पृष्ठ १३२१

उपलक्षण न० उपलक्ष्यते स्वंस्वेतरच्चानेन उप + लक्ष--करणे

ल्युट् । स्वस्य स्वान्यस्य च अजहत्स्व र्थया लक्षणया
बोधके शब्देयया काकेभ्योदधि रक्ष्यताभित्यत्र काकपदं स्वस्य
स्वान्यस्य श्वादेश्च बोधकम् । तल्लक्षणञ्च स्वप्रतिपादकत्वे
सति स्वेतरप्रतिपादकत्वम् । भवति चोक्तोदाहरणे
उपघातकत्वेन काकाकाकोभयवृत्तित्वं काकशब्दस्येति
तथात्वम् ततश्च शक्यतावच्छेदकधर्म्मपरित्यागेन इतर
धर्म्मरूपेण स्वस्वेतरवोधकं हि पदमुपलक्षणं भवति
“मन्त्रग्रहणं ब्राह्मणस्याप्युपलक्षणम्” सि० कौ० । उप +
लक्ष--भा वे ल्युट् । २ तादृशज्ञाने । “ऋणग्रहणं नियो-
गोपलक्षणार्थम्” सि० कौ० ।

उपलधिप्रिय पु० बालधिः प्रियोऽस्य पृषो० । चमरनाममृगभेदे राजनि० ।

उपलब्ध त्रि० उप + लभ--क्त । १ प्राप्ते, २ ज्ञाते च । आख्या-

यिकोपलब्धार्था” अमरः । क्ततुवतु । उपलब्धवत् प्राप्तरि
ज्ञातरि च स्त्रियां ङीप् “उपलब्धवती दिवच्युतम्” रघुः ।

उपलब्धि स्त्री उप + लभ--क्तिन् । १ प्राप्तौ “वृथा हि मे स्यात्

स्वपदोपलब्धिः” रघुः । २ प्रत्यक्षादिज्ञाने च । “नाभाव
उपलब्धेः” शा० सू० । योग्यानुपलब्धिः “अनपायिपदो-
पलब्धये” रघुः ।

उपलब्धृ त्रि० उप + लभ--तृच् स्त्रियां ङीप् । १ प्राप्तरि २ ज्ञातरि

ज्ञानाश्रये ३ आत्मनि पु० ।

उपलभेदिन् पु० उपलं भिनत्ति भिद--णिनि ६ त० । पाषाणभेदे वृक्षे राजनि० ।

उपलभ्य त्रि० उप + लभ--कर्ग्मणि यत् । १ प्राप्ये “आरम्भसिद्धौ

समयोपलभ्यम्” रघुः । २ ज्ञेये च प्रशंसायां मुम् उपलम्भ्यः

उपलम्भ पु० उप + लभ--घञ् मुम् च । १ लाभे, २ ज्ञाने च ।

“कर्त्तृता तदुपलम्भतोऽभवत्” माघः । “ज्ञातौ सुतस्पर्श-
सुखोपलम्भात्” रघुः ।

उपलिङ्ग न० उपमितं लिङ्गेन अवा० स० । लोकनिद्धसाधन-

भावेन लिङ्गेनानुमापकेन सदृशे अलौकिकसाधनभावके
अरिष्टसूचके मूकम्पादौ उपद्रवे ।

उपलेप पु० उप + लिप--घञ् । १ गोसयादिना आलेपने “गात्रेषु

सर्वेन्द्रियाणामुपलेपोऽवसादनमिति” सुश्रुतोक्ते २ सर्वेन्द्रि-
यावसादने च । “कासोपलेपस्वरभेदनिद्रातन्त्रास्यदौ-
र्गन्ध्यविषोपसर्गाः” सादोपलेपबलकृत्” सुश्रु० । भावे ल्युट्
उपलेपन गोमयादिना आलेपने न० “मण्डलालेपनादिकं
कर्म समाज्ञापयति” पञ्चत० ।

उपवक्तृ पु० उपवक्ति उपदिशति उपपश्यति वा उप + वच

तृच् । यज्ञे कृताकृतावेक्षके ऋत्विग्भेदे १ ब्रह्मणि २ सदस्ये
च “वेषि ह्यध्वरीयतामुपवक्ता जनानाम्” ऋ० ४, ९, ५,
“उपवक्ताऽध्वर्य्युप्रभृतीनां सर्वेषां कर्मणामनुज्ञार्थमित्थं
प्रणयेत्यादिरूपस्य वाक्यस्य वक्ता सन् ब्रह्मासि, सर्वेषां कर्म-
णामवैकल्यार्थमुपद्रष्टा सदस्यो वासि” भा०

उपवङ्ग पु० उपगतोवङ्गम् अत्या० स० । वङ्गदेशसमीपस्थे देशभेदे

देशशब्दे विवृतिः ।

उपवट पु० उपमितो वटेन अवा० स० । वटवृक्षसदृशे प्रियासालवृक्षे राजनि०

उपवन न० उपमितं वनेन अवा० स० । वनतुल्ये कृत्रिमे

आरोपितवृक्षसमूहे १ उद्याने । “पाण्डुच्छायोपवनवृतयः केतकैः
सूचिभिन्नैः” मेघ० “साकेतमालोपवना वृहन्ति” रघुः
आरामशब्दे पृ० ८०१ विवृतिः वनस्य सामीप्यम् वने वा
अव्ययी० । २ वनसामीप्ये ३ वने इत्यर्थे च अव्य० “कुसुम-
यन् फलिनीरलिनीरवैर्मदविकाशिभिराहितहुङ्कृतिः ।
उपवनं निरभर्तृसयत प्रियान्” माघः ।

उपवर्णन न० उप + वर्ण--ल्युट् । सम्यक्कीर्त्तने स्वरूपलक्षण-

गुणादिभिः प्रतिपादने “अतिशयोपवर्णनं व्याख्यानम्” सुश्रु०

उपवर्त्तन न० उपेत्य वर्त्तन्तेऽत्र उप + वृत--आधारे ल्युट् ।

जनपदे १ विषये “तस्योपवर्त्तनेऽप्येको न श्रुतो गोत्रभित्
क्वचित्” काशी० तदेकदेशे २ सजलस्थले भरतः ।

उपवर्ष पु० षाणिनिकात्यायनव्याड़िप्रभृतीनामध्यापके

ऋषिभेदे तत्कथा वृहत्कयायाम् द्रष्टव्या “वर्णा एव तु
भगवानुपवर्षः” शा० सू०

उपवर्ह पु० उप + वृह--उद्ययने करणे घञ् । शिरोधाने

(वालिश) हेम० तत्र हि स्थापयित्वा शिर उद्यम्यते इति
तस्य तथात्वम् । ल्युट् । उपवर्हणमप्यत्र न०

उपवल्लिका स्त्री उप उत्कर्षे प्रादिस० । अमृतस्रवलतायाम् राजनि० ।

उपवल्ह पु० उप + वल्ह--प्राधान्ये घञ् । प्राधान्ये उत्कर्षे

“तत् पूर्वेषांवृतानां धास्यतामेव धनमुपाहितं भवत्युपव
ल्हाय बिभ्यताम्” शत० ब्रा०१, ४, २, १,

उपवसथ पु० उपेत्य वसत्यत्र उप + वस--अधारे अथ । १ ग्रामे

हेमच० । “यद्याहिताग्निरुपवसथे म्रियते कथमस्य यज्ञः
स्यात्” ऐत० “यजमानस्य समीपे वसन्ति देवा अस्मिन्नह्नि
आधारे अथ । २ यागपूर्व्वदिवसे । तन्निर्वचनादिकं शत०
ब्रा० १, ११, १, ७, २, दर्शितं यथा
“अथातोऽशनानशनस्यैव । तदुहाषाढ़ः सावयसोऽनशन
मेव व्रतं मेने मनोहवै देवा मनुष्यस्याजानन्ति तत्
एनमेतद्व्रतमुपयन्तं विदुः प्रातर्नो यक्ष्यत इति तेऽस्य विश्वे
देवा गृहानागच्छन्ति तेऽस्य गृहेषूपवसन्ति स उपवस-
थः । तत्त्वेवानवक्लुप्तम् । यो मनुष्येष्वनश्नत्सु पूर्व्वोऽ-
पृष्ठ १३२२
श्नीयादथ किमु यो देवेष्वनश्नत्सु पूर्ब्बोऽश्नीयात्तस्मादु
नैवाश्नीयात् । तदुहोवाच याज्ञवल्क्यः । यदि नाश्नाति
पितृदेवत्योभवति यद्यु अश्नाति देवानत्यश्नातीति स
यदेवाशितमनशितं तदश्नीयादिति यस्य वै हविर्न
गृह्णन्ति तदशितमनशितं स यदश्नाति तेनापितृदेव-
त्यो भवति यद्यु तदश्नाति यस्य हविर्न गृह्णन्ति तेनो
देवान्नात्यश्नाति । स वा आरण्यमेवाश्नीयात्” “व्रत-
प्रसङ्गादागतं तद्विसर्जनं समाप्य पूर्व्वेद्युर्यजमानेन
व्रतानन्तरं यत् कर्त्तव्यं तद्वक्तव्यं प्रतिजानीते अथेति ।
यतो ब्रतानन्तरमशनानशनापरनामकमारण्याद्यशनमेव
यजमानेन कर्त्तव्यम् अतस्तदनन्तरमेव तस्य निरूपणं
क्रियत इत्यर्थः । प्रतिज्ञा तस्याशनानशनपक्षस्य प्रशंसार्थम् ।
केवलानशनपक्षं निरसितुमुपन्यस्यति तदु हेति । तत्त-
स्मिन्नशनाशननविषये अनशनं सर्व्वात्मना अशनत्यागम् ।
उपवसथनामनिर्वचनेन देवानामागभनं द्रढयति तेऽस्येति
उपसमीपे यजमानस्य वसन्ति देवा अस्मिन्निति पूर्व
दिवस उपवसथनामक इत्यर्थः । गृहे मनुष्येष्वागतेष्वन
श्नत्सु पूर्ब्बोऽश्नीयादिति यत्तस्यानवकॢप्तिः किमु वक्तव्या?
अषाढेन चेन्मुनिना निर्णीतोऽनशनपक्षः तर्हि स एव
परमार्थः । कथमशनानशनपक्षः? इति चेत् अनेन
मुनिनैव स्वमतसमर्थनाय प्रत्येकपक्षौ दूषयित्वा याज्ञवल्केन
सोपपत्तिना नोभयावित्युक्तम् । यदीति अशनानशनलक्षणं
यदीति । दैविके हि कर्म्मणि देवान् प्रत्युद्दिष्टस्यैव हविषः
प्रथममनुपयोगः काममन्यस्य, पित्र्ये पुनरनिय
माद्धविषोऽन्यदाप अनुपयोग्यमिति पितृदैवत्थतामापा-
दयतीति याज्ञवल्क्यस्याशयः । तत् किं दैविके कर्म्मणि
प्रागपि भोक्तव्यमिति यस्तमाशयमजानानः शङ्कते
तमाह यद्यु इति यदि तु अश्नाति तदा अशिशिषतो
देवानतिक्रम्य स्वयं भुक्तवान् स्यात् । अशनानशनप-
क्षयोरुभयोरपि दोषश्चेत् का गतिरिति यद्द्रव्यमशित
मप्यनशितवद्भवति तदश्नीयात् । यस्य द्रव्यस्य संबन्ध्य-
न्नं हविष्ट्वेन देवा न गृह्णन्ति तदशितमपि सदनशित
वद्भवति । तथात्वे यथोदीरितदोषद्वयाभावमाह स यदिति ।
आरण्यग्रहणं प्राकृतदर्शपूर्णमासहविर्व्यतिरिक्तोपलक्ष-
णम्” भा० । तत्र विहितः ठञ् भावे अथ । वैदिके कर्मभेदे
तच्च कर्म कात्या० ८, ८, ८, दर्शितम् । नवमाध्यायादौ
“उक्तमौपवसथ्यं कर्मेति” कर्कः ।

उपवस्त न० उप + वसु स्तम्भे उपमृष्टत्वादभोजने भावे क्त । उपवासे अमरः ।

उपवस्ति स्त्री उप + वसु--स्तम्भेभावे क्तिन् । उपष्टम्भे

आलम्बने तेन जीवति वेतना० ठञ् । औपवस्तिक तदुपजी-
विनि त्रि० ।

उपवाक पु० उप + वच--घञ् कुत्वम् । उपेत्य वचने १

परस्परालापे “नमस्वन्त इदुपवाकमीयुः” ऋ० १, १६४, ९,
“उपवाकमुपेत्य वचनं परस्परवचनम्” भा० । उपवाति
उप + वा--भावे क्विप् तस्यै कं जलं यत्र । २ यवे पु०
“सक्तूनां रूपं वदरमुपवाकः करम्भस्य” यजु० १९०, २२,
“सरस्वत्युपवाकैर्व्यानम्” १९, ९०, “उपवाका यवाः” वेददी०
“अथ नासिकयोर्लोमानि तान्युपवाकसक्तवश्च वदरसक्त-
वश्च श्रोत्रे एवास्येन्द्रौ ग्रहौ” शत० ब्रा० १२, ९, १, ५,
भ्रष्टयवैर्हि जलस्य शोषणात् तथात्वम् । ३ इन्द्रयवे स्त्री
ङीप् “वदरैरुपवाकीभिर्भेषजं तीक्मभिः” यजु० २१, ३०,
तस्मिन् हितः यत् । उपवाक्य तत्साधने वह्नौ उप +
वचकर्मणि ण्यत् कुत्वम् । सम्भाषणीये “अयमग्निर्व्रध्न्यश्वम्य
वृत्रहा सनकात् प्रेद्धो नमसोपवाक्यः” ऋ० १०, ६९, १२,
कुत्वाभावे उपवाच्य स्तुते प्रणम्ये च “अहन्निस्स्वो यथा
विदे शीर्ष्णाशीर्ष्णोपवाच्यः” ऋ० २, १, १३२,

उपवाद पु० उप + वद--घञ् । अपवादे निन्दायाम् “पशूप-

वादाश्च” कात्या० “पशूपवादः पशुदाननिन्दा” कर्कः
णिनि उपवादिन् । तत्कारिणि “तस्मान्नोपवादी स्यादुत
ह्येवंवित्परो भवति” ऐत० “येऽल्पाः कलहिनः पिशुना
उपवादिनः” छा० उ० ।

