पृष्ठ १०९०

उत्तमा स्त्री उत्कृष्टसोन्दर्य्यान्वितायाम् स्त्रियाम् अमरः ।

उत्तमाङ्ग न० कर्म्म० । मस्तके । “बभौ पतद्गङ्ग इवोत्तमा-

ङ्गे” कुमा० । “कश्चिद् द्विषत्खड्गहृतोत्तमाङ्गः” रघुः ।
“पृष्ठतस्तु शरीरस्य नोत्तमाङ्गे कथञ्चन” मनुः । मस्तकस्य
अङ्गेषूत्तमत्वं चक्षुरादीन्द्रियाधारत्वात् प्राणवायुसञ्चा-
रस्थानत्वात् सर्वेषामङ्गानामुपरिवर्त्तमानत्वाच्च । अतएव
“गर्भस्य हि सम्भवतः प्रथमं शिरः सम्भवतीत्याह शौनकः
शिरोमूलत्वाद्देहेन्द्रियाणाम्” सुश्रु० शौनकीयमते इन्द्रि-
यमूलत्वमस्योक्तम् “तच्च शरीरम् षडङ्गं शाखाश्चतस्रो मध्यं
पञ्चमं षष्ठं शिर” इति सुश्रु० षड़ङ्गविभागे हस्तपादानां
चतुर्ण्णां शाखात्वेन मध्यमस्य मध्यत्वेन उप्रवर्ण्य-
सर्वशेषे शिरसः कथनं पूर्वोक्तहेतोः प्राधान्यात्तस्येति
बोध्यम् । प्रत्यङ्गविभागेऽपि “मस्तकोदरेत्यादिना
सुश्रु० मस्तकस्य प्रथमनिर्देशः प्राधान्यादेव लोके-
ऽपि मस्तकच्छेदनेऽवशिष्टाङ्गैः न प्रत्यभिज्ञा छिन्न-
मस्तकमात्रेण तु प्रत्यभिज्ञा इत्यतो मस्तकस्य प्रत्यभिज्ञा-
साधनत्वादपि उत्तमत्वम्” कथमन्यथा देवदत्तादिदेहस्य
हस्तादिषु च अङ्गेषु मध्ये हस्तादिना न प्रत्यभिज्ञा
इत्यतः मस्तकस्य उत्कृष्टत्वम् । हस्तादिच्छेदनेऽपि
जीवनसम्भवात् मस्तकस्य छेदने तदभावादपि मस्तकस्य
प्राधान्यमित्यपि मन्तव्यम् ।

उत्तमाम्भस् न० सांख्यशास्त्रप्रसिद्धे नवविधतुष्टिमध्ये

तुष्टिभेदे “नापहत्य भूतानि विषयोपभोगः सम्भवतीति
हिंसादीषदर्शनात् विषयोपरमे या तुष्टिः सा पञ्चमी
उत्तमाम्भ उच्यते” सा० कौ० । अस्यास्तुष्टैः अम्भसोऽङ्करं
प्रतीव विवेकख्यातिं प्रति हेतुत्वात्तथात्वम् ।

उत्तमाय्य त्रि० उत्तमं क्रियते उत्तम--णिच्--कर्म्मणि बा०

आय्य नि० णिलोपः । उत्तमीकृते । “उतेदमुत्तमा-
य्यम्” ऋ० ९, २२, ६, “उत्तमाय्यमुत्तमीकृतम्” भा० ।

उत्तमारणी स्त्री उत्तममृच्छति ऋ--अनि ङीप् । इन्दीवर्य्याम्

उत्तमौजस् त्रि० उत्तममोजो यस्य । १ उत्कृष्टतेजस्के दशमन्व-

न्तराधिपमनोः २ पुत्रभेदे पु० हरिवं० “दशमे त्वथ पर्य्याय”
इत्युपक्रम्य “मनोः सुतोत्तमौजाश्च दुणिः खञ्जश्च वीर्य्यवान् ।
शतानीको निरामित्रो वृषसेनो जयद्रथः । मूरिद्युम्नः सुवर्च्चाश्च
दश त्वेते मनोः सुताः” ७ अ० । सुतौत्तमौजा इत्यत्र
सन्धिरार्षः । द्वापरयुगीये ३ युधामन्युभ्रातरि नृपे पु० । “नेह
पश्यामि विबुधा! राधेयममितौजसम् । भ्रातरौ च
महात्मानौ युधामन्यूत्तमौजसौ” भा० स्वर्गा० २ अ० । “युधा-
मन्युश्च विक्रान्त उत्तमौजाश्च वीर्य्यवान्ः” गीता “उत्त-
मौजाश्च शल्यश्च कौरवाः कैकयास्तथा” हरिवं ९२ अ० ।
“उत्तमौजास्तथा शाल्वः कैरलेयश्च कौशिकः” हरिवं०
९९ अ० ।

उत्तम्भ पु० उद् + स्तन्भ--घञ् । १ प्रवृत्तिरोधिकायामनिष्टसाध-

नतोनिवृत्तौ । (थामा) २ अवलम्बे च ।

उत्तम्भन न० उ + स्तम्भ--ल्युट् । १ अवलम्बने । करणे ल्युट्

२ तत्साधने । “वरुणस्योत्तम्भनमसि” यजु० १४, ३३ ।
“समीपेऽन उपस्थाप्योत्तम्भनेन स्तम्भ्नाति” कात्या० ७,
९, २३ ।

उत्तर न० उत्तीर्य्यते प्रकृताभियोगोऽनेन उद् + तॄ--अप्,

उद्तरप् वा । राजसमीपे वादिकृताभियोगापनोदके उत्तराख्ये
१ व्यवहाराङ्गे द्वितीयपादे “प्रश्नश्चोद्यधिया पृच्छा तस्य
खण्डनमुत्तरमित्युक्ते” २ दोषभञ्जनवाक्ये । ३ जिज्ञासित-
विषयावेदके वाक्ये । ४ उदीच्यां दिशि स्त्री । अनन्तरे
५ देशे, ६ काले च पु० । ७ अनन्तरोत्तरदिग्देशकालवृत्तौ
त्रि० अंश्विन्यादिषु १२, २१, २६; संख्यकेषु ८ नक्षत्रेषु
न० स्त्री । “उत्तरात्रययाम्यरोहिणीरौद्रसार्पपितृभेषु
चाग्निभे” “रेवत्युत्तररोहिणी मृगशिरो मूलानुराधा
भघा” “त्रीण्युत्तराणि स्वभूः” ज्यो० त० । तत्र वादे
उत्तरतदाभासादिलक्षणादि मिता० दर्शितं यथा ।
“श्रुतार्थस्योत्तरं लेख्यं पूर्वावेदकसन्निधौ” या० । “श्रुतो-
भाषार्थोयेन प्रत्यर्थनाऽसौ श्रुतार्थस्तस्योत्तरं पूर्वपक्षादुत्तरत्र
भवतीति उत्तरं लेख्यं लेखनीयम् । पूर्वावेदकस्यार्थिनः
समीपे उत्तरञ्च यत्पूर्वोक्तस्य निराकरणन्तदुच्यते ।
यथाह । “पक्षस्य व्यापकं सारमसन्दिग्धमनाकुलम् ।
अव्याख्यागम्यमित्येतदुत्तरन्तद्विदोविदुरिति” । पक्षस्य व्या-
पकन्निराकरणसमर्थम् सारं न्याय्यं न्यायादनपेतम्,
असन्दिग्धं सन्देहरहितम्, अनाकुलं पूर्व्वापराविरुद्धम्,
अव्याख्यागम्यं अप्रसिद्धपदयोगेन दुःश्लिष्टविभक्तिसमासा-
ध्याहाराभिधानेन वा अन्यदेशभाषाभिधानेन वा यद्व्या-
ख्येयार्थन्न भवति तत्सदुत्तरम् । तच्चतुर्व्विधम् ।
सम्प्रतिपत्तिर्मिथ्या प्रत्यवस्कन्दनं पूर्वन्यायश्चेति । यथाह
पृष्ठ १०९१
कात्यायनः । “सत्यं मिथ्योत्तरञ्चैव प्रत्यवस्कन्दनं तथा ।
पूर्व्वन्यायविधिश्चैवमुत्तर स्याच्चतुर्विधमिति” । तत्र सत्यो-
त्तरं यथा रूपकशतम्मह्यन्धारयतीत्युक्ते सत्यन्धारयामीति ।
यथाह । “साध्यस्य सत्यवचनं प्रतिपत्तिरुदाहृता” ।
मिथ्योत्तरन्तु नाहन्धारयामीति । तथा च कात्यायनः ।
“अभियुक्तोऽभियोगस्य यदि कुर्य्यादपह्नवम् । मिथ्या तत्तु
विजानीयादुत्तरं व्यवहारतः” इति । तच्च मिथ्योत्तरञ्च
तुर्विधम् । “मिथ्यैतन्नाभिजानामि तदा तत्र न सन्निधिः ।
अजातश्चास्मि तत्काल इति मिथ्या चतुर्विधमिति” । प्रत्य-
वस्कन्दनन्नाम सत्यं गृहीतं प्रदिदत्तं प्रतिग्रहलब्धमिति
वा । यथाह नारदः “अर्थिना लेखितोयोऽर्थः प्रत्यर्थी यदि
तन्तथा । प्रपद्य कारणं ब्रूयात् प्रत्यवस्कन्दनं स्मृतमिति” ।
प्राङ्न्यायोत्तरन्तु यत्राभियुक्त एवं ब्रूयादस्मिन्नर्थे अनेना-
हमभियुक्तस्तत्र चायं व्ववहारमार्गेण पराजित इति ।
उक्तञ्च कात्यायनेन “आचारेणावसन्नोऽपि पुनर्लेखयते
यदि । सोऽभिधेयोजितः पूर्व्वं प्राङ्न्यायश्च स उच्यते”
इति । एवमुत्तरलक्षणे स्थिते उत्तरलक्षणरहितानाम् उत्तर-
वदभासमानानामुत्तराभासत्वमर्थसिद्धं स्पष्टीकृतञ्च
स्मृत्यन्तरे । “सन्दिग्धमन्यत् प्रकृतादत्यल्पमतिमूरि च ।
पक्षैकदेशव्याप्यन्यत्तथा नैवोत्तरम्भवेत् । यद्व्यस्तपदम-
व्यापि निगूढार्थन्तथाकुलम् । व्याख्यागम्यमसारञ्च
नोश्तरं स्वार्थसिद्धये” इति । तत्र सन्दिग्धम् सुवर्णशत-
मनेन गृहीतमिति उक्ते सत्यं गृहीतम्, सुवर्णशत-
म्माषशतं वेति । प्रकृतादन्यत् यथा सुवर्णशताद्यभि-
योगे पणशतन्धारयामीति । अत्यल्पं सुवर्णशताभियोगे
पञ्च धारयामीति । अतिमूरि सुवर्णशताभियोगे द्विशत-
न्धारयामीति । पक्षैकदेशव्यापि हिरण्यवस्त्राद्यभियोगे
हिरण्यं गृहीतन्नान्यदिति । व्यस्तपदम् । ऋणादाना
भियोगे पदान्तरेणोत्तरम् । यथा सुवर्णशताभियोगे
अनेनाहन्ताड़ित इति । अव्यापि देशस्थानादिविशेषणाव्यापि ।
यथा मध्यदेशे वाराणस्यां पूर्ब्ब स्यां दिशि क्षेत्रमनेनापहृत-
मिति पूर्व्वपक्षे लिखिते क्षेत्रमपहृतमिति । निगूढार्थं
यथा सुवर्णशताभियोगे किमहमेवास्मै धारयामीत्यत्र
ध्वनिना प्राड्विवाकः सभ्योवाथीं वान्यस्मै धारयतीति
निगूढार्थम् आकुलं पूर्व्वापरविरुद्धम् । यथा सुवर्णश-
ताभियोगे कृते सत्यं गृहीतन्न धारयामीति । व्याख्या-
गम्यम् दुःश्लिष्टविभक्तिसमासाध्याहाराभिधानेन अन्यदेश-
भाषाभिधानेन वा । यथा सुवर्ण्णशतविषये पितॄणामभि-
योगे गृहीतं शतं वचनात् सुवर्ण्णानां पितुर्न जानामी
ति । अत्र पितुर्वचनात् सुवर्ण्णानां शतं गृहीत-
मिति न जानामीति । अन्याय्यं न्यायविरुद्धम् । यथा
सुवर्णशतमनेन वृद्ध्या गृहीतं वृद्धिरेव दत्ता न मूलमिति
अभियोगे सत्यं वृद्धिर्दत्ता न मूलं गृहीतमिति । उत्तर-
मित्येकवचननिर्देशादुत्तराणां सङ्करोनिरस्तः । यथाह
कात्यायनः । “पक्षैकदेशे यत्सत्यमेकदेशे च कारणम् ।
मिथ्या चैवैकदेशे च सङ्करात्तदनुत्तरमिति” । अनुत्तरत्वे
कारणन्तेनैवोक्तम् । “नचैकस्मिन् विवादे तु क्रिया स्या-
द्वादिनोर्द्वयोः । नचार्थसिद्धिरुभयोर्न चैकत्र क्रियाद्वय-
मिति” । मिथ्याकारणोत्तरयोः सङ्करेऽर्थिप्रत्यर्थिनोर्द्वयोः
क्रिया--प्राप्नोति । “मिथ्या क्रिया पूर्व्ववादे कारणे
प्रतिवादिनीति स्मरणात् । तदुभयमेकस्मिन् व्यवहारे
विरुद्धम् । यथा सुवर्णशतं रूपकशतं चानेन गृहीतमित्य-
भियीप सुवर्ण्णं न गृहीतं रूपकशतं गृहीतं प्रतिदत्तञ्चेति ।
कारण प्राङ्न्यायसङ्करे तु प्रत्यर्थिन एव क्रियाद्वयम् ।
“प्राङ्न्यायकारणोक्तौ तु प्रत्यर्थी निर्दिशेत् क्रियामिति” ।
यथा सुवर्णं गृहीतं प्रतिदत्तं रूपके व्यवहारमार्गेण
पराजित इति । अत्र च प्राङ्न्याये जयपत्रेण वा प्राङ्
न्यायदर्शिभिर्वा भावयितव्यम् । कारणोत्तरे तु साक्षि-
लेख्यादिभिर्भावयितव्यमिति विरोधः । एवमुत्तरत्रय
सङ्करेऽपि द्रष्टव्यम् । यथाऽनेन सुवर्णं रूपकशतं
वस्त्राणि च गृहीतानीत्यभियोगे सत्यं सुवर्णं गृहीतं
प्रतिदत्तञ्च रूपशतं तु न गृहीतं वस्त्वविषये पूर्वन्या-
येन पराजित इति । एवञ्चतुःसङ्करेऽपि । एतेषाञ्चानु-
त्तरत्वं योनपद्येन । तस्य तस्यांशस्य तेन तेन विनाऽ
सिद्धेः क्रमेणोत्तरत्वमेव । क्रमश्चार्थिनः प्रत्यर्थिनः
सभ्यानाञ्चेच्छया भवति यत्र पुनरुभयोः सङ्करे यस्य
प्रभूतार्षबिषयत्वन्तत्क्रियोपादानेन पूर्ब्बं व्यवहारः प्रव-
र्त्तवितव्यः पश्चादल्पविषकीत्तरोपादानेन व्यवहारो
द्रष्टव्यः । यत्र च सम्प्रतिपत्तेरुत्तरान्तरस्य सङ्करस्तत्रोत्तरा-
न्तरीपादानेन व्यवहारो द्रष्टव्यः । सम्प्रतिपत्तौ क्रिया-
भावात् । यथाहारीतेन “मिथ्यीत्तरङ्कारणञ्च स्याता-
मेकत्र चेदुभे । सत्यं वापि सहान्येन तत्र ग्राह्यं
किमुत्तरम्” इत्युक्त्वोक्तम् । “यत् प्रभूतार्थविषयं यत्र वा
स्यात् क्रियाफलम् । उत्तरन्तत्र तज्ज्ञेयमसङ्कीर्णमतो-
ऽन्यथा” । सङ्कीर्ण्णम्भवतीति शेषः शेषायेक्षया ऐच्छिकः
क्रमो भवतीत्यर्थः । तत्र प्रमूतार्थं यथाऽनेन सुवर्ण्णं
पृष्ठ १०९२
रूपकशतं वस्त्राणि च गृहीतानि इत्यभियोगे सत्यं
सुवर्णं गृहीतं रूपकशतञ्च न गृहीतं वस्त्राणि तु
गृहीतानि प्रतिदत्तानि चेति अत्र मिथ्योत्तरस्य प्रमूत-
विषयत्वादर्थिनः क्रियामादाय प्रथमं व्यवहारः प्रवर्त्तयि-
तव्यः । पश्चाद्वस्त्रविषयो व्यवहारः । एव मिथ्या-
प्राङ्न्यायसङ्गरे कारणप्राङ्न्यायसङ्करे च योजनीयम् ।
तथा तस्मिन्नेवाभियोगे सत्यं सुवर्णं रूपकशतञ्च गृहीत
न्दास्यामि वस्त्राणि तु न गृहीतानि गृहीतानि प्रति-
दत्तानीति वा । वस्त्रविषये पूर्ब्बं पराजित इति
वोत्तरे सम्प्रतिपत्तेर्भूरिविषयत्वेऽपि तत्र क्रियामावान्मिथ्या
द्युत्तरक्रियामादायं व्यवहारः प्रवर्त्तयितव्यः । यत्र तु
मिथ्याकारणोत्तरयोः कृत्स्नपक्षव्यापित्वम् । यथा
शृङ्गग्राहितया कश्चिद्वदति इयङ्गौर्मदीया अमुकस्मिन्
काले नष्टा अथास्य गृहे दृष्टेति । अन्यस्तु मिथ्यैत-
देतत्प्रदर्शितकालात् पूर्ब्बमेवास्मद्गृहे स्थिता मम गृहे
जाता चेति वदति । इदन्तावत् पक्षनिराकरणसमर्थत्वा-
न्नानुत्तरम् । नापि मिथ्यैव कारणोपन्यासात् । नापि
कारणम् । एकदेशस्याभ्युपगमाभावात् । तस्मात्
सकारणं मिथ्योत्तरमिदम्” । अत्र कश्चिद्विशेषो
व्यव० त० दर्शितः यया “कात्यायनः । “सद्यः कृतेषु
कार्य्येषु सद्यएव विवादयेत् । कालातीतेषु वा कालं
दद्यात् प्रत्यर्थिने प्रभुः” । वादिनोक्तस्य साध्यस्य प्रती
पमर्थयते इति प्रत्यर्थी । नारदः । “गहनत्वाद्धि वादा-
नामसामर्थ्यात् स्मृतेरपि । ऋणादिषु हरेत् कालं
कामन्तत्त्वबुभुत्सया” दा० । वृहस्पतिः । “यदा त्वेवंविधः पक्षः
कल्पितः पूर्व्ववादिना । दद्यात् तत्पक्षसम्बन्धं प्रतिवादी
तदोत्तरम्” । सम्बन्धमुयुक्तम् अन्यथा अन्यवादि-
त्वेन भङ्गप्रसङ्गात् । “अन्यवादी क्रियाद्वेषी
तोपस्थायी निरुत्तरः । आहूतः प्रपलायी च हीनः पञ्च-
विधः स्मृतः” । प्रपलायी त्रिपक्षेण मीनकृत् सप्तभिर्दिनैः ।
क्रियाद्वेषी तु मासेन साक्षिभिन्नस्तु तत्क्षणात्” इति
नारदोक्तेः क्रिया लेख्यादिका, साक्षिभिन्नः पराजितः ।
वादिनोक्तस्य साध्यस्य प्रतीपं वदतीति प्रतिवादी उत्ती-
र्य्यते निस्तीर्य्यते प्रकृताभियोगोऽनेनेति उत्तरम् ।
उत्तरस्वरूपं तद्भेदांश्चाह नारदः । “पक्षस्य व्यापकं
सारमसन्दिग्धमनाकुलम् । अव्याख्यागम्यमित्येवमुत्तरं
तद्विदोविदुः । मिथ्यासंप्रतिपत्तित्वं प्रत्यवस्कन्दनन्तथा ।
प्राङ्त्यायश्चोत्तराः प्रोक्ताश्चत्वारः शास्त्रवेदिभि । अभि-
युक्तोऽभियोगस्य यदि कुर्य्यादपह्नवम् । मिथ्या तत्तु
विजानीयादुत्तरं व्यवहारतः” । पक्षस्य माषार्थस्य
व्यापकम् आच्छादम् अभितोगप्रतिकुलमिति यावत् ।
अतएव “पूर्ब्बपक्षार्थसम्बन्धं प्रतिपक्षं निवेदयेदि” त्युक्तम् ।
न च विप्रतिपत्त्या न्यायोऽर्थमागतस्य धारयसीत्यभि-
युक्तस्य धारयामीति संप्रसिपत्तेः कथमुत्तरत्वम् अभियोगा
प्रतिकुलत्वादिति वाच्यम् भाषावादिनोमूर्खत्वेनापटु-
करणतया वा कदाचिद्भाषातिवादादेवायं हीयते इति
भाषाविमर्षपर्य्यन्तं विप्रतिपन्नस्याप्युत्तरवादिनोभाषार्थं
सम्यगवगम्य तन्निषेधार्थं सम्यगुत्तरासम्भवात् विद्वत्सभा
यां चासत्यवचनमत्यन्ताधर्म्मकारकम् । परोक्तिपराजये
च दण्ड्यत्वं वादिना च वैरमित्यादि प्रतिसन्दधतः
सम्प्रतिपत्तेरुत्तरत्वं सम्भवत्येव । एवम् एतेभ्य एवानि-
स्तारात् साध्यत्वे नोपदिष्टस्य पक्षस्य सिद्धत्वेनोपन्यासेन
साध्यत्वनिवारणात् सिद्धसाधनेनापि वादिनः प्रत्यव-
स्थानाच्चोत्तरत्वं सम्प्रतिपत्तेः सिद्ध्वमिति सारं प्रकृतोप-
योगि अनाकुलं पूर्व्वापरविरोधशून्यं अव्याख्यागम्य-
मध्याहारादिकं विनैव प्रतीतम् अभियोगस्य अभियुज्यते
इत्यभियोगः सहेतुकं साध्यं तस्यापह्नवमित्यर्थः” । “उत्त-
राभासमाह कात्यायनः । “प्रकृतेन त्वसम्बन्धमत्यल्पमति-
भूरि च । पक्षैकदेशव्याप्येवं तच्च नैवोत्तरं भवेत् । अस्त-
व्यस्तपदव्यापि निगूढार्थं तथाकुलम् । व्याख्यागम्यमसा-
रञ्च नोत्तरं शस्यते बुधैः” । अस्तव्यस्तपदव्यापि अनन्वि-
तार्थपदव्याप्तमिति व्यवहारतिलके भवदेवभट्टाः । सिथ्यो-
त्तरभेदमाह पुनर्व्यासनारदौ । “मिथ्यैतन्नाभिजानामि
मम तत्र न सन्निधिः । अजातश्चास्मि तत्काले इति
मिथ्या चतुर्विधन्” । मिथ्यैतदितिशब्दतोनाभिजानामी-
व्यादिकमर्थतोऽपह्नवः । तथा च कात्यायनः । “श्रुत्वा
भाषार्थमन्यस्तु यदि तं प्रतिषेधति । अर्थतः शब्दतोवापि
मिथ्या तज्ज्ञेयमुत्तरम्” । त्वं मह्यं धारयसीति प्रति-
ज्ञायां न गृहीतमिति शब्दतः । कालविशेषगर्भायां तस्यां
सत्यां तदानाहं जात इति अर्थतः । देशकालविशेषगर्भा-
यां तदा तत्र नाहमासम् इत्यप्यर्थतः । देशादिमत्यां
तच्छून्यायां वा न जानामीत्यर्थतएव योम्यास्मरणेनार्थतस्त-
दग्रहणप्रतिपादनात् । अत्र चरमत्रयं ग्रहणावस्कन्दनमु-
खेन ग्रहणाभावप्रतिपादकं सापदेशमिथ्योत्तरमात्रम् आद्यं
मिथ्योत्तरमात्रम् । तच्च कारणोत्तरं त्रिविधं वलवत्तु-
ल्यवलं दुर्वलञ्च तत्र बलवदुत्तरं यथा त्वत्तः तं गृहीत-
पृष्ठ १०९३
मिति सत्यं किन्तु परिशोधितमिति अत्रोत्तरवादिन
एव क्रियानिर्देशः । तथा च नारदः । “आधर्य्यं पूर्व-
पक्षस्य यस्मिन्नर्थवशाद्भवेत् । विवादे साक्षिणस्तत्र प्रष्टव्याः
प्रतिवादिनः” । आधर्य्यं दुर्बलत्वं पूर्व्वपक्षस्य । ततश्च
स्थापकसाध्यस्य धार्य्यमाणत्वस्य ध्वंसकारणं निर्य्यातनादि
तद्रूपमुत्तरं कारणोत्तरम् । अतएव मिथ्योत्तरादस्य भेदः
तद्ध्वि धार्य्यमाणत्वस्यात्यन्ताभावप्रयोजकमग्रहणरूपं न तु
ध्वंसरूपम् । तुल्यवलकारणोत्तरं यथा मदीयेयं भूमिः
क्रमागतत्वादिति वाद्युक्ते मदीयेयं भूमिः क्रमागतत्बादिति
प्रतिवादिना तथीत्तरमिति तत्र पूर्ववादिनः साक्ष्युप-
न्यासः । तदसामर्थ्ये प्रतिवादिनः । तथा च याज्ञवल्क्यः ।
“साक्षिषूभयतः सत्सु साक्षिणः पूर्ववादिनः । पूर्वपक्षेऽ-
धरीमूते भवन्त्युत्तरवादिनः” । दुर्बलकारणोत्तरं यथा
ममेयं भूः क्रमागतत्वादिति वाद्युक्ते ममेयं भूर्दशवर्षभुज्य-
मानत्वादिति प्रत्युत्तरम्” व्य० त० रघु० ।
“शोधयेत् पूर्ब्बवादं तु यावन्नोत्तरदर्शनम् । अवष्टब्धस्यी-
त्तरेण निवृत्तं शोधनं भवेत्” नार० । ९ न्यायावयवभेदे
न० । “विषयो विशयश्चैव पूर्वपक्षस्तथोत्तरम् । निर्ण्णय-
श्चेति सिद्धान्ताः शास्त्रेऽधिकरणं स्मृतम्” मीमांसा । तच्च
सिद्धान्तानुकूलतर्कोपन्यासरूपम् । १० प्रतिवचने न० “प्रचक्रमे
च प्रतिवक्तुमुत्तरम्” रघु० । ११ उपरिस्थे, “समे देशे प्रतिष्ठाप्य
चेलाजिनकुशोत्तरम्” गीता । “मृदुप्रवालोत्तरपुष्पशय्याम्”
रघुः १२ ऊर्द्ध्वमागे “तद्वाहनादवनतोत्तरकायमीषत्” रघुः
“दूर्वाङ्कुरयवप्लत्वक्षत्वगभिन्नपुटोत्तरः इति रघुः । १३
वाममागे । “पितृपात्रे निधायार्घं न्यब्जमुत्तरतोन्यसेत्” मत्स्य
पु० । “न्यसेदित्यत्राख्यातोपस्थापितकर्तुर्वामपार्श्वे न्यासः
कर्तव्यः” श्रा० त० रघु० । तस्य तदर्थत्वे उदा० तत्रैव यथा
“तस्माद्यस्य दक्षिणतो लक्ष्म भवति तं पुण्यलक्ष्मीकमित्या-
चक्षते उत्तरतः स्त्रियाः उत्तरायणा हि स्त्रीति”
शतपथश्रुतिः । “उत्तरे चास्य सौवर्ण्णं लक्ष्म पार्श्वे भविष्यति”
भारतम् दिशि “अस्त्युत्तरस्यां दिशि देवतात्मात्मा” कुमा० ।
“सर्वेषाञ्चैव वर्षाणां मेरुत्तरतः स्थितः” पृ० अत्र वृत्तौ
पुंवद्भावः । दिग्दिशकालवर्त्तिपरत्वेऽपि अस्य स्वाभिधेया
वधिनियमरूपव्यवस्थावाचित्वात् सर्वनामतया तत्कार्य्यम्
उत्तरे ग्रामाः उत्तरस्यै नगर्य्यैः उत्तरस्मिन् दिने, संज्ञायां
तु न सर्वनामकार्य्यम् उत्तराः कुरवः । तत्रोत्त रकालवृत्तौ
“ऋद्धिमन्तमधिकर्द्धिरुत्तरः पूर्वमुत्सवमपोदुत्सवः” रघुः
“सखोभिरस्रोत्तरमीक्षित्ममिमाम्” कुमा० । अवधिश्च
द्विविधःदशिकः कालिकश्च तत्र दैशिकः “समुद्रस्योत्तरे तीरे
जम्भला नाम राक्षसी” गर्भप्रसवमन्त्रः । अत्र दिग्देशा-
वधिवाचित्वे उद् + ऊर्द्ध्वार्थे तरप् । तथा हि लङ्कावधि-
मेरुपर्य्यन्तदेशानाम् भूवलये क्रमश उन्नतत्वात् तत्सन्नि-
हितदेशस्य उन्नत्वादुत्तरत्वम् “स्वापेक्षया मेरुसन्नि-
हितत्वमेव उत्तरत्वमिति” मुक्ता० । अतएव तद्देशस्यो-
च्चत्वादेव च क्रमशस्तत्र उत्तरध्रुवस्यौन्नत्यम्” सि० शि०
उक्तम् “निरक्षदेशे क्षितिमण्डलोपगौ ध्रवौ नरः
पश्यति दक्षिणोत्तरौ । तदाश्रितं स्वे जजयन्त्रवत्तथा
भ्रमद्भचक्रं निजमस्तकोपरि । उदग्दिशं याति नरो
यथा यथा तथा तथा तन्नतमृक्षमण्डलम् । उदकंध्रुव
पश्यति चोन्नतं क्षितेस्तदन्तरे योजनजाः पनांशकाः”
तद्दिशः क्रमशः उच्चत्वाच्च दक्षिणस्या अधस्त्वम् । अतएव
तद्दिशोऽवाचीत्वम् । तद्दिक्कृतदेशस्यापि उत्तरदिक्स्थत्वेनो-
त्तरत्वम् । कालिकस्य उत्तरत्वं तु स्वापेक्षया परत्वम् तच्च
स्वापेक्षया ऽल्पसूर्य्यक्रियासामानाधिकरण्यम् । सूर्य्य-
क्रिययैव स्वण्डकालव्यवहारात् तत्र प्राग्वर्त्तिका-
लवृत्तेः वहलसूर्य्यक्रियासामानाधिकरण्यात्
तथात्वम् । तथा च एतादृशार्थपरत्वे उदः उत्क्रान्ति
प्रकर्षे तरप् । उत्तरकालवाचित्वेऽपि अव्यवहिते एवास्य
वृत्तिरौत्सगिकी लक्षणया अधिककालोत्तरत्वमपि प्रता-
य्यते । तेन स्याव्यवहितोत्तरक्षणवृत्तिकत्वमित्यादिप्रयोगो-
द्रष्टव्यः । अधिकार्थे तु उदः उत्कर्षार्थत्वमिति विवेकः ।
१४ प्रधाने “धर्मोत्तरं मध्यममाश्रयन्ते” रघुः “कस्मा-
त्तात तवाद्येह शोकोत्तरमिदं मनः” भा० अनु०
१६३ अ० १५ अधिके “देवीं तु मनसा ध्यात्वा शतमष्टो-
त्तरं जपेत्” तन्त्रम् । “सप्तोत्तरं मर्मशतं द्वे च
सन्धिगते तथा” या० स्मृ० । उत्तीर्य्यतेऽस्मात्
संसारः अपादाने अप् । १६ विष्णौ पु० । “उत्तरोगो-
पतिर्गोप्ता” विष्णुस० “जन्मसंसारबन्धनादुत्तरन्त्यत
उत्तरः विश्वस्मात् वा उत्कृष्टः--भा० । १७ शिवे पु०
तस्यापि तथात्वात् । भावे अप् । १८ उत्तरणे उल्लङ्घने ।
१९ विराटनृपस्य पुत्रे पु० स च भूमिञ्जयापरनामा ।
२० तत्कन्यायां स्त्री तत्कथा यथा भा० विरा०
प० ३५ १३६ अ० । “दृष्ट्वा भूमिञ्जयं नाम पुत्रं मत्स्यस्य
मानिनम्” इत्युपक्रम्य “उवाच रहसि प्रीतः कृष्णां
सर्वार्थकोविदः । उत्तरं ब्रूहि कल्याणि । क्षिप्रं
मद्वचनादपि” । “उत्तरायाः प्रमुखतः सर्वं जान-
पृष्ठ १०९४
न्नरिन्दमः” “अथोत्तरा च कन्याश्च स ख्यस्तमब्रुवँ
स्तदा” “यद्युत्तरोऽयं संग्रामे विजेष्यति महारथान्”
इति च । उत्तरा च अभिमन्योः पत्नी तत्कथापि तत्रैव
७१, अ० । “उत्तरां प्रतिगृह्णातु सव्यपाची धनञ्जयः”
इति विराटेनोक्ते “प्रतिगृह्णाम्यहं राजन्! स्नुषां दुहितरं
तव” “स्नुषार्थे उत्तरां राजन्! प्रतिगृह्णामि ते सुताम्”
“तां प्रत्यगृह्णात् कौन्तेयः सुतस्यार्थे धनञ्जयः । सौभद्र-
स्यानवद्याङ्गी विराटतनयां तदा । तत्रातिष्ठन् महाराजो
रूपमिन्द्रस्य घारयन् । स्नुषां तां प्रतिजग्राह कुन्तीपुत्रो
युधिठिरः । प्रतिगृह्य च तां पार्थः पुरस्कृत्य जनार्द्दनम् ।
विवाहं कारयामास सौभद्रस्य महात्मनः” ७२ अ० ।
२१ अपृष्टकथने “कृतात्र देवी वचनाधिकारिणी त्वमु-
त्तरं दासि! ददासि का सती” नैष० । उत्तरकालभावित्वा-
दुत्तरत्वाच्चास्य तथात्वमजिज्ञासिताधानतया चास्य निग्रह
स्थानत्वं तदभिप्रायेण उक्तश्लोकेन निग्रहार्थकाक्षेपः कृतः ।

उत्तरकाण्ड न० वाल्मीकि रामायणान्तर्गते सप्तमे काण्डे ।

उत्तरकाल पु० कर्म्म० । भविष्यत्काले क्रमिकर्म्मणा तस्य

गौणकालत्वमाह “एवमागामियागीयमुख्यकालादघस्तनः ।
स्वकालादुत्तरोगौणः कालः पूर्वस्य कर्म्मणः” हरिहरः ।

उत्तरकुरु पु० नववर्षात्मकस्य जम्बुद्वीपस्य वर्षभेदे । वर्षाणां

संस्थितिः सि० शि० उक्ता
“लङ्कादेशाद्धिमगिरिरुदघेमकूटोऽथ तस्मात् तस्माच्चान्यो
निषध इति ते सिन्धुपर्य्यन्तदैर्घ्याः । एवं सिद्धादुदगपि
पुराच्छृङ्गवच्छुक्लनीला वर्षाण्येषां जगुरिह बुधा अन्तरे
द्रोणिदेशान् । भारतवर्षभिदं ह्युदगस्मात् किन्नरवर्षमतो
हरिवर्षम् । सिद्धपुराच्च तथा कुरु, तस्माद्विद्धि
हिरण्मयरम्यकवर्षे । माल्यवांश्च यमकोटिपत्तनाद्रोमकाच्च किल
गन्धमादनः । नीलशैलनिषधावधी च तावन्तरालमन-
योरिलावृतम् । माल्यवज्जलधिमध्यवर्ति यत् तत् तु
भद्रतुरगं जगुर्बुधाः । गन्धशैलजलराशिमध्यगं केतु-
मालकमिलाकलाविदः । निषधनीलसुगन्धसुमाल्यकैरल-
मिलावृतमावृतमाबभौ । अमरकेलिकुलायसमाकुलं रुचि-
रकाञ्चनचित्रमहीतलम्” “अत्र भूगोलस्यार्धमुत्तरं जम्बू-
द्वीपम् । तस्य ज्ञाराब्धेश्च सन्धिर्निरक्षदेशः । तत्र लङ्का
रोमकं सिद्धपुरं यमकोटिरिति पुरचतुष्टयं भूपरिधि-
चतुर्थांशान्तरं किल कथितम् । तेभ्यः पुरेभ्यो यस्यां
दिशि मेरुः सोत्तरा । अतो लङ्काया उत्तरतो हिमवान्
नाम गिरिः पूर्व्वापरसिन्धुपर्य्यन्तदैर्घ्योऽस्ति । तस्योत्तरे
हेमकूटः । सोऽपि समुद्रपर्य्यन्तदैर्घ्यः । तथा तदुत्तरे
निषधः । तेषामन्तरे यथोत्तरम् भारतकिन्नरहरिवर्षाणि । एवं
सिद्धपुरादुत्तरतः शृङ्गवान् नाम गिरिः । ततः श्वेतगिरिः ।
ततो नीलगिरिरिति । तेऽपि सिन्धुपर्य्यन्तदैर्घ्याः ।
तेवामन्तरे च वर्षाणि । तत्रादौ कुरुवर्षम् । तदुत्तरे
हिरण्मयम् । ततो रम्यकमिति । अथ यमकोटेरुत्तरतो
माल्यवान् नाम गिरिः । स तु निषधनीलपर्य्यन्तदैर्घ्यः ।
तस्य जलधेश्च मध्ये भद्राश्वं वर्षम् । एवं रोमकादुत्तरतो
गन्धमादनः तस्य जलधेश्च मध्ये केतुमालम् ।
एवं निषधनीलमाल्यवद्गन्धमादनैरावृतमिलावृतं नाम
नवमखण्डम् । सा खर्गभूमिः । अतस्तत्र देवक्रीडा-
गृहाणि” प्रमि० । तत्र प्रधाना नदी भद्राख्या “चक्षुश्च केतु
मालञ्च भद्राख्या चोत्तरान् कुरुन्” । सि० शि० ।
भा० उ० प० ७ अ० तद्वर्षं वर्ण्णितं यथा “दक्षिणेन तु
नीलस्य मेरोः पार्श्वे तथोत्तरे । उत्तराः कुरवो राजन्
पुण्याः सिद्धनिषेविताः । तत्र वृक्षा मधुफला नित्यपुष्प-
फलोपमाः । पुष्पाणि च सुगन्धीनि रसवन्ति फलानि
च । सर्व्वकामफलास्तत्र केचिद् वृक्षा जनाधिप! ।
अपरे क्षीरिणो नाम वृक्षास्तत्र नराधिप । ये क्षरन्ति
सदा क्षीरं षड्रसञ्चामृतोपमम् । वस्त्राणि च प्रसूयन्ते
फलेष्वाभरणानि च । सर्व्वा मणिमयी भूमिः सूक्ष्मका-
ञ्चनबालुका । मणिरत्ननिभं रम्यं वज्रवैदूर्य्यसन्निभम् ।
भूभागं दृश्यते तत्र पद्मरागसमप्रभम् । सर्व्वर्त्तुसुखसं-
स्पर्शा निष्पङ्का च जनाधिप । पुष्करिण्यः शुभास्तत्र
सुखस्पर्शा मनोहराः । देवलोकच्युताः सर्व्वे जायन्ते तत्र
मानवाः । शुक्लाभिजनसम्पन्नाः सर्व्वे सुप्रियदर्शनाः ।
मिथुनानि च जायन्ते स्त्रियश्चाप्सरसोपमाः । तेषान्ते
क्षीरिणां क्षीरं पिबन्त्यमृतसन्निभम् । मिथुनं जायते
काले समन्तत्र प्रवर्द्धते । तुल्यरूपगुणोपेतं समवेशं तथैव
च । एवमेवानुरूपञ्च चक्रवाकसमं प्रभी! । निरामयाश्च
ते लोका नित्यं मुदितमानसाः । दशवर्षसहस्राणि
दशवर्षशतानि च । जीवन्ति ते महाराज! न चान्योऽन्यं
जहत्युत । भारुण्डा नाम शकुनास्तीक्ष्णतुण्डा भयानकाः ।
तान्निर्हरन्तीह मृतान् दरीषु प्रक्षिपन्ति च । उत्तराः कुरवो
राजन्! व्याख्यातास्ते समासतः” । तेनास्य पुं स्त्वं क्लीवात्वञ्च
उक्तवाक्येभ्यः । भा० स० २७३ अ० अर्ज्जनोत्तरदिग्विजये
“इदं पुरं यः प्रविशेद्ध्रवं न स भवेन्नरः । प्रीयामहे त्वया
वीर! पर्य्याप्तो विजयस्तव । न चात्र किञ्चिज्जेतव्यम-
पृष्ठ १०९५
र्ज्जुनात्र प्रदृश्यते । उत्तराः कुरवोह्येते नात्र युद्धं प्रव-
र्त्तते । प्रविष्टोऽपि हि कौन्तेय! नेह द्रक्ष्यसि किञ्चन ।
नहि मानुषदेहेन शक्यमत्राभिवीक्षितुम् । अथेह पुरुष-
व्याघ्र । किञ्चिदन्यच्चिकीर्षसि । तद्ब्रूहि च करिष्यामो
वचनात्तव भारत! । ततस्तानब्रवीद्राजन्नर्जुनः प्रहसन्निव ।
पार्थिवत्व चिर्कर्षामि धर्म्मराजस्य धीमतः । न प्रवे-
क्ष्यामि वो देशं विरुद्धं यदि मानुषैः । युधिष्ठिराय यत्
किञ्चित् करपण्यं प्रदीयताम्” । “ततोदिव्यानि वस्त्राणि
दिव्यान्याभरणानि च । क्षौमाजिनानि दिव्यानि तस्य ते
प्रददुः करम्” । “तेऽवतीर्य्य बहून् देशानुत्तरांश्च कुरु-
नपि” । भा० व० १४५ अ० । “विजित्य यः प्राज्यमय
च्छदुत्तरान् कुरूनकुप्यं वसु वासवोपमः” किरा० ।

