पृष्ठ १२०३

उपघात पु० उप + हन--घञ् । १ नाशने, २ कर्म्मायोग्यतासम्पादने

“काकेभ्यो रक्ष्यतामन्नमिति बालोऽऽपि देशितः । उपघा-
तप्रधानत्वात् न श्वादिभ्योऽपि रक्षति” मीमां० का० ।
“वीजदोषोपघातेन पण्ये दोषममुपागते” या० स्मृ० । ३
अपकारे । “स्त्रीणाञ्च प्रेक्षणालम्भमुपघातं परस्य च” मनुः ।
४ इन्द्रियाणां स्वस्वकार्य्यजननासामर्थ्ये च “तथात्वञ्चेदिन्द्रि-
याणामुपघाते कथं स्मृतिः” भाषा० । इन्द्रियाणामुपघातश्च
एकादेशेन्द्रियभेदेन बाधिर्य्यादिभेदात् एकादशविधः ।
अशक्तिशब्दे ४७३ पृ० विवृतिः । करणे घञ् । ५ रोगे ६ पापसमू-
हे च “रेतोरक्तगर्भोपघातः पञ्चगुणोजातकर्मणा प्रथममपो-
हति” अष्टाभिःसंस्कारैः गर्भोपघातात् पूतो भवति” हारी
तः “उपघातः पापसङ्घः पञ्चगुणः पञ्चप्रकारः उपपातक
जातिभ्रं शीकरसङ्करीकरणापावीकरणमलिनीकरणरूपपा-
पपञ्चकसंघः” सं० त० रघु० “पाणिना मेक्षणेनाथ स्रुवेणैव
तु यद्धविः । हूयते चानुपस्तीर्य उपघातः स उच्यते”
गृह्यसंग्रहोक्ते ७ होमभेदे । “अनुपस्तीर्येत्यनेन स्रुचि
यच्चतुरावर्त्तं पञ्चावर्त्तं वा घृतोपस्तरणादिकं तदत्र नास्ति
मेक्षणादिना सकृद् गृहीत्वा होमः” व्र० त० रघु० ।
“चरौ तु बहुदैवत्यो होमः, स्यादुपाघतवत्” छन्दोग० ।

उपघातक त्रि० उप + हन--ण्वुल् । १ नाशके २ पीड़के च

काकशब्दस्य दध्युपघातकत्वेन काकाकाकोभयवृत्तिः,
आलङ्कारिकाः “पुंसा सह समायोगो न स धर्मोपघातकः”
भा० आ० ७३ अ० “कथं सक्तून् ग्रहीष्यामि भूत्वा धर्मो-
पघातकः” भा० आश्च० ९० अ० ।

उपघातिन् त्रि० उप + हन--णिनि स्त्रियां ङीप् १ नाशके

२ पीड़के च “शस्त्रं पातयेन्मर्म्मसिराम्रायुसन्धीनां चानुप-
घाति” सुश्रु० ।

उपघ्न पु० उप + हन--घञर्थे--क । आसन्ने आश्रये “छेदादिवो-

पघ्नतरोर्व्रतत्यौ” रघुः “पिप्रायाद्रिगुहोपघ्नान्” भट्टिः ।

उपच(ज) त्रि० उपचिनीति उपजायते वा उप + चि--जन--वा

ड । चान्तपाठे वृद्धिकारके जान्तः अनन्तरजाते । “ब्रीहि-
यवयोर्वा एतदुपचं (जं) यच्छमीधान्यं तद्ब्रीहियवावेतेन
मूयांसौ करोति” शत० ब्रा० १, १, १, १० । भाष्यकृता तु
अत्र उपचमिति पठित्वा शमीधान्यम् तिलमाषादि
उपचिनोति उपचम् अल्पमाषपिष्टेन मिश्रितं ब्रीहिपिष्टं
त्रिचतुरमामात् आरोपितम् उपचितं बहु भवतीति”
व्याख्यातम्

उपचक्र पु० उपगतः सादृश्येन चक्र चक्रवाकम् अत्या० स० ।

चक्रवाकपद्वशे पक्षिभेदे “भृङ्गराजोपचक्राश्च लोहपृष्ठाः
पतत्त्रिणः” भा० व० १५८ अ० । “चकौरैरुपचक्रैश्च
पक्षिभिर्जीवजीवर्कः” भा० १७८ अ० । तत्पुरुषे
उपाद्द्व्यच्कत्वादन्तोदात्तः । सामीप्यादौ अव्ययी० । २ चक्रस्य
सामीप्ये ३ चक्रे इत्यर्थे च अत्र चक्रशब्दी नानार्थः ।

उपचक्षुस् न० उपगतञ्चक्षुर्दर्शनानुगुण्यार्थम् अत्या० स० ।

उपनेत्रे (चशमा) काचादिनिर्म्मिते दर्शनसाधने द्रव्यभेदे

उपचतुर त्रि० उपगताश्चत्वारो यस्य प्रा० ब० गतलोपः

डचोबाधकोऽच् । १ चतुर्ण्णां समीपवर्त्तिनि । चतुरस्य
सामीप्यादौ अव्ययी० । २ दक्षसामीप्यादौ अव्य० ।

उपचय पु० उप + चि--भावे अच् । १ वृद्धौ २ उन्नतौ “स्वश-

क्त्युपचये केचित् परस्य व्यसने परे” माघः । “तदेतेषाम-
स्मत्पुत्राणां ज्ञानोपचये भवन्तः प्रमाणम्” हितो०
“षडृतवो भवन्ति दोषोपचयप्रकोपोपशमननिमित्तम्”
सुश्रु० । “षष्ठत्रिदशलाभाश्च लग्नादुपचयाः स्मृताः” इति
ज्योतिषोक्ते ३ लग्नात् षष्ठादिस्थानेषु च ।

उपचरित त्रि० उप + चर--क्त । १ उपासिते २ लक्षणया बोधिते च ।

उपचर्म्म(न्) अव्य० चर्मणः सामीप्यादौ अव्ययी० वा अच्समा० ।

१ चर्मसमीपे २ चर्मणीत्यर्थे च उगतश्चर्म अत्या० स० ।
नान्तः । चर्मोपगते त्रि० स्त्रियां वा डाप् मनन्तत्वान्न ङीप् ।

उपचर्य्य त्रि० उप + चर--कर्मणि यत् ततः उपशब्देन अवतरे-

त्यादिवत् सुप्सुपेति समासः सोपसर्गात्तु ण्यदेव स्यात् । १
सेवनीये “ये च यैरुपचर्य्याःस्युर्न्नियमैस्तान्निबोधत” । उपचर्य्यः
स्त्रिया साध्व्या सततं देववत् पतिः” मनुः “अग्निवच्चोपच-
र्य्या वै ब्राह्मणाः कुरुसत्तम!” भा० आनु० ८ अ० । २ चिकि
त्सनीये च । भावे यत् तथा समासः । ३ चिकित्सायाम्
४ सेवने च न०

उपचर्य्या स्त्री उप + चर--भावे क्यप् । १ सेवने २ चिकित्सायां हला०

उपचाकु त्रि० उप + चक प्रतीघाततृप्त्योः उण् । १ प्रतिधातके

२ प्रीते च ततः बाह्वादि० अपत्यार्थे इञ् । औपचाकवि
तदपत्ये पुंस्त्री० ।

उपचायिन् त्रि० उपचिनोति उप + चि--णिनि स्त्रियां ङीप् ।

उपचयकारके वृद्धिकारके । “इतो वृद्धोपचायित्वात् शिशुं
मामद्य योधय” भा० आश्व० ७६ अ० ।

उपचाय्य पु० उपचीयतेऽग्निरत्र उप + चि--आधारे ण्यत् ।

यज्ञे इष्टकादिनिर्मिते अग्निधारणार्थे स्थलविशेषे “कथा-
भीरमसे नित्यमुपचाय्यवतां शुभे!” भट्टिः ।
पृष्ठ १२०४

उपचार पु० उप + चर--घञ् । १ चिकित्सायां, २ सेवायां, “स

मे चिरायास्खलितोचाराम्” । “उपचाराञ्जलिखिन्न-
हस्तया” रघुः । ३ व्यवहारे, “स्मृतेः उपचारात् अन्या-
र्थदर्शनाच्च” शव० भा० भूरिप्रयोगः अविग्रहशब्दे ४५१
पृष्ठे दर्शितः । ४ उत्कोचे ५ लक्षणया शक्यार्थत्यागेनान्यार्थ
बोधने ६ अयथार्थवाक्येन सन्तोषकरणे च “उपचारपदं
न चेदिदमिति” कुमारः ७ धर्म्मानुष्ठानमात्रे “वैश्यशूद्रोप-
चारञ्च” “व्रतचर्य्योपचारञ्च” मनुः । “प्रयुक्तपाणि-
ग्रहणोपचारौ” कुमा० । करणे घञ् । ८ पूजासाधने
द्रव्यभेदे “सन्मङ्गलोपचाराणां सैवादिरचनाऽभवत्” रघुः
पूजाङ्गीपचाराश्च नानाविधाः तत्र सर्वोपचारमन्त्रास्तु
श्रीतारपूर्ब्बाः, कल्पयामि नमः इत्यन्ताः कार्य्याः ।
“सिद्धजामले “श्रीतारञ्च मुखे कृत्वा देयस्य भुवनेश्वरि!
कल्पयामि नमः पश्चादुपचारेष्वयम् विधिरिति” इत्युपक्रम्य
तन्त्रसारे “चतुःषष्ठ्युपचाराः दर्शिताः यथा
आसनारोपणम् १ । सुगन्धितैलाभ्यङ्गः २ । मज्जनशालाप्रवे-
शनम् ३ । मज्जनमणिपीठोपरिवेशनम् ४ । दिव्यस्नानीय-
मुद्वर्त्तनम् ५ । उष्णोदकस्नानम् ६ । कनककलसस्थितस-
कलर्तार्थाभिषेचनम् ७ । धौतवस्त्रपरिमार्ज्जनम् ८ । अरुण-
दुकूलपरिधानम् ९ अरुणदुकूलोत्तरीयम् १० । आलेपमण्डप-
प्रवेशनम् ११ । आलेपमणिपीठोपवेशनम् १२ । चन्दनागु-
रुकुङ्कुमकर्पूरकस्तूरीरोचनादिव्यगन्धसर्वाड्रानुलेपनम् १३ ।
केशभारस्य कालागुरुधूपमल्लिकामालतीजातीचम्पकाशो-
कशतपत्रपूगकुहरीपुन्नागकह्लारयूथीसर्वर्त्तुकुमुममालाभूष-
णम् १४ । भूषणमण्डपप्रवेशनम् १५ । भूषणमणि-
पीठोपवेशनम् १६ । नवमणिमुकुटम् १७ । चन्द्रशक-
लम् १८ । सीमन्तसिन्दूरम् १९ । तिलकरत्नम् २० ।
कालाञ्जनम् २१ । कर्ण्णपालियुगलम् २२ । नासाभर-
णम् २३ । अधरयावकम् २४ । प्रपदभूषणम् २५ ।
कनकचित्रपादुका २६ । महापादका २७ । मुक्तावलिः २८
एकावलिः २९ । देवछन्दकः ३० । केयूरयुगलचतुष्ट-
यम् ३१ । वलयावलिः ३२ । उर्मिकावलिः ३३ ।
काञ्चिदाम ३४ कटीसूत्रम् ३५ । शोभाख्याभरणम् ३६ ।
पादकटकम् ३७ । रत्ननूपुरम् ३८ । पादाङ्गुलोयकम् ३९ ।
एककरे पाशः ४० । अन्यकरे अङ्कुशः ४१ । पूर्ण्णेषुचा-
पम् ४२ । अपरकरे पुष्पवाणाः ४३ । श्रीमन्माणिक्य-
पादुका ४४ । स्वसमानवेशाभिरावरणदेवताभिः
सहसिंहासनारोहणम् ४५ । कामेश्वरपर्य्यङ्कोपवेशनम् ४६ ।
अमृताशनचषकम् ४७ । आचमनीयम् ४८ । कर्पूर-
वटिका ४९ । आनन्दोल्लासः ५० । सविलासहास ५१ ।
मङ्गलारत्रिकम् ५२ । श्वेतच्छत्रम् ५३ । चामरयुग-
लम् ५४ । दर्पणः ५५ । तालवृन्तम् ५६ । गन्धः ५७ ।
पुष्पम् ५८ । धूपः ५९ । दीपः ६० । नैवेद्यञ्च ६१ ।
एतानि कल्पयेत् एषामुपचाराणामभावे तन्मन्त्राजप्याः ।
“तदुक्तं नवरत्नेश्वरे । “चतुःषष्ट्युपचाराणामभावे
तन्मनुं जपेत् । तत्तदेव फलं विन्देत् साधकः स्थिर-
मानसः” । “आचमनीयं प्रदातव्यमपचारान्तरान्तरे” तन्त्रसा०
तानि च त्रीणि “स्नाने वस्त्रे च नैवेद्ये दद्यादाचमनीयकम्”
नरसिंहपु० तेन चतुषष्टिपूरणम् । एतच्च श्रीविद्याप्रकरणी-
यत्वात्तद्विषयम् । अन्यत्र यथागमं कल्पनीयम् । शङ्का-
चार्य्येण तु स्तोत्रच्छलेन अन्यविधाः चतुःषष्ट्यु पचाराद-
र्शिता विस्तरभयान्न ते दर्शितास्तत्स्तोत्रेऽवसेयाः ।
अथाष्टादशोपचाराः । “आसनम् १ स्वागतम् २ पाद्यम् ३
अर्घ्यम् ४ आचमनीयकम् ५ । स्नानम् ६ वस्त्रो-
पवीतञ्च ७ मूषणानि च सर्वशः ८ । गन्धम् ९ पुष्पम् १०
तथा धूपम् ११ दीपम् १२ अन्नञ्च १३ तर्पणम् १४
माल्यानुवेपनेचैव १५ १६ नमस्कारविसर्ज्जने १७ १८ ।
अष्टादशोपचारैस्तु मन्त्री पूजां समाचरेत्” । अथ षोड़शो-
पचाराः । “पाद्यमर्घ्यन्तथाचामं स्नानं वसनभूषणे । गन्धं
पुष्पधूपदीपं नैवेद्याचमनन्ततः । ताम्ब लमर्च्चने स्तोत्रं
तर्पणञ्च नमस्क्रियाम् । प्रयोजयेत् प्रपूजायामुपचारांस्तु
षोड़श” अथ दशोपचाराः । “पाद्यमर्घ्यं तथाचामो
मधुपर्काचमौ तथा । गन्धादयोनिवेद्यान्ता उपचारा दश क्रमात् ।
अथ पञ्चोपचाराः । “गन्धपुष्पं तथा धूपं दीपं नैवेद्यमेव
च । अखण्डं फलमासाद्य केवलं लभते ध्रुवम्” तन्त्रसा०
विधानपा० विण्णुविषये अन्यविधा षोडशोपचारा
दर्शिताः ते च तत्तन्मन्त्रसहिता मत्कृततुलादानादिप-
द्धतौ २२८ पृष्ठे दर्शिताः । आ० त० “आसन स्वागतं
पाद्यमर्घ्य माचनीयकम् । मधुपर्काचमं स्नानवसनाभर-
णानि च । गन्धपुष्पे धूपदीपौ नैवद्यं वन्दनं तथा” एवं
षोड़शोपचाराः पठिता शक्तिभेदात् भेद उन्नेयः ।
तत्रासनादिकं यथा देयं तथोक्तं कालि० पु० “आसनं
प्रथमं दद्यात् पौष्पं दारवमेव वा” । (वाकारात्
रजताद्यासनम्) । “पाद्यार्थमुदकं पाद्यं केवलं तोयमेव तत् ।
तत्तैजसेन पात्रेण शङ्खेनाथ प्रदापयेत्” । (अर्घ्यमर्घ्य शब्दे
उक्तम्) । “उदकं दीयते यत्तु प्रसन्नं फेनवर्जितम् ।
आचमनाय देवेभ्यस्तदाचमनमिष्यते । तत्तैजसेन पात्रेण
शङ्खेनापि प्रदापयेत् । स्वर्ण्णरत्नोदके स्नानं कर्पूराद्य
पृष्ठ १२०५
धिवासितम् । तैजसैः कांस्यपात्रैर्वा शङ्खेनाथ प्रदापयेत् ।
यद्दीयते देवताभ्यो गन्धपुष्पादिकं तथा । अर्घपात्र-
स्थितैस्तोयैरभिषिच्य समुत्गृजेत् । नैवेद्यं दक्षिणे वा मे
पुरतो वा न पृष्ठतः । दीपं दक्षिणतो दद्यात् पुरतो वा न
वामतः । वामतस्तु तथा धूपमग्रे वा न तु दक्षिणे । निवे-
दयेत् पुरोभागे गन्धपुष्यञ्च मूषणम्” नरसि० पु० ।
“कार्पासं सर्वतोभद्रं दद्योत सर्वेभ्य एव हि । नैकान्त-
रक्तं दद्यात्तु वासुदेवस्य चेलकम् । तत् पूर्व्वं पूजयित्वैव
मन्त्रैर्देवाय चोत्सृजेत् । निर्दशं मलिनं जीर्णं छिन्नं
गात्रावलिङ्गितम् । परकीयं चाणुदष्टं सूचीविद्धं
तथोषितम् । उप्तकेशं विधूतञ्च श्लेष्ममूत्रादिदूषितम् ।
वर्जयेत् स्वोपयोगे च यज्ञादावुपयोजने” । (उप्तकेशं
केशेन सह वापितम्) । “पताकाध्वजवस्त्रादौ स्यूतं वस्त्रं
नियोजयेत् । ग्रैवेयकादि संसक्तं सौवर्ण्णं राजतञ्च वा ।
निवेदयेत्तु देवेभ्यो नान्यतैजससम्भवम् । प्रावरः पान
पात्रञ्च गण्डको गृहमेव च । पर्थ्यङ्कादि यदन्यच्च सर्व्वं
तदुपभूषणम्” । गन्धविशेषो गन्धशब्दे वक्ष्यते ।

उपचारच्छल न० वाद्युक्त वाक्यस्य तत्तातात् पर्य्याविषयार्थान्तरप-

रत्वकल्पनेन छलात्मकासदुत्तररूपे दूषणभेदे । छलस्य सामान्य-
लक्षणविभागोपचारलक्षणोदाहरणानि गौ० सू० वृत्त्योर्दर्शि-
तानि यथा । “वचनविघातो ऽर्थविकल्पोपपत्त्या च्छलम्”
सू० । “अर्थस्य वाद्यभिमतस्य योविकल्पोविरुद्धः कल्पो
अर्थान्तरकल्पनेति यावत् तदुपपत्त्या युक्तिविशेषेण योवचनस्य
वाद्युक्तस्य विघातोदूषणं तच्छलमित्यर्थः वक्तृतात्पर्य्याविष-
यार्थकल्पनेन दूषणाभिधानमिति फलितं तात्पर्य्याविषयत्वं
विशेष्येविशेषणे संसर्गे वा यथा नेपालादागतोऽयं
नवकम्बलवत्त्वादित्यत्र नवसंख्यापरत्वकल्पनयाऽसिद्ध्यभिधानं,
प्रमेयं धर्म्मत्वादित्यत्र पुण्यत्वार्थकल्पनया भागासिद्ध्य-
भिधानं, वह्निमान् धूमादित्यत्र धूमावयवे व्यभिचाराभि-
धानम्” वृ० । “तत्त्रिविधं वाक्छलं सामान्यच्छलमुपाचारच्छ-
लञ्च” सू० । “धर्मविकल्पनिर्देशेऽर्थसद्भावप्रतिषेध उपचार-
छलम्” सू० । “धर्मशब्दस्यार्थेन सम्बन्धस्तस्य विकल्पी द्विविधः
कल्पः शक्तिलक्षणान्यतरूपस्तथा च शक्तिलक्षयोरेकतर-
वृत्त्या प्रयुक्ते शब्दे तदपरवृत्त्या यः प्रतिषेधः स उपचार
च्छलं यथा मञ्चाः क्रोशन्ति नीलोघट इत्यातौ मञ्चस्था
एव क्रोशन्ति न तु मञ्चाः, एवं घटस्य कथं नीलरूपाभेदः,
एवं अहं नित्य इति शक्त्या प्रयुक्ते अमुकस्मादुत्पन्नस्त्वं
कथं नित्य इति प्रतिषेधोऽप्यु पचारच्छलम् । वाद्यभिप्रेता-
र्थस्यादूषणेन छलस्यासदुत्तरत्वम् । न च श्लिष्टलाक्षणिक-
प्रयोगाद्वादिन एवापराधः स्यादिति वाच्यं तत्तदर्थबोधक-
तया प्रसिद्धस्य शब्दस्य प्रयोगे वादिनोऽनपराधात् अन्यथा
पर्वतोवह्निमानित्युक्ते पर्वतोऽयं कथमवह्निमानित्यादिदू-
षणेनानुमानाद्युच्छेदः स्यात्” ।

उपचार्य्य त्रि० उप + चर--कर्मणि ण्यत् । १ सेवनीये २ चिकित्स-

नीये च भावे ण्यत् । ३ चिकित्सायां हेम० ४ सेवायाञ्च न० ।

उपचित् त्रि० उपचिनोति देहम् उप + चि--क्विप् । देहवर्द्धके

श्लीपदादौ “नाशयित्री वलासस्यार्शस उपचितामसि”
यजु० १२, ९७ । “उपचितः श्वयुथुगड़ुश्लीपदादयः”
वेददी० ।

उपचित उप + चि--क्त । १ समृद्धे “मृगवयोगवयोपचितं वनम्”

रघुः । २ दिग्धे च मेदि० ३ लेपनादिना वर्द्धिष्णौ निदिग्धे
अमरः ४ समाहिते हेम० ५ सञ्चिते च “प्रयतत्वा-
द्वोपचितमशुभं नाशयतीति प्रायश्चित्तम्” हारीतः ।
“उपचितं सञ्चितम्” प्रा० त० रघुनन्दनः ।

उपचिति स्त्री उप + चि--चाय--चिभावो वा भावे क्तिन् । १ वृद्धौ २ उन्नतौ च ।

उपचित्र न० “उपचित्रमिदं सससाल्लगौ” वृ० र० उक्ते

१ समवृत्तवर्णवृत्तभेदे । “विषमे यदि सौ सलगा दले भौ युजि
भाद्गुरुकावुपचित्रम्” तत्रोक्ते अर्द्धसमे २ वर्णवृत्तभेदे च ।
३ धृतराष्ट्रपुत्रभेदे “चित्रोपचित्रौ चित्राङ्कश्चारुचित्राङ्गदश्च
ह” धृतराष्ट्रपुत्रनामकथने । भा० आ० ६७ अ० ।

उपचित्रा स्त्री उपगता चित्रं वर्णम् चित्रां वा । मूषिकपर्ण्याम्

(उन्दुरकानि) अमरः चित्रातारासमीपस्थायां २ स्वातौ
३ हस्तायाञ्च । राशिचक्रे तयोश्चित्रानुगतत्वात्तथात्वम् ।
४ दन्तीवृक्षे राजनि० “द्विगुणितवसुलघुरचलधृतिरिह”
इत्युपक्रम्य “वाणाष्टनवसु यदि लश्चित्रा उपचित्रा भवमे
परयुक्ते” वृ० र० उक्ते षोड़शमात्रात्मके ५ मात्रावृत्तभेदे च ।

उपचेय त्रि० उप + चि--कर्मणि यत् । अङ्कुशादिना विनाम्य

चयनीये पुष्पादौ ।

उपच्छन्दन न० उप + छदि--णिच् भावे ल्युट् । सान्त्वेन प्रा-

र्थने (फुसलान) “तथा निवेदितश्च नरपतिरसुभिर्मा-
मवियोज्य उपच्छन्दनैरेव स्वं ते दापयितुं प्रयतिष्यते”
दशकु० । २ उपमन्त्रणे च “उपमन्त्रणमुपच्छन्दनमिति”
सि० कौ० ।

उपच्यव पु० उप + च्युङ्--गतौ भावे अप् । गृहात् निर्गमे ।

“यत्र नार्य्यपच्यवमुपच्यवञ्च शिक्षते” ऋ० १, २८, ३ ।
“शालायानिर्गमनमुपच्यवम्” भा० ।
पृष्ठ १२०६

उपजन न० उपजायते जन--अच् । स्त्रीपुंसयोगेन

जायमाने १ देहे । “नोपजनं स्मरन्निदं शरीरं स यथा प्रयोग्य
आचरणे युक्तः” छा० उ० । “मनसैव नोपजनं
स्मरन् स्त्रीपुंसयोरन्योन्योपगमेन जायते इत्युपजनम्
आत्मभावेन वात्मसामीप्येन वा जायते इत्युजनमिदं
तन्न स्मरन्” भा० । भावे घञ् अवृद्धिः । २ स्तोमादि
वृद्धौ पु० । “तत्रोपजनस्तार्क्ष्यवर्ज्जमग्ने सूक्तानाम्”
आश्व० श्रौ० ९, १, १५ “तत्र स्तोमवृद्धावुपजनस्थानमुच्यते
नारा वृ० “सोमातिरेके स्तुतशस्त्रोपजनः ६, ७, १ “तदा
स्तुतशस्त्रयोरुपजनीभवति” नारा० वृ० । ३ उत्पत्तिमात्रे
च “योगोहि प्रभवाप्ययौ” कठोप० भाष्ये योगोहि
प्रभवाप्ययौ उपजनापायधर्म्मकौ” इति उक्तम् ।

उपजप्य त्रि० उप + जप--कर्म्मणि अर्हार्थे यत् । मेदनीये उ

पपूर्व्वकाज्जपतेर्भेदार्थकत्वात्तथात्वम् । “उपजप्यानुपजपे
द्बुध्येतैव च तत्कृतम्” मनुः ।

उपजरस अव्य० जरायाः समीपम् अच् समा० जरसादेशश्च । जरासामीप्ये ।

उपजला स्त्री उगगतो जलम् अत्या० स० । यमुनापार्श्वस्थे

नदीभेदे “जलाञ्चोपजलाञ्चैव यमुनामभितो नदीम्”
भा० व० १३० अ० ।

उपजल्पिन् त्रि० उप + जल्प--णिनि । उपदेशके । “अना-

हूतोपदिष्टानामनाहूतोपजल्पिनाम् । ये लोकास्तान् हतः
कर्ण्ण! मया त्वं प्रतिपत्स्यसे” भा० आ० १३६ अ० ।

उपजाति स्त्री “अनन्तरोदितलक्ष्मभाजौ पादौ यदीयावुप-

जातयस्ताः । इत्थं किलान्यास्वपि मिश्रितासु वदन्ति
जातिष्विदमेव नाम” वृ० र० उक्ते वर्ण्णवृत्ते विभिन्नजातिद्वय
पादद्वययोगात् चतुर्द्दशप्रकारभिन्ने छन्दोभेदे । यथा
उपेन्द्रवज्रन्द्रवज्रयोः पादद्वयादियोगे १४ भेदाः । तत्र
चतुश्चरणप्रस्तारे १६ भेदा भवन्ति तत्र शुद्धा एकैका तत्र
न्नामभाक् शिष्टा चतुर्दश उपजातिसंज्ञाः । दिङ्मात्रं
दर्श्यते । उ उ उ उ । इ उ उ उ । उ इ उ उ ।
इ इ उ उ । उ उ इ उ । इ उ इ उ । उ इ इ उ ।
इ इ इ उ । उ उ उ इ । इ उ उ इ । उ इ उ इ ।
इ इ उ इ । उ उ इ इ । इ उ इ इ । उ इ इ इ
इ इ इ इ । अत्राद्यन्तयोः इन्द्रवज्रोपेन्द्रवज्रयोः शुद्ध-
तया तद्भिन्नानां चतुर्द्दशानां भिन्नजात्योश्चरणद्वयलक्ष-
णयोगात् उपजातित्वम् । यथा “अथ प्रजानामधिपः
प्रभाते जायाप्रतिग्राहितगन्धमाल्यामित्यादि” रघुः ।
एवं वंशस्थेन्द्रवंशयोरपि । यथा “इत्थं रथाश्वेभनिषादिनां
प्रगे, गणो नृपाणामथ तोरणाद्बहिः” माघः तुल्यसंख्यक-
वर्ण्णपादयोरे वोपजातित्वमिति न नियमः किन्तु भिन्नसंख्य-
कवर्ण्णपादयोरपि । “रामं लक्ष्मणपूर्व्वजं रघुवरं सीतापतिं
सुन्दरं काकुत्स्थं करणामयं गुणनिधिं विप्रप्रियं धार्मि-
कम् । राजेन्द्रं सत्यसन्ध्यं दशरथतनयं श्यामलं शान्त-
मूर्त्तिम् । वन्दे लोकाभिरामं रघुकुलतिलकं राघवं
रावणारिम्” इति पद्ये शार्द्दूलविक्रीड़ितेन १९
उनविंशत्यक्षरपादकेन सह २१ एकविंशत्यक्षरपादक स्रग्ध-
रायाः पादद्वयेन मिश्रणात् उपजातित्वम् । एवं
“महिषेऽसुराणामधिपे देवानाञ्च पुरन्दरे” इति देवीमा०
अनुष्टुब्वृहत्योः सङ्करादुपजातित्वम् ।

उपजानु अव्य० जानुनः समीपम् अव्ययी० । जानुसमीपे ।

“भीष्मोधनुष्मानुपाजन्वरत्निः” भट्टिः । तत्र प्रायभवेऽर्थे
ततः ठक् उगन्तत्वात् ठस्य कः । औपजानुक तत्रप्रायभवे
त्रि० “पाणी यस्योपजानुकौ” भट्टिः ।

उपजाप पु० उप + जप--धञ् । १ भेदे, अनैक्यसम्पादके

व्यापारे । “उपजापः कृतस्तेन तानाकोपवतस्त्वयि” माघः
“तेषु तेषु चाकृत्येषु प्रासरन् परोपजापाः” दशकु० ।
२ उपांशुजपे च ।

उपजापक त्रि० उप + जप--ण्वुल् । १ भेदके “धातयेद्विविधैर्द-

ण्डैररीणाञ्चोपजापकान्” मनुः ।

उपजापसह त्रि० उपजापं भेदं सहते सह--अच् । भेदार्हे भेद्ये ।

उपजिह्वा स्त्री उपगता ऊर्द्ध्वमुखी जिह्वा यस्याः । १ काकी

भेदे । प्रा० स० । २ उपरिस्थायां जिह्वायाञ्च (आलजिभ्)
“उपजिह्वास्फिचौ बाहू” कायविभागे या० स्मृ० । सुश्रु-
तोक्ते मांसदोषजे ३ रोगभेदे “अधिमांसार्व्वुदार्शोऽधिजि-
ह्वोपजिह्वोपकुशगण्डशुण्डिकालजीमांससंघातौष्ठप्रकोपग-
लगण्ड गण्डमालाप्रभृतयोमांसदोषजाः” स च सप्तसु-
मुखरोगेषूपजिह्वाधिजिह्वोपकुशदन्तवैदर्भप्रभृतिषु
जिह्वागतमुखरोगभेदः । मुखरोगविभागे” सुश्रु० । “जिह्वागताश्च
कण्टकास्त्रिविधास्त्रिभिर्दोषैरलासौपजिह्विकेति पञ्चधा
विभज्य “जिह्वाग्ररूपः श्वयथुर्हि जिह्वानुन्नाम्य जातः
कफरक्तयोनिः । प्रसेककण्डूपरिदाहयुक्ता प्रकथ्यतेऽसा-
वपजिह्विकेति” लक्षितः । अत्र स्वार्थे कन् ।
“उपजिह्विकां तुसंलिख्य क्षारेण प्रतिसारयेत्” सुश्रु० । उपजिह्वे
व इवार्थे कन् । ४ कीटभेदे हारा० कण्टकावृततनुत्वात्तथात्वम्

उपजीक त्रि० उ + जीव--क्विप् स्वार्थे कन् वलोपः । उपजीवके

“उद्भवन्ति उपजीका समुद्रादधिभेषजम्” अथ० २, ३, ४,
“उपजीका आसिञ्चन् धन्वन्युदकम्” । ६, १००, २,
पृष्ठ १२०७

