पृष्ठ १५००

एकादि त्रि० एक आदिर्यस्य । १ एकत्वस ख्यान्वितमारभ्य

परार्द्धान्तसंख्यायुक्ते । २ तत्स्मारके रेखासन्निवेशविशेषरूपे-
अङ्के च । अङ्काश्च नव तेषामेव स्थानविशेषयोगभेदेन
विभिन्नसंख्यास्मारकत्वम् । अथ एकाद्यङ्कैः यद् यत्संख्या-
न्विताः स्मार्य्यन्ते तदुच्यते । १ इत्यङ्केन एकः एवं २, द्वौ, ३, त्रयः,
४, चत्वारः ५, पञ्च ६, षट् ७, सप्त ८, अष्टौ ९, नव १०, दश ।
दशानामेकादिनवभिरङ्कैराधिक्ये ११, १२, १३, १४, १५, १६, १७,
१८, १९ इत्येतेऽङ्काः क्रमेण एकादशद्वादशत्रयोदशचतुर्द्दश
पञ्चदशषोड़शसप्तदशाष्टादशनवदशानां स्मारकाः । दशाङ्कस्य
च द्व्यादिनवभिर्गुणने क्रमेण २०, ३०, ४०, ५०, ६०,
७०, ८०, ९० एतेऽङ्काः क्रमेण विंशतित्रिंशच्चत्वासिशत्-
पञ्चाशत्षष्टिसप्तत्यशीतिनवतिसंख्यान्वितानां स्मारकाः ।
एषाञ्च एकादिकनवभिराधिक्ये २१, २२, २३, २४, २५, २६,
२७, २८, २९, इत्येतेऽङ्का एकविंशत्यादीनां स्माराकाः ।
एवं ३१ इत्यादयोऽङ्का एकत्रिंशदादीनां स्मारकाः । दशभि
र्गुणिते दशाङ्के १०० इत्यङ्कः शतस्य स्मारकः । क्रमेण
दशोत्तरगुणने “एकदशशतसहस्रायुतलक्षप्रयुतकोटयः क्रमशः ।
अर्वुदमब्जं सर्वनिखर्वं महापद्मशङ्कवस्तस्मात् । जलधि-
श्चान्त्यं मध्यं परार्द्धमिति दशगुणोत्तराः संज्ञाः संख्यायाः
स्थानानां व्यवहारार्थं कृताः पूर्वैः” इति लोलावत्युक्तदिशा-
वसेयम् । संक्षेपेण तत्रैकाद्यङ्गानां क्रमशः स्थितानां योगज
संख्याज्ञानार्थमुपायान्तरमुक्तं तत्रैव यथा “एकादिन-
वानामङ्कानां योगे का संख्येति प्रश्ने “सैकपदघ्नपदार्द्धमथै-
काद्यङ्कयुतिः किल सङ्कलिताख्या” इत्युक्तरीत्या पृष्ठसंख्या-
पदं एकयुक्तेन तेन १० अङ्केनाहतं पृष्ठाङ्कार्द्धम् ९ २
४५ संङ्कलितसंख्या । तथाचैकादिनवाङ्क्यानां योगे ४५
संख्या भवतीति निश्चय एवमन्यत्राप्यूह्यम् । “एकाद्येको-
त्तरा अङ्का व्यस्ता भाज्याः क्रमस्थितैः” लीला०
एकादिसंख्यानां वाचकाश्च कतिचित् शब्दाः कविकल्प-
कतायां संगृहीताः यथा ।
“एकोब्रह्मेन्द्रहस्त्यश्वगजास्यदन्तशुक्रदृक् १ । द्वयं पक्ष
नदीकूलासिधारारामनन्दनौ २ । त्रयं कालोऽग्निमुवनं
गङ्गामार्गेशदृग्गुणाः । ग्रीवारेखा कालिदासकाव्यम्
शूलशिखा बलिः । सन्ध्यापुरपुष्कराणि रामविष्णुपदं
वयः ३ । चत्वारि वेदब्रह्मास्यवर्ण्णाब्धिहरिबाहवः ।
स्वर्द्दन्तिदन्तसेनाङ्गोपाययामयुगाश्रमाः ४ । पञ्च
पाण्डवरुद्रास्येन्द्रियस्वर्द्रुव्रताग्नयः । महापापमहामूत
महाकाव्यमहामखाः । पुराणलक्षणान्यङ्गानिलकर्मे-
न्द्रियार्थकाः ५ । षट् वज्रकोणत्रिशिरोनेत्रतर्काङ्गं
दर्शनम् । चक्रवर्त्तिमहासेनवदनानि गुणा रसाः ६ ।
सप्त पातालभुवनमुनिद्वीपाकीजिनः । वाराब्धिगृप-
राज्याङ्गव्रीहिवह्निशिखाद्रयः ७ । अष्टौ योगाङ्गवस्वीश-
मूर्त्तिदिग्गजसिद्धयः । ब्रह्मश्रुतिव्याकरणदिक्पालाहि
कुलाचलाः ८ । नवाङ्गद्वारभूखण्डकृत्तरावणमस्तकाः ।
व्याघ्रीस्तनसुराकुण्डसेव ध्यङ्करसग्रहाः ९ । दश हस्ता-
ङ्गुलीशम्भुबाहुरावणमौलयः । कृष्णावतारदिग्विश्वे
देवावस्थेन्दुवाजिनः १० । एकादश महादेवाः सेनाश्च
कुरुभूपतेः ११ । द्वादशार्कमासराशिसंक्रान्तिगुहबाहवः ।
शारीकोष्ठकसेनानीनेत्रक्ष्मापतिमण्डलाः १२ । त्रयोद-
श स्युस्ताम्बूलगुणा १३ अथ चतुर्दश । विद्यामनुत्रिदिव-
राड्भुवनध्रुवतारकाः १४ । तिथयः स्युः पञ्चदश १५
षोडशेन्दुकलात्मिकाः १६ । अष्टादश द्वीपविद्यापुराणस्मृतिधा-
न्यकम् १८ । सिंशतीरावणभुजाङ्गुलयो २० ऽथ शतं यथा ।
धार्त्तराष्ट्राः शतभिषक्तारका पुरुषायुषम् । रावणाङ्गु-
ल्यब्जदलशक्रयज्ञाब्धियोजनम् १०० । सहस्रं जाह्नवीवर्त्म
शेषशीर्षाम्बुजच्छदम् । रविवाणार्ज्जुनकरा वेदशास्वेन्द्र-
दृष्टयः” । १००० ।
शा० ति० केषाञ्चित् संख्याभेदान्विततयोत्पत्तिकथनेन
तेषां तत्तत्संख्याबोधकत्वं सूचितंयथा “हंसवर्णौपरा-
त्मानौ शब्दार्थौ वासरक्षपे । सृजत्येषा परा देवी तदा प्रकृ-
तिपूरुषौ । थद्यदन्यज्जगत्यस्मिन् युग्मं तत्तदजायत२ ।
त्रिगुणीकृतसर्वाङ्गी चिद्रूपा शिवगेहिनी । प्रसूते त्रैपुरं
मन्त्रम्” इत्युपक्रम्य “लोकत्रयगुणत्रये । धामत्रयं सा
वेदानां त्रयं वर्णत्रयं शुभम् । त्रिपुष्करं स्वरान्देवी-
ब्रह्मादीनां त्रयं तथा । वह्निकालत्रयं शक्तित्रयं वृत्तित्रयं
महत् । नाडीत्रयं त्रिवर्गं सा यद्यदन्यत्त्रिधा मतम् ।
चतुःप्रकारगुणिता शाम्भवी शर्मदायिनी” इत्युपक्रम्य
“चतुरः सागरानन्तःकरणानां चतुष्टयम् ।
सूक्ष्मादींश्चतुरोभावान् विष्णोर्मूर्त्तिचतुष्टयम् । चतुष्टयं
गणेशानामात्मादीनां चतुष्टयम् । उड्डियानादिकं पीठं
धर्मादीनां चतुष्टयम् । दमकादीन् गजान् देवी यद्यद-
न्यच्चतुष्टयम् ४ । पञ्चधा गुणिता पत्नी शम्भोः सर्वार्थसाधिनी ।
पञ्चरत्नं महादेवी सर्वकामफलप्रदम् । पञ्चाक्षरं महेशस्य
पञ्चवर्णान् गरुत्मतः । सम्मोहनान् पञ्च वाणान् कामान्
पञ्च सुरद्रुमान् । पञ्च प्राणादिकान् वायून् पञ्च वर्णान्
महेशितुः । मूर्त्तीः पञ्च, कलाः पञ्च ब्रह्मऋचः क्रमात् ।
सृजत्येषा परा शक्तिर्वेदवेदार्थरूपिणी ५ । षोढा संगुणिता
देवी धत्ते मन्त्रं षडक्षरम् । ऋतून् वसन्तप्रमुखाना-
पृष्ठ १५०१
मोदादीन् गणाधिपान् । कोषानूर्मीन् रसान् शक्तीर्डाकि-
न्याद्याः षडध्वनः । यन्त्रं षड्गुणितं शक्तेः
षडाधारानजीजनत् । षड्विधं यज्जगत्यस्मिन् सर्वन्तु परमे-
श्वरी६ । सप्तधा गुणिता नित्या शङ्करार्द्धशरीरिणी । सप्तार्णं
त्रिपुरामन्त्रं सप्तवर्णं विनायकम् । सप्तकं व्याहृतीनां
सा सप्तवर्णें सुदर्शनम् । लोकानद्रीन् स्वरान् धातून्
मुनीन् द्वीपान ग्रहानषि । समिधः सप्त संख्याताः सप्त-
जिह्वा हविर्भुजः । अत्यत् सप्तविधं यद्यत्तदस्याः
समजायत ७ । अष्टघा गुणिता शक्तिः शैवमष्टाक्षरद्वयम् ।
गन्धाष्टक शुभं देवीदेवानां हृदयङ्गमम् । ब्राह्म्याद्या-
भैरवान् सर्वान् मूर्त्तीरेशीर्वसूनपि । अष्टपीटं
महादेव्या अष्टाष्टकसमन्वितम् । अष्टौ सा प्रकृतीर्विघ्नान्
वक्रतुण्डादिकान् क्रमात् । अणिमादिगुणान्नागान् वह्ने-
र्मूर्त्तीर्यमादिकान् । अष्टात्मक जगत्यन्यत् सर्वं वितनुते
तदा ८ । गुणिता नवधा नित्या सूते मन्त्रं नवात्मकम् ।
नवकं शक्तितत्त्वानां तत्त्वरूपा महेश्वरी । नवकं पीठ
शक्तीनां शृङ्गारादीन् रसानपि । माणिक्यादीनि रत्नानि
नववर्गयुतानि सा । नवकं प्राणदूतीनां मण्डलं नबकं
शुभम् । यद्यन्नवात्मकं लोके सर्वमस्यामुदञ्चत ९ ।
दशधा गुणिता शम्भोर्भामिनी भवदुःस्वहा । दशकं
शक्तितत्त्वानां तत्त्वरूपा महेश्वरी । नाडीनां दशकं
विष्णोरवतारान् दश क्रमात् । दशकं लोकपालानां यद्यन्य-
त्कल्पयत्यसौ १० । एकादश क्रमात् संविद् गुणिता सा
जगन्मयो । रुद्रैकादशनामाद्या शक्तेरेकादशाक्षरम् ११ ।
समुद्गरति सर्वात्मा गुणिता द्वादश क्रमात् । राशीन्
मासान् हरेर्मूर्त्तीर्यन्त्रं सा द्वादशात्मकम । अन्य-
देतादृशं सर्वं यत् तदस्याव्यजायत” ।
अत्र च यो यः पदार्थः यद्यत्संख्यान्विततया उत्पन्नः
मलःस्वगतसंख्यातुल्यसंख्यासूचकः भवति च निदर्शित
पदार्थानां तत्तत्संख्यायुक्ततया लोकशास्त्रप्रसिद्धिः इत्यत
स्तत्तच्छब्दानां तत्तत्संख्यास्मारकत्वम् । तथाचैकविधसं-
ख्यागुणितप्रकृतिकार्य्यत्वेन तुल्यसंख्याबोधकत्वम् ।
अन्येऽपि केचित् संख्याविशेषसूचकाः भा० व० १३४
अ० दर्शिता यथा । “वन्द्युवा च । एक एवा ग्निर्ब-
हुधा समिध्यत एकः सूर्य्यः सर्व्वमिदं विभाति ।
एको वीरो देवराजोऽरिहन्ता यमः पितॄणामीश्वरश्चैक
एव १ । अष्टावक्र उवाच । द्वाविन्द्राग्नी चरतो वै सखायौ
द्वौ देवर्षी नारदपर्व्वतौ च । द्वावश्विनौ देरथस्यापि
चक्रे भार्य्यापती द्वौ विहितौ विधात्रा २ । वन्द्युवाच ।
त्रिः सूयते कर्म्मणा वैप्रजेयं त्रयीयुक्ता वाजपेयं
वहन्ति । अध्वर्य्यवस्त्रिसवनानि तन्वते त्रयो लोका-
स्त्रीणि ज्योतींषि चाहुः ३ । अष्टावक्र उवाच । चतुष्टयं
ब्राह्मणानां निकेतं चत्वारो वर्ण्णा यज्ञमिमं वहन्ति ।
दिशश्चतस्रो वर्णचतुष्टयञ्च चतुष्पदा गौरपि शश्वदुक्ता ४ ।
वन्द्युवाच । पञ्चाग्नय पञ्चपदा च पङ्क्तिर्यज्ञाः पञ्चैवाप्यथ
पञ्चेन्द्रियाणि । दृष्टा वेदे पञ्चचूडाप्सराश्च लोके ख्यातं
पञ्चनदञ्च पुण्यम् ५ । अष्टावक्र उवाच । षडाधाने दक्षि-
णामाहुरेके षड् वै चेमे ऋतवः कालचक्रम् । षडिन्द्रिया-
ण्युत षट् कृत्तिकाश्च षट्साद्यस्काः सर्व्ववेदेषु दृष्टाः ६ ।
वन्द्युवाच सप्त ग्राम्याः पशवः सप्त वन्याः सप्त च्छन्दांसि
क्रतुमेकं वहन्ति । सप्तर्षयः सप्त चाप्यर्हणानि सप्ततन्त्री
प्रथिता चैव वोणा ७ । अष्टावक्र उवाच । अष्टौ शाणाः
शतसानं वहन्ति तथाष्टपादः शरभः सिंहघाती ।
अष्टौ वसून् शुश्रुम देवतासु यूपश्चाष्टास्रिर्व्विहितः
सर्व्वयज्ञे ८ । वन्द्युवाच । नवैवोक्ताः सामधेन्यः
पितॄणां तथा प्राहुर्नवयोगं विसर्गम् । नवाक्षरा वृहतो
संप्रदिष्टा नवाङ्कयोगोगणनामेति शश्वत् ९ । अष्टावक्र-
उवाच । दिशो दशोक्ताः पुरुषस्य लोके सहस्रमाहुर्दश-
पूर्णं शतानि । दशैव मासान् बिभ्रति गर्भवत्यो दर्शरका-
दश दाशा दशार्हाः १० । वन्द्युवाच । एकादशैकादशिनः
पशूनामेकादशैवात्र भवन्ति यूपाः । एकादश प्राणभृतां
विकारा एकादशोक्ता दिवि देवेषु रुद्राः ११ । अष्टावक्र
उवाच । संवत्सरं द्वादशमासमाहुर्जगत्याः पादो द्वा-
दशैवाक्षराणि । द्वादशाहः प्राकृतयज्ञ उक्तो द्वादशा-
दित्यान् कथयन्तीह धीराः १२ । वन्द्युवाच । त्रयोदशी
तिथिरुक्ता प्रशस्ता त्रयोदशद्वीपवती मही च । लोमश
उवाच । एतावदुक्त्वा विरराम वन्दी श्लोकस्यार्द्धं व्याज-
हाराष्टावक्रः । अष्टावक्र उवाच । त्रयोदशाहानि
ससार केशी त्रयोदशांदोन्यतिछन्दांसि चाहुः” १३ अस्य
नीलकण्ठोक्तदिशाव्याख्या यथा एकोऽग्निः सूर्य्यो वा
इतराप्रकाश्योऽन्यप्रकाशकश्च । एवं देवानामिन्द्रियाणां
राजा प्रधानभूतः अरिहन्ता पराभिभूततत्त्वान्तराभिमा-
वकः । यमः सर्वेन्द्रियाणां नियन्ता पितॄणां विषयोपहार-
द्वारा पालयितॄणामिन्द्रियाणाम् ईश्वरो भोक्ता कर्त्ता
प्रधानभूत एक एव १ । सखायौ सत्वजीवौ जीवेश्वरौ वा ।
२ पुण्येन देवस्थावरमनुष्यरूपं, पापेन नारकस्थावरतिर्यम्यो-
पृष्ठ १५०२
निरूपं जन्मत्रयम् । वाजपेयोपलक्षितं कर्ममात्रम् तच्च
वेदभेदात् द्विजभेदाच्च त्रयम् । त्रीण्येव प्रातर्मध्याह्न
तृतीयसवनानि । त्रयो लोकाः स्वर्गोनरकं भूश्चेति
भोगभूमयः । त्रीणि ज्योतींपि जाग्रदाद्यवस्थात्रयम् । ३ ।
निकेतमाश्रमम् यज्ञमिह ज्ञानयज्ञं तेन चातुर्वर्ण्णमध्ये
शूद्रस्यापि तत्राधिकारः । दिशः विराट्सूत्रान्तर्यामितूर्य्य-
साक्षात्काररूपाः चतस्रः दिशः । वाङ्मयप्रणवस्य वर्ण
चतुष्टयम् अकारौकारोमकारः अर्द्धमात्रा इत्येवं
चतुष्टयम् । चतुष्पदा परा पश्यन्ती मध्यमा वैखरीति
भेदात् गौर्वाक् चतुष्पदा ४ । पञ्चाग्नयः गार्हपत्यदक्षिणा-
ग्न्याहवनीयसभ्यावसथ्याख्याः । पञ्चपदाऽष्टाक्षरैः पादैः
पङ्क्तिः छन्दः पञ्चपदा । यज्ञाः पञ्च ब्रह्मर्षिपितृ-
नृभूतयज्ञाः पञ्च स्मार्त्ताः, अग्निहोत्रं दर्शपौर्ण-
मासौ चातुर्मास्यानि पशुः सोम इति श्रीता वा पञ्च ।
अप्सु शरीराकारपूरिणताषु जलप्रधानासु मात्रासु सरति
गच्छतीत्यप्सराः चितिः पञ्चचूडा तत्तद्विषयाकारतया
प्रमाणविपर्य्ययविकल्पनिद्रास्मृतिरूपवृत्तिपञ्चकसारूप्येण
शिखापञ्चकवती पञ्चानां विषयरूपस्रोतस्रां समाहारः
पञ्चनदम् ५ षट् आधाने गाइति शेषः । मनस इन्द्रियत्व-
मभ्युपेत्य षट्कोपपत्तिः साद्यस्का यज्ञविशेषाः ६ । “ग्राम्यार-
ण्याः पशवश्चतुर्दश गौरविरजोऽश्वोऽश्वतरोगर्दभोमनुष्यश्चेति
सप्तग्र्यम्याः महिषवानरराक्षससरीसृपरुरुपृषन्मृगाश्चेति
सप्तारण्याः” पैठीनस्युक्ताः । सप्त छन्दांसि गायत्र्यु-
ष्णिगनुष्टुब्वृहतीपङ्क्तित्रिष्टुब्जगतीसमाख्यानि । सप्त-
र्षयः सप्त प्राणाः “प्राणा वै ऋषय” इति श्रुतेः मनोबु-
द्धिसहिताः प्राणादयः पञ्च सप्तेत्यथेः । सप्त अर्हणानि
अर्हणीयानि सुखानि पञ्चभिरिन्द्रियैः मनोबुद्धिभ्यां प्रा-
प्यानि सुखानीतिभेदात् सुखानि सप्त । ७ “अष्टौ ग्रहा
अष्टावतिग्रहाः” श्रुतेः शाणाः शणनिर्मिता गौण्यः
आवपनविशेषा इव इन्द्रियप्रवेशयोग्याः अष्टौ । ८ । पितॄ-
णामिष्टौ “उशन्तस्ता निधीमहीति” ऋक् त्रिरभ्यस्ता
प्रत्येकं त्रिसमित्का नव सामघेन्योऽग्निसमिन्धनार्था ऋचः
यम्पद्यन्ते । तथा एका प्रकृतिरेव त्रिगुणा एकद्विगुणप्र
धानभावविमर्द्दनैः प्रत्येकं त्रिविधा नवैव संपद्यते तथा
नवैवाङ्काः क्रमस्थानभेदात् यथेष्टसंख्यावाचिनो भवन्ति ९ ।
दिश उपदेष्टार दासा तत्त्वक्षेपकाः । अर्हास्तत्त्वाधिकारिणश्च
दश १० । इन्द्रियाणि मनसा सह ज्ञानकर्म्मन्द्रियाणि तेषां
विषयाः तद्ग्रहजाविकाराश्च एकादश ११ । प्राकृत-
यज्ञः द्वादशाहताध्यत्वात् द्वादशाहः १२ । त्रयो-
दशद्वोपवती भ्रादिषट्केन पातालसप्तकेन युक्ता
च मध्यस्था मही त्रयोदशद्वीपवती १३ । एवमेका-
दिसंख्याया बोधकत्वं तत्तत्पदार्यानाम् दर्शितम् ।
अन्ये च शब्दाः शास्त्रान्तरेषु एकादिसंख्याबोधकतया
प्रयुज्यन्ते ते च शब्दाः पूर्ब्बदर्शितशब्दाश्च यथा तत्तत्संख्य
बोधकाभवन्ति तथा दर्श्यते तत्र सर्व्वत्र शब्दतदर्थयोरभे-
दात् स्ववाच्यार्थगतसंख्यातुल्यसंख्यावोधकत्वेन स्ववाच्या-
र्थसंख्यापूर्य्यसंख्यातुल्यसंख्याबोधकत्वेन वा तथात्वं
बोध्यम् । सर्बेषाञ्च क्वचित् तत्तत्संख्यापूरणवाचकतापि
“युग्माग्नी कृतभूतानि षण्मुनी वसुरन्ध्रयोः” स्मृतौ युग्मा-
दिभिः तत्संक्यापूरणद्वितीयादीनां बोधनात् ।
१ तत्रादौ एकत्वबोधकाः । कवि० ल० । ब्रह्मणः “एकमेवा
द्वितीयं ब्रह्मेति” श्रुतेरेकत्वात्तथात्वम् विरञ्चिवाचिब्रह्मणो
प्येकमहासर्गे एकत्वात्तथा क्ष्मेन्द्विन्द्रेति पाठे भूमिचन्द्रयो-
रेकत्वात्तथा । इन्द्रहस्तिन ऐरावतस्य तदश्वस्योच्चैःश्रवस-
श्चैकत्वात् तथा । गणेशदन्तस्य शुक्रनेत्रस्य चैकत्वात् तथा
एवं काकनेत्रस्यापि । भा० व० उक्ताः । स्वप्रकाशस्य
अन्यप्रकाशकस्य सूर्यस्याग्नेश्च यमम्य सर्व्वनियन्तुरीश्वरस्य,
इन्द्रपदाभिधेयस्य तथा “इन्द्रोमायाभिः पुरुरूप ईयते
इति” श्रुतेरीश्वरस्येन्द्रपदवाच्यत्वात् ।
रूपम् वैशेषिकमतसिद्ध्वचतुर्विंशतिगुणेषु आद्यत्वात् तथा ।
“भजेच्छिदोऽंशैरथ तैर्विमिश्रै रूपं भजेत् स्यात्
परिपूर्त्तिकालः” लीला० । अश्विनी तस्याः तारास्वाद्यत्वात्
अभेदात्तदघिपाश्विशब्दोऽपि । तस्य स्वपरत्वे द्वित्वबोधक
तेति भेदः । उक्था तस्या एकाक्षरपादकत्वात् प्रधान-
वाची प्रकृतिशब्दस्तथा “अजामेकां लोहितशुक्लकृष्णाम्”
इत्यादिश्रुतेस्तदर्थस्यैकत्वात् ।
२ द्वित्वबोधकाः । कवि० ल० उक्ताः । चान्द्रमासघटकयोः
पक्षिच्छदरूपयोर्वा पक्षयोः, नदीकूलयोः, असिधारयोः,
कुशलवरूपयोर्दाशरथिपुत्रयोश्च तथा । शा० ति०”
उक्ताः । हंस इति वर्ण्णौ जीवपरमरूपौ परात्मानौ
शब्दार्थौ दिनरात्री स्त्रीपुरुषौ, परस्परविरोधि
पुणरूपा शीतोष्णसुखदुःखादयश्च तथा । भा० ब०
उक्ताः । इन्द्राग्नो सत्वजीवौ नारदपर्व्वतौ अश्विनौ
रथचक्रे च तथा । एवम् भरणी तारासु तस्याद्विती-
यत्वात् तदभेदात् तदधिपोयमोऽपि । यमशब्दस्य यमयि-
त्रीश्वरपरत्वे एकत्वस्य, यमजपरत्वे द्वित्वस्य योगाङ्गय-
पृष्ठ १५०३
रत्वे अष्टत्वस्य बोधकतेति भेदः । प्रेतराजपरकालशब्द-
स्यापि तथात्वम् । तस्य समयपरत्वे त्रित्वस्य, शिवपरत्वे
आर्द्राधिपत्वस्य षट्कस्येति भेदः । अत्युक्था द्व्यक्षरपा-
दत्वात्तथा । शकटांशभेदार्थकयुगशब्दस्तथा तस्य शकटादौ
द्वित्वसंख्यकतयैव योजनात् । एवं द्वन्द्वार्थकयुगशब्दोऽपि ।
अयनशब्दोऽपि तथा वर्षे तदर्थयोर्द्वयोरेव घटकत्वात् ।
पर्वसन्धिः चान्द्रमासे तयोर्द्वित्वात् । शब्दः ध्वन्यात्मक-
वर्णात्मकरूपः, अदृष्टम् पुण्यापुण्यरूपम्, शब्दशक्तिः
अभिधालक्षणारूपा, बुद्धिः अनुभवस्मृतिरूपा, गन्धः
सुरभिदुर्गन्धरूपः ध्वनिधर्म्मः तारत्वमन्दत्वात्मकः, स्पर्शः
उष्णानुष्णात्मकः, मृदुत्वकाठित्यात्मको वा, अभावः,
संसर्गाभावभेदात्मकश्च द्वित्वस्य बोधकः । सामान्यं व्याप्य-
व्यापकात्मकम्, क्रिया सिद्धसाध्यात्मिका वेदान्तिमते
पदार्थः चिज्जडरूपः द्रष्टृदृश्यरूपो वा आर्हतमते जीवाजीव-
रूपो वा न्यायमते भावाभावरूपो बा, परिमाणम्
वेदान्तिमते अणुत्वमहत्त्वरूपं च द्वित्वात्तथा । वैशेषिकमते
तु अणुमहत्त्वह्रस्वत्वदीर्घत्वरूपं चतुष्कात् चतुष्कस्य
तथेति भेदः । पदम् सुबन्ततिङन्तरूपत्वात्, धात्वर्थः
फलव्यापाररूपत्वात् तथा । प्रयोजनं गौणसुख्यरूपत्वा-
त्तथा । न्यायमते व्याप्तिः अन्वयव्यतिरेकरूपत्वात्तथा ।
वेदान्तादिमते व्यतिरेकव्याप्तेरभावात् तस्यांः
एकत्वादेकत्वस्येति भेदः । संयोगः कर्मजसंयोगजातात्मकः,
विभागः कर्मजविभागजात्मकश्च द्वित्वात् तथा । नाटक-
प्रस्ताव्यवस्तु आधिकारिकप्रासङ्गिकरूपं द्वित्वात् तथा ।
काव्यम् दृश्यश्राव्यरूपं द्वित्वात् तथा अवान्तरभेदपरत्वे
ध्वन्यादिपरत्वात् त्रित्वस्येति भेदः । गुरुत्ववद्द्रव्यम्
रसवद्द्रव्यञ्च क्षितिजलात्मकत्वात्तथा । नैमित्तिकद्रववद्द्रव्यं
क्षितितेजोरूपत्वात्तथा । समाधिः सविकल्पनिर्विकल्पा-
त्मकः सवीजनिर्वीजात्मकः संप्रज्ञातासंप्रज्ञातात्मकोवा
द्वित्वात्तथा । समापत्तिः सविचारनिर्विचारात्मिका
द्वित्वात् तथा । परममुक्तिर्विदेहकैवल्यात्मिका द्वित्वा-
त्तथा । सालोक्यादिपरत्वे चतुष्ट्वस्येति भेदः । समाधि-
प्रज्ञा ज्योतित्यृतम्भरात्मिका द्वित्वात्तथा । कर्म्मकारकं
मुख्यगौणात्मकं द्वित्वात्तथा । कर्त्तृकारक स्वतन्त्रप्रयो
जकरूपं, सम्प्रंदानकारकं प्रेरकानुमन्तृरूपञ्च द्वित्वात्तथा ।
प्रत्यक्षं लौ ककालौकिकात्मकतया द्वित्वात् तथा अवान्तरप्र-
त्यक्षपरत्वे षटत्वस्येति भेदः । ज्ञानं सविकल्पकनिर्वि-
कल्पकात्मकं तया । अनुमानं स्वार्थपरार्थात्मकं अनु-
मानफलं तत्त्वनिर्ण्णयविजयरूपं तथा । ब्रह्म सगुणनिर्गुण
रूपम्, जीववादः एकानेकविषयात्मकः वेदान्तिमते ज्ञानं
वृत्तिवृत्त्यवच्छिन्नचैतन्यात्मकम् जीवभेदकः अवच्छेद
प्रतिविम्बरूपश्च द्वित्वात् तथा । कर्म्म शुक्लकृष्णात्म
पुण्यापुण्यसाधनम् विहितनिषिद्धरूपं, धर्म्मः प्रवृत्ति
निवृत्तिलक्षणः वेदमेयं सिद्धसाध्यरूपं, प्रयागंःपश्चि-