उत्तरकोशला स्त्री कर्म्म० । अयोध्यानाम्न्यां नगर्य्याम् ।

“यदुपतेः क्व गता मथुरा पुरी रघुपतेः क्व गतोत्तरको-
शला । इति विचिन्त्य कुरुष्व मनः स्थिरं न सदिदं
जगदित्यवधारय” उद्भटः ।

उत्तरक्रिया स्त्री कर्म्म० । उत्तरकालकर्त्तव्ये कर्म्मणि “सर्वे-

ष्वर्थविवादेषु बलवत्युत्तरा क्रिया । आधौ प्रतिग्रहे
क्रीते पूर्वा तु बलवत्तरा” या० स्मृ० । “एकमेव क्षेत्र-
मेकस्याधिं कृत्वा किमपि गृहीत्वा पुनरन्यस्याप्याधाय
किमपि गृह्णाति तत्र पूर्वस्यैव तद्भवति नोत्तरस्य एवं
प्रतिग्रहे क्रये च” मिता० । २ वार्षिके पितृकृत्ये च । “प्रेते
पितृत्वमापन्ने सपिण्डीकरणादनु । क्रियन्ते याः क्रिया
पित्र्याः प्रोच्यन्ते ता नृपोत्तराः” । विष्णुपु० । ३ अन्तिम-
क्रियायाञ्च ।

उत्तरङ्ग न० उत्तरमङ्गम् कर्म्म० शकन्ध्वा० । १ द्वारोर्द्धस्थदा-

रुणि । २ प्रा० ब० । उद्गततरङ्गे त्रि० । “भागीरर्थी
शोणइवोत्तरङ्गः” रघुः “अपामिवाधारमनुत्तरङ्गम्” कुमा० ।

उत्तरच्छद पु० कर्म्म० । शय्याया उपर्य्यास्तरणवस्त्रे ।

“शय्योत्तरच्छदविमर्दकृशाङ्गरागम्” । “सोत्तरच्छदमध्यास्त
नेपथ्यग्रहणाय सः” रघुः ।

उत्तरज्योतिष पु० प्रतीचीस्थदेशभेदे भारते स० ३१ अ०

नकुलप्रतीची विजये । “कृत्स्नं पञ्चनदञ्चैव तथैवामर
पर्वतम् । उत्तरज्योतिषञ्चैव तथा दिव्यकटं पुरम् ।
द्वारपालञ्च तरसा वशे चक्रे महाद्युतिः । रामठान्
हारहुणाश्च प्रतीच्याश्चैव ये नृपाः” ।

उत्तरतन्त्र न० सुश्रुतान्तर्गते ग्रन्थभेदे । “इदानीन्तत् प्रव-

क्ष्यामि तन्त्रमुत्तरमुत्तममिति” सुश्रु० ।

उत्तरतस् अव्य० उत्तर + प्रथमापञ्चमीसप्तम्यर्थेषु तसिल् ।

उत्तरस्मिन् उत्तरस्मात् उत्तर इत्यर्थे । त्रल् उत्तरत्रा-
प्यत्र अव्य० ताभ्यां भवार्थे त्यप् । उत्तरतस्त्य डत्तरत्रत्य
तद्भवे त्रि० ।

उत्तरदायक त्रि० उत्तरं ददाति दा + ण्वुल् । १ प्रत्युत्त-

दायिनि । उत्तरेण वाक्येन दायति शोधयति निजदो-
षम् दैप्--शोधे--ण्वुल् । स्वामिना स्वकार्य्यप्रमादकथने-
तद्दोषस्यादोषत्वख्यापनेन निजदोषशोषके भृत्यादौ ।
“परपुंसि रता नारी भृत्यश्चोत्तरदायकः । ससर्पे च गृहे
वासः मृत्युरेव न संशयः” चाण० ।

उत्तरदिक्काल पु० ७ त० । “रवावृत्तरतः कालः सोमे

वायव्यभागके । भौमे तु पश्चिमे भागे बुधे नैरृतकोणके ।
जीवे च याम्यदिग्भागे शुक्रे आग्नेयकोणके । शनौ तु
पूर्वदिग्भागे कालचक्रं प्रकीर्त्तितम्” रत्नसारोक्ते
रविवारे उत्तरदिग्वर्त्तिकालचक्रे । रात्रौ तु वैपरीत्यम्
उत्तरदिक्पाशशब्दे दृश्यम् अन्यदिक्कालोऽप्युक्तदिशाज्ञेयः

उत्तरदिक्पाश पु० ७ त० । “रवौ तु दक्षिणे पाशः सोमे

आग्नेयकोणके । भौमे तु पूर्व्वदिग्मागे बुधे ईशान-
कोणके । जीवे चोत्तरदिग्भागे शुक्रे वायव्यकोणके ।
शनौ तु पश्चिमे भागे पाशचक्रं प्रकीर्त्तितम् । रात्रावेतौ
वैपरीत्यात् पाशकालौ यथोदितौ” रत्नसा० उक्ते
वृहस्पतिवारे उत्तरदिशि यात्रायुद्धादिनिषेधोपयोगिनि
पाशचक्रे । एवमन्यदिक्ष्वप्युक्तदिशा पाशोबोध्यः ।

उत्तरदिक्शूल त्रि० उत्तरदिशि शुलमिवास्त्यस्य अच्

“ज्येष्ठा पूर्ब्बा भाद्रपदा रोहिण्युत्तरफाल्गुनी । पूर्ब्बादिषु
क्रमाच्छूलाः यात्रादौ मरणप्रदाः । शूलाख्यानि च धिष्ण्या
शूलसंज्ञाश्च वासराः । यायिनां मृत्युदाः शीघ्रमथ वा
चार्थनाशकाः” भरद्वाजोक्ते उत्तरदिशि यात्रादौ वर्जै
१ उत्तरफल्गुनीनक्षत्रे २ बुधवारे च दिक्शूलवारस्तु पृष्ठदिगी-
शवारः दिगीशाश्च उत्तरदिगीशशब्दे वक्ष्यन्ते । शूला इत्यत्र
स्त्रीत्वं ताराविशेषणत्वात् ।

उत्तरदिगीश पु० ६ त० । “इन्द्रोवह्निपितृपतिर्नैरृतो-

वरुणोमरुत् । कुवेर ईशः पतयः पूर्व्वादीनां दिशां
क्रमात्” इत्युक्ते १ कुवेरे उत्तरदिक्पालादयोऽप्यत्र ।
“कुवेरगुप्तां दिशमुष्णरश्मौ” कुमारे “कौवेरदिग्भाग-
मपास्य मार्गम्” माघे च उत्तरदिशः कुवेरसम्बन्धित्वमुक्तम्
“सूर्य्यः शुक्रः क्षमापुत्रः सैहिकेयः शनिःशशी । सौम्य-
स्त्रिदशमन्त्री च प्राच्यादिकदिगीश्वराः” इत्युक्ते २ बुधे
पृष्ठ १०९६
एतच्च “दिगीशाहे शुभा यात्रा पृष्ठाहे मरणं घ्रुवम्”
इत्युक्तेः उत्तरदिशः पृष्ठीभतदक्षिणस्यां बुधवारे यात्रानिषे-
घाय “प्राच्यादिककुभां नाथाः यथासंख्यं प्रदक्षिणम् ।
मेषाद्याः राशयो ज्ञेया स्त्रिरावृत्तपरिभ्रमात् इत्युक्तेषु
३ कर्कटवृश्चिकमीनेषु राशिषु च तेषु लम्बेषु तत्स्थे
चन्द्रे च उत्तरदिग्गमनं शस्तमित्यपि बोध्यम् ।

उत्तरदिग्द्वार न० उत्तरदिशि द्वारं मुखमस्य । “प्राच्यादिषु

चतुर्दिक्षु सप्तसप्तानलर्क्षतः” ज्यो० उक्तसाभिजित्काष्टा-
विंशतिनक्षत्रमध्ये २३, २४, २५, २६, २७, १, २ । नक्ष-
त्रेषु तानि च यात्रादिषु तत्र दिशि शस्तानि ।

उत्तरदिग्बलिन् पु० उत्तरस्यां दिशि बली । “प्राच्यां सौम्य

सुराचार्य्यौ याम्यां भास्करमूभिजौ । प्रत्यक् सौरिरुदीच्यान्तु
सितेन्दू दिग्बलान्वितौ” ज्यो० त० उक्ते १ शुक्रे २ चन्द्रे च ।

उत्तरपक्ष पु० कर्म्म० । वादे पूर्ब्बपक्षस्य मर्दनक्षमे सिद्धान्त-

पक्षे । “प्रापयन् पवनव्याधेर्गिरमुत्तरपक्षताम्” माघः ।
२ उत्तरविकल्पे ३ कृष्णपक्षे च शुक्लपक्षस्यैव मासारम्भकत्वात्
कृष्णपक्षस्योत्तरत्वात् तथात्वम् ।

उत्तरपट पु० कर्म्म० । १ उत्तरीये । ततः स्रस्तोत्तरपटः

सप्रस्वेदः सवेपथः” भा० १३६ अ० । २ शय्योत्तरच्छदे च

उत्तरपथ पु० उत्तरः पन्थाः अच् समा० । १ उत्तरस्थिते

२ अव्यवहिते च पथि । उत्तरः उत्तरायणचिह्नितः पन्थाः ।
३ देवयाने पथि येन हि अर्चिरादिमार्गेण विद्यावन्तो
ब्रह्मलोकं गच्छन्ति तादृशे मार्गे । तत्र मार्गे च ये तदभि-
मानिनो देवास्ते अर्च्चिरादिशब्दे ३६४ पृष्ठे उक्ताः
तेषाञ्च यथा आतिवाहिकत्वम् तथा आतिवाहिक
शब्दे ६५१ पृष्ठे उक्तम् । “उत्तरपथेनाहृतञ्च” पा० ।
ठञ् । औत्तरपथिक तत्पथेनाहृते त्रि० ।

उत्तरपथिक त्रि० पन्थानं गच्छति “पथः ष्कन्” पा०पथिकः

उत्तरः तद्देशभवः पथिकः । उत्तरदेशभवे १ पथिके
स्त्रियां ङीष् ।

उत्तरपद न० उत्तरमुत्तरवर्त्ति पदम् । १ समासचरमावयव-

पदे २ स्वीत्तरवर्त्तिपदे च । “एकाजुत्तरपदे णः” पा० ।
३ समासयोग्ये पदे च । “प्राधान्यं हि विधेयत्र प्रतिषेधेऽ-
प्रधानता । पर्त्युदासः स विज्ञेयो यत्रोत्तरपदेन नञ्”
मीमांसा । भवति च “यजतिषु येयजामहं कुर्य्यात् नानुया-
जेषु” इत्यत्र नञः समासयोग्यानुयाजेन साहित्यात् पर्य्यदास
परता तथा रात्रौ श्राद्धं न कुर्वीतेत्यादौ नञो रात्र्या
समासयोग्यत्वात्तथात्वम् “अष्टम्यां मांसं नाश्नीयादित्यत्र तु
क्रियापदयोगेन तस्यंसमासयोग्यत्वाभावेन न तत्रोत्तरपद-
योग इति न पर्य्युदासपरता किन्तु प्रसह्यप्रतिषेधार्थकता
“अप्राधान्यं विधेर्यत्र प्रतिषेधे प्रधानता । प्रसह्यप्रतिषे-
धोऽत्र क्रियया सह यत्र नञ्” इति मीमासकोक्तेः ।
“पदोत्तरपदात्” वार्त्ति० उत्तरपदमधीते वेत्ति वेत्यर्थे
इकन् । उत्तरपदिक तदध्येतरि तद्वेत्तरि च त्रि० ।

उत्तरपश्चिमा स्त्री उत्तरास्याः पाश्चमाया अन्तराला दिग्

दिक्स० । १ उत्तरपश्चिमयोरन्तरालदिशि नैरृतकोणे ।
सा बिद्यतेऽस्य अच् । २ नैरृतविदिक्सम्बन्धिनि देशे पु०
“उत्तरपश्चिमे गार्हपत्यम्” आश्च० गृ० ४, २, १२ ।
३ तद्वर्त्तिनि त्रि० ।

उत्तरपाद पु० कर्म्म० । चतुष्पादात्मकस्य व्यवहारस्य द्वितीये

प्रादे “पूर्व्वपक्षः स्मृतः पादो द्वितीयश्चोत्तरः स्मृतः ।
क्रियापादस्तृतीयः स्याच्चतुर्थोनिर्ण्णयः स्मृतः । मिथ्योक्तौ तु
चतुष्पात् स्यात् प्रत्यवस्कने तथा । प्राङ्म्म्याये च स
विज्ञेयोद्विपात् संप्रतिपत्तिषु” वृहस्यतिः ।

उत्तरपुरस्तात् अव्य० उत्तरस्याः पूर्व्वस्या अन्ताराला दिक्

उत्तरपूर्व्वा ततः प्रथमापञ्चमीसप्तम्यर्थे अस्ताति पुंवद्भावः
पूर्ब्धस्य पुरादेशः । ईशानकोणे “उत्तरपुरस्तादाहव-
नीयस्य जानुमात्र गर्त्तं खात्वा” आश्व० गृ० ४, ४, ८ ।

उत्तरपूर्व्वा स्त्री उत्तरस्याः पूर्ब्बस्या दिशोऽन्तराला दिक्

पुंवद्भावः दिक्स० । ईशानकोणे “आग्नेयमुत्तरपूर्व्वार्द्धे”
कात्या० ३, ३, २० । दिङ्नामसमासे वा एवास्य सर्व्वनाम-
कार्य्यम् योत्तरा सा पूर्व्वा यस्य मुग्धस्य एवं बहुव्रीहौ तु
न सर्वनामकार्य्यमिति भेदः । तेन तादृशार्थेऽपि अस्य
वृत्तित्वे त्रि० । “योत्तरा सा पूर्ब्बा यस्या उन्न्मुग्धाया-
स्तस्यै उत्तरपूर्ब्बायै” सि० कौ० ।

उत्तरफल्गुनी स्त्री फलति फल--निष्पत्तौ “फलेर्गुक्

च” उणा० उनन् गुक् च गौरा० ङीष् कर्म्म० ।
अश्विन्यादिषु द्वादशे नक्षत्रे तस्याः स्वरूपम् उडुचक्रशब्दे
१०७१ पृ० अश्लेषाशब्दे ४९७ पृष्ठे च तदधिदे-
वादि उक्तम् । फल्गुनशब्दात् स्वार्थे अण् ङीप् ।
फाल्गुनी कर्म्म० । तत्रैवार्थे । इयं ध्रुवगणान्तर्गता “ध्रुव-
गणस्त्रीण्युत्तराणि स्वभूः” इत्युक्तेः यथा चास्य फाल्गुनत्वं
तथा समर्थितम्” शत० ब्रा० । “फल्गुनीष्वग्नी आदधीत
एता वा इन्द्रनक्षत्रम् यत् फल्गुन्योऽप्यस्य प्रतिनाम्न्यो-
ऽर्जुनोहवै नामेन्द्रो यदस्य गुह्यं नामार्जुन्योवैनामैतास्ता
एतत्परोक्षमाचक्षते फाल्गुन्य इति कोह्येतस्यार्हति गुह्यं
पृष्ठ १०९७
नाम ग्रहीतुम्” २, १, २, ११ अस्याः प्रथमपादः सिंहराशिः
उत्तरपादत्रयं कन्याराशिः प्रमाणं उडुचक्रशब्दे दृश्यम् ।

उत्तरभाद्रपद् स्त्री भद्राय हितः भाद्रः पत् पादश्चतुर्थांशो

यस्याः ब० ततः कर्म्म० । अश्विन्यादिनक्षत्रेषु षड्विंशे
नक्षत्रे । पदशब्देन समासे टाप् । उत्तरभाद्रपदाप्यत्र ।
स्वरूपादिकमुडुचक्रशब्दे १०७१ पृष्ठे उक्तम् । अधिपत्या-
दिकमश्लेषाशब्दे चोक्तम् । इयं ध्रुवगणः “ध्रुवगणस्त्री-
ण्युत्तराणि स्वभूः” इत्युक्तेः मीनराशिघटिका ।

उत्तरमानस न० उत्तरमुत्त्तरस्थं मानसम् । १ तीर्थभेदे

“कालोदकं नन्दिकुण्डं तथाचोत्तरमानसम् । अभ्येत्य
योजनशताद्भ्रूणहा विप्रमुच्यते” भा० अनु० २५ अ० ।
२ गयामध्ये उत्तरदिक्स्थे तीर्थभेदे “उत्तरे मानसे,
स्नानं करोम्यात्मविशुद्धये” इति गयाश्राद्धपद्धतिः ।
दक्षिणमानसमपि तक्रत्यतीर्थभेदः “दिवाकर!
करोमीह स्नानं दक्षिणमानसे” इति तत्रैव ।

उत्तरमीमांसा स्त्री उत्तरस्य वेदशेषभागस्य उपनिषद्-

रूपस्य मीमांसा पञ्चाङ्गन्यायोपेतवाक्यसमुदायात्मकोवि-
वारः । “अथातो ब्रह्मजिज्ञासा” इत्यादौ “अनावृत्तिः
शब्दात्” इत्यन्ते चतुरध्यायीरूपे षोडशपादात्मके शारीरस्य
ब्रह्मात्मत्वप्रतिपादके वेदव्यासरचिते शारीरकसूत्राख्ये
ग्रन्ये । तत्र प्रतिपाद्यविषयादि संक्षेपतः वैयासिकमालायां
भारतीतीर्थमुनिना दर्शितं यथा “शास्त्रं ब्रह्मविचा-
राख्यमध्यायाः स्युश्चतुर्विधाः । समन्वयाविरोधौ द्वौ
साधनं च फलं तथा” ४ । समन्वये स्पष्टलिङ्गम-
स्पटत्वमुपास्यगम् । ज्ञेयगं पदमात्रं च चिन्त्यं पादे-
ष्वदः क्रमात्” ५ । द्वितीये स्मृतितर्काभ्यामविरोधो-
ऽन्यदुष्टता । भूतभोक्तृश्रुतेर्लिङ्गश्रुतेरष्यविरुद्धता” ६ ।
तृतीये विरतिस्तत्त्वंपदार्थपरिशोधनम् । गुणोपसंहृति
र्ज्ञानबहिरङ्गादिसाधनम् ७ । चतुर्थे जीवतोमुक्ति
रुत्क्रान्तिर्गतिरुत्तरा । ब्रह्मप्राप्तिब्रह्मलोकावाप्तीः पादा-
र्थसंग्रहः” ८ । “अध्यायचतुष्टयात्मकस्य शास्त्रस्य ब्रह्म-
विचारोऽर्थः सर्वेषां वेदान्तवाक्यानां ब्रह्मणि तात्प-
र्य्येण पर्य्यवसानं प्रथमाध्यायेन प्रतिपाद्यते । द्विती-
येन सम्भावितविरोधः परिह्रियते । तृतीयेन विद्यासा-
धननिर्णयः । चतुर्थेन विद्याफलनिर्णयः इत्येते अध्या-
यार्थाः ४ । तत्र प्रथमाध्यायगतपादार्थान् विभजते ।
समन्वयेति । स्पष्टब्रह्मलिङ्गयुक्तं वाक्यजातं प्रथमे पादे
चिन्त्यम् । “अन्तस्तद्धर्मोपदेशाद्” इत्यत्र सार्वज्ञ्यसार्वात्म्य-
सर्वपापविरहादिकं च ब्रह्मणोऽसाधारणतया स्पष्टब्रह्म-
लिङ्गम् । अस्पष्टब्रह्मलिङ्गत्वे सत्युपास्यविषयं वाक्यजातं
द्वितीयपादे चिन्त्यम् । तद्यथा प्रथमाधिकरणविषये
शाण्डिल्योपास्तिवाक्ये मनोमयत्वप्राणशरीरत्वादिकं सो
पाविकब्रह्मणो जीवस्य च साधारणत्वादस्पष्टब्रह्मलिङ्गम् ।
तृतीयपादे त्वस्पष्टव्रह्मलिङ्गत्वे सति ज्ञेयब्रह्मविषयं वाक्य-
जातं चिन्त्यं तद्यथा प्रथमाधिकरणे मुण्डकगतब्रह्मत-
त्त्ववाक्ये द्युभ्वन्तरिक्षाद्योतत्वं सूत्रात्मनः परब्रह्म-
णश्च साधारणत्वादस्पष्टं ब्रह्मलिङ्गम् । यद्यपि द्वितीय-
पादे कठवल्यादिगतब्रह्मतत्त्ववाक्यानि विचारितानि । तृती-
यपादे दहरोपासनावाक्यं विचारितं तथाप्यवान्तर
संगतिलोभेन तद्विचारस्य प्रासङ्गिकत्वान्न पादार्थयोः
साङ्कर्यापत्तिः इत्येवं पादत्रयेण वाक्यविचारः समापितः ।
चतुर्थपादे त्वव्यक्तपदमजापदं चेत्येवमादिसन्दिग्धपदं
चिन्त्यम् ५ । द्वितोयाध्यायगतपादार्थान्विभजते द्वितीये इति!
प्रथमपादे सांख्ययोगकाणादादिस्मृतिभिः सांख्यादि-
प्रयुक्ततर्कैश्च विरोध्रो वेदान्तसमन्वयस्य परिहृतः । द्विती-
यपादे सांख्यादिमतानां दुष्टत्वं प्रदर्शितम् । तृतीयपादे
पूर्वभागेण पञ्चमहाभूतश्रुतीनां परस्परविरोधः परिहृतः
उत्तरभागेण जीवश्रुतीनाम् चतुर्थपादे लिङ्गशरीरश्रुतीनां
विरोधः परिहृतः ६ । तृतीयाध्यायगतपादार्थान्विभजते
तृतीये इति । प्रथमपादे जीवस्य परलोकगमनागमने विचार्य
वैराग्यं निरूपितम् । द्वितीयपादे पूर्वभागेण त्वंपदार्थैः
शोधितः । उत्तरभागेण तत्पदार्थः । तृतीयपादेन सगुण-
विद्याया गुणोपसंहारी निरूपितः निर्गुणे ब्रह्मणि च
पुनरुक्तपदोपसंहारश्च । चतुर्थपादे निर्गुणज्ञानस्य
बहिरङ्गभूतान्याश्रमयज्ञादीन्यन्तरङ्गभूतशमदमनिदिध्यासनादीनि
च निरूपितानि ७ । चतुर्थाध्यायगतपादार्थान्विभजते
चतुर्थे इति । प्रथमपादे श्रवणाद्यावृत्त्या निर्गुणमुपासनया-
सगुणं वा ब्रह्म साक्षात्कृत्य जीवतः पापपुण्यलेपविनाशल-
क्षणा मुक्ति रभिहिता । द्वितीये पादे म्रियमाणस्योत्क्रान्ति-
प्रकारोनिरूपितः । तृतीयपादे सगुणविदो मृतस्यो-
त्तरमार्गोऽभिहितः । चतुर्थपादे पूर्वभागेण निर्गुणब्रह्म-
विदो विदेहकैवल्यप्राप्तिरभिहिता, उत्तरभागेण सगुण-
ब्रह्मविदो ब्रह्मलोकप्राप्तिर्निरूपिता” तद्व्या० । मीमांसा हि
वेद तात्पर्य्यनिर्ण्णयार्थः न्यायपञ्चकात्मकविचारः । सा च
द्विविधा पूर्वभीमांसा उत्तरमीमासा च तत्र पूर्व्वमीमांसा
जैमिनिप्रणीता “अथातोधर्मजिज्ञासा” इत्यादिका, उत्तरमी-
मांसा दर्शिता । इयमेव च ब्रह्ममीमांसात्वेन प्रसिद्धा
पृष्ठ १०९८

उत्तररामचरित न० उत्तरं रामस्य चरितं यत्र । भवभूति-

प्रणीते नाटकभेदे ।

उत्तरवयस त्रि० उत्तरं वयः नि० वेदे अच् समा० । वृद्धा-

वस्थायाम् “तस्मादुत्तरवयसे पुत्रान् पितोपजीवति” शत०
ब्रा० १२, २, ३, ४ । लोके तु उत्तरवयस् इत्येव ।

उत्तरवस्ति पु० सुश्रुतोक्ते चिकित्साङ्गे यन्त्रभेदे । तत्स्वं

रूपप्रयोगप्रकारादि यथा तत्रैव
“वस्तेरुत्तरसंज्ञस्य विधिं वक्ष्याम्यतःपग्म् । चतुर्द्दशाङ्गुल-
नेत्रमातुराङ्गुलिसम्भितम् । मालतीपुष्पवृन्ताग्रं छिद्रं
सर्षपनिर्गमम् । मेढ्रायामसमं केचिदिच्छन्ति खलु
तद्विदः । स्नेहप्रमाणं परमं कुञ्चश्चात्र प्रकीर्त्तितः । पञ्च-
विंशादधोमात्रां विदध्याद्बुद्धिकल्पिताम् । निविष्टकर्णिकं
मध्ये नारीणां चतुरङ्गुलम् । मूत्रस्तोतःपरीणाह-
मुद्गवाहिदशाङ्गुलम् । तासामपत्यभार्गे तु निदध्याच्चतुर-
ङ्गुलम् । द्व्यङ्गुलं मूत्रमार्गे तु कन्यानान्त्वेकमङ्गुलम् ।
विधेयं चाङ्गुलं तासां विधिवद्वक्ष्यते यथा । स्नेहस्य प्रसृ-
तञ्चात्र स्वाङ्गुलीमूलसंमितम् । देयं प्रमाणं परमम-
र्वाग्बुद्धिविकल्पितम् । औरभ्रः शौकरो वापि वस्तिराजश्च
पूजितः । तदलाभे प्रयुञ्जीत गलचर्म्म तु पक्षिणाम् ।
अस्यालाभे दृतेः पादो मृदुचर्म ततोऽपि वा । अथातुर-
मुपस्निग्धं सुस्विन्नं प्रथिताशयम् । यवागूं सघृतक्षीरां
पीतवन्तं यथाबलम् । निषण्णमाजानुसमे पीठे स्थानाश्रये
समे । स्वभ्यक्तवस्तिमूर्द्धानं तैलेनोष्णेन मानवम् । ततः
समं स्थापयित्वा नालमस्य प्रहर्षितम् । पूर्वं शलाकयाऽ-
न्विष्य ततो नेत्नमनन्तरम् । शनैःशनैर्घृताभ्यक्तं विदध्या-
दङ्गुलानि षट् । ततोऽवपीडयेद्वस्तिंश नैर्नेत्रंच निर्हरेत् ।
ततः प्रथागते स्नेहमपराह्णे विचक्षणः । भोजयेत् पयसो
मात्रां यूषेणाथ रसेन वा । अनेन विधिना दद्याद्वस्तींस्त्रीं-
श्चतुरोऽपिवा । ऊर्द्ध्वजान्वै स्त्रियै दद्यादुत्तानायै विचक्षणः ।
कल्येतरस्यै कन्यायै दद्यात्सुमृदु पीडितम् । त्रिकर्णिकेन
नेत्रेण दद्याद्योनिमुखं प्रति । गर्भाशयविशुद्ध्यर्थं स्नेहेन
द्विगुणेन तु । अप्रत्यागच्छति भिषक् वस्तावुत्तरसंज्ञिते ।
भूयोवस्तिं निदध्यात्तु संयुक्तं शोधनैर्गणैः । गुदे वर्त्तिं
निदध्याद्वा शोधनद्रव्यसंभृताम् । प्रवेशयेद्वा मतिमान्त-
स्तिद्वारमथैषणीम् । पीडयेद्वाप्यधोनाभेर्बलेनोत्तरमुष्टिना ।
आरग्बधस्य पत्रेषु निर्गुण्ड्याः सुरसेषु च । कुर्य्याद्गोमू-
त्रपिष्टेष वर्त्तीर्वापि ससैन्धवाः । मुद्गैलासर्षपसमाः प्रवि-
भज्य वयांसि तु । वस्तेरागमनार्थाय ता निदध्याच्छला-
कया । आगारधूमवृहतीपिप्पलीफलसैन्धबैः । कृता वा
शुक्तगोभत्रसुरापिष्टैः सनागरैः । अनुवासनसिद्धिञ्च वीक्ष्य
कर्म प्रयोजयेत् । शर्करामधुमिश्रेण शीतेन मधुकाम्बुना ।
दह्यमाने तदा वस्तौ दद्याद्वस्तिं विचक्षणः । क्षीरवृक्षक-
षायेण पयसा शीतलेन च । शुक्रं दुष्टं शोणितं चाङ्ग-
नानां पुष्पोद्रेकं तस्य नाशञ्च कष्टम् । मूत्राघातान्मूत्र-
दीषान् प्रवृद्धान् योनिव्याधिं संस्थितिं चापरायाः ।
श्रुक्रोत्सेकं शर्करामश्मरीञ्च शूलं वस्तौ वङ्क्षणे मेहने
च । घोरानन्यान् वस्तिजांश्चापि रोगान् हित्वा मेहानुत्त
रो हन्ति वस्तिः । सम्यग्दत्तस्थ लिङ्गानि व्यापदः क्रम
एव च । वस्तेरुत्तरसंज्ञस्य समानं स्नेहवस्तिना” ।

उत्तरवादिन् त्रि० उत्तरमुत्तरपक्षं वदति वद--णिनि ।

वादे प्रतिवादिनि (आशामी) “साक्षिषूभयतः सत्सु
भवन्ति पूर्ब्बवादिनः । पूर्वपक्षेऽधरीभूते भवन्त्युत्तरवा-
दिनः” या० स्मृ० ।

उत्तरवेदि स्त्री कर्म्म० वा ङीप् । “तरन्तुकारन्तुकयोर्यदन्तरं

रामह्रदानाञ्च मचक्रुकस्य च । एतत् कुरुक्षेत्रसमन्त-
पञ्चकं पितामहस्योत्तरवेदिरुच्यते” भा० व० ८३ अ०
उक्ते कुरुक्षेत्रान्तर्गते १ समन्तपञ्चकरूपे तीर्थे । कुरुक्षेत्रञ्च
“उत्तरेण दृषद्वत्या दक्षिणेन सरस्वतीम् । ये वसन्ति कुरुक्षेत्रे
ते वसन्ति त्रिपिष्टपे” इत्युक्तस्थले तीर्थभेदः । इयमेव
ब्रह्ववेदीत्युच्यते “ब्रह्मवेदी कुरुक्षेत्रं पुण्यं ब्रह्मर्षि-
सेवितम्” तत्रैवोक्तेः । यज्ञेऽग्निस्थानपार्थं २ वेदिभेदे
तत्स्वरूपादि दानपा० दर्शितं यथा । “तत्र महावेदि-
पश्चिमरेखामध्यात् पूर्व्वतः समित्त्रयमितां, प्राचीरेखा
मध्यात् पश्चिमतः समिन्मात्रां, दक्षिणरेखामध्यात् उत्त-
रस्यामुत्तररेखामध्यात् दक्षिणस्यां तथैव समिन्मात्रां भूमिं
त्यक्त्वा कुण्डादिमध्ये समिद्द्वयमितदीर्घविस्तारां समचतुर-
स्रामुत्तरवेदिमग्निस्थापनाय वेदिमध्ये कल्पयेत्” ।
“उत्तरवेद्यग्निप्रणयनमन्थनपृषदाज्यं वरुणप्रधासा-
दधः” कात्या० ५, ७, १५ । “दक्षिणेन निर्हृत्य दक्षिण-
स्यामुत्तरवेदिश्रेणौ निदधाति ८, ९, १८ । ७ अथात
आवृदेव नोपकिरन्त्युत्तरवेदिम्” शत० ब्रा० २, ४, १,
१८ । “तद्वै द्वे वेदी द्वावग्नी भवतः । तद्यद् द्वे वेदी
द्वावग्नी भवतस्तदुभयतस्तदुभयत एवैतत् वरुणपाशान्
प्रजाः प्रमुञ्चन्तीतश्चोर्द्ध्वा इतश्चावाचीस्तस्माद् द्वे वेदी द्वा
वग्नी भवतः । स उत्तरस्यामेव वेदौ उत्तरवेदिम् उप-
किरति न दक्षिणस्याम्” शत० ब्रा० २, ५, ३, ५, ६ ।
पृष्ठ १०९९

उत्तरशलङ्कट पुंस्त्री ब० व० उत्तरयश्च शालङ्कटयश्च द्वन्द्व०

ततः गोत्रप्रत्ययस्य लुक् । उत्तरशालङ्कगोत्रोत्पन्ने ।

उत्तरसक्थ न० उत्तरः सथ्वः एकदे० त० टच्समा० । सक्थ्न

उत्तरभागे

उत्तरसाक्षिन् त्रि० “साक्षिणामपि यः साक्ष्यं स्यपक्षं

परिभाषताम् । श्रवणाच्छावणाद्वापि स साक्ष्युत्तरसंज्ञक” इति
नारदोक्ते साक्षिभेदे ।

उत्तरसाधक त्रि० उत्तरः सन् साधयति सिष--णिच्

साधादेशः ण्वुल् । सहाये सहकारिणि । स हि
इतरसामग्रीसत्त्वे तदुत्तरवर्त्ती सन् कार्य्यं सावयति ।

उत्तरा अव्य० उत्तर + प्रथमापञ्चमीसप्तम्वर्थे आच् । उत्तरस्यां

दिशि काले देशे वेत्याद्यर्थे । १ प्रययावुत्तरामुखः” भा० स०
२९ अ० । २ उत्तरस्यां दिशि ३ विराटकन्यायां स्त्री । “प्रेते
पितृत्वमापन्ने सपिण्डीकरणादनु । क्रियन्ते याः
क्रियाः पित्र्याः प्रोच्यन्ते उत्तरा हि ता” इत्युक्तासु
सपिण्डीकरणोत्तरासु वार्षिकश्राद्धक्रियायासु च स्त्री ।

उत्तरात् अव्य० अत्तर + दिग्देशकालविधये आति । उत्तर-

मुत्तरस्मादुत्तरस्मिन्नित्यर्चे । “पश्चादोत्तरादधरादापुरस्तात्”
ऋ० ६, १९, ९ । “त्वं नः पश्चादधरादुत्तरात् पुरः”
ऋ० ८, ६१, १६ ।

उत्तरात्तात् अव्य० उत्तरात् + बा० वेदे० त्रि० ताति । उत्तरा-

दित्यर्थे । “सप्त वीरासोऽधरादुदायन्नष्टोत्तरात्तात् समजन्मि-
रन्ते” ऋ० १०, २७, १५ । “पुरणात् सवितोत्तरात्तात्
सविताऽधरात्तरात् १०, ३६, १४ ।

उत्तराधर त्रि० कर्म्म० उत्तरश्च अघरश्च । उच्चावचे उत्तर-

धरा इव भवन्त्योयन्ति” शत० व्रा० ५, ३, ४, २१ । उपरित
मोष्ठे पु० “पुनर्बिवक्षुः स्फुरितोत्तराधर” कुमा० ।

