पृष्ठ ११६३

उदार त्रि० उद् + आ + रा--क । १ दातरि, २ महति, ३ सरले,

५ दक्षिणे, ५ गम्भीरे, ६ असाधारणे च । “मञ्जर्य्युदारा
शुशुभेऽर्ज्जुनस्य” “सतथेति विनेतुरुदारमतेः” साकेती-
पवनमुदारमध्युवास” “रघुः उदारमन्ते कलभाविकस्वरैः”
माघः । “ईप्सितार्थक्रियोदारं तेऽभिनन्द्य गिरेर्बचः”
“तथा हि ते शीलमुदारदर्शने!” कुमा० । ततो भावे ष्यञ्
औदार्य्य न० तल् उदारता स्त्री त्व उदारत्व न० तद्भावे ।

उदारथि उद् + आ + ऋ--अथिन् । ऊर्द्ध्वमागन्तरि । “करम्भ

ओषधे भव पीवो वृक्व उदारथिः” ऋ० १, १८७, १०, “करम्भं
कृत्वा तिर्य्यं पीवस्फाकमुदारथिम्” अथ० ४, ७, ३ ।

उदारधी स्त्री उदारा धीः । १ उत्कृष्टबुद्धौ उदारा धीर्यस्य ।

२ उत्कृष्टबुद्धिमति त्रि० “धियः समग्रैः स गुणैरुदारधीः ।
रघुः । उदारा महती सर्वार्थविषयत्वात् धीर्यस्य ।
३ विष्णौ पु० । “निमेषोऽनिमिषः स्रग्वी वाचस्पतिरुदा-
रधीः” विष्णु स० “यः सर्वज्ञः सर्वविदिति” श्रुतेस्तस्य
सर्वार्थविषयबुद्धिमत्त्वात्तथात्वम् ।

उदावर्त्त पु० उद् + आ + वृत--घञ् । रोगभेदे तल्लक्ष्मादि

सुश्रुते दर्शितं यथा
“अथात उदावर्त्तप्रतिषेधमध्यायं व्याख्यास्यामः ।
अधश्चोर्द्ध्वञ्च भावानां प्रवृत्तानां स्वभावतः । न वेगान्
धारयेत्प्राज्ञो वातादीनां जिजीविषुः । वातविण्मूत्रजृम्भाश्रुक्ष-
वोद्गारवमीन्द्रियैः । व्याहन्यमानैरुदितैरुदावर्त्तो निरुच्यते ।
क्षुत्तृष्णाश्वासनिद्राणामुदावर्त्तो विधारणात् । तस्याभि-
धास्ये व्यासेन लक्षणञ्च चिकित्सितम् । त्रयोदशविधश्चासौ
भिन्न एतैस्तु कारणैः । अपथ्यभोजनाच्चापि वक्ष्यते
च तथापरः । आध्मानशूलौ हृदयोपरोधं शिरोरुजं
श्वासमतीव हिक्काम् । कासप्रतिश्यायगलग्रहांश्च बलासपित्त-
प्रसरञ्च घोरम् । कुर्य्यादपानाभिहतः स्वमार्गे हन्यात्पुरीषं
मुखतः क्षिपेद्वा । आटोपशूलौ परिकर्त्तनञ्च सङ्गः पुरीषस्य
तथोर्द्ध्ववातः १ । पुरीषमास्यादपि वा निरेति पुरीषवेगेऽ-
भिहते २ नरस्य । मूत्रस्य वेगेऽभिहते ३ नरस्तु कृच्छ्रेण
मूत्रं कुरुतेऽल्पमल्पम् । मेढ्रे गुदे वङ्क्षणमुष्कवोश्च नाभि-
प्रदेशेष्वथ वापि मूर्द्ध्नि । आनद्धवस्तिश्च भवन्ति तीव्राः
शूलाश्च शूलैरिव भिन्नमूर्त्तेः । मन्यागलस्तम्भशिरोविकारा
जृम्भोपघातात् ४ पवनात्मकाः स्युः । श्रोत्राननघ्राणविलो-
चनोत्था भवन्ति तीव्राश्च तथा विकाराः । आनन्दजं
शोकसमुद्भवं वा नेत्रोदकं ५ प्राप्तममुञ्चतो हि । शिरोगुरुत्वं
नयनामयाश्च भवन्ति तीव्राः सह पीनसेन । भवन्ति गाढं
क्षवयोर्व्विघातात् ६ शिरोऽक्षिनासाश्रवणेषु रोगाः । कण्ठा-
स्यपूर्णत्वमतीव तोदः कूजश्च वायोरथ वा प्रवृत्तिः ।
उद्गारवेगेऽभिहते ७ भवन्ति जन्तोर्व्विकाराः पवनप्रसूताः ।
छर्देर्व्विघातेन ८ भवेच्च कुष्ठं तेनैव दोषेण विदग्धमन्नम् ।
मूत्राशये वा गुदमुष्कयोश्च शोफो रुजा मूत्रविनिग्रहश्च ।
शुक्राश्मरी तत्स्रवणं भवेद्वा ते ते विकारा विहते तु
शुक्रे ९ । तन्द्राङ्गमर्दावरुचिः श्रमश्चक्षुधोऽभिघातात् १०
कृशता च दृष्टेः । कण्ठास्यशोषः श्रवणावरोधस्तृष्णाभिघा-
तात् ११ हृदये व्यथा च । श्रान्तस्य निश्वासविनिग्रहेण १२
हद्रोगमोहावथ वापि गुल्मः । जृम्भाङ्गमर्दो ङ्गशिरो-
ऽक्षिजाड्यं निद्राभिघातादथ १३ वापि तन्द्रा । तृष्णादितं
परिक्लिष्टं क्षीणं शूलैरभिद्रुतम् । शकृद्वमन्तं मतिमा-
नुदावर्त्तिनमुत्सृजेत् । सर्वेष्वेतेषु “विधिवदुदावर्त्तेषु
कृत्स्नशः । वायीः क्रियाविधातव्या स्वमार्गप्रतिपत्तये” ।
उद्न उदकस्यावर्त्तः । २ जलस्य स्वतोभ्रमणे । ३ स्त्रीचिह्न-
रोगभेदे स्त्री सा च सुश्रुते दर्शिता यथा “विंशतिर्व्याप-
दोयोनेर्न्निर्दिष्टा रोगसङ्ग्रहे । मिथ्याचारेण ता स्त्रीणां
प्रदुष्टेनार्त्तवेन च । जायन्ते वीजदोषाच्च दैवाच्च शृणु ताः
पृथक् । उदावर्त्ता तथा बन्ध्या विप्लुता च परिप्लुता ।
वातला चेति वातोत्था पित्तोत्था रुधिरक्षरा । वामिनी
स्रंसिनी चापि पुत्त्रघ्नी पित्तला च या । अत्यानन्दा च
या योनिः कर्णिनी चरणाद्वयम् । श्लैष्मिका सकपा ज्ञेया
षण्डी च फलिनी तथा । महती सूचिवक्त्रा च सर्वजेति
त्रिदोषजा” । “सफेनिलमुदावर्त्ता रजः कृच्छेणमुञ्चति” ।

उदावसु पु० निमिवंश्ये नृपभेदे । “निमिः परमधर्मात्मा सर्वसत्व-

वतां वरः । तस्य पुत्रोमिथिर्नाम बभूवानुपमद्युतिः । तस्यापि
जनकोनाम जनकस्याप्युदावसुः” रामा० निमिवंशवर्णने ।
अयञ्च जनकः प्रसिद्धजनकाद्भिन्न एव तत्रैवान्ते “स्वर्ण्ण-
रोम्णोऽभवच्चापि ह्रस्वरोमा सुतो बली । तस्य पुत्रद्वयं जज्ञे
धर्मज्ञस्य महात्मनः । ज्येष्ठोऽहमनुजश्चायं भ्राता भम
कुशध्वज इति” दशरथं प्रति स्वकुलकीर्त्तने जनकोक्तौ अहं
शब्देनात्मनः कीर्त्तनेन ततो भेदप्रतीतेः ।

उदास पु० उद् + अस--घञ् । १ उत्पेक्षणे २ निरसने ३ उपेक्षायाञ्च ।

उदासीन त्रि० उद् + आस--शानच् । १ मध्यस्थे, २ विवदमानयो

रेकतरपक्षानवलम्बके, जिगीषोर्नृपतेः शत्रुमित्रभूमितो
व्यवहिते परतरे, अरिशब्दे ३५५ पृ० दर्शिते “मण्डला-
द्बहिरेतस्मादुदासीनोबलाधिकः” इत्युक्त लक्षणे ३ राजभेदे ।
४ उपेक्षके च “उदासीनवदासीनः” गीता० ।
पृष्ठ ११६४

उदास्थित पु० उद् + आ + स्था--क्त । १ द्वारप्राले २ चरे

३ अध्यक्षे च हेम० प्रव्रज्यारूढपतिते ४ प्रव्रज्यावसिते चरे च
स च पञ्चविधचरान्तर्गतः । प्रव्रज्यावसितः प्रव्रज्यारूढ-
पतित एव । तल्लक्ष्मादि “कृत्स्नं चाष्टविधं कर्म पञ्चवर्गञ्च
तत्त्वतः” इति मनुवचनस्य कुल्लू० व्याख्यायाम्
“कापटिकोदास्थितगृहपतिवैदेहिकतापसव्यञ्जनात्मकं
पञ्चविधं चारवर्गं पञ्चवर्गशब्दवाच्यं तत्त्वतश्चिन्तयेत्”
इति संक्षेपेणोक्त्वा । तत्र परमर्म्मज्ञः प्रगलभच्छात्रः
कपटव्यवहारित्वात्कापटिकस्तं वृत्त्यर्थिनमर्थमानाभ्यामुपगृह्य
रहसि राजा ब्रूयात् “यस्य दुर्वृत्तम्पश्यसि तत्तदानीमेव
मयि वक्तव्यमितिं । प्रव्रज्यारूढ़पतित उदास्थितः तं
लोकेषुविदितदोषं प्रज्ञाशौचयुक्तं वृत्त्यर्थिनं ज्ञात्वा रहसि
राजा पूर्ववद्ब्रूयात् बहूत्पत्तिकमठे स्थापयेत् प्रचुर
शस्योत्पत्तिकम्भूम्यन्तरञ्च तद्वृत्त्यर्थमुपकल्पयेत् सचान्येषा-
मपि पब्रजितानां राजचारकर्मकारिणां ग्रासाच्छादना-
दिकं दद्यात् । कर्षकः क्षीणवृत्तिः प्रज्ञाशौचयुक्तो
गृहपतिव्यञ्जनस्तमपि पूर्ववदुक्त्वा स्वभूमौ कृषिकर्म्म
कारयेत् । बाणिजकः क्षीणवृत्तिः वैदेहिकव्यञ्जनस्तम्पूर्ववदुक्त्वा
धनमानाभ्यामात्मीकृत्य बाणिज्यं कारयेत् । मुण्डोजठि-
लोवा वृत्तिकामस्तापसव्यञ्जनः सोऽपि क्वचिद्ग्रामे वसन्
बहुमुण्डजटिलान्तरकपटशिष्यगणवृतो गुप्तराजोपकल्पि-
तवृत्तिः तपस्यां कुर्य्यात् मासद्विमासान्तरितं प्रकाशं
वदरादिमुष्टिमश्नीयात् रहसि च राजोपकल्पितं यथेष्ट
माहारं कल्पयेत् । शिष्याश्चास्यातीतानागतज्ञागादिकं
ख्यापयेयुः तेन बहुलोकवेष्टनमासाद्य सर्वेषां विश्वसनीय
त्वात् सर्वे कार्य्यमकार्य्यञ्च पृच्छन्ति । एवंरूपं पञ्चवर्गं
यथावच्चिन्तयेत्” विशेषेणोक्तम् ।

उदाहरण न० उद् + आ--हृ--भावे ल्युट् । एकदेशप्रसिद्ध्या

सकलसिद्ध्यर्थं १ कथने । कर्मणि ल्युट् । इष्टसिद्ध्यर्थमुच्य-
माने २ दृष्टान्ते, “त्वदुदाहरणाकृतौ गुणा इति सामुद्रिक-
सारमुद्रणा” नैव० प्रकृतसिद्ध्यर्थं निदर्शनरूपे ३ उपोद्घाते
च । उदाह्रियेते व्याप्तिपक्षधर्म्मते येन करणे ल्युट्
न्यायमते प्रतिवादिपराजयार्थं वादिना प्रयुक्तप्रति-
ज्ञादिपञ्चकान्तर्गते व्याप्तिपक्षधर्म्मताप्रदर्शके ४ वाक्यभेदे
प्रतिज्ञादय गौ० सू० वृत्त्योर्दर्शिता यथा
“प्रतिज्ञाहेतूदाहरणोपनयनिगमनान्यवयवाः” । अनेन
विभागेन प्रतिज्ञाद्यन्यतमत्वमिति लक्षणं सूचितम् अत्र
च प्रतिज्ञादीनां पञ्चानामवयवत्वकथनाद्दशावयववादोव्यु-
दस्त इति मन्तव्यं ते च भाष्ये दर्शिता यथा “जिज्ञा
सा संशयः शक्यप्राप्तिः प्रयोजनं सशयव्युदासश्चेति” एते
प्रतिज्ञादिसहिता दश” व्याख्यातं चेदं तात्पर्य्यटीकायाम्
“प्रयोजनं हानादिबुद्धयः तत्प्रवर्त्तिका जिज्ञासा, तज्जनकः
संशयः, शक्यप्राप्तिः प्रमाणानां ज्ञानजननसामर्थ्यं, संशय-
व्युदासस्तर्कः, अयमेवार्थोनिबन्धे निष्टङ्कितः । जिज्ञासा
विप्रतिपत्तिरिति कश्रित् एतेषाञ्च न न्यायावयवत्वं
न्यायाघटकत्वात् । न न्यायजन्यबोधानुकूलत्वेनैवा वयवत्वं
एकदेशस्यापि तत्त्वप्रसङ्गात् प्रयोजनेऽतिव्याप्तेश्च” वृत्तिः ।
तत्र उदाहरणलक्षणविभागौ तत्रैव दशितौ यथा
“साध्यसाधर्म्म्यात्तद्धर्म्मभावी दृष्टान्तौदाहरणम्” सू० ।
“दृष्टान्तौदाहरणमिति लक्षणं दृष्टान्तवचनं दृष्टान्तकथ-
नयोग्यावयव इत्यर्थः तेन दृष्टान्तस्य सामयिकत्वेनासार्वत्रि-
कत्वेऽपि न क्षतिः । योग्यतावच्छेदकन्तु अवयवान्तराथा-
नन्वितार्थकावयवत्वं तच्च द्विविधं अन्वयिव्यतिरेकिभेदात्त-
त्रान्वय्युदाहरणं लक्षयति साध्यसाधम्म्योत्तद्धर्म्मभावीति
अन्थय्युदाहरणमिति शेषः परे तु सम्पूर्णसूत्रमन्वय्युदाहरण
लक्षणमेव सामान्यलक्षण तूह्यमित्याहुः साध्यसाधर्म्म्या
त्साध्यसहचरितधर्म्मात् प्रकृतसाधनादित्थर्थः तं साध्य-
रूपं धर्म्मं भावयति तथा च साधनवत्ताप्रयक्तसाध्यव-
त्तानुभावकोऽवयवः साध्यसाधनव्याप्त्युपदर्शक उदाहरण-
मिति यावत् । व्यतिरेक्युदाहरणं लक्षयति” वृ० । “तद्विप-
र्य्यायाद्वा विपरीतं व्यतिरेक्युदाहरणम्” सू० । तद्विपर्य्ययात्
साध्यसाधनव्यतिरेकव्याप्तिप्रदर्शनात्तथा च साध्यसाधनव्य-
तिरेकव्याप्त्युपदर्शकोदाहरणं व्यतिरेक्युदाहरणं यथा
जीवच्छरीरं सात्मकं प्राणादिमत्त्वात् यन्नेवं तन्नैवं
यथा घट इति । वाकारः प्रयोगमपेक्ष्य तथा चान्वय्यु-
दाहरणं व्यतिरेक्युदाहरणं वा प्रयोक्तव्यतिमित्यर्थः” वृ० ।
चिन्तामणिकृता तु तल्लक्षणादिकमुक्तं यथा
“हेतावुक्ते कथमस्य गमकत्वमित्याकाङ्क्षायां व्याप्तिपक्ष-
धर्म्मतयोः प्रदर्शनप्राप्तौ व्याप्तेः प्राथम्यात् तत्प्रदर्शनायो-
दाहरणं तत्रानुमितिहेतुलिङ्गपरामर्शपरवाक्यजन्यज्ञान-
जनकव्याप्यत्वाभिमतवन्निष्ठनियतव्यापकत्वाभिमतसम्बन्धबोध-
जनकशब्दत्वमुदाहरणत्वं सामान्यलक्षणम् साध्यसाधन-
सम्बन्धबोधकत्वं, साध्यसाधनाभावसम्बन्धबोधकत्वञ्च विशेष-
लक्षणद्वयम् । न्यायावयवदृष्टान्तवचनमुदाहरणमिति तु
पृष्ठ ११६५
म दृष्टान्तप्रयोगस्य सामयिकत्वेनासार्व्वत्रिकत्वात्, योयो-
धूमवान् सोऽग्निमानित्येव व्याप्तिप्रतीतेः । नापि प्रकृतानु-
मितिहेतुलिङ्गपरामर्शपरवाक्यजन्यज्ञानविषयव्याप्त्युपना-
यकं वचनं तत्, उपनयातिव्याप्तेः । उपनयाभिधान-
प्रयोजकजिज्ञासाजनकबाक्यमुदाहरणम् एतदेवान्वयव्यति-
रेकिव्याप्तिविषयत्वविशेषित विशेषलक्षणद्वयमित्यन्ये, अत्र
च व्यभिचारवारणाय वीप्सामाहुः यत्र च सामानाधि-
करण्यादेव व्याप्तिस्तत्र न वीप्सा केबलान्वयिन्यभेदानुमाने
च वीप्सायामपि व्यभिचारतादवस्थ्यमिति तु वयं, वीप्सा च
यत्पद, न तपदेऽपि विरुद्धरूपोपस्थितयोरपि तत्पदेन
परामर्शाद्बुद्धिस्थवाचकत्वादिति न व्युत्पत्तिविरोधः यथा
“यद्यत् पापं प्रतिजहि जगन्नाथ! नम्रस्य तन्म इत्यादौ” ।
दीधितिकृता तु निष्कृष्योक्तम् । इतरार्थान्वितस्वार्था-
बोधकन्यायावयवत्वमुदाहरणत्वम् अन्वयव्याप्तियोधक
तत्त्वं व्यतिरेकव्याप्तिबोधकतत्त्वञ्च विशेषलक्षणद्वयमिति” ।
४ कथाप्रसङ्गे च । “अथाङ्गिरसमग्रण्यमुदाहरणवस्तुषु”
कुमा० “उदाहरणानि कथाप्रसङ्गाः तान्येववस्तूनि” मल्लि० ।
भावे ल्युट् । ५ कथनमात्रे । ६ लक्षणसम्बद्धतया प्रामाणिक-
वाक्योपन्यासे च ।

उदाहार पु० उद् + आ + हृ--घञ् । उदाहरणार्थे । क्तिन् । उदाहृति तत्रार्थे उक्तौ च स्त्री ।

उदाहृत त्रि० उद् + आ + हृ--क्त । १ दृष्टान्ततयोपन्यस्ते,

२ कथिते च “श्रुतान्वितो दशरथ इत्युदाहृतः” भट्टिः ।
प्रामाणिकप्रयुक्ततया ३ उपन्यस्तेच ।

उदित त्रि० वद--क्त । १ कथिते । “श्रुतिस्मृत्युदितं धर्मम्” मनुः

भावे क्त । २ कथने न० “पियः कियद्दूरमिति त्वयोदिते”
नष० उद्--इण्--क्त । ३ उत्थिते, “तदुदितः स हि यो
यदनन्तरः” नैष० । ४ उदयं प्राप्ते “उदिते जुहोति अनुदिते
जुहोति” श्रुतिः “उदितेऽनुदिते चैव समयाध्युषिते तथा”
मनुः । “उदिते जगतीनाथे यः कुर्य्याद्दन्तधावनम्”
स्मृतिः । “उदितं सोमनक्षत्रं दृष्टा सद्यः शुचिर्भवेत्” ।
पारस्क० उदयप्राप्तिश्च ग्रहादौ भूवृत्तपादान्तरितदेशो-
परिस्थे एव भवति सा च दिवा न भवति सहस्नांशुकरा-
भिभूतत्वेन दर्शनयोग्यचाभावात् । तथा च दर्शनयोग्ये
ग्रहादौ तच्छब्दस्य वृत्तिः । “उदिते मृतिसद्मेशे” नील० क०
“चतुथ्योमुदितश्चन्द्रोनेक्षितव्यः कदाचन” इति व्याख्याने
“उदितः कथितः” इति अर्द्धोदितव्यावृत्तिपरं वेति ति० त०
उक्ते ५ मम्पूर्णोदिते च त्रि० भावे क्तः । ६ राशीनामुदये
उग्ने । कर्त्तरिक्त । उदयं प्राप्ते ७ राशी च । “लक्ष-
मेकन्तु दोषाणां हन्याच्चैवोदिते गुरुः” ज्योति० ८ नरपति-
जयचर्य्योक्ते स्वरभेदे स च भुक्तावशिष्टःस्वरः यथा । “द्वाद-
शाब्दादिनाड्यन्ताः स्वस्थानाच्चैव कालतः । उदयन्ते
पुनस्तत्रान्तरे एकादशोदयैः । वर्षमासदिवानाडीपलानि
च क्रमादिकम् । कालमानं मया प्रोक्तं पञ्चधा च
स्वरोदये । यत् भुक्तं स्वस्वभोगेन लब्धं शेषोदितं
भवेत् । लब्धे भुक्ताः स्वरा ज्ञेयाः शेषाङ्के तूदितस्वराः ।
अस्मिन् षष्ठ्या विभक्ते तु भुक्तं स्यादुदितस्वरे । उदितस्य
स्वरस्य स्युर्नामस्वरवशेन तत्” । अधिकं चक्रशब्दे बाला-
दिचक्रे बक्ष्यते । पञ्चस्वरोक्ते ९ स्वरभेदे च । तल्लेखन
प्रकारश्च बालादिचक्रवत ज्ञेयः । तदप्युक्तं तत्रैव । “तिथिः
प्रतिपदादिश्च कुजादिर्वारनिर्णयः । नन्दा भदा
जयारिक्ता पूर्ण्णा चापि यथाक्रमम् । क्रमेणाङ्काः प्रदातव्या
ग्राह्यश्चाङ्कसमुच्चयः । चन्द्राष्टौ ८१ प्रथमे देया नगनागं
८७ द्वितीयके । तृतीये चाग्निनवकं ९३ चतुर्थे तु ग्रह-
ग्रहाः ९९ । पञ्चोत्तरशतं १०५ देयम् क्रमेण पञ्चकोष्ठतः ।
अङ्कग्रहणन्तु “वयोराशिं स्वराङ्कञ्च एकीकृत्य त्रिधार्पयेत्” ।
इत्यादि सप्तादिशून्यगणनार्थं, सप्तशून्यशब्दे विवृतिः ।
एतेषां पञ्चकोष्ठस्थवर्ण्णादीनां संज्ञा तत्रैवोक्ता यथा
“उदितं भ्रमितं भ्रान्तं सन्ध्यास्तं तदनन्तरम्” सं
ज्ञान्तरमपि तत्रैव “जन्म कर्म्म च आधानं पिण्डं छिद्रं
तथैव चेति “उदिते विजयोनित्यं भ्रमिते लाभ एव च ।
भ्रान्ते तु सिद्धिमाप्नोति सन्ध्यास्ते मरणं स्मृतम् । यत्र
नामाक्षरं प्राप्तं तत्रैव उदितस्वरः । १० समृद्धे । “पुरो-
हितञ्च कुर्व्वीत दैवज्ञमुदितोदितम्” या० स्मृ० । विद्या-
भिजनानुष्ठानादिभिरुदितैः शास्त्रोक्तैरुदितं समृद्धम्”
मिता० । ११ वालनामगन्धद्रव्ये ह्रीवेरे (बाला) न० अमरः ।

उदिति स्त्री उद् + इ--क्तिन् । उदये उद्गमने “यज्ञस्य वा

मिशितिं वोदितिं वा” ऋ० ६, १५, ११ ।

उदीक्षण न० उद + ईक्ष--ल्युट् । १ ऊर्द्ध्वदर्शने २ उद्भावने च ।

उदीक्ष्य अव्य० उद् + ईक्ष--ल्यप् । १ ऊर्द्ध्वं दृष्ट्वेत्यर्थे २ उद्भाव्ये-

त्यर्थे च । कर्मणि ण्यत् । ३ उद्भावनीये ४ उदीक्षणीये च त्रि०

उदीचीन त्रि० उदीचि उदीच्यां वा मवः खः उद्यादेशे

अल्लोपे पूर्ब्बदीर्षः । उत्तरदिग्देशकालभवे ।
“उदीचीनप्रबणे करोत्युदीत्ती वै मनुष्याणां दिक्” शत०
ब्रा० १३८, १, ६ । “उदीचानदशं वै तत्पवित्र भवति”
शत० ब्रा० १, ७, १, १३ ।
पृष्ठ ११६६

उदीच्य त्रि० उदच् + भवार्थे यत् उद्यादेशः अल्लोपे दीघः

उत्तरदिग्देशकालभवे । “शरैरुस्रैरिवोदीच्यानुद्धरिष्यन्
रसानिव” रघुः । २ कर्मसमाप्तौ कर्त्तव्ये दक्षिणादिदा-
नादिरूपे कर्मादौ च । “अश्वतरीरथानुदीच्येषु” कात्या०
२२, २, २५ । “अश्वतरीयुक्तान् रथानुदीच्येषु ददाति”
कर्कः । यथा होमादौ प्रकृतहोमानन्तरं कर्त्तव्योदकाञ्ज-
लिसेकदि । यथाह सं० त० “अथोदीच्यकर्म, तत्र
गोभिलः । “समिधमाधायानुपर्य्युक्ष्य तथैवोदकाञ्जलीन्
सिञ्चेत् अन्वमंस्थाः” इति यथायथमूह्यम् । उदीच्यदेशाश्च
शरावत्याः पश्चिमोत्तरस्था देशभेदास्ते च मत्स्यपुराणे दर्शिताः
यथा “वाह्लीका वाटधानाश्च आभीराः कालतोयकाः ।
परन्ध्राश्चैव शूद्राश्च पह्लवाश्चात्मखण्डिकाः । गान्धारा
जवनाश्चैव सिन्धुसौवीरमद्रकाः । शका द्रुह्याः पुलिन्दाश्च
पारदा हारमूर्त्तिकाः । रामठाः कण्ठकाराश्च केकया
देशभानिकाः । क्षत्रियोपनिवेशाश्च वैश्यशूद्रकुलानि च ।
आत्रेयोऽथ भरद्वाजः प्रस्थलाः सदशेरकाः । लम्पकास्तल-
गानाश्च सैनिकाः सहसाकुजैः एते देशा उदीच्यास्तु पुराणैः
परिकीर्त्तिताः” । वृहत्सं० कूर्म्मविभागे तु अन्येएव ते उक्ता
यथा “उत्तरतः कैलासो हिमवान्वसुमान् गिरिर्धनुष्मांश्च ।
क्रौञ्चो मेरुः कुरवस्तयोत्तराः क्षुद्रमीनाश्च । केकयव-
सातियामुनभोगप्रस्थार्जुनायनाग्नीध्राः । आदर्शान्तद्वी-
पित्रिगर्ततुरगाननाश्वमुखाः । केशधरचिपिटनासिकदा-
सेरकवाटधानशरधानाः । तक्षशिलापुष्कलावतकैलावत-
कण्ठधानाश्च । अम्बरमद्रकमालवपौरवकच्छारदण्डपि-
ङ्गलकाः । माणहलहूणकोहलशीतकमाण्डवभूतपुराः ।
गन्धारयशोवतिहेमतालराजन्यखचरगव्याश्च । यौधेय-
दासमेयाःश्यामाकाः क्षेमधूर्त्ताश्च” अनयोर्विरोधपरि-
हारः अपेक्षाभेदात् नामान्तरानुल्लेखाच्च बोध्यः ।

उदीच्यवृत्ति स्त्री “षड़्विषमेऽष्टौ समे कलास्ताश्च समे स्युर्नो

निरन्तराः । न समात्र पराश्रिता कला वैतालीयेऽन्ते रलौ
गुरुः” इत्युपक्रम्य “उदीच्यवृत्तिर्द्वितीयलः सक्तोऽग्रेण
भवेदयुग्मयोः” वृ० र० उक्ते वैतालीयभेदे छब्दसि ।

उदीप त्रि० उद्गता आपोयतः अच् समा० ईत्वम् । उद्गतजले देशे ।

उदीरण न० उद् + ईर--ल्युट् । १ उच्चारणे “उद्घातः

प्रणवोयासां न्यायैस्त्रिभिरुदीरणम्” कुमा० युच् तत्रैव स्त्री ।

उदीरित त्रि० उद् + ईर--क्त । १ कथिते २ उद्रिक्ते ३ प्रेरिते च ।

“अभिलाषमुदीरितेन्द्रियः” कुमा० । भावे क्त । ४ कथने न० ।

उदीर्ण त्रि० उद्--ऋ--क्त । १ उदिते २ महति ३ उद्रिक्ते च ।

“उदीर्णरागप्रतिरोधकं मुहुः” माघः । “भवल्लब्धवरो-
दीण्णस्तारकाख्यो महासुरः” कुमा० । ४ विष्णौ पु० ।
“उदीर्ण्णः सर्वतश्चक्षुरनीशः शाश्वतःस्थिरः” विष्णु० स० ।

उदुत्य न० उदुत्यमितिपदयुक्तम् । सृर्य्योपस्थानार्थे मन्त्रे स च

सन्ध्याप्रयोगे दृश्यः “उद्वयन्तमुदुत्यञ्च चित्रं देवेति
तत्परम् । तच्चक्षुरित्युपस्थानं मन्त्रा ब्रध्नस्य सिद्धिदाः ।
काशीख० ।

उदुम्बर पु० उडुम्बरवत् । (यज्ञडुमुर) १ वृक्षे । २ देहल्यां

३ नपुंसके ४ कुष्ठभेदे च ५ ताम्रे न० । ६ अशीतिरत्तिकापरि-
मिते कर्षे पु० । उडुम्बरशब्दे उदा० । “यदुदुम्बरवर्णानां
घटीषु मण्डलं महत् । शीतं न गमयेत् स्वर्गं किन्तत्
क्रतुगतं नयेत्” । सौत्रमणीयागे सुरापाणदुष्टत्वबोधकम् ।
“ह्रीवेरचक्रमञ्जिष्ठोदुम्बरत्वक्षु साधितम्” । कच्छुरामूल-
कल्कं वा उदुम्बरफलोपमम्” सुश्रुतः । ७ साल्वजनपदा-
वयवे च । “साल्वावयवेत्यादि” पा० ततोभवाद्यर्थेइञ् ।
औदुम्बरि तद्भवे त्रि० “साल्वावयवा उदुम्बरादयः” सि० कौ०
उदुम्बर एव स्वार्थे अण् तस्मिन् ग्रामे । “औदुम्बरका-
पिष्ठलगजाह्वयश्चेति मध्यमिदम्” वृ० सं० । उदुम्बरे
कृमिः पात्रेसमि० स० । उदुम्बरकृमिः तन्मध्यस्थकृमौ ।
उडुम्बर इव मशकः पात्रेसमिता० स । स्थूलमशके पु०

उदुम्बरदला स्त्री उदुम्बरस्येव दलमस्याः । दन्तीवृक्षे राजनि०

उदुम्बरपर्ण्णी स्त्री उडुम्बरपर्णीवत् सर्वम् न डत्वम् । तदर्थे

उदुम्बरावती स्त्री उदुम्बफलानि बाहुल्येन सन्त्यस्यां नद्यां

मतुप् संज्ञायां दीर्घः । नदीभेदे ।

उदुम्बल पु० उदुम्बरशब्दे रस्य वा लः । उदुम्बरे “उपे-

षन्तमुदुम्बलम् तुण्डेलमुतमुशालुदम्” अथ० ८, ६, १७, ।
उरुब लमस्य पृषो० । २ विस्तीर्णबलयुक्ते त्रि० उरूणसावसु-
तृषा उदुम्बलौ यमस्य दूतौ चरतोजनाँ अनु” ऋ० १०, १४,
१२, “उदुम्बलौ उरबलौ विस्तीर्णबलौ” भा० ।

उदूखल न० ऊर्द्ध्वं खं लाति ला--क पृषो० नि० । तण्डुलादि

कण्डनार्थं काष्ठादिरचिते १ द्रव्ये, २ गुग्गुलौ च ।
“सधान्यमुदूखलं मुषलेनाभिहन्यात्” सुश्रु० । सुश्रु-
तोक्ते शारीरे २ सन्धिभेदे पु० सन्धयश्च सुश्रु० दर्शिताः
“कोरोदूखलसामुद्गप्रतरतुन्नसेवनी वायसतुण्डमण्डल शङ्खा-
वर्त्ताः” इत्यष्टविधान् सन्धीनुक्त्वा “कक्षावङ्खणदशनेषूदूखल
इति उदूखलाकृतित्वाच्च तदस्थिकुहरस्य तथात्वम् ।

उदूढ त्रि० उद् + वह--क्त । १ ऊढे, २ स्थूले, ३ धृते च ।

“उदूढलोकत्रितयेनेति” माघः । “उदूढवक्षःस्थगितैक-
दिङ्मुखे” किरा० ४ विवाहितस्त्रियां स्त्री ।
पृष्ठ ११६७

उदृच् स्त्री उत्कृष्टा ऋक् समासान्तविधेरनित्यत्वात् न समा० ।

उत्कृष्टायामृचि । “मा पातमास्य यज्ञस्योदृचः मा पाह्यं
हस आऽस्य यज्ञस्योदृचः” यजु० ४, ९, १० “उदृचः उत्तमाया
ऋचः पर्यन्तम्” वेददी० । यजुर्भिर्यज्ञस्योदृचं गच्छन्ति
यज्ञस्योदृचं गच्छानीति” शत० ब्रा० ३, १, १, १२ उद् +
ऋचनुतौ क्विप् । २ उदये “सत्याः सन्तु यजमानस्य कामाः
इत्याहै ष वै कामो यजमानस्य यदनार्त्त उदृचं गच्छति”
तैत्ति० “स्वस्ति ते देव सोम सुत्यामुदृचमशीय” ऐत०

उदेजय त्रि० उद् + एज--णिच्--खश् । उद्वेगकारके “उदे-

जयान् भूतगणान् न्यषेधीत्” भट्टिः ।

उदौदन पु० उदकेन सिद्ध ओदनः उदादेशः । जलमात्रसिद्धे उदकशब्दे उदा० ।

उद्गत त्रि० उद् + गम--क्त । १ उदिते, २ उत्पन्ने, “वयीऽति-

पातोद्गतवातवेपिते” नैष० । ३ ऊर्द्ध्वगते, ४ उद्वान्ते च ।

उद्गतशृङ्ग पु० उद्गतमुत्यितं शृङ्गमस्य । जातशृङ्गावस्थापशौ

उद्गति स्त्री उद् + गम--क्तिन् । १ उदये २ ऊर्द्ध्वगतौ ३ उत्पत्तौ च ।

उद्गन्धि त्रि० उत्कृष्टो गन्धोऽस्य प्रा० ब० कृष्टलोप इत्समा० ।

१ उत्कृष्टगन्धाढ्ये २ उत्कटगन्धयुक्ते च । “विजम्भणोद्गन्धिषु
कुद्मलेषु” रघुः ।

उद्गम पु० उद्--गम--घञ् अमन्तत्वात् न वृद्धिः । १ उदये

२ ऊर्द्ध्वगतौ ३ उद्भवे ४ उन्नतौ च । “रोमोद्गमः प्रादुरभू-
दुमायाः” कुमा० “फलेन सहकारस्य पुष्पोद्गम इव प्रजाः”
रघुः । “हरिततृणोद्गमशङ्कया मृगीभिः” किरा० भावे
ल्युट् । उद्गमनमप्यत्र न० “आङ उद्गमने” पा०

उद्गता स्त्री “सजसादिमे सलघुके च नसजगुरुकेऽप्यथो-

द्गता । अङ्घ्रिगतभनजलगागयुताः सजसा जगौ च चरणमे-
कतः पठेत्” वृ० र० उक्ते विषमवृत्ते छन्दोभेदे ।

उद्गमनीय न० उद् + गम--अनीयर् । धौतवस्त्रद्वये “गृही-

तपत्युद्गमनीयवस्त्रेति” कुमारः । “तत् स्यादुद्गमनीयंयत्
धौतयोर्वस्त्रयोर्वुगम्” इत्यमरव्याख्यायां युगमित्यविवक्षितम्
इति प्रायशः यल्लक्ष्यं तदेवेति व्याख्याय क्षीरस्वामी
इममेव श्लोकमुदाजहार । “गृहीतं पतिं प्रति उद्गमनायं
वस्त्रं ययेति मल्लि० । स्त्रीणाञ्चैकवस्त्रधारित्वं लोकप्रसिद्धं
वैदिके कर्म्मणि एव द्विवस्त्रता अतएव पतिं प्रतीतीत्यध्या-
हृत्य व्याख्यातम् । “धौतोद्गमनीयवाससी” दशकुमा० ।

उद्गाढ न० उद् + गाह--क्त । १ अतिशये २ अत्यन्ते । ३

अतिशययुक्ते त्रि० । “प्रेमार्द्राः प्रणयस्पृशः परिचयादुद्-
गाढरागोदयाः” सा० द० ।

उद्गातृ पु० उच्चैर्गायति साम उद् + गै--तृच् । १ सामवेद-

गायके । अस्य च उद्गीथरूपसामावयवस्योच्चैर्गानादुद्गातृ-
त्वम् । यथा चास्य तथात्वं तथा उद्गीथशब्दे बक्ष्यते ।
षोडशसु ऋत्विक्षु मध्ये २ ऋत्विग्भेदे । ते च ऋत्विजः
अच्छावाकशब्दे ५४ पृ० दर्शिताः । “रथं हरेदथाध्वर्य्यु
र्ब्रह्माधाने च वाजिनम् । होता चापि हरेदश्वमुद्गाता
चाप्यनः क्रये” मनुः । राजसूये तस्य च दक्षिणाभेद
उक्तः “सीवर्ण्णी स्रगुद्गातुः” आश्व० ९, ४, ९ ।
उद्गातृप्रशंसनपूर्ब्बं तत्कर्म्म च शत० ब्रा० दर्शितं यथा ।
“गृणाति ह वा एतद्धोता यच्छंसति । तस्मा एतद्गृणते
प्रत्येवाध्वर्युरागृणाति तस्मात् प्रतिगरोनाम । तं वै प्राञ्च-
मासीनमाह्वयते सर्वे वा अन्य उद्गातुः प्राञ्च आर्त्वि-
ज्यं कुर्वन्ति तथो हास्यैतत् प्रागेवार्त्विज्यं कृतं भवति ।
प्रजापतिर्वा उद्गाता । योषऽग्र्घोता स एतत् प्रजा-
पतिरुदुगाता योषायामृचि होतरि रेतः सिञ्चति-
यत्स्तुते तद्धोता शस्त्रेण प्रजनयति तच्छ्यति यथायं
पुरुषः शितस्तद्यदेनच्छ्यति तस्माच्छस्त्रं नाम” ४, ३, १, १,
२, ३, । उद्गीथगानकर्त्तृत्वाच्च यथाऽस्योद्गातृत्वं तथोक्तं
छा० उ० । “तस्यर्क् च साम च गेष्णौ तस्मादुद्गीथस्तस्मात्त्वे-
वोद्गार्तवास्य हि गाता” “एवमेवोद्गातारमुवाचोद्गातः! या
देवतोद्गीथमन्वायत्ता ताञ्चेदविद्वान् उद्गास्यसि मूर्द्धा ते
विपतिष्यतीति” च । तथाज्ञानपूर्व्वकोद्गानस्य फलमपि तत्रोक्तं
यथा “य एवदेवं विद्वान् साम गायति उभौ स गायति
सोऽमुनैव स एष ये चामुष्मात् पराञ्चोलोकास्तांश्चाप्नोति
देवकामांश्च अथानेनैवमेवैतस्मादर्व्वाञ्चोलोकास्तांश्चाप्नोति
मनुष्यकामांश्च । तस्मादुहैवं विदुद्गाता ब्रूयात् कं ते
काममागानीति एष ह्येव कामागानस्येष्टे य एतदेवं
विद्वान् साम गायति” छा० उ० ।