उपवास पु० उप + वस--घञ् । भोजनाभावे भोजननिवृत्तौ

स च वैधः अवैधश्चेति भेदात् द्विविधः । तत्र वैधस्य व्रत-
रूपत्वम् । तस्य संकल्परूपत्वं निरस्य एका० त० संकल्प-
जन्यत्वमुक्तम् यथा “दीर्घकालानुपालनीयः सङ्कल्पोर्व्रत-
मिति नारायणोपध्यायानां स्वरसः । स्वकर्त्तव्यविषयो-
नियतः सङ्कल्पोब्रतमिति श्रीदत्तहरिनाथवर्द्धमानप्रभृ-
तयः । सङ्कल्पश्च भावे मयैतत् कर्त्तव्यमेव, निषेधे न
कर्त्तव्यमिति ज्ञानविशेषः अतएव मङ्कल्पः कर्म्ममानस-
मित्याभिधानिकाः । वस्तुतस्तु पूर्ब्बोक्तवराहपुराणवचने-
नैकादश्युपवासस्य व्रतत्वाभिधानात् “एकभक्तेन नक्तेन
तथैवायाचितेन च । उपवासेन चैकेन पादकृच्छ्र
उदाहृतः” इत्यादियाज्ञवल्क्याद्युक्तेषु एकभक्तनक्ताया-
चितभोजनोपवासादिषु पादकृच्छ्रादित्वाभिधानाच्च
न ससङ्कल्पोव्रतं किन्तु सङ्कल्पषिषयतत्तत्कर्म्मैव व्रतमिति ।
अतएवंव्रतानां सङ्कल्पसम्भवत्वमाह मनुः “सङ्कल्पपूलः
पृष्ठ १३२३
कामोवै यज्ञाः चङ्कल्पसम्भवाः । ब्रतनियमधर्म्माश्च सर्व्वे
सङ्कल्पजाः स्मृताः” । अनेन कर्म्मणा इद मिष्टं फलं
साध्यते इत्येवंविषया वुद्धिः सङ्कल्पस्तदनन्तरमिष्टसाधन
तया अवगते तस्मिन् इच्छा जायते ततस्तदर्थं प्रयत्नं
कुर्व्वीत इत्येवं यज्ञा सङ्कल्पसम्भवाः । ब्रतनियमरूपाध-
र्म्माश्चतुर्थाध्याये वक्ष्यमाणाः । सर्व्वे इत्यनेन अन्येऽपि
शास्त्रार्थाः सङ्कल्पादेव जायन्तैति कुल्लूकभट्टः । सङ्क-
ल्पमाह वराहपुराणम् । “प्रातःसङ्कल्पयेद्विद्वानुपवासब्रता-
दिकम् । नापराह्णे न मध्याह्ने पित्र्यौ कालौ हि तौ
स्मृतौ” अत्र संकल्पोव्रतारम्भः” । तत्र भोजनाभावश्च
अहोरात्रकालावच्छिन्नः । यथोक्तं स्मृतौ “तपनोदयमारभ्य
यामाष्टकमभोजनम् । उपवासः सविज्ञेयः प्रायश्चित्ते
विधीयते” प्रायश्चित्ते इत्युपलक्षणम् । प्राजापत्यादौ
त्रिरात्राद्युपोषणमस्यैवावृत्त्या बोध्यम् । उपवासश-
ब्दस्य निरुक्त्यन्तरं भवि० पु० दर्शितं यथा “उपा-
वृत्तस्य पापेभ्योयश्च वासोगुणैः सह । उपवासः स विज्ञे-
यः सर्वभोगविवर्जितः” वैधोपवासस्य यथा निवृत्ति
रूप यत्नपरतया भावरूपत्वं तथा एका० त० समर्थितम् यथा
एवञ्च सङ्कल्पविषयस्य अनन्तं पूजयेद्धरिमित्यादौ भावत्वं,
नेक्षेतोद्यन्तमादित्यमित्यदौ चाभावरूपत्वम् । ननु तर्हि
वत्रस्य क्वचिदप्यभावरूपत्वात् “निषेधः कालमात्रके” इत्यस्यैव
विषयत्व स्यादिति चेन्न तस्य केवलनिषेधविषयकत्वात् अस्य
तु सङ्कल्पादीतिकर्त्तव्यतायोगित्वेन भावघटितत्वात् “तत्र पूज्य
विधेर्वृत्तिः” इत्यस्यैव विषयत्वमिति । जोमूतवाहनेनापि
“एकादश्यां भोजने दोषं दर्शयन्नुपवासं नियमयति ।
नचायं निषेधः इतिकर्त्तव्यताविधानात् निषेधे चेतिकर्त्तव्यता-
विर हाद्व्रतपदाप्रयोगाच्च” इत्युक्तम् । यत्तु निषेधप्रकरण-
स्थदेवलवचने “म शङ्खेन पिबेत्तोयं न खादेत् कूर्म्म-
शूकरौ । एकदश्यां न भुञ्चीत पक्षयोरुभयोरपि” इत्यत्र
नञोनिषेधे मुख्यत्वाद्भोजनाभावः प्रतीयते नत्वभोज-
नसङ्कल्परूपं व्रतं लक्षणाप्रसङ्गात् । मत्स्यपुराणे
“दशम्यां नियताहारो मांसमैथुनवर्ज्जितः । एकादश्यां
न भुञ्जीत पक्षयोरुभयोरपि” इति दशमीनियमपूर्बकं
व्रतमभिधाय “रटन्तीह पुराणानि भूयोभूयोवरानने! ।
न भोक्तव्यं न भोक्तव्यं सम्प्राप्ते हरिवासरे” इत्यादिविधे-
रनन्यगतिकतया निषेधकत्वमवश्यं वाच्यम् । तथाच
निषिद्धे भोजने दोषश्रवणं निषेधातिक्रमजन्यतयैवोपपद्यमानं
न फलश्रुत्या काम्यतया निरूढ़स्य व्रतस्य नित्यत्वे प्रमाण-
मिति तच्चिन्त्यं न खलु “न शङ्खेन पिवत्तोयमित्यादिभिः”
प्रतिपन्ननिषेधभावैः साहचर्य्येणैकादशीभोजननिषेधकमात्र-
मुत्तरार्द्धं किन्तु “एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि ।
वनस्थयतिधर्म्मोऽयं शुक्लामेव सदा गृही” इति गोभिल-
वचने धर्म्मशब्दसममिव्याहारेणैकादश्यामुपवसेदित्यनेनैक-
वाक्यतया चोपवासविधायकमपि नहि निषिद्धानां ब्रह्म-
हत्यादीनां त्यागेन कश्चिद्धर्म्मोजायते किन्तु भावरूपाङ्गानु-
गृहीतोनिषिद्धोधर्म्मोभवेदिति, वैधोपवासे च “उपावृत्तस्य
पापेभ्योयश्च वासोगुणैः सह । उपवासः स विज्ञेयः
सर्वभोगविवर्ज्जितः” इति भविष्यपुराणवचनेन
भोगमात्रस्यैव वर्जने प्राप्ते वचनान्तरादहोरात्राभोजनस्यैव
पापनिवृत्तगुणवासयुक्तस्य प्राधान्यमन्यभोगवर्जनस्याङ्गत्वम् ।
तथाच “सूतके मृतके चैव प्रणम्य मनसा हरिम् ।
एकादश्यां न भुञ्जीत व्रतमेतद्धि वैष्णवम्” । अत्र एकादश्या-
मुपवासमात्रस्य व्रतत्वमुक्तम् एकादश्यां न भुञ्जीतेत्यस्य व्रत-
परत्वेन नाभोजनपरता तस्याश्च पूर्बं दूषितत्वात् । ततश्च
यथा एकादश्यां न भुञ्जीत इत्यत्र वचनान्तरादुपवासरूप-
व्रतपरत्वं तथा न भोक्तव्यमित्यत्रापि । वस्तुतस्तु वराह-
पुराणे एकादशीव्रतसन्दंशमध्ये “न शङ्खेन पिबेत्तोयमिति”
न भोक्तंव्यं न भोक्तव्यमिति वचनद्वयमभिधाय व्रत्ताकरणे
प्रत्यवाय उक्तः । नच पौनरुक्त्यभिया तस्य निषेधकत्व-
मिति वाच्यम् तथात्वे एतद्वचन एव न भोक्तव्यमिति
पुनरुपादानं व्यर्थं स्यात् किन्तु वीप्सया तस्यैव व्रतस्य
नित्थत्वख्यापनमिति । अन्यथा “निषेधः कालमात्रकः”
इत्यनेनैव एकादशीक्षण एव भोजननिषेधः स्यात्” ।
“एकादश्यां प्रकुर्वन्ति उपवासं मनीषिणः” इति
भविष्यपुराणे उपवासपदान्निराहारपदं नैकादशीकालमा-
त्राभोजनपरम् किन्तु तद्युक्ताहोरात्राभोजनपरम् ।
तत्रैवोपवासपदव्यवहारात् । नच वैपरीत्यम् उपवास-
पदस्याहाराभावमात्रपरत्वे लक्षणाप्रसङ्गात् । निराहार-
पदस्योपवासपरत्वे तु न लक्षणा सामान्यशास्त्रस्य विशेष-
तात्पर्य्यकत्वात् । तथाच कात्यायनः “नित्योपवासी
योमर्त्यः सायं प्रातर्भुजिक्रियाम् । सन्त्यजेन्मतिमान्
विप्रः संप्राप्ते हरिवासरे” । सायं प्रातरिति रात्रिदिवो-
पलक्षणम् “मुनिभिर्द्विरशनमुक्तं विप्राणां मर्त्यवासिनां
नित्यम् । अहनि च तथा तमस्विन्यां सार्द्धप्रहरयामान्तः”
इति छन्दोगपरिशिष्टैकवाक्यत्वात् । प्रतएव खण्डतिथेर-
प्यहोरात्रत्वकीर्त्तनम् अहोरात्रसाध्यकर्म्माङ्गत्वार्थम् । तथाच
पृष्ठ १३२४
विष्णुधर्मोत्तरे । “सा तिथिस्तदहोरात्रं यस्यामभ्युदितो-
रविः । तया कर्माणि कुर्वीत ह्रासवृद्धी न कारणम् ।
सा तिथिस्तदहोरात्रं यस्यामस्तमितोरविः । तया कर्माणि
कुर्वीत ह्रासवृद्धी न कारणम् । शुक्लपक्षे तिथिर्ग्राह्या
यस्यामभ्युदितोरविः । कृष्णपक्षे तिथिर्ग्राह्या यस्यामस्त-
मितोरविः” । तच्च तिथ्यन्तरसहायभावं विना प्रायोन
सम्भवति अतएव गृह्यपरिशिष्टे युग्माग्नीत्याद्यभिधाय
“तिथ्योर्युग्मं महाफलम्” इत्युक्तं अस्य प्रयोजनन्तु तिथेः खण्ड-
विशेषनियमनम्, स्वतिथ्या क्रर्मानिर्वाहे सहायभावेनान्य-
तिथ्यनुप्रवेशेनाहोरात्रसाध्योपवासाद्याचरणञ्च । एवञ्च
प्रातःकाले तत्तिथ्यलाभे तिथ्यन्तरेऽप्युऽपवाससङ्कल्पः
अहोरात्राभोजनरूपस्य तस्य प्रातरारम्भार्हत्वात् । संवत्सर-
प्रदीपेऽपि “प्रातःसन्ध्यां ततः कृत्वा सङ्कल्पं बुध
आचरेत्” इत्युक्तम् । अत्र च कर्म्मणस्तावदपूर्व्वजनकत्वेन
विधियत्वेन प्राधान्यम् तिथ्यादेर्गुणत्वेन क्वचिदुपलक्षणत्वमाह
गर्गः । “तिथिनक्षत्रवारादि साधनं पुण्यपापयोः ।
प्रधानगुणभावेन स्वातन्त्र्येण न ते क्षमाः” इति प्रधानम्य
कर्म्मणोगुणभावेनाङ्गत्वेन । एवञ्च निराहारपदस्योपवास-
परत्वे न कलञ्चाधिकरणन्यायान्नैकादशीक्षणमतिवाह्य
भोजनम् । किन्त्वेकादश्यामिति विहितैकादशीयुक्ताहोरा-
त्रपरम् । अथ कलञ्जाधिकरणम् । तत्र श्रुतिः “न
कलञ्जंभक्षयेत्” इति कलञ्जभक्षणाभावविषयकं कार्य्य-
मित्यर्थः । तत्र कालविशेषानुपादानान्निषिध्यमानक्रिया-
यां प्रवृत्तिमतोनिषेधविधावघिकाराद्यावत्कालमेव तस्यां
तस्य निवृत्तिः । न हि कलञ्जभक्षणाद्यतः कुतश्चित्
कारणान्निवृत्तस्य निषेधानुपालनं सकृद्वृत्तमिति कलञ्ज-
भक्षणनिषेधो न पुनस्तं निवर्त्तयति किन्तु भक्षणप्र-आ
वृत्तिमत्तामात्रमधिकारिविशेषणं यदा यदा भवति तद
तदा एव निषेधविधिरपि तं निवर्त्तयति । न हि
कलञ्जस्यभक्षणमुपक्रम्य यावत्कालं तद्भक्षयति । अतस्त-
दितरकाले निवृत्तिः सिद्धैवेति भवति विफलोविधिः ।
ननु नासौ निवृत्तिरप्रवृत्तस्य निवृत्त्यनुपपत्तेः, सत्यं
प्रवृत्त्युपाधिना विनाशं प्राप्स्यन् प्रागभावएव प्रवृत्ति-
निराकरणात् साध्यमानोनिवृत्तिरुच्यते न तु प्रवृत्ति-
रपि साध्यतयोपदिश्यते किन्तु रागप्राप्तप्रवृत्तिमतएव
निषेधविधावधिकारः । यत्तु “मनसा तु प्रवृत्तस्य भूतचेष्टा-
वतोऽपि वा । यदनागतभावस्य वर्ज्जनं तन्निवर्त्तनम्” इति
तत्रापिशब्देनाप्रवृत्तमात्रसमुच्चयान्न विरोधः भूतत्रेष्टावत
इति । “भूतं क्ष्मादौ पिशाचादौ जन्तौ क्लीवं त्रिषू-
चिते । प्राप्ते वृत्ते समे सत्ये देवयोन्यन्तरे तु ना” इति
मेदिन्युक्तेः भूते प्राप्ते निषेध्ये चेष्टावत इत्यर्थः ।
ततश्च प्रागभाव एव कालान्तरसम्बन्धितया साध्यत्वेनोप-
दिश्यते । प्रागभावश्चानादिसंसर्गाभावमात्रपरः सचाप्रवृ-
त्तस्य भक्षणकारणमननुतिष्ठतः सिध्यत्येव । तस्मात्
सकृत्क्रियापर्य्यवसायित्वे विफलोविधिः कादाचित्का-
करणस्य निषेधमन्तरेणापि प्राप्तेः । न च स्वर्गकामादिवत्
साध्यतया प्रवृत्तिमत्कर्त्तृकत्वमप्यङ्गं विषयमात्राननुष्ठाना-
धीनसिद्धत्तत्वान्निषेधनियोगानामितिकर्त्तव्यताऽऽकाङ्क्षावि-
रहात् अतएव शुचित्वमपि तत्र नाङ्गम् । तस्मान्निषे-
धविधिषु काकवन्तोदेवदत्तस्य गृहाइत्यादिवत्तटस्थत्वेना-
धिकारिविशेषणीभूतायाः प्रवृत्तेर्यावत्कालमनुवृत्तिस्ता
वत्कालमेव निवृत्तौ साफल्यं पुनर्निमित्तान्तरवन्न
सकृदनुष्ठानेनैव शास्त्रार्थसिद्धिः” । गदाधरस्तु विघिस्वरूपे
उपवासादिव्रतादेर्निषेधविधिवोध्यतवा वैधत्वं कलञ्ज
भक्षणादेश्च निषेधविषयतया निषिद्धत्वमङ्गीचकार । तस्या-
यमाशयः । विधिप्रत्ययार्थस्येष्टसाधनत्वादेर्धात्वर्थे एवान्वय
व्युत्पत्तेः एकादश्यापुपवसेदित्यादिवाक्येन उपवासे
लिङाद्यर्थेष्टसाधनत्वस्यान्वयबोधनात् भोजनाभावरूपोपवासस्य
निषेधरूपतया तत्र च विध्यर्थान्वयात् निषेधविधित्वम् तदेक
वाक्यतया च एकादश्यां न भुञ्जीतेत्यादौ भुजधातोरुप-
षासपरत्वकल्पनं नञ् तु तत्र तादृशलक्षणाग्राहकः एवञ्च
तत्र निषेधरूपभोजनाभावे इष्टसाधनत्वबीधनान्निषेधवि-
धित्वम् । प्रकृत्यर्थे एव प्रत्ययार्थान्वयनियमेन तथान्वयस्यैवौ
चित्यम् । न कलञ्जं भक्षयेदित्यादौ तु णञा कलञ्जभक्षण
एव विध्यर्थेष्टसाधनत्वस्याभावबोधनात् निषेधरूपत्वम् ।
नञसमभिव्याहृतस्थले यत्र यस्यान्ययः तत्सममिव्याहारे तु तत्र
तस्याभावान्वयनियमात् मैत्रः पचतीत्यादौ मैत्रे पाचकर्त्तृ-
त्वान्वयेन मैत्रो न पचतीत्यादौ तत्रैव कर्त्तृत्वाभावान्वयदर्श-
नात् । ननु एकादश्यां न भुञ्जीतेत्यत्रापि कुतो न तथान्वय
इति चेत् तत्र तथान्वयसम्भवेऽपि एकादश्यामुपवसेत्
इत्यादौ तथान्वयासम्भवात् तत्र धातुनैव भोजनाभावस्यो-
पस्थापनात् तत्रैव विध्यर्थान्वयौचित्यात् न च तत्र स्या-
तन्त्र्येणाभावबोधकपदमस्ति येन विध्यर्थान्वयस्तत्र स्यात् ।
तदेकवाक्यतया च न भुञ्जीतेत्यादौ उक्तनिबेय विधि-
त्वमुचितमिति । निषेधविधेश्च इष्टसाधमताज्ञानजननद्वारा
प्रवर्त्तकत्वम् निषेधस्य तु उदीच्यानिष्टसाधनत्वज्ञारोपजन-
पृष्ठ १३२५
नात् निवर्त्तकत्वमिति भेदः विस्तरस्तु विधिस्वरूपे दृश्यः ।
प्रागुक्त भवि० पु० वाक्यव्याख्यायाम् एका० त० रघु०
“उपावृत्तस्य निवृत्तस्य पापेभ्यः पापकर्म्मभ्यः । मैथि-
लास्तु दोषेभ्य इति पठित्वा दोषेभ्योरागद्वेषमात्-
सर्य्यादिनिषिद्ध्वात्मधर्म्मेभ्यैत्यर्थमाहुः । गुणानाह
गोतमः । “दया सर्व्वभूतेषु क्षान्तिरनसूया शौचमनाया-
सोमङ्गलमकार्पण्यमस्पृहा चेति” । दयादिलक्षणान्याह
वृहस्पतिः । “परे वा बन्धवर्गे वा मित्रे द्वेष्टरि वा सदा ।
आत्मवद्वर्त्तितव्यंहि दयैवैषा प्रकीर्त्तिता” । परे उदासीने ।
आत्मवदित्यत्र आपत्सु रक्षितव्यमितिकल्पतरौ पाठः ।
व्यक्तमाह दक्षः । “यथैवात्मां परस्तद्वद्द्रष्टव्यः सुखमि-
च्छता । सुखदुःखानि तुल्यानि यथात्मनि तथा परे” ।
वृहस्पतिः । “बाह्ये चाध्यात्मिके चैव दुःखे चोत्पादिते क्वचित् ।
न कुप्यति न वा हन्ति सा क्षमा परिकीर्त्तिता । न गुणान्
गुणिनोहन्ति स्तौति मन्दगुणानपि । नान्यदोषेषु रमते
साऽनसूया प्रकीर्त्तिता । अभक्ष्यपरिहारस्तु संसर्गश्चाप्य-
निन्दितैः । स्वधर्मे च व्यवस्थानं शौचमेतत् प्रकीर्त्ति-
तम् । शरीरं पीड्यते येन सुशुभेनापि कर्मणा । अत्यन्तं
तन्न कुर्वीत अनायासः स उच्यते । प्रशस्ताचरणं नित्य-
मप्नशस्तविवर्जनम् । एतद्धि मङ्गलं प्रोक्तमृषिभिस्तत्त्वद-
र्शिभिः । स्तोकादपि च दातव्यमदीनेनैव चात्मना ।
अहन्यहनि यत् किञ्चिदकार्पण्यं हि तत् स्मृतम् । यथोत्-
पन्नेन सन्तोषः कर्त्तव्योऽप्यल्पवस्तुना । परस्याचिन्तयि-
त्वार्थं साऽस्पृहा परिकीर्त्तिता” । देवीपुराणम ।
“वद्ध्यानं तज्जपः स्नानंतत्कथाश्रवणादिकम् । उपवास-
कृतो ह्येते गुणाः प्रोक्ता मनोषिभिः” सर्वभोगविवर्जतः
शास्त्राम नुमतनृत्यगीतादिसुखरहितः” अत्र दन्तधावने
मैथिलमतमुत्थाप्य दूषितं तत्रैव । “अत्र र्मतिलाः वृद्ध-
शातातपोभोगविशेषान् प्रतिप्रसूते । “गन्धालङ्कारवस्तूनि
पुष्पमाल्यानुलेपनम् । उपवासे न दुष्येत दन्तधावनमञ्ज-
नम्” । गौड़ीयस्मृतिः “उपवासे तथा श्राद्धे न स्वादेद्दन्त-
धावनम् । दन्तानां काष्ठसंयोगोदहत्यासप्तमं कुलम्” तत्र
योगीश्वरः “तस्मात् सर्वप्रयत्नेन भक्षयेद्दन्तधावनम्” इत्यभि-
धाय दन्तकाष्ठसंयोगं निषिध्य मृल्लोष्टादिना दन्तधावनमिति
विरोधं परिजहारेति वदन्तोनञर्थं व्याचक्रुः तन्न वृद्धशा-
तातपेन “मुखे पर्य्युषिते नित्यं भवत्यप्रयतोनरः । तस्मात्
सर्वप्रयत्रेन भक्षयेद्दन्तधावनम्” इत्यभिधाय तद्वचना-
भिधानेम दन्तधावने दोषएवोक्तः । अन्यथा पौनरुक्त्या-
पत्तेः “अञ्जनं रोचनञ्चापि गन्धान् सुमनसस्तथा । पुण्यके
चोपवासे च नियमेव विवर्जयेत्” इति हरिवंशात् मिता-
क्षरायाम् । “गात्राभ्यङ्गं शिरोभ्यङ्गं ताम्बूलं चानुले-
पनम् । व्रतस्थोवर्जयेत् सर्वं यच्चान्यद्बलरागकृत्” इत्य-
नेनानुलेपनरागकृन्निषेधाच्च । अतएव प्रायश्चित्तविवेक-
कृद्भिः सुष्ठूक्तमुपवासेन हेतुनेति” ।
जीमूतवाहनेनापि उपवासे चेति पठित्वा चकारादनु-
क्तादिष्वपीति व्याख्यातम् । तस्माद्गन्धेत्यादि सर्व्वभोगस्यैव
पृदर्शकं तेन विलासार्थगन्धादिवर्ज्जनं कार्य्यम् ।
देवलः “उपवासः प्रणश्येत दिवास्वापाक्षमैथुनैः । अत्य-
ये चाम्बुपाने च नोपवासः प्रणश्यति” । उपवासोऽपि
नश्येतेति कल्पतरुपाठे अपिनान्यद्व्रतं समुच्चीयत इति
विशेषः । अक्षैर्द्यूतैः । अत्यये नाशे सम्भाव्यमाने ।
मैथुने विशेषमाह देवलः । “उपवासे तथा यौनं हन्ति
दृप्तकुलानि वै । स्त्रीणां संप्रेक्षणात् स्पर्शात्तामिः सङ्क-
थनादपि । ब्रह्मचर्य्यं विपद्येत न दारेष्वृतुसङ्गमात्”
संप्रेक्षणात् संकथनादित्यत्र सरागत्वं संशब्दस्यार्थः साह
चर्य्यात् स्पर्शोऽपि तथेति प्रायश्चित्तविवेकः । कात्याय-
नोऽपि “रेतःसेकात्मकं भोगमृतेऽप्यत्र क्षयः स्मृतः ।
तथाच दक्षः । “स्मरणं कीर्त्तनं केलिः प्रैक्षणं गुह्य-
भाषणम् । सङ्कल्पोऽध्यवसायश्च क्रियानिष्पत्तिरेव च ।
एतन्मैथुनमष्टाङ्गं प्रवदन्ति मनीषिणः । अनुरागात् कृतञ्चैव
ब्रह्मचर्य्यविरोधकम्” ।
अनुकल्पपक्षप्रधानपक्षयोर्यथायोगम् अन्थान्यपि
वर्ज्यानि कालमा० उक्तानि यथा “कांस्यं मांसं मसूरांश्च
चणकान् कोरदूषकान् । शाकंमधु परान्नञ्च त्यजेदुपवसन्
स्त्रियम्” कूर्म्मपु० । “असकृज्जलपानञ्च दिवास्वापञ्च
मैथुनम् । ताम्बूलचर्वणं मांसं वर्ज्जयेद्ब्रतवासरे” विष्णु
ध० । “पतितपाषण्डिनास्तिकसम्भाषणमनृताश्लीला-
दिकमुपवासादिषु वर्ज्जयेत्” हारीतः । “बहिर्ग्रामान्त्य-
जान् सूतिं पतितं च रजस्वलाम् । न स्पृशेन्नाभिभाषेत
नेक्षेत व्रतवासरे” कूर्म्म पु० “स्मृत्यालोकनगन्धादिसेवनं परि
कीर्त्तनम् । अन्नस्य वर्जयेत् सर्व्वं ग्रासानाञ्चाभिकाङ्क्षणम् ।
गात्रात्यङ्गं शिरोभ्यङ्गं ताम्बूलं चानुनेपनम् । व्रतस्थो-
वर्ज्जवेत् सर्व्वं यच्चान्यत्र निराकृतम्” विष्णुर० । तत्रै-
कादस्युश्चुपवासे “यानि कानि च पापानि व्रह्महत्यादि-
कानि च । अन्नमाश्रित्य तिष्ठन्ति संप्राप्ते हरिवासरे, इति
भवि० पु० अन्नमात्रस्य निषेधेऽपि माषमसूरादिनिषोधोऽ-
पृष्ठ १३२६
नुकल्पपक्षेऽधिकदोषाय । अतएव “अन्नं तु धान्य
संमूतं गिरिजे! भुवि जायते । धान्यानि विविधानीह-
जगत्यां शृणु यत्नतः । श्याममाषमसूराश्च धान्यकोद्रव
सर्षपाः यवगोधूममुद्गाश्च तिलकल्ककुलत्थकाः” इत्यादीन्य-
ष्टादश धान्यान्युक्त्वा “एतैरेव समुद्भूतमन्नं भवति शोभने! ।
अन्नत्थागे ब्रते भक्ष्येष्वेतान्येव विवर्ज्जयेदिति” शाम्बोत्तर
खण्डे धान्यमात्रसंभूतान्नस्य निषेधात् । अतएव नक्तं
हविष्यान्नमनोदनं वेत्यनेन अनोदनपदेन सिद्धान्नमात्रभिन्न-
स्यानुकल्पतोक्ता ।
एकादश्युवासेऽधिकारिण एकादशीशब्दे वक्ष्यते ।
सभर्तृकायान्तु भर्त्रनुमतिं विनोपवासे नाधिकारः । “नास्ति
स्त्रीणां पृथग् यज्ञो न व्रतं नाप्युपोषणम् । पतिं शुश्रूषते
यत्तु तेन स्वर्गे महीयते” मनूक्तेः सावित्रीव्रतादौ विशेष-
विधानात् भर्त्रनुज्ञयाऽधिकारः । अतएव शङ्खेन सामान्यत
उक्तम् “कामं मर्त्रनुज्ञया ब्रतोववासनियमेज्यादीनाम
भ्यासः स्त्रीधर्म्मः” “पत्यौ जीवति या नारी उपोष्य ब्रत-
साचरेत् । आयुः संहरते पत्युः सा नारी नरकं व्रजेत्”
इति विष्णुवाक्यन्तु अनुमत्यभावविषषयकम् ।
स च उपवासः नित्यः काम्यः नैमित्तिकश्चेति त्रिधा तत्रै-
काशीशिवरात्र्याद्युपवासोनित्यः । एकादशीशब्देशिवरा-
त्र्यादि शब्दे च तत्प्रमाणं दृश्यम् । काम्यस्तु “अमावस्या
द्वादशी च संक्रान्तिश्च विशेषतः । एताः प्रशस्तास्तिथयो
मानुवारस्तथैव च । अत्र स्नानं जपोहो मोदेवतानाञ्च
पूजनम् । उपवासस्तथा दानमेकैकं पावनं स्मृतम्” संव० “सप्त
वारानुपोष्यैव सप्तधा संयतेन्द्रियः । सप्तजन्मकृतं पापं
तत्क्षणादेव नाशयेत्” सं० प्रदी० “नित्यं द्वयोरयनयोर्नित्यं
विषुवतोर्द्वयोः । चन्द्रार्कयोर्ग्रहणयोर्व्यतीपातेषु पर्वसु ।
अहोरात्रोषितः स्नानं दानं होमं तथा जपम् । यः
करोति प्रसन्नात्मा तस्य स्यादक्षयञ्च तत्” ब्रह्मपु० इत्यादौ
विहितः तत्रायनविषवत्सुनित्य इति भेदः । नैमित्तिकः
प्रायश्चित्तरूपः “त्र्यहं प्रातस्त्यहं सायं त्र्यहमद्याद-
याचितम् । त्र्यहं परञ्च नाश्नीयात् प्राजापत्यं चरन्
द्विजः” मन्वादिविहितः एवमन्यान्यपि प्रायश्चित्तविधाय-
कानि वाक्यानि स्मृतितोज्ञेयानि
तत्र काम्ये सर्व्वशक्तिमानधिकारी भवतीत्युक्तेः सर्व्वाङ्गो
पेतस्यैवाधिकारः । नित्ये तु यथाकथञ्चिदनुष्ठानमिति
समर्थितम् एका० त० “एवञ्चैकादशीव्रतस्य नित्यत्वात्
किञ्चिदङ्गवैकल्येऽपि प्रधानोपवासादेराचरणं यावज्जीवा-
धिकरणत्यायात् । स च न्यायोयथा “यावज्जीवमग्निहोत्र
जुहुयादिति श्रूयते तत्र किं सर्वाङ्गोपसंहारेणैवाधिकारः
उत यावज्जीवपदेन यावन्ति शक्नोतीत्युपसंरर्त्तुं यदा तदा
तावद्भिरङ्गैरुपेतं प्रधानं कुर्वन्नधिकरोतीति संशयः ।
तत्राद्ये सर्वाङ्गोपेतस्य प्रधानस्य फलसाधसत्वादङ्गवैकल्ये
फलानुदयात् सर्वाङ्गोपसंहार इति पूर्वपक्षः तत्र सिद्धान्तः
“सायं प्रातर्जुहोतीति” श्रुतेः सायं प्रातःकालावच्छित्रं
जीवनमग्निहोत्रस्य निमित्ततया श्रूयते नत्वङ्गानां, सति
निमित्ते नैमित्तिकमवश्यंभावि अन्यथा निमित्तत्वासम्भवात् ।
अतोऽशक्याङ्गपरित्यागेन प्रधानं कर्त्तव्यम् तावतैव
शास्त्रवशात् फलसिद्धिरिति अतएव नैमित्तिकाधिकारे
श्रीधरस्वामिधृता श्रुतिः “यथा शक्नुयात्तथा कुर्य्या-
दिति” । गौधायनोऽपि स्मरति । “यथा कथञ्चिन्नि
त्यानि शक्यवस्तुनिरूपतः । येन केनापि कार्य्याणि नैव
नित्यानि लोपयेत्” ।
असमर्थस्यानुकल्पेनाप्यचरणम् अनुकल्पश्च कर्त्तृद्रव्यादिषु
प्रतिनिधिरूपः तत्राह मनुः । “विश्वैश्च देवैः साध्यैश्च
ब्राह्मणैश्च महर्षिभिः । आपत्सु मरणाद्भीतैर्विधिः प्रति-
निधिः कृतः । प्रभुः प्रथमकल्पस्य योऽनुकल्पेन वर्त्तते ।
म साम्परायिकं तस्य दुर्मतेर्विद्यते फलम्” । अत्रापत्-
प्रतिनिध्यनुकल्पानांपर्यायता । कालविवेकधृतवराहपुराणे
“उपवासासमर्थस्तु किञ्चिद्भक्ष्यं प्रयोजयेत्” तथा एकाद-
शीमधिकृत्य स्मृतिः “एकभक्तेन नक्तेन भक्षन् वृद्वातुरः
क्षिपेत्” नारदीये “अनुकल्पोनृणां प्रोक्तः क्षीणानां
वरवर्णिनि! । मूलं फलं पयस्तोयमुपभोग्यं भवेच्छुभम् । नत्वेव”
भोजनं कैश्चिदेकादश्यां प्रकीर्त्तितम्” । एवमनुकल्पासामर्थ्ये
ब्रह्मवैवर्त्तः । “उपबासासमर्थश्चेदेकं विप्रन्तु भोजयेत ।
तावद्धनानि वा दद्यात् यद्भक्ताद्द्विगुणं भवेत् । सहस्र-
सम्मितां देवीं जपेद्वा प्राणसंयमान् । कुर्य्याद्द्वादशसंख्या-
कान् यथाशक्ति व्रते नरः” । देवीं गायत्रीम् । वायुपुराणे
“उपवासनिषेधे तु किञ्चिद्भक्ष्यं प्रकल्पयेत् । न दुष्यत्यु-
पवासेन उपवासफलं भवेत् । नक्तं हविष्यान्नमनोदनं
वा फलं तिलाः क्षीरमथाम्बु वाज्यम् । यत् पञ्चगव्यं यदि
वाथ वायुः प्रशस्तमत्रोत्तरमुत्तरञ्च” । उपवासनिषेघेतु
असामर्थ्यैव हविष्यादिरनुकल्पः । तानि च “अष्टौ
तान्यव्रतघ्नानि ह्यापोमूलं फलं पयः । हविर्ब्राह्मण
काम्या च गुरोर्वचनमौषधम्” वौधायनः । एकादश्य-
तिरिक्तोपवासे अनुकल्पपक्षे विशेषः नि० सि० । “नित्य-
पृष्ठ १३२७
स्नायी मिताहारो गुरुदेवद्विजार्चकः । क्षारं क्षौरञ्च
लवणम् मधुमांसानि वर्जयेत्” पृथ्वीच० अग्निपु० । क्षाराश्च
तत्रैवीक्ताः “तिलमुद्गादृते शिम्ब्यः शस्ये गोधूमकोद्रवौ ।
धन्याकं देवधान्यञ्च शमीधान्यं तथैव च । स्विन्नधान्यं
तथा पण्यं मूलं क्षारगणाः स्मृताः” गोधूमस्य क्षारत्वे-
ऽपि उपवासानुकल्पे प्रतिप्रसवस्तत्रैव “व्रीहिषष्टिकमुद्गाश्च
कलायः सतिलं पयः । श्यासाकश्चैव नीवारा गोधूमाद्या
व्रते हिताः” । कुष्माण्डालावुवार्त्तकुपालङ्गीज्योत्स्निका-
स्त्यजेत् । चतुर्भैक्षं सक्तुकणाः शाकं दधि घृतं मधु ।
श्यामाकशालिनीवारा यावकं मूलतत् फलम् । हविष्यं
व्रतनक्तादावग्निकार्यादिके हितम् । मधुमांसं विहा-
यान्यव्रते वा हितमीरितम्” । “चतुर्भैक्षं सक्तुकणाया-
वकशाकपयोदधिघृतमूलफलोदकानि हवींष्युत्तरोत्तरं प्रश-
स्तानि” मिता० गौत० । निर्णया० संग्र० । स्तेनहिंसकयोः
सख्यम् कृत्वा स्तैन्यञ्च हिंसनम् । प्रायश्चित्तं व्रती कुर्यात्
जपन्नामशतत्रयम् । मिथ्यावादे दिवास्वापे बहुशोऽम्बु-
निषेवणे । अष्टाक्षरं व्रती जप्त्वा शतमष्टोत्तरं शुचिः” ।
अतएव समर्थस्य किञ्चिद्भक्षणमपि भङ्ग्या निषिद्धम् ।
“उपवासो यदा राम! श्राद्धं नैमित्तिकं भवेत् । उपवासं तदा
कुर्य्यादाघ्राय पितृसेवित मिति” कात्या० ।
अथ कर्त्तृप्रतिनिधिः स्वयमशक्तौ प्रतिनिधिनाऽपि
उपवासादिव्रतं कार्य्यमित्याह स्कन्दपु० । “पुत्रञ्च विनयोपेतं
भगिनीं भ्रातरन्तथा । एषामभाव एवान्यं ब्राह्मणं विनि-
योजयेत्” गरुड़पुरा० । “भार्या भर्त्तुर्व्रतं कुर्याद्भार्यायाश्च
पतिस्तथा । असामर्थ्ये द्वयोस्ताभ्यां व्रतभङ्गोन जायते” ।
वराहपुराणे “पितृमातृपतिभ्रातृस्वसृगुर्वादिभूभुजाम् ।
अदृष्टार्थमुपोष्यैव स्वयञ्च फलभाग्भवेत्” ।
अत्र नि० सि० त्रिकाण्डमण्डने विशेषः “काम्ये प्रतिनिधि-
र्नास्ति नित्ये नैमित्तिके च सः । काम्येऽप्युपक्रमादूर्द्ध्वं
केचित् प्रतिनिधिं विदुः । न स्यात् प्रतिनिधिर्मन्त्रस्वामि-
देवाग्निकर्म्मसु । स देशकालयोर्नास्ति नारणेरग्निरेव सा ।
नापि प्रतिनिधातव्यं निषिद्धं वस्तु कुत्रचित्” । ततश्च
शक्तौ उपोषणादिकमनुकम्पादिना कार्य्यं पूजादिकं तु
स्वयमसामार्थ्ये अन्येन कारयेदिति एका० त० रघु० ।
नित्यकाम्ययोरुपवासयोरय मेदः “उपवासफलं प्रेप्सुस्त्य-
जेत् भक्तचतुष्टयमिति” कालमा० भारतम् “जह्याद्भक्तद्वयं
निये काम्ये भक्तचतुष्टयम् । सायमाद्यन्तयोर्भक्तमेकैकं
मध्यमे द्वयम्” एका० त० स्मृति । अत्र सायमित्यस्य
एकमोजनमात्रपरत्वम् तेन दैवात् पूर्व्वदिने दिववाऽ-
भोजने रात्रिभोजनेऽपि न फलाप्राप्तिः “अह्नोराद्य-
न्तयोरुक्तमेकैकं मध्यतो द्वयम् । उपवासफलप्रेप्सोर्वर्ज्यं
भक्तचतुष्टयमिति” वाराहात् ।
उपवास व्रतस्य वैधतया तत्तत्तिथेः पूज्यखण्डएव कर्त्तव्यता
तन्निरूपणाय प्रतिपदमारभ्य खण्डविशेषनियमनं
कालमा० दर्शितं तत्रादौ प्रतिपत्प्रकरणे यथोक्तं तदुच्यते
ततो “मार्गशिरे मासि प्रतिपद्यपरेऽहनि । इष्ट्वा गुरुञ्चोपव-
सेन्महादेवं स्मरन्मुहुरिति” । ननु पूर्वविद्धायां शुक्ल-
प्रतिपदि योऽयदुपवासौ विहितस्तस्य संकल्पः किं प्रातः
कार्यः किं वा परत्र, नाद्यः प्रातस्तदभावेन संकल्पायोगा-
त् । अतएव बौधायनः “योयस्य विहितः कालः कर्मण-
स्तमुपक्रमे । तिथिर्याऽभिमता सा तु कार्या नोपक्रमोज्झि-
तेति” स्कन्दपुराणेऽपि “योयस्य विहितः कालः कर्मणस्त-
दुपक्रमे । विद्यमानो भवेदङ्गं नोज्झितोपक्रमेण तु” (सन्धि-
रार्षः) । न द्वितीयः प्रातःकालस्यैव संकल्पाङ्गत्वात् तथा च
स्मर्यते “प्रातः संकल्पयेद्विद्वानुपवासव्रतादिकमिति” । तथा
“प्रातरारभ्यमतिमान् कुर्यान्नक्तव्रतादिकम् । नापराह्णेन
मध्याह्णे पित्र्यौ कालौ हि तौ स्मृताविति” । अत्रोच्यते
यथोक्तवचनबलात् प्रातरेव संकल्पः कार्यः तदानीं ज्योतिः-
शास्त्रप्रसिद्धप्रतिपदभावेऽपि स्मृतिभिरापादितायाः प्रतिपदः
सत्त्वात् अतएव देवलः “यान्तिथिं समनुप्राप्य अस्तं याति
दिवाकरः । तिथिः सा सकला ज्ञेया दानाध्ययनकर्मस्विति”
अत्र दानाध्ययनयोरुपवासादिनिखिलदैवोपलक्षणार्थत्ववि-
वक्षया कर्म्मस्विति बहुवचनं निर्दिष्टम् । अत्रास्तमयात् पूर्ब्बं
मुहूर्त्तत्रयव्यापिनीं तिथिं समनुप्राप्येति व्याख्येयम् ।
न तु ततोऽल्पव्याप्तिर्विवक्षिता तथा सति पूर्वोत्तरवे-
धाभावेनोत्तरतिथेरेव ग्राह्यत्वप्रसङ्गात् तथा च त्रिमुहूर्त्त
व्याप्तिः स्वन्दपुराणे दर्शिता । “यान्तिथिं समनुप्राप्य-
यात्यस्तं पद्मिनीप्रियः । सा तिथिस्तद्दिने प्रोक्ता त्रिमु-
हूर्त्ता यदा भवेदिति” । शिवरहस्यसौरपुराणयोरपि
“यां प्राप्यास्तमुपैत्यर्कः सा चेत् स्यात्त्रिमुहूर्त्तिका । धर्म्म-
कृत्येषु सर्वेषु संपूर्णां तां विदुर्बुधाः” इति । वृहद्वशि-
ष्ठोऽपि “यस्यान्तिथावस्तमियात् सूर्य्यस्तु त्निमुहूर्त्तकैः ।
यागदानजपादिभ्यस्तामेवोपक्रमेत् तिथिमिति” । ननु
सातन्तनत्रिमुहूर्त्तशुक्लप्रतिपदुपेतायां तिथौ प्रातरेव
संकल्प्य प्रतिपदुपवासः कार्य इति युग्मादिवचनमाश्रि-
त्य निर्णीतं तत्तिथिक्षये तथाऽस्तु ह्रासवृद्ध्योस्तु खर्वादि
पृष्ठ १३२८
वाक्यात्परेद्युरुपवासः प्रोप्नोतीति चेत् भैवं स्वर्वादिवा
क्यस्यैकोद्दिष्टादिविषयत्वात् तथा च व्यासः “द्वितीयादिक
युग्मानां पूज्यता नियमादिषु । एकोदिष्टादि वृद्ध्यादौ ह्रास
वृद्ध्यादि नोदनेति” नियमादिष्वित्यादिशब्देन पित्र्य-
कर्मव्यतिरिक्तव्रतोपवासादिसकलकर्मणोग्रहणम्, एकोदि-
ष्टादीत्यादिशब्देन विवाहादिमङ्गलाङ्गभूतश्राद्धव्यतिरिक्त-
पार्वणश्राद्धस्य, वृद्ध्यादावित्यादिशब्देन माङ्गलिकश्राद्धस्य,
ह्रासवृद्ध्यादीत्यादिशब्देन ययास्तमित्यादिशास्त्रस्य” ।
पूर्वाह्णवाक्यस्य सामान्यरूपत्वेन परविद्धोपवासविषय-
तया संकोचनीयत्वादिति तत्रोक्ते र्न पूर्वाह्णांदिशास्त्र
वैवर्थ्यम् । एतदेवाभिप्रेत्य निगमे श्रूयते । “पूर्ववि-
द्धासु तिथिषु भेषु च श्रवणं विना । उपोष्य विधि
वत् कुर्य्यात्तदन्ते चैव पारणमिति” । भेषु नक्षत्रेशु
स्कन्दपुराणेऽपि । “तिथीनामेव सर्वासामुपवासव्रतादिषु ।
तिथ्यन्ते पारणं कुर्याद्विना शिवचतुर्दशीम्” । अत्रोपवास
व्रतादिष्वित्यादिशब्द नैकभक्तानक्तयाचितानि गृह्यन्ते ।
यान्तिथिमुद्दिश्यैतानि पूर्वेद्युर्विहितानि परेद्युस्तत्तिथिभागे
समाप्ते पश्चाद्भोजनं कार्यम् अन्यथा पूर्ब्बदिनानुष्ठितै-
कभक्तादिव्रतानां वैकल्यं स्यादित्यभिप्रायः । अस्य च
तिथिभान्तपाणस्यापवादः क्वचित् स्मर्यते । “तिथ्यन्ते चैव
भान्ते च पारणं यत्र नोद्यते । यामत्रयोर्द्धगामिन्यां प्रात-
रेव हि पारणमिति” । तदलाभे उदयगामिन्याः पूज्यता
यथाह तत्रैव देवलः । “यान्तिथिं समनुप्राप्य उदयं याति
भास्करः । सा तिथिः सकला ज्ञेया स्नानदानजपादिष्विति”
व्यासोऽपि “उदयन्नेव सविता यां तिथिं प्रतिपद्यते । सा
तिथिः सकला ज्ञेया दानाध्ययनकर्म्मस्विति” । भविष्यो-
त्तरपुराणेऽपि । “व्रतोपवासनियमे घटिकैका यदोदये ।
सा तिथिः सकला ज्ञेया पित्रर्थे चापराह्णिकीति” । पद्म-
पुराणेऽपि “व्रतोपवासनियमे घटिकैका यदा भवेत् । उदये
सा तिथिस्तत्र विपरीता तु पैतृके” इति । स्कन्दपुराणेऽपि
“व्रतोपवासस्नानादौ घटिकैका यदा भवेत् । उदये
सातिथिर्ग्राह्या विपरीता तु पैतृक” इति । विष्णुधर्मोत्तरेऽपि
व्रतोपयासस्नानादौ घटिकैका यदा भवेत् । उदये सा
तिथिर्ग्राह्या श्राद्धादावस्तगामिनी” । बौधायनोऽपि
“आदित्योदयवेलायां याऽल्पापि च तिथिर्भवेत् पूर्ण्णा इत्येव
सा ज्ञेया प्रभूता नोदयं विनोत” अत्रमा० । “नन्वस्त्वेवं
कृत्स्नदिवसाभ्यनुज्ञा । तथाप्युत्तरविद्वायास्तिथेर्ग्रहणे
कियत्परिमाणमुदयेऽपेक्षणीयमिति विवेचनोयम् । तत्र
बौधायनेनाल्पापीत्यभिधानात् निमेषमात्र प्रतिभाति ।
तथा व्यासवाक्येऽपि प्रतिभाति उदयन्नेवेत्यभिधानात् ।
भविष्यत्पुराणादिवचनेषु षटिकामात्रं प्रतीयते ।
वचनान्तरे तु विष्णधर्म्मोत्तरबौधायनप्रोक्तं घटिकाचतु-
ष्टयं प्रतिभासते । तथा च पठ्यते । “उदिते दैवतं भानौ
पित्र्यं चास्तमितेरवौ” द्विमुहूर्त्ता त्रिमुहूर्त्ता सा तिथिर्हव्य-
कव्ययोरिति” । अस्यार्थः । भानावुदिते सत्युत्तरकालेऽ
ऽह्नो मुहूर्त्तद्वयं दैवत्यं तस्मिंश्चास्तमिते ततः पूर्वकालीन-
मह्नोमहूत्तत्रयं पितृदैवत्यम् अतस्तावत्कालव्यापिनी
यातिथिर्भवति सैव क्रमेण हव्यकव्ययोर्ग्राह्या भवतीति” ।
तत्रैवान्यत्र “पौर्बह्णिकादिवचनेन दैवे पूर्वाह्णव्या-
प्तायास्त्रिमूहूर्त्तपरिमितायास्तिथेर्ग्रहणं त्रिमूहूर्त्तन्यूना-
यास्तिथेः पूर्बाह्णव्याप्त्यभावात् पूर्बाह्णस्य पञ्चधा विभक्त
स्य मुख्यत्वादुदिते भानौ त्रिमूर्त्ता तिथिर्ग्रहीतव्या । यत्तु
दक्षेणोक्तं “त्रिमूहूर्त्ताऽपि नोकार्य्या यातिथ्युदयगामिनीति”
न तत् त्रिमूहूर्त्तव्याप्तेर्बाधकं प्रत्युतोपोद्वलकमेव । तथा हि
प्रतिषेधः सर्वत्र प्रसक्तिपूर्बकः प्रसक्तिश्च यथोक्तरीत्या
पौर्बाह्णिकवाक्याद्वा त्रिमुहूर्त्तवेधविधायिपैठोनसिवाक्याद्वा
भवति तच्च प्रसक्तं त्रिमुहूर्त्तत्वं समतिथौ वाधका-
भावात्तथैव व्यवतिष्ठते तिथिक्षये त्वधिकव्याप्तिविवक्ष-
या प्रतिषिध्यते । अतश्च तत्र चतुर्थमुहूर्त्तस्पर्शिनी
तिथिर्ग्राह्या तिथिसाम्यवत्तिथिवृद्धावपि मुहूर्त्तत्रयमेव
मुख्यं मुहूर्त्तद्वयं त्वनुकल्पः । एतदेव सूचयितुं त्रिभू-
हुर्त्तापीत्यपिशब्दः पठ्यते” । तत्रैव स्थलान्तरे स्मृत्यन्तरे
“एकादशी तथा षष्ठी अमावास्या चतुर्थिका । उपोष्याः
परसंयुक्ताः पराः पूर्वेण संयुताः” । शिवगीतायाम्
वृहद्वशिष्ठः “द्वितीया पञ्चमी वेधाद्दशमी च त्रयोदशी ।
चतुर्द्दशी चोपवावे हन्युः पूर्वोत्तरे तिथी” द्वितीयादयः स्ववेधेन
पूर्वामुत्तराञ्च हन्युरित्याह । तेन प्रतिपद् द्वितीयायुक्ता
उपवासे निषिद्धा । “प्रतिपत् सद्वितीया स्याद्--द्वितीया
प्रतिपद्युतेति” आपस्तम्बवाक्यं कृष्णप्रतिपद्विषयम् उपवासा-
तिरिक्तदैवकर्मपरं चेति माधवः । उपवासस्याहोरात्र
साध्यत्वेन स्वण्डतिथौ संपूर्णकालव्याप्त्यसम्भवेन व्याप्ति
बाहुल्यं पूर्वविद्धायामेव सम्भवति अह्नोऽपरभागे
सकलरात्रौ च तद्वाप्तेः । “उदये सा तिथिर्ग्राह्येति सामान्य
शास्त्रस्य विशेषशास्त्राद्दुर्वलत्वम् ततश्च अप्रराह्णद्वित्रि
मुहूर्त्तव्यापिन्येव पूर्वविद्धा उपोष्येति माधवमते स्थितम् ।
रघुनन्दनभते तु “पञ्चमी सप्तमी चैव दशमी च त्रयोदशी ।
पृष्ठ १३२९
प्रतिपन्नवमी चैव कर्त्तव्या साम्मुखी तिथिः” । पैठी० उक्तेः
“साम्मुख्यं नाम सायाह्नव्यापिनी दृश्यते यदा” इतिस्कन्द-
पुराणोक्तसाम्मुख्ययुक्तायाः प्रतिपदोग्राह्यता सायाह्नव्या-
प्तिश्च मुहूर्त्तान्यूनत्वेन ग्राह्यमिति । उभयदिने तत्प्राप्तौ
त्रिसन्ध्यव्यापिचे तु परैवोपोष्या “त्रिसन्ध्यव्यापिनी या
तु सैव पूज्या सदा तिथिः । न तत्र युग्मादरणमन्यत्र
हरिवासरादिति” पराशरवाक्येन तदपवादः एतच्च
जयन्तीशिवरात्र्यादि विशेषेतरपरमिति ति० त० तेनोक्तम् ।
अत्र प्रागुक्तबिशेषवचनानुसारिमाधवमतमेव ज्यायः ।
गौड़ादृतमपि रघुनन्दनमतन्तु सामान्यशास्त्रानुसारित्वाद्
दुर्बलमिति सुधीभिरपक्षपातिभिर्विवेच्यम् ।
अन्यासु तिथिषु व्यवस्था तु तत एवावगन्तव्या दिङ्-
मात्रमिह दर्शितम् तिथिशब्दे विवृतिः । उपवासे दीयते
कार्यं वा व्युष्टा० अण् । औपवास तत्र देये तत्र कार्योच
त्रि० । तस्मै प्रभवति विमुक्ता० ठञ् । औपवासिक तस्मै
पर्याप्ते त्रि० ।

उपवासक त्रि० उप + वस--ण्वुल् । १ अनाहारकारिणि ।

उपवासे हितम् कन् । २ व्रतभेदे त्रि० “नैव यज्ञक्रियाः
काश्चिन्न श्राद्धं नोपवासकम्” भा० २०४ अ० ।

उपवासन न० उप + वास--उपसेवायाम् भावे ल्युट् ।

उपसेवने । “यदा सन्ध्यामुपाधाने यद्वोपवासने कृतम्” अथ०
१४, २, ६३ ।

उपवासिन् त्रि० उप + वस--णिनि । अनाहारकर्त्तरि

“दिनोपवासी तु निशामिषाशी जटाधरः सन् कुलटाभिलाषी”
हास्यार्ण्णवः “विमानैर्हंससंयुक्तैर्यान्ति मासीपवासिनः”
भा० व० १९९ अ० ।

उपवाहन न० उप + वह--णिच्--भावे ल्युट् । समीपनयने ।

उपवाह्य यु० उप उत्कर्षे प्रा० स० । राजवाह्यहस्तिनि हेम०

उपविद् स्त्री उप + विन्दतेः वेत्तेर्वा सम्प० क्विप् । १

उपलम्भे प्राप्तौ २ ज्ञाने च “उपविदा वह्निर्विन्दते वसु” ऋ०
८, २३, ३ । “उपविदा उपवेदनेनैते हवींषि देवार्थं
न प्रयच्छन्तीत्येतज्ज्ञानेन” भा० । कर्त्तरि क्विप् ।
३ प्राप्तरि ४ बोद्धरि च त्रि० ।

उपविन्दु पु० उपगतो विन्दुम् अत्या० स० । राजभेदे तस्याप-

त्यम् बाह्वा० इञ् । औपविन्दवि तदपत्ये पुंस्त्री० ।

उपविष पु० उपमितं विषेण अवा० स० । “अर्कक्षीरं स्नुही-

क्षीरं तथैव कलिहारिका । धस्तूरः करवीरश्च पञ्च
चोपविषाः स्मृताः” इत्युक्तेषु १ अर्कक्षोरादिषु २ कृत्रिमविष
न० हेम० । ३ अतिविषायां (आतैच्) स्त्री ।

उपविष्ट त्रि० उप + विश--कर्त्तरि क्त । कृतोपवेशने “उपविष्ट

होमाः स्वाहाकारप्रदाना झोतयः” कात्या० १, २, ७, ।

उपवीणि वीणया उपगायति उप + वीणा + णिच् नामधातुः

सक० उभ० सेट् । उपवीणयति ते उपाविवीणत् त ।
उपवीणयाम् बभूव आस चकार चक्रे उपवीणितः “श्रितगो-
कर्ण्णनिकेतमीश्वरम् उपवीणयितुं ययौ रवेरुदयावृत्ति-
पथेन नारदः” रघुः ।