उत्तराधिकारिन् त्रि० उत्तरं पूर्ब्बस्मामिस्यत्वोपरमान-

न्तरमधिकरोति तद्धने स्वाप्यमाप्तोति अधि + कृ--णिनि ।
पूर्ब्बस्यामिस्यत्वोपरमे तद्धने स्वामित्यप्राप्ते पूर्व्वस्वामिस-
म्यन्धिपुंत्रादौ स्त्रियां ङीष् । तत्र कस्व धने कस्याधिकारः ।
तत्र तावत् वङ्गदेशप्रचलितदायभागमतानुसारिक्रमोऽभि-
धीयते तत्र तद्व्या० श्रीकृष्णेनोक्तम् यथा । “अत्रायं
मृतपुन्धनाधिकारिक्रमः । तत्र प्रथमं पुत्रः तदभाये
पौत्रः तदभावे प्रपौत्रः, मृतपितृकपौत्र--मृतपितृपितामह-
कप्रपौत्रयोस्तु पुत्रेण मह युगपदधिकारः । प्रपौत्रप-
र्य्यन्ताभावे पत्नी सा च प्राप्तभर्त्तृदाया भर्त्तृकुलं
तदभावे पितृकुलं वा समाश्रिता सती शरीररक्षार्थ
भर्तृदायं भञ्जीत तथा भर्त्तुरुपकारार्थं यथाकथञ्चिद्दानादि-
कमपि कुर्व्वीत न तु स्त्रीधनवत् स्वच्छन्दं विनियु-
ञ्जीत । तदभावे दुहिता तत्र प्रथमं कुमारी तदभावे
नाग्दत्ता, तदभावे ऊढा सा च पुत्रवती सम्भावितपुत्रा
च ते द्वे युगपदेवाधिकारिण्यौ, बन्ध्या पुत्रहीना विधवा च
नाधिकारिणी । ऊढायाअभावे दौहित्रः । तदभावे
पिता । तदभावे माता, तदभावे भ्राता, तत्रापि प्रथमं
सोदरः तदभावे वैमात्रेयः, मृतस्य भ्रातृसंसृष्टत्वे तु
सोदरमात्रविषये प्रथमं संसृष्टसोदर एवाधिकारी
तदभावे चासंसृष्टसोदरः, एवं वैमात्रेयमात्रविषये प्रथमं
संसृष्टवैमात्रेयः तदभावे चासंसृष्टवैमात्रेयः, यदा तु
संसृष्टोवैमात्रेयः सोदरश्चासंसृष्टः तदा तावुभौ तुल्य-
वदकिकारिणौ । भ्रातॄणामभावे भ्रातृपुत्रः, तत्रापि
प्रथमं सोदरभ्रातृपुत्रः तदभावे वैमात्रेयभ्रा तृपुत्रः,
संसर्गे तु सोदरभ्रातृपुत्रमात्रविषये प्रथमं संसृष्टसोद-
रभ्रातृपुत्रः तदभावे चासंसृष्टसोदरभ्रातृपुत्रः, वैमात्रेय-
भ्रातृपुत्रमात्रविषये प्रथमं संसृष्टवैमात्रेयभ्वातृपुत्रः
तदभावे चासंसृष्टवैमात्रेयभ्रातृपुत्रः, यदा तु सोदरभ्रातृ-
पुत्रोऽसंसृष्टो वैमात्रेयभ्रातृपुत्रस्तु संसृष्टः तदा द्वौ
भ्रातृवत्तु ल्याधिकारिणौ । भ्रातृपुत्राभावे भ्रातृपौत्रः
तत्रापि भ्रातुः मोदरासोदरक्रमः संसर्गासंसर्गक्रमश्च
बोध्यः । तदभावे पितृदौहित्रः स च सोदरभरिनीपुत्रः
वैमात्रेयभगिनीपुत्रश्च, तदभावे पितामहः, तदभावे पिता-
मही, तदभावे पितुः सहोदरः तदभावे पितुर्वैमात्रेयः ।
तदभावे पितृंसोदरपुत्रपितृवैमात्रेयपुत्रपितृसोदरपौत्रपि-
तृवैमात्रेयपौत्राणां क्रमेणाधिकारः । तदभावे पितामह-
दौहित्रः तत्रापि पितृसोदरभगिनीपुत्रः पितृ-
सैमात्रेयभगिनीपुत्रश्च, वक्ष्यमाणप्रपितामहदौहित्राधिका-
येऽप्येवम्, तदभावे प्रपितामहः तदभावे प्रपितामही
तदभावे पितामहसहीदरभ्रातृतद्वैमात्रेयभ्रातृतत्पुत्रपौ-
त्रप्रपितामहदौहित्राः क्रमेणाधिकारिणः ।
एतावत्पर्य्यन्तानां धनिभोग्यपिण्डदातॄणामभावे धनिदेय-
पिण्डदातॄणां मातामहमातुलादीनामधिकारः तत्रापि
प्रथमं मातामहस्तदभावे मातुलतत्पुत्रपौत्राणां क्रमेणा-
धिकारः तदभावे चाधस्तनसकुल्यानां धनिभोग्यलेपदा-
तॄणां प्रतिप्रणप्तृप्रभृतिपुरुषत्रयाणां क्रमेणाधिकारः,
तदभागे पुनरूर्द्ध्वतनसकुल्यानां धनिदेयलेपभुग्वृद्धप्रपिता-
पृष्ठ ११००
महादितत्सन्ततीनामासत्तिक्रमेणाधिकारः, तदभावे
समानोदकानामधिकारः! तेषामभावे चाचार्य्यस्य तदभावे
शिष्यत्य तदभावे सब्रह्मवारिणीऽघिकारः, तदभावे
चैकग्रामस्थसगोत्रसमानप्रयरयोः क्रमेणाधिकारः । उक्त-
पर्य्यन्तानां सर्वेषां सम्बन्धिनामभावे ब्राह्मणधनवर्ज्जं
राजा गृह्णीयात्, ब्राह्मणधनन्तु त्रैविद्यादिगुणयुक्ता
ब्राह्मणा गृह्णीयुः । एवं वानप्रस्थधनं भ्रातृत्वेनानुमतो-
ऽपरवानप्रस्थ एकतीर्थी गृह्णीयात् । तथा यतिधनं
मच्छिष्यः । नैष्ठिकब्रह्मचारिणोधनमाचार्य्यः उपकुर्व्वा-
णस्य तु ब्रह्म वारिणोधनं पित्रादिर्गृह्णीयादिति सङ्क्षेपः” ।
दायक्रमसंग्रहे भ्रातृदौहित्रपितृष्यदोहित्रपितामहसो-
दरदौहित्राणामप्यधिकारोऽभिहितः । विवादभङ्गार्णवमते
पुत्रपौत्रदौहित्रयोरष्यधिकारः । इदन्तु वोध्यं पितृधन-
विभागे जनन्याः पुत्रतुल्यांशेऽधिकारः । पितामहधन
विभागे च पितुर्जनन्याः पौत्रतुल्यां शेऽधिकारः । जीवद्भागे
तु पित्रा पितामहेन वा भागद्वयं ग्राह्यम् अप्राप्तस्त्रीध-
नानां सर्वासां स्वस्वपत्नीनां पुत्रस्य मृतपितृपौत्रस्य चैकै-
कोऽंशोदेयः, अनेकपितृकाणां तु पितृतोभागकल्पना
एवं मातृधने पितामहीधनेऽपि पितृतोभागकल्पना इति ।
स्थावरे तु विशेषः “अविभक्तं स्थावरं यत् सर्वेषामेव तद्भ-
वेत्” वृहस्पतिवचनात् तुल्यरूपाणां सोदरासोदराणां
समाधिकारः । स्त्रीधने विशेषस्तत्रैव । “अत्रायं स्त्रीधनाधि-
कारिक्रममिर्णयः । तत्र कन्याधने प्रथमं सोदरभ्रातुस्तद-
भावे मातुस्तदभावे पितुरधिकारः । वरदत्तातिरिक्तवाग्दत्ता-
धनेष्वेवं, वरदत्तधने तु वरस्याधिकार इति । ऊढाया
यौतकधने प्रथमं कुमारी, तदभावे वाग्दत्ताऽधिकारिणी,
एतयोरभावे ऊढयोः पुत्रवतीसम्भावितपुत्रयोर्युगपदधिकारः ।
एकस्या अभावेऽपरायाः, एतयोरभावे बन्ध्याविधवयोस्तुल्या-
धिकारः, एकाभावे चापरायाः, । ततः पुत्रदौहित्रपौत्र-
प्रपौत्रसपत्नीपुत्रपौत्रप्रपौत्राणां क्रमेणाधिकारः । ग्रन्य-
कृन्मते तु सपत्नीपुत्पानन्तर” दौहित्रस्याधिकार इति
विशेवः । ततोब्राह्मादिविवाहपञ्चकसमयलब्धयौतकधने
भर्त्ता, भ्राता माता पिता चेति क्रमः आसुरादिविवाह-
त्रयसमयलब्धयौतकधने माता पिता भ्राता भर्त्ता चेति
क्रमः । ततो देवरः ततोदेवरपुत्रभ्रातृश्वशुरपुत्रौ,
ततोभगिनोपुत्रः, ततोभर्त्तृभागिगेयः, ततोभ्रातृपुत्रः
ततोजामाता, ततः श्वशुरः, भ्रातृश्वशुरः, । ततआनन्तर्य्य-
क्रमेण सपिण्डाः ततः सकुल्याः, ततः समानोदका
इति । योतकातिरिक्तेऽपि पितृदत्ते प्रथमं कुसारी,
ततः पुत्रः, ततः पुत्रवतीसम्भावितपुत्रे, ततः पौत्रदौहि-
त्रप्रपौत्रसपत्नीपुत्रपौत्रप्रपौपुत्राः । ततो बन्ध्या विधवा च
युगपदधिकारिण्यौ, ततोब्राह्मादिक्रमेणैव पूर्ब्बवत् क्रमः ।
पितृदत्तातिरिक्ते अयौतकधने तु पुत्रकुमार्य्योर्युगपद-
धिकारः, तयोरभावे पुत्रवतीसम्भावितपुत्रयोः, ततः पौत्र-
दौहित्रप्रपौत्रसपत्नीपुत्रपौत्रप्रपौत्राः क्रमेणाधिकारिणः, ।
ततो बध्या विधवा च युगपदधिकारिण्यौ ततः पूर्ब्बवत्
व्राह्मादिक्रमः” । अत्र सर्षत्रप्रमाणं दायभागेऽनुसन्धेयम् ।
चिन्तामणिमते पुत्रमृतकपौतृमृतपितापितामहक-
प्रपौत्राधिकारं दायभागमतवत् सप्रपञ्चं निरूप्य अपुत्र-
पुंधने विशेषोऽभिहितो यथा ।
“अनन्तरः सपिण्डाद्यस्तस्य तस्य धनं भवेत्” मनुः ।
“आपस्तम्बः अपुत्रधनाधिकारी आसन्नसपिण्ड-
स्तदभावे व्यवहितस्तदभावे आचार्य्य स्तदभावेऽन्तेवासी” ।
याज्ञवल्क्यः “पत्नी दुहितरश्चैव पितरौ भ्रातरस्तथा ।
तत्सुतीगोत्रजोबन्धुः । शिष्यस्मब्रह्मचारिणः । एषाम-
भावे पूर्व्वस्य धनभागुत्तरोत्तरः । स्वर्य्यातस्य ह्यपुत्रस्य सर्व-
वर्णेष्वयं विधिः” । पितरावित्यत्र क्रमाकाङ्क्षायामादौ माता
तदभावे पिता विष्णुस्मृत्येकमूलत्वात् । तत्सुतो भ्रातृपुत्रः
अपुत्रस्य पुत्रपोत्रप्रपौत्रशून्यस्य । कात्यायनः “विभक्ते
संस्थिते द्रव्यं पुत्राभावे पिता हरेत् । भ्राता वा जननी
बापि माता वा तत्पितुः क्रमात्” । पित्रर्ज्जितं पिता,
भ्रात्राद्यर्ज्जितं भ्रात्रादिरिति व्यवस्थितोविकल्पः । पैष्ठी-
नसिः “अपुअस्य स्वर्य्यातस्य भ्रातृगामि धनं तदभावे पितरौ
लभेताम्” । देवलः “ततीदायमषुत्रस्य विभजेरन् महोदराः ।
तुल्यादुहितरोवापि ध्रियमाणः पितापि वा । सवर्णाभ्रा-
तरोमाता भार्य्या चेति यथाक्रमम् । एषामभावे गृह्णीयुः
सकुल्याः सहवासिनः” । तुल्बाः सहोदराएव सवर्णा-
भ्रातरोऽत्र वैमात्रेयाः । अत्र च देवलोक्तक्रमेण सह
विष्णुयाज्ञवल्क्योक्लक्रमयोर्व्विरोधमाशङ्क्य यथाक्रमिति
पदं देवलीयं याज्ञवल्क्योक्तक्रमानतिक्रमेणेति हलायुधेन
व्याख्यातम् । देवलवचनलिखनानन्तरं विष्णुयाज्ञव-
ल्क्योक्तवचने लिखितवतः कल्पतरुकृतोऽप्येवमेवाशयः ।
एतच्चु न मनोरमं न हि स्वोक्तक्रममुल्लङ्घ्य परोक्तक्रमो-
यथाक्रममिति स्वोक्तस्यार्थोभवितुमर्हतीति उपस्थितं
विहायानुपस्थितपरिग्रहगौरवात् एवमपि पैठीनसिवच-
नविरोधापरीहाराच्च । तस्मात्पूर्बपुरुषार्ज्जितधने विष्णु-
पृष्ठ ११०१
याज्ञवल्क्योक्तक्रमस्तदन्यधने तु पैठोनस्याद्युक्तक्रम इति
रत्नाकरः । बौधायनः “सपिण्डाभावे सापुल्यः तदभावे
आचार्य्यः अन्तेवासी ऋत्विग्वा हरेत् तदभावे राजा” ।
सगौत्रजाभावे बन्धुः याज्ञवल्क्यवचनात् स च स्वबन्धुः
पितृबन्धुः मातृबन्धुश्च । “आत्मपितुःष्वसुः पुत्रा
आत्ममातुःष्वसुः सुताः । आत्ममातुलपुत्राश्च विज्ञेया-
ह्यात्मबान्धवाः । पितुः पितुःष्वसुः पुत्राः पितुर्मातुः-
ष्वसुः सुताः । पितुर्मातुलपुत्राश्च विज्ञेयाः पितृबान्ध-
वाः । मातुः पितुःष्वसुः पुत्रामातुर्मातुःष्वसुः सुताः ।
मातुर्मातुलपुत्राश्च विज्ञेयामातृबान्धवाः” । एतेषां
क्रमेणाधिकारः । तदयं संक्षेपः । आदौ पुत्रस्तदभावे-
पौत्रस्तदभावे प्रपौत्रस्तदभावे साध्वी भार्य्या तदभावे
दुहिता तदभावे माता तदभावे पिता तदभावे दौहि
त्रस्तदभावे भ्राता तदभावे तत्पुत्रस्तदभावे आसन्नसपिण्ड-
स्तदभावे यथाक्रमं व्यवहितसपिण्डस्तदभावे आसन्नसकुल्य-
स्तदभावे व्यवहितसकुल्यस्तदभावे मातुलपुत्रादिः सर्वाभावे
ब्राह्मणधनवर्ज्जं राजगामि ब्राह्मणधने तु ब्राह्मणान्त-
रमेव धनग्रहणाधिकारीति । याज्ञवल्क्यः “वानप्रस्थयति
बह्मचारिणामृक्थमागिनः । क्रमेणाचार्य्यसच्छिष्यधर्म्म-
भ्रात्रेकतीर्थिनः” । क्रमेण प्रतिलोमक्रमेण तेन ब्रह्मचारि-
णोगुरुकुलस्थस्याचार्य्यः, यतेः सच्छिष्यः, वानप्रस्थस्य
भ्रातृत्वेनानुमतोऽपरोवानप्रस्थएव” ।
अधिकारिक्रमे पितृदौहित्रादेरकीर्त्तनात् तस्य नाधि-
कार इति विशेषः ।
स्त्रीधने विशेषः “तत्र मनुः जनन्यां संस्थितायान्तु समं
सर्वे सहोदराः । भजेरन्मातृकं रिक्थं भगिन्यश्च
सनाभयः । यास्तासां स्युर्दुहितरस्तासामपि यथांशतः ।
मातामह्याधनात् किञ्चित् प्रदेयं प्रीतिपूर्वकम्” । सममविष-
मांशम्, सनाभयः सहोदराः, भगिन्यः कुमार्य्य एव समांशा-
स्तदाह वृहस्पतिः “स्त्रीधनं स्यादपत्यानां दुहिता च
तदंशिनी । अप्रत्ता चेत्समूढा तु लभते मानमात्रकम्” ।
अपत्यानां पुत्राणां तदंशिनीति विशेषाश्रुत्या समत्व
लाभः समूढा विवाहिता मानमात्रकं द्रव्यानुसारेण
किञ्चित् । गौतमः “स्त्रीधनं दुहितॄणामप्रत्तानामप्रतिष्ठि-
तामाञ्च” । “अप्रतिष्ठिता अनपत्या निर्धनभर्तृका दुर्भ-
गा” चेति रत्नाकरादयः । एता अपुत्रा अपि पुत्रवन्मातृ-
धनभाजः । मनुः “मातुश्च यौतुकं यत्स्यात्कुमारीभागएव
सः” । यौतुकं विवाहकाले पित्रादितो लव्धम् । वशिष्ठः
“मातुः पारिणाय्यं स्त्रियोविभजेरन्” । पारिणाय्यं
परिच्छदादर्शकङ्कतिकादि । याज्ञवल्क्यः “मातुर्दुहितरः
शेषमृणात्ताभ्य ऋतेऽन्वयः” । मातुर्धनं तदृणाच्छेषं दृणशो-
धनावशेषं दुहितरोभजेरन्, ताभ्य ऋते दुहितॄणामभावे-
ऽन्वयः दौहित्रीदौहित्रौ मनुवचनानुरोधात् । ब्राह्म्या-
दिवैवाहिकं परिच्छदादिकञ्च यत्मातुर्धनं तद्विषयमेतत् ।
कात्यायनः “दुहितॄणामभावे तु ऋक्थम्पुत्रेषु तद्भवेत् ।
बन्धूनामप्यभावे तु भर्तृगामि तत् स्मृतम् । भगिन्योबान्धवैः
सार्द्ध्वं विभजेयुः सभर्तृकाः । स्त्रीधनस्थेति धर्म्मोऽयं विमागस्तु
प्रकल्पितः” । दुहितॄणामिति पारिणाय्यं विवाहकाले
यौतुकलब्धं पितृदत्तञ्च यन्मातुर्धनं तत्तस्याः पुत्र्यभावे
पुत्रगामि भवतीत्यर्थः तदतिरिक्तन्तु स्त्रीधनं तस्या अभावे
पुत्रीपुत्रोभयगामि इत्युक्तमेव प्राक् । बन्धुदत्तमिति पित्र-
तिरिक्तेन दत्तं यत्तद्भ्रातॄभगिन्यौ किन्तु कन्या तत्स-
मांशा विवाहिता तु किञ्चिद्भागभागिनीति भगिन्य इत्यादे-
रर्थः । अभावे पुत्रीपुत्राद्यभावे स्त्रियाधनं पतिगामी-
त्यर्थः मनुः “ब्राह्म्यदैवार्षगान्धर्ब्बप्राजापत्येषु यद्धनम् ।
अतीतायामप्रजायां भर्तुरेव तदिष्यते । यत्त्वस्याः स्या-
द्धनं किञ्चिद्विवाहेष्वासुरादिषु । अतीतायामप्रजायां
मातापित्रोस्तदिष्यते” । अप्रजायामनपत्यायाम् । गौतमः
“भगिनीशुल्कं सोदर्य्याणामूर्द्ध्वं मातुः पूर्व्वंचेत्येके” ।
आसुरादिविवाहत्रयलब्धविषयमेतत् । बौधायनः “ऋक्थं
मृतायाः कन्यायागृह्णीयुः सोदराः खयम् । तदभावे
भवेन्मातुस्तदभावे भवेत्पितुः” वि० चि० । अत्रयस्य भर्त्तृ-
गामित्वमुक्तं तदभावे तत्सपिण्डानामासत्तिक्रमेणाधि-
कारः । यस्य तु पितृगामितोक्ता तत्न तदभावे तत्प्रत्या-
सन्नसापिण्डा अधिकारिणः इति बोध्यम् ।
मिताक्षरामते तु जन्माधीनस्वत्वाङ्गीकारेण पैतामहे पित्रे
च धने पितापुत्रयोः पितामहपौत्रयोश्च तुल्याधिकारः ।
पितुः पितामहस्य चोपरमे पुत्रस्य, पौत्राणाञ्च स्वपितृ-
योग्येऽशेऽधिकारः । जीवद्विभागे तु स्वार्ज्जिते पितुर्द्व्यंशहा-
रिता पैतामहे तुल्यांशिता । धनिकृतविभागे तदुपरमे पुत्रा-
दिकृतविभागे च धनिपत्निनामेकैकांशेऽधिकारः । दुहि-
तृणान्तु प्रत्येकं स्वजातीय कल्पितभागचतुर्थांशभागिता ।
सामुदयिकस्वत्वाङ्गीकारेण च भ्रात्रादीनामपुत्रादीनामवि
भक्तत्वे संसृष्टत्वे च एकस्य मरणे इतरस्य स्वत्वस्थितेः तत्र
पत्न्यादीनां न स्वत्वमुत्पद्यते तथा च विभक्तासंसृष्टधनएव
पत्न्यादीनामधिकारः । पत्नीदुहितरश्चैवेत्यादि या० वचनात्
पृष्ठ ११०२
तव्व वचनं चिन्तामणिमते ११०० पृष्ठे दर्शितम् तस्य वचनस्य
व्याख्यायाम् मिता० तत्क्रमोदर्शितो यथा
“तस्मादपुत्रस्य स्वर्य्यातस्य विभक्तस्यासंसृष्टिनः
परिणीता स्त्री संयता सकलमेव धनं गृह्णातीति स्थितम् ।
तदभावे दुहितरः । दुहितर इति बहुवचनं समान
जातीयानामसमानजातीयानाञ्च समयिषमांशप्राप्त्य-
र्थम् । तथा काव्यायनः । “पत्नी भर्तुर्द्धनहरो या स्याद
व्यभिचारिणी । तदभावे तु दुहिता यद्यनूढा भवेत्तदेति”
वृहस्पतिरपि “भर्तुर्द्धनहरी पत्नी तां विना दुहिता स्मृता”
अङ्गादङ्गात्सम्भवति पुत्रवद्दुहिता नृणाम् । तस्मात्पितृ-
धनं त्वन्यः कथं गृह्णाति मानवः” इति । तत्र चोढानूढा-
समवायेऽनूढैव गृह्णाति । “तदभावे तु दुहिता यद्यनूढा
भवेत्तदेति” विशेषस्मरणात् । तथा प्रतिष्ठिताऽप्रति-
ष्ठितासमवायेऽप्रतिष्ठिता तदमावे प्रतिष्ठिता “स्त्रीधनं
दुहितॄणाम् अप्रत्तानामप्रतिष्ठितानाञ्चेति” गौतमवचनस्य
पितृधनेऽपि समानत्वात् नचैतत्पुत्रिकाविषयमिति
मन्तव्यम् । “तत्समः पुत्रिकासुतः” इति पुत्रियास्तत्सु-
तस्य चौरससमत्वेन पुत्रप्रकरणेऽभिधानात् । चशब्दा-
द्दुहित्रभावे दौहित्रो धनभाक् यथाह विष्णुः ।
“अपुत्रपौत्रसन्ताने दौहित्रा धनमाप्नुयुः । पूर्ब्बेषां तु
स्वधाकारे पौत्रा दौहित्रकाः समा” इति मनुरपि ।
“अकृता वा कृता वापि यं विन्देत्सदृशात्सुतम् । पौत्री माता
महस्तेन दद्यात्पिण्डं हरेद्धनमिति” । तदभावे
पितरौ मातापितरौ धनभाजौ । यद्यपि युगपदधिकरण
वचनतायां द्वन्द्वस्मरणात् तदपवादत्वादेकशेषस्य धन
ग्रहणे पित्रोः क्रमो न प्रतीयते । तथापि विग्रहवाक्ये
मातृशब्दस्य पूर्ब्बनिपातादेकशेषाभावपक्षे च मातापितरा
विति मातृशब्दस्य पूर्ब्बश्रवणात्पाठक्रमावगमाद्धनसम्बन्धे
ऽपि क्रमापेक्षयां प्रतीतक्रमानुरोधेनैव प्रथमं माता धन
भाक्, तदभावे पितेति गम्यते । किञ्च पिता पुत्रान्तरे-
ष्वपि साधारणो माता तु न साधारणीति प्रत्यासत्त्य-
तिशयात् “अनन्तरः सपिण्डांद्यस्तस्य तस्य धनम्भवेदिति”
वचनान्मातुरेव प्रथमन्धनग्रहणं युक्तं न च सपिण्डे-
ष्वेव प्रत्यासत्तिर्नियामिका अपि तु समानोदकादिष्वप्य
विशेषेण धनग्रहणे प्राप्ते प्रत्यासत्तिरेव नियामिकेत्य
स्मादेव वचनादवगम्यत इति । मातापित्रोर्म्मातुरेव प्रत्या-
सत्त्यतिशयात् धनग्रहणं युक्ततरम् । तदभावे पिता
धनभाक् । पित्रभावे भ्रातरी धनभाजः । तथा च मनुः ।
“पिता हरेदपुत्रस्य रिक्थं भ्रातर एव वेति अनपत्यस्य
पुत्रस्य माता दायमवाप्नुयात् । मातर्यपि च वृत्तायां
पितुर्माता हरेद्धनमिति” मनुवचनाज्जीवत्यपि पितरि
मातरि वृत्तयां पितुर्माता पितामही धनं हरेन्न पिता ।
यतः पितृगृहीतन्धनं विजातीयेष्वपि पुत्रेषु गच्छति ।
पितामही गृहीतं तु सजातीयेष्वेव गच्छतीति पितामह्येव
गृह्णातीति । एतदप्याचार्य्योनानुमन्यते । विजातींय
पुत्राणामपि धनग्रहणस्योक्तत्वात् “चतुस्त्रिद्व्येकभागिनः”
इत्यादिनेति । यत्पुनः “अहार्य्यं ब्राह्मणद्रव्यं राज्ञा
नित्यमिति स्थितिः” इतिमनुस्मरणम् तन्नृपाभिप्रायं
न पुत्राभिप्रायम् । भ्रातृष्वपि सोदराः प्रथमं गृह्णीयुर्भि-
न्नोदराणां मातृविप्रकर्षात् । “अनन्तरः सप्रिण्डाद्यस्तस्य
तस्य धनं भवेदिति” स्मरणात् । सोदराणाममावे भिन्नो-
दरा धनभाजः । भ्रातॄणामप्यभावे तत्पुत्राः पितृक्तमेण्ण
धनभाजः । भ्रातृभ्रातृपुत्रसमवाये म्रातृपुत्राणाम-
नधिकारः भ्रात्रभावे भ्रातृपुत्राणामधिकारवच-
नात् । यदा त्वपुत्रे भ्रातरि स्वर्याते तद्भ्रातॄणामवि-
शेषेण धनसम्बन्धे जाते भ्रातृधनविभागात्प्रागेव यदि
कश्चिद्भ्राता मृतस्तदा तत्पुत्राणाम्पितृतोऽधिकारे प्राप्ते-
तेषां भ्रातृणाञ्च विभज्य ग्रहणे पितृतोभागकल्पनेति
युक्तम् । भ्रातृपुत्राणानप्यभावे गोत्रजा धनभाजः
गोअजाः पितामहादयः सपिण्डाः समानोदकाश्च तत्र पिता-
मही प्रथमन्धनभाक् । “मातार्यपि च वृत्तायाम्पितुर्माता
धनं हरेदिति” मात्रनन्तरं पितामह्या धनग्रहणे प्राप्ते
धित्रादीनां भ्रातृसुतपर्यन्तानां बद्धक्रमत्वेन मध्येऽनुप्रवेशा-
भावात्पितुर्माता धनं हरेदित्यस्य धनग्रहणाधिकारप्राप्ति
मात्रपरत्वादुत्कर्षे तत्सुतानन्तरम् पितामही गृह्णातीत्य
विरोधः । पितामह्याश्चाभावे समानगोत्रजाः सपिण्डाः
पितामहादयोधनभाजः भिन्नगोत्राणां सपिण्डानां बन्धु
शब्देन ग्रहणात् । तत्र च पितृसन्तानाभावे पितामही
पितामहः पितृव्यास्तत्पुत्राश्च क्रमेण धनभाजः पितामह
सन्तानाभावे प्रपितामही प्रपितामहस्तत्पुत्रास्तत्सून
वश्चेत्येवमासप्तमात्समानगोत्राणां सपिण्डानान्धनग्र-
हणं वेदितव्यं तेषामभावे समानोदकानान्धनसम्बन्धः ।
ते च सपिण्डानामुपरि सप्त वेदितव्या जन्मनामज्ञाना
वधिका वा । यथाह वृहन्मनुः । “सपिण्डता तु पुरुषे
सप्तमे विनिवर्तते । समानोदकभावस्तु निवर्तेता चतुर्द-
शात् । जन्मनाम्नोः स्मृतेरेके तत्परङ्गोत्रमुच्यत” इति ।
पृष्ठ ११०३
गोत्रजाभावे बन्धवोधनभाजः । बन्धवश्च त्रिविधा आत्म-
बन्धवः पितृबन्धवो मातृबन्धवश्चेति । यथोक्तम् । आत्म-
पितुष्वसु पुत्रा इत्यादि चिन्तामणिमते ११०१ पृ० दर्शितम्
तत्र चान्तरङ्गत्वात् प्रथममात्मबन्धवोधनभाजस्तदभावे
पितृबन्धवस्तदभावे मातृबन्धव इति क्रमोवेदितव्यः । बन्धू-
नामभावे आचार्य्यस्तदभावे शिष्यः “पुत्राभावे यः प्रत्या-
सन्नः सपिण्डस्तदभावे आचार्यः आचार्य्याभावेऽन्तेवासी”
इत्यापस्तम्बस्मरणात् । शिष्याभावे सब्रह्मचारी धनभाक्
येन सहैकस्मादाचार्य्यादुपनयनाध्यनतदर्थज्ञानप्राप्तिः
स सब्रह्मचारी तदभावे ब्राह्मणद्रव्यं यः कश्चिच्छ्रोत्रियो
गृह्णीयात् “श्रोत्रिया ब्राह्मणस्यानपत्यस्य ऋक्थम्भजै-
रन्निति” गौतमस्मरणात् । तदभावे ब्राह्मणमात्रम्
यथाह मनुः “सर्वेषामप्यभावे तु ब्राह्मणारिक्थमागिनः ।
त्रैविद्याः शुचयोदान्तास्तथा धर्म्मोन हीयत” इति । न
कदाचिदपि ब्राह्मणद्रव्यं राजा गृह्णीयात् “अहार्य्यं ब्राह्म-
णद्रव्यं राज्ञा नित्यमिति स्थितिरिति” मनुवचनात् ।
नारदेनाप्युक्तम् “ब्राह्मणार्थस्य तन्नाशे दायादश्चेन्न कश्चन ।
ब्राह्मणायैव दातव्यमेनस्वी स्यान्नृपोऽन्यथेति” । क्षत्रियादि-
धनं सब्रह्मचारिपर्य्यान्तानामभावे राजा हरेन्न ब्राह्मणः ।
यथाह मनुः । “इतरेषान्तु वर्णानां सर्वाभावे हरेन्नृपः”
इति । “पुत्राः पौत्राश्च दायं गृह्णन्ति । तदभावे पत्न्यादय
इत्युक्तमिदानीन्तदुभयापवादमाह । “वानप्रस्ययतिब्रह्मचा-
रिणां रिक्भागिनः । क्रमेणाचार्यसच्छिष्यधर्मभ्रात्रेकतीर्थिनः”
याज्ञ० । “वानप्रस्थस्य यतेर्ब्रह्मचारिणश्च क्रमेण प्रतिलोम
क्रमेणाचार्य्यः सच्छिष्यो धर्मभ्रात्रेकतीथीं च रिक्थस्य धनस्य
भागिमः । ब्रह्मचारी नैष्ठिकः उपकुर्वाणंस्य धनं
मात्रादयएव गृह्णन्ति । नैष्ठिकस्य धनन्तदपवादत्वेनाचार्यो
गृह्णाति इत्युच्यते । यतेस्तु धनं सच्छिष्पो गृह्णाति ।
सच्छिष्यः पुनरध्यात्मशास्त्रश्रवणधारणतदर्थानुष्ठानक्षमः
दुर्वृत्तस्याचार्यादेरपि भागानर्हत्वात् । वानप्रस्थधनन्धर्म्भभ्रा-
त्रेकतीर्थी गृह्णाति धर्मभ्राताएकतीर्थ्येकाश्रमी धर्मभ्रातासौए-
कतीर्थी च धर्मभ्रात्रेकतीर्थी । एतेषामाचार्यादीनामभावे
पुत्रादिषु सत्खप्येकतीर्थ्येव गृह्णाति” मिता० । “सोदरस्यासंष्टत्वे
वैमात्रेयस्य च संसृष्टत्वे तुल्याधिकारः । अत्रेदं बोध्यं “अपु-
पौत्रसन्ताने” इति वदता विष्णुना प्रपौत्रस्याप्यधिकारः
सूचितः तस्यापि तत्सन्तानत्वात् सपिण्डत्वाच्च अन्यथा
अधिकारिशृञ्जलायाम् उपरितनामामेव कीर्त्तनात् तस्यान-
धिकारत्वापत्तेः । अतएव अणादानप्रकरणे तत्सुतः पौत्र-
सुतः प्रपौत्र अगृहीतवित्तःप्रपितामहकृतमृणं न दद्यादिति
वदता मिताक्षराकृता प्रपौत्रस्याधिकारः सूचितः ।
तदधस्तनसन्तानस्य च प्रपितामहपौत्रपर्य्यन्ताभावेऽधिकारः तेषा-
मसपिण्डत्वेऽपि गोत्रजसमानोदकत्वाविशेषात् सपिण्डाधि-
कारे अधन्तनानामेव प्रथमग्रहणवत् गोत्रजाधिकारेऽपि-
अधस्तनानामेव ऊर्द्ध्वतनापेक्षया प्रथमं ग्रहणौचित्यादिति
एतन्मते च असगोत्रसपिण्डमध्ये, दौहित्रस्यैव ग्रहणात्
पितामहदौहित्रादेर्नाधिकारः । बन्धुशब्दस्य असगोत्र
सपिण्डपरत्वेऽपि बन्धुशब्दस्य पारिभाषिकपरत्वेन तेन
कीर्त्तनादिति बहवः । वीरमित्रोदये तु विषमशिष्टभिया
मातुलादीनामधिकारोव्यवस्थापितः तन्मते तेषां बन्धुपदेन
ग्रहणात् इति भेदः । तथा दायलब्धधने पत्न्याय-
थेष्टं दानभोगादावधिकारः इति मिता० वीर० मते तु
स्वामिन उपकाराभावे नटादौ दानेऽनधिकार इति
भेदः । “आधिवेदनिकाद्यञ्चेति” याज्ञवल्क्यवच-
नेन स्त्रिया ऋक्थविभागक्रयादिलब्धधनमात्रस्य
स्त्रीधनत्वं व्यवस्थाप्य तद्विभागः मिता० दर्शितो
यथा “अतीतायामप्रजसि बान्धवास्तदबप्नुयुः”
या० । तत्पूर्व्वोक्तं स्त्रीधनमप्रजस्यनपत्यायां दुहितृदौ-
हित्रपुत्रपौत्ररहितायां स्त्रियामतीतायां यान्धवा भर्त्रा-
दयोवक्ष्यमाणा गृह्णीयुः । सामान्येन बांन्धवाधनग्रहणे-
ऽधिकारिणो दर्शिताः । इदाना विवाहभदेनाधिकारिभेद-
माह । “अप्रजःस्त्रीधनं भर्त्तुर्ब्राह्मादिषु चतुर्ष्वपि ।
दुहितॄणां प्रसुता चेच्छेषेषु पितृगामि तत्” या० । अप्रजः-
स्त्रियाः पूर्वोक्तायाब्राह्मदैवार्षप्राजापत्येष चतुर्षु विवाहेषु
भार्यात्वं प्राप्ताया अतीतायाः पूर्वोक्तन्धनं प्रथमं भर्तुर्भ-
वति । तदभावे तत्प्रत्यासन्नानां सपिण्डानां भवति । शेर्षष्वा-
सुरगान्धर्वराक्षसपैशाचेषु विवाहेषु तदप्रजःस्त्रीधनं पितृ-
गामि । माता च पिता च पितरौ तौ गच्छतीति
पितृगामि एकशेषनिर्दिष्टाया अपि मातुः प्रथमं धनग्र-
हणं पूर्वमेवोक्तम् । तदभावे तत्प्रत्यासन्नानां धनग्रह-
णम् । सर्वेष्वेव विवाहेषु प्रसूताऽपत्यवती चेत् दुहितॄणां
तद्धनं भवति । अत्र दुहितृशब्देन दुहितृदुहितर उच्यन्ते ।
साक्षाद्दुहितॄणाम् “मातुर्दुहितरःशेषम्” इत्यत्रोक्तत्वात् ।
अतश्च मातृधनं मातरि वृतायां प्रथमं दुहितरोगृ-
ह्णन्ति । तत्र चोढ़ानूढ़ासमवावेऽनूढा गृह्णाति । तदभावे
परिणीता तत्रापि प्रतिष्ठिताऽप्रतिष्ठितासमवायेऽप्रतिष्ठिता
गृह्णाति तदभावे प्रतिष्ठिता । यथाह गौतमः “स्त्रीधनं
पृष्ठ ११०४
दुहितॄणामप्रत्तानामप्रतिष्ठितानां चेति” । तत्र चशब्दा-
त्प्रतिष्टितानाञ्च । अप्रतिष्ठिता अनपत्या निर्द्धना वा ।
एतच्च शुल्कव्यतिरेकेण । शुल्कन्तु सोदर्य्याणामेव “भगि-
नीशुल्कं सोदर्य्याणासूर्द्ध्वं मातुरिति” गौतमवचनात् ।
सर्वासां “दुहितॄणां प्रसूता चेत्” इत्यस्माद्वचनात् तासां
भिन्नमातृकाणां समवाये दौहित्रीणां किञ्चिदेव
दातव्यम् । यथाह मनुः “यास्तासां स्युर्दुहितरस्तासामपि
यथार्हतः । मातामह्यांधनात् किञ्चित् प्रदेयं प्रीतिपूर्वक-
मिति” । दुहितॄणामप्यभावे दौहित्राधनहारिणः ।
यथाह नारदः । “मातुर्दहितरोऽभावे दुहितॄणां
तदन्वयः” इति तच्छब्देन सन्निहितदुहितृपरामर्शात् । दौहि-
त्राणामभावे पुत्रा गृह्णन्ति । “ताभ्य ऋते अन्वयः” इत्यु-
क्तत्वात् मनुरपि दुहितॄणां पुत्राणाञ्च मातृधनसम्बन्धं
दर्शयति । “जनन्यां संस्थितायां तु समं सर्वेसहोदराः ।
भजेरन्मातृकं रिक्थं भगिन्यश्च सनाभयः” इति मातृकं
रिकथं सर्वे सहोदराः समम्भजेरन् सनाभयोभगिन्यश्च समं
भजेरन् इति सम्बन्धः न पुनः सहोदरा भगिन्यश्च संभूय
भजेरन् इति इतरेतरयोगस्य द्वन्द्वैकशेषाभावाद-
प्रतीतेर्विभागकर्तृत्वान्वयेनापि चशब्दोपपत्तेर्यथा
देवदत्तः कृषिं कुर्य्यादुयज्ञदत्तश्चेति । समग्रहणमुद्धारवि-
भागनिवृत्त्यर्थम् । सोदरग्रहणं भिन्नोदरनिवृत्त्यर्थम् ।
अनपत्यहीनजातिस्त्रीधनन्तु भिन्नोदराप्युत्तमजातीयसप-
त्नीदुहिता गृह्णाति तदभावे तदपत्यं तथा च मनुः
“स्त्रियास्तु यद्भवेद्वित्तं पित्रा दत्तं कथञ्चन । ब्राह्मणी-
तद्धरेत् कन्या तदपत्यस्य वा भवेदिति” । ब्राह्मणीग्रहण-
मुत्तमजात्युपलक्षणम् । अतश्चानपत्यवैश्याधनं क्षत्रिया-
कत्या गृह्णाति । पुत्राणामभावे पौत्राः पितामहीधन-
हारिणः । “ऋक्थभाज ऋणं प्रतिकुर्य्युरिति” गौतमस्मर-
णात् “पुत्रपौत्रैरृणं देयमिति” पौत्राणामपि पिताम-
ह्यृणापाकरणेऽधिकारात् । पौत्राणामप्यभावे पूर्वोक्ताभ-
र्त्रादयो बान्धवा धनहारिणः” । अत्रापि पुंधनवत्
स्त्रीधनेऽपि प्रपौत्राधिकारो वेदितव्यः अगृहीतवित्तस्य
प्रपौत्रस्य ऋणापकरणनिषेधेन पुंधन इव स्त्रीधनेऽपि
तदधिकारस्य सूचितत्वात् इति स्मर्त्तव्यम् ।

