्नयोः यस्य सः पञ्चभिर-
रत्निभिः पुरुषः दशभिः पदैः पुरुषो द्वादशभिरङ्गुलैः
पदम् इत्येवमर्थो न भबति इतः प्रागरत्न्यादीनां लक्ष-
णस्यानुक्तत्वेनासिद्धत्वात्, अतश्चैवम् पुरुषस्य समविभक्तस्य
यः पञ्चमो भागः सोऽरत्निः तस्य दशमो भागः पदम्,
पदस्य द्वादशो भागोऽङ्गुलम् त्रिभिः पदैरेकः प्रक्रमः
इति तु भवति पदस्य सिद्धत्वात्” क० । “परितत्य रज्ज्वा
सहितं बहीरज्ज्वेकषष्टे शते परिश्रितो मिनोति” २२
सू० । “रज्ज्वा परितत्य सर्व्वतोवेष्टयित्वा रज्वाबहिर्भागे
सहितं रज्जुसंलग्नं यथा भवति तथा एकषष्ट्यधिके द्वे
शते परिमिनोति” “क० “चतुर्णवतानि वा त्रीणि”
२३ सू० । चतुर्ण्णवत्यधिकानि त्रीणि शतानि” क० ।
“ऊर्ध्वाः शर्कराः खाते” २४ सू० । “उत्तरेषु पुरुषीये-
णैकशतविधात्” २५ सू० । “उत्तरेषु अष्टविधादिषु
चयनेषु आ एकशतविधात् एकशतविधचयनं यावत्
एकाधिकशतपुरुषात्मकपञ्चनवतितमचयनपर्य्यन्तम् पुरुषोयेण
एकैकपुरुषवृद्ध्या अग्निमान भवति तस्मादु सप्तविधमेव
प्रथमं विदधीतेति” (१०, २, ३, १८) क० “यथाग्निवेदीष्ट-
काप्रमाणम्” २६ सू० । वेदिश्च इष्टकाश्च वेदीष्टकाः तासां
प्रमाणं वेदीष्टकाप्रमाणम् तद्यथाग्नि भवति, अग्निमानमन-
तिक्रम्प यथाग्नि, यथाग्निक्षेत्रस्य प्रमाणं वर्द्धते तथा वेदि-
प्रमाणं वर्धते इष्टकाप्रमाणं च वर्द्धते, न हि वेदिवृद्धिं
विना तन्मध्ये वर्धितस्याग्नेर्मानं सम्भवति, नापि इष्टका न
बर्धिता वर्धितमग्निक्षेत्रं पूरयितुं शक्रुवन्ति, अती
युक्तमुभयोर्वृद्धिः” क० । “अन्तःपात्यगार्हपत्ययोरिच्छन्”
२७ सू० । “पूर्वार्धाद्यामस्य त्रीन् प्राचः स वेद्यन्तः प्रक्रमः
प्रक्रमति” (१०, २, ३, १) यः प्रक्रमत्रयपरिमितो देशः
सोऽन्तःपात्य उच्यते, तस्यान्तःपात्यस्य गार्हपत्यस्य गार्ह-
पत्यचितेश्च इच्छन् इच्छया वृद्धिंकुर्य्यात् इच्छया न
कुर्य्यात् तद्धैकौत्तरा” श्रुतेः (१०२, ३, ६) क० । “उत्तर-
पक्षस्यापरस्यां स्रक्त्यां परिश्रितो मिनोति जङ्घामात्रीं
नाभिमात्रीं मुखमात्रीमिति” २८ सू० । “अग्नेरुत्तरप-
क्षस्यापरस्रक्त्यां पश्चिमकोणे एवम्प्रमाणास्तिस्रः परिश्रितो
मिनोति” क० । अत्रसर्व्वत्र चतुरङ्कैः शतपथब्राह्मणा-
ध्यायादि बोध्यम् । त्रिभिः कातीयश्रौतसूत्राध्यायादि
द्वाभ्यां शुक्लयजुर्वेदाध्यायादि तेन तत्तत्स्थाने अत्रोक्तप्रती-
कयुक्तमन्त्रमूलवाक्यादिकं दृश्यमिति सङ्केतज्ञापनम् । विस्त-
रस्तु शतपथब्राह्मणे लिखिताङ्क सूचिताध्यायादौ दृश्यः ।

इष्टकापथ न० इष्टकायामपि पन्था यस्य अच् समा० इष्टं

कापथं यस्याधोमुखवायुकरणात् । १ वीरणमूले । इष्टकया
निर्मितः पन्था अच् समा० । इष्टकानिर्मिते २ पथि पु० ।

इष्टकाव त्रि० इष्टका अस्त्यर्थे व । इष्टकायुक्ते ।

इष्टकावत् त्रि० इष्टका + चतुर्र्थ्यां मध्वादि० मतुप् मस्य वः ।

इष्टकासन्निकृष्टदेशादौ स्त्रियां ङीप् ।

इष्टगन्ध पु० कर्मधा० । १ सुगन्धौ । इष्टोगन्धोऽस्य । २

सुगन्धिद्रव्ये त्रि० ३ वालुकायां न० मेदि० ।

इष्टतम त्रि० अतिशयेन इष्ट + तमप् । १ प्रियतमे २ अतिशया-

भीष्टे “यद्यदिष्टतमं लोके” गीता । द्वयोर्मध्ये अतिशयेन
इष्टः तरप् । इष्टतरः द्वयोर्मध्ये अतिशयेन इष्टे त्रि० ।

इष्टदेव पु० इज्यते यज--कर्मणि क्त कर्मधा० । १ पूज्ये देवे

तन्त्राद्युक्तविधानेन यस्य मन्त्र उपास्यतया गृहीतस्तस्मिन्
२ देवे च । इष्टदेवताष्टयोप्यत्र स्त्री ।

इष्टनि त्रि० यज--तनिक् संप्र० इप--तनिक् वा । १ यष्टव्ये

२ एष्टव्ये च । “तुविष्वणिरप्नस्वतीषूर्वरास्विष्टनिरार्त्तना
स्विष्टनिः” ऋ० १, १२७, ६ । “इष्टनिरेष्टव्योयष्टयो
वा” भा० ।

इष्टप्रयोग पु० इष्टस्य शिष्टप्रयुक्ततया

निश्चितस्य प्रयोगः । व्याकरणोक्तसंस्कारानुसारेण प्रयोगे ।

इष्टवत् न० यज--इष वा क्तवतु स्त्रियां ङीप् । १ यजनकर्त्तरि

२ इच्छायुक्ते च । “इष्टं वेदाध्ययनादिः साध्यतयाऽस्त्यस्य
मतुप् मस्य वः । ३ इष्टकर्म्म कर्त्तरि । वेदे तु पूर्ब्बपददीर्घः
इष्टावान् “इष्टावन्तोरातिषाचोदधानाः” अथ० १८, ३,
पृष्ठ १०००
२० । “इष्टिभिः पशुबन्धैश्च चातुर्मास्यैस्तथैव च । अग्नि-
ष्टोमादिभिर्यज्ञैर्येन चेष्टं स इष्टवान्” व्यासोक्ते ४ इष्ट्यादि
कारिणि त्रि० । स्त्रियां ङीप् ।