उद्गार पु० उद् + गॄ + ऋदोरपं बाधित्वा उन्न्योर्ग्रः” पा०

घञ् । उद्वमने । “खर्जुरीस्कन्धनद्धानां मदोद्गारसुगन्धिषु”
रघुः । “सलिलोद्गारमुच्चैर्विमानाः” “धूमोद्गारानुकृति-
निपुणा जर्जरा निष्पतन्ति” मेघ० । “सनिर्झरोद्गार इवाद्रि-
राजः” रघुः । (डेकुर) इति २ कण्ठशब्दभेदे च । “धूमीद्गारे
तथा वान्ते क्षुरकर्मणि मैथुने । भृतके सूतके चैव नित्यं
नैमित्तिकं त्यजेत्” आ० त० स्मृतिः । वमनप्रकारः
निदानादिसहितः सुश्रुते दर्शितो यथा
“अथातो वमनविरेचनव्यापच्चिकित्सितं व्याख्यास्यामः ।
वैद्यातुरनिमित्तं वमनं विरेचनं च पञ्चदशधा व्यापद्यते
तत्र वमनस्याधोगतिरूर्द्ध्वं विरेचनस्येति पृथक् । समान-
पृष्ठ ११६८
मुभयोः सावशेषौषधत्वं जीर्णौषधत्वं हीनाधिकदोषापहृ-
तत्वं वातशूलमयोगातियोगौ जीवादानमाध्मानं
परिकर्त्तिका परिस्रावप्रवाहिका हृदयोपसरणं विबन्धः
इति । तत्र बुभुक्षापीडितस्यातितीक्ष्णाग्नेर्मृदुकोष्ठस्य
चावतिष्ठमानं दुर्व्वलस्यवा गुणसामान्यभावाद्वमनमधोगच्छति ।
तत्रेष्मितानवाप्तिर्दोषोत्कर्षश्च तमाशु स्नेहयित्वा भयस्ती-
क्ष्णतरैर्वामयेत् । अपरिशुद्धामाशयस्योत्कृष्टश्लेष्मणः सशेषा-
न्नस्य वाऽहृद्यमतिप्रभूतविरेचगं पीतमूर्द्ध्वं गच्छति तत्राशु-
द्धामाशयमुल्वणश्वेष्माणमाशु वामयित्वा भूयस्तीक्ष्णतरैर्विरे-
चयेत् । आमान्वये त्वामवत्सं विधानम् । अहृद्योऽतिप्रभूते
च हृद्यं प्रमाणं युक्तञ्च । अतऊर्द्ध्वमुत्तिष्ठत्यौषधे न
तृतीयं पाययेत् । ततस्त्वेनं मधुघृतफाणितयुक्तैर्लेहैर्व्वि-
रेचयेत् । दोषविग्रथितमल्पमौषधमवस्थितमूर्द्ध्वभागिकमधो-
भागिकं वा न स्रंसयति दोषान् । तत्र तृष्णापार्श्वशूलं
छर्द्दिर्मूर्च्छापर्वभेदोहृल्लासारत्युद्गाराविशुद्धिञ्च भवति ।
तमुष्णामिरद्भिराशु वामयेत् । सावशेषौषधमतिप्रधावित-
दोषमतिबलमसम्यग्विरिक्तमप्येवं वामयेत् । क्रूरकोष्ठस्याति-
तीक्ष्णाग्नरल्पमौषधमल्पगुणं वा भक्तवत्पाकमुपैति तत्र
समुदीर्णा दोषा यथाकालमनिर्ह्रियमाणा व्याधिं
बलविभ्रमञ्चापादयन्ति । तमनल्पममन्दमौषधञ्च पाययेत् ।
आस्नग्धस्विन्नेनाल्पगुणं वा भेषजमुपयुक्तमल्पान्दोषान्हन्ति ।
तत्र वमने दोषशेषः गौरवमुत्क्लेशं हृदयाविशुद्धिं व्याधि-
वृद्धिं करोति तत्र यथायोगं पाययित्वा वामयेद्दृढतरम् ।
विरेचन गुदपरिकर्त्तनमाध्मानं शिरोगौरवमनिस्मरणं वा
वायोर्व्याधिवृद्धिं करोति । तमुपपाद्य भूयः स्नेहस्वेदाभ्यां
विरेचयेद्दृढतरम् । दृढं बहुप्रचलितदोषं वा तृतीये
दिवसेऽल्पगुणं चेति । अस्निग्धस्विन्नेन रूक्षमौषधमुपयुक्त-
मब्रह्मचारिणा वा वायुं कोपयति । तत्र वायुः प्रकुपितः
पार्श्वपृष्ठश्रोणिमन्यामर्म्मशूलं मूर्च्छां भ्रमं संज्ञानाशञ्च
करोति । तमभ्यज्य धान्यस्वेदेन स्वेदद्यित्वा यष्टीमधूक-
विपक्वेन तैलेनानुवासयेत् । स्नेहस्वेदाभ्यामविभावितशरी-
रेणाल्पमौषधमल्पगुणं वा पीतमूर्द्धमघोवा नाभ्येति दोषां-
श्चोत्क्लिश्य तैः सह बलक्षयमापादयति । तत्राध्मानं हृदय-
ग्रहस्तृष्णा मूर्च्छा दाहश्च भवति तमयोगमित्याचक्षते
तमाशु वामयेन्मदनफललवणाम्बुभिर्विरेचयेत्तीक्ष्णतरैः
कषायैश्च । दुर्वान्तस्य तु समुत्क्लिष्टा दोषा व्याप्य शरीरं
कण्डूश्वयथुकुष्ठपिडकाज्वराङ्गमर्दनिस्तोदनानिं कुर्वन्ति ।
वतस्तानवशेषान्महौषधेनापहरेत् । अस्निग्षस्विन्नस्य मृदु-
विरिक्तस्याधोनाभेः स्तब्धपूर्णोदरता शूलं वातपुरीषसङ्गः
कण्डूमण्डलप्रादुर्भावो भवति तमास्थाप्य पुनः संस्नेह्य
विरेचयेत्तीक्ष्णेन । नातिप्रवर्त्तमाने तिष्ठति वा दुष्टसंशो-
धने तत्सन्तेजनार्थमुष्णोदकं पाययेत् पाणितापैश्च पार्श्चो-
दरमुपस्वेदयेत् । ततः प्रवर्त्तन्ते दोषाः । अनुप्रवृत्ते-
चाल्पदोषे जीर्णौपधं बहुदोषमहःशेषं बलञ्चावेक्ष्य
भूयोमात्रां विदध्यात् । अप्रवृत्तदोषं दशरात्रादूर्द्ध्वमुपसं
स्कतदेहं स्नेहस्वदाभ्यां सयः शोधयेत् । दुर्विरेच्यमास्थाप्य
पुनं संस्नेह्य विरेचयेत् । ह्रीमयलोभैर्वेगाघातशीलाः
प्रायशः स्त्रियो राजसमीपस्था सणिजः श्रोत्रियाश्च भवन्ति ।
तस्मादेते दुर्विरेच्या बहुवातत्वादत एव तानतिस्निग्धान्
स्वेदोपपन्नान् शोधयेत् । स्निग्धस्विन्नस्यातिमात्रमतिमृदु-
कोष्ठस्य वा तीक्ष्णाधिकदत्तमौषधमतियोगं कुर्य्यात् । तत्र
वमनातियोगे पित्तातिप्रवृत्तिर्ब्बलविस्रंसो वातकोपश्च
बलवान् भवति तं घृतेनाभ्यज्यावगाह्यावगाह्य शीतास्वप्सु
शर्करामधुभिश्रैर्लेहैरुपचरेद्यथास्वम् । विरेचनातियोगे
कफस्यातिप्रवृत्तिरुत्तरकालञ्च सरक्तस्य तत्रापि बलविस्र-
सो वातकोपश्च बलवान् भवति तमतिशीताम्बुभिः
पारषिच्यावगाह्य वा शीतैस्तण्डुलाम्बुभिर्म्मधुमिश्रैश्छर्द्द-
येत् । पिच्छावस्तिं चास्मै दद्यात् क्षीरसर्पिषा चैनमनुवा-
सयेत् प्रियङ्ग्वादि चास्मै तण्डुलाम्बुना पातुं प्रय-
च्छेत् । क्षीररसयोश्चान्यतरेण भोजयेत् । तस्मिन्नेव वमना-
तियोगे प्रवृद्धे शोणित ष्ठोवति छर्दयति वा तत्र जिह्वा-
निःसरणमक्ष्णोर्व्यावृत्तिर्हनुस हननं तृष्णा हिक्काज्वरा
वैसंज्ञ्यमित्युपद्रवा भवन्ति तमजासृक्चन्दनोशीराञ्जनलाज
चूर्णैः सशर्करोदकैर्मन्थं पाययेत् । पलरसैर्व्वा सघृतक्षौद्र-
शर्करैः शुङ्गाभिर्वा वटादीनां पेयां सिद्धां सक्षौद्रां वर्च्चो-
ग्राहिभिर्वा पयसा जाङ्गलरसेन वा भोजयेत् अतिस्रुतशो-
णितविधोनेनोपचरेत् । जिह्वामतिसर्पितान्त्रिकटुकलवण-
चूर्णप्रघृष्टां तिलद्राक्षाप्रलिप्तां वा पीडयत् प्रविष्टायामम्ल-
मन्ये तस्य पुरस्तात्स्वादयेयुः । व्यावृत्ते चाक्षिणो घृता-
भ्यक्ते पीडयेत् । हनुसंहनने वातश्लेष्महरं नस्यं स्वे-
दाश्च विदध्यात् । तृष्णादिषु च यथास्व प्रतिकुर्वीत ।
विसंज्ञे वेणुवीणागीतस्वनं श्रावयेत्” ।
उद्गारस्याजीर्ण्णरोगालङ्गत्वमिद्गिरणशब्दे वक्ष्यते । अपय्या-
दिभोजनरूपकारणसहिताजीणं स्वरूपादि सुश्रते उक्तम् ।
“प्राग्भुक्ते त्वविविक्तेऽग्नौ द्विरन्नं न समाचरेत । पूर्व्वभुक्तो
विदग्धेऽन्ने भुञ्जानो हन्ति पावकम् । मात्रागुरुं परिहरे-
पृष्ठ ११६९
दाहारं द्रव्यतश्च यः । पिष्टान्नं नैव भुञ्जीत मात्रया वा
बुभुक्षितः । द्विगुणञ्च पिवेत्तोयं सुखं सम्यक् प्रजीर्य्यति ।
पेयलेह्याद्यभक्ष्याणां गुरु विद्याद्यथोत्तरम् । गुरूणा-
मर्द्धसौहित्यं लधूनां तृप्तिरिष्यते । द्रवोत्तरो द्रव-
श्चापि न मात्रागुरुरिष्यते । द्रवाढ्यमपि शुष्कन्तु सम्य-
गेवोपपद्यते । विशुष्कमन्नमभ्यस्तं न पाकं साधु गच्छति ।
पिण्डीकृतमसंक्लिन्नं विदाहमुपगच्छति । स्रोतस्यन्नवहे
पित्तं पक्तौं वा यस्य तिष्ठति । विदाहि भुक्तमन्यद्वा
तस्याप्यन्नं विदह्यते । शुषकं विरुद्धं विष्टम्भि वह्निव्याप-
दमावहेत् । आमं विदग्धं विष्टब्धं कफपित्तानिलैस्त्रिभिः ।
अजीर्णं केचिदिच्छन्ति चतुर्थं रसशेषतः । अत्यम्बुपा-
द्राद्विषमाशताद्वा सन्धारणात्स्वप्तविपर्य्ययाच्च । कालेऽपि
सात्म्यं लघु चापि भुक्तमन्नं न पाकं भजते नरस्य ।
ईर्ष्याभयक्रोधपरिक्षतेन लुब्धेन रुग्दैन्यनिपीडितेन ।
प्रद्वेषयुक्तेन च सेव्यमानमन्नं न सम्यक् परिणाममेति ।
माधुर्य्यमन्नं गतमामसंज्ञं विदग्धसंज्ञं गतमम्लभावम् ।
किञ्चिद्विपछं भृशतोदशूलं विष्टब्धमाबद्धविरुद्धवातम् ।
उद्गारशुद्धावपि भक्तकाङ्क्षा न जायते हृद्गुरुता च
यस्य । रसावशेषेण तु सप्रसेकं चतुर्थमेतत्प्रवदन्त्यजीर्णम् ।
मूर्च्छाप्रलापो वमथुः प्रसेकः सदनं भ्रमः । उपद्रबा
भवन्त्येते मरणं चाप्यजीर्णतः । तत्रामे लङ्घन कार्य्यं विदग्धे
वमनं हितम् । विष्टब्धं स्वेदनं पथ्यं रसशेषे शयीत च ।
वामयेदाशु तं तस्मादुष्णेन लवणाम्बुना । कार्य्यं चानशनं
तावद्यावन्न प्रकृतिं भजेत् । लघुकायमतश्चैनं लङ्घनैः
समुपाचरेत् । यावन्न प्रकृतिस्थःस्याद्दोषतः प्राणतस्तथा ।
हिताहितोपसंयुक्तमन्नं समशनं स्मृतम् । बहु स्तोकम-
काले वा विज्ञेयं विषमाशनम् । अजीर्णे भुज्यते यत्तु
तदध्यशनमुच्यते । त्रयमेतन्निहन्त्याशु बहून् व्याधीन्
करोति वा । अन्नं विदग्धं हि नरस्य शीघ्रं शीताम्बुना
वै परिपाकमेति । तद्ध्यस्य शैत्येन निहन्ति पित्तमाक्लेदि-
भावाच्च नयत्यधस्तात् । विदह्यते यस्य तु भुक्तमात्रे
दह्येत हृत्कण्ठगलञ्च यस्य । द्राक्षाऽभयां माक्षिकसम्प-
युक्तां लीढ्वाऽभयां वा स सुखं लभेत । भवेदजीर्णं प्रति
यस्य शङ्का स्निग्धस्य जन्तोर्बलिनोऽन्नकाले । प्रातः स
शुण्ठीमभयामशङ्को भुञ्जीत सम्प्राश्य हितं हितार्थी ।
स्वल्प यदा दोषविबद्धमामं लीनं न तेजः पथमावृणोति ।
भवत्यजीर्णेऽपि तदा बुभुक्षा सा मन्दवुद्धिं विषवन्निहन्ति ।
इथमजीर्णताकारणप्रदर्शनपूर्वमुद्गारशुद्धेः प्रकारस्तत्रैव
दर्शितः यथा “या मात्रा परिजार्य्योत चतुर्भागगतेऽहनि ।
सा मात्रा दीपयत्यग्निमल्पदोषे च पूजिता । या मात्रा
परिजीर्य्येत तथार्द्धदिवसे गते । सा वृष्या वृहणी चैव मध्यदोषे
च पूजिता । या मात्रा परिजीर्य्येत चतुर्भागावशेषिते । स्ने-
हनीया च सा मात्रा बहुदोषे च पूजिता ॥ या मात्रा
परिजीर्येत तथा परिणतेऽहनि । ग्लानिमूर्च्छामदान्-
हित्वा सा मात्रा पूजिता भवेत् । अहोरात्रादसन्दुष्टाया
मात्रा प्ररिजींर्यति । सा तु कुष्ठविषोन्मादग्रहापस्मारना-
शिनी । यथाग्नि प्रथमां मात्रां पाययेत विचक्षणः । पीतो
ह्यतिबहुस्नेहो जनयेत्प्राणसंशयम् । मिथ्याचाराद्बहुत्वा-
द्वा यस्य स्नेहो न जीर्यति । विष्टभ्य चापि जीर्येत्तं वारि-
णोष्णेन वामयेत् । जीर्णाजीर्णविशङ्कायां स्नेहस्योष्णोदकं
पिबेत् । तेनोद्गारो भवेच्छुद्धो भक्तं प्रति रुचिस्तथा ।
स्युः पच्यमाने तृडुदाहभ्रमसादारतिक्लमाः । परिषिच्या-
द्भिरुष्णाभिजींर्णस्नेहं ततो नरम् । यवागूं पाययच्चोष्णां
कामं क्लिन्नाल्पतण्डुलाम् । देयौ यूषरसौ वापि सुगन्धी
स्नेहववर्ज्जित्त्रौ । कृतौ वात्यल्पसर्पिष्कौ यवागूर्वा विधो-
यते । पिबेत्त्य्रहं चतुरहं पञ्चाहं षडहं तथा । सप्त-
रात्रात्परं स्नेहः सात्मीभवति सेवितः” ।
उद्गारश्च नागवायुकार्य्यम् यथोक्त पदार्था० योगार्णवे
“उद्गारे नाग इत्युक्तो नीलजीमूतसन्निभः । उन्मीलने स्थितः
कूर्म्मोभिन्नाञ्जनसमप्रभः । कृकलस्तु क्षुते चैव जवाकुसुम-
सन्निभः । जृम्भणे देवदत्तःस्यात् शुद्धस्फटिकसन्निभः ।
धनञ्जयस्तथा घोषे महारजतवर्ण्णकः । ललाटे चोरसि
स्कन्धे हृदि नाभौ त्वगस्थिषु । नागाद्या वायवः पञ्च-
देहे तु परिवेष्टिताः” ।

उद्गारशोधन पु० उद्गारं शोधयति शुध--णिच्--ल्यु । कृष्णजिरके शब्दचि० ।

उद्गारिन् त्रि० उद् + गॄ--णिनि स्त्रियां ङीप् । उद्गारयुक्ते ।

“यत्ते मौलौ कनककपिशं सौरभोद्गारि वासः” उद्द्धवदू० ।
“धारास्वनोद्गारिदरीसुखोऽसौ” रघुः । “यः पण्यस्त्रीरति
परिमलोद्गारिभिर्नागराणाम्” मेघ० ।

उद्गिरण न० उद् + गॄ--ल्युट् नि० इत्त्वम् । १ उद्वमने ।

उद्गारे (ढेकुर) २ कण्ठस्वरभेदे च । “आध्मानमुद्गिरणम-
न्नरसो विदाहोऽजीर्णस्य पानजनितस्य भवन्ति लिङ्गम्”
सुश्रु० । उद्गारशब्दे विवृतिः ।

उद्गीति स्त्री उद् + गै--भावे क्तिन् । १ उच्चैर्गाने कर्मणि क्तिन् ।

“आर्य्याशकलद्वितयं व्यत्ययरचितं भवेद्यस्याः । सोद्गीतिः
किल गदिता तद्वद्यत्यंशभेदसंयुक्ता” वृ० र० उक्ते मात्रा-
वृत्तभेदे । उद् + गै--भावे क्त । उद्गीत उच्चैर्गाने न० ।
पृष्ठ ११७०

उद्गीथ पु० उद् + गै--थक् । सामगानावयवभेदे ।

“उद्गीथरम्यपदपाठवताञ्च साम्राम्” देवीम० । साम्नोहि
पञ्चविधाः सप्तविधा वा अवयवाः । “प्रस्तावस्तत उद्गीथः
प्रतिहार उपद्रवः । निधनं पञ्चधेत्याहुर्हिङ्कारः प्रणव-
स्तथा” माध० भाष्यधृतवाक्यात् । तत्र साम्र आद्योभागः
प्रस्तोत्रा गेयः प्रस्तावनामा । द्वितीयोभाग उद्गात्रा
गेय उद्गीथनामा । तृतीयोभागः प्रतिहर्त्त्रा गेयः प्रति-
हारनामा । चतुर्थोभागः पुनरुद्गात्रा गेय उपद्रवनामा ।
पञ्चभिर्युगपत् गेयः निधननामा इति पञ्चविधः । गानार
म्भकाले सर्वैरृत्विग्भिर्मिलित्वा हुङ्कारकरणरूपो हिङ्कारः,
ओङ्कारपूर्व्वकत्वात् सर्वेषां वेदानां प्रणवरूपः प्रथमा-
वयवः इति सप्तावयवयत्वं तदेतत् छा० उप० दर्शितम् यथा
“समस्तस्य खलु साम्न उपासनं साधु” इति साधुत्वोपन्यासे-
न “अग्निः प्रस्तावोऽन्तरिक्षमुद्गीथ आदित्यः प्रतिहारो
द्यौर्निधनमित्यूर्द्धेषु अथावृत्तेषु द्यौर्हिङ्कार आदित्यः
प्रस्तावोऽन्तरिक्षमुद्गीथोऽग्निः प्रतिरिक्षमुद्गीथोऽग्निः प्रति-
हारः पृथिवी निधनम्, । कल्पन्ते हास्मै लोका ऊर्द्ध्वा
श्चावृत्ताश्च य एतदेवं विद्वाल्ल्ॐकेषु पञ्चविधं सामोपास्ते”
वृष्टौ पञ्चविधस्योपासनमुक्तं तत्रैव
“वृष्टौ पञ्चविधं सामोपासीत पुरोवातो हिङ्कारो, मेघो
जायते स प्रस्तावो, वर्षति स उद्गीथो, विद्योतते स्तनयति
स प्रतिहारः, उद्गृह्णाति तन्निधनं, वर्षति हास्मै वर्षयति
ह य एतदेवंविद्वान् वृष्टौ पञ्चविधं सामोपास्ते । सर्व्वा-
स्वप्सु पञ्चविधं सामोपासीत मेघो यत् सम्प्लवते स
हिङ्कारो, यद्वर्षति स प्रस्तावो, याः प्राच्यः स्यन्दन्ते स
उद्गीथो, याः प्रतीच्यः स प्रतिहारः समुद्रो निधनम् ।
न हाप्सु प्रैत्यप्सुमान् भवति य एतदेवंविद्वान् सर्व्वा-
स्वप्सु पञ्चविधं सामोपास्ते” ।
ऋत्वादिषु पञ्चविधस्योपासनं तत्रैवोक्तम्
“ऋतुषु पञ्चविधं सामोपासीत वसन्तो हिङ्कारो,
ग्रीष्मः प्रस्तावो, वर्षा उद्गीथः, शरत्प्रतिहारो, हेमन्तो
निधनम् । कल्पन्ते हास्मा ऋतव ऋतुमान् भवति य
एतदेवं विद्वानृतुषु पञ्चविध सामोपास्ते” ।
“पशुषुपञ्चविधं सामोपासीताजा हिङ्कारो,ऽवयः प्रस्तावो,
गाव उद्गीथोऽश्वाः प्रतिहारः पुरुषो निधनम् । भवन्ति
हास्य पशवः, पशुमान् भवति य एतदेवंविद्वान् पशुषु
पञ्चविधं सामोपास्ते”


“प्राणेषु पञ्चविधं परोवरीयः सामोपासीत प्राणो
हिङ्कारो, वाक् प्रस्ताव, श्चक्षुरुद्गीथः, श्रोत्रं प्रतिहारो, मनो
निधनं, परोवरीयांसि वैतानि । परोवरीयो हास्य
भवति परोवरीयसो ह लोकाञ्जयति य एतदेवंविद्वान्
प्राणेषुपङ्कविधं परोवरीयः सामोपास्त इति तु पञ्चवि-
धस्य” । वाचि सप्तविधस्य साम्र उपासनं तत्रैवोक्तम्
“अथ सप्तविधस्य वाचि सप्तविधं सामोपासीत यत्किञ्च
वाचो हुं इति स हिङ्कारो, यत्प्रेति स प्रस्तावो, यदेति
स आदिः, (प्रणवः) । यदुदिति स उद्गीथो, यत्प्रतीति स
प्रतिहारो, यदुपेति स उपद्रवो, यन्नीति तन्निधनम् ।
दुग्धेऽस्मै वाग्दोहं यो वाचो दोहोऽन्नवानन्नादो भवति
य एतदेवं विद्वान्वाचि सप्तविधं सामोपास्ते” ।
आदित्ये सप्तविधस्योपासनं तत्रैवोक्तम्
“अथ स्वल्वमुमादित्यं सप्तविधं सामोपासीत सर्व्वदा
समस्तेन साम । मां प्रतिमां प्रतीति सर्व्वेण समः तेन साम ।
तस्मिन्निमानि सर्व्वाणि भूतान्यन्वायत्तानीति विद्यात्तस्य
यत्पुरोदयात्स हिङ्कार, स्तदस्य पशवोऽन्वायत्तास्तस्मात्ते
हिङ्कुर्वन्ति हिङ्कारभाजिनो ह्येतस्य साम्नः । अथ
यत्प्रथमोदिते स प्रस्ताव, स्तदस्य मनुष्या अन्वायत्तास्तस्मात्ते
प्रस्तुतिकामाः प्रशंसाकामाः प्रस्तावभाजिनोह्येतस्य साम्नः ।
अथ यत्सङ्गववेलायां स आदित्यः (ओङ्कारः) तदस्य वयां-
स्यन्वायत्तानि तस्मात्तान्यन्तरिक्षेऽनारम्बणान्यादायात्मानं
परिपतन्त्यादिभाजीनि ह्येतस्य साम्नः । अथ यत्सम्प्रति
मध्यन्दिने स उद्गीथ, स्तदस्य देवा अन्वायत्तास्तस्मात्ते
सत्तमाः प्राजापत्यानामुद्गीथभाजिनो ह्येतस्य साम्नः ।
अथ यदूर्द्ध्वं मध्यन्दिनात् प्रागपराह्णत्स प्रतिहार, स्तदस्य
गर्भा अन्वायत्तास्तस्मात्ते प्रतिहृता नावपद्यन्ते प्रतिहार-
भाजिनो ह्येतस्य साम्नः । अथ यदूर्द्ध्वमपराह्णात् प्राग-
स्तमयात्स उपद्रव, स्तदस्यारण्या अन्वायत्तास्तस्मात्ते पुरुषं
दृष्ट्वा कक्षं श्वभ्रमित्युपद्रवन्त्युपद्रवभाजिनी ह्येतस्य साम्नः ।
अथ यत्प्रथमास्तमिते तन्निधनं तदस्य पितरोऽन्वायत्ता-
स्तस्मात्तन्निदधति निधनभाजिनो ह्येतस्य साम्नः । एवं
खल्वमुमादित्यं सप्तविधं सामोपास्ते” ।
अतिमृत्युफलाय सप्तविधसामोपासनं तत्रैवोक्तम्
“अथ खल्वात्मसम्मितमतिमृत्यु सप्तविधं सामोपासीद
हिङ्कार इति त्र्यक्षरं प्रस्ताव इति त्र्यक्षरं तत्समम् ।
आदिरिति द्व्यक्षरं प्रतिहार इति चतुरक्षरं तत
इहैकं तत्समम् । उद्गीथ इति त्र्यक्षरमुपद्रव इति चतु-
पृष्ठ ११७१
क्षरं त्रिभिस्त्रिभिः समं भवत्यक्षरमतिशिष्यते त्र्य-
क्षरं तत्समम् । निधनमिति त्र्यक्षरं तत्सममेव भवति,
तानि ह वा एतानि द्वाविंशतिरक्षराणि । एकविंशत्या-
दित्यमाप्नोत्येकविंशो वा इतोऽसावादित्यो द्वाविंशेन
परमादित्याज्जयति तन्नाकं तद्विशोकम् । आप्तोतीहादित्यस्य
जयं परो हास्यादित्यजयाज्जयो भवति य एतदेवंवि-
द्वानात्मसम्मितमतिमत्यु सप्तविधं सामोपास्ते सामोपास्ते” ।
पुनः पञ्चविधस्य मनआदिनाम्रा उपासनं तत्रोक्तं यथा
“मनो हिङ्कारोवाक्यस्तावच्चक्षुरुद्गीथः श्रोत्रं प्रतिहारः
प्राणो निधनमेतद्गायत्रं प्राणेषु प्रोतम् । स य एवमे-
द्गायत्रं प्राणेषु प्रोतं वेद प्राणी भवति सर्वमायुरेति
ज्योग्जीवति महान् प्रजया पशुभिर्भवति महान्
कीर्त्त्या, महामनाः स्यात्तद्व्रतम् । अभिमन्थति स
हिङ्कारो धूमो जायते स प्रस्तावो ज्वलति स उद्गीथो
ऽङ्गारा भवन्ति स प्रतिहार उपशाम्यति तन्निधनं संशा-
म्यति तन्निधनमेतद्रथन्तरमग्नौ प्रोतम् । स य एवमेतद्रथ-
न्तरमग्नौ प्रोतं वेद ब्रह्मवर्चस्व्यन्नादो भवति सर्वमायुरेति
ज्योग्जीवति महान् प्रजया पशुभिर्भवति महान्
कीर्त्त्या, न प्रत्यङ्ङग्निमाचामेन्न निष्ठीवेत्तद्व्रतम् ।
उपमन्त्रयते स हिङ्कारो ज्ञपयते स प्रस्तावः स्त्रिया सहं
शेते स उद्गीथः प्रतिस्त्री सह शेते स प्रतिहारः कालं
गच्छति तन्निधनं पारं गच्छति तन्निधनमेतद्वामदेव्यं
मिथुने प्रोतम् । स य एवमेतद्वामदेव्यं मिथुने प्रोतं वेद
मिथुनीभवति मिथुनान्मिथुनात् प्रजायते सर्वमायुरेति
ज्योग्जीवति महान् प्रजया पशुभिर्भवति महान् कीर्त्त्या,
न काञ्चन परिहरेत्तद्व्रतम् । उद्यन् हिङ्कारः उदितः
प्रस्तावो मध्यन्दिन उद्गीथोऽपराह्णः प्रतिहारोऽस्तं
यन्निधनमेतद्वृहदादित्ये प्रोतम् । स य एवमेतद्वृहदादित्ये
प्रोतं वेद तेजस्व्यन्नादो भवति सर्वमायुरेति ज्योग्जीवति
महान् प्रजया पशुभिर्भवति महान् कीर्त्त्या, तपन्तं न
निन्देत्तद्व्रतम् । अभ्राणि सम्प्लवन्ते स हिङ्कारो मेघो
जायते स प्रस्तावो वर्षति स उद्गीथो विद्योतते स्तन-
यति स प्रतिहार उद्गृह्णाति तन्निधनमेतद्वैरूपं पर्जन्ये
प्रोतम् । स य एवमेतद्वैरूपं पर्जन्ये प्रोतं वेद विरू-
पांश्च सुरूपांश्च पशूनवरुन्धे सर्वमायुरेति ज्योग्जीवति
महान् प्रजया पशुभिर्भवति महान् कीर्त्त्या वर्षन्तं म
निन्देत्तद्व्रतम् । वसन्तो हिङ्कारो ग्रीष्मः प्रस्तावो वर्षा
उद्गीथः शरत् प्रतिहारो हेमन्तो निधनमेतद्वैराजमृतुषु
प्रोतम् । स य एवमेवद्वैराजमृतुषु प्रोत वेद विराजति
प्रजया पशुभिर्ब्रह्मवर्च्चसेन, सर्वमायुरेति ज्योग्जीवति
महान् प्रजया पशुभिर्भवति महान् कीर्त्त्या, ॠतून्न निन्दे-
त्तद्व्रतम् । पृथिवी हिङ्कारोऽन्तरिक्षं प्रस्तावो द्यौरु-
द्गीथो दिशः प्रतिहारः समुद्रो निधनमेताः शक्कर्यो
लोकेषु प्रोताः । स य एवमेताः शक्कर्यो लोकेषु प्रोता
वेद लोकी भवति सर्वमायुरेति ज्योग्जीवति महान्
प्रजया पशुभिर्भवति महान् कीर्त्त्या, लोकान्न निन्देत्तद्व्र-
तम् । अजा हिङ्कारोऽवयः प्रस्तावो गाव उद्गोथोऽश्वाः
पतिहारः पुरुषो निधनमेता रेवत्यः पशुषु प्रोताः ।
स य एवमेता रैवत्यं पशुषु प्रोता वेद, पशुमान् भवति
सर्वमायुरेति ज्योग्जीवति महान् प्रजया पशुभिर्भवति
महान् कीर्त्त्या, पशून्न निन्देत्तद्व्रतम् । लोम हिङ्कारः
त्वक् प्रस्तावो मांसमुद्गीथोऽस्थि प्रतिहारो मज्जा
निधनमेतद्यज्ञायज्ञीयमङ्गेषु प्रोतम् । स य एवमेतद्यज्ञा
यज्ञीयमङ्गेषु प्रोतं वेदाङ्गीभवति नाङ्गेन विहूर्छति
सर्वमायुरेति ज्योग्जीवति महान् प्रजया पशुभिर्मवति
महान् कीर्त्त्या, संवत्सरं मज्ज्ञो नाश्नीयात्तद्व्रतं मज्ज्ञो
नाश्नीयादिति वा । अग्निर्हिङ्कारो वायुः प्रस्ताव आदित्य
उद्गीथो नक्षत्राणि प्रतिहारश्चन्द्रमा निधनमेताद्राजनं
देवतासु प्रोतम् । स य एवमेतद्राजनं देवतासु प्रोतं
वेदैतासामेव देवतानां सलोकतां सार्ष्टितां सायुज्यं
गच्छति सर्वमायुरेति ज्योग्जीवति महान् प्रजया पशुभिर्भ-
वति महान् कीर्त्त्या, ब्राह्मणान्न निन्देत्तद्व्रतम् । त्रयी विद्या
हिङ्कारस्त्रय इमे लोकाः स प्रस्तावोऽग्निर्वायुरादित्यः
स उद्गीथो नक्षत्राणि वयांसि मरीचयः स प्रतिहारः
सर्पा गन्धर्वाः पितरस्तन्निधनमेतत्साम सर्वस्मिन् प्रोतम् ।
स य एवमेतत्साम सर्वस्मिन् प्रोतं वेद सर्वं ह भवति ।
तदेष श्लोको भवति ‘यानि पञ्चधा त्रीणि तेभ्यो न
ज्यायः परमन्यदस्ति । यस्तद्वेद स वेद सर्वं सर्वा दिशो
बलिमस्मै हरन्ति’ सर्वमस्मीत्युपासीत तद्व्रतम्” ।
एवं सामावयवानां तत्तद्दष्ट्योपासनमुक्त्वा उद्गीथरू-
पावयवस्य ओङ्कारादिदृष्ट्योपासनयुक्तं तत्रैव यथा
“ओमित्येतदक्षरमुद्गीथः तद्वा एतन्मिथुनं यद्वाक् च प्राणश्चर्क
च साम च । तदेतन्मिथुनमोमित्येतस्मिन्नक्षरे संसृज्यते यदा
वै मिथुनौ समागच्छत आपयतो वै तावन्योन्यस्य
कामम् । आपयिता ह वै कामानां भवति य एतदेवं
विद्वानक्षरमुद्गीथमुपास्ते । तद्वा एतदनुज्ञाक्षरं यद्धि किञ्चा-
पृष्ठ ११७२
नुजानात्योमित्येव तदाह एषो एव समृद्धिर्यदनुज्ञा
समर्द्धयिता ह वै कामानां भवति य एतदेवंविद्वानक्षरमु-
द्गोथमुपास्ते । तेनेयं त्रयी विद्या वर्त्तते ओमित्याश्रा-
वयत्योमिति शंसत्योमित्युद्गायत्येतस्यैवाक्षरस्यापचित्यै
महिम्ना रसेन । तेनोभौ कुरुतो यश्चैतदेवं वेद यश्च न
वेद । नाना तु विद्या चाविद्या च । यदेव विद्यया
करोति श्रद्धयोपनिषदा तदेव वीर्य्यवत्तरं भवतीति खल्वेत-
स्यैवाक्षरस्योपव्याख्यानं भवति” । तस्य प्राणदृष्ट्या उपासन
मुक्त तत्रैव “देवासुरा ह वैयत्र संयेतिरे उभये प्राजाप-
त्यास्तद्व देवा उद्गीथमाजह्रुरनेनैनानभिभविष्याम इति ।
ते ह नासिक्य प्राणमुद्गीथमुपाञ्चक्रिरे तं हासुराः
पापना विविधुः तस्मात्तेनोभयं जिंघ्रति सुरभि च दुर्गन्धि
च पाप्मना ह्येष विद्धः । अथ ह वाचमुद्गीथमुपसाञ्च-
क्रिरे तां हासुराः पाप्मना विविधुस्तस्मात्तयोभयं वदति
सत्यञ्चानृतं च पाप्मना ह्येषा विद्धा । अथ ह चक्षुरु-
द्गोथमुपासाञ्चक्रिरे तद्धासुराः पाप्मना विविधुस्तस्मात्ते-
नोभयं पश्यति दर्शनीयं चादर्शनीयं च पाप्मना ह्येतद्वि-
द्धम् । अध ह श्रोत्रमुद्गीथमुपासाञ्चक्रिरे तद्धासुराः
पाप्मना विविधुस्तस्मात्तेनोभयं शृणोति श्रवणीयञ्चाश्रवणी-
यञ्च पाप्मना ह्यतद्विद्धम् । अथ ह मन उद्गीथमुपासाञ्च-
क्रिरे तद्धासुराः पाप्मना विविधुस्तस्मात्तेनोभयं सङ्कल्पते
सङ्कल्पनीयञ्चासङ्कल्पनीयञ्च पाप्मना ह्येतद्विद्धम् । अथ ह
य एवायं मुख्यः प्राणस्तमुद्गीथमुपासाञ्चक्रिरे तं हासुरा
ऋत्वा विदध्वंसुर्यथाश्मानमाखणम्नत्वा विध्वंसेत । एवं
यथाश्मानमाखणमृत्वा विध्वंसत एवं हैव स विध्वंसते
य एवं विदि पापं कामयते यश्चैनमभिदासति स एषोऽ-
श्माखणः । नैवैतेन न सुरभि न दुर्गन्धि विजानात्यपहत-
पाप्मा ह्यष तेन यदश्नाति यत्पिबति तेनतरान् प्राणान-
वति । एतमु एवान्ततोऽवित्वोत्क्रामति व्याददात्येवान्तत
इति” । अङ्गिरस्त्वेन तस्योपामनं तत्रैवोक्तम् यथा ।
“तं हाङ्गिरा उद्गीथमुपासाञ्चक्र एतमु एवाङ्गिरस मन्यन्ते
अङ्गानां यद्रसः । तेन तं ह वृहस्पतिरुद्गीथमुपासाञ्चक्र
एतमु एव वृहस्पतिं मन्यन्ते वाग्घि वृहती तस्या एष
पतिः । तेन तं हायस्यमुद्गीथमुपासाञ्चक्र एतमु एवा
यास्यं मन्यन्त आस्याद्यदयते । तेन तं ह वको दाल्भ्यो
विदाञ्चकार । स ह नैमिषोयाणामुद्गाता बभूव स ह
स्मैभ्यः कामानागायति । आगाता ह वै कामानां
भवति य एतदेवंविद्वानक्षरमुद्गीथमुपास्त इत्यध्यात्मम्
अथाधिदैवतं य एवासौ तपति तमुद्गीथमुपासीतोद्यन्
वा एष प्रजाभ्य उद्गायति । उद्यंस्तमोभयमपहन्त्य-
पहन्ता ह वै भयस्य तममो भवति य एवं वेद । समान
उ एवायञ्चासौ चोष्णोऽयमुष्णोऽसौ स्वर इतीममा-
चक्षते स्वर इति प्रत्यास्वर इत्यमुं तस्माद्वा एतमिमममु-
ञ्चोद्गीथमुपासीत” ।
तस्य व्यानत्वेनोपासनं तत्रैव यथा
“अथ खलु व्यानमेवोद्गोथमुपासीत यद्वै प्राणिति
स प्राणो यदपानिति सोऽपानः । अथ यः प्राणापा-
नयोः सन्धिः स व्यानो यो व्यानः सा वाक् । तस्माद-
प्राणन्ननपानन्वाचमभिव्याहरति । या वाक् सर्क् तस्मादप्रा-
णन्ननपानन्नृचममिव्याहरति यर्क्तत्साम तस्मादप्राणन्ननपा-
नन् साम गायति यत्साम स उद्गोथस्तस्मादप्राणन्ननपा-
न्नुद्गायति । अतो यान्यन्यानि वीर्य्यवन्ति कर्म्माणि य
थाग्नेर्मन्थनमाजेः सरणं दृढस्य धनुष आयमनमप्राणन्न
नपानंस्तानि करोत्येतस्य हेतोर्व्यानमेवोद्गीथमुपासीत” ।
उद्गीथाक्षराणां प्राणादित्वेनोपासनं तत्रोक्तम् ।
“अथ खलूद्गीथाक्षराण्युपासीत उद्, गी थ” इति प्राण
एवोत्, प्राणेन ह्युत्तिष्ठतिवाग्गी, र्वाचो ह गिर इत्याचक्षते
अन्नं थम्, अन्ने हीदं सर्वं स्थितम् । द्यौरेवोत्, अन्तरिक्षंगीः,
पृथिवी थम्, आदित्य एवोत्, वायुर्गीरग्निस्थम्, सामवेद
एवोत्, यजुर्वेदो गीः, ऋग्वेदस्थं, दुग्धेऽस्मै वाग्दोहं यो
वाचो दोहः अन्नवानन्नादो भवति य एतान्येवं विद्वानु-
द्गीथाक्षराण्युपास्त उद् गो थ इति” । तस्य प्रणवत्वेनोपासनं
तत्रैव “अथ खलु य उद्गीथः स प्रणवः स उद्गीथ इति
होतृषदनाद्धैवापि दुरुद्गीतमनुसमाहरतीत्यनुस
माहरतीति” । तस्य परोववीयस्त्वेनोपासनं तत्रोक्तं यथा
“त्रयो होद्गीथे कुशला बमूवुः शिलकः शालावत्यश्चैकि-
तायनो दाल्भ्यः प्रवाहणो जैवलिरिति ते होचुरुद्गीथे
वै कुशलाः स्मो हन्तोदगीथे कथां वदाम इति । तथेति
समुपविबिशुः स ह प्रवाहणो जैवलिरुवाच भगवन्ता-
वग्रे वदतां ब्राह्मणयोर्वदतोर्वाचं श्रोष्यामीति । स ह
शिलकः शालावत्यश्चैकितायनं दाल्भ्यमुवाच हन्त त्वा
पृच्छानीति पृच्छेति होवाच । का साम्नो गतिरिति स्वर
इति होवाच स्वरस्य का गतिरिति प्राण इति होबाच
प्राणस्य का गतिरित्यन्नमिति होवाचान्नस्य का गतिरि-
त्याप इति होवाच । अपां का गतिरित्यसौ लोक इति
होवाच अमुष्य लोकस्य का गतिरिति न स्वर्गं लोक
पृष्ठ ११७३
मतिनयेदिति होवाच स्वर्गं वयं लोकं सामाभिसंस्था-
पयामः स्वर्गसंस्तावं हि सामेति । तं ह शिलकः
शालावत्यश्चैकितायनं दालभ्यमुवाचाप्रतिष्ठित वै किल
ते दाल्भ्य! साम यस्त्वेतर्हि ब्रूयान्मूर्द्धा ते विपतिष्य-
तीति मूर्द्धा ते विपतेदिति । हन्ताहमेतद्भगवत्तो वेदा-
नीति विद्धीति होवाच अमुष्य लोकस्य का गतिरित्ययं
लोक इति होवाच अस्य लोकस्य का गतिरिति न
पतिष्ठां लोकमतिनयेदिति होवाच प्रतिष्ठां वयं लोकं
सामाभिसंस्थापयामः पतिष्ठासंस्तावं हि सामेति ।
तं ह प्रबाहणो जैवलिरुवाचान्तवद्धै किल ते शालवत्य!
साम, यस्त्वेतर्हि ब्रूयान्मूर्द्धा ते विपतीष्यतीति मूर्द्धा ते
विपतेदिति हन्ताहमेतद्भगवत्तो वेदानीति विद्धीति
होवाच । अस्य लोकस्य का गतिरित्याकाश इति होवाच
सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्त
आकाशं प्रत्यस्तं यन्त्याकाशो ह्येवैभ्यो ज्यायानाकाशः
परायणम् । स एष परो वरीयानुद्गीथः स
एषोऽनन्तः परोवरीयो हास्य भवति परोवरीयसोह
लोकान् जयति य एतदेवंविद्वान् परोवरीयां
समुद्गोथमुपास्ते । तं हैतमतिधन्वा शौनक उदरशाण्डि-
ल्यायोक्त्वोवाच यावत्त एनं प्रजायामुद्गीथं वेदिष्यन्ते
परोवरोयो हैभ्यस्तावदस्मिँल्लोके जीवनं भविष्यति । तथा
मुष्मिँल्लोके लोक इति स य एतमेवंविद्वानुपास्ते
परोवरीय एव हास्यास्मिँल्लोके जीवन भवति तथाऽमुप्मिँल्लोके
लोक इति लोके लोक इति” उद्गीथस्य देवताऽपि तत्रोक्ता
“अथ हैनमुद्गातोपससादोद्गातः या देवतोद्गीथमन्वा-
यत्ता ताञ्चेदविद्वानुद्गास्यसि मूर्द्ध्वा तेंविपतिष्यतीति मा
भगवानवोचत् कतमा सा देवतेति । आदित्य इति होवाच
सर्वाणीह वा इमानि मूतन्यादित्यमुच्चैः सन्तं गायन्ति
सैषा देवतोद्गीथमन्वायत्ता ताञ्चेदविद्वानुदगास्यो मूर्द्धा ते
व्यपतिष्यक्तथोक्तस्य मयेति” । अत्राकाशादित्यशब्दौ ब्रह्मपरौ
आकाशस्तल्लिङ्गादित्यादि” शा० सू० भा० व्यवस्थापितम् ।