उपवीत न० उप + व्ये--क्त संप्र० । बहिर्भूतदक्षिणहस्त-

तया वामांसस्थापिते कार्पासादि १ यज्ञसूत्रे । तच्च त्रि-
गुणोकृतस्य सूत्रस्य पुनस्त्रैगुण्ये भवति यथाह छन्दो०-
प० “ऊर्द्ध्वं तु त्रिवृतं कार्य्यं तन्तुत्रयमधोवृतम् । त्रिवृत-
ञ्चोववीतं स्यात् तस्यैकोग्रन्थिरिष्यते” । तथा च
प्रथमं ऊर्द्ध्वावर्त्तनेन सूत्रत्रयमेकाकृत्य पुनस्तथाभूतसृत्र
त्रयस्याध आवर्त्तनेन नवमूत्रात्मकमेकत्र पिण्डीकृतं भवति
तच्च पुनस्तिवृतमसंहतरूपेण पिण्डीकृतमेकग्रन्थियुक्तमेक
मपवीतं भवति । व्यक्तमाह देवलः “यज्ञोपवतीतकं कुर्य्या-
त् सूत्राणि नव तन्तवः” इति । सद्द्वयमेव सर्व्वदा धार्य्य
मुत्तरीयवस्त्रालाभे तु तत्तित्रयं धार्य्यम् “यज्ञोपवीते द्वे
धाय्यश्रौते स्मात्ते च कर्म्मणि । तृतीयमुत्तरीयार्थं वस्त्रा-
लाभेऽतिदिश्यते” आ० त० स्मृतेः । तद्ग्रन्थिश्च सावि-
त्रीमन्त्रण कार्य्यः “सावित्रीग्रन्थिसंयुक्तमुपवीतं
तवाच्यत” विष्णुपूजने व्रह्मपुराणात् “लौकिकास्तु सावित्री
ग्रन्थिःप्रवरसंख्ययावेष्टितग्रन्थिरित्याहुः” आ० त० रघु०
अत्र सावित्रीग्रन्थिरित्युक्तेः देवपूजादौ सावित्रीग्रन्थिः
रेवान्यत्र सावित्रीग्रन्थि ब्रह्मग्रन्थिर्वेति शाखिभेदाद्व्यवस्था ।
तत्सूत्रभेदश्च मनुना वर्णभेदेन उक्तः “कार्पासमुपवीतं स्यात्
विप्रस्योर्द्धवृतं त्रिवृत् । शणसूत्रमयं राज्ञो वैश्यस्या
विकसौत्रिकम्” । “ऊर्द्ध्ववृतं दक्षिणावर्त्तितम्” कुल्लू० ।
इदञ्चोपनयनकाले उत्तरकाले तु सर्वेषामेव कार्पासमय-
मिति भेदः । ऋषीणान्तु यथेच्छसूत्रमयम् अत एव माषे
“विहङ्गराजाङ्गरुहैरिवायतैर्हिरण्मयोर्वीरुहवल्लितन्तु-
भिः । कृतोपवीतं हिमशुभ्रमुच्चकैः” “मुक्तायज्ञोपवीतानि
बिभ्रतो हैमवल्कलाः कुमारे च वर्ण्णितम् ।
यद्यप्युपनयनप्रकरणे उपवीतधारणं गृह्यसूत्रादौ न विहितं
तथापि प्रागुक्तमनुवचने “मेखलामजिनं दण्डमुपवीतं
कमण्डलुम् । अप्सु प्रास्य विनष्टानि गृह्णोतान्यानि मन्त्रवत्”
इति मनुवचने समन्त्रकधारणविधानात् “सदोपवातिना भाव्य
पृष्ठ १३३०
मिति स्मृतेः “दण्डाजिनोपवीतञ्च मेखलाञ्चैव धारयेत्”
याज्ञ० वाक्यात् “पवित्रं चास्मै प्रयच्छतीति” जातू-
कर्ण्णवाक्यात् तद्धाहरणमवश्यं कार्य्यमिति गम्यते ।
किञ्च गृह्यकारेणापि कर्मबिशेषे यज्ञोपवीतधारण-
नियमोऽभिहितः “यज्ञोपवीतशौचे च” आश्व० गृ० १, १,
१० “मानुषपैतृकव्यतिरिक्ते कर्ममात्रे उपवीतधारणनियमः”
ना० वृ० । “यज्ञोपवीतिना आचान्तेन कृत्यमिति” गोभिल
सूत्रे च तथा नियम्यते । “यज्ञोपवीतमसि यज्ञस्य
त्वोपवीतेनोपनेह्यामि” भट्टभाष्यधृतमन्त्रलिङ्गात् “यज्ञो-
पवीतिनं कुर्य्यादिति” सांख्यायनगृह्याच्च “वेणुवीं
धारयेद्यष्टिं सोदकञ्च कमण्डलुम् । यज्ञोपवीतं वेदञ्च शुभे
रौक्मे च कुण्डले” इति मानवाच्च तद्धारणविधिः ।
“यज्ञोपवीतं परमं पवित्रम् वृहस्पतेर्यत् सहजं पुरस्तात् ।
आयुष्यमग्र्यं प्रतिमुञ्च शुभ्रं यज्ञोपवीतं बलमस्तु तेजः”
इति मन्त्रोक्तफलमेव तद्धारणे ज्ञेयम् । तथाधृते २ वस्त्रे च
न केवलं यज्ञसूत्रस्यैव तथात्वं तथानिवेशितस्य वस्त्र-
स्यापि तथात्वम् “दक्षिणं बाहुमुद्धृत्य शिरोऽव-
धाय सव्येऽंसे प्रतिष्ठापयति दक्षिणं कक्षमवलम्बनं भवति
एवं यज्ञोपवीती भवति सव्यं बाहुमुद्धृत्य शिरोऽवधाय
दक्षिणेऽंसे प्रतिष्ठापयति सव्यं कक्षमवलम्बनं भवत्येवं
प्राचीनावीती भवति, निवीती कण्ठसज्जन इति” गोभिलेन
सामान्यतोऽभिधानात् “शिरोऽवधाय दक्षिणादिपाणाव-
नुद्धृते कण्ठादेव सज्जने ऋजुप्रालम्बे यज्ञसूत्रे वस्त्रे च
निवाती भवति” कुल्लू० उक्तेः मनुना “उद्ध्रते दक्षिणे पाणा
वुपवीत्युच्यते द्विजः । सव्येतु प्राचीनावीती निवीतो
कण्ठमज्जने” इति सामान्यतोऽभिधानाच्च । उपवीतमस्या-
स्ति इनि । उपवीतिन् तथासन्निवेशितसूत्रवस्त्रधारिणि ।
उपवीतस्य वस्त्रादिसंनिवेशविशेषरूपस्य प्राकरणिकाङ्गता
मोमांसायां ३ अ० १ पादे निर्णीता यथा “दर्शपौर्ण्णमा-
सयोः ७ । ८ ब्राह्मणानुवाकयोः सामचेन्य उक्ता नवमे
निविदः दशमे काम्याः सामधेनीकल्पाः, एकादशे यज्ञोप-
वीतमाम्नातम् । “उपव्ययते देवलक्ष्मैव तत् कुरुते” इति
श्रुतिवाक्यार्थस्य उपवीतं सामधेनीनां प्रकरणे निवृत्तेऽ-
निवृत्ते वा इति सन्देहे सामधेनीप्रकरणमनिवृत्तं तत्र
उपवीतं समाम्रातमिति कुतः? काम्यानां सामधेनीक-
ल्पानामानन्तर्य्यवचनात् हृदयमनुविपरिवर्त्तमानासु
सामधेनीषु उपवीतमामनन्ति कर्त्तुश्च वासो वित्यासमात्रं
गुणो भवति उपवीतं नाम, किं कुर्वता तत्कर्त्तव्यमिति?
भवति तत्र पदार्थाकाङ्क्षा तत्र बुद्धौ सन्निहितेनाविप्र-
कृष्टेन सामधेनीवाक्येन एकवाक्यतामुपगम्य सामधेनीषु
उपवीतम् उपव्ययते इति शब्दोविदधाति इति गम्यते
इति पूर्व्वपक्षः । सिद्धान्ते तु निविदा व्यवधानात् बुद्ध्या
विप्रकृष्टत्वाच्च वाक्यभेदभिया च न सामधेनीभिः सहैकवा-
क्यतीपवीतस्य, तस्मात् दर्शादिप्रकरणे यदनुष्ठेयं तदुप-
वीतिना कार्य्यम् इति” । श्रुतौ उपव्ययते इति श्रवणात्
उपपूर्बकात् व्येञ एव रूपमुपवीतमिति तु न्याय्यमित्यन्य-
दुपेक्षितम् । अजधातुरूपोक्तिः श्रुत्यदर्शनात् प्रामादिकी ।

उपवृंहित त्रि० उप + वृन्ह--णिच्--कर्म्मणि क्त । १ बर्द्धिते

बहुलं करोति बहुल + णिच्--वृंहादेशे क्त । २ बहुलीकृते
अत्रार्थे वर्ग्यबादिरयमिति भेदः ।

उपवेणा स्त्री उपगता वेणाम् अत्या० स० । नदीभेदे “वेणोप-

वेणा भोमा च बड़वा चैव भारत”! भा० व० २२१ अ० ।

उपवेद पु० उपमितः वेदेन अवा० स० । वेदसदृशे आयुर्वे-

दादौ । स च वेदभेदेन चतुर्द्धा “तत्रर्ग्वेदस्यायुर्वेद उपवेदः,
यजुर्वेदस्य धनुर्वेदः, सामवेदस्य गान्धर्ववेदः, अथर्ववेदस्य
शस्त्रशास्त्राणीति” शौनकोक्तचरणव्यूहोक्तदिशावसेयः ।
भावप्रकाशमते तु “विधाताथर्वसर्वस्वमायुर्वेद प्रकाशयन्”
इत्युक्तेः अथर्ववेदोपवेदत्वमायुर्वेदस्येति भेदः । अतएव सुश्रुते
“इह खल्यायुर्वेदोनाम यदुपाङ्गमथर्ववेदस्येत्युक्तम्”

उपवेश पु० उप + विश--भावे षञ् । (वसा) १ स्थितौ “प्रातः स

वने जुहोति संवेशायोपवेशाय गायत्र्यै छन्दसेऽभिभूत्यै
स्वाहा” कात्या० २५, ४१६, उपमितोवेशेन अवा० स० ।
आहार्यरूपवेशसदृशे २ वेशे । तेन जीवति ३ वेतनादि० ठञ् ।
औपवेशिक तेनोपजीविनि त्रि० स्त्रियां ङीप् ।

उपवेशन न० उप + विश--भावे ल्युट् । (वसा) १ आसने “प्रा-

योपयेशनमतिर्नृपतिर्बभूव” रघुः । “अन्वासितमरुन्धत्या”
रचुव्या० “पश्चादुपवेशनेनोपसेवितम्” मल्लि० । “प्रादे-
शोपवेशने” आश्व० श्रौ० ४, ८, ३, “ब्रह्मोपवेशने विनि-
योगः” भवदेवः णिच्--भावे ल्युट् । निवेशने २ स्थापने च

उपवेशि पु० उप + विश--इन् । यजुर्वेदसम्प्रदायप्रवर्त्तके

ऋपिभेदे “अरुणादरुण उपवेशेरुपवेशिः” शत० ब्रा० १४,
९, ४, ३३, वंशवर्णने उक्तम् ।

उपवेशिन् त्रि० उप + विश--णिनि । उपवेशनकर्त्तरि उपविष्टे ।

उपवेष पु० उप + विष--करणे घञ् । अङ्गारविभजनार्थे काष्ठे

“स उपवेषमादत्ते धृष्टिरसीति” शत० ब्रा० १, २, १३, अङ्गा-
रविभजनार्थं काष्ठविशेषः उपवेषः” भा० सचारत्निसात्रः प्रा-
पृष्ठ १३३१
देशमात्रो वा तत्करणप्रकारः “मूलादुपवेषं करोति” का०
४, १, १२, दर्शितः “प्रथमं तुष्णीं शाखामूलमरत्निप्रमाणा-
धिकप्रमाणं छित्त्वा पृथक् कार्यं ततस्तस्मादुपवेषं
करोति उपवेषश्चारत्निमात्रः प्रादेशमात्रो वा पराशरोक्तः”
कर्कः । स च हस्ताकृतिः “धृष्टिरसीत्युपवेषमादायापाग्न
इत्यङ्गारान् प्राचः करोति” कात्या० २, ४, २६, व्या०
उपवेषोऽङ्गारापोहनसमर्थं हस्ताकृति काष्ठम्” कर्कोक्तेः “शृता-
वभिवासयति भस्मना वेदेनोपवेषेण वा” कात्या० २, ५, २५,

उपवैणव न० उपवेणु--अण् उत्तरपदवृद्धिः । त्रिसन्ध्ये हेम०

उपव्याख्यान न० उप + वि + आ + ख्या--ल्युट् । फलमाहात्म्यो-

पासनप्रकारादिकथने । “ओमित्युद्गायति तस्योपव्या-
ख्यानम्” छा० उ० “तस्याक्षरस्योपव्याख्यानम् एवमुपास-
नम्, एवंविभूति, एवंफलमित्यादिकथनम्” शा० भा० ।
“आदित्यो ब्रह्मेत्यादेशस्तस्योपव्याख्यानम्” “ओमित्ये
तदक्षरं सर्वं तस्योपव्याख्यानम्” इति च छा० उ० ।

उपव्याघ्र पु० उपमितो व्याघ्रेण अवा० स० । १ व्याघ्रतुल्ये मृगा-

न्तके (चितावाघ) चित्रकाख्ये पशुभेदे । सामीप्ये अव्ययी० ।
२ व्याघ्रसमीपे अव्य० ।

उपव्युषस अव्य० विगता ऊषाः व्युषाः प्रा० स० ततः

विभक्त्यर्थे सामीप्ये वा अव्ययी० अच् समा० । विगतायामुष-
सीत्यर्थे “उपव्युषसं सशरीरा दक्षिणा गच्छन्ति” कात्या०
२१, ३, १३, “उषसि विगच्छन्त्याम्” कर्कः । २ विगच्छत्या
उषसः समीपे च ।

उपशम पु० उप + शम--घञ् अवृद्धिः । १ इन्द्रियाणां निग्रहे

२ तृष्णानाशे, ३ रोगोपद्रवशान्तौ च । “तेषां पैत्तिका-
नां व्याधीनामुपशमोहेमन्ते, श्लैष्मिकाणां, निदाघे वाति-
कानां घनात्यये स्वभावत एव त एते सञ्चयप्रकोपोप
शमाः” “तत्कालमेव क्षतोष्मणः प्रसृतस्योपशमार्थम्” इति
च सुश्रु० । ४ निवृत्तौ “जगत्युपशमं याते नष्टयज्ञोत्-
सवाकुले” भा० व० २० अ० ।

उपशमन न० उप + शम--भावे ल्युट् । उपशमार्थे “व्याधीना

मुर्पशमनार्थम्” सुश्रु० । उप + शम--णिच्--ल्युट् ।
अवृद्धिः २ निवारणे । तस्मै हितम् छ । उपशशनीय
रोगशान्तिहेतौ आयुर्वेदे । कर्म्मणि अनीयर् । निवारणीये ।
“कटुकौषधिशमनोयस्य” सा० द० ।

उपशय पु० उप + शी--अच् । १ समीपशयने । “हेतुव्याधिविप-

र्य्यासविपर्य्यस्तार्थकारिणाम् । औषधान्नविहाराणा
मुपयीगं सुखावहम् । विद्यादुपशयं व्याधेः सहि सात्म्य-
मिति स्मृतः” इति निदानोक्तं व्याधिहेतुविपरीतौषधा-
दितः २ सुखावहोपयोगे । शयः हस्तः तस्मिन् तत्सामीप्ये
वा अव्ययी० । ३ हस्ते इत्यर्थे ४ हस्तसमीपे च अव्य० ।

उपशरद अव्य० विभक्त्यर्थे सामीप्ये वा अव्ययी० अच्

समा० । १ शरदि इत्यर्थे २ शरत्समीपे च

उपशल्य न० उपगतं शल्यम् अस्थिस्थानं (भागाड़) अत्या० स० ।

ग्रामान्ते “म्रमंश्च विशालोपशल्ये कमप्याक्रीडमासाद्य”
दशकुमा० । “उपशल्यनिविष्टैस्तैः” “अथोपशल्ये
रिपुमग्नशल्यः” रघुः । उपचारात् २ प्रान्तभागे च ।
“शैलोपशल्यनिपतद्रयनेमिधारा” इति माघः ।

उपशान्ति स्त्री उप + शम--क्तिन् । निवृत्तौ उपशमे ।

“बलमार्त्तभयोपशान्तये” रघुः “वेदनोपशान्तिरसृक्प्रसादो-
मार्द्दवञ्च” सुश्रु० ।

उपशाय पु० उप + शी--घञ् । यामिकभटानां पर्य्यावेण शयने । “निशोपशायः कर्त्तव्यः” भट्टिः ।

उपशायिन् त्री० उप + शी--णिनि । समीपशयनशीले “ब्र-

ह्मचार्य्यग्निनित्यधारी क्षीरहोम्युग्निमुपशायी द्वादशरात्रं
षड्रात्रं त्रिरात्रमन्ततः” कात्या० ४, १०, १६, अग्निमुपशायी
अग्निसमीप एव भूमीशयः” कर्कः । शीलार्थत्वात्
नात्र कर्म्मणि षष्ठी । “आहूताध्यायी गुरुकर्म्मस्वचोद्यः
पूर्व्वोत्यायी चरमं चीपशायी । मुदुर्द्दान्तो धृतिमानप्रमत्तः
स्वाध्यायशीलः सिध्यति ब्रह्मचारी” भा० आ० ९१ अ०

उपशिक्षा स्त्री उप + शिक्ष--अ । सम्यक्शिक्षणे “उपशिक्षाया

अभिप्रश्निनम्” यजु० ३०, १०, ल्युट् । उपशिक्षण तत्रार्थेन०

उपशिङ्गन न० उप + शिधि--आघ्राणे ल्युट् । १ आघ्राणे ।

णिच्--ल्युट् । २ आघ्रापणव्यापारे च । (शोञान) “तीक्ष्णा-
ञ्जनावपीडभ्यां तीक्ष्णगन्धोपशिङ्घनैः । वर्त्तिप्रयोगैरथ वा
क्षवशक्तिं प्रवर्त्तयेत्” सुश्रु० । तत्र सिङ्घनैः शिंहनैरिति
वा पाठः प्रामादिकः गणपाठे शिपिधातोरेव पाठात्
सिधिधातोर्हान्तशिंहधातोश्चाभावाच्च ।

उपशिष्य पु० उपगतः शिष्यम् अत्या० स० । शिष्यशिष्ये

“स्वतःप्रमाणं परतःप्रमाणं शुकाङ्गना यत्र समुद्गिरन्ति ।
शिष्योपशिष्यैरुपगीयमानमवेहि तन्मण्डनमिश्रधाम” उद्भ०

उपशुन अव्य० शुनि, तस्य समीपे वा अव्ययी० अच् समा० ।

१ कुक्कुर इत्यर्थे २ कुक्कुरस्य सामीप्ये वा ।

उपशोभ स्त्री उपगता शोभां सादृश्येन अत्या० स० ।

आरोपितशोभायाम् “विहितोपशोभमुपयाति माधवे” माघः ।
पृष्ठ १३३२

उपशोषण न० उप + शुष--णिच्--ल्युट् । १ शोषणसाधने व्या-

पारे । उपशोषयति कर्त्तरि ल्यु । २ तत्कारके त्रि०
(कटुकः) “विण्म त्रक्लेदमेदोवसापयोपशोषणश्चेति”
(कषायः) “क्लेदोपशोषणश्चेति सुश्रु० । शोषणञ्चान्तः-
स्थितजलादेर्वातोष्मादिना नासनम् ।

उपश्रुत् पु० श्रूयते श्रु + सम्प० क्विप् श्रुत् स्तुतिः उपगता

श्रुद् यस्मिन् । यज्ञे “आ ना यातमुपश्रुत्यश्विना ऋ० ८,
९, ५, “उपश्रुति यज्ञे” भा०

उपश्रुति स्त्री उप + श्रु--क्तिन् । १ समीपश्रवृणे “सुश्रुतिश्च

मोपश्रुतिश्च मा हासिष्टाम्” अथ० १६, २, ५, “सोमपा
गिरामुपश्रुतिः” ऋ० १, १०, ३, “उपश्रुतिः समीपे श्रवणम्”
भा० श्रुतिः श्रवणम् समाप्ये अव्ययी० । २ श्रवणसमोपे
“आ नोयाह्युपश्रुत्युक्थेषु” ऋ० ८, ३४, ११, उपश्रुति
श्रवणसमीपमायाहि” भा० “नक्तं निर्गत्य यत्किञ्चित्
शुभाशुभकरं वचः । श्रूयते तद्विदर्धी रादेवप्रश्नमुपश्रुतिम्”
हारावल्युक्ते ३ देवं प्रति कृतशुभाशुभप्रश्नस्य तदाविष्टबाला-
दिभिहठाद्यक्तेउत्तर वाक्ये च “परिजनोऽपि चास्याः
सततमुपश्रुत्यै निर्जगाम” काद० । उपश्रुतिश्रवणप्रकारश्च विधा-
न पा० यज्ञकाण्डे दर्शितो यथा “उपश्रुतौ विधानं तु यथा
कार्यं फलार्थिना । ज्ञातव्या यज्ञकर्मान्ते सा पौरमुखजा
बुधैः । अन्त्यजानां गृहे वाक्यं पूर्वरात्रे यदुच्यते । स्त्रिया
वा बालकैर्वापि तथा पुम्भिः परस्परम् । विचार्य तद्वच-
स्तत्त्वमादेष्टव्यं फलं बुधैः । निर्णेजकालये पश्येत् प्रतिपद्येव
बुद्धिमान् । मद्यकृत्सदने पश्येत् द्वितीयायां न संशयः ।
तैलविक्रयिणो गेहे पुक्कसस्य तथालये । लोहकृत्सदने चैव
किंशुकानां गृहे तथा । मद्यकारिगृहे चैव तथा वैश्य-
गृहेऽपि च । योगिजातिकुले पश्येत्तथा पौष्कलगेहके ।
सिन्दोलकगृहेपश्येत् कुम्भकारगृहे तथा । स्वर्णकारालये
चैव कापालिकद्विजन्मनोः । तृतीयादितिथौ ज्ञेया क्रमे-
णोपश्रुतिर्भवेत् । अमायां शूद्रजातीनां गृहे पश्येदुपश्रु-
तिम्” । पश्येत् शुभाशुममालोचयेत् । तत्र क्रमश्च ।
“उपास्य पश्चिमां सन्ध्यां स्मरन्नात्महितं सुधीः ।
स्वस्तिवाच्य द्विजान् गच्छेद्बद्धग्रन्थिर्मुदान्वितः । चन्द-
नेनानुलिप्ताङ्गः श्वेतमाल्यधरः श्रुचिः । श्वेतवस्त्रस-
मायुक्तो धृतहेकविभूषणः । अक्षतानञ्जलौ धृत्वा मन्त्रे-
णानेन मन्त्रितान् । ॐ ऐँ र्ह्राँ श्रीँ महादेवि!
महादेवस्य वल्लभे! । विमोहय जनान् सर्वान् ममात्र
वशगान् करु । वस्त्रेण बद्वनेत्रः सन्नीयतेऽन्येन तद्गृहम् ।
गृहोपरि परिक्षिप्य मुक्तनेत्रः श्रुतिर्भवेत्” । “तद्गृहे
मतुष्यशब्दान् यदि शृणुयात् । तच्छुभमशुभं वा विचार्यादे-
ष्टव्यम् । तेषु शब्देषु कसरान्वर्जयित्वान्यशब्दादिवर्णाः
श्रेष्ठाः । प्रयाहि गृहाण गच्छ भवति अथार्जनार्था दाना-
र्था लाभार्थाः साधुशब्दाः प्रशस्ताः तेष्वपि काक्वर्था दुष्टाः
न याहि न गच्छ नास्ति भवत्यर्था अयानशब्दाश्च गमने
दुष्टाः तच्छब्दान् शृण्वन् यात्रां निवर्त्तयेत् । अत्युत्कटकार्ये
तु द्विराचम्य कलदेवतां संस्मृत्य मुहूर्त्तं तिष्ठन् गच्छेत् ।
वैन्यं पृथुं हैहयमित्यादि पठन् पुनरपि निषिद्धप्रयाण-
श्चेत् क्षुतादिभिस्तदा सिद्धिविनायकव्रतोपयाचितं मंकल्प्य
गच्छेत् । तत्रापि निषिद्धश्चेन्न गच्छेदेव” वि० पा० ।

उपश्लेष पु० उप ईषदर्थे एकदेशेन श्लेषः संबन्ध । आधारा-

धेययोरेकदेशसंबन्धे । यथा गृहघटयोः । उपश्लेषे साधु-
ठक् । औपश्लेषिक आधारभेदे “औपश्लेषिकोवैषयिको-
ऽभिव्यापकश्चेत्याधारस्त्रिधा” सि० कौ० । भावे ल्युट् ।
उपश्लेषण तत्रैव न० “अत्याधानमुपश्लेषणम्” सि० कौ० ।

उपश्लोकि श्लोकैरुपस्तौति उप + श्लोक + णिच् नामधातुः

उभ० सक० सेट् । उपश्लोकयति--ते उपाशुश्लोकत्--त
उपश्लोकयाम्--बभूव--आस--चकार चक्रे उपश्लोकयन् उपश्लो-
कितः उपश्लोकयितुम् उपश्लोकनम् ।

उपष्टम्भ पु० उप + स्तम्भ--घञ् बा० षत्वम् । १ पतनप्रतिरोधे

(थामान) २ आलम्बने ३ आड़म्बरे च स्यार्थे कन् । तत्रार्थे
३ आधिक्ये च । उपस्तभ्नाति ल्वुल् । उपष्टम्भक पतन
प्रतिरोधके, स्थूणायां न० “सर्व एव द्विप्रकारोऽन्तःप्राणः
उपष्टम्भकः” वृ० उ० “उपष्टम्भकः गृहस्येव स्तम्भादि-
लक्षणः” भा० ।

उपष्टुत् त्रि० उप + स्तु--कर्मणि क्विप् वा० षत्वम् । उपस्तूयमाने

“शचीव स्तवता उपष्टुत्” ऋ० ९, ८७, ९,

उपसं(सङ्क्र)क्रमणे न० उप + सभ् + क्रम--भावे ल्युट् वा ङः ।

१ सन्निवेशे कस्यचित् वस्तुनः पूर्वाधारत्यागेन समीपस्थित-
वस्तुनि संक्रमणे “सविशेषणे हि विधिनिषेधौ विशेषण-
मुपसंक्रामतः सति विशेष्ये बाधे” इत्यादौ विशिष्टे विधि-
निषेधबाधे तद्धर्मविशेषणे उपसंक्रमणं भवतीव्युक्तं यथा
शिखी विनष्टः पुरुषो न नष्ट इत्यत्र विशेषणाभूतशिखा-
यामेव नाशश्योपसंक्रमणम् । उपसंक्रमणे दीयते कार्यं
वा व्युष्टा० अण् । औपसंक्रमण तत्र देये कार्ये त्रि० ।
स्त्रियां ङीप् ।

उपसं(सङ्ग्र)ग्रह पु० उपसंगृह्येते पादावत्र उप + सम्--ग्रह-

आधारे अच् वा ङः । १ पादग्रहणपूर्वकमभिवादने उपसं-
गृह्यतेऽनेन करणे अच् । २ उपकरणे “उपातिष्टत भेषाभः
पर्यङ्के सोपसंग्रहे” भा० वि० १७ अ० । भावे अच् । ३ सम्यक्
संग्रहे “बलानामुपसंग्रहः” रामा०
पृष्ठ १३३३

उपसं(सङ्ग्र)ग्रहण न० उप + सम् + ग्रह--आधारे ल्युट्

वा ङः । पादग्रहणपूर्वकप्रणामे “उपस ग्रहणं कृत्वा द्रो-
णाय स विशांपते” भा० द्रो० ७४ अ० “व्यत्यस्तपाणिना
कार्यमुपसंग्रहणं गुरोः” मनुः । २ सम्यक् संग्रहण च ।

उपसं(सङ्ग्रा)ग्राह्य त्रि० उप + सम् + ग्रह--कर्मणि ण्यत्

वा ङः । पादग्रहणेन अभिवाद्ये “भ्रातुर्भार्योपसंग्राह्या
सवर्णाऽहन्यहन्यपि । विप्रोष्य तूपसंग्राह्या ज्ञातिसम्ब-
न्धियोषित” मनुः ।

उपसंयम पु० उप + सम् + यम--घञ् अवृद्धिः । १ उपसंहारे । २ सम्यग्नियमे ३ बन्धने च ।

उपसंयमन न० उप + सम् + यम--णिच् ल्युट् । १ सम्यग्बन्धने

करणे ल्युट् । २ तत्साधने ।

उपसंयोग पु० सामीप्येन संयोगः । समीपसंबन्धे । “नामा-

ख्यातयोस्तु कस्योपसंयोगद्योतका भवन्ति उपसर्गाः” व्या०

उपसंरोह पु० उपगतः संरेहः प्रा० स० । समीपप्ररीहे

“शल्यमार्गानुपसंरोहः” सुश्रु० ।

उपसंवाद पु० उपेत्य अङ्गीकृत्य संवादोवदनम् । पणबन्धे

नाङ्गीकारपूर्ब्बककथने उपसवादाशङ्कयोश्च” पा० ।
“उपसंवादः पणबन्धः” सि० कौ० । स च “यदि भवानिदं
कुर्य्यात् तर्हि इदमहं ते दास्यामीत्येवं वाक्यरूपः ।

उपसंव्यान न० उपसंवोयतेऽनेन उप + सम् + व्येञ्--संवृतौ

करणे ल्युट् । परिधानवस्त्रे “अन्तर बहिर्योगोपसं-
व्यानयोः” पा० ।

उपसंहार पु० उप + सम् + हृ--घञ् । १ समाप्तौ, स च ग्रन्थ-

तात्पर्य्यावधारकलिङ्गभेदः “उपक्रमोपसंहारौ--हेतुस्तात्प-
र्य्यनिर्ण्णये, इत्युक्तेः । तत्रोभयोरेव तद्धेतुत्वं न तु प्रत्ये-
कस्येत्युक्तमुपक्रमशब्दे । २ संग्रहे च । ३ सम्यघरणे ४ एकत्र
श्रुतार्थस्यान्यत्रान्वयार्थमुपक्षेपे यथा गुणोपसंहारः । तच्छ-
ब्दे विवृतिः । ५ साकण्येन सम्बन्धे “सर्वोपसंहारवत्या-
व्याप्तेर्दुर्ज्ञानत्वात्” सर्व० स० ।

उपसंहारिन् त्रि० उप + सम् + --हृ--णिनि । १ उपसंहारके

साकल्येन सम्बन्धेन व्याप्ते अनुपसंहारिशब्दे उदा० ।

उपसङ्ख्यान न० उपरि सूत्रोक्तादतिरिक्ताथः संख्यायते

अनेन उप + सम् + ख्या--करणे--ल्युट् । सूत्रानुक्तस्याथस्य
वार्त्तिकादिभिः कथने वाक्यभेदे । “प्रकृत्यादिभ्य उपसं-
ख्यानमित्यादि” वार्त्तिके भूरिप्रयोगः । इष्ट्युपसख्याननै-
रपेक्ष्येण” २, ११२, माघव्या० मल्लिनाथः ।

उपसत्ति स्त्रा उप + सद--भावे क्तिन् । १ नैकट्येन सम्बन्धे

२ आनुगत्ये ३ सम्बन्धमात्रे च । करणे क्तिन् । ४ सेवायाम् मेदि० ।

उपसत्तृ त्रि० उप + सद--तृच् । १ आसन्ने निकटस्थिते २

अनुगते ३ सेवके च । “मा च रिषदुपसत्ता ते अग्ने!” “क्षत्र-
मग्ने सुयममस्तुतुभ्यमुपसत्ता” यजु० २७, २, ४, उपसत्ता
सेवकः वेददो० ।

उपसद् त्रि० उपसीदति उप + सद--क्विप् । १ समोपस्थिते ।

“प्रकामोद्यायोपसदम्” यजु० ३०, ९, करणे क्विप् । २ इष्टि-
भेदे स्त्री । सा चेष्टिः “अथोपसद्” आश्व० श्रौ० ४, ८, १,
आरभ्य पाण्योश्चोपसदः” इत्यन्तेषु ११ सूत्रेषु उक्ता द्रष्टव्या ।
“अथोपसद्भिः प्रचरति” “यदोपसद्भिः प्रचरति” अथैतानि
हवींषि निर्वपति आग्नेयमष्टाकपालं पुरोडाशं सौम्यं
चरुं वैष्णवं त्रिकपालं वा पुरोडाशं चरुं वा तेन यथेष्ट्यैवं
यजते । तदु तथा न कुर्य्यात् ह्वलति वा एष यो यज्ञ
पथादेत्येति वा एष यज्ञपथाद्य उपसत्पथादेति तस्मा-
दुपसत्पथादेव नेयात्” शत० ५, ४, ५, १६, “अथ दशपेये
तं ब्रह्मागृहे स्थापितं सोममाहृत्यासन्द्यामासद्यातिथ्यया
प्रचरेयुः तदनन्तरमुपसद्यागः तत्राग्निसोमविष्णुदेवता
कोपसत्प्रतिनिधित्वेन संसृब्यागसम्बन्धिनामुत्तमानां
त्रयाणामाग्नेय सौम्यवैष्णवानामेव निर्वापं पूर्वपक्षयति
यदोपसद्भिरिति । तेन यथेष्टीति एकैकोपसत्स्थाने तेन
एकेन हविषा यथेष्टि इष्टितन्त्रेण कुर्यात् उपसत्त्रयार्थ-
मेतद्धविस्त्रयं कर्त्तव्यमिति शाखान्तरीयः पक्षः तमिमं
निराकरोति तदु तथेति । नेयात् न प्रच्युतोभवेत् तत
उपसदः पृथक् कुर्य्यात् तदन्त एतानि संसृपामन्तिमानि
त्रीणि हवींषि चेष्टितन्त्रेण पृथक् कुर्य्यात् स एष दशपेयः
क्रतुः सप्तदशस्तोमसाध्योऽग्निष्टोमसंस्थोभवति” भा० ।
“उपसद्भिश्चरित्वा मासमेकसग्निहोत्रं जुहोति” श्रुतिः ।
“रूपमुपसदामेतत्तिस्रोरात्रीः यजु० १९ १४, “उपसत्-
सु रौहिणौ कुर्य्यात्” कात्या० ४, ६, ४४, “उपांशूपसदः ।
७, २, ३२, । ज्योतिष्टोमे ३ प्रवर्ग्याहप्रसिद्धायामिष्टौ
४ गार्हपत्यादिभिन्नेऽग्नौ च । “गार्हपत्योदक्षिणाग्नि-
स्तथैवा हवनीयकः । एतेऽग्नयस्त्रयो मुख्याः शेषाश्चो-
पसदस्त्रयः” अग्नि पु० गणभेदनामाध्याये । उपसद् तच्छ-
ब्दोऽस्त्यस्मिन् विमुक्ता० अस् । औपसद तच्छब्दयुक्ते
खाध्याये अनुवाके च पु० ।
पृष्ठ १३३४

उपसद पु० उपसीदत्यस्मिन् उप + सद--बद बा० घञर्थ क ।

उपसद्यागे “अथ यदश्राति यत् पिबति यद्रमते तदुपसदै
रेति” छा० उ० । “यद्रमते रतिञ्चानुभवति इष्टादि
संयोगात्तदुपसदैः समानतामेति उपसदाञ्च पयोव्रत-
निमित्तं सुखमस्ति अल्पभोजनीयानि चाहानि आसन्ना-
नीति प्रश्वासोऽशनादीनामुपसदाञ्च सामान्यम्” शा० भा० ।
“पयोव्रतत्वं पयोभक्षणयुक्तत्वम् यज्ञे यान्यहान्यभोज-
नीयानि तानि प्रसिद्धानि उपसत्सु क्रियमाणासु
प्रश्वासः स्वास्थ्यविशेषः अशनादिषु सोऽस्तीति प्रसिद्ध-
मित्यङ्गसुखनिनित्तत्वं क्लेशहेतुत्वञ्च सामात्यम्” आ० गि०