इष्टव्रत त्रि० इष्टं व्रतं यस्य । १ व्रतशीले इष्टानि कल्याणानि

व्रतानि कर्म्माणि सिध्यन्ति येन । २ इष्टकर्म्मसाधने अन्नादौ
“इष इष्टव्रता अकः” ऋ० ३, ५९, ९ । “इष्टानि कल्या-
णानि व्रतानि कर्माणि याभिः सिध्यन्ति ता इवः अन्नानि”
भा० ।

इष्टसाधन न० ६ त० । अभीष्टसाधने इच्छाशब्दे

उदाहृतिः । ततो भावे त्व । इष्टसाधनत्व तद्भावे न० ।
तल् । इष्टसाधनता तद्भावे स्त्री ।

इष्टा स्त्री इज्यतेऽनय यज--करणे बा० क्त । शमीवृक्षे राज

नि० तत्समिधा हीज्यते इति तस्याः तथात्वम् कर्म्मणि
क्त । अभिमतायां स्त्रियाम् ।

इष्टाकृत त्रि० अनिष्टमिष्टं कृतम् इष्ट + च्व्यर्थे डाच् कर्म्मणि

क्त । इष्टीकृते “सतामिष्टाकृतं नाम पूर्वावरसह-
स्रिकम्” रामा० ।

इष्टादि पु० “इष्टादिभ्यश्च” पा० सूत्रेण तत्कृगमनेनेत्यर्थे

विहितेनिप्रत्ययनिमित्तभूतशब्दसमूहे स च गणः । “इष्ट
पूर्त्त उपसादित निगदित परिगदित परिवादित निकथित
निषादित निपठित संकलित परिकलित संरक्षित
परिरक्षित अर्च्चित गणित अवकीर्ण अयुक्त गृहीत आम्नात
श्रुत अधीत अवधान आसेवित अवधारित अवकल्पित
निराकृत उपकृत उपाकृत अनुयुक्त अनुगणित अनुपठित
व्याकुलित” आकृतिगणस्तेन “हठेन पठिती मास्मिन्
खलः खेलतु” नैष० ।

इष्टापत्ति स्त्री ६ त० कर्म्मधा० वा । १ इष्टस्यापत्तौ इष्टा-

यामापत्तौ च वादिना दर्शितापत्तेः प्रतिवादिन इष्टत्वे
हि सा भवति । “इष्टापत्तौ दोषान्तरमाह” जग० ।

इष्टापूर्त्त न० इष्टं च पूर्त्तञ्च द्वयोः समाहारः पूर्वपद-

दीर्घः । इष्टशब्दोक्ते अग्निहोत्रादौ “वापीकूपतड़ागादि
देवतायतनानि च । अन्नप्रदानमारामः पूर्त्तमित्यभिधी-
यते” इति मनूक्ते पूर्त्ते च । “वितथन्तु वदेयुर्य्ये धर्मं
प्रह्लाद पृच्छते । इष्टापूर्त्तञ्च ते घ्नन्ति सप्त सप्तपरावरान्”
मा० स० ६६ अ० । “इष्टापूर्त्तेन च तथा वक्तव्यमनृतं
न तु” आ० प० १९५ अ० । “इष्टापूर्त्तफलं न स्यान्न शिष्योन
गुरुर्भवेत्” भा० व० ३२ अ० । क्वचित् इतरेतरद्वन्द्वोऽपि
द्वि० ब० । “ईष्टापूर्त्ते संसृजेथामयञ्च” यजु० १०, ५४ ।

