पृष्ठ १३५६

उपायन न० उपाय्यते समीपे उपह्रियते उप + अय--ल्युट् ।

१ उपढौकने (भेटदेओया) “तस्योपायनयोग्यानि रत्नानि
सरितां पतिः” कुमा० कर्म्मणिल्युट् । २ उपढौकनीये
“परस्परेण विज्ञातस्तेषूपायनपाणिषु” रघुः “साधिवेश्म
निहितैरुपायनैः” माघः “प्रतीच्छन्नुपायनानि” काद० ।
भावे ल्युट् । ३ उपगमने “उपायन उषसा गोमतीनाम्”
ऋ० २, २८, २, “उपायने उपगमने” भा० । “सहो-
पायनकीर्त्त्या उवास” छा० उ० “उपायनकीर्त्त्या उपगमन
कीर्त्तनमात्रेण” शा० भा० ।

उपायिन् त्रि० उपायोऽस्त्यस्य इनि । १ साधनयुक्ते । उप +

इण--णिनि । २ उपगन्तरि । “सर्व्वान् वोत्तमेनोपायि-
त्वात्” कात्या० ३, ३, ८, “पञ्चममुत्कृष्टं सर्व्वे उपयन्ति
उपगच्छन्ति” कर्कः । “स्वस्थानान्त्येन वोपायित्वात्”
कात्या० ३, ५, १६, एकेऽधः प्राक्शायी मध्वाश्यृतुजायोपायी
कात्या० ५, २, २, १, ऋतुकालएव सवर्ण्णोपायी” कात्या०
१८, ६, २७, । उभयतः स्त्रियां ङीप् ।

उपायु त्रि० उप + इण्--उण् । उपगन्तरि । “तस्मादाह वायवः

स्थेति उपायवःस्थेत्युहैक आहुरुप हि द्वितीयोऽ-
यतीति” शत० ब्रा० १, ७, १, ३,

उपार पु० उप + ऋ--गतौ कर्म्मणि घञ् । उपागते १ समीपे ।

“अस्ति ज्यायान् कनोयस उपारे” ऋ० ७, ८६, ३,
“उपारे उपागते समीपे” भा० ।

उपारण पु० उपेत्य न रसणं यत्र पृषो० । उपेतस्यारतिस्थाने

“सुषु वा समुपारणे” ऋ० ८, ३२, २१, उपारणे व्राह्मणा
उपेत्य यस्मिन् देशे न रमन्ते सौपारणः” भा० ।

उपारत त्रि० उप + आ + रम--क्त । १ प्रतिनिवृत्ते “उपारताः

पश्चिमरात्रगोचरात्” किरा० ।

उपारम्भ उप + आ + रभ--घञ् मुम् । प्रारम्भे “सर्व्वकर्म्मो-

पारम्भे विनियोगः” सन्ध्यापद्धतिः

उपार्ज्जन न० उप + अर्ज्जि--ल्युट् । स्यत्वसम्पादकव्यापार

भेदे स च अर्ज्जनशब्दे ३६५ पृ० दर्शितः “शस्त्राणां
सरथानाञ्च कृत्वा सम्यगुपार्ज्जनम्” रामा० । ण्वुल् ।
उपार्ज्जक तत्कर्त्तरि त्रि० ।

उपालब्ध त्रि० उप + आ + लभ--क्त । तिरस्कारेण निन्दिते

उपालम्भ पु० उप + आ--लभ--घञ् मुम् च । निन्दापूर्ब्बकतिर-

स्कारे । ल्युट् । उपालम्भन तत्रार्थे त० । कर्म्मणि ण्यत् ।
उपालम्भ्य हिंसनीये, “सौर्यः पशुरुपालम्भ्यः सवनीयश्च”
साङ्ख्या० सू० । निरस्कार्य्ये तु न मुम् । उपलभ्य इत्येव ।

उपावर्त्तन न० उप + आ + वृत--ल्युट् । १ पुनरागमने प्रत्या-

वृत्तौ । “तदुपावर्त्तनशङ्कि मे मनः” रघुः । २ भूमौ लुठने च ।

उपावृत्त त्रि० उप + आ + वृत--क्त । १ श्रमापनयनाय पुनःपुनः-

र्भमिलुठितेऽश्वे, २ प्रतिनिवृत्ते च । “उपावृत्तस्य पापेभ्यो-
यश्च वासो गुणैः सह” ए० त० भविष्यपुराणम् ।

उपावृत् स्त्री उप + आ--वृत--क्विप् । १ आबर्त्तिनां समीपे

आवृत्तौ । “शतं ते सन्त्वावृतः सहस्रं त उपावृतः” यजु०
१२, ८ । “स्वस्यैवावर्त्तनमावृत् तत्समीपवर्त्तिनामाव-
र्त्तनमुपावृत्” वेददी० । २ निवृत्तौ च । उप + आ +
वृतक्तिन् । उपावृत्तिरप्युभयत्र स्त्री

उपाश्रम पु० उपमितमाश्रमेण अवा० स० । १ आश्रमसदृशे

पाशुपपतादिदीक्षादौ । “उपाश्रभानप्यपरान् पाषण्डान्
विविधानपि” भा० शा० ३५ अ० । “उपाश्रमान् पाशु-
पतपाञ्चरात्राद्युक्त दीक्षायोगान्” नीलक० । सामीप्ये
अव्य० । २ आश्रमसमीपे अव्य० ।

उपाश्रय पु० उप + आ + श्रि--पचाद्यच् । १ आश्रयकर्त्तरि

“ब्राह्मणोपाश्रयोनित्यमुत्कृष्टां जातिमश्नुते” म नुः कर्म्मणि
अच् । ३ आश्रणीये “राजर्षीणां हि सर्वेषामन्ते वनमुपा-
श्रयः” भा० आश्र० ४ अ० । “त्वं हि नस्तात! सर्वेषां
दुःखितानामुपाश्रयः” भा० व० ६११ अ० । भावे
अच् । ३ आश्रये ।

उपाश्रित त्रि० उप + आ + श्रि--कर्म्मणि क्त । यस्याश्रयो

गृहीतस्तस्मिम् “तथैवोपाश्रिता देवी बुद्धिर्बुद्धिमतांवर!”
भा० शा० ४५ अ० उपश्रितेति पाठान्तरम् । कर्त्तरि क्त ।
२ कृताश्रये त्रि० ।

उपासक त्रि० उप + आस--ण्वुल् । १ सेवके २ उपासनाकर्त्तरि

“चिन्मयस्याद्वितीयस्य निष्कलस्याशरीरिणः । उपास-
कानां सिद्ध्यर्थं ब्रह्मणोरूपकल्पना” वेदा० । ३ शूद्रे पुंस्त्री
तस्य द्विजसेवकत्वात् तथात्वम् स्त्रियां जातित्कत् ङीष् ।
हेमचन्द्रोक्ते ४ वाक्यदशाभेदे यथा वाक्यमुपक्रम्य “आचा-
राङ्गं सूत्रकृतं स्थानाङ्गं समवाययुक् । पञ्चमं भगवत्यङ्गं
ज्ञाता धर्म्मकथापि च । उपासकान्तकृदनुत्तरोपपातिका
दशाः । प्रश्नव्याकरणञ्चैव विपाकश्रुतमेव च । इत्येकादश
सोपाङ्गान्यङ्गानि द्वादश पुनः” इति । उपासनञ्च चिन्त-
नापरपरपर्य्यायमननात्मिका मानसी क्रिया । सा च
क्वचिद्गुणादिकमारोप्यप्रवर्त्तते यथा निर्गुणे ब्रह्मणि
सगुणत्वाद्यारोपेण प्रागुक्तवचने निर्गुणस्य ब्रह्मणोरूपारोपेणैव
उपासनोक्तेः अतएव “सर्वं खल्विदं ब्रह्म तज्जलान् इति
पृष्ठ १३५७
शान्त उपासीत यथाक्रतुरस्मिन् लोके भवति तथेत्य प्रेत्य
भवति स क्रतुं कुर्व्वीत” इत्युपक्रम्य “मनोमयः प्राणशरीरः”
इत्यादिना छा० उ० “उपासनायां तत्तगुणापाधयोऽ-
भिहिता निर्गुणे प्रथमं चित्तप्रवेशासम्भवेन सगुणे एव
मनोऽभिनिवेश्यम् ततो निविष्टमनसः चित्तैकाग्र्यम् ततः
उपासितेश्वरानुग्रहादेव समाधियोगसिद्ध्विः इति पात०
सू० भाष्ययोर्दर्शितम् । “ईश्वरप्रणिधानाद्वा” सू० “प्रणि-
धानाद्भक्तिविशेषादायर्जित ईश्वरस्तमनुगृह्णाति श्रभिधा-
नमात्रेण” व्यासं भा० “प्रणिघानाद्भक्तिविशेषात्
मानसाद्वाचिकात् कायिकाद्वा आवर्जित अभिमुखीभूतस्तमनु
गृह्णाति अभिध्यानमनागतेऽर्थे इच्छा, इदमस्याभिप्रेत-
मस्त्विति, तावन्मात्रेण न व्यापारान्तरेण” विव० । तादृशे-
श्वरोपासनाऽसमर्थस्य तु प्रथमं स्थूलादिभ्यो विविच्यात्मन-
इन्द्रियाद्यात्मकतया चिन्तनं कार्य्यं तच्चिन्तने च फलमुक्तं
वायुपु० । “दश मन्वन्तराणीह तिष्ठन्तीन्द्रियचिन्तकाः ।
बौद्धाः दश सहस्राणि तिष्ठन्ति विगतज्वराः । पूर्णं
शतसहस्रं तु तिष्ठन्त्यव्यक्तचिन्तकाः” विवृतञ्चै तत् पात०
भाष्यविवृतौ वाचस्पतिना “अव्यक्तमहदहङ्कारपञ्च-
तन्मात्रेष्वन्यनममात्मत्वेन प्रतिपन्नाः तदुपासनागततद्वा-
सनावासितान्तःकरणाः पिण्डपातानन्तरमव्यक्तादीनाम-
न्यतमे लीनाः” उक्ततत्तत्कालपर्य्यन्तं तिष्ठन्तीत्यर्थः ।
उपासनशब्देऽधिकं वक्ष्यते । तन्त्रोक्ता उपासकाश्च पञ्च-
विधा पञ्चदेवतोपासकत्वात् । “शाक्तः शैवोगाणपत्थः
सौरश्च वैष्णवः क्रमात् । उपासकाः पञ्चविधास्तन्त्र-
श्मस्त्रविधानतः” । पुनस्ते त्रिविधाः । “सात्विको
राजसश्चैव तामसश्चेति ते त्रिधा” । प्रकारान्तरेणापि
यथासम्मवं त्रिधा । “पशुर्वीरस्तथा दिव्य आचारभेदतस्त्रिधा”

उपासङ्ग पु० उपासजन्ते शरा अत्र उप + आ + सन्ज--आधारे

घञ् । १ तूणे । “इमे च कस्य नाराचाः सहस्रा लोमवाहिनः ।
समन्तात्कलधौताग्रा उपासङ्गे हिरण्मये” भा० वि० ४२ अ०
“एतान् सर्व्वानुपासङ्गान् क्षिप्रं वध्नीहि मे रथे” वि०
४५ अ० भावे घञ् । २ समीपासङ्गे च ।

उपासन न० उपास्यन्ते मूयःक्षिप्यन्ते शरा अत्र उप +

असविक्षेपे आधारे ल्यु । १ शरक्षेपशिक्षार्थे शराभ्यासे
अमरः । उप + आस--मावे ल्युट् । २ चिन्तने मनने ३ सेवने
च “नित्यनैमित्तिकप्रायश्चित्तोपासनेन” “उपसनानि
शाण्डिल्यविद्यादीनि” “उपासनस्य चित्तैकाग्र्यं परं प्रयोज-
जनम् अचिरादिमार्गेण ब्रह्मलोकप्राप्तिरवान्तरफलम्”
इति येदान्तसा० । “आचार्य्योपासनं शौचं स्थै-
र्य्यमात्मविनिग्रहः” इत्युपक्रम्य “एतज्ज्ञानभिति प्रोक्तमज्ञानं
यत्ततोन्यऽथा” गीतायाम् आचार्य्योपासनस्य ज्ञानसाधन-
त्वेन ज्ञानत्वमुक्तम् आचार्य्योपदेशं विना हि ज्ञाना-
नुत्पत्तिः “आचार्य्योपासनं वेदशास्त्रार्थेषु विवेकिता”
इत्युपक्रम्य “एतैरुपायैः संशुद्धः सत्वयुक्तोऽमृती भवेत्”
याज्ञ० तद्धेतुत्वमुक्तम् । “आचार्य्यमग्निकार्य्यञ्च सन्ध्यो-
पासनमेवच” मनुः । ब्रह्मण उपासनानि च वेदे नाना-
विधान्युक्तानि तत्र प्रतीकोपासनेतरेषामवान्तरफलमर्चि-
रादिमार्गेण ब्रह्मलोकप्राप्तिः । प्राप्तब्रह्मलोकस्य तत्र
श्रवणमननादिसम्भवेन क्रममुक्तिः “न स पुनरावर्त्तते” इति
श्रुतेः तत्र प्राप्तविवेकस्यैवानावृत्तिर्नान्तरापतने “तत्र
प्राप्तविवेकस्यानावृत्तिश्रुतिः” सां० सू० उक्तेः । अतएव “इमं
मानवं नावर्त्तन्ते” इति श्रुतौ इममिति इदमा विशे-
षणात् मानवान्तरे आवृत्तिरिति सूचितम् । कार्य्यब्रह्मणो-
ऽघिकारसमाप्तिपर्य्यन्तं तत्रस्थायिनस्तु तेन सहैव मोक्षः ।
“कार्य्यात्यये तदध्यक्षेण सहातः परमभिधानात्” शा० सू०
उक्तेः ब्रह्मणासह भे सर्वे सन्प्राप्ते प्रतिसञ्चरे ।
परस्यान्ते कृतात्मानः प्रविशन्ति परं पदम्” श्रुतेः । प्रतीको-
पासनायां तु नार्चिरादिना ब्रह्मलोकप्ताप्त्यादि फलम्
किन्तु तत्तच्छास्त्रेषूक्तं फलं तत्र तावत् प्रतीकोपासनं
तत्फलञ्च शा० सू० भाष्ययोः दर्शितं यथा “न
प्रतीकेन हि सः” “मनोब्रह्मेत्युपासीतेत्यध्यात्मम्” “अथा-
धिदैवतमाकाशो ब्रह्मेति” तथा “आदित्यो ब्रह्मेत्यादेशः,
“स यो नाम ब्रह्मेत्युपास्ते” इत्येबमादिषु प्रतीकोपा-
सनेषु संशयः किमेष्वप्यात्मग्रहः कर्त्तव्यो न वेति ।
किन्तावत् प्राप्तं तेष्वप्यात्मग्रह एव युक्तः कस्मात्?
ब्रह्मणः श्रुतिष्यात्मत्वेन प्रसिद्धत्वात् प्रतीकानामपि
ब्रह्मविकारत्वात् ब्रह्मत्वे सत्यात्मत्वोपपत्तेरित्मेवं प्राप्ते
ब्रूमः । न प्रतीकेष्वात्ममतिं बध्नीयात् न हि स
उपासकः प्रतीकानि तान्यात्मत्वेनाकलयेत् । यत्पुनर्ब्र-
ह्मविकारत्वात् प्रतीकानां ब्रह्मत्वं ततश्चात्मत्वमिति, तदसत्
प्रतीकाभावप्रसङ्गात् विकारस्वरूपोपमर्देन हि नामादि-
जातस्य ब्रह्मत्वमेवाश्रितं भवति खरूपोपमर्देच नामा-
दीनां कुतः प्रतीकत्वमात्मग्रहो वा । न च ब्रह्मण
आत्मत्वाद्ब्रह्मदृष्ट्युपदेशेष्वात्मदृष्टिः कल्प्या कर्तृत्वाद्य-
निराकरणात् कर्तृत्वादिसर्व्वसंसारधर्म्मनिराकरणेनं
हि ब्रह्मण आत्मत्वोपदेशनिराकरणेन चोपासनविधानं
पृष्ठ १३५८
ततश्चोपासकस्य प्रतीकैः समत्वादात्मग्रही नोपपद्यते ।
न हि रुचकस्वस्तिकयोरितरेतरात्मत्वमस्ति किन्तु सुवर्ण्णा-
त्मत्वमेव । ब्रह्मात्मत्वेनैकत्वे प्रतीकाभावप्रसङ्गमवोचामः ।
अतो न प्रतीकेष्वात्मत्वदृष्टिः क्रियते” भा० । “ब्रह्म-
दृष्टिरुत्कर्षात्” भा० । “तेष्वेवोदाहरणेष्वन्यः संशयः
किमादित्यादिदृष्टयोब्रह्मण्यध्यसितव्याः? किं वा ब्रह्म-
दृष्टिरादित्यादिष्विति? । कुतः संशयः? सामानाधिकण्ये
कारणानवधारणात् अत्र हि ब्रह्मशब्दस्यादित्यादिशब्दैः
सामानाधिकरण्यमुपलभ्यते “आदित्यो ब्रह्म” प्राणो
ब्रह्म” “विद्युद्ब्रह्म” इत्यादिसमानबिभक्तिनिर्देशात् । न
चात्राञ्जसं समानाधिकरण्यमवकल्पते अर्थान्तरवचनत्वाद्-
ब्रह्मादित्यादिशब्दानां न हि भवति गौरश्व इति
सामानाधिकरण्यम् । ननु प्रकृतिविकारभावाद्ब्रह्मा-
दित्यादीनां मृच्छरावादिवत् सामानाधिकरण्यं स्यात्
नेत्युच्यते विकारप्रविलयोह्येवं प्रकृतिसामानाधिकण्यात्
स्यात् ततश्च प्रतीकाभावप्रसङ्गमवोचाम । परमात्मवाक्य-
ञ्चेदन्तदानीं स्यात् ततश्चोपासनाधिकारोबाध्येत परिमि-
तविकारोपादानञ्च व्यर्थम । तस्माद्ब्रह्मणः “अग्निर्वैश्वा-
नरः” इत्यादिवदन्यतरत्रान्यतरदृष्ट्यध्यासे सति किंदृ-
ष्टिरध्यस्यतामिति संशयः । तत्रानियमः नियम-
कारिणः शास्त्रस्याभावादिव्येवं प्राप्तम् । अथवा
आदित्यादिदृष्टय एव ब्रह्मणि कर्त्तव्या इत्येवं प्राप्तम् एवं
ह्यादित्यादिदृष्टिभिर्ब्रह्मोपसनञ्च फलवदिति शास्त्रम-
र्य्यादा । तस्मान्न ब्रह्मदृष्टिरादित्यादिष्वित्येवं प्राप्ते ब्रूमः ।
ब्रह्मदृष्टिरेवादित्यादिषु स्यादिति । कस्मात्? उत्कर्षात्
एवमुत्कर्षेणादित्यादयोदृष्टा भवन्ति उत्कृष्टदृष्टेस्तेष्वध्या-
सात् । तथा च लौकिकीन्यायोऽनुमतो भवति ।
उत्कृष्टदृष्टिर्हि निकृष्टेऽध्यसितव्येति लौकिकोन्यायः यथा
राजदृष्टिः क्षत्तरि, सचानुगन्तव्यः विपर्य्यये प्रत्यवायप्रस-
ङ्गात् । न हि क्षत्तृदृष्टिपरिगृहीतोराजा निकर्षं
नीयमानः श्रेयसे स्यात् । ननु शास्त्रप्रामाण्यादनाशङ्क-
नीयोऽत्र प्रत्यवायप्रसङ्गः न च लौकिकेन न्यायेन
शास्त्रीया दृष्टिर्नियन्तुं युक्तेति । अत्रोच्यते निर्द्धारिते
शास्त्रार्थे एतदेवं स्यात् सन्दिग्धे तु तस्मिंस्तन्निर्ण्णयं
प्रति लौकिकोऽपि न्याय आश्रीयमाणो न विरुध्यते ।
तेन चोत्कृष्टदृष्ट्यध्यासे शास्त्रार्थेऽवधार्य्यमाणे निकृष्ट-
दृष्टिमध्यस्य प्रत्यवेयादिति श्लिष्यते । प्राथम्या-
च्चादित्यादिशब्दानां मुख्यार्थत्वमविरोधाद्ग्रहीतव्यम् ।
तैः स्वार्थवृत्तिभिरवरुद्धायां बुद्धौ पश्चादवतरतो व्रह्म-
शब्दस्य मुख्यवृत्त्या सामानाधिकरण्यासम्भवाद्ब्रह्मदृष्टि-
विधानार्थतैवावतिष्ठते । इतिपरत्वादपि ब्रह्मशब्दस्यैव
एषोऽर्थोन्याय्यः । तथा हि ब्रह्मेत्यादेशः ब्रह्मेत्युपासीत,
ब्रह्मेत्युपास्त इति च सर्व्वत्रेतिपरं ब्रह्मशब्दमुच्चारयति
शुद्धांस्त्वादित्यादिशब्दान् । ततश्च यथा शुक्तिकां रजतमिति
प्रत्येतीत्यत्र शुक्तिवचनएव शुक्तिकाशब्दः रजतशब्दस्तु
रजतप्रतीतिलक्षणार्थः प्रतीत्यैव हि केवलं रजतमिति
न तु तत्र रजतमस्ति, एवमत्राप्यादित्यादीन् ब्रह्मेति
प्रतीयादिति गम्यते । वाक्यशेषोऽपि च द्वितीयानिर्देशे-
नादित्यादीनेवोपास्तिक्रियया व्याप्यमानान् दर्शयति “स
य एतदेवंविद्वानादित्यं ब्रह्मेत्युपास्ते” “यीवाचं व्रह्मेत्यु-
पास्ते “यः सङ्कल्पं ब्रह्मेत्युपास्त” इति । यत्तूक्तं ब्रह्मो-
पासनमेवात्रादरणीयं फलवत्त्वायेति तदयुक्तं उक्तेन
न्यायेनादित्यादीनामेवोपास्यत्वस्यावगमात् । फलन्त्वतिथ्या-
द्युपासन इवादित्याद्युपासनेऽपि ब्रह्मैव दास्यति सर्वाध्यक्ष
त्वात् । वर्ण्णितञ्चैतत् “फलमत उपपत्तेरित्यत्र” । ईदृश-
ञ्चात्र ब्रह्मण उपास्यत्वं यत्प्रतीकेषु तद्दृष्ट्यध्यारोपणं
प्रतिमादिष्विव विष्ण्वादीनाम्” भा० । एवं प्रतीकोपासनं
निरूप्य तत्फलमुक्तम् तत्रैब ४ अ० ३ पादे
“अप्रतीकालम्बनान्नयतीति वादरायण उभयथाऽदोषा-
त्तत्क्रतुश्च” सू० । “स्थितमेतत् कार्य्यविषया गतिर्न परविष-
येति । इदमिदानीं सन्दिह्यते किं सर्व्वान् विकारालम्ब-
नानविशेषेणैवामानवः पुरुषः प्रापयति ब्रह्मलोकम्?
उतकांश्चिदेवेति? । किं तावत् प्राप्त सर्वेषामेवैषां विदुषाम-
न्यत्र परस्माद्ब्रह्मणोगतिःस्यात् । तथा हि
नियमः सर्व्वस्वामोत्यत्राविशेषणैवैषा विद्यान्तरेष्ववतारितेत्येव
प्राप्ते प्रत्याह । अप्रतीकालम्बनानिति । प्रतीकालम्ब-
नान् वर्जयित्वा सर्व्वानन्यान् विकारालम्बनान्नयति
ब्रह्मलोकमिति बादरायणाचार्य्योमन्यते । नह्येवमुभयथा-
भावाभ्युपगमे कश्चिद्दाषोऽस्ति । अनियमन्यायस्य प्रती-
कव्यातरिक्तेष्वप्युपासनेषूपपत्तेः । तत्क्रतुश्चास्योभयथा
भावस्य समर्थकोहेतुर्द्रष्टव्यः । योहि ब्रह्मक्रतुः स ब्राह्मणै-
श्वर्य्यमाणोदेदिति श्लिष्टतरं “यथा यथोपासवे तदेव
भवतीति” श्रुतेः । न तु प्रतीकेषु ब्रह्मक्रतुत्वमस्ति प्रतीक
प्रधानत्वादुपासनस्य । ननु अव्रह्मक्रतुमानपि ब्रह्म गच्छ-
तीति श्रूयते यथा पञ्चाग्निविद्यायां सएनान् ब्रह्म
गमयतीति” । भवत यत्रैवमाहृत्य वाद उपलभ्यते, तदभावे-
पृष्ठ १३५९
त्वौत्सर्गिकेण तत्क्रतून्यायेन ब्रह्मक्रतूनामेव तत्प्राप्ति
र्नेनरेषामिति मन्यते” भा० । “विशेषञ्च दर्शयति” सू० ।
“नामादिषु च प्रतीकोपासनादिषु पूर्व्वस्मात् पूर्ब्बन्मात्
फलविशेषमुत्तरस्मिन्नुत्तरस्मिन्नुपासने दर्शयति “यावन्ना-
म्नोगतं तत्रास्य यथाकामवारो भवति” “वाग्वाव
नाम्नोभूयसी” “यावद्वाचोगतं तत्रास्ययथाकामचारो भवति
“मनोवाव वाचोभूयः” इत्यादिना । स चायं फलविशेषः
प्रतीकतन्त्रचादुपासनानामुपपद्यते, ब्रह्मतन्त्रत्वे तु व्रह्म-
णोऽविशिष्टत्वात्कथं फलविशेषःस्यात्? । तस्मान्न प्रती-
कालम्बनानामितरैस्तुल्यफलत्वमिति” भा० ।
उपासनञ्च मानसव्यापारो यद्यपि देहव्यापारानपेक्षस्तथा
पि आसीनस्यैव तद्भवति नान्यस्य यथाह शा० सू० भाष्ययोः”
“आसीनः सम्भवात्” सू० । “कर्माङ्गसम्बन्धिषु कर्मतन्त्रत्वादा-
हृनादिचिन्तनेऽपि सम्यग्दर्शने वस्तुतन्त्रत्वात् ज्ञानस्य
इतरेषुतूपासनेपु किमनियमेन तिष्ठन्नासीनः शयानो वा प्रवर्त्ते
तेत्यनियमे न आसीन एवेति । तत्र मानसत्वादुपासनस्यानि-
यमः शरीरस्थितेरित्येवं प्राप्ते ब्रवीति आसीन एवोपासी-
तेति कुतः? सम्भवात् । उपासनं नाम समानप्रत्ययप्रवाह-
करणं न च तद्गच्छतो धावतो वा सम्भवति गत्यादीनां
चित्तविक्षेपकरत्वात् । तिष्ठतोऽपि देहधारणे व्यापृतं मनो
म सूक्ष्मवस्तुनिरीक्षणक्षमम्भवति । शयानश्चाप्यकस्मादेव
निद्रयाऽभिभूयते । आसीनस्य त्वेवंजातीयको भूयान्दोषः
सुपरिहर इति सम्भवति तस्योपासनम्” भा० । “ध्या
नाच्च” सू० “अपि च ध्यायत्यर्थ एषः यत्समानप्रत्यय
प्रवाहकरणं, ध्यायतिश्च प्रशिथिलाङ्गचेष्टेषु प्रतिष्ठितदृ-
ष्टिष्वेकविषयाक्षिप्तचित्तेषूपचर्यमाणो दृश्यते ध्यायति वको
ध्यायति प्रोषितबन्धुरिति । आसीनस्यानायासो भवति ।
तस्मादप्यासोनकर्म उपासनम्” भा० । “अचलत्वापेक्ष्य” सू० ।
“अपि च ध्यायतीव पृथिवीत्यत्र पृथिव्यादिषुचलत्वमपेक्ष्य
ध्यायतिवादो भवति तच्च लिङ्गमुपासनस्यासीनकर्मत्वे”
भा० । “स्मरन्ति च” सू० “स्मरन्त्यपि च शिष्टा
उपासनाङ्गत्वेनासनम्” “शुचौ देशे प्रतिष्ठाप्य स्थिरमासनमा-
त्मनः” इत्यादिना अतएव च पद्मकादीनामासनविशेषा-
णामुपदेशोयोगशास्त्रे” भा० । उपासनञ्चामरणात् भूयः
कर्त्तव्यमित्यपि तत्रैवोक्तम् ।
“आ प्रायणात् तत्रापि हि दृष्टम्” सू० । “आवृत्तिः सर्वो-
पासनेष्वादर्त्तव्येति स्थितमाद्येऽधिकरणे । तत्र यानि तावत्
सम्यग्दर्शनार्घान्युपासनानि तान्यवघातादिवत् कार्यपर्य-
वसानानीति ज्ञातमेवैषामावृत्तिपरिमाणंन हि सम्यग्दर्शने
कार्ये निष्पन्ने यत्नान्तरं किञ्चिच्छासितु शक्यम्
अनियोज्यब्रह्मात्मत्वप्रतोतेः शास्त्रस्य विषयत्वात् । यानि
पुनरभ्युदयफलानि तेष्वेषा चिन्ता कि कियन्तञ्चित्काणं
प्रत्ययमावर्त्योपरमेत् उत यावज्जीवमावर्त्तयेदिति । किन्ता-
वत् प्राप्तं कियन्तञ्चित्कालं प्रत्ययमभ्यस्योत्सृजेत्
आवृत्तिविशिष्टस्योप सतशब्दार्थस्य कृतत्वादित्येवं प्राप्ते
ब्रूमः । आ प्रायणादेवावर्त्तयेत् प्रत्ययम्, अन्त्यप्रत्ययवशाद
दृष्टफलप्राप्तेः । कर्माण्यपि हि जन्मान्तरोपभोग्यं
फलमारभमाणानि तदनुरूपं भावनाविज्ञानं प्रायणकाले
आक्षिपन्ति । “सविज्ञानो भवति” “सविज्ञानमेवान्ववक्रामति”
“यच्चित्तस्तेनैष प्राणमायाति प्राणस्तेजसा युक्तः सहात्मना
यथा सङ्कल्पितं लोकं नयतीति” चैवमादिश्रुतिभ्यः
तृणजलायूकानिदर्शनाच्च । प्रत्ययास्त्वेते स्वरूपावृत्तिं मुक्त्वा
किमन्यत् प्रायणकाले भावनाविज्ञानमपेक्षेरन् । तस्माद्ये
प्रतिपत्तव्यफलभावनात्मकाः प्रत्ययास्तेष्वा प्रायणादावृत्तिः ।
तथा च श्रुतिः “स यावत्क्रतुरयमस्माल्लोकात् प्रैतीति”
प्रायणकालेऽपि प्रत्ययानुवृत्तिं दर्शयति । स्मृतिरपि “यं
यं चापि स्मरन् भावं त्यजत्यन्ते कलेवरम् । तं तमेवैति
कौन्तेय! सदा तद्भावभावितः” इति “प्रयाणकाले मनसा-
ऽचलेनेति” च । सोऽन्तवेलायामेतत् त्रयं प्रतिपद्येतेति”
च मरणवेकायां कर्त्तव्यशेषं श्रावयति” भा० । प्रतीकभि-
न्नेषु उपासनेषु अर्चिरादिमार्गेण ब्रह्मलोकावाप्तिः फलम् ।
“अर्चिरादिना तत्प्रथितेः” शा० सू० भाष्ययोरुक्तम्
तच्च अर्च्चिरादिमार्गशब्दे आतिवाहिकशब्दे च उक्तम् ।
युच् उपासनाप्यत्र स्त्री । “न्यायचर्च्चेयमीशस्य मनमव्यप-
देशभाक् । उपासनैव क्रियते श्रवणानन्तरागता” कुमु०
सेवने च “उपासनामेत्य पितुः स्म सृज्यते” नैष० । शाण्डि-
ल्योक्ता भक्तिरूपोपासना भक्तिशब्दे वक्ष्यते ।