मदक्षिणरूपः, वेदान्तिमते अविद्या कार्य्यकारणरूपा
तूल्याविद्यामूलाविद्यात्मिका द्वित्वात्तथा । काञ्चिः
विष्णुशिवकाञ्चिरूपत्वात् तथा । आगमरूपप्रमाणशब्दः
दृष्टादृष्टार्थकत्वात्तथा उदाहरणं साधर्म्यवैधर्म्यकृतम्, शृङ्गारः
विप्रलम्भसंभोगात्मकः, मानश्च प्रणयेर्ष्याजातः द्वित्वात्तथा
३ त्रित्वबोधकाः कवि० ल० उक्ताः । कालः
मूतभविष्यद्वर्त्तनरूपत्वात्, अग्निः दक्षिणाग्निगार्हपत्याह-
वनीयरूपत्वात्, लोकः स्वर्गमर्त्यपातालरूपत्वात्,
गङ्गावर्त्म त्रिलोकस्थत्वात्, शिवनेत्रम् सूर्य्येन्दुवह्निरूप-
त्वात्, गुणः सत्वरजस्तमोरूपत्वात् तथा । नीतिशास्त्रप्र-
सिद्धगुणपरत्वे षट्कस्य, द्रव्यधर्मभेदपरत्वे चतुर्विंशति
त्वस्य बोधकैति भेद । ग्रीवारेस्वा, कालिदासकृतकाव्यं कुमा-
ररघुवंशमेघदूतरूपत्वात्, त्रिशूलशिखा, देहोदराधःस्थलु-
लितमांसरूपवलिश्च त्रित्वात् तथा । प्रातर्मध्यसायाह्नरूप
सन्ध्यानां, त्रिपुरासुरस्वर्गादिस्थपुराणां, वारतिथिनक्ष-
त्रभेदात्मकज्योतिषोक्तपुष्करदोषाणाम्, परशुरामदाशरथि-
बलभद्रात्मकर माणां, त्रिलोकव्यापिवामनरूपविष्णुपदानां,
बाल्ययौवनजरारूपवयसाञ्च त्रित्वात् तथा । शा०
ति० उक्ताः । सूर्य्येन्दुवह्निरूपधाम्नाम्, ऋग्यजुःसामरूप-
त्रय्यात्मकवेदानां त्रित्वात् तथात्वम् । अथर्ववेदसहितत्र-
यीपरत्वे तु चतुष्टयस्य बोधकतेति भेदः । प्रणववर्णानाम्
अकारोकारमकाररूपाणाम्, उदात्तानुदात्तस्वरितरूपस्व-
राणाञ्च त्रित्वात् तथा । स्वरस्म षड्जादिपरत्वे सप्त-
कस्य अज्वर्णपरत्वे षोड़शत्वस्येति भेदः । देवीनां
गायत्रीसावित्रीसरस्वतीरूपाणां, ब्रह्मविष्णुशिवरूपेश्वर-
मूर्त्तीनाञ्च त्रित्वात् तथा । कृषिपाशुपाल्यबाणिज्यरूपा
याजनाध्यापनप्रतिग्रहरूपा वा आजीविकात्मिका वृत्ति-
स्तथा मनोवृत्तिपरत्वे चतुष्कस्य, प्रमाणादिवृत्तिपरत्वे
पञ्चकस्य, शब्दनिष्ठबोधनाशक्तिरूपवृत्तिपरत्वे
अलिङ्कारिकमते त्रित्वस्य, अन्यमते द्वित्वस्य, वाचक-
शब्दभेदपरत्वे तद्धितादिपञ्चत्वस्येति भेदः । ज्येष्ठारौद्री
वामारूपा, ज्ञानेच्छाक्रियारूपा वा प्रभावोत्साह-
पृष्ठ १५०४
मन्त्रजारूपा वा शक्तिः तथा, नाडी इड़ापिङ्गला-
सुषुम्णात्मकप्रधाननाड़ीरूपा तथा । गान्धार्य्यादिनाड़ी-
परत्वे सप्तत्वस्य, दण्डपरत्वे तस्याः षष्टिपलात्मकत्वात्
दिवसे षष्टिसंख्यकत्वाच्च षष्टित्वस्येति भेदः । भा० व० उक्ताः ।
प्रजा देवतिर्ष्यग्मनुष्यरूपा, त्रयीभेदात् द्विजभेदाच्च
वाजपेयादिकर्म च तथा । प्रातर्मध्यसायाह्नकर्त्तव्यानि
सवनानि, ज्योतिः विश्वप्राज्ञतैजसरूपम् तथा । एवम् कटु
शुण्ठीपिप्पलीमरिचरूपतया, फलम् हरीतक्यामलकीवय-
स्थारूपतया, दोषः वातपित्तकफरूपतया रागद्वेषमोहरूप-
तया वा तथा । कृत्तिका तस्या राशिचक्रे तृतीयत्वात्,
अभेदोपचारात् तदधिप वह्निरपि । तद्घटकतारापरत्वे तु
षट्कस्य वोधिका इति भेदः । मध्या त्र्यक्षरपादत्वात् तथा
शब्दवृत्तिः शक्तिलक्षणाव्यञ्जनारूपा तथा इत्यालङ्कारिकाः
अन्यमते द्वित्वस्येत्युक्तम् । कारणम् समवाय्यसमवायि-
निमित्तात्मकं त्रित्वात् तथा । फलावहहेतुः दैवपुरुष-
कारकालात्मकः “देवं पुरुषकारश्च काले फलति पार्थिव! ।
त्रयमेतन्मनुष्यस्य पिण्डितं फलवाहम्” इत्युक्ते
स्त्रयाणां तथात्वात्तथा । “अधिष्ठानं तथा कर्त्ता-
करणञ्च पृथग्विधम् । विविधाश्च पृथक्चेष्टा दैवञ्चेवात्र
पञ्चमम्” गीतोक्तत्वात् पञ्चत्वस्यापि । संस्कारः स्थितिस्था-
पनवेगभावनात्मकस्त्रित्वात् तथा, गर्भाधानादिपरत्वे
दशत्वस्य चत्वारिंशत्त्वस्य वेति भेदः । संसर्गाभावः प्रागभाव-
ध्वंसात्यन्ताभावात्मकत्वात्तथा । यत्नः प्रवृत्तिनिवृत्तिजीवन-
योनिरूपत्वात्तथा । दुःखम् आध्यात्मिकाधिभौतिकाधिदै-
विकात्मकत्वात्तथा । त्यागिकर्त्तृकरणकर्म्मज्ञानबुद्धिधृतिश्र-
द्धासुखादिकं गीतोक्तं प्रत्येकं सात्विकराजसतामसरूपतया
त्रित्वात्तथा । अवस्था सांख्यामते आविर्भावतिरोभावाभि-
व्यक्तिरूपा वेदान्तमते जागत्स्वप्नसूषुप्तिरूपा, अघिकारश्च
गङ्गास्रोतोमण्डूकप्लुत सिंहावलौकितात्मकः त्रित्वात् तथा
असिद्धिः आश्रयासिद्धिव्याप्यत्वासिद्धिस्वरूपासिद्धि-
रूपत्वात् तथा, विरुद्धहेतुदोषः साधारणासाधारणा-
नुपसंहारिरूपत्वात् तथा । न्यायमते “प्रकृतिः प्रत्य-
यश्चैव निपातश्चेति स त्रिधा” इत्युक्तानां प्रकृत्यादीनां
सार्थकशब्दानां त्रित्वात् तथा । वाचकशब्दः रूढयौगि
कयोगरूढरूपतया त्रित्वात्तथा वाचकशब्दशक्तिः
नैमित्तिक्यौपाधिकीपारिभाषिक्यात्मकतया त्रित्वात्तथा ।
लक्षणा जहत्स्वार्थाऽजहस्वार्थाजहदजहत्स्वार्थात्मिका
त्रित्वात्, आलङ्कारिकमते बहुत्वस्येति भेदः । ग्रामः
स्वरारोहावरोहक्रमात्मकः त्रित्वात्तथा “सप्त स्वरास्त्रयो-
ग्रामा मूर्च्छनाश्चैकविंशतः । तालाश्चैकोनपञ्चाशत्
मात्रातिस्रोलयास्त्रयः । स्थानत्रयं यतीनाञ्च षडास्यानि
रसा नव । रागाः षट् त्रिंशत्तु मावाश्चत्वारिंशत्तताः (तान)
स्मृताः” भरतोक्तेः द्रुतमध्यविलम्बितकालरूपा मात्रा, लयः
उत्तममध्याधममानात्मकः, आदिमध्यान्त्यरूपयतिस्थानं,
च त्रित्वात् तथा । विग्रहफलम् भूमिहिरण्यमित्रलाभा-
त्मकं त्रित्वात् तथा । काव्यं ध्वनिगुणीभूतव्यङ्ग्याव्यङ्ग्या-
त्मकमुत्तममध्यमाधमात्मकं त्रित्वात् तथा । देहः कारण-
स्थूलसूक्ष्मात्मकः त्रित्वात् तथा । मूर्त्तभेदः देहेन्द्रियवि-
षयात्मकस्तथा । सर्गः सात्विकराजसतामसात्मकस्तथा ।
मुख्यसिद्धिः दुःखत्रयाभिघातात्मिका प्रमोदमुदितमो-
दमानाभिधेया त्रित्वात् तथा । सिद्व्यङ्कुशः विपर्य्यया-
शक्तितुष्टिरूपस्त्रित्वात् तथा । कर्मविपाकः जात्या-
युर्भोगात्मकस्त्रित्वात् तथा । अतीन्द्रियगुणः गुरुत्वा-
दृष्टभावनात्मकः त्रित्वात् तथा । कर्मजगुणः
वेगसंयोगविभागात्मकस्त्रित्वात्तथा । मित्रभेदः शत्रु-
भेदश्च सहजप्राकृतकृत्रिमात्मकस्त्रित्वात्तथा । संसृतिमार्गः
देवायानपितृयान यमयानात्मकः त्रित्वात्तथा ।
विल्वपत्रम् तस्य प्रत्येकपत्रे त्रित्वात् तथा । वेदान्तिमते
सत्ता पारमार्थिकीव्यवहारिकीप्रातिभासिकीरूपा त्रि-
त्वात्तथा । स्रोतः ऊर्द्धाधस्तिर्य्यग्रूपं त्रित्वात्तथा ।
ईप्सिततमकर्म्म निर्वर्त्त्यविकार्य्यप्राप्यात्मकं त्रित्वात्तथा ।
आधारकारकम् औपश्लेषिकाभिव्यापकवैषयिकात्मकं त्रि-
त्वात् तथा । अपादनकारकम् निर्द्दिष्टविषयोपात्त-
विषयापेक्षितक्रियात्मकं त्रित्वात्तथा । व्यापारः कायिक-
वाचिकमानसात्मकस्तथा । ऋणं देवर्षिपितृसम्बन्धिरूपं
तथा । अलौकिकसन्निकर्षः सामान्यलक्षणाज्ञानलक्ष-
णायोगजात्मकस्त्रित्वात्तथा । काव्यगुणः माधुर्य्यौजःप्रसा-
दात्मकः त्रित्वात्तथा । श्लेषौदार्य्यादीनामोजस्यन्तभावात्
त्रित्वम् सा० द० । नायिका स्वकीयापरकीयासाधार-
ण्यात्मिका, मुग्धा मध्या प्रगल्भात्मिका वा तथा तासा-
मेकैकस्या उभयधर्भत्वे नवत्वस्य अवस्थाभेदात् बहुत्वस्येति
भेदः । अनुमितिलिङ्गं पूर्व्ववच्छेषवत्सामान्यतोदृष्टात्मकं
केवलान्वयिकेंवलव्यतिरेक्यन्वयव्यतिरेकिरूपं वा त्रित्वात्तथा
छलं वाक्सामान्योपचारछलात्मकं त्रित्वात्तथा ।
  • ४ चतुष्कवोधकाः कवि० ल० उक्ताः । वेदः ऋग्यजुः
सामाथर्व्वात्मकः, चतुर्मुखब्रह्मणोमुखानि, पूर्ब्बापरदक्षिणो-
पृष्ठ १५०५
त्तरसमुद्रश्च, चतुष्ट्वात् तथा । लवणसमुद्रादिपरत्वे सप्तत्व-
बोधक इति भेदः । चतुर्भुजविष्णुबाहुशब्दोऽपि तथा ।
स्वर्गहस्तिनामैरावतादीनां चतुर्दन्तानामुत्तरं दन्तशब्द-
स्तथा । हस्त्यश्वरथपादातरूपसेनाङ्गम्, उपायः
सामदानभेददण्डरूपः, दिनरात्रयोश्चतुर्यांशरूपयामशब्दश्च
तथा । युगं सत्यत्रेताद्वापररूपं तथा शकटांशविशेवपरत्वे
द्वन्द्वपरत्वे च द्वित्वबोधकमिति । आश्रमः ब्रह्मचर्य्यगा-
र्हस्थ्यवानप्रस्थसंन्यासरूपस्तया । शा० ति० उक्ताः ।
तत्त्वम् आत्मविद्याशिवतत्त्वरूपम् प्रधानादितत्त्वपरत्वे
चतुर्विंशतिसंख्याबोधकमिति भेदः । मनोवृत्तिः संशयनि-
श्चयगर्व्वाभिमानरूपा तथा । वाग्वृत्तिः परापश्यन्तीम-
ध्यावैस्वरीरूपा तथा । अर्थबोधनशक्तिविशेषपरत्वे द्वित्वस्य
त्रित्वस्य वा मतभेदेन बोधिकेति भेदः । भावः वेदान्तिमते
जाग्रत्स्वप्रसुषुप्तितुरीयरूपस्तथा । सांख्यमते तु धर्माद्य
ष्टपरत्वेनाष्टत्वबोधकः वैशेषिकमते षट्त्वस्येति भेदः ।
विष्णुमूर्त्तिःवासुदेवानिरुद्वसंकर्षणप्रद्युम्नरूपा तथा । शङ्खा-
दिचतुष्टयविन्यासभेदकृता तन्मूर्त्तिस्तु चतुर्विंशतित्वस्य
बोधिकेति भेदः । गणेशः “गणाधिपं गणेशानं तृतीयं
गणनायकम् । गणाक्रीडं पीतगौररक्तनीलरुचः क्रमात्”
शा० ति० १३ प० उक्तपीतादिवर्णयुक्तगणाधिपादिरूप-
स्तथा । आत्मादि आत्मान्तरत्मजीवात्मपरात्मरूप
स्तथा । पीठशब्द उडडियान जालन्धरपूर्णगिरिकायार्थकः
तथा । धर्म्मादि धर्म्मज्ञानैश्वर्य्यवैराम्यरूपम् अधर्मादि
अधर्माज्ञानानैश्वर्य्यावैराग्यरूपञ्च तथा सांख्यमते धर्मादि
अष्टत्वस्य बोधकमिति भेदः । लक्ष्मीगजः दमकादि-
रूपः, दिशः प्राच्यवाचीपश्चिमोत्तररूपा तथा । अवान्तर-
दिक्परत्वे अष्टत्वस्य दशत्वस्य वा बोधिका इति भेदः ।
ज्योतिःविश्वपाज्ञसूत्रात्मान्तर्यामिरूपम् । एवमन्येऽपि यथा
रोहिणी राशिचक्रे तस्यास्तूर्यत्वात् तदभेदात् तदघिप-
ब्रह्माऽपि तथा । प्रतिष्ठा तस्याश्चतुरक्षरपादकत्वात् तथा ।
सत्ययुगार्थककृतशब्दः चतुस्त्रिद्व्येकसंगुणा” सू० सि०
उक्तेः “महायुगप्रमाणद्वादशसहस्रदशां{??}स्य चतुर्गुणरू-
पत्वात्तस्य तथात्वम् । सार्थकशब्दः नामाख्यातनिपातोपस-
र्गात्मकत्वात्, पुरुषार्थश्च धर्मार्थकाममोक्षरूपत्वात् तथा ।
नायकः धीरोदात्तधीरोद्धतधीरललितधीरप्रशान्तात्मकत्वात्
दक्षिणधृष्टानुकूलशठात्मकत्वाद्वा तथा तेषां प्रत्येक-
मुमयधर्म्मत्वे षोडशभेदत्वात् षोडशत्वस्येति भेदः ।
काव्यरीतिः वैदर्भीगौडीपाञ्चालीलाटिकात्मिका चतुष्ट्वा-
त्तथा । प्रलयः नित्यनैमित्तक प्राकृतात्यन्तिकात्मकत्वात् तथा
भगवद्भक्तः “चतुर्विधा भजन्ते माम्” इत्युपक्रम्य “आर्त्तो
जिज्ञासुरर्थार्थी ज्ञानी च पुरुषर्षभ!” इति गीतोक्तेः
चतुष्कत्वात् तथा । अभिनयः आङ्गिकवाचिकाहार्य्य-
सात्विकात्मकः चतुष्कत्वात् तथा । नायकादिव्यापार-
विशेषात्मकरीतिः कौशिकीसात्वत्यारभटीभारतीरूपा
चतुष्कत्वात्तथा । कौशिक्यङ्गम् “नर्म्म च नर्म्मस्फुर्जो
नर्म्मस्फोटश्च नर्म्मगर्भश्च” इत्युक्त नर्मादिरूपं तथा ।
सात्वत्यङ्गम् । “उत्थापकोऽथ संहात्यः संलापः परिवर्त्तकः ।
विशेषा इति चत्वारः सात्वत्याः परिकीर्त्तिता” इत्यु-
क्तोत्यापकादिरूपस्तथा । आरभट्यङ्गम् “वस्तूत्थापनसंफेटौ
संक्षिप्तिरवपातनम् । इति भेदास्तु चत्वार आरभट्याः
प्रकीर्त्तिताः” इत्युक्तवस्तूत्थापनादिरूपं तथा । अनेका-
श्रितगुणः संयोगविभागद्वित्वादिसंख्याद्व्यादिपृथक्त्वरूपः
चतुष्ट्वात्तथा । आध्यात्मिकतुष्टिः “आध्यात्मिक्यश्चतस्रः
प्रकृत्युपादानकालभाग्याख्याः” सा० का० उक्तप्रकृत्यादि-
रूपा चतुष्ट्वात्तथा । चित्तपरिकर्मार्थभावना भैत्रीकरुणा-
मुदितोपेक्षात्मिका चतुष्ट्वात्तथा । समाधिविघ्नः लयविक्षेप-
कषायरसास्वादात्मकः चतुष्कत्वात्तथा । संन्यासी कुटीचक
बहूदकहंस परमहंसात्मकस्तथा । अनुबन्धः विषयप्रयो-
जनसम्बन्धाधिकारिरूपस्तथा । ब्रह्मविविदिषासाधनम्
इहामुत्रार्थफलभोगविरागनित्यानित्यवस्तुवविवेक शमादि-
षट्कमुमुक्षारूपं तथा । कल्पितकर्मकारकम् । औदासीन्य-
प्राप्तानीप्सिताकथितान्यपूर्वकरूपं तथा । वीजम् एकानेक
वर्णसमीकरणमध्यमाहरणभावितात्मकं तथा । सङ्केतविषयः
जातिद्रव्यगुणक्रियारूपस्तथा । द्रव्यारम्भकः स्पर्शवद्द्रव्यञ्च
क्षितिजलतेजोवायुरूपत्वात्तथा । अपरमुक्तिः सालोक्य-
सायुज्यसार्ष्णिसारूप्यात्मिका तथा । कार्य्योत्पत्तिप्रकारः
असतः सदुत्पत्तिः सतोऽसदुत्पत्तिः सतोविवर्त्तः सतः
सदुत्पत्तिश्चेति चतूरूपत्वात् तथा । वृद्धिः कायिकाका-
लिकाकारिताचक्रकृद्धिरूपा तथा । सिद्धान्तः सर्वतन्त्र
प्रतितन्त्राधिकरणाभ्युपगमसंस्थितिरूपः चतुष्ट्वात्तथा ।
बणोत्पत्तौ आभ्यन्तरप्रयत्नः स्पृष्टेषत्स्पृष्टविवृतसंवृता-
त्मकश्चतुष्कत्वात्तथा । विप्रलम्भः, पूर्वरागमानप्रवास-
करुणात्मकः चतुष्कत्वात्तथा ।
  • ५ पञ्चत्वबोधकाः । कवि० ल० युधिष्ठिरभीमार्जुतनकुलसहदेवा-
नाम् पाण्डुपुत्राणां, पञ्चाननशिवमुखानां, श्रोत्रत्वग्नेत्र-
रसनघ्राणात्मकानां ज्ञानेन्द्रियाणाम्, वाक्पाणि-
पृष्ठ १५०६
पादपायूपस्थरूपाणां कर्मेन्द्रियाणां वा, सन्तान
कल्पवृक्षमन्दारपारिजातहरिचन्दनानां देववृक्षाणां,
महानाम्न्यादिवेदग्रहणार्थानां व्रतानाम्, दक्षिणाग्निगार्ह-
पत्याहवनीयान्वाहार्य्यपचनावसथ्यानां वह्नीनां, व्रह्महत्या-
सरापाणब्राह्मणस्वामिकसुवर्णहरणगुर्वङ्गनागमनतत्संसर्ग-
जानां पातकानाम्, क्षित्यप्तेजोमरुद्व्योमरूपाणां
मूतानां, कुमाररघुवंशमाघकिरातनैषधाख्यानां
महाकाव्यानां, होमस्वाध्यायपाठपितृतर्पणातिथिपूजन-
वैश्वदेवबलिरूपाणां गृहस्थकर्त्तव्यानां स्मार्त्तानाम्,
अग्निहोत्रादीना नी० क० प्राग्दर्शितानां श्रौतानां
वा यज्ञानां, सर्गप्रलयमन्वन्तरराजवंशतच्चरितरूपाणां
पुराणलक्षणानाम्, प्राणापानसमानोदानव्यानरूपाणां
देहस्थवायूनाम्, उत्क्षेपणावक्षेपणाकुञ्चनप्रसारणगमनात्मि-
कानां क्रियाणां, ज्ञानेन्द्रियविषयाणां शब्दस्पर्शरूप-
रसगन्धात्मकानां, कर्मेन्द्रियविषयाणां वचनादानगमनविस-
र्गानन्दात्मकानां वा पञ्चत्वात् तथा । शा० ति० उक्ताः ।
नीलकहीरकपद्मरागप्रबालमौक्तिकरूपाणां स्थाप्यघटे
देयानां रत्नानां पञ्चत्वस्य बोधकता वास्तुमूमावारोप्यर-
त्नानां कालिदासादिकवीनाञ्च नवत्वात् तत्परत्वे नवत्वस्य
वोधकताग्रे वक्ष्यते । श्वेतगौररक्तहरितश्यामरूपाणां वर्ण-
विशेषाणाम् पञ्चत्वात् तथा पाटलादिवर्णानां मिश्रणेनैव
जातत्वात् न पृथग्वर्णता, वर्णशब्दस्य ब्राह्मणादि-
जातिपरत्वे चतुष्कस्य, अक्षरपरत्वे तन्त्रमते पञ्चाशल्लिपि-
भिर्विभक्तेत्याद्युक्तेः पञ्चाशत्त्वस्य, शिक्षामते “चतु षष्टि--स्त्रि
षष्टिर्वा वर्ण्णाः सम्भवतोमताः” इत्युक्तसंख्याबोधकत्वमिति
भेदः । तत्पुरुषाघोरसद्योजातवामदेवेशानरूपाणां
शिवमूर्त्तीनाम्, “सम्मोहनस्तापनश्च शोषणः स्तम्भनस्तथा ।
उन्मादनश्च कामस्य वाणाःपञ्च प्रकीर्त्तिताः” इत्युक्तानां
कामवाणानाम् “निवृत्तिः सुप्रतिष्ठा स्यात् विद्या शान्ति-
रनन्तरम् । शान्त्यतीता कलाः पञ्च विज्ञेयाः” इति
उक्तानां कलाविशेषाणाम्, ईशानमनोभवतत्पुरुषमकरध्व
जाघोरकुमारतेजोवामदेवसन्मथसद्योजातकामदेवात्मका-
नाम् तत्रैव उक्ताना कामदेवभेदानां च पञ्चत्वात्तथा ।
तत्पुरुषादिमन्त्ररूपाणां ब्रह्मऋचाञ्च पञ्चत्वात् तथा ।
भा० व० उक्ताः । प्रमाणविपर्य्ययविकल्पस्मृतिनिद्रारूपाणां
वृत्तोनाम्, इन्द्रियवृत्तिरूपाणां स्रोतसाम्, “किरणा
धूतपापा च गुप्ततोया सरस्वती । गङ्गा च यमुना चैव
पञ्च नद्यः प्रकीर्त्तिताः” काशी० उक्तानां नदीनां वा
पञ्चत्वात्तथा । वृत्तिः कृत्तद्धितसमसैकशेषसनाद्यन्तधातुरूपा,
पल्लवश्च “आम्राश्वत्थवटप्लक्षयज्ञोडुम्बरपल्लवाः । पञ्च-
पल्लवमित्युक्तम्” इत्युक्तानां पल्लवानां पञ्चत्वात्तथा । मूलम्
“विल्वशोनाकगाम्भारीपाटलागणिकारिका । पञ्चमूलमिति
ख्यातम्” इत्युक्तविल्वादिमूलानां पञ्चत्वात्तथा । कषायः
“जम्बुशाल्मलिवाट्यालमावकुलं बदरं तथा । कषायाः
पञ्च विज्ञेयाः” इत्युक्तजम्व्वादीनां कषायाणां
पञ्चत्वात् तथा । कोषः वेदान्तोक्तानामन्नप्राणमनो
विज्ञानानन्दमयानां कोषाणां पञ्चत्वात्तया । देहत्वक्
परत्वे षट्कबोधकताग्रे वक्ष्यते । गव्यम् “पञ्चगव्यं
दधि क्षीरं घृतगोमूत्रगोमयैः” इत्युक्तानां दध्यादेनां,
पञ्चत्वात्तथा । तत्त्वम् “मद्यं मांसं तथा मत्स्यो मुद्रा मैथु-
नमेव च । पञ्चतत्त्वमिदं प्रोक्तम्” इत्युक्तमद्यादीनां पञ्च-
त्वात् तथा । वल्कलम् “न्यग्रधोदुम्बराश्वत्थप्लक्षवेतसवल्क-
लम् । पञ्चवल्कलमित्युक्तम्” इति न्यग्रोधादिवल्कलानां
पञ्चत्वात् तथा । शस्यम् “धन्यं मुद्गास्तिलामाषा यवाः सिद्धा-
र्थकोऽपि वा । पञ्चशस्यमिति प्रोक्तम्” इत्युक्तानां धान्यादी-
नां पञ्चत्वात्तथा । सुगन्धिः कर्पूरकक्कोललवङ्गपुष्पगुवा-
गजातिफलरूपाणां सुगन्धिकानां पञ्चत्वात् तथा । सूना
“पञ्च सूना गृहस्थस्य चूल्ली पेषण्युपस्करः । कण्डनी
चोदकुम्भश्च” इत्युक्तचूल्ल्यादिरूपबध्यस्थानानां पञ्चत्वात्
तथा । एकवृक्षाङ्गम् “त्वक् पत्रं कुसुमं मूलं फलञ्चैकस्य
शास्विनः । एकत्रस्थन्तु पञ्चाङ्गम्” इत्युक्तानां एकस्य
वृक्षस्य त्वगादीनां पञ्चत्वात् तथा । पुरश्चरणाङ्गम
“जपहोमौ तर्पणञ्चाभिषेको विप्रभोजनम् । पञ्चाङ्गोपासनं
शास्त्रे पुरश्चरणमिव्यते” इत्युक्तानां जपादीनां पञ्चत्वात
तथा । अमृतम् “दुग्धं च शर्करा चैव घृतं दधि तथा
मधु । पञ्चामृतमिदं प्रीक्तम्” इत्युकानां दुग्धादि-
रूपाणाममृततुल्यस्वादूनां पञ्चत्वात्तथा । नाठ्योक्तिः-
स्वगतप्रकाशापवारितजनान्तिकाकाशगतात्मिका पञ्चत्वात्
तथा । अनुप्रासः छेकवृत्तिश्रुत्यन्त्यलाटानुप्रा-
सात्मकः पञ्चत्वात् तथा । लघुलौहकम् “सुवर्ण्णं रजतं
ताम्रं रङ्गं नागं तथेव च । पञ्चलाहमिति प्रोक्तम्”
इत्युक्तसुबर्ण्णादिलौहानां पञ्चत्वात्तथा । मूर्गशिरा
तस्याः राशिचक्रे पञ्चमत्वात्तथात्वम । अभेदोपचारात्त-
दविपचन्द्रोऽपि तथा । सुप्रतिष्ठा तस्याः पञ्चाक्षरपाद-
त्वात्तथा । तर्कः आत्माश्रयान्योन्याश्रयचक्रकानवस्थाप्र-
माणबाधितार्यकषसङ्गरूपतया पञ्चत्वात्तथा । कार्य्यावस्था
पृष्ठ १५०७
आरम्भयत्नप्राप्त्याशानियताप्तिफलागमात्मिका पञ्चत्वा-
त्तथा । नाटकस्थसन्धिः मुखप्रतिमुखगर्भविमर्षोपसंहृति-
रूपः पञ्चत्वात्तथा । प्रस्तावना उद्घात्यककथोद्घात-
प्रयोगातिशयप्रवर्त्तकावलगितात्मिका पञ्चत्वात् तथा ।
प्रयोजनसिद्धिहेतुःवीजविन्दुपताकाप्रकरीकार्य्यात्मा तथा ।
विपर्य्ययः अविद्याऽस्मितारागद्वेषाभिनिवेशात्मकः तथा ।
अश्वगतिः “आस्कन्दितं धौरितकं रेचितं बल्गितं प्लुतम्”
इत्युक्तास्कन्दितादिलक्षणा तथा । गर्भस्थानुगामिधर्मः
“आयुः कर्म च वित्तं च विद्या निधनमेव च । पञ्चै-
तानि हि सृज्यन्ते गर्भस्थस्यैव देहिनः” इत्युक्तायुरा