इष्टार्थोद्युक्त त्रि० इष्टे अर्थे उद्युक्तः । उत्सुके इष्टार्थ

लाभाय त्वरमाणे कालासहिष्णौ ।

इष्टाश्व त्रि० इष्टोऽश्वोयस्य । १ प्रियहये २ राजभेदे पु० ।

“किमिष्टाश्व इष्टरश्मिरेतः” ऋ० १, १२२, १३ । “इष्टाश्व
एतन्नामको राजा” भा० ।

इष्टि स्त्री यज--क्तिन् । १ यागभेदे । स च कात्या० श्रौ० सू०

दर्शितः “कर्मशब्दो द्रव्यदेवतायुक्तो यजतिः” । ४, ३, १, सू०
“क्रियाशब्दः आख्यातप्रत्ययान्तो निर्वपत्यादिशब्दो
यजतिः प्रत्येतव्यः यागो ज्ञेय इत्यर्थः न निर्वापालम्भादिरूप-
संस्कारमात्रविधायकः यजतिशब्दोऽत्र तदर्थयागपरः ।
एवंयागत्वे सिद्धेऽपि इदं संदिह्यते सौर्यं चरुं निर्व-
पेदग्निषोमीयमजमालभेतेत्यादौ किं यागमात्रं भवति
उत धर्मा अपि भवन्तीति यदा च धर्मा भवन्तीति पक्ष-
स्तदापि संदेहः किं पूर्णाहुतिसम्बन्धिनी धर्मा भवन्ति
उताग्निहोत्रसम्बन्धिनः, आहोस्विद्दर्शपूर्णामासयोः, अथवा
ज्योतिष्टोमस्येति, अथवा दर्शपूर्णमासयोरेवेति, । धर्मा-
णामनाम्नानाद्यथाश्रुतं यागमात्रं कर्तव्यमिति प्राप्ते आह”
क० “दर्शपूर्णमासधर्मा इष्टिपशुषु सामर्थ्यात्” २ सू० ।
सौर्यादौ धर्मा भवन्ति न यागमात्रम् एवमेतानि विधिवाक्यानि
समर्थान्यर्थवन्ति सप्रयोजनानि भवन्ति अन्यथा साकाङ्क्ष-
त्वादर्थप्रतिपादनाभावेन निरर्थकान्येव स्युः । तथा हि
सौर्येण यागेन ब्रह्मवर्चसं भावयेदित्यत्रांशत्रयवती भावना
विधीयते किम्, केन, कथमिति, किमंशो ब्रह्मवर्चसम्,
तत्र केनांशः सौर्येणेति, कथमं शस्तु वाक्यमध्ये नास्ति तेन
कथं भावयेदिति वाक्यं कथमंशसापेक्षम् । यच्च सापेक्षं
भवति तदध्याहारेणानुषङ्गेण वा पूरयित्वा निराकाङ्क्षं
कर्तव्यम् । अन्यथा तस्यानर्थक्यापत्तेः न च वेदे मात्रा-
मात्रस्य तदिष्यते तस्मादत्र निराकाङ्क्षीकरणाय विध्यन्ते-
तिकर्तव्यतापरपर्यायः कथमंशोऽत्र कश्चिदनुषञ्जनीय इति
सिद्धे आह “दर्शपूर्णमासधर्म्मा इष्टिपशुषु सामर्थ्यादिति”
सर्वासु इष्टिषु अग्नीषोमीये पशौ च दर्शपूर्णमासयोरेव धर्मा
भवन्ति सामर्थ्यात् पूर्वोक्त एव हेतुरत्रापि योज्यः । दुर्शपूर्ण-
मासधर्मा एव सौर्यादिविधीनां शेषीभवितुं समर्थाः चरुपु-
रोडाशादयो ह्यवघातादिभिरेव सिध्यन्ति नाभिषवादिभिरि-
ति । इष्टिपशुष्विति इष्टिषु सर्वासु अग्नीषोमीये पशौ च
पश्वन्तरेषु ह्यग्नीषोमीयधर्मा भवन्ति” क० । इत्यारभ्य
पञ्चविंशत्या सूत्रैस्तद्विशेष उक्तस्तत्र विस्तरेणावसेयः ।
तधा च दर्शपौर्णमासेतिकर्तव्यताको यागभेद इष्टिरग-
पृष्ठ १००१
न्तव्या । तत्करणप्रकारः आश्वला० श्रौ० सूत्रे दर्शितो
“यथा पौर्ण मासेनेष्टिसोमा उपदिष्टाः” । २, १, १, प्रथमेऽ-
ध्याये दर्शपूर्ण मासौ व्याख्यातौ विध्यन्तरसहितौ । उत्त-
रत्नेष्टयः पशवश्च वक्ष्यन्ते विध्यन्तरविहिताः । तेषां
विध्यन्तरापेक्षास्ति” “अतोऽयमर्थः सूत्रस्य, यस्मिञ्छास्त्रे
उपदिष्टा इष्टयः पशवश्चापि अविशेषिताज्यभागास्ते सर्वे वार्त्र-
ष्नाज्यभागा इति” । “पौर्णमासेनेत्यस्यायमर्थः, पौर्णमासेन
व्याख्याता इति वार्त्रघ्नाज्यभागा इत्यथः । तेन
समाम्नातानामिष्टीनां पशूनाञ्च अन्यदेवतागममात्रः सिद्धो
भवति । तथा चोक्तमिष्ट्ययनप्रकरणे “असमाम्नातास्वर्थात्
तन्त्रविकारः” नारा० वृत्तिः तस्य कालस्तत्रेव दर्शितः यथा
“तैरमावास्यायां पौर्णमास्यां वा यजेत” सू० २, १, २, “तैरि
ष्टिपशुसोमैरमावास्यायां पौर्णमास्यां वा यागः कर्तव्य इति
इष्टिपशूनां प्रकृतिप्राप्त एवायं कालः पुनर्विधीयते द्व्यह-
कालतां निवर्त्य सद्यस्कालताप्राप्त्यर्थम् । किञ्च दर्शप्रकृतेर-
मावास्या पौर्णमासप्रकृतेः पौर्णमासीत्येवं नियमं निवर्त्य
अनियमेन उभयकालताप्राप्त्यर्थम् । प्रकृत्यविरोधात् पर्व-
णस्तद्वत्यहोरात्रे विकृतिः कर्तव्या । यहाह्नः पूर्वभागे पर्व
स्यात् तदा प्रकृतिं कृत्वा विकृतिः कार्या । यदा परभागे
रात्रौ वा तदा विकृतिं कृत्वा प्रकृतिः कार्येति सोमस्या-
यमप्राप्तः कालो विधीयते । इष्ट्यादिशब्दसम्बन्धादेव
यजेतेत्यपि सिद्धे यजेतेतिवचनं सोमस्य याग एवानयोः
कालयोः सम्पादनीयो नान्यत् दीक्षादीति” वृत्तिः । “राजन्य-
श्चाग्निहोत्रं जुहुयात्” ३ सू० । “क्षत्रियस्याग्निहोत्रहोमः
पर्वणोरेव कर्तव्यो नान्यस्मिन् काल इति चशब्दाद्वैश्योऽप्य-
नयोरेव कालयोरग्निहोत्रं जुहुयात् नान्यस्मिन्नित्य-
वगम्यते । तत्र विशेषमाह” वृत्तिः । “तपस्विने ब्राह्मणायेतरं
कालं भक्तमुपहरेत्” ४ सू० । “तपस्वी कर्मनिरतस्तस्मै ब्राह्मणाय
अतपस्विनेऽपि ब्राह्मणायैव दद्यात् न जात्यन्तराय तपस्वि-
नेऽपीति । इतरं कालमिति, इतरेषु सर्वेष्वग्निहोत्रकाले-
ष्वित्यर्थः । भक्तमुपहरेत्, भक्तं पक्वोदनं पक्वान्नमुपहरेत्,
दद्यात् । एतदुक्तं भवति । राजन्यवैश्ययोः पर्वण्यग्नि-
होत्रकालद्वयं वर्जयित्वा इतरेषु कालेषु ब्राह्मणायोदनो
दातव्योन होमः कर्तव्य इति । अग्निधारणन्तु क्रियत एव”
वृत्तिः । ततोऽग्न्याधानं प्रसङ्गादुक्तं तच्चाधानशब्दे पूर्वं
दर्शितम् अग्न्याधानोत्तरं कर्त्तव्यमाह “यदि त्विष्टय-
स्तनुयुः” २, १, १८, सू० “अग्नीनेवेति वाक्यशेषः । यद्य-
नधिकारत्वादाधानविधेर्विनियोजकस्य प्रकरणस्य व्यापारा-
सम्भवादाधानाङ्गमिष्टयो न स्युः, इष्टीनाञ्चानधिकारत्वा-
दिष्ट्यङ्गमाधानं न स्यात्, तथापि न कश्चिद्दोषः, अग्न्यर्थ-
त्वेनैवोभयोरप्यनुष्ठानसिद्धेः” । “अस्मिन्नर्थे सूत्रयोजना ।
यद्यासामिष्टोनामाधानाङ्गता स्यात् तथापि आहवनीया-
द्यग्निसम्बन्धात् तानेवाग्नीनिष्टयस्तनुयुः विस्तारयेयुः