उपासा स्त्री उप + आस भावे अ । उपासने “उपासासिद्धश्य

प्रसंशामात्रम्” सां० सू०

उपासादित त्रि० उप + आ + सद--णिच्--कर्मणि क्त । १ प्राप्ते

भावे क्त । २ प्राप्तौ ततः तत्कृतमनेन इष्ठा० इनि उपासा-
दितिन् कृतलाभे स्त्रियां ङीप् ।

उपासित त्रि० उप + आस--सेवनार्थत्वात् कर्मणि क्त ।

कृतोपासने यस्योपासनं कृतं तस्मिन् देवादौ ।

उपास्ति स्त्री उप + आस--क्तिन् स्त्रीप्रत्ययत्वेऽपि बा० युच् अ वा न

क्तिनोबाधकः । उपासनायाम् “स्वर्गापवर्गयोर्मार्गमामनन्ति-
मनीषिणः । यदुपास्तिमसावत्र परमात्मानिरूप्यते” कुसु० ।
पृष्ठ १३६०

उपास्त्र न० उपगतमस्त्रम् उपकरणत्वेन अत्या० स० । अस्त्रो-

पकरणे तूंणादौ” । “राजानौ नीतिमार्गरतौ अस्त्रोपास्त्र-
कृतिनौ भा० व० १९६ अ० ।

उपास्य त्रि० उप + आस--सेवनार्थत्वात् कर्मणि ण्यत् । १

सेवनीये २ चिन्तनीये “पुत्रवच्च ततो रक्ष्या उपास्या गुरवच्च ते”
भा० अनु० ८ अ० “गङ्गा सदैवात्मवशैरुपास्या” भा० अनु०
२६ अ० उप + आस--ल्यप् । ३ सेवयित्वेत्यर्थे ४ चिन्तयि-
त्वेत्यर्थे च अव्य० । ४ उपास्य सन्ध्यां विधिवत्” स्मृतिः ।

उपाहित पु० उप आसन्नमहितं यतः । १ उल्कापातादौ अग्न्यु-

त्पातरूपे उपद्रवे उप + आ--धा--क्त । २ आरोपिते, त्रि०

उपेक्ष पु० गान्दिनीसुते अक्रूरभातृभेदे । “अक्रूरः सुषुवे तस्मात्

श्वफल्कात् भूरिदक्षिणः । उपमद्गुस्तथा मद्गुर्मुदर-
श्चारिमेजयः । अविक्षिपस्तथोपेक्षः शत्रुघ्नोऽथारिमर्द्दनः”
हार० ३५ तत्रैव ३९ अध्याये च गान्दिनीसुतत्वमस्योक्तम्

उपेक्षक त्रि० उप + ईक्ष--ण्वुल् । उपेक्षाकारके योगिनि

“उपेक्षकोऽसङ्गसुको मुनिर्भावसमन्वितः” मनुः “दृष्टा मयेत्यु-
पेक्षक एको दृष्टाहमित्युपरता त्वन्या” सां० का०

उपेक्षण न० उप + ईक्ष--भावे ल्युट् । १ त्यागे २ औदासीन्ये च

३ राज्ञां सप्तविधोपायान्तर्गते उपायभेदे “साम्ना दानेन
भेदेन दण्डेनोपेक्षणेन च” भा० व० १५० । उपेक्षणस्य
यथोपायत्वं तथा उपायशब्दे उक्तम् ।

उपेक्षणीय त्रि० उप + ईक्ष--अनीयर् । १ त्याज्ये २ प्रतीकारार्थ-

मनालोचनीये च “नश्यत् पुरस्तादनुपेक्षणीयम्” रघुः ।

उपेक्षा स्त्री उप + ईक्ष--अ । १ त्यागे इदं न मम स्यादिति

इच्छाभेदे ३ औदासीन्ये ४ अनपेक्षणे च । उपेक्षा च
परस्वत्वानभिसन्धानापूर्बकस्वत्वप्रागभावासमानकालीनस्वत्वावि-
षयकेच्छा । उपेक्षायाः स्वत्वनाशकत्वम् स्मृतौ व्यव-
स्थापितम् “उपेक्षानात्मक स्तत्र निश्चयः कारणं भवेत्”
भाषोक्ते ५ इदमुपादेयं न भवतीत्याकारकज्ञानभेदे
च “कुर्यामुपेक्षां हतजीपितेऽस्मिन्” रघुः । ६ योगशास्त्रोक्ते
चित्तप्रसादनार्थभावनाचतुष्टयान्तर्गते भावनाभेदे । “मैत्री-
करणामुदितोपेक्षाणां सुखदुःस्वपुण्यापुण्यविषयाणां
भावनातश्चित्तप्रसादनम्” पात० सू०

उपेत त्रि० उप + इण--क्त । १ उपगते २ समीपगते सेवादिधर्मेण

३ प्राप्ते ४ उपनीते च । “यं प्रव्रजन्तमनुपेतमपेतकृत्यम्”
भा० १ स्क० । “न स्त्री जुहुयान्नानुपेतः” स्मृतिः ।
“अतुपेतः अनुपनीतः” म० त० रघु० । गर्भाधानार्थं ५ स्त्रिय-
मुगते च “गर्भाधानमुपेतो ब्रह्मगर्भं सन्दधाति” हारीतः
“उपेतः स्त्रियमुपगतः” सं० त० रघुनन्दनः ।

उपेन्द्र पु० उपगत इन्द्रम् अनुजत्वात् अत्या० स० । १ विष्णौ ।

स हि कश्यपात् अदितौ इन्द्रादनन्तरं वामनरूपतया
संजातः इति तस्य तथात्वम् । “उपेन्द्रो वामनः
प्रांशुः” विष्णुस० । अत्र भाष्ये अन्यापि निरुक्तिर्दर्शिता
यथा । “ममोपरि यथेन्द्रस्त्वं स्थापितोगोभिरीश्वरः ।
उपेन्द्र इति कृष्ण! त्वां गास्यन्ति दिवि देवताः” इति
हरिवंशवचनात् उपरि इन्द्रः उपेन्द्रः” इति । अत्र वासुदेवस्यैव
यथोपेन्द्रनामता, तथा गोवर्द्धनोद्धारणेन गोषु रक्षितासु
तत्प्रीतये गोभिस्तस्य सर्वोपरिलीकस्थितत्वेन उपेन्द्रनामत-
याऽभिषेकः कृत इति वर्ण्णितं हरिवं० ७६ अ० यथा ।
“अपामधस्ताल्लोकोऽयं तस्योपरि महीधराः । नागानामुप-
रिष्टाद्भूः पृथिव्युपरि मानुषाः । मनुष्यलोकादूर्द्ध्वं तु
खगानां गतिरुच्यते । आकाशस्योपरि रविर्द्वारं स्वर्गस्य
भानुमान् । देवलोकः परस्तस्माद्विमानगमनो महान् ।
यत्राहं कृष्ण! देवानामैन्द्रे विनिहितः पदे । स्वर्गादूर्द्ध्वं
ब्रह्मलोको महर्षिगणपूजितः । तत्र सोमगतिश्चैव ज्योति-
षाञ्च महात्मनाम् । तस्योपरि गवां लोकः सिद्धास्तं
पालयन्ति हि । स हि सर्वगतः कृष्ण! महाकाशगतो
महान् । उपर्युपरि तत्रापि गतिस्तव तपोमयी । यां न
विद्म वयं सर्वे पृच्छन्तोऽपि पितामहम् । लोकास्त्वधो
दुष्कृतिनां नागलोकस्तु दारुणः । पृथिवी कर्मशीलानां
क्षेत्रं सर्वस्य कर्मणः । खमस्थिराणां विषयो वायुना
तुल्यवर्त्तिनाम् । गतिः शमदमाढ्यानां स्वर्गः सुकृतकर्म-
णाम् । ब्राह्मे तपसि युक्तानां ब्रह्मलोकः परा गतिः ।
गवामेव तु गोलोको दुरारोहा हि सा गतिः । स तु
लोकस्त्वया कृष्ण! सीदमानः कृपात्मना । धृतो धृतिमता
वीर! निघ्नतोपद्रवं गवाम् । तदहं समनुप्राप्तो गवां
वाक्येन नोदितः । ब्रह्मणश्च महाभाग । गौरवात्तव चानघ! ।
अहं भूतपतिः कृष्ण! देवराजः पुरन्दरः । अदितेर्गर्भप-
र्याये पूर्ब्बजस्ते पुरातनः । तेजस्तेजस्विनश्चैव यत्ते
दर्शितवानहम् । मेघरूपेण तत्सर्वं क्षन्तुमर्हसि मे विभो! ।
एवं क्षान्तमनाः कृष्ण! स्येन सौम्येन तेजसा । ब्रह्मणः
शृणु मे वाक्यं गवाञ्च गजविक्रम! । आह त्वां भगवान्
ब्रह्मा गावश्चाकाशगा दिवि । कर्मभिस्तोषिता दिव्यैस्तव
संरक्षणादिभिः । भवता रक्षिता लोका गोलोकश्च
महानयम् । तद्वयं पुङ्गवैः सार्द्धं वर्द्ध्वामः प्रसवैस्तथा । कर्ष-
पृष्ठ १३६१
कान् पुङ्गवैर्वाह्यैर्म्मेध्येन हविषा सुरान् । श्रियं शकृत्-
प्रवृत्तेन तर्पयिष्यामः कामदाः । तदस्माकं गुरुस्त्वं
हि प्राणदश्च महाबल! । अद्यप्रभृति नो राजा त्वमिन्द्रो
वै भव प्रभो! । तस्मात्त्वं काञ्चमैः पूर्णैर्द्दिव्यस्य पयसो घटैः ।
एभिरद्याभिषिच्यस्व मया हस्तावनामितैः । अहं किलेन्द्रो
देवानां त्वङ्गवामिन्द्रताङ्गतः । गोविन्द इति लोकास्त्वां
स्ताष्यन्ति भुवि शाश्वतम् । ममोपरि यथेन्द्रस्त्वं स्थापितो
गोमिरोश्वरः । उपेन्द्र इति कृष्ण! त्वां गास्यन्ति दिवि
देवताः” ।
“ततः शक्रस्तु तान् गृह्य घटान् दिव्यपयोधरान् ।
अभिषेकेन गोविन्दं योजयामास योगवित् । दृष्ट्वाऽभिभिच्य-
मानं तं गावस्ताः सह यूथपैः । स्तनैः प्रस्रवसंयुक्तैः
सिषिचुः कृष्णमव्ययम् । मेघाश्च दिवि मुक्ताभिः
सामृताभिः समन्ततः । सिषिचुस्तोयधाराभिः सिच्यमानं
तमव्ययम् । वनस्पतीनां सर्वेषां सुस्रावेन्दनिमं पयः ।
ववर्ष पुष्पवर्षञ्च नेदुस्तूर्थाणि चाम्बरे । स्तुवन्ति मुनयः
सर्वेबाग्भिर्मन्त्रपरायणाः । एकार्णवविविक्तञ्च दधार
वसुधा वपुः । प्रसादं सागरा जग्मुर्तवुर्वाता जगद्धिताः ।
मार्गस्थो विबभौ भानुः सोमो नक्षत्रसंयुतः । ईतयः प्रशमं
जग्मुर्जग्मुर्निवैर्रतां नृपाः । प्रवालपत्रशवलाः पुष्प-
वन्तश्च पादपाः । मदं प्रसुस्नुवुर्नागा यातास्तोषं वने
मृगाः । अलङ्कृता नात्ररुहैर्धातुभिर्भान्ति पर्वताः ।
देवलोकोपमो लोकस्तृप्तोऽमृतरसैरिव । आसीत् कृष्णाभि-
षेके हि दिव्यः स्वर्गरसोक्षितः । अभिषिक्तन्तु तं गोभिः
शक्रो गोविन्दमव्ययम् । दिव्यमाल्याम्बरधरं देवदेवोऽब्र-
वीदिदम् । एष ते प्रथमः कृष्ण! नियोगो गोषु यः कृतः” ।
तत्रैव १७ अ० । “शक्रस्तु स्वयमागत्य दैवतैः सह वृत्रहा ।
अभिषिच्याब्रवीत् कृष्णमुपेन्द्रेति शचीपतिः” । वासुदेवस्यै-
वेन्द्रेण उपेन्द्रनान्त्राऽभिषेकः कृतः इत्युक्तम् । भा० ८ स्क० ३३
अ० तु वामनस्यैव तन्नामतोक्ता यथा वामनेन बलेर्दमनान-
न्तरम् । “कश्यपस्यादितेः प्रीत्यै सर्व्वभूतभवाय च ।
लोकानां लोकपालानामकरोत् वामनं पतिम् । वेदानां
सर्वदेवानां धर्मस्य यशसां श्रियः । मङ्गलानां व्रतानाञ्च
कल्पं स्वर्गापवर्गयोः । उपेन्द्रं कल्पयाञ्चक्रे इति सर्व-
विभूतये इति” “प्राप्य त्रिभुवनञ्चेन्द्र उपेन्द्रभुजपालितः”
इति तत्रैव । वामनस्य उपेन्द्रत्वमिन्द्रानुजातत्वात् वासु-
देवस्य तु पूर्दोक्तप्रकारेण तन्नामता उभयोरेव एक
परमेश्वरांशत्वान्न विरोधः । “तदिन्द्रसन्दिकृष्टसुपेन्द्र!
यद्वचः” माघे नारदस्य वासुदेवसम्बोधनतया प्रयोगः ।

उपेन्द्रवज्रा स्त्री “उपेन्द्रवज्रा जतजास्ततो गौ” इति वृ० र०

उक्ते एकादशाक्षरपादके छन्दोभेदे । अस्याश्च इन्द्रवज्रया
संमेलने यथोपजातित्वं तथा इन्द्रवज्राशब्दे दर्शितम् ।

उपेय त्रि० उप + इण्--यत् । १ उपायसाध्ये, २ प्राप्तव्ये च ।

२ उपगम्ये “उपेतारमुपेयञ्च सर्वोपायाश्च कृत्स्नशः” मनुः
“ज्ञातित्वेनानुपेयास्ताः” मनुः । ३ अन्विष्य गम्ये “भूधरस्थि-
रमुपेयमागतम्” माघः । “उपेयमन्विष्य गम्यम्” मल्लि०

उपेयिवस् त्रि० उप + इण--क्वमु लोकेऽपि नि० । उपगते

“पश्चाद्भेदमुपेयुषे” कुमा० “उपेयिवांसि कर्त्तारः पुरीमाजात
शात्रवीम् । राजन्यकानि” “उपेयुषोमोक्षपथं मनस्विनः”
माघः । स्त्रियां ङीपि उपेयुषी ।

उपोढ त्रि० उप + वह--क्त । सन्निवेशविशेषयुक्ते १ व्यूढे सैन्ये

२ निकटे, “तदुपोढैश्च नभश्चरैः पृषत्कः” किरा० तं “वराह-
मुपोढैः प्रत्यासन्नैः” मल्लि० । ३ ऊढे कृतविवाहे च ।
भावे क्त । सैन्यविन्थासभेदे व्यूहे न० ।

उपोत त्रि० उप + वेञ् क्त । उपस्यूते । गौरा० ङीष् । पूति-

कायां स्त्री शब्दरत्ना०

उपोत्तम त्रि० उपगतमुत्तमम् अव्यधानेन अत्या० स० ।

उपान्तिमे अन्त्यात् पूर्ब्बतने । “गुरूपोत्तमयोः ष्यङ्
गोत्रे” । “योपधाद्गुरूपोत्तमाद्वुञ्” “झल्युपोत्तमम्”
“उपोत्तमं रिति” पा०

उपोदक पु० उपगतमुदकम् अत्या० स० । उदकसमीपस्थे ।

“प्रजापतौ त्वा देवतायामुपोदके” यजु० ३५, ६, “अयं वै
लोक उपोदकस्तदेनं प्रजापतौ देवतायागुपोदके लोके
निदधाति” शत० ब्रा० १३, ८, ३, ३, सामीप्ये अव्ययी० ।
२ उदकसमीपे अव्ययम् ।

उपोदकी स्त्री उपगतमुदकमत्र गौरा० ङीष् । पूतिकायाम्

(पुइशाक) । राजनि० । “द्वादस्यां पारणं कुर्य्याद्
वर्ज्जयित्वाप्युपोदकीम्” ऐ० त० कूर्म्मपुराणम् ।

उपोदिका स्त्री उपाधिकमुदकं यत्र उदादेशः संज्ञायां कन्

अतैत्त्वम् । पूतिकाशाके अमरः तत्पाकादि प्रकारगुणादि
वैद्यके उक्तम् । “एकाहं षड्रमोपेता किमन्यैर्व्यञ्जनान्तरैः ।
तण्डुलैरानतव्याजैर्हसत्येषा उपोदिका । वटपत्रवच्छुभ-
पत्रिका परितप्ततैलसुपाचिता । नवहिङ्गुवासमुवासिता
परिभोक्तृचित्तसुविकाशिका । सुतप्तवतैलविपाचिता
सुघनाम्लतक्रसुपाचिता । सूपोदिकाज्यभर्ज्जिता भोक्तु-
राशु रसनाग्रनर्त्तकी । पोदिका शीतला बल्या श्लेष्मला
पृष्ठ १३६२
वातपित्तहा । पथ्यात्र दोषशमनी निद्रापुष्टिकरी मता”
उपाधिकमुदकं यत्र उदादेशः गौरा० ङीष् स्वार्थे कन्
वा ह्रस्यः । उपोदीकाप्यत्र स्त्री

उपोद्ग्रह पु० उप + उद् + ग्रह--अप् । ज्ञाने । “तस्याह

मुखमुपोद्गृह्णन्निति” छा० उ० । “उपोद्पूर्वकग्रहेः ज्ञानार्थ
त्वदर्शनात् तथार्थत्वम् ।

उपोद्धातः पु० समीपवर्त्तिनः प्रकृतस्य उद्घातः उद्धननम्

ज्ञानं चिन्तनम् यत्र । उप + उद्--हन--गतौ गत्यर्थत्वात्
ज्ञानार्थता आधारे घञ् । १ प्रकृतसिद्ध्यर्थमालोचनात्मके
सङ्गतिप्रभेदे । “चिन्तां प्रकृतसद्ध्यर्थामुपोद्घातं विदुर्बुधाः”
अवसरशब्दे विवृतिः । २ तदर्थवर्णने च । लक्षणोपोद्घातेन
विशिष्टज्ञानस्य, कारणत्वं व्यवस्थापयति” दीधि० ३ प्रारम्भे च

उपोद्वलन न० उप + उ + द्वल--ल्युट् । उद्दीपने उत्तेजने ।

उपोषण न० उप + उष--ल्युट् । उपवासे अहोरात्राभोजने ।

“प्राप्ते श्रीरामनवमीदिने मर्त्योविमूढधीः । उपोषणं न
कुरुते कुम्भीपाके महीयते” । “उपोषणं नवम्याञ्च
दशन्यामेव पारणम्” ति० त० अगस्त्यसं० । उपवास-
शब्दे विवृतिः । उपवासस्य उपदाहसाधनत्वात् तथात्वम् ।

उपोषित न० उप + वास + भावे--क्त । १ उपवासे । “नास्ति

स्त्रीणां पृथग्यज्ञः न व्रतंनाप्युपोषितम्” मनुः । कर्त्तरि
क्त । २ उपवासकर्त्तरि त्रि० । “उपोषितो द्वितीयेऽह्नि
पूजयेत् पुनरेव ताम्” दुर्ग० त० पु० ।

उपोष्य त्रि० उप + वस--अकर्मकषातुयोगे कालस्य कर्मसंज्ञा

विधानात् कर्मणि बा० क्यप् । १ उपवासेन यापनीये
तिथ्यादौ । “त्रिसन्ध्यव्यापिनी या तु सैवोपोष्या
सदा तिथिः” कालमा० पु० । उप + वस--ल्यप् । २ उपवासं
कृत्वेत्यर्थे अव्य० ।

उप्त त्रि० वप--क्त । १ कृतवापे धान्यादौ अधिकरणे क्त । २ उप्त-

धान्यादौ क्षेत्रे । “सर्व्वं क्षणेन तदभूदसदीश! रिक्तं मस्मन्
हुतं कुहकराद्धमिवोप्तमूष्याम्” भाग० । ३ मुण्डिते
च । “पर्य्युप्तशिरसमिति” पार० सू० । परिसर्व्वतोभावेन
उप्तशिरसम् मुण्डितशिरसम्” हरिनाथः । भावे क्तिन् ।
उप्ति वपने स्त्री “वौजानामुप्तिविच्च स्यात्” मनुः ।

उप्तकृष्ट त्रि० पूर्व्वमुप्तं पश्चात् कृष्टं पूर्ब्बकालेत्यादिना स० ।

वीजवपनानन्तरं कृष्टे क्षेत्रे (वीजाकृते क्षेत्रे) । (काड़ान)

उप्त्रिम त्रि० बव + क्ति मप् च । वपनजाते ।

उप्य त्रि० वप--बा० कर्मणि क्यप् । वपनोये ब्रीह्यादौ

“दोक्षितश्चेदुपतप्येतोप्यानां येनेच्छेत् चिकित्सेत्” आत्या०
२५, १३, २० । “उप्यानां व्रीहियवादीनाम्” कर्कः ।

उब्ज आर्जवे तुदा० पर० अक० सेट् । उब्जति औब्जीत् ।

णिचि उब्जयति ते औब्जिजत् त । “इन्द्राग्नीरक्ष उब्ज-
तम्” ऋ० १, २१, ५ । “उब्जन्तु तं सुभ्वः पर्व्वतासः”
६, ५ २, १ । घञ् नि० वस्य दः समुद्गः अभ्युद्गः । नि + उब्ज
(उलटान) उत्तानस्यावतानकरणे न्युब्जति उत्तानं
वस्तु अवतानं करोतीत्यर्थः ।

उब्जक त्रि० उब्ज--ण्वुल् । आर्ज्जवयुक्ते । ततः तिका०

फिञ् औब्जायनि तदपत्ये पुंस्त्री । तिककतवादित्वात्
गोत्रप्रत्ययस्य बहुषु द्वन्द्वे दुक् । उब्जककुभाः ।

उभ(म्भ) पूर्त्तौ तुदा० प० सक० सेट् । उभति औभीत् ।

उवोभ । उम्भति उम्भीत् अयं मुचादिरिति कविकल्प
तन्मते औम्भत्” मोपधत्वात् नोपधालोपः उम्भाम् बभूव
आस चकार । वेदे गणव्यत्ययः उनप्ति उम्राति “दृढ़ा-
न्यौम्नादुशमानओजः” ऋ० ४, १९, ४ । “दृध्रमुब्धं
गा ये मानम् परिबन्तमद्रिम्” ऋ० ४, १, १५ । “सर्व्वमर्म्मसु
काकुत्स्थमौम्भत्तीक्ष्मैः शिलीमुखैः” भट्टिः । पा० मते
लुङि रूपम् । अन्यमते लुङि रूपम् ।