उपजीव त्रि० उपगतो जीवं जीवनम् अत्या० स० । जीवनोप-

गते । “उपजीवाःस्थो जीव्यासम्” अथ० १९, ६९, २,
उपाद् द्व्यच्कत्वेन तत्पुरुषेऽन्तोदात्तोऽयम् ।

उपजीवक त्रि० उप + जीव--ण्वुल् । १ उपजीवनोपायवति

“सूचकाः सेतुभेत्तारः परवृत्त्युपजीवकाः । अकृतज्ञाश्च
मित्राणां ते वै निरयगामिनः” भा० आ० २३ अ० । उपजी-
व्यतया २ इतरालम्बके ३ प्रयोज्ये “उपजीव्योपजीवकभावः”
न्यायप्र० उपजीव्यशब्दे विवृतिः ।

उपजीवन न० उप + जीव--करणे ल्युट् । १ जीविकायाम् । “क्ष-

त्रियस्यैतदेवाहुर्धर्भं कृष्णोपजीवनम्” भा० व० २१ अ० ।
“उपजीवनञ्च पर्जन्योदानमस्य परायणम्” भा० व० ३१
अ० । भावे ल्युट् । २ वृत्त्याद्यर्थमाश्रये “स्त्रीशूद्रविट्क्षत्र-
बधोनिन्दितार्थोपजीवनम्” या० स्मृ० “आत्मप्रदानं सौम्यं
त्वमद्भ्यश्चैवोपजीवनम्” भा० स० ७६ अ० ।

उपजीवनीय त्रि० उप + जीव--कर्मणि अनीयर् । वृत्त्याद्यर्थ-

मालम्वनीये “यत्र वा अस्यै बहुलतया ओषधयस्तदस्या
उपजीवनीयतमम्” शत० ब्रा० १, ३, ३, १०, रसवतीमुपजीव-
नीयामकुर्वत” १, २, ५, ११,

उपजीविका स्त्री उपजीवयति उप + जीव--करणे कर्तृत्वोप-

चारात् ण्वुल् अत इत्त्वम् । जीवनोपायभूतायां वृत्तौ ।

उपजीविन् त्रि० उप + जीव--णिनि । १ आश्रिते २ वृत्त्याद्यर्थ-

मालम्बके च “भीमकान्तैर्नृपगुणैः स बभूवोपजीविनाम्”
रघुः । “अव्रतानाममन्त्राणां जातिमात्रोपजीविनाम् । नैषां
प्रतिग्रहोदेयोन शिलाम् तारयेच्छिलाम्” “जातिमात्रोप-
जीवी वा कामं स्यात् ब्राह्मणब्रुवः” मनुः । स्त्रियां ङीप्

उपजीव्य त्रि० उप + जीव--ण्यत् । १ आश्रये । २ ज्ञान-

सत्तावृत्त्याद्यर्थम् अवलम्बनीये “अलमुपजीव्यानां
मान्यानांवाक्ये कटाक्षनिक्षेपेण” सा० द० । “उपजीव्यद्रु-
माणाञ्च विंशतेर्द्विगुणीदमः” या० स्मृ० । “उपजीव्यबा
धापत्तेः” शब्दचि० । उपजीव्यत्वञ्च स्वसत्ताप्रयोजकत्वम् स्व
ज्ञानप्रयोजकत्वञ्च । उपजीव्योपजीवकभावश्च ज्ञानसत्त्वयोः
प्रयोज्यप्रयोजकभावः । यथा एकस्यान्यसत्ताप्रयोजकत्वम-
परस्य च तत्प्रयोज्यसत्ताकत्वम् । एवम् अन्यज्ञान-
प्रयोजकत्वम् अत्याधीनज्ञानविषयत्वं च यथायथं प्रयो-
गानुसारे बोध्यम् ।

उपजोष पु० उप + जुष--प्रीतौ घञ् । १ प्रीतौ २ सेवने च । ल्युट् । उपजोषणमप्यत्र न० ।

उपजोषम् अव्य० उप + जुष--प्रीतौ वा० अम् । १ प्रीतौ

१ कल्याणे ३ यथाकर्म्मभोगमित्यर्थे च । तत्र प्रीतौ “यथो
पजीषं सर्व्वश्च जनश्चिक्रीड भारत”! भा० आ० ११२ अ० ।
“यथोपजोषं विहितैर्हि कृष्णा” भा० आ० १९९ अ० अत्र
सर्व्वत्र उपजोषशब्देनापि यथाशब्दस्याव्ययीभावोऽपि
भवितुमर्हति । उप--सामीप्ये जोषम् मौनम् । ४ सामी-
प्येन मौने च “किमिदमुपजोषमास्यते” शकु० ।

उपज्ञा स्त्री उप + ज्ञा--कर्म्मणि अङ् । विनोपदेशेन स्वयमु-

द्भाव्ये १ प्रथमं ज्ञायमाने । उपज्ञाशब्दस्य तु तदादित्व
विवक्षायाम् उत्तरपदस्थस्य तत्पुरुषे क्लीवता । “पाणि-
न्युपज्ञं व्याकरणम्” सि० कौ० । “अथ प्राचेतसोपज्ञं
रामायणमितस्ततः” रघुः । “केकय्युपज्ञं वत वह्वनर्थम्” ।
भट्टिः भावे अङ् । २ आद्यज्ञाने तत्पुरुषे स्त्री न क्लीवता

उपज्ञात त्रि० उप + ज्ञा--क्त । विनोपदेशेन ज्ञातेऽर्थे ।

उपज्योतिष न० उपगतं सादृश्येन ज्योतिषमत्या० स० ।

ज्योतिषशास्त्रानुकारिणि गणितादिशास्त्रे ।

उपढौकन न० उप + ढौक--भावे ल्युट् । १ उपहारे राजादेः

संतोषार्थं द्रव्यादिप्रापणे (भेटदेओया) कर्म्मणि
ल्युट् । २ उपह्रियमाणे उपायनद्रव्ये ।

उपतन्त्र न० उपगतं तन्त्रम् अत्या० स० । शिबोक्ततन्त्रसदृशे

सिद्धर्षिकृते तन्त्रभेदे तच्च वाराहीतन्त्रे दर्शितं यथा
“सैद्धोक्तान्युपतन्त्राणि कपिलोक्तानि यानि च । अद्भु-
तानि च तन्त्राणि जैमिन्युक्तानि यानि च । वशिष्ठः
कपिलश्चैव नारदो गर्ग एव च । पुलस्त्यो भार्गवः सिद्धो-
यात्तवल्क्यो भृगुस्तथा । शुक्रो वृहस्पतिश्चैव अन्ये ये
मुनिसत्तमाः । एभिः प्रणीतान्यन्यानि उपतन्त्राणि यानि
च । न संख्यातानि तान्यत्र धर्म्मविद्भिर्महात्मभिः ।
सारात् सारतराण्येव सङ्ख्यातानि निबोधतेति” ।

उपतप्त त्रि० उप--आधिक्ये--तप--क्त । सन्तप्ते । “स्मरोप-

तप्तोऽपि भृशं न स प्रभुः” नैष० ।

उपतप्तृ त्रि० उप + तप--बा० भावे तृच् । १ सन्तापे । अमरे

भावप्रकरणे “स्वारः स्पर्शःस्प्रष्टोपतप्तेति” पाठात् भावे एव
तृच् इति क्षीरस्वामी । तेन शब्द कल्पद्रुमे तापकपर्य्या-
यताकथनं प्रामादिकमेव । कर्त्तरि तृच् स्त्रियां ङीप् ।
२ तापके ३ रोगादौ च ।

उपताप पु० उप + आधिक्ये तप--आधारे घञ् । १ त्वरायां

भावे घञ् । २ सन्तापे ण्यन्ततपेरच् ३ रोगे मेदि० । करणे
घञ् ४ अशुभे ५ पीडने च रत्नाबली । “दीक्षितानुपतापे”
आश्व० श्रौ० ६, ९, १, पुंस्त्वोपघातेन्द्रियोपतापान् तथा मुखा-
पृष्ठ १२०८
क्षिपाकरक्तपित्तवातशोणिताम्लीकाप्रभृतीनापादयति” सुश्रु० ।
“मानसागन्तुभिर्म्सातुरुपतापैः प्रपीड़ितः “बन्धोपतापैश्च
भवेद्विशेषशिरोऽभितापः ससमीरणेन” सुश्रु० ।

उपतापक त्रि० उप + आधिक्ये तप--णिच् ण्वुल् । सन्ताप जनके ।

उपतापन त्रि० उप + आधिक्ये तप + णिच् ल्यु । सन्तापके ।

उपतापिन् त्रि० उप + आधिक्ये तप + णिनि । १ सन्तप्ते २

रोगिणि च । “गुवर्थं पितृमात्रर्थं स्वाध्यायार्थ्युपतापिनः”
मनुः “उपतापी रोगी” कूल्लू० । णिच्--णिनि । ३ सन्ता-
पकारके । “दातापरेभ्यो न परोपतापी” भा० आ०
११ अ० । उभयतः स्त्रियां ङीप् ।

उपतारक त्रि० उप + तॄ णिच्--ण्वुल् । सन्तारके ।

उपतिष्य न० उपगतं तिष्यम् अत्या० स० । पुष्यसमीपगे १

पुनर्वसुतारके २ अश्लेषानक्षत्रे च तयोः नक्षत्रचक्रे पुष्योप-
गतत्वात् तथात्वम् । उपाद् द्व्यच्कत्वादन्तोदात्तोऽयम् ।

उपतीर अव्य० सामीप्यादौ अव्ययी० । तीरसामीप्यादौ आद्यु-

दात्तता एवम् उपतूल उपमूल उपशाल उपाक्ष इत्यादि
तत्तत्सामीप्यादौ अव्य० । अव्ययीभावे आद्युदात्तञ्च

उपतैल त्रि० उपगतस्तैलम् अत्या० स० । अभ्यक्ततैले उपाद्

द्व्यच्कत्वादन्तोदात्तता स्त्रियां गौरा० ङीष्

उपत्यका स्त्री उप + भवार्थे त्यकन् त्यकनो निषेधात् नातैत्त्वम् ।

पर्वतस्यासन्नायां मूमौ । “मलयाद्रेरुपत्यका” रघुः । प्राग्भा-
गतापतददिहेदमुपत्यकासु” माघः । “कान्ततरेयं गन्धपा-
षाणवत्युपत्यका” दशकु० ।

उपदंश पु० उप + दन्श--कर्मणि घञ् । १ मद्यपानरोचके (चाटनी)

भक्ष्यद्रव्ये, २ भक्ष्यद्रव्योपकरणमात्रे, च । “तथानुष्ठिते
च तया द्वित्रानुपदंशानुपपाद्य” दशकुमा० । भावे घञ् ।
संदशने (कामडान) “दिदङ्क्षौ उपदंशेच्छावतीति” माघ
टीकायां मल्लि० । कर्मणि घञ् । ४ समष्ठिलवृक्षे ५ शिग्रु वृक्षे
च पु० राजनि० । ६ उपस्थरोगभेदे (वाओ) (गरमि)
तन्निदानिनादि सुश्रुते उक्तं यथा ।
“तत्रातिमैथुनादतिब्रह्मचर्य्याद्वा तथा ब्रह्मचारिणीं चिरो-
त्सृष्टां रजस्वलां दीर्घरोमां कर्कशरोमां सङ्कीर्णरोमां
निगूढरोमामल्पद्वारां महाद्वारामप्रियामकामामचौक्ष्यसलि-
लप्रक्षालितयोनिमक्षालितयोनिं योनिरोगोपसृष्टां
स्वभावतो वा दुष्टयोनिं वियोनिं वा नारीमत्यर्थमुपसेव-
मानस्य तथा करजदशनविषशूकनिपातनादर्द्दनाद्धस्ताभि-
घाताच्चतुष्पदोगमनादचौक्ष्यसलिलप्रक्षालनादवपीड़नाच्छु-
क्रमूत्रवेगविधारणान्मैथुनान्ते वाऽप्रक्षालनादिभिर्स्मेढ्रमा-
गम्य प्रकुपिता दोषाः क्षतेऽक्षते वा श्वयथुमुपजनयन्ति
तमुपदंशमित्याचक्षते । स पञ्चविधस्त्रिभिर्द्दोषैः पृथक्
समस्तैरसृजा चैकः । तत्र वातिके पारुष्यं त्वक्परिपुटनं
स्तब्धमेढ्रता पुरुषशोफता विविधाश्च वातवेदनाः । पैत्तिके
ज्वरःश्वयथुः पक्वोडुम्बरसङ्काशस्तीव्रदाहः क्षिप्रपाकः
पित्तवेदनाश्च । श्लैष्मिके श्वयथुः कण्डूमान् कठिनः
स्निग्धः श्लेष्मवेदनाश्च । रक्तजे कृष्णस्फोटप्रादुर्भावोऽत्यर्थ-
मसृक्प्रवृत्तिः पित्तलिङ्गान्यत्यर्थं ज्वरदाहौ शोषश्च याप्यश्चैव
कदाचित् । सर्व्वजे सर्व्वलिङ्गदर्शनमवदरणं शेफसः कृमि-
प्रादुर्भावो मरणं चेति” । एतद्व्याख्याच्छलेन भावप्र० उक्तं यथा
“तत्रोपदंशस्य विप्रकृष्ट निदानमाह” । हस्ताभिघातान्नस्व
दन्तघातादाधारणाद्रत्युपसेवनाद्वा । योनिप्रदोषाच्च भवन्ति
शिश्ने पञ्चोपदंशा विविधापचारैः” । हस्ताभिघा-
तात् हस्तेन मैथुनात् । नखदन्तघातात् नखदन्तयोर्घात
स्थानत्वेनानुक्तेऽपि मेहने नखदन्तघातो बलवदनुरागो
दयात् । उक्तञ्च कामशास्त्रे । “शास्त्रस्य विषयस्तावद्
यावन्मन्दतरो रसः । रतिचक्रे प्रवृत्ते तु न शास्त्रं
नापि च क्रमः” । कलहे दुष्टस्त्रीकृतो वा मेहने
नखदन्तघातः । उत्कलादौ स्त्रियो मुखयोनयो भवन्ति ।
ताभिर्व्वा मेहने, नखदन्तघातः । योनिप्रदोषात् दीर्घकर्क्क-
शयोनिलोमयोगात् । योनिच्छिद्रस्यातिसूक्ष्मत्वाद्वा वाता-
दिकृताद्वा योनिदोषात् । विविघापचारैः । दुष्टजलप्रक्षालन
ब्रह्मचारिणीगमनादिभिः पञ्चोपदंशाः । वातिकः पैत्तिकः
श्लैष्मिकः सान्निपातिकः आगन्तुजश्चेति । तत्र वातिकस्य
पैत्तिकस्य चोपदंशस्य लक्षणमाह । “सतोदभेदस्फुरणैस्तु
कृष्णैः स्फोटैर्व्यवस्येन्मरुतोपदंशम् । पीतैर्व्वहुक्लेदयुतैः
सदाहैः पित्तेन रक्तैः पिशितावभासैः” । व्यवस्येत् जानीयात्
पीतैः रक्तैर्वेति विकल्पः । श्लैष्मिकं सान्निपातिकञ्चाह ।
“सकण्डूरैः शोफयुतैर्महद्भिः शुक्लैर्घनैः स्रावयुतैः कफेन ।
नानाविधस्रावरुजोपपन्नमसाध्यमाहुस्त्रिमलोपदंशम्” ।
असाध्यमाह । “विशीर्णमांसं कृमिभिः प्रजग्धं मुष्कावशेषं
परिवर्ज्जयेत्तम्” । विशीर्णमांसं गलितमांसं प्रजग्धं
खादितं मुष्कावशेषं विशीर्णसमस्तमेहनमांसत्वेनाव-
शिष्टफलकोषमात्रम् । उत्पन्नमात्रस्य चिकित्साया अकरणं
दोषमाह “सञ्जातमात्रे न करोति मूढ़ः क्रियां नरो यो
विषये प्रसक्तः । कालेन शोफकृमिदाहपाकैः प्रशीर्ण
शिश्नोम्रियते स तेन” । विषये प्रसक्तः अतिस्त्रीरतः । लिङ्गा-
र्शसमाह “अङ्कुरैरिव संजातैरुपर्य्युपरि संस्थितैः । क्रमेण
पृष्ठ १२०९
जायते वर्त्तिस्ताम्रचूड़शिखोपमा । कोषस्याभ्यन्तरे
सन्धौ पर्वसन्धिगतापि च । सवेदनः पिच्छिला च
दुश्चिकित्स्या त्रिदोषजा । लिङ्गवर्त्तिरिति ख्याता लिङ्गार्श
इति चापरे” । लिङ्गं वर्त्तेः स्थानम् । कोषाभ्यन्तरे अण्ड-
कोषाभ्यन्तरे । सन्धौ लिङ्गरन्ध्रसन्धौ पर्वसन्धिगता
मणिपर्वणोः सन्धिगता” । तच्चिकित्सादि सुश्रु० चिकि० १९ अ० ।
“उपदंशेषु साध्येषु स्निग्धस्विन्नस्य देहिन” इत्यादि उक्तम्

उपदर्शक पु० उप + दृश--णिच्--ण्वुल् । १ द्वारपाले । २ दर्शयि-

तरि त्रि० उप सामीप्ये दृश--ण्वुल् । समीपस्थतया द्रष्टरि
३ साक्षिणि । तस्य कार्य्यानुषङ्गित्वाभावादुपद्रष्टृत्वम् ।

उपदश त्रि० ब० व० दशानां समीपवर्त्तिनः ब० ब्री० डच्

समा० । दशसंख्यासमीपवर्त्तिषु नवैकादशसंख्याकेषु ।

उपदा स्त्री उप--दा--भावे अङ् । १ उत्कोचे, २ उपढौकने च ।

“तदस्मिन् वृद्ध्यायलाभशुल्कोपदा दीयते” पा० कृदभिहि-
तोभावो द्रव्यवत् प्रकाशते इत्युक्तेः” ३ उपह्रियमाणे द्रव्ये च ।
“उपदा विविशुः शश्वन्नोत्सेकाः कोसलेश्वरम्” “वन्येतरा
जानपदोषदाभिः” “प्रत्यर्प्य पूजामुपदाच्छलेन” रघुः ।
भावे ल्युट् उपदानमप्यत्र न० । स्वार्थे कन् । तत्रैव
उत्कोचे च । उपदा + अभूततद्भावे भ्वादौ च्वि ।
उपदीभूतः उपदीकृतः “तस्य रत्नमुपदीकृतं नृपाः” माघः ।
उपददाति उप + दा--कर्त्तरि क्विप् । उपदाद्रव्यदातरि त्रि०
“वर्ण्णायानुरुधं वनायोपदाम्” यजु० ३०, ९, “उपदाम्
उपदानदातारम्” वेददी०

उपदानवी स्त्री स्वर्भानुदानवस्य प्रभानामकन्याजे पुलोम्नः

कन्या--भेदे । “स्वर्भानोस्तु प्रभा कन्या पुलोम्नस्तु सुतात्र-
यम् । उपदानवी हयशिरा शर्म्मिष्ठा वार्षपर्व्वणी” ।
हरि० ३ अ० “उपदानवी सुतान् लेभे चतुरस्त्वैलिकात्मजा-
न् । दुष्मन्तमथ सुष्मन्तं प्रवीरमनघं तथा” हरि० ३२ अ० ।

उपदि(श)श् अव्य० दिशि, दिशोः समीपं वा वा अच् समा० ।

१ दिशीत्यर्थे २ दिशोः सामीप्ये च० उपगता दिशौ अत्या०
समा० हलन्तत्वाद्वा टाप् । दिशोर्मध्यवर्त्तिन्यां विदिशि कोणे
स्त्री “आवृण्वन् सर्व्वतोव्योम दिशश्चोपदिशस्तथा” भा०
व० १७१ अ० ।

उपदिश पु० “भगिन्यां वसुदेवस्य श्रुतश्रवसि जज्ञिरे । शिशु-

पालो दशग्रीवोरैभ्योऽथोपदिशो बली” हरिव० ११७ अ०
उक्ते शिशुपालभ्रातरि वसुदेवस्य भागिनेये नृपभेदे

उपदिश्य अ० उप + दिश--ल्यप् । १ उपदेशं कृत्वेत्यर्थे ।

उपदिशि भवः दिगा० यत् । २ विदिग्भवे त्रि० ।

उपदिष्ट त्रि० उप + दिश--कर्म्मणि क्त । यस्य जनस्य उपदेशः

कृतस्तस्मिन् १ जने उपदेशेन २ ज्ञापिते च । “उपदिष्टा-
तिदिष्ट गोत्रस्यैव निषेधः” उद्वा० त० रघुनन्दनः ।

उपदी स्त्री उपेत्य देयते खण्ड्यते उप + दो--घञर्थे क

गौरा० ङीष् । (परगाछा) वन्दायां राजनि० स्वार्थे कन् ।
वा ह्रस्वः । उपदिका उपदीकाप्यत्र हेमचन्द्रः । “इमा
वम्र्यो यदुपदीका” शत० ब्रा० १४, १, १, ८, अत्र वम्री-
शब्दस्यैव वन्दापर्यायत्वश्रवणात् हेमचन्द्रे वम्प्रीतिपाठ
कल्पनेन शब्दकल्पद्रुमे तत्पर्य्यायताकथनं प्रामादिकमेव
२ कीटभेदे च मेदिनिः ।

उपदीक्षिन् पु० उपगतोदीक्षिणं सामीप्येन अत्या० स० ।

यज्ञे दीक्षितस्य निकटस्थे “उपदीक्षी स्वेष्वग्निषु नखनि
कृन्तनाद्युद्वादनान्तं सन्निपातिकम्” कात्या० २५, १४, ३,
“उपदीक्षी नेदिष्ठः” कर्कः ।

उपदृश् त्रि० उपरिस्थः सन् पश्यति उप + दृश--क्विन् । उपरि-

स्थतया द्रष्टरि साक्षिणि सूर्य्यचन्द्रादौ । “अयं सूर्य्य
इवोपदृगयं सरांसि धावति” ऋ० ९, ५४, २, “अयं सोमः
सूर्य्यैवयथा सूर्य्यः सर्व्वस्य लोकस्योपद्रष्टा तत्तत्कर्म्मणा
मुपद्वगुपद्रष्टा” भा० । “भद्रा सूर्य्यैवोपदृशः” । ८, १०२, १५ ।

उपदृषद(द्) अव्य० सामीप्यादौ अव्ययी० वा अच्समा० ।

दृषदः पाषाणस्य सामाप्यादौ

उपदेव पु० उपगतोदेवम् सादृश्येन अत्या० स० । “देवकस्या

भवन् पुत्राश्चत्वारस्त्रिदशोपमाः । देववानुपदेवश्च संदेवो
देवरक्षितः” हरिवं० ३८ अ० उक्ते १ देवकनृपपुत्रभेदे । “अक्रू-
रेणोग्रसेनायां सुगात्र्यां कुरुनन्दन” । प्रसेनश्चोपदेवश्च
जज्ञाते देवबर्चसौ” हरि० ३४ अ० उक्ते २ अक्रूरपुत्रभेदे
च । देवतुल्यतेजस्कत्वाच्चानयोस्तथात्वम् । देवसदृशालौकिक
सामर्थ्ययुक्ते ३ पिशाचादौ । अन्तोदात्तोऽयम्, उपदेवाश्च
दश “विद्याधरोऽप्सरोयक्षोरक्षो गन्धर्वकिन्नरौ । पिशाचो
गुह्यकः सिद्धोभूतोऽमी देवयोनयः” इत्यभरोक्ताः बोध्या
एषाञ्चालौकिकशक्तिकत्वात्तथात्वम् । उपदेवतादयोऽप्यत्र ।

उपदेवी स्त्री “याः पत्न्योवसुदेवस्य चतुर्द्दश वराङ्गनाः । पौरवी

रोहिणी १ नाम मदिराऽपि २ तथा धरा ३ । वैशाखी च
तथा भद्रा ४ सुनाम्नी ५ चैव पञ्चमी । सहदेवा १ शान्तिदे-
वा २ सन्देवा ३ देवरक्सिता ४ । वृकदेव्युपदेवी ५, ६, च देवकी
चैव सप्तमी७ । १२ । सुतनुर्बडवा चेति द्वे एते परिचा-
रिके” १४ । हरि० ३७ उक्ते वसुदेवस्य पत्नीभेदे । जातौ
ङीष् २ विद्याधरादिजातिस्त्रियाम् ।
पृष्ठ १२१०

उपदेश पु० उप + दिश--घञ् । १ अनुशासने, २ हितकथने,

प्रवर्त्तकवाक्ये च । “चन्द्रसूर्य्यग्रहे तीर्थे सिद्धक्षेत्रे
शिवालये । मन्त्रमात्रप्रकथनमुपदेशः सौच्यते” म०
त० रामार्च्चनचन्द्रिकोक्ते ३ दीक्षाभेदे । तद्विस्तारस्तु
तन्त्रसारे कलावत्यादिदीक्षाप्रकरणे दृश्यः । तदशक्तौ तु
“तत्राप्यशक्तः कश्चिच्चेदब्जमभ्यर्च्य साक्षतम् । तदम्बु नाभि-
षिच्याष्टवारं मूलेन के करम् । निधायाष्टौ जपेत् कर्ण्णे
उपदेशे त्वयं विधिः” । विश्वसारतन्त्रोक्तः प्रकारोऽनु-
ष्ठेयः । अब्जम् शङ्खं के मस्तके । “यथासंख्य मुपदेशः
समानाम्” पा० । “बधनिर्धूतशापस्य कबन्धस्योपदेशतः” रघुः ।
“स्थिरोपदेशामुपदेशकाले” “तपस्विनामप्युपदेशतां गतम्”
कुमा० । “आर्षं धर्म्मोपदेशञ्च वेदशास्त्राविरोधिना ।
यस्तर्केणानुसंधत्ते स धर्म्मं वेद नेतरः” । “धर्म्मोपदेशं
दर्पेण विप्राणामस्य कुर्व्वतः” मनुः । प्रायश्चित्तोपदेश
प्रकारस्तु मिता० दर्शितो यथा । “विख्यातदोषः कुर्व्वीत
पर्षदोऽनुमतं व्रतम्” या० स्मृ० । “योदोषो यावत्कर्त्तृ-
सम्याद्यस्ततोऽन्यैर्विख्यातो विज्ञातो दोषो यस्यासौ पर्ष-
दुपदिष्टं व्रतं कुर्य्यात् । यद्यपि स्वयं सकलशास्त्रार्थ-
विचारचतुरस्तथापि पर्षत्समीपमुपगम्य तया सह विचार्य
तदनुमतमेव कुर्य्यात् । तदुपगमने चाङ्गिरसा विशेष
उक्तः । “कृते निःसंशये पापे न भुञ्जीतानुपस्थितः ।
भुञ्जानो वर्द्धयेत् पापं यावन्नाख्याति पर्षदि । सचेलं
वाग्यतः स्नात्वा क्लिन्नवासाः समाहितः । पर्षदोऽनुमतस्तच्च
सर्व्वं विख्यापयेन्नरः । व्रतमाधाय भूयोऽपि तथा स्नात्वा
व्रतञ्चरेदिति” । विख्यापनञ्च पर्षद्दक्षिणादानानन्तरं
कार्य्यम् । यथाह पराशरः । “पापम्प्रख्यापयेत्पापी दत्त्वा
धेनुन्तथा वृषमिति” । एतच्चोपपातकविषयम् ।
महापातकादिष्वधिकङ्कल्प्यम् । यत्तूक्तम् । “तस्माद्द्विजः प्राप्त
पापः सकृदाप्लुत्य वारिणि । विख्याप्य पापं वक्तृभ्यः
किञ्चिद्दत्त्वा व्रतञ्चरेदिति” । तत्प्रकीर्णकविषयम् । पर्ष-
त्स्वरूपञ्च मनुना दर्शितम् । “त्रैविद्योहैतुकस्तर्की निरुक्तो
धर्म्मपाठकः । त्रयश्चाश्रमिणः पूर्ब्बे पर्षदेषा दशावरा” ।
हैतुकोमीमांसार्थतत्त्वज्ञः । तर्की न्यायशास्त्रकुशलः ।
तथान्यदपि पर्षद्द्वयन्तेनैव दर्शितम् । “ऋग्वेदविद्य-
जुर्वेदी सामवेदविदेव च । त्र्यवरा पर्षद्विज्ञेया धर्म्म-
संशयनिर्ण्णये” इति । तथा । “एकोऽपि वेदविद्धर्मं यं व्यव-
स्येत्समाहितः । स ज्ञेयः परमोधर्म्मो नाज्ञानामुदितो
ऽयुतैरिति” । आसाञ्च पर्षदां सम्भवापेक्षया व्यवस्था ।
महापातकाद्यभेक्षया वा । यत्तु स्मृत्यन्तरेऽभिहितम् ।
“पातकेषु शतम्पर्षत्सहस्रं महदादिषु । उपपापेषु पञ्चा-
शत्स्वल्पे स्वल्पा तथा भवेदिति” । तदपि महापातकादिदी-
षानुसारेण पर्षदो गुरुलघुभावप्रतिपादनपरं न पुनः
संख्यानियमार्थं मन्वादिमहास्मृतिविरोधप्रसङ्गात् । तथा
देवलेन चात्र विशेषो दर्शितः । “स्वयन्तु ब्राह्मणा
ब्रूयुरल्पदोषेषु निष्कृतिम् । राजा च ब्राह्वणाश्चैव
महत्सु सुपरिक्षितमिति” । तया च पर्षदा अवश्यं व्रतमुपदेष्ट
व्यम् । “आर्त्तानां मार्गमाणानाम्प्रायश्चित्तानि ये द्विजाः ।
जानन्तो न प्रयच्छन्ति ते यान्ति समतां तु तैः” इत्यङ्गिरः-
स्मरणात् । तथा तया पर्षदा ज्ञात्वैव व्रतमुपदेष्ट-
व्यम् । “अज्ञात्वा धर्म्मशास्त्राणि प्रायश्चित्तन्ददाति यः ।
प्रायश्चित्ती भवेत् पूतः किल्विषम्पर्षदं व्रजेदिति” वशिष्ठ
स्मरणात् । क्षत्रियादीनान्तु कृतैनसां धर्मोपदेशे विशेषोऽङ्गिर
सा दर्शितः । “न्यायतो ब्राह्मणः क्षिप्रं क्षत्रियादेः कृतै-
नसः । अन्तरा ब्राह्मणं कृत्वा व्रतं सर्व्वं समादिशेत् ।
तथा शूद्रं समासाद्य सदा विप्रपुरस्सरम् । प्रायश्चित्त-
म्प्रदातव्यञ्जपहोमविवर्जितमिति” । तत्र च यागाद्यनुष्ठान-
शीलानाञ्जपादिकं वाच्यमितरेषान्तु तपः । “कर्म्मनिष्ठास्त-
पोतिष्ठाः कदादित् पापमागताः । जपहोमादिकन्तेभ्यो
विशेषेण प्रदीयते । ये नामधारका विप्रा मूर्खा धनविव-
र्ज्जिताः । कृच्छ्रचान्द्रायणादीनि तेभ्योदद्याद्विशेषतः”
तत्र च सत्येशपूजनप्रदक्षिणे कर्त्तव्ये इति विधानपरिजा-
तादयः तन्मूलं तत्र दृश्यम् । मत्कृततुलादानादिपद्धतौ
च प्रायश्चित्तप्रकरणे तत्प्रकारोदृश्यः । प्रा० त० “तोष-
यित्वा द्विजोत्तमान्” देवलवचने तोषयित्वेति श्रवणात्
तस्यानतिकरत्वेन तद्ग्रहणे न दोषः प्रायश्चित्तद्रव्यग्रहणे
च दोष इति” व्यवस्थापितम् । प्रा० वि० तत्प्रपञ्चितं यथा
“नन्वेतद्द्रव्यग्रहणस्य पापजनकत्वे प्रमाणं नास्ति । न च
पापक्षयार्थत्वात् पापजनकत्वं, प्रमाणाभावात् तुलापुरुष
प्रतिग्रहस्यापि गर्हितत्वापत्तेः । तत्र च “अथातः संप्रव-
क्ष्यामि महापातकनाशनम्” इत्यनेन पापक्षयश्रवणात् ।
अथ प्रायश्चित्तश्रवणात् पापजनकत्वं यथा याज्ञवल्क्यः ।
“पात्रे धनं वा पर्य्याप्तं दत्त्वा शुद्धिमवाप्नुयात्” आदातुश्च
विशुद्ध्यर्थमिष्टिर्वैश्वानरी स्मृता” । एतस्य महापातकविष-
यत्वादन्यस्य गर्हितत्वं न स्यात् । अत एव “नाददीत नृपः
साधुर्म्महापातकिनोधनमिति” राज्ञोधनग्रहणनिषेधो
महापातक एव मनुनोक्तः । पतितद्रव्यग्रहणस्यैव
पृष्ठ १२११
पापजनकचम् “पतितानां गृहं गत्वा भुक्त्वा च प्रतिगृह्य
चेति” वृहस्पतिवचनादिति चेन्न पातकेतरप्रायश्चित्त
द्रव्यस्य ग्राह्यत्वापत्तेः उच्यते । “आदातुर्विशुद्ध्यर्थमिति”
महापातके श्रवणेऽपि लाघवात् सामान्यश्रुतिरेव कल्पनीया
पापक्षयमात्रसाधनत्वेन यदुत्सृष्टं तत् प्रायश्चित्तद्रव्यं न
ग्राह्यमिति, होलाकाधिकरणन्यायात् । अत एव न तुला-
पुरुषादावतिव्याप्तिस्तस्य पापक्षयमात्रफलत्वाभावात्
स्वर्गादिफलस्यापि तस्य श्रुतत्वात् अत उक्तयाज्ञवल्क्यवचना-
न्महापातकिप्रायश्चित्तद्रव्यग्रहे सकृत्कृते वैश्वानरीष्टिः ।
अत्यन्तावृत्त्या द्रव्यत्यागश्च जले क्षेपणीयः ब्रह्मचारिणे वा
देयः । यद्यपि प्रायश्चित्तेतरपतितद्रव्यग्रहणे वृहस्पतिना
चान्द्रायणमासोपवासौ विहितौ तथापि तावभ्यासविषयौ
ज्ञेयौ लघुपापप्रायश्चित्तद्रव्यग्रहणे तु “यद्गर्हितेनार्जय-
न्ति कर्भणा ब्राह्मणा धनम् । तस्योत्सर्गेण शुद्ध्यन्ति जप्येन
तपसैव चेति” मनूक्तगायत्रीसहस्रजपमासैकगोष्ठवासपयः
पानव्रतमाचरणीयम् । लघुतरपापप्रायश्चित्तग्रहणे तु “प्रति-
गृह्याप्रतिग्राह्यं भुक्त्वा चान्नं विगर्हितम् । जपंस्तरत्-
समन्दीयं मुच्यते मानवस्त्र्यहादिति” मनूक्तं दिनत्रयं
तरत्समन्दीयजपशतं कुर्य्यादिति” । तरत्समन्दीयञ्च
पावमानसूक्तान्तर्गतं सूक्तं तच्च मत्कृततुलादानादिपद्धतौ
१८० । १ पृष्ठे दृश्यम् ।