दिलक्षणस्तथा । योगाङ्गासनं “पद्मासनं स्वस्तिकाख्य
ज्रिभद्रासने तथा । वीरासनमिति प्रोक्तं क्रमादासन-
पञ्चकम्” शा० ति० उक्तस्वस्तिकादीनां पञ्चत्वात्तथा ।
पूजाङ्गासनं तु आसनशब्दे उक्तसंख्याबोधकमिति
भेदः । हेत्वाभासः अनैकान्तविरुद्धासिद्धसत्प्रतिपक्षबाधा-
त्मकः तथा । न्यायावयवः प्रतिज्ञाहेतूदाहरणो-
पनयनिगमनात्मकः तथा । वेदान्तिमते तु त्रित्वस्येति-
भेदः । कालगुणः दिग्गुणः मूर्त्तामूत्तसाधारणगुणश्च
संयोगविभागपरत्वापरत्वपृथक्त्वात्मकः तथा ।
बाह्यैकेन्द्रियग्राह्यगुणः शब्दस्पर्शरूपरसगन्धात्मकस्तथा
“दुःस्वं संसारिणः स्कन्धस्ते च पञ्च प्रकीर्त्तताः ।
विज्ञानं वेदना संज्ञा संस्कारोरूपमेव च” इत्युक्त
विज्ञानादिलक्षणः स्कन्धस्तथा । प्रातिपदिकार्थः
विशेष्यविशेषणसंख्याकारकलिङ्गात्मकस्तथा । अधिकरणा
वयवः “विशयोविषयश्चैव पूर्ब्बपक्षस्तथोत्तरम् । निर्ण्णय-
श्चेति सिद्धान्तः शास्त्रेऽधिकरणं स्मृतम्” इत्युक्तसंश-
यादिरूपस्तथा वर्णविभ जकोपाधिः “वर्णान् जनयते
तेषां विभागः पञ्चधा मतः । स्वरतः कालतः स्थानात्
प्रायत्रानुप्रदानतः” शिक्षोक्तेः उदात्तादिस्वरोच्चारण-
कालस्थानाभ्यन्तरबाह्यप्रयत्नानां पञ्चत्वात् तथा ।
षट्संख्यावोधकाः कवि० ल० उक्ताः । वज्रास्त्रकोणानां,
त्रिमूर्द्धासुरनेत्राणां, तर्काणां ज्ञानसाधनप्रमाणानां प्रत्यक्षा-
नुमानोपमानागमार्थापत्त्यनुपलब्धिरूपाणाम्, विनियोग-
साधनरूपाणां श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यात्मकानां
वा षट्क वाततथात्वम् । आपादकज्ञानाधीनापाद्यज्ञानरूप-
परत्वे आत्माश्रयादिपञ्चविधप्रसङ्गरूपत्वात् पञ्चत्वस्य इति
भेदः । अङ्गानां मस्तकबाहुद्वयपदद्वयमध्यरूपाणाम् प्रधाना
ङ्गानां, शिक्षाकल्पव्याकरणनिरुक्तज्योतिषच्छन्दोकपाणां
वेदाङ्गानां वा, न्यायवैशेषिकसांख्यपातञ्जलमीमांसावेदान्ता
त्मकानां तत्त्वज्ञानसाधनानां, दर्शनानाम् चक्रवर्त्तिनां चक्रा-
वयवरूपाणाम् अराणां, कलौ शकप्रवर्त्तकानाम् “युधि-
ष्ठिरोविक्रमशालिवाहनौ धराधिनाथो विजयाभिनन्दनः ।
इमे तु नागार्ज्जुनमेदिनीविभुर्वलिःक्रमात् षट्शककारकाः
कलौ” ज्योतिर्वि० उक्तानां युधिष्ठिरादीनां सार्व्वभौ-
मानां वा, षडाननकार्त्तिकेयमुखानां, सन्धिविग्रहया-
नासनद्वैधाश्रयरूपाणां नृपगुणानाञ्च षट्त्वात्तथात्वम् ।
गुणशब्दस्य सत्वादिपरत्वे त्रित्वस्य, द्रव्यधर्मभेदपरत्वे
चतुर्विंशतित्वस्येति भेदः । मधुरकटुकषायाम्लतिक्तलव
णानां रसानां षट्कत्वात्तथा । शृङ्गारादिरसपरत्वे
नवत्वस्य बोधकतेति भेदः । शा० ति० उक्ताः । आमोद-
प्रमोदसुमुखदुर्मुखविघ्नविघ्नकर्त्तृरूपाणां गणेशानां, क्रमे-
णोक्तामोदादिप्रियाणां सिद्धिसमृद्धिकान्तिमदनावतीमदद्र-
वाद्राविणीरूपाणाम्, “स्नाय्वस्थिमज्जशुक्ताणि त्वङ्मांस-
रुधिराणि च । षाट्कौषिकमिटं प्रोक्तं सर्वदेहेषु
देहिनामिति” तत्रोक्तानां स्नाव्वादीनां कोषाणाम्, बुभु-
क्षापिपासाशोकमोहजरामृत्युरूपाणामूर्मीणाम्, डाकिनी
राकिणीलाकिनीकाकिनीशाकिनीहाकिनीरूपाणाम्
षट्चक्राधिष्टितानां शक्तीनाम्, “कलाध्वा चैव तत्त्वाध्वा
भुवनाध्वेति च त्रयम् । वर्णाध्वा च पदाध्वा च मन्त्रा-
ध्वेत्यपरं त्रयम्” इत्युक्तानां कलाध्वादीनामध्वनाम्-
मूलाधारस्वाधिष्ठानमणिपूरानाहतविशुद्धाज्ञारूपाणां
देहस्थचक्रभेदरूपाणां डाकिन्यादिषट्शक्त्याधाराणां च
षट्कत्वात्तथा । ऋतूनां वसन्तग्रीष्मवर्षाशरद्धेमन्तशिशिरात्मकानां
षट्त्वात्तथा भा० व० उक्ताः । आधाने दक्षिणात्वेन विहित-
गवानां षट्त्वात्तथात्वम् । कृत्तिकाः तासां षट्तारात्मक-
त्वात् तथा नक्षत्रचक्रस्थतृतीयक्षेपरत्वे त्रित्वस्येति भेदः ।
एकाहसाध्यानामेकाहकर्त्तव्यदीक्षोपसद्मत्याङ्गकानां सद्य-
स्क्रियावतां “षट् साद्यस्क्राः” कात्या० १२, २, ९, सू०
उपक्रम्य १२, १३, २५, सूत्रान्तेषु दर्शितानां साद्यस्क्रदीर्घ-
व्याधिप्रशमादिकामकर्त्तव्यानुक्रीविश्वजिच्छिल्पश्येनैकत्रिक-
रूपाणाम् षट्त्वात् तथात्वमु । आर्द्रा राशिचक्रे तस्याः षष्ठ
त्वात् तथा तदभेदात् तदधिपशिवकालादिशब्दोऽपि तथा ।
गायत्री तस्याः षडक्षरपादत्वात् । भावविकाराणां जन्म-
मत्त्ववृद्धिविपरिणामापक्षयनाशरूपाणां यास्कीक्तार्ना
षट्त्वात्तथा । भावपदार्थानां वैशेषिकसूत्रोक्तानां द्रव्यगुण-
कर्मसामान्यविशेषसमयायात्मकानां षट्कत्वात्तथा । “ऐश्व-
पृष्ठ १५०८
र्य्यस्य समग्रस्य वीर्य्यस्य यशसः श्रियः । ज्ञानवैरा-
ग्ययोश्चैव षण्णां भग इहोच्यते” इत्युक्तभगस्य षट्संख्या-
योगात्तथा । कारकाणामपादानसंप्रदानकरणाधार
कर्म्मकर्त्तृरूपाणां षट्कत्वात्तथा “सुपां सुपा तिङा नाम्ना
धातुनाऽथ तिङां तिङा । सुबन्तेनेति च प्रोक्तः समासः
षड्विधोबुधैः” इत्युक्तानां, द्वन्द्वकर्मधारयद्विगुतत्पुरुष-
बहुब्रीह्यव्ययीभावात्मकानां वा समासानां षट्त्वात्तथा ।
सङ्गतिः प्रसङ्गोपोद्घातहेतुताबसरनिर्वाहवैककार्य्यत्व-
रूपा षट्कत्वस्य, शास्त्राध्यायपादसङ्गतिरूपा तु त्रित्वस्य,
अधिकरणसङ्गतिरूपावान्तरसङ्गतिस्तु आक्षेपदृष्टान्तप्रत्युदा-
हरणादिरूपा बहुत्वस्येति भेदः । अङ्गन्यासः शीर्घशिखामुख-
हृदयनेत्रकरतलतत्पृष्ठन्यासरूपतया षट्त्वस्य, अभिज्ञा
दिव्यचक्षुःश्रीत्रपरचि तज्ञानपूर्वनिवासानुस्मृतिस्वात्मतत्त्व-
ज्ञानवियद्गतिकायव्यूहादिसिद्धिरूपबौद्धधर्मभेदरूपा
षट्त्वस्य, नृपसैन्यं मौलभृत्यसुहृच्छ्रेणीपराजितशत्रु-
सैन्याटविकात्मकम् षट्त्वात् तथा । सुरापाणसमम् “ब्रह्मो-
ज्झता वेदनिन्दा कौटसाक्ष्यं सुहृद्बधः । गर्हितान्नाद्ययो-
र्जग्धिः सुरापाणसमानि षट्” इत्युक्तम् षट्त्वात् तथा ।
नारीदूषणानि “पानं दुर्ज्जनसंसर्गः पत्या च विरहोऽ-
टनम् । स्वप्नोऽन्यगृहबासश्च नारीणां दूषणानि षट्”
काशी० उक्तानि षट्त्वात्तथा । शास्त्रतात्पर्य्यनिर्ण्णायकः
“उपक्रमोपसंहारावभ्यासोऽपूर्व्वता फलम् । अर्थवादोप-
पत्ती च हेतुस्तात्पर्य्यनिर्ण्णये” इत्युक्तेः षट्त्वात् तथा ।
प्रीतिलक्षणम् “ददाति प्रतिगृह्णाति गुह्यमाख्याति
पृच्छति । भुङ्क्ते भोजयते चैव षड्निधं प्रीतिलक्षणम्”
इत्युक्तदानाद्यात्मकम् षट्कत्वात् तथा । गीताङ्गवस-
न्तादिरागः षट्त्वात् तथा । पताकांस्थानाङ्गफलम् “इष्टा-
र्घरचनाश्चर्य्यलाभोवृत्तान्तविस्तरः । रागप्राप्तिः प्रयोगस्य
गोप्यानां गोपनं तथा । प्रकाशनं प्रकाश्यानामङ्गानां
षड्विधम् फलम्” इत्युक्तेष्टार्थरचनादिरूपं षट्त्वात्तथा ।
रिपुः कामक्रोधलोभमोहमदमात्सर्य्यात्मकः षट्त्वात्तथा
जन्मलग्नावधिकवष्ठस्थाने चिन्तनीयत्वाद्वा तथा । विप्रकर्म
यजनयाजनाध्ययनाध्यापनदानप्रतिग्रहात्मकं षट्त्वात्-
तथा । अभिचारः मारणोच्चाटनविद्वेषंणस्तम्भनमोहन
वशीकरणात्मकः षट्त्वात् तथा । शमादिः शमदमोपरति
तितिक्षाश्रद्धासमाधिरूपस्तथा । प्रत्यक्षम् श्रावणत्वाच
चाक्षुषरासनघ्राणजमानसात्मकं षट्त्वबोधकम्
लौकिकप्रत्यक्षसन्निकर्षः इन्द्रियार्थसंयोगतत्संयुक्तसमवाय
तत्संयुक्तसमवेतसमायसमवायसमवेतसमवायसंयुक्तविशे-
षणतात्मकः षट्कत्वात्तथा । आकाशगुणः संख्या
परिमाणपृथक्त्वसंयोगविभागशब्दात्मकः षट्त्वात्तथा ।
निसित्तासमवायिकारणतापन्नगुणः उष्णस्पर्शद्रवगुरुत्व-
वेगस योगविभागात्मकः षट्त्वात्तथा । मानभङ्गोपायः
सामदानभेदनीत्युपेक्षारसान्तरात्मकः षट्कत्वात्तथा ।
  • ७ सप्तसंख्याबोधकाः । कवि० ल० उक्ताः । लोकः भूर्भूवः
स्वर्महोजनतपःसत्यात्मक ऊर्द्ध्वस्थः, अतलवितलसुतल-
तलातलमहातलरसातलपातालात्मकः अधःस्थो वा, द्वीपः
जम्बुशाकशाल्मलिकुशक्रुञ्चगोमेदपुष्करात्मकः, मुनिश्च
वैवखतमन्वन्तरे वसिष्ठकश्यपात्रिविश्वामित्रजमदग्निगौतम-
भारद्वाजात्मकः स्यायम्भुवान्तरे मरीच्यत्रिपुलस्त्यपुलह-
क्रतुप्रचेतोवशिष्ठात्मको वा सप्तत्वात् तथा । सूर्य्यहयः
तदश्वानां सप्तत्वात् तथा । समुद्रः लवणेक्षुसुराघृतदधि-
क्षीरस्वादूदकात्मकः, नृपराज्याङ्गम् स्वाम्यमात्यसुहृत्-
कोषराष्ट्रदुर्गबलात्मकम्, धान्यम् यवव्रीहितिलमाष
श्यामाककङ्गुमुद्गात्मकं सप्तत्वात् तथा । वह्निशिखा
कालीकारालीमनोजवासुलोहितासुधूम्रवर्ण्णास्फुलिङ्गिनी-
विश्वधामात्मिका, अद्रिश्च महेन्द्रमलयसह्यशुक्तिमदृक्षविन्ध्य-
पारियात्रकुलपर्व्वतरूपात्मकः सप्तत्वात् तथा । शा० ति०
उक्ताः । सुदर्शनम् आचक्रविचक्रसुचक्रधीचक्रसचक्र-
ज्वालाचक्रसुदर्शनचक्रात्मकम्, स्वरश्च निषादर्षभगान्धार-
षड्जमध्यमधैवतपञ्चमात्मकः सप्तत्वात् तथा
उदात्तादित्वे त्रित्वस्य, अज्वर्णरूपत्वे षोड़शत्वस्येति भेदः ।
ग्रहः रविचन्द्रमौमवुधगुरुशुक्रशनिरूपः सप्तत्वात् तथा ।
राहुकेत्वोर्ग्रहत्वमते तु नवत्वस्य यज्ञियपात्रभेदत्वे
दशत्वस्य “दश ग्रहान् गृह्णातीति” श्रुतौ दशानामेव
सोमग्रहणपात्राणां विधानात् । “अष्टौ ग्रहां अष्टा-
वतिग्रहाः” इति श्रुतेः ज्ञानसाधनात्मत्वे पञ्चज्ञानेन्द्रिय-
मनोबुद्ध्यहङ्कारात्मकाष्टविधार्थग्रहणहेतुत्वात् अष्टत्वबोधक-
इति भेदः । समिधाम् अर्कपलाशस्वदिरापामार्गपिप्-
लोडुम्बरशमीरूपाणां, नी० क० उक्तानां ग्राम्यपशूनां
गवादीनां, वन्यपशूनां महिषादीनाञ्च भूरादीनां व्याहृतीनाञ्च
सप्तत्वात् तथा । भा० व० उक्ताः मनोबुद्धिसहितज्ञाने-
न्द्रियपञ्चकात्मप्राणरूपः ऋषिः सप्तत्वात् तथा ।
मनोबुद्ध्यादिप्राप्याणि सुखानि सप्तत्वात् तथा, वीणातन्त्री
तासां लोके सप्तत्वप्रसिद्धेस्तथा । छन्दः गायत्र्यादिजग-
त्यन्तवैदिकछन्दोरूपम् सप्तत्वात्तथा लौकिकछन्दःपरत्वे
पृष्ठ १५०९
षङ्किशतित्वस्येति भेदः । साममक्तिः ओङ्कारहिङ्कारप्र-
स्तावोद्गीथप्रतिहारोपद्रवनिधनरूपा सप्तत्वात् तथा ।
“लोकेषु सप्तविधं सामोपासीतेति” श्रुतौ साम्नां सप्तविध-
त्वोक्तेस्तथात्वम् । वैशेषिकमते पदार्थः द्रव्यगुणकर्म्मसामा-
न्यविशेषसमवायाभावात्मकः सप्तत्वात् तथा । प्रकृतिविकृतिः
महदहङ्कारशब्दस्पर्शरूपरसगन्धतन्मात्रात्मिका सप्तत्वात्
तथा । पुनर्वसुस्तस्याराशिचक्रे सप्तमत्वात् तथा ।
अभेदात्तदधिपतिरदितिरपि । उष्णिक तस्याः सप्ताक्षरपाद-
त्वात् तथा । अश्वजन्मस्थानम् “अमृताद् बाष्पतोवह्नेर्वेदे-
भ्योऽण्डाच्च गर्भतः । साभ्नोहयानामुत्पत्तिः सप्तधा
परिकीर्त्तिता” इत्युक्तानां सप्तत्वात्तथा । तादृशोत्पत्तिस्था-
नकत्वेन अश्वशब्दोऽपि तथा । मदस्रुतिवर्त्म “करात् कटाभ्यां
मेढ्राच्च नेत्राभ्याञ्च मदस्रुतिः” इथुक्तानां सप्तत्वात् तथा ।
वरगुणः “कुलञ्च शीलञ्च मनोज्ञता च विद्या च वित्तं च
वपुर्वयश्च । एतान् गुणान् सप्त विचिन्त्य देया कन्या बुधैः
शेषमचिन्तनीयम्” इत्युक्तकुलादीनां सप्तत्वात् तथा ।
पौनर्भवा “सप्त पौनर्भवाः कन्या वर्ज्जनीयाः कुलाधमाः ।
वाचा दत्ता मनोदत्ता कृतकौतुकमङ्गला । उदकस्पर्शिता
या च या च पाणिगृहीतिका । अग्निं परिगता या च
पुनर्भूप्रभवा च या” इत्युक्तानां सप्तत्वात् तथा । धर्म्यवित्ता-
गमः “सप्त वित्तागमा धर्म्यादायोलाभः क्रयोजयः ।
विभागः संप्रयोगश्च सत्प्रतिग्रह एव च” इत्युक्तदायादीनां
सप्तत्वात् तथा । मरुत्, आवहप्रवहोद्बहसंवहविवहपरा-
वहपरीवहात्मकः सप्तत्वात्तथा । अवान्तरभेदपरत्वे
ऊनपञ्चाशत्त्वस्येति भेदः । मोक्षदपुरी “अयोध्या मथरा माया
काशी काञ्चिरवन्तिका । पुरी द्वारवती चैव सप्तैता मोक्ष-
दायिकाः” इत्युक्तपुरीणां सप्तत्वात्तथा ।
  • अष्टबोधकाः कवि० ल० उक्ताः । योगाङ्गं यमनियमासन
प्राणायामप्रत्याहारध्यानधारणासमाधिरूपं, शिवमूर्त्तिः
क्षित्यादिपञ्चभूतचन्द्रसूर्य्ययजमानरूपा, ऐरावतपुण्डरी-
कवामनकुमुदाञ्जनपुष्पदन्तसार्वभौमसुप्रतीकरूपोदन्ती च
अष्टत्वात्तथा एकशेषात् करिणीशब्दोऽपि तथा करिण्यश्च
अम्रमुकपिलापिङ्गलानुपमाताम्रकर्ण्णीशुभ्रदन्त्यङ्गनाञ्जनाव-
तीरूपाः । सिद्धिः अणिमलघिमप्राप्तिप्राकाम्येशितावशिता
व्याप्तिकामावसायितात्मिका अष्टत्वात् तथा । चतुर्वदन-
ब्रह्मकर्ण्णस्तथा । व्याकरणम् इन्द्रचन्द्रकाशकृत्स्नापि-
शिलिशाकटायनपाणिन्यमरजैनेन्द्रात्मकाष्टकर्त्तृकृतम् अष्ट-
त्वात् तथा । दिक्पालः इन्द्रवह्नियमनिरृतिवरुण-
वायुकुवेरेशानात्मकः प्राच्यादीनामष्टानां दिशामीश्वरा-
णामेषामष्टत्वात् तथा । ऊर्द्धाधोदिकसहितदिक्पाल
परत्वे दशत्वस्येति भेदः । अहिःशेषबासुकिपद्ममहा-
पद्मतक्षककुलीरकर्कटशङ्खात्मकः अष्टत्वात्तथा । कुला-
चलः मतान्तरे हिमाचलसहितः पूर्ब्बोक्तमहेन्द्रादिरूपः
अष्टत्वाततथा । कुलाचलानां सप्तत्वप्रसिद्धावपि क्वचि-
दष्टत्वव्याहारः । “अष्टकुलाचलसप्तसमुद्राः” मोहमुद्गरः ।
शा० ति० उक्ताः । भैरवः असिताङ्गरुरुचण्डोन्मत्तकपा-
लिभीषणक्रोधनसंहारात्मकः । प्रकृतिः प्रधानमहदङ्कारपञ्च-
तन्मात्रात्मिका अष्टत्वात्तथा । प्रकृतिशब्दः प्रधानपरत्वे
एकत्वस्य तत्त्वान्तरोपादानत्वपरत्वे अष्टत्वस्येति भेदः ।
गणेशः वक्रतुण्डैकदंष्ट्रमहोदरगजाननलम्बोदरविकटविघ्न-
राजधूम्रवर्ण्णात्मकः अष्टत्वात्तथा । अग्निमूर्त्तिः “जात-
वेदाः सप्तजिह्वो हव्यपाहनसंज्ञकः । अश्वोदरजसंज्ञः
स्यात् पुनर्वैश्वानराह्वयः । कौमारतेजाः स्याद्विश्वमुखोदेव-
मुखः स्मृतः” शा० ति० उक्तानां जातवेदआदीनामष्टत्वात्तथा
भा० व० उक्ताः । शाणः आवपनतुल्यपूरणीयः
महहङ्कारचित्तसहितज्ञानेन्द्रियरूपः अष्टत्वात्तथा ।
शरभपादस्य लोके ऽष्टत्वप्रसिद्धेस्तथा ।
यूपकोणस्य वेदे अष्टत्वप्रसिद्धेस्तथा । द्विजगुणाः “दया
सर्व्वभूतेषु क्षान्तिरनसूया शौचमनायासोमङ्गलमका-
र्पण्यमस्पृहेति” गौतमोक्तानामष्टत्वात्तथा । वैशेषिकोक्त
ईश्वरगुणः संयोगविभागपृथक्त्वसंख्यापरिमाणबुद्धीच्छा
कृतिरूपः अष्टत्वात्तथा । राज्याङ्गम् पौरश्रेणीसहित
स्वाम्यमात्यादिसप्तकम् अष्टत्वाततथा । नृपगतिः “आदाने
च विसर्गे च तथा प्रैषनिषेधयोः । पञ्चमे चार्थवचने
व्यवहारस्यचेक्षणे । दण्डशुद्ध्येरवक्रः स्यात्तेनाष्टगतिको
नृपः” उशनसोक्तगतिरूपा अष्टत्वात्तथा । तारिणी “तारा
चोग्रा महोग्रा च वज्रा काली सरस्वती । कामेश्वणी
च चामुण्डा इत्यष्टौ तारिण्योमताः” इत्युक्तानां तारा-
मूर्त्तिभेदानामष्टत्वात्तथा । होमद्रव्यम् “अश्वत्थोडुम्बरप्ल-
क्षन्यग्रोधसमिधस्तिलाः । सिद्धार्थपायसाज्यानि द्रव्या-
ण्यष्टौ विदुर्बुधाः इत्युक्तानामष्टत्वात्तथा । धातुः
“स्वर्ण्णं रौप्यञ्च ताम्रञ्च वङ्गं यशदमेवच । सीस लौहं
रसश्चेति धातवोऽष्टौ प्रकीर्त्तिताः” इत्युक्तानामष्टत्वात्
तथा देहस्थधातुपरत्वे सप्तत्वस्येति भेदः । महासरखती-
भुजस्तस्था अष्टभुजत्वात्तथा । सात्विकभावः “स्तम्भः
स्वेदोऽथ रोमाञ्चः स्वरभङ्गोऽथ वेपथुः । वैबर्ण्यमश्रु
पृष्ठ १५१०
प्रलय इत्यष्टौ स्वात्विकाः स्मृताः” सा० द० उक्तस्तम्भादी-
नामष्टत्वात्तथा । असमवायिकारणगुणः रूपरसगन्धस्पर्श-
परिमाणेकपृथक्त्वस्नेहशब्दात्मकः अष्टत्वात्तथा ।
निमित्तकारणगुणः बुद्धिसुखदुःखेच्छाद्वेषयत्नादृष्टभावना-
त्मकस्तथा । मनोगुणः संख्यापरिमितिपृथक्त्वसंयोग
विभागपरत्वापरत्ववेगात्मकस्तथा । मङ्गलम् “मृगराजो-
वृषोनागो कलसोव्यजनं तथा । वैजयन्ती तथा भेरी
दीप इत्यष्टमङ्गलम्” इत्युक्तानां “लोकेऽस्मिन् मङ्गलान्यष्टौ
ब्राह्मणो, गौर्हुताशनः । हिरण्यं सर्पिरादित्योमाला
राजा तथाष्टमः” इत्युक्तानां वाष्टत्वात्तथा । नायिका-
वस्था स्वाधीममर्त्तृका खण्डिताभिसारिकाकसहान्तरिता
विप्रलब्धाप्रोषितभर्त्तृकावासकसज्जाविरहोत्कण्ठितात्मिका
अष्टत्वात् तथा । वृहल्लौहम् “सुवर्णं रजतं ताम्रं सीसकं
कान्तिकं तथा । रङ्गं लौहं तीक्ष्णलौहं लौहान्यष्टौ
इमानि तु” इत्युक्तानामष्टत्वात् तथा । लघुलौहपरत्वे पञ्चत्व-
स्य बोधकमित्युक्तम् । आयुर्वेदाङ्गम् “शल्यं शालक्यं
कायचिकित्सा भूतविद्या कौमारभृत्याऽगदतन्त्रं रसायन-
तन्त्रं वाजीकरणतन्त्रमिति” सुश्रुतीक्तानामष्टत्वात्तथा ।
अर्घाङ्गम् “आपःक्षीरं कुशाग्रञ्च दधि सर्पिः सतण्डु-
लम् । पयः सिद्धार्थकश्चैव अष्टाङ्गोऽर्घः प्रकीर्त्तित” इति
इत्युक्तानाम् “आपःक्षीरं कुशाग्राणि घृतं मधु तथा
दधि । रक्तानि करवीराणि तथा वै रक्तचन्दनम् । अष्टाङ्ग
एष वा अर्घ, इत्युक्तानां वाष्टत्वात् तथा । प्रणामाङ्गम्
“जानभ्याञ्च तथा पद्भ्यां पाणिभ्यामुरसा धिया । शिरसा
यचसा दृष्ट्या प्रणामोऽष्टाङ्ग ईरितः” इत्युक्तानामष्टत्वा-
त्तथा । “मैथुनाङ्गम् स्मरणं कीर्त्तनं केलिः प्रेक्षणं गुह्य-
भाषणम् । संकल्पोऽध्यवसायश्च आसनस्पृष्टिरेव च ।
एतन्मैथुनमष्टाङ्गम्” इत्युक्तानामष्टत्वात्तथा । पुष्यं तस्य
राशिचक्रे अष्टमत्वात् तथा । तदभेदात् तदधिपोजीवो-
ऽपि । अनुष्ठुप् तस्याः अष्टाक्षरपादत्वात् तथा ।
तमः अव्यक्तमहदहङ्कारपञ्चतान्मात्रात्मकेष्वनात्मभूतेष्वात्म
बुद्धिरूपमष्टविधविषयत्वात् तथा । “भेदस्तमसोऽष्टविधो-
मोहस्य च तथा” सा० का० । मोहः अणिमादिसिद्धी-
नामात्मगतानां शाश्वतिकत्वाभिमानरूपः अणिमाद्यष्ट-
विधविषविषयत्वात् तथा । विवाहः ब्राह्मदैवार्षप्राजा-
पत्यासुरगान्धर्व्वराक्षसपैशाचात्मकः अष्टत्वात् तथा । सिद्धि
“ऊहः शब्दोऽध्ययनं दुःखविघातास्त्रयः सुहृत्प्रांप्तिः ।
दानञ्च सिद्धयोऽष्टौ” सा० का० उक्तोहादीनामष्टत्वात्तथा ।
उक्तसिड्वीनां नामान्तराणि सां० कौ० दर्शितानि । तारसुता-
रतारताररम्यकसदामुदितप्रमोदमुदितमोदमानरूपाणि ।
खगगतिः “संपातं विप्रपातञ्च महापातं निपातनम् ।
वक्रं तिर्य्यक् तथा चोर्द्ध्वमष्टमं लघुसंज्ञकम्” इत्युक्त
सम्पातादिरूपा अष्टत्वात् तथा परिकर्म्म अङ्कशास्त्रोक्त
योगवियोगगुणनभागवर्गतत्पदघनतत्परूपम् अष्टत्वात्-
तथा” वर्ण्णोत्पत्तिस्थानम् । “अष्टौ स्थानानि वर्ण्णा-
नामुरः कण्ठः शिरस्तथा । जिह्वामूलं च दन्तोष्ठौ नामा-
मूलं तालु च” शिक्षोक्तोरआदीनामष्टत्वात् तथा ।
अव्रतघ्नम् अष्टौ तान्यव्रतघ्नानि आपोमूलं फलं पयः ।
हविर्ब्राह्मणकाम्या च गुरोर्वचनमौषधम्” स्मृत्युक्ताबादी-
नामष्टत्वात्तथा । नहारोगः उन्मादत्वग्दोषराजयक्ष्मश्वास-
मधुमेहभगन्दरोदराश्मरीरूपः अष्टत्वात् तथा ।
  • नवत्वसंख्याबोधकाः कबि० ल० उक्ताः । मुखनासिकानेत्रकर्ण-
द्वयोपस्थपायुरूपाणां देहद्वाराणाम् नवसंख्यायोगात् तथा
भारतकिन्नरहरिकुरुहिरण्मयरम्यकेलावृतभद्रतुरगकेतुमा-