उपसदन न० उप + सद--ल्युट् । १ सेवायामुपसेवने २ आनुगत्या

दिना प्राप्तौ “तत्रोपसदनं चक्रे द्रोणस्येष्वस्त्रकर्म्मणि” भा०
व० ३०८ अ० “प्रतिगृह्य च तान् सर्वान् द्रोणश्चैवं
समब्रवीत् । रहस्येकः प्रतीतात्मा कृतोपसदानांस्तथा”
आ० १३२ अ० सामीप्ये अव्ययी० । ३ गृहसमीपे अव्य० ।
“धन्योऽस्म्यनुगृहीतोऽस्मि यस्य मे मुनिपुङ्कव! । यज्ञो-
पसदनं ब्रह्मन् प्राप्तोऽसि मुनिभिः सह” रामा० ।
अत्राव्ययीभावस्यापि यज्ञेन समासः आर्षः ।

उपसदी स्त्री उप + सद--घञर्थे क गौ० ङीष् । सन्ततौ

धारायाम् । “स्वगृहेऽस्योपसद्यां मा च्छैत्सीत् प्रजाता च
पशुभिश्चाशितम् षत० १४, ९, ४, २३ । अस्य यजमानस्य
उपसद्यां सन्ततौ” भा० । सन्ततिश्च द्वेधा कालिकी दैशिकी च ।
तत्र समानानेककालिककार्य्यमात्रधर्मत्वं कालिकसन्तति-
त्वम् । विभिन्नकालीनघटपटादिकार्य्यमात्रवृत्तिधर्मघटत्वादौ
सन्ततित्ववारणाय समानेति सामान्यञ्चान्वयितावच्छेदक-
धर्मेण । तेन सत्त्वद्रव्यत्वादिना घटपटयोः समत्वेऽपि न
क्षतिः । सत्त्वद्रव्यत्वादिकमादाय तद्वारणाय कार्य्य-
मात्रेति । एककालोत्पन्नेषु बहुषु घटेषु तद्वारणाय
अनेककालिकेति । दैशिकसन्ततित्वञ्च समानानेकवृत्ति
कार्य्यमात्रधर्मत्वमितिभेदः । तत्र कालिकसन्ततेः प्रवा-
हादिपदेन व्यपदेशः यथा ज्ञानप्रवाहः, दुःखप्रवाहः इत्यादि
दैशिकसन्ततौ तु श्रेणिप्रभृतिशब्दव्यवहारः यथा वृक्ष-
श्रेणी वृक्षपङ्क्तिरित्यादि । उभयसन्ततौ तु सन्ततिधारादि
शब्दप्रयोगः यथा ज्ञानधारा सुखधारा दुःखसन्तति-
रित्यादि एवं जलधारा तैलधारा तैलसन्ततिरित्यादि ।
तादृशधर्मश्च सुखत्वदुःखत्वज्ञानत्वादिकं वृक्षत्वतैलत्वादिकञ्च ।
उभयविधापि सन्ततिः पुनर्द्विविधा अविच्छिन्ना विच्छिन्ना च
देशकालयोरव्यवधानेऽविच्छिन्ना यथा धारावाहिक स्थले
ज्ञानादिधारा । तयोर्व्यवधाने विच्छिन्ना यथा विच्छिद्य
विच्छिद्यजायमानदुःखानाम । विच्छिन्नसन्ततिमादायैव सृष्टि-
प्रवाहः । सुखदुःखसन्ततिरित्यादिर्व्यवहारः ।

उपसद्य त्रि० उपसदं सेवामर्हति यत् उप + सद--कर्म्मणि या०

यत् वा । १ सेवनीये २ नैकट्येन प्राप्ये च “भरेषु हव्यो
नमसोपसद्योगन्ता” ऋ० २, २३, १३ । “उपसद्याय मीढुष
आस्ये जुहुता हविः” ऋ० ७, १५, १ ।

उपसद्वन् त्रि० उप + सद--ड्वनिप् स्त्रियां ङीप् वश्चान्तादेशः ।

१ उपसन्ने २ सेवके च । कर्म्मणि ङ्वनिप् । ३ सेव्ये च ।
“नमस्ते अस्तु भीढुषे नमस्त उपसद्वने” आ० श्रौ० २, ५, ९ ।

उपसद्व्रत न० उपसद्सु विहित व्रतम् । उपसद्विहिते

पयोव्रते । “आपूर्य्यमाणपक्षस्य द्वादशाहमुपसद्व्रती
भूत्वा” वृ० उ० । “उपसत्सु व्रतमुपसद्व्रतमुपसदः
प्रसिद्धाः ज्योतिष्टोमे । तत्र स्तनोपचयापचयद्वारेण
पयोभक्षणं व्रतं तत्र च तत्कर्मानुपसंहारात् केवलमिति
कर्त्तव्यताशून्यं पयोभक्षणमात्रमुपादीयते । उपसद्-
व्रती पयोव्रती सन्नित्यर्थः शा० भा० ।

उपसन्न त्रि० उप + सद--क्त । १ उपस्थिते, २ निकटागते

३ उपसेवके च ४ आनुसगुण्येन नैकट्यप्राप्ते “व्रवीतु भगवांस्तन्मे
उपसन्नोऽस्म्यधीहि भोः” भा० शा० २८९ अ० । “भगवन्नु-
दधौ मृतिजन्मजले सुखदुःखवडवे पतितं व्यथितम् ।
कृपया शरणागतमुद्धर मामनुशाध्युपसन्नमनन्यगतिम्” “तस्मै
स विद्वानुपसन्नाय--प्रोवाच तत्त्वतो ब्रह्मविद्याम्” श्रुतिः ।

उपसमाधान न० उप + सम--आ--धा--ल्युट् । राशीकरणे,

“निवासचितिशरीरोपसमाधानेत्यादि” पा० । “उपसमाधानं
राशीकरणम्” सि० कौ० । २ समिधः प्रक्षिप्य ज्वालने ।
“विवाहाग्निमुपसमाधाय पश्चादस्याः” आश्व० गृ० १, ८, ९,
“उपसमाधाय सामिधःप्रक्षिप्य प्रज्वाल्य” ना० वृत्तौ ।
अग्निमुपसमाधाय” गो० सू० “उपसमाधाय ज्वालयित्वेति
सं तत्त्वे च समापूर्ब्बधाञ्धातोस्तथार्थदर्शनात् तथार्थत्वम् ।

उपसमिध(ध्) अव्य० समिधः समीपे अव्ययी० वा अच्समा० ।

समिधः समीपे ।

उपसम्पत्ति स्त्री उप + सम् + पद--क्तिन् । अभिनवत्वेन

सम्पत्तौ । “प्रथमोऽचिरोपसम्पत्तौ” पा० “अमिसम्पत्तौ
अभिनवत्वे” सि० कौ० । सम्पत्तिश्चानुरूचात्मभावः सि० कौ०

उपसम्पन्न त्रि० उप + सम्--पद + क्त । १ प्राप्ते २ मृते च हेम० ।

“श्रोत्रिये तूपसम्पन्ने त्रिरात्रमशुचिर्भवेत्” मनुः ।

उपसम्भाषा स्त्री उप + सम् + भाष--भावे अ । उपसास्त्वने ।

“भाषणोपसंभाषाज्ञानयत्नेत्यादि” पा० “उपसम्भाषा
उपसान्त्वनम्” सि० कौ० ।
पृष्ठ १३३५

उपसर पु० उप + सृ “प्रजनने सर्त्तेः” पा० अच् । गर्भग्रह-

णार्थं स्त्रीपशुषु पुम्पशुगमने । “प्रजननं प्रथमगर्भग्रहणम् ।
गवामुपसरः” सि० कौ० । उपचारात् २ नैरन्तर्य्येणनिगमने
“वीनामुपसरं दृष्ट्वा” भट्टिः “वीनामुपसरं नैरन्तर्य्येण निर्ग-
मनम् दृष्ट्वा उपसर इव उपसरः नैरन्तर्य्यमात्रेणोपलक्षित-
त्वात् उपसरो हि स्त्रीगवीषु पुङ्गवानामभिगमनमुच्यते स
च नैरन्तर्य्येण भवति” जय ङ्गलः ।

उपसरण न० उप + सृ--ल्युट् । १ उपसरार्थे २ समीपगमने च ।

“यस्तूर्द्ध्वभधो वा भेषजवेगं प्रवृत्तमज्ञत्वाद्विनिहन्ति तस्यो-
पसरणं हृदि कुर्व्वन्ति दोषाः” “परिस्रावः प्रवाहिका
हृदयोपसरणं विबन्धः” सुश्रु० कर्म्मणि ल्युट् । २ उपसर्त्तव्ये
उपगम्ये च । “अथ स्वल्वाशोःसमृद्धिरुपसरणानीत्युपा-
सीत” छा० उ० । “उपसरणानि उपसर्त्तव्यानि
उपगन्तव्यानि ज्ञेयानि” भा० ।

उपसर्ग पु० उप + सृज--घञ् । १ रोगविकारे २ उपद्रवे, शुभा-

शुभसूचके ३ दिव्यादिविकाररूपे उत्पाते, व्याकरणोक्तेषु
“निपाताश्चादयोज्ञेयाः प्रादयस्तूपसर्गकाः । द्योतकत्वात्
क्रियायोगे लोकादवगता इमे” इत्यक्तलक्षणेषु क्रियायोगे
४ प्रादिषु च । “उपसर्गाः क्रियायोगे” पा० । “यत्र प्रा-
दीनामन्वयस्तं प्रत्येवोपसर्गतेतिद्योतनाय योगग्रहणम् ।
तेन निर्गतः सेचको यस्मादिति वाक्ये निःसेचक इत्यादी न
षत्वम्” शब्देन्दु० । ते च द्वाविंशतिविधा यथा, प्र, परा
अप, सम्, अनु, अव, निस्, निर् दुस्, दुर्, वि, आङ्,
नि, अधि, अपि, अति, सु, उत्, अति, प्रति, परि,
उप एते प्रादयः । निस् दुस् इति सान्तौ “निसस्तपता
वनासेवने” पा० सूत्रे निस इति निर्द्देशात् । निष्कृतं
दुष्कृतमित्युदाहृत्य इदुदुपधस्य रो विसर्जनीयः” इति
भाष्योक्तेश्च “निरःकुष इति” “सुदुरोरधिकरणे” इति च
पा० निर्द्देशात् रान्तावपि” मनी० । निर्दुरोरभेदारोपेण
क्वचिद्विंशतिधाकथनं द्रष्टव्यम् । “तस्य त्रिधा प्रवृत्तिः
“धात्वर्थं बाधते कश्चित् कश्चित्तमनुवर्त्तते । तमेव विशि-
नष्ठ्यन्य उपसर्गगतिस्त्रिधा । क्रमेणोदाहरणानि यथा ।
आदत्ते प्रसूते प्रणमतोति । अपि च । “उपसर्गेण धात्वर्थो
बलादन्यत्र नीयते । प्रहाराहारसंहारबिहारपरिहार
वत्” । “विभावोपसर्गे” “द्व्यन्तरुपसर्गेभ्योऽपईत्” पा० ।
प्रादयस्तूपसर्गा न सार्थकाः, सार्थकाश्च चादयो निपाता
वाचकत्वात् उपसर्गास्तु न तथा किन्तु द्योतका इति नैयायि-
काः । वैयाकरणास्तु उभयेऽपि द्योतका इति मेनिरे तदेतत्
वै० भू० दर्शितम् “प्रादयोद्योतकाश्चादयोवाचका इति
नैयायिकमतमयुक्तम् वैषम्ये वीजाभावादिति ध्वनयन्निपातानां
द्योतकत्वं समर्थयते । “द्योतकाः प्रादयो येन निपाताश्चा-
दयस्तथा । उपास्येते हरिहरौ लकारोदृश्यते यथा”
येन हेतुना प्रादयोद्योतकास्तेनैव हेतुना चादयोनिपाता-
स्तथा द्योतका इत्यर्थः । अयं भावः । ईश्वरमनुभव-
तोत्यादावनुभवादिः प्रतीयमानो न धात्वर्थः भवतीत्यत्रा-
प्यापत्तेः । नोपसर्गार्थः तथा सत्यप्रकृत्यर्थतया तत्राख्याता-
र्थानन्वयापत्तेः प्रत्ययानां प्रकृत्यर्थान्वितस्वार्थबोधकत्वव्युत्प-
त्तेः अनुगच्छतीत्यादौ अनुभवादिप्रत्ययापत्तेश्च । न विशि-
ष्टार्थः गौरवात् । तथा च धातोरेव विद्यमानत्वांदिवाचकस्य
लज्ञणा उपसर्गस्तात्पर्य्यग्राहक इत्यस्तु । तथा च तात्पर्य्य-
ग्राहकत्वमेव द्योतकत्वमिति । तच्च चादिष्वपि तुल्यम्
चैत्रमिव पश्यतीत्यादौ सादृश्यविशिष्टं चैत्रपदलक्ष्यम्
इवशब्दस्तात्पर्य्यग्राहक इत्यस्य सुवचत्वादिति । स्वयं
युक्त्यन्तरमाह । उपास्येते इति । अत्र ह्युपासना
किमुपसर्गार्थः? विशिष्टस्य? धातुमात्रस्य? वा । नाद्यः
तथा सति स्वार्थफलव्यधिकरणव्यापारवाचकत्वरूपसकर्मक-
त्वस्याऽऽसधातोरुपासनारूपफलवाचकत्वेनाभावादकर्मकत्वाप-
त्तेस्ततः कर्मणि लकारोन स्यात् । न द्वितीयः गौरवात् ।
तृतीये त्वागतं द्योतकत्वं तात्पर्य्यग्राहकत्वलाभात् इति
भावः । दृश्यते इत्यत्र कर्मणीति शेषः । तच्चादिष्वपि तुल्य-
मित्याह । “तथान्यत्र निपातेऽपि लकारः कर्म्मवाचकः ।
विशेषणाद्ययोगोऽपि प्रादिवच्चादिके समः” । (अन्थत्र)
साक्षात्क्रियते अलङ्क्रियते उरीक्रियते शिव इत्यादौ ।
अत्रापि धातोस्तत्तदर्थे कर्म्मणि लकारसिद्ध्यर्थं तत्तदर्थवाच-
कत्वं वाच्यमित्युपसर्गवद्द्योतकत्वममीषामपीत्यर्थः । यद्यपि
कृधातोः सकर्मकत्वमस्त्येव तथाप्येष्वर्थेषु सकर्मकता न
स्यात् । अन्यथा वायुर्विकुरुते सैन्धवा विकुर्वत इत्यत्रापि
स्यादिति भावः । अथोपासनासाक्षात्कारादि निपाता-
र्थोऽस्तु “साक्षात्प्रत्यक्षतुल्ययोरिति” कोषस्वरसात् तदनु-
कूलोव्यापार एव धात्वर्थोऽस्तु स्वस्वयुक्तनिपातान्यतरार्थ-
फलव्यधिकरणव्यापारवत्त्वं सकर्मकत्वमपि सुवचमिति
दृष्टान्तदार्ष्टान्तिकावयुक्ताविति नेदं साधकभिति चेन्न
नामार्थधात्वर्थयोर्भेदेन साक्षादन्वयासम्भवेन निपातधात्व-
र्थयोरन्वयासम्भवात् । अन्यथा तण्डुलः पचतीत्यत्रापि
कर्म्मतया तण्डुलानां धात्वर्थेऽन्वयापत्तेरिति । किञ्च
प्रादीनां वाचकत्वे भूयान् प्रकर्षः कीदृशोनिश्चय इतिवद्भु-
पृष्ठ १३३६
यान् प्र कीदृशोनिरित्यपि स्यात् । अस्मन्पते प्रादेरनर्थ-
कत्वान्न तदन्वय इत्यत एव द्योतकता तेषां स्यादिति ।
साधकान्तरमभिप्रेत्याह । विशेषणेति । शोभनः समुच्च
योद्रष्टव्य इति वच्छोभनश्च द्रष्टव्य इत्यस्यान्वयापत्तेस्तुल्यस-
माधेयत्वादिति भावः । अपि च निपातानां वाचकत्वेप्राति-
पदिकार्थयोर्विना षष्ठ्यादिकं भेदेनान्वयासम्भवः । अन्यथा
राजा पुरुष इत्यस्य राजसम्बन्धी पुरुष इत्यप्यापत्तेरित्य-
भिप्रेत्याह आदीति । धवखदिरयोः समुच्चय इति वद्धवस्य
च खदिरस्य चेत्येव स्यादिति भावः । ननु प्रातिपदिकार्थ
योरभेदान्वयबोधे विभक्तिजन्योपस्थितिर्हेतुरिति कार्य्य-
कारणभावो निपातातिरिक्तविषय एवेति नोक्तदोष इत्या-
शङ्क्याह । “पदार्थः सदृशान्वेति विभागेन कदा च न ।
निपातेतरसङ्कीचे प्रमाणं किं विभावय” । (सदृशा) सदृशेन
समानाधिकरणेनेति यावत् । (अन्वेति) अभेदेनेति शेषः ।
(विभागेन) असदृशेन असमानाधिकरणेनेति यावत् ।
अयमर्थः समानाधिकरणप्रातिपदिकार्थयोरभेदान्वयव्युत्पत्ति
र्निपातातिरिक्तविषयेति क्वल्पने मानाभावोगौरवञ्च ।
अस्माकं निपातानां द्योतकत्वादन्वय एव नास्तीति नायं
दोषः अतएव घटोनास्तोत्यादौ घटपदं तत्प्रतियोगिके
लाक्षणिकमिति नैयायिकाः । अपि च निपातानां वाचकत्वे
काव्यादावन्वयोन स्यादिति साधकान्तरमाह । “शरैरुस्रै-
रिवोदोच्यान् उद्धरिप्यन् रसानिव । इत्यादावन्वयोन
स्यात्सुपाञ्च श्रवणं ततः” । अत्रोस्रसदृशैः शरैः रससदृ-
शानुदीच्यानुद्धरिष्यन्नित्यर्थः । अयञ्चोस्रादिशब्दानां
तत्सदृशपरत्वे इवशब्दस्य द्योतकत्वे च सङ्गच्छते । अन्यथा
प्रत्ययानां प्रकृत्यर्थान्वितस्वार्थबोधकत्वव्युत्पत्तिविरोधः ।
तथाहि । उस्रैरिति करणे तृतीया । न चोस्रोऽत्र-
करणम् इवार्थसदृशस्य करणत्वेऽपि तस्य करणत्वं नानेन
बोधयितुं शक्यम् अप्रकृत्यर्थत्वात् । इबशब्दस्य
चासत्वार्थकतया तदुत्तरतृतीयाया असम्भवात् । सम्भवे वा
श्रवणप्रसङ्गात् । उस्रपदोत्तरतृतीयानत्वयप्रसङ्गाच्चेत्याह ।
सुपां चेति । सुपां श्रवणञ्चेत्यर्थः । चकारादुस्रपदोत्तर-
तृतोयानन्वयः समुच्चोयते इत्यादावित्यादिपदात् “वाग-
र्थाविव सम्पृक्तौ वन्दे पार्वतीपरमेश्वरौ” इत्यत्र वागर्थयो-
र्वन्दिकर्मत्वाभावात्तदुत्तरद्वितीयाया अनन्वयः इवार्थस्य
कर्म्मत्वान्वयबोधासम्भवश्च संगृह्यते । यदि च विशेषण-
विभक्तिरभेदार्था साधुत्वमात्रार्था वा तदापि इवशब्दस्य
वाचकत्वेऽनन्वय एव उस्रसदृशशराणां समानाधिकरणपदो-
पस्थाप्यतया भेदेनान्वयायोगात् । बाधादभेदेनापि न
सः । नह्युस्राभिन्नसदृशाभिन्नः शर इत्यर्थ एष्टव्यः” ।
उत्पातरूप उपसर्गश्च त्रिविधः “अतिलीभादसत्याद्वा
नास्तिक्याद्वाऽप्यधर्मतः । नरापचारान्नियतमुपसर्गः प्रवर्त्तते ।
अतोऽपचारान्नियतमपवर्ज्जन्ति देवताः । ताःसृजन्त्यद्भुता
स्तावद्दिव्यनाभसभूमिजान् । तएव त्रिविधा लोके
उत्पाता देवनिर्म्मिताः । विचरन्ति विनाशाय रूपैः सम्भा-
वयन्ति च” गर्गः । “उपसर्गमृते चैव सद्यः शौचं विघी-
यते” पराश० । उपद्रवरीगकृताश्चोपसर्गा सुश्रु० उक्ताः “दैव-
बलप्रवृत्ता ये देवद्रोहादभिशस्तका अथर्वकृता उपसर्गकृता-
श्च तेऽपि द्विविधा विद्युदशनिकृताः पिशाचादिकृताश्च पुनश्च
द्विविधाः संसर्गजा आकस्मिकाश्च” “उपसर्गादयोरोगा
ये चाप्यागन्तवः स्मृताः” क्षीणं हन्युश्चोपसर्गाः प्रभूताः”
सुश्रुतः उपद्रवशब्दे विवृतिः । “उपसर्गानशेषांस्तु
महामारीसमुद्भवान् । तथा त्रिविधमुत्पातं माहात्म्यं
शमयेन्मम” देवीमा० । तस्मै प्रभवति सन्तापा० तेन
निर्वृत्तम् वा ठञ् । औपसर्गिक तत्र पर्य्याप्ते तेन निर्वृ-
त्ते च त्रि० । औपसर्गिकात्यन्तमरकपीड़ायाम् शु० त० ।

उपसर्ज्जन त्रि० उप + सृज--ल्युट् । १ दैवाद्युपद्रवे “निर्घाते

मूमिचलने ज्योतिषामुपसर्ज्जने” मनुः । २ अप्रधाने गौणे-
विशेषणे “वोपसर्ज्जनस्य” “गोस्त्रियीरुसर्ज्जनस्य” पा० ।
“उपसर्ज्जनं प्रधानस्य धर्मतो नोपपद्यते” मनुः
“उपसर्ज्जनमप्रधानम्” कुल्लू० । “अनुपसर्ज्जनात्” “आचा-
र्य्योपसर्ज्जनश्चान्तेवासी” पा० उपसृजत्यनेन करणे ल्युट् ।
३ संमार्गसाधने त्रि० स्त्रियां ङीप् । “अथैक उपसर्ज्जनी-
भिरेभिः” शत० १, २, २, २, “पिष्टसमार्जनार्थासु अप्सु
पिष्टसम्मार्ज्जनार्थञ्चोपसर्ग साधनानि उपसर्जन्यः” भा०
“प्रथमानिर्द्दिष्टमुपसर्ज्जनम्” पा० उक्ते । समासविधायकशा-
स्त्रे ४ प्रथमान्तपदनिर्द्दिष्टे । “एकविभक्ति चापूर्वणिनिपाते”
विग्रहवाक्ये यन्नियतविभक्तिकं तदुपसर्जनसंज्ञम् इत्यर्थक
पाणिनिसूत्रोक्ते ५ शब्दभेदे च “उपसर्ज्जनं पूर्ब्बम्” पा०
समासे उपसर्ज्जनस्य पूर्ब्बप्रयोगः यथा “द्वितीया श्रिते-
त्यादि” पा० सूत्रे द्वितीयेति प्रथमान्तम् पदं तदेव प्राक्-
प्रयोज्यम् यथा कष्टं श्रित इत्यादि वाक्ये कष्टश्रित इत्यादि

उपसर्पण न० उप + सृप--भावे ल्युट् । समीपगमने “न

तावदयमुपसर्पणकालः” विक्र० । “मक्षिकोपसर्पणमालस्य-
मित्यादि” सुश्रु० ।
पृष्ठ १३३७

उपसर्पिन् त्रि० उप + सृप--गतौ णिनि । समीपगन्तरि

“एकमेव दहत्यग्निर्नेवं दुरुपसर्पिणम्” मनुः । “युक्तं मात्रा
कृतं तेषां परपीड़ोपसर्पिणाम्” भा० अ० २० अ० ।

उपसर्य्या स्त्री उपस्रियतेऽसौ सृ--कर्मणि यत् । गर्भग्रहण-

योग्यायाम् ऋतुमत्यां स्त्रीगव्यादौ । अप्रजनार्थे तु ण्यत्
उपसार्य्य प्राप्ये त्रि० ।

उपसि अव्य० उप + सो बा० कि । समोपस्थाने “आसीन

ऊर्द्ध्वामुपसि क्षिणाति” ऋ० १०, २७, ३, । “उपसि
समोपस्थाने” भा० “पि र्न पुत्र उपसि प्रेष्ठः” ऋ० ५, ४३, ७ ।

उपसीर अव्य० सोरे हले तत्सामीप्यं वा अव्य० । १ हले

इत्यर्थे २ हलसमीपे वा । ततो भवार्थे परिमुखा० ञ्य ।
उपसीर्य्य तत्रभवे त्रि० अत्या० स० । हलोपगते त्रि०
ततोभवार्थऽणेव । औपसीर तद्भवे त्रि०

उपसुन्द पु० दैत्यभेदे तत्कथा भा० आ० “महासुरस्या-

न्ववाये हिरण्यकशिपोः पुरा । निकुम्भो नाम दैत्येन्द्र-
स्तेजस्वी बलवानभूत् । तस्य पुत्रौ महावार्य्यौ जातौ
भीमपराक्रमौ । सुन्दोपसुन्दौ दैयेन्द्रौ दारुणौ क्रूरमानसौ ।
तावेकनिश्चयौ दैत्यावेककार्य्यार्थाम्मतौ । निरन्तरम र्त्तेतां
समदुःखसुखातुभौ । विनान्योन्यं न भुञ्जाते विनान्योन्यं
न गच्छतः । अन्योन्यस्य प्रियकरावन्योन्यस्य प्रियंवदौ ।
एकशीलसमाचारौ द्विधेवैकं यथा कृतौ । तौ विवृद्धौ
महावीर्य्यो कार्य्येष्वप्येकनिश्चयौ । त्रैलोक्यविजयार्थाय
समाधायैकनिश्चयौ । दीक्षां कृत्वा गतौ विन्ध्यं तावुग्रं
तेपतुस्तपः । तौ तु पूर्वेण कालेन तपोयुक्तौ बभूवतुः ।
क्षुत्पिपासापरिश्रान्तौ जटावल्कलघारिणौ । मलोप-
चितसर्वाङ्गौ वायुभक्षौ बभूवतुः । आत्ममांसानि जुह्वन्तौ
पादाङ्गुष्ठाग्रधिष्ठितौ । ऊर्द्ध्वबाहू चानिमिषौ दीर्घकालं
धृतव्रता । तयोस्तपःप्रभावेण दार्थकालं प्रतापितः । धूमं
प्रमुमुचे विन्ध्यस्तदद्भुतमिवाभवत् । ततो देवा भयं
जग्मुरुग्रं दृष्ट्वा तयोस्तपः । तपोविधातार्थमथो देवा विघ्नानि
चक्रिरे । रत्नैः प्रलोभयामासुः स्त्रोभिश्चोभौ पुनः पुनः ।
न च तौ चक्रतुर्भङ्गं व्रतस्य सुमहाव्रतौ । अथ मायां
पुनर्देवास्तयोश्चक्रुर्महात्मनोः । सगिन्यो मातरो भार्य्या-
स्तयोश्चात्मजनस्तथा । प्रपात्यमाना वित्रस्ताः शूलहस्तेन
रक्षसा । भ्रटाभरणके शान्ता भ्रटाभरणवाससः ।
अभिभाष्य ततः सर्बास्तौ त्राहीति विचुक्रुशुः । न च तौ
चक्रतुर्भङ्गं व्रतस्य सुमहाव्रतौ । यदा क्षोभं नोपयाति
नार्त्तिमन्यतरस्तयोः! ततः स्त्रियस्ता भूतञ्च सर्वमन्तरधी-
यत । ततः पितामहः साक्षादभिगम्य महासुरौ । वरेण-
च्छन्दयामास सर्वलोकहितः प्रभुः । ततः सुन्दोपसुन्दौ
तौ भ्रातरौ दृढ़विक्रमौ । दृष्ट्वा पितामहं देवं तस्थतुः
प्राञ्जली तदा । ऊचतुश्च प्रभुं देवं ततस्तौ सहितौ
तदा । आवयोस्तपसाऽनेन यदि प्रीतः पितामहः ।
मायाविदावस्त्रविदौ बलिनौ कामरूपिणौ । उभावप्यमरौ
स्याव प्रसन्नौ यदि नौ प्रभुः । व्रह्मोबाच । ऋतेऽमरत्वं
युवयोः सर्बमुक्तं भविष्यति । अन्यद्वृणीतं मृत्योश्च विधान-
ममरैः समम् । प्रभविष्याव इति यन्महदभ्युद्यतं तपः ।
युवयोर्हेतुनानेन नामरत्वं विधीयते । त्रैलोक्यविजया-
र्थाय भवद्भ्यामास्थितं तपः । हेतुनानेन दैत्थेन्द्रौ न वां
कामं करोम्यहम् । सुन्दोपसुन्दावूचतुः । त्रिषु
लोकेषु यद्भूतं किञ्चित् स्थावरजङ्गमम् । सर्वस्मान्नो भयं म
स्यादृतेऽन्योत्यं पितामह! । पितामह उर्वाच । यत्प्रा-
र्थितं यथोक्तञ्च काममेतं ददानि वाम् । मृत्योर्विधान-
मेतच्च यथावद्वां भविष्यति । नारद उवाच । ततः पि
तामहो दत्त्वा वरमेतत्तदा तयोः । निवर्त्य तपसस्तौ च
व्रह्मलोकं जगाम ह । लब्ध्वा वराणि दैत्येन्द्रावथ तौ भ्रात-
रावुभौ । अबध्यौ सर्वलोकस्य स्वमेव भवनं गतौ” २११० अ०
“तावन्तरोक्षमुमुप्लुत्य दैत्यौ कामगमावुभौ । देवानामेव
भवनं जग्मतुर्युद्धदुर्म्मदौ । तयोरागमनं ज्ञात्वा वरदानञ्च
तत् प्रभोः । हित्वा त्रिपिष्टपं जग्मुर्ब्रह्मलोकं ततः सुराः ।
ताविन्द्रलोकं निर्ज्जित्य यक्षरक्षोगणांस्तथा । खेचराण्यपि
भूतानि जग्मतुस्तीव्रविक्रमौ । अन्तर्भूमिगतान् नागान्
जित्वा तौ च महारथौ । समुद्रवासिनीः सर्वा म्लेच्छ-
जातीर्विजिग्यतुः । ततः सर्वां महीं जेतुमारब्धावुग्र-
शासनौ । सैनिकांश्च समाहूय सुतीक्ष्णं वाक्यमूचतुः ।
राजर्षयो महायज्ञैर्हव्यकव्यैर्द्विजातयः । तेजो बलञ्च
देवानां वर्द्धयन्ति श्रियं तथा । तेषामेवं प्रवृत्तानां सर्वे-
षामसुरद्विषाम् । सम्भूय सर्वैरस्माभिः कार्य्यः सर्वात्मना
बधः । एवं सर्वान् समादिश्य पूर्बतीरे महोदधेः ।
क्रूरां मतिं समास्थाय जग्मतुः सर्वतोमुस्वौ । यज्ञैर्यज-
न्ति ये केचिद्याजयन्ति च ये द्विजाः । तान् सर्वान्
प्रसभं हत्वा बलिनौ जग्मतुस्ततः । आश्रमेष्वग्निहोत्राणि
मुनीनां भावितात्मनाम् । गृहीत्वा प्रक्षिपन्त्यप्सु विश्रब्धं
सैनिकास्तयोः । तपोधनैश्च ये क्रुद्धैः शापा उक्ता
महात्मभिः । नाक्रामन्त तयोस्तेऽपि वरदाननिराकृताः ।
नाक्रामन्त यदा शापा वाणा मुक्ताः शिलास्विव ।
नियमान् सम्परित्यज्य व्यद्रवन्त द्विजातयः । पृथिव्यां ये
पृष्ठ १३३८
तपःसिद्धा दान्ताः शमपरायणाः । तयोर्भयाद्दुद्रुवुस्ते
वैनतेयादिवोरगाः । मथितैराश्रमैर्भग्नैर्विकोर्णकलसस्रवैः ।
शून्यमासीत् जगत् सर्वं कालेतेव हतं तदा । ततो राजन्न-
दृश्यद्भिरृषिभिश्च महासुरौ । उभौ विनिश्चयं कृत्वा
विकुर्वाते बधैषिणौ । प्रभिन्नकरटौ मत्तौ भूत्वा कुञ्जर-
रूपिणौ । संलीनमपि दुर्गेषु निन्यतुर्यमसादनम् । सिंहौ
भूत्वा पुनर्व्याघ्र्यौ पुनश्चान्तर्हितावभौ । तैस्तैरुपायैस्तौ
क्रूरावृषीन् दृष्ट्वा निजघ्नतुः । निवृत्तयज्ञस्वाध्याया प्रनष्ट-
नृपतिद्विजा । उत्सन्नोत्सवयज्ञा च बभूव वसुधा तदा ।
हाहाभूता भयार्त्ता च निवृत्तविपणापणा । निवृत्तदेव-
कार्य्या च पुगयोद्वाहविवर्ज्जिता । निवृत्तकृषिगोरक्षा
विध्वस्तनगराश्रमा । अस्थिकङ्कालसङ्कीर्णाभूर्बभूवोग्रदर्शना ।
निवृत्तपितृकार्य्यञ्च निर्वषट्कारमण्डलम् । जगत् प्रति-
भयाकारं दुष्प्रेक्ष्यमभवत्तदा । चन्द्रादित्यौ ग्रहास्तारा
गक्षत्राणि दिवौकसः । जम्मुर्विषादं तत् कर्म दृष्ट्वा सुन्दो-
पसुन्दयोः । एवं सर्वा दिशो दैत्यौ जित्वा क्रूरेण कर्मणा ।
निःसपत्नौ कुरुक्षेत्रे निवेशमभिचक्रतुः” २११ अ० । तत
स्तिलोत्तमासृष्टिमुपवर्ण्य तस्यास्तत्समीपयानं तयोस्तदा-
सक्तत्वमुक्त्वा तत्रान्योन्ययुद्धेनान्योन्यबधः २१३ अ० उक्तः
यथा “ततस्तिलोत्तमा तत्र वने पुष्पाणि चिन्वती ।
वेशमाक्षिप्तमाधाय रक्तेनैकेन वाससा । नदीतीरेषुजातान् सा
कर्णिकारान् प्रचिन्वती । शनैर्जगाम तं देशं यत्रास्तं
तौ महासुरौ । तौ तु पीत्वा परं पानं मदरक्तान्तलो-
चनौ । दृष्ट्वैव तां वरारोहां व्यचितौ सम्बभूवतुः । तावु-
त्थायासनं हित्वा जग्मतुर्यत्र सा स्थिता । उभौ च
कामसम्मत्तावुभौ प्रार्थयतश्च ताम् । दक्षिणे तां करे सुभ्रूं
सुन्दो जग्राह पाणिना । उपसुन्दोऽपि जग्राह वामे
पाणौ तिलोत्तमाम् । वरप्रदानमत्तौ तावौरसेन बलेन
च । धनरत्नमदाभ्याञ्च सुरापाणमदेन च । सर्वैरेतैर्मदै-
र्मत्तावन्योन्यं भ्रुकुटीकृतौ । मदकामसमाविष्टौ परस्पर-
मथोचतुः । मम भार्य्या तव गुरुरिति सुन्दोऽभ्यभाषत ।
मम भार्य्या तव वधूरुपसुन्दोभ्यमाषत । नैषा तव
ममैषेति ततस्तौ मन्युराविशत् । तस्या रूपेण संमत्तौ
विगतस्नेहसौहृदौ । तस्या हेतोर्गदे भीमे संगृह्णीतामुभौ तदा ।
प्रगृह्य च गदे भीमे तस्यां तौ काममोहितौ । अहंपूर्ब-
महंपूर्वमित्यन्योन्यं निजघ्नतुः । तौ गदाभिहतौ भीमौ
पेततुर्धरणीतले । रुधिरेणावसिक्ताङ्गौ द्वाविवार्कौ
नभश्च्युतौ” । सुन्दोपसुन्दन्याथः ।