उपदेशक त्रि० उप + दिश--ण्वुल् । उपदेशकर्त्तरि ।

“उपदेशकमाहात्म्यादार्षज्ञानाच्च पाणिनेः” शब्दा० र० ।

उपदेशसाहस्री स्त्री वेदान्तप्रकरणभेदे तत्र हि उपदे-

शाः सहस्रं सन्तीति तस्यास्तथात्वम् ।

उपदेशिन् त्रि० उपदिशति उप + दिश--णिनि । उपदेशकर्चरि

स्त्रियां ङीप् । “गतानुगतिकोलोकः कुट्टिनीमुपदेशिनीम्” ।
प्रमाणवति नो धर्म्मं यथा गोघ्नमपि द्विजम्” हितो० ।

उपदेश्य त्रि० उप + दिश--कर्म्मणि ण्यत् । १ अनुशासनीये ।

यस्य प्रवर्त्तनार्थमुपदेशः क्रियते तस्मिन् २ उपदेशार्हे
कर्म्मादौ च “विद्याश्च वा अविद्याश्च यच्चान्यदुपदेश्यम्”
अथ० ११, ८, २३

उपदेष्टृ पु० उप + दिश--तृच् । १ गुरौ कर्मोपदेशके २

आचार्य्ये “चत्वारोवयमृत्विजः स भगवान् कर्म्मोपदेष्टा हरिः”
वेणी० । “तस्योपदेष्टारमपि पूजयेच्च ततोगुरुम् । न पूज्य-
ते गुरुर्यत्र सर्व्वास्तत्राफलाः क्रियाः” ति० त० वृह० ।
“उपदेष्टानुमन्ता च लोके तुल्यफलौ स्मृतौ” आ० त० पु० ।
३ उपदेशदायके त्रि० स्त्रियां ङीप् ।

उपदेह पु० उपदिह्यते उपचीयतेऽनेन उप + दिह--घञ् ।

देहादिदृद्धौ गण्डमालाश्लीपदादिमिर्देहस्फोततायाम् ।
“कण्डूर्गुरुत्वं सुप्तत्वमुपदेहोऽल्पवेदनं स्तम्भः शैत्यञ्च
यत्र तं श्लैष्मिकमिति विद्यात्” ब्रणविभागे सुश्रु० “गुदो-
पदेहशोफौ तु स्नेहोऽपक्वः करोति हि” तद्दौर्गन्ध्योप-
देहौ तु श्लेष्माणञ्चापकर्षति” सुश्रु० ।

उपदेहिका स्त्री उपदेहोविद्यतेऽस्याः ठन् । कीटभेदे (दीमक) हेम० ।

उपदोह पु० उपदुह्यतेऽत्र उप + दुह--आधारे घञ् ।

दोहनपात्रे “ददादि यौ वै कपिलां सवेलां कांस्योपदोहां
द्रबिणैरुत्तरीयैः” भा० व० १८६ अ० । “सदक्षिणां
काञ्चनचारुशृङ्गीं कांस्योपदोहाम्” । “गाः कांस्यो-
पदोहाश्च कन्याश्च वस्वलङ्कृताः” इति च हरि० ६ अ० ।

उपद्रव पु० उप + द्रु--भावे घञ् । १ उत्पाते । रोगारम्भके

धातुवैषम्पजनिते २ विकारभेदे च । (उपसर्ग) तल्ल-
क्षणमुक्तं वैद्यके । “यो व्याधि स्तस्य यो हेतुर्दोषस्तस्य
प्रकोपतः । योऽन्योविकारो भवति स उपद्रव उच्यते”
सुश्रुते चोक्तं “साध्ययाप्यासाध्यरोगभेदमुपक्रम्य ।
“तत्रौपसर्गिको यः पूर्ब्बोत्पन्नव्याधिं जघन्यकालजा तो
व्याधिरुपसृजति स तन्मूल एवोपद्रवसंज्ञकः” । तेन
उपसर्जकत्वात्तस्य तथात्वं अत्रार्थे कर्त्तरि अच् इति”
विवेकः । स च व्याधिभेदेन नानाविधः । रोगभेदे तद्भेदाश्च
तत्रैवोक्ता बहुशः । तत्र व्रणभेदे “अतिदग्धे मांसा-
लम्बनंगात्रविश्लेषसिरास्नायुसन्ध्यस्थिव्यापादनमतिमात्रं
ज्वरदाहपिपासामूर्च्छाश्चोपद्रवा भवन्ति” पालीरोगे च
“अत ऊर्द्ध्वं नामलिङ्गैर्वक्ष्ये पाल्यामुपद्रवान् । उत्पाटक-
श्चोत्पुटकः स्रावः कण्डूयुतो भृशम् । अवमन्थः सकण्डू-
को ग्रन्थिको जम्बुलस्तथा । स्रावी च दाहवांश्चैव
शृण्वेषां क्रमशः क्रियाम्” इति, विभज्य, तल्लक्षणचि-
कित्से उक्ते । वातव्याध्यादौ प्राणमांसक्षयादय
उपद्रवाः । यथा “उपद्रवैस्तु ये जुष्टाव्याधयो यान्त्यसाध्यताम् ।
रसायनादिना वत्स! तान् शृण्वेकमना मम । वातव्याधिः
प्रमेहश्च कुष्ठमर्शोभगन्दरः । अश्मरी मूढ़गर्भश्च तथैवोदरमष्ट-
मम् । अष्टावेते प्रकृत्यैव दुश्चिकित्स्या महागदाः । प्राण-
मांसक्षयकाशतृष्णाशोषवमीज्वरैः । मूर्च्छातिसारहिक्काभिः
पुनश्चैतौपद्रुताः । वर्ज्जनीयाविशेषेण भिषजा
सिद्धिमिच्छता” सुश्रु० । एवमन्येऽपि रोगभेदे उपद्रवा
स्तत्रोक्ता दृश्याविस्तरभयान्नोक्ताः ।
पृष्ठ १२१२

उपद्रष्टृ त्रि० उप + दृश--तृच्--अम् । उपदर्शके साक्षिणि

“अग्निर्वा उपद्रष्ट्रा वायुरुपश्रोतादित्योऽनुख्याता” तैत्ति०
“उपद्रष्टाऽनुमन्ता च भर्त्ता भोक्ता महेश्वरः” । गीता
“उपद्रष्टा पृथग्मूत एव समीपे द्रष्टा साक्षीत्यर्थः श्रीधरः
“नमः प्रवक्त्रे नम उपद्रष्ट्रे” आश्व० श्रौ० १, २, १ सोऽयं प्रजा-
नामुपद्रष्टा प्रविष्टः” शत० ब्रा० १, ३, ४, २, ५ “उपद्रष्टा
साक्षी” भा०

उपद्रुत त्रि० उप + द्रु--क्त । जातोपद्रवे “पुनश्चैत उपद्रुताः” सुश्रु० ।

उपधर्म्म पु० उप + हीने हीनोधर्म्मः प्रा० स० । अप्रधानधर्म्मे

“वेदमेवाभ्यसेन्नित्यं यथाकालमतन्त्रितः । तंह्यस्याहुः परं
धर्म्ममुपधर्म्मोऽन्य उच्यते” “एष धर्म्मः परः साक्षादुप-
धर्म्मोऽन्य उच्यते” मनुः “उपधर्मो जघन्यधर्म्मः” कुल्लू० ।

उपधा स्त्री उप + धा--अङ् । उपधाने स्थापने “धर्म्मार्थकाम-

मोक्षैश्च प्रत्येकं परिशोधने । उपेत्य धीयते यस्मादुपधा
तेन कीर्त्तिता” इत्युक्ते धर्म्मार्थाद्युपन्यासेन मन्त्रिणां २
परीक्षणे, “चिन्तावन्तः कथां चक्रुरुपधाभेदभीरवः” भट्टिः
“अर्थकामोपधिभ्यां तु भार्य्यां पुत्रांश्च शोधयेत् । धर्मो-
पधाभिवैप्रांश्च सर्व्वाभिः सचिवान् पुनः” कालिका पु० ।
३ छले च । “उपधाभिश्च यः कश्चित् परद्रव्यं हरेन्नरः”
मनुः “तच्चापि श्रुत्वा भूयोभूय उपधाभिः” दशकु० । ४ उपाये
च । “अयशोभिदुरालोके कोपधा मरणादृते” माघः ।
“अलोऽन्त्यात् पूर्ब्ब उपधा” पाणिन्युक्ते अन्त्यवर्ण्णात्
५ पूर्व्ववर्णे च । “अनौपधालोपनोऽन्यतरस्याम्”
“कोपधाच्च” पा० । लिङ्गानुशासनसूत्रे कोपघात्
खोपधादित्यादि मूरिप्रयोगः ६ उपाधौ च । उपधाभृतः ।

उपधातु पु० उप सादृश्ये प्रा० स० । खर्णादिप्रधान-

धातुसदृशेषु “सप्तोपधातवः स्वर्णमाक्षिकं तारमा-
क्षिकम् । तुत्यं कांस्यञ्च रीतिश्च सिन्दूरञ्च शिलाजतु”
भावप्र० उक्तेषु सप्तसु १ द्रव्येषु । “उपधातुषु सर्व्वेषु तत्तद्धातु-
गुणा अपि । सन्ति किन्त्वेषु ते गौणास्तत्तदंशाल्पभावतः”
भावप्र० । तत्र कतमस्य द्रव्यस्य कतमोपधातुत्वं तन्निर्ण्णितं
तत्रैव । “किञ्चित् सुवर्ण्णसाहित्यात् स्वर्ण्णमाक्षिकमी-
रितम् । उपधातुः सुवर्ण्णस्य किञ्चित् स्वर्ण्णगुणान्वितम्” ।
तारमाक्षिकमन्यत्तु तद्भवेद्रजतोपमम् । किञ्चिद्रजतसा-
हित्यात् तारमाक्षिकमीरितम्” २ “तुत्थं (तुँते)
ताम्रोपधातुर्हि किञ्चित्ताम्रेण तद्भवेत् । किञ्चित्ताम्रगुणं
तस्माद्वक्ष्यमाणगुणञ्च तत्” ३ । उपधार्तुभवेत् कांस्यं द्वयो-
स्तरणिरङ्गयोः । कांस्यस्य तु गुणाज्ञेयाः स्वयीनिसदृशा-
जनैः ४ । रोतिरप्युपधातुः स्यात्ताम्रस्य यशदस्य च ।
पित्तलस्य गुणाज्ञेयाः स्वयोनिसदृशा गुणैः” ५ ।
सीसोपधातुः सिन्दरं गुणैस्तत् सीसवन्मतम् । संयोगज
प्रभावेन तस्याप्यन्ये गुणाः स्मृताः” ६ । निदाघे धर्म्म-
सन्तत्या सतुषारं धराधराः । निर्यासवत् प्रमुञ्चन्ति
तच्छिलाजतु कीर्त्तितम् । सौवर्ण्णं राजतं ताम्रमायसं
तच्चतुर्विधम् ७ । इति चतुर्ण्णां स्वर्ण्णादीनामुपधातु-
त्वात् शिलाजतुनश्चतुर्द्धा भेदः । एतेषामन्यान्यगुणास्तत्त-
च्छब्दे वक्ष्यन्ते । भावप्र० एतएवोपधातुत्वेन गणिताः शब्द-
कल्प० स्वर्ण्णमाक्षिकतुत्थकर्पूरकालाञ्जनमनःशिलाहरिता-
लरसाञ्जनरूपा उपधातव इत्युक्तं तन्मूलं मृग्यम् ।
शरीरस्थेषु रसादिजन्येषु २ स्तनदुग्धादिषु च ।
देहस्थाः रसादयः सप्त धातवः तेभ्यो जाताश्च षडुप
धातवः । तत्र रसात् स्तनदुग्धम् । रक्तात् स्त्रीरजः २
मांसात् वसा ३ । मेदसो धर्म्मः ४ । अस्थ्नोदन्तः ५ ।
मज्जतः केशः ६ । शुक्रात् ओजः ७ । यथोक्तं शार्ङ्गधर ।
“स्तन्यं रजोवसास्वेदो दन्ताः केशास्तथैव च । औजस्यं
सप्तधातूनां क्रमात् सप्तोपधातवः” । तत्र भावम० स्तन्यादि
स्वरूपमुक्तं यथा “वनितानां प्रसूतानां धमनीभ्यां स्तनौ-
गतात् । रसादेव हि जायेत स्तन्यं स्तनयुगाश्रयम् । शुद्ध-
मांसस्य यः स्नेहः सा वसा परिकीर्त्तिता । मेदसस्ताप्य-
मानस्य स्नेहो वा कथिता वसा” ।

उपधान न० उपधीयते शिरोऽत्र उप + धा आधारे ल्युट् ।

(वालिश) १ शिरोधाने । करणे कर्मणि वा ल्युट् । २ प्रणये,
व्रतभेदे, हेम० । ३ विशेषे ४ प्रणये च विश्वः “सोपधानां
धियं धीराः स्थेयसीं खट्वयन्ति ये” माघः । “सोप्रधानां
सविशेषां, पक्षे सगेन्दुकामिति” मल्लि० “पट्वोपधाना-
ध्यासितशिरोभागेण” काद० । “आसन्दी सोपधाना
दक्षिणानड्वान् यवाश्च” कात्या० २१, ४, ३० । ५ विषे मेदि०
भावे ल्युट् । ६ समीपस्थापने न० । करणे ल्युट् ।
७ उपधानसाधने मन्त्रे पु० “तद्वानासामुपधानोमन्त्रः” पा०

उपधानीय न० उपधीयते शिरस उपरि उप + धा--कर्मणि

अनीयर् । १ उपधाने (वालिश) २ समीपे स्थापनीये त्रि० ।

उपधाभृत त्रि० उपधया उपाधिना भृतः । “जातश-

स्यत्रिभागस्तु गृहीतश्चोपधाभृतः” वृह० उक्ते करभेदे ।

उपधायिन् त्रि० उपदधाति शीर्षभागे उप + धा--णिनि

स्त्रियां ङीप् । शीर्घभागे उपधानत्वेन घारिणि ।
“अशेत सा बाहुलतीपधायिनी” कुमा० ।
पृष्ठ १२१३

उपधारण न० उप + धृ--णिच्--ल्युट् । उपरिस्थितस्य वस्तनः

अङ्कुशादिना १ आकर्षणे । “अङ्कुशं शौचमित्याहुर-
र्थानामुपधारणे । आनाम्य फलितां शाखां पक्वं पक्वं
प्रशातयेत्” १४० । २ सम्यक्चिन्तने च । युच् । उपधारणा
योगाङ्गे चित्तस्य एकविषये स्थापनार्थव्यापारभेदे स्त्री ।

उपधावन न० उप + धाव--ल्युट् । १ उपसरणे २ अनुचिन्तने

उपधि पु० उप + धा--भावे कि । अन्यथास्थितस्य वस्तनोऽ-

न्यथा प्रकाशनरूपे व्यापारे । “योगाधमनविक्रीक्ते योगदा-
नपतिग्रहम् । यत्र वाप्य पधिं पश्येत् तत्सर्व्वं विनिवर्त्त-
येत्” मनुः ३ छले अमरः “अरिषु हि विजयार्थिनः क्षितीशाः
विदधति सोपधि सन्धिदूषणानि” किरा० । “बलोपधि-
विनिर्वृत्तान् व्यवहारान् निवर्त्तयेत्” या० स्मृतौ
दीपकलिकायां पाठः । उपधिश्छलमिति शूलपा० बलोपा-
धीति” मिता० पाठः उपाधिर्भयादिरिति व्याख्यातञ्च ।
“बलोपधिकृतम्” या० स्मृ० । “पणं वितथमास्थाय
सर्पैरुपधिना कृतम्” भा० अ० २७ अ० । “स्मृत्वा चैवोपधि-
कृवं मातुर्दास्यं निमित्ततः” ३४ अ० । आधारे कि । ३
रथचक्रे हेम० । उपधिना छलेन जीवन्ति ठक् । औपधिक
भयादिदर्शनेन धनोपजीविनि “उत्कोचकाश्चौपधिका वञ्च-
काः कितवास्तथा” मनुः औपधिका ये भयादिदर्शनादि-
नाधनमुपजीवन्तीति कुल्लू० । उपधिका इति पाठोऽनाकरः

उपधूपित पु० उप + धूप--क्त । १ मृत्थौ २ सन्तापयुते त्रि० ।

उपधूमित त्रि० धूमोजातोऽस्य तारका० इतच् दाहकायोगात्

अल्पं धूमितं प्रा० स० । १ जातधूमे (धोओयान) यात्रादौ
वर्ज्जनीये ज्योतिषोक्ते सूर्य्यगन्तव्यदिग्भागे स्त्री “दग्धा
दिगैन्द्री ज्वलिता दिगैश्युपधूमिता चानलदिक् प्रभाते
प्रत्येकमेवं प्रहराष्टकेन क्रमाद्दिशीऽष्टौ सविता क्रमेत ।
दग्धा दिगुक्ता दिननाथयुक्ता विवस्वदाप्ता भवति प्रदीप्ता ।
संधूमिता यां सविता प्रयाता शेषा दिगन्ताः खलु पञ्च-
शान्ताः” पेयू० वसन्तराजः । तन्निदर्शनचक्रं यथा ।
दग्धा दीप्ता उपधूमिता ५ शान्ताः
१ यामे ऐशी पूर्व्वा आग्नेयो याम्यादिसौम्यान्ताः
२ यामे पूर्वां आग्नेयी याम्या नैरृत्यादीशानान्ताः
३ यामे आग्नेयी याम्या नैरृती पश्चिमादिपूर्वान्ताः
४ यामे याम्या नैरृती वारुणी वायव्यादिवह्निदिगन्ताः
५ यामे नैरृती पश्चिमा वायवी सौम्यादियाम्यान्ताः
६ यामे पश्चिमा वायवी उत्तरा ईशादिनैरृत्यन्ताः
७ यामे वाववी उत्तरा ऐशो पूर्वादिपग्रिमान्ताः
८ यामे उत्तरा ऐशी पूर्वा आग्नेय्यादिवायव्यन्ताः
तत्र प्रहरभेदेन दग्धादित्रिके न गच्छेत् शान्तासु पञ्च-
सु गच्छेत् । एवं प्रधूमिता संधूमितादयोऽप्यत्र ।

उपधृति स्त्री उप + धृ--क्तिन् । १ सन्धारणे २ किरण हेम० ।

उपधेय त्रि० उप + धा--यत् । मन्त्रभेदेन स्थापनीये इष्टकादौ

“वयःशब्दवन्मन्त्रोपधेयास्विष्टकासु” सि० कौ० ।

उपध्मान पु० उःउवर्ण्णः पश्च ध्मायतेऽनेन उप + ध्मा--करणे

ल्युट् । ओष्ठे “तालव्या ओष्ठजावुपू” “उपूपध्मानीयाना-
मोष्ठौ” सि० कौ० उक्तेः तस्य उवर्ण्णपयोरुच्चारस्थान-
त्वात्तधात्वम् । उपध्मान इति केचिदाहुः ।

उपध्मानीय पु० उपाध्माने ओष्ठे भवः छ । पफपरे विसर्ग-

स्थानिके गजकुम्भाकृतितया लेखनीये वर्ण्णभदे उपध्मान-
शब्दे उदा० । उपाध्मानीय इति केचिदाहुः ।

उपध्वस्त त्रि० उप + ध्वन्स--क्त । १ नष्टे २ मिश्रिते च । “कृष्ण-

ग्रीवा आग्नेया बभ्रवः सौम्याः उपध्वस्ताः सावित्रा वत्स-
तर्यः” यजु० २४, २४ उपध्वंसनमधःपतनम्” वेददी०
“एतद्ध्यस्यै रूपतममिवेति रोहिणी ह त्वेवोपध्वस्ता” शत० ब्रा०
४, ५, ८, २ । “सहस्रदक्षिणे त्रिरात्रे प्रतिविभज्य नयन्
रोहिणीमुपध्वस्ताम्” कात्या० १३, ४, १५ । “उपध्वस्तां
मिश्रिताम्” संग्रहवृत्तिः ।

उपनक्षत्र न० उपगतं नक्षत्रम् अत्या० स० । अश्विन्यादि-

सप्तविंशतिनक्षत्राणां प्रत्येकं सप्तविंशत्यानुगतेषु ७२९
संख्यातेषु राशिचक्रस्थेषु तारक भेदेषु । “तानि वा
एतानि सप्तविंशतिः, नक्षत्राणि सप्तविंशतिः, सप्तविंशतिर्होप
नक्षत्राण्येकैकं नक्षत्रमनूपतिष्ठन्ते तानि च सप्त शतानि
विंशतिश्चाधि” शत० ब्रा० १०, ५, ४, ५ । अत्राधीत्य-
नेन नवाधिकत्वं गम्यते सप्तविंशत्या सप्तविंशतिगुणने
७२९ संख्यासम्भवात् श्रुतौ स्पष्टाक्षरेण तथानुक्तिस्तु इष्ट-
कानां ७२० संख्यकत्वात्तत्संख्यासाम्यसम्पादनार्थेति बोध्यम्

उपनख न० उपगतमधिष्ठानतया नखं नखमांसम् अत्या०

स० । सुश्रुतोक्तेषु चतुश्चत्वारिंशत्क्षुद्ररोगेषु चिप्पाख्ये
रोगभेदे । तल्लक्षणं तु तत्रोक्तं “नखमांसमधिष्ठाय पित्तं
वातश्च वेदनाम् । करोति दाहपाकौ च तं व्याधिं चिप्प-
मादिशेत् । तदेव क्षतरोगाख्यं तथोपनखमित्यपि” ।

उपनत त्रि० उप--नम--क्त । १ नम्रे “शौरेः प्रतापोपनतै-

रितस्ततः” माघः २ उपगते च “अचिरोपनतां स मेदि-
नीम्” रघुः । ३ उपस्थिते च हेम० ।

उपनति स्त्री उप + नम--भावे क्तिन् । १ नमने २ उपगमे

३ उपस्थितौ आधारे क्तिन् । उपनत्याधारे “मांसं म उप-
नतिर्वस्वस्थि, मज्जा म आनतिः” यजु० २०, १३ ।
“उपनमन्ति भूतानि यत्र” उपनतिः वेददी० ।
पृष्ठ १२१४

उपनद(दि) अव्य० नद्याः सामीप्यम् वा अच्समा० । नद्याः सामीप्ये ।

उपनन्द पु० उपगतोऽनुगतोनन्दम् अत्या० स० । गोकुला-

घिपनन्दभ्रातरि ।

उपनन्दक त्रि० उप + नन्द--णिच्--ण्वुल् । आनन्दजनके

धृतराष्ट्रपुत्रभेदे पु० । “ऊर्ण्णनामः पद्मनाभस्तथानन्दोप-
नन्दकौ” धृतराष्ट्रपुत्रनामोक्तौ भा० आ० ६७ अ० ।