उत्तरापथ पु० उत्तरा उत्तरस्यां पन्थाः अच् समा० ।

१ उत्तरस्यां दिशि स्थिते पथि २ देशमेदे च । “उत्तर
पथजन्मानः कीर्त्तयिष्यामि तानपि । कौलकाम्बोजगा-
न्धाराः किरातवर्वरैः सह” । शब्दार्थचि० पुरा० ।

उत्तरापरा स्त्री उत्तरस्याः अपरस्यादिशोऽन्तराला दिक्

दिग्नाम् ब० । वायुकोणे “उत्तरापरामिमुखोऽन्वष्टम-
दिशमानक्षत्रदर्शनात्” आ० त० सांख्या० गृ० । “उत्तरा-
पराभिमुखः वायुकोणाभिमुखः” रघु० ।

उत्तराभास पु० उत्तरमिवाभासते आ + भास--अच् । दुष्टो-

त्तरे उत्तरशब्दे १०९० पृष्ठे तल्लक्षणादि ।

उत्तराम् अव्य० उद् + उत्कर्षे तरप् आमु । अतिशयेनोत्

कर्षे “उदेनमुत्तरां नयाग्ने घृतेनाहुतः” यजु० १७ं
५० । “अतिशयेन उत् उत्तराम्” वेददी० । एवम्
तमप् आमु । उत्तमामप्यत्र अव्य० ।

उत्तरायण न० उत्तरा उत्तरस्यामयनं सूर्य्यादेः “पूर्ब्बपदात्

संज्ञायाम्” पा० णत्वम् । सूर्य्यादेः १ उत्तरदिग्ग-
मने अभेदोचारात् ७ ब० वा । वर्षस्यार्द्धे सूर्य्यस्य
दक्षिणत उत्तरदिग्गमनसम्पादके २ षण्मासात्मके काले
सूर्य्यदेः दक्षिणोत्तरयोरयनञ्च अयनसंक्रान्तिशब्दे ३३९
पृ० उक्तम् तथा च सूर्य्यस्योत्तरायणसंक्रमावधि षण्मासाः
उत्तरायणकालः । “कर्कटादिस्थिते भानौ दक्षि-
णायनमुच्यते । उत्तरायणमप्युक्तं मकरस्थे दिवा-
करे” म० त० विष्णुपु० । “एतन्मकरकर्कटादिसंक्रमे-
णायननिरूपणम् श्रौतस्मार्त्तकर्म्मार्थं धनुरादौ
सूर्य्यसिद्धान्ताभिहितोदगयनादिनिरूपणन्तु रविगत्यनुसा-
रेण दिनमानादिज्ञानार्थम्, इत्यत्यनयोर्न
विरोधः” म० त० रघु० । “ततश्च मकरस्थिरसंक्रा-
न्त्यवधिषड्मासाः स्थूलमुत्तरायणं चलमकरसंक्रान्त्य-
वधि तु सूक्ष्ममिति भेदः । अस्य प्रशंसाऽपि “स यत्रो-
दगावर्त्तते देवेषु तर्हि भवति देवास्तृंहति गोपायन्ति”
शत० ब्रा० २, १, ३, ३ । “यदुत्तरायणं तदहर्देवानाम् दक्षि-
णायनं रात्रिः संवत्सरोऽहोरात्रः” विष्णुः “अग्निर्ज्योति-
रहःश्रुक्ल षण्मासा उत्तरायणम्” गीता । यथा चास्य
सौरत्वं तथाऽयनशब्दे ३३५ पृ० कालमाधवीयधृतप्रमाणादिना
व्यवस्थापितम् । उपचारात् ३ तथागमनारम्भसंक्रान्तौ
“मृगकर्कटसंक्रान्ती द्वेतूदग्दक्षिणायने” सूर्य्य० सि० । तत्र
पुण्यकालताविषये “यावद्विंशकला भुक्ता तत्पुण्यं चीत्त-
रायणे” “निरंशे भास्करे दृष्टे दिनान्तं दक्षिणारायने”
म० त० भवि० पु० “भविष्यत्ययने पुण्यमतीते चोत्तरायणे”
इति ति० त० देवीपु० । राशिसंक्रान्त्यभिप्रायमिदं
वचनम् इति रघुनन्दनादवः । माधवादयस्तु चल
संक्रान्तिपरत्वं तत्र विशेषपुण्यकालत्वं चाङ्गीचक्रुः । तच्च
पृष्ठ ११०५
अयनसंक्रान्तिशब्दे ३३९ दर्शितम् । उत्तरायणकाला-
भिमानिनि मृतविद्वत्प्राणिनां ब्रह्मादिलोकप्रापणाय
अतिवाहनायेश्वरनियुक्ते चेतने ४ पुरुषमेदे “आतिवाहिका-
स्तल्लिङ्गात्” शा० सू० भाष्ययोस्तथा व्यवस्थापितं तच्च
आतिवाहिकशब्दे ६५१ पृ० दर्शितम् । तन्मूलमेव
अग्निर्ज्योतिरित्यादिगीताव्याख्याने “अग्न्यादयस्तदभि-
मानिनोदेवा” इति श्रीधरोक्तम् ।

उत्तरार्क पु० काशीस्थे उत्तरस्यां दिशि अर्ककुण्ड

सन्निधौ सूर्य्यमूर्त्तिभेदे । तद्विवृतिर्यथा “इति काशी
प्रभावज्ञो जगच्चक्षुस्तमोपहा । कृत्वा द्वादशधात्मानं
काशीपुर्य्यां व्यवस्थितः । लोलार्क उत्तरार्कश्च शाम्बादित्य-
स्तथैव च । चतुर्थो द्रुपदादित्योमयूखादित्यएव च ।
खखोल्कश्चारुणादित्यो वृद्धकेशवसंज्ञकौ । दशमोविमला-
दित्यो गङ्गादित्यस्तथैव च । द्वादशश्चार्य्यमादित्यः काशी-
पुर्य्यां घटोद्भव! । ४६ अ० इति द्वादशसूर्य्यभेदा-
भिधाय तत्स्थानानि तत्र क्रमशोऽभिहितानि । “अथीत्तर-
स्यामाशायां कुण्डमर्काख्यमुत्तरा । तत्र नाम्नोत्तरार्केण
रश्मिमाली व्यवस्थितः” ४७ अ० ।

उत्तरार्द्ध न० उत्कृष्टमर्द्धम् उत्तरमर्द्धस्य एक दे० त० वा ।

देहपूर्व्वार्द्धे । तस्योत्कृष्टत्वात्तथात्वम् “व्यूह्य स्थितः
किञ्चिदिवोत्तरार्द्धम्” रघुः । कर्म्म० । २ शेषार्द्धे च “अथ
मध्येनैवोत्तरार्द्धेनाज्यमवेक्षते” शत० ब्रा० १, ३, १, १३

उत्तराशा स्त्री कर्म्म० । उत्तरस्यां दिशि । उत्तराशा-

धीशादयः उत्तरदिगीशशब्दे पृ० १०९३ दृश्याः ।

उत्तराश्मन् पु० कर्म्म० । उत्तरप्रसिद्धप्रस्तरभेदे ततः ऋश्या०

चतुरर्थ्याम् क । उत्तराश्मक तत्सन्निहितदेशादौ त्रि० ।

उत्तराषाढ़ा स्त्री कर्म्म० । अश्विन्यादिनक्षत्रेषु एकविंशतितमे

नक्षत्रे “उग्रः पूर्ब्बमघान्तकाध्रुवगणस्त्रीण्युत्तराणि
स्वमूः” ज्यो० उक्तेरियंः ध्रुवगणः । तस्याः स्वरूपादि
उडुचक्र शब्दे १०७१ पृष्टे उक्तम् इयं विश्वदेवताका अश्ले-
षाशब्दे ४९७ पृ० उक्ता ।

उत्तरासङ्ग पु० उत्तरे ऊर्द्ध्वभागे आसज्यते आ + सन्ज-

कर्मणि घञ् । उत्तरीयवस्त्रे “शुक्लोत्तरासङ्गभृतो विशस्त्रान्”
भट्टिः “त्वगुत्तरासङ्गवतीमधीतिनीम्” कुमा० । “कृष्णो-
त्तरासङ्गरुचम् विदधच्चौतपल्लवीम्” माघः । उत्तरस्यां
दिशि २ आसङ्गे च । “शिशिरसमयसूर्य्यमिव कृतोत्तरास-
ङ्गम्” काद० । रवेश्च यथा शिशिरसमये माघादौ उत्त-
रर्स्या दिशि गतिस्तयोत्तुरायणशब्दे ११०४ पृष्ठे उक्तम् ।

उत्तरासद् पु० उत्तरा उत्तरस्यां दिशि सीदति सद--क्विप् ।

उत्तरदिशि भागार्हेषु १ मित्रावरुणप्रधानेषु २ मरुत्प्रधा-
नेषु च देवेषु “देवा मित्रावरुणनेत्रा मरुन्नेत्रा वोत्तरासद-
स्तेभ्यः स्वाहा” मित्रावरुणनेत्रेभ्यो मरुन्नेत्रेभ्यो वा
देवेभ्य उत्तरासद्भ्यः स्वाहा” यजु० ९, ३६, ३७ ।

उत्तराह पु० उत्तरमनन्तरमहः टच् समा० । अनन्तरदिने

उत्तराहि अव्य० उत्तर + प्रथमाद्यर्थे दिग्देशकालविषये

आहि । उत्तरस्मिन् उत्तरस्मात् उत्तर इत्यर्थे । “आहि
च दूरे” पा० उक्तेः दूरएवास्य प्रवृत्तिः । “उदीचीमेव
दिशन् प्राजनंस्तस्मादुत्तराहि वाग्वदति” शत० ब्रा०
३, २, ३, १५ । “अव्ययात्त्यप्” पा० “क्वतसित्रेभ्य एव”
इति वार्त्तिके नियमात् अतो भवार्थे अणेव । औत्तरा
हिक तद्भवे त्रि० ।

उत्तरिक त्रि० उत्तर उल्लङ्घनमस्त्यस्याः ठन् । १ उत्तार्य्यनदादौ

१ नदीभेदे स्त्री । “अनुज्ञातश्च भरतो वाहिनीः चतुरङ्गिणीः ।
ततः शीघ्रतरं प्रायादुत्तीर्योत्तरिकां नदीम्” रामा० ।

उत्तरीय न० उत्तरस्मिन् देहभागे भवः गहा० छ । ऊर्द्ध्वदेहधार्य्ये

वस्त्रे “धौतोत्तरीयप्रतिमच्छवीनि” माघः स्तनोत्तरीयाणि
भवन्ति साक्षात्” “अथास्य रत्नग्रघितोत्तरीयम्” रघुः ।
प्रतिनिधिपर्य्यान्तोत्तरीयधारणावश्यकतोक्ता आ० त०
यथा । “विकक्षोऽनुत्तरीयश्च नग्नश्चावस्त्र एव च । श्रौतं
स्मार्त्तं तथा कर्म न नग्नश्चिन्तयेदपि” भृगु० तद्धारणप्र-
कारश्च “यथा यज्ञोपवीतञ्च धार्य्यते च द्विजोत्तमैः । तथा
संधार्य्यते यत्नादुत्तराच्छादनं शुभम्” स्मृतिः ।
“स्नायाद्वै वाससी धौते अक्लिन्ने परिधाय च । अभावे
धौतवस्त्राणां शाणक्षौमाविकानि च । कुतपो योगपट्टं
वा द्विवासा येन वा भवेत्” या० स्मृ० । “येन वेति
उपवीतेन तत्प्रनिधीभूतेन कुशरज्ज्वादिना” आ० त०
रघु० । “यज्ञोपवीते द्वे धार्य्ये श्रौतस्मार्त्तेषु कर्मसु ।
तृतीयञ्चीत्तरीयार्थं वस्त्राणामतिदिश्यते” स्मृतिः ।
वर्ज्यान्याह “न स्यूतेन न दग्धेन पारक्येण विशेषतः ।
मूषिकोत्कीर्ण्णजीर्णेन कर्म्म कुर्य्याद्विचक्षणः” आ०
त० भारतम् । “न रक्तमुल्वणं वासो न नीलञ्च प्रश-
स्यते । मलाक्तं च दशाहीनं वर्जयेदर्च्चने बुधः”
नरसिं० पु० । “दशाहीनेन वस्त्रेण कुर्य्यात् कर्म्माण्य-
भावतः” उश० । “वस्त्रं नान्यधृतं धार्य्यं न रक्तं
मलिनं तथा । जीर्णं वाऽपदशञ्चैव श्वेतं धार्य्यंप्रय-
त्नतः” विष्णुध० पु० ।
पृष्ठ ११०६

उत्तरेण अव्य० उत्तर + एनप् । आसन्नदिग्देशकालानां प्रथ-

मापञ्चमीसप्तम्यन्तानामर्थेषु “तत्रागारं धनपतिगृहानु-
त्तरेणास्मदीयम्” मेघ० । एतद्योगे द्वितीया । “किञ्चित्
पश्चात् व्रज लघुगतिर्भूयएवोत्तरेण” मेघ० । “हृदयदेश-
मालभेतोत्तरेण” आश्व० गृ० १, २०९, “एतस्मिन् काले प्रप-
द्याच्छावाकौत्तरेणाग्नीध्रीयम्” आश्व० श्रौ० ५, ७, ३ ।

उत्तरेद्युस् अव्य० उत्तरस्मिन् दिने उत्तर + एद्युस् ।

अनन्तरदिवसे इत्यर्थे ।

उत्तरोत्तर उत्तरस्मादुत्तरः । अनन्तरोदितानन्तरे । “पत्नी

दुहितरश्चैव पितरौ भ्रातरस्तथा । तत्सुतो गोत्रजो
बन्धुः शिष्यः सब्रह्मचारिणः । एषामभावे पूर्ब्बस्य
धनभागुत्तरोत्तरः” या० स्मृ० । २ क्रमेण उत्तरे । “उत्त-
रोत्तरमुत्कर्षो वस्तुनः सार “उच्यते सा० द० ।

उत्त(रो)रौष्ठ पु० उत्तरः उपरितनः ओष्ठः वा वृद्धिः ।

उपरितने ओष्ठे । “अधरो(रौ)ष्ठं दशति उत्तरो(रौ)ष्ठं वा
लेढि” “उत्तरौष्ठञ्च योलिह्यादुद्गारांश्च करोति च” सुश्रु०

उत्तर्जन न० उच्चैस्तर्ज्जनम् प्रा० स० । उच्चैर्भर्त्सने ।

तच्च क्रोधकार्य्यं यथाह सा० द० । “निन्दाक्षेपापमानादेरम-
र्षोऽभिनिविष्टता । नेत्ररागशिरःकम्पभ्रूभङ्गोत्तर्ज्जनादिकृत्”

उत्तलित त्रि० उद् + तल--क्त । १ उत्क्षिप्ते ।

उत्तान त्रि० उद्गतस्तानो विस्तारो यस्य । (चित) मूमि-

लन्मपृष्ठतया ऊर्द्धभावेन १ स्थिते २ ऊर्द्धमुखे च । “उत्तान-
पाणिद्वयसन्निवेशात् प्रफुल्तराजीवामिवाङ्कमध्ये” कुमा० ।
“उरःस्थोत्तानचरणः सव्ये न्यस्येतरं करम्” उत्तानं
किञ्चिदुन्नाम्य मुखं विष्टभ्य चोरसा” या० स्मृ० । “पितृ-
पात्रं तदुत्तानं कृत्वा विप्रान् विसर्ज्जयेत् या० स्मृतिः
“प्रत्येत्यप्रस्तरे निह्नुवत उत्तानहस्ता दक्षिणोत्ताना वा”
कात्या० ८, २, ९ । “उत्तानायै विचक्षणः” सुश्रु०

उत्तानक पु० उद्--तन--ण्वुल् । उच्चटावृक्षे रत्नमा०

उत्तानपश्रक पु० उत्तानमूर्द्धमुखं पत्रमस्य कप् । रक्ते एरण्डे राजनि०

उत्तानपाद पु० स्वायम्भुव मनोः पुत्रे ध्रुवपितरि १ नृपभेदे ।

“वैराजात् पुरुषात् वीरं शतरूपा व्यजायत । प्रियव्रतो-
त्तानपादौ वीरात् काम्या व्यजायत” हरि० २ अ० ।
“स्वायम्भुवस्यापि मनोर्हरेरंशांशजन्मनः । प्रियव्रतोत्तान-
पादौ शतरूपापतेः सुतौ । वासुदेवस्य कलना रक्षायां
जगतः स्थितौ । जाये उत्तानपादस्य सुनीतिः मुरुचि-
स्तथा । सुरुचिः प्रेयसी पत्युर्गेतरा यत्सुतोध्रुवः” भाग०
४ स्क० ८ अ० इतौत्तरं तच्चरितं तत्र वर्णितम् । उत्तान
उच्चस्थितः पादोऽस्य । १ परमेश्वरे पु० “पादोऽस्य सर्व्वाभू-
तानि त्रिपादस्यामृतं दिवीति” श्रुतेस्तस्य सार्व्वोपरिस्थ-
पादत्वात् तथात्वम् । अस्य समासे वा अन्तलोपे उत्ता-
नपादपि तत्रैव “भूर्जज्ञ उत्तानपदोभुव आशा अजायन्त” ।
“तदुत्तान पदस्परि” ऋ० १०, ७२, ३, ४, अत्र भत्वे पादः
पदादेशः । ३ उत्तानपादयुक्ते शिशुप्रभृतौ त्रि० ।

उत्तानपादज पु० उत्तानपादात् जाते जन--ड । ध्रुवे तच्च-

रितं भागवते ४ स्क० ८ अध्यायादौ वर्ण्णितम् ।

उत्तानशय त्रि० उत्तानः ऊर्द्धमुखः सन्नेव शेते शी--अच् ।

अतिशिशौ तदानीमवताने सामर्थ्याभावादस्य तथात्वम् ।

उत्तानशीवन् त्रि० उत्तानः सन् शेते शी--ङ्वनिप् । अति

शिशौ २ उत्तानस्थिते च । स्त्रियां ङीप् वनोरश्च ।
उत्तानशीवरी “ये पर्व्वताः सोमपृष्ठा आप उत्तानशी-
बरीः” अथ० ३, २१, १० ।

उत्ताप पु० उद् + तप--घञ् । १ उष्णतायाम्, २ सन्तापे च ।

उत्तार पु० उद् + तॄ--णिच् अच् । १ उद्वमने २ उल्लङ्घने ३

पारनयने च । “संसारसागरोत्तारतरणिः” प्रबोध० “स
वोरामापदं प्राप्युनोत्तारमधिगच्छति” भा० उ० १२६ अ० ।
उच्चैस्तारः प्रा० स० । ४ अत्यन्तोच्चशब्दादो त्रि० ।

उत्तारक त्रि० उद् + तॄ--णिच् ण्वुल् । पारप्रापके ।

उत्तारण न० उद + तॄ--णिच्--ल्युट् । पारप्रापणे । कर्त्तरि

स्थु । २ पारप्रापके त्रि० ३ विष्णौ पु० “उत्तारणीदुष्कृ
तिहा” षिष्णुसं० “संसारमानरादुत्तारयतीत्युत्तारणः” भा०

उत्तार्य्य त्रि० उद् + तॄ--णिच्--कर्म्मणि यत् । १ उद्वमनीये ।

“अज्ञानभुक्तं तूत्तार्य्यं शोध्यं वाप्याशु शोधर्नः” ममुः ।
स्यप् । २ उद्वमनं कृत्वेत्यर्थे अव्य० । उद् + तॄ--कर्म्मणि
ण्यत् । ४ उल्लङ्घनीये त्रि० ।

उत्ताल त्रि० उद् + चुरा० तल--प्रतिष्ठायाम् अच् । प्रति-

ष्ठिते महति । “उत्तालतालीवनसंप्रवृत्तः” माघः ।

उत्तिष्ठद्धोम पु० ऊत्तिष्ठतोऽनुपविष्टस्य होमो यत्र । अनुप-

विष्टकर्त्तव्यहोमे यजतिरूपे यागभेदे । तत्र कुत्रोपपिष्टे
न कुत्रवा उत्तिष्ठता होमः करणीय इति विचिकित्-
सायां यजतिजुहुत्योर्द्भेदप्रदर्शनेन तन्निर्णीतं कात्या०
१, २, ५, ६, ७, सूत्रेषु “यजतिजुहुतीनां कोविशेषः”
सू० “यजतीनां यागानां जुहोतीनां होमानाञ्च
को विशेषः कोभेदः इति प्रश्नः” कर्मः । तिष्ठ-
द्धोमाः वषट्कारप्रदानाः याज्यापुरीयुवाक्यावन्तञ्च
यजतयः” सू० । ऊच्यन्ते इति शेषः । होम
पृष्ठ ११०७
येषु ते तिष्ठद्धोमाः वषट्कारेण प्रदानं येषु ते वषट्कार
प्रदानाः तथा याज्यावन्तः पुरोनुवाक्यावन्तश्च ये ते
यजतय उच्यन्ते” कर्कः । “उपविष्टहोमाः स्वाहाकारपदा-
ना जुहोतयः” सू० । “उपविष्टेन कर्त्रा होमोयेषु ते
उपविष्टहोमाः स्वाहाकारेण प्रदानं येषु ते जुहोतय
उच्यन्ते” कर्कः तिष्ठत्पदञ्च उत्तिष्ठत्परम्

उत्तिष्ठमान पु० उद् + स्था--शानच् । वर्द्ध्वमाने “उत्तिष्ठमा-

नस्तु परैर्नोपेक्ष्यः पथ्यमिच्छता” माघः । ऊर्द्धचेष्टायां
तु शतृ । उत्तिष्ठत् अनुपविष्टे दण्डायमाने त्रि० स्त्रियाम्
ङीप् नुम्” । उत्तिष्ठन्ती

उत्तीर्ण्ण त्रि० उद् + तॄ--कर्तरि क्त ।

१ मुक्ते, २ पारङ्गते कर्म्मणि क्त । ३ कृतोत्तरणे नदादौ त्रि० ।

उत्तुङ्ग त्रि० उत्कृष्टं तुङ्गं प्रा० स० । अत्युन्नते । “उत्तुङ्गशैल

शिखरस्थितपादपानां काकः कृशोऽपि फलमालभते
सपक्षः । सिंहो बलो द्विरदकम्भविदारणोऽपि सीदत्यहो-
तरुतले खलु पक्षहीनः” उद्भटः “स्वर्गादुत्तुङ्गममलं
विषाणं यत्र शूलिनः” भा० व० ८८ अ० । “करप्रचेया
मुत्तुङ्गां प्रभुशक्तिं प्रथीयसीम्” “यच्छालमुत्तङ्गतया
विजेतुम्” “उत्तुङ्गमातङ्गमितालघूपलम्” माघः ।

उत्तुष पु० उद्गतः कण्डनाभावेऽपि तुषोऽस्मात् । प्रा० ब०

वा गतशब्दलोपः । लाजाख्ये (खै) भ्रष्टधान्ये

उत्तेजना स्त्री उद् + तिज--णिच् युच् । १ प्रेरणायाम्,

२ व्यग्रताकरणे, ३ उद्दीपने, ४ तीक्ष्णीकरणे च । “व्याघ-
ट्टनोत्तेजनया मणीनाम्” माघः ल्युट् । तत्रैव न० ।

उत्तेजित त्रि० उद् + तिज--णिच्--क्त । १ प्रेरिते, २ उद्दीपिते

च । भावे क्त । ३ प्रेरणायाम् ४ उद्दीपने च न० “उत्ते-
जितं मध्यवेगं योजनं श्लथवल्गया” इत्युक्ते ५ अश्वगतिभेदे न० ।

उत्तेरित न० उद्--तॄ भावे इतच् गुणे नि० एत्वम् । १ अश्व-

गतिभेदे । अर्श आद्यचि । “उत्तेरितोऽतिवेगाढ्यो न
शृणोति न पश्यति” इत्यक्तगतियुक्ते २ अश्वे पु० ।

उत्तोरण त्रि० उन्नतं तोरणमत्र प्रा० ब० वा नतलोपः । १ उच्च

पुरद्वारयुक्ते नगरादौ । “उत्तोरणामन्वयराजधानीम्”
रघुः । “उत्तोरणं राजपथं प्रपेदे” कुमा० उन्नतं
तोरणम् प्रा० स० । २ उच्चे तोरणे पुंन० ।

उत्तोलन न० उद् + तुल--उन्मागे भावे ल्युट् । ऊर्द्ध्वं नीत्वा

तोलने ।

उत्तोलित त्रि० उद् + चु० तुल--क्त । १ उत्क्षिप्ते, २ उत्क्षिप्य कृततोलने च

उत्त्यक्त त्रि० उद् + त्यज--क्त । १ ऊर्द्ध्वक्षिप्ते, २ परित्यक्ते च ।

उत्त्रास पु० उद् + त्रस--घञ् । अतिभये ।

उत्थ त्रि० उद्--स्था--क । १ उद्गते २ समुद्भूते च । “रजांसि

समरोत्थानि तच्छोणितनदीष्विव” रघुः । “भवत्सम्भा-
वनोत्याय परितोषाय मूर्च्छते” कुमा० । “निदालस्य
प्रमादोत्थं तत् तामसमुदाहृतम्” गीता “तपनं प्रियविच्छेदे
स्मरावेशोत्थचेष्टितम्” सा० द० ।

उत्थान न० उद् + स्था--ल्युट् । १ ऊर्द्ध्वपतने, २ उद्यमे, ३ ऊर्द्ध्वभव-

नचेष्टायाम्, ४ उद्भवे च । करणे ल्युट् । ५ उत्साहे, ६ पौरुषे,
७ हर्षे च । अधिकरणे, ल्युट् । ८ रणे, ९ राज्यविन्तनरूपे
१० तन्त्रे, ११ प्राङ्गणे, १२ चैत्ये च । “इन्दुं नवोत्थानमिवेन्दुमत्यै”
रघुः “भ्रातॄणामविभक्तानां यद्युत्यानं भवेत् सह” मनुः ।
“मम धर्म्मार्थमुत्थानं न कामक्रोधसंज्ञितम्” रामा०
“उत्थानमभिजानन्ति सर्वभूतानि भारत! । प्रत्यक्षं फलभश्नन्ति
कर्म्मणां लोकसाक्षिकम्” भा० व० ३२ अ० । मेदच्छेद
कृशोदरं लघु भवत्युत्थानयोग्यं वपुः” शकु० “पञ्च वा
सप्त चाष्टौ च यैरुथानं न गच्छति” सुश्रु० । १३ प्रबोधे च
“मच्छयने मदुत्थाने मत्पार्श्वपरिवर्त्तने” ति० त० पु० ।

उत्थानैकादशी स्त्री उत्थानस्य हरेः निद्रातःप्रबोधनस्य कालः

एकादशी । चान्द्रकार्त्तिकशुक्लैकादश्याम् । तत्र काल
व्यवस्था--ति० त० रघुनन्दनेन दर्शिता यथा मात्स्ये
“शेते विष्णुः सदाषाढे माद्रे च परिवर्त्तते । कार्त्तिके
परिबुध्येत शुक्लपक्षे हरेर्दिने” भविष्यनारदीययोः
“मैत्राद्यपादे स्वपितीह विष्णुर्वैष्णव्यमध्ये परिवर्त्तते च ।
पौष्णावसाने च सुरारिहन्ता प्रबुध्यते मासचतुष्टयेन”
भविष्ये “निशि स्वापोदिवोत्थानं सन्ध्यायां परिवर्त्तनम् ।
अन्यत्र पादयोगेऽपि द्वादश्यामेव कारयेत्” । अन्यत्र
स्वापादिविहितरात्र्यादीतरकाले दशमीप्रतिपदोश्च ।
“किन्तन्मैत्राद्यपादेन? दशम्यंशेन यो दिवा । पौष्ण
शेषेण किन्तेन? प्रतिपद्यथयोनिशि” । दशम्यंशेन दशम्या
अंशोयत्र पादे तेन । यः पतिपदि वा प्राप्तस्तेन वा किम्? ।
अत्र दशमीप्रतिपदोर्वजनात् तदितरैकादश्यादिपञ्च-
तिथिषु मैत्रादिनक्षत्रपादविशेषलाभे द्वादशीं विनापि
शयनादिरिति प्रतीयते । वचनान्तरम् “रेवत्यन्तो यदा
रात्रौ द्वादश्या च समायुतः । तदा विबुध्यते विष्णु-
र्दिनान्ते प्राप्य रेवतीम्” दिनान्ते त्रिधाविभक्तदिन
तृतीयभागे दिवोत्यानमित्यनुरोधात् । विष्णुधर्म्मोत्तरे
“विष्णुर्दिवा न स्वपिति त च रात्रौ प्रबुध्यते । द्वादश्या-
मृक्षसंयोगे पादयोगो न कारणम् । अप्राप्ते द्वादशीमृक्षे
उत्यानशयने हरेः । पादयोगेन कर्त्तव्ये नाहोरावं
पृष्ठ ११०८
विचिन्तयेत् वराहपुराणम् । “द्वादश्यां सन्धिसमये
नक्षत्राणामसम्भवे । आभाकासितपक्षेषु शयनावर्त्तना-
दिकम्” आभाकानाम् आषाढभाद्रकार्त्तिकानाम् । ततश्च
द्वादश्यां निशादौ नक्षत्रमात्रयोगात् द्वादश्यामृक्षाभावे
तिथ्यन्तरे निशाद्यनादरेण पादविशेषयोगात्, तदभावे
द्बादश्यां सन्ध्यायामेव शयनादिकं बोधनन्तु द्वादश्यां
रात्रौ रेवत्यन्तपादयोगे दिनतृतीयभाग इति विशेषः” ।

उत्थापन न० उद् + स्था--णिच्--ल्युट् । १ उत्तोलने उन्नती

करणे २ चालने ३ प्रबोधने ४ उद्वमने च । “एवं यन्त्रीपायान
न्यांश्च शिरोत्थापनहेतृन् बुद्ध्यावेक्ष्य” सुश्रु० ।

उत्थाप्य त्रि० उद् + स्था--णिच् कर्म्मणि यत् । १ उत्तोलनीये

२ चालनीये । ल्यप् । ३ उत्तोल्येत्यर्थे ४ मिश्रीकृत्ये
त्यर्थे “आहृत्य प्रणवेनैव उत्थाप्य प्रणवेन च” उत्थाप्य
मिश्रीकृत्य प्रा० त० रघु० । ५ उत्तार्य्येत्यर्थे च अव्य० ।

उत्थित त्रि० उद् + स्था--क्त । १ वृद्धियुक्ते, २ उत्यानयुते,

अनुपविष्टे । “अर्द्धाचिता सत्वरमुत्थितायाः” कुमा० रघुश्च
“न यावदेतावुदपश्यदुत्थितौ” “भित्त्वोत्थितं भूमिमिवो-
रगाणाम्” माघः । ३ उत्पन्ने ४ उद्युक्ते च ।

उत्थिताङ्गुलि पु० उत्यिता उद्युक्ता अङ्गुलयो यत्र ।

(चापड़) विस्तृताङ्गुलिके करतले चपेटे शब्दच० ।

उत्पचनिपचा स्त्री उत्पच निपचेत्युच्यते यस्यां क्रिया-

याम् मयू० । उद्धृत्य पाकादिनिदेशार्थक्रियायाम् ।

उत्पचिष्णु त्रि० उद् + पच--इष्णुच् । १ उद्धृत्य पचन

शीले । प्रचः विक्लित्तिरूपपाकपरत्वे । ऊर्द्ध्वतः पाकशीले
२ तृणादौ ।

उत्पट पु० उत्पटति उद् + पट--गतौ अच् । वृक्षादीनां

त्वचमुद्भिद्य उद्गते निर्यासे । “त्वच एवास्य रुधिरं प्रस्य-
न्दि त्वच उत्पटः” शत० १४, ६, ९, ३१, “उत्पटः
वृक्षनिर्यासः” भा० ।

उत्पत पु० उत्पतति ऊर्द्ध्वं गच्छति उद् + पत--अच् ।

१ पक्षिणि त्रिका० २ उत्पतनकर्त्तृमात्रे त्रि० ।

उत्पतन न० उद् + पत--ल्युट् । १ ऊर्द्ध्वगमने, २ उत्क्षेपणे च ।

उत्क्षेपणशब्दे उदा० ।

उत्पतनिपता स्त्री उत्पत निपत इत्युच्यते यस्यां क्रियायाम्

मयू० । उत्पतनादिनिदेशार्थक्रियाथाम् ।

उत्पताक त्रि० उत्तोलिता पताका यत्र प्रा० ब० वा

तोलितशब्दलोपः । उत्तोलितपता के पुरादौ । “पुरन्दरश्रीः
पुरमुत्पपताकम्” रघुः

उत्पतित त्रि० उद् + पत--क्त । ऊर्द्ध्वगते ।

उत्पतिष्णु उद् + पत--इष्णुच् । उत्पतनशीले । “ससञ्जुर-

श्वक्षुण्णानामेलानामुत्पतिष्णवः” रघुः “उत्पतिष्णू
सहिष्णु च चेरतुः खरदूषणौ” भट्टिः ।