कुर्युः साधयेयुरित्यर्थः । तुशब्दस्तु साधनादिषु विशेषं
दर्शयति । आधानेऽग्नीनां साध्यत्वेन सम्बद्धानामेव
साध्यत्वम् । इष्टिषु साधनत्वेन सम्बद्धानामपि कल्पना-
गौरवभयात् साध्यत्वमिति विशेषं गृह्णीमः एवं यद्या-
धानेनेष्टिभिश्चाग्नय एवांशतः साध्या इत्यनधिकाराणां
कथमनुष्ठानसिद्धिरिति न्यायाविदामेष उपालम्भो नास्मा-
कम् । अस्माकं तु साध्यसाधनसम्बन्धेऽवगते तदर्थिनां
कर्तृत्वेनावगतानां ब्राह्मणादीनां कथञ्चिदधिकारकल्पन-
यानुष्ठानसिद्धिः । अथवाऽनधिकाराणामनन्यशेषाणामपि
तत्साधनसाध्यरूपेणोपकारकत्वेन कामं श्रुतिप्रयुक्त्यैवंवि-
धानामनुष्ठानसिद्धिरित्यलमतिविस्तरेण” नारा० वृत्तिः ।
“प्रथमायामग्निरग्निः पवमानः” १९ सू० । “प्रथमाया-
मिष्टौ द्वे देवते । अग्निः प्रथमः केवलः । द्वितीयः
पवमानगुणकोऽग्निः । केवलस्याग्नेर्नित्ये एव । “अग्न
आयूंषि पवसेऽग्ने पवस्व स्वपाः” २० सू० । “एते द्वितीयस्य
पवमानगुणकस्य” वृ० । “स हव्यवाडमत्याऽग्निर्होता पुरो-
हित इति स्विष्टकृतः संयाज्ये इत्युक्ते सौविष्टकृती प्रती-
यात्” २१ सू० । “सौविष्टकृत्योर्याज्यानुवाक्ययोरृचोरनेन
संयाज्ये इति संज्ञा विधीयते” वृ० । “सर्वत्र देवतागमे
नित्यानाभपायः” २२ सू० । “सर्वत्रेति प्रकरणान्तरे-
ऽपीति दर्शयति । देवतागम इत्यत्र समासनिर्देशस्य
तुल्यत्वाद्देवतायाः देवतयोर्देवतानां वा आगम इत्येवं
भवति । नित्यानां प्राकृतीनामित्यर्थः । अपाय उद्धार
इत्यर्थः । एतदुक्तं भवति । विकृतौ देवतायाः एकस्या
आगमे द्वयोर्बह्वीनां वा अनागमेऽपि प्राकृतीनां सर्वा-
सामुद्धार इति स्यां पुनर्विकृतौ इष्टिनोदनां कृत्वा
देवतां न विदधाति, तत्र नोद्धारः प्राकृतोनाम् । तत्र
ता एव देवता भवन्तीत्यर्थः । यथा गदितः सोमेन पशुना
इष्ट्या वा इत्यादौ” वृ० । “याः स्विष्टकृतमन्तराज्यभागौ च
तास्तत्स्याने” २३ सू० । “नित्यानामपाय उक्तः । तत्र किं
सर्वा नित्या उद्धतेव्याः उत काचिद्देवतेत्येतं संशयं निवर्त-
यति या आज्यभागौ स्विष्टकृतं चान्तरा देवता यष्टव्यास्ता
उद्वर्तव्याः । याः पुनर्विकृतौ विहितास्तास्तत्स्थाने उ-
पृष्ठ १००२
द्धृतानां प्रांकृतीनां स्थाने भवन्ति” इति वचनात्, तद्ध-
र्मिकाश्च भतन्तीति गम्यते” वृ० । “एष समानजातिधर्मः”
२४ सू० । “योऽयमतिदिष्टो विधिर्देर्वताभ्योऽन्यत्रापि स
समानजातीयेषु भवति । समानजातीय एककार्य इत्यर्थः”
वृ० । “द्वीतोयस्यां वृधन्वन्तौ अग्निः पावकोऽग्निः शुचिः
स नः पावकदीदिवोऽग्ने पावकरोचिषाग्निः शुचिव्रततन
उदग्ने शुचयस्तव” २५ सू० । “एकः पावकगुणकोऽग्निः,
अपरःशुचिगुणकः । “साह्वान् विश्वा अभियुजोऽग्निमीले
पुरोहितमिति संयाज्ये तृतीयस्यां सामिधेन्यावावपते प्रागु-
पोत्तमायाः पृथुपाजा अमर्त्य इति द्वे” २६ सू० । “आवपते
इति वचनात् अधिके एते सामिघेन्यौ भवतः । प्रथ-
मायां द्वितीयस्यां तृतीयस्यामिति वचनात् यस्यामिष्टौ
यत् तन्त्रं विहितं तस्यामेकदेवतायामपि तत् तन्त्रं भवति
न यथोक्तनानादेवतायामेवेति” वृ० । “ध्याय्ये इत्युक्त एते
प्रतीयात् पुष्टिमन्तावग्निना रयिमश्नवद्गयस्फानो अमीवहेति ।
अग्नीषोमाविन्द्राग्नी विष्णुरिति वैकल्पिकानि” २७ सू० ।
“त्रयाणामेको गृह्यते” वृ० । “अदितिः” २८ सू० ।
अदितिश्चान्या, अस्यां द्वे देवते” वृ० । “उत त्वामदिते
सुव्रतानामृतस्य पत्नीमवसे हुवेम तुविक्षत्रामजरन्तीमुरूचीं
महि महीमूषु मातरं सुशर्माणमदितिं सुप्रणीतिम्”
२९ सू० । “एषा कल्पजा” वृ० । “प्रेद्धो अग्न
इमो अग्न इति संयाज्ये विराजावित्युक्त एते प्रतीया-
दिति तिस्रः” ३० सू० । “इत्येतास्तिस्र इष्टयोऽनु-
क्रान्ता इत्यर्थः । उक्तानुकीर्त्तनमुत्तरार्थम् । यदाद्योत्तमे
वैव स्यातामाद्या वेति पक्षस्तदापि तिसॄणामिष्टीनां
यावत्यो देवतास्ताः सर्वा यष्टव्या इत्येवमथेम् । आद्योत्तमपक्षे
मध्यमायां ये देवते ते आद्यायामेव प्रक्षेप्तव्ये । यदा
पुनराद्यैव तदा सर्वा देवता आद्यायामेव प्रक्षेप्तव्या इत्येव-
मर्थम्” वृ० । “आद्योत्तमे वैव स्याताम्” ३१ सू० ।
“इष्टी इति शेषः । “आद्या वा” ३२ सू० । “आद्यैव-
वेष्टिर्भवतोत्यर्थः” वृ० । “तथा सति तस्यामेव धाय्ये
विराजौ” ३३ सू० । “यद्याद्यैव भवति तदा द्वितीय-
तृतीययीरपि देवतास्तत्र भवन्तीत्युक्तम् । अतस्तस्यामेव
धाय्ये विराजौ भवतः । धाय्याविराजामनुप्रवेशस्य
निमित्तं तृतीयस्या इष्टेर्देवतानुप्रवेश इत्येवमर्थं तथा
सतीत्युक्तम्” वृ० । “इतिमात्रे विकारे वैराजतन्त्रेति प्रती-
यात्” ३४ सू० । “पौर्णमासतन्त्रायामिष्टौ धाय्याविराण्-
मात्रे विकारे सति सेष्टिर्वैराजतन्त्रेति वेदितव्या” वृ० ।
“आधानाद् द्वादशरात्रमजस्राः” ३५ सू० । “अत्रा-
धानमिष्टीश्चोक्त्वा आधानादूर्द्ध्वं द्वादशरात्रमजस्रा इत्यु-
क्तम् । तस्यायमभिप्रायः, यावता कर्मसमुदायेनाग्नीनां
सिद्धिर्भवति तावतः कर्मसमुदायस्याधानशब्दो वाचक इति
ज्ञापयितुम् । तेनाग्न्याधेयं पुनराधेयं वेत्यत्र सेष्टिकस्या-
धानस्य ग्रहणं भततीति सिद्वम् । आधानेनेष्टिभिश्च
सिङ्गाग्नयो द्वादशाहोरात्राणि सर्वे स्वरूपेणैव धार्यन्ते ।
एतदजस्रधारणमग्निहोत्रपूर्व एवाधाने भवति, अग्नि-
होत्रस्यैवानन्तरमुच्यमानत्वात् । अनुष्ठानक्रमेणैव कर्मणां
व्याख्यानमित्युक्तत्वाच्च” वृत्तिः । एवमिष्टिसामान्यं प्रदर्श्य
विशेषेष्टयस्तत्र दर्शिताः तत्रादौ नवशश्येष्टिः साचाग्रायण-
शब्दे दर्शिता तत्र राज्ञ एवाधिकारः त्रयाणां वर्ण्णानाम-
विशेषेणेतिकल्पद्वये प्राप्ते राज्ञो विशेष उच्यते “इष्टिस्तु
राज्ञः” “सर्व्वेषां चैके एके सर्वेषामिष्टिरेवेति मन्यन्ते”