उभ त्रि० द्वि० । उङगतौ--भक् । उभ--पूर्त्तौ क वा । द्वित्ववि-

शिष्टे एकत्वापेक्षाबुद्ध्या प्रथमं द्वित्वस्यैव जननेन द्वित्व-
स्यैकत्वेन ज्ञानद्वारा गम्यमानत्वात् पूर्य्यसाणत्वाद्वोपचारात्
तथात्वम् । “उभौ यदि व्योम्नि पृथक् पतेताम्” माघः ।
“उभावपि हि तौ धर्म्म्यौ सम्यगुक्तौ मनीमिभिः” “ब्रह्मणा
श्रवणावुभौ” “आचम्य प्रयतोनित्यमुभे सन्त्ये समाहितः”
मनुः । ततः वृत्तिमात्रे नित्यम् अयच् । “उभयपक्ष-
विनीतनिद्राः” रघुः । उभयविधः, उभयथा उभयतः
उभयत्र । अस्य सर्वादि० सर्व्वनामकार्यम् तेनास्य द्विपना-
न्तत्वेन अन्यकार्य्याभावेऽपि टेरकच् । उभकौ भायच् ।
स्वार्थे तद्धितकनि तु अयच्प्रसङ्गः । ततः प्रथमापञ्चमी
सप्तम्यर्थे तसिल् अयच् । उभयतस् । द्वाभ्यां द्वावित्यर्थे
द्वयोरित्यर्थे च अव्य० “तञ्ज्ञः पुनात्युभयतः पुरुषा-
नेकविंशतिम्” याज्ञ० । “शक्तिं चोभयतस्त्रीक्ष्णामायसं
दण्डमेव वा” । “ओषध्यः फलपाकान्ता बहुपुष्पफलोपगाः ।
अपुष्पाः फलवन्तीये ते वनस्पतयः स्मृताः । वृथिणः
फलिनश्चैव वृक्षास्तूभयतः स्मृताः” मनुः । प्रकारे
थाल् अयच् । उभयथा द्विप्रकारार्थे अव्य० ।
“नेव नः प्रियतमोभयथासौ यद्युत्ते वा”
नैष० । “विनाशे नाशे वा तव सति वियोगोऽस्युभवथ”
पृष्ठ १३६३
प्रषो० । सप्तम्यर्थे त्रल् अयच् । उभयत्र द्वयोरित्यर्थे अव्य०
“उभयत्रचरीं मुनोन्द्राः” जातकप० “द्वौ दैवे पितृकार्य्ये
त्रीनेकैकमुभयत्र वा” छन्दो० । अह्नि द्युस एद्युस्
वाअयच् । उभयद्युस् उभयेद्युस् च द्वयोरह्नोरित्यर्थे
अव्य० । “यो अन्येद्युरुभयद्युरभ्येति” अथ० १, २५, ४ ।
“उभयेद्युस्तथा प्राप्तौ परोपोष्या मनोषिभिः” स्मृतिः ।

उभय त्रि० उभ + अयच् । द्व्यवयवे द्वित्वविशिष्टे अस्य द्वित्वबोध-

कत्वेऽपि एकबहुवचनान्ततयैव प्रयोगः न द्विवचनप्रयोगः ।
सि० कौ० । “उभयमानशिरे वसुधाधिपाः” रघुः । सर्वादि०
सर्वनामकार्य्यम् । उभयस्मै उभयेषाम्! “अथा न
उभयेषाममृत मर्त्यानाम्” ऋ० १, २६, ९ । जसि वा शी ।
उभये उभयाः । “परेऽबर उभया अमित्राः” ऋ० २, १२,
१८ । “ये जना उभये भुञ्जते विशः” २, २४, १० ।
“किं तत्साध्यं यदुभये साधयेयुर्न सङ्गताः” रघुः ।
स्त्रियां गौरा० ङीष् । “उभयीं सिद्धिमुभाववापतुः” रघुः ।

उभय(त्र)चर पुंस्त्री० उभयत्र उभयोर्वा चरति चर--ट १ भूम्य-

न्तरिक्षचरे पक्षिभेदे स्त्रियां ङीप् । सूर्य्याक्रान्तराशेर्द्वा-
दशद्वितीयस्थग्रहयोगभेदे स्त्री “सूर्य्याद्व्ययेऽपि च धने च
तथोभयत्र संस्थैर्विना विधुमुशन्ति खगैस्तु योगान् ।
येणीं च वोशिमुभयत्रचरीं गुनीन्द्राः स्पष्टं फलानि विवि-
घानि वदन्ति तेषाम्” “समो राज्ञोभयचरीप्रभवो
बहुभृत्यभाक्” जातकपद्धतिः ।

उभयतोदत्(न्त) पुंस्त्री उभयतोदन्तः दन्तपङ्क्तिरस्य वा

दत्रादेशः । उभयदन्तपङ्क्तियुक्ते मनुष्यादौ । “पशून् मृगान्
मनुष्यांश्च व्यालांश्चोभयतोदतः” मनुः । स्त्रियां ङीप् ।
दत्रादेशाभावपक्षे तत्रैवार्थे स्त्रियां वा ङीष् । “उभयतो-
दन्ताः प्रजाः प्रजायन्ते” शत० ब्रा० १, ६, ३, ३,

उभयतोमुख त्रि० उभयतो मुखे यस्य । द्विमुखे गृहादौ

“उभयतोसुखाम्यां पात्राभ्याम्” शत० ब्रा० ४, ७, १, ७,
स्त्रियां स्वाङ्गत्वाभावे टाप् स्वाङ्गे तु ङीष् । उभयतो-
मुखी धेनुः । “सवत्सा रोमतुल्यानि युगान्युभयतोमुखी ।
दातास्याः स्वर्गमाप्नोति पूर्ण्णेन विधिना ददत् । यावद्वत्-
सस्य पादौ द्वौ मुखं योनौ च दृश्यते । तावत् गौः पृथिवो
ज्ञेया यावद्गर्भं न मुञ्चति” याज्ञ० उक्तो धेनुभेदः ।
अन्यत्र इयमेव उत्क्रान्तिसंज्ञयोक्ता । “उत्क्रान्ते तु प्रवृ-
त्तस्य सुखोत्क्रान्तिसमृद्धये । तुभ्यं संप्रददे नाम्ना गावमुत्
क्रान्तिसंज्ञिताम्” विधा० पा० तद्दानमन्त्रः ।

उभयतश्शीर्ष्णी स्त्री उभयतः शीर्षे यस्याः शीर्षन्नादेशः

ङीष् अल्लोपः विसर्गस्य वा शः । उभयतःशोर्षतुल्यप्राय-
णीयादियुक्तायां गवि “अदितिरस्युभयतशशीर्ष्णी” यजु०
४, १९, “उभयतः शीर्षे यस्याः ज्योतिष्टोमस्याद्यन्तयोः
प्रायणीयोदयनीययोः शीषत्वम् “द्वे शीर्षे प्रायणायोदय-
नीये” यास्कोक्तेः वेददी० ।

उभयवेतन पु० उभयोः भेद्ये स्यामिनि च वेतनं यस्य अयच् ।

दूतभेदे यो हि स्वामिसकाशात् प्रच्छन्नां भृतिं गृहीत्वा
तद्भेद्यशत्रुसकाशे तदीयदासत्वेनात्मानं ख्यापयित्वा
तत्सकाशात् भृतिं गृह्णन्नपि पूर्वस्वामिनोगृहोतभृतिनि-
ष्क्रयार्थमुत्तरस्य सचिवादिभेदं जनयति स उभयवेतन
इत्युच्यते । “अज्ञातदोषैर्दोषज्ञैरुद्दूष्योभयवैतनैः । भेद्याः
शत्रोरभिव्यक्तशासनैः सामवायिकाः” माघः । तादृशदू-
ताश्च मुद्राराक्षसे चाणख्यप्रेषिता वहवो वर्णिताः ते च
मलयकेतोः प्रधानसचिवादीन् राक्षसादीन् ततो विभिद्य
चाणक्यकार्य्यं साधितवन्तः तच्च तत एवावसेय विस्तरभया-
न्नोक्तम् ।

उभयादन्ति अव्य० उभौ दन्तौ प्रहरणं यत्र युद्धे द्विदण्ड्या०

इच् समा० अयच् । उभयदन्तसाध्ये युद्धे एवम् उभयाञ्जलि
उभयाबाहु उभयाहस्ति उभयाकर्णि इत्यादयोऽपि नि०
साध्याः तत्तत्साधनयुद्धे । उभाहस्ति उभाकर्ण्णि
उभाबाहु उभादन्ति इत्यादयः नि० साध्याः तत्र नायच् ।
तेऽपि तत्तदर्थेषु ।

उम् अव्य० उ--बा० डुमि । १ रोषे, २ स्वीकारे, ३ प्रश्ने च ।

उमा स्त्री ओः शिवस्य मा लक्ष्मीरिव उं शिवं माति

मन्यते पतित्वेन मा + क वा । शिवपत्न्याम् १ दुर्गायाम्
“उ सेति मात्रा सपसे निषिद्धा पश्चादुमाख्यां सुमुखी,
जगामेति” कुमारे निरुक्तायां २ पार्व्वत्याम् । “यदाह तपसे
पुत्रीं वनं गन्तुञ्च मेनका । उ मेति, तेन सोमेति नाम प्राप
तदा सती” कालि० पु० । “मात्रा निषिद्धा तपसे यदा
सा ययामुमाख्यां भवभक्तिभाविनी” शिवपु० अत्र पक्षे उ मेति
शब्दः नामहेतुत्वेनास्त्यस्याः अर्श आ० अच् “यस्येति” पा०
आलोपे टाप् । “उमामुखे विम्बफलाधरोष्ठे” “उमामुखन्तु
प्रतिपद्य लोला” “उमारूपेण ते यूयम्” “उमा बधूर्भवान्
दाता” इति च कुमा० । “नियोजयितुकामस्तु उमायां
चन्द्रशेखरम्” शि० पु० उमामाहेश्वरव्रतम् । व्रतशब्दे
वक्ष्यते । वे--बा० मक् संप्रसारणम् । ३ हरिद्रायाम् ४
अतसीवृक्षे (मसिना) उमाकटः उम्यः औमीनः । ५ कीर्त्तौ
६ कान्तौ, ७ शान्तौ च ।
पृष्ठ १३६४

उमाकट पु० उमाया अतस्या हरिद्राया वा रजः कटच् ।

अतस्या हरिद्रायाश्च रजसि ।

उमागुरु पु० ६ त० । हिमालये तस्य उमायाजनकत्वा-

त्तथात्वम् । उमाजनकादयोऽप्यत्र । तस्याश्च तदुत्पत्ति
कथा शिवपु० दृश्या ।

उमाचतुर्थी स्त्री उमायाजन्मदिनम् चतुर्थी । ज्यैष्ठशुक्लच-

तुर्थ्याम् “ज्यैष्ठशुक्लचतर्थ्यान्तु जाता पूर्व्वमुमा सती ।
तस्मात् सा तत्र संपूज्य स्त्रीभिः सौगाग्यवृद्धये” व्र० पु०

उमापति पु० ६ त० । महादेवे । स च यथा तामुपयेमे

तत्कथा शिवपु० दृश्या तन्मूलकं कुमारे च
वर्ण्णिता एवमन्यत्रापि पुराणे दृश्या । “मेनां यावत् सती
प्राप्य हिमाचलपतिव्रताम् । उमरूपा हि तपसा पतिं
पाप पिनाकिनम्” । काशीस्व० उमाधवादयोऽप्यत्र

उमावन न० उमाप्रीतये वनमत्र । पुरभेदे शोणितपुरे हेम०

उमासहाय पु० ६ त० । महादेवे दुर्गासहायतत्सह-

चरादयोऽप्यत्र

उमासुत पु० ६ त० । कार्त्तिकेये । तत्कथा अग्निकुमारशब्दे

५५ पृ० शिवपुराणे च दृश्या । उमातनयपार्वतीसुतादयोऽप्यत्र

उम्बर पु० उमित्यव्यक्तशब्दं बृणाति बृ अच् । १ द्वारोर्द्धकाष्ठे,

२ गन्धर्वभेदे च । “उम्बरस्तुम्बुरुश्चैव जगुरन्ये च
षड्गणान्” हरि० १२८ अ० ।

उम्बी स्त्री उम् + वा--क गौरा० ङीष् पृषो० वस्य वः । “मञ्जरी

त्वर्द्धपक्वा या यवगोधूमयोर्भवेत् । तृणानलेन सम्प्लुष्टा
बुधैरुम्बोति सा स्मृता” इति भा० प्र० उक्तायाम् अर्द्धपक्वय-
वगोधूमयोर्मञ्जर्य्याम् । “उम्बी ककप्रदा बल्या लध्वी
पित्तानिलापहा” भा० प्र० ।

उम्बुर पु० उम् + बॄ--क उत् रपरः । द्वारोर्द्धकाष्ठे ।

उम्भि त्रि० उम्भ--इन् । पूरके । ततः कर्त्त्र्या० जाताद्यर्थे

ढकञ् । औम्भेयक तज्जातादौ त्रि०

उम्य न० उमाया अतस्या भवनं क्षेत्रम् वा यत् । अतसीभ-

वनक्षेत्रे पक्षे खञ् औमीन तत्रार्थे न०

उम्लोचा स्त्री अप्सरोभेदे । “ऋतुस्थला घृताची च विश्वाची

पूर्ब्बचित्यपि । उम्लोचेति च विख्याता” भा० आ० १२३ अ०

उर गतौ सौ० पर० सक० सेट् । ओरति औरीत् उवोर ऊरतुः

उर पुंस्त्री उर--क । १ मेषे स्त्रियाम् अजा० टाप् । “अत्रा वि

नेमिरेषामुराम्” ८, ३४, ३, “उरां मेषीम्” भा० २ गन्तरि
त्रि० । “उरामथिरा वयुनेषु” ऋ० ८, ६६, ८ ।

उरःसूत्रिका स्त्री ७ त० मुक्ताहारे अमरः ।

उरग पुंस्त्री० उरसा गच्छति उरस् + गम--ड सलोपश्च । १ सर्पे,

स्त्रियां जातित्वात् ङीष् पादशून्यतया उरसैव तेषां हि
गमनम् । “भित्त्वोत्यितं भूमिमिवोरगाणाम्” “विलमग्ना-
विवोरगौ” “अङ्गुलीवोरगक्षता” रघुः । २ तद्देवताके
अश्लेषानक्षत्रे । “उरगविधिशताख्याः शर्वरीनाथवारे”
ज्यो० त० । ४ सीसके तस्य नागवीजजत्वेनाऽभेदोपचा-
रात्तथात्वम् । अहिशब्दे ५८१ पृ० विवृतिः ।

उरगभूषण पु० उरगोभूषणमस्य । सर्पभूषणे महादेवे

उरगराज पु० ६ त० टच् समा० । १ सर्पराजे वासुकौ ।

उरगोराजेव उपमि० स० । २ महासर्पे च । “प्रहर्त्तुरेवो-
रगराजरज्जवः” माघः उरगेशतदिन्द्रादयोऽप्युभयत्र ।
“उरगेन्द्रमृर्द्धरुहरत्नसन्निधेः” माघः ।

उरगस्थान न० ६ त० । पाताले तेषां तत्रस्थितत्वात पातालस्य तथात्वम् ।

उरगाशन पु० उरगानश्नावि अश--ल्यु ६ त० । सर्पभक्षके

१ गरुड़े च २ मयूरे उरगभक्षादयोऽप्यत्र । “स्वावासभाग
मुरगाशनकेतुयष्ट्या” माघः ।

उरङ्ग पुंस्त्री उरसा गच्छति उरस् + गम--ड नि० । सर्पे स्त्रियां

जातित्वात् ङीष् ।

उरङ्गम पुंस्त्री उरसा गच्छति उरस् + गम--खच् सलोपः । संर्पे स्त्रियां जातित्वात् ङीष् ।

उरण पुंस्त्री ऋ--क्यु, धातोरुच्च रपरः । १ मेषे स्त्रियां जाति-

त्वात् ङीष् । “वृकीवोरणमासाद्य मृत्युरादाय गच्छति”
भा० शा० ६५ अ० । “य उरणं जघान नव चख्न्वांसं
नवतिं च बाहून्” ऋ० २, १४, ४, २ दर्द्रुघ्नवृक्षे पु० स्वामी ।

उरणाक्ष पु० उरणस्य मेषस्य अक्षीव अक्षि पुष्पं यस्य ।

दद्रुघ्ने (दादमर्द्दन) वृक्षे । स्वामी त उरणाख्यस्तत्रार्थे
इत्याह । तन्मते उरणस्याख्या आख्या यस्येति विग्रहः

उरभ्र पुंस्त्री उरु उत्कटं भ्रमनि भ्रम--ड पृषो० उलोपः ।

१ मेषेस्त्रियां जातित्वात् ङीष् २ दर्द्रुघ्नवृक्षे पु० स्वामी ।
तस्येदम् अण् । औरभ्र मेषमांसादौ “हविषाऽन्नेन वै मासं
पायसेन च वत्सरम् । मात्स्यहारिणकौरभ्रशाकुनच्छाग
पार्षतैः । ऐणरौरववाराहशाशैर्मांसैर्यथाक्रमम् । मासांभिवृ-
द्ध्या तृप्यन्ति दत्तेनेह पितामहाः” याज्ञ० । “दर्पिता
ध्वाङ्क्षस्वड्गाह्वमहिषोरभ्रकुञ्जराः” सुश्रुते पशुषु तस्य
दर्पितत्वमुक्तम् स च ग्राम्यपशुः “अश्वाश्वतरगो-
स्वरोष्ट्रवस्तोरभ्रमेदःपुच्छप्रभृतयो ग्राम्याः” सुश्रु० तन्मां
सगुणास्तत्रैव “ग्राम्या वातहराः सर्वे वृंहणाः कफपि-
त्तलाः । मधुरा रसपाकाभ्यां दीपना बलवर्द्धनाः”
“वृंहणं मांसमौरभ्रं पित्तश्लेषावहं गुरु” ।
पृष्ठ १३६५

उरभ्रसारिका स्त्री सुश्रुतोक्ते कीटभेदे कीटशब्दे विवृतिः ।

उररो अव्य० उर--बा० अरीक् । १ अङ्गीकारे, २ विस्तारे च ।

कृञि अस्य गर्तत्वात् तेन सह समासःउररीकृत्य इति
“काल्पनिकं भेदमुररीकृत्य” सा० द० । घञ् उररीकार
अङ्गीकारे पु० । क्त । उररीकृत स्वीकृते त्रि०

उरल त्रि० उर--बा० कलच् । गतियुक्ते ततो बला० चतुरर्थ्यां

यत् । उरल्य तत्सन्निकृष्टदेशादौ त्रि० ।

उरश पु० मुनिभेदे तस्यापत्यम् पाठान्तरे तिका० फिञ् औरशा-

यनि तस्य भर्गा० स्त्रियां तत्प्रत्ययस्य न लुक् औरशायनी ।

उरश्छद पु० उरश्छाद्यतेऽनेन छद--णिच्--घ ह्रस्वः । कवचे

उरस् बलार्थे कण्ड्वा० प० अक० सेट् । उरस्यति बलवान्भवतीत्य-

र्थः औरस्यीत् औरसीत् उरस्याम्(साम्)बभूव आस चकार

उरस् न० ऋ--असुन् धातोरुच्च रपरः । वक्षःस्थले । “कवाटविस्ती-

र्णमनोरमोरःस्थलस्थित श्रीललनस्य तस्य” “जनितमुदमु-
दस्थादुच्चकैरुच्छ्रितोरःस्थलनियतनिषण्णश्रीश्रुतां शुश्रुवान् सः”
माघः । “उरोमुकुलितस्तनं जघनमंसबन्धोद्धुरम्” मालती०
अस्य ब० व० अन्तस्थस्यकप्समा० “व्यूढोरस्को वृषस्कन्धः”
रघुः । “प्रकृत्यैव शिलोरस्कः” कुमा० । क्वचिन्न । “हारोरा
वनमार सा” सुप्रसिद्धपद्यम् । तेन निर्मित अण् औरस,
पुत्रभेदे “औरसः क्षेत्रजश्चैव दत्तःकृतिमएव चेति” कालि०
पु० उरोजातमात्रे च औरसं भयम् । पक्षे यत् उरस्य ।
बक्षोगते । २ श्रेष्ठे न० । तस्य ६ त० अन्ते अच् समा० ।
अश्वौरस अश्वप्रधाने । ३ ऋषिभेदे पु० तस्यापत्यम् तिका०
फिञ् औरसायनि । उरशवत् भर्गादिकार्यम् ।
उरः प्राशस्त्येनास्य अर्शा० अच् । उरस प्रशस्तोरस्के
त्रि० । पाठान्तरे तिकादिषु उरसशब्दोऽपि पमते
उरशवत् फिञ् भर्गादिकार्यञ्च ।

उरसिज पु० उरसि जायते जन--ड त० सप्तम्या अलुक् ।

स्त्रीवक्षोजाते स्तने । “परिपस्पृशिरे चैनं पीनैरुरसिजैः
र्मुहुः” रामा० । उरसिजातोरसिरुहादयोऽप्यत्र ।
“फेनानामुरसिरुहेषु हारलीलाम्” माघः

उरसिल त्रि० उरः प्राशस्त्येनास्त्यस्य पिच्छा० इलच् । प्रशस्तो

रस्के । पक्षेमतुप् मस्यवः । उरस्वत् तत्रार्थे स्त्रियां ङीप् ।

उरस्कट पु० उरः कट्यते आव्रियतेऽनेन कट--घञर्थे करणे

क । १ बालानामुत्तरीयभेदे तदीये यज्ञोपवोताकारे ३ बस्त्र-
भेदे च । (वुकवाछाड़) । त्रिका० ।

उरस्तस् अव्य० उरसैका दिक् तसिः, पञ्चम्याद्यर्थे तसिल् वा ।

१ हृदयैकदेशभवे पुत्रे २ वक्षस इत्याद्यर्थे च अत्र लित्त्वात्
स्वरितस्वर इतिभेदः ।

उरस्त्र न० उरस्त्रायते त्रै--क । वक्षोर के कवचे । करणे ल्युट् । उरस्त्राणमप्यत्र न० ।

उरस्य पु० उरसैका दिक् यत् । वक्षसैकदेशगत “कर्मणा

वाप्युरस्येन वक्षो यस्य विदारितम्” सुश्रुतः निर्म्मितार्थे
यत् । २ पुत्रे

उरी अव्य० उर--गतौ बा० ईक् । १ अङ्गीकारे, २ स्तिरे च ।

उर्य्यादि० कृञि गत्वित्वम् तेन समा० । ल्यप् उरीकृत्य
“तदुरीकृत्य कृतिभिर्वाचस्पत्यं प्रताय्यते” माघ

उरीकार पु० उरा + कृ--घञ् । १ स्वीकारे, विस्तारे च ।

उरीकृत त्रि० उरी + कृ--क्त । १ अङ्गीकृते, २ विस्तृते, च ।

उरु त्रि० ऊर्णु--कु नुलोपो ह्रस्वश्च । १ विशाले, २ वृहति च

“विस्तीर्णं ददृशतुरम्बरप्रकाशं तेऽगाधं निधिमुरुमम्भ-
सामनन्तम्” भा० आ० २२ अ० । ३ बहुले निरु०
“तुविजाता उरुक्षया” ऋ०१, २, ९, “उरुक्षया बहुनि-
वासौ” भा० “रथे युञ्जन्नुरुचक्रे” । ४ विस्तीर्ण्णे च
वृहत्त्वस्य विस्तीर्ण्णायत्तत्वात् । “जनास उरु क्षोतं
सुजनिमा चकार” ऋ०७, १००, ४, “स्वस्तिमदुरुक्षितौ गृणीहि”
ऋ० ९, ८४, १, उरुगायः “उरुगव्यूतिरभयानि” ऋ०
९, ९०, ४, अहोश्चिदस्मा उरुशक्तिरद्भुतः” २, २६, ४,
“अन्यामिपमुरुधारामरङ्कृतम्” ८, १, १०, “उरुप्रथाः
प्रथमानम्” यजु० २०, ३९, “गाथयोरौ रथ उरुयुगे” ऋ०
८, ९८, ९, । ५ दोर्घे च “गतोरुमार्गाः” माघः भाषितपु
स्कत्वात् क्लीवे तृतीयाद्यचि वा पुंवत् । उरवे उरुणे इत्यादि
स्त्रियां गुणवचनत्वात् वा ङीष् । “शिरोभिस्ते गृहीत्वोर्वीं
स्रजमारक्तव ससः” मनुः उरीर्भावः पृथ्वा० इमनिच् ।
उरिमन् तद्भावे । पक्षेत्व, उरुत्व न० । तल् उरुता स्त्री
अण् औरव न० । तद्भावे ।

उरुकाल पु० उरुः कालःपाकेऽस्य । (राखालशशा) १

महाकाललतायाम्” रत्नमा० । कर्म्म० । २ दीर्घकाले ।

उरुक्रम पु० उरवः मूम्यादिव्यापकत्वात् क्रमाः पादविक्षेपा

अस्य । १ वामनरूपे भगवदवतारे “यस्योरुषुविक्रमणेष्वधि-
क्षियन्ति भुवनानि विश्वा” ऋ० १, १५४, २, “यस्य विष्णो-
रुरुषु विस्तीर्णेषु त्रिसंख्याकेषु विक्रमणेषु पादप्रक्षेपेषु
विश्वा सर्वाणि भुवनानि भूतजातान्याश्रित्य निवसन्ति स
विष्णुः स्तूयते” भा० । इति तस्योरुक्रनत्वे लिङ्गमुक्तम् ।
“शं न इन्द्रो वृहस्पतिः शं नो विष्णररुक्रमः” ऋ० १, ९,
९, उरुं विस्तीण्णं क्रामति पादान् पिक्षिपतीत्युरुक्रमः
विष्णुः” भा० । उरु प्रधानं पदमाश्रमं क्रामति--क्रम-
पृष्ठ १३६६
अच् ६ त० । भगवतोऽष्टमावतारे २ ऋषभदेवे च । “अष्टमे
मेरुदेव्यान्तु नाभेर्जात उरुक्रमः । दर्शयन् वर्त्म धीराणां
सर्चोषामात्मनाकृतम्” भा० १ स्क० ३ अ० ऋषभशब्दे
विवृति र्दृश्या ।