उपसूर्यक न० उपगतं सूर्यं चन्द्रं वा संज्ञायां कन् । चन्द्रा-

र्कसमीपे मण्डलाकारे परिधौ ।

उपसृष्ट न० उप + सृज--क्त । १ मैथुने । २ व्याकरणोक्ते प्राद्यु

पसर्गयुक्ते, “क्रुधद्रुहोरुपसृष्टयोः” पा० । ३ विसृष्टे
४ उपद्रुते च त्रि० । ५ ग्रहोपरक्ते चन्द्रेऽर्के पु० “नेक्षेतोद्य-
न्तमादित्यं नास्तं यान्तं कदाचन । नोपसृष्टं न वारिस्थं
न मध्यं नमसोगतम्” मनुः ६ कामुके “उपसृष्टा इव
क्षुद्राधिष्टितभवना” काद० । ७ व्याप्ते च रोगोपसृष्टत-
नुदुर्वसतिं मुमुक्षुः” रघुः ।

उपसेक पु० उप + सिच--भावे घञ् । जलादिसेचनेन मृदू करणे ।

उपसेचन त्रि० उप + सिच--ल्यु । उपसेककर्त्तरि “त्रयः

कोशास उपसेचनासः” ऋ०७, १०१, ४, तृच् । उपसेक्तृ
तत्रार्थे त्रि० “लोकेभ्य उपसेक्तारमवऋत्यै” यजु० ३०,
१२, स्त्रियां ङीप् । मावे ल्युट् । २ उपसेके न० दुहन्त्यू-
धरुपसेचनाय कम्” ऋ० १०, ७६, ७, “पर्य्यूहणाद्योप्र-
सेचनात् कृत्वा” कात्या०८, ५, ३६, बा० कर्त्तरि ल्युट् ।
३ उपसेचके त्रि० स्त्रियां ङीप् “वेति त्वामुपसेचनी”
ऋ० १०, २१, २, उपसेचनी उपरिक्षरणशीला आहुतिः
भा० । करणे ल्युट् । ४ तत्साधने

उपसेवक त्रि० उप + सेव--ण्वुल् । उपभोगादिना १ सेवनासक्ते

२ भोगप्रसक्ते । “अदत्तादाननिरतः परदारोपसेवकः”
याज्ञ० ३ उपेत्य सेवके च ।

उपसेवन न० उप + सेव--भावे ल्युट् । १ उपभोगप्रसङ्गे ।

“नहीदृशमनायुप्य लोके किञ्चन विद्यते । यादृशं पुरु-
षस्येह परदारोपसेवनम्” मनुः २ समीपस्थित्या सेवने च ।
“निरताहं सदा सत्ये! भर्त्तॄणामुपसेवने” भा० व० २३२
अ० ३ तत्तत्कर्म्मणि अयन्तासक्तौ “अजीर्ण्णाध्यशनाया-
सविरुद्धान्नोपसेवनात्” “एवंविधानां द्रव्याणामन्येषाञ्चो-
पपेवनात्” सुश्रु० भावे अ उपसेवा । तत्रैवार्थे स्त्री ।
“गोभिरश्वैश्च यानैश्च कृष्या राजोपसेवया” । “परदारोपसेवा
च शारीरं त्रिविधं स्मृतम्” “विषयोपसेवा याऽजस्रम्” मनुः ।

उपसेविन् त्रि० उप + सेव--णिनि । उपसेवके “अभिवा-

दनशीलस्य नित्यं वृद्धोपसेविनः । तेषां सततमज्ञानां
विषयाम्न्युपसेविनाम्” मनुः । “ये हितं वाक्यमुत्सृज्य
विपरीतोपसेविनः” पञ्चत० । “हृष्टात्मा पुलिनवनान्त-
रोपसेवी” सुश्रु० स्त्रियां ङीप् ।
पृष्ठ १३३९

उपसोम पु० उपगतः सोमम् अत्या० स० । सोमोपगते

सोमयाजिनि । सत्र तत्पुरुषत्वात् द्व्यच्कत्वादन्तोदा-
त्तता । उपगतः सोमोऽनेन प्रा० ब० । तत्रार्थे सामीप्ये
अव्ययी० । ३ सोमसामीप्ये अव्य० एतयोर्नान्तोदात्ततेति भेदः

उपस्कर पु० उप + कृ--भावे अप् हिंसने सुट् । १ हिंसने

उपस्करोति उप + कृ--अच् भूषणे समवाये प्रतियत्ने
विकारे अध्याहारे च सुट् । २ मूषके कटककण्डलादौ
३ समुदिते संहते । ४ व्यञ्चनसंस्कारकपिष्टधन्याकादि-
द्रव्ये (वाटना) । गृहसंस्कारके ५ सम्मार्ज्जन्यादौ ।
६ विकृते अध्याहारेण ७ कथके च “पञ्च शूना गृहस्थस्य
चूल्लो पेषण्युपस्करः” । “वको भवति हृत्वाग्निं ग्रह-
कारी ह्युपस्करम्” मनुः ।

उपस्करण न० उप + कॄ--भावे ल्युट् हिंसने सुट् । १ हिंसने ।

उप + कृ--भावे ल्युट् उप स्करशब्दोक्तभूषणादौ सुट् ।
२ भूषणे ३ संघाते ४ सतोगुणान्तराधानरूपसंस्कारे ५ विकारे
६ वाक्याध्यारे च । उभाभ्यां करणे ल्युट् । उक्ततत्तदर्थेषुं
सुट । ७ हिंसासाधने ८ भूषणादिसाधने कटकादौ च न० ।

उपस्कार पु० उप + कृ--भावे घञ् उपस्करशब्दोक्त भूषणादौ

सुट । १ भूषणे २ संङ्घाते ३ प्रतियत्नरूपसंस्कारे ४ विकारे
५ अध्याहारे च । “साकाङ्क्षमनुपस्कारं विष्वग्गति निरा-
कुलम्” किरा० ।

उपस्कीर्ण त्रि० उप + कॄ--क्त हिंसने सुट् । हिंसिते

उपस्कृत त्रि० उप + कृ--क्त उपस्कारशब्दोक्तभूषणादौ सुट् ।

१ भूषिते २ संहते ३ संस्कृते ४ विकृते ५ अध्याहृते च ।
भावे क्तिन् उक्तार्थेषु सुट् । उपस्कृति उपस्कारशब्दार्थे
स्त्रो । उप + कॄ--भावे क्तिन् हिंसने सुट् । उपस्कीर्णि
हिंसने स्त्री ।

उप(ष्ट)स्तम्भ पु० उप + स्तन्म घञ् । पतनप्रतिरोधने अवलम्बने

“मूषिकस्योपस्त(ष्ट)म्भे केनापि कारश्चेनात्र भवितव्यम्”
हितो० । नि० षत्वम् । उपष्टम्भ १ उपष्टम्भशब्दार्थे
२ आलम्बने ३ स्थितौ ४ सहकारे च “स्थानात् वीजादवष्टम्भात्
प्रस्यन्दात् निधनादपि” पात० भा० गाथा । भावे
ल्युट् । उपस्तम्भन तत्रैवार्थे न० । करणे ल्युट् ।
तत्साधने शकटाग्राधारकाष्ठे च “वरुणस्योत्तम्भनम-
सीत्युपस्तम्भनेनोपस्तभ्नाति” शत० ब्रा० ३, ३, ४, २५,
“उपस्तत्यते प्रतिरुध्यते इत्युपस्तम्भनं शकटाग्राधार-
काष्ठम्” भा० “देवानामित्युपस्तम्भनस्य पश्चादीषाम्”
कात्या० २, ३, १४, “शकटस्य काष्ठमोषा तदग्रस्य मूमि-
स्पर्शो मा मूदिति तदाधारत्वेन स्थापितं काष्ठमुप-
स्तम्भनम्” वेददी० । ततो ल्वुल् । उपस्त(ष्ट)म्भक
बा नि० षत्वम् । उपस्त(ष्ट)म्भकर्त्तंरि आधिक्याधायके त्रि० ।

उपस्तरण न० उप + स्तॄ--ल्युट् । १ आस्तरणे (विछान) २ भूमेः

सम करणे च । “पुनर्नवोकृत्य लेपनोपस्तरणैः आ० गृ० २,
३ आधारे ल्युट् । १ आस्तरणाधारे “अमृतोपस्तरणमसि”
भोजनस्यादौ जलपानमन्त्रः “अथाचमनीयमाचामति
म्रमृतोपस्तरणमसीति” आ० गृ० १, २४, ११, । “स्तरण-
माच्छादनम् उपस्तरणं भूमेः समीकृरणम्” ना० वृत्तिः

उपस्ति पु० उप + स्त्यै--इन् नि० । वृक्षे । “उपस्तिरस्तु

सोऽस्माकम्” यजु० १२, १०१, “उपास्त्यायन्ति उपकारायोपद्रव
निराकरणाय च समोपे संहतास्तिष्ठन्तीत्युपस्तयः वृक्षाः
वेददी० ।

उपस्तिर् त्रि० उप + स्तॄ--कर्म्मणि क्विप् । आस्तीर्य्यमाणे

आस्तरणीये । “अभि शुक्रमुपस्तिरम्” ऋ० ९, ६२, २८,

उपस्तुत त्रि० उप + स्तु--क्त । समीपस्तुते श्रवणयोग्यस्तवेन स्तुते

“चोदद्राध उपस्तुतश्चिदर्वाक्” ऋ० ७, २७, ३, “त्वं त्वम-
हयथा उपस्तुतः पूर्व्वेभिरिन्द्रः” ऋ० १०, ९६, ५ ।

उपस्तुति स्त्री उप + स्तु--क्तिन् । समोपस्तवे श्रवणयोग्यस्तु-

तिवाक्ये “कर्मोपस्तुतिं भरमाणस्य” ऋ० १, १४८, २,

उपस्तुत्य त्रि० उप + स्तु--क्यप् । सर्मीपे स्तवनीये । “उपस्तुत्यं

महिजातं ते अर्ब्बन्” ऋ०१, १६३, १,

उपस्थ पु० न० अर्द्धर्चादि । उप + स्था--क । १ स्त्रीपुंसयोरि-

न्द्रियविशेषे तत्र पुमिन्द्रिये “स्नानमौनोपवासेज्यास्वाध्या-
मोपस्थनिग्रहाः” याज्ञ० । स्त्रीन्द्रिये “दक्षिणेन पाणिना
उपस्थमभिस्पृशेत् विष्णुर्योनिंकल्पयतेत्येतयर्च्चा” गोभि० ।
“वितिष्ठन्तां मातुरस्या उपस्थान्नानारूपाः पशवो
जायमानाः” अथ० १४, २, २५ । “मुखदघ्नं ब्राह्मणस्यो-
पस्थदघ्नं स्त्रियाः” शत० १३, ८, ३, ११ । उभयेन्द्रिये “हस्तौ
पायुरुपस्थश्च वाक् पादौ चेति पञ्च वै । कर्मेन्द्रियाणि
जानीयात्” याज्ञ० । “उपस्थमुदरं जिह्वा हस्तौ पादौ च
पञ्चकम्” मनुः “सर्वेषामानन्दानामुपस्थ एकायनम्”
शत० ब्रा० १४, ५, ४, ११ । उपस्थश्च न तयोश्चिह्नस्थान-
मात्रं किन्तु तत्स्थानाविष्ठितः प्रजापतिदेवतानियमित-
शक्तिक आनन्दनव्यापारकारकः कर्म्मेन्द्रियभेदः । तत्र “ब्रह्मे-
न्द्रोपेन्द्रमित्रकाः” इति शा० ति० तस्य कशब्दवाच्यप्रजा-
पतिदेवताकत्वमुक्तम् शत० ब्रा० उक्तवाक्ये चानन्दन
व्यापारसाधनत्वमुक्तम् तस्यैवापाटवे क्लैव्यम् । इन्द्रियाणां
भौतिकत्वमते तस्य पृथिवीरजोगुणोपदानकता आहङ्कारिक-
त्वमते गन्धतन्मात्रसहिताहङ्कारोपदानकता । स च सूक्ष्म
पृष्ठ १३४०
लिङ्गदेहान्तर्गत इति वेदान्तिनः सांख्याश्चाहुः । तेन जीवति
वेतना० ष्ठञ् । औपस्थिक जारकर्म्मोपजोविनि जारभेदे
पु० । वेश्यायां स्त्री । २ उत्सङ्गे क्रोड़े ३ अन्तराले “आत्म-
न्नुपस्थेन वृकस्य लोम” यजु० १९, ९२ । “वरीयओभा
पृणन्ती पित्रोरुपस्था” ऋ०१, १२४, ५ । “उपस्था उपस्थे
उत्सङ्गेऽन्तरालदेशे वा” भा० “तस्याः कुमारमुपस्थ
आदधुः” गोभि० “उपस्थे उत्सङ्गे” सं० त० “भूम्या
उपस्थेऽवपज्जघन्वान्” ऋ० २, १४, ७ । “रथोपस्थ
उपाविशत्” गीता । उप + स्था घञर्थे भावे क । सर्वाङ्गुलीभिः
भूमिमाश्रित्य ४ स्थितौ “समस्त जङ्गोरुररत्निभ्यां जानुभ्यां
चोपस्थं कृत्वा” आश्व० श्रौ० ६, ५, ५ । “उपस्थं कृत्वा
भूमिमाश्रित्येयर्थः पादाङ्गुलीभिश्च भूमिमाश्रित्यैवमुप-
विशेत्” नारा० वृ० । “प्राङमुख उपविश्योपस्थं कृत्वा”
आश्व० गृ० ३, २, २, । उप + तिष्ठति स्था--क ।
“उपस्थकृतस्त्वेवाश्विनं शंसेत्” आ० श्रौ० ६, ५, ५ । ५ समीप-
स्थिते त्रि० ।

उपस्थपत्र पु० उपस्थं स्त्रीचिह्नमिव पत्रमस्य । अश्वत्थे वृक्षे

तत्पत्रस्य तदाकरत्वात्तथात्वम् अतएव नैष० दमयन्त्यास्त-
दङ्गवर्ण्णने । अश्वत्थस्य चलपत्र नामता कारणमुत्प्रेक्षितम् ।
“अङ्गेन केनापि विजेतुमस्यागवेष्यते किं? चलपत्र-
पत्रम् । नो चेद्विशेषादितरच्छदेभ्यस्तस्यास्तु कम्पस्तु कुतो-
भयेन” उपस्थदलादयोऽप्यत्र । उपयमशब्दे स्त्रीलक्षणे
च तदङ्गस्य अश्वत्थदलारतोक्ता ।

उपस्थातृ त्रि० उप + स्था--तृच् । १ उपासके, २ उपनते, च ३

यथोक्तकाले उपगते “अन्यवादी क्रियाद्वेषी नोपस्थाता
निरुत्तरः । आहूतप्रपलायो च हीनः पञ्चविधः स्मृतः”
मिता० स्मृतिः । ४ ऋत्विग्भेदे पु० ।

उपस्थान न० उप + स्था--ल्युट् । १ उपेत्य स्थितौ, २ अनुस-

न्धाने स्मरणे “तत्त्वस्मतेरुपस्थानात् मनोयोगात् परिक्ष-
यात् । कर्म्मणां सन्निकर्षाच्च सतां योगः प्रवर्त्तते” याज्ञ० ।
“कर्म्मासन्निहितं नैव बुद्धौ विपरिवर्त्तते । शब्दात्तु तदुप-
स्थानमुपादेये गुणो भवेत्” भट्टका० । ३ उपसेवने
उपासने “सूर्य्योपस्थाने विनियोगः” सन्ध्याप्रयोगः “तूष्णीं
वोपस्थानम्” कात्या० ४, १२, २०, ४ उपसर्पणे । “तस्योक्त-
मुपस्थानम्” आश्व० श्रौ० ५, १२, २, “उपस्थानं प्रसर्षणम्”
नारा० वृ० । ५ आनतीकरणायोपगतौ “सुरद्विषश्चैव जगच्च
सर्व्वमुपस्थाने सन्नमन्ति प्रभावात्” भा० आ० ७६ ।
६ समीपस्थाने “कुशान् यवांश्चासनोपस्थानेषु प्रोक्षेत्”
पार० सू० । उपस्थीयतेऽत्र आधारे ल्युट् । ७
उपासनाधारे गृहादौ । “पार्थिवैर्ब्बहुभिः कोर्ण्णमुपस्थानं
दिदृक्षुभिः” भा० स०४७ अ० “उपस्थानग्यहैर्भद्रैर्वल-
भीभिश्च शोभितम” भा० आ० १२८ अ० अनुसन्धानञ्च
स्मरणम् तस्य च चित्तेऽनुभवाहितसंस्कारेणोपस्थित-
त्वात् तथात्वम् ।

उपस्थानीय त्रि० उप + स्था--“भव्येत्यादि” पा० नि० कर्त्तरि

अनीयर् । १ उपासके । कर्मणि अनीयर् । २ उपास्ये त्रि०

उपस्थापक त्रि० उप + स्था--णिच्--ण्वुल् । १ स्मारके अनुभव

जन्यसंस्कारेण चित्तेऽनुसन्धानसम्पादके । उपस्थितौ
च समानविषयत्वं तन्त्रम् यद्विषयकोऽनुभवस्तद्विषयकः
संस्कारस्तद्विषयिकैव स्मृतिरिति कार्यकारणभावः स च
समवायेनैव, तेनान्यानुभवसंस्काराभ्यां नान्यस्य स्मरणम् ।
तत्र च सादृश्यादिज्ञानादि सहकारि कारणम् तत्सम-
वहितसंस्क्यरस्यैव स्मृतौ हेतुत्वात् । उपेक्षात्मकज्ञानेन च
संस्कारो न जन्यते । संस्कारश्च चरमफलनाश्यः तेन
स्मृ तधारायां न संस्कारान्तरकल्पनमिति वेदा० प० ।
क्वचिच्च दोर्घकालरोगादिना जन्मान्तरेण वा तन्नाशः ।
जन्मान्तरन्तु कर्मविशेषाभावसहकृतमेव तन्नाशकम् तेन
“जातिं स्मरति पौर्व्विकीम्” इत्यादिमन्वाद्युक्तकर्मविशेष-
सत्त्वे न तन्नाशः । उपस्थापकञ्च यथा पदज्ञानं पदार्थस्य
हस्तिज्ञानं हस्तिपकस्येत्यादि एकसंम्बन्धिज्ञानस्यापर-
सम्बन्धिस्मारकत्वनियमित् पदपदार्थयोश्च शक्तिसम्बन्धेन
सम्बन्धितेति तथात्वम् ।
भावे ल्युट् । उपस्थापन--उपस्थिति साधन व्यापारे उद्वो-
षकसमवधाने तत् सहकारे । उपस्थापनं प्रयोजनमस्य
प्रप्रवचना० छ । उपस्थापनीय उपस्थापनसाधने उद्बोधकादौ
त्रि० उप + स्थापि--कर्म्मणि अनीयर् । स्मार्य्ये त्रि० ।

उपस्थावरा स्त्री उप + स्था--बा० कर्मणि वरच् । उपसेवनीये

पुरुषमेधयज्ञाङ्गे देवताभेदे “सरोभ्योधैवरमुपस्थावराभ्यो-
दाशम्” यजु० ३०, १६,

उपस्थित त्रि० उप + स्था--क्त । १ समीपस्थिते, २ समीपागते

“तदनुपस्थितमग्निहोत्रं तस्यानुपस्थितिमन्वनुपस्थिता
इमाः प्रजाः प्रजायन्तेऽनुपास्थितो ह वै श्रिया
प्रजाया प्रजायते” शत० ब्रा० २, ३, १, १३, “उपस्थिते-
यं कल्याणो” रघुः । हैयङ्गवीनमादाय घोषवृद्धा-
नुपस्थितान्” भट्टिः । ३ पाप्ते, उपस्थितपरित्यागे
प्रमाणाभावात्” न्यायवाक्यम् “अनुपस्थितकल्पनाऽ
पृष्ठ १३४१
न्याय्या” इति मीमां० ४ वेदाप्रयुक्ते अनार्षे च ।
“अप्लुतवदुपस्थिते” पा० । “उपस्थितोऽनार्षः” सि० कौ०
“उद्बुद्धस स्कारेण चित्ते उपगते ५ स्मृते “तौ जौ गुरु-
णेयमुपस्थिता” वृ० र० उक्ते दशाक्षरपादके ६ छन्दोभेदे
स्त्री “उपस्थितमिदंज्सौत्सौ यदि गुरुः स्यात्” इति वृ०
र० उक्ते त्रयोदशाक्षरपादके ७ छन्दोभेदे न० । ८ सेविते
त्रि० । भावे क्त सेवने ९ उपस्थाने न० । तेन जीवति
वेतना० ठक् । औपस्थितिक सेवनोपजीविनि त्रि०

उपस्थिति स्त्री उप + स्था--क्तिन् । १ उपसेवने २ उपनतौ

३ स्मृतौ च “आसत्तिरव्यवधानेन पदजन्यपदार्थोपस्थितिः
सा० द० आसत्तिशब्दे उपसर्गशब्दे च उदा० ।

उपस्थूण अव्य० स्थूणायां तत्समीपं वा अव्ययी० । १ स्थूणा-

यामित्यर्थे २ तत्समीपे च तत्र भयः परिमुखा० ञ्य ।
औपस्थूण्य तद्भवे त्रि० । उपगता स्थूणाम् अत्या० स० । ३ गृहं-
स्तम्भोपगते त्रि० ततो भवार्थे अण्, न ञ्य इति भेदः

उपस्थेय त्रि० उप + स्था--सेवार्थत्वात् कर्मणि यत् । उपसेव्ये

“वात्सप्रं कृत्वोपस्थेयं चेत्” कात्या० १७, १, २, “यदीदृशै,
रहं विप्रैरुपस्थेयैरुपस्थितः” रामा० ।

उपस्नेह पु० उप + स्निह--घञ् । क्लिन्नस्य नैकट्यसम्बन्धेन

क्लेदे “मूत्रयुक्त उपस्नेहात् प्रविश्य कुरुतेऽश्मरीम्” ।
“सास्य मातुराहाररसवीर्यमभिवहन्ति तेनोपस्नेहेनास्या
भिवृद्धिर्भवति” । “सर्वशरीरावयवानुसारिणीनां
रसवहानां तिर्यग्गतानां धमनीनामुपस्नेहो जीवयति” सुश्रु० ।

उपस्पर्श पु० उप + स्प श--घञ् । १ स्पर्शे, २ स्नाने च । उपस्पृ-

श्यन्ते इन्द्रियाण्यत्र आधारे घञ् । विधिना जलपान-
पूर्वके मुखादिस्पर्शयुक्ते ३ वैधाचमने तत्र हि “त्रिःप्राश्या-
पोद्विरुन्मृज्य मुस्वमेतानुपस्पृशेत् । आस्यनासाक्षि कर्णांश्च
नाभिवक्षःशिरोऽंसकान्” छन्दो० आस्यनासिकादिस्पर्शो
विहित इति तस्य तथात्वम् । “तथेत्युपस्पृश्य पयः
पवित्रम्” रघौ आचमनार्थे उपात्स्पृशतेः प्रयोगात् । भावे
ल्युट् । उपस्पर्शनम् तत्रार्थे न० “अथात उपस्पर्श-
नम्” कात्या० ५, १०, २०

उपस्रवण न० उप + स्रु--भावे ल्युट् । सम्यक्क्षरणे उपरतं

स्रवणम् प्रा० स० । १ विरतस्रवणे क्षरणनिवृत्तौ “पत्न्युद-
क्या दीक्षारूपाणि निधाय सिकतास्वासीतोपस्रवणात्”
का० २५, ११, १३, “ज्योतिष्टोमादौ दीक्षितस्य पत्नी
रजखला दीक्षारूपाणि शङ्क्वादीनि निधाय सिकतासु
आसीत आ रक्तस्रावविरमणात्” कर्कः ।

उपस्वत्व न० उपगतमुत्पत्तिक लेएव प्राप्तं स्वत्वं यत्र । स्वत्वा-

स्पदीभूतभूम्यादिभ्य उतपन्नशस्यादिद्रव्ये । लोकव्यवहारः ।
अन्यस्य द्रव्यस्य प्रतिग्रहार्जनाधीनं स्वत्वं न तु उत्पत्ति-
लालात्, अस्य तु तत्काले एव स्वत्ववत्त्वेब तथात्वम् ।

उपस्वावत् पु० सत्राजितो नृपस्य पुत्रभेदे । “सत्राजितो-

दश त्वासन् भार्यास्तासां शतं सुताः । ख्यातिमन्त-
स्त्रयस्तेषां भञ्कारश्च पूर्वजः । वीरोवातपतिश्चैव
उपस्वावांस्तथैव च” हरिवं० ३९ अ०

उपस्वेद पु० उप + स्विद--करणे घञ् । १ वह्न्यादिसमीपस्था-

नात् जाते ऊष्मणि “तयोरण्डानि निदधुः प्रहृष्टाः
परिचारिकाः । सोपस्वेदेषु भाण्डेषु पञ्च वर्ष शतानि च” भा०
आ०१६ अ० “सोपस्वेदेषु ऊष्मवत्सु तत्र ह्यण्डान्तर्जलमू-
ष्मणा शाघ्रं घनीभवतीति” नी० क० “अलाबुमध्यान्निष्कृत्य
वीजं यत्नेन गोप्यताम् । सोपस्वेदेषु पात्रेषु घृतपूर्णेषु
भागशः” भा० व० १०६ अ० । भावे घञ् । २ उपतापे

उपहत त्रि० उप + हन--क्त । १ तिरस्कृते “करोत्यवज्ञोपहतं

पृथग्जनम्” किरा० । “उपहतं तिरस्कृतम्” मल्लि० । २
दूषिते “किमेभिराशोपहतात्मवृत्तिभिः” कुमा० “आशया
उपहता दूषिवा” मल्लि० । ३ विनाशिते ४ उत्पातग्रस्ते
अशुद्धद्रव्यसंयोगेन ५ अशुद्धे च “शारीरैर्मलैः सुरामिर्म-
द्यैर्वा यदुपहतं तदत्यन्तोपहतम्” विष्णुः । ६ अभिसूते
“शम्भुमुपहदृशः सहसा” किरा० ।

उपहति स्त्री उप + हन--क्तिन् । १ उपघाते । २ कार्यासामार्थ्य

प्रयोजकापाटवे ३ प्रतिहनने च ।

उपहत्नु त्रि० उप + हन--क्त्नु । उपहन्तरि “मृगं न भीममु-

पहत्नुमुग्रम्” ऋ० २, ३३, ११,

उपहन्तृ त्रि० उप + हन--तृच् स्त्रियां ङीप् । उपघातके

(कटुकः) “स्तन्यशुक्रमेदसामुपहन्ता चेति” सुश्रु० ।

उपहरण न० उप + हृ--ल्युट् । १ परिवेषणे २ उपायनदाने च

उपहर्त्तृ त्रि० उप + हृ--तृच् स्त्रियां ङीप । प रवेषण-

कर्त्तरि “अनुमन्ता विशसिता नियन्ता क्रयविक्रयी ।
संस्कर्त्ता चोपहर्त्ता च खादकश्चेति घातकाः” मनुः ।
२ उपायनदातरि च ।

उपहव पु० उप + ह्वे--अप् संप्र० गुणः । आह्वाने, “वीना-

मुपसरं दृष्ट्वा तेऽन्योन्योपहवाः गुहाम्” भट्टिः ।
“अध्वर्युर्होतर्युपहवं काङ्क्षते” आ० श्रौ० ५, ७, ४, “प्रति-
गृह्योपहवमिष्ट्वाऽवेक्षेत” ६, १२, १,
पृष्ठ १३४२

उपहव्य पु० उपहूयतेऽत्र उप + हु--बा० आधारे यत् । सप्त-

दशस्तोमकेषु पञ्चसु क्रतुषु मध्ये क्रतुभेदे । ते च क्रतवः
कात्या० २२, दर्शिताः यथा । “सप्तदशाः पञ्च” ६,
“वक्ष्यमाणाः पञ्च क्रतवः सप्तदगस्तोमका भवन्तीत्यर्थः”
कर्कः । “उपहव्योऽनिरुक्तो ग्रामकामस्य” ७ “उपहव्य
इति विशेषसंज्ञा स ग्रामकामस्य भवति अनिरुक्तश्च”
कर्कः । “अनृतेनाभिशस्यमानस्य” ८ “अलीकेनाभिशस्य
मानस्याप्युपहव्यो भवति” कर्कः “श्यावोऽश्वो दक्षिणा तं
ब्रह्मणे ददाति” ९, इत्युपक्रम्याग्रे चत्वारस्तत्र दर्शिताः ।

उपहसित न० उप + हस--भावे क्त । उपहासे (ठाट्टाकरा)

निन्दासूचके हासभेदे । कर्मणि क्त । २ हास्येन सूचित-
निन्दे त्रि० ।

उपहस्त पु० उपहस्ति--भावे अच् । हस्तेन ग्रहणे प्रतिग्रहे

तेन जीवति वेतना० ठञ् । औपहस्तिक तदुपजोविनि त्रि० ।

उपहस्ति हस्तेन उपगृह्णाति उप + हस्त--णिच् नामधातुः

उभ० सक० सेट् । उपहस्तयति ते उपा(ज)जीहस्तत् त ।

उपहस्तिका स्त्री उपगता हस्तम् अत्या० स० संज्ञायां कन्

अत इत्त्वम् । (वेटुया) वस्त्रादिनिर्म्मिते ताम्बूलाद्याधार
पात्रभेदे । “उपहस्तिकायास्ताम्बूलं कर्पूरसहितमुद्धृत्य
मह्यं दत्त्वा” दशकु० ।

उपहार पु० उप + हृ--घञ् । (भेट) १ उपढौकने उपायने

“ततः सपर्य्यां सपशूपहाराम्” “रत्नपुष्पोहारेण छायामा-
नर्च्च पादयोः” रघुः कर्मणि धञ् । २ उपढौकनीये
उपायनद्रव्ये “बन्धुप्रीत्या भवनशिखिभिर्दत्तनृत्योपहारः”
मेघ० उपगतः हारम् अत्या० स० । ३ हारसमीपस्थे
तदुपशोभके द्रव्ये । अव्ययी० । ४ हारसमीपे अव्य० । उभयत्र
“उरोभुवा कुम्भयुगेन जृम्भितं नवोपहारेण वयस्कृतेन
किम्” नै० । “ज्योतिषां प्रतिविम्बानि प्राप्लुवन्त्युप-
हारताम्” कुमा० ।

उपहालक पु० हले प्रसृतः बा० वुण् उपगतोहालको हलप्रसक्तोयत्र । कुन्तलदेशे हेम० ।

उपहास पु० उप + हस--भावे घञ् । निन्दासूचके हास्ये

(ठाट्टा) “फलमस्योपहासस्य सद्यःप्राप्स्यसि पश्य माम्” रघुः

उपहास्य त्रि० उप + हस--कर्म्मणि ण्यत् । उपहासेन

निन्दनीये “गमिष्यास्युपाहास्यताम्” रघुः ।

उपहित त्रि० उप + धा--क्त । १ निहिते २ अर्पिते ३ समीप-

स्थापिते ४ आरोपिते च । “बलमुपहितशोभां तूर्णमायाद-
योध्याम्” भट्टिः । “पुष्पं प्रबालोपहितं यदि स्यात्”
कुमा० । ५ उपाधिसङ्गते उपलक्षिते “अन्तःकरणो-
पहितं चैतत्यं जीवः अज्ञानोपचैतन्यमीश्वरः” वेदान्तप० ।

उपहूत त्रि० उप + ह्वे--क्त संप्रसारणे दीर्घः । समाहूते

आचितादित्वाद्गतिपूर्ब्बकत्वेऽपि नान्तोदात्तता ।

उपहूति स्त्री उप + ह्वे--क्तिन् संप्रसारणे दीर्घः । आह्वाने

“पटहप्रणादविहितोपहूतयः” माघः ।

उपहृत त्रि० उप + हृ--क्त । १ उपढौकिते उपहाररूपेण दत्ते

“उपहृतपशूरुद्रः” सि० कौ० ।

उपहोम पु० उपगतः होमं प्रधानहोमम् अत्या० स० ।

प्रधानयागसमीपे स्विष्टिकृतः पूर्व्वं होतव्ये अग्निसोमादि-
दशदेवताके प्रत्येकं दशाहुतिके दशदक्षिणाके होमभेदे । स
च शत० ब्रा० ११, ४, ३, ८, अवधि १७, पर्य्यन्तेषु दर्शितः ।
“सैतानुपहोमानपश्यत्” इत्युपक्रम्य “अग्निरन्नाद इत्या-
दि १” “सोमोराजेत्यादि २” “वरुणः सम्राड़िति ३ “मित्रः
क्षत्रमिति ४ “इन्द्रोबलमिति ५” वृहस्पतिर्व्रह्मेति ६
“सविता राष्ट्रमिति ७ “पूषा भगमिति ८” “सरस्वती पुष्टि-
मिति ९” “त्वष्टा रूपाणामिति १०” इत्येतैर्दश देवता
उक्त्वा “तावाएता दश देवता, हवींषि दशाहुतयोदश, दश
दक्षिणाः” इति यथोक्तविशेषणतया दर्शितः ।

उपह्वर उप + ह्वृ--आधारेघ । निर्जने रहस्योपगमाधारे

“उपह्वरे पुनरित्यशिक्षयं धनमित्रम्” दशकु० । “यत्सीमुपह्वरे
विदत्” ऋ० ८, ६९, ६, “चरन्तमुपह्वरे नद्यः”
ऋ० ८, ९६१४, “उपह्वरे अत्यन्तगुह्यस्थाने” भा० ।
२ अन्तिकस्थाने “ऊर्म्मीतरङ्गैर्जाह्नव्याः समानीतामुपह्वरम्”
भा० व० ३०८ अ० ३ भूप्रदेशमात्रे च “उपह्वरे यदुपरा
अपिन्वन्” ऋ०१, ६२, ६, “कौटिल्यलक्षणगतिवाचिनात्र
गतिमात्रं लक्ष्यते उपह्वरन्ति गच्छन्त्यस्मिन् घः इत्युप-
ह्वरोमूप्रदेशः” भा० । कर्म्मणि घ । ४ गन्तव्ये “उपह्वरेषु
यदचिध्वम् १, ८७, २ । “उपह्वरेषु गन्तव्येषु” भा०
५ प्रान्तभागे । उपह्वरे गिरीणां संगथे च” ऋ० ८, ६, २८
“उपह्वरे प्रान्तभागे” भा० ।

उपह्वान न० उप + ह्वे--ल्युट् । १ आह्वाने २ मन्त्रोच्चारणे

नाह्वाने च “द्यावापृथिव्योरुपह्वाने षडवत्तम्” कात्या०
३, ४, १९, “आग्नीध्रे भक्षणं वषट्कारीपह्वानाभ्याम्”
१०, ६, २२,