२, ९, ६, ७, । “श्यामाकेष्ठ्यासौम्यचरुः स च वर्षत्तौ तत्र
याज्यादिकं २, ९, ८, ९, १०, सू० उक्तम् । अन्यनवान्नभोज-
ने जप्यमन्त्रादिकमुक्तम् १२, १३ । एतानित्या इष्टयः
अथकाम्याः इष्टयः २, १०, १२, सूत्रादौ । तत्र आयुष्कामे-
ष्टिस्तत्र अग्निगुणभेदजीवातुमद्देवता २, १०, २, ३, ४, सू० ।
स्वस्त्ययनेष्टिः रक्षितवद्देवताका तत्र याज्यादिकम् ५, ६, ७,
पुत्रकामेष्टिः पुत्रयद्गुणकाग्निदेवताका तत्र याज्यादि ८, १,
१०, वैमृधेष्टिः विमृद्गुणकेन्द्रदेवताका तत्र याज्यादिकं
१३, १४, १५, सू० । आशेष्टिराशापालदेवताका तत्र याज्या-
दिकम् १७, १८, सू० । लोकेष्टिः पृथिव्यन्तरिहदेवताका
तत्र याज्यादिकम् २०, २१, २२, सू० मित्रप्राप्ति-
कामेष्टिः अग्निसोमवरुणमित्रेन्द्रवृहस्पतिसवितृपूषन्
स्वरस्वतादेवताका तत्र याज्यादि ११, २, ३, ४, ३ । इयमिष्टिः
महावैराजीनामा । अभिचारकामेष्टिः स्नुषाश्वशुरीयनाम्नी
सूरगुणकेन्द्रदेवताका तत्र याज्यादि ११, ७, ८, ९ । विमत-
सम्मतिकामेष्टिः संज्ञानी नाम वसुरुद्रादिगुणकाग्निसोमादि
चतुष्टयदेवताका तत्र याज्यादि १०, ११ । भेदकामेष्टिः ।
इन्द्रामरुद्देवताका तत्र याज्यादि १३, १४, १५, १६, सू० ।
सम्पत्तिकामेष्टिः ऐन्द्रामारुती संज्ञानोवत् याज्यादिकम् ।
१७, सू० । शत्रभिभवनिवृत्तिकामेष्टिः ऐन्द्रावाहेस्पत्या
तत्र याज्यादि १८१९ सू० । पवित्रेष्टिः । अग्न्यादिदेव-
ताका तत्र याज्यादि २, १२, १ । “वैश्यानरीं व्रातपतीं
पवित्रेष्टिं तथैव च । ऋतावृतौ प्रयुञ्जानः पुनाति दशपौ-
रुषम्” । वृष्टिकामेष्टिः कारीरी नाम सा च अग्न्यादि-
पृष्ठ १००३
नानादेवताका अग्निदेवताका वा तत्र याज्यादि २, १२, १, ३,
४, ५, ६, ७, ८, ९, सू० । सर्वाश्च एता दर्शपौर्णमासेतिकर्त-
व्यताकाः । पश्रुगुणके कर्म्मणि पशोरुभयतोऽन्यतरतो वा
पशुकामेष्टिः सा च आग्नेयी आग्नावैष्णवी वा आश्व०
श्रौ० सू० ३, १, २, ३, ४ सू० । तस्यामितिकर्त्तव्यतायाज्यादि
तदुत्तरसूत्रजातैरुक्तम् । विध्यपराधप्रायश्चित्तीष्टिः ३,
१०, १, सू० विध्यपराधस्वरूपकारणप्रदर्शनपूर्बकं तत्करण-
प्रकारादि तदुत्तरसूत्रजौर्दर्शितम् । वारुणीष्टिः
तत्प्रकारादि ३, १२, ५, प्रातःकालातिपत्तौ प्रातरिष्टिः तत्र
देवतादि ३, १२, १२, आर्त्त्याश्रुपात्रे च सैवेष्टिः ३, १२, १५
निमित्तभेदेर्य्य प्रायश्चित्तीष्टौ देवताभेदादि ३, १२, १६,
आरम्य आध्यायात् सूत्रैरुक्तम् । उखासम्भरणीयेष्टिः
तद्देवतादि ४, १, २१ २६ सू० । दीक्षाप्रयोजनेष्टिः दीक्ष-
णीया नाम तत्रदेवतादि ४, २, १, १८, सू० पर्य्यन्तेनोक्तम् ।
प्रायणीयेष्टिः तत्र देवतादि ४, ३, १ सूत्रादौ । आतिथ्येष्टिः
तत्र देवतादि ४, ५, १ सूत्रादौ । उदयनीयेष्टिः तद्देवतादि
६, १४, १, सूत्रादौ उदवसनीयेष्टिः तद्देवतादि ६, १४, १,
२३, सूत्रादौ । अन्याः पुनराधेयेष्टिप्रभृतयोऽपि इष्टयः
विस्तरभयान्नोक्ताः आकरेषु दृश्याः ।
शत० ब्रा० १, ६, २, १२, इष्टिकरणप्रकारविशेषो
दर्शितःयथा । “स यदीष्टिंकुव्वींत सप्तदश सामिधेनीरनु-
ब्रूयादुपांशु देवता यजति तद्धीष्टिरूपं, मूर्द्धन्यतौ याज्यानु-
वाक्ये स्यातां वार्तघ्नावाज्यभागौ, विराजौ संयाज्ये” “अग्ने-
रिष्टिमभिधाय अथ पृथक् प्रयोक्तव्याया आग्नेयेष्टेर्वैशे-
षिकमङ्गजातमाह । यदीष्टिं दर्शपूर्णमासाभ्यां पृथगेव
कुर्व्वीत प्रधानदेवता उपांशु यजेत तदुपांशुत्वं काम्येष्टि
रूपं खलु । मूर्द्ध्वन्वत्यौ “अग्निर्मूर्द्धा” “भुवोयज्ञस्य” इत्येते ।
(यजु० १३, १४, १५,) मूर्द्धन् शब्दवत्यौ प्रधानस्य याज्ये स्विष्ट-
कृद्याज्यापुरोऽनुवाक्ये, विराजौ विराट्छन्दस्के “प्रेद्धो अग्ने”
“इमो अग्न” इत्येते (यजु० १७, ७६, ७७) भवतः” भा०
दर्शपौर्णमासयाग कृत्वा प्रायश्चित्तेष्टिः कार्य्या तत्प्रकारः
शत० ब्रा० ११, १, ३, १, दर्शितो यथा । “पौर्णसासेनेष्ट्वा इन्द्राय
विमृधेऽनुनिर्वपति तेन यथेष्ट्यैवं यजतआमावास्येनेष्ट्वा-
अदित्यै चरुमनुनिर्वपति तेन यथेष्ट्यैवं यजते १ । स
यत्पोर्णमासेनेष्ट्वा इन्द्राय विमृधेऽनुनिर्वपतीन्द्रो वै यज्ञस्य
देवताथैतदग्नीषोमीयं पौर्णमासं हविर्भवति तत्र नेन्द्राय
त्वेति किं चन क्रियते एतेनी हास्यैतत् सेन्द्रं हविर्भवत्ये-
तेन सेन्द्रो यज्ञोऽथ यद्विमृधे त्वेति सर्वा उ हि मृधो
नाष्ट्राः पौर्णमासेन हन्ति २ । अथ यदामावास्येनेष्ट्वा
अदित्यै चरुमनुनिर्वपत्येष वै सोमो राजा देवानामन्नं
यच्चन्द्रमाः स यत्रैष एतां रात्रिं न परस्तान्न पश्चाद्ददृशे
तेनैतदनद्धेव हविर्भवति तेनाप्रतिष्ठितमियं वै पृथिव्य-
दितिः सेयमद्धा सेयं प्रतिष्ठितैतेन हास्यैतदद्धेव हविर्भवत्येतेन
नाप्रतिष्ठितमेतन्नु तद्यस्मादनुनिर्वपत्यथ तस्मादनुनिर्व
पेत् ४ । स यत्पौर्णमासेनेष्ट्वा इन्द्राय विमृधेऽनुनिर्वपति
सेन्द्रो मे यज्ञोऽसदिति सर्वो वै यज्ञ इन्द्रस्यैव स यत्सर्वो
यज्ञ इन्द्रस्यैवैतेनो हास्यैतत् सेन्द्रं हविर्भवतृतेन सेन्द्रो
यज्ञः ४ । अथ यदामावास्येनेष्ट्वा अदित्यै चरुमनुनिर्वप-
त्यामावास्य” वा अनुनिर्वाप्यं पौर्णमासेन वा इन्द्रो वृत्र-
महंस्तस्मा एतद्वृत्रं जघ्नुषे देवा एतद्धविरनुनिरवपन्
यदामावास्यं किमनुनिर्वाप्येऽनुनिर्वपेदिति तस्मान्नानुनिर्व-
पेत् ५ । स यत् पौर्ण्णमासेनेष्ट्वा अथान्यद्धविरनुनिरपत्या-
मावास्येनेष्ट्वाथान्यद्धविरनुनिर्वपति द्विषन्तं ह स भ्रातृव्यं
प्रत्युच्छ्रयतेऽथ यः पौर्णमासेनैव पौर्णमासीं यजतआमा-
वास्येनामावास्यामसपत्ना हैवास्यानुपबाधा श्रीर्भवति ६ ।
पौर्णमासेन वै देवाः पौर्णमासीं यजमाना आमावा-