उपनय पु० उप + नी--करणे अच् । उपनयने “गृह्योक्तकर्मणा

येन समीपं नीयते गुरोः । बालो वेदाय तद्योगाद्बाल-
स्योपनयं विदु” रिति स्मृत्युक्ते १ संस्कारजनकर्मविशेषे ।
“नीचस्थितेऽरिगृहगेऽथ पराजिते वा जीवे भृगावुपनयः
स्मृतिकर्महीनः” ज्योति० । न्यायमते यो यो धूमवान्
स वह्निमान् अयमपि तथेयादिवाक्यरूपे २ न्यायावयवभेदे,
परार्थानुमानसाधकपञ्चावयवान्तर्गतावयवविशेषोपनयलक्ष-
णभेदौ न्यायसूत्रवृत्त्योर्दर्शितौ यथा
“उदाहरणापेक्षस्तथेत्युपसंहारोन तथेति वा साध्य-
स्योपनयः” सू० “साध्यस्य पक्षस्य उदाहरणापेक्षौदाहर-
णानुसारी यौपसंहारौपन्यासः प्रकृतोदाहरणोपदर्शित-
व्याप्तिविशिष्टहेतुविशिष्टपक्षविशिष्टबोधजनकोन्यायावयव-
इत्यर्थः निगमनं हेतुविशिष्टत्वेन न पक्षबोधकं किन्तु पक्षवृ-
त्तिहेतुबोधकमिति तद्व्युदामः । अत्र चान्वयव्यतिरेकव्याप्त्यो-
रव्यतरत्वादिनानुगमः कार्य्यौदाहरणोपदर्शितेति तु
परिचायकमात्रमिति तु न वाच्यम् उदाहरणविपरीतव्याप्त्युप-
दर्शकोपनयवारकत्वात् वस्तुतोऽवयवपदेनैव तद्व्युदासः ।
स चोपनयोद्विविधोऽन्वयिव्यतिरेकिभेदात् । तथेति साध्यो-
स्योपसंहारोऽन्वय्युपनयः न तथेति साध्यस्योपसंहारोव्यति-
रेक्युपनयः अत्र च तथाशब्दप्रयोगावश्यकत्वे न तात्पर्य्यं
किन्तु व्याप्तिविशिष्टवत्त्वबोधे, तथाच वह्निव्याप्यधूमवांश्चा-
यमिति वा तथाचायमिति वोपन्यासः एवं व्यतिरेकिण्यपि
वह्न्यभावव्यापकीभूताभावप्रतियोगिधूमवांश्चायमिति वा न
तथेति वोपन्यासः” वृत्तिः
उपनीयते उपस्थाप्यते ज्ञानविषयतामापाद्यतेऽनेन करणे
अच् । न्यायमतसिद्धे ज्ञानलक्षणारूपे ३ अलौक्विक
प्रत्यक्षसाधने सन्निकर्षभेदे । तयो हि सन्निकर्षरूपया पूर्ब्ब-
ज्ञातवस्तुनोऽलौकिकप्रत्यक्षं जन्यते । यथा सुरभि चन्दन-
मिति चाक्षुषे चन्दनस्य चक्षुर्ग्राह्यत्वेऽपि सौरभस्य
तदग्राह्यत्वात् पूर्ब्बज्ञातस्य सौरभस्यालौकिकं प्रत्यक्षं जन्यते
तथा च सुरभि चन्दनमित्यत्र सौरभांशेऽलौकिकत्वं चन्द-
नांशो तु लौकिकत्वमिति भेदः ।
ज्ञानलक्षणाकार्य्यकारणभावश्चेत्थं दीधितिकृतोक्तम् । “इयञ्च
धर्म्मवियकं ज्ञानं धर्म्मिणां प्रत्यासत्तिरितरा तु यद्वि-
षयकं तस्य प्रत्यासत्तिः । अतएव सुरभि चन्दनमित्यादौ
सौरभत्वादेरपि भानमिति” व्याख्यातञ्चैतत् जगदीशेन ।
“नानु सामान्यं यदि न प्रत्यामत्तिः किन्तु तज्ज्ञानं
तदा ज्ञानलक्षणया सह तस्याः कोभेद इत्यत आह
इयञ्चेति सामान्यलक्षणा चेत्यर्थः । इतरा ज्ञानलक्षणा
तस्येति प्रत्यासत्तिरित्यनुषज्यते तथा च कार्य्यकारण-
भावभेदादेव प्रत्यासत्त्योः भेद इति भावः । अतएव ज्ञान-
लक्षणातएवेत्यर्थः अन्यथा यत्र सौरभत्वजात्युप-
स्थित्यनन्तरं सुरभिर्गन्ध इति वत् सुरभिचन्दनमित्या-
कारकं सौरभत्वप्रकारेण चन्दनस्य भ्रमात्मकं चाक्षुषं
तत्र सौरभत्वजातेर्भानं न स्यात् न हि तत्र सुरभिगन्धस्य
भानसम्भवो येन सामान्यलक्षणायास्तद्धर्म्मप्रकारकतदा-
श्रयप्रत्यक्षं प्रत्येव हेतुतया सौरभत्वप्रत्यासत्तेः कार्य्यताव-
च्छेदकतयैव सौरभत्वजातेर्भानं भविष्यतीति सम्भावनीयम्
चक्षुषो वहिरिन्द्रियत्व न स्वायोग्यमुख्यविशेष्यकज्ञानाजन-
कत्वनियमात् पूर्व्वाऽनुपस्थितस्य सुरभिगन्धस्य तत्र भाना-
सम्भवेनोक्तरीत्या तद्गतजातेरपि तत्र भानादम्भवादिति
मावः । इत्यादावित्यादिपदेन भ्रमान्तरस्य तदनुव्यवसायस्य
च परिग्रहः । यत्तु ज्ञानस्य तदिन्द्रियजन्यत्वं नियामक-
मिति पूर्वमतेनायं ग्रन्थः । तथा च सौरभत्वेन
सौरभस्मृत्यनन्तरं जायमानायां सुरभिचन्दनमित्याकारक
चाक्षुषप्रमायां सामान्यप्रत्यासत्त्या न सौरभत्वस्य भानसम्भवः
कारणस्य सौरभत्वचाक्षुषस्यासम्भवादतो ज्ञानलक्षणा पृथक्
प्रत्यासत्तिरिति मतं तन्मन्दं ज्ञानस्य तदिन्द्रियजन्यत्वा-
पेक्षायां सुरभिगन्धस्यापि तत्र भानासम्भवे सौरभत्वजाति
पर्य्यन्तानुसरणस्य सन्दर्भविरोधापत्तेः सोरभत्वादेरित्यादि
पदात् सौरभस्य परिग्रहः तेन न सन्दर्भविरोधदोष
इति विभावनीयम् । अत्रेदं तत्त्वं यद्यपि घटत्वादि-
प्रत्यक्षे तदलौकिकप्रत्यक्षे वा तद्गोचरज्ञानत्वेन ज्ञानलणा-
या न हेतुत्वं घटत्वादिनिर्व्विकल्पके प्रमेयत्वादिसामा-
न्यलक्षणाजन्यघटत्वादिप्रत्यक्षे च व्यभिचारात् तथापि
लौकिकसाधारणं घटत्वादिप्रकारकप्रत्थक्षमात्रं प्रत्येव-
घटत्वादिगोचरज्ञानत्वेन हेतुत्वमतएव प्राथमिकघटत्व-
चैत्रत्वादिप्रकारकप्रत्यक्षस्य घटत्वचैत्रत्वादिनिर्व्विकल्पिकं
पृष्ठ १२१५
विमानुपपत्तेः तत्सिद्धिरप्यावश्यकी पूर्व्वानुभूतवस्तुमात्र-
स्यैव तथात्वेन घटत्वाद्यात्मकतत्ताप्रत्यभिज्ञानानुरोधेनैव
परैरप्युक्तकार्य्यकारणस्याभ्युपेयत्वात् । न चैवं जन्यस्वविष-
यकसविकल्पकस्यैव प्रत्यासत्तित्वमिति प्राचीनगाथा-
विरोधः तस्या अकिञ्चित्करत्वात् सखण्डघटादेरुप-
नीतभानस्थाने एव तथा नियमसम्भवाच्च द्रव्यत्वादिप्रका-
रेण घटादेरुपनयसत्त्वेऽपि घटत्वप्रकारेण तस्योपनीतप्रत्य-
क्षानुदयेन घटत्वादिना तद्घटादिप्रकारकप्रत्यक्षं प्रति
घटत्वादिप्रकारेणैव तद्घटाद्युपनयस्य हेतुत्वादतएव
घटघटत्वयोर्निर्विकल्पकानन्तरं घटे घटत्वस्यैव घटत्वेऽपि
घटस्य न वैशिष्ट्यावगाहि प्रत्यक्षं घटत्वद्रव्यत्वादिप्रकारेणैव
घटादीनां विशिष्टबुद्धेः पारमार्थिकतया तद्धेतुभूतस्य
घटत्वादिप्रकारेण घटादिज्ञानस्य तदानीमसत्त्वात् न चैवं
निर्विकल्पकोत्तरं विशेष्ये विशेषणमित्यादिक्रमेणापि
घटवदित्याकारप्रत्यक्षं न स्यात्, इष्टत्वात् जातीतरनिष्ठप्रकार-
तायां किञ्चिदवच्छिन्नत्वनियमात् द्रव्यगुणकर्म्मणां
निरवच्छिन्नप्रकारतानभ्युपगमात् । न च निर्विकल्पकस्य प्रत्या-
सत्तित्वे स्वविषयीभूतघटत्वाद्युपधानेन तस्य प्रत्यक्षापत्तिः
विषयानुपधानेन ज्ञानादिप्रत्यक्षस्यालीकतया विषयोपना-
थकविरहादेव तस्यातीन्द्रियत्वोपगमादिति वाच्यम् सत्यपि
सन्निकर्षे प्रत्यक्षसामान्यं प्रत्येवादृष्टत्वादिनेव निर्व्विकल्प-
कत्वेनापि तादात्म्यसम्बन्धेन विरोधित्वकल्पनादेव
निर्विकल्पकस्याप्रत्यक्सत्वादन्यथा सुखत्वादिनिर्व्विकल्पकस्य
स्वविषयीभूतसुखत्वाद्युपधानेन साक्षात्कारस्य दुर्व्वार-
त्वापत्ते सुखत्वस्य निर्विकल्पक इव सुखत्वेऽपि लौकि-
कस्यैव मनःसन्निकर्षस्य सत्त्वात् तदुपधाने तन्निर्व्विकल्प-
कस्य प्रत्यक्षे बाधकाभावादिति । यत्तु घटादिपकारक-
प्रत्यक्षं प्रत्येव घटादिज्ञानत्वेन हेतुत्वे घटादिविशेष्यक
घटोद्रव्यमित्याकारमानसोपनीतभानं न स्यादिति तन्न
घटादिधर्म्मिकद्रव्यत्वाद्यसंसर्गाग्रहादिवशादेव मानसधियो
घटादिविशेव्यकत्वसम्भवात् घट इत्येतन्मात्राकारस्य
बाधनिर्ण्णयाप्रतिबध्यमानसप्रत्यक्षस्यासत्त्वेऽपि क्षत्यभावात् । न
चैवं घटादेरनुपस्थितिदशायामपि तद्विशेष्यकं मानसप्रत्यक्षं
स्यात् तद्धर्म्मिकासंसर्गाग्रहस्य तदानीमपि सत्त्वादिति वाच्यं
घटत्वप्रकारकप्रत्यक्षत्वस्य घटनिष्ठालौकिकविशेष्यताकप्रत्यक्ष-
त्वव्यापकतया तदवच्छिन्नं प्रति हेतुभूतस्य घटत्वज्ञानस्य
विरहादेवानुपस्थितघटादेर्व्विशेष्यविधया मानसग्रहासम्भवात्
घटोद्रव्यमित्यादिमानसस्य घटप्रकारकत्वनियमात् अतएव
“उपनीतं विशेषणतयैव भासते” इत्यभिधाय “मानसे तु
नायं नियम” इति प्राचीनैरप्युक्तमित्यलं पल्लवितेन” । भाषा०
मुक्तावल्योश्च “विषयी यस्य तस्यैव व्यापारोज्ञानलक्षणा”
“ननु ज्ञानलक्षणा प्रत्त्यासत्तिर्यदि ज्ञानरूपा सामान्यल-
क्षणापि ज्ञानरूपा यदा तयोर्भेदो न स्यादत आह । विषयी
यस्येति सामान्यलक्षणा प्रत्यासत्तिर्हि तदाश्रयस्य ज्ञानं
जनयति । ज्ञानलक्षणा प्रत्यासत्तिस्तु यद्विषयकं ज्ञानं
तस्यैव प्रत्यासत्तिरिति” । “एवं ज्ञानलक्षणाया अस्वीकारे
सुरभि चन्दनमिति ज्ञाने सौरभस्य भानं कथं स्यात्? ।
यद्यपि सामान्यलक्षणयापि सौरभमानं सम्भवति तथापि सौर
भत्वस्य भानं ज्ञानलक्षणया । एवं यत्र धूमत्वेन धूलीपटलं
ज्ञातं तत्र धूलीपटलस्यामुव्यवसाये भानं ज्ञानलक्षणया” ।
अत्र दिनकरः । “ज्ञानलक्षणास्वीकारे वीजमाह । एव
मित्यादिना कथं स्यादिति । चन्दनखण्डस्य चाक्षुषे जा
यमाने उपस्थितसौरभमानं न स्यात् सौरभांशे चक्षुः-
सन्निकर्षाभावादित्यर्थः । सौरभत्वप्रकारकलौकिकप्रत्यक्ष-
सामग्य्राः सहकारिण्याविरहेण सौरभत्वसामान्यलक्ष-
णयापि सौरभभानं न सम्भवतीति भावः । सुरभि चन्द-
नमित्यादौ सौरभादेर्भानं सौरभत्वादिसामान्यलक्षण-
यैव सम्भवति । सौरभत्वप्रकारकलौकिकप्रत्यक्षसौरभत्वा-
वच्छिन्नप्रकारकप्रत्यक्षान्यतरसामग्रीसहकारेणैव तस्याः
फलजनकत्वाङ्गीकारात् प्रकृते च द्वितीयसामग्य्राः
सहकारिण्याः सत्त्वादित्यभिप्रायेणाह यद्यपीति सौरभत्वस्य
भानमिति स्वरूपतः सौरभत्वस्य भानमित्यर्थः । ज्ञान
लक्षणया ज्ञानलक्षणयैव । तदानीं सौरभत्वांशे धर्मा-
न्तरस्यागृहीततया सामान्यलक्षणया तज्ज्ञानाऽनिर्वा-
हादिति भावः । ननु धर्मान्तरस्य सौरभांशेऽग्रहेऽपि
सौरभत्वसामान्यलक्षणयैव सौरभत्वादेर्भानमस्तु सौरभ-
त्वप्रकारकसौरभविशेष्यकत्वस्यैव तत्कार्यतावच्छेदकत्वा-
दिति चेन्न सौरभत्वादिविषयताप्रयोजिकायाः सामान्य-
लक्षणायाः स्वविषयसौरभत्वादिमत्त्वरूपस्य सम्बन्धस्य
सौरमत्वेऽभावेन सामान्यलक्षणया तज्ज्ञानानिर्वाहात्
सौरभत्वसामान्यलक्षणायाः कार्य्यतावच्छेदके सौरभत्व
प्रकारत्वनिवेशे प्रयोजनाभावाच्च । न च ज्ञानलक्षणायाः
कारणत्वान्तरकल्पने गौरवभियैव सामान्यप्रकारत्वस्य
कार्य्यतावच्छेदके प्रवेश इति शङ्क्यम् विशेषणज्ञानहेतु-
तयैव निर्वाहे ज्ञानलक्षणायाः कारणत्वान्तरकल्पना
विरहादिति । ननु विशेषणज्ञानजन्यतावच्छेदक
पृष्ठ १२१६
विशिष्टबुद्धित्वं ज्ञानलक्षणयास्तु विशिष्टप्रत्यक्षत्वमिति
न कॢप्तेन निर्वाहः, एवं यत्र ज्ञानलक्षणया स्वविषय
मुख्यविशेष्यकं मानसं तत्र विशेषणज्ञानकारणतया न
निर्वाह इत्यत आह एवमिति ज्ञानलक्षणया ज्ञानलक्ष-
णयैव । तत्र धूमत्वज्ञानरूपसामान्यलक्षणायाः स्ववि-
षयधूमत्वाश्रयत्वसम्बन्धेन धूलीपटलेऽभावेन सामान्य
लक्षणयानुव्यवसाये धूलीपटलभानासम्भवादिति भावः” ।
उपनयेन निर्वृत्तः ठक् । औपनयिक ज्ञानलक्षणाजन्ये
अलौकिके प्रत्यक्षे “अथ सार्थो यदि भवेद्धेतुस्तर्हि प्रत्यक्ष
एवौपनयिके” शब्दश०

उपनयन न० उप + नी--ल्युट् । स्मृत्युक्ते संस्कारभेदे १

उपनयार्थे २ समीपप्रापणे च । तत्रोपनयसंस्कारविभागकाला-
दिर्दर्श्यते । स च संस्कारः त्रिविधः नित्यःकाम्योनैमि-
त्तिकश्च । तत्र द्विजातीनामधिकारः । तत्र नित्यः अष्टम-
वर्षादिकाले बिहितः, ब्रह्मवर्चसादिकामस्य पञ्चमादिवर्ष-
विहितः काम्यः, नैमित्तकस्तु पुनःसंस्कारप्रयोजकपापाप-
नोदनार्थं प्रायश्चित्तात्मकः । तत्र नित्यस्य कालोऽपि द्विविधः
मुख्योगौणश्च । तेषु मुख्यकालः “गर्भाष्टमेऽष्टमे वाव्दे ब्रा-
ह्मणस्योपनायनम् । राज्ञामेकादशे सैके विशामेके
यथाकुलम्” मनुः । “गर्भादित्यस्य सर्वत्रानुषङ्गः यथाह आपस्तम्बः
“गर्भाष्टमेषु ब्राह्मणमपनयेत् गर्भैकादशे राजन्यम् गर्भद्वादशे
वैश्यम्” । अत एव “अष्टमे वर्षे ब्राह्मणमुपनयेत् १ गर्भाष्टमे
वा २ । एकादेशे क्षत्रियम् ३ । द्वादशे वैश्यम् ४ । आश्व० सूत्र
वृत्तौ “जन्मप्रभृत्यष्टमे वर्षे ब्राह्मणमुपनयेत् १ । गर्भप्रभृत्थष्टमे
वा २ । जन्मप्रभृति गर्भप्रभृति वा एकादशवर्षे क्षत्रियमुपन-
येत् ३ । जन्मप्रभृति गर्भप्रभृति वा द्वादशेवर्षे वैश्यम् ४ इति
नारायणोपाध्यायः । शङ्खोऽप्याह । “गर्भाष्टमाव्दे कर्त्तव्यं
ब्राह्मणस्योपनायनम् । गर्भादेकादशे राज्ञो गर्भात्तु द्वादशे
विशः” । तत्रापि गर्भाष्टमादिरेव मुख्यःकालः अत एव
मनुना यथाकुलमित्य नेन जन्मतोऽष्टमादीनां कुलानुसारेण
ग्राह्यतामात्रमुक्तम् । तेनास्य कुलानुसारेण उभयोरपि
मुख्यतेत्यपरे आहुः । अतएवानयोः प्रशंसापि दृश्यते ।
“प्राप्ते गर्भाष्टमे वर्षे शुद्धिर्यस्य न विद्यते । तस्योपनयनं
कार्य्यं चैत्रे मीनगते रवौ” व्यवहारचमत्कारः । “शुविर्नैव
गुरुर्यस्य वर्षे प्राप्तेऽष्टसे यदि । चैत्रे मीनगते भानौ
तस्योपनयनं शुभम्” नि० सि० स्मृ० । अत्र शुद्धिश्च
“रबिगुरुशुद्धौ व्रतोद्वाहौ” इत्युक्ता रविगुर्वोर्गोचरश्रुद्धिः ।
किञ्च “अष्टमैकादशे चैव द्वादशाव्दे व्रतस्य च । मुख्यं
कालं विजानीयाद् ब्रह्मक्षत्रविशां क्रमात्” वचने अष्टमादि-
वर्षाणां वर्ण्णभेदेन मुख्यत्वमाह । “गर्भाष्टमेषु ब्राह्मणमुप-
नयेत गर्भैकादशेषु क्षत्रियस्य गर्भद्वादशेषु वैश्यम्” गोभिलः
“व्यक्तमाह माण्डव्यः “व्रतबन्धविवाहे च वत्सरपरिगणन
माहुराचार्य्याः । आधानपूर्व्वमेके प्रसूतिपूर्वं सदान्ये तु” ।
काम्यकालः । “ब्रह्मवर्चसकामस्य कुर्याद्विप्रस्य पञ्चमे । राज्ञो
बलार्थिनः षष्ठे वैश्यस्येहार्थिनोऽष्टमे” मनुः । “षष्ठे तु
बलकामस्य विद्याकामस्य सप्तमे । अष्टमे सर्वकामस्य, नवमे
कान्तिमिच्छतः” नि० सि० विष्णुः । अथ काम्यानि, सप्तमे
ब्रह्मवर्चसकामम्, अष्टमे आयुष्कामं नवमे तेजस्कामं
दशमेऽन्नाद्यकामम्, एकादशे इन्द्रियकामम्, द्वादशे
पशुकामम् उपनयेत्” पैठो० । गौणकालोऽपि द्विविधः मध्यमो-
ऽधमश्च स्वल्पाधिकप्रायश्चित्तनिमित्तताभेदात् । ब्रह्मक्षत्रिय-
विशामुपक्रमे “द्वादश षोड़श विंशतिश्चेदतीता अवरुद्ध-
कालाभवन्ति” पैठी० । ब्राह्मणस्य द्वादशवर्षात् क्षत्रस्य
षोड़शाव्दात् वैश्य स्य विंशत्यव्दात् उत्तरं अवरुद्धका-
लतादोषश्रवणात् तत्र महाव्याहृतिहोमरूपं प्रायश्चित्तं
विप्रादेः षोड़शाद्यतीतत्वे चान्द्रायणादि गुरु प्रायश्चित्त-
मिति भेदः एवमेव सं० त० रघु० । तथा च
गौणकालमध्ये द्वादशाब्दादयो मध्याः तदुत्तरमधम इति भेदः
तत्राधमगौणस्तु । “आषोड़शाद् ब्राह्मणस्य सावित्री नाति
वर्त्तते । आ द्वाविंशात् क्षत्रबन्धोरा चतुर्विंशतेर्विशः”
मनुः “आ षोड़शाब्दात् द्वाविंशाच्चतुर्विंशाच्च वत्सरात् ।
ब्रह्मक्षत्रविशां काल औपनायनिकः परः” या० स्मृ० । तत्र
आ इत्यस्य सर्वत्रान्वयः आङ् चात्राभिविधौ न मर्यादायाम्
“षोड़शाव्दो हि विप्रस्य राजन्यस्य द्विविंशतिः । विंशतिः
सचतुर्थी च वैश्यस्य परिकीर्त्तिता” विष्णुध० उक्तेः । अतः
षोड़शाद्यव्दानामुपनयकालता । “अत ऊर्द्ध्वं त्रयोऽप्येते
यथाकालमसंस्कृताः । सोवित्रीपतिताः व्रात्या
भवन्त्यार्य्यविगर्हिताः” मनुः । अत्र सर्वत्र गर्भावधिषो-
ड़शादव्दाग्राह्याः “सावित्री पतिता यस्य दश वर्षाणि पञ्च
च । ब्राह्मणस्य विशेषेणेति” यमवचने पञ्चदशवर्षातिक्रमे
गुरुपायश्चित्तविधानात्” एतच्च जन्मावधिपरं तेन षोड़शा-
व्दादिभिः सममवविरुद्धम् एवमेव सं० त० रघु० । पञ्च-
दशपदञ्च द्विमासाधिकपञ्चदशपरमिति कल्प्यते सर्वसा-
मञ्जस्यात् अतएव “पञ्चदशवर्षादूर्द्धमपि कियत्कालातिक्रमे
तूद्दालकव्रतमिति” वदता मिताक्षराकृता तथैव सूचितम् ।
एवं तत्तर्ण्णभेदेन सामान्यकाले निरूपिते इदानीं शुभमूचक
पृष्ठ १२१७
विशेषकालोऽभिधीयते । तत्रादौ वर्णभेदेन ऋतुभेदस्य
मुख्यता यथा ह प्रमि० कश्यपः । “ऋतौ वसन्ते विप्राणां
गीष्मे राज्ञां शरद्यथो । विशां मुख्यञ्च सर्व्वेषां द्विजा-
नाञ्चोपरायनम्” । नारदः “शरद्ग्रीष्मवसन्तेषु व्युत्क्र-
माच्च द्विजन्मनाम् । मुख्यं साघारणं तेषां व्रतं माघा-
दिपञ्चसु” । नि० सि० गर्गः । “विप्रं वसन्ते क्षितिपं
निदाघे वैश्यं घनान्ते व्रतिनं निदध्यात् । माघादिशुक्रा-
न्तकपञ्चमासाः साधारणं वा सकलद्विजानाम्” ।
शुक्रोज्यैष्ठः । माघादिमासप्राशस्त्यमाह हेमाद्रौ ज्योतिषे” ।
“माघादिषु च मासेषु मौञ्जी पञ्चसु शस्यते” । अन्य-
त्रापि । “ब्राह्मणक्षत्रवैश्यानां माघादिष्वपि पञ्चसु ।
साधारणं तु सर्व्वेषां व्रतोपनयनं विदुः” । तत्र
मासभेदे फलभेदः यथाह व्यव० च० सुरेश्वरः” । “माघे मासि
भहागुणोधनपतिः प्राज्ञोधनी फाल्गुने मेधावी भवति
व्रतोपनयने चैत्रे च वेदान्वितः । वैशाखे सुभगः सुखी
पटुमतिर्ज्यैष्ठे वरिष्ठोबुधोऽप्याषाढेऽपि महाविपक्षवि-
जयी ख्यातो महापण्डितः” । कृत्यचि० “माघे
द्रविणशीलाढ्यः फाल्गुने च दृढव्रतः । चैत्रे भवति
मेधावी वैशाखे कोविदोभवेत् । ज्यैष्ठे गहननीतिज्ञ
आषाढ़े कतुभाजनम् । शेषेष्वन्येषु रात्रिः स्यान्निषिद्धं
निशि च ब्रतम्” । निषिद्धमिति विप्रक्षत्रियविषयं न वैश्य
परं तस्य “शरदि वैश्यमिति” श्रुत्या प्रागुक्तकाश्यपेन च
शरय्युपनयनविधानात् । यत्तु “विप्रस्य क्षत्रियस्यापि
व्रतं स्यादुत्तरायणे । दक्षिणे च विशां कार्य्यं नानध्याये
न संक्रमे” इति गर्गवचने चकारात् विप्रक्षत्रयोर्द-
क्षिणायने उपनयविधानं तत् प्रायश्चित्तोपनयनपर-
नितिं स० त० रघु० । वस्तुतः चस्त्वर्थे दक्षिणायने
तु वैश्यस्य मुख्योपनयनपरम् “उदगयने आपूर्य्यमाणे पक्षे
कल्याणे नक्षत्रे चूड़ोपनयनगोदानविवाहाः” आश्व०
सूत्रं तु विप्रक्षत्रविषयम् । प्रायश्चित्तोपनयनपरत्वे
“नानध्याये न संक्रमे” इति पर्य्यृदासानुपपत्तिः अग्रे प्रदर्श-
यिष्याणगर्गवचनेन प्रायश्चित्तोपनयनस्यानध्यायेऽपि कर्त्तव्य-
तावगमात् । “जन्मलग्ननक्षत्रमासराशिषु उपनयनप्राशस्त्य-
माह” कृत्यचि० लल्लः । “जन्मोदये जन्मसु तारकासु
मासेऽथवा जन्मनि जन्मभे वा । व्रतेन विप्रो न
बहुश्रुतोऽपि विद्याविशेषेः प्रथितः पृथिव्याम्” । “विवाहे
मेखलावन्धे जन्ममासं विवर्ज्जयेत् । विशेषाज्जन्मपक्षन्तु
वशिष्ठाद्यैरुदाहृतम्” गर्गवाक्यं तु क्षत्रियवैश्यपरम् न
तु ब्राह्मणविषयं लल्लवाक्यविरोधात्” । अथ पक्ष-
निर्ण्णयः व्य० च० । “श्रेष्ठं पक्षमुशन्ति शुक्लमसितस्याद्यं
त्रिभागं तथा रिक्तां प्रोज्झ्य तिथिं तथा त्वयनयोः
सन्धिञ्च शेषाः शुभाः” इति आपूर्य्यमाणे पक्षे इत्या-
दिप्राप्रक्ताश्वलायनसूत्रम् “पक्षे च कृष्णेतरेः”
भुजबलभीमः । तिथिनिर्णयः । निर्णया० “तृतीयैकादशी
ग्राह्या पञ्चमी द्वादशी तथा” । “द्वित्रीषु रुद्ररविदिक्-
प्रमिते तिथौ च कृष्णादिमत्रिलवकेऽपि न चापराह्णे”
मु० चि० । निर्ण्णया० व्यव० चम० । “न च षष्ठ्यामथा-
ष्टम्यां पञ्चदश्यां न पर्व्वणि । रिक्तासु च न कर्त्तव्यं
त्र्यहस्पृग्दिवसे तथा” । अष्टमीपञ्चदश्योरनध्य । यत्वेऽपि
पृथगुपादानं नैमित्तिकविषयमेवमग्रेऽपि । “षष्ठ्यामशुचिर
भार्य्यो रिक्तासु बहुदोषभाक्” सं० त० । “रिक्तायाभर्थहानि
स्यात् पौर्ण्णमास्यान्तथैव च । प्रतिपद्यपि चाष्टम्यां कुल
वुद्धिविनाशनमिति” । अन्यत्रापि “सप्तम्यामष्टम्याम्प्रति
पदि रिक्तात्रयोदश्याम् । आयुर्व्विद्यानाशोब्रतवन्धे
पञ्चदश्याञ्च” । “द्वितीया पञ्चमी षष्ठी सप्तमी दशमी तथा ।
त्रयोदशी तृतीया च शुक्ले श्रेष्ठोः प्रकीर्त्तिता” इत्यत्र
ससप्तमीत्रयोदश्योर्यंत् प्राशस्त्यमुक्तं तद्वसन्ताभिप्रायेण ।
नि० सि० नारदेन व्यतिरेकमुखेण वसन्ते गलग्रहादि-
प्रतिप्रसवोक्तेः । यथा “विनर्त्तुना वसन्तेन कृष्णपक्षे
गलग्रहे । अपराह्णे चोपनीतः पुनः संस्कारमर्हति” ।
गलग्रहमाह मदनरत्ने नारदः । “कृष्णपक्षे चतुर्थी च सप्त-
म्यादिदिनत्रयम् । त्रयोदशी चतुष्कञ्च अष्टावेते
गलग्रहाः” । रा० मा० “आरम्भानन्तरं यत्र प्रत्यारम्भोन
विद्यते । गर्गादिमुनयः सर्व्वे तमेवाहुः गलग्रहम्” ।
दैवज्ञमनोहरे । “प्रदोषे निश्यनध्याये सन्ध्यागर्ज्जे
गलग्रहे । मधुं विनोपनीतस्तु पुनः संस्कारमर्हति” । एवं दिवा-
चतुर्द्ददीगस्त्रयोदृश्यां यदा भवेत् । द्वादशी तत्र वर्ज्ज्या
स्यात् गलग्रहतया मतेति ज्यो० वचनात् तादृशद्वादश्या-
वर्ज्यता । वृद्धगर्गः । “स्मृतिषूक्तान ध्यायान् सप्तमीञ्च
त्रयोदशीम्” वर्जयेदित्यनुषङ्गः । तत्रानध्यायप्रदोषकालौ
अनध्यायशब्दे १४५ पृ० दर्शितौ “अनध्याययेऽपि कर्त्तव्यं
यस्य नैमित्तिकं भवेत्” वृद्धगर्गवचनात् “प्रायश्चित्तोप-
नयनेऽनध्यायस्य न दूषकताऽपिकारात् कृष्णपक्षगल-
ग्रहायीः समुच्चयः । “नो जीवास्तातिचारे सितगुरु-
दिवसे कालशुद्धौ व्रतं सत्” दीपिकोक्तेः समया-
शुद्धिमात्रं वर्ज्जनीयम् । गुरुशुक्रास्तादिषूपनयने दोष-
पृष्ठ १२१८
माह तत्रैव । “अस्तङ्गते दैत्यगुरौ गुरौ वा ऋक्षेऽपि
वा पापयुतेऽप्यनुक्ते । व्रतोपनीतो दिवसैः प्रणाशं प्रयाति
देवैरपि--रक्षितोयः” । नक्षत्रनिर्णयः सं० त० भुजब०
“स्वातीशक्रधनाश्विमित्रकरभे पौष्णेज्यचित्राहरिष्विन्दौ
तोयपतौ भगे दितिसुते भाद्रद्वये सागरे” १५, १८, २३,
१, १७, १३, २७, ८, १४, २२, ५, २४, ११, १२, २५, २६, २०
एतत्संख्यकेषु सप्तदशसु नक्षत्रेषु उपनयनं सत् । मु० चि०
प्रमि० विशेषः “क्षिप्रध्रुवाहिचरमूलमृदुत्रिपूर्वारीद्रेऽर्क-
विद्गुरुसितेन्दुदिने व्रतं सत्” अस्य व्याख्या प्रमि०
“प्राजापत्यादि षडृक्षे भगर्क्षादिषु पञ्चसु । मूलादिदशके
चैव समैत्रे व्रतबन्धनम्” । तेन २२ द्वाविंशतिर्नक्षत्राणि
विहितानि । अत्र पुनर्वसुग्रहणं क्षत्रियवैश्यविषयं न तु
ब्राह्मणविषयम् “पुनर्वसौ कृतोविप्रः पुनः संस्कारमर्हतीति
राजमा० । “त्र्यहस्पृशि मले मासि शूद्रत्वमधिगच्छति ।
पुनर्वसौ कृतोविप्रः पुनः संस्कारमर्हतीति” सारसंग्रहे”
च विप्रोपनयननिषेधात् । तथा च “भरणीकृत्तिकाम-
घाविशाखाज्येष्ठासूपनयनं न कार्य्यम् एतानि नक्ष-
त्राणि च सर्वशास्वामलयप्रायाणि यथोक्तं तत्रैव “भरणी
कृत्तिकापित्र्यविशाखाशक्रभानि च । सर्वशाखामलं प्रोक्तं
व्रतं तत्र विवर्ज्जयत्” । वेदिभेदे नक्षत्रभेदो यया ज्यो-
तिर्निबन्धे व्यव० च० च । “मूलहस्तात्रये सार्पे शैवे पूर्वात्रये
तथा । “ऋग्वेदाध्यायिनां कार्यं मेस्वलाबन्धनं बुधैः” १९,
१३, १४, १५, ९, ६, ११, २०, २५, एतन्मितानि
ऋग्वेदिविषयाणि “पुष्ये पुनर्वसौ पौष्णे २७ हस्ते
मैत्रे १७ शशाङ्कभे ५ । ध्रुवेषु १२, २१, २६, ४ च
प्रशस्तं स्याद्यजुषां मौञ्जीबन्धनम्” । पुष्यपासव २३ हस्ता-
श्विशिव६ कर्णोत्तरात्रयम् २२, १२, २१, २६ । प्रशस्तं
मेखलाबन्धे वटूनां सामगायिनाम्” । भगो ११ मैत्रा १७
श्विनीहस्तारेवत्यदिति ७ वासवम् २३ । अथर्वपाठिनां
शस्तोभगणोऽयं व्रतार्पणे” । नि० सि० । “पूर्वा ११, २०, २५,
हस्तात्रये १३, १४, १५, सार्पे ९ श्रुतिमूले” च २२, २९, बह्वृ-
चाम् । यजुषां पौष्णमैत्रार्कादित्यपुष्यमृदुध्रुवैः ।
सामगानां हरीशार्कवसुपुष्योत्तराश्विनी । धनिष्ठादितिमैत्रार्का-
श्वेन्दुपौष्णेष्वथर्वणाम्” ५, २७, । अन्यत्रापि । “पूर्वा-
हस्तत्रयाऽश्लेषाशिवमूलानि भानि च । ऋग्वेदाध्यायिनां
शस्तभान्याहुर्ब्रतबन्धने । उत्तरारोहिणीयुग्मपुष्यापौष्णक-
रादितौ । मेत्रे यजुर्विदाञ्चोपनयनन्तु प्रशस्यते । उत्तरा-
श्रवणार्द्राश्विपुष्याहस्ताधनेषु च । सामगानां व्रतं शस्त
मिति वेदविदोविदुः । अश्विनी रेवती हस्ता भगमैत्र-
धनादितौ । अथर्ब्बवेदिनाञ्चोपनयनन्तु शुभावहमिति”
प्रमि० धृतप्रागुक्तवचने ज्येष्ठायामलत्वेनोक्तावपि प्रागुक्तभुज
जलादिवचने “अश्विनीमृगचित्रासु हस्ते स्वात्याञ्च
शक्रभे । पुष्ये च पूर्व्वफल्गुन्यां श्रवणे पौष्णभे तथा ।
वासवे शततरासु व्रतबन्धः प्रशस्यते” श्रीपतिवचने
च ज्येष्ठायाग्रहणमत्यन्तापद्विषयम् । वेदभेदेन विहित
नक्षत्रेषु तस्याः अकीर्त्तनेऽपि वेदभेदेन प्राशस्त्यमात्रत्व
प्रतीतेस्तदलाभेऽन्यवेदिविहितनक्षत्रस्यापि ग्रहणार्थं मुहू०
चि० द्वाविंशतिनक्षत्राणां सामान्यतो ग्रहणवदत्रापि तथेति
बोध्यम् । ज्येष्ठायास्त्वत्यन्तापद्विषय एव ग्राह्यता केष्वपि वेदिषु
तदनुक्तेःव्यव० च० गुरुः । “त्रिषूत्तरेषु रोहिण्यां हस्ते मैत्रे
च वासवे । त्वाष्ट्रे सौम्यपुनर्वस्वोरुत्तमं ह्यौपनायनम् ।
वारुणे वैष्णवे पुष्ये वायव्ये पौष्णभे तथा । अश्विन्यां
षट्सु भेषूक्तं मध्यमं तु चतुर्मुखैः । शेषेषु वर्जयेद्धी-
मान् द्विजानामौपनायनम्” अत्रान्येषां वर्ज्ययोक्तिरपि
अनापद्विषया” एतदरिक्तनक्षत्राणां प्रागुक्तवचनैर्विहि-
त्वात् । ज्योतिर्निबन्धे नारदः । “श्रेष्ठान्यर्कत्रयान्त्येज्य-
चन्द्रादित्युत्तरात्रयम् । बिष्णुत्रयाश्विमित्राब्जयोनिभान्यु-
पनायने” । वर्जनीययोगानाह व्यव० च० गुरुः । “व्याघातं
परिघं वज्रं व्यनीपातञ्च वैधृतिम् । गण्डातिगण्डौ
शूलञ्च विस्कुम्भञ्च विवर्ज्जयेत्” अन्यत्रापि । “विष्कुम्भ-
शूलपरिघव्यतिपातगण्डव्याघातवैधृतियुतं त्वतिगण्ड
व्रज्रम् । योगं विहाय कुजमन्दपराह्णसन्ध्यां हित्वा निरं
शमशुभञ्च व्रतं प्रशस्तम्” प्रमिता० । “क्षीणचन्द्रेऽस्तगे
शुक्रे निरंशे चैव भास्करे । कर्त्तव्यं नोपनयनं
नानध्याये गलग्रहे” । निरंशसूर्यमाह तत्रैव । “राशेः
प्रथमभागस्थो निरंशः सूर्य उच्यते” । तेन रघुनन्दनेन
निरंशशब्दस्य संक्रान्तिपरत्वस्य कल्पनं चिन्त्यम् । वारनिर्ण-
यमाह नारदः । “आचार्य्यसौम्यकाव्यानां वाराः शस्ताः
शशीनयोः । वारौ मध्यफलौ प्रोक्तावितरौ निन्दितौ व्रते”
तत्राप्यस्तमितस्य बुधस्य वारोवर्जनीयः । “अस्तं गतस्य
सौम्यस्य वारो वर्ज्योद्विजन्मनामिति” नारदोक्तेः । अन्य-
त्र तु । “शुभो बुधोनास्तमितः पापग्रहयुतो न चेति” ।
चन्द्रवारस्तु कृष्णे वर्ज्जनीयः । “पापग्रहाणां वाराः
स्युर्न शुभाश्चन्द्रवासरः । सितपक्षे प्रशस्तः स्यात्
कृष्णे वारोविधोनंहीति” व्य० च० उक्तेः । सामागानां
कुजवारेऽप्युनयनमुक्तं श्रीपतिना । “शाखाधिपे बलिनि
पृष्ठ १२१९
केन्द्रगतेऽथवास्मिन् वारेऽस्य चोपसयनं कथितं
द्विजानाम् । नीचस्थितेऽरिगृहगेऽऽथ पराजिते वा जीवे-
मृगावुपनयः स्मृतिकर्महीनः” । ज्योतिर्निवन्धे नारदः
“सर्वषा जीवशुक्र ज्ञवाराः प्रोक्ता व्रते शुभाः । चन्द्रार्कौ मध्य
मौ ज्ञेयौ सामब हुजयोः कुजः । शाखाधिपति-
वाराश्च शाखाधिपबलं तथा । शाखाधिपतिलग्नञ्च दुर्लभं
त्रितयं व्रते” । मु० चि० “शाखेशवारतनुवीर्य्यमतीव
शस्तं शाखेशसूर्यशशिजीवबले व्रतं सत् । जीवे भृगौ रि
पुगृहे विजितेऽथ नीचे स्याद्वेदशास्त्रविधिना रहितो-
व्रतेन” । वशिष्ठः “शाखेशगुरुशुक्राणां मौढ्ये बाल्ये
च वार्द्धके । नैवोपनयनं कार्य्यं वर्णेशे दुर्बले सति” ।
तेन भौमबुधयोरस्तादिषु सामगाथर्वणशाखिनोरुपन-
यनादि न भवतीति गम्यते । तत्र नीचाद्यवस्थितत्वे स्वनवां-
शस्वोच्चांशस्थितत्वेन शाखेशादेरपवादमाह वशिष्ठः “शत्रु-
नीचांशशत्रुस्थे स्वांशे वा स्वोच्चभागगे । शाखेशे वा गुरौ
शुके न नीचफलमश्नुते” । शाखेशवर्णेशास्तु । “विप्राधी
शौ भार्गवेज्यौ कुजार्कौ राजन्यानामोषधीशोविशाञ्च ।
शूद्राणां ज्ञश्चान्त्यजानां शनिः स्याच्छाखेशाःस्युर्जीवशुक्रार-
सौम्याः” मु० चि० “ऋग्वेदाऽथ यर्जुर्वेदः सामवेदो-
ह्यथर्वणः । वेदानामधिपोजीवशुक्रभौमबुधाः क्रमात्”
गुरुः । “ऋग्वेदाधिपतिर्जीवोयजुर्व्वेदाधिपो भृगुः ।
सामवेदाधिपो भौमः शशिजोऽथर्व्ववेदराट” दीपिका ।
लग्नभेदे फलमाह व्यव० च० वशिष्ठः । “मेषे भवति
वाक्कुण्ठो वित्तविद्यार्ज्जितो वृषे । युग्मे वेदार्थदर्शी च
कुलीरे च षड़ङ्गवित् । शिल्पकर्म्मकरः सिंहे षष्ठे भवति
पण्डितः । तुलायां विनयप्राप्तः काण्डस्पृष्ठोऽथ दृश्चिके ।
सर्व्वत्र पूजितश्चापे शूद्रवृत्तिर्मृगे तथा । राजप्रेष्यान्वितः
कुम्भे मीने वेदान्तपारगः” । लग्नकेन्द्रस्थरव्यादि ग्रहफल-
माह मु० चि० “राजसेवी वैश्यवृत्तिः शस्त्रवृत्तिश्च पाठकः
प्राज्ञोऽर्थवान् म्लेच्छसेवी केन्द्रे सूर्य्यादिखेचरे” व्यव०
च० गुरुः । “रवौ लग्नादिकेन्द्रस्थे दोषः स्फुरित-
संज्ञकः । तत्रोपनीतस्य शिशोः कुलनाशो भवेत् तदा,
कुजे लग्नादिकेन्द्रस्थे दोषः कूजितसंज्ञकः । तत्रोपनीतं
वक्तारं हन्ति वर्षान्न संशयः । शनौ लग्नादिकेन्द्रस्थे दोषो-
रुदितसंज्ञकः । करोति महतीं पीड़ां व्रतिनो वा गुरो-
स्तथा । राहौ लग्नादिकेन्द्रस्थे दोषोरन्ध्राह्वयोभवेत् ।
व्रातनोजननीं हन्ति चाथबा धनसञ्चयम् । केतौलानादि-
केन्द्रस्थे दोषश्च ग्राससंज्ञकः । समग्रं व्रतिनोवृत्ति-
वित्तविद्याविनाशनम्” । लग्नषष्ठाष्टमान्त्यस्थः करोत्येव
निशाकरः । व्रतिनोदेहमथनं निधनं दुःखसञ्चयम्” ।
वशिष्ठः “विशेषान्निधनस्थाने ग्रहान्नेच्छन्ति सर्व्वदा ।
आचार्य्यन्त्वशुभा घ्नन्ति शिष्यं घ्नन्त्यशुभेतराः” । “केन्द्र-
त्रिकोणगे जीवे भानौ शुक्रेऽथवा व्यये । द्वितीये ज्ञे
शुभोयोगो द्विजानामौपनायने” । लग्नावधिकस्थानमेदे
ग्रहविशेषस्थितौ फलभेदमाह काश्यपः “षष्ठाष्टमं विना
जीवः सर्व्वत्र शुभकृत् सदा । सर्व्वत्र शुभकृच्छुक्रः षष्ठसप्ता-
ष्टमं विना । भास्करोलग्नगः कुर्य्याद्वटुं भूपतिसेवकम् ।
वसुस्थः स्वर्णरहितं भ्रातृस्थः सुखिनं सदा । बन्धुगोदुः-
खिनं नित्यं सुतगोमतिवर्ज्जितम् । शत्रुगोरोगरहितं
सप्तमे मार्गवर्ज्जितम् । अष्टमे दृष्टिरहितं नवमे धर्म्म-
हारिणम् । व्यापारगोभिषग्वृत्तिं दीर्घायुष्यं तथा
ऽऽयगः । रिप्फगोहानियुक्तञ्च फलमेतद्गुरावपि । सिते
चन्द्रे लग्नसंस्थे शुभं स्यादसितेऽशुभम् । वसुगे स्याद्धनप्रा-
प्तिस्तृतीये सुखसंस्थितिः । चतुर्थे बुद्धिवृद्धिं च पञ्चमे
सौख्यमुत्तमम् । षष्ठे तु व्याधिपीड़ा स्यात् सप्तमे सुखस-
न्ततिः । अष्टमे निर्धनः प्राणी नवमे धर्म्मसञ्चयः ।
दशमे स्यात् सदाचारो लाभे स्याद्धनसञ्चयः । दारिद्र्यं
रिप्फगे विद्याच्चन्द्रे फलमुदाहृतम् । मृतिर्नाशः सुखं का
र्य्यहानिर्वृद्धिर्मृतिर्गदः । अधर्मोदुम्मतिर्वृद्धिर्नाशो लग्नात्
कुजे फलम् । बुद्धिर्वृद्धिर्वित्तनाशो लाभः पुत्रोमृतिः
सुखम् । आयुःक्षयो धर्मसौख्ये कोषलाभः क्षयः क्रमात्
सौम्ये लग्नादिराशीनां फलमेतदुदाहृतम् । निन्दां हानिं
सुखं रोगं द्यूतङ्कामं जड़ं मतिम् । विपत्क्लेशं सुखं
मृत्युमुदयात् कुरुते शनिः । चन्द्रे विशेषमाह लल्लः ।
“पापात् सप्तमगञ्चन्द्रं पापग्रहेण वा युतम् । व्रते
विवर्ज्जयेद् यत्नाद्दोषमाहुर्मनीषिणः । तत्फलं तत्रैव “पाप-
ग्रहात् सप्तमगं शशाङ्कं पापग्रहेणापि युतञ्च हित्वा ।
ब्रतं प्रशस्तं मुनयोवदन्ति नोचेत्तदा मृत्युमुपैति शीघ्रम्” ।
गुरुस्तु । “पापग्रहेक्षिते लग्ने जीवितार्थी न कारयेत् ।
चन्द्रो वा क्रूरदृग्युक्तो मूढ़त्वं संप्रयच्छति” ।
वर्ज्ययोगमाह मु० चि० “कवीज्यचन्द्रलग्नपारिपौ
मृतौ व्रतेऽधमाः । व्ययेऽब्जभार्गवौ तथा तनौ
मृतौ सुते खलाः” । अन्यत्रापि । “लग्नाघिनाथसितजीव
निशाधिनाथान् षष्ठाष्टमे व्ययगतावपि चन्द्रशुक्रौ ।
लग्नाष्टपञ्चमगतानशुभग्रहांश्च यत्नात् त्यजेद्व्रतविधौ
मुनयोवदन्ति” । सारसंग्रहे । “मेखलाबन्धकाले तु सर्व्वदा
पृष्ठ १२२०
पञ्चमङ्गृहम् । शुभयुक्तं प्रशंसन्ति तदालोकितमेव वा” ।
योगान्तरमाह प्रमि० महेश्वरः । “जीवे लग्नमधिष्ठिते
भृगुसुते धर्मात्मजस्थे विधौ शुक्रांशेऽखिलवेदविद्रविसुत-
स्यांशे कृतघ्नोऽधमः” । तत्रैव स एव । “विधौ सितांशगे
गुरौ तनौ त्रिकोणगे भृगौ । समस्तवेदविद्व्रती यमांशके-
ऽतिनिर्घृणः” । नवांशफलमाह व्यव० च० गुरुः । “गुरु-
ज्ञशुक्रांशकगे च चन्द्रे विद्याधनायुःसुखवान् द्विजन्मा ।
माहेयमन्दार्कनवांशकस्थे हिंस्रो जड़ो मूर्खतरीऽतिनिःस्वः”
मु० चि० । “क्रूरो जड़ो भवेत् पापः पटुः षट्कर्म-
कृद्वटुः । यज्ञार्थभाक् तथा मूर्खोरव्याद्यंशे तनौ क्रमात् ।
विद्यानिरतः शुभराशिलवे पापांशगते हि दरिद्रतरः ।
चन्द्रे स्वलवे बहुदुःखयुतः कर्णादितिभे धनवान् स्वलवे” ।
प्रमि० नारदः “श्रवणादितिनक्षत्रे कर्कांशस्थे निशा-
करे । तदा व्रती वेदशास्त्रधनधान्यसमृद्धिमान्” ।
एतच्छुक्लपक्षविषयम् “शुक्ले स्वांशे निशानाथे वित्तवान्
यज्ञकृद्भवेत् । कृष्णे स्वांशगतश्चन्द्रोजातिभ्रंशङ्करोति हि”
वशिष्ठोक्तेः “रविगुरुशुद्धौ व्रतोद्वाहौ” इत्युक्तेर्व्रते गुरु-
शुद्धिरावश्यकी । तत्र गुरुशुद्धौ विशेषमाह” मु० चि०
“वटुकन्याजन्मराशेस्त्रिकोणायद्विसप्तगः । श्रेष्ठोगुरुः ख
षट्त्र्याद्ये पूजयाऽन्यत्र निन्दितः” । “स्वोच्चे स्वमे स्वमैत्रे
वा स्वांशे वर्गोत्तमे गुरुः । रिप्फाष्टतुर्य्यगोऽपीष्टो नीचा-
रिस्थः शुभोऽप्यसन्” अत्र जीवस्य नीचस्थत्व इव
अरिगृहस्थत्वेऽपि वर्ज्यता प्रतीयते अतएव “जन्मभादष्टमे
सिंहेनीचे वा शत्रुभे गुरो! मौञ्जीबन्धः शुभः प्रोक्त-
श्चैत्रे मीनगते रवाविति” निर्णयसिन्धुधृतवचने
मीनगतरविकालएव प्रतिप्रसवसार्थक्यम् । एतेन “शाखाधिपे
बलिनि” इत्यादिवाक्ये उपक्रमे शाखाधिपश्रवणात्
गुरोररिगृहस्थत्वे तस्य ऋग्वेदाधिपतया तद्वेदिनामेवो-
पनयननिषेधकल्पनमपि निरस्तम् “शाखेशसूर्य्यशशिजीवबले”
इत्यादिप्रागुक्तवचने शाखेशात् पृथक्त्वेन जीवस्य ग्रहणे-
नारिगृहस्थत्वेऽपि सर्ववेदिनां दोषस्यावश्यकत्वात् एतेन
“नीचस्थितेऽरिगृहगेऽथ पराजिते वा जीवे भृगौ”
इत्यादिवचने क्रमान्वयं वदन् परास्तः तथात्वे प्रति-
प्रसवानर्थक्यापत्तेः । अन्यदाकरे दृश्यमिति दिक्
तत्तद्विद्याग्रहणार्थे ३ कर्म्मभेदे तत्र चिकित्साविद्याङ्गो
पनयनप्रकारो दर्शितः सुश्रुतेन यथा ।
“अथातः शिष्योपनयनीयमध्यायं व्याख्यास्यामः ।
ब्राह्मणक्षत्रियवैश्यानामन्यतममन्वयवयःशीलशौर्यशौचा-
चारविनयशक्तिबलमेधाधृतिस्मृतिमतिप्रतिपत्तियुक्तं
तनुजिह्वौष्ठदन्ताग्रमृजुवक्त्राक्षिनासं प्रसन्नचित्तवाक्चेष्टं क्लेश-
सहञ्च भिषक् शिष्यमुपनयेत् । ततो विपरीतगुणं नोपनयेत्
उपनयनीयस्तु ब्राह्मणः प्रशस्तेषु तिथिकरणमुहूर्त्तनक्षत्रेषु
प्रशस्तायां दिशि शुचौ समेदेशे चतुर्हस्तं चतुरस्रं स्थण्डिलमुप-
लिप्य गोमयेन दर्भैः संस्तीर्य पुष्पैर्लाजभक्तैरत्नैश्च देवतां
पूजयित्वा विप्रान् भिषजश्च, तत्रोल्लिख्याभ्युक्ष्य च दक्षिणतो
ब्रह्माणं स्थापयित्वाग्निमुपसमाधाय खदिरपलाशदेवदारु-
विल्वानां समिद्भिश्चतुर्णां वा क्षीरवृक्षाणां न्यग्रोधोडुम्बरा-
शात्थमधूकानां दधिमधुघृताक्ताभिः, दर्व्व्या हौमिकेन
विधिना स्रुवेणाज्याहुतीर्जुहुयात् । सप्रणवाभिर्महाव्या-
हृतिभिस्ततः प्रतिदैवतमृषींश्च स्वाहाकारञ्च कुर्यात्
शिष्यमपि कारयेत् । ब्राह्मणस्त्रयाणां वर्णानामुपनयनं कर्त्तु
मर्हति राजन्यो द्वयस्य, वैश्यो वैश्योस्यैवेति । शूद्रमपि
कुलगुणसम्पन्नं मन्त्रवर्जमनुपनीतमध्यापयेदित्येके ।
ततोऽग्निं त्रिःपरिणीयाग्निसाक्षिकं शिष्यं ब्रूयात् ।
कामक्रोधलोभमोहमानाहङ्कारेर्ष्यापारुष्यपैशुन्यानृतालस्यायश-
स्यानि हित्वा नीचनखरोम्णा शुचिना कषायवाससा
सत्यव्रतब्रह्मचर्याभिवादनतत्परेणाऽवश्यं भवितव्यं मदनुम-
तस्थानगमनशयनासनभोजनाध्ययनपरेण भूत्वा मत्प्रियहि-
तेषु वर्त्तितव्यमतोऽन्यथा ते वर्त्तमानस्याधर्मो भवत्यफला
च विद्या न च प्राकाश्यं प्राप्नोति । अहं वा त्वयि सम्य-
ग्वर्त्तमाने यदन्यथादर्शी स्यामेनोभाग्भवेयमफलविद्यश्च ।
द्विजगुरुदरिद्रमित्रप्रब्रजितोपनतसाध्वनाथाभ्युपगतानां
चात्मबान्धवानामिव स्वभेषजैः प्रतिकर्त्तव्यमेवं साधु
भवति । व्याधशाकुनिकपतितपापकारिणां न च प्रति
कर्त्तव्यमेवं विद्या प्रकाशते मित्रयशोधर्मार्थकामांश्च प्रा-
प्नोति” एवं धनुर्विद्याग्रहणाङ्गमप्युपनयनं द्रष्टव्यम् ।
उपनयनाय हितम् छ । उपनयनीय उपनयनावेदके
शास्त्रे त्रि० तत्र साधु छ । उपनयनीय उपनयनकारके
गुरौ पु० । उभयस्य उदा० उक्त सुश्रुतवाक्ये दर्शितम् ।