उरुगाय पु० उरुभिः श्रेष्ठैर्गीयते गम्यते वा गै--गाने गाङ्

गतौ वा कर्मणि धञ् । परमेश्वरे वासुदेवे “त्रीण्येक
उरुगाय! विक्रमे” ऋ० ८, २९, ७, “उरुभिर्वहुभिर्गातव्यः
बहुषु देशेषु गन्ता बहुकीर्त्तिर्वा” भा० बहुकीर्त्तिरिति पक्षे
गीयते गायः कीर्त्तिरित्यर्थः “अत्राह तदुरुगायस्य
विष्णोः” यजु० ६, ३, “विष्ण उरुगायैषः” यजु० ८, १,
यः पार्थिवानि त्रिभिरिद्वि सामभिरुरु क्रमिष्टोरुगायाय
जीवसें ऋ० १, १५५, ४, “उरुगायाय उरुगातव्याय”
भा० । गाङ् गतौ भावे वञ् गायो गतिः कर्म० । २
विस्तीर्ण्णायां गतौ “स्तोममहदुरुगायं प्रतिष्ठां दृष्ट्वा” कठवल्ली ।
“उरुगाय विस्तार्णां गतिम्” शा० भा० “असम्बाधानुरगा-
यवतोऽभिध्याय त” छा० उ० उरुगायवतोविस्तीर्ण्णगतीन्”
गै गाने घञ् कर्म्म० । ३ बहुकीर्त्तने । “प्राणस्य वाता-
योरुगायं कुरुते” शत० व्रा०, १, २, १४,

उरुचक्षस् त्रि० उरु यथा स्यात् तथा चष्टे चक्ष--असुन् ।

१ महादर्शने “वर्षिष्ठक्षत्रा उरुचक्षसा नराः” ऋ० ८,
१०१, २, सर्व्वद्रष्टृत्वात् २ सूर्य्ये पु० “नमोभिरुरुचक्षो नॄन्वि-
श्वान्” ६, ५१, ९, शं नः सूर्य्य उरुचक्षा उदेतु” ७, ३५, ८,

उरुज्मन् त्रि० उर्व्वी ज्मा क्षितिर्यत्र । वहुभूमियुक्ते “उरुष्या,

ण उरुज्मन्नप्रयुच्छन्” अथ० ६, ४, ३,

उरुज्रयस् त्रि० ज्रि--अभिभवे करणे असुन् उरु ज्रयोवेगोऽस्य

विस्तीर्ण्णवेगे । वेगेन हि सर्व्वामिभवात् ज्रयसस्तथा-
त्वम् । “उरुज्रयसमिन्दुभिः” ऋ० ८, ६, २ त्र “उरुज्रय-
ष्टम् विस्तीर्ण्णवेगम्” भा० । “उरुज्रयसं घृतयोनिमा-
हुतम्” ५, ८, ६, सेहानः पूतना उरु ज्रयः” ८, ३६, १,
इत्यत्र ज्रयसोवेगार्थकस्यासुन्नन्ततया प्रयोगात् तस्या
दन्तकल्पनं प्रमादिकम् ।

उरुज्रि त्रि० उरु यथा तथा ज्रयति ज्रि क्विप् वेदे नि० न

तुक् । जृ--बा० किंवा । प्रभूतगतियुक्ते । “अर्वाक्पथ
उरुज्रयः कृणुध्वम्” ऋ० ७, ३९, ३, “उरुज्रय प्रभूतन-
मनाः” भा० ।

उरुण्ड पु० उपद्रावके असुरभेदे । “खलजाः शकधूभढ़ा

उरुण्डा ये च मट्मटाः । कुम्भमुस्का अयाशवः । तानस्या
ब्रह्मणस्पते प्रतिबोधेन नाशय” अथ० ८, ६, १५,

उरुबिल त्रि० उरु वृहत् बिलमस्य । वृहच्छिद्रयुक्ते पात्रे

स्थाल्यां स्त्री गौरा० ङीष् । “यद्येषोखा भिद्येत
याऽभिन्ना नवा स्थाल्यु रुविली स्यात्तस्यामिभं पर्य्यावपेत्”
शत० ब्रा० १, ६, ४, ८,

उरुब्ज पु० उरुभ्योऽद्भ्यो जायते जनयति अन्तर्भूतण्यर्थे

जनड पृषो० अल्लोपः । प्रभूतपयोजनके । “गवामुरुब्जमभ्यर्वति
व्रजम्” ऋ०९, ७७, ४, “उरुब्जं प्रभूतानामपां जनकम्” भा०

उरुरी अव्य० उरु राति रा--बा० की । १ अङ्गीकारे २ विस्तारे च ।

उरुलोक न० उरु यथा तया लोक्यते लोक--कर्म्मणि

घञ् । १ अन्तरिक्षे तस्य सर्व्वलोकेभ्यो महत्त्वेन
ज्ञानात् तथात्वम् । “कालखात्मदिशां सर्व्वगतत्वं परमं
महत्” भाषोक्तेस्तस्य परममहत्त्वम् । “ममान्तरिक्षमुरुलोक-
मस्तु” ऋ०१०, १२८, २ । कर्म्म० । २ श्रेष्ठलोके पु० ।

उरुवु पु० उरु वायति वै शोषणे कु । एरण्टवृक्षे “शम्पा-

कोरुवुवर्षामूवाजिगन्धानिशाच्छदैः” सुश्रु० स्वार्थे कन्
तत्रैव । रायमुकुटस्तु उरुवुकस्थाने उरुवकैत्यङ्गीचकार
पृषो० साधु ।

उरुवूक पु० उरु वायति वै शोषणे “उलूकादयश्च” उखा०

नि० । रक्तैरण्डे “पुनर्ण्णवावारुणतर्कार्य्युरुवूकवत्सादनी-
विल्वशाकप्रभृतीनि उष्णानि स्वादुतिक्तानि वातप्रशम-
नानि च” सुश्रु० । “पटोलवार्त्ताकुकारवेल्लकटुकिकाकेवुको-
रुवूकपर्पटककिराततिक्तकर्कोटकारिष्टकोषातकीवेतकरीराट-
रूषार्कपुष्पप्रभृतीनि रक्तपित्तहराण्याहुर्हृद्यानि सुलघूनि
कुष्ठमेहज्वरश्वासकासारुचिहराणि च” सुश्रुतः ।

उरुव्यचस् त्रि० उरु विचति व्यच--व्याजे (विशेषव्याप्तौ) असुन्

अतिव्यापके । “ओरुव्यचाः पृणताम्” ऋ० ३, ५०१ ।
“उरुव्यचाः प्रभूतव्याप्तिः” भा० । २ विस्तीर्णे “उरुव्यचसे-
महिने” ऋ० ७, ३१, ११ । “उरुव्यचसा विस्तीर्णे” भा० ।
“गमदुरुव्यचा अदितिः” ५, ४६, ६ । “उरुव्यचसो-
धाम्ना पत्यमानाः” यजु० २७, १६,

उरुषा त्रि० उरु सनोति सन--विट् ङा वेदे वत्वम् ।

बहुदातरि “महीमस्मभ्यमुरुषामुरुज्रयः” ऋ० ५, ४४, ६ ।
“उरुषां बहुदातारम्” भा० ।

उरुष्य रक्षणे पर० सक० सेट् । उरुष्यति औरुष्यीत् ।

“उरुष्य राय एषो यजस्व” यजु० ७, ४, अस्य व्याख्याने “उरुष्य
रक्ष उरुष्यतीरक्षणकर्म्मा” वेददी० । “उरुष्यदग्निः
पित्रोरुपस्थे” ऋ० ३, ५, ८ । अरुष्यत् रक्षतु” भा० ।
“गोपीथे न उरुष्यतम्” ऋ० ५, ६५, ६ ।
पृष्ठ १३६७

उरुष्या स्त्री उरुष्यं रक्षणमिच्छति क्यच् अ यलोपः

रक्षणेच्छायाम् । “उरुष्या पायुरभवत् सखिभ्यः” ऋ०
६, ४४, ७ । “उरुष्या रक्षणेच्छया” भा० तृतीयाया लुक् ।
ततः उ । “उरष्युरक्षणेच्छावति “इमे मा पोता यशस
उरुष्यवोरथम्” ऋ० ८, ४८, ५ । “उरुष्यवः रक्षा-
कामाः” भा० ।

उरूची स्त्री उरु अञ्चति क्विप् ङीप् अल्लोपे पूर्ब्बाणो--दीर्घः ।

अतिव्यापिन्यां स्त्रियाम् । “उरूची विश्वे यजते
निपातम्” ऋ० ४, ५६, ४ । “शं न उरूची भवतु खधाभिः”
ऋ० ७, ३५, ३ “विश्रयमाणो अमतिमुरूचीम्” ऋ० ७,
४५, ३ “या ते जिह्वा मधुमती सुमेधा अग्ने देवेषूच्यत
उरूची” ऋ० ३, ५७, ५ । स्त्रीभिन्ने उर्वच् तथार्थे
शसादावचि उरूचः उरूचा इत्यादि ।

उरूणस् त्रि० उरू दीर्घे नासिके तस्य नसादेशः वेदे

नि० णत्वं दीर्घश्च । दीर्घनासिकायुक्ते “उरूणसावसुतृपा”
ऋ० १०, १४, १२ ।

उरोज पु० उरसि जायते जग--ड “जे विभाषा” पा० सप्तम्या

लुक् । स्त्रीस्तने “दधत्युरोजद्वयमुर्वऽशीतलम्” “रेजाते
रुचिरदृशामुरीजकुम्भौ” माघः स्तनादिकं सूक्ष्मरूपेण जन्म-
काले उत्पन्नमपि यौवने उद्भिद्यते । यथाह
भावप्रका० । “बालानां शुक्रमस्त्येव किन्तु सौक्ष्म्यान्न दृश्यते ।
तेषां तदेव तारुण्ये पुष्टत्वाद्व्यक्तिमेष्यति कुसुमानां
प्रफुल्लानां गन्धः प्रादुर्भवेद्यथा । रोमराज्यादयः
पुंसां नारीणामपि यौवने । ज्ञायन्ते तत्तयोर्भेदो ज्ञेयो
व्याख्यानतः स च” । तथा च पुंसां रोमराजीश्मश्रुप्रभृतयः
नारीणां तु रोमराजीस्तनस्तन्यार्त्तवप्रभृतयः” । आर्त्त-
वस्तनोद्भेदकालश्च एकादशवर्षादुत्तरः स्मृतावुक्तः ।
“अष्टवर्षा भवेद्गौरी नववर्षा तु रोहिणी । दशमे कन्थका-
प्रोक्ता तत ऊर्द्धं रजस्वला” उ० त० स्मृतिः । इदमपि
सम्भावितविषयम् धातुभेदेन तत उत्तरमपि भवतीति लोके
दृश्यते सम्भावनाभिया दशमाव्दादर्वाक् देयेति तत्त्वम् ।
सुश्रुते तु द्वादशवर्षोपरि रजःसम्भव उक्तः । “रसादेव
रजः स्त्रीणाम् मासि मासि त्र्यहं स्रवेत् । तद्वर्षाद्-
द्वादशादूर्द्ध्वं याति पञ्चाशतः क्षयम्” रजःपदं स्तनोद्भे-
दस्याप्युपलक्षणम् । गर्भिण्याः पीनस्तनत्वे दुग्धबहुलत्वे च
कारणमुक्तम् भा० प्र० । “गृहीतगर्भाणां स्त्रीणामार्त्तव
वहानां स्रोतसां गर्भेणावरोधादार्त्तवं न स्रवति तदेव
प्रतिहतमूर्द्ध्वमागतमुपचीयमानमपरां भवति शेषञ्चोर्द्ध्वतर-
मागतं पयोधरौ याति तस्माद् गर्भिण्याः पीभौच्चौ पयो
घरौ भवतः” इति । उरोभूप्रभृतयोऽप्यत्र “उरोभुवा कुम्भ-
युगेन जृम्भितम्” नैष० ।

उरोभूषण न० उरोभूष्यतेऽनेन भूष--करणे ल्युट् ६ त० ।

१ वक्षोऽलङ्कारे हारे । उरोभूषयति ल्यु । २ तदर्थे त्रि० ।

उरोवृहती स्त्री वैदिके छन्दोभेदे । “वृहती जागतस्त्रयश्च

गायत्राः । पथ्या पूर्व्वश्चेत्तृतीयः । त्यङ्कुसारिणी द्वितीयः ।
स्कन्धग्रीवी कौष्टुकेः । उरोवृहती यास्कस्य” कात्या०
उक्तेः यास्कमते द्वितीयचरणस्य जागतात्मकत्वे
अन्येषां त्रयाणां गायत्रात्मकत्वे च सा भवतीत्यर्थः ।

उरोहस्त न० उरसि हस्तश्चपेटाघातोयत्र । बाहुयुद्धभेदे

बाहुयुद्धप्रकारः भा० स० २२ अ० दर्शितः यथा
“करग्रहणपूर्वन्तु कृत्वा पादाभिवादनम् । कक्षैः कक्ष्यां
विधुन्वानावास्फोटं तत्र चक्रतुः । स्कन्धे दोर्भ्यां समाहत्य-
निहत्य च मुहुर्मुहुः । अङ्गमङ्गैः समाश्लिष्य पुनरास्फालनं
विभो! । चित्रहस्तादिकं कृत्वा कक्ष्याबन्धं च चक्रतुः ।
गलगण्डाभिघातेन सस्फुलिङ्गेन चाशनिम् । बाहुपाशा-
दिकं कृत्वा पादाहतशिराबुभौ । उरोहस्तं ततश्चक्रे
पूर्णकुम्भौ प्रयुज्य तौ । करसंपीड़नं कृत्वा गर्जन्तौ
वारणाविव । दुर्दान्तौ मेघसङ्काशौ बाहुप्रहरणाबुभौ ।
तलेनाहन्यमानौ तु अन्योन्यं कृतवीक्षणौ । सिंहाविव सु
संक्रुद्धावाकृष्याकृष्य युध्यतम् । अङ्गेनाङ्गं समापीड्य-
बाहुभ्यामुभयोरपि । आवृत्य बाहुभिश्चापि उदरं च
प्रचक्रतुः । उभौ कढ्यां सुपार्श्वे तु तक्षवन्तौ च
शिक्षितौ । अधोहस्तं स्वकण्ठे तूदरस्यीरसि चाक्षिपत् ।
सर्वातिक्रान्तमर्य्यादं पृष्ठभङ्गञ्च चक्रतुः । संपूर्ण्णमूर्द्धा बाहु-
भ्यां पूर्णकुम्भं प्रचक्रतुः । तृणपीड़ं यथाकामं पूर्णयोगं
समुष्टिकम् । एवमादिनियुद्धानि प्रकुर्वन्तौ परस्परम्” ।
व्याख्यातञ्चैतत् नीलकण्ठेन “कक्षैः दौर्मूलैः कक्ष्यां
प्रकोष्ठगतां रज्जुं धुन्वानौ । यतः तत्र कक्षै आस्फोटं
चक्रतुः बाहुमूलास्फालनेन अङ्गदबन्धरज्जुशेषं कम्पय-
न्तावित्यर्यः । चित्रहस्तादिकं हस्तस्यातिवेगेन
आकुञ्चनप्रसारणोपर्यधश्चालनमुष्टीकरणानि चित्रहस्ताः
आदिपदात् पादस्याप्याकुञ्चनादि । कक्ष्याबन्धं परस्परक-
क्ष्यायां हस्तौ कृत्वा बन्धनम् गलेन नण्डेन भालदे-
शेनाभिघातस्तेन पाषणसदृशाङ्गत्वात्तयोरभिघातेन
विस्फुलिङ्गोत्पत्त्याऽशनिं वज्रमिव ससृजतुरित्यर्थः । बाहुपा-
शादिकं चरणपाश आदिशब्दार्थः । पादाभ्याम् आहताः
पृष्ठ १३६८
शिराः स्नायवोयाभ्यान्तौ दृढ़प्रहारौ नाड़ोपर्य्यन्तभपि
वदनाबन्तावित्यर्थः । उरोहस्तं उरसि चपेटाप्रहारम् ।
पूर्ण्णकुम्भौ द्वित्वं परस्परं द्वावपि चक्रतुरिति वक्तुम् ।
तलेन चपेटया । आवृत्य जत्रुदेशे पृष्ठं कृत्वा बाहुभिः
बहुत्वाद्द्वावपि मिथः उदरम् आदाय प्रचक्रतुः प्रचिक्षि-
पतुः कॄ विक्षेपेऽस्य छान्दसं रूपम् । एवं कठ्यां सुपार्श्वे
च प्रचक्रतुः । तक्षवन्तौ तक्षस्तनूकरणं गात्रसङ्कोच इत्यर्थः
तद्वन्तौ । अधोहस्तं उदरस्याधस्तात् हस्तं कृत्वा हस्ताभ्या-
मुदरमावेष्ट्य स्वकण्ठे स्वोरसि च कण्ठोरःसमीपे अनीय
आक्षिपत् आस्फालितवान् । पृष्ठस्य भूसम्बन्ध न जातं
भङ्गं पराभवं वाहुभ्यां उदरादिनिपीड़ने सम्पूर्ण्णसूर्द्धा
तृणपीड़ं पूर्ण्णयोगं योगोविश्रब्धघातनं तच्च पूर्ण्णम् ।
अत्यत्र मुष्टेः पातं प्रदर्श्य अन्यत्र पातनमित्यर्यः एवमा-
दिनियुद्धानि पादाकर्षणशीर्षकक्ष्यीकरणादीनि”

उ(ऊ)र्ज जीवने वा चु० उभ० अक० पक्षे भ्वा० पर०

सेट् । उ(ऊ)र्ज्जयति ते उ(ऊ)र्ज्जति । और्ज्जिजत्--त
और्ज्जीत् । उ(ऊ)र्ज्जयाम् बभूव आस चकार चक्रे
पक्षे उ(ऊ)र्जाम् बमूव आस चकार । क्त उ(ऊ)र्ज्जित, वृद्धे
बलान्विते । णिणन्तत्वे वर्द्धिते त्रि० दीर्घादिरयमिति बहवः

उ(ऊ)र्ण्णनाभ पु० उर्णेव सूत्रं नाभौ गर्भेऽस्य अच् समा०

ह्रस्वः । लूतायाम् (माकङसा) दीर्घादिरयमिति केचित् ।

उ(ऊ)र्णा स्त्री ऊर्णूयते आच्छाद्यते ऊर्णु--ड ह्रस्वः । १ मेषादि

लोम्नि २ ललाटस्थलोगसमूहात्मके चिह्नभेदे । “ललाट
पट्टे नवनलिननालभङ्गतन्वीयमूर्ण्णा परिस्फुरति” काद० ।
दीर्घादिरयमिति बहवः

उ(ऊ)र्द्द दाने स्वादे सक० क्रीड़ायाम् अक० भ्वा० आत्म०

सेट् । उ(ऊ)र्दते और्द्दिष्ट दीर्घादिरयमिति बहवः ।

उ(ऊ)र्द्र पु० उर्द--रक् । जलविडाले (उद्विराल) दीर्घादिर-

मिति बहवः ।

उ(ऊ)र्व हिंसायां भ्वा० पर० सक० सेट् । उ(ऊ)र्वति और्वीत् ।

क्विपि वलोपे ऊः उरौ दीर्वादित्वे ऊरौ इति भेदः ।

उर्व्व पु० उर्वी पृथिवी सञ्चारस्थानत्वेनास्त्यस्य अर्श० अच् ।

१ पृथिवीसञ्चारिणि पितृभेदे ताण्ड्य० ब्रा० दृश्यः । २
ऋषिभेदे ततः विदा० अञ् । ओर्व तदपत्ये पुंस्त्री ।

उर्वट पु० उरु यथा तथाऽटति अट + अच् ६ त० । बत्से

त्रिका० । तस्य दीर्घोल्लम्फादिना अटनात् तथात्वम् ।

उर्वरा स्त्री उरु शस्यादिकमृच्छति ऋ--अच् ६ त० । १ सर्वशस्या-

द्यभूमौ “पततां गर्णः पिवतु सार्द्धमुर्वरा” माघः २ भूमिमात्रे
विश्वः ३ अधिकेंत्रि० उर्वरमधिवं जातमस्य तारका० इतच् ।
उर्वरित आधिक्ययुक्ते (उपचान) अधिके । उरून् महत
ऋच्छति ऋ--अच् ६ त० । अप्सरोभेदे “कलानिधिर्गुण-
निधिकर्पूरतिलकोर्व्वरा” काशीस्व० ।

उर्वरासा त्रि० उर्वरां भूमिं सनोति सन--विट् ङा । मूमि-

विभाजके पुत्रादौ “क्षेत्रासां ददथुरुर्वरासाम्” ऋ० ४,
३८, १, उर्वरासां पुत्रम्” भा० । २ उर्व्वराविभाजके त्रि०
“त्वं नः सहस्रभरमुर्वरासाम्” ६, २०, १ । “उर्व-
राणां भूमीनां सनितारं संभक्तारम्” भा० ।

उर्वरी स्त्री ऋ--गतौ वनिप् ङीप् वनोरश्च । आधिक्यप्रा-

प्तायां स्त्रियाम् “ओषधीनामहं वृण उर्वरीरिव साधुया”
अथ० १०, ४, २, अन्यलिङ्गे उर्वन् इत्येव

उर्वर्य त्रि० उर्वरायां भवः यत् । १ सर्वशस्याढ्यभूमिभवे रुदभेदे

“नम उर्वर्याय खल्याय” यजु० १६, ३३, रुद्राध्यायः ।

उर्वशी स्त्री उरून् अश्नुते वशीकरोति उरु + अश--क गौरा०

ङीष् । स्वर्गवेश्याभेदे । अप्सरोभेदाश्च अप्सरः शब्दे उक्ताः
इयञ्च नारायणोरुं भित्त्वा जाता यथोक्तं हरिवं० ८५
अ० “नारायणोरुं निर्भिद्य सम्भूता वरवर्णिनी । ऐलस्य
दयिता देवी योषिद्रत्नं किमुर्वशी” ततश्च ऊरुं नारायणोरुं
कारणत्वेनाश्नुते प्राप्नोति अश--क ङीष् पृ० ह्रस्वः । इति
विग्रहः । इयमेव पुरूरवसःपत्नी आसीत् । “पुत्रोबुध-
स्योत्तमवीर्यकर्मा पुरूरवा युस्य सुतो सुदेवः । तथैव
पश्चाच्चकमे महात्मा पुरोर्वशीमप्सरसां वरिष्ठाम” १५४
अ० “पुरूरवाः सुतोविद्वानिलायां समपद्यत” इत्युपकम्य
“षट् सुता जज्ञिरे चैलादायुर्धीमानमावसुः । दृढायुश्च
वनायुश्च शतायुश्चोर्वशीसुताः” भा० आ० ७५ अ० ।
सा च इन्द्रलोकगतार्ज्जुनस्य समीपे रिरंसया गत्वा
तेन प्रत्याख्याता तस्मै शापं ददाविति कथा भा० व०
४६ अ० “तव पित्राभ्यनुज्ञातां स्वयञ्च गृहमागताम् ।
यस्मान्मां नाभिनन्देथाः क मवाणवशंगताम् । तस्मात्त्वं
नर्त्तनः पार्थ! स्त्रीमध्ये मानवर्जितः । अपुमानिति
विख्यातः षण्डवद्विचरिष्यसि” २ नदीभेदे उर्वशीतीर्थशब्दे
उदा० ।

उर्वशीतीर्थ न० मारतोक्ते तोर्थभेदे । “उर्व्वशीतीर्थमासाद्य

ततः सोमाश्रमं बुधः” भा० व० ८४ । तच्च नदीरूपम् ।
“उर्वशीं कृत्तिकायोगे गत्वा चैव समाहितः लौहित्ये
विधिवत् स्नात्वा पुण्डरीकफलं लभेत्” भा० अनु० २५ अ० ।

उर्वशीरमण पु० उर्वशीं रमयति रम--ल्य ६ त० । चन्द्रवंश्ये

बुधपुत्रे पुरूरवसि नृपे उर्वशीवल्लभादयोऽप्यत्र ।
पृष्ठ १३६९

उर्वारु पु० उरु--यया तथा ऋच्छति ऋ--उण् । कर्कट्याम् ।

स्वार्थे कन् अत्रैव । “उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय
मामृतात्” ऋ० ७, ५९, १२, । यजु० ३, ६, “उर्वारुकमिव
बन्धनादितो मुक्षीय मामुतः” ३, ७, अस्य स्त्रीत्वमपि
अप्राणिजातिवचनत्वात् ऊङ् । उर्वारूः तदर्थे “छिन्ध्यस्य
बन्धनं मूलमूर्वार्वा इव” अथ० ६, १४, १,

उर्वी स्त्री उरु + गुणवचनत्वात् स्त्रियां वा ङीप् । १ वृहत्त्वयु-

क्तायां स्त्रियाम् “उर्व्वीं स्रजम्” उरुशब्दे उदा० २ पृथिव्यां
च तस्यावृहत्त्वात् तथात्वम् । “तैरुर्वीनिहितचलत्पदं प्रचेले
माघः । “अनन्यशासनामुर्वीं शशासैकपुरीमिव” “स्थितः
सर्व्वोन्नतेनोर्वीम्” रघुः वेदे “सुपांसुलुगित्यादिना” पा०
सर्वविभक्तौ डियजादेशः “सिन्धुर्नक्षोद उर्विया व्यश्वैत्”
ऋ०१, ९२, १२, “उर्विया महती” भा० “प्रतीची चक्षु-
रुर्विया विभाति” १, ९२, ९ । ३ नद्याम् निरु० ।

उर्वीधर पु० उर्वी धरति ऋ--अच् ६७० । पर्व्वते तेषां

कीलकरूपेण अवष्टम्भनेन पृथिव्याधारकत्वात् तथात्वम्
भूधरादयोप्यत्र “गर्भोऽभवत् भूधरराजपत्न्याः” कुमा०

उर्वीधव पु० ६ त० । पृथिवीनाथे राजनि । उर्वीशोर्वीश्वर

तन्नाथादयोत्यत्र

उर्वीभृत् पु० उर्वीं बिभर्त्ति धारयति पालयति वा भृ--क्विप्

तुक् ६ त० । १ पर्वते २ राजनि च एवं पृथिवीभृद्धरणीभृदा-
दयोऽप्यत्र । “उदयति स्म तदद्भुतमालिभिर्धरणीभृद्भुवि तत्र
विमृष्य यत् । अनुमितोऽपि हि बाष्पनिरीक्षणात् व्यभि-
चकार न तापकरोऽनलः” नैष० तत्र धरणीभृत् राजा
पर्वतश्च अत्र व्यभिचारश्च साधनसमानाधिकरणाभाव-
प्रतियोगित्वरूपः तेन साध्ये तत्सम्भवः तादृशव्यभिचारश्च
उपाधिवादे चिन्तामणौ अङ्गीकृतः तच्च उपाधिशब्दे दर्शितम्

उर्वीरुह पु० उर्व्यां रोहति रुह--क ७ त० । वृक्षे “हिर-

ण्मयोर्वीरुहवल्लितन्तुभिः” माघः

उर्व्या स्त्री उरोर्भाव बा० व्यत् उलोपश्च । महत्त्वे “रुद्राणामु-

र्व्यायां स्वादित्याः” शत० ब्रा० १, ५, १, १७, “उर्व्यायां
महत्त्वे” भा०

उल दाहे (सौत्रः) पर० सक० सेट् । ओलति औलीत्

उल पु० उल--दाहे कर्मणि घञर्ये क । मृगभेदे “उलो-

हलिक्ष्णो वृषदंशस्ते धात्रे” यजु० २४, ३१ ।
“उलोमृगभेदः” वेददी० । ततः चतुरर्थ्यां बला० य । उल्य
मतकसन्निकृष्टदेशादौ त्रि० ।