उद्गीर्ण्णं त्रि० उद् + गॄ--क्त । १ उद्वान्ते २ उद्गमिते ।

“प्रशमादर्च्चियामेतदनुद्गीर्ण्णसुरायुधम्” कुमा० “वलय-
कुलिशोदषट्टनोद्गीर्ण्णतोयम्” मेघ० ।

उद्गूर्ण्ण त्रि० उद् + गुरी--क्त । उद्यते डत्तोलिते “उद्गूर्ण्णल गुडाश्मभिः” स्मृतिः

उद्ग्रथित त्रि० उद् + ग्रन्थ--क्त । उत्तोल्य ग्रथिते

उद्ग्रन्थ त्रि० उद्गतोग्रन्थात् निरा० स० । १ उन्मुक्ते २ बन्ध-

नोन्मुक्ते । उद + ग्रन्थ--घञ् । ३ उन्मोचने पु० ।

उद्ग्रभण न० उद् + ग्रह--ल्युट् वेदे हस्य वा भः । १ उद्धृत्य-

ग्रहणे २ ऊर्द्धंविगृह्य दाने च “प्रतिमन्त्रञ्चोद्ग्रभणं तस्मिं
स्तस्मिन्” कात्या० १६, ५, ११, भत्वाभावे उद्ग्रहणम-
प्यत्र । “तस्योद्ग्रहणायेव स्यात्” शत० ब्रा० १४, ५, ४, १२

उद्ग्राभ पु० उद् + ग्रह--घञ वा वेदे हस्य भः । १ उद्धृत्य

ग्रहणे २ ऊर्द्ध्वं विगृह्यदाने च । “वाजस्य माप्रसव
उद्ग्राभेणोदग्रभीत्” यजु० १७, ६३, “उद्ग्राभेण ऊर्द्धं
विगृह्य दीयते इद्ग्रभणम् दानम्” वेददी० । भत्वाभावे
उद्ग्राहोऽप्युक्तार्थे २ बादभेदे च । उद्ग्राहमल्लः ।

उद्ग्राहिणी स्त्री उद् + ग्रह--णिनि ङीप् । पाशाख्यरज्ज्वौ

स्वार्थे कन् अतैत्त्वम् । उद्ग्राहणिकाप्यत्र ।

उद्ग्राहित त्रि० उड्व + ग्रह--णिच्--क्त । १ उपन्यस्ते, २ बद्धे

३ उदीर्णे, ४ प्रत्यायिते, ५ ग्राहिते च मेदि० ।

उद्घ पु० उद् + हन--अप् नि० । १ हस्तपुटे, २ वह्नौ, देहवायौ,

३ प्रशंसायां ४ प्रशस्ते च “पिप्रायाद्रिगुहोपघ्नानुद्घान्
संघसमागताम्” भट्टिः । अस्य च प्रशंसावचनतया
जातिवाचकेन “प्रशसाचनैश्च” पा० समासे जातिवा
चकस्य पूर्व्वनिपाते गवोद्घः अजोद्घ इत्यादि “उद्घादयश्च
नियतलिङ्गा न तु विशेष्यलिङ्गाः” सि० कौ० ।

उद्घट्टन न० उद् + घट्ट--ल्युट् । उद्घर्षणेन चालने । युच् ।

उद्घट्टनापि तत्रैवार्थे स्त्री । “तत्रावश्यं वलयकुलिशो-
द्घट्टनीद्गीर्ण्णतोयम्” मेघ० ।

उद्घन पु० ऊर्द्धं निवेस्य हन्यतेऽत्र उद् + हन--आधार अप्

नि० । काष्ठादितक्षणसाधनेऽधःस्थकाष्ठादौ यदुपरि निधाय
काष्ठादिकं हन्यते तत्र । “लौहोद्घनघनस्कन्धा
ललितापघनां स्त्रियम्” भट्टिः ।

उद्घर्षण न० उद् + घृष--ल्युट् । इष्टकादिकठिनादि

द्रव्यैः गात्रादिमार्ज्जने । “उदघर्षणं तु विज्ञेयं कण्डू
कीटमलापहम्” सुश्रु० “सिरामुखविविक्तत्वं त्वक्स्थस्या-
ग्नेश्व तेजनम् । उदघर्षणोत्सादनाभ्यां जायेयातामस
शयम्” सुश्रु० । घञ् उद्घर्षोऽप्यत्र पु० ।

उद्घस न० उद् + घस कर्म्मणि अच् । मांसे हारा० ।

उद्घाट पु० उदघाट्यते प्रच्छादितवस्तु दर्शनार्थमत्र उद् +

घटणिच्--आधारे अच् । प्रच्छादितस्य पण्यादिद्रव्यस्य
दर्शनार्थोदघाटनाधारे राजस्थापिते गृहभेदे (चौकीघर)

उद्घाटक पुंन० ० द् + घट--णिच्--ण्वुल् । कूपात् जलोद्धा

रणार्थे (अरघट्) (घुरना) इति ख्याते यन्त्रभेदे ।
उदघाटनकारिणि त्रि० णिनि तत्रैव स्त्रियां ङीप् । “उद्
पृष्ठ ११७४
घाटिनी कुञ्जिका” प्रसन्नरा० करणे ल्युट् । उद्घाटन
तत्साधने न० । भावे ल्युट् । उद्घाटन प्रतिबन्धनिरासे,
कृतबन्धस्य बन्धापकरणे च न० (खोला) ।

उद्घाटित त्रि० उद् + घट--णिच्--क्त । १ अपावृते आच्छादन-

रहिते प्रकाशिते आवरणरहिते कृतोद्घाटने ।

उद्घाटितज्ञ पु० उद्घाटितं प्रकाशितं यथा तथा जानाति

ज्ञा--क । विज्ञे ।

उद्घात पु० उद् + हन--घञ् । (ठोकरलागा) १ प्रतिघाते ।

“यथावनुद्घातसुखेन मार्गम्” रघुः । “ययावनुद्घातसुखेन
सोऽध्वना” माघः । “उद्घातिनी भूमिरिति रश्मिसंयमनात्”
शकु० । “प्राणेन प्रेर्य्यमाणेन अपानः पीद्ध्यते यदि ।
गत्वा चोर्द्ध्वं निवर्त्तेत एतदुद्घातलक्षणम्” इत्युक्ते २ प्राग-
वायुनाऽपानाभिघाते । नाभिमूलात् प्रेरितस्य वायो-
र्विरिच्यमानस्य शिरस्यभिहननमुद्घात इत्युच्यते । ३ आरम्भे
“उद्घातः प्रणवोयासाम्” कुमा० “आकुमारकथोद्घातं
शालिगोप्यो जगुर्यशः” रघुः । ४ उत्तुङ्गे ५ मुद्गरे ६ शास्त्र
ग्रन्थपरिच्छेदे ।

उद्घुषित त्रि० उद् + घुष--रवे इट् । १ कृतोद्घोषे २ प्रकटिता-

भिप्राये वाक्ये न० अशब्दे तु उद्घुष्ट । उद्बद्धे मेदि० ।

उद्घोष पु० उद् + घुष--घञ् । उच्चशब्दकरणे “दोषोद्घोष

भ्रूविभेदावज्ञाक्रोधेङ्गितादिकृत्” सा० द० ।

उद्दंश पु० उद्दशति उद् + दन्श--अच् । मस्तकदंशके

(उकुण) कीटभेदे ।

उद्दण्ड त्रि० दण्डोदमनम् नियमनम् उत्क्रान्तोदण्डम्

अत्या० स० । १ प्रचण्डे । उन्नतो दण्डो यस्य । २ उन्नत-
दण्डयुक्ते त्रि० “उद्दण्डपद्म गृहदीर्घिकाणाम्” रघु० ।
“उद्दण्डधवलच्छत्रः” हितो० । प्रा० स० । ३ उन्नतदण्डे पु०

उद्दण्डपाल पु० उन्नतदण्ड उद्दण्डः सैव पाल्यते

पालकर्मणि घञ् । उन्नतदण्डाकारे १ सर्पभेदे २ मत्स्यभेदे च मेदि०

उद्दन्तुर त्रि० उत्तुङ्गे । १ उन्नते २ उच्चदन्तान्विते च ।

उद्दान न० उद + दो--भावे ल्युट् । १ बन्धने अमरः “उद्दाने

क्रियमाणे तु मत्स्यानां तत्र रज्जुभिः” भा० शा० १३७ अ०
२ उद्यमे ३ चूल्ल्यां ४ बाडवानले ५ मध्ये ६ लग्ने च पु० विश्वः

उद्दान्त त्रि० उद् + दम--क्त । अतिदमिते ।

उद्दाम त्रि० उद्गतं दाम्नः अच्समा० । १ बन्धनरहिते, “गन्ध-

मुद्धतमुद्दामो वने मत्त इव द्विपः” भा० व० १४६ अ० ।
अप्रतिनियमे २ स्वतन्त्रे ३ अत्युग्रे च । “उद्दामानि प्रथयति
शिलावेश्मभिर्यौवनानि” मेघ० “नदत्याकाश गङ्गाया
स्रोतस्युद्दामदिग्गजे” रघुः उत्कृष्टं श्रेष्ठं दाम पाशाख्य-
मस्त्रं यस्य । ४ वरुणे पु० ४ गम्भीरे त्रि० “उद्दामभाव-
पिशुनामलवद्गुहास्वित्यादि” भाग० १ स्क० । ६ दण्डकभेदे
च्छन्दोभेदे पु० “यदि न युगलं ततः सप्तरेफास्तदा दण्डवृद्धि
प्रयातो भवेद्दण्डकः । प्रतिचरणविवृद्धरेफाःस्युरर्ण्णार्ण्णव
व्यालजीमूतलीलाकरोददामशङ्खादयः” इति वृत्तर० ।

उद्दाल पु० उद् + दल + णिच्--अच् । १ बहुवारकवृक्षे, २ वनको-

द्रवे “भोज्याः पुराणश्यामाककोद्रवोद्दालशालयः” सुश्रु०

उद्दालक पु० उद्दलयति भूमिमुद्भिनत्ति + उद् + दल--णिच्-

ण्वुल् । १ वनकोद्रवे उत्पन्ने तु शिलाजत्वित्याद्युपक्रम्य
“मद्गकोरदूषकश्यामाकोद्दालकादीनां विरुक्षणच्छेदनीया-
नाञ्चद्रव्याणां विधिवदुपयोगः” “अथ सर्वेषां प्राणिनामय-
माहारार्थं वर्ग उपदिश्यते । तद्यथा रक्तशालिषष्टि-
कगङ्गुमुकुन्दकपाण्डुकपीतकप्रमोदककालकाशनकपुष्पक-
कर्द्दमकशकुनाप्तुतसुगन्धकलमनीवारककोद्रवोद्दालकश्यामाक-
गोधूमवेणुयवादयः” इति च सुश्रुतः । आयोदधौ-
म्यशिष्ये आरुणौ २ ऋपिभेदे । तस्य तन्नामकत्व-
प्राप्तिः भा० आ० ३ अ० उक्ता “यथा
एतस्मिन्नन्तरे कश्चिदृषिर्धौम्योनामायीदधौम्यस्तस्य शिष्यास्त्रयो
बभूवुः उपमन्युरारुणिर्वेदश्चेति । स एकं शिष्यमारुणिं
पाञ्चाल्यं प्रेषयामास गच्छ केदारखण्डं बधानेति ।
स उपाध्यायेन संदिष्ट आरुणिः पाञ्चाल्यस्तत्र गत्वा तत्
केदारखण्डं बद्धुं नाशकत् । स तत्र क्लिश्यमानोऽप-
श्यंदुपायं भवत्वेवं करिष्यामीति । स तत्र संविवेश ।
केदारखण्डे शयाने च तथा तस्मिंस्तदुदकं तस्थौ । ततः
कदाचिदुपाध्याय आयोदो धौम्यः शिष्यानपृच्छत् क्क
आरुणिः पाञ्चाल्यो गत? इति । ते तं प्रत्यूर्चुभगन् ।
प्रेषितो गच्छ केदारखण्डं बधानेति । स एवमुक्तस्तान्
शिष्यान् प्रत्थुवाच तस्मात् तत्र सर्वे गच्छामो यत्र स
गत इति । स तत्र गत्वा तस्याह्वानाय शब्दञ्चकार ।
भो आरुणे । पाञ्चाल्य क्वासि वत्स! एहीति । स तत्श्रु०
त्वारुणिरुपाध्यायवाक्यं तस्मात् केदारखण्डात् सहसा
उत्थाय तमुपाध्यायमुपतस्थे । प्रोवाच चैनमयमस्म्यत्र
केदारखण्डे निःसरमाणमुदकमवारणीयं संरोद्धुं संविष्टो
भगवच्छब्द श्रुत्वैव सहसा विदार्य्य केदारखण्डं भवन्तमुप-
स्थितः । तदभिवादये भगवन्तमाज्ञापतु भवान् कमर्थम्
करवाणीति । स एवमुक्त उपाध्यायः प्रत्युवाच यस्मात्
भवान् केदारखण्डं विदार्योत्यितः तस्मादुद्दालक एव
पृष्ठ ११७५
नाम्ना भवान् भविष्यतीति उपाध्यायेनानुगृहीतः” ।
“उद्दालकोहारुणिः श्वेतुकेतुं पुत्रमुवाच” छा० उ०
“उद्दालकाद्युद्दालकोऽरुणादरुण” इति वृ० उ० ।

उद्दालकपुष्पभञ्जिका स्त्री उद्दालकानां पुष्पाणि भज्यन्ते

यत्र क्रीड़ायाम् ण्वुल् । क्रीड़ाविशेषे यत्र उद्दालकपुष्प-
भञ्जनं क्रियते तस्यां क्रीड़ायाम् ।

उद्दालकव्रत न० उद्दालकं पापनाशकं व्रतम् । पतितसावि-

त्रीकस्य कार्य्ये वशिष्ठोक्ते व्रतभेदे “पतितसावित्रीक उद्दाल-
कव्रतं चरेत् । द्वौ मासौ यावकेन वर्त्तयेन्मासं माक्षिकेणाष्ट-
रात्र घृतेन षड्रात्रमयाचितं त्रिरात्रमब्भक्षोऽहोरात्रमुप-
वसेत् इति” वशिष्ठः । मिता० प्रा० वि० उद्दालव्रतमित्येव
पाठः संहिताग्रन्थे उद्बालकेति पाठः प्रामादिकः ।

उद्दालकायन पु० उद्दालकस्य गोत्रापत्यं फक् । ऋषिभेदे

श्वेतकेतौ । तस्य तत्पुत्रत्वमुद्दालकशब्दे उक्तम् ।

उद्दालवत् पु० उद्दाली मूकेदारभेदः प्रकाशस्थानतया विद्यते

ऽस्य मतुप् । उद्दालके ऋषौ । “यवमान् कृषिरुद्दालवान्
धानान्तर्वान्” शत० ब्रा० ११, २३, ९ ।

उद्दास पु० उद् + दास--घञ् । उत्पीड़ने ततः बला० अस्त्यर्थेमतुप्

इनिर्वा । उद्दासवत् उद्दासिन् तद्वति त्रि० स्त्रियां ङीप् ।

उद्दित त्रि० उद् + दो--क्त । बद्धे भरतः

उद्दिष्ट त्रि० उद् + दिश--क्त । १ उपदिष्टे, २ अभिलषिते “तत्-

समुदिष्टं कर्म” संक्षिप्तसारः छन्दःशास्त्रोक्ते निर्द्धारित-
गुर्व्वादिस्थितिकभेदस्य प्रस्तारे कतमसंख्यकत्वज्ञानार्थे
३ उपायभेदे न० । तत्प्रकारो यथा “उद्दिष्टं द्विगुणा-
नाद्यादुपर्यङ्कान् समालिखेत् । लघुस्था ये तु तत्राङ्कास्तैः
सैकैर्मिश्रितैर्भवेत्” वृत्तर० । आद्यात् आद्यवर्णमारभ्य उपरि
यथोत्तरं द्विगुणान् द्विगुणान् अङ्कान् समालिखेत् तत्र
लघुवर्णोपरिस्थाङ्कैर्मिलितैः एकेन युक्तैः उद्दिष्टं स्यात् ।
यथा त्र्यक्षरप्रस्तारे मध्यगुरुको भेदः प्रस्तारे कियत्संख्यक
इति प्रश्ने यथोत्तरं द्विगुणान् द्विगुणान् अक्षरसंख्यया
अङ्कान् दद्यात् तत्र आद्यलघूपरिस्थेनैकाङ्केन तृतीय
लघूपरिस्थचतुरङ्केण योगे पञ्चाङ्कः एकेन युक्तः षड़ङ्कः
संपद्यते एवञ्च षष्ठोऽयं भेदैत्युत्तरम् । एवमन्यत्र
कल्प्यम् । सर्वगुरुकभेदे तु लघुवर्णाभावात् योजका-
ङ्काभावेन एकमात्रेण योज्याङ्केन प्रथमोभेद इत्युन्नेयम् ।
मात्रावृत्ते उद्दिष्टं विस्तरभयान्नोक्तमाकरे दृश्यम् ।

उद्दीपक त्रि० उद् + दीप--णिच् ण्वुल् । उद्भासके प्रकाशके ।

उद्दीपन न० उद् + दीप--णिच्--ल्युट् । १ प्रकाशने, २ उत्ते-

जने च । ल्यु । अलङ्कारोक्ते रसाद्युद्दीपके “उद्दीपन-
विभावास्ते रसमुद्दीपयन्ति ये” “रत्याद्युद्बोधकालोके
विभावाः काव्यनाट्ययोः । आलम्बनोद्दीपनाख्यौ तस्य भेदा
बुभौ स्मृतौ” आलम्बनस्य चेष्टाद्या देशकालाद-
यस्तथा” सा० द० उक्ते आलम्बनस्य ३ चेष्टादौ विभावे
यथा शृङ्गारे रसे “चन्द्रचन्दनरोलम्बरुताद्युद्दीपनं मतम्”
हासे “विकृताकारवाक्चेष्टं यदालोक्य हसेज्जनः ।
तदत्रालम्बनं प्राहुस्तच्चेष्टोद्दीपनं मतम्” । करुणे “शोऽ-
कोऽत्र स्थायिभावः स्याच्छोच्यमालम्बनं मतम् । तस्य दाहा-
दिकावस्था भवेदुद्दीपनं पुनः” । वीरे “आलम्बनविभा-
वास्तु विजेतव्यादयोमताः । विजेतव्यादिचेष्टाद्यास्तस्यो-
द्दीपनरूपिणः” । भयानके “यस्मादुत्पद्यते भीतिस्त-
दत्रालम्बनं मतम् । चेष्टा घोरतरास्तस्य भवेदुद्दीपनं पुनः” ।
जुगुप्सायाम् “दुर्गन्धमांसपिशितमेदांस्यालम्बनं मतम् ।
तत्रैव कृमिपाताद्यमुद्दीपनमुदाहुतमु” । अद्भुते “पीत-
वर्णो, वस्तु लोकातिगमालम्बनं मतम् । गुणानां तस्य
महिसा भवेदुद्दीपनं पुनः” । शान्ते “परमात्मस्वरूप वा
तस्यालम्बनमिष्यते । पुण्याश्रमहरिक्षेत्रतीर्थरम्यवनादयः ।
महापुरुषसङ्गाद्यास्तस्योद्दीपनरूपिणः” सा० द० ।

उद्दीप्त त्रि० उद् + दीप--क्त । प्रकाशान्विते ।

उद्दीप्र पु० उद् + दीप्--रन् । १ गुग्गुलौ वाच २ उद्दीप्ते त्रि० ।

उद्दृप्त त्रि० उद + दृप--क्त । उद्धते गर्व्वान्विते

उद्देश पु० उद् + दिश + घञ । १ अनुसन्धाने, २ अन्वेषणे, ३ अभि

लाषे ४ उपदेशेच । आधारे घञ् । ५ उपदेशदेशे “यथोद्देशं
संज्ञापरिभाषम्” व्या० परिभाषा । व्याख्यातैषा नागेशेन
“उद्देशमनतिक्रम्य यथोद्देशम् । उद्देश उपदेशदेशः ।
अघिकरणसाधनश्चायम् । यत्र देशे उपदिश्यते तद्देश
एव वाक्यार्थबोधेन गृहीतसत्तया गृहीतपरिभाषार्थेन च
सर्वत्र शास्त्रे व्यवहारः । देशश्चोच्चारणकाल एवात्र
शास्त्रे व्यवह्रियते । तत्तद्वाक्यार्थबोधे जाते भविष्यति
किञ्चिदनेन प्रयोजनमिति ज्ञानमात्रेणसन्तुष्यद्यथाश्रयग्रा-
हिप्रतिपत्त्यपेक्षोऽयम्” इति “इदित्” पा० १, १, ११ सूत्रे
कैयटः । केचित्तु परिभाषाविषये “तस्मिन्” पा० १, १, ६६
इत्यादिवाक्यार्थबोधे मप्तमोनिर्देशादि क्वेति पर्य्यालोचनायां
सकलतद्विध्युपस्थितौ सकलतत्संस्काराय गुणभेदं परिकल्प्यै
कवाक्यतयैब नियमः । कार्य्यकालपक्षे तु त्रिपाद्यामप्युप-
स्थितिरिति विशेषः । एतदेवाभिप्रेत्य “अधिकारो नाम
त्रिप्रकारः कश्चिदेकदेशस्थः सर्वशास्त्रमभिज्वलयति यथा प्र-
पृष्ठ ११७६
दीपः सुप्रज्वलितः सर्वं वेश्माभिज्वलयतीति” “षष्ठी स्थाने”
[१, १, ४९ इति पा० सूत्रे भाष्य उक्तम् । अधिकारशब्देन
पारार्थ्यात् परिभाषाप्युच्यते । “कश्चित्परिभाषारूप” इति
कैयटः । दीपो यथा प्रभाद्वारा सर्वगृहप्रकाशक एवमेत-
त्स्वबुद्धिजननद्वारा सर्वशास्त्रोपकारकमिति तत्तात्पर्यम् ।
एतच्च पक्षद्वयसाधारणं भाष्यं, पक्षद्वयेऽपि प्रदेशैकवाक्य
ताया इतः प्रतीतेः । तत्रैतावान्विशेषः । यथोद्देशे
परिभाषादेशे सर्वविचिसूत्रबुद्धावात्मभेदं परिकल्प्य तैरेक-
वाक्यतापरिभाषणम् । तदुक्तं “क्ङिति च” १, १, ५ पा०
इति सूत्रे कैयटेन । “यथोद्देशे प्रधानान्यात्मसंस्काराय
संनिधीयमानानि गुणभेदं प्रयुञ्जत इति” । कार्य्यकाले तु
तत्तद्विधिप्रदेशे परिभाषाबुद्ध्यैकतेति । अत्रैकदेशस्थ इत्य-
नेन तत्र तत्र तत्तद्बुद्धावपि तत्तद्देशस्थत्वं वारयति यथा
व्यवहर्तॄणां कार्यार्थमनेकदेशगमनेऽपि न तत्तद्वेशीयत्वव्यव-
हारः किं त्वभिजनदेशीयत्वव्यवहार एव तद्वत्” ।
६ संक्षेपे “एष तूद्देशतः प्रोक्तो विभूतेर्विस्तरोमया” गीता
“समासकथनमुद्देशः इति सुश्रुतोक्ते ७ तन्त्राधिकरणभेदे ।
उत्कृष्टोदेशः प्रा० स० । ७ उत्कृष्टदेशे च “नवने नन्दनो-
द्देशे न चैत्ररथसंश्रये” रामा० । “अस्ति क्वचिद्वनोद्देशे”
हितो० भूरिप्रयीगः ततस्तसिल् । उद्देशादित्याद्यर्थे अव्य० ।

उद्देशक पु० उद् + दिश--ण्वुल् । १ उपदेशके २ उदाहरण-

वाक्ये च । “अत्रोद्देशक इति” लीला० भूरिप्रयोगः ।
३ प्रच्छके “उद्देशकालापवदिष्टराशिः” लीला० इष्टकर्म्म
शब्दे ९९१ पृ० दृश्यम् । “उद्देशेन पूजाभिसन्धिना
रोपितः कन् । पूजाद्यभिसन्धिना रोपिते वृक्षादौ
“चैत्यमायतने बुद्धविप्रोद्देशकवृक्षयोः” त्रिका० इति
केचित् उद्देशशब्देन बहुब्रीहौ कप् इति तु न्याय्यम् ।

उद्देश्य त्रि० उद् + दिश--ण्यत् । १ अभिसन्धेये यमुद्दिग्य विधेय-

प्रवृत्तिस्तस्मिन् २ अनुवाद्ये । उद्देश्यविधेययभावस्थले
“अनुवाद्यमनूक्त्वैव न विधेयमुदीरयेत्” इति नियमात्
उद्देश्यवाचकस्य प्राक् प्रयोगः यथा पर्वतो वह्निमान् ।
वह्निः पर्त्तते इत्यादौ तु वह्नेरेवोद्देश्यत्वं पर्वतवृत्तित्वं
तत्र विधेयम् । अतएव “न्यक्कारोह्ययमेव मे यदरयः” इत्या-
दौ अयंपदस्य उददेश्यवाचितयादौ प्रयोगौचित्येन परतः
प्रयोगात् वाक्यगतविधेयाविमर्पदोष इति समर्थितमा-
लङ्कारिकैः । “वृद्धिरादैच् इति” पा० सूत्रेऽपि तथैव
भाष्यकृताङ्गीकृत्य मङ्गलार्थमेव तथाप्रयोग इत्युक्तम् यथा
“एतदेकमाचार्य्यस्य मङ्गलार्थं मृष्यताम् । माङ्गलिक
आचार्य्योमहतः शास्त्रौघस्य मङ्गलार्थं वृद्धिशब्दमादितः
प्रयुङ्क्ते । सङ्गलादीनि च शास्त्राणि प्रथन्ते वीरपुरुष-
काणि भवन्त्यायुष्मत्पुरुषाणि च अध्येतारश्च वृद्धियुक्ता यथा
स्युरिति । सर्व्वत्रैव हि व्याकरणे पूर्व्वोच्चरितः संज्ञी
परोच्चारितः संज्ञेति “अदेङ् गुणः” इति यथेत्यन्तेन ।
उद्देश्यविधेयभावेनान्वयस्थले विवक्षया उभयलिङ्ग
वचनानुसारेण प्रयोगः यथा वेदाः प्रमाणं भवति
भवन्ति वा । “अमानि तत्तेन निजायशोयुगं द्विफालबद्धा-
श्चिकुराः शिरःस्थिताः” “मुखदृगोष्ठमरीपि मनोभुवा
तदुपमाः कुसुमान्यखिलाः शराः” इति नैषधे उयथैव
प्रयोगः । व्युत्पत्तिवादे तु गदाधरेण उद्देश्यवचनानु-
सारेणैव वचनादिप्रयोग इति महतायासेन व्यवस्थापितं
तच्च तत एवावसेयम् । “उद्देश्यप्रतिनिर्देश्यव्यतिरिक्त
विषयत्वात्” सा० द० । उद्देश्यमेव प्रतिनिद्देश्यम् प्राग्
विधेयस्योद्देश्यतया पुनर्निर्देशकर्म्म इत्यर्थः यथा “उदेति
सविता ताम्रस्ताम्र एवास्तमेति च” इत्युदाहृतौ प्राक्
विधेयस्य ताम्रस्य अस्ततागुणविधानार्थं पुनः प्रतिनिर्दे-
शात् कथितपदत्वं न दोषायेति तदाशयः । तदन्यत्रैव
तस्य दोष इति वोध्यम् ।
अनुवाद्यता च प्रमाणान्तरसिद्धस्थ किञ्चिद्धर्म्मविधानार्थम्
पुनरुपन्यास्यता यथा पर्व्वतोवह्निभान् इत्यादौ पर्वत-
रूपोद्देश्यस्य सिद्धत्वेऽपि वह्निमत्त्वरूगधर्मविधानार्थ-
मुपन्यासः । ततो भावे तल् । उद्देश्यता स्त्री त्व ।
उद्देश्यत्व न० । विषयताविशेषे सा च अनुमितौ
शाब्दबोधे च विशेष्यतारूपा प्रवृत्तौ तु स्वजनके-
च्छाविषयत्वरूपा “स्वर्गकामो यजेतेत्यादि” वाक्यजनि-
तेष्टसाधनताज्ञानतः स्वर्गफलोद्देशेनैव यागे प्रवृत्तेः
इति स्वर्गस्य तत्रोद्देश्यता एवमन्यत्राप्यूह्यम् । इच्छा-
विषयत्वे च “अवच्छेदावच्छेदन साध्यसिद्धेरुद्देश्यत्वे”
गदा० ।

उद्देश्यासिद्धि स्त्री ६ त० । अनुमित्सितस्यासिद्धिरूपे अनुमितिदोषभेदे

उद्देहिका स्त्री उद्गतो देहोऽस्य कप् अत इत्त्वम् । कीटभेदे

हारा० ।

उ(द्द्यो)द्योत पु० उद् + द्युत--घञ् वा दलोपः । विशिष्टप्रकाशे

“त्रिभिर्नेत्रैः कृतोद्द्योतं त्रिभिः सूर्य्यैरिवोदितैः” भा०
अनु० १४ अ० । “निरवद्यविद्योद्द्योतेन द्योतितस्त-
त्त्वतोऽयमर्थः” दायभा० उद् + द्युत--णिच्--अच् ।
२ किरणावलोव्याख्याने ३ नागेशकृते काव्यप्रदीपव्याख्याने
४ महाभाष्यप्रदीपव्याख्याने च ग्रन्थे पु० ५ उदद्योतके त्रि०
पृष्ठ ११७७

उद्द्राव पु० उद्--द्रु--घञ् । १ पलायने अमरः । उत्कृष्टो

द्रावोयस्य प्रा० ब० । २ उत्कृष्टगतियुक्ते । “यते स्वाहा धावते
स्वाहोद्द्रावाय स्वाहोद्द्रुताय स्वाहा” यजु० २२, ८, “उद्
अधिकोद्रावोयस्य सौद्द्रावः” वेददी० “उदि श्रयतियौति
प्रुद्रुवः” पा० उत्पूर्व्वकादेव घञ् विधानात् केवलात्तु
“ॠदोरप्” पा० अबेव । तेन तथाविग्रहकल्पनं निर्मू-
लमेव । तत्र संज्ञाया कर्त्तरि घञ् इत्येवोचितम् ।

उद्धत पु० उद् + हन--क्त । १ राजमल्ले । २ वाक्यादिचञ्चले,

३ अविनीते, ४ प्रगलभे ५ उद्गते च त्रि० । “परिगतो-
ज्वलदुद्धतबालधिः” भट्टिः “मदोद्धताः प्रत्यनिलं विचेरुः”
कुमा० “सहजचापलदोषसमुद्धतः” “जनावरुद्धोद्धतसिन्धु-
रंहसाम्” प्रचुरोद्धतध्वजविलम्बिवाससः “अथानुद्धत-
मुद्धवः” माघः । ५ कृतोल्लेखने च । “उत्तरत
आहवनीयस्योद्धतावोक्षिते सिकतोपकीर्णे परिवृते प्रागद्वारे
पिण्डं निदधात्योषघय इति” कात्या०१ ६, ३, १४, “परि-
वृते उद्धते कतोल्लेखने अवोक्षिते सिक्ते” यजु० ११, ४७ मन्त्रे
वेददी० । ततो भावे ष्यञ् । औद्धत्य न० । तल् । उद्धता
स्त्री, त्व, उद्धतत्व न०, तद्भावे चाञ्चाल्यादौ ।

उद्धतमनस्कत्व न० उद्धतं मनोयस्य कप् तस्य भावः त्व ।

अभिमाने गर्वे शब्दचन्द्रिका ।

उद्धति स्त्री उद् + हन--गतौ--क्तिन् । १ उद्गतौ २ उन्नतौ ।

हनआघाते क्तिन् । ३ पाषाणादिनाऽऽघाते (ठोकरलागा) “अभू-
तलस्पर्शितया निरुद्धतिस्तवावतीर्णोऽपि न लक्ष्यते रथः”
शकु० ।

उद्धम त्रि० उद् + ध्मा--श धमादेशः । कृतशब्दे “ध्वनीनामुद्धमै रेभिः” भट्टिः ।

उद्धमचूड़ा स्त्री उद्धम--चूड़े! इत्युच्यते यस्यां क्रियायाम्

मरयू० स० । चूड़ां प्रति उद्ष्मानार्थनिदेशक्रियायाम् ।
एवं उद्धरचूड़ा उद्धमविधमा अपि मयू० स० । तत्तत्-
क्रियार्थं निदेशक्रियायाम् ।

उद्धय त्रि० उद् + धेट--श । उद्धृत्य पानकर्त्तरि । “मधूनाभुद्धयै र्भृशम्” भद्धिः ।

उद्धरण न० उद् + हृ--भावे--ल्युट् । १ मुक्तौ, २ वमने, ३

ऋणशुद्धौ, ४ उन्मूलने ५ उत्तारणे । “दिनानि दीनोद्धरणोचि-
तस्य” रघुः । “तेषामुद्धरणार्थाय इमं पिड़ं ददाम्यम्”
वायुपु० । “कण्टकोद्धरणे नित्यमातिष्ठेत् यत्नमुत्तमम्”
मनुः । ६ उत्थापने । “प्रतिकर्मोद्धरणसंप्रसङ्गे” कात्या०
१, ३, २६ “आहवनीयदक्षिणाग्न्यो र्गार्हपत्यादुद्धरणं कर्त्त-
व्यम्” कर्कः । ७ उद्धृत्य हरणे परिवेषणे च । “सव्येन
वोद्धरणं सामर्थ्यात्” कात्या० ४, १, १०, “उद्धरणं परियेष-
णम्” कर्कः । ८ बहिर्निष्काशने । “दिवैव प्रदहनोद्धरणे”
कात्या० ०१६, ४, उद्धरणं बहिर्निष्काशनम्” कर्कः ।
९ उत्पादने । “आहवनायजागरणे तत एवोद्धरणम्”
कात्या० २५, ३, ५, “तत्र वाहवनीयोद्धरणम्” कर्कः ।
आग्न्युद्धारशब्दे तत्प्रकारः ६३ पृ० उक्तः । कर्मणि
ल्युट् । १० वान्तेऽन्नादौ ।

उद्धरणीय त्रि० उद + हृ--कर्मणि अनीयर् । १ उन्मूलनीये

२ उत्थापनीये ३ आहरणीये च । तव्य उद्धर्त्तव्योऽप्यत्र त्रि० ।

उद्धरावसृजा स्त्री उद्धर अवसृज इत्युच्यते यस्यां क्रिया-

याम् मयू० स० । उद्धरणावसर्जनार्थनिदेशक्रियायाम् ।

उद्धर्त्तृ त्रि० उत् + हृ--तृच् स्त्रियां ङीप् । १ उद्धारकारके

२ उन्मूलके ३ तारणकारके च । “विवीतभर्त्तुस्तु पथि चौरोद्ध-
र्त्तुरवीतके” या० स्मृ० स्त्रियां ङीप् । ण्वुल् । उद्धारक
उक्तार्थे त्रि०

उद्धर्ष पु० उत्कृष्ट उद्भूतोवा हर्षः प्रा० स० । १ उत्कृष्टे २ हर्षे

उद्भूतहर्षे च । उद्भूतोहर्ष यस्य प्रा० ब० । ३ जातहर्षे त्रि०
“उद्धर्षय मघवन्नायुधानि” यजु० ७ । ४२ “उद्धर्षय उद्भू-
तहर्षयुक्तंकुरु” वेददी० नामधातुरूपम् । तत्र हेतुणिजन्त-
रूपमित्येव न्याय्यम् ।

उद्धर्षण न० उद् + हृष--णिच--ल्युट् । १ हर्षयुक्तकरणे २ प्रोत्-

साहने च “हितमुद्धर्षणं चैव उवाच प्रथितं वचः” रामा०
“एवमेतन्महाबाहो! यथा वदसि पाण्डव! । कृतमुद्धर्षणं
पूर्बम्” इत्यादिषु भा० आश्र० १७ अ० बहुकृत्वः
पयोगः । आधारे ल्युटू । २ रोमाञ्चे हेम० ।

उद्धर्षिन् त्रि० उद् + हृष--णिच्--णिनि । उद्धर्षकारके स्त्रियां

ङीप् । सा च वसन्ततिलकाख्ये वर्ण्णवृत्तभेदे । “उक्तावस-
न्ततिलका तभजा जगौगः । सिंहोन्नतेयमुदिता मुनि-
कश्यपेन । उर्द्धर्षिणीयमुदिता मुनिसैतवेन” वृ० र० ।

उद्धव पु० उद् + हु--आधारे अप् । १ यज्ञाग्नौ, २ उत्सवे अमरः ।

३ कृष्णदयिते यादवविशेषे च । उद्धवश्च यादवविशेषः ।
वृष्णिवंशबर्णने । “उद्धवो देवभागस्य, महाभाग! सुतोऽ-
भवत् । पण्डितानां परं प्राहुर्देवश्रवसमुद्धवम्” हरिवं०
३५ अ० । “भारतीमाहितभरामथानुद्धतमुद्धवः” माघः ।
भाग० ११ स्क० एनं प्रत्येव भगवतोज्ञानोपदेशो वर्णितः स
एव उद्धवसंवादत्वेन प्रसिद्धः पारायणे च षष्ठदिने तत्पर्य-
न्ताध्येयता “यावदुद्धवसंवादं षष्ठेऽह्नि परिकीर्त्तवेत्” इत्युक्तेः