उपनहन न० उप + नह--बन्धने भावे ल्युट् । १ बन्धने करणे

ल्युट् । २ बन्धनसाधने वस्त्रादौ । “प्रेष्यति च सोमोपन-
हनमाहर” कात्या० ७, ७, १ । सोम उपनह्यते बध्य ते
येन तत् सोमोपनहनं वासः” कर्कः । “आसन्द्यैनमवभृतं
हृत्वाभ्युक्ष्य सोमोपनहनेन” कात्या० २२, ६, १३ । “अथ
संप्रेष्यति सोमोपनहनमाहर” यजमानो वा सोसोपन-
हनमादत्ते” शत० ब्रा० ३, ३, २, ३, ४ ।
पृष्ठ १२२१

उपनागरिका स्त्री “माधुर्य्यव्यञ्जकैर्वर्ण्णैरुपनागरिकेष्यते”

इत्युक्तलक्षणे व्र्त्त्यनुप्रासवृत्तिभेदे । यथा “अपसारय घनसारं
कुरु हारं दूरएव किं कमलैः । अलमालि! मृणालैरिति
वदति दिवानिशं बाला” ।

उपनामुक त्रि० उप + नम--बा० उकञ् । १ सन्नमनशीले २

फलानुगुण्याय प्रस्तुते “यदिष्टिभिर्यजेतोपनामुक एनं यज्ञः स्यात्
यमाप्नोत्युपनामुक एनम्” शत० ब्रा० १३, ३, ६, ६, ७ ।

उपनाय पु० उपनाययति उप + नी--णिच् करणस्य कर्त्तृत्व-

विवक्षायाम् कर्त्तरि अच् । उपनयसंस्कारे हेम०
तस्य आचार्य्यसमीपनयनसम्पादनकरणत्वात्तथात्वम् ।

उपनायक पु० उपगतोनायकम् अत्या० स० । १ नायकसदृशे

उपपतौ “नायकस्य गुणोत्कर्षकथका उपनायकाः” संगी-
तोक्ते २ नायकसहायभेदे उप + नी--ण्वुल् । ३ उपस्थापके
त्रि० ज्ञानलक्षणारूपसन्निकर्षे पु० । उपनयशब्दे उदा० ।

उपनायन न० उप + नी--स्वार्थे--णिच्--ल्युट् करणे कर्त्तृत्व-

विवक्षायां कर्त्तरि नन्द्या० ल्यु वा । उपनयसंस्कारे ।
उपनयनशब्दे बहुप्रयोगो दृश्यः । “व्राह्मणस्योपनायनम्”
मनुः । उपनायनं प्रयोजनमस्य ठक् । औपनायनिक
उपनयनप्रयोजने विधाने त्रि० । “एष प्रोक्तो द्विजातीना-
मौपनायनिकोविधिः” मनुः औपनायनिक इत्यत्र कूल्लू०
अनुशतिकादिकादित्वकल्पनमनाकरमेव उपनाथनशब्देनैव
तद्रूपसिद्धेस्तथाकल्पनानौचित्यात् ।

उपनाह पु० उप + नह--घञ् । १ वीणायास्तन्त्रीबन्धनस्थाने,

१ व्रणाद्युपशमार्थं लेपनद्रव्ये च । “आदौ विम्लापनं कुर्य्यात्
द्वितीयमवसेचनम् । तृतीयमुपनाहञ्च चतुर्थीं पाटनक्रि-
याम्” “शीफयोरु पनाहन्तु कुर्य्यादामविदग्धयोः”
“तिलोपनाहं कुर्य्याच्च सर्वदा वातरोगिणाम्” “शाल्वणमुप-
नाहार्थे बलातैलमनुवासनार्थे” इति च सुश्रुतः ।

उपनाहन न० उप + नह--स्वार्थे णिच्--भावे ल्युट् । प्रले

पादिबन्धने “प्रशमयेत् स्नेहस्वेदोपनाहनैः” । “वेशवारैः
सकृशरैः स्निग्धैः स्यादुपनाहनम्” सुश्रुतः ।

उपनिक्षेप पु० उप + नि--क्षिप--कर्मणि घञ् । १ रूपसंख्या-

प्रदर्शनेन रक्षणार्थं परस्य हस्ते निहिते द्रव्ये “आधिसीमो-
पनिक्षेपजड़बालधनैर्विना । तथोपनिधिराजस्त्रीश्रोत्रि-
याणां धनैरपि” या० स्मृ० । “उपनिक्षेपो नाम रूपसंख्या-
प्रदर्शनेन रक्षणार्थं निहितमिति” मिता० भावे घञ् ।
२ तथाऽर्पणे ।

उपनिधातृ त्रि० उप + नि + धा--तृच् । उपनिधित्वेनान्य-

समीपे १ स्वद्रव्यस्थापके २ स्थापकमात्रे च । “पाणिभ्या-
मुपनिधाता सूत्यं देवाः” शत० ब्रा० १, १, २, १७ । उप +
नि + धा--ण्वुल् । उपनिधायकोऽप्यत्र ।

उपनिधान न० उप + नि + धा--भावे ल्युट् । उपनिधित्वेन

१ स्थापने “उपनिधानमुपनिधिः” मिता० । २ समीपे स्थापने
“कृदभिहितोभाब” इत्याद्युक्तेः उपनिधीयमाने ३ द्रव्ये च ।

उपनिधि क० उप + नि + धा--भावे कि । रूपसंख्ये अप्रदर्श्य

परस्यान्तिके रक्षणार्थं १ स्वधनस्थापने “कृदभिहितोभावोद्रव्य-
वत् प्रकाशत” इत्युक्तेः तथा निधीयमाने २ द्रव्ये च ।
उपनिघिस्वरूपतत्रत्यकर्त्तव्यविशेषौ मिता० दर्शितौ यथा
“वासनस्थमनाख्याय हस्तेऽन्यस्य यदर्प्यते । द्रव्यन्तदौष-
निधिकं प्रतिदेयं तथैव तत्” सा० स्मृ० । “निक्षेप-
द्रव्यस्याधारभूतन्द्रव्यान्तरं वासनङ्करण्डादि तत्स्थं यद्द्रव्यं
रूपसंख्यादिविशेषमनाख्यायाकथयित्वा मुद्रितम-
न्यस्य हस्ते रक्षणार्थं विश्रम्भादर्प्यते तद्दव्यमौपनिधिक
मुच्यते यथाह नारदः । “असंस्थातमविज्ञातं समुद्रं यन्नि-
धीयते । तज्जानीयादुपनिधिं निक्षेपङ्गणितं विदुरिति”
प्रतिदेयन्तथैव तत् यस्मिन् स्थापितन्तेनैव पूर्बमुद्रादि
चिह्नितमर्पितन्तथैव स्थापकाय प्रतिदेयं प्रत्यर्पणीयम् । प्रति-
देयमित्यस्यापवादमाह” मिता० । “न दाप्योऽपहतन्तन्तु राज
दैविकतस्करैः” या० स्मृ० “तमुपनिधिंराज्ञा दैवेनोदकादिना
तस्करैर्वोपहतं नष्टं न दाप्योऽसौ राज्ञा तदुपनिहितन्धनि
न एव तद्द्रव्यम् नष्टं यदि जिह्मकारितं न भवति यथाह
नारदः । “गृहीतुः सह योऽर्थेन नष्टोनष्टः स दायिनः ।
दैवराजकृते तद्वन्न चेत्तज्जिह्मकारितमिति” मिता० । अस्याप
वाद माह । “भ्रेषश्चेन्मार्ग्गितेऽदत्ते दाप्योदण्डञ्च तत्समम्”
या० स्मृ० । “स्वामिना मार्ग्गिते याचिते यदि न ददाति तदा
तदुत्तरकालं यद्यपि राजादिभिर्भ्रेषोनाशः सञ्जातस्तथापि
तद्द्रव्यं मूल्यकल्पनया धनिने ग्रहीता दाप्यो राज्ञे
च तत्समन्दण्डम् । भोक्तारम्प्रति दण्डमाह” मिता० । “आजीवन्
स्वेच्छया दण्ड्योदाप्यस्तं वापि सोदयम्” या० । “यःस्वेच्छया
स्वामिनमनुज्ञाप्य उपनिहितन्द्रव्यमाजीवत्युपभुङ्क्ते व्यवह-
रति वा प्रयोगादिना लाभार्थमसावुपभोगानुसारेण
दण्ड्यस्तञ्चोपनिधिं सोदयमुपभोमे सवृद्धिकं व्यवहारे स
लाभन्धनिने दाप्यः । वृद्धिप्रमाणञ्च कात्ययनेनोक्तम् ।
“निक्षेपं वृद्धिशेषञ्च क्रयं विक्रयमेव च । याच्यमानो न
चेद्दद्याद्वर्द्धते पञ्चकं शतमिति” । एतच्च भक्षिते द्रष्टव्यम् ।
उपेक्षाऽज्ञाननष्टे तेनैव विशेषो दर्शितः “भक्षितं सोदयं
पृष्ठ १२२२
दाप्यः समन्दाप्य उपेक्षितम् । किञ्चिन्न्यूनं प्रदा-
प्यः स्याद्द्रव्यमज्ञाननाशितमिति” । किञ्चिन्न्यूनमिति
चतुर्थांशहीनम्” मिता० । “एष एव विविर्दृष्टो याचि-
तान्वाहितादिषु । शिल्पिषूपनिघौ न्यासे प्रतिन्यासे तथैव
च” नारदः । “स जातमात्रान् पुत्रांश्च दारांश्च
भवतामिह । प्रदायोपनिधिं राजा पाण्डुः स्वर्गमितोगतः”
भा० आ० १२६ अ० । उपनिधिमधिकृत्य प्रवृत्तम्
तदस्य प्रयोजन मिति वा ठक् । औपनिधिक तदधिकारेण
प्रवृत्ते व्यवहारे तत्साधनद्रव्ये च ।

उपनिपात पु० उप + नि--पत--घञ् । १ समीपे आगतौ २

हठादागमने “कृततार्क्ष्योप्रनिपातवेगशङ्कः” किरा० ।

उपनिपातिन् त्रि० उप + नि--पर--णिनि । १ हठादागते

अतर्कितोपगतियुक्ते “रन्ध्नोपनिपातिनोऽनर्थाः” ।

उपनिबन्धन न० उप + नि + बन्ध--करणे ल्युट् । १ सम्पादन-

साधने । “प्रत्ययोपनिबन्धनः” सर्व्वद० मावे ल्युट् । २ ग्रथने

उपनिमन्त्रण न० उप + नि + मन्त्र--ल्युट् । उपेत्य आवश्यके

कर्म्मणि प्रवर्त्तनाव्याररूपे निमन्त्रणे ।

उपनिवपन न० उप + नि + वप--ल्युट् । अग्निप्रणयनकर्म्माङ्ग-

भूते इष्माभ्याधानादिव्यापारे” ओपनिवपनात् कृत्वा
हविर्धाने स्थापयति” ८, ३, २१ । “ओपनिवपनात्
“इष्माभ्याधानादि उपयमन्युपनिवपनान्तमग्निप्रणय-
नाख्यं कर्म्म कृत्वा” कर्कः ।

उपनिवेशित त्रि० उप + नि + विश--णिच्--क्त । १ निवासिते

२ वसतिविशेषरूपेण स्थापिते च । “स्वर्गाभिष्यन्दवमनं
कृत्वेवोपनिवेशिता” कुमा० । ३ निवेशितमात्रे च ।