उ(ओ)लड उत्क्षेपे इदित् वा चुरा० उभ० पक्षे भ्वा० पर०

सक० सेट् । उ(ओ)लण्डयति ते उ(ओ)लण्डति
औलिलण्डत् त औलण्डीत् अयं लडि ओदित् इत्येके ।

उलन्द्र(न्द) पु० राजभेदे तेन निर्वृत्तम् अरोहणादि० वुञ् ।

औलिन्द(न्द्र)क तन्निर्म्मितपुरादौ त्रि०

उलप पु० न० वल--कपच् संप्रसारणम् । १ शाखापत्रप्रचययुतायां

लतायाम् २ कोमले तृणभेदे न० (उलुखड) । “नवोलपा-
लङ्कृतशैबलाभः” “उत्तीर्ण्णभारलघुनाप्यलघूलपौघसौहित्य
निःसहतरेण तयोरधस्तात्” माघः ।

उलप्य पु० उलपे भवः यत् । रुद्रभेदे । “नमोलोप्याय

चोलप्याय” यजु० १६, ४५, रुद्राध्यायः

उलिन्द पु० वल--बा० किन्दच् संप्र० । देशभेदे उणादिकोषः ।

उलु त्रि० उरु रस्य लः । १ वृहति २ वृद्धियुक्तशब्दे च विवाहादौ

स्त्रीभिरुच्चार्य्ये शब्देभेदे “प्रकारे गुणवचनस्य” पा०
प्रकारे द्वित्वम् । उलूलु उरुप्रकारे । “उच्चैरुलूलुध्वनिरु-
च्चचार” नैष० “यत्तदजायत सोऽसावादित्यस्तं जायमानं
घोषा उलूलवोऽनूदतिष्ठन् सर्व्वाणि च भूतानि सर्व्वे च
कामास्तस्मात्तस्योदयं प्रति प्रत्यायनं प्रति घोषा उलूलवी-
ऽनुतिष्ठन्ति” छा० उ० । “उलूलवः उरूरवः विस्ती-
र्ण्णरवाः” शा० भा० ।

उलुप पु० उरु पायते रक्ष्यते अस्मात् पा रक्षणे--अपादाने

घञर्थे क रस्य लः । उलपतृणे । “तृणोलुपपुलाकचिह्ना-
नुमेयैर्जरत्कान्तारकूपैरिव” काद०

उलुलि पु० उल--उलि । वृद्धिसूचकशब्दे । “पृथग् घोषा

उलूलयः केतुमन्त उदीरताम्” अथ० ४, १९, ६,

उलूक पु० बल--समवाये ऊक संप्रसारणम् । १ पेचके, जातित्वात्

स्त्रियां ङीष् उलूकीसा च ताम्रायाः कन्यायाः श्येन्याः
कन्या “षट् सुतास्तु महासत्वास्ताम्रायाः परिकीर्त्तिताः”
इत्युपक्रम्य “शुकीशुकानजनयदुलूकीं प्रत्युलूककान्” विष्णुपु० ।
२ इन्द्रे, कैतव्ये ३ दुर्य्योधनदूतभेदे ४ तृणभेदे । (उलुखड़)
“त्यजति मुदमुलूकः प्रीतिमांश्चक्रवाकः” माघः “श्वगोधोलूक
काकांश्च शूद्रहत्याव्रतं चरेत्” मनुः “यदुलूको वदति
मोघमेतत्” ऋ०१०, १६५, ४, “विविधाश्चैव सम्पीड़ाः काको-
लूकैश्च भक्षणम्” मनुः । अत्र काकोलूकैरित्युक्तेः कालो-
लूकमित्यादि विरोधे समाहारैकत्वविधानं प्रायिकमिति
गम्यते । “उलूकान् सुषुवे काकी श्येनी श्येनान् व्यसू-
यत” भा० आ० ६३ । उलूकनामा दूतश्च युधिष्ठिरादीनां
समीपे दुर्य्योधनेन प्रेषितः यथा “आहूयोपह्वरे
पृष्ठ १३७०
राजन्नुलूकमिदमब्रवीत् । उलूक! गच्छ कैतव्य! पाण्डवान्
सहसोमकान्” इत्यादिना भा० उ० ५० १ अ० ।
उलूकश्च कैतव्यः कितव्यस्यापत्यम् । तदागमनमधिकृत्यैव
उलूकदूतगमनपर्व उद्योगपर्वान्तर्गतं पर्व्व । ४ देशभेदे । “उलूक-
वासिनं राजन् वृहन्तमुपजग्मिवान्” । “उलूकानुत्तरां
श्चैव तांश्च राज्ञः समानयत्” भा० स० अ० । अयञ्च देशः
“प्रययावुत्तरां तत्माद्दिशं धनदपालिताम्” इत्युपक्रम्य
तस्य कीर्त्तनात् धनञ्जयस्य उत्तरदिग्विजय एव तस्य
उलूकदेशस्य वर्ण्णनाच्च उत्तरदेशवर्त्तीति गम्यते । ५ तद्देश
नृपे च “उत्तरं पर्वतोद्देशं ये ते दुर्गसहा नृपाः ।
आरोहन्तु विमर्द्दन्तो वज्रप्रतिमगौरवाः । उलूकः
कैतवेयश्च” हरिवं० ९९ ।

उलूकयातु पु० उलूकरूपेण याति या--तुन् । असुरभेदे ।

“उलूकयातुं शुशूलूकयातुं जहि” ऋ० ७, १०४, १२ ।
“उलूकरूपेण यातमुलूकयातुम्” भा० ।

उलूखल न० ऊर्द्ध्वं खम् उलूखं पृषो० तत् लाति

गृह्णाति ला--क । धान्यादिकण्डनसाधने काष्ठमये १ पात्रे
(उखरी) तच्च यज्ञियपात्रभेदः । तल्लक्षणमुक्तम्
“उलूखलमुषले अरत्निमात्रे औदुस्वरे प्रादेशमात्रे
चतुरस्रमुलूखलं मध्यसंगृहीतमूर्द्ध्वं वृत्तम्, मुषलं दक्षिण-
मुलूखलात्” कात्या० १७, ५, ३ । तदुत्तरत्र सूत्रेऽऽपि
उदा० । “वनस्पतिभ्य इत्येव मुषलोलूखले हरेत्” मनुः
“स्फ्यशूर्पशकटानाञ्च मुषलोलूखलस्य च । अद्भिस्तुंप्रोक्षणं
शौचं बहूनां धान्यवाससाम्” तस्य मनूक्ताशौचं ज्ञेयम्
उलूखलंशब्दस्य यास्केनान्यथा निरुक्तिर्दर्शिता यथा ।
“उलूखलमुत्करं वोर्करं वोर्द्ध्वकं वोरु मे कुर्वित्यब्रवीत्तदुलू-
खलमभयमुत्करं वै तदुलूखलमित्याक्षते परोक्षेण” ।
स्वार्थे कन् तत्रार्थे “गृहे गृह उलूखलके” ऋ० १, १२८,
५ । तदस्य साधनत्वेनास्त्यस्य ठत् । उलूखलिकः ।
तत्साधनके जने “दन्तोलूखलिकोऽपि व” मनुः । २ गुग्गुलौ पु०

उलूखलसुत पु० ३ त० । उलूखलेनाभिषुते सोमरसे

“उलूखलसुतानामवेद्विन्द्रः” ऋ० १, २८, १, २, ३ ।

उलूत पु० उल--बा० ऊतच् । अजगरसर्पे त्रिका० ।

उलूपिन पु० ओ शम्भोः रूपमस्त्यस्य इनि रस्य लः ।

शिशुमारे अमरः । पृ० ह्रस्वपाठोऽपि तत्रैव उलपिन्
इत्यपि पाठः क्वचित् तत्रार्थे ।

उलूपी स्त्री कौरव्यनागकत्याभेदे तत्कया भा० आ० २४१ अ० ।

“उलूप्यवाच ऐरावतकुले जातः कौरव्यो नाम पन्नगः ।
तस्याऽस्मि दुहिता राजन्! उलूपी नाम पन्नगी । साहि-
त्वामभिषेकार्थमवतीर्णं समुद्रगाम् । दृष्ट्वैव पुरुषव्याघ्र!
कन्दर्पेणाभिमूर्च्छिता । तां मामनङ्गग्लपितां त्वत्कृते कुरु-
नन्दन! । अनन्यां नन्दयस्वाद्य प्रदानेनात्मनोऽनघ! ।
अर्जुन उवाच । ब्रह्मचर्य्यमिदं भद्रे! मम द्वादशवार्षि-
कम् । धर्म्मराजेन चादिष्टं नाहमस्मि स्वयंवशः । तव
चापि प्रियं कर्त्तुमिच्छामि जलचारिणि! । अनृतं
नोक्तपूर्वञ्च मया किञ्चन कर्हिचित् । कथञ्च गानृतं
मे स्यात्तव परिप्रियं भवेत् । न च पीड्येत मे
धर्म्मस्तथा कुर्य्यां भुजङ्गमि! । उलूप्युवाच । जानाम्यहं
पाण्डवेय! यथा चरसि मेदिनीम् । यथा च ते ब्रह्मच-
र्य्यमिदमादिष्टवान् गुरुः । परस्परं वर्त्तमानान् द्रुपदस्या-
त्मजां प्रति । यो नोऽनुप्रविशेन्मोहात्स वै द्वादशवार्षिकम् ।
वने चरेद्ब्रह्मचर्य्यमिति वः समयः कृतः । तदिदं द्रौप-
दीहेतोरन्योऽन्यस्य प्रवासनम् । कृतवांस्तत्र धर्म्मार्थमत्र
धर्मो न दुष्यति । परित्राणञ्च कर्त्तव्यमार्त्तानां पृथुलो-
चन! । कृत्वा मम परित्राणं तव धर्म्मो न लुप्यते । यदि
वाऽप्यस्य धर्म्मस्य सूक्ष्मोऽपि स्याद्व्यतिक्रमः । स च ते धर्म्म
एव स्याद्दत्त्वा प्राणान्ममार्जुन! । भक्ताञ्च भज मां पार्थ!
सतामेतन्मतं प्रभो! । न करिष्यसि चेदेवं मृतां मामुपधा-
रय । प्राणदानान्महाबाहो! चर धर्म्ममनुत्तमम् । शरणञ्च
प्रपन्नाऽस्मि त्वामद्य पुरुषोत्तम । दीनाननाथान् कौन्तेय!
परिरक्षसि नित्यशः । साऽहं शरणमभ्यैमि रोरवीमि चदुः-
खिता । याचे त्वां चाभिकामाऽहं तस्मात्कुरु मम प्रियम् ।
स त्वमात्मप्रदानेन सकामां कर्त्तुमर्हसि । वैशम्पायन उवाच ।
एवमुक्तस्तु कौन्तेयः पन्नगेश्वरकन्यया । कृतवांस्तत्तथा सब्ब
धर्ममुद्दिश्य कारणम् । स नागभवने रात्रिं तामुषित्वा
प्रतापवान् । उदितेऽभ्युत्थितः सूर्य्ये कौरव्यस्य निवेश-
नात् । आगतस्तु पुनस्तत्र गङ्गाद्वारं तया सह । परित्यज्य
गता साध्वी उलूपी निजमन्दिरम् । दत्त्वा वरमजेयत्वं
जले सर्व्वत्र भारत! । साध्या जलचराः सर्व्वे
भविष्यन्ति न संशयः” ।

उल्का स्त्री उष--दाहे क नि० षस्य लं । रेस्वाकारे गगनात्

पतत्तेजःपुञ्जे । अग्न्युत्पातशब्दे ६२ पृष्ठे तत्स्वरूप-
फलादिकमुक्तम् । “बाधेतोलकाक्षपितचमरीबालभारो-
दवाग्निः” मेघ० । “उल्कानिर्घातकेतूंश्च ज्योतींष्युच्चावचानि
च” । “उल्कापाते द्रिशां दाहे गोमायुविरुते तथा”
“विद्युत्स्तनितवर्षेषु महोल्कानां च संप्लवे” मनुः । “स्फुर-
पृष्ठ १३७१
लकाकृति विक्षिपन्वनेषु” किरा० । उल्काकारणमु-
क्तम् श्रीपतिना “यासां गतिर्दिवि भवेद्गणितेन गम्या
तास्तारकाः सकलखेचरतोऽतिदूरे । तिष्ठन्ति या
अनियतोद्गतयश्च ताराश्चन्द्रादधोहि निवसन्ति तदन्वितास्ताः ।
शीतांशुवज्जलमयास्तपनात् स्पुरन्ति ताश्चावहपवहमारु-
तसन्धिसंस्थाः । पूर्ब्बानिलैस्तिमितभावमपागतेऽस्मिंस्ताराः
पतन्ति कुहचिद्गुरुतावशेन” । (ज्वलन्तखटेरनुड़ा)
२ शुष्कवृणवस्त्रादिदोपिते (मशाल) इति प्रसिद्धे
३ दीपभेदे च । “तुलाराशिं गते भानौ
अमावास्यां नराधिपः । स्नात्वा देवान् पितॄन् भक्त्या संपू-
ज्याथ प्रणम्य च । कृत्वा तु पार्वणश्राद्धं दधिक्षीरगुड़ा-
दिभिः । ततोऽपराह्णसमये घोषयेन्नगरे नृपः । लक्ष्मीः
संपूज्यतां लोका! उल्काभिश्चापि वेष्ट्यताम्” ति० त० ज्यो०
उल्कादाने दर्शद्वैधे निर्णयः । “तुलासंस्थे सहस्रांशौ
प्रदोषे भूतदर्शयोः । उल्काहस्ता नराः कुर्युः पितॄणां
मार्गदर्शनम्” ति० त० ज्यो० वचनात् प्रदोषव्यापिदर्शे
कार्यम् । उभयत्र प्रदोषप्राप्तौ परदिने एव, युग्मादिशा-
स्त्रात् । “दण्डैकरजनीयोगोदर्शस्य स्यात् परेऽहनि ।
तदा विहाय पूर्वेद्यु परेद्युः सुखरात्रिका” ज्योतिर्वचनाच्च ।
उभयत्र प्रदोषाप्राप्तावपि उल्कादानं पूर्वोक्तपार्वणानुरो-
धात्, न पूर्ब्बदिने भूताहे ये प्रकुर्बन्ति उल्काग्रहमचेतसः ।
निराशाः पितरो यान्ति शापं दत्त्वा सुदारुणम्” ज्योतिर्व-
चनात् । उल्काग्रहणादि पितृकृत्यत्वात् प्राचीनावी-
तिना दक्षिणाभिमुखेन कार्यम् । “प्राचीनवीतिना सम्यग-
पसव्यमतन्द्रिणा । पित्र्यमा निधनात् कार्यं विधिवद्दर्भपाणि
ना” मनूक्तेः । तद्दानमन्त्रादि ति० त० दृश्यम् । ४ ज्योति-
षोक्ते नाक्षत्रिकदशाभेदे । “मङ्गला पिङ्गला धान्या
भ्रामरी भद्रिका तथा । उल्का सिद्धा सङ्कटा च ह्यष्टौ-
ज्ञेया महादशाः” ज्यो० । तदानयनञ्च “वह्निभान्मीननक्षत्रा-
ज्जन्मर्क्षाच्छिवभादथ” इत्युक्तेः मतभेदेन कृत्तिकानक्षत्रात्
पूर्व्वभाद्रपदचतुर्थपादात् जन्मनक्षत्राद्वाऽऽरम्य एवैकास्ता-
त्रिरावृत्त्या क्रमेण मङ्गलादिका दशा भवन्ति इत्येवं
चतुर्विंशतिनक्षत्रेप त्रिरावृत्त्या अष्टौ दशा अवसेयाः
ततोऽन्तिमत्रिभेषुमङ्गंलाद्यास्तिस्रो भवन्ति । एवमन्यत्राप्यूह्यम् ।
तासां भोगकालश्चं । “एकाद्येकोत्तरा अष्टयोगिनीवत्सरा
मताः इत्युक्त्या मङ्गलायाः १ एकोवर्षः पिङ्गलायाः २ द्वौ,
धान्यायास्त्रयः, भ्रामर्याः ४ वर्षाः, भद्रिकायाः पञ्च,
उल्कायाः षट्, सिद्धायाः सप्त, सङ्कटायाः अष्टौ वर्षाः,
तेषां योगेन ३६ वर्षामङ्गलाद्यानां भोगकाला, इत्येबं त्रिरा-
वृत्त्या अष्टोत्तरशतर्षास्तासां भोगकालः । अन्तर्दशादिकं
योगिनीशब्दे वक्ष्यते ।

उल्काचक्र न० रुद्रयामलोक्ते ग्राह्यमन्त्रशुभाशुभज्ञापक

चक्रभेदे “उल्काचक्रं सर्वसारं मन्त्रदोषादिनिर्णयम् ।
मत्स्याकारमूर्द्ध्वमुखं सर्वमन्त्रादिविग्रहम् । स्कन्धदेशावधि
नाथ! पुच्छपर्यन्तमेव च । अकाराक्षरमारभ्य द्वादशा-
क्षरमातृकम् । विलिखेत् पृष्ठदेशं तु शुभाशुभविशुद्धये ।
त्रयोदशाक्षरान्नाथ! एकविंशाक्षरान्तकम् । नेतव्यंसाध-
कैर्मन्त्रं पृष्ठस्थं समुदाहृतम् । तथा श्रीशुभदं प्रोक्तं
कण्ठादिपुच्छकान्तकम् । द्वाविंशादि चतुस्त्रिंशदक्षरान्तं
शुभं मनुम् । पुच्छस्थं नापि गृह्णीयान्मुखस्थञ्च तथा
ध्रुवम् । शीर्षस्थञ्चापि गृह्णीयात् तदक्षरं शृणु
प्रभो! । पञ्चत्रिंशादि द्वाचत्वारिंशद्वर्णान्तमेव च । मस्त-
कस्थं शुभं प्रोक्तं मुखवर्णान् शृणु प्रभो । त्रिचत्वारिं-
शवर्णादि एकपञ्चाशदन्तकम् । मुखस्थमन्त्रं मन्त्री तु न
गृह्णीयात् कदाचन । पुच्छस्थं शृणु यत्नेन निरर्थकमहा-
र्त्तिदम् । भ्रमो गात्रस्य पीडाभिः देवता कुप्यतेऽनिशम् ।
द्विपञ्चाशदक्षरादि एकपष्टितमान्तिकान् । वर्णान् पुच्छ-
स्थितान् प्रोक्तान् नेत्रस्थान् शृणु वल्लभ! । द्विषष्टितमव-
र्ण्णादि चतुषष्ठ्यक्षरान्तकम् । अङ्गं लोचनमन्त्रञ्च
ततोऽन्यत् रसनास्थितम् । तत् सर्वं शुभदं प्रोक्तं एतदन्यतम
शृणु । वैष्णवानाञ्च शैवानां शाक्तानां मन्त्रजापनम् ।
अन्यदेवेषु भक्तानां भक्तिमुक्तिप्रदं नृणाम्” । “एतच्च
चतुषष्टिस्त्रिषष्टिर्वा वर्ण्णाः सम्भवतोमताः । स्वराविंशतिरेकश्च
स्पर्शानां पञ्चविंशतिः । यादयश्च स्मृताश्चाष्टौ चत्वारश्च
यमास्तथा । अनुस्वारो विसर्गश्च + कँपौ चापि पराश्रितौ ।
दुस्पृष्टश्चेति विज्ञेयो ऌकारः प्लुत एव च” इति शिक्षो-
क्तविभागाभिप्रायं चतुःषष्टेरन्यकथनम् कॢकारस्य दीर्घ-
सत्त्वमतेनेति बोध्यम् ।

उल्काजिह्व पु० उल्केव जिह्वाऽस्य । रामा० प्रसिद्धे राक्षसभेदे

उल्काप्रुख पु० उल्केव मुखमस्य । प्रेतभेदे “वान्ताश्युल्कामुखः

प्रेतो विप्रोधर्म्मात् स्वकात् च्युतः” मनुः (ख्याङ
सेओयालि) इति प्रसिद्धे जन्तुभेदे स्त्री ङीष् ।

उल्कुषी स्त्री उल्--दाहे क्विप् उला दाहेन कुष्णाति कुष्--क

गौ० ङीष् । उल्कायाम् । “अशनिरेव प्रथमोऽवुयाजः
ह्रादुनिर्द्वितीय उल्वषी तृतीयः” । “उल्कुष्यमुं
जहीति तृतीयम्” “उल्कुषीह तमनयाजोहन्ति” उल्-
पृष्ठ १३७२
कुष्यन्तस्तस्माद्वै देवानां यज्ञः” इति शत० ब्रा० ११, २, ७,
२१, २५, “उल्कुषी उल्का” भा० । “अभिचरन्ननु-
याजानुमन्त्रणमशन्यमुं जहि ह्रादुन्यमुं जहि उल्कुष्यमुं
जहि” कात्या० ३, ५, १४,

उल्ब न० उला दाहेन बणति वण--बा० ड । जरायौ गर्भ

वेष्टनचर्म्मणि । “यथोल्बेनावृतीगर्भस्तथा तेनेदमावृतम्”
गीता । “तस्योत जायमानस्योल्ब आसीद्धिरण्ययः”
अथ० ४, २, ८, “गर्भो वा एष यद्वीक्षित उल्बं वासः
प्रोर्णुते” । “तस्माद्गर्भाः प्रावृता उल्बेन जायन्ते तैत्ति०
सं० “उल्वे गर्भवेष्टने तिष्ठति” यजु० ५, ३, ४, १८,
“गर्भोजरायुणावृतः उल्वं जहाति जन्मना” १९, ७६,

उल्बण त्रि० उला बणति अच् । १ उत्कटे २ प्रकाशान्विते

३ नतोन्नते च । “त्याजितैः फलमुत्खातैर्भग्नैश्च बहुधा
नृपैः । तस्यासीदुल्बणो मार्गः पादपैरिव दन्तिनः” रघुः
“प्रववर्ष च तत्रैव सहसा तोयमुल्बणम् भा० व० ९ अ० ।

उल्मुक न० उष--दाहे मुक, षस्य लः । १ ज्वलदङ्गारे अमरः ।

२ वृष्णिभेदे “उल्मुकोनिशठश्चैव वीरश्चाङ्गावहस्तथा भा० स०
३३ अ० ३ अग्न्याधानार्थे ज्वलदङ्गारे च । “अन्वहा-
र्य्यपचनादुल्मुकमादायोदङ् परेत्य जुहोति” शत० ब्रा० २, ६,
२, ७ “उद्यत एवैष आग्नीध्रीयोऽग्निर्भवत्यथैत एकैकमेवो-
ल्मुकमादाय यथाधिक्यं विपरायन्ति तैरेव तेषामुल्मुकैः
प्रघ्नन्तीति” ४, ६, ८, ७ । उल्मुके भवः यत् ।
उल्मुखसाध्ये त्रि० । “अथ हैक उल्मुक्येन दहन्ति”
शत० ब्रा० १२, ५, १, १६ ।

उल्लङ्घन न० उद् + लघि--भावे ल्युट् । अतिक्रमे, ऊर्द्ध्वभाग-

गमनादिना अतिक्रमणे (डिङ्गान) ।

उल्लल त्रि० उत् + लल--अच् । १ बहुरोगयुक्तं हारा० । २ उच्चलिते त्रि० ।

उल्ललित त्रि० उद् + लल--क्त । १ उच्चलिते २ तरलिते,

३ आन्दोलिते च ।

उल्लसन न० उद् + लस--ल्युट् । १ उल्लासे हर्षजनकव्यापारे

आधारे ल्युट् । संज्ञायां कन् । २ रोमाञ्चे हेम० ।

उल्लसित त्रि० उद् + लस--क्त । १ स्फुरिते २ उद्धते ३ हृष्टे च ।

उल्लाघ त्रि० उद् + लाघ--क्त नि० । १ रोगनिर्मुक्ते, २ दक्षे,

३ शुचौ, च । ४ मरिचे पु० ।

उल्लाप पु० उद् + लप--घञ् । १ काकुवाक्ये, २ शोकरोगा-

दिना विकृतस्वरयुक्तवाक्ये ३ दुष्टवाक्ये “खलोल्लापाः सोढाः
कथमपि तदाराधनपरैः” वारा० । ४ सूचने च
ततोऽस्त्यर्थेठन् । सूचके त्रि० “लाजोल्लापिकधूमाढ्य-
मुच्चप्राकारतोरणम्” भा० उ० १९२ अ०

उल्लापन न० उद् + लप--णिच्--ल्युट् । वृत्त्यादिना व्याख्याने ।

उल्लास पु० उद्--लस--घञ् । १ प्रकाशे, २ आह्लादे, “निप-

तन्ति कन्दलवनोल्लासाः पयोविन्दवः” अमरुशत० ।
“सौहित्यवचनोल्लाससहासप्रतिभादिकृत्” सा० द० ।
ग्रन्थस्याध्यायस्थानीये ३ परिच्छेदे च यथा काव्यप्रकाशे ।
४ प्रारम्भे च

उल्लासिन् त्रि० उद + लस--णिनि । १ उल्लासयुक्ते प्रभान्विते

३ आह्लादिनि स्त्रियां ङीप् । “सुमनसामुल्लासिनी-
मानसे” चन्द्रालोकः ।

उल्लिखित त्रि० उद् + लिख--क्त । १ उत्कीर्णे २ तनूकृते “त्वष्ट्रेव

यन्त्रोल्लिखितो विभाति” रघुः । ३ उपरि लिखिते ।
४ चित्रिते ५ कर्त्तव्यतया कृतोल्लेखे पदार्थे च ।

उल्लुञ्चन न० उद् + लुचि--अपनयने ल्युट् । १ उत्कर्त्तने (उपड़ान)

२ उन्मूलने च “पादकेशांशुककरोल्लुञ्चने च पणान् दश” या०

उल्लुण्ठन न० उद् + लुठि--ह्नुतौ । स्वाभिप्रायापह्नवेन

अन्यथाभाषप्रकाशने (ठाट्टा) अ । उल्लुण्ठाऽप्यत्र स्त्री ।
“धीराधीरा तु सोल्लुण्ठभाषितैः संतुदेदमुम्” यथा
“अनलङ्कृतोऽपि सततं हरसि मनोमे यतः प्रसभम् । किं
पुनरलङ्कृतस्त्वं सम्प्रति नखरक्षतैस्तस्याः” सा० द०
अत्र सपत्नीनखक्षतदर्शनजातेर्ष्यापह्नवेन मनोहर्षजनक-
त्वोक्तिस्तदभावद्योतनार्था” ।

उल्लू त्रि० उद् + लू--क्विप् । उत्पाटके

उल्लेख पु० उद् + लिख--घञ् । इदं कर्त्तव्यमित्यादिना

संकल्पितार्थप्रतिपादकशब्दोच्चारणे “संज्ञाशब्दस्येदमेव प्रयोज-
नम् यत्तयोल्लेखः” ति० त० । अलङ्कारभेदे पु० स च
३९८ पृ० उक्तः । २ घर्षणे च । “असकृन्निशितशस्त्रोल्ले-
खविषमितशिखरेण” काद० । ३ उत्कीर्त्तने च