उद्धवदूत न० उद्धवोदूतोयत्र । दूतत्वेन उद्धवं परिकल्प्य गो-

प्युक्तिरूपे काव्यभेदे उद्धवसन्देशोऽपि काव्यभेदे पु० ।
पृष्ठ ११७८

उद्धस्त त्रि० उत्क्षिप्तौ हस्तौ येन प्रा० व० । उत्क्षिप्तहस्ते

उद्बाहौ “उद्धस्तः कृशपरुषश्चिरप्रलापी दुर्गन्धो भृशम-
शुचिस्तथाऽतिलोलः । बह्वाशी विजनहिमाम्बुरात्रिसेवी
व्याचेष्टन् भ्रमति रुदन् पिशाचजुष्टः” सुश्रु० ।

उद्धान न० उद्धीयतेऽस्मिन्नग्निः धाञ्--आधारे ल्युट् । १ चूल्ल्या-

म् । कर्मणि ल्युट् । २ वमिते, ३ उद्गते च ।

उद्धान्त पु० उद् + धा बा० झ । मदशून्ये १ हस्तिनि अमरः २ वमिते रमा०

उद्धार पु० उद्ध्रियते उद् + हृ भावे--घञ् । १ मुक्तौ, २ ऋणशुद्धौ

३ उद्धारणे । कर्मणि घञ् । सर्वधनादुद्धृत्य ज्येष्ठादिभ्योदेये
४ अंशभेदे यथा चोद्धारस्तथा मनुना दर्शितः यथा
“ज्येष्ठस्य विंशौद्धारः सर्वद्रव्याच्च यद्वरम् । ततोऽर्द्धं
मध्यमस्य स्यात्तुरीयन्तु यवीयसः ।” “ज्येष्ठश्चैव कनिष्ठश्च
संहरेतां यथोदितम् । येऽन्ये ज्येष्ठकनिष्ठाभ्यां तेषां स्यान्म-
ध्यमन्घनम् । सर्व्वेषान्धनजातानामाददीताग्य्रमग्रजः ।
यच्च सातिशयं किञ्चिद्दशतश्चाप्नुयाद्वरम् । उद्धारो न
दशखस्ति सम्पन्नानां स्वकर्म्मसु । यत्किञ्चिदेव देयन्तु ज्यायसे
मानवर्द्धनम् । एवं समुद्धृतोद्धारे समानंशान् प्रक-
ल्पयेत् । उद्ध्वारेऽनुद्धृते त्वेषामियं स्यादंशकल्पना ।”
अन्योऽपि विशेषः स्मृत्यन्तरे उक्तः किन्तु “तथोद्धा
रविभागस्तु नैव संप्रति वर्त्तते” मिता० स्मृत्युक्तेः
इदानीमुद्धारो नास्तीति सर्व्वनिवन्धकर्त्तॄणामैकमत्या-
त्तन्नोक्तम् “स्वान्वययोग्यपदान्तराक्षेपेण श्रुतपदस्य ५
परित्यागे यथा गां बधान अश्वमानयेत्यादौ आवापोद्धाराभ्यां
गोशब्दस्य सास्रादिमानर्थः” सा० द० । अन्वयव्यतिरेकावे-
वावोपोद्धाराविति तु तत्त्वम् । “जगन्नाथस्यायं
सुरधुनि! समुद्धारसमयः” गङ्गालहरी । ६ वर्ज्जने च “पण्यं
समुद्धतोद्ध्वारं विक्रेयं वित्तवर्द्धनम्” मनुः “उद्धृतो-
द्धारमित्यस्य “वर्जनीयवर्जितम्” कुल्लूक० व्याख्या ।
७ उत्कर्षे च “सगुणानामेव कर्मणामुद्धार उपजने”
आश्व० श्रौ० १२, ४, १४ “यस्मात् प्रधानकर्म्मणामुद्धारे
उपजने उत्कर्षेच सगुणानायेव सर्वत्रोद्धरणम्” ना० वृ०

उद्धारण न० उद् + धृ + णिच्--ल्युट् । १ उत्थापने “लाङ्गूलो-

द्धारणोद्धुरः” भा० व० १४७ अ० । हृ--णिच् ल्युट् ।
२ उद्धारसम्पादने ।

उद्धि पु० उद् + धा--कि । ऊर्द्ध्वंधारके । “पुरोडाशाः शफा

अन्तरिक्षमुद्धिः” अथ० ८, ९, २२, “उद्धारको दशरात्र
उद्धिः पृष्ठ्याभिप्लवौ चक्रे” शत० ब्रा० १२, २, २, २ ।

उद्धुर त्रि० उद्गता धूरस्मात् प्रा० व० अच् समा० । १ निरक्षे

२ भारशून्ये ३ दृढे । “प्रसकालकुचबन्धुरोद्धुरोरः” माघः ।
“जघनमंसबन्धोद्धुरम्” मालतीमा० । “यत्नवानपि तु
श्रीमाल्लाँङ्गूलोद्धारणोद्धुरः” भा० व० १४७ अ० ।
४ उच्चेच “पश्चाद्बद्धभुजं पितरमुद्धुरध्वनिमहाजनानु-
यातमानीय” दशकु० ।

उद्धूत त्रि० उद् + धू--क्त । उत्कम्पिते “उद्धूतमुच्चैर्ध्वजिनीभिरं-

शुभिः” माघः । “पुनानं पवनोद्धूतैः” रघुः ।

उद्धूनन न० उद् + धू--णिच्--नुक् भावे ल्युट् । १ उत्क्षेपणे २ उत्कल्पने च ।

उद्धूपन न० उद् + धूप--आयाभावपक्षे भावे ल्युट् । १ द्रव्य-

विशेषेण ऊर्द्ध्वसन्तापनरूपे व्यापारे (भावरादेओया)
“गृध्रोलूकपुरीषाणि केशा हस्तिनखाघृतम् । वृषभस्य
च रोमाणि योज्यान्युद्धूपनेऽपि च” सुश्रु० । (करणे
ल्युट्) २ तत्साधने द्रव्ये । “सर्षपाः सर्पनिर्म्मोको
वचाकाकादनीघृतम् । उष्ट्राजाविगवाञ्चैव रोमाण्युद्धूपनं
शिशोः । गृध्रोलूकपुंरीषाणि यवा यवफलो घृतम् ।
सन्ध्ययोरुभयोः कार्य्यमेतदुद्धूपनं शिशोः” सुश्रु० ।

उद्धूलन न० धूलिवदुन्मर्दयति उद् + धूलि--णिच् । उद्धूलयति

ततः भावे ल्युट् । १ धूलिवन्मर्द्दने २ पाकार्थोपकरण-
भेदे च । (मशालाचूर्ण्ण) “चूर्णस्योद्धूलनं देयं भोज्ये
क्षीरेक्षुसम्भवे । व्यञ्जनेषु च सर्व्वेषु शाकजेष्वन्नजेषु च ।
मांसमत्स्यभवेष्वेवं प्रलेहतलनादिषु । आदावेव पचेत्
स्नेहे ततोहिङ्गूदकं क्षिपेत् । वेसवारं सलवणं क्षिप्त्वा
तत् पिशितं पचेत् । अर्द्धस्विन्ने क्षिपेत्तक्रमथ वा दाडि-
मीरसम् । सिद्धे पाके च दातव्यं चूर्णमुद्धूलनस्य तत्”
पाकशास्त्रम् ।

उद्धूषण न० उद् + धूष--ल्युट् । रोमाञ्चे हला०

उद्धृत त्रि० उद् + हृ--क्त । १ उत्क्षिप्ते, २ भुक्तोज्झिते, ३ उत्तो-

लिते, ४ पृथक्कृते, ५ उच्छेदिते च । “इतीव वाहैनिर्जवेग
दर्पितैः पयोधिरोधक्षममुद्धृतं रजः” नैष० “उद्धृतासि
पिनाकिना” छुरिकार्च्चामन्त्रः । “पयोऽनुद्धृतसारञ्च”
“गृहेऽप्युद्धृततज्जलैः” आ० त० पु० “उद्धर्त्तुमैच्छत् प्रस-
भोद्धृतारिः” रघुः ।

उद्धृतपाणि त्रि० उत्तरीयात् उद्धृतः बहिष्कृतः पाणिर्येन ।

उत्तरीयवहिष्कृतहस्ते । स्वाध्याये भोजने चैव दक्षिणं
पाणिमुद्धरेत्” मनूक्तकर्म्मण्येव तथा भवनम् ।

उद्धृति स्त्री उद् + हृ--क्तिन् । १ उत्क्षेपणे २ उत्तोलने च ।

“शल्योद्वृतिर्व्रणज्ञानं दूतस्वप्ननिदर्शनम्” सुश्रु० ।
पृष्ठ ११७९

उद्ध्मान न० उद्धमति वह्निरत्र उद् + ध्मा--ल्युट् । १ चूल्ल्याम्

उद्ध्य पु० उज्झ--क्यप् “भिद्योद्ध्यौ नदे” पा० नि० । नदभेदे

“कूलं भिद्योद्ध्यसन्निभौ” भट्टिः “तोयदागमैवोद्ध्यभि-
द्ययोः” रघुः ।

उद्बन्धक पु० । (धोपा) वर्णसङ्करभेदे । “आयोगवेन विप्रायां

जातास्ताम्रोपजीविनः । तस्यैव नृपकन्यायां जातः सूनिक
उच्यते । सूनिकस्य नृपायान्तु जाता उद्बन्धकाः स्मृताः ।
निर्णेजयेयुर्वस्त्राणि अस्पृश्याश्च भवन्त्यतः” उशना ।

उद्बन्धन न० उद् + बन्ध--भावे ल्युट् । ऊर्द्धतः पाशादिना

गलादिबन्धने । “उद्बन्धनमृता ये च गतिर्येघां न विद्यते ।
तेषामुद्धरणार्थाय इमं पिण्डं ददाम्यहम्” वायु पु०
गयामाहात्म्ये “विषमुद्बन्धनं चैव शस्त्रमग्निप्रवेशनम् ।
करिष्ये न हि तानृद्धान् पुनर्द्रष्टुमिहोत्सहे” भा० व०
७ अ० । “जलाग्न्युद्बन्धनभ्रष्टाः प्रव्रज्यानशनच्युताः ।
विषप्रपतनप्रायादात्मघातच्युताश्च ये । सर्व्वे ते प्रत्यवसिताः
सर्व्वेधर्म्मबहिष्कृताः । चान्द्रायणेन शुद्ध्येयुस्तप्तकृच्छ्र-
द्वयेन वा” प्रा० वि० यमः । भावे घज् उद्बन्घोऽप्यत्र पु० ।

उद्बा(द्वा)हु त्रि० उत्तोलिती(वा)बाहुर्येन प्रा० ब० । उत्तोलित-

वाहौ “प्रांशुलभ्ये फले लोभादुद्बाहुरिव वामनः रघुः ।

उद्बुद्ध त्रि० उद् + बुध--क्त । १ विकसिते न्यायादिमते ज्ञात-

वस्तुनः संबन्धिज्ञानादिना २ कृतोद्दीपने संस्कारे च । यथा
हस्तिदर्शनात् अनुभूतहस्तिपकसंस्कारस्य उद्बोधरूपे
उद्दीपने कृते हस्तिपकः स्मर्य्यते इति । ३ प्रबुद्धे ४ जागरिते
च “उद्बुद्धां च जगद्धात्रीं पूजयेद्दीपमालया” ति० त० पु०
येन येन वस्तुना संस्कार उद्बुध्यते तथा उद्बोधकशब्दे
वक्ष्यते । “उद्बुद्धं कारणैः स्वैःस्वैर्बहिर्भावं प्रकाशयेत्” सा० द०

उद्बोध पु० उद् + बुध घञ् । १ किञ्चिद्बोधे न्यायादिमते

स्मृतिजननाय २ संस्कारोद्दीपने च । “उत्साहादिसमुद्बोधः
साघारण्याभिमानतः” ननु कथं रामादिरत्याद्युद्बोघकारणे
सीतादिभिः सामाजिकानां रत्युद्बोधः” इति “रत्याद्युद्बो-
धका लोके विभावाःकाव्यनाट्ययोः इति” च सा० द० ।

उद्बोधक त्रि० उद्बोधयति उद् + बुध--णिच्--ण्वुल् । १ उद्दीपके

२ उद्बोधकारके ३ सूर्य्ये पु० उदयेन सर्वेषां प्रबोधकत्वात्तस्य
तथात्वम् । उद्बोधकानि च न्यायसूत्रवृत्त्योर्दर्शितानि यथा
“प्रणिघाननिबन्धाभ्यासलिङ्गलक्षणसादृश्यपरिग्रहाश्रया-
श्रितसम्बन्धानन्तर्य्यवियोगैककार्य्यविरोधातिशयप्राप्तिव्यवधान
सुखदुःखेच्छाद्वेषभयार्थित्वक्रियारामधर्म्माधर्मानमित्तेभ्यः” सू०
“स्मरणमित्यनुवर्त्तते निमित्तशब्दस्य द्वन्द्वात्परं श्रुतस्य प्रत्ये-
कमभेदेनान्वयः । प्रणिधानं मनसोविषयान्तरसञ्चारवारणम् ।
निबन्ध एकग्रन्थोपनिबन्धनं यथा प्रमाणेन प्रमेयादिस्मरणम् ।
अभ्यासः संस्कारबाहुल्यम् एतस्य यद्यपि नोद्बोधकत्व
तथापि तादृशे शीघ्रमुद्बोधकसमवधानं स्यादित्याशयेन
तदुपन्यासः । अभ्यासोदृढतरसंस्कारः उद्बोधकत्वेनोक्तैति
केचित् । लिङ्गं व्याप्यं व्यापकस्य स्मारकम् । लक्षणं यथा
कपिध्वजादि अर्जुनादेः । सादृश्यं देहादेः । परिग्रहः
स्वीकारस्तस्य स्वस्वामिभावोऽर्थः तदेकतरेणान्यतरस्मरणम् ।
आश्रयाश्रितौ राजादितत्यरिजनौ परस्परस्मारकौ । सम्ब-
न्धोगुरुशिष्यभावादिः गोवृषन्यायात् पृथगुक्तः । आनन्तर्य्यं
प्रोक्षणावघातादेः । षियोगोयथा दारादेः । एककार्य्या-
अन्तेवासिप्रभृतयः परस्परस्मारकाः । विरोधादहिनकुला-
देरन्यतरेणापरस्मरणम् । अतिशयः संस्कारौपनयना-
दिराचार्य्यादिस्मारकः । प्राप्तिर्धनादेर्दातारं स्मारयति ।
व्यवधानमावरणं यथा खड्गादेः कोषादि । सुखदुःखयोर-
न्यतरेणापरस्य ताभ्यां तत्प्रयीजकस्य वा स्मरणम् । इच्छा-
द्वेषौ यद्विषयकतया गृहीतौ तस्य स्मारकौ । भयं मरणा-
देर्भयहेतोर्व्वा स्मारकम् । अर्थित्वं दातुः । शाखादेः
क्रिया वाय्वादेः, रागात्प्रींतेः पुत्रादेःस्मरणं, धर्म्माधर्म्माभ्यां
जन्मान्तरानुभूतसुखदुःखसाधनयोः प्रागनुभूतसुखादेश्च स्म
रणमिति उक्तेषु च किञ्चित्स्वरूपसत्किञ्चिच्च ज्ञातमुद्बो-
धकं शिष्यव्युत्पादनाय चायं प्रपञ्चः” वृ० ।

उद्भट पु० उद् + भट--करणे--अप् । तण्डुलादेः प्रस्फोटन-

हेतौ १ शूर्पे, तदाकारत्वात् २ कच्छपे, ३ श्रेष्ठाशये महाशये,
४ प्रवरे, च “पदेपदे सन्ति भटारणोद्भटाः” नैष०
उद्गतो भटात् ग्रन्थात्” निरा० त० । ग्रन्थबहिर्भूते
लोकप्रसिद्धेऽज्ञातवक्तृकेश्लोके ।

उद्भव पु० उद् + भू--भावे अप् । १ उत्पत्तौ । “स्थैर्य्यं चतुर्थे

त्वङ्गानां पञ्चमे शोणितोद्भवः” या० स्मृ० । कर्त्तरि अच् ।
२ उत्पत्तिमति । “दिलीपसूनुर्मणिराकरोद्भवः” “सोमोद्-
भवायाः सरितो नृसोमः” रघुः । “लुप्तावददोषोऽत्रिमतेन
मध्ये सोमोद्भवायाः सुरनिग्नगायाः” लल्लः । “विष्णुपादो-
द्भवा गङ्गा” पुरा० “सत्वमात्रोद्भवत्वात्ते भिन्ना अप्यनु
भावतः” सा० द० । अपादाने अप् । ३ उत्पत्त्यपादाने ।
“अहमन्तश्च भूतानामुद्भवश्च भविष्यताम्” गीता । उद्गतो
भवात् निरा० स० । ४ संसारातीते ५ विष्णौ पु० । “उद्भवः
क्षोभणोदेवः” विष्णुस० “प्रपञ्चोत्पत्त्युपादनकारणत्वात्
उद्भवः, उद्गतः संसारादिति वा” भा० उभयथा वाक्यम् ।
६ उद्भूतत्वे विशेषगुणगते जातिभेदे उद्भूतशब्दे विवृतिः ।
पृष्ठ ११८०

उद्भावन न० उद् + भू--णिच्--ल्युट् । १ कल्पने, २ उत्पादने च

उद् + चु० भू० ल्युट् । ३ चिन्तने ४ उत्ग्रेक्षणे च “उद्भा-
वनमकुर्व्वन्तौ विदुरस्य मते स्थिताः” भा० आ० १४१ अ०

उद्भास पु० उद् + भास--भावे घञ् । उद्दीप्तौ । ततः अस्त्यर्थे

“नैकाक्षारात् कृतो जातेः सप्तम्याञ्च न तौ स्मृतौ” वात्ति०
घञ्रूपकाक्षरात् इनेरप्राप्तौ बाला० पाठात् मतुप् इनि
र्वा । उद्भासवत् उद्भासिन्--तद्युक्ते त्रि० । “विभूषणोद्भासि
पिनद्धभोगि वा” कुमा० स्त्रियां ङीप् ।

उद्भिज्ज पु० उद्भिनत्ति क्विप् उद्भित् तथा सन् जायते

जन--ड कर्म्म० । भूमिमुद्भिद्य जाते १ तरुगुल्मादौ “उद्भिज्जाः
स्थावराः सर्वेवीजकाण्डप्ररोहिणः” इति मनुः । पदा०
योगार्ण्णवे । “देहश्चतुर्विधोजन्तोर्ज्ञेय उत्पत्तिभेदतः ।
उद्भिज्जः स्वेदजोऽण्डोत्थश्चतुर्थश्च जरायुजः । उद्भिद्य
भूमिं निर्गच्छन्नुद्भिदः स्थावरश्च यः” इति विभज्य तदुत्-
पत्तिप्रकारस्तत्र दर्शितः “उद्भिज्जाः स्थावरा ज्ञेयास्तृ-
णगुल्मादिरूपिणः । तत्र सिक्ता जलैर्भूमेरूष्मभिश्च विपा-
चिताः । वायुना व्यूहमानास्तु वीजत्व प्रतियन्ति ते ।
तथाचोप्तानि वीजानि संसिक्तान्यम्भसा पुनः । उच्छू-
नतां मृदुत्वं च मूलभावं प्रयान्ति च । तन्मूलादङ्कुरोत्
पत्तिरङ्कुरात् पर्ण्णसम्भवः । पर्ण्णात्मकस्वतःकाण्डः काण्डाच्च
प्रसरः पुनः” । एतेषां च यथा पापभोगायतनवत्त्वात्
देहवत्त्वं तथाऽयोनिजशब्दे ३४७ पृष्ठे उक्तम् “शरीरजैः
कर्मदोषैर्याति स्थावरतां नरः” या० स्मृतौ शारीरपापेन
तेषां देहोत्पत्तिश्रवणात् भोगायतनदेहवत्त्वमुन्नेयम् ।
अतएव मुक्तावल्याम् चेष्टाश्रयत्वं शरीरलक्षणमुक्त्वा
“वृक्षादीनामपि चेष्टासत्त्वान्नाव्याप्तिः । न च वृक्षादीनां
शरीरित्वे किं मानम्? इति वाच्यम् आध्यात्मिकवायु-
सन्धन्धस्य प्रमाणत्वात् तत्रैव किं मानम्? इति चेत्
भानक्षतसंरोहणादिना तदनुमानात्” इत्युक्तम् । यथा च
स्थावराणां स्वस्वकर्मोत्पन्नदेहसत्त्वं तथाऽवरोहशब्दे ४४०
पृष्ठे शा० सू० भाष्येण दर्शितम् । तेषां विमागोन्यायक-
न्दल्याम् दर्शितं यथा “स्थावरास्तृणौषधिलतावतानवनस्पतय
इति” भा० । “तृणमूलपादिः ओषधयः फलपाकान्ता गोधू-
मादयः, ये न पुष्पफलास्ते वृक्षा कोविदारप्रभृतयः लता
प्रसिद्धैव । अवतन्वन्ति अवताना विटपास्तद्वन्तः केतकी
बीजपुरादयः ये विना पुष्पं फलन्ति ते वनस्पतय
ओदुक्षरादयः” । न्या० क० । २ भूमिमुद्भिद्यजातमात्रे त्रि० स्थाव-
रादिविभागे सुश्रुतः “द्रव्याणि पुनरोषधयस्ता द्विविधाः
स्थावरा जङ्गमाश्च । तासां स्थावराश्चतुर्विधाः । वनस्पतयी
वृक्षा वीरुध ओषधय इति । तास्वपुष्पाः फलवन्तोबन-
स्पतयः पुष्पफलवन्तो वृक्षाः । प्रतानवत्यः स्कन्धिन्यश्च
वीरुधः । फलपाकनिष्ठा ओषधय इति । जङ्गमा अपि
चतुर्विधा जरायुजाण्डजस्वेदजोद्भिज्जाः । तत्र
पशुमनुष्यव्यालादयो जरायुजाः । खगसर्पसरीसृपप्रभृतयो
ऽण्डजाः । कृमिकीटपिषीलिकाप्रभृतयः स्वेदजाः ।
इन्द्रगोपमण्डूकप्रभृतय उद्भिज्जाः” ।

उद्भिद् पु० भूमिमुद्भिनत्ति उद् + भिद्--क्विप् । १ वृक्षतृण-

गुल्मवल्लोलतारूपे पञ्चविधे स्थावरभेदे उद्भिज्जशब्दे
उदा० । उद्भिनत्ति पशून् । २ यागभेदे “उद्भिदा यजेत” श्रुतिः
उद्भिदादिशब्दानां यथा कर्म्मनामधेयता व्युत्पत्तिसहितं
जै० सू० भाष्ययोस्तथा दर्शितं यथा
“उक्तं समाम्नायैदमर्थ्यं तस्मात् सर्व्वं तदर्थं स्यात् १, ४, १,
सू० । ‘उद्भिदा यजेत’ ‘बलविदा यजेत’ ‘अभिजिता यजेत’
‘विश्वजिता यजेत’ इति समामनन्ति, तत्र सन्देहः, किम्
उद्भिदादयो गुणविधयः, आहोस्वित् कर्मनामधेयानि
इति । कुतः संशयः? उभयथाऽपि प्रतिभाति वाक्यात्,
उद्भिदा इत्येष शब्दो यजेतैत्यनेन संबध्यते, स किं
वैयधिकरण्येन संबन्धमुपैति, उद्भिदा द्रव्येण यागमभि-
निर्वर्त्तयेदिति, उत सामानाधिकरण्येन, उद्भिदा यागेन
यजेत इति द्बेधाऽपि एतस्मिन् प्रतिभाति वाक्ये, सम्
भवति सशयः ।
किं तावत् प्राप्तम्? उक्तमस्माभिः समाम्नायस्यैद-
मर्थ्यं, कश्चिदस्य भागोविधिः, योऽविदितमर्थं वेदयति,
यथा ‘सोमेन यजेत’ इति कश्चिदर्थवादः, यः प्ररो-
चयन् विधिं स्तौति, यथा ‘वायुर्वै क्षेपिष्ठा देवता’
इति, कश्चित्मन्त्रः, योविहितमर्थं प्रयोगकाले प्रकाशयति,
यथा ‘र्बर्हिर्देवसदनन्दामि’ इत्येवमादि, तस्मादुद्भिदादयो-
ऽमीबां प्रयोजनानामन्यतमस्य प्रयोजनाय भवेयुः, तत्र
तावन्नार्थवादः, वाक्यशेषो हि स भवति विधातव्यस्य,
न च मन्त्रः, एवंजातीयकस्य प्रकाशयितव्यस्य
अभावात्, पारिशेष्यात् गुणविधिः, उद्भिद्गुणता यागस्य विधी-
यते प्रसिद्धेरनुग्रहात्, गुणविधेरर्थवत्त्वात्, प्रवृत्तिवि-
शेषकरत्वाच्च । न च, एषां यागार्थता लोकेऽवगम्यते!
न च, वेदेन परिभाष्यते! अतोगुणविधयः । ‘यदि
गुणविधिः, न तर्हि कर्म विधीयते, अविहिते व कर्मणि
पृष्ठ ११८१
तत्र गुणविधानमनर्थकम्’ । न इति ब्रूमः, प्रकृतौ ज्यो-
तिष्टोमे गुणविधानमर्थवद्भविष्यति, यदि नामधेयं स्यात्,
यावदेव यजेत इति, तावदेव उद्भिदा यजेत इति, न
प्रवृत्तौ कश्चित् गुणविशेषः स्यात् । गुणविधौ च
गुणसंयोगात् अभ्यधिकमर्थं विदधत उद्भिदादयः शब्दा
अर्थवन्तो भविष्यन्ति तस्मात् गुणविधय इत्येवं प्राप्तम्” भा०
“अपि वा नामधेयं स्यात् यदुत्पत्तावपूर्ब्बमविधायकत्वात्”
१, ४, २, सू० “अपि वा इति पक्षो विपरिवर्त्त्यते । नामधेयं
स्यात् इति प्रतिजानीमहे, एवमविहितमर्थं विधास्यति
ज्योतिष्टोमात् यागान्तरं, श्रुतिश्चैवं यागमभिधास्यति,
इतरथा श्रुतिरुद्भिदादीन् वक्ष्यन्तो उद्भिदादिमतो
लक्षयेत्! उद्भिद्वता यागेन कुर्य्यादिति । यागेन कुर्य्यात्
इति यजेतेत्यस्यार्थः करणं हि यागः । उद्भिदाद्यपि
तृतीयानिर्द्देशात् करणं, तत्र उद्भिदा यागेन इति कर्म-
नामधेयत्वेन सामानाधिकरण्यसामञ्जस्यं, द्रव्यवचनत्वे
मत्वर्थलक्षणया सामानाधिकरण्यं स्यात् । श्रुतिलक्षणा
बिशये च श्रुतिर्ज्यायसी । तस्मात् कर्मनामधेयम् । ‘ननु
मसिद्धं द्रव्यवचनत्वनपह्रूयेत, अप्रसिद्धं कर्मवचनत्वं
प्रतिज्ञायेत’ उच्यते, तृतीयानिर्द्देशात् कर्मवचनता । कुतः?
करणवाचिनी हि प्रातिपदिकात् तृतीया भवति, करणं
च यागः, तेन यागवचनमिममनुमास्यामहे ।
“नैतद्युक्तं, यदि तृतीयार्निर्द्देशे सति उद्भिदादिभ्यः
शब्देभ्यो यागे बुद्धिरुत्पद्येत, स्यादेतदेवं, न हि नो बुद्धि
रुत्पद्यते, तस्मात् अयुक्तम् । तृतीयावचनम् अन्यथा
नोपपद्यते” इति चेत् । कामं नोपपादि, न जातुचित्
अनवगम्यमानेऽपि यागवचनो भविष्यति, तस्मात् गुणवि-
धयः । लक्षणेति चेत्, वरं लक्षणा कल्पिता, न यागाभि-
षानं, लौकिकी हि लक्षणा, हठोऽप्रसिद्धकल्पनेति । अपि
च यदि नामधेयं विधीयते, न यागः, अथ यागः, न
नामधेयम्, उभयविधाने वाक्यभेदः” इति । उच्यते, न
नामधेय विधायिष्यते, अनुवादा हि उद्भिदादयः ।
कुतः प्राप्तिः? इति चेत् । ततोऽभिधीयते, उच्छब्दसा-
मर्थ्यात् भिच्छब्दसामर्थ्याच्च उद्भिच्छब्दः क्रियावचनः,
उद्भेदनं प्रकाशनं पशूनामनेन क्रियते इत्युद्भित् यागः,
एवमाभिमुख्येन जयात् अभिजित्, विश्वजयात विश्वजित्,
एव सर्वत्र । अतः कर्मनामधेयम् । यत्त्वप्रवृत्तिविशेष-
करोऽनर्थकः इति, नामधेयेऽपि गुणफलोपबन्धेनार्थवत्,
तस्मात् कर्मनामधेयान्येवंजातीयकानि--इति सिद्धम्” भा०
गवामयने यज्ञे सप्रममासिकोत्तमाभिप्लविकस्थाने ३ एकादशे
दिने । “सप्तमस्य मासस्योत्तमयोरभिप्लवयोः स्थाने
त्रिवृद्व्यूहोदशरात्र उद्भिद्बलभिदौ” आश्व० श्रौ० १२,
१, ५, “सप्तमस्य मासस्य ये त्रयोऽभिप्लवाः तेषां वौ उत्त-
माभिप्लवौ तयोः स्थाने त्रिवृत्स्तोमको व्यूहोदशरात्रः
उद्भिद्बलभिदौ च द्बे अहनी इत्येतानि द्वादशाहानि”
नारा० वृ० । गवामयनशब्दे विवृतिः ।

उद्भिद पु० उद् + भिद--क । १ वृक्षादौ पञ्चविधे स्थावरे ।

२ उद्भेदके त्रि० “होता यक्षत्तनूनपातमुद्भिदम्” यजु०
३८, २५ “उद्भिदं यज्ञफलानामुद्भेत्तारम्” वेददी० ।

उद्भिन्न त्रि० उद् + भिद--क्त । १ उत्पन्ने कर्मणि क्त । २ द्विधाकृते

दलिते च । “योवनोद्भिन्नशैशवा” ।

उद्भूत त्रि० उद् + भू--क्त । १ उत्पन्ने “शिवलिङ्गतयोद्भूतः कोटि-

सूर्य्यसमप्रभः” ति० त० पु० “समुद्रमथनोद्भूतः”
कलसमन्त्रः न्यायमते २ प्रत्यक्षयीग्ये “उद्भूतरूपं नयनस्य
गोचरः” उद्भूतस्पर्शवद्द्रव्यं गोचरः सोऽपि च त्वचः”
भाषा० । उद्भूतत्वञ्च उद्भवापरपर्य्यायो रूपादिविशेषगु-
णगतोजातिभेदः कणा० सूत्रवृत्तौ उक्तः यथा
“अनेकद्रव्यसमवायात् रूपविशेषाच्च रूपोपलब्धिः” क० सू० ।
“तेन रसगन्धस्पर्शेषु ज्ञानं व्याख्यातम्” सू० । “रूपगतो-
विशेषोरूपविशेषः तच्चोद्भूतमनभिभूतत्वंरूपत्वञ्च तस्माद्रूप-
स्योपलब्धिः । नन्वेवं परमाणोर्द्व्यणुकस्य च रूपं गृह्ये-
तेत्यत उक्तमनेकद्रव्यसमवायादिति अनेकपदं भूयस्त्वपरं
तेनानेकानि भूयांसि द्रव्याणि आश्रयतया यस्य
तदनेकद्रव्यं त्रसरेणुप्रभृति तत्समवायात्, घटादयोऽप्य-
वयवद्वयारब्धाः परम्परयाऽनकद्रव्याश्रया एव, रसस्पर्शा-
दौ रूपत्वविरहात् चाक्षुषत्वाभावः चाक्षुषे तेजसि च
उद्भूतत्वविरहात्, । उद्भवः रूपादिविशेषगुणगतो जाति-
विशेष एव रूपत्वादिव्याप्यः । नन्वेवं शुक्लत्वसुरभित्वक-
टुत्वादिभिरपि परस्परभावानुपपतिरेव तत्तद्व्याप्यतन्ना-
नात्वकल्पने तु कल्पनागौरवम् उद्भवपदस्य नानार्थत्व-
ञ्चेति चेन्न वाह्यैकैकेन्द्रियग्रहणयोग्यगुणत्वस्यैपोपाधेरु-
द्भवत्वात् तदुपाधिविरहस्यैवानुद्भवत्वात्, । अनुद्भवाभाव
एव उद्भव इति केचित् । तच्चिन्त्यम् अनुद्धवस्याप्येवं
व्यवस्थापयितुमशक्यत्वात् । अतीन्द्रियविशेषगुणत्वमनुद्भूतत्व-
मिति चेत् एवं तर्हि ऐन्द्रियकविशेषगुणत्वस्यैवोद्भवत्वा-
पत्तेः । ऐन्द्रियकत्वावच्छेदकं किमिति चेत् तुल्यम्,
विशेषगुणेष्वेकैवोद्भूतत्वं जातिः गुणगतजातौ परस्पर-
पृष्ठ ११८२
भावानुपपत्तिर्न दोषायेत्यपि वदन्ति । तेनेति रूपप्रत्यक्ष-
ज्ञानेनेत्यर्थः यथा रूपविशेषात् रूपत्वानभिभूतत्वोद्भूतत्व-
लक्षणात्, रूपोपलब्धिस्तथा रसविशेषात् रसत्वानमि भूतत्वो-
द्भूत्वलक्षणात् रसोपलब्धिः एवमितरत्रापि योज्यम् ।
अनेकद्रव्यसमवायश्चातिदेश्यः । घ्राणरसनत्वगिन्द्रियाणामनु-
द्भवाद्गन्धरसस्पर्शानामग्रहणम् पाषाणादावनुद्भवाद्गन्धर-
सयोः । तद्भस्मनि तयोरुपलम्भात् तयोः पाषाणादावुप-
लम्भ एव न तुस्पष्ट इत्येके । विभक्तावयवाप्यद्रव्यरूपानु-
द्भवात्तदग्रहणम् एवं रसस्यापि । उष्णजले तेजीरूप-
स्यानुद्भवात् स्पर्शस्य चाभिभवात् विततकर्पूरचम्पकादौ
रूपरसस्पर्शानामनुद्भवादनुपलम्भः । कनकादौ रूपमुद्भूत-
मेव शुक्लत्वभास्वरत्वे परमभिभूते । रूपमप्यभिभूतमि-
त्येके कनकग्रहणन्तु रूपान्तरसाहचर्य्यात् । अभिभवश्च
बलवत्सजातीयग्रहणकृतमग्रहणं न तु बलवत्सजातीयस-
म्बन्धमात्रम्, बलवत्सजातीयसम्बन्धस्याप्यग्रहणनिरूप्यतया
अग्रहणस्यैवोपजीव्यत्वात् नचाग्रहणप्रयोजकत्वेन बलवत्स-
जातीय एवोपजीव्यः, अग्रहणस्य ग्रहणप्रागभावस्य
तदत्यन्ताभावस्य वा तदप्रयोज्यत्वात् ग्रहणध्वंसस्य
च तत्राभावात् । तवापि तर्हि बलवत्सजातीयग्रहणकृतमग्रहण-
मनुपपन्नमेबेति चेत् अस्त्वेवं तथापि सजातीयस्य
बलवत्त्वे दुर्बलत्वे वा तादृशसम्बन्धसत्त्वे वा ग्रहणाग्रहणे
एव प्रयोजके एवेति स एवाभिभवपदार्थः” ।

उद्भूति त्रि० उद् + भू--क्तिन् । १ उत्पपत्तौ । उत्कृष्टा भूतिः ।

२ उत्तमविभूतौ ३ औन्नत्येच । “उमा बधूर्भवान्
दाता याचितार इमे वयम् । वरः शम्भुरलं ह्येष त्वत्-
कुलोदभूतये विधिः” कुमा० ।

उद्भेद पु० उद् + भिद--अच् । १ रोमाञ्चे । भावे घञ् ।

२ उद्भिद्योत्पत्तौ ३ प्रकाशे च । “उमास्तनोद्भदमनु प्रवृद्धः”
कुमा० । “तं योवनोद्भेदविशेषकान्तम्” रघुः ।
“पुष्पोद्भेदं सह किसलयैर्भूषणानां विशेषात्” मेघ० । “कन्दो-
द्भेदावैद्रुमा वारिणीव” माघः । “हसितंतु वृथाहासो
यौवनोद्भेदसम्भवः” “शृङ्गोहि मन्मथोद्भेदस्तदागमनहेतुकः”
सा० द० । ३ मेलने च “गङ्गोद्भेदं समासाद्य त्रिरात्रोपो-
षितोनरः” भा० व० ८४ अ० । ल्युट् । उद्भेदनमप्यत्र न० ।
चमसोद्भेदनं विप्रास्तत्रापि कथयन्त्युत” भा० व० ८८ अ० ।
“उद्भेदनं प्रकाशनम्” उद्भिच्छब्दे शवरभा० ।

उद्भ्रम पु० उद् + भ्रम--करणे घञ् न वृद्ध्विः । १ उद्वेगे भावे

घञ् । २ समन्तात् भ्रमणे । भावे ल्युट् । उद्भमणमप्यत्र न०

उद्भ्रान्त न० उद् + भ्रम--भावे क्त । १ उद्भ्रमणे अम० स्वार्थे कन् ।

घूर्णितगतौ शकु० । अन्तर्भूतण्यर्थे भावे क्त । २ बाहुमुद्यम्य
खड्गभ्रामणे । उद् + भ्रम--कर्त्तरि क्त । ३ भ्रान्तियुक्ते ४ ऊर्द्ध्वं
भ्रमणकर्त्तरि च त्रि० । “मारीचोद्भ्रान्तहारीताः, रघु०

उद्य त्रि० वद--क्यप् । कथनीये “अनृतोद्यं न तत्रास्ति” भट्टिः

सुप्युपपद एवास्य साधुत्वम् न पृथक्प्रयोग इति ।

उद्यत् त्रि० उद् + या--शतृ । उद्गच्छति “उद्यता जयिनि

कामिनीमुखे तेन साहसमनुष्ठितं पुनः” का० प्र० “उद्यन्
समुद्रादुत वा पुरीषात्” यजु० २९, १२ । “नेक्षेतोद्यन्त
मादित्यम्” मनुः । स्त्रियां ङीप् । सा च २ विष्टुतिभेदे
च सा च ताण्ड्य० ब्रा० दर्शिता
“तिसृभ्योहिङ्करोति स प्रथमया, तिसृभ्योहिङ्करोति
स मध्यमया, तिसृभ्योहिङ्करोति स उत्तमयोद्यती त्रिवृतो
विष्टुतिः” । “एकैकस्य साम्नः पञ्चविभक्तयः प्रस्तावोद्गी-
थप्रतिहारोपद्रवनिधनाख्याः, तत्र हिङ्कारस्त्रिभिरुद्गातृभिः
सर्व्वत्र कर्त्तव्यः अतएव सूत्रकृतोच्यते “साम्ने साम्ने
हिङ्कुर्युरिति” तिसृभ्य इति “क्रियार्थोपपदस्य च कर्म्मणि
स्थानिनः” पा० कर्मणि चतुर्थी तिस्र ऋचो गातुं हिङ्कु-
र्यात् एकवचनमतन्त्रम् उक्तादेव हेतोः” अतस्त्रयोऽप्युद्-
गातारो हिङ्कुर्युरित्यर्थः । एवमुत्तरत्रापि हिङ्कारवि-
धायकेषु वाक्येषु योजना । स हिङ्करोति स हिंकर्त्ता
प्रथमया त्रिरुक्तया गायेत् अयं प्रथमः पर्य्या-
षः । त्रिसृभ्यो हिङ्करोति स हिङ्कर्त्ता मध्यमया
त्रिरुक्तया गायेत् अयं द्वितीयः पर्यायः, पुनरपि
तिसृभ्यो हिङ्करोति स हिङ्कर्त्ता तृचस्योत्तमा
अन्त्या तया त्रिरुक्तया गायेत् एषः तृतीयः पर्य्यायः ।
अनेन पर्य्यायेण त्रिवृत्स्तोमः सम्पद्यते उक्तप्रकारेण
त्रिधा वर्त्तत इति त्रिवृत् स्तोमः तस्य विष्टुतिरेषा उद्यती
ऊर्द्ध्वं गच्छन्ती उक्तेवु पर्यायेषु प्रथममध्यमोत्तमक्रमेण ऊर्द्ध्वं
गमनादन्वर्थसंज्ञेयमेषा त्रिवृतः प्रथमा विष्टुतिः” मा०
सामसं० भाष्ये माधवेनौद्यतीनामकविष्टुतेः प्रकारः स्पष्टं
दर्शितो यथा “पठितानां नवानामृचां गानं त्रिभिः पर्या-
यैः कर्त्तव्यम् तत्र प्रथमपर्याये त्रिषु सूक्तेषु आद्यास्तिस्र
ऋचः, द्वितीये पर्याये मध्यमाः, तृतीये पर्याये चोत्तमाः ।
तिसृभ्य इति तृतीयार्थे पञ्चमी, हिङ्करोति गायतीत्यर्थः ।
सेयं यथोक्तप्रकारीपेता गीतिस्त्रिवृत्स्तोमस्य विष्टुतिः
(स्तुति--प्रकार--विशेषः), अस्याः विष्टुतेरुद्यती नामेति, भा०
पञ्चदशस्तोमेऽपरा उद्यती विष्टुतिः ता० ब्रा० दर्शिता यथा
पृष्ठ ११८३
“तिसृभ्यो हिङ्करोति स पराचीमिः, पञ्चभ्यो हिङ्करोति
स एकया स तिसृभिस्म एकया, सप्तभ्यो हिङ्करोति स
तिसृभिस्स एकया स तिसृभिरुद्यती पञ्चदशस्य विष्टुतिः”
ब्रा० “त्रिषु पर्यायेषूत्तरोत्तरसंख्योत्कर्षमेत्युद्यती पञ्चदशस्य
विष्टुतिरिति । त्रिषु पर्यायेषूत्तरोत्तरसंख्योत्कर्षमेती-
त्युद्यतीत्युच्यते” भा० ।
सप्तदशस्तोमस्यापराप्युद्यती तत्रैव दर्शिता
“अथोद्यत्याख्यां सप्तदशस्तोमस्यापरां विष्टुतिमाह” भा० ।
“तिसृभ्यो हिङ्करोति स पराचीमिः, पञ्चभ्यो हिङ्करोति
स एकया स तिसभिस्स एकया, नवभ्योहिङ्करोति स
तिसृभिस्सतिसृभिस्स तिसृभिरुद्यती सप्तदशस्य विष्टुतिः”
ब्रा० । “तिसृभ्यः पञ्चभ्यो नवभ्य इति क्रमेण सख्याया
ऊर्द्ध्वगमनादुद्यती ऊर्द्ध्वं गच्छन्ती एतत्संज्ञा एषा सप्तदश
स्तोमस्य विष्टुतिः” भा० ।
अयं संक्षेपः गवामयने त्रिवृदादयः स्तोमाः विहिताः तेषां
त्रिवृदादिस्तोमानां तिस्रोविष्टुतयः (सन्निवेशविशेषरूपेण
स्तवनानि) तत्र वहिष्पवमानसाधनस्य त्रिवृत्स्तोमस्य
तिस्रो विष्टुतयः उद्यती कुलायिनी परिवर्त्तिनी चेति
तत्राद्या दर्शिता अन्त्ये तत्तच्छब्दे वक्ष्येते ।