उपनिषद् स्त्री उपनिषीदति प्राप्नोति ब्रह्मात्मभावोऽनया

उप + नि--सद--क्विप् । १ ब्रह्मविद्यायां, २ तत्प्रतिपादके
वेदशिरोभागे वेदान्ते च । वृ० भा० उपनिषच्छब्दार्थ-
व्युत्पत्तिर्दर्शिता यथा । “सेथं ब्रह्मविद्योपनिषच्छब्दवाच्या
तत्पराणां सहेतोः संसारस्यात्यन्तावसादनम् उपनि-
पूर्व्वस्य सदेस्तदर्थत्वात् तादर्थ्याद्ग्रन्थोऽप्युपनिषयुच्यते ।
मुण्ड० भा० “यथा य इमां ब्रह्मविद्यामुपयन्त्यात्म-
भावेन श्रद्धाभक्तिपुरःसराः सन्तस्तेषां गर्भजन्मजरा-
रोगाद्यनर्थपूगं निशातयति परं वा व्रह्म गमयति
अविद्यादिससारकारणञ्चात्यन्तमवसादयति विनाशयती-
त्युपनिषद् उपनिपूर्ब्बस्य सदेरेवमर्थस्मरणात् । “अत्र
चोपनिषच्छब्दो ब्रह्मविद्यैकगोचरः । तच्छब्दावयवार्थस्य
विद्यायामेव सम्भवात् । उपोपसर्गः सामीप्ये तत्प्रतीचि
समाप्यते । सामीप्यतारतम्यस्य विश्रान्तेः स्वात्मनीज्ञणात् ।
त्रिविधस्य सदर्थस्य निशब्दोऽपि विशेषणम् । उपनीय
तमात्मानं ब्रह्मापास्तद्वयं यतः । निहन्त्यविद्यां तज्जञ्चत-
स्मादुपमिघद्भवेत् । निहत्यानर्थमूलं स्वाऽविद्यां प्रत्यक्तया
परम् । नयत्यपास्तसम्भेदमतोवोपनिषद्भवेत् । प्रवृत्ति-
हेतून्निःशेषांस्तन्मूलोच्छेदकत्वतः । यतोऽवसादयेद्विद्या तस्मा-
दुपनिषद्भवेत् । यथोक्तविद्याहेतुत्वाद्ग्रन्थोपि तदभेदतः ।
भवेदुपनिषन्नामा लाङ्गलं जीवनं यथेति” तस्यानिकृष्टार्थ-
आचार्य्यैर्दर्शितः । उपनिषद्भेदाश्च मुक्तकोपनिपदि दर्शिता
यथा । “१ ईशा २ केन ३ कठ ४ प्रश्न ५ मुण्ड ६ माण्डूक्य
७ तित्तिरिः । ८ ऐतरेयञ्च ९ छान्दोग्यं १० वृहदारण्यकं
तथा । ११ ब्रह्म १२ कैवल्य १३ जावाल १४ श्वेताश्वो
१५ हंस १६ आरुणिः । १७ गर्भो १८नारायणो १९ हंसो
२० विन्दु२ २१ र्नाद३ २२ शिरः४ २३ शिखा । २४
मैत्रायणी २५ कौषितकी २६ वृहज्जावाल २७ तापनी ।
१८ कालाग्निरुद्र २९ मैत्रेयी ३० सुवाल ३१ क्षुरि ३२
मन्त्रिका । ३३ सर्वसारं ३४ निरालम्बं ३५ रहस्यं ३६
वज्रसूचिकम् । ३७ तेजो ३८नादो ३९ ध्यान ४० विद्या
४१, ४२ योगतत्त्वात्मबोधकम् । ४३ परिब्राट् ४४ त्रिशिखी
४५ सीता ४६ चूड़ा ४७ निर्वाण ४८ मण्डलम् । ४९
दक्षिणा ५० शरभं ५१ स्कान्दं ५२ महानारायणाह्वयम् ।
५३ रहस्यं ५४ रामतपनं ५५ वासुदेवञ्च ५६ मुद्गलम् ।
५७ शाण्डिल्यं ५८ पैङ्गलं ५९ भिक्षु ६०६१ र्महच्छारीरकं
शिखा६२ । ६३ तुरीयातीत ६४ संन्यास ६५ परिव्राजा
६६ऽक्षमालिका । ६७ अव्यक्तै ६८ काक्षरं ६९ पूर्णा ७०
७१ सूर्याक्ष्य ७३ऽध्यात्म ७४ कुण्डिका । ७५ सावित्र्या
७६ऽऽत्मा ७७ पाशुपतं ७९ परब्रह्मा ७९ऽवधूतकम् ।
८० त्रिपुरातापनं ८१ देवी ८२ त्रिपुरा ८३ काठ ८४
भावना । ८५ हृदयं ८६ कुण्डली ८७ भस्म ८८ रुद्राक्ष
८९ गण ९० दर्शनम् । ९१ तारसार ९२ महावाक्य ९३ पञ्च-
ब्रह्मा ९४ ऽग्निहोत्रकम् । ९५ गोपालतापतं ९६ कृष्णं ९७
याज्ञवल्क्यं ९८ वराहकम् । ९९ शाट्यायनी १०० हयग्रीवं
१०१ दत्तात्रेयं च १०२ गारुड़म् । १०३ काल ७ १०४
जावालि १०५ सौभान्य १०६ रहस्य ८१०७ ॠच १०८ मुक्तिका”
तासाञ्च मध्ये यासां यद्वेदगतत्वं तदपि शान्तिपाठमन्त्र-
सहितं तत्रैव दर्शितं यथा ।
“१ ऐतरेय २ कौषकी ३ । ४ नादविन्द्वात्मप्रबोध ५ निर्वाण ६
मुद्गलाऽ ७ क्षमालिका ८ त्रिपुरा ९ सौभाग्यं १० वह्वृचा
पृष्ठ १२२३
मृग्वेदगतानां दशसङ्क्यकानामुपनिषदां “वाङ् मे
मनसीति” शान्तिः । १ईशावास्य २ दृहदारण्यक ३ जावाल
४ हंस ५ परमहंस ६ सुवाल ७ मन्त्रिका ८ निरालम्ब ९ त्रि-
शिखी” १० ब्राह्मणमण्डल ११ ब्राह्मणाद्वयतारक १२ पैङ्गल
१३ भिक्षु १४ । १५ तुरीयातीताध्यात्म १६ तारसार १७
याज्ञवल्क्य १८ शाट्यायनी १९ मुक्तिकानां शुक्लयजुर्वेद
गतानामेकोनविंशतिसङ्ख्यकानामुपनिषदां “पूर्ण्णमदः” इति
शान्तिः । १ कठवल्ली २ तैत्तिरीयक ३ ब्रह्म ४ कैवल्य
५ श्वेताश्वतर ६ गर्भ ७ । ८ नारायणामृतविन्द्व ९ ऽमृतनाद
१० कालाग्निरुद्र ११ क्षुरिका १२ सर्वसार १३ शुकरहस्य
१४ तेजोविन्दु १५ ध्यानविन्दु १६ ब्रह्मविद्या १७ योगतत्त्व
१८ दक्षिणामूर्त्ति १९ स्कन्द २० शारीरका २१ योगशिखै
२२, २३ काक्षराक्ष्य २४ ऽवधूत २५ कठरुद्र २६ हृदय २७
योगकुण्डलिनी २८ पञ्चब्रह्म २९ प्राणाग्निहोत्र ३० वराह
३१ कलिसन्तरण ३२ सरस्वतीरहस्यानां कृष्णयजुर्वेदग-
तानां द्वात्रिंशत्सङ्ख्यकानामुपनिषदां “सह नाववत्विति”
शान्तिः । १ केन २ । ३ छान्दोग्यारुणि ४ मैत्रायणी ५ मैत्रे-
यो ६ वज्रमूचिक ७ योगवूड़ामणि ८ वासुदेव ९ महत्
१० संन्यासाऽ ११ व्यक्त १२ कुण्डिका १३ सावित्री १४ रुद्राक्ष
१५ जावालदर्शन १६ जावालीनां सामवेदगतानां षोड़-
शसङ्ख्यकानामुपनिषदाम् “आप्यायन्त्विति” शान्तिः ।
१ प्रश्न २ मुण्डक ३ माण्डूक्याऽ४ थर्वशिरोऽ५ थर्वशिखा
६ वृहज्जावाल ७ नृसिंहतापनी ८ नारदपरिव्राजक ९ सीता
१० शरभ ११ महानारायण १२ रामरहस्य १३ रामतापनी
१४ शाण्डिल्य १५ परमहंस १६ परिव्राजकाऽऽन्नपूर्णा १७
सूर्यात्म १८ पाशुपत १९ परब्रह्म २० त्रिपुरातपन २१
देवी २२ भावना २३ भस्म २४ जावाल २५ गणपति २६
महावाक्य २७ गोपालतपन २८ कृष्ण २९ हयग्रीव ३०
दत्तात्रेय ३१ गारुडानामथर्ववेदगतानामेकत्रिंशत्संख्याका-
नामुपनिषदां “भद्रं कर्णेभिरिति” शान्तिः । पूर्व्वोत्तर-
वाक्ये नामभेदः नामान्तरपरतया समाधेयः । ३ योगे
च । “यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्य्य-
वत्तरम्” छा० उ० “उपनिषदा योगेन युक्तश्चेत्यर्थः” भा०
“योगो देवतादिविषयमुपासनम्” आनन्दगि० ४ धर्मे
५निर्ज्जनस्थाने मेदि० ६ समीपसदने त्रिका० ।
७ द्विजातिकर्त्तव्ये चत्वारिंशत्संस्कारमध्ये वेदव्रतभेदे
तच्च व्रतं गोदानाख्यकेशान्तकर्म्मणः प्राक् कर्त्तव्यं यथाह
आश्वनायनगृह्यकारिका “प्रयमं स्यान्महानाम्नी द्विती-
यञ्च महाव्रतम् । तृतीयं स्यादुषनिषद्गोदानं च ततः परम्
ततश्च विप्रस्य जन्मतस्त्रयोदशे वर्षे महानाम्नीव्रतं, चतुर्द्दशे
महाव्रतं, षञ्चदशे उपनिषद्व्रतं, षोड़शे वर्षे गोदानम्,
क्षत्रस्य ऊनविंशादिवर्षचतुष्के, वैश्यस्य एकविंशादिचतुष्के
यथाक्रमं महानाम्न्यादिवेदव्रताख्यकर्म्मचतुष्टयं कर्त्त-
व्यम् । तत्र चूड़ादिनक्षत्रादिकमेव ग्राह्यम्” यथाह
पी० धा० श्रीधरः । “तिथिनक्षत्रवाराश्च वर्गोदयनिरी-
क्षणम् । चौलवत् सर्वमाख्यातं सगीदानव्रतेषु च” यदा
तु दैवादतीतकालानि महानाम्न्यादिव्रतानि स्युस्तदा
समावर्त्तनेन सह कार्य्याणि “यद्वागामिक्रियामुख्यकालस्याप्यन्त-
रालवत् । गौणकालत्वमिच्छन्तीत्याद्युक्तेः । उपनिषत्सु
व्यज्यते अण् । औपनिषद वेदान्तमात्रवेद्ये परब्रह्मणि ।
“तन्त्वौपनिषदं पुरुषं वेद” छा० उ० । उपनिषदं वेत्ति अण् ।
वेदान्ताभिज्ञे “शुद्धबुद्धस्वभाव इत्यौपनिषदाः” कुसु० ।

उपनिषादिन् त्रि० उप + नि + सद--णिनि स्त्रियां ङीप् ।

समीपे स्थायिनि “तद्विशमधस्तादुपनिषादिनीं करोति”
शत० ब्रा० ९, ४, ३, ३ ।

उपनिष्कर न० उप + निस् + कॄ--करणे संज्ञायां घ ।

महति राजमार्गे अमरः । तत्र हि महतामपि सेन्याना-
मसंवादेन निष्क्रमणात्तथात्वम् ।

उपनिष्क्रमण न० उप + निस्--क्रम--करणे ल्युट् । राजपथे । अमरः ।

उपनिहित त्रि० उप + नि--धा--क्त । १ उपनिधित्वेन स्थापि

ते द्रव्ये उपनिधिशब्दे मिता० उदा० २ स्थापिते च ।

उपनीत त्रि० उप + नी--क्त । १ कृतोपनयनसंस्कारे “अथो-

पनीतं विधिवद्विपश्चितः” रघुः । २ ज्ञानलक्षणासन्नि-
कर्षेण ज्ञाते च “उपनीतं विशेषणतयैव भासते
मानसे तु नायं नियमः” प्राचीनगाथा उपनयशब्दे दृश्या
३ समीपे प्रापिते ४ उपस्थापिते च ।

उपनेतृ पु० उप + नी--तृच् । १ उपनयकर्त्तरि गुरौ २ उपढौ-

ककर्त्तरि त्रि० स्त्रियां ङीप् । “नियमविधिजलानां
बर्हिषां चोपनेत्री” कुमा० ।

उपनेत्र न० उपगतं नेत्रम् अत्या० स० । नेत्रसमीपे धार्य्येकाचा-

दिनिर्मिते नेत्रतिमिरोपकारके द्रव्यभेदे (चसमा)

उपन्यास पु० उप + नि + अस--घञ् । १ वाक्योपक्रमे २ वाक्य

प्रयोगे उपचारच्छलशब्दे उदा० । “तस्माद्ब्रह्म-
जिज्ञासोपन्यासमुखेन” शारी० भा० । “मालविकायामय-
मुपन्यासः शङ्कयति” मालवि० । ३ विचारे पुण्यमुपन्यासं
निवोधत” मनुः । “उपन्यासं विचारम्” कुल्लू० ।
४ विश्वासेनान्यसमीपे स्वद्रव्यन्यासे उपनिधौ च ।
पृष्ठ १२२४

उपपति पु० उपमितः पत्या अवा० स० । जारे । “उपपतिरिव

नीचैः पश्चिमान्तेन चन्द्रः” माघः । तस्य पतिवत् स्त्रिया
रतिहेतुत्वात्तत्समत्वम् । “यस्य चोपपतिर्गृहे” “मृष्यन्ति
ये चोपपपतिम्” मनुः “सन्धये जारं गेहायोपपतिम्”
यजु० ३०, ९ । गुप्तव्यभिचारमात्रे जारत्वम् पतिसमीपे
तस्य गेहस्थित्या व्यभिचारे उपपतित्वमित्यनयोर्भेदः ।

उपपत्ति स्त्री उप + पद--क्तिन् । १ युक्तौ, २ सङ्गतौ ३ हेतौ च

“श्रोतव्यः श्रुतिवाक्येभ्योमन्तव्यश्चोपपत्तिभिः” “उपप-
त्तिभिर्हेतुभिरिति मथुरानाथः । “उपपत्तिमदूर्जितं वचः”
“प्रियेषु यैः पार्थ! विनोपपत्तेः” किरा० । “लक्षणा शक्य-
सम्वन्धस्तात्पर्य्यानुपपत्तितः” भाषा० । “विवक्षितगुणोप-
पत्तेः” शा० सू० । “उपक्रमोपसंहारावभ्यासोऽपूर्व्वता
फलम् । अर्थवादोपपत्ती च हेतुस्तात्पर्य्यनिर्णगे”
इत्युक्तेस्तस्याः प्रकरणप्रतिपाद्यार्थनिर्ण्णायकत्वं यथा ।
छान्दोग्ये ६ प्र० “यथा सौम्यैकेन मृत्पिण्डेन विज्ञातेन
सर्वं मृण्मयं विज्ञातं भवति वाचारम्भणं विकारोनाम-
धेयं मृत्तिकेत्येव सत्यम्” इत्यादिना विकारमात्रस्य वाचाम्भ-
णकथनरूपा युक्तिः । ४ उपाये च “अथोपत्तिं छलनापरो-
ऽपराम्” माघः । “अपेक्षितान्योन्यबलोपपत्तिभिः” माघः ।
५ प्राप्तौ ६ सिद्धौ च “स्वार्थोपत्तिं प्रति दुर्बलाशः” असंशयं
प्राक् तनयोपपत्तेः” रघुः । युक्तयश्च नानाविधाः सुश्रुते
दर्शिताः ताश्च तन्त्रयुक्तिशब्दे दर्शयिष्यन्ते । “असद्वाक्य
प्रयक्तानां वाक्यानां प्रतिषेधनम् । स्ववाक्यसिद्धिरिति
च क्रियते तन्त्रयुक्तिभिः” सुश्रुते तत्फलमुक्तम् ।

उपपद न० उपोच्चारितं पदम् प्रा० स० । समीपोच्चारिते

पूर्व्वमुच्चार्य्ये शब्दे “तस्याः सराजोपपदं निशान्तम्” रघुः ।
“फलन्ति कल्पोपपदास्तदेव” माघः । राजनिशान्तं कल्प-
वृक्षा इत्यर्थः । २ नामोत्तरमुच्चारिते शर्म्मवर्म्मा-
दिरूपे शब्दे, (उपाधि) व्याकरणे प्रत्ययादिविधायक-
सूत्रे ३ सप्तम्यन्तपदेन निर्द्दिश्यमाने पदे च । यथा
कर्मण्यण् इत्यादौ कर्मणीतिसप्तम्यन्तं पदम् अण्प्रत्य-
यविधाने उपपदम् । “उपपदमतिङ्” पा० । “गति-
कारकोपपदानां कृद्भिः समासवचनं प्राक् सुबुत्पत्तेः”
वार्त्ति० उक्तेः कुम्भकार इत्यादौ सुबुत्पत्तेः प्राक् समासे
उपपदसमासः । उपपदेन समीपस्थपदेन योगे विभक्तिरुपपद-
विभक्तिः “उपपदविभक्तेः कारकविभक्तिर्गरीयसीति” व्या० प०

उपपन्न त्रि० उप + पद--क्त । १ युक्तियुक्ते, “उपपन्नं नतु शिव-

मिति” रघुः । २ प्राप्ते च “अतीन्द्रियेष्वप्युपपन्नदर्शनः” रघुः
३ सतोगुणान्तराधानरूपसंस्कारयुक्ते “अयञ्च निष्ठुरः
पितृद्रोही नात्युपपन्नसंस्थानः” दशकुमा० ४ उत्पन्ने च ।

उपपात पु० उप + पत--घञ् । १ हटादागतौ २ फलीन्मुखत्वे

३नाशे च । “कर्मोपपाते प्रायश्चित्रं तत्कालम्” कात्या०
२५, १, १ । “उपपातो विनाशोभ्रेष इत्यनर्थान्तरम्” कर्कः

उपपातक न० पातयति नरके पत--णिच्--ण्वुल् उप अल्पार्थे

सादृश्ये वा प्रा० स० । पातकसदृशे ततोन्यूनफलके पापभेदे ।
“महापातकतुल्यानि पापान्युक्तानि यानि तु । तानि पातक
संज्ञानि तन्न्यूनमुपपातकमिति” पैठीनसिः । पतनञ्च “द्वि-
जातिकर्म्मभ्योहानिः पतनं परलोकासिद्धिस्तमेके नरकम्”
गौतमोक्तम् । तस्य न्यूनत्वञ्चाल्पफलदातृत्वेन तस्याल्प-
फलदातृत्वमाहाङ्गिराः “पातके तु सहस्रं स्यात् महत्सु
द्विगुणं तथा । उपपापे तुरीयं स्यात् नरकं वर्ष्मसंक्षयात्” ।
केन केन कर्मणा च तज्जन्यते तन्निरूपितं प्रा० वि० ।
तत्र मनुः । “गोबधोऽयाज्यसंयाज्यपारदार्य्यात्मविक्रयः ।
पितृमातृगुरुत्यागः स्वाध्यायाग्नेः सुतस्य च ।
परिवित्तिता चानुजेन परिवेदनमेव च । तयोर्दानञ्च कन्या-
यास्तयोरेव च याजनम् । कन्याया दूषणञ्चैव वार्द्धुषित्वं
व्रतच्युतिः । तड़ागारामदाराणामपत्यस्य च विक्रयः ।
व्रात्यताबान्धवत्यागो भृतकाध्यापनन्तथा । भृताच्चाध्य-
यनादानमपण्यानाञ्च विक्रयः । सर्व्वाकरेष्वधीकारो
महायन्त्रप्रवर्त्तनम् । हिंसौषधीनां स्त्र्याजीवोऽभिचारो
मूलकर्म्म च । इन्धनार्थमशुषकाणां द्रुमापामवपातनम् ।
आत्मार्थञ्च क्रियारम्भो निन्दितान्नादनन्तथा । अनाहि-
ताग्निता स्तेयमृणानाञ्चानपक्रिया । असच्छास्त्राधिग
मनं कौशीलव्यस्य च क्रिया । धान्यकुप्यपशुस्तेयं मद्य-
पस्त्रीनिषेवणम् । स्त्रीशूद्रविट्क्षत्रबधोनास्तिक्यञ्चोपपा-
तकम्” । “अस्यार्थः । अयाज्यसंयाज्यमिति प्रतिग्रहा-
ध्यापनङ्कथयति । त्यागो योगक्षेमाकरणम् । अनिमित्तं
स्वाध्यायत्यागोऽधीतवेदविस्मरणम् । अग्नित्याग
आलस्यादिना । सुतत्यागः पोषणविनयाधानाद्यकरणेन
चकाराद्भार्य्यात्यागोऽपि । परिवित्तिता कनिष्ठस्य भ्रातुर्दारा-
ग्निहोत्रसयोगे सति ज्येष्ठस्य भ्रातुर्दाराग्निहोत्रसंयोग-
प्रागभावः । कनिष्ठस्य परिवेदनं, चकारात् कन्याया अपि
तथाभूतायाः परिवेदनीयत्वम् । परिवित्तिपरिवेदयोर्वर-
त्वेन कन्यादानम् । तयोरेव विवाहादौ ऋत्विक्कार्य्यमिति ।
कन्याया दूषणमकन्येत्युक्तिः अङ्गुल्या योनिविदारणं वा
पृष्ठ १२२५
वार्द्धुषिकत्वं ब्राह्मणक्षत्रिययोः । व्रतच्युतिरवकीर्णत्वम् ।
दाराणामपि परिणीतानामपि विक्रयः । अपत्यस्यानेक-
विधस्य । व्रात्यता यथाकालमनुपनयनमसोमयाजित्वञ्च ।
बान्धवत्यागो बान्धवस्य सपिण्डादेरनिमित्तत्यागः ।
भृतकाध्यापनम् मूल्येन वेतनादिना विद्यार्पणम् । भृताच्च
वेतनपरिगृहीताद्वेदादि विद्याग्रहणम् । अपण्यानां लाक्षा-
दीनां सकृत्, गोरसादीनां चासकृत्, ब्राह्मणेन विक्रयः ।
सर्वाकरेषु सुवर्ण्णाद्युत्पत्तिस्थानेषु नियोगः । तैलादियन्त्रस्य
शस्त्रतेजनादियन्त्रस्य च प्रवर्त्तनम् । धान्यादीनां यथा
कथञ्चिन्नाशनं स्त्रियार्ज्जितधनजीवनम् । अभिचारः
परहिंसार्थं जपादिकर्म, मूलकर्म वशीकरणं मूलादिक्रिया । इन्ध-
नार्थम् द्रुमाणामशुष्काणां छेदनम् । आत्मार्थं पाकक्रिया
न वैश्वदेवाद्यर्था । गणदेवलकतस्काराद्यन्नभक्षणम् ।
सामार्थ्येऽपि श्रौतस्मार्त्ताग्न्यपरिग्रहः । स्तेयं हेमनरा-
श्वरजतभूमिमणिनिक्षेप्रेतरद्रव्यहरणम् । देवर्षिपितृसम्ब-
न्धिन ऋणस्यानपशोधनम् । असंच्छास्त्राभिगमनम्
पाषण्डशास्त्राभ्यासः । कुशीलवस्य कर्म तौर्य्यत्रिकं तस्य
सततानुष्ठानम् । कुप्यस्यासारद्रव्यस्यताम्रकांस्यादेः स्तेयम्
मद्यपस्त्रिया मद्यपायाश्च स्त्रिया निषेवणम् ब्राह्मणेन । स्त्रियाः
शूद्रवैश्यक्षत्रियाणाञ्च बधः । नास्तिक्यं नास्ति परलोक
इति व्यवसितिः । उपपातकमेकैकम् “एकैकमुपपातकमिति”
याज्ञवल्क्यवचनात् । एवञ्च गोबधादिनास्तिक्यान्तानि
पञ्चाशदुपपातकानि । विष्णुना “अनृतवचनमुत्कर्षे
राजगामि च पैशुन्यम् । गुरोश्चालीकनिर्बन्धःवेदनिन्दाऽधोतस्य च
त्यागः” अन्यानि च मनूक्तानि उक्त्वा “उपपातकिन
श्चैते कुर्युश्चान्द्रायणं नराः” इति उपपातके दर्शितम् ।
तत्र नृपादिसभासु परापकारव्यतिरेकेणात्मन उत्कर्षख्या-
पनं तथा राज्ञः पुरतः परापकारव्यतिरेकेण परदोष-
कीर्त्तनम् । श्रुतमात्रोपकारकगुरोर्निथ्याभिशंसनम् ।
तथा परिहासादिना वेदनिन्दा तथाऽसच्छास्त्राभियोगेना-
धीतवेदविस्मरणञ्च यल्लघु तदुपपातकं गुरूणां पुनरेतेषां
मनुनाऽनुपातके दर्शितत्वात् । अन्यानि चोपपातकानि
स्मृत्यन्तरेऽनुसन्धेयानि” ।
“गोवधोब्रात्यतास्तेयमृणानाञ्चानपक्रिया । अनाहिता-
ग्निताऽपुण्यविक्रयः परिवेदनम् । भृतादध्ययनादानं
भृतकाध्यापनन्तथा । पारदार्यं पारिवित्त्यं वार्द्धुष्यं लवण
क्रिया । स्त्रीशूदविट्क्षत्रबधो निन्दितार्थोपजीवनम् ।
नास्तिक्यं व्रतलोपश्च सुतानाञ्चैव विक्रयः । धान्यकु-
प्यपशुस्तेयमयाज्यानाञ्च याजनम् । पितृमातृसुतत्याग-
स्तड़ागारामविक्रयः । कन्यासन्दूषणञ्चैव परिवेदकया-
जनम् । कन्याप्रदानन्तस्यैव कौटिल्यं व्रतलोपनम् ।
आत्मनोऽर्थे क्रियारम्भो मद्यपस्त्रीनिषेवणम् । स्वाध्या-
याग्निसुतत्यागो बान्धवत्याग एव च । इन्धनार्थन्द्रुम-
च्छेदः स्त्रीहिंसौषधजीवनम् । हिंस्रयन्त्रविधानञ्च
व्यसनान्यात्मविक्रयः । शूद्रप्रेष्यं हीनसख्यं
हीनयोनिनिषेवणम् । तथैवानाश्रमे वासः परान्नपरिपुष्टता ।
असच्छास्त्रादिगमनमाकरेष्वधिकारिता । भार्य्याया विक्र-
यश्चैषामेकैकमुपपातकम्” या० । “गोवधोगोपिण्डव्यापा-
दनम् । कालेऽनुपनीतत्वं व्रात्यता । ब्राह्मणसुवर्ण्णत-
त्समव्यतिरिक्तपरद्रव्यापहरणं स्तेयम् । गृहीतस्य
सुवर्णादेरप्रदानमृणानामनपाकरणम् तथा देवर्षिपि-
तॄणां सम्बन्ध्यृणस्यानापाकरणञ्च । सत्यधिकारे
अनाहितानग्नित्वम् । ननु ज्योतिष्टोमादिकामश्रुतयः स्वाङ्ग-
भूताग्निनिष्पत्त्यर्थमाधानम्प्रयुञ्जत इति मीमांसकप्रसि-
द्धिरतश्च यस्याग्निभिः प्रयोजनन्तस्य तदुपायभूताधाने
प्रवृत्तिर्ब्रीह्याद्यर्थिनैब धनार्जने यस्य पुनरग्निभिः प्रयो-
जनं नास्ति तस्याप्रवृत्तिरिति कथमनाहिताग्निता-
दोषः उच्यते । अस्मादेवाधानस्यावश्यकत्ववचनादनित्य-
श्रुतयोऽपि साधिकारत्वाविशेषादाधानस्य प्रयोजिका इति
स्मृतिकाराणामभिप्रायो लक्ष्यत इत्यदोषः । तथा
अपण्यस्य लवणादेर्विक्रयः । सहोदरस्य ज्येष्ठस्य तिष्ठतः
कनीयसोम्रातुर्दाराग्निसंयोगः परिवेदनम् । पणपूर्ब्बा-
ध्यापकादध्ययनग्रहणम् । पणपूर्ब्बाध्यापनम् । परदा-
रसेवनङ्गुरुदारतत्समव्यतिरेकेण । पारिवित्त्यं कनीय
सि कृतविवाहे ज्येष्ठस्य विवाहराहित्यम् । वार्द्धुष्यम्प्र-
तिषिद्धवृद्ध्युपजीवित्वम् । लवणक्रिया लवणस्योत्पाद-
नम् । स्त्रियाबधो ब्राह्मण्या अपि आत्रेयीव्यतिरेकेण ।
शूद्रबधः । अदीक्षितविट्क्षत्रबधः निन्दितार्थोपजीव-
नम् अराजन्याद्यर्षितार्थोपजीवनम् । नास्तिक्यं
नास्ति परलोक इत्याद्यभिनिवेशः । व्रतलोपो ब्रह्मचारिणः
स्त्रीप्रसङ्गः । सुतानामपत्यानां विक्रयः ध्यान्यं व्रीह्यादि
कुप्यमसारद्रव्यन्त्रपुसीसादि पशवोगवादयस्तेषामपहर-
णम् । “गोबधो व्रात्यतास्तेयम्” इत्यनेन स्तेयग्रहणे-
नैव सिद्धे पुनर्धान्यकुप्यादिस्तेयग्रहणं निन्दार्थमते
धान्यादिव्यतिरिक्तद्रव्यस्तेये नावश्यमेतदेव प्रायश्चित्तमपि
तु ततोन्यूनमपि भवत्येव । एतेन बान्धवत्यागग्रहणे-
पृष्ठ १२२६
नैव सिद्धे पुनः पित्रादित्यागग्रहणं व्याख्यातम् ।
अयाज्यानाञ्जातिकर्मदुष्टानां शूद्रव्रात्यादीनां
याजनम् । पितृमातृसुतानामपतितानां त्यागो गृहान्नि-
ष्काशनम् । तडागस्यारामस्य चोद्यानोपवनादेर्विक्रयः ।
कन्यायादूषणमङ्गुल्यादिना योनिविदारणं न तु सम्भोग
स्तस्य “सखिभार्य्या कुमारीष्विति” गुरुतल्पसमत्वस्योक्तत्वात् ।
परिविन्दकयाजनन्तस्य च कन्याप्रदानम् । कौटिल्यङ्गुरो-
रन्यत्र गुरुविषयस्य तु कौटिल्यस्य सुरापाणसमत्वमुक्तम् ।
पुनर्ब्रतलोपग्रहणं शिष्टाप्रतिषिद्धेष्वपि हरिचरणकमलप्रेक्ष-
णात्प्राक्ताम्बूलादिकन्न भक्षयामित्येवंरूपेषु प्राप्त्यर्थं न तु
स्नातकव्रतप्राप्न्यर्थन्तत्र “स्नातकब्रतलोपे च प्रायश्चित्तम
भोजनमिति” मनुना लघुप्रायश्चित्तस्य प्रतिपादितत्वात्त
थात्मार्थञ्च पाकलक्षणक्रियारम्भः “अघं स केवलम्भुङ्क्ते यः
पचत्यात्मकारणादिति” तस्यैव प्रतिषिद्धत्वात् । क्रियामात्र
विषयत्वे तु प्रतिषेधकल्पनागौरवं स्यात् । मद्यपायाः
स्त्रियोजायाया अपि निषेवणमुपभोगः । स्वाध्यायत्यागो
व्याख्यातः अग्नीनाञ्च श्रौतस्मार्त्तानान्त्यागः सुतत्यागः
संस्काराद्यकरणम् । बान्धवानाम्पितृव्यमातुलादीना-
न्त्यागः सति विभवे अपरिरक्षणम् । पाकादिदृष्टप्रयो-
जनसिद्ध्यर्थमार्द्रद्रुमच्छेदोन त्वाहवनीयपरिरक्षणार्थमपि ।
स्त्रिया हिंसया औषधेन च जीवनं वर्त्तनं स्त्री-
हिंसौषधजीवनम् । तत्र स्त्रीजीवनं नाम भार्य्याम्पण्य
भावेन प्रयोज्य तल्लब्धोपजीवनम् स्त्रीधनोपजीवनं वा ।
हिंसया जीवनम्प्राणिबधेन जीवनम् । औषधजीवनं
वशीकरणेन । हिंस्रयन्त्रस्य तिलेक्षुपीडनकरस्य प्रवर्त्तनम् ।
व्यसनानि मृगयादीन्यष्टादश । आत्मविक्रयोद्रव्यग्रहणेन
परदास्यकरणम् । शूद्रसेवनं हीनेषु मैत्रीकरणम् ।
अनूढसवर्णदारस्य केवलहीनवर्णदारोपयमनम्,
साधारणस्त्रीसम्भोगश्च । अनाश्रमे वासः अगृहीताश्रमि-
त्वम् । परपाकरतित्वम् । असच्छास्त्रस्य चार्वाकादि
ग्रन्थस्याधिगमः । सर्वाकरेषु सुवर्णाद्युत्पत्तिस्थानेषु
राजाज्ञयाधिकारित्वम् । भार्य्यायाविक्रयः । चशब्दा-
न्मन्वाद्युक्ताभिचाराऽमतिपूर्ब्बलशुनादिभक्षणादेर्ग्रहणम् ।
एषां गोवधादीनाम्प्रत्येकमुपपातकसंज्ञावेदितव्या” मिता० ।
उपपापमप्यत्र । “जलोदरं यकृत्प्लीहाशूलरोगव्रणानि च ।
श्वासजीर्ण्णज्वरच्छर्द्दि भ्रममोहगलग्रहाः । रक्तार्बुदविस-
र्पाद्या उपपापोद्भवा गदाः” शाता० ।