उत्पत्ति स्त्री उद् + पत + क्तिन् । १ ऊर्द्ध्वपतने ऊर्द्ध्वगतौ । उत्प-

द्यते प्रथमतो ज्ञायतेऽनेन उद् + पद--करणे क्तिन् । प्राथ-
मिकप्रतीतिविषयप्रवृत्तिसाधनेष्टसाधनताबोधके कर्मस्वरूप-
ज्ञापके २ विधिवोक्ये यथा “स्वर्गकामोऽश्वमेधेन
यजेतेत्यादि” वाक्यम् प्रथमं यागादौ इष्टसाधनत्वं
बोधयत् तत्रं प्रवर्त्तयतीति तस्य तथात्वम् विधिशब्दे
विवृतिः । “योगसिद्धिर्वा अर्थस्योत्पत्त्ययोगित्वात्”
जैमि० सू० । उद् + पद० क्तिन् । आद्यक्षणसम्बन्धरूपे
३ उद्भवे । उत्पत्तौ वादिविपत्तयः सन्ति तथाहि असतः सदुत्-
पद्यते इति बौद्धाः । प्रागुत्पत्तेरसत्कारणव्यापारा-
दुत्पद्यते इति नैयायिकादयः । प्रागुत्पत्तेः सदपि
कारणव्यापारादभिव्यज्यते इति सांख्या वेदान्तिनश्च प्रतिपे-
दिरे तयोरवान्तरभेदः सतो विवर्त्त इति वेदान्तिनः
परिणामः इति सांख्याः । तदेतत् सांख्य० कौ० । प्रदर्शितं
यथा केचिदाहुरसतः “सज्जायत इति, एकस्य सतो
विवर्त्तः कार्य्यजातं न वस्तु सदित्यपरे । अन्ये तु
सतोऽसज्जायतैति । सतः सज्जायते इति वृद्धाः । तत्र पूर्व्व-
स्मिन् कक्षत्रये व्रधानं न सिध्यति । सुखदुःखमोहभेदव-
त्स्वरूपपरिणामशब्दाद्यात्मकत्वं हि ऊगत्कारणस्य प्रधा-
नत्वं सत्त्वरजस्तमःस्वभावत्वम् । यदि पुनरसतः सज्जायेत
असन्निरूपाख्यं कारणं कथं सुखादिरूपशब्दाद्यात्मकं स्यात्
सदसतोस्तादात्म्यातुषपत्तेः । अर्थकस्य सतो विवर्त्तः
शब्दादिप्रपञ्चस्तथापि सतः सज्जायत इति न स्यात् ।
नचाद्वयस्य प्रपञ्चात्मकत्वमपि त्वप्रपञ्चस्य प्रपञ्चात्मक-
तया प्रतीतिर्भ्रम एव । येषामपि कणभक्षाक्षचरणा-
दीनां सतएव कारणादसतो जन्म तेषामपि सदसतोरेकत्वा-
नुपपत्तेर्न कार्य्यात्मकं कारणमिति न प्रधानसिद्धिः । अतः
प्रधानसिद्ध्यर्थं प्रथमं तावत्सत्कार्य्यं प्रतिजानीते” कौ० ।
“असदकरणादुपादानग्रहणात्सर्व्वसम्भवाभावात् । शक्तस्य
शक्यकरणात्कारणभावाच्च सत्कार्य्यम्” का० “सत्कार्य्यं कारण-
व्यापारात् प्रागपीति शेषः । तथा च न सिद्धसाधनं नैया-
यिकनयैरुद्भावनीयम् । यद्यपि वीजमृत्पिण्डादिप्रध्वंसा-
नन्तरमङ्कुरघटाद्युत्पत्तिसपलभ्यते तथापि न प्रध्वंसस्य
कारणत्वमपि तु भावस्यैव वीजाद्यवयवस्य । अभावात्तु
भावोत्पत्तौ तस्य सर्वत्र सुलभत्वात्सर्वत्र सर्वकार्य्योत्पाद
पृष्ठ ११०९
प्रसङ्ग इत्यादि न्यायवार्त्तिकतात्पर्य्यटीकायामभिहितम-
स्माभिः । घ्रपञ्चप्रत्ययश्चासति बाधके न शक्योमिथ्येति
वक्तुमिति कणभक्षाक्षचरणमतमवशिष्यते । तत्रेदं प्रति-
ज्ञातं सत्कार्य्यमिति । अत्र हेतुमाह असदकरणात् ।
असच्चेत्कारणव्यापारात् पूर्वं कार्य्यं नास्य सत्त्वं केनापि
कर्तुं शक्यं न हि नीखं शिल्पिसहस्रेणापि शक्यं पीतं
कर्तुम् । सदसत्त्वे घटस्य धर्माविति चेत् तथाप्यसति
धर्मिणि न तस्य धर्म इति सत्त्वं तदवस्थमेव तथा च
नासत्त्वम् असम्बद्धेनातदात्मना वाऽसत्त्वेन कथमसन् घटः ।
तस्मात्कारणव्यापारादूर्द्ध्वमिव ततः प्रागपि सदेव कार्य्य-
मिति । कारणाच्चास्य सतोऽभिव्यक्तिरेवावशिष्यते ।
सतश्चाभिव्यक्तिरुपपन्ना । यथा पीड़नेन तिलेषु तैलस्य,
अवघातेन धान्येषु तण्डुलानां, दोहनेन सौरभेयीषु पयसः ।
असतः करणे तु न निदर्शनं किञ्चिदस्ति । न खल्वभिव्य-
ज्यमानं चोत्पद्यमानं वा क्कचिदसद्दृष्टम् । इतश्च
कारणव्यापारात् प्राक् सदेव कार्य्यमित्याह उपादानग्रह-
णात् उपादानानि कारणानि तेषां ग्रहणं कार्य्येण
सम्बन्धः उपादानैः कार्य्यस्य सम्बन्धादिति यावत् ।
एतदुक्तं भवति कार्य्येण सम्बद्धं कारणं कार्य्यस्य जनकं
सम्बन्धश्च कार्य्यस्यासतो न सम्भवति तस्मात् सदिति ।
स्यादेतत् असम्बद्धमेव कारणैः कस्मात् कार्य्यं न जन्यते?
तथा चासदेवोत्पत्स्यतेऽत आह सर्वसम्भवाभावात् ।
असम्बद्धस्य जन्यत्वे असम्बद्धत्वाविशेषेण सर्वं कार्य्यजातं
सर्पस्माद्भवेत् नचैतदस्ति तस्मान्नासम्बद्धमसम्बद्धेन जन्यते
अपि तु सम्बद्धं सम्बद्धेन जन्यते इति । यथाहुःसाङ्ख्य-
वृद्धाः “असत्त्वे नास्ति सम्बन्धः कारणैः सत्त्वसङ्गिभिः ।
असम्बद्धस्य चोत्पत्तिमिच्छतो न व्यवस्थितिरिति” । स्यादे-
तत् असम्बद्धमपि तदेव तत् करोति यत्र यत्कारणं शक्तं
शक्तिश्च कार्यदर्शनादवगम्यते अतो नाव्यवस्थेति अत आह
शक्तस्य शक्यकरणात् । सा शक्तिः शक्तकारणाश्रया सर्वत्र
वा स्याच्छक्ये वा । सर्वत्र चेत्तदवस्थैवाव्यवस्था शक्ये चेत्-
कथमसति शक्ये तदिति वक्तव्यम् । शक्तिभेद एव स
तादृशो यतः किञ्चिदेव कार्यं जनयेन्न सर्वमिति चेत् हन्त
भोः शक्तिविशेषः कार्य्यसम्बद्धो वा स्यादसम्बद्धो वा,
सम्बद्धत्वे नासता उम्बन्ध इति सत् कार्य्यम् । असम्बद्धत्वे
सैवाव्यवस्थेति सुष्ठूक्तं शक्तस्य शक्यकर णादिति ।
इतश्च सत्कार्य्यमित्याह कारणभावाच्च कार्य्यस्य
कारणात्मकत्वात् न हि कारणाद्भिन्नं कार्य्यं कारणञ्च स-
दिति कथं तदभिन्नं कार्य्यमसद्भवेत्” सा० कौ० ।
उत्पत्तेश्च यथा विर्भावरूपता तथाविर्भाव शब्दे ८३०
उक्तम् ।
व्याख्यात ञ्चैदस्माभिस्तट्टीकायां यथा असतः--सत्त्वेन
वक्तुमशक्यात् निरुपाख्यात् अभावात् सत्--भावरूपं वस्तु,
जायते जाततया व्यवह्रियते तथा हि अङ्कुरादिकं
वीजनाशानन्तरमेव, दध्यादि दुग्धनाशानन्तरमेव, उत्पद्यमानं
दृश्यते अतोऽनुमीयते कार्य्यभावा अभावकारणकाः कार्य्य-
त्वात् वीजनाशोत्तरजाताङ्कुरादिवत् । यत्रापि च तन्त्वा-
दिषु पटकारणेषुस्वरूपेण नाशो न दृश्यते तत्राप्यनुमानेनैव
तज्ज्ञानं जननीयम् । युक्तं चैतत् उत्पन्ने पटे यदि
तन्तवो न नष्टास्तदा तन्तवैमे इति व्यवहारविषयताम
पद्येरन् न च तथा, अतस्तत्र तन्तुव्यवहाराभावात् पटरू-
पेण व्यवहाराच्च तन्तवोनष्टा इत्यनुमातव्यम् । न च
कारणनाशे दग्धतन्तुषु पटदाहवत् पटनाशापत्तिरित्याशङ्क्यम्,
तन्तूनां पटकारणत्वस्याद्यापि असिद्धत्वात्, ये हि
भावकारणका इति वदेयुस्तान् प्रत्येवैतद्दूषणमवतरेत् नाभा-
वकारणतावादिनं प्रतीति सुस्थितमभावकारणवादिबौद्धा-
दिमतम् । सतः त्रैकालिकबाधरहितात् कूटस्थवदपरि-
णामिनः विवर्त्तः स्वाज्ञानकल्पितः स्वज्ञाननिवर्त्त्यः
परिणामविलक्षणः अत्यथाभावापत्तिः उपचारात् तथा
उत्पद्यमानं कार्य्यजातमपि विवर्त्तः न वस्तु सदिति वस्तुतः
पारमार्थिकेन सत्त्वेनं नान्वितं किन्तु व्यवहारयोग्यस-
त्तयान्वितम् । तथा हि शुक्तिकादौ रजतादिज्ञानं सर्वा-
नुभवसिद्धं तच्च प्रत्यक्षमेव रजतं साक्षात्करोमीत्याद्यनुभ-
वात् प्रत्यक्षे च विषयेन्द्रियसन्निकर्षस्य कारणत्वात् देशा-
न्तरस्थितरजतस्य च चक्षुरसन्निकृष्टतया न प्रत्यक्षविषयता ।
न च पूर्वज्ञातस्य रजतस्य ज्ञानेन उपनीतस्य शुक्तिकायां
भ्रम इति वाच्यम् ज्ञानोपनीतस्य ज्ञानस्वीकारे साक्षा-
त्कारानुभवापलापापत्तेः । अतएव न पूर्वानुभूतरजतस्मर-
णमात्रमनुभवविरोधात् । अतोऽगत्या तत्र शुक्तिकायामस-
द्रजतमुत्पद्यते इत्येव कल्पनीयम् । तदुत्पत्तौ च शुक्तिका-
दिविषयकमज्ञानं कारणं रजतविषयसंस्कारश्च तत्सह-
कारितया कल्पनीयः । तदेव अध्यस्तत्वम् यदुत्पन्नस्व
तस्यासतो रजतस्य शुक्तिकातादात्म्येन तत्प्रत्यक्षविषयता ।
तत्रोत्पन्नेऽपि रजते शुक्तिकाया गनागपि व्यावहारिक-
सत्त्वस्य व्याघातो न भवतीति यथा, एवं कूटस्थे अपरि-
णामिनि आत्मनि स्वाज्ञायेनावृते वियदादिकमध्यस्तमु-
पृष्ठ १११०
त्पद्यते तत्र च तदज्ञानं हेतुः तत्संस्कारश्च सहकारीति
तथा च विवादाध्यासिता घटादयः सति अध्यस्तास्तज्-
ज्ञाननाश्यत्वे सति सत्तादात्म्येन प्रतीयमानत्वात् शुक्तिता-
दात्म्येन प्रतीयमानशुक्तिज्ञाननाश्यरजतबदित्यनुमानात्
अध्यस्तत्वं घटादानां सिद्धम् । अध्यस्तत्वं च साक्षात्कारि-
प्रत्यक्षविषयत्वं प्रागुक्तं तच्च तस्यासतोऽप्यनुत्पत्तौ प्रत्यक्ष-
विषयता न स्यादिति अध्यस्तत्वरक्षायै तस्मिन्नुत्पत्तिरप्यङ्गी-
कार्य्या । ज्ञाननाश्यत्वं च तेषां मिथ्यात्वात् शुक्तिज्ञानना-
श्यासद्रजतवदित्यनुमातव्यमित्यास्तां विस्तरेण इति वेदान्ति-
मतम् । सतो भावात् विद्यमानादेवेत्यर्थः । असत् उत्पत्तेः,
कारणव्यापाराद्वा पूर्व्वमविद्यमानं, कारणव्यापारादुत्तरन्तु
जायते सद्भवतीति काणादनैयायिकादयः । सतः सत्त्वा-
श्रयात् भावादेव सत्, कारणव्यापारात् प्रागपि, कारणा-
वस्थारूपसूक्ष्मरूपेण विद्यमानं जायते कारणव्यापारात्तु-
अभिव्यज्यतेव्यवहारयोग्यतामापाद्यते इति यावदिति वृद्धाः
साङ्ख्यादयः । एवमुत्पत्तिविषये चतुर्षु पक्षेषु स्थितेषु
आद्यपक्षत्रये अनुमित्सितकार्य्यात्मककारणरूपप्रधानासिद्धिं
क्रमशः प्रदर्शयितुं क्रमप्राप्तं बौद्धपक्षमाह यदि पुनरि-
त्यादि । निरुपाख्यामनिर्वचनीयमिदन्तया वक्तुमशक्यमि-
ति यावत् सति हि लक्षणे वस्तु तल्लक्षणवत्त्वेन वक्तुं
शक्यम् अभावस्य च लक्षणाभावात् कथङ्कारं वक्तव्यता ।
यद्यपि भावभिन्नत्वं, सत्त्वेन प्रतीत्यनर्हत्वम्, असत्त्वेन
प्रतीत्यर्हत्वं वा तल्लक्षणं कैश्चिदुच्यते तानि च सर्वाण्यपि
अभावज्ञानसापेक्षतया दुर्ज्ञेयत्वादन्योन्याश्रयदोषग्रस्तत्वा-
च्चालक्षणान्येव । सुखदुःखमोहात्मककार्यदर्शनात्
कारणस्यापि तथाभूतात्मकत्वमनुमित्सितं तच्च भावस्यैव
कारणतापक्षे सेत्स्यति नाभावस्य भावाभावयोस्तादात्म्यानुप-
पत्तेरिति भावः । विवर्त्तवादे च कार्य्यजातस्याध्यासेन
तादात्म्यभानेऽपि वस्तुतोऽसत्त्वेन सदसतोस्तादात्म्या
नुपपत्त्या पूर्ववन्नानुमित्सितप्रधानसिद्धिरित्याह अथैकस्ये-
त्यादि । सतोऽसज्जायते इति पक्षेऽपि सदसतोस्तदा-
त्म्यानुपपत्त्यैव न प्रधानसिद्धिरित्याह सदसतोरेकत्वे-
इत्यादि । एवमाद्यपक्षत्रिके प्रधानासिद्धिमुद्भाव्य सत्का-
र्यपक्षे तत् साधयितुं सत्कार्यपक्षसभर्थनाय कारिकामवता-
रयति सत्कार्यं प्रतिजानीते इत्यादि । कार्थं सत्
कारणव्यापारात् प्रागपि विद्यमानमित्यर्थः तेन कारणव्या-
पारोत्तरं सत्त्वस्य नैयायिकादिवादिषु सिद्धत्वेन न सिद्ध-
लाधनमिति दर्शयितुं विशिनष्टि कारणव्यापारादित्यादि ।
चतसृषु वादिविप्रतिपत्तिषु दर्शितासु असत्कार्यपक्षनिरा-
करणेऽपि इतरयोः पक्षयोरनिराकरणात् तत्प्रक्षयोः
प्रधानासिद्धिरित्याशङ्क्य मूले तन्निराकरणाभावेऽपि अयुक्त-
त्वादेव तयोः पक्षयोर्न ग्राह्यतेति कथयितुमादौ बौद्धपक्षं
दूषयितुमुत्थापयति यद्यपीत्यादि । दूषयति तथापी-
त्यादि । अयमाशयः सम्बद्धं सम्बन्धिनमेव जनयतीति
नियमेन कार्यकारणयोः सम्बन्धोऽपेक्षितः वीजनाशाङ्कु-
रयोश्च केनापि सम्बन्धेन न सम्बन्धिता घटते येन तयोः
कार्यकारणभावः स्यात् । असम्बद्धस्य कार्यजनकत्वे सर्व-
स्मात् सर्वकार्योत्पत्तिरित्यव्यवस्था स्यात् । न च वीजेष्वे-
वाङ्कुरप्रागभावः न तन्तुष्वित्यत्र स्वभाव एव शरणं तथा
च अङ्गुरप्रागभाव एव नियामकोभविष्यतीति वाव्यम्
प्रागभावस्य सूक्ष्मावस्थातिरिक्तत्वे अङ्कुरतत्प्रागभावयोश्च
विभिन्नकालिकतया केनापि सम्बन्धेन सम्बन्धित्वाभावेन
नियामकत्वाभावात् असम्बद्धस्य नियामकत्वे पूर्वदोषता-
दवस्थ्यात् । न च प्रतियोगितासम्बन्धेन तयोः सम्बन्धि-
तेति वाच्यम् अभावसम्बन्धिताया एव प्रतियोगितापदार्थ-
तया तस्या अप्यस्मत्पक्षेऽसिद्धत्वात् न च वीजस्य नाशात्
कथं तस्य अङ्कुरकारणत्वमिति, तस्य नाशेऽपि तदवयवस्या-
नाशात् तस्यैव कारणत्वं वाच्यमिति सर्वं सुस्थम् ।
विबर्त्तवादे च यद्यपि तदनन्यत्वमारम्भणशब्दादिभ्य इति शा० २,
१, १४ सूत्रेण कार्यकारणयोरभिन्नत्वमेव स्वीकृतं तथापि
घटपटादिज्ञानानामध्यस्तविषयकतया विषयाणां मिथ्यात्वं
तैरङ्गीक्रियते तथा हि विवादाध्यासितानि घटादिज्ञा-
नानि अध्यस्तविषयकाणि सत्याविषयकज्ञानत्वात् शुक्ति-
कायां रजतज्ञानवदित्यनुमानेन घटादिज्ञानानामध्यस्त-
बिषयकत्वं सिद्धे अध्यस्तस्य च ज्ञाननाश्यतया मिथ्या-
त्वमित्यसत्त्वमेव तथा च सदसदोस्तादात्म्यानुपपत्तिदो-
षेण नैतत्पक्षाश्रयणम् । किञ्च मिथ्यात्वं ज्ञाननिवर्त्त्यत्वं
तच्च नेदं रजतमिति बाधबुद्ध्या यथा रजतस्य मिथ्यात्वं
प्रसिद्धमेवं घटादेर्मिथ्यात्वसाधकस्य बाधस्यादर्शनान्न तस्य
मिथ्यात्वमेवञ्च हेत्वसिद्धेः कथं घटादिज्ञानादावध्यस्तवि-
षयकत्वसिन्निः । एतदर्थमेव असति बाधक इत्युक्तम् ।
तथा च शुक्तिरजतबाधकवदत्र बाधकाभावान्न तस्य
मिथ्यात्वम् । न चाद्वैतश्लतिरेव बाधिका, तस्याः अन्यार्थ-
परतया द्वैताभावनिषेधपरत्वाभावात् अतएव “नाद्वैतश्रु-
रिविरीधो जातिपरत्वात्” इत्यनेन साङ्ख्यसूत्रेण श्रुतेः
समानजातीवबहुजीवपरत्वं समर्थितम् । एवं पक्षद्वय-
पृष्ठ ११११
मयुक्तिकतया निरस्य दृढयुक्तिकस्य काणादादिपक्षस्य
निरसनीयतयाऽवशेषतां दर्शयति कणभक्षेत्यादि कणमन्नकणं
भक्षयतीति कणभक्षः कणादः । अक्षं चक्षुश्चरणे यस्येति
अक्षचरणो गौतमस्तदनुसारिमतमित्यर्थः
ननु भावस्य सत्त्वमसत्त्वं च कादाचित्को धर्मो न तु स्वा-
भाविकः तथा च उत्पत्तेः प्राक् असत्त्वं परतस्तु सत्त्वम्
यथा घटे पाकात् पूर्वं श्यामता, पाकोत्तरं रक्तता, तद्वत्
कालविशेषे धर्मविशेषो भविष्यतीति असत्कार्यपक्षेऽपि
न काचित् क्षतिरिति शङ्कते सदसत्त्वे इति । परिहरति
तथाप्यसतीति । अयमाशयः असत्त्वस्य भावधर्मत्वे
उत्पत्तेः प्रागपि तस्य धर्मिणः सत्त्वं स्वीकर्त्तव्यं तथा
हि धर्मसत्त्वं धर्मिसत्त्वं विनानुपपद्यमानं धर्मिसत्त्वमपि
तदाक्षिपति तथा चापादकेन असत्त्वरूपधर्मसत्त्वेन
आपाद्यस्य धर्म्मिसत्त्वस्य सिद्धिः इति । सत्त्वं कार्यसत्त्वं तदवस्थं
उत्पत्तेः प्रागपि स्थितमिति न तदानीं धर्म्यसत्त्वासि-
द्धिरित्याह तथा च नासत्त्वमिति असत्त्वधर्मिणस्तदानी-
मपि सिद्धत्वान्न घर्म्यसत्त्वमित्यर्थः । तदेवोपपादयति
असम्बद्धेनेत्यादि । असम्बद्धेन धर्म्मिणा सहेति शेषः
असत्त्वेनेत्यत्रास्यान्वयः । अतदात्मना अतत्स्वरूपेण वा
असत्त्वेन कथमसन् स्यात् असत्त्वाश्रयः स्यादित्यर्थः
धर्म्मिणा सह सम्बद्धेनैव धर्मेण तदाश्रयत्वनियमात्
असम्बद्धस्य च तादात्म्येनैव तथात्वनियमाच्च प्रकृते
असत्त्वस्य घटेन सह सम्बन्धाभावात् तत्तादात्म्याभावाच्च न
तदाश्रयत्वमिति भावः । सत्कार्यपक्षमुपसंहरति तस्मा-
दिति । तैलस्य, तण्डुलानां, पयसश्चाभिव्यक्तिरित्यत्रा-
नुकृष्याऽन्वयः । असत्त्वे कार्यस्य उत्पत्तेः प्रागसत्त्वे
सत्त्वसङ्गिभिः सत्त्वाश्रयैः कारणैः सह सम्बन्धोनास्ति ।
असम्बद्धस्य चोत्पत्तौ प्रागुक्ता अव्यवस्थितिः सर्वस्मात्
सर्वोत्पत्तिरित्येवं रूपा अव्यवस्था । प्रथमं तत्पदं द्वि-
तीयान्तं कार्यपरम्, द्वितीयं तु कारणपरं प्रथमान्तम् ।
कार्य्यानुकूला कारणनिष्ठैव शक्तिः कार्यजनननियामिके-
त्यवसेयम् तथा च कार्यस्यासत्त्वे कथं तदनुकूलत्वं तस्याः
स्यादिति समर्थयितुं शक्तेरितरनिष्ठत्वं विकल्प्य दूषयति
सा शक्तिरिति” ।
यथा च असतोन सदुत्पत्तिः सतश्चाभिव्यक्ति स्तथा
छा० उ० भाष्ययोः समर्थितं यथा “सदेव सौम्येदमग्र
आसीदेकमेवाऽद्वितीयम् । तद्धैक आहुरसदेवेदमग्र
आसीदेकमेवाद्वितीयं तस्मादसतःसज्जायते । कुतस्तु खलु
सौम्येवं स्यादिति? होवाच कथमसतः सज्जाये-
तेति? । सत्त्वेव सौम्येदमग्र आसीत् एकमेवा-
द्वितीयम् । तदैक्षत बहु स्यां प्रजायेयेति” छा० उ० “सदेव
सदित्यस्तितामात्रं वस्तु सूक्ष्मं निर्विशेषं सर्व्वगतम् । एकं
निरञ्जनं निरवयवं विज्ञानं यदवगम्यते सर्व्ववेदान्तेभ्यः ।
एवशब्दोऽवधारणार्थः । किन्तदवध्रियते? इत्याह । इदं
जनन्नामरूपक्रियावद्विकृतमुपलभ्यते यत्तत्सदेवासीदित्यासी-
च्छब्देन सम्बध्यते । कदा सदेवेदमासीदित्युच्यते अग्ने
जगतः प्रागुत्पत्तेः । किं नेदानीमिदं सद् येनाग्रआसी
दिति विशेष्यते, न, कथं तर्हि विशेषणम्? इदानीमपीदं
सदेव, किन्तु नामरूपविशेषणवदिदंशब्दबुद्धिविषयं चेती-
दञ्च भवति । प्रागुत्पत्तेस्त्वग्रे केवलसच्छब्दबुद्धिमात्र-
गम्यमेवेति सदेवेदमग्र आसीदित्यवधार्य्यते । न हि
प्रागुत्पत्तेर्नामवद्रूपवद्वेदमिति ग्रहीतुं शक्यं वस्तु
सुषुप्तकाल इव । यथा सुषुप्तादुत्थितः सत्त्वमात्रमवग-
च्छति सुषुप्ते सन्मात्रेमेव केवलं वस्त्विति तथा प्रागुत्-
पत्तेरित्यभिप्रायः । यथेदमुच्यते लोके पूर्व्वाह्णे
धटादिसिसृक्षुणा कुलालेन मृत्पिण्डं प्रसारितमुपलभ्य
ग्रामान्तरं गत्वा प्रत्यागतोऽपराह्णे तत्रैव घटशरावाद्य-
नेकभेदभिन्नं कार्य्यमुपलभ्य मृदेवेदं घटशरावादि केवलं
पूर्व्वाह्णे आसीदिति, तथेहोच्यते सदेवेदमग्र आसीदिति ।
एकमेवेति । स्वकार्य्यपतितमन्यन्नास्तीत्येकमेवेत्युच्यते ।
अद्वितीयमिति । मृद्व्यतिरेकेण मृदो यथाऽन्यद्घटाद्या-
कारेण परिणमयितृकुलालादिनिमित्तकारणं दृष्टं तथा
सद्व्यतिरेकेण सतः सहकारिकारणं द्वितीयं वस्त्वन्तरं प्राप्तं
प्रतिषिध्यते । अद्वितीयमिति नास्य द्वितीयं वस्त्वन्तरं
विद्यत इत्यद्वितीयम् । ननु वैशेषिकपक्षेऽपि सत्सामा-
नाधिकरण्यं सर्व्वस्योपपद्यते । द्रव्यगुणादिषु सच्छब्द-
बुद्ध्यनुवृत्तेः । सद्द्रव्यं सन् गुणः सत् कर्म्मे त्यादिदर्श-
नात्, सत्यमेर्व स्यादिदानीम्, प्रागुत्पत्तेस्तु नैवेदं कार्य्यं
सदेवासीदित्यभ्यु पगम्यते वैशेषिकैः प्रागुत्पत्तेः कार्य्य-
स्यासत्त्वाभ्युपगमात् । न चैकमेव सदद्वितीयं प्रागुत्-
पत्तेरिच्छन्ति । तस्माद्वैशेषिकपरिकल्पितात् सतोऽन्य-
त्कारणमिदं सदुच्यते मृदादिदृष्टान्तेभ्यः । तत् तत्र
हैतस्मिन् प्रागुत्पत्तेर्वस्तुनिरूपणे एके वैनाशिका आहुर्वस्तु
निरूपयन्तोऽसदभावातात्रं प्रागुत्पत्तेरिदं जगदेकमेवा-
ग्रेऽद्वितीयमासीदिति । सदभावमात्रं हि प्रागुत्पत्ते-
स्तत्त्वं कल्पयन्ति बौद्धाः । न तु सत्प्रतिद्वन्द्विवस्त्वन्तर-
पृष्ठ १११२
मिच्छन्ति । यथा सच्चासदिति गृह्यमाणं यथाभूतं तद्वि-
रीतं तत्त्वं भवतीति नैयायिकाः । ननु सदभावमात्रं
प्रागुत्पत्तेश्चेदभिप्रेतं वैनाशिकैः कथं प्रागुत्पत्ते-
रिदमासीदसदेकमेवाद्वितीथञ्चेति कालसम्बन्धः सङ्ख्या-
सम्बन्धोऽद्वितीयत्वं चोच्यते तैः । वाढम् । न युक्तं तेषां
भावाभावमात्रमभ्युपगच्छताम् । असत्त्वमात्राभ्युपगमोऽ-
प्ययुक्त एवाभ्युपगन्तुरनभ्युपगमानुपपत्तेः । इदानीम-
भ्युपगन्ताभ्युपगम्यते न प्रागुत्पत्तेरिति न प्रागुत्पत्तेः
सदभावस्य प्रामाणाभावात् । प्रागुत्पत्तेरसदेवेति कल्प-
नानुपपत्तिः । ननु कथं वस्त्वाकृते शब्दार्थत्वेऽसदेवमेवा-
द्वितीयमिति पदार्थवाक्यार्थोपपत्तिस्तदनुपपत्तौ चेदं
वाक्यमप्रमाणं प्रसज्येतेति चेत् नैष दोषः सद्ग्र-
हणनिवृत्तिपरत्वाद्वाक्यस्य । सदित्ययं तावच्छब्दः
सदाकृतिवाचकः । एकमेवाद्वितीयमित्येतौ च समानाधिक-
रणौ । तथेदमासीदिति च । तत्र नञ् सद्वाक्ये प्रयुक्तः
सद्वाक्यमेवावलम्ब्य सद्वाक्यार्थविषयां बुद्धिं सदेकमेवा-
द्वितोयमिदमासीदित्येवंलक्षणां ततः सद्वाक्यार्थान्निव-
र्त्तयति । अश्वारूढ इवाश्वालम्बनोऽश्वं तदभिमुखविष-
यान्निवर्त्तयति तद्वत् । न तु पुनः सदभावमेवाभिधत्तेऽतः
पुरुषस्य विपरीतग्रहणनिवृत्त्यर्थपरमिदमसदेवेत्यादि वाक्यं
प्रयुज्यते । दर्शयित्वा हि विपरीतग्रहणं ततो निवर्त्त-
यितुं शक्यत इत्यर्थवत्ताऽसदादिवाक्यस्य श्रौतत्वं प्रामा-
ण्यञ्च सिद्धमित्यदोषः । तस्मादसतः सर्व्वाभावरूपात्स-
द्विद्यमानमजायत समुत्पन्नम् । अडभावश्छान्दसः ।
तदेतद्विपरीतग्रहणं महावैनाशिकपक्षं दर्शयित्वा प्रतिषेध-
ति । कुतस्तु? प्रमाणात् खलु हे सौम्य! एवं स्यादसतः
सज्जायते इत्येवं कुतो भवेत् न कुतश्चित्प्रमाणादेवं सम्भवती-
त्यर्थः । यदपि वीजोपमर्द्देऽङ्कुरो जायमाबो दृष्टोऽभा-
वादेवेति तदप्यभ्युपगमविरुद्धं तेषाम् । कथं? ये तावद्वीजा-
वयवा वीजसंस्थानविशिष्टास्तेऽङ्कुरेऽप्यनुवर्त्तन्त एव न
तेषामुपमर्द्दोऽङ्कुरजन्मनि । यत्पुनर्वीजाकारसंस्थानं तद्वी-
जावयवव्यतिरेकेण वस्तुभूतं न वैनाशिकैरभ्युपगम्यते
यदङ्कुरजन्मन्युपमृद्येताथ तदस्त्यवयवव्यतिरिक्तं वस्तुभूतं
तथाच सत्यभ्यु पगमविरोधः । अथ संवृत्त्याभ्युपगतं
वीजसंस्थानरूपमुपमृद्यत इति चेत् । केयं संवृत्तिर्नाम
किमसावभाव उत भाव इति । यद्यभावो दृष्टान्ताभावः । अथ
भावस्तथापि नाभावादङ्कुरोत्पत्तिः वीजावयवेभ्यो
ह्यङ्कुरोत्पक्षेः । अवयवा अप्युपमृद्यन्त इति चेत् ।
न तदवयवेषु तुल्यत्वात् । यथा वैनाशिकानां
वीजसंस्थानरूपोऽवयवी नास्ति । तथावयवा अपीति तेषा-
मप्युपमर्द्दानुपपत्तिः । वीजावयवानाममि सूक्ष्मावयवा-
स्तदवयवानामप्यन्ये सूक्ष्मास्तदवयवा इत्येवं प्रसङ्गस्याऽ-
नुवृत्तेः सर्व्वत्रोपमर्द्दानुपपत्तिः । सद्बुद्ध्यनुवृत्तेः सत्त्वा-
निवृत्ति श्चेति सद्वादिनां सत एव सदुत्पत्तिः सेत्स्यति ।
न त्वसद्वादिनां दुष्टान्तोऽस्त्यसतः सदुत्पत्तौः । मृत्-
पिण्डाद्घटोत्पत्तिर्दृश्यते सद्वादिनां, तद्भावे च भावात्तद-
भावे चाभावात् । यद्यभावादेव घट उत् पद्येत घटार्थिना
मृत्पिण्डो नोपादीयेत । अभावशब्दबुद्ध्यनुवृत्तिश्च घटादौ
प्रसज्येत न त्वेतदस्त्यतो नासतः सदुत् पत्तिः । यदप्या-
हुर्मृद्बुद्धिर्घटबुद्धेर्निमित्तमिति मृद्वुद्धिर्घटबुद्धेः कारण-
मुच्यते न तु परमार्थत एव मृद्घटो वास्तीति तदपि
मृद्बुद्धिर्विद्यमाना विद्यमानाया एव घटबुद्धेः कारणमिति
नासतः सदुत्पत्तिः । मृद्बुद्धिघटबुद्ध्योर्निमित्तनैमित्तकतया-
नन्तर्य्यमात्रं न तु कार्य्यकारणत्वमिति चेतु न
बुद्धीनां नैरन्तर्य्ये गम्यमाने वैनाशिकानां बहिर्द्वष्टान्तस्या-
भावात् । अतः कुतस्तु खलु सौम्यैवं स्यादिति होवाच
कथं केन प्रकारेणासतः सज्जायेतेति? असतः सदुत्पत्तौ
न कश्चिदपि दृष्टान्तप्रकारोऽस्तीत्यभिप्रायः । एवमसद्वा-
दिपक्षमुन्मथ्योपसंहरति सत्त्वैव सौम्येदमग्र आसीदिति
स्वपक्षसिद्धिः । ननु सद्वादिनोऽपि सतः सदुत्पद्यत इति
नैव दृष्टान्तोऽस्ति । “घटाद्घटान्तरोत्पत्त्यदर्शनात् ।
सत्यमेवं न सतः सदन्तरमुत्पद्यते किं तर्हि सदेव संस्था-
नान्तरेणावतिष्ठते । यथा सर्पः कुण्डली भवति । यथा
च मृच्चूर्ण्णं पिण्डघटकपालादिप्रभेदैः । यद्येवं सदेव सर्व्व-
प्रकारावस्थं कथं प्रागुत्पत्तेरिदमासीदित्युच्यते । ननु न
श्रुतं त्वया सदेवेत्यवधारणमिदंशब्दवाच्यस्य कार्य्यस्य । प्राप्तं
तर्हि प्रागुत्पत्तेरसदेवासीन्नेदं शब्दवाच्यमिदानीमिदं
जातमिति, न सत एवेदंशब्दबुद्धिविषयतयावस्थानात् यथा मृदेव
पिण्डघटादिशब्दबुद्धिविषयेत्वेनावतिष्ठते तद्वत् । ननु यथा
मृद्वस्त्वेवं पिण्डघटाद्यपि तद्वत्सद्वुद्धेरन्यबुद्धिविषयत्वात्का-
र्य्यस्य सतोऽन्यवस्त्वन्तरं स्यात्कार्य्यजातं यथाऽश्वाद् गौः,
न पिण्डघटादीनामितरेतरव्यभिचारेऽपि मृत्त्वाध्यभिचा-
रात् । यद्यपि घटः पिण्डं व्यभिचरति पिण्डश्च घटं
तथापि पिण्डघटौ मृत्त्वं न व्यभिचरतस्तस्मान्मृन्मात्रं
पिण्डघटौ, व्यभिचरत्यश्वं गौरश्वो वा गाम्, तस्मान्मृदादि
संस्थानमात्रं घटादयः । एवं सत्संस्थानमात्रमिढं सर्ब्द
पृष्ठ १११३
मिति युक्तं प्रागुत्पत्तेः सदेयेति वाचारम्भणमात्र-
त्वाद्विकारसंस्थानमात्रस्य । ननु निरवयवं सत् “निष्कलं
निष्क्रियं शान्तं निरवद्यं निरञ्जनम्” “दिव्यो ह्यमूर्त्तः
पुरुषः स बाह्याभ्यन्तरो ह्यज” इत्यादिश्रुतिभ्यो, निरवय-
वस्य सतः कथं विकारसंस्थानमुपपद्यते । नैष दोषो रज्वा-
द्यवयवेभ्यः सर्पादिसंस्थानवद्बुद्धिपरिकल्पितेभ्यः सदवय-
वेत्यो विकारसंस्थानोपपत्तः । “वाचारम्भणं विकारो
नामधेयं मृत्तिकेत्येव सत्यम्” “एवं सदेव सत्यमिति” श्रुतेः ।
एकमेवाद्वितीयं परमार्थत इदंबुद्धिकालेऽपि तत्सत् ऐक्षतेक्षां
दर्शनं कृतवान् । अतश्च न प्रधानं साङ्ख्यपरिकल्पितं
जगत्कारणम् प्रधानस्याचेतनत्वाभ्युपगमात् । इदन्तु
सच्चेतनमीक्षितृत्वात्तत्कथमैक्षतेत्याह बहु प्रभूतं स्यां भवेयं
प्रजायेय प्रकर्षेणोत्प्रद्येय । यथा मृद् घटाद्या-
कारेण यथा वा रज्ज्वादि सर्पाद्याकारेण बुद्धि-
कल्पितेन । असदेव तर्हि सर्व्वं यद्गृह्यते रज्जुरिव
सर्पाद्याकारेण, न, सत एव द्वैतभेदेनान्यथागृह्यमाण-
त्वान्नासत्त्वं कस्यचित् कचिदिति ब्रूमः । यथा सतोऽन्य-
द्वस्त्वन्तरं परिकल्प्य पुनस्तस्यैव प्रागुत्पत्तेः प्रध्वंसाच्चो-
र्द्धमसत्त्वं ब्रुवते तार्किका न तथाऽस्माभिः कदाचित्-
क्वचिदपि सतोऽन्यदभिधामनभिधेयं वा वस्तु परिकल्प्यते
सदेव तु सर्व्वमभिधानमभिधीयते च यदन्यबुद्ध्या यथा
रज्जुरेव सर्पबुद्ध्या सर्प इत्यभिधीयते यथा, वा पिण्ड-
घटादिर्मृदोऽन्यबुद्ध्या पिण्डघटादिशब्देनाभिधीयते लोके ।
रज्जुविबेकदर्शिनां तु सर्पाभिधानबुद्धी निवर्त्तेत यथा च
मृद्विवेकदर्शिनां घटादिशब्दबुद्धी तद्वत्सद्विवेकदर्शिनामन्य-
विकारशब्दबुद्धी निवर्त्तेते । “यतो वाचो निवर्त्तन्तेऽप्राप्य
मनसा सहेति” “अनिरुक्तेऽनिलयन “इत्यादिश्रुतिभ्यः” भा०
वृ० उ० भाष्ये अभावादिकारश्चवादनिराकरणेन
उत्पत्तेः प्रागपि सत्कार्य्यं कारणव्यापारादभिव्यज्यते इति
स्थिरीकृतम् यथा । “नैवेह किञ्चनाग्र आसीत् मृत्यु-
नैवेदमावृतमासीत् वृ० उ० । “नैवेह किञ्चनाग्र आसीत् ।
इह संसारमण्डले किञ्चन किञ्चिदपि नामरूपप्रविभक्त
विशेषं नैवासीत् न बभूव । प्रागुत्पत्तेर्मन आदेः किं शून्य-
मेव स्यात्, नैवेह किञ्चनेति श्रुतेः न, कार्य्यं कारणं वासी-
दुत्पत्तेश्च । उत्पद्यते हि घटः । अतः प्रागुत्पत्तेर्घटस्य
नास्तित्वम् नतु कारणस्य नास्तित्व” मृत्पिण्डादि-
दर्शनात् । यन्नोपलभ्यते तस्यैव नास्तिता । अस्तुकार्य्यस्य,
नतु कारणस्य, उपलभ्यमानत्वात् न प्रागुत्पत्तेः सर्व्वा-
नुपलम्भात्, अनुपलब्धिश्चेदभावो हेतुः सर्व्वस्य जगतः
प्रागुत्पत्तेर्न कारणं कार्य्यञ्चोपलभ्यते । तस्मात्सर्वस्यैवा-
भावोऽस्तु, न मृत्युनैवेदमावृतमासीदिति श्रुतेः ।
यदि हि किञ्चिदपि नासात् येनाव्रियते यच्चाव्रियते
तदा नावक्ष्यन्मृत्युनैवेदमावृतमिति । न हि भवति
गगनकुसुमच्छन्नी बन्ध्यापुत्र इति । ब्रवीति च मृत्युनैवेदमा-
वृतमासीदिति । तस्माद्येनावृतं कारणेन यच्चावृतं कार्य्यं
प्रागुत्पत्तेस्तदुभयमासीच्छ्रुतेः प्रामाण्यात् अनुमेय-
त्वाच्च । अनुमीयते च प्रागुत्पत्तेः कार्य्यकारणयोर-
स्तित्वम् कार्य्यस्य हि सतो जायमानस्य कारणे सत्युत्पत्ति-
दर्शनात् असति चादर्शनात् । जगतोऽपि प्रागुत्पत्तेः
कारणास्तित्वमनुमीयते घटादिकारणास्तित्ववत् ।
घटादिकारणस्याप्यसत्त्वमेवानुपमृद्य मृत्पिण्डादिकं घटाद्य-
नुत्पत्तेरिति चेन्न मृदादेः, कारणत्वात् । मृत्सुवर्णादि
हि तत्र कारणं घटरुचकादेः न पिण्डाद्याकारविशेषः
तदभावे तदभावात् । असत्यपि पिण्डाकारविशेषे मृत्सुव-
र्ण्णादिकारणद्रव्यमात्रादेव घटरुचकादिकार्योत्पत्तिर्दृश्यते ।
तस्वान्न पिण्डाकारविशेषो घटरुचकादिकारणम् ।
असति तु मृत्सुवर्णादिद्रव्ये घटरुचकादिर्न जायत इति
मृत्सुवर्ण्णादिद्रव्यमेव कारणं नतु पिण्डाकारविशेषः ।
सर्व्वं हि कारणं कार्यमुत्पादयत् पूर्वोत्पन्नस्यात्मकार्यस्य
तिरोधानं कुर्व्वत् कार्यान्तरमुत्पादयति । एकस्मिन्
कारणे युगपदनेककार्य्यविरोधात् । न च पूर्व्वकार्य्योपमर्दे
कारणस्य स्वात्मोपमर्दो भवति । तस्मात् पिण्डाद्युपमर्दे
कार्य्योत्पत्तिदर्शनमहेतुः । प्रागुत्पत्तेः कारणसत्त्वे
पिण्डादिव्यतिरेकेण मृदादेरसत्त्वादयुक्तरिति चेत् पिण्डादि-
पूर्ब्बकार्य्योपमर्दे मृदादिकारणं नोपमृद्यते । घटादिका-
र्य्यान्तरेऽप्यनुवर्तत इत्येतदयुक्तम् । पिण्डधटादिव्यतिरेकेण
मृदादिकारणस्यानुपलस्भादिति चेत् न मृदादिकारणानां
घटाद्युत्पत्तौ पिण्डादिनिवृत्तावनुवृत्तिदर्शनात् । सादृ-
श्यादन्वयदर्शनं कारणानुवृत्तेरिति चेन्न पिण्डादि-
गतानां मृदाद्यवयवानामेव घठादौ प्रत्यक्षत्वेऽनुमानाभा-
सात्मादृश्यादिकल्पनानुपपत्तेः । न च प्रत्यक्षानुमान-
योर्विरुद्धा व्यभिचारिता प्रत्यक्षपूर्व्वकत्वादमुमानस्य
सर्व्वत्रैवानाश्वासप्रसङ्गात् । यदि च क्षणिकं सर्वं,
तदेवेदमिति गम्यमानं तद्बुद्धेरपि अन्यतद्बद्ध्यपेक्षत्वे
तस्या अप्यन्यबुद्ध्यपेक्षत्वमित्यनास्थायां तत्सदृशमिदमित्यस्या
अपि बुद्धेर्मृषात्वात् सर्वत्रानाश्वासतैव । तदिदम्बुद्ध्योरपि
पृष्ठ १११४
कर्त्रभावे सम्बन्धानुपपत्तिः । मादृश्यात्सम्बन्ध इति चेन्न ।
तदिदम्बुद्ध्योरितरेतरविषयत्वानुपपत्तेः । असति चेतरे-
तरविषये सादृश्यग्रहणानुपपत्तिः । असत्येव सादृश्ये
तद्बुद्धिरिति चेन्न । तदिदम्बुद्ध्योरपि सादृश्यबुद्धिवदसद्वि-
षयत्वप्रसङ्गात् । असद्विषयत्वमेव सर्व्वबुद्धीनामस्त्वेति चेन्न
बुद्धिबुद्धेरप्यसद्विषयत्वप्रसङ्गात् । तदप्यस्त्विति चेन्न ।
सर्व्वबुद्धीनां मृषात्वेऽसत्यबुद्ध्यनुपपत्तेः । तस्मादसदेतत्
सादृश्यात्तु तद्बुद्धिरित्यतः सिद्धः प्राक्कार्योत्पत्तेः
कारणसद्भावः । कार्यस्य चामिव्यक्तिलिङ्गत्वात् । कार्य्यस्य च
सद्भावः प्रागुत्पत्तेः सिद्धः कथम्? अभिव्यक्तिलिङ्गत्वात् ।
अभिव्यक्तिर्लिङ्गमस्येत्यभिव्यक्तिः साक्षाद्विज्ञानालम्बनत्व-
प्राप्तिः । यद्धि लोके प्रावृतं तम आदिना घटादि वस्तु
तत् आलोकादिना प्रावरणतिरस्कारेण विज्ञानविषयत्वं
प्राप्नुवत् प्राक्सद्भावं न व्यभिरचति । तथेदमपि जगत् प्रागु-
त्पत्तेरित्यवगच्छामः । न हि अविद्यमानो घट उदिते
ऽप्यादित्य उपलभ्यते । ननु तेऽविद्यमानत्वाभावादुपलभ्य-
तैवेति चेत् । न हि तव घटादिकार्य्यं कदाचिदप्यविद्य-
मानमित्युदितेऽप्यादित्य उपलभ्येतैव । मृत्पिण्डेऽसन्निहिते
तम आद्यावरणे चासति विद्यमानत्वादिति चेत् न द्विवि-
धत्वादावरणस्य । घटादिकार्यस्य द्विविधं ह्यावरणं मृदा-
देरभिव्यक्तस्य तमःकुड्यादि प्राङ्मृदोऽभिव्यक्तेर्मृदाद्यव-
यवानां पिण्डादिकार्यान्तररूपेण संस्थानम् । तस्मात्
प्रागुत्पत्तेर्विद्यमानस्यैव घटादिकार्य्यस्यावृतत्वादनुप-
लब्धिः । नष्टोत्पन्नभावाभावशब्दप्रत्ययभेदस्त्वभिव्यक्तितिरो-
भावयोर्द्विविधत्वापेक्षः । पिण्डकपालादेरावरणवैलक्ष-
ण्यादयुक्तमिति चेत् तमःकुड्यादि हि घटाद्यावरणं
घटादिभिन्नदेशं दृष्टं न तथा घटादिभिन्नदेशे दृष्टे
पिण्डकपाले तस्मात्पिण्डकपालसंस्थानयोर्विद्यमानस्यैव
घटस्यावृतत्वादनुपलब्धिरित्ययुक्तमावरणधर्मवैलक्षण्यादिति
चेत् न क्षीरोदकादेः क्षीराद्यावरणेनैकदेशत्वदर्शनात् ।
घटादिकार्ये कपालचूर्ण्णाद्यवयवानामन्तर्भावादनावरणत्व-
मिति चेत् न विभक्तानां कार्यान्तरत्वादावरणत्वोपप-
त्तेः । आवरणाभाव एव यत्नः कर्तव्य इति चेत् पिण्डकपा-
लावस्थयोर्विद्यमानमेव घटादिकार्यमावृतत्वान्नोपलभ्यत
इति घटादिकार्यार्थिना तदावरणविनाश एव यत्नः
कर्त्तव्यो न घटाद्युत्पत्तौ । न र्चतदस्ति तस्मादयुक्तं
विद्यमानस्यैवावृतत्वादनुपलर्ब्धिरिति चेत् न अनिय-
मात् । न हि विनाशमात्रप्रयत्नादेव घटाद्यभिव्यक्ति-
र्नियता तम आद्यावृते घटादौ प्रदीपाद्युत्पत्तौ प्रर्य
त्नदर्शनात् । सोऽपि तमोनाशायैवेति चेत् दीपाद्युत्-
पत्तावपि यः प्रयत्नः सोऽपि तमस्तिरस्करणाय । तस्मिन्नष्टे
घटः स्वयमेवोपलभ्यते न हि घटे किञ्चिदाधीयत
इति चैत् न प्रकाशवतो घटस्योपलभ्यमानत्वात् ।
यथा प्रकाशविशिष्टो घट उपलभ्यते प्रदीपकरणे, न
तथा प्राक् प्रदीप्रकरणात् । तस्मात् न तमस्तिरस्कारा-
यैव प्रदीपकरणम् किन्तर्हि प्रकाशवत्त्वाय । प्रकाश-