स्येनामावास्यां क्षिप्रएव पाप्मानमपाघ्नत क्षिप्रे प्रायाजन्त
स यो हैवं विद्वान् पौर्णमासेनैव पौर्णमासीं यजतआ-
मावास्येनामावास्यां क्षिप्रएव पाप्मानमपहते क्षिप्रे प्रजा-
यते स यद्यनुनिर्वपेद्दद्याद्दक्षिणां नादक्षिणं हविः स्यादिति
ह्याहुर्दर्शपूर्णमासयोर्ह्येवैषा दक्षिणा यदन्वाहार्य इति
न्वनुनिर्वाप्यस्याथाभ्युदितस्य ७” ३ कण्डिका । “अद्यामावास्येति
मन्यमान उपवसति । अथैष पश्चाद्ददृशे स हैष
दिव्यः श्वा, स यजमानस्य पशूनभ्यवेक्षते तदपशव्यं
स्यादप्रायश्चित्तिकृत एतस्मादु हैतद्भीषावचन्द्रमसादिति” १ ।
छायामुपसर्पन्ति । एतेनो हैतदुपतपदाचक्षते श्वलचित-
मित्येतमु हैवैतदाचक्षते २ । शशश्चान्द्रमस इति । चन्द्रमा
वै सोमो देवानामन्नं तं पौर्णमास्यामभिषुण्वन्ति सोऽपर-
पक्षेऽप ओषघीः प्रविशति पशवो वा अप औपधीरदन्ति
तदेनमेतां रात्रिं पशुभ्यः संनयति ३ । सोऽद्याभावास्येति
मन्यमान उपवसति । अथैष पश्चाद्ददृशे तद्यजमानो यज्ञ-
पथादेति तदाहुः कथं कुर्यादित्वा यज्ञपथाद्यजेता ३
न यजेता ३ इति यजेत हैव न ह्यन्यदपक्रमणं भवति श्वः--श्वः
एवैष ज्यायानुदेति स आमावास्यविधेनैवेष्ट्वाथेष्टिमनुनिर्वपति
तदहर्वैव श्वो वा ४ । तस्य त्रीणि हर्वींषि मवन्ति । अग्नये
पथिकृतेऽष्टाकपालं पुरोडाशम्, इन्द्राय वृत्रघ्नएकादशकपा-
पृष्ठ १००४
लम्, अग्नये बैश्वानराय द्वादशकपालं पुरोडाशम् ५ । स
यदग्नये पथिकृते निर्वपति । अग्निर्वै पथः कर्ता स यस्मादेवादो
यजमानो यज्ञपथादेति तमेनमग्निः पन्थानमापादयति ६ ।
अथ यदिन्द्राय वृत्रघ्ने । पाप्मा वै वृत्रो यो भूतेर्वारयित्वा
तिष्ठति कल्याणकर्मणः साधोस्तमेतदिन्द्रेणैव वृत्रघ्ना
पाप्मानं वृत्रं हन्ति तस्मादिन्द्राय वृत्रघ्ने ७ । अथ यदग्नये
वैश्वानराय द्वादशकपालं पुरोडाशं निर्वपति यत्र वा
इन्द्रो वृत्रमहंस्तमग्निना वैश्वानरेण समदहत्तदस्य सर्वं
पाप्मानं समदहत्तथोएवैष एतदिन्द्रेणैव वृत्रघ्ना पाप्मानं
वृत्रं हत्वा तमग्निना वैश्वानरेण संदहति तदस्य सर्व
पाप्मानं संदहति स यो हैवं विद्वानेतयेष्ट्या यजते न
हास्याल्पश्चन पाप्मा परिशिष्यते ८ । तस्यै सप्तदश सामिधे-
न्यो भवन्ति । उपांशु देवता यजति याः कामयते ता
याज्यानुवाक्याः करोत्येवमाज्यभागावेवं संयाज्ये ९ । तिसृ-
धन्वं दक्षिणां ददाति । धन्वना वै श्वानं बाधन्ते तदेत-
मेवैतद्बाधते यत्तिसृधन्वं दक्षिणां ददाति १० । दण्डं
दक्षिणां ददाति । दण्डेनवैश्वानं बाधन्ते तदेतमेवैतद्बाधते
यद्दण्डं दक्षिणां ददात्येषा ऽन्वादिष्टा दक्षिणा दद्यात्त्वेवा-
स्यामप्यन्यद्याइतरा दक्षिणास्तासां यत् सम्यद्येत सा
सा हैषा पशव्येष्टिस्तयाप्यनभ्युद्दृष्टो यजेतैव” ४ क० ।
“दर्शयागे पुरस्ताच्चन्द्रदर्शनप्रायश्चित्तेष्टिरुक्ता अथ पश्चा-
त्तद्दर्शने नैमित्तिकीमिष्टिं विधित्सुराह । अथानन्तरं
सायंकाले एष चन्द्रमाः पश्चात् प्रतीच्यां दिशि ददृशे
दृश्यते । अभ्यवेक्षते अभ्यवहर्तुं पश्यति यथा शालावृको
वने संचरतो मेषादीन् पशूनभ्यवजिहीर्षति । एतस्मादेव
स्वलु चन्द्रसम्बन्धिस्वरूपेण पूर्वोक्तवत् अकारः
समासान्तः तस्माच्चन्द्रादिति भीषा उक्तरूपया भीत्या, छाया-
मुपगच्छन्ति गवाद्याः पशवः तिरोहिता यजमानस्य
भवन्तीत्यर्थः पशूनामुपतापकारि यदेतच्चन्द्रदर्शनं तत् श्वलु-
चितं शुना रिक्रीकृतमित्याचक्षते २ । एतमेव चन्द्रगतं
दोषमेवमाचक्षते, चन्द्रमसः सम्बन्धी तन्मण्डलमध्यवर्त्ती शश
इति अत एय तस्य शशाङ्क इति प्रसिद्धिः । उपवसथकाष्ठां
गतं देवान्नरूपं चन्द्रमसं पौर्णमासीकाले द्रवीकुर्वन्ति । पशव
ओषघीर्जग्ध्वा अपश्च पीत्वात्मनि तं चान्द्रमसं कृत्स्नं
रसममावास्यायां धारयन्ति तत एनं रसममावास्यासम्बन्धिन्यां
रात्रौ पशुभ्यः सकाशात् संनयति सम्यक्पापयति ।
तत्सनयन प्रतिपच्चन्द्रदर्शने सति नोपपद्यते । ६ दर्शयाग-
स्यातिक्रान्तकालत्वे दोषमुपन्यस्य तन्त्रानुष्ठानप्रकारमाह ।
प्रकृतो दर्शयागः शीघ्रं समापनीयः अनन्तरमेवैवेतद्दोषप-
रिहाराय प्रायश्चित्तेष्टिः कर्त्तव्या । स आमावास्यविधेनै-
वेति यश्चोदितकालेऽनुष्ठितोऽमावास्यायागस्तत्प्रकारेणैव
प्रतिपदि प्रक्रान्तां दर्शेष्टिं समाप्य ४ । अथास्यामिष्टौ प्रकृ-
तिवद्विकृतिः कर्त्तव्येति नोदकप्राप्तेष्वङ्गेषु विशेषं विधत्ते ।
प्रकृती पञ्चदश अत्र नोदकप्राप्तास्ताः पृथुवाजवत्यौ
धाय्ये द्वेइति सप्तदश (सामिधान्यः) भवन्ति । प्रकृतौ
प्रधानयागे उच्चैष्ट्वघर्मः । प्रकृतदेवतालिङ्गयुक्ताश्चतुःषष्ट्यां
दाशतय्यां समाम्नाता या ऋचताः कामयते । आज्यभागयोः
स्विष्टकृद्यागे च याथाकाम्यम् ९ । तिसृभिरिषुभिर्युक्तं धनुः
तिसृधन्वम् पूर्ववदकारः समासान्तः । एतं चन्द्रात्मकं
दिव्यं श्वानम् १० । अदृश्यमानचन्द्रेऽ,ऽपि” ११ भा०
“इष्टीः पार्वायणान्तीयाः केवलानिर्वपेत् सदा” मनुः “प्राजा-
पत्यां निरूप्येष्टिम्” । “हेमन्ते नवशस्येष्ट्या” मनुः
“आरेभिरे जितात्मानः पुत्रीयामिष्टिमृत्विजः” रघुः । २ “याग-
मात्रे च “कर्तुमिष्टिमभिवाञ्छता मया” माघः राजसूयया-
गाभिप्रायमिदम् । इष--क्तिन् । ३ इच्छायाम् । इष्टप्रयोग-
निर्वाहाय पातञ्जलभाष्यकृतः इच्छाबोधके ४ श्लोकाद्यात्मक
वाक्यभेदे च । यथा । “द्विपर्य्यन्तानामेवेष्टिः” सर्वनाम्नोवृ-
त्तिमात्रे पुंवद्भाव” इत्यादि । एतयेष्ट्या “ठक्छशोश्च” वार्त्ति०
“एकतद्धिते चेति” सूत्रञ्च गतार्थम्ऽ सि० कौ० । “अनुत्-
सूत्रपदन्यासेति” माघव्याख्याम् अनुत्सृष्टसूत्राक्षरा
इष्ट्युपसंख्याननैरपेक्ष्येण सूत्राक्षरैरेव” इति मल्लि० ।