उद्यत त्रि० उद् + यम--कर्त्तरि--क्त । १ उद्यमयुक्ते कृतोद्यमे

“आततायी बधोद्यतः” अमरः । भावे क्त । २ उद्यमे न० ।
यमेर्नियमनार्थत्वे कर्मणि क्त । ३ उत्तोलिते ४ उद्यमिते
“प्रवृक्तस्तेज उद्यत आश्विनः” यजु० ३९, ५ । “उद्यम्यते
इत्युद्यतः” वेददी० । “पर्य्यायोद्यतकार्म्मुकौ” रघुः ।

उद्यति स्त्री उद् + यम--भावे क्तिन् । उद्यमे । “वैश्वदैवानि

जुहोत्यश्वमेधस्योद्यत्यै” शत० ब्रा० १३, १, ८, १ ।

उद्यम पु० उद् + यम--घञ् न वृद्धिः । १ प्रयासे प्रयत्नभेदे

२ उद्योगे । “निशम्य चैनां तपसे कृतोद्यमाम्” “शशाक
मेना न नियन्तुमुद्यमात्” कुमा० । ३ उत्तोलने च
“विप्रदण्डोद्यमे कृच्छ्रमतिकृच्छ्र निपातने” या० स्मृ० ।

उद्यमन न० उद् + यम--णिच्--ल्युट् । १ उत्क्षेपणे २ उत्तोलने ।

उद्यमित त्रि० उद् + यम--णिच्--क्त । १ उत्तोलिते २ उद्यमाय

प्रेरिते । “आत्मनोमधुमदोद्यमितानाम्” किरा० ।

उद्यान पुंन० उद्यायतेऽत्र उद् + या--आधांरे ल्युट्

अर्द्धचादि । आरामे । तत्करणप्रकारादि आरामशब्दे
८०१ पृ० उक्तम् । “बाह्योद्यानस्थितहरशिरश्चन्द्रिकाधौत-
हर्म्या” “उद्यानानां नवजलकणैर्यूथिकाजालकानि” मेघ०

उद्यानपाल त्रि० अद्यानं पालयति पाल--अण् उप० स० ।

(माली) उद्यानरक्षके “उद्यानपालसामान्यमृतवस्त
मुपासते” कुमा० । ण्वुल् । उद्यानपालकोऽप्यत्र । स्त्रियां
टाप् अतैत्त्वम् । “ततः प्रविशति उद्यानपालिका”
मालविकाग्निमित्रनाटकम् ।

उद्यापन पुंन० उद् + या--णिच्--ल्युट् अर्द्धर्चादि । व्रतादि-

समापने ब्रतप्रतिष्ठायाम् । हेमाद्रौ व्रतखण्डं
“उद्यापनं प्रवक्ष्यामि” इत्यसकृत्व्रतभेदे प्रयोगः । प्रति-
ष्ठा च कर्म्मान्तरं न तदङ्गमिति” रघु० । अस्येतिकर्त्त-
व्यतासामान्यप्रकारः व्रतततत्त्वादौ अनुसन्धेयः । विशेषतस्तु
तत्तद्व्रतोक्तविधायवाक्येभ्योऽवसेयः विस्तरस्तु हेमाद्रौ व्रत-
खण्डे दृश्यः । तत्र तिथि० त० व्रतारम्भप्रतिष्ठयोर्व-
र्ज्यकालमाह ज्योतिषे “गुरोर्भृगोरस्तबाल्ये वार्धके
सिंहके गुरौ । वक्रिजीवाष्टविंशेऽह्नि गुर्वादित्ये
दशाहिके । पूर्वराशावनायातातिचारिगुरुवत्सरे । प्रा-
ग्राशिगन्तृजीवस्य चातिचारे त्रिपक्षके । कम्पाद्यद्भुत
सप्ताहे नीचस्थेज्ये मलिम्लुचे । भानुलङ्घितके मासि
क्षये राहुयुते गुरो । पौषादिकचतुर्मासे चरणाङ्कित
वर्षणे । एकेनाह्ना चैकदिने द्वितीयेन दिनत्रये ।
तृतीयेन तु सप्ताहे माङ्ग्यल्यानि शुभान्विताः । विद्या-
रम्भकर्णवेधौ चूड़ोपनयनोद्वहान् । तीर्थस्नानमना-
वृत्तं तथानादिसुरेक्षणम् । परीक्षाऽऽरामयज्ञांश्च
पुरश्चरणदीक्षणे । व्रतारम्भप्रतिष्ठा च गृहारम्भप्रवेशने ।
प्रतिष्ठारम्भणे देवकूपादेर्वर्जयन्ति च । द्वात्रिंशद्दिवसा-
श्चास्ते जीवस्य भार्गवस्य च । द्वासप्ततिर्महत्यस्ते पादास्ते
द्वादश क्रमात् । अस्तात् प्राक् परयोः पक्षं गुरोर्व्वार्द्धक-
वालते । पक्षं वृद्धोमहास्तेतु भृगुर्बालोदशाहिकः ।
पादास्ते तु दशाहानि वृद्धःशुक्रो दिनत्रयम्” । एवं व्रता-
रम्भप्रतिष्ठयोर्वज्ज्यकालोक्तेः सिंहस्थरवौ तदकर्त्तव्यता-
कल्पनं साहसमेव हरितालिकादिव्रते तद्वर्जनस्यासम्भवात्
तस्य सिंहस्थरविकत्वेनैव निमित्तत्वात् तच्च हरिता-
लिकाशब्दे वक्ष्यते । सिंहस्थरविककालस्याशुद्धिबोधक
वाक्यस्य व्रतारम्भप्रतिष्ठाव्यतिरिक्तविषयकत्येनाप्युपत्तेः ।
“पूर्णे काले व्रतानां तु प्रतिष्ठां विधिवच्चरेत् । न तत्र
कालनियमस्तत्र विघ्ने पराविदके इति” वचनात् पूर्ण्णकाले
न समयाशुद्धिर्बाधिकेति केचित् । एतद्वचनस्यामूलकत्व-
माहुरन्ये ।
पृष्ठ ११८४

उद्याम पु० उद्यम्यतेऽनेन उद् + यम--करणे घञ् वा वृद्धिः ।

ऊर्द्ध्वनियमनसाधने रज्ज्वादौ । “शिक्यपाशं प्रतिमुञ्चते
षडुद्यामं विश्वारूपाणीति” कात्या०१ ६, ५, ६, उदूर्द्ध्वं
यम्यते नियम्यते यैस्ते उद्यामाः षडुद्यामारज्जवः ऊर्द्धा-
कर्षणहेतवोयस्य” यजु० १३, १०३ मन्त्रव्या० वेददी० “षडु-
द्यामं भवांत षड्ढि दिशो मौञ्जं त्रिवृत्” “संवत्सर
एषोऽग्निरृतवः शिक्यमृतुभिर्हि संवत्सरः शक्नोति
स्थातुं यच्छक्नोति तस्माच्छिक्यमृतुभिरेवैनमेतद्बिभर्त्ति
षडुद्यामं भवति षड्ढ्यृतवः” शत० ब्रा० ६, ७, १, १६, १८,

उद्याव पु० उद् + यु--अपं बाधित्वा “उदि श्रयतियौति-

प्रुद्रुवः” पा० घञ् । ऊर्द्ध्वतोमिश्रणे अनुदि तु अबेव ।

उद्यास पु० उद + यस--घञ् । १ उद्यमे कर्त्तरि संज्ञायां

घञ् । २ देवभेदे पु० । “आयासाय स्वाहा प्रयासाय
स्वाहा संयासाय स्वाहा वियासाय स्वाहोद्यासाय स्वाहा”
यजु० ३९, ११, “आयासादयो देवविशेषाः” वेददी० ।

उद्योग पु० न० उद् + युज--घञ् अर्द्वर्चादि । १ उद्यमे कर्म्म-

करणार्थं प्रयासभेदे “उद्योगादनिवृत्तस्य सुसहायस्य
धीमतः । छायेवानुगता तस्य नित्यं श्रीः सहचारिणी”
नीति० । “शब्दादिविषयोद्योगकर्म्मण मनसा गिरा”
या० स्मृतिः । “उद्योगंसर्व्वसैन्यानां दैत्यानामादिदेश ह”
देवीमा० । भीजसेनवत् उत्तरपदलोपे २ उद्योगपर्व्वणि च ।
“उद्योगः सैन्यनिर्याणं श्वेतीपाख्यानमेव च” भा० आ०
१ अ० “उद्योगे भरतश्रेष्ठः मर्व्वकामगुणान्वितम् । भोजनं
भोजयेद्विप्रान् गन्धमाल्यैरलङ्कृतान्” भा० स्वर्गा० ६ अ०

उद्योगपर्वन् न० उदयोगस्य प्रतिपादकं पर्व्व । व्यास

रचितभारतान्तर्गते पञ्चमे पर्बणि । “उदयोगपर्व्व
विज्ञेयमतऊर्द्ध्वं महाद्भुतम्” । “उद्योगपर्व्व विज्ञेयं
पञ्चमं शृण्वतः परम्” तत्रत्यवृत्तान्तमुपवर्ण्य । “उद्योग
पर्व्व निर्द्दिष्टं सन्धिविग्रहसम्मितम्” भा० आ० १ अ० ।

उद्योगिन् त्रि० उद + युज--घिणुन् । उद्योगयुक्ते । “उद्-

योगिनं पुरुषसिंहमुपैति लक्ष्मीर्दैवेन देयमिति
कापुरुषा वदन्ति । दैवं निहत्य कुरु पौरुषमात्मशक्त्या
यत्ने कृते यदि न सिध्यति कोऽत्र दोषः” हितो० ।

उद्योजक त्रि० ऊद् + युज--ण्वुल् । प्रवर्त्तके ।

उद्र पु० उनत्ति क्लिद्यति उन्द--रक् । जलविड़ाले । (उद्विराल)

उद्रङ्क(ङ्ग) पु० सौभपुरे व्योमचारिपुरभेदे जटाधरः ।

उद्रथ पु० उद्गतोरथो यस्मात् । १ रथकीले । उद्गतरथ-

तुल्यः पक्षो यस्य । ताम्रचूड़विहगे । मेदिनिः ।

उद्रपारक पु० “धृतराष्ट्रकुले जातान् शृणु नागान्

यथातथम्” इत्युपक्रम्य “भैरवोमुण्डवेदाङ्गः पिशङ्गश्चोद्र-
पारकः” भा० आ० ५७ अ० सर्पसत्रेहतनागौक्ताः ।

उद्रिक्त त्रि० उद् + रिच--क्त । १ अतिशयिते, २ अधिके, ३ स्फुटे च

उद्रेक पु० उद + रिच--घञ् । १ वृद्धौ, २ अतिशये, ३ उपक्रमे

च । “गतोभक्त्युद्रेकः प्ररिणतिमसौ चक्रवपुषा” पुष्पदन्तः ।
“प्रक्षीयते धनोद्रेको जनानामविजानताम्” भा० ब०
१९२ अ० । “स्नेहोरागश्च तन्त्रा च मोहोद्रेकश्च
केवलः” भा० अनु० २ अ० । ४ महानिम्बे स्त्री राजनि० ।

उद्वंशीय न० सामभेदे । “तदाहुरीर्म्म एव वा एषा होत्रा

यदच्छावाक्या यदच्छावाकमनुसन्तिष्ठत ईश्वरेर्मा भवितो-
रिति यद्युक्थं स्यात्त्रैककुभञ्चोद्वंशीयञ्चान्ततः प्रतिष्ठाप्ये
वीर्य्यं वा एते सामनी वीर्य्यएवान्ततः प्रतितिष्ठन्ति” । व्रा०
“अतोयदीयमुक्थम् उक्थसंस्थं स्यात् उक्तदोषपरिहाराय
त्रैककुभं चोद्वं शीयं चोभे सामनी अन्ततस्तृतीयसवनस्यान्ते
प्रतिष्ठाप्ये त्रैककुभं ब्रह्मसाम उद्वंशीयमच्छावक्यसामेत्येबं
कर्त्तव्ये इत्यर्थः” ता० ब्रा० भा० ।

उद्वत् त्रि० उद् उत्कर्षितस्वभावोऽस्त्यस्य वा मतुप् मस्य वः ।

१ उत्कृष्टे २ उन्नते च । “स उद्वतोनिवतोयाति वेविषत्”
ऋ० ३, २, १० । “उद्वतः उच्छ्रायवतः” भा० “उद्वत्स्वस्मा
अकृणोतना” १, १६१, ११ । “उद्वत्सून्नतेषु” भा० ।

उद्वत्सर पु० उत्क्रान्तोरविसंक्रान्तिं चान्द्रोमासोयत्र प्रा० ब० ।

वत्सरपञ्चकान्तर्गते वत्सरभेदे इदावत्सरहावदे विवृतिः
उदावत्सरोऽप्यत्र ।

उद्वपन न० उद् + वप--ल्युट् । १ दाने २ उत्तोलने (तोला) ।

“उखायाभस्मोद्वपनमस्तमिते पात्रे” “अनुदिते भस्मोद्वप-
नादि” कात्या० १६, ६, १, ३ । उत्क्रान्तोवपनम् अत्या०
स० । ३ उत्पाटने च ।

उद्वमन न० उद् + वम--ल्युट् उदुपसर्गस्य धात्वर्थानुगम-

मात्रमत्र । वमने । उद्गारशब्दे विवृतिः ।

उद्वयस् त्रि० उद्गतं वयोऽन्नं यस्मात् प्रा० ब० । अन्नोत्पा-

दके वायौ “अपां रसमुद्वयसं सूर्य्ये सन्तं समाहितम्”
यजु० ९, ३, “उद्गतं वयोऽन्नं यस्मात् वायोः स उद्वया
वायुः वायुनैव हि धान्यानि निष्पद्यन्ते” वेददी० ।
उत्क्रान्तो वयः कालिकावस्थाम् अत्या० स० । अतिक्रान्त
वयसि वृद्धे त्रि० ।

उद्वर्त्त पु० उद् + वृत--घञ् । १ अतिशये २ आधिक्ये च ।

(उपचान) णिच्--घञ् । चूर्णविशेषैः २ देहस्थमलाद्यपसा-
रणव्यापारे ।
पृष्ठ ११८५

उद्वर्त्तन न० उद्वर्त्त्यतेऽनेन उद् + वृत--णिच् करणे--ल्युट् ।

१ शरीरनिर्मलीकरणद्रव्यादौ । चूर्णैरुद्वर्त्तनैः पालीं तैला-
क्तामवचूर्ण्णयेत्” सुश्रु० । “नाक्रमेद्रक्तविण्मूत्रष्ठीवनोद्व-
र्त्तनादि च” या० स्मृतिः । भावे ल्युट् । २ द्रव्यभेदैः स्नेहा-
द्यपहारार्थेव्यापारे च । “उद्वर्त्तनं वातहरं कफमेदो-
विनाशनम् । स्थिरीकरणमङ्गानां त्वक्प्रसादकरं परम्”
“यवाश्वगन्धायष्ट्याह्वैस्तिलैश्चोद्वर्त्तनं हितम् । शतावर्य्यश्व
गन्धाभ्यां पयस्यैरण्डजीवनैः” “ततोऽस्य बलातैलमभ्य-
ङ्गार्थेऽवचार्य्यम् यवपिष्टमुद्वर्त्तनार्थे” सुश्रु० । ३ विलेपने,
४ घर्षणे च । उद् + वृत--ल्युट् । ५ उत्पतने ६ उल्लुण्ठने
च “गात्रस्योर्त्तनञ्चैव हितं संवाहनानि च” सुश्रु०
“चटुलशफरोद्वर्त्तनप्रेक्षितानि” मेघ० ।

उद्वर्त्तनीय त्रि० उद्वर्त्तनाय हितम् छ । उद्वर्त्तनसाधने द्रव्ये

“इदमुद्वर्त्तनीयं गोधूमवचूर्णमिति” दुर्गार्चापद्धतिः ।

उद्वर्द्धन न० उद् + वृध--ल्युट् । १ अन्तर्हासे त्रिका० । णिच्-

ल्युट् । २ वृद्धतासम्पादने । ल्यु । ३ वृद्धिसम्पादके त्रि० ।

उद्वर्हण न० उद् + वर्ह--ल्युट् । १ उन्मूलने २ उत्पाटने ३ उद्ध-

रणे । क्त । उद्वर्हित उन्मूलिते त्रि०

उद्वह पु० उद्वहति ऊर्द्ध्वं नयति उद् + वह--अच् । पुत्रे “पुन्ना

म्नो नरकाद्यस्मात् पितरं त्रायते सुतः” स्मृतेस्तस्य नरक
त्राणकर्त्तृत्वात् तथात्वम् २ वंशकारके “उदयमस्तमतञ्च
रघूद्वहात्” “पार्थिवीदुद्वहद्रघूद्वहः” रघुः ३ कन्यायां स्त्री ऊर्द्ध्वं
प्रवहवायोरुपरिवहति अच् । वायुसप्तार्गते ४ तृतीयस्कृ-
न्धस्थे वायौ पु० । आवहशब्दे विवृतिः “आवहः प्रवहश्चैव
विवहश समीरणः । परावहः संवहश्च उद्वहश्च महाबलः ।
तथा परिवहः श्रीमानुत्पातभयशंसिनः । इत्येते क्षुभिताः
सप्त मारुता गगनेचराः” हरि० २३६ अ० । बा० भावे
अप । ५ विवाहे “चूड़ोपनयनोद्वहान्” राजमा० ।

उद्वहन न० उत्तोल्य वहनम् । उत्तोल्य स्कन्धादिना वहने ।

“कृष्णेन देहोद्वहनाय शेषः” कुमा० “कैलास-
नाथोद्वहनाय भूयः” “आपीनभारोद्वहनप्रयत्नात्” रघु०
२ विवाहे च “भुवः प्रयुक्तोद्बहनक्रियायाः” रघुः ।
“स्वपितृभ्यः पितादद्यात् सुतसंस्कारकर्म्मसु । पिण्डानो-
द्वहनात्तेषां तदभावेऽपि तत्क्रमात्” स्मृतिः ।

उद्वादन न० उद् + वद--णिच्--ल्युट् । १ उच्चैरावेदने ।

“उपदीक्षी स्वेष्वग्निषु नखनिकृन्तनाद्युद्वादनान्तं सान्निपाति-
कम” कात्या० २५, १४, ३, “उपदीक्षी नेदिष्ठः स्वानग्नीन्
विहृत्य नखनिकृन्तनाद्युद्वादनान्तं सान्निपातिकंकर्म्मकुर्य्यात्”
कर्कः । उद्वादनप्रकारश्च शन० ब्रा० ३, २, १, ३९, दर्शि-
तोयथा “अथैक उद्वदति दीक्षितोऽयं ब्राह्मणोदीक्षितोऽय
ब्राह्मण इति निवेदितमेवैनमेतत्सन्तं देवेभ्यो निवेदयत्ययं
महावीर्य्योयोयज्ञं प्रापदित्ययं युष्माकैकोऽभूत्तं गोपायते
त्येवैतदाह त्रिष्कृत्याह” । “उद्वदति उच्चैरावेदयति”
भा० २ उच्चैर्वाद्यकरणे च उद् + वच--णिच् ल्युट् ।
उद्वावचनमप्यत्र न० “यथेन्द्र उद्वाचनं लब्धा चक्रे
अधस्पदम्” अथ० ५, ८, ८,

उद्वान पु० उद् + वन--संभक्तौ घञ् । १ उद्वमने णिच्--कर्म्मणि

अच् । २ उद्वमिते त्रि० रायमुकुटः ।

उद्वान्त न० उद् + वम--क्त । कृतोद्वमने उद्गीर्ण्णे अमरः ।

उद्वाप पु० उद् + वप--भावे घञ् । १ उन्मूलने २ उद्धरणे ।

३ श्रूयमाण परिपरित्यागे पश्चात् “आवापोद्वापाभ्याम्”
मुक्ता० । कर्म्मणि घञ् । उद्वाप्य सञ्चीयमाने ४ भस्मादौ ।
“कपालानि भस्मोद्वापे कुर्य्यात्” कात्या० ५, २, ६,
भस्मोद्वापशब्देन प्रत्यहं गार्हपत्यादिखरेभ्यो भस्मोद्धृत्य
यो राशिः क्रियते सौच्यते कर्क्वः” । णिच्--भावे
अच् । ५ मुण्डने ।

उद्वाय पु० उद् + वा--घञ् । १ उद्वासने २ उपशमे । तत

आचारे क्विप् । उद्वायति । “वायुर्वाव संवर्गोयदा वा
अग्निरुद्वायति वायुमेवाप्येति” छा० उ० । “उद्वायति
उद्वासनं प्राप्नोत्युपशाम्यति” भा० । गणव्यत्ययोवात्र ।

उद्वास पु० उद् + वास--घञ् । स्वस्थानातिक्रमेण अस्तप्राप्तौ

“अमरावत्यादीनां पुरीणां द्विगुणोत्तरोत्तरेण कालेनो-
द्वासः” छा० उ० भा० । ततः बलादि० इनि मतुप् वा ।
उद्वासिन् उद्वासवत् तद्वति त्रि० स्त्रियां ङीप् ।

उद्वासन न० उद् + वस--ल्युट् । १ मारणे उद् + वस + णिच्-

ल्युट् । २ विसर्जने । स्रुगादीनाम् उद्धोत्तलनेनान्यत्र स्था-
पनरूपे अग्न्याधानाङ्गे ३ संस्कारभेदे “अप उपस्पृश्य
शालाद्वार्य्ये परिस्तरणपातसंसादनप्रोक्षणाज्यनिर्वपणाधि-
श्रयणस्रुक्संमार्जनोद्वासनावेक्षणानि कृत्वाग्नीध्र उत्पय
पश्चादाज्यग्रहणम्” कात्या० ९, १, २, “अत्रोद्वासनमाहवनीय
श्रायिणः २, ७, ८, “आज्याधिश्रयणस्रुक्संमार्जनोद्वास-
नावेक्षणानि” कात्या० ८, ६, ३१, ४ स्थानान्तरनयने च
“दक्षिणतोऽधिश्रयणोद्वासने” २५, ८, ९, भस्मनि अधिश्रय-
णमुद्वासनं च गार्हपत्याद्दक्षिणस्यां दिशि कुर्यात्” कर्कः ।

उद्वास्य अव्य० उद् + वस--णिच्--ल्यप् । विसृज्येत्यर्थे “उद्वास्य

देवं स्वेधाम्नि” तन्त्रम् । २ स्थानान्तरं नीत्वेत्यर्थे च
कर्मणि यत् । ३ उत्तोलनीये ४ उद्धरणीये च त्रि० ।
पृष्ठ ११८६

उद्वाह यु० पु० उद् + वह घञ् । विवाहे स च ज्ञानविशेष

इति रघु० येन ज्ञानेन ममेयं भार्या, ममायं पतिरिति
व्यवहारो भवति तादृशं ज्ञानम् । तच्च सम्बन्धभेदेनोभय
निष्ठम् । चरमसंस्कार इति नव्यनैयायिकाः । चरमत्वञ्च
संस्कारप्रागभावासहचरितत्वम् । द्वितीयविवाहस्य संस्का-
रत्वाभावात् तत्प्रागभावसत्त्वेऽपि आद्यविवाहे चरमत्वा-
क्षतिः । तत्र च स्त्रियाः संस्काररूपतया विवाहत्वव्यवहारः ।
यस्य पुरुषस्य विवाहात् प्रागेव चूड़ादिषु जातेषु मरणम्
तत्र पुरुषे चूड़ादौ संस्कारप्रागभावासहचरितत्वात्
अतिव्याप्ते र्नैतत् नाय्यम् । किन्तु शास्त्रविहितसंस्कारान्तिमत्व-
मेव चरमत्वमिति युक्तम् । शास्त्रेषु च संस्कारेषु विवाहस्यैबा-
न्तिमतया विधानादितरेषामुपान्तिमत्वादिनेति नातिप्र-
सङ्गः । यूपाहवनीयादौ यथा संस्कारादेव तत्तच्छब्दप्रवृत्तिः
एवं शास्त्रविधिना कृतसंस्कारयोरेव दम्पत्योस्तच्छ-
ब्दप्रवृत्तिः । संस्कारश्चालौकिकत्वात् तत्तत्कर्मकला-
पसाध्य इति न आदानभात्रेण तत्सिद्धिः । अतएव “अविप्लुत
ब्रह्मचर्यो लक्षण्यां स्त्रियमुद्यहेदिति” या० स्मृतौ “उद्वहेत
द्विजोभार्याम्” इत्यादौ च विधिश्रवणम्, आदानमात्रस्य
प्रमाणान्तरप्राप्ततया तदंशे विधित्वासम्भवात् अप्राप्तप्राप-
कस्यैव विधित्वात् अतएव “पाणिग्रहणिकामन्त्रा नियतं
दारलक्षणम् । तेषां निष्ठा तु विज्ञेया विद्वद्भिः सप्तमे पदे”
इति मनुना मन्त्रविशेषाणामेव भार्य्यात्वरूपसंस्कारप्रयो-
जकत्वमभिहितम् । आदानमात्रस्य विवाहत्वे तस्य च
लौकिकत्वात् गृहीतेतरद्रव्यवत् तद्दानविक्रयापत्तिःस्यात्
“न निष्क्रयविसर्गाभ्यां भर्त्तुर्भार्य्या वियुज्यते” इति कात्या-
यनेन दानविव्रयाभ्यां भार्य्यत्वविगमाभावं वदता च
बिवाहस्य लौकिकत्वं निरासितम् । किञ्च विवाहसंस्कारस्य
वैधत्वे यथाविधानमेव तत्र प्रवार्त्ततव्यम् । विधानाति-
क्रमे च कर्त्तुः प्रत्यवायोऽनिष्टं च फलं भवतीति गम्यते ।
तद्विघानप्रकारश्च आश्व० गृ० १, ४, कण्डिकादौ दर्शितः
अन्येऽपि प्रकारस्तत्तद्गृह्यकारैरुक्तः । स च ततोऽ-
सेयः । उद्वाहे वर्ज्जयनीयकन्याः स्मृतिषु दर्शिता यथा ।
“असपिण्डा च या मातुरसगोत्रा च या पितुः सा
प्रशस्ता द्विजातीनां दारकर्म्मणि मैथुने” मनुः । असपि-
ण्डाश्च असपिण्डशब्दे ५४१ पृ० मतभेदेनोक्ताः । “अनन्य
पर्व्विकां कान्तामसपिण्डां यवीयसीम् । अरोगिणीं
भ्रातृमतीमसामानार्षगोत्रजाम्” याज्ञ० । अन्य-
पूर्वाश्च । “सप्त पौनर्भवाः कन्या वर्जनीयाः कुलाधमाः ।
वाचा दत्ता मनोदत्ता कृतकौतकमङ्गला । उदकस्पर्शिता
या च या च पाणिगृहीतिका । आग्निंपरिगता या च
पुगर्मूप्रभवा च या । इत्येताः काश्यपेनोक्तादहन्ति
कुलमग्निवत्” काश्य० । “तत्र सपिण्डासगोत्रासमान प्रव-
रासु भार्य्यात्वमेव नोत्पद्यते रोगिण्यादिषु भार्य्यात्वे
उत्पन्नेऽपि दृष्टदोष एव” मिता० एवमेव रघुनन्दनादयः ।
समानार्षाश्च आर्षशब्दे ८१३ पृष्ठे दर्शिताः । “सगोत्रां
मातुरप्येके नेच्छेन्त्युद्वाहकर्म्मणि । जन्मनाम्नोरविज्ञा ने
उद्वहेताविशङ्कितः” इति उ० त० व्यासः । “मातुलस्य सुता
मूढ्वा मातृगोत्रां तथैव च । समानप्रवरां चैव गत्वा
चान्द्रायाणं चरेत्” मिता० स्मृ० । “आ सप्तमात् पञ्चमाच्च
बन्धुभ्यः पितृमातृतः । अविवाह्या सगीत्रा च समानप्रव-
रा तथा । पञ्चमे सप्तमे वापि येषां वैवाहिकी क्रिया । ते
च सन्तानिनः सर्वे पतिताः शूद्रतां गताः” नारदः । बन्धवश्च
उत्तराधिकारशब्दे १०९९ पृ० दर्शिताः । “सगोत्राञ्चेदमत्या-
उपयच्छेन्मातृवदेनाम् बिभृयात् समानार्षेयां विवाह्य
चान्द्रयणं चरेत्” सुमन्तुः “समानगोत्रप्रवरां समुद्वाह्योप-
गम्य च । तस्यामुत्पाद्य चाण्डालं ब्राह्मण्यादेव हीयते ।
आप० । “सर्व्वाः पितृपत्न्यो मातरस्तद्भ्राता मातुलास्तद-
पत्यानि भगिन्यस्तदपत्यानि भागिनेयानि ता धर्म्म-
तोऽविवाह्याः अन्यथा सङ्करकारिण्यस्तथाध्यापयितु-
रिति” सम्न्तुः । “अध्यापयितुरेतद्विवाहमन्त्रपाठयि
तुरेतत् सङ्करकारित्वमिति” रत्नाकरादयः । अध्याप-
यितुर्गुरोः कन्या अविवाह्येति रघुनन्दनेनोक्तम् “समान-
प्रवरा वाऽपि शिष्यसन्ततिरेव च । व्रह्मदातुर्गुरोश्चैव
सन्ततिः प्रतिषिध्यते” मत्स्यपु० । “मातुर्य्यन्नाम
गुह्यं स्यात् सुप्रसिद्धमथापि वा । तन्नाम्नी या भवेत्
कन्या मातृनाम्नीं प्रचक्षते । प्रमादात् यदि गृह्णीयात् प्राय-
श्चित्तं समाचरेत् । ततश्चान्द्रायणं कृत्वा तां कन्यां
परिवर्ज्जयेत्” मत्स्य पु० । तथा श्यालिकापुत्र्या अपि पुत्र
स्थानिकतया अविवाह्यत्वमुक्तं दत्तकमी० दृश्यम् । अत्र
सपिण्डविषयेऽपवादः “सन्निकर्षेऽपि कर्त्तव्यं त्रिगोत्रात् परतो
यदि” । मत्स्य पु० । “असम्बन्धा भवेद्मातुः पिण्डे
नैवोदकेन वा । सा विवाह्या द्विजातीनां त्रिगोतान्तरिता
च या” । मनुः । शूद्राणान्तु अतिदिष्टादिष्टगोत्रभागि-
त्वेन सगोत्राविवाहो न निषिद्धः इति रघनन्दनादयः ।
“द्विजानामसवर्ण्णासु कन्यासूपवमस्तथा” वृह० ना० उक्तेः
कलौ असवर्ण्णाविवाहनिषेधात्तद्विशेषोनाभिहितः । द
पृष्ठ ११८७
क्षिणस्यां मातुलकत्योद्वाहस्तु शिष्टैरपि क्रियते तस्य
स्मृतिविरुद्धत्वेऽपि किञ्चित् श्रौतं लिङ्गमास्थाय तेषांतथा-
चरणमिति बहवः । तस्य श्रौतलिङ्गस्यान्यार्थपरता पराशर
भाष्यादौ दर्शिता । अतएव द्वारकारूपदक्षिणदेशवासिनां
तथाचरणे भाग० १० स्कन्दे । “यद्यप्यनुस्मरन् वैरं रुक्मी
कृष्णावमानतः । व्यतरत् भागिनेयाय सुतां कुर्वन् स्वसुः
प्रियम्” । “दीहित्रायानिरुद्धाय पौत्रीं रुक्म्यददद्धरेः ।
रोचनां बद्ववैरोऽपि स्वसुः प्रियचिकीर्षया जानन्नधर्म्मं
तद्यौनं स्नेहपाशवशानुगः” । अधर्मं जानन्नित्युक्तं
तेन तस्याधर्मत्वम् । “मातुलस्य सुतामूढ्वेति” प्रागुक्तवचनाच्च-
तस्याधर्मत्वम् सुव्यक्तमेव । स च विवाहोऽष्टविधः “ब्राह्मो-
दैवस्तथैवार्षः प्राजापत्यस्तथाऽऽसुरः । गान्धर्वोराक्षमश्चैव
पैशाचश्चाष्टमोऽधमः” मनुः एतेषां लक्षणं तत्तच्छब्दे दृश्यम् ।
“येन भार्य्या हृता पूर्बं कृतोद्वाहा परस्य वै” हरिवं० ।

उद्वाहन न० उद् + वह--णिच्--ल्युट् । १ पुत्रादेरुद्वाहसम्पा-

दने २ उन्नयने ३ स्थानान्तरनयने । उद्वाह्यते स्थानान्तरं
नीयतेऽनेन उद् + वह--णिच्--करणे ल्युट् । ४ उद्धारण-
साधने “उद्घाटनं घटीयन्त्रं सलिलोद्वाहने प्रहेः” अमरः ।
उद + वह--स्वार्थे णिच्--भावे ल्युट् । ५ विवाहे ।
वाहनस्य हलाकर्षणस्योपरि वाहनं कर्षणं यत्र । ६ द्विहल्ये
क्षेत्रे यत्र प्रथममेकवारं कृष्ट्वा पुनः कर्षणंक्रियते तादृशे
क्षेत्रे हेम० ।

उद्वाहनी स्त्री उदूह्यते स्वार्थे णिच्--कर्मणि ल्युट् । वराटके (कड़ि) हेम० ।

उद्वाहिक त्रि० अद्वाहः प्रयोजनमस्य ठक् संज्ञापूर्वकविधेर-

नित्यत्वात् न वृद्धिः । विवाहसाधने मन्त्रादौ “नोद्-
वाहिकेषु मन्त्रेषु विधवावेदनं क्वचित्” मनुः । वृद्धौ
औद्वाहिकोऽप्यत्र त्रि० ।

उद्वाहित पु० स्त्री उद्वाहोजातोऽस्य तारका० इतच् ।

जातविवाहे “बाले वृद्धे तथैवास्तं गते च दैत्यमन्त्रिणि । उद्
वाहितायां कन्यायां दम्पत्योरेकनाशनम्” राजमा० ।

उद्वाहिनी स्त्री उद्वाहः उद्धरणं साध्यतयाऽस्त्यस्याः इनि

ङीप् । रज्ज्वो मेदिनिः ।

उद्विग्न त्रि० उद् + विज--कर्त्तरि क्त । उद्वेगयुक्ते, “निम-

ग्नोदिवग्नसंह्रीणैः पप्रे दीनैश्च मेदिनी” भट्टिः । दुःख-
परिहाराक्षमतया २ व्याकुलचित्ते, ३ क्षुभिते च!