उपपातिन् त्रि० उप + पत--णिनि स्त्रियां ङीप् । १ हठीदा-

गते । २ अतर्कितोपस्थिते च । “रन्ध्रेपपातिनोऽनर्थाः” हितो०

उपपाद पु० उप + पद--घञ् । १ उपपत्तौ । उपगतः पादम्

अत्या० समा० । २ पादोपगते त्रि० । स्त्रियां गौरा० ङीष् ।

उपपादक त्रि० उपपादयति उप + पद--णिच्--ण्वुल् ।

उपपत्तियुक्तकारके पद--ण्वुल् । उपपत्तियुक्ते ३ युक्तियुक्ते च ।

उपपादन न० उप + पद + णिच् ल्युट् । १ युक्त्या समर्थने

२ सम्यक्प्रतिपादने ३ प्राप्तियुक्तकरणे च । “लोहपिण्डं यथा
वह्निः प्रविश्य ह्यतिपादयेत् । तथात्वमपि जानीहि गर्भे
जीवोपपादनम्” भा० आश्व० १८ अ० ।

उपपादित त्रि० उप + पद--णिच्--क्त । १ युक्त्या समर्थिते,

“उपपादितञ्चैतत् पुरस्तात्” जग० २ सम्यक् प्रतिपादिते च

उपपादुक त्रि० उपपद्यते उप + पद--उकञ् । दृष्टकारण-

निरपेक्षतया अदृष्टमात्रसहकृतेभ्योऽणुभ्यो जायमाने
देवदेहे नारकिदेहे च” हेम० दिव्योपपादुका देवाः” अमरः ।

उपपाद्य त्रि० उप + पद--णिच्--यत् । १ युक्त्या समर्थनीये २ प्रति-

पाद्ये च । ल्यप् । ३ उपपत्तियुक्तं कृत्वेत्यर्थे अव्य० ।

उपपुर ब० समीपस्थं पुरं प्रा० स० । पुरसमीपस्थे शाखानगरे ।

उपपुरे भवः अण् उत्तरपदवृद्धिः । उपपौर तद्भवे त्रि० ।

उपपुराण न० उपतमनुगतं पुराणम् अत्या० स० । व्यासो-

क्तादष्टाशपुराणसदृशेषु नानामुनिप्रणीतेषु नानाविधेषु
पुराणेषु । तानि यथा । आद्यं सनत्कुमारोक्तं
नारसिंहमतः परम्२ । तृतीयं वायवीयञ्च ३ कुमारेणानु-
भाषितम् । चतुर्थं शिवधर्माख्यं ४ साक्षान्नन्दीश भाषि-
तम् । दुर्वासोक्तमाश्चर्य्यं ५ नारदीयमतः परम् ६ । नन्दि-
केश्वरयुग्मञ्च७, ८ तथैवोशनसेरितम् ९, कापिलं वारुणं १०
शाम्बं ११ कालिकाह्वयमेव च १२ । माहेश्वरं १३ तथा
पाद्मं १४ दैवं १५ सर्व्वार्थसाधकम् पराशरोक्तमपरं
१६ मारीचं १७ भास्कराह्वयम् १८ । मल० कूर्मपु० ।
हेमाद्रौ तु एतद्वचनमन्यया पठितम् यथा “अन्यान्युप-
पुराणानि मुनिभिः कथितानि तु । आद्यं सनत्कुमा-
रोक्तं नारसिंहमतःपरम् । तृतीयं नारदप्रोक्तं कुमा-
रेण तु भाबितम् । चतुर्थं शिवधर्माख्यं साक्षान्नन्दीशभा-
षितम् । दुर्वाससोक्तमाश्चर्य्यं नारदोक्तमतःपरम् । कापिलं
मानवं चैव तथैवोशनसेरितम् । ब्रह्माण्डं वारुणं चाथ
कालिकाह्वयमेव च । माहेश्वरं तथा शाम्वं सौम्यं सर्वा-
र्थसञ्चयम् पराशरोक्तमप्रवरं तथा भागवताह्वयम् ।
इदमष्टादशं प्रोक्तं पुराणं कौर्मसंज्ञितम् । चतुर्द्धा संस्थितं
पुण्यं संहितानां प्रभेदतः” । अत्र मुद्रितपुस्तके भागवत-
पृष्ठ १२२७
द्वयमिति पाठोऽसङ्गत उपपुराणेषु भागवतद्वयाप्रसिद्धेः ।
तच्चाग्रे व्यक्तीभविष्यति । पुराणोपपुराणलक्षणं च १२ स्क०
भागवते सामान्यत उक्तं यथा “सर्गोऽस्याथ विसर्गश्च वृत्तीर-
क्षान्तराणि च । वंशोवंशानुचरितं संस्था हेतुरपाश्रयः ।
दशभिर्लक्षणैर्युक्तं पुराणं तद्विदो बिदुः । केचित् पञ्चविधं
ब्रह्मन् । महदल्पव्यवस्थया” । “अव्याकृतगुणक्षोभान्महत-
स्त्रिवृतोऽहमः । सूतसूक्ष्मेन्द्रियार्थानां सम्भवः सर्ग १
उच्यते । पुरुषानुगृहीतानामेतेषां वासनामयः ।
विसर्गोऽयं २ समाहरोवीजाद्वीजं चराचरम् । वृत्ति ३ र्भृतानि
भूतानां चरणामचराणि च । कृता तेन नृणां त्वत्र कामा-
च्चोदनयापि वा । रक्षा४ ऽच्युतावतारेहा विश्वस्यानुयुगे युगे ।
तिर्य्यङ्मर्त्यर्षिदेवेषु हन्यन्ते यैस्त्रयीद्विषः । मन्वन्तरं ५
मनुर्देवा मनुपुत्राः सुरेश्वराः । ऋषयोऽंशावताराश्च हरेः
षड्विधमुच्यते । राज्ञां ब्रह्मप्रसूतोनां वंशस्त्रैकालिकोऽ-
न्वयः६ । वंशानुचरितं ७ तेषां वृत्तं वंशधराश्च ये । नैमि-
त्तिकः प्राकृतिकोनित्य आत्यन्तिकोलयः । संस्थेति
८ कविभिः प्रोक्तश्चतुर्द्धास्य स्वभावतः । हेतु ९ र्जीवोऽस्य सर्गादेर-
विद्याकर्म्मकारकः । यं चानुशयिनं प्राहुरव्याकृत-
मुतापरे । व्यतिरेकान्वयौ यस्य जाग्रत्स्वप्नसुषु-
प्तिषु । मायामयेषु तद्ब्रह्म जीववृत्तिष्वपाश्रयः १० ।
पदार्थेषु तथा द्रव्यं तन्मात्रं रूपनामसु । वीजादिपञ्च-
तान्तासु ह्यवस्थासु युतायुतम् । विरमेत यदा चित्तं
हित्वा वृत्तित्रयं स्वयम् । योगेन वा तदात्मानं विदेहा
त्मा निवर्त्तते । एवंलक्षणलक्ष्याणि पुराणानि पुरा-
विदः । मुनयोऽष्टादश प्राहुः खुल्लकानि महान्ति च” ।
अत्र खुल्लकानीत्युक्तेः उपपुराणस्यापि उक्तदशलक्षण-
वत्त्वं पञ्चलक्षणादिमत्त्वं बोध्यम् । तेषाञ्च संख्यादि-
निरूपणम् पञ्चलक्षणवत्त्वञ्च मत्स्यपुराणे उक्तं यथा ।
“पाद्मे पुराणे या प्रोक्ता नरसिंहोपवर्णना । तत्राष्टादश
साहस्रं नारसिंहमिहोच्यते । नन्दाया यत्र माहात्म्यं
कार्त्तिकेयेन वर्ण्यते । नन्दीपुराणं तल्लोके व्याख्यातमिति
कीर्त्त्यते । यत्र शाम्बं पुरस्कृत्य भविष्यति कथानकम् ।
प्रोच्यते तत्पुनर्लोके शाम्बमेव मुनिव्रताः! । एवमादित्य
संज्ञञ्च तत्रैव परिपट्यते” इत्युपक्रम्य अष्ट्रादशभ्यस्तु पृथक्
पुराणं यत् प्रदृश्यते । विजानीध्वं द्विजश्रेष्ठास्तदेतेभ्यो
विनिर्गतम् । पञ्चाङ्गवत् पुराणं स्यादाख्यानमितरत् स्मृतम् ।
सर्गश्च प्रतिसर्गश्च वंशोमन्वन्तराणि च । वंशानुचरितञ्चेति
पुराणं पञ्चलक्षणम् । ब्रह्मविष्ण्वर्करुद्राणां माहात्म्यं
भुवनस्य च । ससंहार प्रदृश्येत पुराणे पञ्चवर्णता । धर्म्म-
श्चार्थश्च कामश्च मोक्षश्चपरिकीर्त्तते । सर्वेष्वपि पुराणेषु तद्वि-
रुद्धे च यत्फलम् । सात्विकेषु च कल्पेषु माहात्म्यमधिकं
हरेः । राजसेषु कल्पेषु च माहात्म्यं ब्रह्मणो विदुः । तद्व-
दग्नेश्च माहात्म्यं तामसेषु शिवस्य च । सङ्कीर्णेषु सरस्वत्याः
पितॄणाञ्च निगद्यते” । “हेमाद्रौ कालिकापुरा० कस्य
किंमूलकत्वमिति कथनप्रस्तावे नारसिंहस्य पाद्ममूलकत्वमुक्ता
“इदम् यत् कालिकाख्यन्तु मूलं भागवतन्तु तत्” इत्युक्तं
तत्र भागवतं तत्तस्य कालिकाख्यस्य मूलमित्यर्थः । भागवत-
शब्देनात्र देवीभागवतं ग्राह्यं तयोरुभयोरपि कालिका-
देवीमाहात्म्यकीर्त्तनेन एकदेवताप्रतिपादकत्वेन एकमूलत्वौ-
चित्यात् । न तु वैष्णवभागवतं तस्य विष्ण देवताकत्वेनैक-
देवताकत्वाभावेन तन्मूलत्वासम्भवात् । एवञ्च देवीभागवतमेव
महापुराणमिति केचित् । विष्णुभागवतमेव महापुराणमिति
तु वहवः । तत्र हेमाद्रौ मत्स्यपुरा० “वृत्तासुरबधोपेतं
तद्भागवतमुच्यते । सारस्वतस्य कल्पस्य मध्ये ये स्युर्नरा-
मराः । तद्वृत्तान्तोद्भवं लोके तद्भागवतमुच्यते । लिखित्वा
तच्च यो दद्याद्धेमसिंहसमन्वितम् । पौर्ण्णमास्यां प्रोष्ठ-
पद्याम् स याति परमं पदम् । अष्टादश सहस्राणि पुराणं
तत् प्रकीर्त्तितम्” इति महापुराणान्तर्गतभागवतलक्षणमुक्तं
वैष्णवे भागबते तु सारस्वतकल्पोद्भवनरादिकथाऽभावात्
तल्लक्षणाऽभावेन नैतत् महापुराणं किन्तु उपपुराणम् ।
देवीभागवतं तु सारस्वतकल्पोद्भवनरादिकथावर्ण्णनेन उक्त-
लक्षणवत्त्वेन महापुराणमिति पूर्वेषामाशयः । देवी-
भागवतं विष्णुभागवतञ्चोभयमपि अष्टादशसाहस्रं द्वा-
दशस्कन्धयुक्तञ्चेति द्वयोर्महापुराणत्वसंशये विष्णु-
भागवतस्य तथात्वे बहूनां विवादात् तन्निर्ण्णयाय
देवीभागवतटीकायां यथा व्यवस्थापितं तत् प्रदर्श्यते
“तत्र तावत् पुराणेषु भागवतद्वयं प्रसिद्धमेकं महापु-
राणान्तर्गतमपरमुपपुराणान्तर्गतं लोकेऽप्युपलम्भोद्वयोर्देवी
भागवतनाम्ना विष्णुभागवतनाम्ना चास्त्येव तत्रैकं
महापुराणान्तर्गतमन्यदुपपुराणान्तर्गतमित्यपि निर्विवाद
मेव । तथापि किन्देवीभागवतं महापुराणमन्यदुपपुराण
मथ वा विष्णुभागवतं महापुराणमन्यदुपपुराणमिति
संशये केचिद्विष्णुभागवतमेव महापुराणमिति वदन्ति
केचिद्देवीभागवतमेव महापुराणमिति वदन्ति । तत्र
प्रथमपक्षैकदेशिनः केचिदुपपुराणेषु द्वितीयम्भागवतं
नास्त्येव महापुराणेष्वेवैक भागवतं प्रसिद्धं तच्च विष्णु
पृष्ठ १२२८
भागवतमेव न देवीभागवतं देवीभागवतं तु निर्मूलमेवे-
ति वदन्ति । द्वितीयपक्षैकदेशिनोऽपि विष्णुभागवतं वोपदेव
कृतमिति वदन्ति । वस्तुतस्तूभयोरपि पुराणयोः पुराण
मतभेदेन महापुराणत्वमुपपुराणत्वञ्च । ननु पुराणेष्वेवैकम्भा-
गवतं प्रसिद्धं न तूपपुराणेषु द्वितीयमस्तीति चेन्न कूर्मग-
रुडपाद्मादिषु द्वितीयस्य स्पष्टपरिगणनात् तथा हि
हेमाद्रौ दानप्रस्तावे कूर्मपुराणे” अष्टादश पुराणान्युक्त्वा
“अन्यान्युपपुराणानि मुनिमिः कथितानि तु । आद्यं
सनत्कुमारोक्तं नारसिंहमतः परमित्यादि” पराशरोक्तं
प्रवरन्तथा भागवताह्वयमिति” तथा गारुडे तत्त्वरहस्ये
द्वितीयांशेऽष्टमकाण्डे प्रथमाध्याये प्रथमतो महापुराणानां
सात्विकादिभेदेन विभागमुक्त्वा लघुपुराणानां सात्विकादि
भेदेन विभागप्रदर्शनपरे ग्रन्थेऽप्युक्तं “पुराणम्भागवत-
न्दौर्गं नन्दीप्रोक्तं तथैव च । पाशुपत्यं रैणुकञ्च भैरवं
च तथैव चेति” । तथा तत्पूर्ब्बमपि “विष्णुधर्मोत्तरंचैव
तत्र भागवतन्तथेति” । तन्त्रम्भागवतन्तथेति पाठेऽपि तन्त्रं
शास्त्रमित्यर्थः तद्विशेषणेन चोत्तमत्वं सूचितं तथा पाद्मे-
शकुनपरीक्षायां “ब्राह्मम्पाद्मं वैष्णवञ्च मार्तण्डं
नारदेरितमित्यादि” । तथैव गदितंराम चराणाङ्कापिलन्तथा ।
वाराहं ब्रह्मवैवर्तं शकुनेषु प्रशस्यते । शैवम्भागवत-
न्दौर्गम्भविष्योत्तरमेव चेति” । तथा पाद्मे भागवतमाहात्म्ये
एकोनविंशेऽध्याये उपपुराणेषु “शैवमादिपुराणञ्च देवी
भागततन्तथेति” तथा मधूसूदनसरस्वतीकृतसर्व्वशास्त्रार्थ
संग्रहेऽप्युपपुराणमध्ये भागवतम्परिगणितं नागोजी-
भट्टादिभिश्च, धर्म्मशास्त्रग्रन्थेषु एवमन्यैरपि निबन्ध-
कारै रिति । ननु देवीभागवतस्य “तत्र भागवतम्पुण्यं पञ्च-
मं वेदसंमितम्” इति प्रथमाध्यायस्थस्ववचनेनाष्टादश
महापुराणेषु पञ्चममिदं पुराणमिति स्वस्य महापुराणत्वं
बोधयतस्तस्य कथमन्यपुराणवचनमुपपुराणत्वं बोधयेन्नह्येवं
कचित् दृष्टचरमिति चेन्न नारदीयशिववायव्यादित्य
पुराणानां स्वष्टुखेनान्यमुखेन वा महापुराणत्वेन ज्ञाय
मानानामन्यपुराणेषूपपुराणत्वस्य व्यवस्थापनात् पुराण
मतभेदेनैकस्यापि पुराणस्य महापुराणत्वोपपुराणत्व
सिद्ध्या तद्विरोधाभावात् । पुराणभेदेन मतभेदस्त बहुशः
प्रसिद्धः । वैष्णवपुराणेषु सात्विकत्वं शैवपुराणेषु ताम
सत्वं, वैष्णवपुराणमतेन, शैवपुराणेषु सात्विकत्वं, वैष्णव
पुराणेषु तामसत्वं “दश शैवपुराणानि सात्विकानि
विदुर्वुधाः । तामसानि च चत्वारि वैष्णवानि प्रचक्षते” ।
इति स्कान्दे शैवपुराणमतेनेत्येवंप्रकारेणेति” ।
ततः प्रसङ्गागतमन्यदुक्त्वा वृत्रामुवबधोपेतमित्यनेन पुराणे
प्रतिपाद्यदेवकर्त्तृकबध एवाभिप्रेत इति व्यवस्थाप्य तत्रैवोक्तं
यथा “देवीभागवतातिरिक्तसर्वपुराणेषु देवीकृतोवृत्तासुर-
बधो न क्कचिदप्यस्ति इन्द्रकृतस्यैव तस्य सत्त्वात् केवलं
देवीभागवत एव देवीकृतः सोऽस्ति तद्ग्रहणेन तु देवीभागवते
स्वसम्मतिर्दर्शितेति युक्तमेव, अनन्तरं च तत्रैव पुराणदा-
नप्रस्तावे “ददाति सूर्य्यभक्ताय यस्तु भागवतं द्विजाः ।
सर्वपापविनिर्मुक्तः सर्वव्याधिविवर्ज्जितः । जीवेद्वर्षशतं
साग्रमन्ते वैवस्वतं पदमिति” पठितम् । अत्र च स्वसम्मतं
मागवतमेव ग्रहीतुमुचितम् । किञ्चेदं वचनं देवीभागवतपक्षे
एव स्वरसतः संगच्छते प्रथमश्लोके, एकादशद्वादशस्कन्धयोश्च
सविस्तरं गायत्रीविधानसहस्रनामादेः कथनात् सूर्य्यस्य च
गायत्रीदेवतात्वात् । श्रीभागवतपक्षे तु वैकुण्ठं गच्छेदित्येव
वदेदिति किञ्च “यत्राधिकृत्य गायत्रीं वर्ण्यते धर्मविस्तरः” ।
इत्यादिमात्स्यवचनमपि देवीभागवतस्यैव महापुराणत्वं
बोधयति वेदे “त्रिपदा गायत्रीति” गायत्रीलक्षणं श्रूयते तेन
च त्रिपाच्छन्दोधिकृत्य यत्र धर्मविस्तरो वर्ण्यते यद्भागवत-
मिति तदर्थः । त्रिपाच्छब्दश्च देवीभागवते प्रथमश्लोके “सर्व-
चैतन्यरूसान्तामाद्यां विद्यां च धीमहि । बुद्धिं या नः
प्रचोदयादिति” श्रूयते । न च विष्णुभागवते तच्छन्दोऽस्ति
मुख्यार्थसम्भवे गायत्रीपदस्य लक्षणया धीमहीत्यर्थकरणेन
विष्णुभागवतपरत्वकल्पनमस्य वचनस्य तु साहसमेव ।
क्वचित् पुराणेषु यदि तादृशान्येव विष्णुभागवतपराणि
वचनानि सन्ति तत्र गत्यन्तराभावादस्तु लक्षणा उदासीने
मात्स्यवाक्ये तु मुख्यविषयत्वसम्भवे साऽनुचिता । यत्तु
गायत्र्यर्थश्च विष्णुध्यानं न तु शिवशक्तिसूर्य्यादिध्यान-
मित्युक्तं तत्तु नास्तिकत्वमूलकमेव मैत्रायणीयानां
“भर्गोवैरुद्र” इति श्रुतौ प्रपञ्चसारादिसर्वतन्त्रेषु पुराणादिषु
च शिवसूर्य्यशक्त्यादिरूपार्थस्योक्तत्वाच्च । किञ्च “हयग्रीवब्र-
ह्मविद्या यत्र वृत्रबधस्तथा । गायत्र्या च समारम्भस्तद्वै
भागवतं विदुरिति” पुराणान्तरवाक्यमपि देवीभागवतस्यैव
महापुराणत्वबोधकं तथा हि हयग्रीवनामासुरो देवी-
भागवते प्रथमस्कन्धे निबद्धस्तेनोपासिता ब्रह्मप्रतिपादिका
विद्या स्त्रीदैवत्यो मन्त्रःसा विद्या यत्र वर्त्तते तद्भागव-
तमित्यर्थः । स दैत्यस्तदुपासिता विद्या चेत्य्रभयमपि तत्रैव
प्रथमस्कन्धे दर्शितम् “जपन्नेकाक्षरं मन्त्रं मायावीजात्मकं
ममेत्यादिना” । ननु विष्णुमागवते पञ्चमस्कन्धेऽपि हय-
पृष्ठ १२२९
ग्रीवमन्त्रस्य सत्त्वादिदं वचनमुभयभागवतसाधारणमिति
चेन्न नारदीये शारदातिकादिनिबन्धेषु च “मन्त्राः पुंदे-
वताः प्रोक्ता विद्याः स्त्रीदेवताः स्मृताः” इत्यादिवचनैः
स्त्रीदैवत्यमन्त्रेष्वेव विद्यापदप्रयोगो न पुंदैवत्य मन्त्रेष्विति
प्रतिपादानात्” क्वचित् पुंदैवत्यमन्त्रे तथा प्रयोगस्तु गौणः
न च गौणार्थमादाय तद्वचनस्य विष्णुभागवतपरत्वं
कल्पयितुमुचितं लक्षणारूपदोषापत्तेः तस्मान्न तद्वचनमुभय-
साधारणमिति देवीभागवतस्यैव महापुराणत्वं बोधयति
किञ्च “सारस्वतस्य कल्पस्येति” मात्स्यवचनादपि देवीभा-
गवतमेव महापुराणं अत्र ह्येवं प्रकरणशुद्धिः ऋषय
ऊचुः । “पुराणसंख्यामाचक्ष्व सूत! विस्तरतः क्रमादिति”
मुनिप्रश्नोत्तरं “ब्रह्मणाभिहितं पूर्ब्बं यत्तद्ब्राह्मं, पद्मक-
ल्पवृत्तान्ताश्रयं पाद्मं, वराहकल्पवृत्तान्ताश्रयं वैष्णवं
श्वेतकल्पवृत्तान्ताश्रयं वायवीयमित्येवं तत्तत्कल्पवृत्ता-
यान्ताश्रयाणि पुराणान्युक्त्वा तदुत्तरं “यत्राधिकृत्य
गायत्रीं वर्ण्यते धर्मबिस्तर इत्युपक्रम्य “सारस्वतस्य कल्पस्य
मध्ये ये स्युर्नरामराः । तद्वृत्तान्तोद्भवं लोके तद्भागवतमि-
ष्यते” इत्युक्त्वा ततोऽन्यान्यपि महापुराणान्येव तत्तत्कल्प-
वृत्तान्ताश्रयाणि दर्शिताति पश्चादुपपुराणकथनार्थम्
“उपभेदान् प्रवक्ष्यामीति” प्रतिज्ञाय पद्मपुराणान्नारसिंहं
निर्गतमेवं नन्दिशाम्बादित्यसंज्ञकान्युक्त्वा अन्योपपुराणा-
न्यपि महापुराणेभ्य एव निर्गतानीति “अष्टादशभ्यस्तु
पृथक्पुराणं यत् प्रदृश्यते । विजानीध्वं द्विजश्रेष्ठा-
स्तदा तेभ्यो विनिर्गतमिति वचनेन” सूत ऋषिरुक्त-
वान् । ततः “सर्गश्च प्रतिसर्गश्च वंशोमन्वस्तराणि च”
इत्यादिना पुराणलक्षणमुक्त्वा “सात्विकेषु च कल्पेषु माहा-
त्म्यमधिकं हरेः । राजसेषु च कल्पेषु माहात्म्यं ब्रह्मणो
विदुः । तद्वदग्नेश्च माहात्म्यन्तामसेषु शिवस्य च । सङ्की-
र्णेषु सरस्वत्याः पितॄणाञ्च निगद्यते” इति वचनेन पुराण-
प्रतिपाद्यहरिब्रह्माग्निहरसरस्वतीपितॄणां माहात्म्यस-
म्बन्धात् कल्पानां सात्विकराजसतामससङ्कीर्णत्वभेदैश्चातुर्वि-
ध्यत्वमुक्तवानिति तत्र कल्पानां तत्तद्देवतासम्बन्धज्ञानं तु
तत्तत्कल्पाश्रिंततत्तत्पुराणप्रतिपाद्यमुख्यदेवताज्ञानेनैव
वोध्यम् अन्यप्रकारस्य क्वचिदपि पुराणेषु अनुपलम्भात् ।
तत्रैवं सति “सारस्वतस्य कल्पस्य मध्ये ये स्युर्नरामराः इत्यादि
वचनं भागवतस्य लक्षणप्रतिपादकं प्रतिपादितम् । तदर्थस्तु
“यथा गारुड़कल्प इत्यत्र गरुड़स्यायं गारुड़ः यथा च
वाराहकल्प इत्यत्र वराहस्यायं वाराह इति व्युत्पत्तिः प्रसिद्धा
तद्वदेव “सरस्वत्यास्तथा कल्पोगौरीकल्पस्तथैव चेति” कल्प-
नामसु सरस्वतीकल्पत्वेनैव कथितत्वात्, मत्स्यपुराणे
उपान्त्याध्याये “सङ्कीर्णेषु सरस्वत्याः पितॄणां कल्प उच्यते”
वचनेन तथैवीक्तत्वाच्च व्रह्मविष्णुरुद्राणां कल्पवद्गोरी लक्ष्म्यो
कल्पवच्च सरस्वतीकल्पस्यार्थतः प्राप्तत्वाच्च तादृशसार-
स्वतकल्पसम्बन्धिनो ये देवमनुष्यास्तद्वृत्तान्तस्योद्भव उत्प-
त्तिर्यस्मात् तत्पुराणं भागवतं विदुः तद्वृत्तान्तप्रदर्शकं
यत्पुराणं तद्भागवतसंज्ञकमिति यावत् । अत्र च तत्त-
द्देवतानामाविर्भावाश्रया ये ये कल्पास्ते तत्तन्नाम्ना व्यव-
ह्रियन्ते एतच्च तत्तन्नामककल्पाश्रितेषु पुराणेषु तत्तद्देव
ताया एव नुख्यत्वेनोत्पत्तिप्रदर्शकवाक्यैर्लक्ष्मीकल्पादि-
कल्पाश्रितकूर्म्मपुराणादिषु सर्वत्र प्रसिद्धमेव तथा च
मुख्यत्वेन सरस्वत्या आविर्भावप्रतिपादकं पुराणं
यत्तद्भागवतमित्यतिरहस्यार्थः । तत्र सारस्वतकल्प इति
पदेनैव कल्पस्य सरस्वतीसम्बन्धे बोधिते तस्य सङ्कीर्णत्वं
“सङ्कीर्णेषु सरस्वत्याः” इति वचनेन ईश्वरप्रेरणां विनापि
गृहागतमेव । अस्मिश्च वचने भागवतपदेन विष्णुभागवतस्य
ग्रहणं बन्ध्यापुत्रोपममेव तत्र मुखत्वेन सरस्वत्याविर्भाव-
स्यासत्त्वात् विष्णुभागवते द्वितीयस्कन्धे “पाद्मं कल्पमथो
शृणु” इति वचनेन स्वमुखेनैव स्वस्य पाद्मकल्पकथाश्रयत्व-
स्योक्तत्वात् तद्विरोधाच्च । न च पाद्मकल्प एव सारस्वतः
सरस्वान् समुद्रस्तस्माज्जातं कमलं सारस्वतं तस्य कल्प
इति व्युत्पत्त्येति वाच्यं “पद्मकल्पञ्च वृत्तान्तं तत्र यस्मा-
दुदाहृतम् । तस्तात् पाद्मं समाख्यातं इति” पूर्वोदाहृत-
शिवपुराणवचनेन “एतदेव यदा पद्ममभूद्धैरण्मयं जगत् ।
तद्वृत्तान्ताश्रयं तद्वत् पाद्ममित्युच्यते बुधैः । पाद्मं
तत्पञ्चपञ्चाशत्सहस्राणीह कथ्यते” इति मत्स्यपुराणवचनेन
“सारस्वतस्य कल्पस्य मध्ये ये स्युर्नरामराः” इति
वचनेन च पाद्मकल्पसारस्वतकल्पयोः पृथक्कथनात् किञ्च
सारस्वतकल्पपाद्म कल्पयोरेकत्वे पद्म कल्पप्रतिपादकं पुरा-
द्वयं पाद्मं भागवतं चेत्येव वदेत् किञ्च पद्मकल्पस्य वृत्ता-
न्तमित्यत्र “अभिव्यक्तपदार्था ये स्वतन्त्रालोकविश्रुता” इति
न्यायेन पूर्व्वं बुद्ध्यारूढ़ं प्रसिद्धं पद्मशब्दं विहाया-
प्रसिद्धं सारस्वतशब्दं पाद्मशब्दस्य वाचकं कृत्वा
सारस्वतपदघटितकल्पने प्रयोजनाभावः । किञ्च “सरस्वत्या-
स्तथा कल्प इत्यादेः” पूर्वोक्तस्य सारस्वतपदनिरुक्त्यर्थकस्यवच-
नससूहस्य विरोधश्च । न च पाद्मकल्पसारस्वतकल्पयोः
पृथक्त्वे, त्रिंशत्कल्पेषु मत्स्यपुराणान्तिमाध्याये कीर्त्ति-
पृष्ठ १२३०
तेषु सारस्वतपदेन पाद्मस्य ग्रहणं न स्यादिति वाच्यम्
प्रभासखण्डे त्रिंशत्कल्पेषु विष्णुजकल्पार्चिषकल्प सुपु-
ङ्कल्पानां ग्रहणेऽपि तेषां कल्पानां यथा मात्स्यान्ति-
माध्याये न ग्रहणं तथा पाद्मस्यापि न ग्रहणमित्यस्य
तुल्यत्वात् । यदि तेषां पर्य्यायत्वेन कुत्रचिदन्तर्भावः
क्रियते तर्ह्यस्यापि कुत्रचिदन्तर्भावोऽस्तु अतएव विष्णुभाग
वतस्यप्रबन्धटीकाकारेण “पितृकल्पे एव पूर्वार्धान्ते पद्मस्यो-
द्भवात् पितृकल्पपदेन पाद्मत्वग्रहो वेदितव्यः” इत्युक्तम्
पुराणकथनप्रस्तावे सारस्वतकल्पपाद्मकल्पयोः पृथक्कर-
णेन सारस्वतपदेन पाद्मस्य सर्वथा न ग्रहणम् । वस्तुतस्तु
त्रिंशत्कल्पाब्रह्मणस्त्रिंशत्तिथ्यात्मकाः त्रिंशत्तिथिषु
प्रतिपदादिषूत्पद्यन्ते “भवः धुवः सुवः भूर्भुवः सुव इत्या-
दयस्त्रिंशत्कल्पाः “पाद्मादयश्च पुराणोक्ता दिनकल्पा
ब्रह्मणः प्रतिदिवसेषूत्पद्यन्ते इति दिनकल्पतिथिकल्पानां
सुतरां भेदात् तिथिकल्पेषु दिनकल्पानां पाद्मादीनां न
ग्रहणमिति सिद्धान्तः । यत्तु विष्णुभागवतस्यारम्भतः
पाद्मकल्पकथाश्रयत्वेऽपि कृष्णजन्मखण्डस्यैव सारस्वत-
कल्पभवत्वेन तस्य च दशमस्कन्धे सत्त्वात् “सारस्वतस्य
कल्पस्य मध्ये ये स्युर्नरामराः इति” वचनस्य विष्णुभागवतं
विषयोऽस्त्वित्याहुस्तदसत् कृष्णजस्मखण्डस्य सारस्वतकल्प-
भवत्वप्रतिपादकानां वचनानां निर्मूलत्वात् समूलत्वे-
ऽपि यस्मिन् पुराणे यस्य कल्पस्य प्रथमतः प्रतिपा-
दनं तत्कल्पप्रतिपादकमेव तत्पुराणभिति नियमः ।
सर्वपुराणे तथा दृष्टत्वात् तथा च कृष्णजन्मखण्डस्य
दशमस्कन्धे विद्यमानत्वेऽपि प्रथमतस्तत्कथाया अभावात्
पाद्मकल्पकथायाः प्रथमतो विद्यमानत्वस्य स्वेनैवोक्तत्वाच्च
न “सारस्वतस्य कल्पस्येति” वचनस्य विष्णुभागवतं विषयः ।
किं च कृष्णजन्मखण्डस्य यथा दशमस्कन्धे कथनं तथा
सर्वपुराणेषु तत्कथनं वर्तत एवेति सर्वपुराणानां तद्वचन-
विषयत्वं स्यात्तथा च सर्वपुराणानि भागवतपदवाच्यानि-
स्युस्तस्मात् सारस्वतकल्पस्य यत्र प्रथमतः प्रतिपादनं स
एव तद्वचनस्य विषयो वक्तव्यस्तादृशं च देवीभागवतमेवा-
स्तीति देवीभागवतमेव तद्विषयो वक्तव्य इति । किं च
शिवपुराणे उमासंहितायाम् “ब्रह्मणा संस्तुता सेयं मधुकैटभना-
शने । महाविद्या जगद्धात्री सर्वविद्याधिदेवता । द्वादश्यां
फाल्गुनस्यैव शुक्लायां समभून्नृपेति” वचनात् फाल्गुनशुक्ल
द्वादश्यां देव्या उद्भवस्तद्दिन एव च सारस्वतकल्पोद्भवस्तदुक्तं
हेमाद्रौ” कल्पश्राद्धप्रकरणेनागरखण्डे “सारस्वतस्तु द्वादश्या
शुक्लायां फाल्गुनस्य चेति” तथा च सरस्वत्याः कल्प इत्यर्थ-
कस्य “सारस्वतस्य कल्पस्य मध्ये ये स्युर्नरामराः” इति वचनस्य
सर्वथा देवीभागवतमेव विषयो न विष्णुभागवतमिति बोध्यं
किं च तस्य ग्रहणे तस्य हरिमाहात्म्यप्रतिपादकत्वात्
तदाश्रितकल्पस्य सात्विकत्वमेव यास्यति “सात्विकेष्वथ कल्पेषु
माहात्म्यमधिकं हरेरिति” वचनात् । ततश्च “संकीर्णेषु
सरस्वत्या” इति वचनेन सारस्वतकल्प इति नाम्ना च परमहंस्य
सामग्र्येव कर्त्तव्या स्यात् अतो विष्णुभागवतं विहाय
देवीभागवतमेवास्य वचनस्य विषयोऽनिच्छतापि वक्तव्यस्तस्मात्
सारस्वतस्य कल्पस्येति वचनात् देवीभागवतमेव महापुराणम्
अस्ति चात्र सरस्वत्याविर्भावप्रतिपादकं वचनं तदुक्तं
देवीभागवते प्रथमस्कन्धे “तस्यास्तु मात्विकी शक्तीराजसी
तामसीतथा । महालक्ष्मीः सरस्वती महाकालीति ताः स्त्रियः ।
तासां तिसृणां शक्तीनां देहाङ्गीकारलक्षणः । सृष्ट्यर्थञ्च
समाख्यातः सर्गः शास्त्रविशारदैरिति” “अम्बरीष शुकप्रोक्तं
नित्यं भागवतं शृणु” इति वचनमपि शुकाय प्रीक्तमिति व्युत्-
पत्त्या देवीभागवतपरमपि संगच्छते । भवति हि देवीभावतं
शुकायैव प्रोक्तं व्यासेनेति । किं च अष्टादशपुरणानि कृत्वा
सत्यवतीसुतः । भारताख्यानमखिलं चक्रे तदुपबृंहणमिति”
मात्स्यवचनमपि देवीभागवतस्यैव महापुराणत्वं
बोधयति अष्टादशपुराणोत्तरं भारतस्य जातत्वात् भारतो-
त्तरं च विष्णुभागवतस्य जातत्वात् भारतोत्तरकालं निर्वि-
ण्णो व्यासश्चकारेति विष्णुभागवते १ स्क० एवोक्तत्वात् । ननु
“वेदशाखाः पुराणानि वेदान्तभारतं तथा । कृत्वा संमोह
संमूढोऽभवं राजन्मनस्यपीति” देवीभागवते तृतीयस्कन्धे
एवोक्तत्वात् तत्रापि स विरोधस्तदवस्थ एवेति चेन्न मन्मते
तदानीं ग्रन्थोनैव जातः किन्तु जनमेजयं प्रति एवं वक्ता-
स्मीति ज्ञानचक्षुषा ज्ञात्वा भारतात् पूर्ब्बमेव देवीभागवतं
कृतमित्यर्थस्य कल्पनात् । त्वन्मते तु तथा कल्पयितुं न शक्यते
चतुःश्लोक्या भागवतोपदेशस्य जायमानत्वात् उपदेशात्
पूर्व्वं तज्ज्ञानाभावस्यावश्यं कल्पनीयत्वात् यदि तत्रापि
पूर्व्वं व्यासस्य ज्ञानमस्तीति स्वीक्रियते तदा वक्ष्यमाणः
सर्वोऽप्यर्थवादःस्यात् ततश्च ग्रन्थस्वारस्यभङ्गप्रसङ्ग इत्यास्तां
तावत् । वस्तुतस्तु वेदशाखाः पुराणानीति पाठिऽसङ्गत इति
वक्ष्यते तृतीयस्कन्धे तदा न कोऽपि विरोधः । यत्तुपाद्मे
भागवतमाहात्म्ये श्रीमद्भाभवतकथाश्रवणाय समागता-
नां परिगणनप्रसङ्गे “वेदान्तानि च वेदाश्च मन्त्रास्त-
न्त्राणि संहिताः । दश सप्त पुराणानि षट् शास्त्राणि समाय
पृष्ठ १२३१
युः” इत्युक्तं तत्र व्यासकृतपुराणानामष्टादशत्वादष्टादशेति
वक्तव्ये सप्तदशत्वोक्तिः श्रीमद्भागवतस्याष्टादशत्वङ्गमयति
तस्याष्टादशानन्तर्गतत्वे देवीभागवतस्याष्टादशान्तर्गत्वे वा
अष्टादशानां श्रोतुमागतानां पुराणानां अष्टादशत्वानुक्तेर्निर्बी-
जत्वप्रसङ्गात् एवं पाद्मे “दश सप्त पुराणानि कृत्वा सत्य-
वतीसुतः । नाप्तवान्मनसा तोषं भारतेनापि भामिनि” ।
चकार संहितामेतां श्रीमद्भागवतीं परामिति” सप्तदशत्वोक्तिः
श्रीमद्भागवतस्यैव एतां संहितामिति निर्दिष्टस्याष्टादशत्वङ्ग-
मयति देवीभागवतस्याष्टादशत्वेऽष्टादशपुराणानीत्यनुक्तेर्नि-
र्वीजत्वप्रसङ्गादित्थाहु स्तदसत् तेषामेव वचनैर्विष्णुभागव-
स्याष्टादशपुराणान्तर्गतत्वं न सिद्ध्यति किन्तु देवीभागवत-
स्यैवेति वार्धुषिकत्वं कुर्वाणो मूलमेव विनाशितवानिति
न्याय आगतः । तथा हि भारतं व्यासमुखाच्छुत्वा तत्र
संहिदानः क्रौष्टुकिर्मार्कण्डेयं प्रत्यागत्य सन्देहं पृष्ट-
वान् तस्मै मार्कण्डेयोमार्कण्डेयपुराणमुक्तवान् तदुक्तं
मार्कण्डेयपुराणे “तदिदं भारताख्यानं बह्वर्थं श्रुतिविस्त-
रम् । तत्त्वतोज्ञातुकामोऽहं भगवन्तमुपस्थितः” इति तथा
च भारतोत्तरं मार्कण्डेयपुराणमभवत् तथैव त्वदुक्तरीत्यैव
विष्णुभागवतमपि तथा च भारतात् पूर्व्वं षोड़श पुरा-
णान्येव सिद्धानि तथा च पूर्व्वोक्तवचनमध्ये षोडशेत्येव
पक्तव्ये सप्तदशेत्युक्तत्वात् देवीभागवतमेव महापुराण-
मन्यथा सप्तदशत्वपूर्त्तिर्न स्यात् तस्मात् तद्वचनप्रामाण्या-
द्देवीभागवतमेव महापुराणमिति सिद्ध्यति न तु विष्णुभा-
गवतं, मारतात् पूर्वं सप्तदश मदीयभागवतसहितानि
मार्कण्डेयमष्टादशमुभयमतसिद्धमेव विष्णुभागवतस्य भारतोत्तरं
जायमानत्वेन तन्मध्ये तस्यावस्थानस्थलाभावादित्येवं ला
पनेनापि दोषाभावादिति सुधियो विभावयन्तु । यत्तु
पाद्मे “वैष्णवं नारदीयञ्च तथा भागवतं शुभम् ।
गारुडञ्च तथा पाद्मं वाराहं शुभदर्शने! । सात्विकानि पुरा-
णानि विज्ञेयानि शुभानि वै” इत्युक्त्या भागवतस्य
सात्विकत्वमुक्तं सात्विकेषु पुराणेष्वितिकौर्मोक्त्या च
सात्विकपुरानानां विष्णुपरत्वमुक्तम् अतो विष्णुपरमेव
भागवतमष्टादशपुराणान्तर्गतं च तु देवीभागवतमिति अपि च
स्कान्दे प्रभासखण्डे “चतुर्भिर्भगवान् विष्णुर्द्वाभ्यां ब्रह्मा
तथा रविः । अष्टादशपुराणेषु शेषेषु भगवान् भवः” इत्युक्तं
स्कान्दे सौरसंहितायां च “कथ्यते दशभिर्विप्राः! पुराणैः
परमेश्वरः । चतुर्भिर्भगवान् विष्णुर्द्वाभ्यां ब्रह्मा प्रकी-
र्त्तितः । एकेनाग्निस्तथैकेन भगवांश्चण्डभास्करः” इ-
त्युक्तमतोऽपि विष्णुभागवतमष्टादशान्तर्गतन्नत्वन्यदित्याहु
स्तदसत् त्वन्मते मात्स्योक्तसात्विकराजसतामससंकीर्णपुरा-
णेषु मध्ये त्रयाणां व्यवस्था पूर्ववचनैस्त्वयोक्ता संकीर्णपुरा-
णानान्तु नोक्ता तेषाङ्केषु पुराणेष्वन्तर्भाव इति वद
करिष्यामि कुत्रचिदिति चेत् मन्मतेऽपि श्रीभगवत्या विष्णुशक्ति
त्वाभिमानेन “विष्णुमन्त्राधिष्ठात्रीं देवतां वेदमानो दुर्गां दुर्बो-
धध्वान्तभानुं गुरुं चेति श्रीव्रमदीपिकोक्तप्रकारेण विष्णु-
मन्त्राणां दुर्गाया अधिष्ठातृत्वेन तयोरैक्याद्वा तत्प्रतिपा-
दकभागवतस्य वैष्णवेष्वेवान्तर्भावात् अतएव “हरिर्द्वाभ्यां
रविर्द्वाभ्या द्वाभ्यां चण्डीविनायकौ । द्वाभ्यां ब्रह्मा
समाख्यातः शेषेषु भगनान् शिवः इति वचनं मङ्गच्छते”
वस्तुतस्तु द्वयोरपि भागवतयोरस्मन्मते प्रमाणत्वात् विष्णु-
भागवतपक्षपातिनां वचनानामस्माकं विरोधाभावेन तल्ला-
पने प्रयोजनाभावएव । तथा च नारदीयादिपुराणनते
श्रीविष्णुभागवतं महापुराणन्तद्वचनानि प्रसिद्धान्येवेति न
लिखितानि देवीभागवतं तु तन्मते उपपुराणम् ।
शैवमात्स्यपुराणादिमते तु देवीभागवतं महापुराणं विष्णु-
भागवतमर्थादुपपुराणमिति सिद्धम्” ।
वृहन्ना० ९६ अ० महापुराणप्रतिपाद्यविषयवर्ण्णने “श्रीब्रह्मो-
वाच, मारीचे! शृणुवक्ष्यामि वेदव्यासेन यत् कृतम् । श्री-
मद्भागवतं नाम पुराणं ब्रह्मसस्मितम् । तदष्टादशसाहस्नं
कीर्त्तितं पापनाशनम् । सुरपादपरूपोऽयं स्कन्धैर्द्वादशभि-
र्युतः । भगवानेव विप्रेन्द्र! विश्वरूपी क्षमीरितः । तत्र
तु प्रथमे स्कन्धे सूतर्षीणां समागमः । व्यासस्य चरितं
पुण्यं पाण्डवानां तथैव च । पारीक्षितमुपाख्यानमितीदं
समुदाहृतम् । परीक्षिच्छुकसंवादे सृतिद्वयनिरूपणम् ।
ब्रह्मनारदसंवादेऽव्रतारचरितामृतम् । पुराणलक्षणं
चैव सृष्टिकारणसम्भवः । द्वितीयोऽयं समुदितः स्कन्धो
व्यासेन धीमता । चरितं विदुरस्याथ मैत्रेयेणास्य सङ्गमः ।
सृष्टिप्रकरणं पश्चाद्ब्रह्मणः परमात्मनः । कापिलं साङ्ख्य-
मप्यत्र तृतीयोऽयमुदाहृतः । सत्याश्चरितमादौ तु ध्रुवस्य
चरितं ततः । पृथोः पुण्यसमाख्यानं ततः प्राचीन-
बर्हिषः । इत्येष तुर्य्यो गदितो विसर्गे स्कन्ध उत्तमः ।
प्रियव्रतस्य चरितं तद्वंशानाञ्च पुण्यदम् । ब्रह्माण्डार्गता-
नाञ्च लोकानां वर्णनन्ततः । नरकस्थितिरित्येव संस्थाने
पञ्चमो मतः । अजामिलस्य चरितं दक्षसृष्टिनिरूपणम् ।
वृत्राख्यानं ततः पश्चान्मरुतां जन्म पुण्यदम् । षष्ठोऽय-
मुदितः स्कन्धो व्यासेन परिपोषणे । प्रह्लादचरितं पुण्यं
पृष्ठ १२३२
वर्णाश्रमनिरूपणम् । सप्तमो गदितो वत्स! वासना-
कर्म्मकीर्त्तने । गजेन्द्रमोक्षणाख्यानं मन्वन्तरनिरूप-
णम् । समुद्रमथमञ्चैव बलिवैभवबन्धनम् । मत्स्यावतार-
चरितमष्टमोऽयं प्रकीर्त्तितः । सूर्यवंशसमाख्यानं
सोमवंशनिरूपणम् । वंश्यानुचरिते प्रोक्तो नवमोऽयं
महामते! । कृष्णस्य बालचरितं कौमारञ्च व्रजस्थितिः । कैशोरं
मथुरास्थानं यौवनं द्वारकास्थितिः । भूभारहरणञ्चात्र
निरोधे दशमः स्मृतः । नारदेन तु संवादो वसुदेवस्य
कीर्त्तितः । यदोश्च दत्तात्रेयेण श्रीकृष्णेनोद्धवस्य च ।
यादवानां मिथोऽन्तश्च मुक्तावेक दशः स्मृतः । भविष्यकलि-
निर्देशो मोक्षो राज्ञ । परीक्षितः । वेदशाखाप्रणयनं
भार्कण्डेयतपः स्मृतम् । सौरी विभूतिरुदिता सात्वती
च ततः परम्” । इत्युक्तेः विष्णुभागवत एव तेषां
पदार्थानां सत्त्वात् महापुराणत्वं देवीभागवते तदमावात् न
महापुराणत्वम् । एवञ्च मतभेदेन कस्यचित् पुराणत्वं कस्य-
चिद्पपुराणत्वं तच्च कल्पभेदादविरुद्धम् । एतेन विष्णुभा-
गवतस्य वोपकृत्वशङ्का निर्मूलैव । वोपदेवेन “चतुरेण चतुर्वर्ग
चिन्तामणि बणिज्यया हेमाद्रिर्वोपदेवेन मुक्ताफलमचीक-
रत्” इति मुक्ताफलग्रन्थे स्वयं लखितत्वेन तस्य हेमाद्रि-
सभासदत्वप्रतीतेः हेमाद्रौ च नानास्थानेषु विष्णुभागवत-
वचनस्य प्रमाणत्वेन धृतत्वेन न तत्कृतत्वमिति प्रतिभाति ।