उल्लेखन न० उद् + लिख--ल्युट् । १ वमने, २ खनने, कर्त्तव्य-

तया ३ संकाल्पतार्थकवाक्योच्चारणे “मासपक्षतिथीनाञ्च
निमित्तानाञ्च सर्व्वशः । उल्लेखनमकुर्व्वाणोन तस्य
फलभाग् भवेत्” ति० त० व्र० पु० । “संकल्पेन विना राजन् ।
यत्किञ्चित् कुरुते नरः । फलं चाल्पाल्पकं तस्य धर्म्मस्यार्द्ध-
क्षयो भवेत्” ति० त० ब्र० पुराणाच्च संकल्पवाक्ये मासादी-
नामवश्यं कीर्त्तनीयताऽवगम्यते । “मनसा सङ्कल्पयति
वाचाऽभिलपतीत्युक्तेरपि अभिलापस्यावश्यकता । अभिला-
पवाक्ये च मासादिनिमित्तानामिव आत्मसम्बन्धित्वेन
तत्तत्कर्मादिकस्यापि कीर्त्तनं कर्त्तव्यम्” “प्रत्येकं नि-
पृष्ठ १३७३
यतं कालमात्मनोव्रतमादिशेत्” प्रा० त० संव० उक्तेः ।
“सेकादुत्ल्लेखनाल्लेपात् गृहं मार्ज्जनलेपनात्” “सम्मा-
र्ज्जतोपाञ्जनेन सेकेनोल्लेखनेन च” मनुः । यज्ञे वह्नि-
स्यापनाङ्गस्थण्डिलादिस्थबालुकादौ रेखाभिः ४ चिह्नकरणे ।
“ओल्लेखनात् करोति मेखलादि चेत्” कात्या०७, ४, ९ ।
तदा मूमौ प्राच्यां रेखया उल्लेखनान्तं कर्म्म कुर्य्यात्”
कर्क । ५ घर्षणे च ।

उल्लोच पु० ऊर्द्ध्वं लोच्यते उद् + लोच--कर्मणि घञ् निष्ठायां

सेटकत्वात् न कुत्वम् । चन्द्रातपे विताने ।

उल्लोप्य न० उद् + लुप--यत् । लौकिकगीतिभेदे । तच्च

मिताक्षरायां दर्शितं यथा ।
“यस्य पुनश्चित्तवृत्तिर्न्निराकारालम्बनतया समाधौ नाभि-
रमते तेन शब्दब्रह्मोपासनं कार्य्यमित्याह । “यथाविधा-
नेन पठत् सामगायमविच्युतम् । सावधानस्तदभ्यासात्प-
रं ब्रह्माधिगच्छति” या० । “स्वाध्यायावगतमार्गानतिक्रमेण
सामगायं साम्नोगानात्मकत्वेऽपि गायमिति विशेषणम्
अगोतमन्त्रव्युदासार्थम् । अविच्युतमक्खलितम् ।
सावधानः समाध्यनुष्यूतात्मैकाग्य्रचित्तवृत्तिः । पठन्
तदभ्यासवशात्तत्र निष्णातः । शब्दाकारशून्योपासने
परम्ब्रह्माधिगच्छति । तदुक्तम् । “शब्दब्रह्मणि निष्णातः
परं ब्रह्माधिगच्छतीति” । यस्य पुनर्वौदक्याङ्गीतौ चित्तं
नाभिरमते तेन लीकिकगीतानुष्यूतात्मोपासनङ्कार्य्यमि-
त्याह । “अपरान्तकमुल्लोप्यं मद्रकम्प्रकरीन्तथा ।
औवेणकं सरोविन्दु मुत्तरङ्गीतकानि च । ऋग्गाथापाणिकादक्ष
विहिता ब्रह्मगीतिका । गेयमेतत्तदभ्यासकरणान्मोक्ष
संज्ञितम्” या० । “अपरान्तकोल्लोप्यभद्रकप्रकर्य्यौवेणकानि
सरोविन्दुकसहितञ्चोत्तरमित्येतानि प्रकरणाख्यानि सप्त
गीतकानि । चशब्दादासारितबर्द्धमानकादि गीतकानि
गृह्यन्ते । गाथाद्याश्चतस्रोगीतकानि गृह्यन्ते । ऋग्गाथा-
द्याश्चतस्रोगीतिका इत्येतदपरान्तकादिगीतजातमध्या-
रोपितात्मभावम्मोक्षसाधनत्वान्मोक्षसंज्ञितं मन्तव्यम् ।
तदभ्यासस्यैकाग्रतापादनद्वारेणात्मैकतापत्तिहेतुत्वात् ।
“चित्तविक्षेपाद्यन्तरायहतस्य गीतज्ञस्य फलान्तरमाह ।
“गीतज्ञो यदि योगेन नाप्नोति परमम्पदम् । रुद्रस्यानुचरोभूत्वा
सह तेनैव मोदते” या० । “गीतज्ञोयदि कथञ्चिद्योगेन
परमम्पदन्न प्राप्नोति । तर्हि रुद्रस्य सचिवोभूत्वा तेनैव
सह मोदते” ।

उल्लोल पु० उद + लोल--घञ् । १ महातरङ्गे अमरः । २ अतिचञ्चले त्रि० ।

उल्व पु० उच--समवाये आधारे वन् “उल्वादयश्च” उणा० नि० चस्य

लः गुणाभावश्च । गर्भवेष्टनचर्म्मणि “उल्वावृतोगर्भोदश वा
मासान्नन्तः शयित्वा यावद्वाऽथ जायते” छा० उ० ।
“उल्वावृत इत्यादि वैराग्यहेतोरिदमुच्यते । कष्टं हि
मातुः कुक्षौ मूत्रपुरीषवातपित्तश्लेष्मादिपूर्णे तदनुलिप्तस्य
गर्भस्योल्वाऽशुचिपूयावृतस्य लोहितरेतोऽशुचिवीजस्य
मातुरशितपीतरसानुप्रवेशेन विवर्द्धमानस्य निरुद्धशक्तिबल-
वीर्य्यतेजः प्रज्ञाचेष्टस्य शयनं, ततो योनिद्वारेण पीड्यमा-
नस्य कष्टतरा निःसृतिर्जन्मेति वैराग्यं ग्राहयति मुहू-
र्त्तमप्यसह्यं दश वा मासानतिदीर्घकालमन्तःशयित्वेति”
इति शा० भा० । कर्त्तरि वन् । २ गर्भे

उल्वण त्रि० उला दाहेन वलति पचाद्यक् पृषो । व्यक्ते स्पष्टे

उल्बणशब्दे उदा० ।

उश त्रि० वश--क । कामयमाने “अपो यदग्न उशधग् वनेषु” ऋ० ३, ६, ७ । “कामयमानदाही” भा०

उशत् त्रि० वश--शतृ सम्प्र० । कामयमाने । “उशन् हवै

वाजश्र यः सर्वसदेवसं ददौ” कठ उ० स्त्रियां ङीप् ।
“उशतीरिव मातरः” अघमर्षणसूक्तम् । सा च अकल्या-
णायां वाचि” शब्दरत्ना० । तत्र रुशतीत्येव पाठोयुक्तः
रुश सिंहायामित्यादिकस्यैव शत्रन्तस्य तद् रूपम् ।
इति अमरटीकायां भानुजदीक्षितः । उशतीति पाठस्तु
लिपिकरप्रमादात् । तन्मूल एव शब्दकल्पद्रुमोऽपि
चिन्त्यः वशधातोरिच्छार्थकतया तथार्थत्वासम्भवात् ।

उशनस् पु० वश--कनसि सम्प्र० । भार्गवे शुक्रे । सौ उशना

संबुद्धौ उशनन्--उशन,--उशनः । “अध्यापितस्योशन-
सापि नीतिम्” कुमा० । उशनसा प्रोक्तम् अण् । औशनस
तत्कृते धर्मशास्त्रे “मन्वत्रिर्विष्णुहारीतयाज्ञवल्क्योश-
नोऽङ्गिराः” इत्युपक्रम्य “धर्मशास्त्रप्रयोजकाः याज्ञ० ।
तस्येदम् अण् । तदीये त्रि० स्त्रियां ङीप् औशनसी नीतिः ।
अयञ्चासुराणां पुरोहितः यथोक्तम् “सुराणामसुराणाञ्च
समजायत वै मिथः । ऐश्वर्य्यं प्रति संघर्षस्त्रैलोक्ये
सचराचरे । जिगीषया ततो देवावव्रिरेऽङ्गिरसं मुनिम् ।
पौरहित्येन याज्यार्थे काव्यं तूशनसं परे । ब्राह्मणौ
तावुभौ नित्यमन्योन्यस्पर्द्धिनौ नृप!” भा० आ० ७६
अ० । “असुराणामुपाध्यायः शुक्रस्त्वृषिसुतोऽभवत् ।
ख्याता उशनसः पुत्राश्चत्वारोऽसुरयाजकाः” भा० आ० ६५
अ० । सच भृगुपुत्रः भा० आ० ६६ अ० उक्तः “भृगोः
पुत्रः कविर्विद्वान् शुक्रः कविसुतो ग्रहः । त्रैलोक्य
प्राणयात्रार्थं वर्षावर्षे भयाभये । स्वयम्भुवा नियुक्तः
पृष्ठ १३७४
सन् भुवनं परिधावति । योगाचार्य्योमिताहारो दैत्या-
नामभवद्गुरुः” । तस्य नक्षत्रविशेषगत्या वर्षादिफला-
दिकम् वृ० सं० ९ अ० उक्तम् “नागगजैरावतवृषभगोजर-
द्गवमृगाजदहनाख्याः । अश्विन्याद्याः कैश्चित् त्रिभाः
क्रमाद्वीथयः कथिताः । नागा तु पवनयाम्यानलानि
पैतामहात्त्रिभात्त्रिस्त्रः । गोवीथ्यामश्विन्यः पौष्णं द्वे
चापि भाद्रपदे । जरद्गव्यां श्रवणात् त्रिभं मृगाद्यात्
त्रिभं च मैत्राद्यम् । हस्तविशाखात्वाष्ट्राण्यजेत्यषाढा-
द्वयं दहना । तिस्रस्तिस्रस्तासां क्रमादुदङ्मध्ययाम्य-
मार्गस्थाः । तासामप्युत्तरमध्यदक्षिणावस्थितैकैका ।
वोथीमार्गानपरे कथयन्ति यथा स्थिता भमार्गस्य ।
नक्षत्राणां तारा याम्योत्तरमध्यमांस्तद्वत् । उत्तरमार्गो
याम्यादिर्निगदितो मध्यमस्तु भाग्याद्यः । दक्षिणमा-
र्गोऽषाढादिः कैश्चिदेवं कृता मार्गाः । ज्योतिषमागम-
शास्त्रं विप्रतिपत्तौ न योग्यमस्माकम् । स्वयमेव
विकल्पयितुं किन्तु बहूनां मतं वक्ष्ये ।
उत्तरवीथिषु शुक्रः सुभिक्षशिवकृद्गतोऽस्तमुदयं वा । मध्यासु
मध्यफलदः कष्टफलो दक्षिणस्थासु । अत्युत्तमोत्तमोनं
सममध्यन्यूनमधमकष्टफलम् । कष्टतमं सौम्याद्यासु वीथिषु
यथाक्रमं ब्रूयात् । भरणीपूर्वं मण्डलमृक्षचतुष्कं सुभि-
क्षकरमाद्यम् । वङ्गाङ्गमहिषवाह्लीककलिङ्गदेशेषु
भयजननम् । अत्रोदितमारोहेद्ग्रहोऽपरो यदि सितं ततो
हन्यात् । भद्राश्वशूरसेनकयौधेयककोटिवर्षनृपान् ।
भचतुष्टयमार्द्रादां द्वितीयममिताम्बुशस्यसम्पत्त्यै । विप्रा-
णामशुभकरं बिशेषतः क्रूरचेष्टानाम् । अन्यनात्रा-
क्रान्ते म्लेच्छाटविकाश्वजाविगोमन्तान् । गोनर्दनीच
शूद्रान् वैदेहांश्चानयः स्पृशति । विचरन् मघादिप-
ञ्चकमुदितः शस्यप्रणाशकृच्छुक्रः । क्षुत्तस्करभयजननो
नीचोन्नतिसङ्करकरश्च । चित्राद्येऽवष्टब्धो हन्त्ययेना-
विकाञ्छबरशूद्रान् । पुण्ड्रापरान्तशूलिकवनवासिद्रविड-
सामुद्रान् । स्वात्याद्यं भत्रितयं मण्डलमेतच्चतुर्थमभयक-
रम् । ब्रह्मक्षत्रसुभिक्षाभिवृद्धये मित्रभेदाय । अत्रा-
क्रान्ते मृत्युः किरातभर्तुः पिनष्टि चेक्ष्वाकून् । प्रत्यन्ता-
वन्तिपुलिन्दतङ्गणाञ्छूरसेनांश्च । ज्येष्ठाद्यं पञ्चर्क्षं क्षुत्त-
स्कररोगदं प्रबाधयते । काश्मीराश्मकमत्स्यान् सचारुदे-
वानवन्तींश्च । आरोहेऽत्राभीरान् द्रविडाम्बष्ठत्रिगर्तसौ-
राष्ट्रान् । नाशयति सिन्धुसौवीरकांश्च काशीश्वरस्य बधः ।
षष्ठं षण्नक्षत्र शुभमेतन्मण्डलं धनिष्ठाद्यम् । भूरिध-
नगोकुलाकुलमनल्पधान्यं क्वचित् सभयम् । अत्रारोहे
शूलिकगान्धरावन्तयः प्रपीड्यन्ते । वैदेहबधः, प्रत्यन्तयवन-
शकदासपरिवृद्धिः । अपरस्यां स्वात्याद्यं ज्येष्ठाद्यं चापि
मण्डलं शुमदम् । पित्र्याद्यं पूर्वस्यां शेषाणि यथोक्तफ-
लदानि । दृष्टोऽनस्तगतेऽर्के भयकृत् क्षुद्रोगकृत् समस्त-
महः । अर्धदिवसं च सेन्दुर्नृपवलपुरभेदकृच्छुक्रः ।
भिन्दन् गतोऽनलर्क्षं कूलातिक्रान्तवारिवाहाभिः । अव्यक्त-
तुङ्गनिम्ना समा सरिद्भिर्भवति धात्री । प्राजापत्ये शकटे
भिन्नेकृत्वेव पातकं वसुधा । केशास्थिशकलशवला कापा-
लमिव व्रतं धत्ते । सौम्योपगतो रसशस्यसङ्क्षयायोशनाः
समुद्दिष्टः । आर्द्रागतस्तु कोशलकलिङ्गहा सलिलनिकर-
करः । अश्मकवैदर्भाणां पुनर्वसुस्थे सिते महाननयः ।
पुष्ये पुष्टा वृष्टिर्विद्याधरगणविमर्दश्च । अश्लेषासु
भुजङ्गमदारुणपीडावहश्चरञ्छुक्रः । भिन्दन् मघां महामात्र-
दोषकृद्भूरिवृष्टिकरः । भाग्ये शवरपुलिन्दप्रध्वंसकरोऽ-
म्बुनिवहमोक्षाय । आर्यम्णे कुरुजाङ्गलपाञ्चालघ्नः
सलिलदायी । कौरवचित्रकराणां हस्ते पीडा जलस्य च
निरोधः । कूपकृदण्डजपीडा चित्रास्थे शीभना वृष्टिः ।
स्वातौ प्रभूतवृष्टिर्दूतबणिग्नाविकान् स्पृशत्यनयः ।
ऐन्द्राग्न्येऽपि सुवृष्टिर्बणिजां च भयं विजानीयात् ।
मैत्रे क्षत्रविरोधो ज्येष्ठायां क्षत्रमुख्यसन्तापः । मौलि-
कभिषजां मूले त्रिष्वपि चैतेष्वनावृष्टिः । आप्ये सलिलज-
पीडा विश्वेशे व्याधयः प्रकुप्यन्ति । श्रवणे श्रवणव्याधिः
पाषण्डिभयं धनिष्ठासु । शतभिषजि शौण्डिकानामजै-
कपे द्यूतजीविनां पीडा । कुरुपाञ्चालानामपि करोति
चास्मिन् सितः सलिलम् । अहिर्बुध्न्ये फलमूलताप-
कृद्यायिनां च रेवत्याम् । अश्विन्यां हयपानां याम्ये
तु किरातयवनानाम् । चतुर्दशे पञ्चदशे तथाष्टमे
तमिस्रपक्षस्य तिथौ भृगोः सुतः । यदा व्रजेद्दर्शनमस्तमेति वा
तदा मही वारिमयीव लक्ष्यते । गुरुर्भृगुश्चापरपूर्वकाष्ठयोः
परस्परं सप्तमराशिगौ यदा । तदा प्रजा रुग्भयशोकपीडि-
ता न वारि पश्यन्ति पुरन्दरोज्झितम् । यदा स्थिता
जीवबुधारसूर्यजाः सितस्य सर्वेऽग्रपथानुवर्त्तिनः । नृना-
गविद्याधरसङ्गरास्तदा भवन्ति वाताश्च समुच्छ्रितान्तकाः ।
न मित्रभावे सुहृदो व्यवस्थिताः क्रियासु सम्यग्नरता
द्विजातयः । न चाल्पमप्यम्बु ददाति वासवो भिनत्ति
वज्रेण शिरांसि भूभृताम् । शनैश्चरे म्लेच्छबिड़ालकु-
ञ्जराः खरा महिष्योऽसितधान्यशूकराः । पुलिन्दशूद्राश्च
पृष्ठ १३७५
सदक्षिणापथाः क्षयं व्रजन्त्यशिवमरुद्गदीद्भवैः । निहन्ति
शुक्रः क्षितिजेऽग्रतः प्रजा हुताशशस्त्रक्षुदवृष्टितस्करैः ।
चराचरं व्यक्तमथोत्तरापथं दिशोऽग्निविद्युद्रजसा च
पीडयेत् । वृहस्पतौ हन्ति पुरःस्थिते सितः सितं
समस्तं द्विजगोसुरालयान् । दिशं च पूर्वां करकासृ-
जोऽम्बुदा गलेगदा भूरि भवेच्च शारदम् । सौम्योऽस्तो-
दययोः पुरो भृगुसुतस्यावस्थितस्तोयहृद् रोगान् पित्त-
जकामलांश्च कुरुते पुष्णाति च ग्रैष्मिकम् । हन्यात्
प्रव्रजिताग्निहोत्रिकभिषग्रङ्गोपजीव्यान् हयान् वैश्यान्
गाः सह वाहनैर्नरपतीन् पीतानि पश्चाद्दिशम् ।
शिखिभयमनलाभे शस्त्रकोपश्च रक्ते कनकनिकषगौरे
व्याधयो दैत्यपूज्ये । हरितकपिलरूपे श्वासकासप्रकोपः
पतति न सलिलं खाद्भस्मरूक्षासिताभे । दधिकुमुद-
शशाङ्ककान्तिभृत् स्फुटविकसत्किरणो वृहत्तनुः । सुगतिर-
विकृतो जयान्वितः कृतयुगरूपकरः सिताह्वयः” “उशने
काव्याय” ऋ० ६, २०, ११ । “उशने उशनसे” भा० छान्दसम् ।

उशनसस्तोम पु० उशनसः स्तोमो यत्र अलुक्समा०

वा विसर्गस्य लुक् । एकाहसाध्ये यागभेदे “उशनसस्तोमेन
गरगीर्ण्णमिवात्मानं मन्यमानो यजेत” आ० श्रौ० ९, ५, १ ।
“उशनसस्तोमोनाम एकाहसाध्यः पुनः स्तोम इति चास्यैव
संज्ञा गरोविषं गीर्णो येन स गरगीर्ण्णः यो बहुप्रति-
ग्रहादिना पापादिभयात् गरगीर्णमिवात्मानं मन्यते स
एतेन यजेत” नारा० वृ० “उशना यत् सहस्यैरयातं
त्वमपोयदवेतुर्वशायेति सूक्तमुखीये” इति तत्रैव सूक्तप्रार-
म्भः २ सूत्रे उक्तः ।

उशाना स्त्री वश--ताच्छील्येचानश् । सोमसाधनभूतायां गिरि

जातायामीषधौ । “यद्यदाप्यायन्ति देवो वै सोमो दिवि
हि सोमो वृत्रो वै सोम आसीत् तस्यैतच्छरीरं यद्गिरयः
यदश्मानस्तदैषोशाना नामौषधिर्जायत इति स्माह श्वेत-
केतुरुद्दालकिस्तामेतदाहृत्याभिषुण्वन्ति” शत० ब्रा० ३, ४,
३, ३० । “उशानाख्या ओषधिर्जायते इत्येवं श्वेत-
केतुराह अतस्तामेव गिरावुत्पन्नाम् इदानीन्तना यज
माना अभिषुण्वन्ति न साक्षात् सोमम्” भा० ।

उशिज् पु० वश--इजि किच्च संप्र० । १ अग्नौ २ घृते च उज्ज्व०

तत्र वह्नेः हविःकामयमानत्वात्, घृतस्य तु काम्यमानत्वात्
तथात्वम् । ३ कामयमाने त्रि० । “उशिगसि
कविरिति” “उशिगसि वसुभ्य इति” च ता० ब्रा० “वृषन्नुशिजो-
ययाविथः” ऋ० १, १३१, ५, “उशिजः कामयमानान्
यजमानान्” भा० । उशिजोमनीषिणः” ऋ० २, २१, २,
“उशिज इन्द्रं कामयमानान्” भा० । “स हव्यवाड़मर्त्य
उशिग्दूतश्च लोहितः” ३, ११, २ । “उशिक् हविःकाम-
यमानः” भा० उशिजोयविष्ठो वह्नितमानाम्” ३, १५,
३३ । “प्र पूर्वादिगुरुशिजः” यजु० “उशिजः हवींषि
कामयमानान्” वेददी० ४ काम्ये “उशिक् त्वं देव! सोमाग्नेः
प्रियं पार्थेऽपीहि” यजु० ८, ५५ “उशिक् काम्यमानः”
वेददीपः । “उशिगसि कविः” ५, ३२, । उशिक्का-
म्यमानः” वेददी० ५ अन्ने तस्य काम्यमानत्वात्तथा-
त्वम् । “उशिजा वसुभ्योवसून् जिन्वः” यजु० १५, ६ ।
उशिजा दश कान्तौ इति उशिगन्न तेन” वेददी० । ततः प्रज्ञा
स्वार्थेण । औसिजः उक्तार्थे । करणेइजि । ६ इच्छा
हेतौ मेधायाम् निरु० । मेधारूपज्ञानस्येच्छाहेतुत्वात्
तथात्वम् । ततः अस्त्यर्थे अर्श० अच् । उशिजः
मेधाविनि त्रि० निरु०

उशी स्त्री वश--ई--संप्र० । इच्छाभेदे उशीनरः ।

उशीनर पु० १ वृष्णिवंशोद्भये क्षत्रियभेदे । “उशीनरश्च विक्रान्तो

वृष्णयस्ते प्रकीर्त्तिताः” भा० आ० १८६ अ० । २ पौरवे
नृपभेदे “शृणु पूरोर्महाराज! वंशमुत्तमपौरुषम्” इत्यु-
पक्रम्य “सृञ्चयस्याभवत् पुत्रो वीरो राजा पुरञ्जयः ।
जनमेजयी महाराजो पुरञ्चयसुतोऽभवत् । जनमेजय
यस्य राजर्षेर्महाशीलोऽभवत् सुतः । महामना नाम
सुतो महाशीलस्य धार्मिकः । महामनास्तु द्वौ पुत्रौ
जनयामास भारत! । उशीनरं च धर्मज्ञंतितिक्षुञ्च महाब-
लम्” हरिवं० ३१ अ० तस्य चरितं वर्णितम्” भा० व०
“अत्रागच्छन्नृपवरं ज्ञातुमग्निः सवासवः । जिज्ञासमानी
वरदो महात्मानमुशीनरम् । इन्द्रःश्येनः कपोतोऽग्निर्भूत्वा
यज्ञेऽभिजग्मतुः । ऊरुं राज्ञः समासाद्य कपोतः श्येन-
जाद्भयात् । शरणार्थी तदा राजन्! निलिल्येभयपी-
ड़ितः” १३० अ० । “श्येन उपाच । धर्म्मात्मानं
त्वा रेकं सर्व्वे राजन्महीक्षितः । स वै धर्म्मविरुद्धं
त्वं कस्मात् कर्म्म चिकीर्षसि? । विहितं भक्षणं राजन्!
पीड्यमानस्य मे क्षुधा । मा रक्षीर्धर्म्मलोभेन धर्म्ममुत्-
सृष्टवानसि । राजोवाच । सन्त्रस्तरूपस्त्राणार्थी त्वत्तो
भीतो महाद्विज! । मत्सकाशमनुप्राप्तः प्राणगृध्नुरयं
द्विजः । एवमभ्यागतस्येह कपोतंस्याभयार्थिनः । अप्र-
दाने परं धर्म्मं कथं श्येन! न पश्यसि? । प्रस्पन्दमानः
संभ्रान्तः कपोतः श्येन! लक्ष्यते । मत्सकाशे जीवितार्थी
पृष्ठ १३७६
तस्य त्यागो विगर्हितः । यो हि कश्चिद्द्विजान् हन्याद्गां
वा लोकस्य मातरम् । शरणागतञ्च त्यजते तुल्यं तेषां हि
हि पातकम् । श्येन उवाच । आहारात् सर्व्वभूतानि
सम्भवन्ति महीपते! । आहारेण विवर्द्धन्ते तेन
जीवन्ति जन्तवः । शक्यते दुस्त्यजेऽप्यर्थे चिररात्राय
जीवितुम् । न तु भोजनमुत्सृज्य शक्यं वर्त्तयितुं चिरम् ।
भक्ष्याद्वियोजितस्याद्य मम प्राणा विशाम्पते! ।
विसृज्य कायमेष्यन्ति पन्थानमकुतोभयम् । प्रमृते मयि
धर्म्मात्मन्! पुत्रदारं विनङ्क्ष्यति । रक्षमाणः कपोतं
त्वं बहून् प्राणान्न रक्षसि । धर्म्मं यो बाधते धर्म्मो
न स धर्म्मः कुधर्म्मवत् । अविरोधात्तु यो धर्म्मः स
धर्म्मः सत्यविक्रम! । विरोधिषु महीपाल! निश्चित्य गुरु-
लाघवम् । न बाधा विद्यते यत्रतं धर्म्मं समुपाचरेत् ।
गुरुलाघवमादाय धर्म्माधर्म्मविनिश्चये । यतो भूयांस्ततो
राजन्! कुरुष्व धर्म्मनिश्चयम् । राजोवाच । बहुकल्याण-
संयुक्तं भाषसे विहगोत्तम! । सुपर्णः पक्षिराट् किं त्वं
धर्म्मज्ञश्चास्यसंशयम् । तथा हि धर्म्मसंयुक्तं बहु चित्रञ्च
भाषसे । न तेऽस्त्यविदितं किञ्चिदिति त्वां लक्षयाम्यं-
हम् । शरणैषिपरित्यागं कथं साध्विति मन्यसे ।
आहारार्थं समारम्भस्तव चायं विहङ्गम! । शक्यश्चाप्यन्यथा
क्वर्त्तुमाहारोऽप्यधिकस्त्वया । गीवृषो वा वराहो बा मृगो
वा महिषोऽपि वा । त्वदर्थमद्य क्रियतां यद्वान्यदिह
काङ्क्षसि । श्येन उवाच । न वराहं न चोक्षाणं न
मृगान् विविधांस्तथा । भक्षयामि महाराज! किं
ममान्येन केनचित् । यस्तु मे दैवविहितो भक्ष्यः क्षत्रियपु-
ङ्गव! । तमुत्सृज महीपाल! कपोतमिममेव मे । श्येनः
कपोतमत्तीति स्थितिरेषा सनातनी । मा राजन्!
सारमज्ञात्वा कदलीस्कन्धमासजः । राजोवाच । राष्ट्रं
शिवीनामृद्धं वै ददानि तव खेचर! । यं वा कामयसे
कामं श्येन! सर्वं ददानि ते । विनेमं पक्षिणं श्येन!
शरणार्थिनमागतम् । येनेमं वर्जयेथास्त्वं कर्म्मणा पक्षि-
सत्तम! । तदाचक्ष्व करिष्यामि न हि दास्ये कपोतकम् ।
श्येन उवाच । उशीनर! कपोते ते यदि स्नेहो
नराधिप! । आत्मनो मांसमुत्कृत्य कपोततुलया धृतम् ।
यदा समं कपोतेन तव मांसं नृपोत्तम! । तथा देयन्तु
तन्मह्यं सा मे तुष्टिर्भविष्यति । राजोवाच । अनुग्रहमिमं
मन्ये श्येन । यन्माभियाचसे । तस्मात्तेऽद्य प्रदास्यामि
स्वमांसं तुलया धृतम् । लोमश उवाच । उत्कृत्य स
स्वयं मांसं राजा परमधर्म्मवित् । तुलयामास कौन्तेय!
कपोतेन समं विभो । ध्रियमाणः कपोतस्तु नांसेनाप्य-
तिरिच्यते । पुनश्चोत्कृत्य मांसानि राजा प्रादादुशीनरः ।
न विद्यते यदा मांसं कपोतेन समं धृतम् । तत
उत्कृत्तमांसोऽसावारुरोह स्वयं तुलाम् । श्येन उवाच ।
इन्द्रोऽहमस्मि धर्मज्ञ! कपोतो हव्यवाडयम् । जिज्ञास-
मानौ धर्मे त्वां यज्ञवाटमुपागतौ । यत्ते मांसानि गात्रे-
भ्य उत्कृत्तानि विशाम्पते! । एषा ते भास्वरी कीर्त्तिर्लो-
कानभिभविष्यति । यावल्लोके मनुष्यास्त्वां कथयिष्यन्ति
पार्थिव! । तावत् कीर्त्तिश्च लोकाश्च स्थास्यन्ति तव शाश्व-
ताः । इत्येवमुक्त्वा राजानमारुरोह दिवं पुनः ।
उशीनरोऽपि धर्म्मात्मा धर्म्मेणावृत्य रोदसी । विराजमानो
वपुषा प्रारुरोह त्रिपिष्टपम्” १३१ अ० । उशीपूरको
वाञ्छापूरको नरो यत्र । ३ तदधिकृतदेशे जटाधरः ।