शत्त्वेनैवोपलभ्यमानत्वात् । क्वचिदावरणविनाशेऽपि यत्नः
स्यात् यथा कुड्यादिविनाशे । तस्मान्न नियमोऽस्ति
अभिव्यक्त्यर्थिनावरणविनाश एव यत्नः कार्य इति ।
नियमार्थवत्त्वाच्च । कारणे वर्तमानं कार्यं कार्यान्तराणामाव-
रणमित्यवोचाम । तत्र यदि पूर्व्वाभिव्यक्तस्य कार्य्यस्य
पिण्डस्य व्यवहितस्य वा कपालस्यविनाश एव यत्नः क्रि-
येत तदा विदलचूर्ण्णाद्यपि कार्य्यम् जायेत । तेनाप्या-
वृतो घटो नोपलभ्यत इति पुनः प्रयत्नान्तरापेक्षैव ।
तस्माद्घटाद्यमिव्यक्त्यर्थिनो नियत एव कारकव्यापारोऽर्थ-
वान् । तस्मात् प्रागुत्पत्तेरपि सदेव कार्यम् । अतीता-
नागतप्रत्ययभेदाच्च । अतीतो घटोऽनागतो घट इत्येत-
योश्च प्रत्यययोर्वर्तमानघटप्रत्ययवन्न निर्विषयत्वं युक्तम् ।
अनागतार्थिप्रवृत्तेश्च । नह्यसत्यर्थितया प्रवृत्तिर्लोके दृष्टा ।
योगिनां चातोतानानतज्ञानस्य सत्यत्वात् असंश्चेद्भविष्यद्घट
ऐश्वरम्भविष्यद्घटविषयं प्रत्यक्षज्ञानं मिथ्या स्यात् । न
च प्रत्यक्षमुपचर्य्यते । घटसद्भावे ह्यनुमानमवोचाभ
विप्रतिषेधाच्च । यदि घटो भविष्यतीति कुलालादिषु
व्याप्रियमाणेषु घटार्थं, प्रमाणेन निश्चितम् । येन च
कालेन घटस्य सम्बन्धो भविष्यतीत्युच्यते तस्मिन्नेव काले
घटोऽसन्निति । प्रतिषिद्धमभिधीयते भविष्यद्घटोऽसन्निति
न भविष्यतीत्यर्थः अयं घटो न वर्त्तत इति यद्वत् ।
अथ प्रागुत्पत्तेर्घटोऽसन्नित्युच्यते घटार्थं प्रवृत्तेषु कुला-
लादिषु तत्र यथा व्यापाररूपेण वर्त्तमानास्तावत् कुला-
लादयस्तथा घटो न वर्त्तत इत्यसच्छब्दखार्थश्चेन्न विरुध्यते
कस्मात् स्वेन हि भविष्यद्रूपेण घटो वर्त्तते । न हि
पिण्डस्य वर्त्तमानता कपालस्य वा घटस्य भवति । न च
तयोर्भविष्यत्ता घटस्य । तस्मात् कुलालादिव्यापारवर्त्तमान-
तायां प्रागुत्पत्तेर्घटोऽसन्निति न विरुध्यते । यदि घटस्य
यत्स्वम्भविष्यत्ताकार्य्यरूपं तत् प्रतिषिध्येत । तत्प्रतिषेधे
विरोधः स्यात् । नतु तद्भवान् प्रतिषेधति । न च सर्वेषां
पृष्ठ १११५
क्रियावतामेकैव वर्त्तमानता भविष्यत्त्वं वा । अपि च
चतुर्विधानामभावानां घटस्येतरेतराभावो घटादन्यो दृष्टो
यथा घटाभावः पटादिरेव न घटस्वरूपमेव । न च
घटाभावः सन् पटोऽभावात्मकः किन्तर्हि भावरूप एव घटस्य
प्राक्प्रध्वंसात्यन्ताभावानामपि घटेन व्यपदिश्यमानत्वात्
घट्स्येतरेतराभाववत् तथैव भावात्मकता अभावानाम् ।
एवञ्च सति घटस्य प्रागभाव इति न घटस्वरूपमेव प्रागुत्-
पत्तेर्नास्ति । अथ घटस्य प्रागभाव इति घटस्य यत् स्वरूपं
तदेवोच्यते, घटस्येति व्यपदेशनुपपत्तिः । अथ कल्पयित्वा
व्यपदिश्येत शिलापुत्त्रकस्य शरीरमिति यद्वत् । तथापि
घटस्य प्रागभाव इति कल्पितस्यैवाभावस्य घटेन व्यपदेशो
न घटस्वरूपस्यैव । अथार्थान्तरं घटाद्घटस्याभाव इति
उक्तोत्तरमेतत् । किञ्चान्यत्प्रागुत्पत्तेः शशविषाणवदमाव-
भूतस्य घटस्य स्वकारणसत्तासम्बन्धानुपपत्तिः द्विनिष्ठत्वात्
सम्बन्धस्य । अयुतसिद्धानामदोष इति चेत् न भावाभाव-
योरयुतसिद्धत्वानुपपत्तेः । भावभूतयोर्हि युतसिद्धताऽ-
युतसिद्धता वा स्यान्न तु भावाभावयोरभावयोर्वा । तस्यात्
सदेव कार्य्यं प्रागुत्पत्तेरिति सिद्धम्” एतदभिप्रेत्य गीता-
यामुक्तम् “नासतो विद्यते भावोनाभावो विद्यते सतः” इति
अथ भूतोत्पत्तिप्रकारः काणादभाष्यन्यायकन्दल्योर्दर्शितो
यथा “ततः प्रातः प्राणिनांभोगभूतये महेश्वरस्य सिसृक्षान-
न्तरं सर्व्यात्मगतवृत्तिलब्धदृष्टापेक्षेभ्यस्तत्संयोगेभ्यः
पवनपरमाणुषु कर्मोत्पत्तौ तेषां परस्परसंयोगेभ्यो द्व्यणुकादि-
प्रक्रमेण महान् वायुः समुत्पन्नोदोधूयमानस्तिष्ठति”
भा० “यद्यपि तदाऽऽत्मनां प्राणसंबन्धोनास्ति तथापि प्रा-
णिन इत्युक्तं योग्यत्वात् । तेषां भोगभूतये सुखदुःखानुभ-
वोत्पत्तये महेश्वरस्य सिसृक्षा सर्जनेच्छा जायते तदनन्तरं
सर्वेष्वात्मसु गतान्यदृष्टानि वृत्तिं लभन्ते । यद्यपि
युगपदुत्पद्यमानासंख्येयकार्य्योत्पत्तौ व्याप्रियमाणा दिगा-
दिवन्नित्यत्वादेकैवेश्वरेच्छा क्रियाशक्तिरूपा तथाप्येषा तत्तत्
कालविशेषसहकारिप्राप्तौ कदाचित् संहारार्था भवति
कदाचित् सृष्ट्यर्था भवति यदा संहारार्था तदा तदनुरोधादंदृ-
ष्टादीनां वृत्तिनिरोध औदासीन्यलक्षणो जायते यदा
त्वसौ सृष्ट्यर्था भवेत्तदा वृत्तिलाभः स्वकार्यजननं प्रति व्यापारी
भवति । वृत्तिर्लब्धा यैस्तानि वृत्तिलब्धानि आहिताग्न्यादि-
त्वात् निठायाः पूर्ब्बनिपातोदन्तजात इति यथा । सर्वा-
त्मगतानि वृत्तिलब्धानि अदृष्टानि तान्यपेक्षन्ते ये तत् संयोगा
आत्माणुसंयोगास्तेभ्यः पवनपरमाणुषु कर्म्माण्युत्पद्यन्ते
पवनपरमाणवः समवायिकारणं लब्धवृत्त्यदृष्टवदात्माणु-
संयोगोऽसमवायिकारणमदृष्टं निमित्तकारणमेवं कर्मोत्-
पत्तौ तेषां पवनपरमाणूनां परस्परसंयोगा जायन्ते
तत्संसंयोगेभ्यश्च द्व्यणुकान्युत्पद्यन्ते तदनु त्र्यणुकानीति
अनेन क्रमेण महान् वायुः समुत्पद्यमानो नभस्याकाशे
दोधूयमानः क्वचिदप्रतिहतत्वायद्वेगातिशययुक्तस्तिष्ठति” क० ।
“तदनन्तरं तस्मिन्नाप्येभ्यः परमाणुभ्यस्तेनैव क्रमेण महान्
सलिलनिधिरुत् पन्नः पोप्लूयमानः” भा० “प्रतिरोधकाभा-
वात् सर्वत्र प्लवमानस्तिष्ठति” क० । “ततस्तस्मिन्नेव पार्थियेभ्यः
परमाणुभ्यो द्व्यणुकादिक्रमेण समुत्पन्ना महापृथिवी-
स्थिरस्वभावा तिष्ठति । ततस्तैजसेभ्यः परमाणुभ्यः
समुत्पन्नो महांस्तेजोराशिर्देदीप्यमानस्तिष्ठति” भा० ।
“तदनन्तरं सलिलनिधेरुत्पत्त्यनन्तरं तस्मिन्नेव जलनिधौ
पार्थिवेभ्यः परमाणुभ्यो महापृतिवी संहता स्थिरस्वभा-
वाऽवतिष्ठते तदनन्तरं तस्मिन्नेव महोदघौ तैजसेभ्योऽ-
णुम्यो द्व्यणुकादिक्रमेणोत्पन्नो महांस्तेजोराशिः
केनचिदनभिभूतत्वाद्देदीप्यमानस्तिष्ठति यद्यपि पयःपाव-
कयोः स्वाभाविकोविरोधोऽस्ति तथाप्यदृष्टवशादाधाराधेय
भावोनानुपपन्नः” क० । “एवं समुत् पन्नेषु चतुर्षु महाभूतेषु
महेश्वरस्याभिध्यानमात्रात्तैजसेभ्योऽणुभ्यः पार्थिवपरनाणु-
सहितेभ्यो महदण्डमारभ्यते । तस्मिंश्चतुर्वदन-
कमलं सर्वलोकपितामहं ब्रह्माणं सकलभुवनसहित-
मुत्पाद्य प्रजासर्गे नियुङ्क्ते” भा० । “एवमनन्तरोक्तेन
क्रमेणोत्पन्नेषु महाभूतेषु महेश्वरस्वाभिध्यानमात्रात्सं-
कल्पमात्रात् तैजसेभ्यः परमाणुभ्यः पार्थिवपरमाणुस-
हितेभ्योवृहदण्डं महड्डिम्बमारभ्यते डिम्बारम्भे पार्थिवा
अवयवा उपष्टम्भकास्तेनेदं वह्निपुञ्जप्रायं मा भूत् ।
तस्मिन्नण्डे चत्वारि वदनकमलानि यस्य तं ब्रह्माणं सर्व-
लोकपितामहं सर्वेषामेव लोकानामाद्यं पुरुष समस्तै-
र्भुवनैः सहोत्पाद्य प्रजानां सर्गे जनने विनियुङ्क्ते “त्व
मिदं कुर्व्विति” क० । “स च महेश्वरेण विनियुक्तो ब्रह्मा-
तिशयज्ञानवैराग्यैश्वर्य्यसम्पन्नः प्रणिगां कर्मविपाकं
विदित्वा कर्म्मानुरूपज्ञानभोगायुषः सुतान् प्रजापतीन्
मानसान् मनुदेवर्षिपितृगणान् मुखबाहूरुपादतश्चतुरो-
वर्ण्णान् यानि चोच्चावचानि भूतानि तानि सृष्ट्वाऽऽशयानु-
रूपैर्धर्म्मज्ञानवैराग्यैश्वर्य्यैः संयोजतीति” भा० । ज्ञानञ्च
वैराग्यञ्चैश्चर्य्यञ्च ज्ञानवैराग्यैश्चर्य्याणि अतिशयेन ज्ञाना-
दीनि तैः सम्पन्न उपचितः ज्ञानातिशथात् प्राणिनां धर्मा-
पृष्ठ १११६
धर्मौ यथावत् प्रत्येति । वैराग्यादपक्षपातेन प्रवर्त्तते ।
ऐश्वर्य्यात् कर्म्मफलं भोजयति । प्राणिनां कर्मविपाकं
विदित्वेति विविधेन प्रकारेण पाकोविपाकः कर्मणां
विपाकः कर्मविपाकस्तं विदित्वा एतावदस्य कर्मफलं
भविष्यतीति ज्ञात्वा कर्म्मानुरूपाणि ज्ञानभोगोयूषि
येषां तान् प्रजापतीन् दक्षाद्यान् मानसान् मनःसंकल्प-
प्रभवान् मनुदेवर्षिपितृगणान् मनून् देवानृषीन् पितृ-
गणान् मुखबाहूरुपादतश्चतुरोवर्ण्णान् मुखात् ब्राह्मणान्,
बाहुभ्यां क्षत्रियान्, उरुभ्यां वैश्यान्, पद्भ्यां शूद्रान्,
अन्यानि चोच्चावचानि क्षुद्रक्षुद्रतराणि भूतानि सृष्ट्वा
आशयानुरूपैराशेते फलोपभोगकालं यावत् आत्मन्यव-
तिष्ठत इत्याशयः कर्म तदनुरूपैर्ज्ञानधर्मवैराग्यैश्वर्य्यैः
संयोजयतीति भात्रयाप्यन्यथा न योजयतीत्यर्थः” । यत्
स्वलु केचिदेवमाचक्षिरे प्रेक्षावत्प्रवृत्तिरिष्टार्था वा
स्यादनिष्टपरिहारार्था वा नचेष्टानिष्टप्राप्तिपरिहारार्था, न
चेष्टानिष्टप्राप्तिपरिहारावीश्वरे समस्तावाप्तकामे सम्भवतः
तेनास्य जनन्निर्माणे प्रवृत्तिरनुपपन्ना तत्रोत्तरं प्राणिनां
भोगभूतय इति परार्था सिसृक्षायां प्रवृत्तिर्न स्वार्थ-
निबन्धनेत्यभिप्रायः । नन्वेवं तर्हि सुखमयीमेव सृष्टिं
कुर्य्यात् न दुःखशवलां करुणंया प्रवृत्तत्वादित्यत्रैष-
परिहारः प्राणिनां कर्मविपाकं विदित्वेति । परार्थं
प्रवृत्तत्वेऽपि न मुखमयीमेव करोति विचित्रकर्म्माशयसहा
यस्य कर्तृत्वादित्यर्थः नचैवं सति करुणाविरोधोदुःखोत्
पादस्य वैराग्यजननद्वारेण परमपुरुषार्थहेतुत्वात् यदि
धर्म्माधर्मावपेक्ष्य करोति नास्य खाधीनं कर्त्तृत्वमिति
अनीश्वरतादोष इत्यस्यायं प्रतिसमाधिः । आशयानुरूपैः
धर्मज्ञानवैराग्यैश्वर्य्यैः संयोजयति स हि सर्व्वप्राणिनां
कर्मानुरूपं फलं प्रयच्छन् कथमनीश्वरः स्यादिति भावः
न हि योग्यतानुरूपेण भृत्यानां फलविशेषप्रदः प्रभु-
रप्रभुर्भवति । कल्पादावुत्पन्नानां प्राणिनां सर्व्वशब्दार्थे
ष्वव्युत्पन्नानां सङ्केतस्याशक्यकरणाच्छब्दव्यवहारानुपपत्ति
रिति चोदनायां प्रत्यवस्थानवीजमिदं मानसानिति ।
योनिजशरीरं हि महता गर्भवासादिदुःखप्रबन्धेन
विलुप्तसंस्कारं जन्मान्तरानुभूतस्य सर्वस्य न स्मरति । ऋषयः
प्रजापतयो मनवस्तु मानसा अयोनिजशरीरविशिष्टा
दृष्टसंवन्धिनो दृढसंस्काराः कल्पान्तरानुभूतं सर्व्वमेव
शब्दनार्थव्यवहारं सप्तप्रतिबुद्धवत् प्रतिसन्दधते प्रति-
सन्दधामाह परस्परं बहुपो व्यवहरन्ति । तेषां व्यव-
हाराच्च तत्कालवर्त्तिनां प्राणिनामुत्पत्तिः तद्व्यवहा-
राच्चापरेषामित्युत्पद्यते व्यवहारपरम्परया शब्दार्थ व्युत्पत्ति
रित्यर्थः” क० ।
वेदान्तिमते भ्तोत्पत्तिप्रकारो वेदा० प० दर्शितो यथा ।
“तत्र सर्गाद्यकाले परमेश्वरः सृज्यमानप्रपञ्चवैचित्र्य-
हेतुप्राणिकर्म्मसहकृतापरिमितानिरूपितशक्तिविशेषविशिष्ट
मायासहितः सन्नामरूपात्मकं निखिलप्रपञ्चं प्रथमं बुद्धा
वाकलय्य इदं करिष्यामीति सङ्कल्पयति “तदैक्षत बहु स्यां
प्रजायेयेति” श्रुतेः । तत आत्मन आकाशादीनि पञ्चभू-
तानि अपञ्चीकृतानि तन्मात्रपदप्रतिपाद्यानि उत्पद्यन्ते
तत्राकाशस्य शब्दोगुणो, वायोस्तु शब्दस्पर्शौ तेजसस्तु शब्द
स्पर्शरूपाणि, अपान्तु शब्दस्पर्शरूपरसाः, पृथिव्यास्तु शब्द-
स्पर्शरूपरसगन्धाः । न तु शब्दस्याकाशमात्रगुणत्वं
वाय्वादावपि तदुपलम्भात् । नासौ भ्रमः बाधकाभावात् ।
इमानि भूतानि त्रिगुणमायाकार्याणि अतस्त्रिगुणात्म-
कानि । एतैश्च सत्वगुणोपेतैः पञ्चभूतैः श्रोत्रत्वक्चक्षू-
रसनघ्राणानि पञ्चेन्द्रियाणि मनोबुद्ध्यहङ्गारचित्तानि
च जायन्ते । श्रोत्रादीनां पञ्चानांक्रमेणैव दिग्वाता-
र्कवरुणाश्विना अधिष्ठातृदेवताः मनआदीनां चतुर्णां
क्रमेण चन्द्रचतुर्मुखशङ्कराच्युताः अधिष्ठातृदेवताः ।
एतैरेव रजोगुणोपेतैः पञ्चभूतैर्यथाक्रमेण वाक्पाणिपादपायूप-
स्थाख्यानि कर्म्मेन्द्रियाणि जायन्ते । तेषाञ्च क्रमेण
वह्नीन्द्रोपेन्द्रमृत्युप्रजापतयोऽधिष्ठातृदेवताः । रजोगुणो-
पेतैः पञ्चभूतैरेव पञ्च वायवः प्राणापानव्यानोदानस-
मानाख्याजायन्ते । तत्र प्रागननवान् वायुः प्राणोना-
साग्रस्थानवर्त्ती । अवागननवानपानः पाय्वादिस्थान-
वर्त्ती । विष्वगननवान् व्यानः अखिलशरीरवर्त्ती ।
ऊर्द्ध्वमननवानुदानः कण्ठस्थानवर्त्ती । अशितपीतान्ना-
दिसमोकरणः सभानः नाभिस्थानवर्त्ती । तैरेव
तमोगुणोपेतैरपञ्चीकृतभूतैः पञ्चीकृतभूतानि जायन्ते “तासां
त्रिवृतं त्रिवृतमेकैकां करवाणीति” त्रिवृत्करणश्रुतेः
पञ्चीकरणोपलक्षणार्थत्वात् । पञ्चीकरणप्रकारश्चेत्थम् ।
आकाशमादौ द्विधा विभज्य तयोरेकं भागं पुनचतुर्द्धा
विभज्य तेषां चतुर्णामशानां वाय्वादिषु चतुर्भूतेषु संयो-
जनम् । एवं वायुं द्वेधा विभज्य तयोरेकं भागं पुनश्च-
तुर्द्धा विभज्य तेषां चतुर्णां आकाशादिषु संयोजनम् ।
एवं तेजोऽप्पृथिव्यंशानामपि । तदेवमेकैकमूतस्यार्द्धं
स्वांशात्मकम् अर्द्धान्तरञ्च चतुर्विधभूतमयमिति पृथिव्या दौ
पृष्ठ १११७
स्वांशाधिक्यात् पृथिव्यादिव्यवहारः । तदुक्तम् “वैशे-
व्यात्तद्वादस्तद्वादः” (शा० सू०) इति । पूर्वोक्तैरपञ्चीकृतभूतै-
र्लिङ्गशरीरं परलोकयात्रानिर्वाहकं मोक्षपर्य्यन्तस्थायि
मनोबुद्धिभ्यामुपेतं ज्ञानेन्द्रियपञ्चककर्म्मोन्द्रयपञ्चकप्राणा-
दिपञ्चकसंयुक्तं जायते । तदुक्तम् । “पञ्चप्राणमनोबुद्धि
दशेन्द्रियसमन्वितम् । अपञ्चीकृतभूतोत्थं सूक्ष्माङ्गं
भोगसाधनमिति” । तच्च द्बिविधं परमपरञ्च । परं हिरण्य-
गर्भलिङ्गशरीरं महत्तत्त्वरूपम्, अपरमस्मदादिलिङ्गशरीर-
ञ्चाहङ्कारतत्त्वमित्याख्यायते । एवं तमोगुणयुक्तेभ्यः
पञ्चीकृतभूतेभ्योभूम्यन्तरिक्षस्वर्गमहर्ज्जनस्तपःसत्यात्मकस्योर्द्ध्व-
लोकसप्तकस्य अतलपातालवितलसुतलतलातलरसातलम-
हातलाख्यस्याधोलोकसप्तकस्य ब्रह्माण्डस्य जरायुजाण्डज-
स्वेदजोद्भिज्जाख्यचतुर्विधस्थूलशरीराणाञ्चोत्पत्तिः । तत्र
जरायुजानि जरायुभ्योजातानि मनुष्यपश्वादिशरीराणि ।
अण्डजानि अण्डेभ्यो जातानि पक्षिपन्नगादिशरोराणि ।
स्वेदजानि स्वेदाज्जातानि यूकमशकादिशरीराणि ।
उद्भिज्जानि भूमिमुद्भिद्य जातानि वृक्षादिशरीराणि ।
वृक्षादीनामपि पापफलभोगायतनत्वेन शरीरित्वम् । तत्र
परमेश्वरस्य पञ्चतत्मात्राद्युत्पत्तौ सप्तदशावयवोपेतलिङ्ग-
शरीरोत्पत्तो हिरण्यगर्भस्थूलशरीरोत्पत्तौ च साक्षात्-
कर्त्तृत्वम् । इतरनिखिलप्रपञ्चोत्पत्तौ च हिरण्यगर्भ-
द्वारा “हन्ताहमिमास्तिस्रो देवता अनेन जीवेनात्मनानु-
प्रविश्य नामरूपे व्याकरवाणीति” श्रुतेः हिरण्यगर्भोनाम
मूर्त्तित्रयादन्यः प्रथमोजीवः “स वै शरीरी प्रथमः स वै
पुरुषौच्यते । आदिकर्त्ता स भूतानां ब्रह्माग्रे
समवर्त्तत” । “हिरण्यगर्भः समवर्त्तताग्रे” इत्यादि “श्रुतेः” ।
सांख्यमते प्रकृतिरेका नित्या अचेतना साम्यावस्थापन्नस-
त्वरजस्तमआत्मिका, पुरुषास्तु बहवश्चिन्मात्रा अपरिणामिनः
कूटस्था नित्याः । पूर्ब्बकल्पे प्रकृतिपर्य्यन्तसाक्षात्कारिणा
प्रकृतिलोनोपाधिकेन आदिविदुषा ईश्वरपदाभिधेयेन
स्यस्वामिभावरूपसंयोगवती स्वलीनाननन्तबुद्धितत्त्वनिष्ठ-
पूर्ब्बकल्पार्ज्जितादृष्टसचिवा प्रकृतिः सर्गाद्यकाले सत्वादि-
गुणक्षोभमापग्रा महादाद्याकारेण परिणमते । यथा च
परिणमते तथा दर्शितम् सां० सू० प्र० भाष्ययोः यथा ।
“सत्वरजस्तमसां साम्यावस्था प्रकृतिः प्रकृतेर्महान्
महतोऽहङ्गारोऽहङ्कारात् पञ्च तन्मात्राण्युभयभिन्द्रियं तन्मा-
त्रेभ्यः स्थूलभूतानि पुरुष इति पञ्चविंशतिर्गणः” सू० ।
“सत्वादोनि द्रव्याणि न वैशेषिकदिवद्गुणाः संयोगवि-
भागवत्त्वात् लघुत्वचलत्वगुरुत्वादिधर्मकत्वाच्च ।
तेष्वत्र शास्त्रे श्रुत्यादौ च गुणशब्दः पुरुषोपकरणत्वात्
पुरुषपशुबन्धकत्रिगुणात्मकमहदादिरज्जुनिर्मातृत्वाच्च
प्रयुज्यते । तेषां सत्वादिद्रव्याणां या साम्यावस्थान्यूना-
नतिरिक्तावस्था न्यूनाधिकाभावेनासंहतावस्थेति यावत्
अकार्य्यावस्थेति निष्कर्षः । अकार्यावस्थोपलक्षितं
गुणसामान्यं प्रकृतिरित्यर्थः । यथाश्रुते वैषम्यावस्थायां
प्रकृतिनाशप्रसङ्गात् । “सत्वं रजस्तम इति एषैव प्रकृतिः सदा ।
एषैव संसृतिर्जन्तोरस्याः पारे परं पदम्” इत्यादिस्मृति
भिर्गुणमात्रस्यैव प्रकृतित्ववचनाच्च । सत्वादीनामनुगमाय
सामान्येति । पुरुषव्यावर्त्तनाय गुणेति । महदादिव्या-
वर्त्तनाय चोपलक्षितान्तमिति । महदादयोऽपि हि
कार्य्यसत्वादिरूपाः पुरुषीपकरणतया गुणाश्च भवन्तीति ।
तदत्र प्रकृतेः स्वरूपमेवोक्तम् । अस्या विशेषस्तु पश्चा-
द्वक्ष्यते । प्रकृतेः कार्यो महान् महत्तत्त्वम् । महदादी-
नां स्वरूपं विशेषश्च वक्ष्यते । महतश्च कार्योऽहङ्कारः ।
अहङ्कारस्य कार्यद्वयं तन्मात्राण्युभयमिन्द्रियं च । तत्रो-
भयमिन्द्रियं बाह्याभ्यन्तरभेदेनैकादशविधम् । तन्मात्राणां
कार्याणि पञ्च स्थूलभूतानि । स्थूलशब्दात् तन्मात्राणां
सूक्ष्मभूतत्वमभ्युपेयम् । पुरुषस्तु कार्यकारणविलक्षणः
इति इत्येवं पञ्चविंशतिर्गणः पदार्थव्यूह एतदतिरिक्त
पदार्थो नास्तोत्यर्थः । अथ वा सत्वादीनां प्रत्येकव्यक्त्या-
नन्त्यं गणशब्दो वक्ति । अयं च पञ्चविंशतिको गणोद्रव्य-
रूप एव । धर्मधर्म्यभेदात् तु गुणकर्मसामान्यादीनामत्रै-
वान्तर्भावः । एतदतिरिक्तपदार्थसत्त्वे हि ततोऽपि पुरुषस्य
विवेक्तव्यतया तदसंग्रहे न्यूनतापद्येत” ।
प्रकृतेरचेतनत्वेऽपि पुरुषभोगापवर्गार्थं वत्सविवृद्ध्यर्थ
मचेतनक्षीरवत् प्रवृत्तिः । यथोक्तं सां० का० कौ० ।
“पुरुषस्य दर्शनार्थं कैवल्यार्थं तथा प्रधानस्य । पङ्ग्वन्धवदुभ-
योरपि संयोगस्तत्कृतः सर्गः” का० “प्रधानस्येति कर्म्मणि
यष्ठी प्रधानस्य सर्व्वकारक्षस्य यद्दर्शनं पुरुषेण तदर्थं,
तदनेन भोग्यता प्रधानस्य दर्शिता ततश्च भोग्यं प्रधानं
भोक्तारमन्तरेण न सम्मवतीति युक्तास्य भोक्त्रपेक्षा । पुरुष-
स्यापेक्षां दर्शयति पुरुवस्य कैवल्यार्थम् । तथा हि प्रधा-
नेनासरिभन्नः पुरुपस्तद्गतं दुःखत्रयं स्यात्मन्यभिमन्यमानः
कैवल्यं प्रार्थयते तच्च सत्वपुरुषान्यताख्यातिनिबन्धनम् ।
न च सत्वपुरुषान्वताख्यातिः प्रधानमन्तरेलेति कैवल्यार्थं
पुरुषः प्रधानमपेक्षते । अनादित्वाच्च संयोगगपरम्परायाः
पृष्ठ १११८
भोगाय संयुक्तोऽपि कैवल्याय पुनः संयुज्यते इति युक्तम् ।
ननु भवत्वनयोः संयोगोमहदादिसर्गस्तु कुतस्त्य इत्यत आह
तत्कृतः सर्गःसंयोगो हि न महदादिसर्गमन्तरेण भोगाय
पर्य्याप्त इति संयोगएव भोगापवर्गार्थंसर्गं करोतीत्यर्थः” कौ०
तथाऽचेतनायाः प्रवृत्तौ दृष्टान्तस्तत्रैवोक्तः “वत्सविवृद्धि-
निमित्तं क्षीरस्य यथा प्रवृत्तिरज्ञस्य । पुरुषविमोक्षनिमित्तं
तथा प्रवृत्तिः प्रधानस्य” सां० का० ।
पातञ्जले तु प्रतिकल्पमनेकेषां प्रकृतिलीनानां सर्गहेतुत्व
कल्पने गौरवात् एकस्यैव ईश्वरस्य तदधिष्ठानत्वाङ्गीकारेण
प्रकृतेस्तथा परिणाम इत्यङ्गीकृतं यथा च एकस्यैव सर्व्वोत्कर्ष
सार्व्वज्ञ्यं तथा ईश्वरशब्दे १०५२ पृष्ठे सूत्रभाष्यविवरणेषु
दर्शितम् । ४ अभिव्यक्तौ च अभिव्यक्तेर्यथा उत्पत्ति-
रूपता तथा अभिव्यक्तिशब्दे ३०० पृष्ठे दर्शितम् ।
एवं मूतभौतिकोत्पत्तिप्रकारः मतभेदेन निरूपितः ।
अथ विशेषभौतिकोत्पत्तौ कारणविशेषस्तावदभिधीयते
तत्र जन्यमात्रोत्पत्तौ ईश्वरः अदृष्टं कालश्च
निमित्तकारणमिति नैयायिकादयः । वेदान्तिमते ब्रह्मणोऽ-
विद्याद्वारा निमित्तोपादानरूपोभयकारणता । सांख्यमते
प्रकृतेरुपादानता । जन्यभावोत्पत्तौ द्रव्यमुपादानकारणं
यथा घटे कपालम् पटे तन्तवः, कुण्डले, सुवर्ण्णम् समवा-
यिकारणम् । तत्तदवयवसंयोगश्चासभवायिकारणम् । गुणो-
त्पत्तौ द्रव्यं समवायिकारणम् अवयवगुणोवह्न्यादिसंयोगो
वा असमवायिकारणं यथा घटरूपे कपालरूपं, पटरूपे
तन्तुरूपम्, श्यामघटे रक्तोत्पत्तौ अग्निसंयोगः ।
एवमात्मनि ज्ञानाद्युत्पत्तौ मनःसंयोगादि असमवायिकार-
णम् । संयोगविभागोत्पत्तौक्रिया असमवायिकारणम्,
इत्याद्यूह्यम् । ध्वंसरूपाभावोत्पत्तौ प्रतियोगो निमित्त-
कारणम् । वाय्वादौ रूपाद्यभावस्यैवात्यन्ताभावतया
नित्यत्वम् घटाभावस्य नाशे तु भूतले घटापसरणं
तदनयनं च तदुत्पत्तौ निमित्तकारणं तेनायमुत्पत्तिवि-
नाशशाली चतुर्थः संसर्गाभावः इति त्यायैकदेशिनः ।
देहोत्पत्तिप्रकारः कायशब्दे, गर्मोत्पत्तिप्रकारश्च गर्भ-
शब्दे वक्ष्यते । “उत्पत्तिमात्रे कर्त्तृत्वं सर्वत्रैशास्ति
कारके । व्यापारभेदापेक्षायां करणत्वादिसम्भवः” मर्त्तृह० ।
“उत्पत्तिवद्वा वाहदोषः” सां० सू० । “न निरोधो
नचोत्पत्तिर्न बद्धो न च साधकः । न मुमुक्षर्न वा मुक्त इत्येषा
परार्थता” अभियुक्तोक्तिः । जीवोत्पत्तिस्तु देहाद्देहान्तर
सम्बन्ध एव तन्निमित्तप्रकारादि । वृ० उ० भा० दर्शितं
यथा “तद्यथा राजानमायान्तमुग्राः प्रत्येनसः सूतग्राम-
ण्योऽन्नैः पानैरावसथैः प्रतिकल्पन्तेऽयमायात्ययमागच्छ-
तोत्येवं हैवंविदं ब्रह्मायातीदमागच्छतीति” “तत्रास्येर्द
शरीरं परित्यज्य गच्छतो नास्य देहान्तरस्योपादाने
सामर्थ्यमस्ति देहेन्द्रियवियोगात् । न चान्येऽस्य भृत्य-
स्थानीया गृहमिव राज्ञे शरीरान्तरं कृत्वा प्रतीक्षमाणा
विद्यन्ते । अथैवं सति कथमस्य शरीरान्तरोपादानमित्यु-
च्यते । सर्बंह्यस्य जगत्स्वकर्म्मफलोपभोगायतनं कर्म्मफलो-
पभोगाय चायं प्रवृत्तो देहाद्देहान्तरं प्रतिपित्षुः । तस्मा-
त्सर्वमेव जगत्स्वकर्म्मप्रयुक्तं तत्कर्मफलोपभोगयोग्यं साधनं-
कृत्वा प्रतीक्षत एव । “कृतं लोकं पुरुषोऽभिजायत इति”
श्रुतेः । यथा स्वप्नजागरितं प्रतिपित्सोः । तत् कथमिति?
लोकप्रसिद्धो दृष्टान्त उच्यते । तत्र यथा राजानं राज्या-
भिषिक्तमायान्तं स्वराष्ट्रे उग्रा जातिविशेषाः क्रूरकर्म्माणो
वा प्रत्येनसः प्रति प्रत्येनसि पापकर्म्मणि नियुक्ताः प्रत्येन-
स्तस्करादिदण्डनादौ नियुक्ताः सूताश्च ग्रामण्यश्च
सूतग्रामण्यः सूता वर्णसङ्करजा जातिविशेषा ग्रामण्यो ग्राम-
नेतारस्ते पूर्व्वमेव राज्ञ आगमन बुद्ध्वाऽन्नैर्भोज्यभक्ष्यादि-
प्रकारैः पानैर्मदिरादिभिरावसथैश्च प्रासादादिभिः प्रति-
कल्पन्ते निष्पन्नैरेव प्रतीक्षन्तेऽयं राजा आयात्ययमाग-
च्छतीत्येवं वदन्तः । एवं ह एवंविद कर्म्मफलस्य वेदि-
तारं संसारिणमित्यर्थः । कर्म्मफलं हि प्रस्तुतं तदेवं-
शब्देन परामृश्यते । सर्व्वाणि भूतानि शरीरकर्तॄणि
करणानुग्रहीतॄणि चादीत्यादिनि तत्कर्म्मप्रयुक्तानि कृतैरेव
कर्म्मफलोपभोगसाधनैः प्रतीक्षन्ते । इदं ब्रह्म भोक्तृ कर्तृ
चास्माकमायाति । तथेदमागच्छत्येवमेवं कृत्वा प्रतीक्षन्त
इत्यर्थः भाष्यम् । तत्र विस्तरस्तत्रैवोक्तो यथा ।
“तद्यथा तृणजलायुका तृणस्यान्तं गत्वाऽन्यमाक्रम-
माक्रम्यात्मानमुपसंहरत्येवमेवायमात्मेदं शरीरं निहत्या-
ऽविद्यां गमयित्वाऽन्यमाक्रममाक्रम्यात्मानमुपसंहरति ।
तद्यथा पेशस्कारी पेशसो मात्रामुपादायान्यन्नवतरं कल्या-
णतरं रूपं तनुतएवमेवायमात्मेदं शरीरं निहत्याऽविद्यां
गमयित्वाऽन्यन्नवतरं कल्पाणतरं रूपं कुरुते पित्र्यं वा
गान्धर्वं वा दैवं वा प्राजापत्यं वा ब्राह्मं वाऽन्येषां वा
मूतानाम् । स वा अयमात्मा ब्रह्म विज्ञानमयो
मनोमयः प्राणमयश्चक्षुर्मयः श्रोत्रमयः पृथिवीमय आपोमयो
वायुमय आकाशमयस्तेजोमयोऽतेजमयेः कामयीऽकाममयः
क्रोषमयोऽक्रोधोगवो धर्म्ममयोऽधर्ममयः सर्व्वमयस्त-
पृष्ठ १११९
द्यदेतदिदम्मयोऽदोमय इति यथाकारी यथाचारी तथा
भवति साधुकारी साधुर्मवति पापकारी पापी भवति पुण्यः
पुण्येन कर्मणा भवति पापः पापेन । अथो खल्वाहुः
काममय एवायं पुरुष इति स यथाकामो भवति तत्क्र-
तुर्भवति यत्क्रतुर्भवति तत्कर्म कुरुते यत्कर्म कुरुते
तदभिसम्पद्यते” वृ० उ० ।
“एवं विद्यादिसम्भारसम्भृतो देहान्तरं प्रतिपद्यमानो
मुक्त्वा पूर्वं देहं पक्षीव वृक्षान्तरं प्रतिपद्यते, अथ वाऽऽ-
तिवाहिकेन शरीरान्तरेण कर्मफलजन्मदेशं नीयते किं
वात्रस्थस्यैव सर्वगतानां करणानां वृत्तिलाभो भवत्याहो-
स्विच्छरीरस्थस्य सङ्कुचितानि करणानि मृतस्य भिन्नघट-
प्रदीपप्रकाशवत्सर्वतो व्याप्य पुनर्देहान्तरारम्भे सङ्कोचमृ-
च्छन्ति किं वा मनोमात्रं वैशेषिकसमय इव देहान्तरार-
म्भदेशं प्रतिगच्छति किं वा कल्पनान्तरमे । वेदान्तसमय
इत्युच्यते । “त एते सर्वएव समाः सर्वेऽनन्ता” इति श्रुतेः ।
सर्बात्मकानि तावत् करणानि सर्वात्मकप्राणसंश्रयाच्च तेषा-
माध्यात्मिकाधिभौतिकपरिच्छेदः प्राणिकर्म्मज्ञानभावनानि-
मित्तः । अतस्तद्वशात् स्वभावतः सर्वगतानामनन्तानामपि
प्राणानां कर्म्मज्ञानवासनानुरूप्येणैव देहान्तरारम्भवशात्
प्राणानां वृत्तिः सङ्कुचति विकसति च । तथाचोक्तम् ।
“समः प्लुषिणा समो मशकेन समो नागेन सम एभिस्त्रि-
भिर्लोकैः समीऽनेन सर्वेणेति” । तथाचेदं वचनमनुकूलम्
“स यो हैताननन्तानुपास्त” इव्यादि “तं यथा यथोपासत”
इति च । तत्र वासनापूर्व्वप्रज्ञाख्या विद्या कर्म्मतन्त्रा
जलूकावत्सन्ततैव स्वप्नकाल इव कर्म्मकृतं देहाद्देहान्तर-
मारभते हृदयस्थैव पुनर्द्दोहान्तरं पूर्वाश्रयं विमुञ्चतीत्येत-
स्मिन्नर्थे दृष्टान्त उपादीयते तत्तत्र देहान्तरसञ्चार इदं
निदर्शनम् । यथा येन प्रकारेण तृणजलायुका तृणज-
लौका तृणस्यान्तमवसानं गत्वा प्राप्यान्यत्तृणं तृणान्तरमा-
क्रममाक्रम्यत इत्याक्रमस्तमाक्रममाक्रम्याश्रित्यात्मानमात्मनः
पूर्वावयवमुपसंहरत्यन्त्यावयवस्थाने । एवमेवायमात्मा यः
प्रकृतो यः संसारी इदं शरीरं पूर्वोपात्तं निहत्य स्वप्नं
प्रतिपित्सुरिव पातयित्वा विद्यां गमयित्वा चेतनं कृत्वा
स्वात्मोपसंहारेणान्यमाक्रमं तृणान्तरमिव तृणजलौका इव
शरीरान्तरं गृहीत्वा प्रसारितया वासनयाऽऽत्मानमुप-
संहरति । तत्रात्मभावमारमते । यथा स्वप्ने देहान्तर-
मारभते । स्वप्नदेहान्तरस्य इव शरीरारम्भवेशे आरभ्य-
माणे देहे जङ्गमे स्थावरे वा । तत्र च कर्म्मवशात्करणानि
लब्धवृत्तीनि संहन्यन्ते बाह्यञ्च कुशमृत्तिकास्थानीयं
शरीरमारभ्यते । तत्र च करणव्यूहमपेक्ष्य वागाद्यनुग्रहः ।
या अग्न्यादिदेवताः संश्रयन्ते एष देहान्तरारम्भविघिः” ।
तत्र देहान्तरारम्भे नित्योपात्तमेवोपादानमुपमृद्योप-
मृद्य देहान्तरमारभते आहोस्विदपूर्व्वमेव पुनः पुनरादत्त
इत्यत्रोच्यते दृष्टान्तः । तत्तत्रैतस्मिन्नर्थे यथा पेशस्कारी
पेशः सुवर्णं तत्करोतीति पेशस्कारी सुवर्णकारः पेशसः
सुवर्णस्य मात्रामुपादायापच्छिद्य गृहीत्वाऽन्यत् पूर्व्वस्मा-
द्रचनाविशेषाद्रन्यन्नवतरमभिनवतरं कल्याणात् कल्याणतरं
रूपं तनुते निर्म्मिणोति एवमेवायमात्मेयादि पूर्व्ववत् ।
नित्योपात्तान्येव पृथिव्यादीन्याकाशान्तानि पञ्चभूतानि
यानि “द्वे वाव ब्रह्मणो रूपे” इति चतुर्थे व्याख्यातानि
पेशःस्थानीयानि । तान्येवोवमृद्योपमृद्यान्यदन्यच्च देहान्तरं
नवतरं कल्याणतरं रूपं संस्थानविशेषं देहान्तरमित्यर्थः ।
कुरुते पित्र्यं वा पितृभ्यो हितं पितृलोकोपभोगयो-
ग्यमित्यर्थः । गान्धर्वं गन्धर्वाणामुपभोगयोग्यम् । तथा
देवानां दैवम्, प्रजापतेः प्राजापत्यम्, ब्रह्मणः इदं
ब्राह्मं वा, यथाकर्म्म यथाश्रुतमन्येषां वा भूतानां
सम्बन्धि शरीरान्तरं कुरुत इत्यभिसम्बध्यते । यस्य बन्धन-
सङ्ज्ञका उपाधिभूता यैः संयुक्तस्तन्मयोऽयमिति विभाव्यते
ते पदार्थाः पुञ्जीकृत्येहैकत्र प्रतिनिर्दिश्यन्ते । स वा अयं
य एवं संसारत्यात्मा ब्रह्मैव पर एव योऽशनायाद्यतीतो
विज्ञानमयो विज्ञानं बुद्धिस्तेनोपलक्ष्यमाणस्तन्मयः । कतम
आत्मेति । योऽयं विज्ञानमयः । प्राणेष्विति ह्युक्तं
विज्ञानमयो विज्ञानप्रायो यस्मात्तद्धर्म्मत्वमस्य विभाव्यते
“ध्यायतीव लेलायतीवेति” । तथा मनोमयो मनःसन्निक-
र्षान्मनोमयः । तथा प्राणमयः प्राणः पञ्चवृत्तिस्तन्मयो
येन चेतनश्चलतीव लक्ष्यते । तथा चक्षुर्म्मयोरूपदर्शन-
काले । एवं श्रोत्रमयः शब्दश्रवणकाले । एवं तस्य तस्ये-
न्द्रियस्य व्यापारोद्भवे तत्तन्मयो भवति । एवं बुद्धिप्राण-
द्वारेण चक्षुरादिकरणमयः सन् शरीरारम्भकपृथिव्यादि-
भूतभयो भवति । तत्र पार्थिवादिशरीरारम्भे पृथिवी-
मयो भवति तथा वरुणादिलोकेष्वाप्यशरीरारम्भे
आपोमयो भवति । तथा वायव्यशरीरारम्भे वायुमयो
भवति । तथाकाशशरीरारम्भे आकाशमयो भवति ।
एवमेतानि तैजसानि देवशरीराणि । तेष्वारभ्यमाणेषु
तत्तन्मयस्तेजोमयो भवति । अतो व्यतिरिक्तानि पश्वा-
दिशरीराणि नरकप्रेतादिशरीराणि चातेजोमयानि ।
पृष्ठ ११२०
तान्यपेक्ष्याहातेजोमय इति एवं कार्य्यकरणसङ्घातमयः
सन्नात्मा प्राप्तं वस्त्वन्तरं पश्यन्निदम्मयः, अदोमय इत्यप्रा-
प्तव्यमिति । एवं विपरीतप्रत्ययस्तदभिलाषः काममयो
भवति । तस्मिन् कामे दोषं पश्यतस्तद्विषयाभिलाषोपशमे
चित्तं प्रसन्नमकलुषं शान्तं भवति तन्मयोऽकाममयः । एवं
तस्मिन्विहते कामे केनचित्स कामः क्रोधत्वेन परिणमते तेन
तन्मयो भवन् क्रोधमयः । स क्रोधः केनचिदुपायेन
निवर्त्तितो यदा भवति तदा प्रसन्नमनाकुलं चित्तं सदक्रोध
उच्यते । एवं तेन तन्मयः एवं कामक्रोधाभ्यामका-
मक्रोधाभ्याञ्च तन्मयो भूत्वा धर्म्ममयोऽधर्म्ममयश्च भवति ।
न हि कामक्रोधादिभिर्विना धर्मादिप्रवृत्तिरुपपद्यते ।
“यद्यद्धि कुरुते कर्म्म तत्तत्कामस्य चेष्टितमिति” स्मरणात् ।
धर्म्ममयोऽधर्म्ममयश्च भूत्वा सर्वमयो भवति । समस्तं धर्मा-
धर्म्मयोश्च कार्यं यावत्किञ्चिद्व्याकृतं तत्सर्वं धर्माधर्मयोः
फलम् । तत्प्रतिपद्यमानस्तन्मयो भवति किं बहुना
तदेतत् सिद्धमस्य यदयमिदम्मयो गृह्यमाणविषयादिमय-
स्तस्मादयमदोमयः अद इति परोक्षं कार्य्येण गृह्यमाणेन
निर्द्दिश्यते । अनन्ता ह्यन्तःकरणे भावनाविशेषाः । नैव
ते विशेषतो निर्द्देष्टुं शक्यन्ते । तस्मिंस्तस्मिन् क्षणे कार्यतो
ऽवगम्यन्ते । इदमस्य हृदि वर्त्ततेऽदोऽस्येति । तेन
गृह्यमाणकार्य्येणेदम्मयतया निर्दिश्यते । परोक्षोऽन्तःस्थो
व्यवहारोऽयमिदानीमदोमय इति । सङ्क्षेपतस्तु यथा
कर्त्तुं यथा वाऽऽचरितुं शीलमस्य सोऽयं यथाकारी
यथाचारी स तथा भवति । करणं नाम नियता क्रिया बिधि-
प्रतिषेधादिगम्या, आचरणं नाम अनियतमिति विशेषः ।
साधुकारी साधुर्भवति । यथाकारीत्यस्य विशेषणम् ।
पापकारी पापो भवति च । यथाचारीत्यस्य ताच्छील्य-
प्रत्ययोपादानात् अत्यन्ततात्पर्य्यतैव तन्मयत्वं न तु
तत्कर्म्ममात्रेणेत्याशङ्क्यह । पुण्यः पुण्येन कर्म्मणा भवति
पापः पापेनेति । पुण्यपापकर्म्ममात्रेणैव तन्मयता स्यान्न
तु ताच्छील्यमपेक्षते । ताच्छील्ये तु तन्मयत्वातिशयैत्ययं
विशेषः । तत्र कामक्रोधादिपूर्व्वकपुण्यापुण्यकारिता सर्व्व-
मयत्वे हेतुः संसारस्य कारणं देहाद्देहान्तरसञ्चारस्य च ।
एतत्प्रयुक्तो ह्यन्यदन्यद्देहान्तरमुपादत्ते । तस्मात्पुण्या-
पुण्ये संसारस्य कारणमेतत् । विषयौ हि बिधिप्रतिषेधा-
वत्र शास्त्रस्य साफल्यमिति । अथोअप्यन्ये बन्धनमोक्षकु-
शलाः खल्वाहुः सत्यं कामादिपूर्व्वके पुण्यापुण्ये
शरीरग्रहणकारणम् । तथापि कामप्रयुक्तो हि पुरुषः पुण्या-
पुण्यकर्म्मणोपचिनोति । कामप्रहाणे तु कर्म्म विद्यमा-
नमपि पुण्यापुण्योपचयकरं न भवति । उपचिते अपि
पुण्यापुण्ये कर्म्मणी कामशून्ये फलारम्भके न भवतः ।
तस्मात्काभ एव संसारस्य मूलम् । तथाचोक्तमाथर्वणे
“कामान् यः कामयते मन्यमानः स्वकर्म्मभिर्जायते तत्र
तत्रेति” । तस्मात्काममय एवायं पुरुषो यदन्यमयत्वं
तदकारणं विद्यमानमपोत्यतोऽवधारयति काममय एवेति ।
स च काममयः सन् यादृशेन कामेन यथाकामो भवति
तत्क्रतुर्भवति सकाम ईषदभिलाषमात्रेणाभिव्यक्तो यस्मि-
न्विषये भवति स विहन्यमानः स्फुटीभवन् क्रतुत्वमापद्यते ।
क्रतुर्नाभाध्यवसायो निश्चयो यदनन्तरा क्रिया प्रवर्त्तते
यत्क्रतुर्भवति यादृक्कामकार्य्येण क्रतुना यथास्वरूपः क्रतुरस्य
सोऽयं यत्क्रतुर्भवतिं तत्कर्म्म कुरुते । यद्विषयः क्रतुस्तत्फ-
लनिर्वृत्तये यद्योग्यं कर्म्म तत्कुरुते निर्वर्त्तयति । यत्कर्म्म
कुरुते तदभिसम्पद्यते तदीयं फलमभिसम्पद्यते” भा० ।