लाख्यानां भूखण्डानाम्, तपस्याकाले स्वयंकृत्तानां
रावणमस्तकानाम्, व्याघ्रीस्तनानां “गौड़ी पैष्टी च माध्वी च
विज्ञेया त्रिविधा सुरा” इति त्रिविधसुरायाः सात्विक-
राजसतामसाधिकारिभेदसेव्यतया नवत्वात्तथा । कुण्डानां
अष्टासु दिक्षु अष्टौ ऐशानीप्राच्योर्मध्ये आचार्य्यकुण्ड-
मेकमिति मण्डपाङ्गकुण्डानां नवत्वात्तथा । “पद्मोऽस्त्रियः
महापद्मः शङ्खोमकरकच्छपौ । मुकुन्दकुन्दनीलाश्च वर्च्चो-
ऽपि निधयो नव” हारा० उक्तानां पद्मादीनाम्” अङ्का-
नामेकादीनां नवान्तानां, शृङ्गारवीररौद्रकरुणाद्भुतहास्य-
भयानकबोभत्सशान्ताख्यानामलङ्कारोक्तानां रसानाम्,
रविचन्द्रभौमबुधगुरुशुक्रशनिराहुकेतुरूपाणा ग्रहाणाञ्च
नवत्वात् तथात्वम् । शा० ति० उक्ता “सच्चिदानन्दविभवात्
सकलात् परमेश्वरात् । आसीच्छक्तिस्ततो नादो नादा-
द्विन्दुसमुद्भवः । परशक्तिमयः साक्षात् त्रिधाऽसौ भिद्यते
पुनः । विन्दुर्नादो बीजनिति तस्य भेदाः समीरिताः ।
विन्दुः शिवात्मको वीजं शक्तेर्नादस्तयोमिर्थः । समवायः
समाख्यातः सर्वागमविशारदैः । रौद्री विन्दोस्ततोना-
दात् ज्येष्ठा वीजादजायत । वामा, ताभ्यः समुद्भूताः
रुद्रब्रह्मरमाधिषाः” तत्रैवाद्ये उक्तानां शक्तितत्त्वानां
पीटशक्तीनां तत्तद्देवताभेदेन भिन्नानां तत्रैवोक्तानाम
“मुक्तामाणिक्यवैदूर्य्यगोमेदान् वज्रविद्रमौ । पुष्परागं
मरकतं नीलञ्चेति न्यसेत् क्रमात्” इत्युक्तानां रत्नानां
पृष्ठ १५११
नवत्वात् तथा । वर्गाणामकचटतपयशलरूपाणाम्
नवत्वात् तथा लोके लक्षरूपलवर्गस्याभावात् अष्टसंख्या-
बोधक इति भेदः । प्राणरक्षकदुर्गाभेदरूपाणाम् शा०
ति० २३ प० उक्तानां प्राणदूतीनाम्, नवत्वात्तथा ।
भा० व० । सामधेनी तस्याश्च यथा नवत्वं तथा नी०
क० व्या० दर्शितं प्रकृतिसंयोगः स्य च सृष्टौ यथा
नवधा योगस्तथोक्तं प्राक् ।
ईश्वरलक्षणम् जगज्जन्मस्थितिप्रलयेषु प्रत्येकं ज्ञानचि-
कीर्षाप्रयत्नात्मतया नवत्वात्तथा । “विश्वसर्गविसर्गादिनव-
लक्षणलक्षितम्” श्रीधरः । पत्रिका कदली दाडिमी
धान्यं हरिद्रामानकं कचुः । विल्वोऽशोको जयन्ती च
विज्ञेया नव पत्रिकाः” इत्युक्तानां पत्रिकाणां नवत्वात्
तथा । नवपत्रिकास्थदेवीरूपा दुर्गा ब्रह्माणीरक्तदन्ति-
कालक्ष्मीजयन्तीचामुण्डाकालिकाशिवा शोकरहिताकार्त्ति-
कीरूपाणां नवत्वात् तथा । कविश्रेष्ठार्थकरत्नशब्दः “धन्व-
न्तरिः क्षपणकोऽमरसिंहशङ्कुर्वेतालभट्टघटकर्परकांलिदा-
साः । ख्यान्तोवराहमिहिरोनृपतेः सभायां रत्नानि वै
वररुचिर्नव विक्रमस्य” ज्योतिर्वि० उक्तानां विक्रमादित्यसभा-
स्थकविश्रेष्ठानां नवत्वात् तथा । विष्णुभक्तिः “श्रवणं
कीर्त्तनं विष्णोःस्मरणं पादसेवनम् । अर्चनं बन्दनं दास्यं
सख्यमात्यनिवेदनम् । इति पुंसाऽर्पिता विष्णौ भक्ति-
श्चेन्नवलक्षणा” भाग० ७, ५ उक्तश्रवणादिरूपा
नवत्वात् तथा । तुष्टिः “आध्यात्मिक्यश्चतस्रः प्रकृत्युपा-
दानकालभाग्याख्याः । बाह्या विषयोपरमात् पञ्च नव
तुष्टयो भवन्तीह” सां० का० उक्तानां नवत्वात् तथा ।
अभ्यागतेऽव्ययकार्य्यम् । “नवैतानि गृहस्थेन कार्या-
ण्यभ्यागते सदा । अन्ययानि च यत् सौम्यं वाक्यं १
चक्षु २ र्मनो३ मुखम् ४ । अभ्युत्थान ५ सिहायाते सस्नेहं ६
पूर्वभाषणम् ७ । उपासन ८ मनुव्रज्या ९” काशी०
उक्तानि नवत्वात् तथा । अभ्यागते ईषद्व्ययसाध्य
कार्य्याणि । “तथेषद्व्यययुक्तानि कार्य्याण्यभ्यागते
नव । आसनं १ पादशौचं २ च यथाशक्त्यशनं ३
क्षितिः ४ । शय्या ५ तृणं ६ जला ७ भ्यङ्क ८ दीपा ९ गार्ह-
स्थ्यसिद्धिदाः” काशी० दर्शितानि नवत्वात्तथा ।
गृहस्थावश्यत्याज्यनिन्द्यकार्य्याणि “तथा नव विकर्माणि त्या-
ज्यानि गृहमेधिना । पैशुन्यं परदाराश्च द्रोहः क्रोधा-
नृताप्रिये । द्वेषीदम्भश्च माया च स्वर्गमार्गार्गला-
णि च” काशी० उक्तानि नवत्वात्तथा । अवश्यकर्त्त-
व्यानि “नवावश्यककर्म्माणि कार्याणि प्रतिवासरम् ।
स्नान सन्ध्या जपोहोमः स्वाध्यायो देवतार्चनम् ।
वैश्वदेवं तथातिथ्यं नवमं पितृतर्पणम्” काशी०
उक्तानि नवत्वात् तथा । गोप्यानि “जन्मर्क्षं मैथुनं
मन्त्रो गृहच्छिद्रञ्च वञ्चनम् । आयुर्धनापमानं स्त्री न
प्रकाश्यानि सर्वथा” काशी० उक्तानि नवत्वात्तथा ।
प्रकाश्यानि “नवैतानि प्रकाश्यानि बहुपापमकुत्सि-
तम् १ । प्रायोग्य २ मृणशुद्धिश्च ३ स्वान्वयः ४ क्रय ५
विक्रयौ ६ । कन्यादानं ७ गुणो८ त्कर्षः ९” काशी० दर्शितानि
नवत्वात्तथा । अक्षयदानपात्राणि । “पात्रमित्रविनीतेषु
दीनानाथोपकारिषु । पितृमातृगुरुष्वेतन्नवकं दत्तमक्ष-
यम्” काशी० उक्तानि नवत्वात्तथा । निष्फलदान-
पात्राणि “निष्फलं नवकं सृष्टं चाटचारणतक्षसु ।
कुवैद्ये कितवे धूर्त्ते शठे मन्दे च बन्दिनि” काशी०
उक्तानि नवत्वात्तथा । अदेयवस्तूनि “आपत्स्वपि
न देयानि नव वस्तूनि मर्वदा । अन्वये सति सर्वस्वं
दाराश्च शरणागताः । न्यासाधी कुलवृत्तिश्च निक्षेपः स्त्री-
धनं सुतः” काशी० उक्तानि नवत्वात्तथा । साधारण-
कर्म्म “सत्यं शौचमहिंसा च क्षान्तिर्ज्ञानं दया दमः ।
अस्तेयमिन्द्रियाकोचः कर्म्म साधारणं मतम्” काशी०
उक्तानि नवत्वात् तथा । द्रव्यं क्षितिजलतेजोवाय्वाकाश-
कालदिन्मनआत्मरूपं नवत्वात् तथा । तमसोद्रव्यत्वमते
दशत्वबोधकमिति भेदः । स्थायिभावः “रतिर्हाश्चश्च
शोकश्च क्रोधोत्साहौ भयं तथा । जुगुप्सा विस्मयश्चे-
त्यमष्टौ प्रोक्ताः शमोऽपि च” सा० द० उक्तरत्यादीनां
नवत्वात्तथा ।
  • १० दशत्वबोधकाः । कवि० व० उक्ताः । हस्ताङ्गुलीनां,
दशभुजशम्भुबाहूनां, दशमुखरावणमौलीगां, मीनकूर्म्मवराह
नृसिंहवामनपरशुरामदाशरथिबलभद्रबुद्धकल्किरूपाणां
कृष्णावताराणाम्, पूर्व्वाग्नेयीदक्षिणनैरृतीपश्चिमावायव्यो-
त्तरैशान्यूर्द्धाधोरूपाणां दिशां गविश्वेषां देवानां गणदेव-
ताभेदानां, क्रतुदक्षवसुसत्यकामकालध्वनिरोचकपुरूरवो
माद्रवसोरूपाणाम्, दशाश्वरघचन्द्राश्वानाञ्च दशत्वात्तथा
शा० ति० । शक्तितत्त्वानि “निवृत्त्याद्याः कलाः पञ्च ततो
विन्दुकला पुनः । नादः शक्तिः सदापूर्वः शिवश्च प्रकृतेर्विदुः”
इत्युक्तनिवृत्त्यादिरूपाणि दशत्वात्, तथा । नाडीनाम्
इडापिङ्गलासुपुम्णासहितानाम् “गान्धारीहस्तिजिह्वाख्या
सप्तषालम्बुषा मता । यशश्विनी शङ्खिनी च कुहूः स्युः
पृष्ठ १५१२
सप्त नाडिकाः” इत्युक्तानां दशत्वात् तथा । भा० व० ।
पुरुषस्य वागादोनामधिदैवमधिभूतं स्थितानां विषयसर्पण
वर्त्मात्मकदिशां दशचात्तथा “ता वा एता दशैव
भूतमात्रा अधियज्ञं प्रज्ञामात्रा अधिमूतमिति” श्रुतेस्तथा-
त्वम् । गर्भमासानाम्, उपनिषद्भेदेन उपदेशकम-
हावाक्यानाम् “ब्रह्माहमस्मीति” एवमादोनां तद्विनेयानां
तद्विक्षेपकाणाञ्च दशत्वात्तथा ।
महाविद्या “काली तारा महाविद्या षोडशी भुवनेश्वरी ।
भैरवी छिन्नमस्ता च विद्या धूमावती तथा । वगला सिद्ध-
विद्या च मातङ्गी कमलात्मिका । एता दश महाविद्याः
सिद्धविद्याः प्रकीर्त्तिताः” इत्युक्तकाल्यादीनां दशत्वात्-
तथा । ब्राह्मणः सारस्वतकान्यकुब्जगौडमैथिलोत्कलद्रा-
विडमहाराष्ट्रतैलङ्गगुर्जरनागररूपतया दशत्वात्तथात्वम् ।
पापानि “अदत्तानामपादानं हिंसा चैवाविधानतः ।
परदारोपसेवा च कायिकं त्रिविधं स्मृतम् । पारुष्यमनृ-
तं चैव पैशुन्यं चापि सर्व्वशः । असम्बन्धप्रलापश्च
वाङ्मय स्याच्चतुर्विधम् । परद्रव्येष्वभिध्यानं मनसानिष्टचि-
न्तनम् । वितथाभिनिवेशश्च त्रिविधं कर्म्म मानसम् ।
एतानि दश पापानि” इत्युक्तानां दशत्वात्तथा योगाङ्ग
रूपो यमः “अहिंसा सत्यमस्तेयं ब्रह्मचर्य्यं कृपार्जवम् ।
क्षमा धृतिर्मिताहारः शौचं चेति यमा दश” इत्युक्ताहिंसा
दीनां दशत्वात्तथा । नियमः “तपः सन्तोषआस्तिक्यं
दानं देवस्य पूजनम् । सिद्धान्तश्रवणं चैव ह्रीर्मतिश्च
जपोहुतम् । दर्शते नियमाः प्रोक्ताः” शा० ति० उक्ततपआ-
दीनां दशत्वात् तथा । रूपककाव्यम् “नाटकमथ प्रकरणं
भाणव्यायोगसमकारडिमाः । ईहामृगाङ्गवीथ्यः प्रहसन
मिति रूपकाणि दश” इत्युक्तनाटकादीनां दशत्वात्तथा
लास्याङ्गम् “गेयं पदं स्थितपाद्यमासीनं पुष्पगण्डिका ।
प्रच्छेदकान्तर्गूढं च सैन्धवाख्यं द्विगूढकम् । उत्तमो-
त्तमकं चान्यदुक्तप्रत्युक्तमेव च । लास्ये दशविधं ह्येतदङ्ग-
मुक्तं मनाषिभिः” इत्युक्तगेयादीनां दशत्वात्तथा । धर्म्म-
लक्षणम् “धृतिःक्षमा दमोऽस्तेयं शौचमिन्द्रियनिग्रहः ।
धीर्विद्या सत्यमक्रोधो दशकं धर्म्मलक्षणम्” इत्युक्तधृत्यादी-
नां दशत्वात् तथा । पञ्चमूलद्वयम् “उभाभ्यां पञ्चमूलाभ्यां
दशमूलमुदाहृतम्” इत्युक्तानां दशत्वात्तथा । पञ्च-
मूले च “श्राफलः सर्व्वतोभद्रा पाटला गणिकारिका ।
शोनाकः पञ्चभिश्चैतैः पञ्चमूलमुदाहृतम् । शालपर्ण्णी
पृश्निपर्ण्णी वृहतो कण्ठकारिका । गोक्षुरः पञ्चभिश्चैतैः
कनिष्ठं पञ्चमूलकम्” भा० प्र० परिभाषिते । तेन प्रत्येक
मूलशब्दः पञ्चार्थकत्वात् पञ्चत्वस्य बोधक इति भेदः ।
उपनिषद् “ईशाकेनकठः प्रश्नोमुण्डमाण्डूक्यतित्तिरिः ।
ऐतरेयं च छान्दोग्यं वृहदारण्यक दश” इत्युक्तेशादीनां
प्रधानोपनिषदां दशत्वात्तथा । मन्त्रसंस्कारः तन्त्रोक्त-
दशविधतया दशविधत्वात्तथा ।
न्यायावयवः केषांचिन्मते जिज्ञासासंशयशक्यप्राप्ति
प्रयोजनसंशयव्युदाससहितानां प्रतिज्ञाहेतूदादरणोपन-
यनिगमानां दशत्वात्तथा । मघा राशिचक्रे तस्या
दशमत्वात्तथा तदभेदात् तदधिपपितृशब्दोऽपि तथा ।
पङ्क्तिः दशाक्षरपादत्वात्तथा दशरथ इत्यर्थे पङ्क्तिरथः
इत्यादिः । बौद्धबलम् “दानं शीलं क्षमा वीर्य्यं ध्यानं प्रज्ञा
बलानि च । उपायः प्रणिधिर्ज्ञानं दश बुद्धबलानि वै”
इत्युक्तदानादीनां दशत्वात्तथा । वह्निकला “धूम्रार्चिरूष्मा
ज्वलिनी ज्वालिनी विस्फुलिङ्गनी । सुश्रीः सुरूपा
कपिला हव्यकव्यवहे अपि” इत्युक्तधूम्रार्चिरादीनां दशत्वा-
त्तथा । योगभङ्गः “तिथ्यङ्कवेदैकदशोनविंशभैकादशाष्टाद-
शविंशसंख्याः । इष्टोडुना सूर्य्ययुतोडुयोगाद्योगाअमूश्चेत्
दश योगभङ्गाः” ज्यो० उक्तयोगजातपञ्चदशाद्यङ्कानां
दशत्वात्तथा । विप्राशौचदिनम् “शुध्येद्विप्रोदशाहेन”
मनूक्तेःविप्राशौचस्य दशदिनव्यापित्वात्तथा । लघुर्द्विजसंस्का-
रः गर्भाधानपुंसवनसीमन्तोन्नयनजातकर्म्मनामकरणनिष्-
क्रामणान्नाशनचूडोपनयनविवाहरूपतया दशत्वात्तथा ।
वृहत्संस्कारस्तु अष्टचत्वारिंशच्छब्दे उक्तचत्वारिंश-
त्त्वावबोधक इति भेदः । महापुराणलक्षणम् “सर्गोऽस्याथ
विसर्गश्च वृत्तीरक्षान्तराणि च । वंशोवंशानुचरितं संस्था
हेतुरपाश्रयः । दशभिर्लक्षणैर्युक्तं पुराणं तद्विदोविदुः ।
कोचित् पञ्चविधं चख्युर्महदल्पव्यवस्थया” भाग० १२, ७ ।
महामोहः दिव्यादिव्यशब्दादीनां तद्विषयाणां दशत्वात्-
तथा । “दशविधो महामोहः” सा० का० ।
देहस्थवायुः प्राणादिपञ्चकसहितनागकूर्म्मधनञ्जयकृ-
कलदेवदत्ताख्यानाम् देहस्थानां दशत्वात्तथा । वह्निः
“भ्राजकोरञ्जकश्चैव स्वेदकः स्नेहकस्तथा । वारकोबन्धक-
श्चैव द्रावकाख्यश्च सप्तमः । व्यापकः पावकश्चैव श्मेष्मकः
दशमःस्मृतः” इति पदार्थादर्शोक्तानाम् देहस्थाग्नीनां
“तेजकोदीपकश्चैव विभ्रमम्रमशोषणाः । आवसथ्याहव-
नीयौ दक्षिणाग्निस्तथैव च । अन्वाहार्य्यो गार्हपत्य इत्येते
दश वह्नयः” इति तत्रैवोक्तानां बाह्यवह्नीनां वा दशत्वात्त-
पृष्ठ १५१३
था । दिक्पालवाहनम् ऐरावतछागमहिषसिंहमकरह-
रिणाश्ववृषभहंसपद्मरूपम् दशत्वात् तथा । मतान्तरे
सोमस्थाने कुवेराधिपतित्वे तस्य नरवाहनत्वमिति भेदः ।
दिक्पालास्त्रम् वज्रशक्तिदण्डखड्गपाशाङ्कशगदात्रिशूल-
चक्रपद्मरूपम् दशत्वात् तथा । दुर्गाभुजःतस्या दशभुजत्वात्-
तथा । सामान्यगुणः संख्यापरिमितिपृथक्त्वसंयोगविभाग-
परत्वापरत्वनैमितिकद्रवगुरुत्ववेगरूपो दशत्वात् तथा ।
तेषाञ्च अनेकद्रव्यगुणत्वात् सामान्यत्वम् । अमूर्त्तगुणः
“धर्माधर्मौ भावना च शब्दो बुद्ध्यादयोऽपि च । एतेऽमू-
र्त्तगुणाः सर्वे” इत्युक्तधर्मादीनां दशत्वात् तथा । बुद्ध्या-
दयश्च षट् बुद्धिसुखदुःखेच्छाद्वेषयत्नरूपा इति दशत्वम् ।
मूर्त्तगुणः “रूपं रसःस्पर्शगन्धौ परत्वमपरत्वकम् । द्रवो-
गुरुत्वं स्नेहश्च वेगो मूर्त्तगुणा अमी” इत्युक्तरूपादीनां
दशत्वात् तथा ।
  • एकादशबोधकाः कवि० ल० उक्ताः रुद्राणाम् “अजैकपादहि-
बुध्नोविरूपाक्षश्च रेवतः । हरश्च बहुरूपश्च त्र्यम्बकश्च
सुरेश्वरः । रुद्रा एकादश प्रोक्ता जयन्तश्चापराजितः”
इत्युक्ताजादिकानामेकादशत्वात् तथा । दुर्य्योधनसेनाना-
मेकादशाक्षौणीमितत्वात् तथा ।
भा० व० उक्ताः । पशुयागे स्तोमभेदानां, तत्रत्ययूपानां
चैकादशत्वात्तथा मनसासहितज्ञानकर्मेन्द्रियाणां
तद्ग्राह्यविषयाणाञ्च एकादशत्वात् तथा ।
इन्द्रियघातः “बाधिर्य्यं कुष्ठितान्धत्वं जडताऽजिघ्रता
तथा । मूकता कौण्यपङ्गुत्वक्लैवोदावर्त्तमन्दताः” इत्युक्त
बाधिर्य्यादीनामेकादशत्वात्तथा । “एकादशेन्द्रियबधाः”
सां० का० । पूर्वफाल्गुनो तस्याः ऋक्षचक्रे एकादशत्वात्
तदधिपोभगश्च तथा । तेजोगुणः रूपस्पर्शसंख्यापरिमाण
पृथक्त्वसंयोगविभागपरत्वापरत्ववेगनैमित्तिकद्रवरूपतया
एकादशत्वात् तथा । कारणोद्भवगणः अपाकजरूपरस-
गन्धस्पर्शापाकजद्रवस्नेहवेगगुरुत्वैकपृथक्त्वपरिमाणस्थिति-
स्थापकसंस्काररूपत्वात् एकादशत्वबोधकः । अव्याप्य-
वृत्तिगुणः बुद्धिसुखदुःखेच्छाद्वेषथत्नादृष्टभावनाशब्द-
संयोगविभागरूपतया एकादशत्वात् तथा ।
  • द्वादशबोधकाः कवि० ल० उक्ताः “धाता मित्रोऽर्य्यमा रुद्रो वरुणः
सूर्य्यएव च । भगोविवस्वान् पूषा च सविता दशमः स्मृतः ।
एकादशन्तथा त्वष्टा विष्णुर्द्वादश उच्यते” विष्णुधं० उक्त-
धात्रादीना चान्द्रचैत्रवैशाखज्यैष्ठाषाढ़श्रावणभाद्राश्विन-
कार्त्तिकम्मर्गपौषमाषफाल्गूनरूपाणां मासानां, मेषवृष-
मिथुनकर्कटसिंह कन्यातुलावृश्चिकधनुर्मकरकुम्भमीनरूपाणां
राशीनां, तेषु सूर्य्यादिसंक्रान्तीनाञ्च द्वादशत्वात् तथा ।
कार्त्तिकबाहूनां, तन्नेत्राणां शारीफलककोष्ठानाम्
अरिशब्दे दर्शितराजमण्डलस्य च द्वादशत्वात् तथा
शा० ति० । आदित्यानां विष्णुधर्ममूर्त्तीनाञ्च तथात्वम् ।
तत्रैव १५ प० “द्वादशादित्यसहितामूर्त्तीर्द्वादश विन्यसेत् ।
केशवाद्याः क्रमाद्देहे वक्ष्यमाणविधानतः । ललाटे
केशवं १ धात्रा, कुक्षौ नारायणं २ पुनः । अर्यम्णा हृदि
मित्रेण ३ माधवं ३ कण्ठदेशतः । वरुणेन ४ च गोविन्दं ४,
पुनर्दक्षिणपार्श्वके । अंशुना ५ विष्णु ५ मंसस्थं भगेन ६
मधुसूदनम् ६ । गण्डे विवस्वता ८ युक्तं त्रिविक्रम ७
मनन्तरम् । वामपार्श्वस्थमिन्द्रेण ८ वामनाख्य ८ मथांसके ।
पूष्णा ९ श्रीधरनामानं ९ गले पर्जन्य १० संयुतम् ।
हृषीकेषाह्वयं १० पृष्ठे पद्मनाभं ११ ततःपरम् । त्वष्ट्रा ११
दामोदरं १२ पश्चात् विष्णुना १२ ककुदि न्यसेत् १२” इत्यु-
क्तानां द्वादशत्वात् तथा । भा० व० । जगती तस्याः
द्वादशाक्षरपादत्वात्तथा । प्राकृतयज्ञसाधनाहः तस्य द्वाद-
शाहसाध्यत्वात् तथा ।
नाटकीयमुखाङ्गम् “उपक्षेपः परिकरः परिन्यासो
विलोभनम् । युक्तिः प्राप्तिः समाघानं विधानं
परिभावना । उद्भेदः कारणं भेद एतान्यङ्गानि वै मुखे”
मा० द० उक्तोपक्षेपादिरूपतया तथा । बौद्धमतसिद्धमाय-
तनम् “अर्थानुपार्ज्य बहुशो द्वादशायततानि वै ।
परितः पूजनीयानि किमन्यैरिह पूजितैः । ज्ञानेन्द्रियाणि
पञ्चैव तथा कर्मेन्द्रियाणि च । मनोतुद्धिरिति प्रोक्तं द्वाद-
शायतनं बुधैः” इत्युक्तायतनानां द्वादशत्वात् तथा ।
उत्तरफाल्गुनी राशिचक्रे तस्या द्वादशत्वात् अभेदोपचारात्
तदधिपार्य्यमापि तथा । तुषितः “प्राणापानसमानाश्च
उदानोव्यान एव च । चक्षुः श्रोत्ररसाघ्राणस्पर्शोबुद्धिर्मन-
स्तथा । द्वादशैते च तुषिता देवाः स्वायम्भुवेऽन्तरे”
इत्युक्तप्राणादिनामकगणदेवात्मकत्वात्तथा । जटाधरमते
“षट्त्रिंशत्तुषितामताः” इत्युक्तेः षट्त्रिंशत्त्वस्येति भेदः ।
क्षत्रियाशौचदिनम् “द्वादशाहेन भूमिपः” इति मनूक्ते-
स्तस्याशौचस्यद्वादशाहसमाप्यत्वात्तथा । साध्यः “मनोमन्ता
तथा प्राणो नरोऽपानश्च वीर्य्यवान् । विनिर्भयोनयश्चैव
दंशो नारायणो वृषः । प्रभुश्चेति समाख्याताः साध्याः
द्वादश पौर्विकाः” इत्युक्तमनादिगणदेवात्मकः द्वादश-
त्वात्तथा । सूर्य्यकला “तपिनी तापिनी धूम्रा मरीपि-
पृष्ठ १५१४
र्ज्वालिनी रुचिः । सुषुम्णा भोगदा विश्वा बोधिनी
धारिणी क्षमा” शा० ति० उक्ततपिन्यादीनां द्वादशत्वात्-
तथा मद्यम् “पानसं द्राक्षमाधूकं खार्ज्जूरं तालमैक्षवम्
माक्षिकं टाङ्कमाध्वीकमैरेयं नारिकेलजम् । समानानि
विजानीयान्मद्यान्येकादशेव तु । द्वादशन्तु सुरामद्यं
सर्वेषामधमं स्मृतम्” । पुलस्त्योक्तपानसादीनां द्वादशत्वात्तथा
  • १३ त्रयोदशसंख्याबोधकाः । कवि० ल० उक्ताः ताम्बूलगुणः
ताम्बूलशब्दे वक्ष्यमाणत्रयोदशविधत्वात्तथा । भा० व० ।
महीद्वीपः ऊर्द्धलोकषट्काधोलोकसप्तकरूपत्रयोदशद्वी-
पतुल्ययोगात्तथा । अतिच्छन्दः गायत्र्यादिवैदिकच्छ-
ब्दःसप्तकातिक्रान्तातिजगतीच्छन्दोरूपम् त्रयोदशा-
क्षरपादतया तथा । प्रतिमुखाङ्गं “विलापः परिसर्पश्च
विधृतं तापनं तथा । नर्म्म नर्म्मद्युतिश्चैव तथा प्रश-
मनं पुनः । विरोधश्च प्रतिमुखे तथा स्यात् पर्य्युपा-
सनम् । पुष्पं वज्रमुपन्यासोवर्ण्णसंहार इत्यपि” सा० द०
उक्तविलासादीनां तथात्वात्तथा । गर्भाङ्गम् “अभूताहरणं
मार्गोरूपोदाहरणे क्रमः । संग्रहश्चानुमानञ्च प्रार्थना-
क्षिप्तिरेव च । त्रोटकाधिबलोद्वेगा गर्भेस्युर्विद्रवस्तथा”
तत्रोक्ताभूताहरणादीनां तथासंख्यत्वात्तथा । विमर्षाङ्गम्
“अपवादोऽथ संफेठो व्यवसायोद्रवः स्मृतिः । शक्तिः
प्रसङ्गः खेदश्च प्रतिषेधोविरोघनम् । प्ररोचना विमर्षे
स्यादादानं छादनं तथा” सा० द० उक्तापवादादीनां
त्रयोदशत्वात्तथा । हस्तनक्षत्रं तस्य राशिचक्रे त्रयो-
दशत्वात्तथा तदभेदात् तदधिपदिनकृदपि तथा । करणं
“करणं त्रयोदशविधम्” सा० का० उक्तज्ञानकर्म्मेन्द्रिय-
दशकमनोबुद्ध्यहङ्काररूपं त्रयोदशत्वात्तथा ।
  • चतुर्द्दशसंख्याबोधकाः कवि० ल० उक्ताः । विद्या “अङ्गानि
वेदाश्चत्वारो मीमांसा न्यायविस्तरः । धर्मशास्त्रं पुराणञ्च
विद्या ह्येताश्चतुर्द्दश” इत्युक्ताङ्गविद्यादिरूपा” मनुः “स्वाय-
म्भुवो मनुरभूत् प्रथमस्ततोऽमी स्वारोचिषोत्तमजता-
मसरैवताख्याः । षष्ठस्तु चाक्षष इति प्रथितः पृथिव्यां