उपपुष्पिका स्त्री उपगता पुष्पमिव विकाशभावम् अत्या० स०

संज्ञायां कन् टापि अत इत्त्वम् । जृम्भायाम् (हाइतोला)
हारा० तत्र हि मुखस्य पुष्पस्येव विकाशभावात् तथात्वम् ।

उपपृच् त्रि० उप + पृच्--क्विप् । उपरि सामीप्येन संपृक्ते

“विवृक्णाहिः शयत उपपृक् पृथिव्याः” ऋ० १, ३२, ५,

उपपौर्णमास(सि) अव्य० सामीप्ये अव्ययी० वा अच् समा० ।

पौर्णमास्याः समीपे ।

उपप्रदान न० उप उपाधौ तेन प्रदानम् । १ उत्कोचे स्वकार्य

साधनार्थं तत्प्रतिबन्धकेभ्योराजभृत्यादिभ्योदाने (घुसदे-
ओया) २ सन्ध्यर्थं भूम्यादेर्दाने च हेम० “तस्योपप्रदानेन
सन्धिरेव युक्तः” हितो० “उपप्रदानं लिप्सूनामेकं ह्याकर्ष-
णौषधम्” कठस० “साम चोपप्रदानं च भेदीदण्डश्च
तत्त्वतः” रामा० । प्रलोभनार्थं ३ द्रव्यदाने “उपप्रदानैर्मा-
र्जारोऽहितकृत् प्रार्थ्यते नरैः पञ्चत० । समीपे दाने च ।

उपप्रलोभन न० उप + प्र + लुभ--ल्युट् । १ सम्यक्प्रलोभने “अमु-

ष्य चोपप्रलोभनाय” दशकु० । करणे ल्युट् । २ सम्यक्प्रलो-
भनसाधने द्रव्ये “उच्चावचानुपप्रलोभनानि” दशकु० ।

उपप्लव पु० उप + प्लु--अप् । गगनादुल्कापातादिरूपे १ उपद्रवे,

“उपपप्लवाय लोकानां धूमकेतुरिवोत्थितः” कुमा० । “कृद-
भिहित” इत्याद्युक्तेः २ उत्पातसूचके वाय्वादौ “त्वामा-
सारप्रशमितवनोपप्लवं साधु मूर्द्ध्ना” मेघ० । “कच्चिन्न
वाय्वादिरुपप्लवोवः” रघुः ३ मये “नृपा इवोपप्लविनः
परेभ्यः” रघुः “उपप्लविनो भयवन्तः” मल्लि० । ४ विघ्ने
“जीवन् पुनः शश्वदुपप्लवेभ्यः” रघुः । उपप्लवेभ्यः विघ्नेभ्यः”
मल्लि० । ५ औपसर्गिकात्यन्तमरकपीड़ने ६ राजविप्लवे
“दुर्भिक्षे चाप्युपप्लवे” कूर्म्मपु० । “उपप्लवे राजविप्लवे
औपसर्गिकात्यन्तमरकपीड़ने” शु० त० रघु० । ७ उपरोधे
वेष्टने “अमेघोपप्लवे यश्च शक्रचापतडिद्गुणान्” सुश्रु० ।
८ चन्द्रसूर्य्ययोर्ग्रहणे “उपप्लवे चन्द्रमसोरवेश्च” स्मृतिः ।
९ विपत्तौ “अथ मदनबधूरुपप्लवान्तम्” कुमा० । १०
समीपे प्लवने गतौ च । “तद्भीममुत्सार्य्यजनं युद्धमासीदुप-
प्लवे ०भा० स० २२ अ० । “कल्पनापोढ़मभ्रान्तं प्रत्यक्षं
निर्विकल्पकम् । विकल्पो वस्तुनिर्भासादसंवादादुपप्लवः इति
बौद्धमतसिद्धे ११ विकल्पे स च संसारिणां सविकल्प-
ज्ञानमात्रेऽस्ति ईश्वरज्ञानं तु निरुपप्लवम् । उपप्लवति
लोकानुपद्रवति उप--प्लु--कर्त्तरि अच् । १२ राहौ मेदि० ।
“केतूपप्लवभौममन्दगतयः षष्ठे तृतीये शुभाः” ज्यो० त० ।

उपप्लव्य न० उप + प्लु--आधारे बा० यत् । १ विराटनगरसमीपस्थे

पुरभेदे । “उपप्लव्ये निविष्टेषु पाण्डवेषु जिगीषया”
“आगम्य हास्तिनपुरादुपप्लव्यमरिन्दम” भा० आ० १ अ०
“ततस्त्रयोदशे वर्षे निवृत्ते पञ्च पाण्डवाः ॥ उपप्लव्यं
विराटस्य समपद्यन्त सर्व्वशः” भा० वि० ७२ अ० । “विरा-
ष्टनगरसमीपस्थं नगरान्तरम्” नील० । “राज्ञस्तु वचनं
श्रुत्वा धृतराष्ट्रस्य सञ्जयः । उपप्लव्यं ययौ शीघ्रं पाण्डवा-
नमितौजसः” भा० उ० २२ अ० । कर्मणि यत् । २ उपप्लवनीये
त्रि० । आवश्यके तु ण्यत् । उपप्लाव्य अवश्यपप्लवनीये त्रि० ।

उपप्लुत त्रि० उप + प्लु--क्त । उपद्रवयुक्ते “उपप्लुतं पातु-

मदो मदोद्धतैः” माघः ।

उपबन्ध पु० उप + बन्ध--घञ् । १ बन्धनदार्द्यार्थं तत्समीपे

वस्त्वन्तरबन्धने । उपमितः बन्धेन अवा० स० । २ पद्मासन
रूपबन्धसदृशे अवान्तरासनभेदे ३ संख्याविशेषेण
संबन्धप्रतिपादने च “नोदनागुणेषु च प्रकॢप्त्युपबन्धाभ्याम्”
कात्या० १, ८, २२, “सोमस्य प्रकॢप्तेः उपबन्धाच्च” कर्कः
अत्र उपबन्धश्च संख्याविशेषेण सम्बन्धप्रतिपादनं तत्संख्या
च शत० ब्रा० ३, ३, ३, १८, दर्शिता यथा “अथ यदपामन्ते
पृष्ठ १२३३
क्रीणाति रसो वा ओपः स रसमेवैतत् क्रीणात्यथ यद्धिरण्यं
भवति स शुक्रमेवैतत् क्रीणात्यथ यद्वासो भवति सत्व-
चसमेवैतत् क्रीणात्यथ यदजा भवति स तपसमेवैतत्
क्रीणात्यथ यद्धेनुर्भवति सा शिरमेवैतत् क्रीणात्यथ
यन्मिथुनौ भवतः स मिथुनमेवैतत् क्रीणाति तं वै दशभि
रेव क्रीणीयान्नादशभिर्दशाक्षरा वै विराड्वैराजः
सोमस्तस्माद्दशभिरेव क्रीणीयान्नादशभिः” ।

उपबर्ह पु० उपबर्ह्यते आस्तीर्यते उप + बर्ह--स्तृतौ कर्मणि

घञ् । (वालिश) १ उपधाने बर्ह--हिंसायाम् भावे घञ् ।
२ उपपीड़ने च ।

उपबर्हण न० उपबर्ह्यतेकर्मणि ल्युट् । १ उपधाने “पुराणा

यवाः पुराण्यासन्दी सोपबर्हणैषान्वादिष्टा दक्षिणा” शत०
ब्रा० १३, ८४, १०, बर्ह हिंसायां भावे ल्युट् । २ उपपीड़ने च

उपबहु त्रि० उपगता बहवो यस्य संख्यात्वेऽपि पर्य्युदासात्

न डच् । बहुसंख्यासमीपवर्त्तिनि ।

उपबाधा स्त्री उप + बाध--अ । संपीडने ।

उपबाहु पु० उपगतो बाहुम् अत्या० । १ बाहोः समीपवर्त्ति-

न्यङ्गभेदे ततः इदमर्थे बाह्वादि० इञ् । औपवाहवि
तत्सम्बन्धिनि त्रि० । सामीप्यादौ अव्ययी० । २ बाहु-
सामीप्यादौ अव्य० ।

उपब्द पु० उपगतःशब्दः प्रा० स० पृषो० । “सोमाभिषवशब्दे

“ग्रावाणो घ्नन्तु रक्षस उपब्दैः” ऋ० ७, १०४, १७,
“उपब्दैः अभिषवशब्दैः” भा०

उपब्दि पु० उप + शब्द--इन् पृषो० । श्रोतुमर्हे शब्दे “न

योरुपब्दिरश्व्यः” ऋ० १, ७४, ७, “उपब्दिः श्रवणार्हः”
भा० “मरुतां शृण्व आयतामुपब्दिः” ऋ० १, १६९, ७,
ततोऽस्त्यर्थे मतुप् । उपब्दिमत् श्रोतुं योग्ये शब्दयुक्ते
“सशब्दमब्दिमत्” तैत्ति० “उच्चैर्घोष उपब्दिमान् क्षत्र-
स्य रूपम्” ऐत० ब्रा० ।

उपभङ्ग पु० उप + भन्ज घञ् कुत्वम् । १ युद्धादितः पलायने सम्यग् भञ्जने २ द्वैधीभावे च ।

उपभुक्त त्रि० उप + भुज--क्त । कृतीपभोगे वस्तुनि

उपभुक्ति स्त्री उप + भुज क्तिन् । उपभोगे

उपभूषण न० उपमितं भूषणेन अत्या० स० । घण्टाचानरादौ

“घण्टाचामरकुम्भादिपात्रोपकरणादिकम् । तद्भूषणान्तरे-
दद्याद्यस्मात्तदुपभूषणम्” पु० । उपचारशब्दॆ२० ३ पृ० दृश्यम् ।

उपभृत् स्त्री उप + भृ--आधारे क्विप् । आश्वत्थे यज्ञाङ्गपात्र-

भेदेस्रुचि “आश्वत्युपभृत्” कात्या० १, ३, ३५, उपभृत्संज्ञका
स्रुक् आश्वत्यी” कर्कः “पाणिभ्यां जुहूं परिगृह्योपभृत्या
वानम्” १ १०, ९ “सव्यौपभृत्” आश्व० गृ० ४, ३, ३ ।

उपभोग पु० उप + भुज--वञ् कुत्वम् । विषयसेवाजन्य

सुखभेदे “स्त्रीणां स्वपतिदायस्तु भोगफलः स्मृतः”
दा० भा० स्मृ० । “न जातु कामः कामानामुपभोगेन
शाम्यति” मनुः भारतञ्च । “आगमेनोपभोगेन नष्टं
भाव्यमतीऽन्यथा” । “इह कर्म्मोपभोगाय तैः संसरति
सोऽवशः” या० स्मृ० । “प्रियीपभोगचिह्नेषु प्रौरोभा-
ग्यमिवाचरत्” कृत्वोपभोगोत्सुकयेव लक्ष्म्या” रघुः
भोगश्च विषयसंसर्गजन्यसुखभेदः । अधिकं भोगशब्दे
वक्ष्यते । ततः अस्त्यर्थे इनि । उपभोगित् तद्वति
त्रि० “ब्राह्मणांश्च हनिष्यन्ति ब्राह्मणस्वोपभोगिनः । भा०
व० १९० अ० स्त्रियां ङीप् ॥

उपभोग्य उप + भुज--ण्यत् अनन्नार्थत्वे कुत्वम् । उपभोग-

योग्ये वस्तुनि अन्ने तु न कुत्वम् । उपभोज्यमित्येव ।
“असूत सा नागबधूपभोग्यम्” कुमा० । “किञ्चित्कालो-
पभोग्यानि यौवनानि धनानि च” पञ्चत० । “विविधान्य-
न्नपानानि पुरुषा येऽनुयाचिनः । ते वै नृपोपभोज्यानि
ब्राह्मणानां ददुश्च ह” भा० आश्व० ८५ अ० ।

उपभोजिन् त्रि० उ + भुज--णिनि । उपभोगकारके । “निवृ-

त्ताघारशौचेषु परपाकोपभोजिषु” “उच्छिन्नबलिभिक्षेषु
भिन्नकांस्योपभोजिषु” सुश्रु० ।

उपम त्रि० उपमीयते उप + मा--घञर्थे क । १ उपमेये । पदं

यद्विष्णोरुपमं निधायि” ऋ० ५, ३, ३ । “उपममुपमेयमिव”
भा० । उपमीयते समीपे क्षिप्यते मि--बा० ड । २ अन्तिके
निरु० “यत् केतुमुपमं समत्सु” ऋ० ७, ३०, ३ । “उपमम-
न्तिकम्” भा० । ३ अन्तिकस्थे त्रि० । दिवश्चिदन्ताँ उपमा” ऋ०
१०, ८, १ । “उपमान् समीपस्थान्” भा० “राजामि कृष्टे-
रुपमस्य वव्रेः” ॠ० ४, ४२, १ ।

उपमद्गु पु० “अक्रूरःसुषुवे तस्मात् श्वफल्काद्भूरिदक्षिणः ।

उपमद्गुस्तया मद्गुर्मुदरश्चारिमेजयः” हरिवं० ३५ अ०
इत्युक्ते श्वफल्कपुत्रे अक्रूरानुजे यदुवंश्ये क्षत्रियभेदे ।

उपमन्त्रण न० उप + मन्त्र--ण्वुल् । आमन्त्रणे कर्त्तव्यकर-

णाय प्रार्थनापूर्ब्बकप्रवर्त्तनारूपे व्यापारभेदे । “भासनो-
पसम्भाषणज्ञानयत्नविमत्युपमन्त्रणेषु वदः” पा० ।
“उपमन्त्रणमुपच्छन्दनम्” सि० कौ० । २ उपच्छन्दने ।
(खोसामुदी) ततः अस्त्यर्ये इनि उपमन्त्रिन् ।
(खोसामुदिया) उपच्छन्दनकारके नर्म्मसचिवे । “हसना-
मुपमन्त्रिणः” ऋ० ८, ११२, ४ । “उपमन्त्रिणःउपमन्त्र-
णवन्तोनर्म्मसचिवा हसनामुपहासयुक्तां वाचमिच्छन्ति” भा०
"https://sa.wikisource.org/w/index.php?title=वाचस्पत्यम्/उपघात&oldid=57670" इत्यस्माद् पुनः प्राप्तिः