उद्वीक्षण न० उद् + वि + ईक्ष--भावे ल्युट् । १ ऊर्द्ध्वदृष्टौ । करणे

ल्युट् । २ तत्साधने नेषो “सखीजनोद्वीक्षणकौमुदीमु-
खम्” रघुः ।

उद्वीत त्रि० उद् + वि + इ--क्त । विशेषेणोद्गते । (छयला-

पिहओया) समन्तात् प्लाविते “ततोयुधिष्टिरानीकमुद्-
वीतार्णवनिस्वनम्” भा० द्रो० १६ अ० ।

उद्वृत्त त्रि० उद्गतो वृत्तात् निरा० स० । १ दुर्वृत्ते । उद् +

वृत--क्त । २ उत्क्षिप्ते ३ भुक्तोज्झिते । ४ अधिके । “उद्-
वृत्तोहि ग्रन्थः समधिकफलमाचष्टे” व्या० न्यायः ।
“कल्पक्षयोद्वृत्तमिवार्ण्णवाम्भः” भा० आ० प० ७ ।
५ क्षुभिते च “उद्वृत्तनक्रात् सहसोन्ममज्ज” रघुः ।

उद्वेग पु० उद् + विज--घञ् । १ व्याकुलचित्ततायाम् २ विरह-

जन्ये दुःखोद्गमे, “मनोभिः सोद्वेगैः प्रणयविहतिध्व-
स्तरुचयः” किरा० । “सहसोद्वेगमियं व्रजेदिति” रघुः ।
“शान्तोद्वेगस्तिमितनयनं दृष्टभक्तिर्भवान्याः” मेघ० । “योजि-
ह्वाग्रं बाधते उद्वेगं जनयति शिरोगृह्णीते नासिकाञ्च
स्रावयति स कटुकः” सुश्रु० । “सङ्क्षोभेष्वप्यनुद्वेगो माधुर्य्यं
परिकीर्त्तितम्” सा० द० । ३ भये च । ४ गुवाकफले न० । उद्गतो-
वेगोऽस्मात् । ५ निश्चले, ६ स्तिमिते ७ शीघ्रगामिनि च त्रि० ।

उद्वेजन त्रि० उद् + विज--भावे ल्युट् । १ उद्वेगे अमरः

“परदाराभिमर्षेषु प्रवृत्तान्नॄन् महीपतिः । उद्वेजनकरै-
र्दण्डैश्चिह्नयित्वा प्रवासयेत्” मनुः तस्मै साधु छ । उद्द्वे-
जनीय उद्वेजके त्रि० “परिहरेदुद्वेजनीयाश्चकथाः” सुश्रु० ।

उद्वेजित त्रि० उद् + विज--णिच्--क्त । कृतोद्वेगे “उद्द्वे-

जिता वृष्टिभिराश्रयन्ते” कुमा० ।

उद्वेदि त्रि० उन्नता वेदिर्यत्र प्रा० ब० नतलोपः । उन्नत-

वेदिके । “विमानं नवमुद्वेदि चतुःस्तम्भप्रतिष्ठितम्” रघुः

उद्वेप पु० उद् + वेप--भावे घञ् । १ उत्कम्पने । कर्त्तरि अच् ।

२ तद्युक्ते त्रि० । ततः तेन निर्वृत्तमित्यर्थे संङ्कुला० अण्
औद्वेप तन्निर्वृत्ते त्रि० । स्त्रियां ङीप् ।

उद्वेल त्रि० उत्क्रान्तोबेलाम् अत्या० स० । १ वेलातिक्रान्ते

२ मर्य्यदातिक्रान्ते “भयमप्रलयोद्वेलादाचख्युर्नैरृतोदधेः” रघु

उद्वेष्टन न० उद् + वेष्ट--ल्युट् । १ हस्तपादयोर्बन्धने, २

उपह्वेषे च । “वक्त्रे मधुरता तन्द्रा हृदयोद्वेष्टनं भ्रमः”
“हृदयोद्वेष्टनं तन्त्रा लालास्रुतिररोचकः” सुश्रु० ।
उद्गतं वेष्टनात् निरा० त० । । ३ उन्मुक्तबन्धने त्रि० ।
“कयाचिद्वेष्टन वान्तमाल्यया” रघुः कुमारश्च

उद्वोढृ पु० उद् + वह--तृच् । परिणेतरि । “उद्बोढापि

भवेत् पापी संसर्गात् कुलनायिके! । वेश्यागमनजं
पाप तस्य पुंसोदिनेदिने” महानि० त० ।

उध्रस उञ्छे क्य्रा० पर० अक० सेट् । उध्रस्नाति औध्रासीत्

उध्रसाम्--बभूव आस चकार ।
पृष्ठ ११८८

उध्रस उत्क्षेपे उञ्छे च (कणशआदाने) चु० सक० सेट् । उध्रसयति ते । औदिध्रसत् त

उन्द क्लेदने रुधा० पर० सक० सेट् । उनत्ति उन्तः उन्दन्ति

उन्द्यात् उनत्तु । औनत् औन्ताम् औन्दन् औनः--औ-
नत् । औन्दीत् । उन्दाम्--बभूव आस चकार । उन्दिता
उन्दिष्यति औन्दिष्यत् । उन्दन् उन्दनम् उत्तिः उन्नः-
उत्तः । “घृतप्रुषा मनसा हव्यमुन्दन्” ऋ० २, ३, २ ।
“यत्र ह्याप उन्दन्त्यस्तिष्ठन्ति तदोषधयोजायन्ते” शत०
७, ५, २, ३ । भ्वादित्वमपि । “शिरस्त्रिरुन्दति अदितिः
केशान् वपत्याप उन्दन्तु वर्चसः इति” आश्व० गृ० १, १७,
७ । णिच् उन्दयति--ते औन्दिदत्--त सन् उन्दिदिषति ।

उन्दुर(रु) पु० उन्द--उर--उरुवा । मूषिके मूषिक-

भेदास्तद्दंशोपद्रवाश्च सचिकित्साः सुश्रु० दर्शिता यथा ।
“अथाती मूषिककल्पं व्याख्यास्यामः । पूर्वमुक्ताः शुक्र
विषा मूषिका ये समासतः । नामणक्षणभैवज्यैरष्टादश
निबोध तान् । लालनः पुत्त्रकः कृष्णो हिंसिरश्चिक्विर-
स्तथा । छुछुन्दरोऽलसश्चैव कषायदशलोऽपि च । कुलि-
ङ्गश्चाजितश्चैव चपलः कपिलस्तथा । कोकिलोऽरुणसंज्ञश्च
महाकृष्णस्तथोन्दुरः । श्वेतेन महता सार्द्ध्वंकपिलेनाखुना
तथा । मूषिकश्च कपोतामस्तथैवाष्ठादश स्मृताः । शुक्रं
पतति यत्रैषां शुक्रघृष्टैः स्पृशन्ति वा । नस्कदन्तादिभि-
स्तस्मिन् गात्रे रक्तं प्रदुष्यति । जायन्ते ग्रन्ययः शेफा
कर्णिका मण्डलानि च । पिडकोपचयश्चोग्रा विसर्पाः
किटिभानि च । पूर्व्वभेदोरुजस्तीव्रा ज्वरोमूर्च्छा च दारु-
णा । दौर्व्वल्यमरुचिः श्वासो वमथुर्लोमहर्षणम् । दष्ट-
रूपं समासोक्तमेतच्च व्यासतः शृणु । लालास्रावो
लालनेन हिक्काच्छर्दिश्च जायते । तण्डुलीयककल्कन्तु
लिह्यात्तत्र समाक्षिकम् । पुत्त्रकेणाङ्गसादश्च पाण्डुवर्णश्च
जायते । चीयते ग्रन्थिभिश्चाङ्गमाखुशावकसन्निभैः ।
शिरीषेङ्गुदकल्कन्तु लिह्यात्तत्र समाक्षिकम् । कृष्णेना
सृक् छर्दयति दुर्दिनेषु विशेषतः । शिरीषफलकुष्ठन्तु
पिवेत् किंशुकभस्मना । हिंसिरेणान्नविद्वेषो जृम्भा
लोमाञ्चहर्षणम् । पिवेदारग्बधादिन्तु सुवान्तस्तत्र
भानवः । चिक्विरेण शिरीदुःखं शोफो हिक्का वमी तथा ।
जाणिनीमदनाङ्कोठकषायैर्वामयेत्तु तम् । छुच्छुन्दरेण तृट्-
छर्दिज्यरोऽलावण्यमेव च । ग्रीवास्तम्भः पृष्ठशोको गन्धा-
ऽज्ञानं विसूचिका । चव्यं हरीतकीं शुण्ठीं बिडङ्गं
पिपूपलीं मधु । यवनालर्षभक्षारं वृहत्याश्चात्र दापयेत् । ग्रीवाऽ-
स्तम्भोऽलसेनोर्द्ध्ववायुर्दंशे रुजा ज्वरः । महागदं ससर्पिष्कं
लिह्यात्तत्र समाक्षिकम् । निद्रा कषायदन्तेन हृच्छोषः
कार्श्यमेव च । क्षौद्रोपेताः शिरीषस्य लिह्यात्
सारफलत्वचः । कुलिङ्गेन रुजः शोफो राज्यश्च दंशम-
ण्डले । सहे ससिन्धुवारे च लिह्यात्तत्र समाक्षिके ।
अजितेन वमी मूर्च्छा हृद्ग्रहः कृष्णनेत्रता । तत्र स्नु-
हीक्षीरपिष्टां कालिन्दीं मधुना लिहेत् । चपलेन
भवेच्छर्दिर्मूर्च्छा च सह तृष्णया । सभद्रकाष्ठां सजटां क्षौ-
द्रेण त्रिफलां लिहेत् । कपिलेन व्रणे कोथो ज्वरो
ग्रन्व्युद्गमस्तथा । क्षौद्रेण लिह्यात्त्रिफलां श्वेतां-
चापि पुनर्णवाम् । ग्रन्थयः कोकिलेनोग्रो ज्वरो दाहश्च
दारुणः । वर्षाभूनीलिनीक्वाथसिद्धं तत्र घृतं पिबेत् ।
अरुणेनानिलः क्रुद्धो वातजान् कुरुते गदान् ।
महाकृष्णेन पित्तञ्च श्वेतेन कफ एव च । महता कपिलेना
सृक् कपोतेन चतुष्टयम् । भवन्ति चैषां दंशेषु ग्रन्थि-
मण्डलकर्णिकाः । पिडकोपचयाश्चोग्राः शोफश्च
भृशदारुणः” ।

उदुर(रू)कर्णी स्त्री उन्दुरस्य कर्ण इव पर्णमस्याः गौ० ङीष् ।

आस्वुकर्ण्याम् । (उन्दुरकानी) स्वार्थे कन् तत्रैव

उन्दूरु पु० उन्द--ऊरु । मूषिके ।

उन्न त्रि० उन्द--क्त । क्लिन्ने १ आर्द्रे (भिजे) २ दयापरे च । पक्षे उत्त आर्ट्टे त्रि० ।

उन्नत त्रि० उद् + नम--क्त । १ उच्चे, २ महति च । “उन्नतेन

स्थितिमता धुरमुद्वहता भुवः” कुमा० “स्थितः सर्वो-
न्नतेनोर्वीम्” रघुः । “बन्धुरं तृन्नतानतम्” अमरः ।
“मधुरोन्नतभ्रु ललितञ्च दृशोः” माघः ।
सि० शि० उक्ते दिनमानज्ञानसाधने ३ उपायभेदे न० ।
“उक्ता प्रभाभिमतदिङ्गियमेन तावत् तामेव कालनियमेन च
वचिम भूयः । म्यादुन्नतं द्युगतशेषकयोर्यदल्पं तेनोनित
दिनदलं नतसंज्ञकं च । अथोन्नतादूनयुताच्चरेण क्रमादुद-
ग्दक्षिणगोलयोर्ज्या । स्यात् सूत्रमेतद्गुणितं द्युमौर्व्या
व्यासार्धभक्तं च कलाभिधानम्” शि० । “दिवसस्य यद्गतं यच्च
शेषं तयोर्यदल्प तदुन्नतसंज्ञं ज्ञेयम् । तेनोन्नतेनोनीकृतं
दिनदलप्रमाणं तन्नतसंज्ञं भवति । अथोन्नतादुन्नतकालादुत्त-
रगोखे च तेनौनिता दक्षिणे युताद्या ज्या तत्सूत्रम् ।
सा सूत्रसंज्ञेत्यर्थः । तत् सूत्रं द्युज्यया गुणितं त्रि-
ज्यया भक्तं कलासंज्ञं भवति । अत्रोपपत्तिः । यस्मिन्
काले छाया साध्या तस्मिन् काले स्वाहोरात्रवृत्ते यावती-
भिर्घटिकाभिः क्षितिजादुन्नतो रविस्तासामुन्नतसंज्ञा । येक
पृष्ठ ११८९
कालेन मध्याह्नान्नतस्तस्य नतसंज्ञा । अथ चरेणोनयुतस्यो-
श्रतकालस्य किल ज्या साध्या । सा च ज्या मध्यावधिर्भ-
वति । स च मध्यप्रदेशोऽहोरात्रवृत्तस्वोन्मण्डलसंपाते
भवति । यत उन्मण्डलसंपाताभ्यामूर्ध्वमहोरात्रवृत्तस्यार्धम-
धोऽर्धम् । अत उत्मण्डलावधेर्जीवा साध्या । क्षितिजो-
न्मण्डलयोरन्तरं चरार्धम् । अतश्चरार्धेन वर्जितादुन्नता-
दुत्तरगोले, दक्षिणे तु युतात् । यत उत्तरगोले क्षितिजादु-
पर्युन्मण्डलं, दक्षिणेऽधः । तस्मात् कलाद्या ज्या
साधिता सा त्रिज्यावृत्तपरिणता । सा च सूत्रसंज्ञा । अथ
यदि त्रिज्यावृत्त एतावती तदा द्युज्यावृत्ते कियतीत्यनुपा-
तेन द्युज्यावृत्तपरिणता । सा च कलासंज्ञा” प्रमि० ।
सि० शि० उक्तेग्रहाणामक्षलम्बज्ञानार्थे ४ उपायभेदे च ।
“यन्त्रवेधविधिना ध्रुवोन्नतिर्या नतिश्च भवतोऽक्षलम्बकौ ।
तौ क्रमाद्विषुवदह्न्यहर्दलेयेऽथ वा नतसमुन्नता लवाः” शि०
“चक्रयन्त्रेण ग्रहवेधवद् ध्रुवं विध्येत् । तत्र यन्त्रनेम्यां
य उन्नतांशास्तेऽक्षांशाः । ये नतास्ते लम्बांशाः । अथ
वा विषुवद्दिनार्द्धे येऽर्कस्य नतोन्नतांशास्तेऽक्षलम्बांशा इति
युक्तियुक्तम्” प्रमि० । “उन्नतं द्युनिशमण्डले कुजात् सावनं
द्युतिविधौ हि तज्ज्यका । तिर्य्यगक्षवशतोऽक्षकर्णवच्छेदको
न तु नरः स लम्बवत्” शि० । “दृङ्मण्डले क्षितिजादुपरि
ग्रहपर्य्यन्तं येऽंशास्त उन्नताः खमध्यादधस्ते नताः ।
उन्नतांशानां ज्या शङ्कुः । नतांशज्या दृग्ज्या शङ्कुः
कच्छन्नलिप्ताभिरूनः कार्य्यः । द्रष्टुः कुदलेनोच्छ्रितत्वात् ।
अयमर्थो ग्रहच्छायाधिकारे व्याख्यात एव” प्रमि० ।
“उदग्देशं याति यथा यथा नरस्तथा तथा स्यान्नत-
मृक्षमण्डलम् । उदग्दिशं पश्यति चोन्नतं क्षितेस्त-
दन्तरे योजनजाः षलांशकाः” सि० शि० ।
ततः भावे ष्यञ् औन्नत्य न० । तल् उन्नता स्त्री । त्व
उन्नतत्व न०, तद्भावे “तदेव नैसर्गिकमुन्नतत्वम्” रघुः

उन्नतकाल पु० सि० शि० उक्ते छायातः कालज्ञानसाधने

प्रक्रियाभेदे “पलश्रुतिघ्नस्त्रिगुणस्य वर्गोद्युज्येष्टकर्णाहति-
हृद्भवेद्वां । इष्टान्त्यका तद्रहितान्त्यका या भवन्ति या
उत्क्रमचापलिप्ताः । नतासवस्ते स्युरहर्दलं तैरूनीकृतं
चोन्नतकाल एवम्” शि० । “त्रिज्यावर्गः पलकर्णेन गुण्यः
द्युज्यया इष्टकर्णस्य च घातेन भाज्यः यत्फलं लभ्यते
सेष्टान्त्यका । तयेष्टान्त्यया रहितया अन्त्याया यच्छेषं
तस्योत्क्रमेण धनुः कार्य्यं तस्य धनुषोयावत्यः कलास्ताव-
न्तस्तस्मिन् कालेन नतासवोज्ञेयाः तैर्नतामुभिरूनीकृता-
दिनदलासव उन्नतासवः स्युः । प्रकारान्तरेण त्रेरा-
शिकत्रयेणोपपत्तिः । यदोष्टच्छायाकर्णेन द्वादशाङ्गुलशङ्क-
र्लभ्यते तदा त्रिज्याकर्णेन क इति । अत्र त्रिज्याया द्वा-
दश गुण इष्टकर्णो हरः । फलं महाशङ्कुः । अथ तस्य
हृतिकरणार्थमनुपातः । यदि द्वादशाङ्गुशङ्कोर्विषुवत्कर्णः
कर्णस्तदास्य महाशङ्कोः क इति । पूर्वं त्रिज्याया द्वादश
गुण इद्रानीं हरः । अतस्तुल्यत्वाद्वादशाङ्कयोर्गुणहरयो-
र्नाशे कृते सति त्रिज्यायाः पलकर्णो गुण इष्टच्छायाकर्णो
हरः फलमिष्टहृतिः । अथेष्टान्त्याकरणायानुपातः । यदि
द्युज्यया त्रिज्या लभ्यते तदिष्टहृत्या किमिति । इदानीं
त्रिज्या गुणो द्युज्या हरः । हरयोर्घातो हर इति
दुज्येष्टकर्णाहतिर्भवति । गुणयोर्घाते त्रिज्यावर्गः
पलकर्णगुणितो भवति । एवं फलमिष्टान्त्यका । तया
वजिताया अन्त्याया यदवशेषं सा नतम्योत्क्रमज्या शरसंज्ञा ।
अतस्तस्या धनुरुत्क्रमेण स नतकालः स्यात् । नतकालो
दिनार्धात् पतित उन्नतकालः स्यादित्युपपन्नम्” प्रमि०

उन्नतानत न० उन्नतं च तदानतञ्च । उच्चनीचस्थानादौ ।

“बन्धुरं तून्नतानतम्” अमरः ।

उन्नति स्त्री उद् + नम--क्तिन् । १ वृद्धौ, २ उदये, ३ गरुड़भा-

र्य्यायाञ्च तत्र चन्द्रशृङ्गोन्नतिः सि० शि० उक्ता यथा
“मासान्तपादे प्रथमेऽथ वेन्दोः शृङ्गोन्नतिर्यद्दिवसेऽवगम्या ।
तदोदयेऽस्ते निशि वा प्रसाध्यः शङ्कुर्विधोः स्वोदित-
नाडिकाद्यैः” शि० । “कृष्णाष्टम्या उपरि प्रथमेऽ-
थ वा शुक्लाष्टम्याः प्रागेव यस्मिन्नभीष्टदिने
शशिशृङ्गोन्नतिर्ज्ञातुमभीष्टा तस्मिन् दिने मासान्तपाद
औदयिकौ चन्द्रार्कौ स्पष्टौ कार्यौ । प्रथमचरणे त्वस्तकालिकौ
ततः शृङ्गोन्नतिर्ज्ञेया । निशि वा । एतदुक्तं भवति ।
मासान्तपाद उदयकाले शशिशृङ्गोन्नतिः साध्या । प्रथमा
चरणे त्वस्तकाले । अथ वा किमुदयास्तनियमेन । यत्रोदये
तत्रोदयात् प्रागिष्टघटीतुल्यकाले वा यत्रास्ते तत्रास्तादु-
परोष्टासु घटीषु वा शृङ्गोन्नतिः साध्या । तत्र तात्का-
लिकौ चन्द्रार्कौ कृत्वा चन्द्रस्य स्फुटक्रान्त्युदयास्मलग्नोन्नत
घटिकादिभिस्तदुपकरणैः शङ्कुः साध्यः । अतीपपत्तिः ।
चन्द्रस्यार्द्धादूने शुक्ले तत्कोटी शृङ्गाकारे भवतः । तत्रे-
ष्टकाले कतरा शृङ्गोन्नतिर्मविव्यतीति ज्ञातस्यम् । तत्र
शुक्लस्य शृङ्गाकारतार्धादूने शुक्ले । तच्चार्धादूनत्वं
पादे प्रथमे च संभवति । द्वितीयतृतीबयोरपि चरणवो-
र्व्रह्मगुप्तादिभिः कृष्णशृङ्गोन्नतिरानीता सा मम न सम्मता ।
पृष्ठ ११९०
नहि नरैः कृष्णशृङ्गोन्नतिः स्पष्टोपलक्ष्यते । प्रसिद्धा
तु शुक्लशृङ्गोन्नतिः । अत उक्तं मासान्तपादे प्रथमेऽथ येति ।
“वक्षोजौ करिकुम्भ विभ्रकरीमत्युन्नतिं, गच्छतः” । स्तोके-
नोन्नतिमायाति” इति च सा० द०

उन्नतीश पु० ६ त० । गरुड़े त्रिका० ।

उन्नद्ध त्रि० उद् + नह--क्त । १ उद्बद्धे । उत्कटे च । “जह्य-

स्त्रतेज उन्नद्धमस्त्रज्ञोऽस्यस्त्रतेजसा” भा० १ स्क० । उन्नद्धं
उत्कटम्” । श्रीधरः ।

उन्नमन न० उद + नम--ल्युट् । १ उन्नतौ । णिच्--ल्युट् न वृद्धिः ।

२ उत्तोलने सुश्रुतोक्ते ३ यन्त्रकर्म्मभेदे च । तानि चतुर्विंशतिः
यथोक्तं तत्रैव । “यन्त्रकर्म्माणि तु निर्घातनपूरणबन्धन-
व्यूहनवर्त्तनचालनविवर्त्तनविवरणपीडनमार्गविशोधनबिक-
र्षणाहरणाकुञ्चनोन्नमनविनमनभञ्जनोन्मथनाचूषणैषणदार-
णर्जूकरणप्रक्षालनप्रधमनप्रमार्जनानि चतुर्विंशतिः” ।
उन्नमनञ्च व्रणरुधिरस्रावसाधनं यथोक्तं तत्रैव “सन्धि-
गतः पीद्ध्यमानो न प्रवर्त्तत आकुञ्चनप्रसारणोन्नमन
विनमनप्रधावनात् कासनप्रवादैश्च स्रवति” ।

उन्नमित त्रि० उद् + नम--णिच्--क्त । १ उत्तोलिते, २ ऊर्द्धीकृते

च “अथ प्रयत्नोन्नमितानमत्फणैः” कुमा० “क्वचिदुन्नमिता-
ननौ” रघुः ।

उन्नम्र त्रि० उद् + नम--रन् । उन्नते “उन्नम्रताम्रपटमण्डप मण्डितं तत्” नाघः

उन्नय पु० उद् + नी--“क्वचिदपवादघिषयेऽप्युत्सर्गोऽभिनिवि-

शते” इत्युक्तेः अच् । कूपादितो जलादेरुत्तोलने अमरः ।

उन्नयन न० उद् + नी--ल्युट् । १ वितर्के, २ ऊर्द्ध्वप्रापणे च ।

“अनादिष्टांश्चेदोन्नयनश्रुतेः कात्या०” ९, ५, २४ उन्नयन
श्रुतिश्च । “अतोहिदेवेभ्य उन्नयन्त्यतोमनुष्येभ्यः”
शत० ब्रा० ४, ५, ६, ३, “चमसोन्नयनकाले बाहृत्य दध्नो-
न्मृद्य तच्चमसेनोन्नयेत्” कात्या० १०, ९, ३१, “तेष्वेवोन्नय-
नमभ्यभि सोमानुन्नयन्तीति श्रुतेः” कात्या० २२, १०, ५,
“उन्नथत्यस्मात् अपादाने ल्युट्” । ३ पूतभृत्पात्रे ।
“उन्नयने च” कात्या० २५, १२, १४, तदेव भवति उन्नय-
त्यस्मादित्युन्नयनम् पूतभृदृच्यते” कर्कः । उन्नमित नयनं
येन प्रा० ब० । उन्नमितनेत्रे त्रि० ।

उन्नस त्रि० उन्नता नासा यस्य अच् समा० नसादेशः । उन्न-

तनासिके । “उन्नसं दधती वक्त्रम्” भट्टिः ।

उन्नाद पु० उद् + नद--घञ् । उच्चशब्दे “शरभोन्नादसंजुष्टम्

नानामृगनिषेवितम्” भा० ब० १५८ अ० ।

उन्नाभ पु० उन्नता नाभिर्यस्य अच् समा० । सूर्य्यवंश्ये नृपभेदे

“उन्नाभ इत्युद्गतनामधेयः” रघुः असंज्ञायान्तु न अच् ।
उन्नाभिरित्येव त्रि० । उन्नता नाभिः प्रा० स० । उन्नत-
नाभौ पुंस्त्री० ।

उन्नाय पु० उद् + नी--“अवोदोर्नियः” पा० घञ् । १ ऊर्द्धनयने

२ वितर्के ३ उच्चये च “उन्नायानधिगच्छन्तः प्रद्रायैयसुधा
भृताम्” भट्टिः ।

उन्नाह पु० उद + नह--घञ् । १ उत्तोल्यबन्धने २ काञ्जिके न० हेमच० ।

उन्निद्रा त्रि० उद्गता निद्रा मुद्रा यस्य । १ विकसिते निद्राशब्दस्य

मुकलीभावरूपनेत्रनिमीलनार्थकचेन तथात्वम् । “उन्नि-
द्रपुस्प चणचम्पकपुष्पभासा” माघः । २ निद्रारहिते च ।
“तामुन्निद्रामवनिशयनां सौधवातायनस्थाम्” मेघ० ।
“शय्याप्रान्तविवर्त्तर्नर्विगमयत्युनिद्रएव क्षपाः” शकु० ।
उन्निद्रता च जागरणं तच्च विप्रलम्भशृङ्गारे कामकृत-
दशविधावस्थाभेदः ताश्चावस्थाः ४४७ पृ० उक्ताः ।

उन्नीत त्रि० उद् + नी--क्त । १ ऊर्द्ध्वं नीते २ वितर्किते च ।

उन्नेतृ त्रि० उद् + नी--तृच् स्त्रियां ङीप् । १ उर्द्ध्वंनायिनि

२ उद्भावके च षोड़शसु ऋत्विक्षु० ३ ऋत्विग्भेदे पु० स च
अच्छावाकशब्दे ८५ पृ० दर्शितः । तस्य च गीते
रुच्चतासम्पादनादुदकादुत्तारणाच्चोन्नेतृत्वम् “उन्नेतैनानु-
न्नयति” “उन्नेतरुन्नयोन्नयोन्नेतर्वस्वो अभ्युन्नयान
इत्युन्नीयमानाजपन्ति” आश्व० श्रौ० ६, १३, १३, १४ ।
“उन्नेता स्वशाखोक्तविधिना सर्वानुदकादुत्तारयति” “उन्नेत-
रित्येतं मन्त्रं जपन्ति” ना० वृ० “आहृतमृन्नेत्रा
द्रोणकलशमिडामिव प्रतिगृह्योपहवमिष्ट्वाऽवेक्षेत” आश्व०
श्रौ० ६, १२, १ । “अथोन्नेत्र उपांशुसवनं प्रयच्छ-
त्यथाहोन्नेतारमासृज ग्राव्ण” इति संप्रगृह्णाति प्रति-
प्रस्थाता संस्रवानुन्नेता चससेनोदञ्चनेन वा” शत० ब्रा०
४, ३, ५, १८, २१ । ततः उद्गात्रा० अण् न वृद्धिः । उन्नेत्र
उन्नेतृसम्बन्धिनि त्रि० । “प्रतिप्रस्थाताग्नीध्रोन्नेत्रे” कात्या०
२४, ४, ४६ । वृद्धौ औन्नेत्रमित्यपि तत्रैव त्रि० ।

उन्नेय त्रि० उद्--नी--यत् । १ ऊर्द्ध्वंनयनीये २ उद्भावनीये च ।

उन्मज्जक पु० उद् + मस्ज--ण्वुल् । “कण्ठदघ्ने जले स्थित्वा”

तपः कुर्वन् प्रवर्त्तते । उन्मज्जकः स विज्ञेयस्तापसोलोक
पूजितः” इत्युक्तलक्षणे १ तापसे । जलादेरुपरि २
उत्प्लावके त्रि० ।

उन्मज्जन न० उद् + मस्ज--ल्युट् । मज्जनविपरीतव्यापारे (भासा) प्लवने ।

पृष्ठ ११९१

उन्मण्डल न० उल्लग्नं मण्डलम् । सि० शि० उक्ते दिन

रात्र्योः क्षयवृद्धिसाधने मण्डलभेदे । ययाह तत्रैव ।
“पूर्बापरक्षितिजसंगभयोर्विलग्नं याम्ये ध्रुवे पललवैः
क्षितिजादधःस्थे । सौम्ये कुजादुपरि चाक्षलवैर्ध्रुवे
तदुन्मण्डलं दिननिशोः क्षयवृद्धिकारि” शि० । “समवृत्त-
क्षितिजयोर्यौ पूर्व्वापरौ संपातौ तयोर्ध्रुवचिह्नयोश्च सक्तं
यन्निबध्यते तदुन्मण्डलसंज्ञम् । दिनरात्र्योर्वृद्धिक्षयौ तद्व-
शेन भवतः” प्रमि० । सूर्य्यसिद्धान्ते रङ्गनायेन च स्पष्टमुक्तं यथा
“प्राक्पश्चिमाश्रिता रेखा प्रोच्यते सममण्डलम् । उन्म-
ण्डलं च विषुवन्मण्डलं परिकीर्त्यते” सू० । “प्राक्पश्चि-
माश्रिता पूर्व्वपश्चिमसम्बद्धा साधिता रेखा समवृत्तमुच्यते ।
सैव रेखोन्मण्डलं विषुवन्मण्डलम् । चः समुच्चये ।
उभयसंज्ञकं कथ्यते । अत्रोपपत्तिः । क्षितिजपूर्बापरवृत्तसं-
योगौ पूर्वापरे तत्सूत्रं पूर्वापरसूत्रमिति । पूर्वापर-
वृत्तस्य भूमावूर्ध्वाधरानुकारिवृत्तत्वेनादर्शनाद्रेखाकारतयैव
दर्शनाच्च पूर्वापरवृत्तनपि तत्सूत्रम् । पूर्वापरवृत्तस्य सम
मण्डलत्वेनाभिधानात् तद्रेखा सममण्डलसञ्ज्ञोक्ता । अथ
स्वनिरक्षदेशक्षितिजवृत्तस्योन्मण्डलाख्यस्य तत्संयोगयोः
संलग्नत्वात् तन्मध्यसूत्रत्वेन पूर्वापरसूत्रस्यापि सत्त्वात्
पूर्वापरसूत्रमुन्मण्डलसञ्ज्ञम् । एतेनान्यदेशक्षितिजसञ्ज्ञया
स्वदेशक्षितिजसञ्ज्ञा सुतरां सिद्धेति पूर्वापरसूत्रस्य
क्षितिजवृत्तसञ्ज्ञा द्योतिता । पूर्वापरस्थानयोः क्षितज-
वृत्तस्य संलग्नत्वादुल्लिखितवृत्तस्य क्षितिजानुकारित्वाच्च”
रङ्ग० । “उद्वृत्तादयोऽप्यत्र । परोऽथ वोद्वृत्तगते रवौ
श्रुतिः” सि० शि० । प्रा० स० । २ ऊर्द्ध्वमण्डले त्रि० ।

उन्मण्डलकर्ण पु० सि० शि० उक्तेछायया दिनज्ञानार्थे उन्म-

ण्डलस्थार्कस्य छायाकर्णे । तदानयनं तत्रैव यथा
“युतायनांशार्कबृहद्भुजज्यया खरामतिथ्यभ्रभुवो” (१०१५
३०) हृताः परः । पलश्रुतिघ्नः पलभाविभाजितः परोऽ-
थ वोद्वृत्तगते रवौ श्रुतिः” शि० । “अर्कस्य सायनांशस्य
बृहतीभुजज्या साध्या । न लघुखण्डज्येत्यथः । तया ज्यया
पूर्णाग्नितिथिशून्यशशिनो (१० १५ ३०) भाज्याः । यल्लब्ध-
मसौ पराख्यः । स परः पलकर्णेन गुण्यः पलभया भाज्यः ।
फलमुन्मण्डलगतस्यार्कस्य छायाकर्णो वा भवति” प्रमि० ।

उन्मण्डलनृ पु० सि० शि० उक्ते अक्षक्षेत्रप्रदर्शनार्थे उन्मण्डल-

शङ्कौ । “अग्रादिखण्डं कथिता च कोटिरुद्बृत्तना दोः
श्रवणोऽपमज्या । उद्वृत्तना कोटिरथाग्रकाग्रखण्डं
भुजस्तच्छ्रवणः क्षितिज्या । खण्डं यदूर्द्ध्वं समवृत्तशङ्कोयत्
तद्धृतेस्तावथ कोटिकर्णौ । अग्रादिखण्डं मुज एवमष्टौ
क्षेत्राण्यमून्यक्षभवानि तावत्” शि० । “अत्र किल निरक्षदेशो
यदेव विषुमन्मण्डलं तदेव सममण्डलम् । तथा क्षितिजा-
दन्यदुन्मण्डं नाम वलयं नास्ति । तत्र ध्रुवौ च क्षि-
तिजासक्तौ । अथ निरक्षदेशाद्द्रष्टा यथा यथोत्तरतो
गच्छति तथा तथोदग्ध्रुवमुन्नतं पश्यति । तथा यैर्भागैर्ध्रुव
उन्नतस्तैरेव भागैरक्षसंज्ञैः स्वस्वस्तिकाद्दक्षिणतो विषुव-
न्मण्डलं नतं पश्यति । विषुवन्मण्डलस्य तिर्यक्स्थित-
त्वात् तदाश्रितान्यहोरात्रवृत्तानि स्वस्थाने तिरश्चीनानि
भवन्ति । अतः साक्षे देशे खगोलवलयानां तिरश्चीनखगोल-
वलयानां च संपातात् त्र्यस्राणि क्षेत्नाण्युत्पद्यन्ते । तान्य-
क्षक्षेत्रसंज्ञान्युपयोगित्वात् कथ्यन्ते । अक्षभा नाम पलमा
प्रसिद्धा सा भुजः । द्वादशाङ्गुलः शङ्कुः कोटिः । अक्ष-
कर्णस्तत्र कर्णः” प्रमि० उद्वृत्तनाप्यत्र । एवमुन्मण्डलादि-
शङ्कुरप्यत्र ।

उन्मत्त पु० उद् + मद--करणे क्त । १ धूस्तरे “विल्वैरण्डार्क-

वर्षाभूदधित्योन्मत्तशिग्रुभिः” सुश्रु० । २ मुचकुब्दवृक्षे च ।
कर्त्तरि क्त । ३ उन्मादवति, ४ ग्रहावेशवति च त्रि० । “बाल-
मूढास्वतन्त्रार्त्तमत्तोन्मत्तापवर्ज्जितम्” नारदः । “उन्मत्तेन
वातिकाद्युन्मादयुक्तेन” मिता० । “उन्मत्तानाञ्च या
गाथा शिशूनां चेष्टितं च यत् । स्त्रियो यच्च प्रभाषन्ते
नास्ति तत्र व्यतिक्रमः” म० त० मत्स्यपु० । ४ उद्धते च
उन्मत्तगङ्गम् । अतिशयेन मत्तः । ५ अतिमत्ते “मदोन्-
मत्तस्य भूपस्य कुञ्जरस्य च गच्छतः” पञ्चतन्त्रम् ।

उन्मत्तक पु० उन्मत्त इव कन् । १ तापसभेदे । अवधूतशब्दे ४२८

पृष्टे विवृतिः । स्वार्थे कन् । २ उन्मत्तार्थे । “क्लीबोऽथ
पतितस्तज्ज पङ्गुरुन्मत्तको जडः” याज्ञवल्क्यः ।

उन्मत्तगङ्ग अव्य० उन्मत्ता उद्धता गङ्गा यत्र संज्ञायाम्

अन्यपदार्थत्वे अव्ययी० । देशभेदे । “उन्मत्तगङ्गं नाम
देशः” सि० कौ० ।

उन्मत्तगीत त्रि० उन्मत्तेन गीतम् “इत्यद्भूतेन कृतमिति”

पा० ३ त० । उन्मत्तेन गीते एवम् उन्मत्तप्रल-
पिताद्यपि उन्मत्तेन प्रलपिताद्यर्थे त्रि० ।

उन्मथन न० उद् + मथ--भावे ल्युट् । १ उन्मर्द्दने २ हिंसने ।

“अन्योन्यसूतोन्मथनादभूताम्” रघुः “वायुनोन्मथनं चापि
भ्रमश्च क्रमतस्तथा” सुश्रु० । सुश्रुतोक्ते ३ यन्त्रकर्मभेदे च
उन्नननशब्दे ११९० पृ० दृश्यम् । कर्त्तरि ल्यु । ४
उन्मर्द्दनकारकेत्रि० । “विपक्षचित्तोन्मथना नखव्रणाः” किरा०

उन्मथित त्रि० उद् + मथ--क्त । उद्घृष्टे मर्द्दिते ।

पृष्ठ ११९२

उन्मद पु० उद्गतोमदोमत्तताऽस्य प्रा० ब० गतलोपः ।

१ उद्गतमदे । “उन्मदमृगमदरभसवशंवदनवदलमालतमाले”
जयदेवः “उदीरयामासुरिवोन्मदानाम्” रघुः “अथोर्स्मि-
लोलोन्मदराजहंसे” रघुः । ३ ब० । २ उद्गतमदसाधने “मधु-
कराङ्गनया मुहुरुन्मदध्वनिभृता निभृताक्षरमुज्जगे” माघः ।

उन्मदन त्रि० उद्भूतोमदनोऽस्य प्रा० ब० भूतलोपः । उद्धूत-

कामे । “तदाप्रभृत्युन्मदना बभूव” कुमा० ।

उन्मदिष्णु त्रि० उद् + मद--ताच्छील्ये इष्णुच् । उन्मादशीले ।

उन्मनस् त्रि० उद्भ्रान्तं मनोऽस्य । १ उत्कण्ठायुक्ते, २ अन्य-

मनस्के च । “पयोधरेणोरसि काचिदुन्मनाः” माघः ।
“उन्मनाः प्रथमजन्मचेष्टितान्यस्मरन्नपि बभूव राघवः” रघुः
वा कप् । उन्मनस्कोऽप्यत्र । भृशा० अभूततद्भावे क्यङ्
सलोपश्च उन्मनायते उन्मनायमानः “भृशमुन्मनायि-
तम्” । चिव--कृभ्वस्तिषु सलोपश्च उन्मनोकरोति उन्म-
नीभवति उन्मनीस्यात्” ।

उन्मनी स्त्री उन्मनस् + पृषो० । योगिनामवस्थाभेदे । “उन्मन्यव-

स्थाधिगमाय विद्वनुपायमेकं तव निर्द्दिशामि । पश्यन्नदा-
सीनदृशा प्रपञ्चं सङ्कल्पमुन्मूलय सावधानः” आचार्य्यः ।

उन्मन्थ पु० उद् + मन्थ--भावे घञ् । बधे २ हिंसने ३ उन्मर्द्दने च ।

उन्मन्थन न० न० उद् + मन्थ--ल्युट् । ऊर्द्ध्वतो दण्डादिना

विलोडने । करणेल्युट् । तत्साधने २ दण्डादौ ।

उन्मर्दन न० उद् + मृद--ल्युट् । १ उद्घर्षणे सुश्रुतोक्ते वायु-

प्रसादनार्थे २ व्यापारभेदे । वायौ इत्युपक्रम्य सुश्रु० “त्वङ्-
मांसासृक्शिरां प्राप्ते कुर्य्याच्चासृग्विमोक्षणम् । स्रेहोपना-
हाग्निकर्म्म बन्धनोन्मर्द्दनानि च” शूलोपद्रवनिवारणार्थे
सुश्रुतोक्ते ३ व्यापारभेदे च” “वमनोन्मर्द्दनस्वेदलष्टनक्षपण-
क्रियाः” । करणे ल्युट् । ४ उन्मर्द्दनसाधने द्रव्यादौ ।
“अथैतान्युपकल्पयीत समावर्त्त्यमाने मणिं कुण्डले वस्त्रयुगं
छत्रमुपानद्युगं दण्डं स्रजमुन्मर्दनमनुलेपनमाञ्जनमुष्णी-
षमित्यात्मने चाचार्य्याय च” आ० गृ० ३, ८, १, “उन्म-
र्दनमभिषेकेऽवनीयैके” कात्या० १९, ४, ८ । “उन्मर्दन-
चन्दनादि” कर्कः ।

उन्मा स्त्री उद् + मा--अ । ऊर्द्ध्वमाने । “सहस्रास्युन्मासि

साहस्रोऽसि” यजु० १५, ६५; “उन्मा” उन्मानं तुलादि
येददी० ।

उन्माथ पु० उन्मथ्यतेऽनेन उद् + मथ--करणे घञ् । १ आमिष-

दानेन मृगादिबन्धनार्थं निवेशिते कूटयन्त्रे (फांद) इति
ख्याते । भावे घञ् । २ विलोड्योत्थापने, ३ हिंसने च ।
तत्रचागत्य चाण्डालोह्यरण्ये कृतकेतनः । प्रयोजयति
चोन्माथं नित्यमस्तं गते रवी” भा० शा० १३८ अ० ।