वैवस्वतस्तदनु सम्प्रति सप्तमोऽयम्” सि० शि० उक्तानां
“सार्णिर्दक्षसावर्ण्णिर्ब्रह्मसावर्ण्णिकस्तथा । धर्म्मसावर्ण्णिकोरुद्र-
पुत्रोरौच्यश्च भोत्यकः” पुराणोक्तानां च चतुर्द्दशत्वात्तथा ।
इन्द्रः इन्द्रशब्दे मन्वन्तरभेदे उक्तनासयुक्तः, भुवनम् भूरा-
दिसप्तकातलादिसप्तकरूपं ध्रुवतारकयीगताराश्च
चतुर्द्दशत्वात् तथा । एवं यममूर्त्तिः यमधर्मराजमृत्य्वन्तक
वस्वतकालसर्वभूतक्षयौडुम्बरदध्ननीलपरमेष्ठिवृकोदरचित्र-
चित्रगुप्तात्मिका चतुर्द्दशत्वात्तथा । क्षितिगुणः रूपरसगन्ध-
स्पर्शसंख्यापरिमाणपृथक्त्वसंयोगविभागपरत्वापरत्ववेगगु-
रुत्वद्रवत्वात्मकः, जलगुणः गन्धहीनस्नेहसहितक्षितिगुणा-
त्मकः, आत्मगुणश्च बुद्धिसुखदुःखेच्छाद्वेषयत्नसंख्यापरि-
माण पृथकत्वसंयोगविभागभावनाधर्माधर्मात्मकः चतुर्द्द-
शत्वात्तया । चित्रा तस्याराशिचक्रे चतुर्द्दशत्वात्तथा
तदभेदात्तदधिपत्वष्टापि तथा । शक्करी तस्याश्चतुर्दशाक्षरपादक
त्वात् तथा । श्रीविद्यायन्त्रबाह्यकोणम् तन्त्रे तेषां
चतुर्द्दशत्वोक्तेस्तथा । निर्वहणाङ्गम् । “सन्धिर्विबोधो-
ग्रथनं निर्ण्णयः परिभाषणम् । कृतिः प्रमादआनन्दः
समयोऽप्युपगूहनम् । भाषणं पूर्ववाक्यञ्च काव्यसंहार
एव च । प्रशस्तिरिति संहारे उक्तान्यङ्गानि नामतः”
सा० द० उक्तसन्ध्यादीनां चतुर्द्दशत्वात्तथा ।
  • पञ्चदशसंख्याबोधकः विशेषव्यवहार्य्या चन्द्रकलाक्रियात्मिका
तिथिः उभयपक्षोयप्रतिपदादिरूपा पञ्चदशत्वात्तथा ।
चन्द्रस्यामाकलायाः सामान्यतिथित्वेऽपि तस्या विशेषतो
व्यवहाराभावात् न पञ्चदशत्वव्यघागः । स्वातिनक्षत्रं
तस्यर्क्षचक्रे पञ्चदशत्वात् तदभेदात् तदधिपपवनोऽपि तथा
अतिशक्करी तस्याः पञ्चदशाक्षरपादकत्वात् तथा ।
वैश्याशौचाहः “वैश्यः पञ्चदशाहेन” मनूक्तेस्तस्याशौच-
स्य पञ्चदशाहव्यापकत्वात्तथा । पक्षमानं तस्य पञ्चदश
तिथिरूपत्वात् तथा । कालीयन्त्रकोणं “त्रिपञ्चारे पीठे”
इत्युक्तेस्तेषां पञ्चदशत्वात्तथा ।
  • षोडशसंख्यावोधकाः इन्दुकला “अमृता मानदा पूषा तुष्टिः
पुष्टीरतिर्धृतिः । शशिनश्चन्त्रिका कान्तिर्ज्योतस्ना श्रीः
प्रीतिरङ्गदा । पूर्णा पूर्णामृता कामदायिन्यः स्वरजाः
कलाः” शा० ति० । उक्तामृतादिरूपा, कलाशब्दे वक्ष्यमाणा
दिगादिरूपा ब्रह्मकला च षोडशत्वात् तथा । स्वरवर्णः
तन्त्रमते अकारादिविमर्गान्तकः षोडशत्वात् तथा । शिक्षा-
मते “स्वरा विंशतिरेकश्चेति” इत्युक्ते । एकविंशतित्वस्येति
भेदः । अष्टिः षोडशाक्षरपादत्वात् तथा । विशाखा
राशिचक्रे तस्याः षोडशत्वात् तथा । तदभेदात् तदद्भिपौ
इन्द्राग्नी अपि तथा । तत्त्वज्ञानोपयोगितया ज्ञातव्यपदा-
दार्थः “प्रमाणप्रमेयसंशयप्रयोजनदृष्टान्तसिद्धान्तावयवत-
र्कनिर्णयवादजल्पवितण्डाहेत्वाभासच्छलजातिनिग्रहस्थान-
रूपः गौतमोक्तः षोडशत्वात्तथा । प्रेतश्राद्धम् आद्य-
द्वादशमासिकषाण्मासिकद्वयसपिण्डीकरणरूपं षोडश-
त्वात्तथा । नृप षोडशराजिके प्रसिद्धमरुत्तादिरूपः षोड-
पृष्ठ १५१५
त्वात्तथा । ते च नृपाः “मरुत्तः, १ सुहोत्रः २ पौरवोंऽङ्गः ३
औशीनरशिविः ४ दाशरथिरामः ५ भगीरथः ६ ऐलविल-
टिलीपः ७, यौवनाश्वोमान्धाता ८, नाहुषययातिः ९
नाभागोऽम्बरीषः १० शशविन्दुः ११, गयः १२ साङ्कृतिः
रन्तिदेवः १३, दौष्मन्तिर्भरतः १४, वैण्यः १५, जामदग्न्यो-
रामः १६ इत्येते भा० द्रो० ५५, ७० अ० दर्शिताः ।
तत्त्वान्तरानुपादानलक्षणः सांख्योक्तः विकारः एकादशे-
न्द्रियपञ्चमहाभूतात्मकत्वेन षोड़शत्वात्तथा । “षोड़शकस्तु
विकारः” सां० का० ।
  • १७ सप्तदशसंख्याबोधकाः । अनुराधा राशिचक्रे तस्याः सप्तदश-
त्वात् तथा तदभेदात्तदधिपमित्रोऽपि तथा । अत्यष्टिः सप्त-
दशाक्षरपादत्वात् तथा । लिङ्गदेहावयवः “पञ्चप्राणमनोबुद्धि-
दशेन्द्रियसमन्वितम् । अपञ्चीकृतभूतोत्थं सूक्ष्माङ्गं
भोगसाधनम्” इत्युक्तानां सप्तदशत्वात् तथेति वेदान्तिनः ।
सांख्यमते तु पञ्चप्राणस्थाने पञ्चतन्मात्राणीति भेदः “स
सप्तदशकेनापि युज्यते नात्र संशयः” । “सप्तदशैकं
लिङ्गम्” सां० सू० ।
  • १८ अष्टादशसंख्याबोधकाः कवि० ल० सप्त द्वीपाः महाद्वीपा
जम्बुप्रभृतयः एकादश उपद्वीपा इत्यष्टादशत्वात् तथा ।
“अष्टादशद्वीपनिखातयूपः” रघुः “नवद्वयद्वीपपृथग्-
जयश्रियामिति” नैष० । विद्या धनुर्वेदायर्वेदगान्धर्ब्बार्थ
शास्त्रसहितचतुर्द्दशविद्यारूपा अष्टादशत्वात् तथा ।
महापुराणम् उपपुराणशब्दे दर्शितब्राह्म्यादिरूपम्
अष्टादशत्वात् तथा । स्मृतिः अष्टादशस्मृतिकारिशब्दे-
दर्शितविष्णुप्रभृतिप्रणीता अष्टादशत्वात् तथा । धान्यम्
अष्टादशधान्यशब्दे दर्शितयवादिरूपम् तथा ।
महालक्ष्मीभूजाः तस्या अष्टादशभुजत्वात्तथा । ज्येष्ठा राशि-
चक्रे तस्या अष्टादशत्वात्तथा तदभेदात् तदधिप इन्द्रोऽपि
तथा । धृतिः तस्या अष्टादशाक्षरपादत्वात्तथा । विवादः
अष्टादशविवादपदशब्दे दर्शितर्ण्णादानादीनामष्टादश-
त्वात्तथा । कुण्डसंस्काराः “अष्टादश स्युः संस्काराः
कुण्डानां तन्त्रनोदिताः । वीक्षणं मूलमन्त्रेण ह्यस्त्रेण
प्रोक्षणं मतम् । तेनैव ताड़नंदर्भैर्वर्म्मणाभ्युक्षणं स्मृतम् ।
अस्त्रेण खननोद्धारौ तन्मन्त्रेण प्रपूरणम् । समीकरण-
मस्त्रेण सेचनं वस्त्रेणा मतम् । कुट्टनं हेतिमन्त्रेण वर्म्म-
मन्त्रेण मार्जनम् विलेपनं कलारूपं कल्पनं तदनन्त-
रम् । त्रिसूत्रीक णं पश्चाद्धृदयेनार्च्चनं मतम् । अस्त्रेण
वञ्जीकरणं हन्मन्त्रेण कुशैः शुभैः । चतुपथं तनुत्रेण
तनुयान्नेत्रपाटनम्” शा० ति० उक्तानाम् अष्टादशत्वात्तथा ।
भाषा संस्कृता शौरसेनी महाराष्ट्री मागधी अर्द्धमागधी
आवन्तिका दाक्षिणात्या शाकरी वाह्लिकी द्राविडी
आभीरी चाण्डाली शावरी पैशाची प्राकृता चेतिसा० द०
उक्तानां षोडशानां राक्षसीपाश्चात्त्यासहितानामष्टादश-
त्वात् तथा “अष्टादशभाषावारविलासिनी” सा० द०
व्यसनम् “दश कामसमुत्थानि तथाष्टौ क्रोधजानि च ।
व्यसनानि दुरन्तानि प्रयत्नेन विवर्जयेत् । मृगयाऽक्षो-
दिवास्वप्नः परिवादः स्त्रियोमदः । तौर्य्यत्रिकं वृथा-
ट्या च कामजोदशकोगणः । पैशुन्यं साहसं द्रोह ईर्ष्या
ऽसूयाऽर्थदूषणम् । वाग्दण्डजञ्च पारुष्यं क्रोधजोऽपि
गणोऽष्टकः” मनूक्तमृगयादीनामष्टादशत्वात्तथा । भारत
पर्व्व तेषामष्टादशत्वात्तथा ।
  • १९ ऊनविंशतिबोधकाः । धर्म्मशास्त्रकारकः “मन्वत्रिविष्णुहा-
रीतयाज्ञवल्क्योशनोऽङ्गिराः । यमापस्तम्बसंवर्त्ताः
कात्यायनवृहस्पती । पराशरव्यासशङ्खालिखोतो दक्षगौत-
मौ । शीतातपोवसिष्ठश्च धर्म्मशास्त्रप्रयोजकाः” इत्युक्त
मन्वादीनामूनविंशतित्वात्तथा । मूलनक्षत्रम् तस्य
राशिचक्रे ऊनविंशतितमत्वात्तथा । तदभेदात् तदधिप-
निरृतिरपि तथा । अतिधृतिस्तस्या ऊनविंशत्यक्षरपादत्वा-
त्तथा । अभिजिन्मानम् तस्याः उत्तराषाढापञ्चदशदण्ड-
श्रवणचतुर्दण्डरूपतयोनविंशतिदण्डात्मकत्वात्तथा ।
  • २० विंशतिबोधकः रावणभुजानां, नखानाम्, अङ्गुलीनां च
हस्तपादयोस्तावन्मितत्वात् तथा । पूर्व्वाषाढा राशिचक्रे
तस्या विंशत्वात्तथा । तदभेदात् तदधिपजलमपि तथा ।
छन्दोरूपा कृतिस्तस्याः विंशत्यक्षरपादत्वात् । शनेस्तुता-
यामुच्चांशः मेषे नीचांशश्च तथा । तत्र तस्य विंशांशे एव
परमोच्चनीचयोः ज्यो० उक्तत्वात् । ताजकोक्तग्रहोच्चबलम्
“त्रिंशत्स्वभे विंशतिरुच्चभे स्वे” नी० क० उक्ते-
स्तस्य विंशतितमत्वात्तथा ।
  • २१ एकविंशतिसंख्यातोधकाः । परशुरामक्षितिजयस्तस्य एकबिं-
शतिमितत्वात् तथा । उत्तराषाढा तस्या ऋक्षचक्रे
एकविंशत्वात्तथा । तदभेदात् तदधिपविश्वोऽपि तथा ।
कन्दोरूपा प्रकृतिस्तस्या एकविंशत्यक्षरपादत्वात्तथा ।
मूर्च्छना “मूर्च्छनाश्चैकविंशतिः” भरतोक्तेः सप्तस्वराणाम्
आरोहावरोहक्रमरूपैस्त्रित्वात् एकविंशतिरूपतया तथा ।
स्वरवर्ण्णः “स्वरा विंशतिरेकश्चेति” शिक्षोक्तेस्तन्मते स्तराणां
तत्संख्यत्वात्तथा ।
पृष्ठ १५१६
  • २२ द्वाविंशतिसंख्याबोधकाः । श्रवणा तस्या ऋक्षचक्रे द्वाविंश-
त्वात्तथा । तदभेदात् तदधिपहरिरपि तथा । आकृतिः
तस्याद्वाविंशत्यक्षरपादत्वात्तथा । निग्रहस्थानम् “प्रतिज्ञा-
हानिः प्रतिज्ञान्तरं प्रतिज्ञाविरोधः प्रतिज्ञासंन्यासो-
हेत्वन्तरमर्थान्तरं निरर्थकमविज्ञातार्थमपार्थकमप्राप्तकालं
न्यूनमधिकं पुनरुक्तमननुभाषणमज्ञानमप्रतिभाक्षेपो
मतानुज्ञा पर्य्यनुयोज्योपक्षेपणम् निरनुयोज्यानुयोगोऽप-
सिद्धान्तोहेत्वाभासाश्च” गौ० सू० उक्तानां प्रतिज्ञाहान्या-
दीनां द्वाविंशतित्वात् तथा ।
  • २३ त्रयोविंशतिसंख्याबोधकाः । धनिष्ठा तस्या ऋक्षचक्रे
त्रयोविंशत्वात्तथा । तदमेदात् तदधिपवसुरपि तथा ।
विकृतिः तस्याः त्रयोशिंशत्यक्षरपादत्वात् तथा ।
  • २४ चतुर्विंशतिसंख्याबोधकाः । तत्त्वम् प्रधानमहदहङ्कारशब्द
स्पर्शरूपरसगन्धतन्मात्रैकादशेन्द्रियपञ्चस्थूलभूतरूपं
चतुर्विंशतित्वात् तथा । पुरुषसहितप्रधानादिपरत्वे पञ्चविंश-
तित्वस्य पुरुषेश्वरयुततत्परत्वे षड्विंशतित्वस्य बोधकमिति
भेदः । गायत्र्यक्षरम् तस्या षड़क्षरपादत्वाच्चतुष्पाद्यां
तथासंख्यायोगात् तथात्वम् । जिनः ऋषभाजितसम्भवा-
भिनन्दनसुमतिपद्मप्रभसुपार्श्वचन्द्रप्रभसुविधिशीतलश्रेयों-
शवासुपूज्यविमलानन्ततीर्थकृद्धर्मशान्तिकुन्थुररमल्लिमुनिसु-
व्रतनिमिनेमिपार्श्ववीरात्म कश्चतुर्विंशतित्वात् तथा । ज्या
क्रान्तिश्च सि० शि० चतुर्विंशतिमितत्वोक्तेस्तथा । शतभिषा
तस्याराशिचक्रे चतुर्विंशत्वात्तथा तदभेदात् तदधिपवरुणो-
ऽपि । स्वगततारासमुदायपरत्वे शतत्वस्येति भेदः ।
संकृतिस्तस्याश्चतुर्विंशत्यक्षरपादत्वात्तथात्वम् । जातिः
न्यायोक्तदोषभेदरूपा प्रतिषेधहेतुः चतुर्विंशतित्वात् तथा ।
सा च गौ० सू० दर्शिता यथा “साधर्म्यबैधर्म्योत्कर्षाप-
कर्षवर्ण्यावर्ण्यविकल्पसाध्यप्राप्त्यप्राप्तिप्रसङ्गप्रतिदृष्टान्तानुत्-
पत्तिसंशयप्रकरणहेत्वर्थापत्त्यविशेषोपपत्त्युपलब्ध्यनुपलब्धि-
नित्यानित्यकार्य्यसमाः” इति । वैशेषिकोक्तः द्रव्याश्रितः
गुणः रूपरसगन्धस्पर्शसंख्यापरिमाणपृथक्त्वसंयोगविभा-
गपरत्वापरत्वबुद्धिसुखदुःखेच्छाद्वेषयत्नगुरुत्वद्रवस्नेहसं-
स्कारपुण्यापुण्यशब्दात्मकत्वात् चतुर्विंशतित्वस्य बोधकः ।
अन्यार्थपरत्वेत्रित्वादीनां बोधक इत्युक्तं प्राक् । विष्णु-
मूर्त्तिः शङ्खचक्रगदापद्मानां दक्षवामहस्तेषु विन्या-
सविशेषेण जातचतुर्विंशतिभेदा तथा । तस्य मूर्त्तभेदो-
ध्यानशब्दे वक्ष्यते ।
  • २५ पञ्चविंशतिसंख्याबोधकाः “मूलप्रकृतिरविकृतिर्महदाद्याः
प्रकृतिविकृतयः सप्त । षोड़शकस्तुविकारो न प्रकृतिर्न
विकृतिः पुरुषः” सा० का० उक्तपुरुषसहितप्रधानादि
पञ्चविंशतितत्त्वानामङ्गीकारात् तथा । “पञ्च पञ्चजनाः”
इति श्रुतिरेव तत्र मानतया तैरङ्गीकृता । शा० भा० तु
तस्याः श्रुतेः देवपितृगन्धर्व्वासुरयक्षादीनां पञ्चप्राणा-
दीनां पञ्चविंशतित्वपरतेत्युक्तम् । पूर्वभाद्रपदा तस्या-
राशिचक्रे पञ्चविंशत्वात्तथा । तदभेदात् तदधिपः
अजैकपादपि तथा । उत्कृतिः तस्याः पञ्चविंवत्यक्षरपादत्वा-
त्तथा । स्पर्शः कादिमावसानवर्णानां पञ्चविंशतित्वात्
तथा । “स्पर्शानां पञ्चविंशतिः” शिक्षा ।
  • २६ षड्विंशतिसंख्याबोधकाः तत्त्वम् जीवेश्वरसहितप्रकृत्यादि-
रूपं तस्य षड्विंशत्वात्तथा । उत्तरभाद्रपदा तस्याः
राशिचक्रे षड्विंशत्वात् तथा तदभेदात् तदधिपाहिबु-
ध्नोऽपि तथा । संकृतिस्तस्याः षड्विंशत्यक्षरपादात्तथा ।
  • २७ सप्तविंशतिः । नक्षत्रं उडुचक्रशब्दे दर्शितराशिचक्रस्था
श्विन्यादिसप्तविंशतिरूपत्वात् तथा । रेवती तस्या राशि-
चक्रे सप्तविंशत्वात्तथा । शुक्रस्य मीने सूच्चं कन्यायां
सुनीचं च तथा ।
  • २८ अष्टाविंशतिसंख्याबोधकाः साभिजिन्नक्षत्रम् तस्थाष्टावि
शत्वात्तथा । सात्विकनार्य्यलङ्कारः “यौवने सत्वजास्तासा-
मष्टाविंशतिसंख्यकाः । अलङ्कारास्तत्र भावलावहेलास्त्र-
योऽङ्गजाः । शोभा कान्तिश्च दीप्तिश्च माधुर्य्यञ्च प्रगल्भता ।
औदार्य्यं धैर्य्यमित्येते सप्तैव स्युरयत्नजाः । लीला विलासो
विच्छित्तिर्विव्वोकः किलकिञ्चितम् । मोट्टायितं कुट्टमितं
विभ्रमोललितं मदः । विकृतं तपनं मौग्ध्यं विक्षेपश्च
कुतूहलम् । हसितं चकित केलिरित्यष्टादशसंख्यकाः”
सा० द० उक्तदशस्वभावजभावसहितलीलादीनामष्टाशाना-
मष्टाविंशतित्वात्तथा ।
  • ३२ द्वात्रिंशत्त्वबोधकाः दन्तः तस्य नरमुखे द्वात्रिंशत्संख्यक-
त्वात्तथा । भगवदपराधः अपराधशब्दे २३२ पृ०
दर्शितानां यानगमनादीनां क्षत्रियसिद्धान्नभोजनादीनां
वा द्वात्रिंशत्त्वात्तथा ।
  • ३३ त्रयत्रिंशत्त्वबोधकः । नाठ्यालङ्कारः “आशीराक्रन्द
कपटाऽक्षमागर्वोद्यमाश्रयाः । उत्प्रासनं स्पृहाक्षोभ
पश्चात्तापोपपत्तयः । आशंसाऽध्यवसायौ च विसर्पोल्लेख
संज्ञितौ । उत्तेजनं परीवादो नीतिरर्थविशेषणम् । प्रोत्
साहनञ्च साहाय्यमभिमानोऽनु र्त्तनम् । उत्कीर्त्तन
तथा याच्ञा परीहारोनिवेदतम् । प्रवर्त्तनाख्यान
पृष्ठ १५१७
युक्तिप्रहर्षाश्चोपपदेशनम्” सा० द० उक्ताशीरादीनां
तत्संख्यकत्वात्तथा । व्यभिचारिभावः “निर्वेदावेगदैन्य-
श्रममदजडता औग्र्यमोहौ विबोधः स्वप्नापस्मारगर्व्वा-
मरणमलसताऽमर्षनिद्राबहित्याः । औत्सुख्योन्मादशङ्काः
स्मृतिमतिसहिता व्याधिसंत्रासलज्जा हर्षासूयाविषादाः
सधृतिचपलताग्लानिचिन्तावितर्काः” सा० द० उक्तानां
तत्संख्यत्वात्तथा ।
  • ६ षट्त्रिंशत्संख्याबोधकाः । रागिणी “रानाः षट् त्रिंश-
च्च भार्य्याः इति भरतोक्तेः वसन्तादिरागभार्य्याणां
तत्संख्यकत्वात् तत्संख्याबोधकता । रागिणीशब्दे ताश्च-
वक्ष्यन्ते । नाटकलक्षणम् सा० द० “षट्त्रिंशलक्षणान्यत्र”
इत्युपक्रम्य “भूषणाक्षरसंघातौ शोभोदाहरणं तथा ।
हेतुसंशयदृष्टान्तास्तुल्यतर्कः पदोच्चयः । निदर्शनाभिप्रायौ
च प्राप्तिर्विचार एव च । दिष्टोपदिष्टे च गुणातिपाता
तिशयौ तथा । विशेषणनिरुक्ती च सिद्धिर्भ्रंशविपर्य्ययौ ।
दाक्षिण्यानुनयौ मानार्थापत्तिर्गर्हणा तथा । पृच्छा
प्रसिद्धिः सारूप्यम् संक्षेपोगुणकीर्त्तनम् । लेशो
मनोरथोऽनुक्तसिद्धिः प्रियवचस्तथा” इत्युक्तभूषणादीनां
षट्त्रिंशत्त्वात्तथा ।
  • ३८ अष्टत्रिशत्संख्याबोधकाः सोमसूर्य्याग्निकला “सोमसूर्य्या-
ग्निभेदेन मातृकावर्ण्णसम्भवाः अष्टत्रिंशत्कलास्तत्तन्म-
ण्डणेषु व्यवस्थिताः” शा० ति० उक्तानां सोमषोडशकला
सूर्य्यद्वादशकलावह्निदशकलारूपाणामष्टत्रिंशत्त्वात्तथा ।
  • ४० चत्वारिंशत्संख्याबोधकः । तानः “चत्वारिंशत्ततामताः” इति
भरतोक्तेः ततशब्दवाच्यतानानां तत्संख्यत्वात्तथा ।
  • ४९ ऊनपञ्चात्संख्याबोधकः । अनिलः अनिलशब्दे दर्शितो-
नपञ्चाशद्भेदत्वात्तथा ।
  • ५० पञ्चाशत्संख्याबोधकः । मातृकालिपिः तस्याः तन्त्रमते
पञ्चाशद्वर्ण्णात्मकत्वात्तथा । “पञ्चाशल्लिपिभिर्विभक्तेत्या-
दि” शा० ति० ।
  • ५१ एकपञ्चाशद्बोधकः महापीठः महापीठशब्दे वक्ष्यमाण
भेदानां महापीठविशेषाणां तत्संख्यकत्वात्तथा ।
  • ६४ संख्याबोधकाः । वर्ण्णाः शिक्षामते “चतुःषष्टिस्त्रिषष्टि-
र्वा वर्ण्णाः सम्भबतोमताः । स्वराविंशतिवेकश्च स्पर्शानां पञ्च-
विंशतिः । यादयश्च स्मृताह्यष्टौ चत्वारश्च यमाः स्मृताः ।
अनुस्वारोविसर्गश्च + कँपौ चापि पराश्रितौ । दुस्पृष्टश्चेति
विज्ञेय ऌकारः प्लुतएव वा” इति शिक्षोक्तेस्तथा । कला
कलाशब्दे वक्ष्यमाणभेदानां तासां चतुःषष्टित्वात्तथा ।
महादेवीपोठम् “मायामङ्गलनागवामनमहालक्ष्मीचरित्रा
भृगुच्छायाच्छत्रहिरण्यहास्तिनमहेन्द्रोड्डोशचम्पापुरम् ।
पद्मं क्षीरकमञ्जनेश्वरपटेलीचन्द्रपूः श्रीगिरिः कोलाकुल्लक-
पूर्ण्णपर्व्वतकुरुक्षेत्रैकलिङ्गार्बुदाः । काश्मीरैकाम्रकाञ्ची-
मलयगिरिवरेकारकुन्भूतदेवीकौ दाम्नालेशजालन्धरसुर-
भिमणीशाद्रिकाशीप्रयागाः । त्रिस्रोतःकाककोट्योज्ज-
यिनिसमथुरं कोशलाकान्यकुब्जौ ड्राणैङ्काराट्टहासा विरज
इह ततः कुण्डिनं राजगेहम् । नेपालं पुण्डवर्द्धन
मालवपारसीकामरूपकेदाराः । विन्ध्यमहामठगोश्रुतिक-
म्पिल्लाश्रीपीठमरुदेशाः” पदार्थादर्शोक्तानां तत्संख्य-
कत्वात्तथा ।
  • १०० शतसंख्याबोधकाः पुरुषायुषम् “शतायुर्वै पुरुषः इति
श्रुतेस्तथा । रावणहस्ताङ्गुलिः तस्य विंशतिबाहुत्वेन
प्रत्येकं बाहौ पञ्चाङ्गुलियोगात् शतत्वेन तथात्वम् ।
इन्द्रयज्ञः तस्य शतयज्ञत्वेन तद्यज्ञानां शतत्वात् तथा ।
  • १००० सहस्रबोधकाः । इन्द्रनेत्रः तस्य सहस्रनेत्रतया तन्ने-
त्राणां सहस्रत्वेन तथा । विराट्पुरुषचक्षुः तत्पादः
तद्बाहुस्तन्मूर्द्धा च तथा । “सहस्रशीर्षा पुरुषः सहस्राक्षः
सहस्रपात्” श्रुतिः । कार्त्तवीर्य्यार्जुनबाहुः वाणासुरबाहुश्च
तयोः सहस्रबाहुत्वात् तथा । अनन्तशीर्षम् तस्य सहस्र-
शीर्षतया तथा । गङ्गास्रोतोमुखम् समुद्रसङ्गमसमीपस्थाने
सहस्रमुखतया तस्याः प्रवहनात्तथात्वम् । सामवेदशाखा
तद्वेदस्य सहस्रशाखत्वात् तथा ।
  • १००० अयुतसंख्याबोधकः रामराज्यकाल “दश वर्षसहस्रा
णि रामोराज्य मकारयत्” रामा० उक्तेस्तथा ।
अत्रेदं बोध्यम । शास्त्रकारैः ये ये पदार्था यद्यत्संख्यक-
तया उक्तास्तत्तच्छब्दास्तत्तत्संख्याबोधकाः । तेषु दिङ्-
मात्रमत्र दर्शितम अनयैव रीत्यान्येषामपि सुश्रुताद्युक्तभेद-
युक्ततत्तत्पदार्थपराणां शब्दानां तत्तत्संख्यार्थकत्वं
कल्पनीयम् । शब्दार्थयोरभेदाच्च क्वचिच्छब्दस्य तदर्थकता
उक्ता क्वचिच्चार्थस्यैव तत्तत्संख्यायोगौक्तः तेनैव तत्त-
दर्थकशब्दस्य तत्तत्संख्याबोधकता उन्नेया । इयांस्तु विशेषः
समुदायवर्त्तिपदार्थस्यैकदेशवृत्तित्वाभिप्रायेण बहुसंख्या-
न्वितपदार्थबोधकानामपि एकवचनादिप्रयोगोऽपि । यथा
“रामोऽगवेदैर्जलधिस्तु मैत्रैरित्यादौ” रामजलध्योः त्रित्व
चतुष्ट्वबोधकत्वेऽपि एकवचनान्तता अगवेदैरित्यादौ सप्तत्व-
चतुद्धबोधकयोः बहुवचनान्तता । एवमन्यत्रापि । उक्त-
शब्दानां कचित्संख्यापरत्वम् क्वचित्संख्येयपरत्वम
पृष्ठ १५१८
क्वचिच्च पूरणार्थताऽपि यथा “दिग्भिर्गुणैरष्टयमैः शरैकै
र्वाणैभसंख्यैर्नखसंमितैश्च” नी० क० दिगादिशब्दानां दशमा-
द्यंशपरत्वम् । एवं “युग्माग्नी कृतभूतानि षण्मुनी
वसुन्त्रयोः” इत्यादौ युग्माग्निप्रमृतीनां तत्तत्संख्यापूरणी
द्वितीयादिपरत्वम् । अत्र च ये शब्दा उक्तास्तत्पर्य्याय-
शब्दा अपि तत्तत्संख्याबोधकाः इति ।