उपांशु अव्य० उप + अन्श--उ । १ निर्जने “परिचेतुमुपांशु

धारणाम्” रघुः । “उपांशु विजने” मल्लि० । २ अप्रकाशे
च । “जिह्वोष्ठौ चालयेत् किञ्चित् देवतागतमानसः ।
निजश्रवणयोग्यः स्यादुपांशुः स जपः स्मृतः इत्युक्तलक्षणे
३ मन्त्रादेर्जपभेदे पु० । जपीहि त्रिविधः नरसिंह पु० उक्तः ।
पृष्ठ १३४३
“त्रिविघो जपयज्ञःस्यात् तस्य भेदान् निबोधत । वाचि-
कश्च उपांशुश्च मानसश्च त्रिधा मतः । त्रयाणां
जपयज्ञानां श्रेयान् स्यादुत्तरोत्तरः । यत्रोच्चनीचस्वरितैः
स्पष्टशब्दवदक्षरैः । मन्त्रमुच्चारयेद्व्यक्तं जपःप्रोक्तः स
वाचिकः । शनैरुच्चारयेन्मन्त्रमीषदोष्ठौ प्रचालयेत् ।
किञ्चिच्छब्दस्वरं विद्यादुपांशुः स जपःस्मृतः । धिया-
यदक्षरश्रेण्या वर्ण्णाद्वर्ण्णं पदात् पदम् । शब्दार्थमा-
नसाभ्यासः स उक्तोमानसोजपः” । तेन स्वरादिसुव्यक्त-
वर्ण्णोच्चारणवान् वाचिकः स्वयंग्रहणयोग्यः किञ्चिच्छब्द-
वान् उपांशुः । जिह्वोष्ठचालनमन्तरेण वर्ण्णार्थानुसन्धा-
नवान् मानसः” आ० त० । हारीतः “यदुच्चनीचस्वरितैः
शब्दैःस्पष्टं पदाक्षरैः । मन्त्रमुच्चारयेत् वाचा जपयज्ञस्तु
वाचिकः । शनैरुच्चारयेन्मन्त्रं किञ्चिदौष्ठौ प्रचालयेत् ।
किञ्चिच्छ्रवणयोग्य स्यात् सौपांशुर्जपः स्मृतः । धिया
पदाक्षरश्रेण्या अवर्ण्णमपदाक्षरम् । शब्दार्थचिन्तनाभ्यस्तं
तदुक्तं मानसंस्मृतम्” “तेषामुत्तरोत्तरफलतारतम्य-
माह” मनुः “विधियज्ञाजज्पयज्ञोविशिष्टोदशभिर्गुणैः ।
उपांशुःस्याच्छतगुणः साहस्रोमानसः स्मृतः” “उपांशु-
देवतां यजत्यनिरुक्तं वा उपांशु इति शत० व्रा० ३, ३,
५, २, उक्ते ४ अनिरुक्तमात्रे ५ मौने । “उपांशु वै रेतः
सिच्यते” शत० ६, २, २, २, मैथुनकाले मौनविधानात् तस्यो-
पांशुत्वम् । ६ निगूढ़े च “अस्य त्वेकमुपांशु ब्रतम्” भा०
आ० ३ अ० । परग्रहणायोग्यतया निगूढमित्यर्थः नील० क०

उपांशुयाज पु० यज--घञ् यज्ञाङ्गत्वात् प्रयाजादिवत् न

कुत्वम् । उपांशु अनुष्ठेयोयाजः । यज्ञभेदे तञ्च शत०
ब्रा० १, ६, ३, वृ ३ दर्शयित्वा “एतेन वै देवाः उपांशुयाजेन
यं यमसुराणामकामयन्त तमुपत्सर्य्य वज्रेण वषट्का-
रेणाघ्नंस्तत एवैष एतेनोपांशुयाजेन पाप्मानं द्विषन्तं
भ्रातृव्यमुपतसय्य वज्रेण वषट्कारेण हन्ति तस्मादुपांशु-
याजं यजते” तत्फलमुक्तम् । “उपांशुयाजमन्तरा यजति”
प्रयाजादियागेतिकर्त्तव्यतायां श्रुतिः ।

उपाक पु० उप + अक--अच् । १ परस्परं समीपगते सन्निहिते

“आसुव्वयन्ती यजते उपाके” यजु० २९, ३१, उपाके
परस्परसमीपगते” वेददी० । “आ भन्दमाने उषसा
उपाके” ऋ० ३, ४, ६, “आभन्दमाने उपाके” १, १४२, ७,
२ अन्तिके च । “सूर उपाकचक्षसम्” ऋ० ८, ६, २५,
“उपाक इत्यन्तिकनाम” भा० ।

उपाकरण न० उप + आ + कृ--ल्युट् । १ उपावर्त्तव्यमेत्येवं स्तोत्र

प्रैषे “नापव्याहरेदोपाकरणादुपावर्तध्वमित्येवाध्वर्य्यु-
रुद्गातृभ्यः” शत० ब्रा० १, ५, २, १२, “यदा उद्गातारः स्तोत्रं
प्रारभेरन् तावदध्वर्युग्रहणादनन्तरं नापव्याहरेत्” भा०
“प्राग्वा च प्रवदितोः प्रातरनुवाकोपाकरणम्” कात्या०
९, १, १०, । “सोमे च ग्रहं ग्रहोत्वोपकरणात्” ३, ३,
१७, उपावर्त्तध्वमित्ययंस्तोत्रप्रैषः उपाकरणशब्दे
नौच्यते” कर्कः । तथा प्रेषणे हि स्तोत्रस्यारम्भणात्तस्य
तथात्वम् । २ यज्ञियपशुसंस्कारविशेषे च “गोतमस्तोमः प्रथमं
द्वितीयस्याह्न पशोरुपाकरणकालेऽश्वमानीय बहिर्वेद्या-
स्तावेवास्थापयेयुः” आश्व० श्रौ० १०, ८, २ । “तमवस्थित-
मुपाकरणाय यदक्रन्दैत्येकादशभिः स्तौत्य प्रणुवन्” ५
“पशुकल्पेन पशुं संज्ञप्य प्रोक्षणोपाकरणवर्ज्जं वपामुत्-
खिद्य जुहुयात्” आश्व० गृ० २, ४, १५, १ आरम्भे च ।
“अथातोऽध्यायोपाकरणम्” आश्व० गृ० ३, ३, २, “उपा-
करणमारम्भः” ना० वृ० । उपाकर्म्मशब्दार्थे च तत्प्रकार-
कालादिकं वक्ष्यते

उपाकर्म्मन् न० उप + आ + कृ--करणे मनिन् । येन कर्मविशे-

षेण वर्षान्ते पुनर्वेदः पठितुमारभ्यते तादृशे, कर्मभेदे तच्च
“अथातोऽध्यायोपाकरणम्” इत्युपक्रम्य आश्व० सू० दर्शितम्
तत्कालकर्त्तव्यतादि च तत्रैवोक्तः विशेषस्तु नि० सि० उक्तो
यथा “तत्र बह्वृचानां प्रयोगपारिजाते शौनकः । “अथातः
श्रावणे मासे श्रवणर्क्षयुते दिने । श्रावण्यां श्रावण मासि
पञ्चम्यां हस्तसंयुते । दिवसे विदधीतैतदुपाकर्म
यथोदितम् । स्वध्यायोपाकृतिं कुर्य्यात्तत्रोपासनवह्निना”
अत्र पौर्णमासी उपसंहारन्यायेन यजुर्वेदपरेति हेमाद्रिः ।
अत्र हस्तयुक्ता पञ्चम्युक्ता कारिकयाऽपि “तन्मासे हस्त-
युक्तायां पञ्चम्यां वा तदिष्यते” इति । केवलपञ्चम्यां
हस्तयुतेऽन्यस्मिन् वा दिन इति तु हेमाद्रिः । उपासन-
वह्निनेति तु “कर्मद्वयमिदं केचिल्लौकिकाग्नौ प्रकुर्वते”
इति कारिकोक्तलौकिकाग्निना विकल्प्यते । तत्र “अध्याप्यै
रन्वारब्धः” इति सूत्रात् सशिष्यत्वेन तदधिकारित्वात्
नाचार्य्याग्नौ “नान्यस्याग्नावन्योजुयादिति” निषेधाल्लौकिक
एव । तदभावे स्मार्त्त इति निगर्वः । यद्यपि दीपिकायाम् ।
“वेदोपाकृतिरोषधिप्रजनने पक्षे सिते श्रावणे” इति शुक्ल-
पक्षोऽपि सर्वेषां मुख्यकालत्वेनोक्तः । वक्ष्यमाणगार्ग्य-
वचनेन छन्दोगान् प्रति विहितस्य तस्याविसोधिता
सर्वान् प्रति निवृत्तिश्च । तथापि श्रावणमाससंबन्धस्य सत्रो-
क्तत्वात कृष्णपक्षेऽपि कार्य्यमिति वृद्धाः । तथा च आश्व०
पृष्ठ १३४४
सूत्राणि “अथातोऽध्यायोपाकरणम्” “ओषधीनां प्रादु-
र्भावे” “श्रवणेन श्रावणस्य पञ्चम्यां हस्तेन वा” ।
अत्र श्रवणोमुख्योऽन्यो गौणः । तस्याहर्द्वययोगे
हेमाद्रौ व्यासः । “धनिष्ठासंयुतं कर्य्याच्छ्रावणं कर्म यद्भ-
येत् । तत्कर्भ सकलं ज्ञेयमुपाकरणसंज्ञितम् । श्रवणेन
तु यत् कर्म्म ह्युत्तराषाढसंयुतम् । संवत्सरकृतोध्याय-
स्तत्क्षणादेव नश्यतीति” । प्रयोगपारिजाते गार्ग्योऽपि ।
“उदयव्यापिनी त्वेव विष्ण्वर्क्षे घटिकाद्वयम् । तत्कर्म
सकलं ज्ञेयं तस्य पुण्यमनन्तकमिति” पूर्वेद्युरुत्तारा-
षाढायोगे, परेद्युः श्रवणाभावे घटिकाद्वयन्यूने वा
पञ्चम्यादौ कार्यम् । न तु पूर्वविद्धायां सङ्गवेऽपि,
अपवादाभावात् । किञ्च परेद्युः सङ्गवास्पर्शे निषिद्ध
पूर्वग्रहणे किं मानम् । सङ्गववाक्यं श्रवणवाक्यं वेति
चेत् तर्हि व्रीहिवाक्यादश्वशफवाक्याच्च माषमिश्राणाम-
प्युपादानं स्यादिति महत्पाण्डत्यम् । एतेन पर्वाप्यौ
दयिकं व्याख्यातम् निषेधप्रवेशस्योभयत्र साम्यात् ।
श्रवणयुतदिने संक्रान्त्यादौ तु “उपाकर्म न कुर्वन्ति
क्रमात्सामर्ग्यजुर्बिदः । ग्रहसंक्रान्तियुक्तेषु हस्तश्रवण-
पर्वसु” इति हेमाद्रौ निषेधात् पञ्चम्यादयो ग्राह्याः ।
अत्र ग्रहसंक्रान्तिदिने येषां प्राप्तन्तैः सर्वैरुपाकर्म न कार्यम्
इत्येको वाक्यार्थः । तेनाथर्वषेदिनामपि निषेधः ।
अन्यथा हस्तादित्रये प्रत्येकं ग्रहसंक्रान्त्योः षड्वाक्यक-
ल्पनापत्तेः । मदनरत्नेऽपि “यदि स्यात् श्रावणं पर्व
ग्रहसंक्रान्तिदूषितम् । स्यादुपाकरणं शुक्लपञ्चम्यां श्रा-
बणस्य तु” स्मृतिः, स्मृतिमहार्णवे “संक्रातिर्ग्रहणं वापि
यदि पर्वणि जायते । तन्मासे हस्तयुक्तायां पञ्चम्यां वा
तदिष्यते” । तत्रापि प्रयोगपारिजाते वृद्धमनुकात्या-
यनौ । “अर्द्धरात्रादधस्ताच्चेत् संक्रान्तिर्ग्रहणं यदा ।
उपाकर्म न कुर्वीत परतश्चेन्न दोषकृदिति” । मदनरत्ने
गार्ग्योऽपि । “यद्यर्द्धरात्रादर्वाक् तु ग्रहः संक्रमएव वा ।
नोपाकर्म तदा कुर्य्याच्छ्रावण्यां श्रवणेऽपि वा” । एतेन
ग्रहणकाले श्रवणसत्त्वे एव निषेधोनार्वागिति मूर्खशङ्का-
परास्ता, ग्रहविशिष्टानां हस्तश्रवणपर्वणां प्रत्येकं
निषेधे तद्युक्तोपाकर्मनिषेधे च विशिष्टोद्देशे वाक्यभेदात्
पञ्चम्यां संक्रान्तौ निधाभावापत्तेश्च । तेनार्द्धरात्रात्
पूर्वं ग्रहसत्त्वमात्रे उपाकर्मनिषेधो न तद्योगे । यत्तु
“प्रतिपन्मिश्रिते नैव नोत्तराषाढसंयुते । श्रवणे श्रावणं
कुर्युर्ग्रहसंक्रान्तिवर्जिते” इति प्रतिपन्मिश्रितनिषेधकं
वचनं तन्निर्सूलम् । हेमाद्रौ निगमः । “ग्रहयोगो
गुरुं हन्ति संक्रान्तिः शिष्यघातिनी । तपोहन्त्युत्तराषाढ़ा
उपाकर्मणि वैष्णवे” अत्र च “वेदोपाकरणे प्राप्ते कुलीरे
संस्थिते रवौ । उपाकर्म न कर्त्तव्यं कर्त्तव्यं सिंहयुक्तके”
इति वचनं देशान्तरविषयम् । “नर्मदोत्तरभागे तु कर्त्तव्यं
सिंहयुक्तके । कर्कटे सस्थिते भानावुपाकुर्य्यात्तु दक्षिणा”
वृह० वचनात् इति प्रयो० पा० उक्तम् । पराशरमाध-
वीयेऽप्येवम् । सामगानां सिंहस्थरवावुक्तेस्तद्विषयमेवेदं,
पुरोडाशचतुर्द्धाकरणवदुपसंह्रियत इति । न तु वह्वृ-
चादिपरम् । तेषां सूत्रे चान्द्रश्रावणोक्तेः सौरे
पञ्चम्ययोगात् सामान्येन सौत्रविशेषस्य बाधायोगादिति
तु वयं पश्यामः । यत्तु कालादर्शे “अध्यायानामुपा-
कर्म श्रावण्यान्तैत्तिरीयकाः । बह्वृचाः श्रवणे कुर्युः
सिंहस्थोऽर्कोभवेद्यदि । सहस्तशुक्लपञ्चम्यां तद्वद्ग्रहण-
संक्रमे । असिंहार्कपौष्ठपद्यां श्रवणेन व्यवस्थयेति” तन्मूला-
लिखनात् सूत्रविरोघाच्च चिन्त्यम् । सूत्रे हि श्रव-
णेन श्रावणस्येति चान्द्रमास एवोक्तो न सौरः तस्य
पञ्चम्यभावात् श्रुतिलक्षणाभ्यामुभयपरत्वे वृत्तिद्वय-
विरोधाच्च । तेन सिंहस्थोऽर्कोभवेद्यदि तदा कर्केऽपि
ग्रहणसंक्रमे सति असिंहार्के शुक्लपञ्चम्यां श्रवणे वा
बह्वृचाः, प्रौष्ठपद्यान्तैत्तिरीया इति व्याख्येयम् तेषां
सौरमासाभावात् । श्रावणे शस्यानुद्गमादौ बह्वृचपरि-
शिष्टे “अवृष्ट्योषधयस्तस्मिन् मासे तु न भवन्ति चेत् ।
तदा भाद्रपदे मासि श्रवणेन तदिष्यत इति” । “तत्रा-
प्यनुद्गमे तु “कुर्यादेव तद्वार्षिकमित्याचक्षते” इति सूत्रात् ।
वर्षत्तौ भवं वार्षिकम् । एतच्च शुक्रास्तादाचपि कार्यम् ।
“उपाकर्मोत्सर्जनं च पवित्रदमनार्पणमिति” दमनारोपणे
लिखितवचनात् “नित्ये नैमित्तिके जप्ये होमयज्ञ-
क्रियासु च । उपाकर्मणि चोत्सर्गे ग्रहबेधो न
विद्यते” इति प्रयोगपारिजाते हेमाद्रौ च संग्रहोक्तेः ।
पर्वणि ग्रहणे सति पूर्वं त्रिरात्रादिवेधाभावं वक्तुमि-
दम् । तेन पर्वणि ग्रहणेऽपि चतुर्द्दश्यां श्रवणे कार्य-
मिति हेमाद्रिः । प्रथमारम्भस्तु न भवति “गुरुभार्ग-
वयोर्मौढ्ये बाल्ये वा वार्द्धकेऽपि वा । तथाधिमाससंसर्गे
मलमासादिषु द्विज! प्रथमोपाकृतिर्न स्यात्कृता कर्म-
विनाशकृदिति” तत्रैव कश्योपोक्तेः । अत्र प्रथमारम्भे
वृद्धिश्राद्धं कुर्यादिति । नारायणवृत्तौ एतच्चाधिमासे न
कार्यम् “उपाकर्म्म तथोत्सर्गः प्रसवाहोत्सवाष्टकाः । मास-
पृष्ठ १३४५
वृद्धौ पराःकार्य्या वर्जयित्वा तु पैतृकमिति” ज्योतिःपरा-
शरेक्तेः “उत्कर्षः कालवृद्धौ स्यादुपाकर्म्मादिकर्म्मणि ।
अभिषेकादिवृद्धीनां न तूत्कर्षो युगादिष्विति” कात्यायनो
क्लेश्च । यत्तु “उपाकर्म्मणि चोत्सर्गे ह्येतदिष्टं वृषादित”
इति ऋष्यशृङ्गवचस्तत्सामगविषयम् तेषां सिंहार्के
एवोक्तेः । एतच्चापराह्णे कार्य्यम् । “उपाकर्मापराह्णेस्यादुत्सर्गः
प्रातरेव त्विति” “अध्यायानामुपाकर्म्मकूर्य्यात्क लेऽपरीह्ण-
के । पूर्ब्बाह्णे तु विसर्गः स्यादिति वेदविदो विदुरिति”
हेमाद्रौ गोभिलोक्तेः । वस्तुतस्तु “भवेदुपाकृतिः पौर्णमा-
स्यां पूर्व्वाह्ण एव त्विति” प्रचेतोवचनात् पूर्ब्बवाक्यं सामग
विषयम् । तेषामपराह्ले एवोक्तेरित्यनुपदं वक्ष्यते ।
दोपिकापि । “अस्य तु विधिः पूर्ब्बाह्णकालः स्मृत” इति ।
याजुषास्तु पर्वणि कुर्युः । तच्चापस्तम्बैरौदयिकं ग्रा-
ह्यम् । अन्यैस्तु पूर्वम् । “पर्वण्यौदयिके कर्यु श्रावणन्तै-
त्तिरीयकाः । बह्वृचाः श्रवणे कर्युर्ग्रहसंक्रान्तिवर्जिते”
इति गर्गोक्तेः “संप्राप्तवान् स्तुतीर्ब्रह्मा पर्वण्यौदयिके
पुनः । अतो भूतदिने तस्मिन्नोपाकरणमिष्यते” इति
कालिकापुराणात् । “अथ चेद्दोषसंयुक्ते पर्वणि स्यादु-
पाक्रिया । दुःखशोकामयग्रस्ताराष्ट्रे तस्मिन् द्विजातयः”
इति मदनरत्ने गर्गोक्तेः । अत्र सिङ्गाभट्टीये विशेषः ।
“श्रवणः श्रावणं पर्व सङ्गवस्पृग्यदा भवेत् । तदैवौदयिकं
कार्यं नान्यदौदयिकं भवेत्” । पराशरमाधवीयेऽपि गार्ग्यः
“श्रावणी पौर्णमासी तु सङ्गवात्परतो यदि । तदैवौदयि-
की ग्राह्या नान्यदौदयिकी भवेत्” । कर्मकालमाह काला-
दर्शे निगमः । “श्रावण्यां प्रौष्ठपद्यां वा प्रतिपत् षण्मु-
हूर्त्तकैः । विद्धा स्याच्छन्दसां तत्रोपाकर्मोत्सर्जनं भवेत्” ।
अत्र पौर्णमासी श्रवणहस्तयोरुपलक्षणं तेन तावपि सङ्ग-
वस्पृशौ ग्राह्यौ । “उदये षड्घटीस्पर्शेश्रिते पर्वणि वार्कभे ।
कुर्युर्नभस्युपाकर्म ऋग्यजुःसामगाः क्रमात्” इति पृथ्वी-
चन्द्रः । “विष्ण्वृक्षे घटिकाद्वयमिति” पूर्वोक्तविरोधात्
सामान्यवाक्यादौदयिकी कर्म्मपर्याप्ता ग्राह्या न पूर्वा ।
सङ्गवानमित्तपूर्वविद्धापवादाभावात् भाद्रादौ कालान्तरे
वास्तु न तु निषिद्धम् । न हि व्रीह्यलाभे निषिद्धमा-
षग्रहणं युक्तम् । अतएव परेद्युः सङ्गवव्याप्तौ पूर्व-
निपेषः । तदभावे तु नेति मूर्खव्यवस्थाप्यपास्ता विधि-
वैषम्यात् माषनिषेधे तथापत्तेश्च । पूर्बविद्धावचन-
सत्त्वो हि सा युज्यते । एवं श्रवणेऽपि ज्ञेयम् । एतच्छु-
द्धाधिक्यपरं तेन यथाग्निहोत्रादौ सायं प्रातः काल-
याधे सामान्यस्य जीवनावच्छिन्नकाल रनुष्ठानगु ।
यथा व्रीह्यश्वशफाद्यभावे यागाक्षिप्तजंरषिद्धाकारदिव्येण
तथात्र सङ्गवाभावेऽनिषिद्धावर्ज्यकर्म्मपर्याप्तौदयिके का
लान्तरे वानुष्ठानं न तु कदापि निषिद्धे अपवादाभावे
उत्सर्गस्यैव प्राप्तेः । कात्यायनादीनान्तु दिनद्वये पूर्वाह्ण-
व्याप्तौ एकदेशस्पर्शे वा पूर्वैवेति हेमाद्रिः । घटिका-
द्वयमिति पूर्वोक्तविरोधात् तेन प्राशस्त्यमात्रपरमि-
दम् । यदपि “श्रावणी दौर्गनवमी दूर्वा चैव हुताशनी ।
पूर्वविद्धा प्रकर्त्तव्या शिवरात्रिर्बलेर्दिनमिति” ब्रह्मवैवर्त्तम्
तद्ब्रह्मपवित्रविषयमिति हेमाद्रिः । मदनपारिजाते-
ऽपि पूर्वविद्धायां श्रावण्यां वाजसनेयिनामुपाकर्मे-
त्युक्तमू मदनरत्नेऽपि “पर्वण्यौदयिके कुर्युः श्राव-
णन्तैत्तिरीयकाः” इति वह्वृचपरिशिष्टाद्बह्वृचान् प्रति
कर्म्मविधानार्थं प्रवृत्ते तत्र तैतिरीयककर्म्मविध्ययोगात्
पूर्वोक्तकालिकापुराणादौ सामान्यत औदयिकपर्वप्राप्ते-
स्तन्निषेधे न बह्वृचानां श्रवणविधानात्तैत्तिरीयकपदम्
अनुवादत्वात्तस्य च प्राप्त्यधीनत्वात् प्राप्तेश्च यजुर्वेदमा-
त्रपरत्वात् सर्वयजुर्वेद्युपलक्षणार्थम् । अवयुत्यनुवादो
वा । न तु विधायकम् । तेन विशेषविधिना उपसं-
हारः स्यात् । अनुवादत्वाल्लक्षणा न दोषः । अन्यथौ
दयिकपर्वविशिष्टोपाकर्मोद्देशेन कर्त्तृविधौ कर्तृविशिष्टे
वौदयिकपर्वविधौ वाक्यभेदापत्तेः । तस्मात्तेत्तिरीयक
पदाविवक्षया सर्वयजुर्वेदिनामौदयिकमेव पर्व्वेत्युक्तम् ।
तन्न न तावत्परिशिष्टे बह्वृचःन् प्रत्येव विधिः । धनिष्ठा
प्रतिपद्युक्तत्वात् “त्वाष्ट्रऋक्षसमन्वितमित्यादि तदुदाहृते
एव परिशिष्टे वेदान्तरधर्म्मविधीनां दर्शनात् । नाप्यनुवादोऽ
यम् कालिकापुराणाद्बह्वृचादीनामपि तदापत्तेः
कुर्युरित्यस्य विधित्वेन तस्यैवार्थवादत्वेनैतत्प्राप्तानुवादि-
त्वाच्च । न च तैत्तिरीयकाणां गृह्ये तद्विधिरस्ति येना-
नुवादः स्यात् । न च वाक्यभेदः । तैत्तिरीयकपद-
मात्रस्य कर्म्ममात्रस्य वा उद्देश्यत्वायोगेन हविरार्त्तिव-
दष्टवर्षं ब्राह्मणमुपनयीतेतिवच्चागत्या विशिष्टोद्देश्यत्वात् ।
अन्यथोत्तरार्द्धे बह्वृचपदस्याऽप्यविवक्षापत्त्या श्रावणस्य सर्व-
साघारण्यापत्तेः । तस्मात् हेमाद्रिमतमेव युक्तमिति दिक् ।
इदं च । शिष्यानध्यापथत आवसथ्येऽग्नौ अनध्यापयतो-
नाधिकार इति कर्कः । श्रावण्यामपि ग्रहणादिदुष्टायां
कातीयभिन्नैः प्रौष्ठपद्यां कार्यं तैस्तु श्रावणपञ्चम्याम् ।
“संक्रान्तिर्ग्रहणं वापि पौर्णमास्यां यदा भवेत् । उपा-
पृष्ठ १३४६
कृतिस्तु पञ्चम्यां कार्यावाजसनेयिभिरिति” स्मृतिमहार्णवे
वाजसनेयिग्रहणादिति हेमाद्रिः । इदं स्वसूत्रोक्त
कालपरत्वात् बह्वृचपरमपि । शाट्यायनैस्तु हस्ते का
र्यम् । आपस्तम्बैराथर्वणैश्च प्रौष्ठपद्याम् । यत्तु बौधा-
यनः “श्रावण्यां पौर्णमास्यामाषाढ्यां वोपाकृत्येत्यूचे ।
तत् प्रौष्ठपद्यामपि दोषे आषाढ्यां कार्यमित्ये वमर्थम् ।
तच्छाखीयविषयं वा । सामगास्तु श्रावणे हस्ते कर्युः ।
“वह्वृचाः श्रावणे चैव हस्तर्क्षे सामवेदिन” इति निर्णया-
मृते गोभिलोक्तेः । सोऽप्युत्तरः “धनिष्ठाप्रतिपद्युक्तं त्वा-
ष्ट्रऋक्षसमन्वितम् । श्रावणं कर्म्म कुर्वीरनृग्यजुःसाम-
पाठकाः” इति मदनरत्ने परिशिष्टोक्तेः । गर्गोऽपि
“सि हे रवौ तु पुष्यर्क्षे पूर्वाह्णेऽविवरे बहिः । छन्देगा-
मिलिताः कुर्युरुत्सर्गं स्वस्वच्छन्दसाम् । शुक्लपक्षे तु हस्ते-
न उपाकर्म्मापराह्णिकमिति” । पुष्यर्क्षेपूर्वाह्णे उत्सगः
आपराह्णिकमुपाकर्म्मत्यन्वयः । अविवरे ग्रहादिदोषर-
हिते । अन्योविशेषः पूर्ब्बमुक्तः । प्रयोगपारिजाते गोभिलः
“उपाकर्म्मोत्सर्जनं च वनस्थानामपीष्यते । धारणाध्ययनाङ्ग-
त्वाद्गृहिणां ब्रह्मचारिणाम् । उत्सर्जनं च वेदाना
मुपाकरणकर्म्म च । अकृत्वा वेदजप्येन फलं नाप्नोति
मानवः” । सर्वथा लोपे तु कृच्छ्र उपवासश्च “वेदोदितानां
नित्यानामिति” मनुनाऽभोजनोक्तेः । एवमुत्सर्गेऽपि ।
अथ प्रसङ्गादत्रैवीत्सर्ज्जनमुच्यते । तच्च पौषमासे
रोहिण्यां तत्कृष्णाष्टम्यां वा कार्य्यम् । “पौषमासस्य
रोहिण्यामष्टकायामथापि वा । जलान्ते छन्दसां कुर्यादुत्स-
र्गं विधिवद्बहिरिति” याज्ञ० उक्तेः । श्रावाण्यां प्रौष्ठ-
पद्यां चोपाकृतौ क्रमेण पौषशुक्लप्रतिपदि, माघशुक्लप्रति-
पदि च कार्य्यम् “अद्धपञ्चमासानधीयीतेति” तेनैवोक्तेः ।
यत्तु हारीतः “अर्धपञ्चमान्मासानधीत्योर्ध्वमुत्सृजेत्
पञ्चार्धषष्ठान्वेति” । तदाषाष्ट्युपाकर्म्मविषयम् । बौधाय
नास्तु पौष्यां माध्यां वा कुर्य्युः । “पौष्यां माघ्यां वोत्-
सृजेदिति” तत्सूत्रात् । तैत्तिरायैस्तु तैष्यां कार्य्यं “तैष्यां
पौर्णमास्यां रोहिण्यां वा विरमेदिति” तत्सूत्रात् ।
बह्वृचैस्तु माघ्यां कार्य्यम् “अध्यायोत्सर्ज्जनं माघ्यां
पौर्णमास्यां विधीयते” इति कारिकोक्तेः । कातीयास्तु
भ्राद्रपदे कुर्य्युः । “उत्सर्गश्चेत्तदा तिष्यतिथ्यां प्रौष्ठपदेऽपि-
वेति” कात्यायनोक्तेः । सामगास्तु सिंहार्के पुष्ये कुर्य्युः ।
तथा च सिंहे रवौ चेति गार्ग्यवचनं पूर्ब्बमुक्तम् ।
सर्वैरुपाकर्म्मदिने वा कार्य्यम । “पुष्ये तूत्सर्ज्जनं कुर्य्यादुपा
कर्मदिनेऽथवेति” हेमाद्रौ खादिर गृह्योक्तेः । यदा सिंह-
स्थे सूर्य्ये सति तन्मध्यस्थहस्तनक्षत्रात्प्राक् पुष्यः कर्कस्थो
भवति तदा तस्मिन् पुष्ये उत्सर्गं कृत्वा तदुत्तरहस्ते
उपाकर्भ सामगाः कुर्य्युः । “मासे प्रोष्ठपदे हस्तात्पुष्यः
पूर्वोभवेद्यदि । तदा तु श्रावणं कुर्य्यादुत्सर्गं छन्दसां
द्विजः” इति तत्रैव परिशिष्टोक्तेः । अत्र द्वावपि सौरौ-
मासौ ज्ञेयौ तेषां सौरस्यैवोक्तेः । अत्र विशेषमाह
कार्ष्णाजिनिः । “उपाकर्मणि चोत्सर्गे यथाकालं
समेत्य च । ऋषीन्दर्भमयान् कृत्वा पूजयेत्तर्पयेत्ततः ।
संप्राप्ते श्रावणस्यान्त पौर्ण्णमास्यां दिनोदवे । स्नानं
कुर्व्वीत मतिमान् श्रुतिस्मृतिविधानतः । उपाकर्म्मादिकं
प्रोक्तमृषीणाञ्चैव तर्पणम् । शूद्राणां मन्त्ररहितं स्नानं
दानं प्रशस्यते” । “उपाकर्म्मण्युत्सर्गे च त्रिरात्रं पक्षिणी-
महोनात्रं वानध्याय” इति मिताक्षरायामुक्तम् । अत्र
नदीनां रजोदोषोनास्ति । “उपाकर्म्मणि चोत्सर्गे रजो
दोषो न विद्यते इति” गर्गोक्तेः । “उपाकर्म्मणि चोत्सर्गे
प्रेतस्नाने तथैव च । चन्द्रसूर्य्यग्रहे चैव रजोदोषो न
विद्यते” छन्दो० उक्तेश्च उपाकर्म्मणि चोत्सर्गे युगादौ
मृतवासरे । निषेद्धेऽपि दिने कुर्य्यात्तर्पणं तिलमिश्रितम्” स्मृतिः ।
“त्रयोदश्यादितो वर्ज्यं दिनानां नवकं ध्रुवम् । मङ्गल्येष
समस्तेषु ग्रहणे चन्द्रसूर्य्ययोरिति” सामान्यतो ग्रहणे
दिननवकनिषेधस्तु अनियतकालीनकर्म्मपरः न तु नियत-
कालीनकर्म्मपरः । “नित्ये नैमित्तिके जप्ये होमे यज्ञ-
क्रियासु च । उपाकर्म्मणि चोत्सर्गे ग्रहदीषो न विद्यते
इति नि० सि० स्मृत्युक्तेर्नोपाकर्म्मणि ग्रहणवेधदोषः ।
आषाढ्यामपि उपाकर्म्मविधानात् आषाढीप्रयोजनकत्वात्
दण्डस्याषाढनामता वेदग्रहणस्य दण्डपूर्ब्बकत्वात्
तथात्वमिति बोध्यम् । करणे क्तिन् उपाकृतिरप्यत्र
स्त्री कर्म्मकरणयोरभेदोपचारात् उपाक्रियाप्यत्र स्त्री ।

उपाकृत त्रि० उप + आ + कृ--क्त । यज्ञे हननार्थं १ कृतसंस्कारे

पशौ, “अनुपाकृतमांसानि देवान्नानि हवींषि च” अभक्ष्ये
मनुः । “पशुयागादौ मन्त्रबहुलेन पशो स्पर्शनमुपाकरणं
तद्रहितपशुरनुपाकृतः” कुल्लू० । “पशुश्चेदुपाकृतः
पलायेत वायवे तमनुद्दिश्य तद्वर्ण्णं तद्वयसमालभेत” कात्या०
२५, ९, १ ३ स्तोत्रप्रैषेण प्रेषिते च “उपाकृत उद्गातार
आहोतृप्रैषात्” कात्या० ३, ३, १८ । ४ आरब्धे च ।
भावे क्त । ५ उपाकरणे ६ यज्ञियपशुसंस्कारे ७ आरम्भे
च न० । ततः इष्टा० कर्त्तरि इनि । उपाकृतिन् उपा-
करणकर्त्तरि त्रि० स्त्रियां ङीप् उपाकृतिनी ।
पृष्ठ १३४७

उपाक्ष अव्य० अक्ष्णः समीपम् अव्ययी० नि० टच्समा० ।

नेत्रसमीपे “कूलतीरतूलशालाजसममव्ययीभावे” पा०
अन्तोदात्तता अत्रैव अक्षेतिनिर्द्देशात् नि० टच्समा०

उपाख्या स्त्री उप + आ + ख्या--भावे अ । १ प्रत्यक्षे “द्वितीयऽ-

चानुपाख्ये” पा० । उप ख्या प्रत्यक्षं तच्छून्येऽनुमान-
गम्ये इत्यर्थः । २ शब्दादिभिर्निर्वचने च । “ज्ञानविज्ञान-
युक्तानां निरुपाख्या निराञ्जना । कैवल्या या गतिर्देवः
परमो स गतिर्भवेत्” भा० अनु० २६ अ० । निरु-
पाख्योऽभावः । तस्य च भावभिन्नत्वादिना यथा निर्वक्तु
मशश्यत्वं तथाऽभावशब्दे उक्तम् “प्रतिसख्याऽपतिसंख्या-
निरोधावाकाशञ्चेति” शा० सू० भाष्ये “तदवस्तु अभाव-
मात्रं निरुपाख्यम्” “न हि भावानां निरन्वयो निरु-
पाख्योविनाशः सम्भवति” “निरोधद्वयमाकाशञ्चेति निरु-
पाख्यम्” । “तत्र निरुद्धद्वयस्य निरुपाख्यत्वम् पुरस्ता-
न्निराकृतमाकाशस्येदानीं निराक्रियते” “आकाशे च न
युक्तो निरुपाख्यत्वाभ्युपगमः” इत्येवम् सौगतमतनिरा-
करणे अभावपरतयाऽसकृदुक्तम् ।