उन्माद पु० उद् + मद--अधारे घञ् । रोगभेदे स च सुश्रुते दर्शितो

यथा “अथात उन्मादप्रतिषेधमध्यायं व्याख्यास्यामः ॥
मदयन्त्युद्धता दोषा यस्मादुन्मार्गमाश्रिताः । मानसोऽयमतो
व्याधिरुन्माद इति कीर्त्तितः ॥ एकैकशः समस्तैश्च दोषैर-
त्यर्थमूर्च्छितैः । मानसेन च दुःखेन स पञ्चविध उच्यते ॥
विषाद्भवति षष्ठश्च यथास्वन्तत्र भेषजम् । स चाप्रवृद्धस्तरुणो
मदसंज्ञां बिभर्त्ति च ॥ मोहोद्वेगौ स्वनः श्रोत्रे मात्राणाम-
पकर्षणम् । अत्युत्साहोऽरुचिश्चान्ने स्वप्ने कलुषभोजनम् ॥
वायुनोन्मथनञ्चापि भ्रमश्च क्रमतस्तथा । यस्य स्यादचिरे-
णैवमुन्मादं सोऽधिगच्छति ॥ रूक्षच्छविः परुषवाक् धमनी
ततोवा श्वासातुरः कृशतनुः स्फुरिताङ्गसन्धिः । आस्फोट-
यन् पठति गायति नृत्यशीलो विक्रोशति भ्रमति चाप्य-
निलप्रकोपात् ॥ तृट्स्वेददाहबहुलो बहुभुग्विनिद्र
श्छायाहिमानिलजलान्तविहारसेवी । तीक्ष्णो हि माम्बु
निचयेऽपि स वह्निशङ्को पित्ताद्दिवा नभसि षश्यति
तारकाश्च ॥ छर्द्यग्निसादसदनारुचिकासयुक्तो योषिद्वि-
विक्तरतिरल्पमतिप्रचारः । निद्रापरोऽल्पकथनोऽल्पभुगुष्ण-
सेवी रात्रौ भृशं भवति चापि कफप्रकोपात् ॥ सर्व्वात्मके
त्रिभिरपि व्यतिमिश्रितानि रूपाणि वातकफपित्तकृतानि
विद्यात् । सम्पूर्णलक्षणमसाध्यमुदाहरन्ति सर्व्वात्मकं
क्वचिदपि प्रवदन्ति साध्यम् ॥ चौरैर्नरेन्द्रपुरुषैररिभिस्तथान्यै
र्वित्रासितस्य धनबान्धवसंक्षयाद्वा । गाढं क्षते मनसि
च प्रियया रिरंसोर्जायेत चोत्कटतरो मनसो विकारः ॥
चित्रं स जल्पति मनोऽनुगतं विसंज्ञो गायत्यथो हसति
रोदिति चापि मूढः । रक्तेक्षणो हतबलेन्द्रियभाः
सुदीनः श्यावाननो विषकृतेन भवेत् परासुः ॥ स्निग्धं
स्विन्नन्त् मनुजमुन्मादार्त्तं विबोधयेत्” । एतद्व्याख्याच्छलेन
तत्रत्यविभागादि चोक्तं भावप्रकाशे “तत्र उन्मादस्य निरुक्ति-
माह । “मदयन्त्युद्धता इत्यादि” सुश्रुतवाक्यम् यस्माद्धेतो-
रुद्धताः प्रवृद्धा दोषा उन्मार्गमास्थिताः मदयन्ति चित्तं
विक्षिपन्त्यस्मिन् । अतोऽयमुन्माद इति कीर्त्तितः । स उन्मादः
मानसोव्याधिः मनोवैकृत्यकरणात् । तस्यैवावस्थाभेदेन
लक्षणान्तरमाह । “स चाप्रवृद्धस्तरुणैत्यादि” सुश्रु०
“उन्मादस्य विप्रकृष्टनिदानमाह । “विरुद्धदुष्टाशुचिभोजना-
नि प्रधर्षणं देवगुरुद्विजानाम् । उन्मादहेतुर्भयहर्षपूर्वो
मनोऽमिघातो विषमाश्च चेष्टाः” । दुष्टं धत्तूरवीजादिस-
हितम् । अशुचि रजखलादिस्पृष्टम् । प्रधर्षणमभिभवः ।
पृष्ठ ११९३
विषमाश्च चेष्टाः बलवद्विग्रहादयः । सन्निकृष्टं निदानमाह ।
“एकैकशः इत्यादि” सुश्रु० तस्य सम्म्राप्तिमाह । “तैरल्पसत्वस्य
मलाः प्रदुष्टा बुद्धेर्निवासं हृदयं प्रदूष्य । स्रोतांस्वधिष्ठाय
मनोवहानि प्रमोहयन्त्याशु नरस्य चेतः” । अल्पसत्वस्य
अल्पसत्वगुणस्य । मलाः वातादयः । बुद्धेर्निवासं
हृदयं प्रदूष्येति । एतेनाश्रयस्य दुष्ट्या तदाश्रिताया बुद्धे
रपि दुष्टिरक्ता । मनोवहानि स्रोतांसि हृदयश्रितानि
दश एतानि विशेषतो बोद्धव्यानि । यतश्चरकेण
सकलशरीरस्रोतांस्येव मनोधिष्ठानत्वेनोक्तानि । प्रमोहयन्ति
विकृतं कुर्वन्ति । उन्मादस्य सामान्यं रूपमाह । “धीवि-
म्नमः सत्वपरिप्लवश्च पर्याकुला दृष्टिरधीरता च ।
अबद्धवाक्चं हृदयञ्च शून्यं सामान्यमुन्मादगदस्य लिङ्गम्” ।
धीविभ्रमः शुक्तिकायां रजतज्ञानम् । सत्वपरिप्लवः सत्वं
मनस्तस्य चाञ्चल्यम् । अबद्धवाक्त्वम् असम्बद्धभाषित्वम् ।
शूव्यं स्मृतिशून्यम् । वातिकोन्मादस्य निदानपूर्विकां सम्प्रा
प्तिमाह । “रूक्षाल्पशीतान्नविरेकधातुक्षयोपवासैरनि-
लोऽतिवृद्धः । चिन्तातिदुष्टं हृदयं प्रदूष्य बुद्धिं स्मृतिं
वाप्युपहन्ति शीघ्रम्” । प्रदूष्य प्रकर्षेण दूषयित्वा ।
तस्यैव रूपमाह । “अस्थानहास्यस्मृतिनृत्यगीतवाग-
ङ्गविक्षेपणरोदनानि । पारुष्यकार्श्यारुणवर्णताश्च जीर्णे
बलञ्चानिलजस्य रूपम्” । अस्थाने अनवसरे हास्या-
दीनि रोदनान्तानि । जीर्णे आहारे । बलं व्याधेः ।
पैत्तिकस्य निदानपूर्विकां सम्प्राप्तिमाह । “अजीर्णक-
ट्वम्लविदाह्यशीतैर्भोर्ज्यैश्चितं पित्तमुदीर्णवेगम् । उन्मा-
दमत्युग्रमलात्मकस्य हृदिस्थितं पूर्ववदाशु कुर्यात्” ।
हृदि स्थितं पित्तं चितं सञ्चितम् पुनः अजीर्ण
कट्वम्लविदाह्यशीतैर्भोर्ज्यैरुदीर्णवेगं सत् उन्मादं कुर्यात्
पूर्ववत् हृदयं प्रदूष्य इत्यर्थः । तस्य रूपमाह “।
अमर्षसंरम्भविनग्नमावाः सन्तर्जनाभिद्रवणौष्ण्यवोषः ।
प्रच्छायशीतान्नजलाभिलाषः पीतावभा पित्तकृतस्य
लिङ्गम्” । अमर्षोऽसहिष्णुता । संरम्भः आरभटी आड़-
म्बर इति यावत् । सन्तर्जनं परत्रासनम् । अभिद्रवणं
पलायनम् । औष्ण्यं गात्रे । वोषो दाहविशेषः ।
प्रच्छायेत्यादि छायायां, शीतयोरन्नजलयोरभिलाषः ।
श्लैष्मिकस्य निदानपूर्विकां संप्राप्तिमाह । “सम्पूरणैर्मन्द
विचेष्टितस्य सोष्मा कफो मर्मणि संप्रवृद्धः । बुद्धिं स्मृतिं
बाप्युपहन्ति चित्तं प्रमोहयन् सञ्जनबेद्विकारम्” । संपूरणै
र्भोजनादिभिः । मन्दविचेष्टितस्य व्यायामरहितस्य ।
सोष्मा कफ इति कफोऽप्युन्मादं करिष्यन् पित्तं सहाय
मपेक्षते व्याधिस्वभावात् । मर्मणि अत्र मर्मशब्देन हृदय-
मुच्यते । विकारमुन्मादरूपम् । तस्य रूपमाह । “वाक्चे-
ष्टितं मन्दमरोचकश्च नारीविविक्तप्रियता च निद्रा ।
छर्दिश्च लाला च बलञ्च भुक्ते नखादिशौक्ल्यञ्च कफात्मके
स्यात्” । वाक्चेष्टितं मन्दं वचनमल्पम् । नारीविविक्त
प्रियता नारीप्रियता विजनप्रियता च । भुक्ते सति बलं
व्याधेः । सान्निपातिकस्य निदानपूर्वकं लक्षणमाह । “यः
सन्निपातप्रभवोऽतिधोरः सर्वैः समस्तैः स तु हेतुभिः स्यात् ।
सर्वाणि रूपाणि विभर्त्ति तादृग्विरुद्धभैषज्यविधिर्विवर्ज्यः”
स सान्निपातिक उन्मादा । सन्निपातग्रहणेनैव सर्वात्मकत्वं
लब्धम् । मुनः सर्वैरिति यत्कृतं तद्रजःस्तमःप्रापणा-
र्थम् । तेन रजस्तमोमिलितैरित्यर्थः । तेन वातादयो
रजस्तमोभिर्मनोदोषैर्सिलिताः समस्तैश्च निदानैः
कुपिता उन्मादं जनयन्ति । सर्वैर्हेतुभिः समस्तैर्मिलितैः
स्यात् । यतोऽन्योव्याधिः सर्वैर्हैतुभिर्मिलितैरेव भवतीति
नियमो नास्ति । अयन्तु व्याधिस्वभावात् सर्वैर्हेतुभि
र्मिलितैः स्यात् । तादृगुन्मादः विरुद्धभैषज्यविधिः विरु-
द्धभैषज्यविधिरिति कोऽर्थः । त्रिदोषजे प्रत्येकं वातादि-
प्रत्यनीका कार्य्या । सा च परस्पराविरोधिनी त्रिदोषं
हन्ति किञ्चिदेव द्रव्यमामलकादि तच्चात्रायौगिकम् ।
अतएव विवर्ज्यः न चिकित्स्य इत्यर्थः” । मनोदुःखजस्य
विप्रकृष्टं निदानमाह । “चोरै र्नरेन्द्रपुरुषैरित्यादि” सुश्रु० ।
अन्यैर्हिंस्रादिभिः । गाढमतिशयेन । क्षते अभिहते
प्रियया प्राप्तुमशक्यया रिरंसोः पुरुषस्य विकारः उन्माद-
रूपः । तस्य रूपमाह । “चित्रं प्रजल्पतीत्यादि” सुश्रु० चित्र-
माश्चर्य्यम् । मनोऽनुगतं गोप्यमपि । विसंज्ञो विरुद्धज्ञानः ।
अतीव मूढः अतीवज्ञानशून्यः । अत्र विकल्पो बोद्धव्यः ।
विषजस्य रूपमाह । “रक्तेक्षण इत्यादि” सुश्रु० परासुः
मृतः । अरिष्टमाह । “अवाङ्मुखस्तून्मुखो वा क्षीणमांस
वलो नरः । जागरूकोह्यसन्देहमुन्मादेन विनश्यति” ।
अथ देवादिकृतस्योन्मादस्य सामान्यं लक्षणमाह ।
“अमर्त्यवाग्विक्रमवीर्यचेष्टो ज्ञानादिविज्ञानबलादियुक्तः ।
प्रकोपकालो नियतश्च यस्य देवादिजन्मा स मनोविकारः” ।
अमर्त्यवाग्विक्रमवीर्य्यचेष्टः न मर्त्यस्येव मनुष्यस्येव वागादयो
यस्य सः । विक्रमः पराक्रमः । वीर्यं शौर्य्यम् । ज्ञानादि
विज्ञानबलादियुक्तः । ज्ञानं बुद्धिः । आदिपदेन
तद्भेदा मेधाविचारणास्मृत्यादयो गृह्यन्ते । विद्धानं शि-
पृष्ठ ११९४
ल्पादिविषयकं ज्ञानम् । चेष्टा पाटवम् । आदिपदेनाभि-
मानादि गृह्यते । नियतः वक्ष्यमाणतिथ्यादिभिः ।
मनोविकारः उन्मादः । तत्र देवाविष्टस्य लक्षणमाह ।
“सन्तुष्टःशुचिरतिदिव्यमाल्यगन्धो निस्तन्द्रोऽवितथसंस्कृ-
तप्रभाषी । तेजस्वी स्थिरनयनो वरप्रदाता ब्रह्मण्यो भवति
नरः स देवजुष्टः” । अतिदिव्यमाल्यगन्धः अतिशयो दिव्य-
माल्यस्येव गन्धो यस्य सः । निस्तन्द्रः निद्रारहितः ।
अवितथं सत्यम् । ब्रह्मण्यःब्राह्मणभक्तः । दैत्याविष्टस्याह ।
“संस्वेदो द्विजगुरुदेवदोषभक्तो जिह्माक्षो विगतभयो
विमार्गदृष्टिः । सन्तुष्टो भवति न चान्नपानजातैर्दुष्टात्मा
भवति स देवशत्रुजुष्टः” । विमार्गदृष्टिः कमार्गरतः । दुष्टा-
त्मा दुष्टस्वभावः । गन्धर्वाविष्टस्याह । “हृष्टात्मा पुलिन
बनान्तरोपसेवी स्वाचारः प्रियपरिगीतगन्धमाल्यः ।
नृत्यन वै प्रहसति चारु चाल्पशब्दं गन्धर्वग्रहपरिपीड़ितो
मनुष्यः” । हृष्टात्मा हृष्टजीवात्मा । पुलिनं तोयोत्यितं
तटम् वनान्तरं वनमध्यम् तयोः सेवी । स्वाचारः
अनिन्दिताचारः । प्रियाणि परि समन्ततीभावेन गीत
गन्धमाल्यानि यस्य स तथा । चारु चाल्पशब्दमिति
हसनक्रियायाविशेषणम् । यक्षाविष्टस्याह । “ताम्राक्षः
प्रियतनुरक्तवस्त्रधारी गम्भीरोऽद्भुतगतिरल्पवाक् सहिष्णुः ।
तेजस्वी वदति च किं ददामि कस्मै यो यक्षग्रहपरिपी-
ड़ितो मनुष्यः” । पित्राविष्टस्याह । “प्रेतानां स दिशति
संस्तरेषु पिण्डान् शान्तात्मा जलमपि वाऽपसव्यवस्त्रः ।
मांसेप्सुस्तिलगुड़पायसाभिकामस्तद्भक्तो भवति पितृग्र-
हाभिजुष्टः” । प्रेतानां मृतानां पितॄणाम् । दिशति
ददाति । अपसव्यवस्त्रः दक्षिणस्कन्धधृतोत्तरीयः । नागाविष्ट
स्याह । “यस्तूर्व्यां प्रसरति सर्पवत् कदाचित् सृक्कण्यौ मुहु
रपि जिह्वयावलेढि । क्रोधालुर्घृतमधुदुग्धपायसेप्सुर्विज्ञेयः
स खलु भुजङ्गमेन जुष्टः” । प्रसरति सर्पवत् उरसा
चलति । सृक्वण्यौ ओष्ठप्रान्तौ । राक्षसाविष्टस्याह । “गां-
सासृग्विविधसुराविकारलिप्सुर्निर्लज्जोभृशमतिनिष्ठूरोऽति-
शूरः । क्रोधालुर्विपुलबलो निशाविहारी शौचद्विट्
भवति स राक्षसैर्गृहीतः” । अतिनिष्ठुरोऽतिनिर्दयः
ब्रह्मराक्षसाविष्टस्याह । “देवविप्रगुरुद्वेषी वेदवेदाङ्ग-
विच्छुचिः । आत्मपीड़ाकरोऽहिंस्रो ब्रह्मराक्षससेवितः ।
अहिंस्रः अहिंसाशीलः । पिशाचाविष्टस्याह । “उद्बस्त्रः
कृशपरुषो विरुद्धभाषी दुर्गन्धो भृशमशुचिस्तथातिलोलः ।
बह्वाशी विजनवनान्तरोपसेवी व्याचेष्टन् भ्रमति रुदन्
पिशाचजुष्टः” । उद्वस्त्रः नग्नः । दिगम्बर इति
विदेहवचनात् । (मु० सुश्रु० उद्धस्त इति पाठः)
कृशो निर्मांसः । परुषो रूक्षः । अतिलोलः सर्व-
स्मिन् अन्नपाने लोलुपः । व्याचेष्टन् विरुद्धमाचेष्टन् ।
ग्रहा हिंसाक्रीड़ापूजार्थं गृह्णन्ति । अतएवोक्तम् ।
“अशुचिं भिन्नमर्य्यादं क्षतं वा यदि वाऽक्षतम् । हिंस्यु
र्हिंसाविहारार्थं सत्कारार्थमथापि वा । तत्र हिंसार्थं
गृहीतस्य लक्षणमाह । “स्थूलाक्षो द्रुतमटनः सफेणवामी
निद्रालुः पतति च कम्पते च योऽति । यश्चाद्रिद्विरद
नगादिविच्युतः स्यात् सोऽसाध्यो भवति तथा त्रयोद-
शेऽव्दे । यश्चाद्रीत्यादि यः पर्वतादिपतितः सन् ग्रहैर्गृ-
ह्यत इत्यर्थः । आदिशब्देन भित्तिप्रासादादयो गृह्यन्ते
त्रयोदशेऽव्दे सर्व एव देवादिगृहीतोऽसाध्यः । देवादीना
मावेशसमयमाह । “देवग्रहाः पौर्ण्यमास्यामसुराः सन्ध्ययो
रप्रि । गन्धर्वाः प्रायशोऽष्टम्यां यक्षाश्च प्रतिपद्यपि ।
पितरः कृष्णपक्षे च पञ्चम्यामपि चोरगाः । रक्षःप्रिशा-
चा रत्रौ च चतुर्दश्यां विशन्ति हि” । कृष्णपक्षे
अमायाम् । प्रायशःपदादन्यत्रापि । तिथ्यभिधानप्रयोजनं
लक्षणार्थं तत्र तिथौ बलिदानार्थञ्च । ननु यदि देवा-
दयो विशन्ति तदा विशन्तस्ते दृश्यन्ते कथं नेत्यत आह ।
“दर्पणादीन् यथा छाया शीतोष्णं प्राणिनो यथा ।
स्वमणिं भास्करार्च्चिश्च यथा देहञ्च देहधृक् । विशन्ति
न च दृश्यन्ते ग्रहास्तद्ववच्छरीरिणम्” । दर्पणादीत्यादि
शब्देनान्यदपि निर्मलद्रवद्रव्यं गृह्यते । छाया
प्रतिविम्बम् । स्वमणिं सूर्वमणिम् । देहधृक् जीवात्मा” ।
भा० प्र० । एतानि च वाक्यानि सुश्रुतोत्तरतन्त्रस्थानि ।
तत्र हि “गुह्यानागतविज्ञानमनवस्था सहिष्णुता ।
क्रियावाऽमानुषी यस्मिन् स ग्रहः परिकीर्त्त्यते” इति ग्रह-
शब्दं परिभाष्य “असंख्येया ग्रहगणा ग्रहाधिपतयश्च ये ।
व्यज्यन्ते विविधाकाराभिद्यन्ते ते तथाष्टधा देवास्तथा
शत्रुगणाश्च तेषां गन्धर्वयक्षाः पितरोभुजङ्गाः । रक्षांसि
या चापि पिशाचजातिरेषोऽष्टधा देवगणग्रहाख्यः” इति
विभज्य “संतुष्टः शुचिरित्यादिना तज्जुष्टानां लक्षणान्थाह ।
तानि भा० प्र० सङ्गसङ्गत्योदाहृत्य व्याख्यातानीति द्रष्टव्यम् ।
अन्ते च प्रकृतदेवादीनां न क्वचित् प्रवेशः किन्तु तत्परि-
चारकाणामेव देवाद्याचरवतां प्रवेश इत्युक्तं यथा सुश्रु०
उत्त० । “तपांसितीव्राणिंदया च दानं व्रतानि धर्मो नियमश्च
सत्यम् । गुणास्तथाष्टावपि तेषु नित्या व्यस्ताः समस्ताश्च
पृष्ठ ११९५
यथाप्रभावम् । न ते मनुष्यैः सह संविशन्ति न वा
मनुष्यान् क्वचिदाविशन्ति । ये वा विशन्तीति वदन्ति मोहात्ते
भूतविद्याविषयादपोह्याः । तेषां ग्रहाणां प्ररिचारका ये
कोटीसहस्रायुतपद्मवंख्याः । असृग्वसामांसभुजः सुभीमा
निशाविहाराश्च समाविशन्ति । निशाचराणां तेषां हि ये
देवगणसंसृताः । ते तु तत्सत्वसंसर्गाद्विज्ञेयास्तु तदञ्जनाः ।
देवग्रहा इति पुनः प्रोच्यन्ते शुचयश्च ये । देववच्च
नमस्यन्ते प्रत्यर्थ्यन्ते च देवववत् । स्वामिशीलक्रियाचाराः
क्रमएव सुरादिषु । नैरृतेया दुहितरस्तासां स प्रसवः
स्मृतः । सत्यचादपवृत्तेषु वृत्तिस्तेषां गणैः कृता । हिंसा-
विहारा ये केचिद्दिव्य भावमुपाश्रिताः । भूतानीति कृता
संज्ञा तेषां संज्ञा प्रवक्तृभिः । ग्रहसंज्ञाभिभूतानि यस्मा-
द्वेत्त्यनया भिषक् । विद्यया भूतविद्यात्वमतएव निरुच्यते” ।
अथोन्मादस्य सामान्यचिकित्सा
‘वातिके स्नेहपानं प्राक् विरेकः पित्तसम्भवे । कफजे
वमनं कार्य्यं परे वस्त्यादिकक्रमः । यच्चोपदेक्ष्यते
किञ्चिदपस्मारे चिकित्सितम् । उन्मादे तच्च कर्त्तव्यं सामा-
न्याद्दोषदूष्ययोः । जलादिद्रुमशैलेभ्यो विषमेभ्यश्च तं सदा ।
रक्षेदुन्मादिनं यत्नात् सद्यः प्राणहरा हि ते । ते
जलादयः” । विशेषचिकित्सा भा० प्र० आदौ दृश्या । सचायं
रोगः । महापातककर्म्मविपाकजः । “उन्मादस्त्वग्दोषो
राजयक्ष्मेत्यादि” शु० त० नारदोक्तेः “चित्तसंमोह
उन्मादः कामशोकभयादिभिः” । सा० द० उक्ते २ व्यभि-
चारिभावभेदे ।

उन्मादक पु० उद् + मद--णिच्--ण्वुल् । उन्मादजनके धुस्तूरादौ।

उन्मादन पु० उद् + मद--णिच्--ल्यु । १ कन्दर्पबाणभेदे त्रिका० । उर्न्मादकारके त्रि० ।

उन्मादवत् त्रि० उन्मादोऽस्त्यस्य मतुप् मस्य वः । उन्मादयुक्ते

स्त्रियां ङीप् ।

उन्मादिन् त्रि० उद् + णिनि स्त्रियां ङीप् । उन्मत्ते “रक्षेदुन्मादिनं यत्नात्” सुश्रु० ।

उन्मान न० उद् + मा--भावे ल्युट् । ऊर्द्ध्वमाने तच्च प्रथित-

गुरुत्वेन पलादिमितपाषाणादिना तुलाधारफलके
एकपार्श्वेस्थितेन अन्यपार्श्वस्थसुवर्ण्णादेरुन्नमनादिना गुरुत्व-
विशेषज्ञापनव्यापारः (ओजनकरा) “ऊर्द्ध्वमानं किलोन्मा-
नम्” वार्त्तिकोक्ते ३ ऊर्द्ध्वतः प्रमाणे च । अस्मिन्नेवार्थे
“प्रमाणे द्वयसज्दघ्नज्मात्रचः” पा० “प्रथमश्च द्वितीयश्च
ऊर्द्ध्वमाने मतो सम” वार्त्तिकोक्तेः द्वयसच् दघ्नच्च ।
ऊरुद्वयसः ऊरुदघ्नः “गजपतिद्वयसीरिति” माघः । सामान्य-
प्रमाणे तु मात्रजेव । ऊरुमात्रं प्रस्थमात्रम् । ४ करणे
ल्युट् । २ तुलादौ । ३ द्रोणपरिमाणे पु० वैद्यकम् ।

उन्मार्ग त्रि० उत्क्रान्तः मार्गात् निरा० स० । मार्गातिक्रान्ते

मार्गश्च पन्थाः रीतिश्च” “नाशयति च दिङ्मोहमि-
वोन्मार्गः” काद० । २ विरुद्धपथे च “मदोन्मत्तस्य भूपस्य
कुञ्जरस्य च गच्छतः । उन्मार्गे वाच्यतां यान्ति महामात्राः
समीपगाः” पञ्चतन्त्रम् । उन्मादशब्दे उदा० ।

उन्मिति त्रि० उद् + मद--क्तिन् । ऊर्द्ध्वमाने ।

उन्मिष त्रि० उद् + मिष--क । १ प्रफुल्ले २ किञ्चित्प्रकाशयुक्ते च

उन्मिषित त्रि० उद् + मिष--क्त । १ प्रफुल्ले, विकसिते २ किञ्चित्

प्रकाशिते च । “व्यलोकयन्नुन्मिषितैस्तड़िन्मयैः” कुमा० ।

उन्मीलन न० उद् + मील--ल्युट् । १ विकाशे २ चक्षुरादेः पुटवि-

भेदे (ताकान) “ज्ञानाञ्जनशलाकाभिर्नेत्रोन्मीलनकारकः”
भा० आ० ८४ अ० । “सम्मीलनीन्मीलनके तथैव” सि०
शि० । मावे बञ् उन्मीलोऽप्यत्र पु० ।

उन्मीलित त्रि० उद् + मील--क्त । १ विकसिते “ते चीन्मीलित

मालतीसुरभयः प्रौढाः कदम्बानिलाः” सा० द० । २
अमुद्रिते च णिच्--कर्मणि क्त । ३ प्रकाशिते “उन्मीलितं तूलि
कयेव चित्रम्” कुमा० । ४ भेदितमुद्रणे नेत्रादौ “अज्ञानति-
मिरान्धस्य ज्ञानाञ्जनशलाकया । चक्षुरन्मीलितं येन तस्मै
श्रीगुरवे नमः” गुरुनतिमन्त्रः ।

उन्मुक्त त्रि० उद् + मुच--क्त । बन्धनरहिते

उन्मुख त्रि० उद् + उर्द्ध्वं मुखमस्य । १ ऊर्द्ध्वास्ये, २ उद्युक्ते च ।

“उन्मुखद्वाःस्थवीक्षिताः” कुमा० । “तस्मिन् संयमिनामाद्ये
जाते परिणयोन्मुखे” कुमा० । “विपुलतरोन्मुखलोच-
नावलग्नम्” “दन्ताग्रनिर्भिन्नपयोदमुन्मुखाः” माघः ।
“असौ शरण्यः शरणोन्मुखानाम्” “या नीतपौरा
स्वपदोन्मुखेन” । “मनोऽभिरामाः शृण्वन्तौ रथनेमिस्व-
नोन्मुखैः” रघुः स्त्रियां ङीप् । “चूतयष्टिरिवाभ्यासे मधौ
परभृतोन्मुखी” कुमा० “प्रतिषिद्धापि कैकेय्या लक्ष्मीरिव
गुणोन्मुखी” “पतिः प्रतीतः प्रसवोन्मुखीं प्रियाम्”
“अद्रेः शृङ्गं हरति पवनः किंस्विदित्युन्मुखीभिः”
“इत्याख्याते पवनतनयं मैथिलीवोन्मुखी सा” मेघ० ।

उन्मुद्र त्रि० उद्गता मुद्रा यस्मात् प्रा० ब० । १ त्यक्तमुद्रे, २ विकसिते च

उन्मूल नामधा० मूलत उत्पाटयति उद् + मूल--णिच् । उन्मूल

यति ते “उन्मूलयन् महावृक्षान्” भा० ब० १४६ अ०

उन्मूलन न० उन्मूल + णिच्--ल्युट् । उत्पाटने उद्गतमूलक-

रणे । “न पादपोन्मूलनशक्ति रंहः” रघुः!
पृष्ठ ११९६

उन्मूलित त्रि० उन्मूलि--नामधा० क्त । उत्पाटिते “उन्-

मूलिता हलधरेण पदावघातैः” उद्भटः “दूरे फलानि
हन्त भवता तन्मूलमुन्मूलितम्” उद्धवदू० ।

उन्मृजावमृजा स्त्री उन्मृज अवमृज इत्युच्यते यस्यां क्रियायां

मयू० स० । उन्मार्जनावमार्जनार्थनिदेशक्रियायाम् ।

उन्मृश्य त्रि० उद् + मृश--क्यप् । “हस्तमुत्तोल्यस्पृश्ये । “इत्यु-

न्मृश्या हैव द्यौरास” शत० व्रा० १, ४, १, २२, ल्यप् ।
२ ऊर्द्ध्वतः स्पृष्ट्वेत्यर्थे अव्य० ।

उन्मेय त्रि० उद् + मा--यत् । १ परिमेये “आचितः शकटोन्-

मेये” त्रिका० । २ उन्मानमेये सुवर्णादौ च ।

उन्मेष पु० उद् + मिष--घञ् । १ चक्षुरादेरुन्मीलने, किञ्चित्प्रका-

शे च । “स्वकिरणपरिवेषोन्मेषशून्याः प्रदीपाः” रघुः ।
“दीर्घिकाकमलोन्मेषोयावन्मात्रेण साध्यते” कुमा०
“विद्युदुन्मेषदृष्टिम” मेघ० । भावे ल्युट् । उन्मेषणमप्यत्र न०
“मन्मथोन्मेषणातिविस्तीर्णा शोभैव कान्तिः” सा० द० ।

उन्मोचन न० उद् + मुच--ल्युट् । बन्धनात् उद्धृत्य विश्लेषणे ।

“उन्मोचनप्रमोचने उभेवाची वदामि” अ० ५, ३०, १,

उप अव्य० वप--क । १ अधिकार्थे, २ हीने, ३ आसन्ने, ४

सामीप्ये, ५ सादृश्ये, ६ प्रतियत्ने सतो गुणान्तराधाने, ७ व्याप्तौ,
८ पूजायाम् ९ शक्तौ, १० आरम्भे, ११ दाने, १२ दोषाख्याने,
१३ आचार्यकरणे १४ अत्यये, १५ निदर्शने च ।
गणरत्ने “उप सामोप्यसामर्थ्यव्याप्त्याचार्यकृतिमृतिदोष
दानक्रियावीप्सारम्भाध्ययनपूजनेषु” इति उपार्थानुक्त्वा
क्रमेणोदाजहार तत्र सामीप्ये उपकूपम् । सामर्थ्ये
उपकरोति । व्याप्तौ उपकीर्ण्णम् । आचार्यकृतौ उपदिशति ।
मृतौ उपरतः, दोषे उपघातः (इन्द्रियाणां स्वग्राह्यग्रह-
णासामर्थ्यम् दाने उपहरति । क्रियाभेदे उपचरति ।
वीप्सायां देवं देवमुपचरति । आरम्भे उपक्रमते भोक्तुम् ।
अध्ययने उपाध्यायः । पूजने उपचरितः पिता पुत्रेण”
इति । प्रतियत्ने (संस्कारे) “उपत्वानेष्ये समिधमाहरेति”
छा० उ० सासीप्ये “उपोपविश्य प्राणान् संस्पृशन्” स० त० गो० ।
सादृश्ये उपदेवः उपधातुः । “उपोऽघिके च” पा० “१६
आधिक्ये “उप च त्रयोदश मामः” शत० ब्रा० ६, २, २, अस्य
हीनेआ धिक्ये च कर्मप्रवचनीयता तत्र हीनार्थयोगे
तत्सम्बन्धिनि द्वितीया । उप हरिं सुराः--हरेर्हीना इत्यर्थः ।
अधिकार्थयोगे सप्तमी । उप परार्द्धे हरेर्गुणाः परार्द्धाद-
धिकाइत्यर्थः । सामोप्येऽव्ययीभावः उपकुम्भम् उपकू-
लम् । “उपसर्गाः क्रियायोगे” पा० क्रियायोगे
उपसर्गता अन्यत्र गतिता ततः भवार्थे त्यकन् उपत्यका ।

उपक पु० उप + संज्ञायां कन् । १ ऋषिभेदे ततः नडा० फक् ।

औपकायनः तस्य अद्वन्द्वे द्वन्द्वे च बहुत्वे वा लुक् ।
अद्वन्द्वे औपकाः औपकायनाः । द्वन्द्वे उषकलमकाः
औपकायनलामकायनाः । अनुकम्पितः उपेन्द्रदत्तादिः
“प्राचामुपादेरडज्बुचौ” पा० वुच् “ठाजावूर्द्धं द्वितीयादचः”
पा० इन्द्रदत्तलोपे । उपक २ अनुकम्पिते उपेन्द्रदत्तके पु० । पक्षे
अडच् उपडः । चात् ठच् घन् इलच् च । तत्र ठचि
उपिकः घनि उपियः इलचि उपिलः । तत्रार्थे पु०
अजादावित्युक्तेः कनि न लुक् । उपेन्द्रदत्तकः । एवमन्य-
स्यापि उपपूर्व्वकस्य संज्ञाशब्दस्य रूपं बोध्यम् । तेन
तत्रापि उपकादिशब्दवृत्तिः ।

उपकण्ठ त्रि० उगकतः कण्ठम् अत्या० स० । १ निकटे, २ कण्ठा-

सन्ने च “तस्योपकण्ठे घननीलकण्ठः” कुमा० ।
“आकृष्य चापं श्रवणोपकण्ठे” “उपकण्ठं महोदधेः” रघुः
३ ग्रामान्ते ४ अश्वानामास्कन्दितगतौ च न० । विभक्त्यर्थे
सामीप्ये वा अव्ययी० । ५ कण्ठ इत्यर्थे “रथाङ्गभर्त्त्रोऽभिनवं
वरस्य यस्याः पितेव प्रतिपादितायाः । प्रेम्णोपकण्ढं
मुहुरङ्कभाजो रत्नावलीरम्बुधिराबबन्ध” माघः ।
उपकण्ठम्--कण्ठे पक्षेऽन्तिके इत्यर्थः ६ कण्ठसामीप्ये च अव्य०

उपकनिष्ठका स्त्री उपगता कनिष्ठिकाम् अत्या० स० ।

अनामाङ्गुलौ “अप्रच्छिन्नाग्रावनन्तर्गर्भौ प्रादेशमात्रौ कुशाना-
नान्तयोर्गृहीत्वाङ्गुष्ठोपकानष्ठिकाभ्याम्” आ० श्व० गृ० १, ३, ३
“अङ्गुष्ठोपकनिष्ठिकाभ्यामेकैकमस्थ्यसंह्रादयन्तः” ४, ५, ४ ।

उपकन्या स्त्री उपगता कन्याम् अत्या० स० । कन्यासख्यादौ

अस्य गौरा० पाठात् उपाद्द्व्यच्दत्वेऽपि नान्तोदात्तता ।

उपकरण न० उपक्रियतेऽनेन उप--कृ--ल्युट् । १ प्रधानसाधके

ऽङ्गे यथान्नभोजनादौ व्यञ्जनादि, शयने खट्वादि, स्ना-
नेऽनुलेपनादि, पूजायां पुष्पादि यागे पश्वादि । “यश्च
वेश्म शुभं दद्यात् सर्वोपकरणान्वितम्” शु० त० नन्दिपु० ।
“भक्तावकाशाग्न्युदकमन्त्रोपकरणव्ययान्” या० स्मृ० ।
२ नृपादीनां छत्रचामरादिपरिच्छेदे च । उपगतः करणम्
अत्या० स० । ३ इन्द्रियानुगते त्रि० विभक्ष्यर्थे सामीप्ये
वाऽव्ययी० । ३ करणे इत्यर्थे ४ इन्द्रियसामीप्ये च अव्य० ।

उपकर्ण्ण अव्य० विभक्त्यर्थे सामीप्ये वा अव्ययी० ।

१ कर्ण्ण इत्यर्थे २ श्रोत्रसामीप्ये च । तत्र प्रायभवः ठक्
औपकर्णिकः तत्र प्रायभवे त्रि० “यःस्वामी मम कान्ता-
बानौपकार्ण्णकलोचनः” भट्टिः ।
पृष्ठ ११९७

उपकर्त्तृ त्रि० उप--कृ--तृच् खियां ङीप् । उपकारके आनु

गुण्यकारुके “उपकर्त्त्रारिणा सन्धिर्न मित्रेणापकारिणा”
माघः । “हीनान्यनुपकर्त्तृनि प्रवृद्धानि विकुर्वते” रघुः ।

उपकलाप अव्य० विभक्त्यर्ये सामीप्ये वाऽव्ययीं० । १ कलापे

इत्यर्थे २ तत्सामीप्ये च ततो भवार्थे परिमुखा० ञ्य ।
औपकलाप्य तद्भवे त्रि० ।

उपकल्प त्रि० उपगतः कल्पम् अत्या० स । कल्पोपगते ।

गौरा० पाठात् उपात् द्व्यच्कत्वेऽपि नात्तोदात्तता ।

उपकल्पन न० उप + कृप--णिच्--ल्युट् । १ सम्पादने

२ आयोजने च “वक्ष्याम्यतः परं सम्यगाहारस्योपकल्पनम्”
सुश्रु० युच् । तत्रैव स्त्री । “एवं विज्ञाय मतिमान्
भोजनस्योपकल्पनाम्” सुश्रु० ।

उपकादि पु० द्वन्द्वेऽद्वन्द्वे च बहुत्वे गोत्रप्रत्ययलुग्निमित्ते

पाणिन्युक्ते शब्दसमूहे । स च उपक लमक भ्रष्टक कपिष्ठल
कृष्णाजिन कृष्णसुन्दर चूड़ारक आड़ारक गडुक उदङ्क
सुधायुक अबन्धक पिङ्गलक पिष्ट सुपिष्ट मयूरकर्ण खरीजङ्घ
शलाथल पतञ्जल पदञ्जल कठेरणि कुषीतक काशकृत्स्न
निदाघ कलशीकण्ठ दामकण्ठ कृष्णपिङ्गल कर्णक प्रर्णक
जटिलक बधिरक जन्तुक अनुलोम अनुपद प्रतिलोम
अपजग्ध प्रतान अनभिहित कमक वटारक लेखाभ्र कमन्दक
पिञ्जलक वर्ण्णक मसूरकर्ण्ण मदाघ कबन्तक कमन्तक कदामत्त ।

उपकार पु० उप + कृ--भावे घञ् । प्रधानस्यानुगुण्यसंपादने,

उपकृतौ “उपकारापकारौ हि लक्ष्यं लक्षणमेतयोः”
माघः । “कृतोपकारेव रतिर्वभूव” कुमा० “उपकारोमहां-
स्तात कृतोऽयं मम खेचरैः” भा० व० १५० अ० । तस्यो
पकार्य्यारचितोपका(चा)रा” रघुः । उपकारश्च सहकारिभिः
कारणस्य कार्य्योत्पादनार्थमानुगुण्यभेदः यथा दर्शादियागस्य
प्रधानापूर्ब्बसाधनेऽङ्गादीनां प्रयाजादीनां कलिकापूर्ब्बसा-
धनद्वारा तदानुगुण्यम् । स च वौद्धैः कुर्व्वद्रूपतारूपस्य
वीजादेरुच्छुनत्वस्य सम्पादनरूपातिशयाधानमुच्यते सर्व्व०
दर्श० । “तथाहि सहकारिभिः सलिलपवनादिभिः
पदार्थसार्थैराधीयमाने वीजस्यातिशये वीजमुत्पादकम-
भ्युपेयम् अपरथा तदभावेऽप्यतिशयः प्रादुर्भवेत् ।
वीजञ्चातिशयमादधानं सहकारिसापेक्षमेवाधत्ते अन्यथा सर्व्व-
दोपकारापत्तौ अङ्कुरस्यापि सदोदयः प्रसज्येतः तस्मादति-
शयार्थमपेक्षमाणैः सहकारिभिरतिशयान्तरमाधेयं वीजे,
तस्मिन्नप्युपकारे पूर्व्वन्यायेन सहकारिसापेक्षस्य वीजस्य
जनकत्वे सहकारिसम्पाद्यवीजगतातिशयानवस्था प्रथमा व्यव-
स्थिता । अथोपकारः कार्य्यार्थमपेक्ष्यमाणोऽपि वीजादिनि-
रपेक्षं कार्य्यं जनयति तत्सापेक्षो वा । प्रथमे वीजादेरहे-
तुत्वमापतेत् । द्वितीये अपेक्ष्यमाणेन वीजादिना उपकारे
अतिशय आधेयः एवं तत्र तत्रापीति वीजादिजन्याति-
शयनिष्ठातिशयपरम्परापात इति द्वितीयानवस्या स्थिरा
भवेत् । एवमपेक्ष्यमाणेनोपकारेण वीजादौ धर्म्मिण्युपका-
रान्तरमाधेयमित्युपकाराधेयवीजातिशयाश्रयातिशयपरम्प-
रापात इति तृतीयानवस्था दुरवस्था स्यात् । अथ भावाद-
भिन्नोऽतिशयः सहकारिभिराधीयत इत्यभ्युपगम्यते तर्हि
प्राचीनो भावोऽनतिशयात्मा निवृत्तः अन्यश्चातिशयात्मा-
कुर्व्वद्रूपादिपदवेदनीयो जायत इति फलितम् ।

उपकारक त्रि० उप + कृ--ण्वुल् । १ उपकारकर्त्तरि ।

“आगन्तवोऽपि कदाचिदुपकारका दृश्यन्ते” हितो० । स्त्रीत्वे
टापि अतैत्त्वे उपकारिका । सा च २ नृपालये, ३
पटनिर्म्मिते गृहे च । ४ कारणमात्रे त्रि० । “स्पर्शस्त्वगिन्द्रिय-
ग्राह्यस्त्वचः स्यादुपकारकः” भाषा० णिनि । उपकारिन्
उपकारके त्रि० । “तदुपकारीणि शरीरकसूत्रादीनि”
वेदा० सा० । “दातव्यमिति यद्दानं दीयतेऽनुपकारिणे”
गीता “मात्रापित्रोर्गुरौ मित्रे विनीते चोपकारिणि”
दक्षः । स्त्रियां ङीप् ।

उपकार्य्य त्रि० उप + कृ--ण्यत् । १ उपकारयोग्ये । २ राजालये,

३ पटनिर्म्मितराजसदने च स्त्री टाप् । “तस्योपकार्य्या रचितो
पका(चा)रा” रघुः । “तीरोपकार्य्यां गतमात्र एव” शत्रुघ्न-
प्रतिविहितोपकार्य्यमार्य्यः” रघुः राजभवने “रम्यां रघु
प्रतिनिधिः स नवोपकार्य्याम्” । “उपकार्य्या राजसद्म-
न्युपचारचितेऽन्यवदिति विश्वोक्तेः ५ उपचारव्याप्ते त्रि०

उपकिरण न० उप + कॄ--ल्युट् नि० इत्त्वम् । १ व्याप्तौ २

समन्तात् विक्षेपे च “आखूत्करोत्किरणं वा” कात्या०
२५, १०, २४ । समीप्यादौ अव्ययी० । ३ किरणसामी-
प्यादौ अव्य० ।

उपकीचक पु० उपगतः कीचकम् अत्या० स० । विराटनृप-

श्यालककीचकानुजे विराटसैन्यभेदे “समवतेषु सर्व्वेषु
तामूचुरुपकीचकाः । हन्यतां शीघ्रमसती यत्कृते कीचको-
हतः” । ते च पञ्चाधिकशतमिताः कीचकत्वेनापि प्रसिद्धाः
“एवं ते निहता राजन्! शतं पञ्च च कीचकाः । स च
सेनापतिः पूर्बमित्येतत् सूतषट्शतम्” भा० वि० २२, २३ अ० ।