उत्पत्तिक्रम पु० उत्पत्तौ क्रमः । जगतामुत्पत्तिपरि-

पाट्याम् । स च क्रमः “ब्रह्मेति प्रकृत्य तैत्ति० उ०
भाष्ययोर्दर्शितो यथा ।
“तस्माद्वा एतस्मादात्मन आकाशः सम्भूतः
आकाशाद्वायुः वायोरग्निः अग्नेरापः अद्भ्यः पृथिवी
प्रथिव्या ओषधयः ओषधिभ्योऽन्नम् अन्नाद्रेतः रेतसः
पुरुषः । स वा एष पुरुषोऽन्नरसमयः “उष० । “तस्मा-
दिति मूलवाक्यसूत्रितं ब्रह्म परामृश्यते । एतस्मादिति ।
मन्त्रवाक्येन, अनन्तरं यथा लक्षितं यद्ब्रह्मैव ब्राह्मण-
वाक्येन सूत्रितम् यच्च सत्यं ज्ञानमनन्तं ब्रह्मेत्यनन्तर-
मेव लक्षितम् तस्मादेतस्माद्ब्रह्मण आत्मन आत्मशब्दवाच्य-
त्वात् । आत्मा हि तत्सर्वस्य “तत् सत्यं स आत्मेति” श्रुत्यन्त-
रादतो ब्रह्मात्मा । तस्मादेतस्माद्ब्रह्मण आत्मस्वरूपादाकाशः
सम्भूतः समुत्पन्नः । आकाशो नाम शब्दगुणोऽवकाशकरो
मूर्त्तद्रव्याणां, तम्मादाकाशात् स्वेन स्पर्शगुणेन पूर्व्वण च
कारणगुणेन शब्देन द्विगुणो वायुः, सम्भूत इत्यनुवर्त्तते ।
वायोश्च स्वेन रूपगुणेन पूर्वाभ्याञ्च त्रिगुणोऽग्निः
सम्भूतः । अग्नेः स्वेन रसगुणेन पूर्वैश्च त्रिभिश्चतुर्गुणा
आपः सम्भूताः । अद्भ्यः स्वेन गन्धगुणेन पूर्वैश्चतुर्भिः
पञ्चगुणा पृथिवी सम्भूता । पृथिव्या ओषधयः ।
ओषधोभ्योऽन्नम् । अन्नाद्रेतोरूपेण परिणतात्पुरुषः शिरः-
पाण्याद्याकृतिमान् । स वा एष पुरुषोऽन्नरसमयोऽन्नर-
सविकारः । पुरुषाकृतिभावितं हि सर्वेभ्योऽङ्गेभ्यस्तेजः
पृष्ठ ११२१
सम्भूतं रेतो वीजं तस्माद्यो जायते सोऽपि तथा पुरुषा-
कृतिरेव स्यात् सर्वजातिषु जायमानानां जनकाकृतिनियम-
दर्शनात् सर्व्वेषामप्यन्नरसविकारत्वे ब्रह्मवंश्यत्वे चाविशिष्टे ।
कस्मात्? पुरुष एव गृह्यते प्राधान्यात् । किं पुनः प्राधान्यं
कर्म्मज्ञानाधिकारः पुरुष एव हि शक्तत्वादर्थित्वाच्च अर्थी
विद्वान् समर्थः कर्म्मज्ञानयोरधिक्रियते । “पुरुषत्वे वा
विस्तरात्मा स हि विज्ञानेन सम्पन्नतमो विज्ञातं वदति
विज्ञातं पश्यति वेद श्वस्तनं वेद लोकालोकौ मत्त्येनामृत-
मीक्षतीत्येवं सम्पन्नोऽथेतरेषां पशूनामशनापिपासे
एवाभिज्ञानमित्यादिश्रुत्यन्तरदर्शनात्” भा० ।
एतेषाञ्च ब्रह्माधिष्ठितानामेव तत्तत्कार्य्यरूपेणाविर्भावः
शा० सू० भाष्ययोर्निरूपितो यथा ।
“तदभिध्यानादेव तु तल्लिङ्गात् सः” सू० । “किमिमानि
वियदादीनि भूतानि स्वयमेव स्वविकारान् सृजन्त्याहोस्वित्
परमेश्वर एव तेन तेनात्मनावतिष्ठमानोऽभिध्यायन् तं तं
विकारं सृजतीति सन्देहे सति प्राप्तं तावत् स्वयमेव
सृजन्तीति कुतः “आकाशाद्वायुर्वायोरग्निरित्यादि” स्वातन्त्र्यश्र-
वणात् । नन्वचेतनानां स्वतन्त्राणां प्रवृत्तिः प्रतिषिद्धा,
नैषदोषः । “तत्तेजऐक्षत ता आपऐक्षन्तेति च भूतानामपि
चेतनत्वश्रवणादित्येवं प्राप्तेऽभिधीयते । स एव परमेश्वर-
स्तेन तेनात्मनावतिष्टमानोभिध्यायंस्तंतं विकारं सृजतीति
कुतः? तल्लिङ्गात् । तथा हि शास्त्रम् “यः पृथिव्यां तिष्ठन्
पृथिव्या अन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरं
यः पृथिवीमन्तरोयमयतीत्येवंजातीयकं, साध्यक्षामेव
भूतानां प्रवृत्तिं दर्शयति । तथा “सोऽकामयत बहु स्यां
प्रजायेयेति” प्रस्तुत्य “सच्च त्यच्चाभवत् तदात्मानं स्वयमकु-
रुतेति” च तस्यैव सर्वात्मभावं दर्शयति । यत्तु ईक्षणश्रव-
णमप्तेजसोः, तत् परमेश्वरावेशवशादेव द्रष्टव्यं “नान्योऽऽतो-
स्ति द्रष्टा” इतीक्षित्रन्तरप्रतिषेधात् प्रकृतत्वाच्च सत ईक्षितुः
“तदैक्षत बहु स्यां प्रजायेयेत्यत्र” । “भूतानामुत्पत्ति-
क्रमश्चिन्तितः” शा० भा० ।

उत्पत्तिमत् त्रि० उत्पत्तिर्विद्यतेऽस्य मतुप् स्त्रियां ङीप् ।

उत्पत्तिविशिष्टे “विपदुत्पत्तिमतामुपस्थिता” रघुः ।

उत्पत्तिविधि पु० उत्पत्तिः कर्मस्वरूपज्ञापको विधिः ।

“स्वर्गकामोऽश्वमेधेन यजेतेत्यादौ कर्म्मस्वरूपज्ञापके
विधौ । विधिशब्दे विवृतिः । उत्पत्तिवाक्यमप्यत्र न० ।

उत्पत्तिव्युत्क्रम पु० उत्पत्तितोव्युत्क्रमः । उत्पत्तिक्रमात्

विपरीते क्रमे । स च शा० सू० भाष्ययोर्दर्शितः
यथा “भूतानामुत्पत्तिक्रमश्चिन्तितोऽथेदानीमप्ययक्रमश्चि-
न्त्यते “विपर्य्ययेण तु क्रमोऽतौपपद्यते च” शा० सू० ।
“किमनियतेन क्रमेणाप्ययः, उतोत्पत्तिक्रमेणाथ वा तद्विप-
रीतेनेति? । त्रयोऽपि चोत्पत्तिस्थितिप्रलया भूतानां
ब्रह्मायत्ताः श्रूयन्ते “यतो वा इमानि मूतानि जायन्ते
येन जातानि जीवन्ति यत् प्रयन्त्यभिसंविशन्तीति” ।
तत्रानियमोऽविशेषादिति प्राप्तम् । अथ वोत्पत्ते क्रमस्य
श्रुतत्वात् प्रलयस्यापि क्रमाकाङ्क्षिणः स एव क्रमःस्यादि-
त्येवं प्राप्ते ततोब्रूमः विपर्य्ययेण तु प्रलयक्रमोऽत
उत्पत्तिक्रमाद्भवितुमर्हति । तथा हि लोके दृश्यते येन
क्रमेणसोपानमारूढस्ततो विपरीतेन क्रमेणावरोहतीति । अपि
च दृश्यते मृदोजातं घटाद्यप्ययकाले मृद्भावमप्येति अद्भ्यश्च
जातं हिमकरकादि अब्भावमप्येतीत्यतश्चोपपद्यते एतत्, यत्
पृथिव्यद्भ्योजाता सती स्थितिकालव्यतिक्रान्तावपोऽपीयात्,
आपश्च तेजसोजाताः सत्यस्तेजोऽपीयुः, एवं क्रमेण सूक्ष्म
सूक्ष्मतरञ्चानन्तरमनन्तरं कारणमपीत्य सर्वं कार्य्यजातं
परमकारणं परमसूक्ष्मं ब्रह्माप्येतीति वेदितव्यम् । न हि
स्वकारणव्यतिक्रमेण कारणकारणे कार्य्याप्ययोन्याय्यः । स्मृ-
तावप्युत्त्तिक्रमविपर्य्ययेणैवाप्ययक्रमस्तत्र तत्र प्रदर्शितः ।
“जगत्प्रतिष्ठा देवर्षे! पृथिव्यप्सु प्रलीयते । ज्योतिःष्वापः
प्रलीयन्ते ज्योतिर्वायौ प्रलीयते” इत्येवमादौ । उत्पत्तिक्र-
मस्तूत्पत्तावेव श्रुतत्वान्नाप्यये भवितुमर्हति न चासावयो-
ग्यत्वादप्ययेनाकाङ्क्ष्यते । न हि कार्य्ये ध्रियमाणे
कारणस्याप्ययोयुक्तः कारणाप्यये कार्य्यस्यावस्थानानुपपत्तेः ।
कार्य्याप्यये तु कारणस्यावस्थानं युक्तं मृदादिष्वेवं दृष्टत्वात्”
भा० । तदेतत् वेदा० प० स्पष्टमुक्तम् यथा । “भूतानां भौतिका-
नाञ्च न काग्णलयक्रमेण लयः कारणलयसमये कार्य्याणा-
माश्रयमन्तरेणावस्थानानुपपत्तेः किन्तु सृष्टिक्रमविपरीत
क्रमेण तत्तत्कार्य्यनाशे तत्तज्जनकादृष्टनाशस्यैव प्रयोजक-
तया उपादाननाशस्याप्रयोजकत्वात् अन्यथा न्यायमतेऽपि
महाप्रलये पृथिवीपरमाणुगतरूपरसादेरविनाशापत्तेः । तथा
च पृथिव्या अप्सु, अपां तेजसि, तेजसोवायौ, वायोरा-
काशे, आकाशस्य जीवाहङ्कारे, तस्य हिरण्यगर्भाहङ्गारे, तस्य
चाविद्यायाभित्येवंरूपएव प्रलयः । तदुक्तम् विष्णुपुराणे
“जगत्प्रतिष्ठा देवर्षे! पृथिव्यप्सु प्रलीयते । तेजस्यापः
प्रलीयन्ते तेजोवायौ प्रलीयते । वायुश्च लीयते व्योम्नि
तच्चाव्यक्ते प्रलीयते । अव्यक्तं पुरुषे ब्रह्मन्निष्कले सम्प्र-
लीयये । पुरुषान्न परं किञ्चित्सा काष्ठा सा परा गतिः” ।
पृष्ठ ११२२

उत्पत्य अव्य० उत् + पत--ल्यप् । ऊर्द्ध्वं पतित्वेत्यर्थे

उत्पत्यपाकला मयू० । जन्मप्रभृत्युन्मत्ते

उत्पथ पु० उत्क्रान्तः पन्थानम् अत्या० समा० अच् । गम्य-

पथातिक्रान्ते २ न्याय्यरीत्यतिक्रान्ते च । भिन्नपर्य्या-
दतया अपकृष्टः पन्थाः उदभावे प्रा० स० अच् समा०
कदर्य्ये पथि “गुरोरप्यलिप्तस्य कार्य्याकार्य्यमजानतः ।
उत्पथप्रतिपन्नस्य न्याय्यं भवति शासनम्” भा०
आ० १४० उ० । “प्रमदाह्युत्पथं नेतुं कामक्रोधव
शानुगम्” मनुः । “क्षिप्तावरोधाङ्गनमुत्पथेन गाम्” माघः

उत्पन्न त्रि० उद् + पद--क्त । उद्भूते । “औरसे पुनरुत्पन्ने

तृतीयांशहराः सुताः” स्मृ० “उत्पन्नस्य पुनरनुत्पादः”
न्यायप्र० उत्पन्नेन हरति उत्सङ्गा० ठञ् । औत् पन्निक
तेन हारके त्रि० ।

उत्पल न० उद् + पल--अच् । १ नीलपद्मे, २ कुमुदादौ, ३ कुष्ठो-

षघौ च । उत्क्रान्तं पलं मासम् अत्या० समा० ।
४ मांसशून्ये त्रि० । “गण्डस्वेदापनयनरुजाक्लान्तकर्णोत्-
पलानान्” मेघ० । “यत्रोत्पलदलक्लैव्यमस्त्राण्यापुः
सुरद्विषाम्” “मुहूर्त्तकर्णोत्पलतां प्रपेदे” “नवावतारं
कमलादिवोत्पलम्” रघुः “अन्योन्यमुत्पीडयदुत्पला
क्ष्याः” कुमा० । तच्च त्रिविधं नीलं रक्तंश्वेतञ्च “ध्रुवंस
नीलोत्पलपत्रधारया” शकु० ।

उत्पलगन्धिक न० उत्पलस्य गन्धैव गन्धोऽस्य इत् समा०

संज्ञायां कन् । गोशीर्षाख्ये चन्दने ॥

उत्पलपत्र न० उत्पलस्य पत्रमिव । १ तिलकभेदे स्त्रीणां

स्तनादौ २ नखक्षते च । ६ त० । इन्दीवरस्य दले ।

उत्पलपत्रक न० उत्पलपत्रमिव कन् । उत्पलपत्राकारे

सुश्रुतोक्ते शस्त्रभेदे । अर्द्धधारशब्दे ३७५ पृष्ठे तल्लक्ष्मादि
दर्शितम् । “वृद्धिपत्रनखशस्त्रमुद्रिकोत्पलपत्रकार्द्धधाराणि
छेदने भेदने च” सुश्रु० ।

उत्पलभेद्यक पु० सुश्रुतोक्ते कर्ण्णबन्धाकृतिभेदे । स च पञ्चद-

शविधः । तद्विमागलक्षणादि सुश्रु० दर्शितं यथा ।
“तत्र समासेन पञ्चदशकर्ण्णबन्धनाकृतयः । तद्यथा नेमि-
सन्घानक उत्पलभेद्यको वल्लूरक आसङ्गिमोगण्डकर्ण
आहार्य्यो निर्व्वेधिमो व्यायोजिमः कपाटसन्धिकोऽर्द्ध्वक-
पाटसन्धिकः संक्षिप्तो हीनकर्ण्णो वल्लीकर्ण्णो यष्टिकर्ण्णः
काकोष्ठक इति । तेषु पृथुलायतसमोभयपालिर्नेमिसन्धा-
नकः । वृत्तायतसमोभयपालिरुत्पलभेद्यकः । ह्रस्व
वृत्तसमोभयपासिर्वल्लूरकः । अभ्यन्तरदीर्घैकपालिरास-
ङ्गिमः । बाह्यदीर्घैकपालिर्गण्डकर्ण्णः । अपालिरुभयतोऽ-
प्याहार्य्यः । पीठोपमपालिरुभयतः, क्षीणपुत्रिकाश्रितो
निर्व्वेधिमः । स्थूलाणुसमविषमपालिर्व्यायोजिमः । अभ्य-
न्तरदीर्घैकपालिरितराल्पपालिः कपाटसन्धिकः । बाह्य-
दीर्घैकपालिरितराल्पपालिरर्द्धकपाटसन्धिकः । तत्र देशैते
कर्ण्णबन्धविकल्पाः साध्यास्तेषां स्वनामभिरेवाकृतयः प्रायेण
व्याख्याताः । संक्षिप्तादयः पञ्चासाध्यास्तत्र शुष्कशष्कु-
लिरुत्सन्नपालिरितराल्पपालिः संक्षिप्तः । अनधिष्ठा-
नपालिः पर्य्यन्तयोः क्षीणमांसो हीनकर्ण्णः । तनु
विषमाल्पपालिर्वल्लीकर्ण्णः । ग्रथितमांसस्तब्धशिरायत
सूक्ष्मपालिर्यष्टिकर्णः । निर्मांससंक्षिप्ताग्राल्पशोणितपालिः
काकोष्ठकपालिरिति” । “बन्धेष्वपि तु शोफदाहरागपाक-
पिडकास्रावयुक्ता न सिद्धिमुपयान्ति” ।

उत्पलशा(सा)रिवा त्रि० उत्पलं तदाकारपुष्पमस्त्यस्याः

अर्श० अच् कर्म्म० । अनन्तमूलायां श्यामालतायाम् ।
“वृक्षादनी पयस्या च लता चोत्पलसा(शा)रिवा” सुश्रु० ।

उत्पलषट्क न० ज्वरातीसारचिकित्साङ्गे चक्र० उक्ते

औषधभेदे । यथा “ज्वरातीसारे पेयादिक्रमः स्याल्लङ्घिते
हितः । ज्वरातिसारी पेयां वा पिबेत् साम्लां शृतां
नरः । पृश्निपणींवलाविल्वनागरोत् पलधान्यकैः” ।

उत्पलावती स्त्री उत्पलमुत् पलाकारं नेत्रमस्त्यस्याः मतुप्

मस्यवः संज्ञायां दीर्घः । अप्सरोभेदे” काशीख० ९ अ० अप्स-
रोलोलवर्ण्णने । “निर्मथ्यमानात् क्षोरोदात् पूर्ब्बम-
प्सरसस्त्वमूः । निःसृता त्रिजगज्जेतुर्मोहनास्त्रं
मनोभुवः । “उर्व्वशी मेनका रम्भा चन्द्ररेखा तिलोत्तमा ।
वपुष्मती कान्तिमती लीलावत्युत्पलावती । अलम्बुषा
गुणवती स्थूलकेशी कलावती । कलानिविर्गुणनिधिः
कर्पूरतिलकोर्व्वरा । अनङ्गलतिका चापि तथा
मदनमोहिनो । चकोराक्षी चन्द्रकला तथा मुनिमनोहरा ।
ग्रावद्रावा तपोद्वेष्ट्री चारुनासा सुकर्ण्णिका । दारुसंजी-
वनी सुश्रीः कृष्णशुल्का शुभानना । तपःशुलका तीर्थशु-
ल्का दानशुल्का हिमावती । पञ्चाश्वमेधिका चैव राजसू-
यार्थिनी तथा । अष्टाग्निहोत्रिका तद्वद्वाजपेयशतोद्भता ।
कार्थ्यविस्मारयित्री च दृष्टिद्राया सुकल्पिनो । इत्याद्यस-
रसां श्रेष्ठं सहस्रं षष्टिसंयुतम् । एतस्मिन्नप्सरो लोवे
वसन्त्यत्या अपि स्त्रियः” ।
पृष्ठ ११२३

उत्पलिनी स्त्री उत्पलानि सन्त्यस्मिन् देशे तेषां समुहो वा

इति । १ उत्पलयुक्तलतायां, २ कुवलयसमुदाये च । “ववृषे
सा महाराज बिभ्रती रूपमुत्तमम् । अप्स्विवोत्पलिनी
शीघ्रमग्नेरिव शिस्वा शुभा” भा० व० ९६ अ० । २ उत्पल-
युक्ते त्रि० ।

उत्पवन न० उद् + पु--ल्युट् । यज्ञियपात्रादिसंस्कारभेदे स च

आश्व० गृ० १, ३, २, ३ सूत्रयोर्दर्शितो यथा ।
“पवित्राभ्यामाज्यस्योत्पवनम्” २ सू० । “अप्रच्छिन्नाग्रावनन्त-
र्गर्भौ प्रादेशमात्रौ कुशौ नानान्तयोर्गृहीत्वाङ्गुष्ठोपकनिष्ठिका-
भ्यामुत्तानाभ्यां पाणिभ्यां “सवितुष्ट्वा प्रसव उत्पुनाम्यच्छिद्रेण
पवित्रेण वसोः सूर्यस्य रश्मिभिरिति” प्रागुत्पुनाति
सकृन्मन्त्रेण, द्विस्तूष्णीम्” ३ सू० । “कार्यमिति शेषः । अथ
किंलक्षणे? पवित्रे कथं वा उत्पवनं? कार्यमित्येतद्द्वयं निर्णे-
तुमाह । प्रशब्दः सूक्ष्मच्छिन्नाग्रयोरनिवृत्त्यर्थः । न विद्यते
अन्तर्मध्ये गर्भो ययोस्तौ तथोक्तौ प्रादेशमात्रौ कुशौ ।
एवंलक्षणयुक्तौ कुशौ पवित्रसंज्ञौ । नानेत्यसंसर्गार्थम् ।
पवित्रे अन्तयोरसंस्पृष्टे अङ्गुष्ठोपकनिष्ठिकाभ्यामुत्तानाभ्यां
पाणिभ्यां गृहीत्वा प्रागुत्पुनातिसकृत्न्मन्त्रेण, द्विस्तूष्णीम्”
ना० वृ० । तत्र समन्त्रकामन्त्रकव्यवस्था नारा० वृत्तौ दर्शिता
पूर्व्वेणामन्त्रकमुत् पवनं विधीयते । अनेन तु समन्त्रकम् ।
तत्र वैतानिके अमन्त्रकं गृह्ये कर्म्मणि समन्त्रकमित्येवं
विनिवेशः” इति । “उत्पवनप्रकारः” शत० ब्रा० ।
“प्रोक्षणीषु पवित्रे भवतः । ते तत आदत्ते, ताभ्या-
माज्यमुत्पुनात्येको वाऽउत्पवनस्य बन्धुर्मेध्यमेवैतत्क-
रोति । स उत्पुनाति “सवितुष्ट्वा प्रसवऽ उत्पुना-
म्यच्छिद्रेण सूर्य्यस्य रश्मिभिरिति” सोऽसावेव-
बन्धुः” । “अथाज्यलिप्ताभ्यां पवित्राभ्याम् प्रोक्ष-
णीरुत्पुनाति “सवितुर्वः प्रसवऽ उत्पुनाति” एको
वा उत्पवनस्य वन्धुः” २२, २३, २४, १, ३, १, “द्रव्याणा-
ञ्चैव सर्वेषां शुद्धिरुत्पवनं स्मृतम्” मनुः “प्रादेशप्रमाण
कुशद्वयाभ्यामुत्पवनेन शुद्धिः” कुल्लू० ।