उपाख्यान न० उप + आ + ख्या--ल्युट् । १ पूर्ब्बवृत्तकथने

“रामोपाख्यानमत्रैवेति” भा० आ० १ अ० । एवं नलोपा-
ख्यानाम्बोपाख्यानानि बहून्युपाख्यनानि तत्र सन्ति ।
“चतुर्विंशतिसाहस्रीं चक्रे भारतसंहिताम् । उपाख्यानै-
र्विना तावत् भारतं प्रोच्यते बधैः” भा० आ० १ अ० ।
२ विशेषकथने । “सर्व्वाख्यानं श्रुतं ब्रह्मन् अतीव परमा-
द्भुतम् । अधुना श्रोतुमिच्छामि दुर्गोपाख्यानमद्भ
तम्” “शृणु नारद वक्ष्यामि स्वधीपाख्यानमद्भुतम्”
इति च ब्रह्मवै० । तत्र साध कन् । उपाख्यानक तत्प्रति-
पादके ग्रन्थभेदे स्वार्थे कन् । कथनमात्रे च ।

उपागत त्रि० उप + आ + गम--क्त । १ स्वयमुपस्थिते २ अभ्युपगते च ।

उपागम पु० उप + आ + गम “ग्रहवृदृनिश्चिगमश्च” पा०

अप् । १ स्वीकारे २ समीपगमने च ।

उपाग्रहण न० उप + आ + ग्रह--ल्युट् । संस्कारपूर्व्वकवेद-

प्रारम्भे अमरटोकायां रायसु० ।

उपाग्रहायण(णि) अव्य० आग्रहायण्याः समीपं अव्ययी०

वा० टच्समा० । आग्रहायणीसमीपे

उपाङ्ग न० उपमितमङ्गेन अवा० स० । १ प्रधानस्याङ्गोपयोगिनि

“साङ्गापाङ्गैरिहोदितम् इत्यमरः २ वेदाङ्गसदृशे शास्त्रभेदे
उपङ्गानि शास्त्राणि च “पुर णन्यायमीमांसाघर्म्मशा-
स्त्राणि । चत्वार्युपङ्गानि” इत्यक्तानि तेषां अङ्गवत् वेदार्थस्य
बहुल करणादुपाङ्गत्वम् । “साङ्गोपाङ्गोपनिषदः” हरि०
२५ अ० “साङ्गोपाङ्गाश्चतुर्वेदाः सरहस्याः क्रमेण तु” विक्र-
मो० । “यद्वेदशास्त्रं तच्चापि कृत्स्नमस्मिन् प्रतिष्ठितम् ।
तव पुत्रे महावाहौ साङ्गोपाङ्गं महात्मनि” भा० अ० १००
अ० । अङ्गं देहस्तदुपयोगिनि ३ प्रत्यङ्गे प्रत्यङ्गानि च
अङ्गशब्दे ७२ पृ० दर्शितानि ४ तिलके पु० जटाधरः ।

उपाजिन त्रि० उपगतोऽजिनम् अत्या० स० । चर्मोपगते

उपात् अजिनान्ततत्पुरुषत्वात् अन्तोदात्तता । अजिनस्य
समीपम् अव्ययी० । २ चर्म्मसमीपे अव्य० । निरुदकादि-
त्वात् अन्तोदात्तता । उपगतमजिनं येन प्रा० ब० ।
३ उपगतचर्मके त्रि० अत्र प्रकृतिस्वरः इति भेदः

उपाजे अव्य० उप + अज--बा० के वीमावाभावः । दुर्बलस्य

बलाधाने, “उपाजे अन्वाजे” पा० कृञि परे तस्य गतित्वम् तेन
समासे उपाजेकृत्य असमासे तु उपाजे कृचेति दुर्बलस्य
बलमाधायेत्यर्थः” सि० कौ० । एतौ च विभक्तिप्रतिरूप-
काव्यये इत्यन्थे

उपाञ्जन न० उप + अन्ज--ल्युट् । १ लेपने “मर्ज्जनोपाञ्ज-

नैर्वेश्म पुन पाकेन मृण्मयम्” मनु २ गोमयादिनानु-
लेपने च “सम्मार्जनोपाञ्जनेन सेकेनोल्ले खनेन च । गवाञ्च
परिवासेन भूमिः शुध्यति पञ्चभि” “ज्ञानं तपोऽग्निरा-
हारो मृण्मनो वार्य्युपाञ्जनम् । वायुश्च कर्मकालौ च शुद्धेः
कर्त्तणि देहिनाम्” मनुः उपाञ्जनमनुलेपनम्” कुल्लू० ।
आधारे ल्युट् । ३ अञ्जनाधारे हस्तादौ च । “चतुर्द्धैक
आहवनीयस्योपयमनीष्वाग्नीध्रीयस्याक्षोपाञ्जने च”
कात्या० ८, ६, ३४, तृतीयं चतुर्भागमक्षोपाञ्जने अक्ष-
धुरावनक्तात्यञ्जनार्थाज्यशेषे पत्नीपाणावित्यर्थः” कर्कः ।
अक्षधुराञ्जनप्रकारस्तत्रैव “दक्षिणया द्वाराऽऽनीता पत्नी
पाणिभ्यां शेषं प्रतिगृह्याऽक्षधुरावनक्ति “पराग् देवश्रुति-
रिति” “प्रतिप्रस्थात्रा समानीता पत्नी होमशेषेणाज्ये-
नाक्षस्थाज्यस्रवभागावपमृज्यादिति सूत्रार्थः” वेददी० ।

उपात्त त्रि० उप + आ--दा--क्त । १ गृहीते, २ प्राप्ते च “क्षयं

केचिदुपात्तस्य दुरितस्य प्रचक्षते” लावालिः । ३ अन्तर्गतमदे
गजे पु० हलायुधः ।

उपात्यय पु० उप + अति--इण्--अच् । १ लोकशास्त्राचाराति-

क्रमे, २ व्यतिक्रमे, क्रमोल्लङ्घने, ३ नाशे च । “परावनुपात्यय
इणः” पा० क्रमप्राप्तस्यानतिपातोऽनुपात्ययः” सि० कौ० ।
पृष्ठ १३४८

उपादान न० उप + आ + दा--ल्युट् । १ ग्रहणे “विस्रब्धं ब्रा-

ह्मणः शूद्रात् द्रव्योपादानमाचरेत्” मनुः । “स्यादात्मनोऽ-
प्युपादानात्” सा० द० । स्वस्वविषयेभ्य इन्द्रियाणां निवारणरूपे
२ प्रत्याहारे, कर्म्मणि ल्युट् । कायजननार्थमुपाद यमाने
कार्यान्विते ३ कारणे यथा मृदादि घटादेः स्वर्णादि
अलङ्कारादेः जननार्थं गृह्यते । तच्च सर्वदा कार्येष्व गतम् ।
“असदकरण दुपादानग्रहणात् सर्वसम्भवामावात् । शक्तस्य
शक्यकरणात् कारणभावाच्च सत् कार्य्यम्” सां० का०
“उपादानानि कारणानि तेषां ग्रहणं कार्येण सह स्वम्बन्ध
उपादानैः कार्यस्य सखन्धादिति यावत् एतदुक्तं भवति
कार्येण संबन्धि कारणं कावस्य जनकं सम्बन्धश्च कार्य-
स्यासतो न सम्भवति तस्मात् सत् कार्यमिति” सा० कौ०
“उपदाननियमात्” “नकर्म्मण उपादत्वायोगात्” सां० सू०
उपादानकारणञ्च कार्य्याभिन्नकारणमिति सांख्या वेदान्ति
नश्च मत्यन्ते यथा मृत्तिकादयः घटादिकं प्रति, सुवर्ण्णं
कुण्डलादिक प्रति, तन्तवः पटं पति, तत्तत्कार्य्याभिन्नत्वादु-
पादानकारणम् । नैयायिकास्तु उपादानकारणं समवायि-
कारणतया व्यवह्रियते । “यत्समवेत कार्य्यं भवति ज्ञे-
यन्त समवायि जनकं तत” भाषा० तेषांमते उपादान-
शब्देनापि तस्य व्यवहारोऽस्त्येव “उपादानस्य चाध्यक्षं
प्रवृत्तौ जनकं भवेत्” भाषोक्तेः । तत्तदुपदानगोचर
चिकीर्षाकृ तज्ञानाश्रयत्वेन तैः ईश्वरस्य सर्व्वकर्त्तृत्व-
त्वाभ्युपगमात् तच्च ईश्वरशब्दे चिन्तामणिग्रन्थे विवृतम्
सांख्यमतसिद्धे ४ आध्यात्मिकतुष्टिभेदे च यथाह सा० का० ।
“आध्यात्मिक्यश्चतस्रः प्रकृत्य पादानकालभाग्याख्याः ।
बाह्या विषयोपरमात् पञ्च नव तुष्टयोऽभिभवाः” । “या
तु प्र कृत्यविवेकख्यातिः सा प्रकृतेमात्रात् मा भूत्
सर्व्वस्य सर्व्वदा तत्मात्रस्य सर्व्वान् प्रत्यविशेषात् प्रव्रज्या-
यास्तु सा भवति तम्मात् प्रब्रज्यामुपाददीथाः कृतं ते
ध्यानाभ्यासेनायुष्मन् । इति उपदेशै या तष्टिः सोपादा-
नाख्या नामाम्भ इत्युच्यते’ सां० कौ० । सलिलस्येव अङ्कुरं
प्रति प्रव्रज्यायाः माक्षात्कारं प्रति सहकारिकारणत्वेन
सलिलमदृशत्वात् सलिलत्वम् । आत्मसाक्षात्काराय च
फलार्थि रुपदि ययानतया तस्या उपादानत्वमिति
बोध्यम् । तेन निर्वृत्तम् ठक् । औपद निक स्वीकारमात्र-
जन्येस्वत्वादौ यथां निध्यादौ द्रव्ये ग्रहणमात्रादेव स्वत्व-
मुत्पद्यते । उपादानोपादेबभावः

उपादानलक्षणा स्त्री उपादानात् स्वार्थस्य ग्रहणात् लक्षणा ।

“मुख्यर्थस्येतराक्षेपो वाक्यार्थेऽन्वयसिद्धये । स्यादात्मनो-
ऽप्युपादानादेषोपादानलक्षणा” सा० द० उक्ते अजहत्-
स्वाथारूपे लक्षणाभेदे । यथा कुन्ता पविशन्तीत्यादौ कुन्तश-
ब्दस्य कुन्तधारिणि लक्षणाभ्युपगमेऽपि तत्र कुन्तरूप्-
मख्यार्थस्यापि विशेषणविधयाऽन्वयात्तथात्वम् ।

उपादिक पु० उप + अद--इन् संज्ञायां कन् । कीटभेदे ।

उपोदिकायां स्त्री

उपादेय त्रि० उप + आ + दा--कर्म्मणि यत् । १ ग्राह्ये ग्रहीतुं

योग्ये विषये “उपादेयतारतम्यमेव” सा० द० । “भवे सौख्यं
हित्वा शमसुखसुपादेयमनधम्” शान्तिश० उपादानकारणे
सम्बद्धे २ तद भन्ने कार्य्ये । ३ विधेयत्वादिना उतुकृष्टे च
“कर्म्मासन्निहितं नैव बुद्धौ विपरिवर्त्तते । शब्दात्तु
तदुपस्थानमुपादेये गुणोभवेत्” भट्टका० । “उपादेये
विधेये” ति० त० रघुनन्दनः ।
उपादेयं ग्रहणयोग्यं तच्चानुकूलवेदनीयं सुखं तत्साधनञ्च
“हेयोपादेयरहिते परिनिष्ठिते” शा० भा० वाक्ये “स यथा
मत्स्यार्थी सशल्कान् सकण्टकान् मत्स्यानुपादत्ते स
यावदुपादेयं तावदादाय निवर्त्तते” सर्व० दर्शने च प्रयक्तम् ।