उपकुञ्चि स्त्री उप + कुन्च--इ । कृष्णजीरके ।

उपकुञ्चिका स्त्री उप + कुञ्च--ण्वुल् अतैत्त्वम् । १ तुत्थायां

(तुँते) २ सूक्ष्मैलायाञ्च । स्वार्थे कन् । ३ कृष्णजीरके ।
पृष्ठ ११९८

उपकुर्व्वाण पु० उपकुरुते गुरोर्दक्षिणादानादिना उप +

कृशानच् । समावर्त्तनयोग्ये स्वाध्यायग्रहणावधिकब्रह्मचर्य्य-
वति १ व्रह्मचारिणि “न पूर्ब्बं गुरवे किञ्चिदुपकुर्वीत धर्म्म-
वित् । स्नास्यंस्तु गुरुणाऽऽज्ञप्तः शक्त्या गुर्व्वर्थमाहरेत्”
मनुना स्नास्यतएव गुरूपकारविधानेन ततः पूर्ब्बमु-
पाकारकर्त्तृत्वनिषेधेन चास्यैवोपकर्त्तृत्वात्तथात्वम् । ब्रह्म-
चारी हि द्विविधः नैष्ठिक उपकुर्वाणश्च । यो निरवधि
मरणान्तम् उपनयनादूर्द्ध्व गुरौ वसति स नैष्ठिकः ।
यस्तु स्वाध्यायग्रहणान्तं गुरौवसन् गुरुणानुज्ञातः गुरो-
रुपकारं कृत्वा स्नानगार्हस्थ्य करोति स
उपकुर्व्वाणः । स्नास्यतो दक्षणा च मनुनोक्ता
यथा “क्षेत्रं हिरण्यं गामश्व छत्रोपानहमासनम् ।
धान्यं शाकञ्च वासांसि गुरवे प्रीतिमावहेत्” । आश्व०
गृ० ३, ८, १, २ तु “अथैतान्युपकल्पयीत समावर्त्त्यमाने
मणिं कुण्डले वस्त्रयुगं छत्रमुपानद्युगं दण्डं स्रजमुन्म-
र्द्दनमनुलेपनमाञ्जनमुष्णीषमित्यात्मने चाचार्य्य च”
“यद्युभयोर्न विन्देताचार्य्यायैव” । एकादश द्रव्याण्युक्तानि
एतच्चोपलक्षणं गुरोरभिलषितं दद्यादित्यत्रैव तात्पर्य्यम्
अत एव या० स्मृ० “गुरवे तु वरं दत्त्वा स्नायीत
तदनज्ञया” तद्वरदानमेवोक्तम् “गुरवे पूर्बोक्ताय वरमभिलषितं
यथाशक्ति दत्त्वा स्नायात् तदशक्तौ तदनुज्ञयाऽदत्त-
वरोऽपि” मिता० । संज्ञाया कन् तत्रैव । “उपकुर्वाण-
कास्तु स्वाध्यायग्रहणार्थाः” छा० उ० भा० । ताच्छील्ये
चानश् । २ उपकारशीले त्रि० ।

उपकुल्या स्त्री उप + कुल--अघ्न्या० नि० । १ पिप्पल्याम्

(पिपुल) अम० “हरिद्रोपकुल्याविशालेत्यादि” सुश्रु०
तत्पर्य्यायगुणादि भा० प्र० दर्शितं यथा
“पिप्ली मागधी कृष्णा वैदेही चपला कणा । उपकुल्यौ-
षणा शौण्डी कोला स्यात् तीक्ष्णतण्डुला । पिप्पली
दीपनी वृष्या स्वादुपाका रसायनी । अनुष्णा कटुका
स्निग्धा वातश्लेष्महरा लघुः । पित्तला रेचनी हन्ति श्वास-
कासोदरज्वरान् । कुष्ठप्रमेहगुल्मार्शःप्लीहशूलाममारुतान् ।
आर्द्रा कफप्रदा स्निग्धा शीतला मधुरा गुरुः । पित्तप्रश-
मनी सा तु शुष्का पित्तप्रकोपिनी । पिप्पली मधुसंयुक्ता
मृदुः कफविनाशिनी । श्वासकासज्वरहरी वृष्या मेधाग्नि
वर्द्धिनी । जीर्णज्वरेऽग्निमान्द्ये च शस्यते गुड़पिप्पली ।
कास्मजीर्णारुचिश्वासहृत्पाण्डुकृमिरोगनुत् । द्विगुणः पि-
प्पलीचूर्णाद्गुडोऽत्र भिषजां मते” ॥ उपगतः कुल्याम्
कृत्तिमसरः अत्या० स० । कुल्योपगते त्रि० । २ सामी-
प्यादौ अव्ययी० । ३ कुल्यासामीप्यादौ अव्य० ।

उपकुश पु० सुश्रुतोक्ते १ मुखरोगभेदे । “मुखरोगाः सप्तस्वाय

तनेषु” इत्युपक्रम्य ओष्ठादीनि सप्तायतनानि उक्त्वा “दन्त-
मूलगतास्तु शीतादो दन्तपुप्पुटको दन्तवेटकः शौषिरो
महाशौषिरः परिदर उपकुशोदन्तवैदर्भो वर्द्धऽधिमांसो
नाड्यः पञ्चेति” दन्तमूलगतानुक्त्वा “वेष्टेषु दाहः पाकश्च
तेभ्योदन्ताश्चलन्ति च । आघट्टिताः प्रस्रवन्ति शोणितं
मन्दवेदनाः । आध्मायन्ते स्रुते रक्ते मुखं पूति च जायते ।
यस्मिन्नुपकुशः स स्यात् पित्तरक्तकृतागदः” । लक्षितः ।
“संशोध्योभयतः कार्य्यं शिरश्चोपकुशे तथा” सुश्रु० ।
सामीप्यादौ अव्ययी० । २ कुश इत्यर्थे २ कुशसामीप्य च
अव्य० । उपगतः कुशम् अत्या० स० । ४ कुशोपगते त्रि० ।

उपकूप त्रि० उपगतः कूपं अत्या० स० । १ कूपीपगते देशे

सामीप्यादौ अव्ययी० । २ कूपसामीप्ये ३ कूप इत्यर्थे च अव्य० ।

उपकूल न० कूले कूलस्य समीपं वा अव्य० । १ कूलेइत्यर्थे ।

२ तीरसामीप्ये च अव्य० । “उपकूल स कालिन्द्याः पुरीं
पौरुष भूषणः” रघुः ततो भवादौ अण “अव्ययो भावाच्चेति”
पा० “परिमुखादिभ्य एवेति” वार्त्तिके नियमनान्न ञ्य ।
औपकूलः तद्भवादौ त्रि० ।

उपकृत त्रि० उप + कृ--क्त । १ कृतोपकारे यस्योपकारः कृत

स्तस्मिन् । भावे क्त । २ उपकारे न० “उपकृत बहु तत्र-
किमुच्यते सुजनता प्रथिता भवता परम्” सा० द० ।
उपकृतमनेन इष्टा० इनि । उपकृतिन् येनोपकारः
कृतस्तस्मिन् त्रि० स्त्रियां ङीप् ।

उपकृष्ण त्रि० उपगतः कृष्णम् अत्या० स० । १ कृष्णोपगते

उपाद्द्व्यच्कत्वेऽपि गौरा० पाठात् नान्तोदात्तता । सामी-
प्यादौ अव्ययी० । २ कृष्णसामीप्यादौ अव्य० ।

उपकॢप्त त्रि० उप--कृप--क्त । १ नियते २ विन्यस्ते ३ उपभोगायसमर्थे च ।

उपकोसल पु० कमलापत्ये ऋषिभेदे । “उपकोसलोह

कामलायनः सत्यकामे जाबाले ब्रह्मचर्य्यमुवास” छा० उ०
“उपकोसलोनामतः कमलस्यापत्यं कामलायनः” भा० ।

उपक्रम पु० उप--क्रम--घञ् न वृद्धिः । १ उपायज्ञानपूर्बका-

रम्भे, २ प्रथमारम्भे “ज्योतिरुपक्रमात्तु तथाह्यधीयत
एके” “समानाच्चासृत्युपक्रमादमृतत्वं चानुपोष्य” शा०
सू० । “तत्र च प्रतिकुर्व्वन्ति यदि पश्यन्त्युपक्र-
मात्” भा० व० २१५ अ० । “उपक्रमोपसहारौ--हेतु-
पृष्ठ ११९९
स्तात्पर्य्यनिर्ण्णये” वेदान्तिमते तात्पर्य्यनिर्णायके २ हेतुभेदे
तत्र उपक्रमोपसंहाराभ्यां द्वाभ्यामेव तात्पर्य्यं निश्चीयते
नत्वेकैकेनेति बोध्यम् । करणे घञ् । ३ सामाद्युपाये
“सामादिभिरुपक्रमैः” मनुः । “उपक्रर्मरस्खलितैश्चतुर्भिः”
रघुः । कर्मणि घञ् । ४ आरभ्यमाणे पु० तदादित्वविवक्षा-
याम् तदन्ततत्पुरुषस्यक्लीवता “नन्दोपक्रमं द्रोणः” पा०
भा० “रामोपक्रममाचख्यौ रक्षःपरिभवं नवम्” रघुः । करणे
घञ् । ५ चिकित्सायाम् सुश्रुते भूरिप्रयोगः ।

उपक्रमण न० उप + क्रम--भावे ल्युट् । १ आरम्मे करणे

ल्युट् । २ तत्साधने सुश्रुतोक्ते दीर्घायुष्यादिज्ञानपूर्व्व-
कचिकित्सायाम् ३ भूमिकायां स्त्री ङीप् । स्वार्थे कन् अत
इत्त्वम् । उपक्रमणिका । ग्रन्थप्रस्तावने मुखबन्धे ।

उपक्रमणीय त्रि० उप + क्रम--अनीयर् । १ आरम्भणीये ।

उपक्रमणे साधु--छ । २ चिकित्साङ्गेदीर्घायुष्यादिज्ञानसाधने
लक्षणभेदे । आतुरचिकित्सार्थं यथोपक्रमणं कर्त्तव्यं तदा
वेदके ३ ग्रन्थे च । तत्प्रकारादि सुश्रुते दर्शितं यथा ।
“अथात आतुरोपव्रमणीयमध्यायं व्याख्यास्यामः ।
आतुरमुपक्रममाणेन भिषजायुरेवादौ परीक्ष्येत । सत्येवायुषि
व्याध्यृत्वग्निवयोदेहबलसत्वसात्म्यप्रकृतिभेषजदेशान्
परीक्षेत । तत्र महापाणिपादपार्श्वपृष्ठस्तनाग्रदशनवदनस्कन्ध-
ललाटदीर्घाङ्गुलिपर्वोच्छ्वासप्रेक्षणबाहुं विस्तीर्णभ्रूस्त-
नान्तरोरस्कं ह्रस्वजङ्घामेढ्रग्रीवगम्भीरसत्वखरनाभिमनु-
च्चैर्बद्धस्तनमुपचितमहारोमशकणं पश्चान्मस्तिष्कं स्रातानु-
लिप्तं मूर्द्ध्वानुपूर्व्या विशुष्यमाणशरीरं पश्चाच्च विशुष्यमा-
णहृदयं पुरुषं जानीयाद्दीर्घायुः खल्वयमिति । तमेकान्ते-
नोपक्रमेत् । एभिर्लक्षणैर्विपरीतैरल्पायुर्मिश्रैर्मध्यमायुरिति ।
गूढसन्धिसिरास्नायुः संहताङ्गः स्थिरेन्द्रियः । उत्तरोत्त
रसुक्षेत्रो यः स दीर्घायुरुच्यते । गर्भात् प्रभृत्यरोगो यः
शनैः समुपचीयते । शरीरज्ञानविज्ञानैः स दीर्घायुः
समासतः । मध्यमस्यायुषोज्ञानमत ऊर्द्ध्वं निबोध मे ।
अधस्तादूर्द्ध्वयोर्यस्य लेखा स्युर्व्यक्तमायताः । द्वे वा तिस्रो-
ऽधिका वापि पादौ कर्णौ च मांसलौ । नासाग्रमूर्द्ध्वञ्च
भवेदूर्द्ध्वलेखाश्च पृष्ठतः । यस्य स्युस्तस्य परममायुर्भवति
सप्ततिः । जघन्यस्यायुषो ज्ञानमत ऊर्द्ध्वं निबोध मे ।
ह्रस्वानि यस्य पर्वाणि सुमहच्चापि मेहनम् । तथोरस्य
वलीढानि न च स्यात् पृष्ठमायतम् । ऊर्द्ध्वञ्च श्रवणौ स्था-
नान्नासा चोच्चा शरीरिणः । हसतो जल्पतो वापि दन्त-
मांसं प्रदृश्यते । प्रेक्षते यश्च विभ्रान्तं स जीवेत्पञ्चविं-
शतिमु । अथ पुनरायुषो विज्ञानार्थमङ्गप्रत्यङ्गप्रमाणसा-
रानुपदेक्ष्यामः । तत्राङ्गान्यन्तराधिसक्थिबाहुशिरांसि
तदयवाः प्रत्यङ्गानीति । तत्र स्वैरङ्गलैः पादाङ्गुष्ठप्रदेशिन्यौ
द्व्यङ्गुलायते । प्रदेशिन्यास्तु मध्यमाऽनामिका कनिष्ठिका
यथोत्तरं पञ्चमभागहीना । चतुराङ्गुलायते पञ्चाङ्गल-
विस्तृते प्रपदप्रादतले । पञ्चचतुरङ्गुलायतविस्तृता पार्ष्णिः ।
चतुर्दशाङ्गुलायतः पादः । चतुर्दशाङ्गुलपरिणाहानि
पादगुल्फजङ्घाजानुमध्यानि । अष्टादशाङ्गुला जङ्घा
जानूपरिष्टाद्द्वात्रिंशदङ्गुलमेवंपञ्चाशत् । जङ्घायामस-
मावूरू । द्व्यङ्गुलानि वृषणचिवुकदशननासापुटभागकर्ण-
मूलनयनान्तराणि । चतुरङ्गुलानि मेहनवदनान्तरनासा-
कर्णललाटग्रीवोच्छ्रायदृष्ट्यन्तराणि । द्वादशाङ्गुलानि भगवि-
स्तारमेहननाभिहृदयग्रीवास्तनान्तरमुखायाममणिबन्धप्र-
कोष्ठस्थौल्यानि । इन्द्रवस्तिपरिणाहांसपीठकूर्परान्तरा-
यामः षोड़शाङ्गुलः । चतुर्विंशत्यङ्गुलो हस्तः । द्वात्रिं-
शदङ्गुलपरिमाणौ भुजौ । द्वात्रिंशदङ्गुलपरिणा-
हावूरू । मणिबन्धिकूर्परान्तरं षोड़शाङ्गुलम् । तलं
षट्चतुरङ्गुलायामविस्तारम् । अङ्गुष्ठमूलप्रदेशिनीश्रव-
णापाङ्गान्तरमध्यमाङ्गुल्यौ पञ्चाङ्गुले । अर्द्धपञ्चाङ्गुले
प्रदेशिन्यनामिके । सार्द्धत्र्यङ्गुलौ कनिष्ठाङ्गुष्ठौ ।
चतुर्विंशतिविस्तारपरिणाहं मुखग्रीवम् । त्रिभागाङ्गुलि-
विस्तारा नासापुटमर्य्यादा । नयनत्रिभागपरिणा-
हा तारका । नवमस्तारकांशो दृष्टिः । केशान्तम-
स्तकान्तरमेकादशाङ्गुलम् । मस्तकादवटुकेशान्तो दशाङ्गुलः ।
कर्णावट्वन्तरं चतुर्दशाङ्गुलम् । पुरुषोरःप्रमाणविस्तीर्णा स्त्री-
श्रीणिः । अष्टादशाङ्गुलविस्त्रीर्णमुरः । तत्प्रमाणा पुरुषस्य
कटी । सविंशमङ्गुलशतं पुरुषायाम इति भवन्ति चात्र
पञ्चविंशे ततो वर्षेपुमान् नारी तु षोडशे । समत्वागतवीर्य्यौ
तौ जानीयात् कुशलो भिषक् । देहः स्वैरङ्गुलैरेव
यथावदनुकीर्त्तितः । युक्तः प्रमाणेनानेन पुमान् वा यदि
वाऽङ्गना । दीर्घमायुरवाप्नोति वित्तञ्च महदृच्छति । मध्यम
मध्यमैरायुर्वित्तं हीनैस्तथाऽवरम् । अथ सारान् वक्ष्या-
मि ॥ स्मृतिभक्तिप्रज्ञाशौर्यशौचोपेतं कल्याणाभिनिवेशं
सत्वसारं विद्यात् । स्निग्धं संहतश्वेतास्थिदन्तनखं बहुल
कामप्रजं शुक्रेण । अकृशमुत्तमबलं स्निग्धगम्भीरस्वरं
सौभाग्योपपन्नं महानेत्रञ्च मज्ज्ञा । महाशिरःस्कन्धदृढदन्त-
हन्वस्थिनस्वमस्थिभिः । स्निग्धमूत्रखेदस्वरं वृहच्छरीरमाया-
ससहिष्णुं मेदसा । अच्छिद्रगात्रं गूढास्थिसन्धिं मांसोप-
पृष्ठ १२००
चितञ्च मांसेन । स्निग्धताम्रनखनयनतालुजिह्वौष्ठपाणि-
पादतलं रक्तेन । सुप्रसन्नमृदुत्वग्रोमाणं त्वक्सारं
विद्यादित्येषां पूर्वं पूर्वं प्रधानमायुःसौभाग्ययोरपि । भवति
चात्र सामान्यतोऽङ्गप्रत्यङ्गप्रमाणादथ सारतः । परीक्ष्यायुः
सुनिपुणो भिषक् सिध्यति कर्मसु ।
व्याधिविशेषास्तु प्रागभिहिताः सर्व एवैते त्रिविधाः
साध्या याप्याः प्रत्याख्येयाश्च तत्रैतान् भूयस्त्रिधा परीक्षेत
किमसावौपसर्गिकः प्राक्केवलोऽन्यलक्षण इति । तत्रौपस-
र्गिको यः पूर्वोत्पन्नं व्याधिं जघन्यकालजातो व्याधिरुप-
सृजति स तन्मूलएवोपद्रवसंज्ञः । प्राक्केवलो यः प्रागेवोत्पन्नो
व्याघिरपूर्वरूपोऽनुपद्रवश्च । अन्यलक्षणो यो भविष्यद्व्या-
धिख्यापकः स पूर्वरूपसंज्ञः । तत्र सोपद्रवमन्योन्या-
विरोधेनोपक्रमेत बलवन्तमुपद्रवं वा प्राक्केवलं यथास्वं
प्रतिकुर्वीत । अन्यलक्षणे त्वादिव्याधौ प्रयतेत । भवति
चात्र । नास्तिरोगो विना दोषैर्यस्मात्तस्माद्विचक्षणः ।
अनुक्तमपि दोषाणां लिङ्गैर्व्याधिमुपाचरेत् ।
प्रागभिहिता ऋतवः । शीते शीतप्रतीकारौष्णे चोष्म-
निवारणम् । कृत्वा कुर्य्यात् क्रियां प्राप्तां क्रियाकालं न
हापयेत् । अप्राप्ते वा क्रियाकाले प्राप्ते वा न कृता
क्रिया । क्रियाहीनाऽतिरिक्ता वा साघ्येष्वपि न सिध्यति ।
या तृदीर्ण्णं शमयति नान्यं व्याधिं करोति च । सा क्रिया
न तु या व्याधिं हरत्यन्यमुदीरयेत् ।
प्रागभिहितोऽग्निरन्नस्य पाचकः (व्रणप्रश्ने) स चतुर्व्विघो
भवति दोषानभिपन्न एको विक्रियामापन्नस्त्रिविधो भवति
विषमो वातेन, तीक्ष्णः पित्तेन, मन्दः श्लेष्मणा, चतुर्थः
समः सर्वसाम्यादिति तत्र यो यथाकालमन्नमुपयुक्तं सम्यक्
पचति स समः, समैर्दोषैः । यः कदाचित्सम्यक्पचति
कदाचिदाध्मानशूलोदावर्त्तातिसारजठरगौरवान्त्रकूजनप्र-
वाहणानि कृत्वा स विषमः । यः प्रभूतमप्युपयुक्तमन्नमाशु
पचति स तीक्ष्णः, स एवाभिवर्द्धमानोऽत्यग्निरित्याभाष्यते
स मुहुर्भुहुः प्रभूतमप्युपयुक्तमाशुतरं पचति पाकान्ते च
गलताल्वोष्ठशोषदाहसन्तापान् जनयति । यः स्वल्पम-
प्युपयुक्तमुदरशिरोगौरवकासश्वासप्रसेकच्छर्दिगात्रसदनानि
कृत्वा महता कालेन पचति स मन्दः । विषमो वातजान्
रोगान् तीक्ष्णः पित्तनिमित्तजान् । करोत्यग्निस्तथा मन्दो
विकारान् कफसम्भवान् । तत्र समे परिरक्षणं कुर्व्वीत
विषमे स्निग्धाम्लवणैः क्रियाविशेषैः प्रतिकुर्व्वीत तीक्ष्णे
मधुरस्निग्धशीतैर्व्विरेकैश्च । एवमेवात्यग्नौ विशेषेण माहिषैश्च
क्षीरदधिसर्पिर्भिर्मन्दे कटुतिक्तकषायैर्वमनैश्च । जाठरो
भगवानग्निरीश्वरोऽन्नस्य पाचकः । सौक्ष्म्याद्रसानाददानो
विवेक्तुं नैव शक्यते । प्राणापानसमानैस्तु सर्वतः पवनै-
स्त्रिभिः । ध्मायते पाल्यते चापि स्वे स्वे स्थाने व्यवस्थितैः ।
वयस्तु त्रिविघं बालं मध्यं वृद्धमिति । तत्रोनषोडशवर्षा
बालास्तेऽपि त्रिविधाः क्षीरपाः क्षीरान्नादा अन्नादा-
इति तेषु संवत्सरपराः क्षीरपा द्विसंवत्-रपराः क्षीरा-
न्नादाः परतोऽन्नादा इति । षोड़शसप्तत्योरन्तरे मध्यं
वयस्तस्य विकल्पो वृद्धिर्य्यौवनं संपूर्ण्णता हानिरिति ।
तत्रा विंशतेर्वृद्धिरात्रिंशतो यौवनमा चत्वारिंशतः सर्व्व-
धात्विन्द्रियबलवीर्य्यसम्पूर्ण्णता । अतऊर्द्ध्वमीषत्
परिहाणिर्य्यावत्सप्ततिरिति । सप्ततेरूर्द्धं क्षीयमाणधात्वि-
न्द्रियबलवीर्य्योत्साहमहन्यहनि वलीपलितस्वालित्यजुष्टं
कासश्वासप्रभृतिभिरुपद्रवैरभिभूयमानं सर्व्वक्रिया-
स्वसमर्थं जीर्णागारमिवाभिवृष्टमवसीदन्तं वृद्धमाचक्षते ।
तत्रोत्तरोत्तरासु वयोऽवस्थासूत्तरोत्तरा भेषजमात्रा-
विशेषा भवन्त्यृते च परिहाणेस्तत्राद्यापेक्षया प्रतिकुर्वीत ।
भवन्ति चात्र । पाले विवर्द्धते श्लेष्मा मध्यमे पित्तमेव तु ।
भूयिष्ठं वर्द्धते वायुर्वृद्धे तद्वीक्ष्य योजयेत् । अग्निक्षार-
विरेकैस्तु बालवृद्धौ विवर्जयेत् । तत्साध्येषु विकारेषु
मृद्वीं कुर्य्यात् क्रियां शनैः ।
देहः स्थूलः कृशो मध्य इति प्रागुपदिष्टः । कर्श-
येद्वृंहयेच्चापि सदा स्थूलकृशौ नरौ । रक्षणञ्चैव
मध्यस्य कुर्व्वीत सततं भिषक् ।
बलमभिहितगुणं दौर्ब्बल्यञ्च स्वभावदोषजरादिभिरवे-
क्षितव्यम् । यस्माद्बलवतः सर्व्वक्रिया प्रवृत्तिस्तस्माद्बलमेव
प्रधानमधिकरणानाम् । केचित् कृशाः प्राणवन्तः स्थूलाश्चा-
ल्पबला नराः । तस्मात् स्थिरत्वव्यायामैर्ब्बलंवैद्यःप्रतर्कयेत् ।
सत्वन्तु व्यसनाभ्युदयक्रियादिस्थानेष्ववैकल्यकरम् ।
सत्ववान् सहते सर्व्वं संस्तभ्यात्मानमात्मना । राजसः
स्तभ्यमानोऽन्यैः सहते नैव तामसः ।
प्रकृतिं भेषजं चोपरिष्टाद्वक्ष्यामः (प्रकृतिं शारीर
स्थाने, भेषजं तत्तत्प्रकरणे) ।
सात्म्यानि तु देशकालजात्यृतुरोगव्यायामोदकदिवास्वप्न
रसप्रभृतीनि प्रकृतिविरुधान्यपि यान्यबाधकराणि भवन्ति ।
यो रसः कल्पते यस्य सुखायैव निषेवितः । व्यायामजात
मन्यद्वा तत् सात्म्यमिति निर्दिशेत् ।
देशस्त्वानूपो जाङ्गलः साधारण इति । तत्र बहूदकनि-
पृष्ठ १२०१
म्नोन्नतनदीवर्षगहनो मृदुशीतानिलो बहुमहापर्व्वतवृक्षो
मृदुसुकुमारोपचितशरीरमनुष्यप्रायः कफवातरोगभूयिष्ठश्चा-
नूपः । आकाशसमः प्रविरलाल्पकण्टकिवृक्षप्रायोऽल्पवर्षप्र-
स्रवणोदपानोदकप्राय उष्णदारुणवातः प्रविरलाल्पशैलः
स्थिरकृशशरीरमनुष्यप्रायो वातपित्तरोगभूयिष्ठश्च जाङ्ग-
लः । उभयदेशलक्षणः साधारण इति । भवन्ति चात्र ।
समाः साधारणं यस्माच्छीतवर्षोष्ममारुताः ।
दोषाणां समता जन्तोस्तस्मात्साधारणो मतः । न तथा
बलवन्तः स्युर्जलजा वा स्थलाहृताः । स्वदेशे निचिता
दोषा अन्यस्मिन् कोपमागताः । उचिते वर्त्तमानस्य नास्ति
देशकृतं भयम् । आहारस्वप्नचेष्टादौ तद्देशस्य गुणे
सति देशप्रकृतिसात्म्यर्त्तुविपरीतोऽचिरोत्थितः । मम्पत्तौ
भिषगादीनां बलसत्वायुषा तथा । केवलः समदेहाग्नेः
सुखसाध्यतमो गदः । अतोऽन्यथा त्वसाध्यः स्यात् कृच्छ्रो
व्यामिश्रलक्षणः । क्रियायास्तु गुणालाभे क्रियामन्यां
प्रयोजयेत् । पूर्वस्यां शान्तवेगायां न क्रियासङ्करो हितः ।
गुणालाभेऽपि सपदि यदि सैव क्रिया हिता । कर्त्तव्यैव
तदा व्याधिः कृच्छ्रसाध्यतमो यदि । यएवमेनं विधिमेक-
रूपं विभर्त्ति कालादिवशेन धीमान् । स मृत्युपाशान्
जगतोगदौघान्छिनन्ति भैषज्यपरश्वधेन” ।

उपक्रान्त त्रि० उप + क्रम--क्त । १ आरब्धे २ विस्तृते शब्दार्थचि०

उपक्रिया स्त्री उप + कृ--भावे श । उपकारे “तमपीह गुरुं

विद्यात् श्रुतोपक्रियया तया” मनुः ।

उपक्रोश पु० उप--क्रुश--घञ् । निन्दायाम् । “नायं बिभे-

त्युपक्रोशादधर्म्माद्वा पुररोचनः” भा० आ० १४५ अ०
“राज्येन किं तद्विपरीतवृत्तेः प्राणैरुपक्रोशमलीनसैर्वा” रघुः
अत्या० स० । २ उपगतक्रोशे आसन्नक्रोशे त्रि० । अव्ययी० ।
३ क्रोशसमीपे अव्य० । भावे ल्युट् उपक्रोशनमप्यत्र ।
“वाक्सन्तक्षणैर्लोकोपक्रोशनैः” दशकु० । “कुलोपक्रोशनकरी
कुलाङ्गारी निराश्रया” हरि० १७६ अ० ।

उपक्रोष्टृ पु० उप + क्रुश--तृच् । १ गर्द्दभे । २ निन्दके त्रि० । स्त्रियां ङीप् ।

उपक्लेश पु० उपक्लिश्नाति अनेन उप + क्लिश--करणे घञ् ।

मदादिषु ।

उपक्व(क्वा)ण पु० उप + क्वण--शब्दे “क्वणोवीणायाञ्च” पा० वा घञ् पक्षे अप् । वीणानिनादे ।

उपक्षय पु० उप + क्षि--अच् । १ अपचये हानौ । सामीप्यादौ

अव्ययी० । २ निवाससमीपादौ, अव्य० । २ उपगतः क्षयम्
अत्या० स० । ३ क्षयं प्राप्ते त्रि० । तत्पुरुषे उपाद्द्व्यच्-
कत्वादन्तोदात्तता ।

उपक्षित् त्रि० उप + क्षि--क्विप् । समीपनिवासिनि । “यस्य

ते अग्ने अन्ये अग्नय उपक्षिती वया इव” ऋ० ८,
१९, ३३ ।

उपक्षीण त्रि० उप + क्षि--क्त तस्य न, दीर्घश्च ।

१ अपचयप्राप्ते २ सकार्य्याद्यसामर्थ्यं प्राप्ते च ।

उपक्षेप पु० उप + क्षिप--भावे घञ् । १ आक्षेपे, “कर्णनासा-

च्छेदोपक्षेपभीषिताभ्याम्” दशकु० । २ समीपे निक्षेपणे च ।

उपक्षेपण न० उप + क्षिप--ल्युट् । शूद्रस्वामिकान्नस्य विप्रगृहे

पाकार्थं समर्पणे । “उपक्षेपणधर्मेण यत्तु पाचयते द्विजैः ।
अभोज्यं तद्भवेदन्नम्” शाम्ब० पु० । “उपक्षेपणधर्मेण शूद्र-
स्वामिकान्नस्य पाकार्थं ब्राह्मणगृहे समर्पणरूपेणेति”
कल्पतरुः । २ समर्पणमात्रे च ।

उपखात अव्य० सामीप्यादौ अव्ययो० १ खातसामीप्ये २ य्याते

इत्यर्थे च । उपगतः खातम् अत्या० स० । ३ खातानुगते ।
उपाद्द्व्यच्कत्वेन तत्पुरुषपक्षे अन्तोदात्ततेतिभेदः

उपग त्रि० उप + गम--ड । उपगन्तरि “ओषध्यः फलपाका-

न्ताबहुपुप्पफलोपगाः” मनुः । “त्रेतायां भावसंकल्पाः
क्रियादानफलोपगाः” भा० व० १४९ अ० । “केन्द्रोपगा
नवमपञ्चमगाश्च सर्वे” ज्यो० त० ।

उपगण त्रि० उपगतो गणो येन प्रा० ब० संख्यावचनत्वेऽपि

“अबहुगणादिति” पा० निषेघात् न डच् । प्राप्तसमुदाये
डचि तु चित्त्वात् अन्तोदात्तता स्यात् । अतस्तस्य पूर्वपद-
प्रकृतिस्वरार्थं डचोनिषधः । “रूपातिप्रसङ्गाभावेऽपि स्वर-
भेदार्थमेव पर्य्युदासः” सि० कौ० स्थितम् ।

उपगत त्रि० उप + गम--क्त । १ स्वीकृते, २ उपस्थिते, ३ ज्ञाते

४ प्राप्ते च “सर्व्वोहि नोपगतमप्यपचीयमानं वर्द्धिष्णु-
माश्रयमनागतमभ्युपैति” माघः भावे क्त । ५ प्राप्त्याटौ न०
उपगतं प्राप्तिः सूच्यत्वेनात्यस्य अच् । ६ प्राप्तिसूचके
पत्रे च (रसिद) । “धनी वोपगतं दद्यात् स्वहस्तपरि-
चिह्नितम्” या० स्मृ० । “उपगतं प्राप्तमिति यद्वा
उपगतम् प्रवेशपत्रं स्वहस्तलिखितचिह्नितमधमर्ण्णायो-
त्तमर्ण्णोदद्यात्” मिता० ।

उपगति स्त्री उप + गम--क्तिन् । १ प्राप्तौ २ ज्ञाने ३ स्वीकारे च

उपगन्तृ त्रि० उप + गम--तृच् । १ प्राप्तरि २ स्वीकर्त्तरि

३ ज्ञातरि च ।

उपगम पु० उप + गम--भावे घञ् अवृद्धिः । १ समीपगमने,

२ अङ्गीकारे ३ ज्ञाने, च “सीमन्ते च त्वदुपगमजं यत्र नीपं
वधूनाम्” मेघ० । “व्यावर्त्ततान्योपगमात् कुमारी”
मृगवनोपगमक्षमवेशभृत्” । भावे ल्युट् । उपगमन
मप्यत्र । “यथा कर्म्म शुभं कृत्वा स्वर्गोपगमनं ध्रुवम्”
भा० आ० १०३ अ० ।
पृष्ठ १२०२

उपगम्य(त्य) अव्य० उप + गम--ल्यप् वा मलोपे तुक् । १

समीपं गत्वेत्यर्थे । कर्म्मणि ण्यत् उपगम्य । २ सामीप्येन गम्ये त्रि० ।

उपगहन पु० ऋषिभेदे “महानृषिश्च कपिलस्तथर्षिस्ताड़का-

यनः । तथैव चोपगहनस्तथर्षिश्चामुरायणिः” भा० आ०
४ अ० ।

उपगा पु० उप + गै--क्विप् । यज्ञे १ उपगातरि ऋत्विग्भेदे ।

भावे अङ् । २ उपगाने स्त्री “उपगादर्शनाच्च” कात्या०
६, ७, ३, “उपगानदर्शनाच्चैवमवसीयते कर्कः ।

उपगातृ पु० उपगायति उप + गै--तृच् । यज्ञे उद्गातुः

समीपे १ गातरि ऋत्विग्भेदे “वृहस्पतिरुद्गाता विश्वेदेवा
उपगातारः” तैत्ति० । “ऋत्विग्व्यतिरिक्तानामुपगा-
तॄणामनुपकॢप्तत्वादृत्विज एवोपगातारः” कात्या० ६, ७, ३,
कर्कः । “स वडवा उपरुन्धन्ति संशिञ्जते यथोपगातार
उपगायन्ति” शत० ब्रा० १३, २, ३, २ । समीपगानकर्त्तरि त्रि०
(दोयार) स्त्रियां ङीप् ।

उपगामिन् त्रि० उप + गम--णिनि स्त्रियां ङीप् । ० समीपगन्तरि २ स्वीकर्त्तरि ३ ज्ञातरि च

उपगिर(रि) अव्य० सामीप्यादौ अव्ययी० वा अच्समा० ।

१ पर्व्वतसामीप्ये २ पर्व्वते इत्यर्थे च । गिरिमुपगतः
अत्या० स० । उत्तरदिक्स्थे गिरिसन्निकृष्टे देशभेदे पु०
“प्रययामुत्तरां तस्माद्दिशं धनदपालिताम् । अन्तर्गिरिञ्च
कौन्तेयस्तथैव च बहिर्गिरिम् । तथैवोपगिरिञ्चैव विजि-
ग्ये पुरुषर्षभः” भा० स० २६ अ० । अन्तोदात्तोऽयम् ।

उपगीति स्त्री “आर्य्याद्वितीयकार्द्धे यद्गदितं लक्षणं तत्

स्यात् । यद्युभयोरपि दलयोरुपगीतिं तां मुनिर्ब्रूते”
वृ० र० उक्ते मात्रावृत्तभेदे ।

उपगु त्रि० उपगतो गौरस्य ह्रस्वः गोशब्दोनानार्थः । १ प्राप्त

किरणादौ २ गोपाले च “उपगोरिदम् अण् । औपगव
तत्सम्बन्धिनि त्रि० । “सामीप्येऽव्ययी० । ३ गोः सामीप्ये
अव्य० ।

उपगुध त्रि० उप + गुध--रोधने क । सामीप्येन रोधके । स्त्रियां गौ० ङीष् ।

उपगुरु पु० उपगतः सादृश्येन गुरुम् अत्या० स० अन्तोदात्तः ।

तन्त्रोक्ते गुरुसदृशे उपदेशादिकारके । सामीप्यादौ
अव्ययी० । २ गुरोः सामीप्ये ३ गुरावित्यर्थे च अव्य० ।

उपगूढ न० उप + गुह--भावे क्त । १ आलिङ्गने “उपगूढानि

सवेपथूनि च” कुमा० । “विश्रमार्थमुपगूढमजस्रम्” माघः ।
कर्म्मणि क्त । २ आलिङ्गिते त्रि० । ततः ऋश्या० चतु-
रर्थ्यां क । उपगूढक तत्सन्निकृष्टदेशादौ त्रि० ।

उपगूहन न० उप + गुह--ल्युट् ओरूत् । आलिङ्गने “स्मर-

न्मुकुन्दाङ्घ्र्युपगूहनं पुनः” भा० स्क० ५ अ० ।

उपगोह्य त्रि० उप + गुह--ण्यत् ऊत्त्वविधौ अच एव ग्रहणान्न

ऊत्त्वम् । १ आलिङ्ग्ये, २ ग्राह्ये च । भावे ण्यत् ।
३ आलिङ्गने । पक्षे क्यप् उपगुह्यमप्यत्र ।

उपगौर त्रि० उपगतो गौरम् अत्या० स० । गौरवर्णोपगते

उपाद् द्व्यच्कत्वेऽपि गौरादिपर्युदासात् नान्तोदात्तता

उपग्रह पु० उप + ग्रह--अप् । १ काराबन्धने, २ वन्दीकरणे,

३ उपयोगे, ४ आनुकूल्ये च । कर्मणि घञ् । ५ कारारुद्ध
वन्ध्याम् । उपगतोग्रहं सादृश्येन अत्या० स० । ज्योतिषोक्ते
६ ग्रहतुल्ये ज्योतिः पदार्थे राहुकेत्वादौ “ग्रहाः
सोपग्रहाश्चैव दृप्ताः परिषदां गणाः । एते चान्येच बहवो-
घोरास्त्रिदिववासिनः । परिचार्य्य महासेनं स्थिता
मातृगणैः सह” भा० व० २२६ अ० “उपग्रहाः राहु-
प्रभृतयः नीलक० “सूर्य्यभात् पञ्चमं धिष्ण्यं ज्ञेयं विद्यु-
न्मुखाभिधम् । शून्थञ्चाष्टमगं प्रोक्तं सन्निपातं चतुर्द्दशम् ।
केतुरष्टादशं प्रोक्तमुल्का स्यादेवविंशतिः । द्वाविंशतितमं
कम्पस्त्रयोविंशञ्च वज्रकम् । निर्घातश्चतुर्विंशमुक्ता अष्टावु-
पाग्रहाः” ज्यो० त० उक्ते सूर्य्याक्रान्तनक्षत्रात् पञ्चमादिषु
विद्युन्मुखादिसमाह्वयेषु ७ नक्षत्रेषु । तत्फलञ्च “प्रस्थाने
विघ्नदा प्रोक्ताः सर्वकार्य्येषु सर्वदा” क्रूरवेधसमायोगे यस्यो
पग्रहसम्भवः । तस्य मृत्युर्न सन्देहो रोगाद्वाऽथ रणादपि
ज्यो० त० । ८ उपग्रहणशब्दार्थे च ।

उपग्रहण न० उप + ग्रह--ल्युट् । १ सामीप्येन ग्रहणे २ स्वीकारे

“वेदोपग्रहणार्थाय तावग्राहयत प्रभुः” रामा० कात्याय-
नोक्ते आज्याधारकरणभेदे । “एकद्रव्ये साज्ये वेदेनोपग्रह-
णम्” कात्या० १, १०, ६, “दक्षिणहस्तस्थस्य साज्यस्यै-
कद्रव्यस्य हस्तकम्पनादिनास्कन्दनावरणार्थं सव्यहस्त
गृहीतवेदेनाधारकरणमुपग्रहणमुच्यते” कर्कः । अप्
उपग्रहोऽप्यत्र । “न सव्येन वेदोपग्रहः” तत्रैव कर्कः ।

उपग्राह पु० उप + ग्रह--णिच्--अच् । १ उपढौकने उपहारे

(भेटदेओया) कर्म्मणि घञ् । २ उपहाररूपेण देये “उच्चा-
वचानुपग्राहान् राजभिः प्रापितान् बहून्” भा० स० ५१ अ०
“उपग्राहान् उपहारान्” नीलक० ।

उपग्राह्य त्रि० उप + ग्रह--णिच्--यत् । समीपे ग्राहयितुमुप-

स्थाप्ये १ उपढौकनीयद्रव्ये(भेटी) भावे यत् । २ उपहारे न०
"https://sa.wikisource.org/w/index.php?title=वाचस्पत्यम्/उदार&oldid=57669" इत्यस्माद् प्रतिप्राप्तम्