इष्टिका स्त्री इष--तिकन् । इष्टकाशब्दार्थे “उद्वर्षणं त्विष्टि-

कया कण्डुकोठविनाशनम्” सुश्रु० । “इष्टिका काञ्चनी-
चात्र चयनार्थं कृताऽभवत्” मा० आश्व० ८८ अ० ।

इष्टिकापथिक न० इष्टिकायाः पथिकं तदुद्भेदेनापि प्रभव-

त्वात् । नामज्जकतृणे राजनि० ।

इष्टिकृत् त्रि० इष्टिं यागं कृतवान् कृ--भूते क्विप् ६ त० । कृतयागे ।

इष्टिन् त्रि० इष्टमनेन इष्टा० इनि । कृतयागे “अध्वरेष्वि-

ष्टिनां पाता” भट्टिः ।

इष्टिपच पु० इष्टये इच्छायै अभिलाषार्थं पचति न यज्ञायों

पच--अच्--४ त० । १ कृपणे २ दैत्ये च शब्दर० । स ह
स्वेच्छापूरणार्थमेव पचति न यज्ञार्थमिति तस्य तथात्वम् ।

इष्टिपशु पु० ६ त० । यज्ञिये पशौ ।

इष्टिमुष् त्रि० इष्टिं यागं मुष्णाति मुष--क्विप् ६ त० । दैत्ये त्रिका० ।

पृष्ठ १००५

इष्टियायजूक पु० इष्ट्या यायजूकः । “काम्येष्टियजनशीले ।

“तस्मान्नेष्टियाजूकः स्यात् पशुभ्यः एकं प्रायच्छत्” वृ० उ० ।
इष्टियायजूकः इष्टियजनशीलः इष्टिशब्देन काम्या इष्ठयः
शातपथप्रसिद्धाः ताच्छील्ययोगात्काम्येष्टि यजनप्रधानो-
न स्यात्” भा० ।

इष्टीकृत त्रि० अनिष्टमिष्ट कृतम् इष्ट + च्वि--कृ--कर्मणि क्त ।

अनिष्टे इष्टे कृते । अनिष्टिरिष्टिः कृता । इष्टिभेदे सत्रे न० ।
“सत्रमिष्टीकृतं नाम समुपास्ते महातपाः” भा० व० २५९ अ०

इष्ट स्त्री इष--भावे तुन् । इच्छायाम् उणादिकोषः ।

इष्ट्ययन न० इष्ट्यायनं गमनं यत्र । “यागविशेषाचरणभेदे”