उशीर पु० न० वश--ईरन् किच्च । वीरणमूले (खसखस्)

तस्य गुणाः “उशीरं पाचनं शीतं स्तम्भनं लघु तिक्तकम् ।
मधुरं ज्वरहृद्वान्तिमलनुत् कफपित्तनुत् । तृष्णार्त्तिविषवीस-
र्पदाहकृच्छ्रव्रणापहम्” भावप्र० “अगरुपृक्कोशीरभद्रदारु
कुङ्कुमानि पुन्नागकेशरञ्चेति” “चन्दनकुचन्दनह्रीवेरोशी-
रमञ्जिष्ठापयस्याविदारीशतावरीहिङ्गुभिः” सुश्रु०
स्वार्थे कन् तत्रैव । उशीरं पण्यमस्य किशरादि ष्ठन् ।
उशोरिक तद्विक्रेतरि स्त्रियां षित्त्वात् ङीष् । उशीनर-
स्यापत्यम् अण् । औशीनर तदपत्ये शिविप्रभूतौ ।

उशीरवीज पु० उशीरस्य वीरणमूलस्य वीजं योनिरत्र । उत्तर-

दिक्स्थेपर्वतभेदे “उशीरवीजं मैनाकं गिरिं श्वेतञ्च भारत! ।
समतीतोऽसि कौन्तेय! नीलशैलञ्च पार्विव!” इत्युपक्रम्य
“श्वेतं गिरिं प्रवेक्ष्यामो मन्दरञ्चैव पर्वतम् । यत्र माणि-
वरोयक्षः कुवेरश्चैव यक्षराट्” भा० व० १३० अ० उक्ते-
स्तस्य उत्तरदिक्स्थत्वं मन्दरगिरिसन्निकृष्टत्वञ्च “तुषार-
चयसङ्काशो मन्दरश्चैव पर्वतः । उशोरवीजश्च गिरीरुद्रोपस्थ-
स्तथाद्रिराट्” हरि० २३६ अ० उक्तेः कैलाशसन्निकृष्टत्वमषि

उशीरादि न० चक्रदत्तेन ज्वरातिसाराधिकारोक्ते पाचनभेदे ।

“उशीरं बालकं सुस्तं धान्यकं विश्वभेषजम् । सभङ्गाधा-
तकी लोध्रं विल्वं दीपनपाचनम् । हन्त्यरोचकपि-
च्छामं विबन्धं सातिवेदनम् । सशोणितमतीसारं
सज्वरं वाथ विज्वरम्” ।

उशेन्य त्रि० वश--बा० केन्य संप्र० । कमनीये । “आ

येमात्रोरुशेन्योजनिष्ट” ऋ० ८, ३, ९, “उशेन्यःकमनीयः” भा०
पृष्ठ १३७७

उष दाहे बधे च भ्वा० पर० सक० सेट् । ओषति औषीत् औषाम्

बभूव आस चकार उवोष ओषित्वा । णोषितः--उषितः ।
उष्मा । कर्म्मणि उष्यते ओषामासे ऊषे “ओषामासे मत्सरो
त्पातवाताश्लिष्यद्दन्तक्ष्मारुहाम्” माघः । “हिरण्यमायु-
रन्नञ्च भूर्गौश्चाप्योषतस्तनुम्” मनुः । “दण्डेनैव तमप्योषेत्
स्वकाद्धर्म्माद्धि विच्युतम्” मनुः ओषाञ्चकार कामाग्नि-
र्दशवक्त्रमहर्निशम्” भट्टिः “चिचेत रामस्तत्कृच्छ्रमोषाञ्चक्रे
शुचेश्वरः” भट्टिः तस्य “मूत्रप्रतीघातादुष्यते चूष्यते दह्यते
पच्यते इव” सुश्रुतः ।

उष दाहे बधे च भ्वा० पर० सेट् उदित् सक० सेट् ।

ओषति औषीत् ओषाम् बमूव--आस--चकार उवोष ।
उदित्त्वात् ओषित्वा उष्ट्वा वेट् । क्त । उष्टः । ओषणः ।
  • अभि--सर्व्वतो दाहे । “योऽभ्युष्टमिश्र इव” शत० ब्रा०
११, २, ७, २३ । अभित ओषणं अभ्युष्ट सर्व्वतोदाहः
तेनभिश्र इव” भा० ।
  • अव--अधःसन्तापनेन दाहे । अवोषः अधोभागे दग्धो अन्नभेदः अपूपादि० ।
  • उद्--आधिक्येन दाहे । “मा मोदोषिष्टम् मा मा हिंसिष्ट-
म्” शत० ब्रा० १, ५, १, २५ । “युवां मामुत्कृष्टमाधि-
क्येन वा उदोषिष्टं दाहं काष्टम्” भा० ।
  • उप--सामीप्येन दाहे । “अग्निना वा कक्षमुपोषेत्” आश्व०
गृ० २, ४, ९ । तमग्निभिः समुपोषेत्तदेनम्” शत० ब्रा०
१२, ५, १, १३ । उपवासे च उपोषणम् ।
  • प्रति--प्रतिदाहे । “स त्वमग्ने प्रतीकेन प्रत्योषः यातुधान्यः”
ऋ० १०, ११८, ८ । प्रत्येकदाहे च “प्रत्युष्टं रक्षः प्रत्युष्टा
अरातयः” यजु० १, ७, “प्रत्युष्टं प्रत्येकं दग्धम्” वेददी० ।

उषस् प्रभातीभावे कण्ड्वा० पर० सक० सेट् । उषस्यति

औषस्यीत् औषसीत् उषस्याम् साम् बभूव आस चकार ।

उष त्रि० उष--क । १ दाहके २ सन्ध्यात्रयसमये ३ कामिनि

४ गुग्गुलौ । ५ रात्रिशेषे पु० मेदि० । रात्रिशेषश्च मुहूर्त्ता-
त्मककालः पञ्चपञ्चाशदघटिकोत्तरसूर्यार्द्धोदयपर्यन्त-
कालः । ६ दिवसे पु० ।

उषङ्गु पु० उष बा० अङ्गु । रुद्रे तस्य संहर्त्तृत्वात्तथात्वम् ।

“उषङ्गुश्च विधाता च मान्धाता भूतभावनः” भा० अनु० १७

उषण न० उष--क्युन् । १ मरिचे २ पिप्पलीमूले च ३ शुण्ठ्यां,

४ चव्यिके(चै) । पिप्पल्यां च स्त्री । ऊषणशब्दे विवृतिः

उषती स्त्री उष--शतृ--बा० नुम् गुणभावः रायमुकुटः ।

अकल्याण्यायां वाचि । “ययाऽस्य वाचा पर उद्विजेत न तां
वदेदुषतीं पापलोक्याम” भा० स० ६४ आ० ८७ अ० । शब्दे
पु० उषन् शब्दः वाक्ये न० उषत् वाक्यं तेनास्य त्रिलिङ्गता

उषत् पु० यदुवंश्ये नृपभेदे । क्रोष्टुवंशवर्णने “अनन्तरं सुयज्ञस्तु

सुयज्ञतनयोऽभवत् । उषन् यो यज्ञमखिलं स्वधर्म्ममुषतां-
वरः । शिनेयुरभवत् पुत्र उषतः शत्रुतापनः” हरि० ३७

उषद्गु पु० यदुवंश्ये नृपभेदे । “स्वाहेः पुत्रोऽभवद्राजा उषद्गु-

र्वदतांवरः । महाक्रतुभिरीजे योविविधैर्भूरिदक्षिणैः ।
ततः प्रसूतिमिच्छन् वै उषद्गुःसोऽग्र्यमात्मजम्” हरि० ३७

उषद्रथ पु० पौरवे नृपभेदे उशीनरस्य भ्रातुस्तितिक्षोःसु-

तभेदे । “तैतिक्षवोऽभवद्राजा पूर्व्वस्यां दिशि भारत । उष
द्रयो महाराज! फेनस्तस्य सुतोऽभवत्” हरि० ३१ अ० ।

उषप पु० उष--दाहे कपन् । १ वह्नौ २ सूर्य्ये च तयोस्तापक-

त्वात्तथात्वम् । ३ चित्रकवृक्षे च ।

उषर्बुध् त्रि० उषसि वुध्यते बुध--क्विप अहरादि० नित्यं

रः । अग्निहोत्रकाले प्रबुद्धे । “मर्त्येषूषर्भुद्भूदतिथिर्जात
वेदाः” ऋ०६, ४, २ । “आर्काँ सूर्य्यस्य रोचनाद्विश्वान्
देवानुषर्बुधः” १, १४, ९ “आ दाशुषे, जातवेदो वहाद्या
देवा उषर्बुधः” ऋ० १, ४४, १ ।

उषर्बुध त्रि० उषसि बुध्यते बुध--क अहरा० नित्यं रः ।

अग्निहोत्रकाले प्रबुद्धे । “इममू षुवो अतिथिमुषर्बुधम्”
ऋ० ६, १५, १ । २ अग्नौ पु० ३ चित्रकवृक्षे च अमरः ।

उषस् न० ओषत्यन्धकारम् उष--असुन् किच्च । १ प्रत्यूषे,

“उष उषो हि वसो अग्रमेषि” १०, ८, ४ । स च कालः ।
“पञ्चपञ्च उषःकालः” स्मृतेः पञ्चपञ्चाशद्वटिकोत्तरः ।
“आसीदासन्ननिर्वाणः प्रदीपार्च्चिरिवोषसि” रघुः । “पुन-
रुषसि विविक्तैर्मातरिश्वावचूर्ण्य” माघः २ सन्ध्यात्रये स्त्री
“इह स्युरिन्द्राय पूर्व्वीरुषसोदुहानाः” ऋ० ६, २८, १ । तेन
उषा उषसौ--उषस इत्यादि भकारादौ परे वेदे सस्य दः
उषद्भिः सि० कौ० । “निम्रुच उषसस्तक्ववीरिव”
ऋ० १, १५१, ५, ३ तदभिमानिदेवताभेदे अस्य
देवताद्वन्द्वे पूर्ब्बापरयोः उषासादेशः । “नक्तोषासा
सुपेशसा” ऋ० १, १४२, ७ । तदभिमानिदेवताभेदाभिधा-
यित्वेन देवताद्वन्द्वः । “जिगीषोषासानक्ता सुदुघेव धेनुः”
१, १८६४, । आदिपदलोपोऽपि उषासावश्विना” यजु०
२१, ५० । नक्तोषासाविति प्राप्ते आदिपदलोपः
वेददी० । “उषासा वां सुहिरण्ये” यजु० २९, ६ ।
नक्तोषासावित्यर्थः वेददी० । “साऽस्य देवता यत् । उषस्य
तद्देवताके पश्वादौ” कृष्णाञ्जिरल्पाञ्जिर्महाञ्जिस्त उषस्यः”
यजु० २४, ४, उषस्या उषादेवताकाश्चतुर्थे यूपे नियोज्याः”
पृष्ठ १३७८
वेददी०४ ब्राह्ममुहूर्त्ते “उषावै अश्वस्य मेध्यस्य विव्याध”
वृ० उ० । “उषा ब्राह्मो मुहूर्त्तकालः” श० भा० ।
५ दिवोदुहितृदेवतायाम् स्त्री प्रौढ़मनोरमा ।

उषसी स्त्री उषं तापकत्वात् दिवसं स्यति सो--क गौरा०

ङीष् । सायं सन्ध्यायाम् मदिनिः ।

उषस्ति पु० ऋषिभेदे “उषस्तिर्ह चाक्रायणः” छा० उ० ।

उगस्तोऽप्यत्र “अथ हैनमुषस्तश्चाक्रायणः पपच्छ” “ततो
होषस्तश्चाक्रायण उपरराम” इति च शत० ब्रा०१४, ६, ५, १ ।

उषा स्त्री ओषत्यन्धकारम् उष + क । १ प्रातरादिसन्ध्यासु “वेनी-

रनुव्रतमुषास्तिस्रः” ऋ० ८, ४१, ३ । तिस्रप्रातःसायं मध्या-
ह्नप्ररूपा उषाः” भा० । “उषा विभातीरनु भासि पूर्व्वीः”
३, ६, ७, “तेजःपरिहानिरुषा भानोरर्द्धोदयं यावत्” वृ०
सं० उक्ते २ काले नक्षत्रप्रभाक्षयः काल उषा । तेन पञ्च-
पञ्चाशद्घटिकोत्तरमारभ्य सूर्य्यार्द्धोदयपर्य्यन्तः स कालः ।
लग्नाद्यलाभे उषाकाले यात्रा शस्ता यथाह ज्यो० “प्र-
त्युष्टद्युतितारका स्फुटतटी प्राची भवेन्निर्म्मला त्वीष-
द्रक्तविलोहितान्तशवला देवैः सदा वाञ्छिता । नो वारं
न तिथिं न योगकरणं लग्नञ्च नापेक्षते हत्वा दोषसहस्र
सञ्चयमुषा नूनं करोत्युन्नतिमिति” । “तिथ्यादिषु
निषिद्धेषु चन्द्रताराविलोमतः । उषां गोधूलियोगं वा
स्वीकृत्य गमनं चरेत् । प्राच्यामुषां प्रतीच्याञ्च गोधूलिं
वर्जयेन्नृप । दक्षिणेऽभिजितं चैवसुत्तरे च निशां तथा” ।
“आरक्तविम्बं रजनीविरामं वदन्त्युषायोगमिह प्रवीणाः ।
व्यासः” “आहुः प्रयातुः सकलार्थसिद्धिः संलक्ष्यते हस्तत-
लस्थितेव” ज्यो० त० व्यासः । अन्धकारेण सन्तापकारिण्यां
३ रात्रौ मेदि० “अधिकरुचिरशेषामप्युषां जागरित्वा”
माघः । ४ क्षारभूमौ । ततः क्वचित् गौरा० ङीष् ।
“भस्मन् हुतं कुहकराद्धमिवोप्तमुष्याम्” भाग० ५ स्त्रीगव्यां
हेम० ६ उखायां विश्वः ७ स्थाल्यां रमानाथः ।
८ वाणराजसुतायाञ्च तत्र दीर्घादित्वमपि भारतादौ
तथैव निर्द्देशात् । तया च यथा अनिरुद्धः पतित्वे-
नाप्तः तथा वर्ण्णितं भाग० १० स्क० ६२ अ० यथा (वाणस्य)
“तस्योधा नाम दुहिता स्वप्ने प्राद्युम्निना रतिम् । कन्या
लम्मतकान्तेन प्रागदृष्टश्रुतेन सा । सा तत्र तमपश्यन्ती
क्वासि कान्तेति वादिनी । सखीनां मध्य उत्तस्थौ विह्वला
व्रीड़िता भृशम् । वाणस्य मन्त्री कुम्भाण्डश्चित्रलेखा च
तत्सुता । सख्यपृच्छत् सखीं मूथः कौतूहलसमन्विता ।
कं त्वं मृगयसे सुभ्रु! कीदृशस्ते मनोरथः । हस्तग्राहं
न तेऽद्यापि राजपुत्र्युपलक्षये । ऊषोवाच । दृष्टः कश्चिन्नरः
स्वप्ने श्यामः कमललोचनः । पीतवासा वृहद्बाहुर्योषितां
हृदयङ्गमः । तमहं मृगये कान्तं पाययित्वाऽधरं मधु ।
क्वापि यातः स्पृहयतीं क्षिप्त्वा मां वृजिनार्णवे । चित्रले-
खोवाच । व्यसनमपकर्षामि त्रिलोक्यां यदि भाव्यते ।
तदानेष्ये नरं! यस्ते मनोहर्त्ता तभादिश । इत्युक्त्वा
देवगन्धर्व्वसिद्धचारणपन्नगान् । दैत्यविद्याधरान् यक्षान्
मनुष्यांश्च तथाऽलिखत् । मनुजेषु च सा वृष्णीन्
शूरमानकदुन्दुभिम् । व्यलिखत् रामकृष्णौ च प्रद्युम्नं
वीक्ष्य लज्जिता । अनिरुद्धं विलिखितं वीक्ष्येषाऽवाङ्मु-
स्वी ह्रिया । सोऽसावसाविति प्राह स्मयमाना महीपते! ।
चित्रलेखा तमाज्ञाय पौत्रं कृष्णस्य योगिनी । ययौ
विहायसा राजन । द्वारकां कृष्णपालिताम् । तत्र सुप्तं
सुपर्यङ्के प्राद्युम्निं योगमास्थिता । गृहीत्वा शोणित
पुरं सख्यै प्रियमदर्शयत् । सा च तं सुन्दरवरं विलोक्य
मुदितानना । दुष्प्रेक्ष्ये स्वगृहे पुंसा रेमे प्राद्युम्निना
समम् । परार्द्ध्यवासःस्रग्गन्धधूपदीपासनादिभिः ।
पानभोजनभक्ष्यैश्च वाक्यैः सुश्रूषयार्च्चितः । गूढः कन्यापुरे
शश्वत् प्रवृद्धस्नेहया तया । नाहर्गणान् स वुबुधे ऊषयो-
पहृतेन्द्रियः” विस्तरस्तु हरिवं० १७६ अ० । प्रातःकाले
अव्य० मेदि० अव्ययत्वात् ततो भवार्थे ट्युल् तुट च् ।
उषातन तद्भवे त्रि० स्त्रियां ङीप् ।

उषाकल पु० उषायां कलोरवो पस्य । कुक्कुटे ।

उषापति पु० ६ त० । कृष्णपौत्रे प्रद्युम्रपुत्रे यदुवंश्ये

अनिरुद्धे तत्पतित्वप्राप्तिकथा उषाशब्दे उक्ता उषानाथादयो-
प्यत्र, अमरे “अनिरुद्ध उषापतिरिति” ह्रस्वपाठः
भारतादौ तु दीर्घपाठः ।

उषित त्रि० वस क्त । १ पर्य्युषिते २ कृतवासे च । उष--दाहे

क्त । ३ दग्धे मेदि० । ४ क्षरिते घरणिः । भावे क्त ।
५ वासे न० “चाण्डालैरुषितं यत्र” शु० त० देवलः ।

उषीर पुंन० उष--कीरच् । वीरणमूले रायमुकुटः ।

उष्टृ पु० उक्ष--सेचने तृन् वेदे नेट् । १ सम्यक्सेक्तरि

बलीवर्द्धे । तस्यामोघवीर्य्यत्वात् तथात्वम् “ओष्टारौ वा”
कात्या० ५, ११, १३ । “ओष्टारौ महावलीवर्द्दौ” कर्कः ।
आ + सम्यक् उष्टारौ इति विग्रहः । “उष्टारेव फर्वरेषु
श्रयेथे” ऋ० १५, १०६, २ । लोके तु उक्षितृ इत्येव ।
सेक्तरि त्रि० स्त्रियां ङीप् ।
पृष्ठ १३७९

उष्ट्र पुंस्त्री० उष + ष्ट्रन् किच्च । (उट) प्रसिद्धे पशुभेदे

स्त्रियां जातित्त्वात् ङीष् । “हस्तिगोऽश्वोष्ट्रदमकोनक्षत्रैर्यश्च-
जीवति” “नाधीयीताश्वमारूढ़ो न रथं न च हस्तिनम् ।
न नावं न खरं नोष्ट्रं नेरिणस्थो न यानगः” मनुः । तद्यान-
निषेधमाह “उष्ट्रयानं समारुह्य खरयानं तु कामतः ।
स्नात्वा तु विप्रो दिग्वामाः पाणायामेन शुध्यति” मनुः ।
काततः” इत्यक्त्या कर्म्मभेदे तद्याने न दोष इति सूचितम्
अतएव “उष्ट्रमारोक्ष्यन्नभिमन्त्रयते त्वाष्ट्रोऽसि” पार०
गृ० सू० मन्त्रलिङ्गेन तद्यानं विहितम् । तस्य मांसं
न भक्ष्यम् “भक्ष्यान् पञ्चनखेष्वाहुरनुष्ट्रांश्चैकतोदतः”
मनूक्तेः । तेनास्य एकदन्तपङ्क्तियुक्तत्वम् । “गौरजो
महिषः कृष्णः शूकरो गवयोरुरुः । द्विशफाः पशवश्चेमे
अविरुष्ट्रश्च सत्तम!” भाग० उक्तेः गवादयः उष्ट्रान्ता द्विशफाः
इति बोध्यम् । वृथा तद्घाते दोषः “मनुष्यमारणे
क्षिप्रं चौरवत् किल्विषं भवेत् । प्राणभृसु महत्-
स्वर्द्धं गोगजोष्ट्रहयादिषु” मनूक्तेः । ब्रह्महत्याशेष-
पापेन तज्जातिर्भवति यथाह मनुः “यां यां
योनिन्तु जीवोऽयं येन येनेह कर्म्मणा । क्रमशो याति
लोकेऽस्मिंस्तत्तत् सर्वं निबोधत । बहून् वर्षगणान् घोरा-
न्नरकान् प्राप्य दारुणान् । संसारान् प्ततिपद्यन्ते
महापातकिनस्त्विमे । श्वशूकरखरोष्ट्राणां गोऽजाविमृगपक्षि-
णाम् । चण्डालपुक्कसानाञ्च ब्रह्महा योनिमृच्छति” ।
यानहरणपापेऽप्युष्ट्रयोनिप्राप्तिमाह हृत्वेत्यनुवृत्तौ मनुः “स्त्री-
मृक्षः स्तोककोवारि, यानान्युष्ट्रः, पशूनजः । तद्बधे प्रायश्चि-
त्तमाह “हयच्छागाविकोष्ट्रेषु गर्द्दभेषु च मारणात् । प्राजा-
पत्यार्द्धमेवेह प्रायश्चित्तं विधीयते” प्रा० वि० विष्णुः । तद्भ-
क्षणे प्रायश्चित्तमाह भुक्त्वेत्यनुवृत्तौ प्रा० वि० शङ्खः “गामश्वं
कुञ्जरौष्ट्रौ च सर्वं पञ्चनखं तथा । क्रव्यादं कुक्कुटं ग्राम्यं
कुर्य्यात् संवत्सरव्रतम्” “अथोष्ट्रवामीशतवाहितार्थः”
रघुः । “वृतिञ्च तत्र कुर्व्वीत यामुष्ट्रोनावलोकयेत्”
मनुः । “अन्योन्यतः पथि वताबिमीतामिभोष्ट्रौ” माघः ।
तन्मूत्रगुणाः सुश्रु० उक्ताः । “अथ मूत्राणि गोमहि-
षाजाविगजहयखरोष्ट्राणां तीक्ष्णानि कटून्युष्णानि
तिक्तानि लवणानुरसानि लघूनि शोधनानि कफवातकृमि-
भेदोविषगुल्मार्शौदरकुष्ठशोफारोचकपाण्डुरोगहराणि
हृद्यानि दीपनानि च सामान्यतः । भवन्ति चात्र ।
तत्सर्वं कटु तीक्ष्णोष्णं लवणानुरसं लघु । शोधनं
कफवातघ्नं कृमिमेदोविषापहम् । अर्शोजठरगुल्मघ्नं शोफा-
रोचकनाशनम् । पाण्डुरोगहरं भेदि हृद्यं दीपनपाच-
नम्” । सामान्यत उक्त्वा “अर्शोघ्नं कारभं मूत्रमिति” विशे-
षगुण उक्तः । तन्मांसगुणाःसुश्रुते उक्ताः तच्च उरभ्रशब्दे
दर्शितम् । तस्य ग्राम्यत्वं तत्रोक्तम् । तच्च उरभ्रशब्दे
दर्शितम् । किन्तु तस्यारण्यत्वमपि अतएव “उष्ट्रमारण्य-
मनु ते दिशामि” यजु० १३, २४, तस्यारण्यत्वमुक्तम् ।
तस्य त्वष्टृदेवतायै अश्वमेधे देयतोक्ता “वृहस्पतये गवयां-
स्त्वष्ट्र उष्ट्रान्” यजु० २४, २८, द्वित्वे गोयुगच् उष्ट्रगोयुग
उष्ट्रद्वित्वे न० शालायां गोष्ठच् । उष्ट्रगोष्ठ उष्ट्रशालायां
न० षट्के षड्गवच् । उष्ट्रषड्गव उष्ट्रषट्के न० । तस्ये-
दमण् । औष्ट्र तत्सम्बन्धिमांसादौ त्रि० । “परं चौष्ट्रं
मैषं नरमहिषयोश्छागमपि वा” कर्पूरस्तवः ।