एकादेश पु० कर्म० । पाणिन्युक्ते उभयस्थानिप्रभवे

एकस्मिन्नादेशे । एकादेशश्च यथा मुरारिरित्यत्र
मुरशब्दस्य अन्त्याकारस्य अरिशब्दादिभूताकारस्य चेत्युभयोः
स्थाने दीर्घभूत एक आकारः एवमन्यत्रापि । “एका-
देश उदात्तेनोदात्तः” पा० ।

एकाद्न(न्न)विंशति स्त्री एकेन न विंशतिः । एक + न +

आदुक् दस्य वा न । १ एकोनविंशतिसख्यायां, २ तद्युक्ते
च एवमेका(द्न)न्नत्रिंशदादयः ।

एकानंशा स्त्री एको न अंशोयस्याः असमर्थसमा० ।

अनेकशांवत्यां दुर्गायां सा च यशोदागर्भसंभूता प्रजा-
पतेरशजाता । तथोक्तं हरिवं० ६० अ० यथा “नन्दगोपस्य
भार्य्यैका वसुदेवस्य चापरा । तुल्यकालं हि गर्भिण्यौ
यशोदा देवकी तथा । देवक्यजनयद् विष्णुं यशोदा
तान्तु कन्यकाम्” इत्युपक्रम्य “वसुदेवस्तु संगृह्य-
दारकं क्षिप्रमेव च । यशोदायागृहं रात्रौ विवेश
सुतवत्सलः । यशोदायास्त्वाविज्ञातस्तत्र निक्षिप्य दारकम् ।
गृहीत्वा द रिकां ताञ्च देवकीशयने न्यसत् । परिवर्त्ते
कृते ताभ्यां गर्भाभ्यां भयविक्लवः । वसुदेवः कृता-
र्यो वै निर्जगाम निवेशनात् । उग्रसेनसुतायाथ कंसाया-
नकदुन्दुभिः । निवेदयामास तदा कन्यां तां वरवर्णिनीम् ।
तच्छ्रुत्वा त्वरितः कंसोरक्षिभिः सह वेगितः । आजगाम
गृहद्वारं वसुदेवस्य वीर्य्यवान् । स तत्र त्वरितं द्वारि
किं जातमिति चाब्रवीत् । दीयतां शीघ्रमित्येवं वाग्भिः
समभितर्ज्जयन् । ततो हाहाकृताः सर्व्वा देवकीभवने स्त्रि-
यः । उवाच देवकी दीना वाष्पविक्लवया गिरा । दारिका
पुत्त्र! जातेति कंसं समभियाचती । श्रीमन्तो मे हताःसप्त
पुत्त्रगर्भास्त्वया विभो! । दारिकेयं हतैवैषा पश्यस्व यदि
मन्यसे । दृष्ट्वा कंसस्तु तां कन्यामकृष्यत मुदा युतः ।
हतैवैषा यदा कन्या जातेत्युक्त्वा वृथामतिः । सा गर्भशयन-
क्लिष्टागर्भाम्बुक्लिन्नमर्द्धजा । कंसस्थ पुरतोन्यस्ता पृथिव्यां
पृथिवीसमा । पादे तां गृह्य पुरुषः समाविध्यावधूय च ।
उद्यच्छन्नेव सहसा शिलायां समपीथयत् । साऽवधूता शिला-
पृष्ठे निष्पिष्टा दिवमुत्पतत् । हित्वा गर्भतनुं सा तु
सहसा मुक्तमूर्द्धजा । जगामाकाशमाविश्य दिव्यस्रगनुलेप-
ना । कन्यैव चाभवत् सा तु दिव्या देवैरभिष्टुता ।
नीलपीताम्बरधरा गजकुम्भोपमस्तनी । रथविस्तीर्णजघना
चन्द्रवक्त्रा चतुर्भुजा । विद्युद्विस्पष्टवर्णाभा बालार्कसदृशेक्षणा ।
पयोधरस्वनवती सन्ध्येव सपयोधरा । सा वै निशितमोग्रस्ते
सर्व्वभूतगणाकुले । नृत्यन्ती हसती चैव विपरीते नभस्वति ।
विहायसि गता रौद्री पपौ पानभनुत्तमम् । जहास च म
हाहासं कंसञ्च रुषिताऽब्रवीत् । कंस कंसात्मनाशाय यदहं
घातिता त्वया । सहसा च समुत्क्षिप्य शिलायामभिपो-
थिता । तस्मात्तवान्तकालेऽहं कृष्यमाणस्य शत्रुणा ।
पाटयित्वा करैर्द्देहमुष्णं पास्याभि शोणितम् । एवनुक्त्वा वचो
घोरं सा यथेष्टेन वर्त्मना । खं सा देवालयं देवी सगणा
विचवार ह । सा कन्या ववृधे तत्र वृष्णिसद्मनि पूजिता ।
पुत्रवत् पाल्यमाना सा देवदेवाज्ञया तदा । विद्धि चैनाम-
थोत्पन्नामंशाद्देवीं प्रजापतेः । एकानंशां योगकन्यां
रक्षार्थं केशवस्य च । तां वै सर्व्वे सुमनसः पूजयन्ति स्म
यादवाः । देवीञ्च दिव्यवपुषं कृष्णः संरक्षितो यया ।
तस्यां गतायां कंसस्तु तां मेने मृत्युमात्मनः” ।
“सा कन्या ववृधे तत्र वृष्णिसन्मनि पूजिता । पुत्रवत्
पाल्यमाना वै वसुदेवाज्ञया तदा । एकानंशा तु
यामाहुरुत्पन्नां मानवाभुवि । योगकन्यां दूराधर्षाम्”
इति च । वृहत्सं० मूर्त्तिलक्षणे “एकानंशा कार्य्या
देवी बलदेवकृष्णयोर्मध्ये” ।

एकानुदिष्ट त्रि० एकमनु दिष्टम् “सहसुपा” पा० । एकोद्देशैन

दत्तश्राद्धे । “यावदेकानुदिष्टस्य गन्धोलोश्च तिष्ठति । विप्रस्य
विदुषोदेहे तावद्ब्रह्म न कीर्त्तयेत्” मनुः ।

एकान्त त्रि० एकः अन्तः निश्चयः सीमा वा । २ अत्यन्ते

अतिशये “तेजःक्षमा वा नैकान्तंकालज्ञस्य महीपतेः” माघः ।
“शकुन्तमेकान्तमनोविनोदिनम्” नै० । क्रियाविशेषणत्वेनात्र
न० । “एकान्तविध्वंसिषु मद्विधानाम्” रघु० “नात्यश्नतस्बु
योगोऽस्ति नचैकान्तमनश्नतः” गीता । तद्वति ३ द्रव्ये
त्रि० । “एकान्तपाण्डुस्तनलम्बिहारम्” रघुः । “एका-
न्तशैत्यात् कदलीविशेषाः” कुमा० । एक एवान्तो
यत्र । निर्जने ४ रहसि । “तस्माद्ध्वान्ते हर्म्यस्यान्तः
शय्यैकान्ते कर्त्तव्या” ज्यो० त० । “वासे बहूनां कलहे-
भवेद्वार्त्ता दयोरपि । तस्मादेकान्तमास्थाय चिन्त-
येत् नित्यसंयुतः, पुरा० । ततः तसिल् । एकान्ततस् एका-
पृष्ठ १५१९
न्ते इत्याद्यर्थे । “दृष्टे साऽपार्था चेन्नैकान्ततोऽत्यन्ततो
ऽभावात्” सां० का० । तत्र भवः ठञ् । ऐकान्तिक
एकान्तभवे त्रि० स्त्रियां ङीप् । “ऐकान्तिकी हरेर्भक्तिरुत्पा-
तायैव कल्पते” पुरा० । एक एवान्तः स्वभावो यस्य ।
एकरूपताप्राप्ते त्रि० । “विलोक्यैकान्तभूतानि मूतान्यादौ
प्रजापतिः । स्त्रियं चक्रे स्वदे हार्द्धं यया पुंसां मतिर्ह-
ता” भाग० ६, १८, २२ ।

एकान्तत्यागवाद पु० वस्तुनः एकान्तता एकस्वरूपता

अस्तीत्यादिसम्बन्धरूपता तस्य त्यागप्रतिपादकोवादः ।
अर्हद्विशेषोक्तवादभेदे । सच वादः अर्हच्छब्दे स्याद्वाद
प्रकरणे ३८६ पृ० दर्शितः ।

एकान्तदुःषमा स्त्री दुष्टा समा वर्षोदुःषमा सुषमा० षत्वम्

एकान्तं दुःषमा २ त० । बौद्धकल्पिते कालभेदे हेमच० ।
यथा “कालो द्विविधोऽवसर्पिर्ण्युत्सर्पिणीषु भेदतः ।
सागरकोटिकोटीनां विंशत्या स समाप्यते । अवसर्पिण्यां
षडरा उत्सर्पिण्यां त एव विपरीताः । एवं द्वादश-
भिररैर्विवर्त्तते कालचक्रमिदम् । तत्रैकान्तसुषमारश्चतस्रः
कोटिकोटयः । सागराणां सुषमा तु तिस्रस्तूत्कोटिकोटयः ।
सुखमदुःखमाने द्वे दुःखमसुखमा पुनः । सैका सहस्रै-
र्वर्षाणां द्विचत्वारिंशतोनिता । अथ दुःखमैकविंशतिरव्द-
सहस्राणि तावती तु स्यात् । एकान्तदुःषमापि ह्येतत्-
संख्याः परेऽपि विपरीताः । प्रथमारत्रये मर्त्त्यास्त्रिद्व्येक-
पल्यजीविताः । त्रिद्व्येकगव्यूत्युच्छ्राया स्त्रिद्व्येकदिनभो-
जनाः । कल्पद्रुफलसंतुष्टाश्चतुर्थे त्वरके नराः । पूर्ब्ब
कोट्यायुषः पञ्चधनुःशतसमुच्छ्रयाः । पञ्चमे तु वर्ष-
शतायुषः सप्तकरोच्छ्रयाः । षष्ठे पुनः षोड़शाव्दायुषो-
हस्तसमुच्छ्रयाः एकान्तदुःस्वप्रचिता उत्सर्पिण्यामपी-
दृशाः । पञ्चानुपूर्व्व्या बिज्ञेया अरेषु किल षट्स्वपि” ।

एकान्तर त्रि० एकमन्तरं व्यवधानम् । १ एकव्यवधाने “एका-

न्तरे त्वानुलोम्बादम्बष्ठोग्रौ तथा स्मृतौ” मनुः । वहु० ।
२ एकान्तरवर्त्तिनि त्रि० । “एकान्तरासु जातानां धर्म्यं
विद्यादिमं विधिम्” मनुः । एकदिनव्यवधानेन भोजनरूपे
३ व्रतभेदे न० एकदिनव्यवधानेन जायमाने ४ ज्वरभेदे पु० ।

एकान्तसुषमा सुष्ठुसमावर्षः सुषमा सुषमादि० षत्वम् २ त० ।

बौद्धमतसिद्धे कालभेदे एकान्तदुःषमाशब्दे विवृतिः ।

एकान्तिन् त्रि० एकान्तमस्त्यस्य इनि स्त्रियां ङीप् । १

अतिशययुक्ते एकान्तः एकस्वरूपः उपास्यत्वेनास्त्यस्य इनि ।
स्त्रियां ङीप् । २ भगवद्भक्तविशेषे त्रि० । “एकान्तेना-
समोविष्णुयेस्मादेवं परायणः । तस्मादेकान्तिनः प्रोक्ता-
स्तद्भागवतचेतसः” गरुडपु० १३१ ।

एकान्न त्रि० एककालमेवान्नं भक्ष्यं यत्र । १ एककालि-

कभक्षणे एकभक्तरूपे व्रते कर्म्म० । २ एकमात्रभक्ष्ये अन्ने
न० । “ऊर्ज्जे यवान्नमश्नीयादेकान्नमथ वा पुनः ।
वृन्ताकं शूरणञ्चैव शूकशिम्बीञ्च वर्जयेत्” काशी० ।
“भक्ष्येण वर्त्तयेन्नित्यं नैकान्नादी भवेत् व्रती” मनुः ।
“क्रीत्वा लब्ध्वा प्राप्य गृहमेकान्नमलवणमेकरात्रं त्रिरात्रं
वा भोक्तव्यमिति” शु० त० स्मृतिः । एकस्मिन् स्थाने
पचनीयमन्नं यस्य । अविभक्ते भ्रात्रादौ “एकान्नवर्त्तिनाञ्चैव
एकोदिष्टं न पार्वणम् । एकपाकेन वसतां पितृदेवद्विजा-
र्च्चनम् । एकं भवेद्विभक्तानां तदेव स्यात् गृहेगृहे” वृह०

एकायन त्रि० एकमयनं विषयोऽवलम्बनं वा यस्य । १ विषया-

न्तरव्यावृत्तचित्ते एकाग्रमनस्के २ एकाबलम्बने च ।
“तानि वा एतानि संकल्पैकायनानि संकल्पप्रतिष्ठितानि”
छा० उ० । एकमयनमबलम्बनीयं यस्य । ३ एकाबलम्बनीये
त्रि० । “एवमेकायनं धर्ममाहुर्वेदविदोजनाः” भा० शा०
७८७२ श्लो० । एकस्यायनं गतिर्यत्र । ४ एकमात्र-
गमनयोग्ये त्रि० “भ्रातरं भोमसेनन्तु विज्ञाय हनुमान्
कपिः । दिवङ्गमं रुरोधाथ मार्गं भीमस्य कारणात् ।
अनेन हि पथा मा वै गच्छेदिति विचार्य्य सः । आस्त
एकायने मार्गे कदलीखण्डमण्डिते । भ्रातुर्भीमस्य रक्षा-
र्थम्” भा० व० १४६ अ० । कर्म्म० । ५ एकस्थाने न० ।
“यः स्यादेकायने लीनस्तूष्णीं किञ्चिदचिन्तयन्” भा०
अनु० ५३२ श्लो० ।

एकार्थ पु० एकः अर्थः प्रयोजनमभिधेयम् पदार्थो वा ।

एकस्मिन् १ प्रयोजने २ अभिधेये ३ पदार्थे च । “वर्ण्णाः पदं
प्रयोगार्हानन्वितैकार्थबोधकाः” सा० द० । बहु० ।
४ एकाभिधेये शब्दभेदे एकार्थश्च एकशक्त्योपस्थापितार्थकः ।
५ एकप्रयोजनयुक्ते त्रि० । अभूततद्भावे च्वि + मू--घञ् ।
एकार्थीभाव अनेकार्थानामेकार्थताप्राप्तौ पु० “समासे
खलु भिन्नैव शक्तिः पङ्कजशब्दवत् । बहूनां वृतिधर्माणां
वचनैरेव साधने । स्यान्महत् गौरवं तस्मादेकार्थीभाव
आश्रितः” इति भर्तृहरिः । कर्त्तरि क्त । एकाथींमूत
परस्परमन्विते एकस्मिन् विशिष्टार्थे च “एकार्थमनेक-
शब्दं वाक्यम्” निरु० । वै० मते वाक्येऽपि शक्तिः अखण्ड-
वाक्यस्फोटस्यैव वाचकत्वात् “पदे न वर्णाविद्यन्ते वर्णेष्वव-
यवा न च । वाक्यात् पदानामत्यन्तं प्रविवेको न कश्चन ।
पृष्ठ १५२०
व्राह्मणार्थोयथा नास्ति कश्चिद् ब्राह्मणकम्बले । देवदत्तादयो
वाक्ये तथैव स्युर्निरर्थकाः” इति “वाक्यस्फोटोऽतिनिष्कर्षे
तिष्ठतोति मतस्थितिरिति च” हरिः ।

एकावली स्त्री एकाऽद्वितीया आवली माला मणिश्रेणी ।

(एकनर) हारभेदे, सा० द० उक्तेऽर्थालङ्कारभेदे
अलङ्कारशब्दे ३९८ पृ० विवृतिः ।

एकाब्दा स्त्री एकः अब्दो वयोमानं यस्याः । १ एकहायन्यां

स्त्रीगव्याम् । “एकाव्दा त्वेकहायनी” अमरः । २
एकवर्षयुक्ते त्रि० । एकवर्षादयोऽप्यत्र । “एकवर्षे गवि
हते कृच्छ्रपादो विधीयते” स्मृतिः । एकहायनोऽप्यत्र
हायनस्य वयोवाचित्वेतु संख्यापूर्ब्बकत्वात् स्त्रियां ङीप्
इति भेदः । “अरुणया पिङ्गाक्ष्यैकहायन्या गवा सोमं
क्रीणातिं श्रुतिः ।

एकाशीतिपद न० एकाशीतिः पदान्यत्र । गृहारम्भप्रवे-

शादौ वास्तुपूजार्थं कर्त्तव्ये तावन्मितकोष्ठके वास्तुमण्डल-
भेदे । तच्च मण्डलं तिर्य्यगूर्द्ध्वस्थाभिर्दशभीरेखाभिः
एकाशीतिकोष्ठात्मकं गृहारम्भाद्यर्थं वास्तुयागे लेख्यम् यथाह
देवीपु० । “प्रासादे च चतुःषष्टिरेकाशीतिपदं गृहे”
तल्लेखनप्रकारादि वास्तुमण्डलशब्दे वक्ष्यते ।

एकाश्रय त्रि० एक आश्रय आधारोऽवलम्बनं वा यस्य ।

१ अनन्यगतिके । २ एकाधारवृत्तौ ३ वैशेषिकोक्तगुणभेदे च ते
च गुणाः अनेकाश्रितगुणभिन्नाः । “संयोगश्च विभागश्चसं-
ख्याद्वित्वादिकास्तथा । द्विपृथक्त्बादयस्तद्वदेतेऽनेकाश्रिता
गुणाः । अतः शेषगुण्णाः सर्वे मता एकैक वृत्तयः”
भाषा० दर्शिताः । एवं च रूपरसगन्धस्पर्शशब्दाः एकत्व-
मेकपृथक्त्वं परिमाणपरत्वापरत्वानि बुद्धिसुखदुःखे-
च्छाद्वेषयत्नगुरुत्वस्नेहसंस्कारादृष्टानि च तादृशाः, तेषां
प्रत्येकस्य एकैकवृत्तित्वात् संयोगादीनान्तु एकैकस्यैव
द्विवृत्तित्वमिति न तथात्वम् । एकाधिकरणादयोऽप्यत्र ।
कर्म० । ४ एकस्मिन् आधारे पु० “हेतोरेकाश्रये येषां
स्वसाध्यव्यभिचारिता” भाषा० ।

एकाष्टका स्त्री एका अष्टका । १ माघकृष्णाष्टम्याम् २ तत्क-

र्त्तव्ये श्राद्धे च । अष्टकानां तासु कर्त्तव्यश्राद्धानां च
त्रित्वेऽपि आ० श्रौ० सू० “हेमन्तशिशिरयोश्चतुर्णामपर-
पक्षाणामष्टमीष्वष्टका एकस्यां वेति” एकस्या अपि
कर्त्तव्यतया विधानात्तथा । सा च मध्यत्वेन माघकृष्णा-
ष्टमी ग्राह्या । अत एव “गवामयनायैकाष्टकायां दीक्षा”
कात्था० १३, १, २, सू० व्या० “एकाष्टाका नाम माघस्य
कृष्णाष्टमी प्रसिद्धेः” कर्केणोक्तम् । ३ तदभिमानिदेव्यां
शच्याम् “एकाष्टका तपसा तप्यमाना जजान गर्भं
महिमानमिन्द्रम् । तेन देवा असहन्त शत्रुन् हन्तासुरा-
णामभवच्छचीभिः” सा० ब्रा० २ प्र० ३ क० । शचीभिरित्यत्र
शचीपतिरिति” अथ० ६, १०, १२, पाठः । “एकाष्टके! सुप्र-
जसः सुवीरा वयं स्याम पतयो रयीणाम्” अथ० ३, १०, ५

एकाष्ठील पु० एकमस्थीव काण्डं तद्वत्कठिनत्वात् लाति

ला--क पृषो० षत्वं दीर्घश्च । वकवृक्षे अमरः पाठायां स्त्री ।
(आकनादी) राजनि० ।

एकाह पु० एकमहः टच्समा० एकशब्दोत्तरत्वात् माह्ना-

देशः । “अह्नाहान्ताःपुंसि” पा० पुंस्त्वम् ।
“एकस्मिन् दिवसे “एकाहेनैव निर्वपेत्” ऋष्य० स्मृतिः “सब्रह्म-
चारिण्येकाहः” मनुः । “अश्वस्यैकाहगमः” पा० ।
उपचारात् । २ एकाहसाध्ये अग्निष्टोमादौ यागभेदे
च । “उक्तप्रकृतयोऽहीनैकाहाः” आश्व० ९, १, १ ।
“उक्तो ज्योतिष्टोम एकाहाहीनसत्राणां प्रकृतिभूतः
उक्तानि पञ्चविंशतिरहानि सात्रिकाणि एतेभ्य एव
सात्रिकेभ्योऽहोभ्यो ऽहीनैकाहा व्याख्यायन्त इत्युक्तम्
इदानीं तानेकाहाहीनान् वक्तुकामेनाचार्य्येण “उक्त
प्रकृतयोऽहीनैकाहा” इत्युक्तम् । तस्यायमर्घः उक्ता प्रकृति-
र्येषां ते इमे उक्तप्रकृतयोऽहीनैकाहाः । प्रकृतिः प्रकारो
न रूपान्तरमित्यनर्थान्तरं ज्योतिष्टोमोहि सर्वेषामेकाहा
हीनसत्राणां प्रकृतिरिति सिद्धम्” नारा० । “अनतिदेशे
त्वेकाहो ज्योतिष्टोमो द्वादशशतदक्षिणस्तेन शस्यमेका-
हानास्” ९, १, ३ ।