इष्ट्ययनञ्च आश्व० श्रौ० २, १४, सूत्रादौ दर्शितं यथा
“अत ऊर्द्ध्वमिष्ट्ययनानि” १ । “अत ऊर्द्ध्वं यानि वक्ष्यन्तेऽस्मिन्
अध्याये तानि इष्ट्ययनसं ज्ञानीति विद्यात् । इष्टिभिरयनं
गमनं येषु कर्मसु तानीष्ट्ययनानि” नारा० वृ० । “सांवत्सरि-
काणि” २ सू० । “संवत्सरेण क्रियन्ते संवत्सरैश्च क्रियन्त इत्युभ-
यथा विग्रहः कर्तव्यः, दाक्षायणयज्ञचातुर्मास्यानामनेकसां-
वत्सरिकत्वसिद्ध्यर्थम् वृ० । “तेषां फाल्गुन्यां पौर्णमास्यां चैत्र्यां
वा प्रयोगः” ३ सू० । “फल्मुनीर्भिर्युक्ता पौर्णमासी फाल्गुनी,
चित्रया युक्ता चैत्री । तेषां सांवत्सरिकाणां आगन्तुका-
नामस्मिन् काले प्रारम्भः कार्यः । दर्शपूर्णमासगुणविकार-
रूपाणां दाक्षायणयज्ञादीनामारम्भे कालनियमो नास्तीति
तेषामित्युच्यते” नारा० वृ० । “तुरायणम्” ४ सू० । “तुरायणं
नामेष्ट्ययनमुच्यते” वृ० । “अग्निरिन्द्रो विश्वेदेवा इति
पृथगिष्टयोऽनुसवनमहरहः” ५ सू० । “अग्निदेवत्या इन्द्रदेवत्या
विश्वदेवदेवत्या चैतास्तिस्र इष्टयः त्रिषु सवनेषु यथासङ्ख्येन
एकैकेष्टिः कार्याऽहन्यहनि । अहरहरिति वचनं पौर्ण-
मास्यमावास्ययोर्बाधनार्थम्” वृ० । “एका वा त्रिहविः”
६ सू० “एताभिरेव देवतामिर्युक्ता एकैवेष्टिस्त्रिहविष्काऽह-
न्यहनि प्रातः सवन एव कर्त्तव्या वेत्यर्थः” वृ० । “इडाद-
धोनामेष्ट्ययनं तत्र देवतादि २ १४ १--१०” द्यावापृथि-
व्योरयनं नामेष्ट्ययनं तत्र देवताइ २, १४, १२, १५”
“चातुर्मस्यानि इष्ट्ययनानि तद्देवतादि २, १५, १ सूत्रादौ ।
एवमन्यान्यपि इष्ट्ययनकर्म्माणि आकरे दृश्यानि

इष्ट्वा अव्य० यज--क्त्वाः । १ यागं कृत्वेत्यर्थे । “अश्वमेधेन चेष्ट्वा”

मृच्छकटिकम् । इष--क्त्वा । २ अभिलष्येत्यर्थे च ।

इष्म पु० इष्यति इच्छत्यनेन वा इष--गतौ इष--इच्छायां

मक् वा । १ वसन्तकाले २ कामे च भावे मक् । ३ गतौ । ततः
अस्त्यर्थे इनि । इष्मिन् गतियुक्ते त्रि० स्त्रियां ङीप् । “ते
वाशीमन्तः इष्मिणो अभीरवः” ऋ० १, २७, ६ । “इष्मिणः
गतिमन्तः” मा० । इष--इच्छायां कर्म्मणि मक् । ४ इष्यमाणे
अन्नादौ अस्त्यर्थे इनि अन्नादिमति “हिरण्ययाः स्वायु-
धास इष्मिणः” ऋ० ५, ८, ७५ । इष्मिणोऽन्नवन्तः” भा० ।

इष्य पु० इष्यते इष--क्यप् । वसन्ते ऋतौ हेम० । तस्य

ऋतूनां मध्ये इष्टतमत्वात्तथात्वम् “ऋतूनां कुसुमाकरः”
गीतायां तस्य भगवद्रूपत्वोक्तेः इष्टत्वम् ।

इष्व पु० इष--सर्पणे वन्--गुणाभावः । आचार्य्ये उदेशार्थमु-

पसृप्यमाणत्वात्तथात्वम् । उज्ज्वलदत्तस्तु ईष दाने इत्यस्यै-
व रूपं दीर्घादि इत्याह । उपदेशदानाच्च तस्य तथात्वम् ।

इष्वग्र न० ६ त० । वाणाग्रे । गहादिपाठात् भवादौ छ । इष्व-

ग्रीय तद्भवादौ त्रि० ।

इष्वनीक न० ६ त० । वाणाववयवे । गहा० भवादौ छ । इष्वनीकीय तद्भवादौ त्रि० ।

इष्वसन पु० इषवोऽस्यन्ते क्षिप्यन्तेऽनेन अस--क्षेपे करणे ल्युट्

६ त० । धनुषि । “राममिष्वसनदर्शनोत्सुकम्” रघुः ।

इष्वास पु० इषवोऽस्यन्तेऽनेन अस--क्षेपे करणे घञ् ६ त० ।

१ धनुषि “अत्र शूरा माहेष्वासाभीमार्ज्जनसमा युधि”
“काश्यश्च परमेष्वासः शिखण्डी च महारथः” गोता । अर्द्ध-
र्चादिपाठात् क्लीवत्वमपि । इषून् अस्यति अस--अण्
उप० स० । २ शरक्षेपके त्रि० (तीरन्दाज) मेदि० ।

इस् अव्य० इंकामम् स्यति सो--क्विप् नि० आलोपः ।

१ सन्तापे २ कोपे ३ दुःखानुभवे च शब्दर० ।

इह अव्य० इदम् + ह इशादेशः । अस्मिन् काले देशे दिशि

वा १ इत्यर्थे “एकमेवाद्वितीयं ब्रह्म नेह नानास्ति
किञ्चन” श्रुतिः “इह जन्मनि जन्मान्तरे वा” वे० सा० ।
“नेह नामुत्र किञ्चन” “नेहाभिक्रमनाशोऽस्ति” गीता ।
“तदखिलमिह भूतं भूतगत्या जगत्याः” नैष० । प्रथमार्थेह ।
२ अनुभूयमाने लोके इहामुत्रार्थफलभोग विरागः वेदा०
सा० च इहकालः । इह भवः विदितोवा कर्षा० ठञ् ।
ऐहिक इहभवे इहविदिते च त्रि० । “ऐहिकब्रह्मघ्रपते-
र्दाहादिनिषेधात्” शु० त० रघु० ।

इहकाल पु० इदम् + प्रथमार्थे ह इह कर्म्म० । एतत्काले वर्त्तमानकाले ।

इहतन त्रि० इहभव ट्युल् तुट् च । इहभवे स्त्रियां ङीष् ।

इहत्य त्रि० इह भवः इह + त्यप् । इहकालादिजाते । स्वार्थे-

कन् । इहत्यक तत्रार्थे स्त्रियां नित्यमित्त्वम् । इहत्यिका

इहद्वितीया स्त्री मयू० स० । अत्रत्य द्वितीयायाम् ।

इहपञ्चमी स्त्री । मयू० स० । अत्रत्यपञ्चम्याम् ।

इहल पु० इह भवं लाति ला--क । चेदिदेशे त्रिका० तद्वा-

सिनि ब० व० ।

इहलोक पु० इदम्--प्रथमार्थे ह कर्म्म० । एतल्लोके अनु-

भूयमाने लोके इहलोके भवः ठक् अनुश० द्विपदवृद्धिः
ऐहलौकिक तद्भवे त्रि० ।

इहामुत्र अव्य० इह च अमुत्र च द्व० । एतल्लोके परलोके च

“इहामुत्रार्थफलभोगविरागः” वेदा० सा० ।
इति वाचस्पत्ये इकारादिवर्ण्णशब्दार्थनिरूपणम् ।
"https://sa.wikisource.org/w/index.php?title=वाचस्पत्यम्/इभ्या&oldid=57663" इत्यस्माद् पुनः प्राप्तिः