उष्ट्रकर्णिक पु० उष्ट्रस्य कर्णः भेदनम् कर्ण + भिदि--अच् ।

सोऽस्मिन्नस्तिठन् । दक्षिणस्थे यवनदेशभेदे तद्देशवासिभिर्हि
भोजनार्थम् उष्ट्रभेदनात् तद्देशस्य तथात्वम् । सहदेवदक्षि-
णदिग्विजयवर्णने “अन्ध्रांस्तालवनांश्चैव कलिङ्गानुष्ट्र कर्ण्णि-
कान् । आटवीं च पुरीं रम्यां यवनानां पुरीं तथा”
भा० स० २० अ० उष्ट्रतुल्यकर्णजनवत्त्वाद्वा तथात्वम् ।

उष्ट्रकाण्डी स्त्री उष्ट्र इव काण्डोऽस्य जातित्वात् ङीष्

(उटाटी) पुषषभेदे राजनि० ।

उष्ट्रग्रीव पु० उष्ट्रग्रीवा आकारत्वेनास्त्यस्य अर्श० अच् ।

सुश्रुतोक्ते पैत्तिके भगन्दररोगभेदे । तन्निदानस्वरू-
पादि तत्रोक्तं यथा “वातपित्तश्लेष्मसन्निपातागन्तुनिमित्ताः
शतपोनकोष्ट्रग्रीवपरिस्राविशम्बूकावर्त्तोन्मार्गिणो यथासङ्ख्यं
पञ्च भगन्दरा भवन्ति । ते तु भगगुदवस्तिप्रदेशदारणाच्च
भगन्दरा इत्युच्यन्ते । अपक्वाः पिड़काः पक्वास्तु भगन्दराः ।
तेषान्तु पूर्वरूपाणि कटीकपालवेदना गुदकण्डूर्द्दाहः शोफश्च
गुदस्य भवति” इत्युपक्रम्य । “पित्तन्तु प्रकुपितमनिलेनाधः-
प्रेरितं पूर्ववदवस्थितं रक्तां तन्वीमुच्छ्रितामुष्ट्रग्रीवाकारां
पिड़कां जनयति । साऽऽस्यचोषादीन्वेदनविशेषानु जनयत्य-
प्रतिक्रियमाणा च पाकमुपैति वक्षश्चाग्निक्षाराभ्यामिव
दह्यते दुर्ग्गन्धमुष्णमास्रावं स्रवत्युपेक्षितश्च वातमूत्रपुरी-
षरेतांसि विसृजति, तं भगन्दरमुष्ट्रग्रीवमित्याचक्षते” ।
उष्णशिरोधरोऽप्यत्र “प्रकोपणैः पित्तमतिप्रकोपितः करोति
रक्तां पिड़कां गुदागताम् । तदानुपाकाहिमपूतिवाहिनीम्
भगन्दरं तूष्ट्रशिरोधरं वदेत्” निदानम् ।

उष्ट्रधूसरपुच्छी स्त्री उष्ट्रस्येव धूसरः पुच्छ इव मञ्जरी अस्याः

जातित्वात् ङीष् । (विछाति) वृक्षभेदे रत्नमाला स्वार्थे
कन् ह्रस्वः । तत्रार्थे ।
पृष्ठ १३८०

उष्ट्रपादिका स्त्री उष्ट्रस्य पादा इव पादोमूलमस्याः कपि अत

इत्त्वम् । (मदनमाली) भूमिलतायाम् रत्नमा०

उष्ट्रस्थान न० ६ त० । उष्ट्रस्य शालायाम् । तत्र भवः अण् ।

स्थानान्तत्वात् तस्य लुक् । उष्ट्रस्थान तत्रभवे त्रि० तद्धित
लकि विशेष्यलिङ्गत्वनियमात् त्रिलिङ्गत्वम् ।

उष्ट्रासिका स्त्री आसनम् आसिका आस--भांवे ण्वुच् उष्ट्र-

स्येवासिका । उष्ट्रस्येव आसने । “उष्ट्रासिकाः आस्यन्ते”
पा० भाष्यम् अत्र क्रियाविशेषणस्यापि यथा बहुवचना-
न्तताऽक्लीवता च तथाकारे समर्थितम् तच्च शब्दार्थरत्ने
अस्माभिर्दर्शितम् ।

उष्ट्रिका स्त्री उष्ट्रस्याकारः पृष्ठावयव इव आकारोऽस्त्यस्याः

ठन् । मृण्मये मद्यभाण्डभेदे विश्वः “धूर्भङ्गविक्षेपविदारि-
तोष्ट्रिका” माघः । उष्ट्री + स्वार्थे कन् । उष्ट्रजातिस्त्रियाञ्च ।

उष्ण पु० उष + नक् । १ ग्रीष्मे, ऋतौ, २ आतपे, ३ पलाण्डौ

४ नरकभेदे, ५ शीतविरोधिस्पर्शेच । अर्श० अच् । ६ तद्वति,
७ आलस्यरहिते ८ दक्षे च त्रि० । “सूतके मृतके चैव न
स्नायादुष्णवारिणा” स्मृतिः “आददे नातिशीतोष्णः नभ
स्वानिव दक्षिणः” रघुः “अभीक्ष्णमुष्णैरपि तस्य सोष्मणः”
“म्लापयन्नभिमानोष्णैर्वनमालां सुखानिलैः” माघः ९ तापे
पु० मुष्णन्तमुष्णं ततिभिस्तरूणाम्” माघः “उष्णं तापम्”
मल्लि० । तत्र ग्रीष्मस्य सूर्य्यतापाधिक्यवत्त्वात् उष्णत्वम्
“ग्रीष्मातीव्रकरोभानुर्न हेमन्ते तथाविधः” इति मयप्रश्ने
“अत्या सन्नतया तेन ग्रीष्मेतीव्राः कराः रवेः । देवभागे-
ऽसुराणान्तु हेमन्ते मन्दताऽन्यथा” सू० सि० तथैवोक्तेः ।
विवृतञ्चेदं रङ्गनाथेन “तेन उत्तरदक्षिणगोलयोः सूर्य-
स्योत्तरदक्षिणसञ्चाररूपकारणेनेत्यथैः । देवभागे जम्बूद्वीपे
अत्यासन्नतया सूर्यस्यात्यन्तनिकटस्थत्वेन ग्रीष्मे ग्रीष्मर्त्तौ
सूर्य्यस्य तेजोगोलकस्थकिरणास्तीक्ष्णा अत्युष्णाः । असु
राणां देवभाग इत्यस्य समन्वयाद्दैत्यानां भागे समुद्राद्द-
क्षिणप्रदेशे हेमन्ते हेमन्तर्त्तो तुकारात् सूर्य्यस्यात्युष्णाः
किरणाः सूर्य्यस्यात्यासन्नत्वात् । अन्यथा सूर्य्यस्य
दूरस्थत्वे मन्दता किरणानामुष्णताभावः । देवभागे हेमन्तर्त्तौ
कराणां मन्दता । अतएव तत्र शीताधिक्यम्, दैत्यभागे
ग्रीष्मे कराणां मन्दता शीताधिक्य च । तथाच
देवभागे दक्षिणगोले सूर्य्यस्य दूरस्थत्वमुत्तरगोले निकट-
स्थत्वं मध्यगतदेशानां क्रमेणाघिकाल्पत्वादीति भावः” ।
अतएवोक्तं मेषकर्कटयोर्मध्ये गाढ़ं तपति भास्करः”
ति० त० पु० । एतच्च देवभाग एव नासुरभागे, ग्रीष्म
ऋतुश्च ज्यैष्ठाषाडात्मकः । “मधुश्च माधवश्च वासन्तिकावृतुः
शुक्रश्च शुचिश्च ग्रीष्मर्त्तुः” काल० मा० इष्टकोपधानमन्त्रोक्तेः ।
ततो भावे इमनिच् । उष्णिमन् पु० तल् उष्णता स्त्री
त्व उष्णत्व न० ष्यञ् औष्ण्य न० । उष्णस्पर्शे स्वार्थे कन्
उष्णस्पर्शाद्यर्थे । उष्णस्पर्शस्तु तेजसोगुणः “स्पर्श उष्ण-
स्तेजसस्तु” भाषोक्तेः जलादीनां तेजःसंयोगविशेषादौ-
पाधिकः । देहस्य तथात्वे कारणमूष्मन्शब्दे वक्ष्यते गुणव-
चनत्वात् प्रकारे द्वित्वम् उष्णोष्ण उष्णप्रकारे । “उष्णो-
ष्णशीकरसृजः” माघः

उष्णक त्रि० उष्णमिव करोति कन् । १ अनलसे, क्षिप्रकारिणि

क्षिप्रकारी हि जाड्याधायकमालस्यमनादृत्य स्वकर्त्तव्ये
व्याप्रियते इति तस्य तथात्वम् । उष्णं करोति उष्ण +
णिच्--ण्वुल् । २ ज्वरे पु० ।

उष्णकर च० उष्णः करः किरणोऽस्य । १ सूर्य्ये । उष्ण-

किरणोष्णदीधिति प्रभृतयोऽप्यत्र । उष्णं करोति कृ--अच्
६ त० । २ उष्णकारके त्रि०

उष्णकाल पु० कर्म्म० ६ त० वा । ग्रीष्मे ऋतौ । “तक्रं नैव क्षते-

दद्यात् नोष्णकाले न दुर्व्वले” सुश्रुतः ।

उष्णग पु० उष्णमुष्णस्पर्शं गच्छति यत्र गम--बा० आधारे ड ।

ग्रीष्मे काले “मातङ्गोन्यपतत् भूमौ नदीरोधैवोष्णगे”
भा० उ० ३२३ अ० । आधारे घञ् उष्णगमोऽप्यत्र हेम० ।

उष्णगु पु० उष्णागावः कराः अस्य ह्रस्यः । सूर्य्ये । उष्णर-

श्म्यादथोऽप्यत्र “कुवेरगुप्तां दिशमुष्णरश्मौ” कुमा० ।

उष्णङ्करण न० ६ त० करणे परे मुम् । उष्णसाधने ।

उष्णनदी स्त्री कर्म्म० । “यमद्वारे महाघोरे तप्ता वैतरणी

नदी” इत्युक्तायाम् तप्तायां वैतरण्याम् नद्याम् ।

उष्णवारण न० उष्णं वारयतिवृ--णिच्--ल्यु ६ त० । आतपत्रे,

छत्रे “यदर्थमम्भोजमिवोष्णवारणम्” कुमा० अस्योत्पत्त्या-
दिकम् आतपत्रशब्दे ६४९ पृ० उक्तम् । तल्लक्षणं
वृह० सं० दर्शितं यथा “निचितं तु हंसपक्षैः कृकवाकु-
मयूरसारसानां च । दौकूलेन नवेन तु समन्ततश्छादितं
शुक्लम् । मुक्ताफलैरचितप्रलम्बमालाविलं स्फटिकसू-
लम् । षड्ढस्तशुद्धहैमं नवपर्व नगैकदण्डं च । दण्डार्ध-
विस्तृतं तत् समावृतं रत्नविभूषितमुदग्रम् । नृपतेस्तदात-
पत्रं कल्याणकरं विजयदं च । युवराजनृपतिपत्न्याः
सेनापतिदण्डनायकानां च । दण्डोऽर्धपञ्चहस्तः समपञ्च-
कृतार्धविस्तारः । अन्येषामुष्णघ्वं प्रसादपट्टैर्विभूषितशिर-
स्कम् । व्यालम्बिरत्नमालं छत्रं कार्य्यं च मायूरम् ।
पृष्ठ १३८१
अत्येषां च नराणामातपवारणं तु चतुरस्रम् ।
समवृत्तदण्डयुक्तं छत्रं कार्य्यं तु विप्राणाम्” उष्णघ्नादयो
ऽप्यत्र । तद्धारणे गुणाः सुश्रुते उक्ता यथा
“वर्षानिलरजीघर्महिमादीनां निवारणम् । बल्यं चक्षु-
ष्यमौजस्यं शङ्करं छत्रधारणम्” ।

उष्णवीर्य्य पु० उष्णमुग्रं वीर्य्यमस्य । १ शिशुमाराख्ये

जलजन्तौ । २ उग्रवोर्य्यवति त्रि० हेम० । उष्णवीर्य्यद्रव्याणि
च सुश्रुते नानास्थाने उक्तानि तानि तत एवावगम्यानि

उष्णांशु पु० उष्णाः अंशयोयस्य । सूर्य्ये ।

उष्णागम पु० उष्ण आगम्यतेऽत्र गम + आधारे--अप् ।

निदाघकाले । उष्णाभिगमोऽप्यत्र शब्दच० ।

उष्णालु त्रि० उष्णं न सहते आलु । उष्णाऽसहने । “उष्णा-

लुः शिशिरे निषीदति तरोर्मूलालवाले शिखी” विक्रमो० ।

उष्णासह पु० उष्ण आसह्यतेऽत्र आ + सह--अच् । १ हेमन्ते

ऋतौ । उष्णं न सहते अच् । २ असह्योष्णे त्रि० ।

उष्णिका स्त्री अल्पमन्नमस्याम् अल्पार्थे कन् नि० अन्नस्य

उष्णादेशः । १ यवाग्वाम् (याउ) । उष्णकशब्दात् स्त्रियां
टाप् अत इत्त्वम् । २ दक्षायाम् स्त्रियाम् ।

उष्णिज् पु० उष--इजिक् बा० नुद् । उष्णस्पर्शयुक्ते

ततप्रज्ञा० स्वार्थेण । औष्णिज तदर्थे ।

उष्णिह् स्त्री उत्स्निह्यति क्विन् नि० उदोऽन्त्यलेपे षत्वम् । सप्ताक्ष-

रपादके १ छन्दोभेदे । स्वादौ कुः उष्णिक् । उष्णिग्भ्याम् ।
“गायत्र्युष्णिगनुष्टुप् च वृहती पङ्क्तिरेव च” वृ० र० । “अथ
छन्दांसि गायत्र्युष्णिगनुष्टुव् वृहती” इत्युपक्रम्य “द्विती-
यमुष्णिक् त्रिपदान्त्योद्वादशकः । आद्यश्चेत् पुरौष्णिक्,
मध्यमश्चेत् ककुप् । त्रैष्टुभ जागतचतुष्काः ककुब्न्य-
ङ्कुशिरैकादशिनोः परः षट्कस्तनुशिराः मध्ये चेत् पिपी-
लिका मध्याद्यपञ्चकस्त्रयोऽष्टका अनुष्टुब्गर्भा चतुःसप्त
कोष्णिगेव” सर्वानु० ५ अ० । “एवमेवोष्णिहं सवितारं
ग्रीवास्वनूके” इति सर्वानु० ४ अ० उक्तेः तस्याः सवितृ-
देवताकत्वेन ग्रीवासु अनूके च न्यासः । तस्या
उपधानप्रकारः शत० ब्रा० ८, ६, २, ३, आदौ दर्शितं
तत एवावसेयः । २ तदभिमानिदेवभेदे च । अश्वमेधे “त्रि-
वत्सा अनुष्टुभे तुर्य्यवाह उष्णिहे” यजु० २५, १२१ ।
पशुविशेषाणामुक्तदेवताविशेषोद्देशेन यूपादौ बन्धनमुक्तम् ।
अस्य हलन्तत्वेऽपि अजादि० टाप् । उष्णिहा “उष्णिहा
छन्द इन्द्रियम्” यजु० २१, १३, “वृहत्युष्णिहा ककुप्
सूचीभिः शन्त्युत्वा २३, ३३, “शूणातु ग्रीवाः प्र शृणा
तूष्णिहा वृत्रस्येव शचीपतिः” अथर्ववेदे ६, १३४, १,

उष्णीगङ्ग न० उष्णीभूता गङ्गा नदीभेदो यत्र मध्यपदलोपः ।

भृगुतुङ्गपर्वतस्ये तीर्थभेदे “अपां ह्रदं च पुण्याख्यं भृगु-
तुङ्गं च पर्वतम् । उष्णोगङ्गे च कौन्तेय! सामात्यः
समुपस्पृश” भा० व० १३५ अ० ।

उष्णीष पु० न० उष्णमीषते हिनस्ति ईष--क शक० पररूपम् ।

१ शिरोवेष्टनवस्त्रे(पागड़ि) २ किरीटे च “अथास्मा अध्वर्यु-
रुष्णीषं प्रयच्छति तदञ्जलिना प्रतिगृह्य त्रिःप्रदक्षिणं
शिरः सम्मुखं वेष्टयित्वा” आ० श्रौ० सू० ६, ७ । सन्नद्धा
लोलितोष्णीषा निस्त्रिंशिनो याजयेयुः” आ० श्रौ० ९,
७, ४ । “लौहितोष्णोषा ऋत्विजश्चरन्तीति” श्रुतिः ।
समावर्त्तनकाले च तस्य धारणमाचार्य्याय दानं च विहितम् ।
“अथैतान्युपकल्पयीत समावर्त्तमाने मणिकुण्डले वस्त्र-
युगं छत्रमुपानद्युगं दण्डं स्रजमुन्मर्दनमनुलेपनमाञ्जन-
मुष्णीषमित्यात्मने आचार्य्याय च” । “यद्युभयोर्न
विन्देताचार्य्यायैव” आ० गृ० ३, ८, १, २ । तद्धारणगुणः
सुश्रु० उक्तः “पवित्रं केश्यमुष्णीषं वातातपरजोऽपहम् ।
वर्षानिलरजोघर्महिमादीनां निबारणम्” ।

उष्णीषिन् त्रि० उष्णीष + अस्त्यर्थे इनि । १ उष्णीषधारिणि

स्त्रियां ङीप् २ महादेवे पु० । “उष्णीषी च सुवक्त्रश्च
उदग्रोविनतस्तथा” शिवस्तौ” भा० अनु० १७ । “उष्णीषिणे
सुवक्त्राय सहस्राक्षाय मीढुषे” भा० अनु० ८ ।

उष्णोदक न० कर्म्म० । अग्निना तप्तजले काथ्यभानपादशेषा-

र्द्धावशेषपादादिहीनके जले तद्गुणादि भावप्र०
“अष्टमेनांशशेषेण चतुर्थेनार्द्धकेन वा । अथवा क्वथने-
नैव सिद्धमुष्णोदकं वदेत्” तद्गुणाः “श्लेष्मामवातमेदोघ्नं
वास्तशोधनदीपनम् । कासश्वासज्वरान् हन्ति पीतमु-
ष्णोदकं निशि । क्वाथ्यमानन्तु निर्वेगं निष्फेनं निर्म्मल-
न्तथा । अर्द्धावशिष्टं यत्तोयं तदुष्णोदकमुच्यते । ज्वरकास
कफश्वासवातपित्ताममेदसाम् । नाशनं वस्तिसंशोधि-
पथ्यमुष्णोदकं सदा । त्रिपादशषं सलिलं ग्रीष्मे
शरदि शस्यते । हिमेऽर्द्धशेषं शिशिरे तथा वर्षावसन्तयोः”
अन्ये तु “निदाघे त्वर्द्धपादोनं पादहीनन्तु शारदम् ।
शिशिरे च वसन्ते च हिमे चार्द्धावशेषितम् । अष्टमांशा
वशेषन्तु वारि वर्षासु शस्यते” केचित्तु “विधिष्वङ्गेषु वाणेय
वेदेषु त्रिषु पक्षयोः । एकभामावशेषं स्यादम्बु वर्षा-
दिषु क्रमात्” । अत्र दोषाणां ययोल्वणता हीनता वा
तथा व्यवस्था कल्पनीया । “तत् पादहीनं पित्तघ्नम-
पृष्ठ १३८२
र्द्धहीनन्तु वातनुत् । त्रिपादहीनं श्लेष्मघ्नं संग्राह्यग्नि-
करं लघु” । त्रिपादहीनस्य तन्त्रान्तरे आरोग्याम्बुसंज्ञा । तस्य
लक्षणगुणास्तु । “पादशेषन्तु यत्तोयमारोग्याम्बु तदुच्यते ।
आरोग्याम्बु सदा पथ्यं कासश्वासकफापहम् । सद्यो-
ज्वरहरं ग्राहि दीपनं पाचनं लघु । आनाहपाण्डु-
शूलार्शोगुल्मशोथोदरापहम्” भा० प्र० “दिवा शृतन्तु यत्
तोषं रात्रौ तद्गुरुतां व्रजेत्” वैद्यकम् । “संक्रान्तौ
वर्षवृद्धौ च ग्रहणे चन्द्रसूर्य्ययोः । सूतके मृतके चैव न
स्नायादुष्णवारिणा” स्मृतिः । “क्षेत्रस्थमुद्धृतं वापि
शीतमुष्णमथापि वा । गाङ्गं पयः पुनात्याशु पापमा-
मरणान्तिकम्” मरीचिः । “नित्यं नैमित्तिकञ्चैव क्रियाङ्गं
मलकर्षणम् । तीर्थाभावे च कर्त्तव्यमुष्णोदकपरोदकैः”
यमः । “उष्णाम्बुनाधःकायस्य परिषेको मलापहम् ।
तेनैव षोत्तमाङ्गस्य बलनुत् केशचक्षुषोः” आ० त०
आयुर्वेदः । उष्णोदकेनाचमननिषेध आचमनशब्दे उक्तः ।

उष्णोपगम पु० उष्ण उपगम्यतेऽत्र आधारे घञ् अवृद्धिः ।

निदाघकाले । ग्रीष्मर्त्तौ

उष्म पु० उष--मक् । १ घर्मे, २ आतपे, १ ग्रीष्मे ऋतौ च । स्वार्थे कन् । तत्रैव आतपे च ।

उ(ऊ)ष्मन् त्रि० ऊष--आधारे मनिन् वा० वा ह्रस्वः । १ ग्रीष्म-

र्त्तौ कर्त्तरि मनिन् । २ आतपे “नोपतापि मनः सोष्म”
“उष्णोष्णशीकरसृजः प्रबलोष्मणोऽन्तः” “अभीक्ष्णमुष्णैरपि
तस्य सोष्मणः” माघः । दीर्घादिः ३ शषसहवर्णेषु ।

उ(ऊ)ष्मप पु० उष्माणं पिबति पा--क्विप् । भृगोः पुत्रे १ पितृ-

गणभेदे “शुकालिनो बर्हिषद उ(ऊ)ष्मपा आज्यपा-
स्तथा” पितृगणनायां स्मृतिः । २ उ(ऊ)ष्मपानकर्त्तरि
तपस्विभेदे त्रि० । “उर्द्धमुखैरिव रविनिविष्टदृष्टिभिरु(रू)-
ष्मपैः” काद० ।

उ(ऊ)ष्मागम पु० उ(ऊ)ष्मा आगम्यतेऽत्र आ + गम--आधारे घञ् अवृद्धिः । निदाघकाले ।

उ(ऊ)ष्माय नामधा० उ(ऊ)ष्माणमुद्वमति उ(ऊ)ष्मन् + क्यङ् ।

उ(ऊ)ष्मायते औष्मायिष्ट उ(ऊ)ष्मायमाणः ।

उस्र पु० वसन्ति रसा अत्र वस--रक् नि० न षत्वम् । १

किरणे, सूर्य्यकिरणानां जलाकर्षकत्वेन रसवत्त्वात्तथात्वम् ।
२ अन्येषां यथायथं रसवत्त्वम् बोध्यम् । २ वृषे । ३ सुरभ्यां
४ लतायां ५ पृथिव्यां च स्त्री निरु० । देवमात्रे पु० उज्ज्व०
“उस्रावेतं धूर्षाहौ” यजु० ४, ३३ । “उस्रौ अनड्वाहौ”
वेददी० “क्रत्वा नार्वोस्रः पितेव” ऋ० ६, १२, ४ । “उस्रौ
वृषभः” भा० “शरैरुस्रैरिवोदीच्यान्नुद्धरिष्यन् रसानिव” रघुः
“यो धर्त्ता भुवनानां य उस्राणामपीछा” ऋ० ८, ४१, ५ ।
७ सूर्ये “प्रमित्रासो न ददुरुस्रो अग्रे” ३, ५८, ४ ।
“वसति नभसीत्युस्रुः सूर्य्यः” भा० । सूर्य्यरश्मिसम्पर्कात्
८ दिवसे च । “वसुमाँ उस्रयामा” ऋ० ७, ७१, ४, उस्र-
यामा दिवसं प्रति गन्ता” भा० उस्रमिच्छति उस्रीयति
“उस्र्योमाङ्क्षाटः प्रतिषेधः” वार्त्ति० लङादौ नाट उस्री-
त्युक्तेः षत्वाभावश्च ओस्रीयत् । ९ सहवासिनोः अश्विनी-
कुमारयोः द्वि० व० । “अग्नयः उस्रा जरन्ते” ऋ० ४, ४,
५, ५, उस्रा सहनिवसन्तावश्विनीसुतौ” भा० ।

उस्रि स्त्री वस--बा० कि षत्वाभावः । गन्त्र्याम् “हिन्वन्ति सूर

मुस्रयः” ऋ० ९६५, १, “उस्रयः सर्व्वत्रगन्त्र्यः” भा० ।

उस्रिक पु० उस्र + अल्पार्थे स्वार्थे वा ठन् । अल्पवाहके

१ जीर्ण्णवृषभे अल्पक्षीरस्राविण्यां २ स्त्रीगव्याम् स्त्री

उस्रिय पु० उस्र + स्वार्थे अल्पार्थे वा घ । १ जीर्णवृषभे “उस्रियो

वृषभः क्रन्दतु द्यौः” ऋ०५, ५८, ६, २ स्त्रीगव्याम् स्त्री
निरु० । “गवामूर्व्वमुस्रियाणाम्” ऋ० ५, ३, ४, उस्रियाणां
क्षीरमुत्सारयन्तीनाम्” भा० ।

उह अर्दने भ्वादि० पर० सक० सेट् इरित् । ओहति औहत्,

औहीत्, उवोह ऊहतुः । अप अपसारणे तानपौहीत्
निशाचरः” भट्टिः “अपौहदुत्तरः” रघुः

उह अव्य० उ च ह च द्व० । १ संबोधने, २ एवार्थे च ।

उहह अव्य० उह च ह च । सम्बोधने ।

उहू स्त्री उह--कू । १ खेदसूचके शब्दे “नखानि विधुशङ्कया

करतलेन तत्व्यावृणोत् ततः किसलयभ्रमात् करमथाक्षि
पद्दूरतः । ततीवलयशिञ्जितेभ्रमरगुञ्जिताशङ्कया उहूरिति
कुहूरवध्वनिभियाऽपतत् मुर्च्छिता” । वह--कू । वाहके
त्रि० । “हिरण्य पर्ण्णा उहुव उषर्वुधः” ऋ० ४, ४५,
४, उहुवः वाहकाः” भा० उवङ् छान्दसः

उह्यमान त्रि० वह--कर्म्मणि शानच् । यस्य वहनं क्रियते

तस्मिन् “यथीह्यमानःकिल भोगिवैरिणा” नैषध० ।

उह्र पु० वह--रक् । वृषभे शब्दार्थचिन्तामणिः

इति वाचस्पत्ये उकारादिशब्दार्थसङ्कलनम् ।
"https://sa.wikisource.org/w/index.php?title=वाचस्पत्यम्/उपायन&oldid=321522" इत्यस्माद् प्रतिप्राप्तम्