एकाहगम पु० एकाहेन गम्यते गम--कर्म्मणि घञ् ।

एकाहगम्ये देशे “अश्वस्यैकाहगमः” पा० ।

एकाहार पु० एकस्मिन् दिने एक आहारः । एकस्मिन्

दिने सकृद्भोजने “एकाहारस्तया (विधवया) कार्य्यो न
द्वितीयः कथञ्चन” शु० त० पुरा० । “मुनिभिर्द्विरशन-
मुक्तम्” इत्यादिना द्विर्भोजनस्य विधानेऽपि एककाल-
मात्रभोजनं तस्या विहितम् । एकाहारे च परिसंख्यैव-
आहारस्य रागप्राप्तेः न द्वितीय इत्यनेन तथैव प्रतिपाद-
नात् । एक आहारो यस्य । एकस्मिन्नह्नि सकृद्भोक्तरि
त्रि० “प्रौष्ठपदं तु यो मासमेकाहारो भवेन्नरः” भा०
अनु० १०६ अ० ।
पृष्ठ १५२१

एकीकरण न० एक + अभूततद्भावे च्वि--कृ--अनुप्रयोगः ल्युट् ।

अनेकधाम्यादेः राशिकरणेनं एकतापादने । कर्म्मणि क्त ।
एकीकृत तथापादिते धान्यादौ त्रि० एकी + भू--घञ् ।
एकीभाव अनेकधान्यादेः राशिताप्रापणरूपे व्यापारे पु० ।
कर्त्तरि क्त । एकीभूत एकत्वप्राप्ते अनेकधान्यादिराश्यादौ ।
कृ--ल्यप् । एकीकृत्य तथापादनं कृत्वेत्थर्थे अव्य०
भूल्यप् । एकीभूय एकत्वं प्राप्येत्यर्थे अव्य० ।

एकीय त्रि० एक + भवार्थे तस्येदमित्यर्थे वा छ । १ एकपक्ष-

भवे सहाये, २ एकसम्बन्धिनि च ।

एकेक्षण पु० एकमीक्षणं यस्य । १ काके २ एकचक्षुर्युतमात्रे

काणे त्रि० । ३ शुक्राचार्य्ये पु० । बलिना वामनाय
दीयमानत्रिपदभूमिं प्रतिषेधतः शुक्रस्य वचनमनादृत्य तद्दा-
नाय प्रवर्त्तमानं बलिं वीक्ष्य दानार्थगृहीतजलपात्रद्वारं
सूक्ष्ममूर्त्त्या प्रविश्य रुन्धतस्तस्य छलं बुद्धा जलद्वारा-
वरणनिवारणच्छलेन कुशेन तस्यैकं नेत्रं वामनेन
विदारितमिति तस्य तत्कालादेकनेत्रतेति पौराणिकी
कथाऽत्रानुसन्धेया ।

एकैक त्रि० सुबन्तस्य एकस्य वीप्सार्थे द्वित्वम् “एकं बहुब्री-

हिवत्” पा० द्विरुक्त एकशब्दो बहुब्रीहिवत् तेन सुब्-
लोपपुंवत्भावौ । प्रत्येकपदार्थे इह द्वयोरपि सुपोलुकि
कृते सति बहुब्रीहिवद्भावादेव प्रातिपादकत्वात् समुदायात्
पुनः सुप् । स्त्रियां टाप् । एकैका आहुतिः । “न
बहुब्रीहौ” पा० सर्वनामसंज्ञानिषेधः मुख्यबहुव्रीहिपरस्तेन
एकैकस्मै एकैकस्मात् इत्यादौ सर्व्वनामकार्य्यम् । “दश दश
वा एकैकस्मिन् प्राणाः” श० ब्रा० ८, १, १, २ । ततः
कारकार्थे शस् । एकैकशस् कारकरूपप्रत्येके अव्य० । “एकै-
कशश्चरेत् कृच्छ्रं द्विजः पापापनुत्तये” प्रा० त० विश्वा०
“ब्राह्मणस्य क्षयाहस्य यत् प्रमाणं समासतः । एर्ककशोयु-
गानां तु क्रमशस्तान् निबोधत” मनुः । स्वार्थे यत् ।
एकैकश्य तदर्थे न० “एकैकश्येनानुपूर्व्या भूत्वा भूत्वेह र्जा-
यते” भा० ७, १५, ४२ “एकैकश्यं तदा योधा धार्त्तराष्ट्रस्य
भारत । पर्य्यवर्त्तन्त गन्धर्वैर्दशभिर्दशभिः सह” भा० व० ।
२४० । नीलकण्ठेन “एकैकस्येति पठित्वा एकैकमिति
व्याख्यातम्” एकैकशो भावः यत् । एकैकश्य “एकैक-
राशिभवने “एकैकश्येन यथानुपूर्व्यम्” भाग० ५, १, ३५ ।

एकैषिका स्त्री नित्यकर्म्मधा० । (आकनादी) वृक्षे रत्न-

माला । “एकैषिकाजशृङ्गी च प्रलेपे श्लेष्मशोषहृत्” ।
“एकैषिकातैलं सघृतमतिशीत पित्तहरमनिलप्रकोपणं
श्लेष्माभिहरणम्” इति च सुश्रु० । क्वचित् रत्नमालायाम्
एकोषिकेतिपाठं दृष्ट्वा शब्दकल्पद्रुमे तादृशशब्दोलिखितः ।

एकोक्ति स्त्री एका उक्तिः अभिधाशक्तिः । उभयपदार्थवि

षयिण्यामेकस्यां शक्तौ । यथा पुष्पवन्तौ इत्यादौ पुष्पवत्-
पदेन दिवाकरनिशाकरयोरुभयोरेव बोधः न तु अक्षपदा
दिवत् प्रत्येकपदार्थबोध इत्याकरे दृश्यम् । एवं
“जात्याकृतिव्यक्तयः पदार्थः” गौ० सू० जात्यादीनांमेक-
शक्त्यैव बोध इति व्युत्पत्तिवादे गदाधरः ।

एकोत्तर त्रि० एकैकमुत्तरं यत्र वृत्तौ सप्तच्छदवत् संख्याशब्दस्य

वीप्सार्थता । एकैकाधिके । “एकाद्व्येकोत्तरा अङ्का
व्यस्ताभाज्याः क्रमस्थितैः” लोला० । “सर्गादौ तु यथा
काशं वायुं ज्योतिर्जलं महीम् । सृज्यत्येकोत्तरगुणां
स्तथादत्ते भवन्नपि” । “तन्मात्रादीन्यहङ्कारादेकोत्तरगु-
णानि च” इति च याज्ञ० । “यथासंख्यमेकोत्तरपरि-
वृद्धाः शब्दस्पर्शरूपरसगन्धाः” सुश्रु० एकाधिकादयो-
ऽप्यत्र त्रि० ।

एकोदक पुंस्त्री एकं समानमुदकं यस्य । समानोदके

सप्तमपुरुषादूर्द्ध्वं चतुर्द्दशपुरुषपर्य्यन्ते गोत्रजे “समानो-
दकभावस्तुं निवर्त्तेताचतुर्दशात्” स्मृतेस्तत्पर्य्यन्ताना-
मेकोदकत्वम् । “जन्मन्येकोदकानां तु त्रिरात्राच्छुद्धिरि-
ष्यते” मनुः ।

एकोदर पु० एकं समानमुदरं गर्भस्थानं यस्य ।

समानोदरे १ भ्रातरि स्त्रियां टाप् । कर्म्म० । २ समाने उदरे
न० । “एकोदरप्रसूतानाम्” स्मृतिः ।