उपाधि पु० उप + आ--धा--कि । अन्यथास्थितस्य वस्तुनोऽन्यथा

प्रकाशनरूपे १ कपटे, उपधिशब्दे उदा० । उपाधीयते
स्वधर्म्मोऽनेन करणे वा० कि । स्वसामीप्यादिना अन्यस्मिन्
स्वधम्मारोपसाधने विशेषणभेदे । २ उपाधिभेदेऽप्येकस्य
नानायोगः आकाशस्येव घटादिना” गतिश्रुतिरप्युपा-
धियोगादाकाशवत्” सा० सू० “उपाधिना क्रियते भिन्न
रूपः” इति श्रुतिः “कार्न्नोपाधिरयं जीवः कारणो-
पाधिरीश्वरः” पञ्चद० कार्यमन्तःकरणं कारणमज्ञानमिति
वक्ष्यमाणोपाधिवादे उदा० ३ उपलक्षणरूपे विशेषणे च ।
स च जात्यादिस्तद्भिन्नश्च पदार्थवृत्तिधर्म्मः । “पदार्थविभा-
लकोपाधिमत्त्वम्” मुक्ता० । पदार्थविभाजकाश्च द्रव्यत्व
गुणत्वकर्म्मत्वसामान्यत्वविशेषत्वसमवायत्वभावत्वरूपाः तत्र
द्रव्यत्वादयो जातिरूपाः सामान्यत्वादयस्तद्भिन्नाः तत्र
नित्यत्वे सति ससवेतत्वम् जातित्वम् परमसीमावर्त्तित्वे
सति नित्यद्रव्यमात्रवृत्तित्वं विशेषत्वम् । नित्यत्वे सति
सम्बन्धत्वम् समवायत्वम् । भावभिन्नत्वमभावत्वमन्योन्या-
श्रयभावात् अखण्डोपाधिरभावत्वमिति नव्याः । एवं
प्रतियोगित्वादयोऽपि अखण्डोपाधयः तैः कल्प्यन्ते ।
“उपाधिभेदादेकापि प्राच्यादिव्यपदेशभाक्” भाषा०
४ कुटुम्बव्यापृते । उपाधीयते नामसमीपे कर्म्मणि कि ।
५ उपनामनि यथा भट्टाचार्य्यमिश्रादयः उपाधीयतेमनोऽत्र
पृष्ठ १३४९
आधारे कि । ६ धर्मचिन्तायाम् ७ वाभिचारोन्नायके
न्यायमतसिद्धे पदार्थभेदे च । “सर्वे साध्यसमानाधिकरणाः-
सदुपाधयः हेतोरेकाश्रये येषां स्वसाध्यव्यभिचारिता भाषा०
उपाधिपदार्थनिरूपणग्रन्थस्य प्रायेण वङ्गदेशादौ
पठनपाठनाभावेन लुप्तप्रायतया प्रचारो नास्तोति अनुमान-
चिन्तामणिकृता यथा उपाधिवादे तन्निरूपितं यथा च
तस्य दूषकतायां वोजं निरूपितं तदत्र प्रदर्श्यते ।
“तत्रोपाधिः साध्यत्वाभिमतव्यापकचे सति साधनत्वाभि-
मताव्यापकः । अनौपाधिकत्वज्ञानञ्च न व्याप्तिज्ञाने हेतुरतो
व्यापकचादिज्ञानेन नान्योऽन्याश्रयः । यद्वा व्यापकत्वं
तद्वन्निष्ठात्यन्ताभावापतियोगित्वं तत्प्रतियोगित्वञ्चाव्या-
पकत्वं प्रतियोगित्वञ्च तदधिकरणानधिकरणत्वमिति
वदन्ति तन्न साधनपक्षधर्मावच्छिन्नसाध्यव्यापकोपाध्यव्याप्तैः
न च तयोरनुपाधित्वं दूषकतावीजसाम्यात् मित्रातनय-
त्वेन श्यामत्वसाधने शाकपाकजत्वस्य, प्रत्यक्षस्पर्शाश्रय-
त्वेन वायोः पत्यक्षत्वे साध्ये उद्भूतरूपवत्त्वस्य च शास्त्रे
ऽप्रयोजकचेनोपाधिन्वस्वीकारात् पक्षेतरेऽतिव्याप्तेश्च ।
न च व्यतिरेके पर्वतेतरान्यत्वादित्यत्र इतरान्यत्वम्यासिद्धि-
वारणार्थं पर्वतपदं विशेषणमिति व्यतिरेके व्यर्थविशेष-
अत्वान्न स उपाधिः, बाधोन्नीतस्याप्यनुपाधितापत्तेः । न
चेष्टापत्तिः इतरान्यत्वस्यापसिद्ध्या विशेषणं विना व्याप्त्य-
ग्रहेण तत्सार्थकत्वात् । वस्तुगत्या साध्यव्यापकः पक्षेतर
उपाधिरिति चेत् अस्तु तथा, तथापि पक्षातिरिक्ते
साध्यव्यापकताग्रहादुपाधेर्दूषकत्वं तच्च तत्राप्यस्ति, अन्यथा
पक्षे साध्यसन्देहादलपाधित्वे उपाधिमात्रमुच्छिद्येत
विपक्षाव्यावर्त्तकविशेषणशून्थत्वं विशेषणं तेन बाधोन्नीतप-
क्षेतरस्य परिग्रहः तत्र पक्षस्यैव विपक्षत्वात् न तु पर्वते-
तरत्वादेरिति चेन्न न हि वस्तु विपक्षव्यावर्तकविशेषणशून्यं
सर्ब्बत्र प्रमेयत्वादेः सत्त्वात्तत्रीपात्तेति विशेषणे सिद्ध्य-
सिद्धव्याधातः तथापि च साध्यव्यापकत्वसाधनाव्यापकत्वे
तत्र स्त इति तद्द्य वृत्त्या पक्षे साध्यव्यावृत्तिरतो हेतोर्व्य-
भिचार एव व्यभिचारे चावश्यमुपायिरिति पक्षेतरएव
तत्रोपाधिः स्यात् तावन्मात्रस्यैव दूषकत्वाच्च व्यर्थं विशे-
षणम् । अतएवानुमानमात्रोच्छेदकतया जातित्वान्न पक्षे-
तर उपाधिरित्यपास्तम् दूषणसमर्थत्वेन जातित्वाभावात् ।
एतेन पक्षेतरव्यावृत्त्यर्थं प्रकारान्तरमपि निरस्तम्,
उपाधित्वाभावेऽपि दूषणसमर्थत्वात् । अथोपाधिः स्वव्यतिरे-
केण सत्प्रतिपक्षोत्थापकतया दूषणं, पक्षेतरत्वव्यातरेकश्च
न साध्याभावमाधकोऽसाधारणत्वात् न तु व्यभिचारोन्ना-
यकतया दूषणं यथा हि साध्यव्यापकोपाध्यव्याप्यतया हेतोः
साध्याव्याप्यत्वं तथा साध्यव्याप्यहेत्वव्यापकतयोपाधेर्न
साध्यव्यापकत्वमपि सिध्येत् व्याप्तिग्राहकस्योभयत्रापि
साम्येन विनिगमकविरहात् । तस्माद्यथा साध्यव्याप्येन
हेतुना साध्यं साधनीयं तथा साध्यव्यापकोपाधिव्यावृत्त्या
साध्याभावोऽपि साधनीयो व्याप्तिग्रहतौल्यादिति
दूषकतावीजं सोऽयं सत्प्रतिपक्ष एवेति मैवम् एवं हि
सत्प्रतिपक्ष उपाध्युद्भावनं न स्यात् सत्प्रतिपक्षान्तरवत् ।
किञ्चैवं बाधोन्नीतोऽपि पक्षेतरो नोपाधिः स्यात् व्यति-
रेकेऽसाधारण्यात् । ननु बाधे नोपाधिनियमः धूमेन ह्रदे
वह्निसाधते तदभावात् । न च हेतुमति पक्षे बाधे पक्षेतरो-
पाधिनियमः प्रत्यक्षे वह्नौ कृतकत्वेनानुष्णत्वे साध्येऽतेज-
स्त्वादेरुपाधित्वसम्भवादिति चेत् न तेजोमात्रपक्षत्वेऽ-
तेजस्त्वं विनान्यस्य उपाधेरभावात् । किञ्च पर्वतावयववृत्त्य-
न्यत्वं पवेतेतरद्रव्यत्वं ह्रदपर्वतसंयोगानाधारत्वं ह्रद-
पर्वतान्यचादिकर्मुपाधिः स्यादेव व्यतिरेकेऽसाधारण्याभा-
वात् व्यतिरेकिणा सत्प्रतिपक्षसम्मवाच्च । न चासाधारण्यं,
तस्यापि सत्प्रतिपक्षोत्थापकतया दोषत्वात् तस्मादुभयो-
रपि व्याप्तिग्राहकसाम्ये विरोधान्न व्याप्तिनिश्चयः किन्तू
भयत्र व्यभिचारसंशयः तथा च व्यभिचारसंशयाधायक-
त्वेनोपाधेर्दूषकत्वं तच्च पक्षेतरेऽप्यस्ति तदुक्तमुपाधेरेव
व्यभिचारशङ्केति । भवतु वोक्तन्यायेन सकलानुमानभङ्ग-
भिया पक्षेतरोऽनुपाधिः तथापि लक्षणमतिव्यापकम् ।
नापि साध्यसमव्याप्तत्वे सति साधनाव्यापकत्वमुपाधित्वं
दूषकतावोजस्य व्यभिचारोन्नयनस्य सत्प्रतिपक्षस्य वा
साम्येन विषमव्याप्तस्याप्युपाधित्वात् तथा दूषकतायां
साध्यव्याप्यत्वस्यापयोजकत्वाच्च । अथ साध्यप्रयोजकोधर्म्म-
उपा धः प्रयोजकत्वञ्च न न्यूनाधिकदेशवृत्तेः तम्मिन्
सत्यभवतस्तेन विनापि भवतस्तदप्रयीजकत्वात् अन्यथा
पक्षेतरस्याप्युपाधित्वप्रसङ्ग इति चेत् न दूषणौपयिकं हि
प्रयोजकत्वमिह विवक्षितं तच्च साध्यव्यापकत्वे सति
साधनाव्यापकत्वमेवेति तदेव प्रयोजकं नत्वधिकं व्यर्थत्वात् ।
अथोपाधिः स उच्यते यद्धर्मोऽन्यत्र प्रतिविम्बते यथा
जवाकुसुमं स्फटिकलौहित्य उपाधिः तथा चोपाधिवृत्ति-
व्यापत्वं हतुत्वाभिमते चकास्ति तेनासावुपाधिः न च व्य
प्यत्वमात्रेण दूषकत्वमिति साध्यव्यापकतापीष्यते तथा
च समव्याप्त एवोपाधिरिति चेत् तत् किं विषमव्याप्तस्य
पृष्ठ १३५०
दूषकतावीजाभावान्नोपाधिशब्दवाच्यत्वं तथात्वेऽप्युपा-
धिपदप्रवृत्तिनिमित्ताभावाद्वा नाद्यः तस्यापि व्यभिचारा-
द्युन्नायकत्वात् । नापरः न हि लोके समव्याप्तएवान्यत्र
स्वधर्मपतिविम्बजनक एवोपाधिपदप्रयोगः लाभाद्युपा-
धिना कृतमित्यादौ लाभादावुपाधिपदप्रयोगात् । किञ्च
न शास्त्रे लौकिकव्यवहारार्थमुपाधिव्यत्पादनं किन्त्वनु-
मानदूषणार्थं तच्च साध्यव्यापकत्वे सति साधनाव्यापक
त्वमात्रमिति शास्त्रे तत्रैवोप धिपदप्रय गात् । अन्ये तु
यदभावोव्यभिचारविरोधी स उपाधिः न च विषमव्या-
प्तस्याभावोव्यभिचारं विरुणद्धि तस्याभावेऽपि व्यभिचा-
रात् अस्ति ह्यनित्यत्वव्यापकं प्रमेयत्वं तद्द्य प्यञ्च गुणत्वं
नचानित्यत्वगुणत्वयोर्व्याप्तिरस्ति समव्याप्तिकस्य च व्यति-
रेकस्तथा, न हि साध्यव्यापकव्याप्यीभूतस्य व्याप्यं यत्तत्
साध्यं व्यभिचरति व्यभिचारे चान्ततः साध्यमेवोपाधिः
अभेदेऽपि व्याप्यव्यापकत्वात् माधनव्यापकत्वादिति स्वी-
चक्रुस्तन्न तवापि ह्यव्यभिचारे साध्यव्याप्यव्याप्यत्वं तन्त्र-
मावश्यकत्वाल्लाघवाच्च न साध्यव्यापकव्याप्यत्वमपि भवतैव
व्यभिचारस्य दर्शितत्वात् । न च साध्यव्याप्यव्याप्यत्वमेवा-
नौपाधिकत्वं साध्यव्याप्यमित्यत्रापि ह्यनौपाधिकत्वं
तदेव वाच्यं तथा चानवस्थेति । अनौपाधिकत्वे च व्याप्तिल-
क्षणे यावदिति पदं साध्यव्यापके विशेषणं दत्तमेव किञ्च
यस्मिन् सत्यनुमितिर्न भवति तदेव तत्र दूषणं न तु यद्व्य-
रेके न भवत्येवेत्येतद्गर्भं विरुद्धत्वादेरप्यदोषत्वापत्तेः नापि
पक्षधर्मावच्छिन्नसाध्यव्यापकत्वे सति साधनव्यापकत्वमुपा-
धित्वं साधनावच्छिन्नसाध्यव्यापकोपाध्यव्यापनात् । शब्दो-
ऽभिधेयः प्रमेयत्वादित्राश्रावणत्वस्योपाधित्वापत्तेश्च शब्द
धर्मगुण वावच्छिन्नाभिधेयत्वं यत्र रूपादौ तत्राश्रावणत्वं
व्यापकं पक्षे प्रमेयत्वस्य साधनस्याव्यापकं हि तत् ।
आर्द्रेन्धनवत्त्व दावुपाघौ पक्षनियततादृशधर्माभावाच्च ।
अथ साधनावच्छिन्नसाध्यव्यापकत्वे सति साधनाव्यापक
उपाधि तन ध्वंसस्य जन्यत्वेन ध्वंसप्रतियोगित्वे साध्ये
साधनावच्छन्नसाध्यव्यापकं भावत्वमुपाधिः । श्यामत्वे
शाकपाकजत्वमुपाघिरिति तन्न पक्षधर्मावच्छिन्नसाध्यव्या-
पकपृथिपात्वस्यापाधित्वपसङ्गात् सोपाधित्वादसाधकमित्यत्र
साधनावच्छिन्नसाध्यव्यापकव्यभिचारित्वे साधनावच्छिन्ने-
त्यस्य व्यर्थत्वप्रसङ्गाच्च । किञ्च पक्षद्वयेऽपि विशिष्टसाध्यव्य-
भिचार विशिष्टभाध्यव्यतिरेकं वा प्रसाध्य पश्चात्
केवसमाध्यव्याभचारः केवलसाध्यव्यतिरेको वा साधनीय-
स्तथा चार्थान्तरं केवलसाध्ये हि विवादो न तु विशिष्टे ।
अथ प्रकृतसाध्यव्यभिचारमिद्ध्यर्थं विशिष्टसाध्यव्यभिचारः
साध्य इति चेन्न अप्राप्तक लत्वात् प्रथमं साध्यव्यभिचार
एवोद्भाव्यस्तत्रासिद्धावुपाधिरिति चेत् तर्हि प्रकृतानुमाने
नोपाधिर्दूषणं स्यात् । किञ्च साध्यव्यभिचारहेतुत्वेन
पक्षघर्मावच्छिन्नसाध्यव्यापकव्य भचार एवोपन्यसनीयोनो-
पाधिः । स्यादेतत् पर्यवसितसाध्यव्यापकत्वे सति
साधनाव्यापक उपाधि पर्यवसितं साध्यं च पक्षधर्मताबल-
लभ्यं यथा शब्दोऽनित्यत्वातिरिक्तशब्दधर्मातिरिक्तधर्मवान्
मेयत्वादित्यत्र पर्यवसितं यतस ध्यम् अनित्यत्वं तस्य व्या-
पकं कृतकत्वमुपाधिः यदि च तथैव कृतकत्वमपि शब्दे
साध्यते तदा अनित्यत्वमुपाधिः तदुक्तं वाद्युक्तसाध्यनि-
यमच्युतोऽपि कथकैरुपाधिरुद्भाव्यः पर्यवसितं नियम-
यन् दूषकत्रावीजसाम्राज्यादि त । अनेन पक्षधर्म्मसा-
घनावच्छिन्नसाध्यव्यापकोपाधिः सगृह्यते तादृश साध्यस्य
पर्यवसितत्वादिति तन्न एवं हि द्व्यणुकस्य सावयवत्वे
सिद्धे द्व्यणुकमनित्यद्रव्यासमवेतं जन्यमहत्त्वानधिकरण-
द्रव्यत्वादित्यत्र निस्पर्शद्रव्यसमवेतत्वमुपाधिः स्यात् । भवति
हि नित्यद्रव्यसमवेतत्वं पर्यवसितं साध्यं तस्य, व्यापकं
साधनाव्यापकञ्च । किञ्च पक्षधर्म्मताबललभ्यसाध्यसिद्धौ
निष्फल उपाधिः तदसिद्धौ च कस्य व्यापकः न हि
सोपाधौ पक्षधर्म्मताबलात् साध्यं सिध्यति यस्य व्यापक
उपाघिः स्यादिति । अत्रोच्यते यद्व्यभिचारित्वेन
साधनस्य साध्यव्यभिचारित्वं स उपाधिः लक्षणन्तु पर्यवसि-
तसाध्यव्यापकत्वे सति साधनाव्यापकत्वं यद्धर्मावच्छे-
देन साध्यं स च धर्मः । क्वचित् साधनमेव क्वचिद्द्रव्यत्वादि
क्वचिन्महानसत्वादि । तथा हि समव्याप्तस्य विषमव्या-
प्तस्य वा साध्यव्यापकस्य व्यभिचारेण साधनस्य साध्यव्य-
भिचारः स्फुटएव व्यापकव्यभिचारिणस्तद्व्याप्यव्यभिचा-
रनियमात् साधनावच्छिन्नपक्षधर्मावच्छिन्नसाध्यव्यापक-
योर्व्यभिचारित्वेन साधनस्य साध्यव्यभिचारित्वमेव यथा
ध्वंसस्यानित्यत्वे साध्ये भावत्वस्य, वायोः प्रत्यक्षत्वे साध्ये
उद्भूतरूपवत्त्वस्य च विशेषणाव्यभिचारिणि साधने विशि-
ष्टव्यभिचारस्य विशेव्यव्यभिचारित्वनियमात् । अतएव
नार्थान्तरं, विशेषणाव भिचारित्वेन ज्ञाते साधने विशि-
ष्टव्यभिचारः सिध्यन् विशेष्यसाध्यव्यभिचारमादायैव
सिध्यति पक्षधर्म्मताबलात् । अन्यथा प्रतीतेरपर्यवसानात् ।
न च पक्षधर्मताबलात् प्रकृतसिद्धावर्थान्तरम् । यद्वा प्र-
पृष्ठ १३५१
त्यक्षस्पर्शाश्रयत्वं प्रत्यक्षत्वव्यभिचारि द्रव्यत्वाव्यभिचारित्वे
सति द्रव्यप्रत्यक्षत्वव्यापकव्यभिचारित्वान्महत्त्ववत् तथा
मित्रातनयत्वं श्यामत्वव्यभिचारि मित्रातनयत्वाव्यभिचा-
रित्वे सति श्याममित्रातनयत्वव्यापकव्यभिचारित्वात्
अघटत्ववत् । अव्यभिचारश्च तत्समानाधिकरणात्यन्ताभा-
वाप्रतियोगित्वं तच्चाभेदेऽपि । यद्वा यः साधनव्यभि-
चारी साध्यव्यभिचारोन्नायकः स उपाधिः तत्त्वञ्च
साक्षात् परम्परया वेति तार्थान्तरम् । किञ्च अर्थान्त-
रस्य पुरुषदोषत्वादाभासान्तरस्य तत्राभावादुपाधिरेव
भावत्वादिकं दोषः न चैवं शब्दोऽभिधेयः प्रमेयत्वादि-
त्यत्राश्रावणत्वं, जलं प्रमेयं रसवत्त्वादित्यत्र पृथिवीत्व-
मुपाधिः स्यात् केवलान्वयित्वसाधकप्रमाणेन तत्र साध्य-
सिद्धेरुपाधेर्विशिष्टाव्यापकत्वात् न च पक्षेतरे स्वव्याघा-
तकत्वेनानुपाधावतिव्याप्तिः तत्रानुकूलतर्काभावेन साध्य-
व्यापकत्वानिश्चयात् सहचारदर्शनादेस्तेन विना संशाय-
कत्वादित्युक्तं बाघोन्नीते चानुकूलतर्कोऽस्त्येवेति । एवं
पर्व्वतावयववृत्त्यन्यत्वादेरपि नोपाधित्वं पक्षमात्रव्यावर्त्त-
कविशेषणवत्त्वात् अतएव धूमे आर्द्रेन्धनप्रभववह्निमत्त्वं
बहिरिन्द्रियप्रत्यक्षत्वे उद्भूतरूपवत्त्व मित्रातनयश्या-
मत्वे शाकपाकजत्वं जन्यानित्यत्वे भावत्वमुपाधिः तदुत्-
कर्षेण साध्योत्कर्षात् अनन्यथासिद्धान्वयव्यतिरेकतो वैद्य-
कात् कारणतावगमेन घटोन्मज्जनप्रसङ्गेन साध्यव्यापक-
तानिश्चयात् । तत् किं कायकारणयोरेव व्याप्तिः तथा च
बहुधा व्याकुलोस्यादिति चेन्न तदुपजीव्यान्येषामप्यनु-
कूलतर्केण व्याप्तिग्रहात् यत्र साध्योपाध्योर्हेतुसाध्ययोर्वा
व्याप्तिग्राहकसाम्यान्नैकत्र व्याप्तिनिश्चयस्तत्र सन्दिग्धो-
पाधित्वं व्यभिचारसंशयोपाधायकत्वात् । यदा च तादृश्ये-
कत्रानुकूलतर्कावतारस्तदा हेतुत्वमुपाधित्वं वा निश्चितं
पक्षेतरस्य स्वव्याघातकत्वेन न हेतुव्यभिचारसंशायकत्व-
मतो न सन्दिग्धोपाधिरपि सः । यत्तु पक्षेतरस्य यथा
साध्यव्यापकत्वं तथा साध्याभावव्यापकत्वमपि ग्राहक-
साम्यात् तथा चोभयव्यापकनिवृत्त्या साध्यतदभावाभ्यां
पक्षे निवर्त्तितव्यम् न चैवम् । तथा च पक्षेतरः
साध्यव्यापकतासंशयेन सन्दिग्धः कथं परं दूषयेदिति तन्न
तथापि हि साध्यव्यापकता पक्षमालम्ब्य हेतुव्यभिचार
संशयाधायकत्वेन दूषणं स्यादेव । ननु यत्रोपाधिस्तत्रा-
नुकूलतर्कोयदि नास्ति तदा तदभावेनैव व्याप्तेरग्रहः
अथास्ति तदा साध्यव्याप्याव्यापकत्वेनोपाधिः साध्यव्या-
पकत्वनिश्चयान्नोपाधिरित्युभयथापि नोपाधिर्दूषणं न च
व्याप्यतदभावव्याप्यमुभयमत उपाधिरपि तदभावोन्नयनेन
दोष इति वाच्यं उपाधेरात्मलाभार्थमनुकूलतर्काभावोजी-
वकत्वेन तस्यैव दोषत्वादिति चेन्न सोपाधावेकत्र साध्यतद-
भावसम्बन्धस्य विरुद्धत्वादवच्छेदभेदेन तदुभयसम्बन्धो वाच्यः
तथा च साधने साध्यसम्बन्धितावच्छेदकरूपमनुकूलतर्काभा-
वोपजीवनमन्तरेणोपाधिरावश्यकस्तथानुकूलतर्काभावोऽप्या-
वश्यक इति उभयोरपि विनिगमकाभावाददूषकत्वम् ।
अन्ये तु यद्व्यावृत्त्या यस्य साधनस्य साध्यं निवर्त्तते स
धर्म्मस्तत्र हेतावुपाधिः स च धर्म्मोयस्याभावात् पक्षे
साध्यसाधनसम्बन्धाभावः यथा आर्द्रेन्धनवत्त्वं, व्यावर्त्तते हि
तद्व्यावृत्त्या धूमवत्त्वमयोगोलके । अतएव तत्र साध्यसाधन-
सम्बन्धाभावा पक्षे । एवं भावत्वव्यावृत्त्या ध्वंसे जन्यत्वानि-
त्यत्वयोः सम्बन्धीनिवर्त्तमानः पक्षधर्म्म ताबलादनित्य-
त्वाभावमादाय सिध्यति । तथा वायावुद्मूतरूपवत्त्वं
निवर्त्तमानं बहिर्द्रव्यत्वे सन्ति प्रत्यक्षत्वं निवर्त्तयत् प्रत्यक्ष-
त्वाभावमादाय सिध्यति तथा चोभयत्रापि पक्षे साध्या-
भावसिद्ध्या साध्यसाधनसम्बन्धाभावोऽस्तीति अतएव
वाधानुन्नीतपक्षेतरस्यानुपाधित्वं स्वव्याघातकत्वेन तद्व्यति-
रेकस्य साध्याव्यावर्त्तकत्वादिति । यत्तूपापिमात्रस्य
लक्षणं व्यतिरेकिधर्म्मत्वं पक्षेतरोऽपि क्वचिदुपाधिः
तत्तदुपाधेस्तु तत्तत्साध्यव्यापकत्वे सति तत्तत्साधनाव्याप-
कत्वं न च धूमवह्निसम्बन्धोपाधिः पक्षेतरत्वं स्यादिति
वाच्यम् आपद्याप्रसिद्धेरिति तन्न अनुमितिप्रतिबन्धकज्ञा-
नविषयतावच्छेदकमुपाधित्वमिह निरूप्यं तच्च न व्यतिरे-
कित्वमतिप्रसङ्गात् विशेषलक्षणे वह्निधूमसम्बन्धे पक्षेतर-
त्वस्योपाधित्वप्रसङ्गाच्च । केचित्तु साधनव्यापकोऽप्युपाधिः
क्वचिद्यत्र पक्षावृत्तिर्हेतुः यथा करका पृथिवो कठिनसयो-
गात् इत्यत्रानुष्णाशीतस्पर्शवत्त्व न च तत्र स्वरूपासिद्धि-
रेव दोषः सर्व्वत्रोपाधेर्दूषणान्तरसङ्करादित्याहुः ।
साध्यञ्च नोपाधिः व्यभिचारसाधने साध्याविशिष्टत्वात्
अनुमितिमात्रोच्छेदप्रसङ्गाच्च ।
स चायं द्विविधः निश्चितः सन्दिग्धश्च साध्यव्यापकत्वेन
साधनाव्यापकत्वेन च निश्चितोव्यभिचारनिश्चयाधायकत्वेन
निश्चितोपाधिः यथा वह्निमत्त्वेन धूमवत्त्वे साध्ये आद्रेन्धन-
प्रभववह्निमत्त्वम् । यत्र साधनव्यापकत्वसन्देहः साध्यव्यापक-
त्वसंशयो वा तदुभयसन्देहो वा तत्र हेतुव्यभिचारसंशाय-
कत्वेन सन्दिग्धोपाधिः यथा मित्रातनयत्वेन श्यामत्वे साध्ये
पृष्ठ १३५२
शाकाद्याहारपरिणतिजत्वं न च तेन हेतुना शाकपा-
कजत्वमपि साध्यं तत्र श्यामत्वस्योपाधित्वादुभयस्यापि
साधने अर्थान्तरं श्यामत्वमात्रे विवादो नतूभयत्र । न
चैवं धूमाद्वह्न्यनुमानेऽपि वह्निसामग्र्युपाधिः स्यात् तत्र
वह्निनेव तत्सामग्र्यापि समं धूमस्यानौपाधिकत्वनिश्च-
यात् । अत्र तु मित्रातनयत्वव्याप्यश्यामसामग्य्रा स्थात-
व्यमित्यत्र कार्यकारणभावादीनां व्याप्तिग्राहकाणामभा-
वात् । अतएव साध्यसामग्य्रा सह हेतोरपि यत्र व्याप्तिग्रा-
हकमस्ति तत्र सामग्री नोपाधिः यत्र तु तन्नास्ति तत्र
साप्युपाधिरित्यभिसन्धाय सामग्री च क्वचिन्नोपाधिर्नतु
सर्वत्र इत्युक्तं यथा तुल्ययोगक्षेमयोरुपाधेर्व्यापकतासन्देहे
ईश्वरानुमाने शरीरजन्यत्वाणुत्वादिः यथा च शाकपा-
कजत्वस्य साध्यव्यापकतासन्देहे मित्रातनयत्वे । यत्तु
उपाधिसन्देहो नोपाधिर्न वा हेत्वामासान्तरमिति
तदुद्भावने निरनुयोज्यानुयोग इति तन्न सन्दिग्धानैकान्तिक-
व्यभिचारसंशयाधायकत्वेन दूषणत्वादुपाधेरिव व्यभि-
चारनिश्चयाधायकतया ।
इदानीमुपाधेर्दूषकतावीजं निरूप्यते । नाप्यस्य
व्यतिरेकद्वारा सत्प्रतिपक्षत्वेन दूषकत्वं तदा हि
सत्प्रतिपक्षे सत्प्रतिपक्षान्तरवदुपाधेरुद्भावनं न स्यात्
न च प्रतिपक्षबाहुल्येनाधिबचार्थमुद्भावनं शतमप्यन्धो
न पश्यतीति न्यायात् एकेनापि बहूनां प्रतिबन्धाच्च
ब्याप्तिपक्षधर्म्मतेति बलं तच्च तुल्यमेव न तु भूयस्त्व-
मपि एकस्मादनुमितेरदर्शनात् । सन्दिग्धोपाधेरदू-
षकतापाताच्च तद्व्यतिरेकस्य पक्षे सन्दिग्धत्वात् अपि
चैवं बाधोन्नीतपक्षेतरस्योपाधित्वं न स्यात् व्यति-
रेकेऽसाधारण्यात् पक्षधर्म्मश्चोपाधिर्न स्यात् यथा
घटोऽनित्यो द्रव्यत्वादित्यत्र कार्यत्वं, गन्धाधरो द्रव्यं स्वात-
न्त्र्येण प्रतीयमानत्वादित्यत्राश्राबणत्वं, तद्व्ययिरेकस्य पक्षा-
वृत्तित्वात् । न च नायमुपाधिः, तल्लक्षणसत्त्वात् अन्यथा
दूषकत्वसम्भवाञ्च । किञ्च साध्यव्यापकव्याप्यत्वेनोपाधेः
साध्याव्यापकत्वे तद्व्यतिरेकेण कथं सत्प्रतिपक्षः, न
ह्यव्यापकव्यतिरेकादव्याप्यव्यतिरेकः । नापि व्याप्तिविर-
हरूपतया असिद्धत्वेनानौपाधिकत्वस्य व्याप्तित्वनिरा-
सात् । नाप्यनौपाधित्वज्ञानस्य व्याप्तिधीहेतुत्वस्य तत्त्वेन
व्याप्तिज्ञानकारणविघटकतया व्याप्यत्वासिद्धावन्तर्भावात् ।
नह्यन्यस्य साध्यव्यापकत्वसाधनाव्यापकत्वज्ञानमन्यव्या-
प्तिज्ञानं प्रति प्रतिबन्धकमित्युक्तम् । न च साध्यव्याप-
कत्वसाध्यव्याप्यत्वज्ञाने विद्यमाने साधनस्य साध्यव्याप-
कत्वज्ञानं नोत्पत्तुमर्हतीति वाच्यं न हि साध्यव्यापकव्य-
प्यत्वज्ञानं व्याप्तिज्ञानकारणं येन तत् प्रतिवन्धकं स्यात्
किन्तु साध्यव्यापकव्यभिचारित्वेन साध्यव्यभिचारित्व-
ज्ञानद्वारा, नापि व्यभिचारोन्नायकत्वेन । यथा हि
साध्यव्यापकव्यभिचारितया साधनस्य साध्यव्यभिचारित्व-
मनुमेयं तथा साध्यव्याप्यव्यभिचारित्वेन साध्यव्यभि-
चारित्वमुपाधेरप्यनुमेयं व्याप्तिग्राहकसाम्यात् । नापि
साध्यव्यापकाव्याप्यत्वेन व्याप्तिविरहोन्नायकतया, साध्य-
व्याप्याव्यापकत्वेनोपाधेरेव साध्याव्यापकत्वसाघनात्
तस्मादुपाधिर्हेत्वाभासान्तरमिति । उच्यते आर्द्रेन्धनलत्त्वा-
देस्तर्कादिना साध्यव्यापकत्वसाधने व्यापकत्वे निश्चिते
दूषकतावीजचिन्तनं यदि हि साध्यसाधनसहचारदर्श-
नेनोपाधौ साध्यव्यापकतानिश्चय एव नास्ति तदोपाधि-
त्वनिश्चयाभावात् दूषकतैव नास्तीति क्व बहिर्भावान्तर्भाव-
चिन्ता । किञ्च सत्प्रतिपक्षतया व्याप्यत्वासिद्धतया स्वा-
तन्त्र्येण वा यदि दोषत्वं सर्वथा साध्यव्यापकतानिश्च-
योवाच्यः तेन विना तेषामभावात् । तस्मादुपाधिनि-
श्चयाद्व्यभिचारनिश्चयः तत्संशयात् संशय इति वाभिचा-
रज्ञानद्वारा साध्यव्यापकाव्याप्यत्वेन व्याप्तिविरहोन्ना-
यकतया वोपाधेर्दूषकत्वम् । यद्वा साध्यव्यापकाभाव-
वद्वृत्तितया साध्यव्यभिचारित्वमुन्नेयं न च साधनाभा-
ववद्वृत्तित्वमुपाधेरिति वाच्यम् उपाधिमात्रोच्छेदप्रस-
ङ्गात् सत्प्रतिपक्षे पूर्वसाधनव्यतिरेकवत् अवृत्तिगग-
नादौ साध्याव्यापकत्वात् संयोगादौ हेतौ साधनव्याप-
कत्वाच्च । अथोपाध्याभासाः । असाधारणविपर्ययो
यथान्वयव्यतिरेकिणि साध्ये बाधोन्नोतान्यपक्षेतरत्वम् ।
अप्रसिद्धसाध्यबिपर्ययो यथा केवलान्वयिनि साध्ये पक्षे-
तरत्वादिः । बाधितसाधकविपययो यथा वह्निरुष्णस्ते-
जस्त्वादित्यत्राकृतकत्वम् । पक्षाविपर्ययो यथा क्षित्या-
दिकं सकर्तृकं कार्य्यत्वादित्यत्राणुव्यतिरिक्तत्वम् अत्रा-
णुव्यतिरेकव्यतिरेकस्य क्षित्यादेरेकदेशवृत्त्या भागासिद्धेः ।
पूर्वसाधनव्यतिरेको यथा शर्करारसोऽनित्योऽनित्यवृत्ति-
गुणत्वात्, रसोऽनित्यो रसनेन्द्रियजन्यनिर्विकल्पकविषय-
त्वात् रसत्ववदित्यादौ पूर्वसाधनतायाः प्रयोगानुरोधि-
त्वेनाव्यवस्थितत्वात् कदाचिन्नित्यत्वसाधनव्यतिरेकस्यो-
पाधित्वं कदाचिदनित्यत्वसाधनव्यतिरेकित्वस्येति वस्तुव्य-
वस्था न स्यात् उपाधेर्नित्यदोषत्वाच्च । न हि यद्येन
पृष्ठ १३५३
सोपाधिसम्बद्धं तत्तेनानुपाधित्वसम्बद्धं सम्भवति न तु
सत्प्रतिपक्षोच्छेदः पूर्ब्बसाधनव्यतिरेकस्यानुपाधित्वे वीजं
स्थापनाया यत्राभासत्वं तत्र पूर्ब्बसाधनव्यतिरेकस्य
साध्याव्यापकत्वेनानुपाधित्वात् न च पूर्वहेतोस्तत एवासा-
धकत्वात् सत्प्रतिपक्षवैयर्थ्यं तत्रेति वाच्यम् अगृह्यभाण-
विशेषदशाया सत्प्रतिपक्षसम्भवात् । पूर्वसाधनव्याप्यव्यति-
रेको यथा अकर्तृत्वानुमाने नित्यत्वादिः । पक्षविपक्षान्य-
तरान्यी यथा प्रसिद्धानुमाने पर्वतजलह्रदात्यतरान्यत्वम् ।
पक्षेतरसाध्याभावो यथात्रैव पर्वतेतराग्निमत्त्वं न चात्र
व्यर्थविशेषणत्वं दूषणं सत्त्वेप्युपाधेराभासत्वात् । तत्तु-
ल्यश्च यथात्रैव पर्व्वतेतरेन्धनवत्त्वम् । एवं वह्निसामग्थ्रादि-
कमूह्यम्” विवरणं दीधित्यादौ दृश्यं विस्तरभयान्नोक्तम् ।
उपाधिना निर्मितः ठञ् स्त्रियां ङीप् । औपाधिक
उपाधिजनिते मिथ्याभूते आरोपिते स्फटिकलौहित्यादौ
जवासन्निकर्षात् स्फटिके च मिथ्याभूतं लौहित्यमुत्पद्यते
इति वेदान्तिनः । नैयायिकादयस्तु तत्र लौहित्यस्य
भ्रान्तिरित्युररीचक्रुः । प्रमेयवि० संग्रहे तयोः पक्षयो-
र्युक्तायुक्तत्वं यथावर्ण्णितं तदत्र दर्श्यते ।
“यस्तु लौहित्यमिथ्यात्वं न सहते स वक्तव्यः किं स्फटिक
प्रवृत्ता नयनरश्मयः स्फटिकप्रतिफलितजवाकुसुममुप-
सर्पेयुः? किंवा कुसुमगतरूपमात्रं स्फटिके प्रति-
विम्बितं स्फटिकात्मना भासते? उत पद्मरागादिमणी-
प्रभयेव कुसुमप्रभया व्याप्तवात् स्फटिकोलोहितैवा
वभासते? । अथ वा तत्र व्याप्तवती प्रभैव लोहिता भाति?
आहोस्वित्तया प्रभया स्फटिके नूतनं लौहित्यमुत्पा-
दितम्! आद्ये नेत्राभिमुखं कुसुममपि प्रतीयेत ।
यदि च दोषवशान्न कुसुमेन संयोगः तर्हि लौहित्य-
मपि न भासेत तद्युक्तसभवायस्य तत्राभावात् । न
द्वितोयः क्वचिदपि द्रव्यं परित्यज्य रूपमात्रस्य प्रति-
विम्बादर्शनात् । तृतीये तु स्फटिकलौहित्ययोः सम्बन्धो-
मिथ्येति त्वयाभ्युपगतमेव स्यात् इवशब्दप्रयोगात् ।
चतुर्थे स्फटिकशौक्ल्यमपि प्रतीयेत अप्रतीतिकारणाभावात्
न च जवाप्रभया विरोधिगुणयुक्तया शौक्ल्यमपसारितं
तथासति नीरूपस्य स्फटिकस्याचाक्षुषत्वप्रसङ्गात् न हि
रूपं विहाय द्रव्यमात्रस्य चाक्षुषत्वं सम्भवति वायोरपि
तत्प्रसङ्गात् । पञ्चमेऽपि प्रभा निमित्तकारणं चेत्तदा
प्रभापगमेऽपि स्फटिके लौहित्यमवतिष्ठेत् । उपादानं
प्रभेति चेत् न मणाविव कुमुमे प्रभाया एवादर्शनात् प्रूर्वोक्त-
विकल्पदूषणानामङ्गीकारवादत्वात् तदेवं स्फटिके मिथ्या
लौहित्यं कुसुमनिमित्तमित्यङ्गीकर्त्तव्यम् । एवमात्मत्यह-
ङ्कारनिमित्तं कर्तृत्वादिकमारोप्यते” । प्रतिविम्बपक्षेऽपि
प्रतिम्बपदार्थस्य यथा मिथ्यात्वं तदपि तत्रैव निर्ण्णीतं यथा
ननु जीवस्याहङ्कारस्थप्रतिविम्बत्वे दर्पणस्थमुखप्रति-
विम्बवद्विम्बाद्भेदः स्यात् । तत्र हि ग्रीवास्थदर्पणस्थयो-
रन्योन्याभिमुखत्वेन भेदोऽनुभूयते । भैवं मदीयमिदं
मुखमित्यैक्यप्रत्यभिज्ञयाभेदानुभवस्य बाधात् । न च प्रत्य-
भिज्ञैवेतरेण बाध्येति वाच्यम् सति भेदे प्रतिविम्बास-
म्भवात् । किं प्रतिविम्बोनाम मुखलाञ्छितमुद्रा उत दर्प-
णावयवा एव विम्बस्य सन्निधिवशात्तथा परिणमन्ते ।
नाद्यः दर्पणस्थमुखस्येतरस्मादल्पत्वात् । यत्र तु प्रौढ
दर्पणे प्रौढं मुखमुपलभ्यते तत्रापि तस्य न मुद्रात्वम्
दर्पणमुखयोः संयोगाभावात् । न द्वितीयः निमित्तका-
रणस्य विम्बस्यापायेऽपि तस्यावस्थानप्रसङ्गात् न हि
तथावतिष्ठते । तेनैव पुरुषेण दर्पणे तिर्य्यङ्निरीक्षिते पुरु-
षान्तरेण सम्यगवलोकिते वा तन्मुखानुपलम्भात् । न
चैवं मन्तव्यम् क्वचिन्निमित्तापाये कार्यमप्यपैति हस्त-
संयोगजन्यस्य कटप्रसारणस्य हस्तसंयोगापायेऽपाय-
दर्शनादिति । न तत्र निमित्तापायात् कायापायः किन्तु
चिरकालसंवेष्टनाहितेन संस्कारेण संवेष्टनलक्षणविरुद्ध
कार्योत्पादनात् । अन्यथा चिरकालप्रसारणेन संवेष्टनसं
स्कारे विनाशितेऽपि हस्तापाये प्रसारणमरेयात् । न
चैवमपैति । इह तु चिरकालविम्बसन्निधावप्यन्ते विम्बा-
पाये प्रतिविम्बोऽपि गच्छत्येवेति न विम्बं परिणामस्य
निमित्तम् । अथ मन्यसे चिरकालावस्थितोऽपि कमलवि-
काशः सवितृकिरणस्य निमित्तस्यापायेऽपगच्छतीति ।
तन्न तत्रापि प्राथमिकमुकुलत्वे हेतुभिः पार्थिवैराप्यैश्च
कमलावयवैः पुनरपि रात्रौ मुकुलत्वे विरुद्धकार्ये जनिते
विकासापायात् । अन्यथा तादृगवयवरहिते म्लाने
कमलेऽपि रात्रौ विकासोऽपगच्छेत् । आदर्शे तु मुखाकार-
परिणते पुनः केन हेतुना समतलाकारपरिणामः तदवय-
वानां कारुकर्मव्यतिरेकेण अकिञ्चित्करत्वात् । अतएव
विम्बासन्निधिमात्रेण नादर्शावयवा मुखाकारेण परिणमेरन् ।
अन्यथा दर्पणद्रव्ये प्रतिमामुखे कर्त्तव्ये सति लौकिकाविम्ब-
मेव सन्निधागयेयुर्नतद्धेतुमपक्षेरन् । दर्पणद्रव्यस्यान्याकार
परिणामे कारुकर्मापेक्षायामपि प्रतिविम्बपरिणामे पुन
स्वरूपपरिणामे वा न तदपेक्षेति चेत् एवमपि न मुख-
पृष्ठ १३५४
प्रतिविम्बाकारपणिणामो युक्तिसहः चक्षुर्नासिकादि
निम्नोन्नतभावस्य स्पर्शेनानुपलम्भात् । समतलमेव हि
पाणिना स्पृंश्यते । समतलेन व्यवहितं मुखमिति चेत् ।
तर्हि चाक्षुषमपि न स्यात् । तत एतत्सिद्धम् । विमत
आदर्शोमुखव्यक्त्यन्तररहितः तज्जन्मकारणशून्यत्वात् ।
यथा विषाणजन्मकारणशून्यं विषाणरहितं शशमस्तक-
मिति । ननु तर्हि शुक्तिरजतवन्मिथ्यात्वापत्तेर्न विम्बैक-
त्वसिद्धिः प्रत्यभिज्ञा तु व्यभिचारिणी मिथ्यारजतेऽपि
मदीयमिदं रजतमिति तद्दर्शनादिति चेत् । विषमोदृ-
ष्टान्तः नेदं रजतमिति हि तत्र रजतस्वरूपबाधया
रजताभिज्ञाया भ्रमत्वे तत्प्रत्यभिज्ञाया अपि भ्रमत्वमु-
चितम् इह तु न तथा नेदं मुखमिति स्वरूपबाधः
किन्तु नात्र मुखमिति देशसम्बन्धमात्रबाधे समुत्पन्ना
मदीयमेव मुखमिति प्रत्यभिज्ञा कथं भ्रमःस्यात् । न च
स्वमुखावयवानामचाक्षुषत्वात् कथं प्रत्यभिज्ञानमिति
वाच्यम् नासाग्रादिकतिपयावयवदर्शनादपि घटादि-
वदवयविनश्चाक्षुषत्वोपपत्तेः । यः पुनर्द्दर्पणापगमे प्रतिवि-
म्बापगमः नासौ स्वरूपबाधः दर्पणेऽपि तत्प्रस-
ङ्गात् । ननु तत्त्वमसिवाक्येन जीवरूपः प्रतिविम्बो-
बाध्यते यः स्थाणुरसौपुरुष इति वद्बाधायां सामाना-
धिकरण्यात् संसार्य्यविनाशे च मोक्षानुपपत्तेः ।
मैवम् सोऽयं देवदत्त इति वदैक्यपरत्वेनापि सामाधि-
रण्यसम्भवात् विरुद्धांशबाधमात्रेण मोक्षोपपत्तेः ।
कृत्स्नस्य जीवस्य बाधे मोक्षस्यापुरुषार्थत्वात् । यस्तु
मन्यते प्रतिबिम्ब एव नास्ति, दर्पणप्रतिस्फालिता नेत्रर-
श्मयः परावृत्य विम्बमेव दर्पणादविविक्तं गृह्णन्तीति, स्पष्ट-
प्रत्यङ्मुखत्वाद्यनुभवेनैवासौ निराकरणीयः । कथं तर्हि
मूर्त्तद्रव्यस्य मुखस्यैकस्य विच्छिन्नदेशद्ववे युगपत् कात्र्स्न्येन
वृत्तिः । दर्पणदेशवृत्तेर्मायाकृतत्वादिति ब्रूमः । न हि
मायायामसम्भावनोयं नाम स्वशिरच्छेदादिकमपि स्वप्ने
माया दर्शयति । नन्वेवमेव जलमध्येऽधोमुखस्य वृक्षप्रति-
विम्बस्य तीरस्थवृक्षेणेक्ये सति तीरस्थवृक्षोऽधिष्ठानं तत्र
च मायया जलगतत्वमधोमुखत्वं चाध्यस्तमिति वक्तव्यम् ।
न चात्राध्यासहेतुरस्ति । अधिष्ठानस्य साकल्येन प्रती-
तेस्तत्कथमसावध्यासः । उच्यते । किमत्र वृक्षावरणा-
भावादध्यासाभावः? किं वा दोषाभावात् ।
उतोपादानाभावात्? आहोस्विदध्यासविरोधिनोऽधिष्ठान-
तत्त्वज्ञानस्य सद्भावात्? । नाद्यः । वैतन्यावरणस्यैवा-
ध्यासोपादानतया जडे पृथगावरणानुपयोगात् । एतेन
तृतीयोऽपि निरस्तः । न द्वितीयः । सोपाधिकभ्रमेषूपा-
धेरेव दोषत्वात् । न चतुर्थः । निरुपाधिकभ्रमस्यैवाधि-
ष्ठानतत्त्वज्ञानविरोधित्वात् । तर्हि सोपाधिकभ्रमस्य
कर्तृत्यादेर्नात्मतत्त्वज्ञानान्निवृत्तिः किन्तु अहंकारो-
पाध्यपगमादिति चेत् । वाढम् । पारमार्थिकदर्पणाद्यु
पाधेस्तत्कृतभ्रमस्य च ज्ञानादनिवृत्तावप्यज्ञानजन्योपा-
धेरहङ्कारस्य निरुपाधिकभ्रमरूपस्यात्मतत्त्वज्ञानान्निवृत्तौ
कर्तृत्वादेर्ज्ञानान्निवृत्तिरर्थात् सिध्यति” ।
परिभाषायां तु उपाधिसन्निकर्षस्थले भ्रममेवाङ्गीचकार न
तु तत्र मिथ्यत्वमिति भेदः । “तत्र सङ्केतवन्नाम सैव संज्ञेति
कीर्त्त्यते । नैमित्तिकी पारिभाषिक्यौपाधिक्यपि तद्भिदा”
इति संज्ञां त्रिधा विभज्य । “उभयावृत्तिधर्म्मेण संज्ञा
स्यात् पारिभाषिकी । औपाधिकी त्वनुगतोपाधिना या
प्रवर्त्तते” इति “यद्वाधुनिकसङ्केतशालित्वात् पारिभाषिकम् ।
जात्या नैमित्तिकं शक्तमौपाधिकमुपाधिना” । “यदुपाध्य-
वच्छिन्नशक्तिमन्नाम तदौपाधिकं यथाकाशपश्वादि” इति
च शब्दप्र० । अत्र उपाधिना शक्तेरवच्छेदकरणात् तत्कृत-
त्वम् इति बोध्यम् ।

उपाधेय त्रि० उप + आ + धा--कर्मणि यत् । १ अभिनिवेशनीये

२ आरोप्ये ३ उपाधिना विशेष्ये च । “उपाधेयसङ्करेऽपि
उपाधेरसङ्करात्” जगदी० ।

उपाध्याय पु० उपेत्याधीयतेऽस्मात् उप + अधि + इङ्--घञ् ।

“एकदेशन्तु वेदस्य वेदाङ्गान्यपि वा पुनः । योऽध्याप-
यति वृत्त्यर्थमुपाध्यायः स उच्यते” इति मनूक्तलक्षणे
वेदैकदेशतदङ्गाध्यापके । स्त्रियां ङीपि उपाध्याया
उपाध्यायीतिरूपद्वयम । उपाध्यायस्य पत्नीत्यर्थे ङीष्
आनुक् वा उपाध्यायानी “उपाध्यायानी ऋतुमती” मा०
आ० ३ अ० उपाध्यायी च । “उपाध्यायान् दशाचार्थ
आचर्याणां शतं पिता” । “आचार्यं स्वमुपाध्यायं पितरं
मातर गुरुम्” मनुः । तन्मरणे एकरात्राशौचम् “आचार्य-
पत्नोपुत्रोपाध्यायमातुलश्वशुरश्वशुर्यसहाध्यायिशिष्येष्वेक-
रात्रेण” विष्णूक्तेः ।

उपानस् त्रि० उपगतमनः शकटं पितरं वा अत्या० समा० ।

१ शकटसदृशे २ पितृसदृशे पितृव्यादौ च । जातौ अच्
समा० । उपानस शकटशदृशे मृण्मयादौ शकटे आकरे-
व्यङ्ग्यतयाऽस्य जातित्वम् । वेदे तु पुस्त्वमपि “सचायो-
रिन्द्रश्चकर्ष उपानसः” ऋ० १०, १०५, ४,
पृष्ठ १३५५

उपानह् स्त्री उप + नह--क्विप उपसर्गदीर्धः । चर्मपादुकायाम् ।

“कृतावरोहस्य हयादुपानहौ नियोद्धुकामे किमु बद्धवर्मणी”
इति नैध० अत्रोपानहोः वर्मत्वेनोत्प्रेक्षणात् तस्याः सर्वा-
ङ्गावरकत्वं गम्यते तेन लोके (मोजा) इत्यादिप्रसि-
द्धाया एव तथात्वम् एकदेशमात्रावरकत्वे तु पादुकाशब्द-
प्रयोगः । “अभ्यङ्गमञ्जनं चाक्ष्णोरुपानच्छत्रधारणम्”
“क्षेत्रं हिरण्यं गामश्वं छत्रोपनहमासनम्” मनुः छत्रो
पानहमित्यत्र समा० द्व० अच् समा० । एवमन्यशब्देन द्वन्द्वे-
ऽपि । दण्डोपानहमित्यादि “उपानहौ च वासश्च
धृतमन्यैर्न धारयेत् “खयं नोपानहौ हरेत्” “सोपात्कश्च
यद्भुङ्क्ते तद्वै रक्षांसि भुञ्जते” मनुः ।

उपानुवाक्य न० उपगतमनुवाक्याम् अत्या० स० । अनुवाक्यासदृशे वैदिके वाक्यभेदे

उपान्त पु० उपमितमन्तेन अवा० स० । १ निकटे, २ प्रान्ते च ।

“दिशामुपान्तेषु ससर्ज दृष्टिम्” “नयनोपान्तवि-
लोकितञ्च यत्” “उपान्तभागेषु च रोचनाङ्कः” कुमा० ।
“मेरोरुपान्तेष्वपि वर्त्तमानः” “उपान्तवानीरगृहाणि
दृष्ट्वा” रघुः । शय्योपान्तनिविष्टसस्मितमुखी” सा० द०
“तिरोहितोपान्तनभोदिगन्तरा” किरा० । अन्तश्च सीमाभेदः
स च दैशिकः कालिकः बुद्धिकल्पितश्च । “उपान्त्यतो
निवर्त्तेत” वृ० र० । अन्तस्य समीपम् अव्ययी० । ३ अन्त-
समीपे अव्य० ।

उपान्तिक न० उप आधिक्ये प्रा० स० । १ अत्यन्तान्तिके

अतिगिकटे “यदुपान्तिकेषु ददतीमहीरुहः” माधः “प्रसभानु-
पान्तिकनीपरेणुकीर्णम्” किरा० । ३ तद्वृत्तौ त्रि० अस्या-
रादर्थत्वात् ततः प्रातपदिकार्थे पञ्चमी “यच्च वीरं न
पश्यामि धनञ्जयमुपान्तिकात्” भा० व० अ०

उपान्तिम त्रि० उपगतमन्तिमम् अत्या० स० उपान्तशब्दात्तु

न डिमच् प्रत्ययविधौ तदन्तविध्यभावात् । १ अन्तिमीपगते
“गुण्यान्त्यमङ्क गुणकेन हन्यादुत्सारितेनैवमुपान्तिमा-
दीन्” लीला० । सामीप्ये अव्ययी० । २ अन्तिमसमीपे अव्य०

उपान्त्य त्रि० उपान्ते भवः दिगा० यत् । अन्तसमीपवर्त्तिनि

“अन्त्योपान्त्यौ त्रिभौ ज्ञेयौ फाल्गुनश्च त्रिभो मतः” म० त०
“उत्तमपदमुपान्त्यस्योपलक्षणार्थम्” सि० कौ० ।

उपाप्ति स्त्री उप + आप--क्तिन् । प्राप्तौ, “यदेतानि सर्व्वाणि

सह दुरुपापानि कैतेषामुपाप्तिरिति” शत० ब्रा० १०, १, २, ६

उपाभृत् स्त्री उप + आ--भृ--क्विप् तुक् । उपाहरणे, “स

न ऊर्ज्जामुपाभृत्यया कृपा न जर्ज्जति” ऋ० १, १०८, २ ।
“उपामृति उपाहरणे” भा० ।

उपाय पु० उप + अय--भावे घञ् । १ उपगमे । उपाय्यतेऽ-

र्थोऽनेन करणे घञ् । २ साधने, स च द्विविधः
लौकिकोऽलौकिकश्च तत्र घटादिकं प्रति दण्डादिर्लौकिक
उपायः स्वर्गं प्रति यागादिरलौकिक उपायः । “उपायेन
च यच्छक्यं तच्छक्यं न पराक्रमे” हितो० । “पुंसो-
नेष्टाभ्युपायत्वात्” कुसु० । ३ राज्ञां रिपुनिराकरणहेतुषु
सामादिषु च । “चतुर्थोपायसाध्ये तु रिपौ सान्त्व-
मपक्रिया” । “उपायमास्थितस्यापि नश्यन्त्यर्थाः
प्रमाद्यतः” माघः । “सर्व्वोपायैस्तथा कुर्य्यान्नीतिज्ञः
पृथिवीपतिः” मनुः । राज्ञां विजयोपायाश्च सामादयश्च-
त्वारः “साम भेदश्च दण्डश्च दानञ्चैव चतुष्टयम् ।
उपायाः कथि ताराज्ञां स्वार्थसम्पत्तयेध्रुवम्” इत्युक्तेः एतेषां
लक्षणानि तत्तच्छब्दे वक्ष्यन्ते । क्वचित् सप्तोपायाः पठ्य-
न्ते । “साम दानञ्च भेदश्च दण्डश्चेति चतुष्टयम् । मायो-
पेक्षेन्द्रजालञ्च सप्तोपायाः प्रकीर्त्तिताः” शृङ्गारोपायौ च
द्वौ “शृङ्गारे तु पुराविद्भिरुपायौ द्वौ प्रकीर्त्तितौ । उपायौ
द्वौ प्रयोक्तव्यौ कान्तासु सुविचक्षणैः । सामद्राने इति प्राहुः
शृङ्गाररसकोविदाः । भेदे प्रयुज्ममाने हि रसाभासस्तु
जायते । निग्रहे रसभङ्गः स्यात्तस्मात्तौ दूषितौ बुधैः”
इत्यालङ्कारिकोक्तेः । ४ प्रयुक्तधनप्राप्तिसाधगे उत्तमर्ण-
व्यापारभेदे च “यैर्यैरुपायैरर्थं स्वं प्राप्नुयादुत्तमर्ण्णिकः ।
तैस्तैरुपायैः संगृह्य दाप्रयेदधमर्ण्णिकम्” मनुः । ते
चोपायाः मनुना दर्शिता यथा “धर्म्मेण व्यवहारेण,
छलेनाचरितेन च । प्रयुक्तं साधयेदर्थं पञ्चमेन वलेन च” ।
तत्र धर्म्म उक्तो वृहस्पतिना “सुहृत्सम्बन्धिसन्दिष्टैः
साम्ना चानुगमेन च । प्रायेण वा ऋणी दाप्योधर्मएष
उदाहृतः” छलादीनि त्रीण्युक्तानि तेनैव “छद्मना
याचितञ्चार्थमानीय ऋणिकाद्धनी । अन्याहृतानि वाऽऽहृत्य
दाप्यते यत्र सोपधिः । दारपुत्रपशून् हृत्वा कृत्वा द्वारो-
पवेशनम् । यत्रार्थी दाप्यतेऽह्यर्थं तदाचरितमुच्यते । बद्ध्वा
स्वगृहमानीय ताडनाट्यैरुपक्रमैः । ऋणिकोदाप्यते यत्र
बलात्त्कारः स कीर्त्तितः” व्यवहारस्तु मनुना स्वयं
दर्शितः । “अर्थेऽपवदमानं तु कारणेन विभावितम् ।
दापयेद्धनिकस्यार्थं दण्डलेशञ्च शक्तितः” । तेन राजा-
वेदनरूपोव्यवहारः” कुल्लू० (नालिश) । मेधातिथिस्तु
निःस्वो व्यवहारेण दापयितव्यः अन्यत् कर्मोपकरणं धनं
दत्त्वा, कृषिवाणिज्यादि तेन कारयित्वा तत्रोत्पन्न धन
तस्माद्गृह्णीयादित्याह” । ५ उपक्रमे च ।
"https://sa.wikisource.org/w/index.php?title=वाचस्पत्यम्/उपलक्षण&oldid=321521" इत्यस्माद् प्रतिप्राप्तम्