उत्पश्ये त्रि० उद् + दृश--कर्त्तरि श । १ ऊर्द्ध्वं प्रेक्षके । २ उन्मुखे

३ ऊर्द्ध्वदृष्टौ हेम० ।

उत्पाटन न० उद् + --पट--णिच् + ल्युट् । १ उन्मूलने सुश्रुतोक्ते

२ व्रणवेदनाभेदे च । यथा “अत ऊर्द्ध्वं सर्वब्रणवेदना
वक्ष्यामः तोदनभेदनताड़नच्छेदनायमनमन्थनविक्षेपण चुम्-
चुमायननिर्दनावभञ्जनस्फोटनविदारणोत्पाटनकम्पन
विविधशूलविशोषणविकरणपूरणस्तम्भनस्वप्नाबकुञ्चनाङ्कुशिकाः
सम्भवन्ति” ।

उत्पाटक पु० उद् + पट--भेदने णिच्--ण्वुल् । १ उन्मूलके

सुश्रुतोक्ते २ पाल्यामुपद्रवभेदे उत्पुटशब्दे विवृतिः ।

उत्पाटिका स्त्री ईद् + पट--णिच् ण्वुल् टाप् अत इत् ।

वृक्षस्यनीरसायां त्वचि “तस्य लोमानि पर्ण्णानि त्वगस्यो-
त्पाटिका बहिः । त्वच एवास्य रुधिरं प्रस्यन्दि त्वच
उत्पटः” वृ० उ० । उत्पाटनकत्त्र्यां स्त्रियां च ।

उत्पात पु० उद् + पत--घञ् । १ ऊर्द्ध्वपतने । उद् + पत--ण ।

अकस्मादागते प्राणिनां शुभाशुभसूचके दैवनिमित्ते २
भूकम्पादौ ३ सुश्रुतोक्ते विस्राव्यपाल्यामयभेदे च ।
“पाल्यामयास्तु विस्राव्या इत्युक्ताः प्राग्निबोध तान् ।
परिपोटस्तथोत्पात उन्मन्थो दुःखवर्द्धनः । पञ्चमः परिलेही
च कर्णपाल्या गदाः स्मृताः । सौकुमार्य्याच्चिरोत्सृष्टः
सहसाभिप्रवर्द्धिते । कर्णशोफो भवेत्पाल्यां सरुजः
परिपोटवान् । कृष्णारुणनिभः स्तब्धः स वातात् परिपोटकः ।
गुर्व्वाभरणसंयोगात्ताडनोद्वर्षणादपि । शोफः पाल्यां
भवेच्छ्यावो दाहपाकरुगन्वितः । रक्तो वा रक्तपित्ताम्यामु-
त्पातः सगदो मतः । बलाद्वर्द्धयतः कर्णं पाल्यां वायुः
प्रकुच्यति । गृहीत्वा सकफं कुर्य्याच्छोफं तद्वर्णवेदनम् ।
उन्मन्थकः सकण्डूको विकारः कफवातजः । वर्द्धमाने
यदा कर्णे कण्डूदाहरुगन्वितः । शोफो मवति पाकश्च
त्वक्स्थोऽसौ दुःखवर्द्धनः । कफासृक्कृमयः कुर्य्युः सर्षपाभा
विकारिणीः । स्राविणीः पीड़काः पाल्यां कण्डूदाहरुग-
न्विताः । कफासृक्कृमिसम्भूतः सविसर्पान्वितस्ततः ।
लिह्यात्सशष्कुलीं पालीं परिलेहीति स स्मृतः” ।
शुभाशुभसूचकोत्पातश्च दिव्यान्तरीक्षभौमभेदात् त्रि-
विधः । स च वृ० सं० दर्शितो यथा “यानत्रेरुत्-
पातान् गर्गः प्रोवाच तानहं वक्ष्ये । तेषां सङ्क्षेपो-
ऽयं प्रकृतेरन्यत्वमुत्पातः । अपचारेण नराणामुप-
सर्गः पापसञ्चयाद्भवति । संसूचयन्ति दिव्यान्तरिक्षभौ-
मास्तदुत्पाताः । भनुजानामपचारादपरक्ता देवताः ।
सृजन्त्येतान् । तत्प्रतिघाताय नृपः शान्तिं राष्ट्रे प्रयुञ्जीत ।
दिव्यं ग्रहर्क्षवैकृतम् उल्कानिर्घातपवनपरिवेषाः । गन्धर्व-
पुरपुरन्दरचापादि यदान्तरिक्षं तत् । भौमं चरस्थिरभवं
तच्छान्तिभिराहतं शममुपैति । नाभसमुपैति मृदुतां
शाम्यति नो दिव्यमित्येके । दिव्यमपि शममुपैति प्रमूत-
कनकान्नगोमहीदानैः । रुद्रायतने भूमौ गोदोहात्
कोटिहोमाच्च । आत्मसुतकोशवाहनपुरदारपुरोहितेषु
लोकेषु । पाकमुपयाति दैवं परिकल्पितमष्टधा नृपतेः ।
अनिमित्तभङ्गचलनस्वेदाश्रुनिपातजल्पनाद्यानि । लिङ्गा-
पृष्ठ ११२४
र्चायतनानां नाशाय नरेशदेशानाम् । दैवतयात्राशकटा-
क्षचक्रयुगकेतुभङ्कपतनानि । सम्पर्य्यासनसादनसङ्गाश्च न
देशनृपशुभदाः । ऋषिधर्म्मपितृब्रह्मप्रोद्भूतं द्विजाती-
नाम् । यद्रद्रलोकपालोद्भवं पशूनामनिष्टं तत् । पुरु
सितशनैश्चरोत्थं पुरोधसां, विष्णुजं च लोकानाम् । स्कन्द-
विशाखसमुत्थं माण्डलिकानां नरेन्द्राणाम् । वेदव्यासे
मन्त्रिणि विनायके वैकृतं चमूनाथे । धातरि सविश्व-
कर्म्मणि लोकाभावाय निर्दिष्टम् । देवकुमारकुमारीवनिता-
प्रेष्येषु वैकृतं यत् स्यात् । तन्नरपतेः कुमारककुमारि
कास्त्रीपरिजनानाम् । रक्षःपिशाचगुह्यकनागानामेत-
देव निर्देश्यम् । मासैश्चाप्यष्टाभिः सर्वेषामेव फलपाकः ।
बुद्ध्वा देवविकारं शुचिः पुरोधास्त्र्यहोवितः स्नातः ।
स्नानकुसुनानुलेपनवस्त्रैरभ्यर्चयेत् प्रतिमाम् । मधुपर्केण
पुरोधा भक्ष्यैर्बलिभिश्च विधिवदुपतिष्ठेत् । स्थालीपाकं
जुहुयाद्विधिवन्मन्त्रैश्च तल्लिङ्गैः । इति विबुधविकारे
शान्तयः सप्तरात्रं द्विजविबुधगणार्चा गीतनृत्योत्सवाश्च ।
विधिवदवनिपालैर्य्यैः प्रयुक्ता न तेषां भवति दुरितपाको
दक्षिणाभिश्च रुद्धः” देवप्रतिमावैकृतम् । “राष्ट्रे यस्या-
नग्निः प्रदीप्यते दीप्यते च नेन्धनवान् । मनुजेश्वरस्य
पीडा तस्य सराष्ट्रस्य विज्ञेया । जलमांसार्द्रज्वलने
नृपतिबधः प्रहरणे रणो रौद्रः । सैन्यग्रामपुरुषे च
नाशो वह्नेर्भयं कुरुते । प्रासादभवनतोरणकेत्वादिष्व-
नलेन दाधेषु । नड़िता वा षण्मासात् परचक्रस्यागमो
नियमात् । धूमोऽनग्निसमुत्थो रजस्तमश्चाह्निजं
महाभयदम् । व्यभ्रे निश्युडुनाशो दर्शनमपि चाह्नि
दोषकरम् । नगरचतुष्पादाण्डजमनुजानां भयकरं ज्वलन-
माहुः । घूमाग्निविस्फुलिङ्गैः शय्याम्बरकेशगैर्मृत्युः ।
आयुधज्वलनसर्पणस्वनाः कोशनिर्गमणवेपनानि वा । वैकृ
तानि यदि वायुधेऽपराण्याशु रौद्ररणसङ्कुलं वदेत् ।
मन्त्रैर्वाह्नैः क्षीरवृक्षात्समिद्भिर्होतव्योऽग्निः सर्षपैः
सर्पिषा च । अग्न्यादीनां वैकृते शान्तिरेवं देयं चास्मिन्
काञ्चनं ब्राह्मणेभ्यः” । इत्यग्निवैकृतम् । “शाखाभङ्गे
ऽकस्माद् वृक्षाणां निर्दिशेद्रणोद्योगम् । हसने देशभ्रंशं
रुदिते च व्याधिबाहुल्यम् । राष्ट्रविभेदस्त्वनृतौ
बालबधोऽतीव कुसुमिते बाले । वृक्षात् क्षीरस्रावे सर्वद्रव्य-
क्षयो भवति । मद्ये वाहननाशः संग्रामः शौणिते
मधुनि रोगः । स्नेहे दुर्भिक्षभयं महद्भयं निःसृते
ससिके । शुष्कविरोहे वीर्यान्नसङ्क्षयः शोषणे च विरु-
ऊनाम् । पतितानामुत्थाने स्वयं भयं दैवजनितं च ।
पूजितवृक्षे ह्यनृतौ कुसुमफलं नृपबधाय निर्दिष्टम् ।
धूमस्तस्मिन् ज्वालाथवा भवेन्नृपबधायैव । सर्पत्सु तरुषु वापि
जनसङ्क्षयो विनिर्दिष्टः । वृक्षाणां वैकृत्ये दशभिर्मासै-
फलविपाकः । स्रग्गन्धधूपाम्बरपूजितस्य छत्रं निधायो-
परि पादपस्य । कृत्वा शिवं रुद्रजपोऽत्र कार्य्यो रुद्रेभ्य
इत्यत्र षड़ङ्गहोमः । पायसेन मधुना च भोजयेद्
ब्राह्मणान् घृतयुतेन भूपतिः । मेदिनी निगदितात्र दक्षि-
णा वैकृते तरुकृते महर्षिभिः” । इति वृक्षवैकृतम् । “नले
ऽब्जयवादीनामेकस्मिन् द्वित्रिसम्भवो मरणम् । कथयति
तदधिपतीनां यमलं जातं च कुसुमफलम् । अतिवृद्धिः
शस्यानां नानाफलकुसुमभवो वृक्षे । भवति हि यद्येक-
स्मिन् परचक्रस्यागमो नियमात् । अर्धेन यदा तैलं
भवति तिलानामतैलता वा स्यात् । अन्नस्य च वैरस्यं तदा
च विन्द्याद्भयं सुमहत् । विकृतकुसुमं फलं वा ग्रामा-
दथवा पुराद्बहिः कार्य्यम् । सौम्योऽत्र चरुः कार्यो
निर्वाप्यो वा पशुः शान्त्यै । सस्ये च दृष्ट्वा विकृतिं प्रदेयं
तत् क्षेत्रमेव प्रथमं द्विजेभ्यः । तस्यैव मध्ये चरुमत्र भौमं
कृत्वा न दोषान् समुपैति तज्जान्” । इति सस्यवैकृतम् ।
“दुर्भिक्षमनावृष्ट्यामतिवृष्ट्यां क्षुद्भयं सपरचक्रम् । रोगो
ह्यनृतुभवायां नृपवधोऽनभ्रजातायाम् । शीतोष्णविप-
र्य्यासे नो सम्यगृतुषु च सम्प्रवृत्तेषु । षण्मासाद्राष्ट्रभयं
रोगभयं दैवजनितं च । अन्यर्तौ सप्ताहं प्रबन्धवर्षे
प्रधाननृपमरणम् । रक्ते शस्त्रोद्योगो मांसास्थिवसा-
दिभिर्मरक । धान्यहिरण्यत्वक्फलकुसुमाद्यैर्वर्षितैर्भयं
विन्द्यात् । अङ्गारपांशुवर्षे विनाशमायाति तन्नगरम् ।
उपला विना जलधरैर्विकृता वा प्राणिनो यदा वृष्टाः ।
छिद्रं वाप्यतिवृष्टौ शस्यानामीतिसञ्जननम् । क्षीरघृत-
क्षौद्राणां दध्नो रुधिरोष्णवारिणां वर्षे । देशविनाशो
ज्ञेयोऽसृग्वर्षे चापि नृपयुद्धम् । यद्यमलेऽर्के छाया न
दृश्यते दृश्यते प्रतीपा वा । देशस्य तदा सहद्भयमायातं
विनिर्देश्यम् । व्यभ्रे नमसीन्द्रधनुर्दिवा यदा दृश्यते
ऽथवा रात्रौ । प्राच्यामपरस्यां वा तदा भवेत् क्षुद्भयं
सुमहत् । सूर्य्येन्दुपर्जन्यसमीरणानां योगः स्मृतो वृष्टि-
विकारकाले । धान्यान्नगोकाञ्चनदक्षिणाश्च देयास्ततः
शान्तिमुपैति पापम्” । इति वृष्टिवैकृतम् । “अपसर्पणं
नदीनां नगरादचिरेण शून्यतां कुरुते । शोषश्चाशो-
ष्याणामन्येषां वा ह्रदादीनाम् । स्नेहासृङ्मांसवहाः
पृष्ठ ११२५
सङ्कुलकलुषाः प्रतीपगाश्चापि । परचक्रस्यागमनं नद्यः
कथयन्ति षण्मासात् । ज्वालाधूमक्काथा रुदितोत्कुष्टानि
चैव कूपानाम् । गीतप्रजल्पितानि च जनमरकाय प्रदि-
ष्टानि । तोयोत्पत्तिरखाते गन्धरसविपर्यये च तोया-
नाम् । सलिलाशयविकृतौ वा महद्भयं तत्र शान्ति-
रियम् । सलिलविकारे कुर्य्यात् पूजां वरुणस्य वारुणै-
र्मन्त्रैः । तैरेव च जपहोमं शुभमेवं पापमुपयाति” ।
इति जलवैकृतम् । “प्रसवविकारे स्त्रीणां द्वित्रिचतुःप्रभृति-
सम्प्रसूतौ वा । हीनातिरिक्तकाले च देशकुलसङ्क्षयो
भवति । बड़वोष्ट्रमहिषगोहस्तिनीषु यमलोद्भवे
मरणमेषाम् । षण्मासात्सूतिफलं शान्तौ श्लोकौ च गर्गोक्तौ ।
नार्यः परस्य विषये त्यक्तव्यास्ता हितार्थिना । तर्पयेच्च
द्विजान् कामैः शान्तिं चैवात्र कारयेत् ।
चतुष्पदाः स्वयूथेभ्यस्त्यक्तव्याः परभूमिषु । नगरं स्वामिनं
यूथमन्यथा हि विनाशयेत्” । इति प्रसववैकृतम् ।
“परयोनावभिगमनं भवति तिरश्चामसाधु धेनुनाम् । उक्षाणा
वान्योऽन्यं पिबति श्वा वा सुरभिपुत्रम् । मासत्रयेण
विन्द्यात् तस्मिन्निःसंशयं परागमनम् । तत्प्रतिघातायैतौ
श्रोकौ गर्गेण निर्दिष्टौ । त्यागो विवासनं दानं तत्तस्याशु
शुभं भवेत् । तर्पयेद्ब्राह्मणांश्चात्र जपहोमांश्च कारयेत्
स्यालीपाकेन धातारं पशुना च पुरोहितः । प्राजापत्येन
मन्त्रेण यजेद्बह्वन्नदक्षिणम्” । इति चतुष्पादवैकृतम् ।
“यानं वाहवियुक्तं यदि गच्छेन्न व्रजेच्च वाहयुतम् ।
राष्ट्रभयं भवति तदा चक्राणां सादभङ्गे च । अनभिहत-
तूर्य्यनादः शब्दो वा तेषां ताड़ितेषु यदि नायात् ।
व्युत्पत्तौ वा परागमो नृपतिमरणं वा । गीतर-
वतूर्य्यनादा नभसि यदा वा चरस्थिरान्यत्वम् ।
मृत्युस्तदा गदा वा विस्वरतूर्य्ये पराभिभवः । गोलाङ्गलयोः
सङ्गे दर्वीशूर्पाद्युपस्करविकारे । क्रोष्टुकनादे च तथा
शस्त्रभयं मुनिवचश्चेदम् । वायव्येष्वेषु नृपतिर्वायुं सक्तु-
भिरर्चयेत् । आ वायोरिति पञ्चर्चो जप्याश्च प्रयतै
र्द्विजैः । व्राह्मणान् परमान्नेन दक्षिणाभिश्च तर्पयेत् ।
बह्वन्नदक्षिणा होमाः कर्तव्याश्च प्रयत्नतः” । इति
वायव्यवैकृतम् । “पुरपक्षिणो वनचरा वन्या वा निर्भया विशन्ति
पुरम् । नक्तं वा दिवसचराः क्षपाचरा वा चरन्त्यहनि ।
सन्ध्याद्वयेऽपि मण्डलमाबध्नन्तो मृगा विहङ्गा वा । दीप्ता-
यां दिश्यथवा क्रोशन्तः संहता भयदाः । श्वानः प्ररु-
दन्त इव द्वारे वाशन्ति जम्बुका दीप्ताः । प्रविशेन्नरेन्द्र-
भवने कपोतकः कोशिको यदि वा । कुक्कुटरुतं प्रदोषे
हेमन्तादौ च कोकिलालापाः । प्रतिलोममण्डलचराः
श्येनाद्याश्चाम्बरे भयदाः । गृहचैत्यतोरणेषु द्वारेषु
च पक्षिसङ्घसम्पाताः । मधुवल्मीकाम्भोरुहसमुद्भवाश्चापि
नाशाय । श्वभिरस्थिशवावयवप्रवेशनं मन्दिरेषु मरकाय ।
पशुशस्त्रव्याहारे नृपमृत्युर्मुनिवचश्चेदम् । मृगपक्षिविका-
रेषु कुर्य्याद्धोमान् सदक्षिणान् । देवाः कपोत इति
च जप्तव्याः पञ्चभिर्द्विजैः । सुदेवा इति चैकेन देया
गावश्च दक्षिणा । जपेच्छाकुनसूक्तं वा मनोवेदशिरांसि
च” । इति मृगपक्ष्यादिवैकृतम् । “शक्रध्वजेन्द्रकीलस्तम्भ-
द्वारप्रपातभङ्गेषु । तद्वत्कपाटतोरणकेतूनां नरपतेर्मरणम् ।
सन्ध्याद्वयस्य दीप्तिधूमोत्पत्तिश्च काननेऽनग्नौ । छिद्राभावे
भूमेर्दरणं कम्पश्च भयकारी । पाषर्ण्डानां नास्तिकानां
च भक्तः साध्वाचारप्रोजिझतः क्रोधशीलः । ईर्ष्युः
क्रूरो विग्रहासक्तचेता यस्मिन् राजा तस्य देशस्य नाशः ।
प्रहर हर छिन्धि भिन्धीत्यायुधकाष्ठाश्मपाणयो बालाः ।
निगदन्तः प्रहरन्ते तत्रापि भयं भवत्याशु । अङ्गारगैरि-
काद्यैर्विकृतप्रेताभिलेखनं यस्मिन् । नायकचित्रितमथ वा
क्षये क्षयं याति न चिरेण । लूतापटाङ्गशबलं न सन्ध्ययोः
षूजितं कलहयुक्तम् । नित्योच्छिष्टस्त्रीकं च यद्गृहं
तत्क्षयं याति । दृष्टेषु यातुधानेषु निर्दिशेन्मरकमाशु सम्प्रा-
प्तम् । प्रतिघातायैतेषां गर्गः शान्तिं चकारे माम् ।
महाशान्त्योऽथ बलयो भोज्यानि सुमहान्ति च । कारयेत महेन्द्रं
च माहेन्द्रीभिः समर्चयेत्” । इति शक्रध्वजेन्द्रकीलादिवैकृ-
तम् । “नरपतिदेशविनाशे केतोरुदयेऽथ वा ग्रहेऽर्के-
न्द्वोः । उत्पातानां प्रभवः स्वर्तुभवश्चाम्यदोषाय । ये च न
दोषान् जनयन्त्युत्पातास्तानृतुस्वभावकृतान् । ऋषिपुत्र-
कृतैः श्लौकैर्विद्यादेतैः समासोक्तेः । वज्राशनिमहीकम्प-
सन्ध्यानिर्घातनिःस्वनाः । परिवेषरजोधूमरक्तार्कास्तमनो-
दयाः । द्रुमेभ्योऽन्नरसस्नेहबहुपुष्पफलोद्गमाः । गोपक्षि-
मदवृद्धिश्च शिवाय मधुमाधवे । तारोल्कापातकलुषं
कपिलार्केन्दुमण्डलम् । अनग्निज्ज्वलनस्फोटधूमरण्वनि-
लाहतम् । रक्तपद्मारुणं सान्ध्यं नभः क्षुब्धार्णवोपमम् ।
सरितां चाम्बुसंशोषं दृष्ट्वा ग्रीष्मे शुभं वदेत् । शक्रायुध
परीवेषविद्युच्छुष्कविरोहणम् । कम्पीद्वर्तनवैकृत्यं रसनं
दरणं क्षितेः । सरोनद्युदपानानां वृद्ध्युर्द्ध्वतरणप्लवाः ।
सरणं चाद्रिगेहाणां वर्षाषु न भयावहम् । दिव्यस्त्री-
भूतगन्धर्वविमानाद्भुतदर्शनम् । त्रक्षरताणां ग्रहन
पृष्ठ ११२६
दर्शनं च दिवाम्बरे । गीतवादित्रनिर्घोषा वनपर्वतसानुषु ।
सस्यवृद्धिरपां हानिरपापाः शरदि स्मृताः । शीतानीलतु
षारत्वं नर्दनं मृगपक्षिणाम् । रक्षोयक्षादिसत्त्वानां
दर्शनं वागमानुषी । दिशो धूमान्धकाराश्च सनभोवन-
पर्वताः । उच्चैः सूर्योदयास्तौ च हेमन्ते शोभनाः
स्मृताः । हिमपातानीलोत्पाता विरूपाद्भुतदर्शनम् ।
कृष्णाञ्जनाभमाकाशं तारोल्कापातपिञ्जरम् । चित्रग-
र्भोद्भवाः स्त्रीषु गोऽजाश्वमृगपक्षिषु । पत्राङ्कुर-
न्नतानां च विकाराः शिशिरे शुभाः । ऋतुस्वभावजा
ह्येते दृष्टाः स्वर्तौ प्रभप्रदाः । ऋतोरन्यत्र चोत्पाता
दृष्टास्ते भृशदारुणाः । उन्मत्तानां च या गाथाः
शिशूनां भाषितं च यत् । स्त्रियो यच्च प्रभाषन्ते तस्य नास्ति
व्यतिक्रमः । पूर्ब्बं चरति देवेषु पश्चाद्गच्छति मानुषान् ।
नाचोदिता वाग्वदति सत्या ह्येषा सरस्वती । उत्पातान्
गणितविवर्जितोऽपि बुद्ध्वा विख्यातो भवति नरेन्द्र-
वल्लभश्च । एतत्तन्मुनिवचनं रहस्यमुक्तं यज्ज्ञात्वा भवति
नरस्त्रिकालदर्शी” ४६ अ० । “दिव्यान्तरिक्षाश्रयमुक्तमादौ
मया फलं शस्तमशोभनं च । प्रायेण चारेषु समाम-
मेषु युद्धेषु मार्गादिषु विस्तरेण । भूयो वराहमिहि
रस्य न युक्तमेतत् कर्तुं समासकृदसाविति तस्य दोषः ।
वज्ज्ञैर्न वाच्यमिदमेव फलानुगीतिर्यद्बर्हिचित्रकमिति
प्रथितं वराङ्गम् । स्वरूपमेव तस्य तत् प्रकीर्तितानुकीर्त-
नम् । ब्रवीम्यहं न चेदिदं तथापि मेऽत्र वाच्यता ।
उत्तरवीथिगता द्युतिमन्तः क्षेमसुभिक्षशिवाय समस्ताः ।
दक्षिणमार्गगता द्युतिहीनाः क्षुद्भयतस्करमृत्युकरास्ते ।
कोष्ठागारगते भृगुपुत्रे पुष्यस्थे च गिराम्प्रभविष्णौ । निर्वैराः
क्षितिपाः सुखभाजः संहृष्टाश्च जना गतरोगाः । पीड़-
यन्ति यदि कृत्तिकां मघां रोहिणीं श्रवणमैन्द्रमेव
वा । प्रोज्झ्य सूर्यमपरे ग्रहास्तदा पश्चिमा दिगनयेन
पीद्ध्यते । प्राच्यां चेद्ध्वजवदवस्थिता दिनान्ते प्राच्यानां
भवति हि विग्रहोनृपाणाम् । मध्ये चेद्भवति हि मध्य-
देशपीड़ा रूक्षैस्तैर्न तु रुचिरैमयूखवद्भिः । दक्षिणां
ककुभमाश्रितैस्तु तैर्दक्षिणापथपयोमुचां क्षयः ।
हीनरूक्षतनुभिश्च विग्रहः स्थूलदेवकिरणान्वितैः शुभम् ।
उत्तरमार्गे स्पष्टमयूखाः शान्तिकरास्ते तन्नृपतीनाम् ।
ह्रस्वशरीरा भस्मसवर्णा दोषकराः स्युर्देशनृपाणाम् ।
नक्षत्राणां तारकाः सग्रहाणां धूमज्वालाविस्फुलिङ्गान्वि-
ताश्चेत् । आलोकं वा निर्निमित्त न यान्ति याति
ध्वंसं सर्वलोकः सभूपः । दिवि भाति यदा तुहिनां-
शुयुगं द्विजवृद्धिरतीव तदाशु शुभा । तदनन्तरवर्णरणो
ऽर्कयुगे जगतः प्रलयस्त्रिचतुःप्रभृति । मुनीनभिजितं
ध्रुवं मघवतश्च भं संस्पृशन् शिखी घनविनाशकृत् कुशल-
कर्महा शोकदः । भुजङ्गममथ स्पृशेद्भवति वृष्टिनाशो
घ्रुवं क्षयं व्रजति विद्रुतो जनपदश्च बालाकुलः ।
प्राग्द्वारेषु चरन् रविपुत्री नक्षत्रेषु करोति च वक्रम् ।
दुर्भिक्षं कुरुते भयमुग्रं मित्राणां च विरोधमवृष्टिम् ।
रोहिणीशकटमर्कनन्दनो यदि भिनत्ति रुधिरोऽथवा
शिखी । किं वदामि यदनिष्टसागरे जगदशेषमुपयाति सङ्क्ष-
यम् । उदयति सततं यदा शिखी चरति भचक्रमशेवमेव वा ।
अनुभवति पुराकृतं तदा फलमशुभं सचराचरं जगत् ।
धनुःस्थायी रूक्षो रुधिरसदृशः क्षद्भयकरो बलोद्योगं
चेन्दुः कथयति जयं ज्यास्य च यतः । अवाक्शृङ्गो
गोघ्नो निधनमपि सस्यस्य कुरुते ज्वलन्धूमायन् वा नृपति-
मरणायैव भवति । स्निग्धः स्थूलः समशृङ्गो विशालस्तु-
ङ्गश्चोदग्विचरन्नागवीथ्याम् । दृष्टः सौर्म्यरशुभैर्विप्रयुक्तो
लोकानन्दं कुरुतेऽतीव चन्द्रः । पित्र्यमैत्रपुरुहूतविशाखा-
त्वाष्ट्रमेत्य च युनक्ति शशाङ्कः । दक्षिणेन न शुभो
हितकृत्स्याद् यद्युदक् चरति मध्यगती वा ।
परिघ इति मेघरेखा या तिर्यग्भास्करोदयेऽस्ते वा ।
परिधिस्तु प्रतिसूर्यो दण्डस्त्वृजुरिन्द्रचापनिभः । उदये
ऽस्ते वा भानोर्ये दीर्घा रश्मयस्त्वमोघास्ते । सुरचा-
पखण्डमृजु यद् रोहितमैरावतं दीर्घम् । अर्द्धास्तमया-
त्सन्ध्या व्यक्तीभूता न तारका यावत् । तेजः परिहानिमुखाद्
भानोरर्द्धोदयं यावत् । तस्मिन् सन्ध्याकाले चिह्नैरेतैः
शुभाशुर्भ वाच्यम् । सर्वैरेतैः स्निग्धैः सद्योवर्षं भयं रूक्षैः ।
अच्छिन्नः परिघो वियञ्च विमलं श्यामा मयूखा रवेः
स्निग्धादीघितयः सितं सुरधनुर्विद्युच्च पूर्बोत्तरा । स्निग्धो
मेघतरुर्दिवाकरकरैरालिङ्गितो वा यदा वृष्टिः स्याद्य-
दि वार्कमस्तसमये मेघो महांश्छादयेत् । खण्डो वक्रः
कृत्स्नो ह्रस्वः काकाद्यैर्वा चिह्नैर्विद्धः । यस्मिन्देशे
रूक्षश्चार्कस्तत्रभावः प्रायो राज्ञः । वाहिनीं समुपयाति
पृष्ठतो मांसभुक् खगगणो युयुत्सतः । यस्य तस्य वलविद्रवो-
महान् अग्रगैस्तु विजयो विहङ्गमैः । भानोरुटये यदि
वास्तमये गन्धर्वपुरप्रतिमा ध्वजिनी । बिम्बं निरुणद्धि
तदा नृपतेः प्राप्तं समरं सभयं प्रवदेत् । शस्ता शान्त
द्विजमृगघुष्टा सन्ध्या स्निग्धा मृदुपवना च । पांशुध्वस्या
पृष्ठ ११२७
जनपदनाशं घत्तेरूक्षा रुधिरनिभा वा । यद्विस्तरेणकथितं
मुनिभिस्तदस्मिन् सर्वं मया निगदितं पुनरुक्तवर्जम् ।
श्रुत्वापि कोकिलरुतं बलिभुग्विरौति यत्तत्स्वभावकृत-
मस्य पिकं न जेतुम्” ४७ अ० । एवमन्येऽप्युत्पाताः
सन्ति विस्तरभयान्नोक्ता आकरे दृश्याः उत्पात विशेषे
सङ्गणकर्मवर्ज्जनकालव्यवस्था रघुनन्देन दर्शिता यथा
“गर्गः । दाहे दिशाञ्चैव धराप्रकम्पे वज्रप्रपातेऽथ
विदारणे वा । धूमे तथा पांशुकरप्रपाते न कारयेन्माङ्गलि-
कादि कार्य्यम् । उल्कापाते च निर्घातेतथैवाकालवर्षणे ।
छिद्रे सूर्य्येविनिर्दिष्टे न कुर्य्यान्मङ्गलक्रियाम् । धूमकेतौ
समुत्पन्ने ग्रहणे चन्द्रसूर्य्ययोः । ग्रहाणां सङ्गरे चैव
न कुर्यान्मङ्गलक्रियाम् । द्विसूर्य्यं वा त्रिसूर्य्यं वा दृष्ट्वा
गगनमण्डले । रात्रौ शक्रधनुश्चैव मङ्गलानि विवर्जयेत् ।
दिग्दाहे दिनमेकञ्च ग्रहे सप्त दिनानि च । भूमिकम्पे च
सम्भूते त्र्यहाणि परिवर्जयेत् । उल्कापाते च त्रितयं
धूमे पञ्च दिनानि च । वज्रपाते दिनमेकं वर्जयेत् सर्वक-
र्म्मसु”! भोजराजः “ग्रहे रवीन्द्वोरवनिप्रकम्पे केतूद्गमो-
लकापतनादिदोषे । ब्रते दशाहानि वदन्ति तज्ज्ञास्त्र-
योदशाहानि वदन्ति केचित्” । “ग्रहणकाले भूकम्पो-
ज्कापातवज्रपातादिदोषसमाहारे त्रयोदशाहं
अशुद्वम् । किञ्चिदूनतत्समाहारेऽपि दशाहम् । ग्रहणाद्ये-
कैकदोषे त्र्यहमिति” वाचस्पतिमिश्राः । अत्र स्मृतिसागर
धृतसारसंग्रहे । “राज्यादिममहासिद्धौ यज्ञदानतपःसु
च । होमस्वाध्याययोश्चैव वर्जयेद्दशरात्रकम् । लक्षहोमे
महादाने वर्जयेत् सोमके मखे । तपःस्वाध्याययोश्चैव
चिरारम्भे त्रयोदश” इति व्यवस्था अन्यत्र । “उल्का-
पाते भुवः कम्पे अकालवर्षगर्जिते । वज्रकेतूद्गमोत्पाते
ग्रहणे चन्द्रसूर्य्ययोः । प्रयाणन्तु त्यजेत् क्षत्रः सप्तरात्र-
मतः परम् । ब्राह्मणः क्षत्रियो वैश्यस्त्यजेत् कर्म त्रिरा-
त्रकम् । शुद्रस्त्यक्त्वा चैकरात्रं सर्व कर्म्म समाचरेत्” ।
पराशरः । “प्रयाणे सप्तरात्रं स्यात् त्रिरात्रं ब्रतब-
न्धने । एकरात्रं परित्यज्य कुर्यात् पाणिग्रहं ग्रहे” ।
भृगुः । “राजन्यानां तु सप्ताहं ब्राह्मणानां त्र्यहन्तथा ।
शूद्रस्यार्द्धदिनं प्रोक्तं सर्वकार्य्येषु वै भृगुः” । शूद्रस्याप-
द्विषयम् । कम्प इत्युपलक्षणम् । ग्रहणादावप्येवमेवान्यत्रै
कत्र पठितत्वात्” मल० त० । पीयूषधारायां तु विशेष
उक्तः । नारदः “अनिष्टे त्रिविधोत्पाते सिंहिका
सुतदर्शने सप्तरात्रं न कुर्वीत यात्रोद्वाहादि मङ्गलम्”
वविष्ठः सर्व्वग्रासे दिनान्यष्टौ सर्व्वकार्य्येषुवर्जयेत् ।
षट्दिनानि त्रिभागोने अर्द्धग्रासे चतुर्द्दिनम् । चतुर्थांशे
त्रिरात्रं स्यात्र ग्रहणे चन्द्रसूर्य्ययोः” नारदः
“उत्पातग्रहणादूर्द्ध्वं सप्ताहं निखिले त्यजेत्” । अङ्गिराः
“सर्व्वग्रासे तु सप्ताहमर्द्धग्रासे दिनत्रयम् । त्रिद्व्ये
काङ्गुलतोग्रासे दिनमेकं तु वर्जयेत्” “अनयोर्विषयव्यवस्था
देशभेदेनाचारभेदेन चावगन्तव्या” पी० धा० । अत्या-
वश्यककार्य्ये परिहारस्तत्रोक्तः ज्योतिर्निवन्धे “दिनानि
पञ्च वसिष्ठस्त्रिदिनं गर्गस्तु कौशिकस्त्वेकम् । यवना
चर्य्यस्य मते पञ्च मुहूर्त्तांश्च दूषयति” । प्रागुक्तवराह
प्रदर्शित शुभोत्पातैदुंष्टमेव दिनं वर्ज्यम् । “शुभदोत्पा-
तैश्च दुष्टं दिनम्” मुहू० चि० उक्तेः । एवञ्च स्मार्त्तादि-
व्यवस्थापितं विवाहे ग्रहणे एकदिनवर्ज्जनम् अल्पग्रास
बिषयमापद्विषयं वा उक्तवचनजातसामञ्जस्यात् ।
ग्रस्तादिविषये विशेषः ग्रहणशब्दे वक्ष्यते “एकताल-
इवोत्पातपवन प्रेवितोगिरिः” रघुः । ओषामासे
मत्सरोत्पातवातः” माघः । “उत्पातेन ज्ञापिते च”
पा० । “उत्पातग्रहदुष्टञ्च” ज्यो० ।

उत्पातक त्रि० उत्पातयति उत्पातं जनयति उद् +

पतणिच् ण्वुल् १ उत्पातजनके उद् + पत--ण्वुल् ।
२ ऊर्द्धपतनशीले च । “दंशोत्पातकभल्लूकमक्षिकामशका-
वृतम्” । भा० स्वर्गा० २ अ० ।

उत्पाद पु० उतु + पद--भावे घञ् । १ उत्पत्तौ “दुःखे च

शोणितोत् पादे शाखाङ्गच्छेदने तथा” या० उत्पत्तिश-
ब्दे विवृतिः उत्क्षिप्तःपादोऽनेन । “उत्क्षिप्तपादे त्रि० ।

उत्पादक यु० ऊर्द्ध्वस्थिताः पादा अस्य कप् । अष्टपदे

शरभाख्ये गजारातौ १ पशुभेदे तस्य पृष्ठस्थचतुश्चरणत्वादूर्द्ध
पादत्वम् । उत्--पद--णिच्--ण्वुल् । २ पितरि पु० । ३
उत्पादनकर्त्तरि त्रि० । “उत्पादकब्रह्मदात्रोर्गरीयान्
ब्रह्मदः पिता” “आहुरुत्पादकं केचिदपरे क्षेत्रिणं
विदुः” “नोत्पादकः प्रजाभागी तथैवान्याङ्गनास्वपि”
मनुः । स्त्रियां टापि अत इत्त्वम् । उत्पादिका ४
उत्पादकस्त्रियां ५ हिलभोचिकायां शब्दचि० ६ पूतिकायां
भरतः ७ देहिकानामकीटे च स्त्री त्रिका० ।

उत्पादन न० उद् + पद--णिच्--ल्युट् । जनने उत्पत्तिक-

रणे “उत्पादनमपत्यस्य जातस्य पालनम् तथा” मनुः

उत्पादशय पु० उत्पादः ऊर्द्ध्वक्षिप्तपादः सन् शेते शी-ल्यु ।

(टिटिर) १ टिट्टिभपक्षिणि हेमच० । २ शिशौ च । तयोः
उत्तानपादतया शयनात्तथात्वम् । उत्पादं शयनमस्य
उत्पादशयनोऽप्यत्र ।
"https://sa.wikisource.org/w/index.php?title=वाचस्पत्यम्/उत्तमा&oldid=57667" इत्यस्माद् पुनः प्राप्तिः