एकोद्दिष्ट न० एक प्रेतः उद्दिष्टोयत्र । प्रेतोद्देश्यके श्राद्ध-

भेदे तस्य इतिकर्त्तव्यातादिकं श्रा० त० निरूपितं यथा ।
गोभिलः । “अथैकोद्दिष्टमेकं पवित्रमेकोऽर्घ एकः
पिण्डो नावाहनं नाग्नौकरणं नात्र विश्वेदेवाः
स्वदितमिति तृप्तिप्रश्नः सुस्वदितमिति प्रत्युत्तरम् उपतिष्ट
तामित्यक्षय्यस्थाने, अभिरम्यतामिति विसर्गे, अभिर-
तोऽस्मीति प्रतिवचनमेतत् प्रेतश्राद्धमिति” । अथेत्यनेनै-
कोद्दिष्टस्य पार्व्वणानन्तर्य्याभिधानं तयोः प्रकृतिविकृतित्वं
सूचयति । अतएवैकोद्दिष्टे पार्व्वणधर्म्मप्राप्त्यावाहनादि-
प्राप्तौ नावाहनमित्यादिनिषेध उपपद्यते अन्यथा प्रा-
प्त्यभावान्निषेधोऽनुपपन्नः स्यात् । एतत् प्रेतश्राद्धमित्युप-
संहारात् एकं प्रेतमुद्दिश्य यद्दीयते श्राद्ध तदेको-
द्दिष्टमिति वैदिकप्रयोगाधीनयौगिकम् । अतएव प्रतिसां-
वत्सरिकस्य नैकोद्दिष्टत्वं किन्त्वेकोद्दिष्टविधिकत्वम् । अत्रा-
र्व्यैक्याद्द्विदलरूपसङ्केतितपवित्रैक्यप्राप्तौ एकं पवित्र-
मिति पुनरभिधानसार्थकत्वाय तदवयवैकदलपरम् ।
पृष्ठ १५२२
आज्योत्पवनप्रकरणे “बर्हिषः प्रादेशमात्रे पवित्रे
कुरुते” इति गोभिलसूत्रे पवित्रपदस्य दलपरत्व-
वत् । अत्र नावाहनं नाग्नौकरणमिति निषेधयोः
पौर्व्वापर्य्यादग्नौकरणपूर्व्वकालीनं प्रधानसम्बन्धि श्राद्धसूत्रो-
दितं श्राद्धाङ्गावाहनमेव निषिध्यते नत्वप्रधानसम्बन्धि
पितृयज्ञवदित्यतिदेशप्राप्तं पिण्डाङ्गावाहन मिति । एतेन
पिण्डाङ्गावाहननिषेधोमैथिलोक्तो हेयः । अत्राग्नौ-
करणनिषेधेन हुतशेषस्यालाभे “हुतशेषं दत्त्वा पात्रमा-
लभ्य जपति पृथिबीत्यादि स्वाहाइत्यन्तसूत्रोक्तपात्रा-
लम्भनस्यापि बाधः आनन्तर्य्याभावात् अमृतमिति मन्त्र-
लिङ्गविरोधाच्च । स्वदितमिति तृप्तिप्रश्न इति तृप्ताःस्थ
इति तृप्तिप्रश्ने, स्वदितमित प्रश्नः । कुशमयव्राह्मणपक्षे
तु प्रतिवचनानुपपत्त्या प्रश्नस्यापि निवृत्तिः अक्षय्यशब्द-
स्थाने उपतिष्ठतामिति प्रयोगः अत्रोपतिष्ठतामित्यनेना-
न्नादिकमित्यस्यान्वये अस्त्वित्यस्यान्वयानुपपत्त्या तस्याप्यप्रयो-
गः । अतएव पितृदयितायामन्नादिकमुपतिष्ठतामिति
लिखितम् । ततश्च “प्रेतायाक्षय्यमस्तु च” इति ब्रह्मपुर-
णीयं “ततो वदेत् पुनर्धीमानक्षय्यमुपतिष्ठताम्” इति
मार्कण्डेयपुराणीयञ्च गोभिलविरुद्धत्वात् शाख्यन्तरीयम् ।
अभिरम्यतामिति “वाजेवाजे” इति स्थानेऽभिरम्यतामि-
त्यनेन विसर्जनमिति । एतेन “प्रेतत्याद्धेषु सर्वेषु न स्वधा
नाभिरम्यताम् । स्वस्त्यस्तु विसृजेदेवं सकृत् प्रणववजितम्”
"इत्याश्वलायनगृह्यपरिशिष्टात् एकोद्दिष्टे प्रणववर्जित-
स्वस्त्यस्त्वित्यनेन यद्विसर्जनं तत्प्रेतश्राद्धविषयम्
अभिरम्यतामिति तु सांवत्सरिकविषयमिति कल्पतरुश्रीदत्त-
वाचस्पतिमिश्राद्युक्तं निरस्तम् । वह्वृचानामेव
पार्व्वणेऽभिरम्यतामिति विसर्जनस्य प्राप्तत्वादेकोदिष्टेऽपि
तथात्वात् सर्व्वशाखिसाधारणनिषेधानुपपत्तेश्च ।
एतदिति पूर्व्वोक्तेतिकर्त्तव्यताकश्राद्धमित्यर्थः । प्रेतश्राद्धं
नतु पार्व्वणविकृतित्वेन प्राप्तपितृलोकरूपपितुः श्राद्धम्
अकृतसपिण्डीकरणस्य तथाविधपितृत्वाभावात् । अतएव-
तन्न्यायमूलकमेवाश्वलायनगृह्यपरिशिष्टेऽपि “पितृशब्दं न
युञ्जोत पितृहा चोपजायते” इत्युक्तम् । अतएव विष्णुना
“प्रेतस्य नामगोत्राभ्यां दत्त्वाक्षय्योदकेषु” च इत्यत्र प्रेत-
नामगोत्राभ्याभित्यनेन प्रेतस्येत्युक्त नतु सम्बन्धिन इत्युक्तम्
ततश्च मन्त्रे प्राप्तपितृलोकोपाधिकएव पितृपदस्थाने प्रेत-
पदोहो नतु अग्निष्वात्ताद्युपाधिके । एवमभिलापवाक्ये
सम्बन्धित्वे न नोल्लेस्यः किन्तु प्रेतत्वेन असम्बन्धिनोऽपि
मठब्राह्मणादेरपि प्रेतश्राद्धाधिकारित्वात् । अतएव
शातातपेनापि “प्रेतान्तनामगोत्राभ्यामुत्सृजेदुपतिष्ठताम्”
इत्युक्तम् । अत्र प्रेतस्यान्तः प्रेतान्तो नतु सम्बन्धिवाचक-
स्यान्तः नवा मैथिलोक्तो बहुब्रीहिस्तस्य तत्पुरुषापेक्षया
जघन्यत्वात्, प्रेतपदस्य सम्बन्धिस्थानीयत्वेन तत्पुरुषस्यैव
युक्तत्वाच्च । ततश्च प्रेतान्तनाम च गोत्रञ्च इति द्वन्द्वः
अतएव तर्पणे विष्णुः “ततश्च सर्व्वे शवस्पर्शिनोगत्वा पितृ-
पदस्थाने प्रेतपदोहेन द्वितीयान्तं तर्पयेयुः पितृशब्दोच्चा-
रणे पितृहाभवति” इति । एतेषां वचनानां न्यायमूल-
क्त्वात् सांवत्सरिकश्राद्धे एकोदिष्टविकृतीभूतेऽपि प्राप्त-
पितृलोकोपाधिकपितृपदवन्मन्त्रेऽभिलापे च सम्बन्धि-
बोधकपितृत्वेनैवोल्लेखः । एवञ्च देवताभ्यः पितृभ्यश्चेत्यत्र
न प्रेतपदोहः तत्र पितृपदस्य दिव्यपितृपरत्वात् एवं
नैकवचनोहोपि तथा “मधु द्यौरस्तु नः पिता” इत्यस्य द्यौः
स्वर्गः पिता पितेव सर्व्वस्याधिगम्यत्वात् मध्वस्तु मधुमयी
भवत्विति भाष्यव्याख्याने द्यौरिति पितेतिपदयोः सामाना-
करण्यं प्रतीयते अत्र च द्युत्वपितृत्वयोर्भेदेऽपि धर्मिणोः
सामानाधिकरण्येनाभेदावगमात् दिवः पितृसाधर्म्म्यप्राप्ति-
रिति पितृपदं पितृतुल्यपरं नतु जनकपरंप्राप्तपितृलो-
कपरं वेति तेनात्र मन्त्रे पितेत्येव वक्तव्यं नतु प्रेतपदो
हः नवा “पितृशब्दं न युञ्जीत” इत्यनेन निषेधः । एवम्
आमावेति मन्त्रे पितरेत्यत्र नोहः यदाऽहं श्राद्धं करोमि
तदा मातरपितरावागच्छतामित्यदुव्रजने क्रियमाणे श्रा
द्धफलस्य प्रार्थनीयत्वात् । एवं वृद्धिश्राद्धेऽप्येतेषु नान्दी-
मुखविशेषणं न देयमेवेति अन्यत्र सर्व्वत्रोत्सर्गवाक्ये
मन्त्रे च पितृपदप्रयोगनिषेधात् प्रेतपदोहः कार्य्यः ।
“अत्रैकोदिष्टे गोभिलानुक्तोविशेषोऽभिधीयते । यथाह
विष्णुः “एकवन्मन्त्रानूहेतैकोदिष्टे” इति एकवत्
एकवचनवद्यथा स्यात्तथोहेत “अपूर्व्वोत्प्रेक्षणमूहः” (जै०)
इत्युक्तेन पूर्ब्बाप्राप्तैकवचनान्तत्वकल्पनेन बहुवचनान्तान्म-
न्त्रान् विकृतान् कुर्य्यात् एकस्मिन् पितरि बहुवचनस्यासम-
वेतार्थत्वात् प्रकृतावर्थप्रकाशनाख्यदृष्टप्रयोजनकस्य
मन्त्रस्य विकृतौ बहुवचनस्थाने एकवचनोहः कर्त्तव्य
इति न्यायमूलमिदं वचनम् । यद्वा “पवित्रे स्थो वैष्ण-
व्यावित्यत्र “पुवित्रासि वैष्णवी” इति न चात्र पवित्रमसि
वैष्णवम् इति पितृदयितोक्तं युक्तं “पवित्रे स्थो वैष्णव्या-
विति” मन्त्रस्य हे पवित्रे युवां विष्णुदेवताके स्थः भवथः
स्त्रीलिङ्गत्वं छान्दसमिति सायनाचार्य्यव्याख्याने गुण-
पृष्ठ १५२३
विष्णुनापि तथा व्याख्याने सम्बुद्ध्यन्तताप्रतीतेः । एवं
“विष्णोर्मनसा पूते स्थः” इत्यत्रापि पूतमसीति । “अत्र पितरो
मादयध्वं यथाभागमावृषायध्वम्” इति मन्त्रे अत्र प्रेत!
मादयस्व यथाभागमावृषायस्वेत्युह्यम् । प्रार्थनार्थक-
तृतीयलकारीयमध्यमपुरुषबहुवचनस्थाने तदेकवचनस्यैव
उह्यत्वात् न तु भूतार्थकचतुर्थलकारीयमावृषायथा इत्य-
निरुद्धभट्टोक्तो युक्तः अतएव श्रीदत्तादिभिरपि “मादय-
स्वेत्युक्तम् “अमीमदन्त पितरः” इत्यत्र अमीमदत्प्रेतेति
वृषायिषतेत्यत्र वृषायिष्टेति । एत पितर इत्यादिपि-
ण्डाङ्गावाहनमन्त्रे एहि प्रेतेति सौम्यासैत्यत्र सौम्येति
दत्तास्मभ्यमित्यत्र देह्यस्मभ्यमिति, नियच्छतेत्यत्र निय
च्छेति, नमोवैत्यादिमन्त्रेषु पितर इति स्थानचतुष्टये
प्रेतेत्युह्यम् । एवं वैत्यत्र ते इति । आशीःप्रार्थने च
येभ्य इत्यत्र यस्मै इति तेषामित्यत्र तस्येत्युह्यम् ।
एतद्वः पितरैत्यत्र तु प्रेता इति विकृतावूहो न तु
बहुषचनस्य “एतद्वः पितरो वास इति जल्पन् पृथक्
पृथक्” इति ब्रह्मपुराणेन प्रकृतावेव पार्व्वणे पित्रादिषु
प्रत्येकमेतद्वः पितर इति बहुवचनान्तमन्त्रप्रयोगात्
अत्रानर्थक्येन तद्विकृतावेकोदिष्टेऽप्यसमवेतार्थबहुवचनस्यैव
युक्तत्वात् । ततश्च प्रकृतौ समवेतार्थस्यैव विकृतावूहः ।
सांवत्सरिके त्वेकवचनान्ततयैवोहो न तु पितृपदस्य तत्र
प्राप्तपितृलोकत्वेन तथैव युक्तत्वात्” श्रा० त० रघुनन्दनः ।
एकोद्दिष्टञ्च “द्वादश प्रतिमास्यानि आद्यं षाण्मासिके
तथा” इत्युक्त पञ्चष्टशश्राद्धात्मकम् । अत्र द्वादशपदं त्रयोदशा-
नामप्युपलक्षणम् “संवत्सरे विवृद्धेऽपि प्रतिमासञ्च मासिक
मिति” काल० मा० कौथुमिना वत्सरघटकप्रतिमासे तस्य
विधानात् अत एव “द्वादश मासाः संवत्सरः क्वचित्
त्रयोदश मासाः संवत्सरः” इति श्रुतौ वत्सरस्य त्रयोदश-
मासात्मकत्वमुक्तम् ।
अथैकोद्दिष्टनिमित्तकालोनिरूप्यते स च श्रा० त०
रघुनन्दनेन दार्शतो यथा
याज्ञवल्क्य । “मृताहान तु कर्त्तव्यं प्रतिमासन्तु
वत्सरम् । प्रतिसंवत्सरञ्चैवमाद्यमेकादशेऽहनि” ।
एकादशेऽहनीति स्यस्वाशौचान्तद्वितीयदिनोपलक्षणम् ।
“क्षत्रादिः सूतकान्ते तु भोजयेदयुजो द्विजान्” इति
मत्स्यपुराणैकवाक्यत्वात् । आद्यं षोडशश्राद्धानामादि-
भूतम् । तथा च छन्दोगपरिशिष्टम् । “श्राद्धमग्निमतः
कुर्य्यात् दाहादेकादशेऽहनि । ध्रुवाणि तु प्रकुर्व्वीत
प्रमिताहनि सर्वदा । द्वादश प्रतिमास्यानि आद्यं
षाण्मासिके तथा । सपिण्डीकरणञ्चैव इत्येव श्राद्धषोड़-
शम् । एकाहेन तु षण्मासा यदा स्युरपि वा त्रिभिः ।
न्यूनाः संवत्सरश्चैव स्यातां षाण्मासिके तदा” । अग्नि-
मतःश्रौताग्निमतो दाहादेकादशेऽहनि श्राद्धं कर्त्तव्यं
तस्य दाहावधिदशाहाशौचित्वात् । अन्येषान्तु
मरणावधि तथा च शङ्खः “मरणादेव कर्त्तव्यम्
संयोगो यस्य नाग्निना । दाहादूर्द्ध्वमशौचं स्याद्यस्य
वैतानको विधिः” । वैतानिकः श्रौतो होमः तस्मादग्नि-
पदं श्रौताग्निपरम् । ततश्च केवलस्मार्त्ताग्निमतो
निरग्नेश्च मरणादेवाशौचम् । ध्रुवाणि एतानि षोड़श श्रा-
द्धानि नित्यानि सर्वदा मृतधनालाभेऽपि । प्रमिताहनि
मृततिथौ आद्यश्राद्धषाण्मासिकश्राङ्गद्वयेतरश्राद्धानि
कार्य्याणि आद्यश्राद्धस्यैकादशाहे विधानात् षाण्मा-
सिकयोस्तु कालान्तरविधानात् । अत्राशौचान्तद्वितीयदिव-
सोयाद्यश्राद्धस्यादिभवत्वसमाख्यानुरोधेन तदुत्तरकर्त्तव्यमा-
सिकतिथेर्मृततिथित्वानुपपत्त्या तत्सजातीयत्वमेव प्रती-
यते । तेन प्रथममृततिथिं विहायान्यमृततिथिमादाय
मासिकादिसिद्धिरिति । एवञ्च एकाहेन तु षण्मासा-
न्यूना इत्यनेन मृततिथिपूर्व्वतिथिः प्रतीयते । एवं
त्रिभिरित्यत्रापि तथा संवत्सरस्याप्येकाहादिन्यूने । अत्र
संवत्सरकर्त्तव्यस्यापि षाण्मासिकत्वं द्वितीयषण्मासभव-
त्वान्नानुपपन्नम् । संवत्सराभिधानन्त्वादिमध्याधिमासयुक्त-
प्रथमाब्दस्य । “द्वादश मासाः संवत्सरः क्वचित्त्रयोदश
मासाः संवत्सरः” इति श्रुत्यनुसारेण त्रयोदशमासघटितत्वात्
त्रयोदशमासएव द्वितीयषाण्मासिककरणाय कालः सप्तम-
मासकर्त्तव्यस्यु षाण्मासिकत्वं “षष्ट्या तु दिवसैर्मासः
कथितो वादराथणैः” इत्यनेनाविरुद्धम् । ननु षोड़शश्राद्ध-
गणने द्वादशमासिकत्वमुक्तं कथंमलमासयुताव्दे त्रयोदश-
मासिकत्वमिति चेन्न “संवत्सरस्य मध्ये तु यदि स्यादधि-
मासकः । तदा त्रयोदशश्राद्धं कार्य्यं तदधिकं भवेत्”
इतिसत्यव्रतवचनेन द्वादशमासिकादधिकं त्रयोदशमासिकं
श्राद्धमित्युक्तेः । एतद्वचनं न्यायमूलकम् । “एवं मृताहनि
प्रतिमासं श्राद्धं कुर्य्यादतन्त्रितः” “मृताहनि तु कर्त्तव्यं प्रति-
मासन्तु वत्सरम्” इति वचनद्वयेन पूर्व्वोक्तश्रुतिप्राप्तत्रयीदश-
मासात्मकं संवत्सरं व्याप्य मृततिथेर्मृततिथिं यावच्चान्द्र
इत्युक्ततत्प्रतिमासकर्त्तव्यमासिकानुरोधेन तत्पक्षीयत-
त्तत्तिथिषु श्राद्धमिति बोधयता अर्थापत्त्या वैशाखादि
पृष्ठ १५२४
भूतस्यान्त्यमासिकं तन्मासीयतत्पक्षीयतत्तत्तिथिषु कर्त्तव्य-
मिति बोधनात् मध्येऽधिमासपाते द्वादशे मासि मृतमा-
सीयतिथ्यप्राप्त्या वर्षान्तविहितस्य मासिकस्य सपिण्डनस्य
चाप्राप्तेः । एवमाद्याधिमामेऽपि अतएवाद्याव्देऽधिमास-
पातेऽपि लघुहारीतेन द्वादशमासे यद्द्वादशमासिकमि-
त्युक्तं तदन्त्याधिमासविषयम् तत्र द्वादशमासे मृतमा-
सीयतत्तत्तिथिप्राप्तेः । यथा लघुहारीतः “प्रत्यव्दं द्वादशे
मासि कार्य्या पिण्डक्रिया द्विजैः । क्वचित्त्रयोदशेऽपि स्या-
दाद्यं मुक्त्वा तुवत्सरम् । चक्रवत् परिवर्त्तेत सूर्य्यः
कालवशाद्यतः । अतः सांवत्सरं श्राद्धं कर्त्तव्यं
मासचिह्नितम् । मासचिह्नन्तु कर्त्तव्यं पौषमाघाद्यमेव हि ।
यतस्तत्र विधानेन मासः स परिकीर्त्तितः । असंक्रान्तेऽपि
कत्तव्यमाविदकं प्रथमं द्विजैः । तथैव मासिकं पूर्व्वं सपि
ण्डीकरणन्तथा । गर्भे वार्द्धुषिकृत्ये च मृतानां पिण्डक-
र्म्मसु । सपिण्डीकरणे चैव नाधिमासं विदुर्बुधाः” ।
सपिण्डीकरणादूर्द्ध्वं यत् किञ्चित् श्राद्धिकं भवेत् । इष्टं वाप्यथ
वा पूर्त्तं तन्न कुर्य्यान्मलिम्लुचे” श्रा० त० रघुनन्दनः ।
एकोद्दिष्टञ्च मध्याह्नकालव्यापितिथौ कर्त्तव्यं यथाह
“आमश्राद्धं तु पूवाह्णे एकोद्दिष्टन्तु मध्यतः । पार्वणं
चापराह्णे तु प्रातर्वृद्धिनिमित्तकम्” हारी० । “पूर्वाह्णे
दैविकं श्राद्धमपराह्णं तु पार्वणम् । एकोद्दिष्टं तु मध्याह्ने
प्रातर्वृद्धिनिमित्तकम्” मनुः । “यो यस्य विहितः
कालस्तत्कालव्यापिनी तिथिः । तया कर्म्माणि कुर्वीत ह्रास
वृद्धी न कारणम्” याज्ञ० । मध्याह्नकालश्च त्रिधा विभक्तदिन
तृतीयभागरूप एव । तत्रापि कुतपप्रथमभागस्यैव
तदारम्भकालः “कुतपे प्रथमे भागे एकोद्दिष्टमुपक्रमेत् ।
आवर्त्तनसमीपे वा तत्रैव नियतात्मवान्” काल० व्यासोक्तेः
आवर्त्तनं पश्चिमदिगवस्थितच्छायायां पूर्वदिग्गमनारम्भ-
कालः तत्समोपे कुतपशेषदण्डे । गौतमोऽपि “आरभ्य
कुतपे श्राद्धं कुर्य्यादारोहिणं बुधः । विधिज्ञो विधिमास्थाय
रोहिणन्तु न लङ्घयेत्” अत्र कुतपस्यारम्भकालतयोक्तेः
पर्वेद्युः रोहिणमात्रलामे परदिने कुतपमात्रलाभेऽपि
परेद्युरेव श्राद्धं “योयस्यः विहितःकालः कर्म्मणस्तदुप-
क्रमे । तिथिर्याभिमता सा तु ग्राह्या नोपक्रमोज्झिता”
बौधायनेनोपक्रमयोग्यतिथेरव ग्राह्यतोक्तेः । उभयदिने
नुतपालाभे रोहिणमात्रलाभे तु तत्रैव श्राद्धम् “रोहिणन्तु
क लङ्घयेदित्युक्तेः । उभयदिने तयोरलाभे सप्तममुहूर्त्ते
कार्व्यं तस्यालाभे तयोर्लाभे वा पक्षभेदेन व्यवस्था “शुक्ल-
पक्षेतिथिर्ग्राह्या यस्यामभ्युदितोरबिः । तया कर्म्माणि
कुर्व्वीत ह्रासवृद्धी न कारणम् । कृष्णपक्षे तिथिर्ग्राह्या
यस्यामस्तमितोरविः । तया कर्माणीत्यादि स्कन्दपु० उक्तेः ।
“द्वितीयादिकयुग्मानां पूज्यता नियमादिषु । एकोद्दिष्टादि-
वृद्ध्यादौ ह्रासवृद्ध्यादिदेशना” व्यासोक्तेश्च । तत्र स्कान्दवाक्ये
ह्रासवृद्धिशब्दः तिथिविषयः व्यासवाक्ये चन्द्रह्रासवृद्धिपरस्तेन
कृष्णशुक्लपक्षभेदेन व्यवस्थेति स्थितम् । तदेतत् कालमा०
निर्ण्णीतम् यथा । “नन्वत्र क्षयवृद्ध्युपजीवनेन निर्णयः
क्रियते । सचानुपपन्नः । व्यासवाक्ये ह्रासवृद्धिनोद-
नायाः पित्र्याविषयत्वाभिधानात् । “एकोद्दिष्टादिवृ-
द्ध्यादौ ह्रासवृद्ध्यादिनोदनेति” हि पूर्वमुदाहृतम् ।
“दानव्रते चैतदेवेति” च अतः कथमनयोर्वृद्धिक्षयाभ्यां
निर्णयः । किंचोदाहृतयाज्ञवल्क्यस्कन्दपुराणगार्ग्यव-
चनेषु “ह्रासवृद्धी न कारणमित्युक्तं तत्कथमत्र
ह्रासवृयोर्निर्णयकारणत्वम् । अत्रोच्यते । सन्ति
ह्यन्यानि ह्रासवृद्धिवाक्यानि । तत्रोशनाः, “खर्वो-
दर्पस्तथा हिंस्रस्त्रिविधं तिथिलक्षणम् । खर्वदर्पौ
परौ कार्य्यौ हिंसा स्यात् पूर्वकालिकी” । पिता-
महोऽपि “खर्वोदर्पस्तथा हिंस्रस्त्रिविधं तिथिलक्षणम् ।
खर्वदर्पौ परौ पूज्यौ हिंस्रं पूर्वत्र पूजयेदिति” भविष्यो-
त्तरे “खर्वोदर्पस्तथा हिंसा त्रिविधं तिथिलक्षणम् । खर्व-
दर्पौ परौ कार्य्यौ हिंसा स्यात् पूर्वकालिकीति” । खर्वः
साम्यमल्पक्षयो वा । दर्पो वृद्धिः । हिंसाधिकक्षयः । एतैः
खर्वादिवाक्यैः सह यस्मिन्विषये युम्मादिवाक्यस्य विरोधः
प्राप्नोति तत्र दैवपित्र्यभेदेन व्यवस्थापकं व्यासवाक्यम्
ननु प्रकृतयोः क्षयवृद्ध्योः पित्र्यविषयत्वप्रतिपादकयाज्ञ-
वल्क्यादिवचनेष्वपि कर्म्मकालव्याप्तिशास्त्रस्य खर्वदर्पादि
शास्त्रस्य च विरोधेप्राप्ते सति कर्मकालव्याप्तिशास्त्रस्य प्रा-
बल्यमुच्यते न तु प्रकृतयोः क्षयवृद्ध्योः निर्णयहेतुत्वं
प्रतिषिध्यते । न तु व्यासः खर्व्वादिवाक्यानि पित्र्य-
विषयत्वेन संकोचयामास, याज्ञवल्क्यादयस्त पित्र्येऽपि
कर्मकालव्याप्त्या खर्व्वादिवाक्यान्यबाधन्त, हन्तैवं निर्बि-
षयत्वमेषां प्रसज्येतेति चेत् मैवं यदा पूर्ब्बोत्तरदिनयो-
पित्र्यविषयकर्म्मकालव्याप्तिः समाना यदा वा दिनद्वयेऽपि
कर्म्मकालव्याप्त्यभावः तत्रोभयत्र खर्व्वादिवाक्यैर्निणे
तुमशक्यत्वात्” । तत्रैवास्य विषयलाभ इति भावः ।
“एकोद्दिष्टे तु संप्राप्ते यदि विघ्नं प्रजायते
मासेऽन्यस्मिन् तिथौ तस्मिन् तदा दद्यात् विचक्षणः
पृष्ठ १५२५
देवलः” । एकोद्दिष्टविविकत्वात् सांवत्सरिकं श्राद्धमपि
एकोद्दिष्टशब्देन शास्त्रे व्यवह्रियते । “एकेदिष्टं सुता दश”
“एकोद्दिष्टं न पार्वणम्” इति च स्मृत्यीः सांवत्सरि-
केऽपि तथा प्रयोगात् ।
एकोद्दिष्टाधिकारिणस्तु निर्ण० सि० दर्शिताः यथा
“चन्द्रिकायां सुमन्तुः “मातुः पितुः । प्रकुर्वीत संस्थित-
स्यौरसः सुतः । पैतृमेधिकसंस्कारं मन्त्रपूर्व्वकमादृतः” ।
तत्रैव हेमाद्रौ शङ्खः “पितुः पुत्रेण कर्त्तव्या पिण्डदा
नोदकक्रिया । पुत्राभावे तु पत्नी स्यात्तदभावे तु सोदरः ।
अत्र पुत्रपदं यद्यपि क्षेत्रजादिद्वादशविघपुत्रपरम् । ते च
द्वादशपुत्रा याज्ञवल्क्येनोक्ताः “औरसो धर्म्मपत्नीजस्त-
त्समः पुत्रिकासुतः । क्षेत्रजः क्षेत्रजातस्तु सगोत्रेणेत-
रेणवा । गृहे प्रच्छन्न उत्पन्नो गूढजस्तु सुतः स्मृतः ।
कानीनः कन्यकाजातो मातामहसुतःस्मृतः । अक्ष-
तायां क्षतायां वा जातः पौनर्भवः स्मृतः । दद्यान्माता
पिता वा यं स पुत्रोदत्तकोभवेत् । क्रीतश्च ताभ्यां
विक्रीतः कृत्रिमः स्यात् स्वयंकृतः । दत्तात्मा तु स्वयंदत्तो
गर्भे विन्नः सहोढ़जः । उत्सृष्टो गृह्यते यस्तु सोऽपविद्धोभ-
वेत्सुतः । पिण्डदोऽंशहरश्चैषां पूर्ब्बाभावे परःपरः” ।
इति तथापि “दत्तौरसेतरेषां तु पुत्रत्वेन परिग्रहः” इति
हेमाद्रावादित्यपुराणे कलावितरेषां पुत्रत्वनिषेधादौ-
रसदत्तपरमेव । यद्यपि “पिण्डदोऽंशहरश्चैषां पूर्ब्बाभावे
परःपरः” इति याज्ञवल्क्योक्तेरौरसाभावे दत्तकप्राप्ति-
स्तथाप्यौरसाभावे पौत्रः प्रपौत्रस्तदभावे दत्तकादश इति
ज्ञेयम् । “पुत्रेण लोकान् जयति पौत्रेणानन्त्यम-
श्नुते” इति “अथ पुत्रेण पौत्रेण ब्रध्नस्याप्नोति विष्टप-
मिति” जीमूतवाहनधृतहारीतवसिष्ठशङ्खलिखितोक्तेः
“लोकानन्त्यन्दिवःप्राप्तिः पुत्रपौत्रप्रपौत्रकैरिति” याज्ञ-
वल्क्योक्तेश्च । “पुत्रः पौत्रश्च तत्पुत्रः पुत्रिकापुत्र एव
च । पत्नी भ्राता च तज जश्च पिता माता स्रुषा तथा ।
भगिनी भागिनेयश्च सपिण्डःसोदकस्तथा । असन्निधाने
पूर्ब्बेष मुत्तरे पिण्डदाः स्मृताः” इति स्मृतिसंग्रहे
प्रबौत्रानन्तरं पुत्रिकापुत्रीक्तेस्तत्समत्वाच्च दत्तकस्य । यद्यपि
वृहस्पतिना “पौत्रश्च पुत्रिकापुत्रः स्वर्गप्राप्तिकरावुभौ ।
रिक्थे च पिण्डदाने च समौ तौ परिकीर्त्तिताविति”
पौत्रसाम्यमुक्तम् । याज्ञवल्क्येन च “औरसोधर्मपत्नीज-
स्तत्समः पुत्रिकासुतः” इत्यौरससाम्यमुक्तम् “तथापि लोके
राजसमोमन्त्रीत्यादौ किञ्चिन्न्यूने समशब्दप्रयोगाद्गौण
मुख्ययोः साम्यायोगाच्च स्तुत्यर्थन्तत् न तु समविकल्प
इति भ्रमितव्यम् । “पुत्रः पौत्रः प्रपौत्रो वा भ्राता वा
भ्रातृसन्ततिः । सपिण्डः सन्ततिर्वापि क्रियार्हा नृप ।
जायते । एषामभावे सर्वेषां समानोदकसन्ततिः । मातृ-
पक्षः सपिण्डेन सम्बद्धो यो जलेन वा । कुलद्वयेऽपि
चोच्छिन्ने स्त्रीभिः कार्य्या क्रिया नृप! । तत्सङ्घान्तर्गतै-
र्वापितद्रिक्थात्कारयेन्नृपः” इति विष्णुपुराणाच्च प्रपौत्रान-
न्तरन्दत्तकादयः इति पृथ्वीचन्द्रमदनरत्नकालादर्शा-
दयः । मदनपारिजातेऽप्येवम् । वोपदेवरुद्धधरादयस्तु
“पुत्रेषु विद्यमानेषु नान्योवै कारयेत्स्वधाम्” इति
सुमन्तूक्तेः “पितामहः पितुः पश्चात्पञ्चत्वं यदि गच्छति ।
पौत्रेणैकादशाहादि कर्त्तव्यं श्राद्धषोडशम् । नैतत्-
पौत्रेण कर्त्तव्यं पुत्रवांश्चेत्पितामहः” इति छन्दोगपरि-
शिष्टे च पुत्रशब्दस्य द्वादशविधसुतपरत्वात् पूर्ब्बाभावे
परःपर इत्यस्यानन्यपरत्वाच्च दत्तकाद्यभावे पौत्रादी-
नामधिकार इत्याहुः । अतएव निषेधादुपनीतपौत्र-
सत्त्वेऽप्यनुपनीतपुत्रस्यैवाधिकारः । औरसश्चाप्यनुपनीतो-
ऽपि कुर्य्यादित्याह पृथ्वीच० सुमन्तुः । “श्राद्धं कुर्य्यादवश्य
तु प्रमीतपितृकोद्विजः । व्रतस्थो वाऽव्रतस्थो वा एकएव
भवेद्यदि” वृद्धमनुः । “कुर्य्यादनुपनीतोपि श्राद्धमेको हि
यः सुतः । पितृयज्ञाहुतिं पाणौ जुहुबाद्ब्राह्म-
णस्य सः” मनुः “नह्यस्मिन् युज्यते कर्म्माकञ्चिदामौ-
ञ्जिबन्धनात्” । सुमन्तुरपि नाभिव्याहारयेद्ब्रह्म
यावन्मौञ्जी निबध्यते । मन्त्राननुपनीतोऽपि पठेदेवैक औरसः” ।
ब्रह्म वेदम् मन्त्रपाठस्त्रिवर्षकृतचूडस्यैव । “अनुपेतोऽपि
कुर्वीत मन्त्रवत्पैतृमेधिकम् । यद्यसौ कृतचूड़ःस्याद्यदि
स्याच्च त्रिवत्सरः” इति सुमन्तूक्तेः । यत्तुव्याघ्रः
“कृतचूड़स्तु कुर्वीत उदकं पिण्डमेव च । स्वधाकारं
प्रयुञ्जीत वेदोच्चारं न कारयेदिति” यच्च स्मृतिसंग्रहे
“कृतचूड़ोऽनुपेतश्च पित्रोः श्राद्धं समाचरेत् । उदाहरे-
त्स्वधाकारं न तु वेदाक्षराण्यसाविति” । तत्प्रथमवर्ष-
चूड़ाविषयमिति माधवमदनरत्नपृथ्वीचन्द्राः । त्रिवर्षोर्द्ध्वं
मन्त्रवत्त्वस्य विकल्प इति चन्द्रिका वोपदेवश्च ।
मदनरत्नेस्कान्दे । “यज्ञेषु मन्त्रवत्कर्म पत्नी कुर्य्याद्यथा नृप! ।
तथौद्ध्वदैहिकं कर्म कुर्य्यात् सा धर्मसंस्कृता” । अशक्तौ तु
कात्यायनः । “असंस्कृतेन पत्न्या च अग्निदानं समन्त्रकम् ।
कर्त्तव्यमितरत्सर्बं कारयेदन्यमेव हि” । पुत्रश्च न जन्मतो-
ऽधिकारी किन्तु वर्षोत्तरमिति कालादर्शः “चौलादाद्याविद-
पृष्ठ १५२६
कादर्वाक् न कुर्य्यात्पैतृमेधिकम्” इत्युक्तेः । मदनरत्ने
सुमन्तुरपि “पुत्रश्चोत्पत्तिमात्रेण संस्कुर्य्यादृणमोचनात् ।
पितरं नाविदकाच्चौलात्पितृमेधेन कर्मणा” । एतच्चौरसस्यैव
दत्तकादीनां तूपनीतानामेवाधिकारः इति कालादर्शः ।
पृथ्वीच० स्कान्दे “पित्रोरनुपनीतोऽपि विदध्या
दौरसः सुतः । और्द्ध्वदेहिकमन्येनु संस्कृताः श्राद्धकारिणः”
इति । अन्यत्रापि दर्शमहालयादावनुपनीतस्याधि-
कारोऽस्माभिः पूर्बमुक्तः । प्रपौत्राभावे दत्तकादयो द्वा-
दश पुत्राः । तदभावे भर्त्तुः पत्नी तस्याश्च सः “अपुत्रा
शयनं भर्त्तुः पालयन्तो व्रते स्विता । पत्न्येव दद्यात्
तत्पिण्डं कृत्स्नमंशं लभेत चेति” वृद्धमनूक्तेः । “भार्य्या-
पिण्डं पतिर्दद्याद्भर्त्तुर्भार्य्या तथैव च । श्वश्र्वादेश्च स्नुवा
चैव तदभावे सपिण्डकाः” इति । पुत्राभावे तु पत्नी स्या-
त्पत्न्यभावे सहोदरः” इति च हेमाद्रौ शङ्खोक्तेः ।
देवयाज्ञिकस्तु “कानीनगूढ़सहजपुनर्भूतनयाश्च ये । पत्न्य-
भावेऽपि कुर्य्युस्ते अप्रशस्ताः स्मृताः हि ते” इति
स्मृतिसंग्रहात् पत्न्यभावे कानीनादय इत्याह ।
पत्युरपि सपत्नी पुत्रे सति नाधिकारः । “पितृपत्न्यः
सर्वामातरः” इति सुमन्तूक्तेः । “विदध्यादौरसः पुत्रो
जनन्या और्द्ध्वदेहिकम् । तदभावे सपत्नीजः क्षेत्रजाद्या-
स्तथा सुताः । तेषामभावे नृपतिस्तदभावे सपिण्डकाः”
इति मदनरत्ने कात्यायनोक्तेः “बह्वीनामेकपत्नी-
नामेष एव विधिः स्मृतः । एका चेत्पुत्रिणी तासां
सर्वासां पिण्डदस्तु सः” इति वृहस्पतिवचनाच्च ।
अपरार्कोऽप्येवम् । तेन यच्छ्राद्धविवेके उक्तम् “सत्यपि
सपत्नीपुत्रे पत्युरेवाधिकार इति तन्निरस्तम् । यच्च तत्रैव
कात्यायनः “न भार्य्यायाः पतिर्दद्यादपुत्राया अपि
क्वचित्” । यच्च विष्णुपु० “कुलद्वयेऽपि चोच्छिन्ने स्त्रीभिः
कार्य्या क्रिया नृपेति” । यच्च मार्क० पु० “सर्वाभावे
स्त्रियः कुर्य्युः स्वभर्त्तृणाममन्त्रकमिति” । तदासुरादिवि-
वाहोढ़ाविषयम् “धर्म्म्यैर्विवाहैरूढ़ा या मा पत्नी
परिकीर्त्तिता । क्रयक्रीता तुया नारी न सा पत्न्यभिधी-
यते । न सा दैवे न सा पित्र्ये दासीं तां मुनयो विदु-
रिति” माधवोये शातातपोक्तेः । यत्तु शुद्धिरत्नाकरः
शूलपाणिश्च “अपुत्रस्य च या पुत्री सैव पिण्डप्रदा-
भवेत् । तस्य पिण्डान् दशैकं वा एकाहेनैव निःक्षि-
पेत्, इति जावालोक्तेः “भर्त्तुर्धनहरा पत्नी तां
विना दुहिता स्मृता । अङादङ्गात् सम्भवति पुत्रवद्दुहि-
ता नृणामिति” वृहस्पतिना दुहितुर्द्धनहारित्वोक्तेश्च
पुत्राभावे कन्या तदभावे पत्नी इत्याहतुः । तत् पूर्ब-
विरोधात् “मातुर्दुहितरः शेषमृणात्ताभ्यऋतेऽन्वयः”
इति दुहितुर्मातृधनहारित्वेन पुत्रस्य तच्छाद्धानधिकारा-
पत्तेश्चोपेक्ष्यम् । वचनं भ्रातृपुत्राद्यभावविषयम् । पत्न्य-
भावे अविभक्तस्य सोदरः पूर्बोक्तशङ्खवचनात् ।
विभक्तस्य तु दुहिता धनहारित्वात् पूर्बोक्तजाबाल
वचनाच्च । तत्राप्युढ़ानूढ़ासमवायेऽप्यूढैव “दुहिता
पुत्रवत् कुर्य्यान्मातापित्रोस्तु संस्कृता । अशौचमुदकं
पिण्डमेकोद्दिष्टं सदा तयोरिति” भरद्वाजोक्तेः ।
तदभावे दौहित्रः धनहारित्वात् । “मातापित्रोरु-
पाध्यायाचार्य्ययोरौर्द्ध्वदेहिकम् । कुर्वन्मातामहस्यापि व्रती
न भ्रश्यते व्रतादिति” चन्द्रिकायां वृद्धमनूक्तेः “यथा
व्रतस्थोऽपि सुतः पितुः कुर्य्यात्क्रियां नृप! ।
उदकाद्यां महाबाहो! दौहित्रो दुहितार्हतीति”
अपरार्के भविष्योक्तेश्च । एतद्धनहारिण आवश्यकं नान्यस्ये-
त्याह तत्रैव स्कन्दः “श्राद्धं मातामहानां तु अवश्यं
धनहारिणा । दौहित्रेणार्थनिष्कृत्यै कर्त्तव्यं पूर्व-
मुत्तरमिति” । तेन दौहित्रोऽत्र पुत्रीकृत इति
देवयाज्ञिकोक्तिः परास्ता । अत्र पत्नीदौहित्रसमवाये
ऽशंहरत्वात्पत्न्येव कुर्य्यात् । दौहित्रभ्रातृपुत्रसत्त्वे
विभक्तस्य दौहित्रः । अविभागे भ्रातृपुत्रः । भ्रातृत-
त्पुत्रसत्त्वे कनिष्ठश्चेद्भ्रातैव । ज्येष्ठश्चेत्तत्पुत्रः कुर्य्या-
दिति दाक्षिणात्यग्रन्थः । हारलतादौ तु “भ्रातु-
र्भ्राता स्वयं चक्रे तद्भार्य्या चेन्न विद्यते । तस्य भ्रातृ-
सुतश्चक्रे यस्य नास्ति सहोदरः” इति ब्राह्मोक्तेः “पत्नी
कुर्य्यात् सुताभावे पत्न्यभावे सहोदरः” इति कौर्माच्च ।
ज्येष्ठभ्रातैव कुर्य्यान्न तत्पुत्रः । यत्तु “नानुजस्य तथा
ग्रजः” इति, तत्कनिष्ठभ्रातृसत्त्वविषयम् । यच्च मनुः “स
र्वेषामेकजातानामेकश्चेत्पुत्रवान् भवेत् । सर्वास्तांस्तेन
पुत्रेण पुत्रिणो मनुरब्रवीत्” इति तत् सोदराभाववि
षयमित्युक्तम् । एतेन पुत्रत्वातिदे शोऽयम् अतस्तस्मिन
सत्येकादश पुत्राः प्रतिनिधयो न कार्य्याः । स एव
पिण्डदोंऽशहरश्च” इत्यत्रापीति वाचस्पतिमनुटीकाकृत्य
रत्नाकरादयः परास्ताः । मदनरत्ने स्मृतिसंग्रहे “पुत्रः
कुर्यात्पितुः श्राद्धं पत्नी च तदसन्निधौ । धनहार्य्यपि
दौहित्रस्ततोभ्राता च तत्सुतः । भ्रात्रोः सहोदरो-
भ्राता । कुर्य्याद्दाहादि तत्सुतः । ततस्त्वसोदरभ्राता तद-
पृष्ठ १५२७
भावे च तत्सुतः” इति । भ्रातृपुत्राभावे क्रमेण पितृ-
मातृस्नुषास्वसृतत्पुत्रादयः धनहारित्वात् । “भगिनी-
तत्सुतयोर्विशेषमाह मदनरत्ने कात्यायनः “अनुजो
ह्यग्रजो वापि भ्रातुः कुर्वीत संस्क्रियाम् । ततस्त्वसोद-
रस्तद्वत्क्रमेण तर्पयेत्तयोः” अपरार्के कार्ष्णाजिनिः ।
“पुत्रः शिष्योऽपि वा पत्नी पिता भ्राता स्नुषा गुरुः ।
स्त्रीहारी धनहारीयः कुर्य्यात्पिण्डोदकक्रियाम्” । मार्क-
ण्डेयपुराणे “पुत्रोभ्राता च तत्पुत्रः पत्नी माता तथा
पिता । वित्ताभावे तु शिष्यश्च कुर्वीरन्नौर्ध्वदेहिकम्” ।
तेन धनहारी एतद्भिन्न इति कालादर्शः । अत्र पाठक्रमो
न विवक्षितः पूर्ब्बवाक्येषु अथ ततःशब्दादिभिः श्रौत
क्रमोक्तेः “अथ जिह्वाया अथ वक्षसः” इति वत् ।
कृथ्वीयन्द्रोदये वृद्धमनुः । “स्नुषास्वस्रीयतत्पुत्रज्ञाति
सम्बन्धिबान्धवाः । पुत्राभावे तु कुर्वीरन् सपिण्डान्त यर्था
विधि” । मार्कण्डेयपुराणे “पुत्राद्युच्छिन्नबन्धोश्च
सखापि श्वशुरस्य च । जामाता स्नेहवत् कुर्य्यादखिलं
पैतृमेधिकम्” । चन्द्रिकायां वृद्धशातातपः “मातुलो-
भागिनेयस्य स्वस्रीयो मातुलस्य च । श्वशुरस्य गुरोश्चैव
सख्युर्मातामहस्य च । एतेषाञ्चैव भार्य्याणां श्वशुर्मातुः
पितुस्तथा । श्राद्धमेषां तु कर्त्तव्यमिति वेदविदो-
बिदुः” । शुद्धिविवेके ब्राह्मे “दत्तानां वाप्यदत्तानां कन्यानां
कुरुते पिता । चतुर्थेऽहनि तास्तेषां कुर्वीरन् सुसमाहि-
ताः” । दत्ता वाग्दत्ताः । “मातामहानां दौहित्राः
कुर्व्यन्त्यहनि चापरे । तेऽपि तेषां प्रकुर्वन्ति द्वितीयेऽहनि
सर्वदा । जामातुः श्वशुराश्चक्रुस्तेषान्तेऽपि च संयताः ।
मित्राणां तदपत्यानां श्रोत्रियाणां गुरोस्तथा । भागिनेय-
सुतानां च सर्वेषान्त्वपरेऽहनि । राज्ञोऽसति सपिण्डे तु
निरपत्ये पुरोहितः । मन्त्री वा तदशौचान्ते पुरा चीर्त्वा-
करोति सः” । अत्र द्वितीयाहादौ श्राद्धविधानमस्थिस-
ञ्चयनपरम् । कालादर्शे “दाहादि मन्त्रवत्पित्रोर्विदध्या-
दौरसः सुतः । तदभावे तु पौत्रश्च प्रपौत्रः पुत्रिका-
सुतः । दौहित्रोधनहारी च भ्राता तत्पुत्र एव च ।
पिता माता स्नुषा चैव स्वसा तत्पुत्र एव च । सपिण्डः
सोदकोमातुः सपिण्डश्च सहोदकः । स्त्री च शिष्यर्त्वि-
गाचार्य्या जामाता च सखाऽपि च । उच्छिन्नबन्धोरि-
क्थेन कारयेदवनीपतिः” । गौतमः “पुत्राभावे
सपिण्डाः शिष्याश्च दद्युस्तदभावे ऋत्विगाचार्य्यौ” । यत्तु चन्द्रि-
काया वृद्धशातातपः “प्रीत्या श्राद्धं प्रकर्त्तव्यं सर्वेषां व-
र्णिलिङ्गिनामिति” तत्सवर्णविषयम् । “ब्राह्मणस्त्वन्यवर्ण्णा-
नां न कुर्य्यात्कर्म्म किञ्चन । कामाल्लोभाद्भयान्मोहात्
कृत्वा तज्जातिनां व्रजेत्” इति ब्राह्मोक्तेः “न ब्राह्म-
णेन कर्त्तव्यं शूद्रस्याप्यौर्ध्वदेहिकम् । शूद्रेण वा
ब्राह्मणस्य विना पारसवात् क्वचित्” इति पारस्करो-
क्तेश्च । पारसवः ऊढशूद्धापुत्नः । अत्रेदन्तत्त्वं सर्व्व-
पुत्रादेः पूर्ब्बस्याभावे पत्न्यादेरधिकार उक्तः । तत्रा-
भावोऽसन्निधिः नाशश्चोच्यते । अतएव पूर्व्वत्र
“असन्निधाने पूर्ब्बेषाम्” इत्युक्तम् । तत्रासन्निधौ पत्न्यादेः
सर्वत्राधिकारे प्राप्ते “प्रोषितावसिते पुत्रः कालादति-
चिरादपि । एकादशाद्याः क्रमशोज्येष्ठस्यविधिवत्क्रियाः”
“ज्येष्ठ नैव च यत्कृतम्” इत्याद्यैर्देशान्तरेऽपवादात्पुत्रनाश
एव पत्र्यादेः सपिण्डनादावधिकारः । असन्निधौ तु पूर्व-
मेव नोर्द्ध्वम् । अतोऽनधिकारिणा भ्रात्रादिना कृतमप्यकृत-
मेवेति पुनरावर्त्तनीयम् । मासिकापकर्षोऽप्यावर्त्तनीयः ।
एकादशाहमासिकानि नावर्त्त्यन्ते “तज्ज्यायसापि कर्त्त-
व्यं सपिण्डीकरणं पुनरिति” वदावृत्तिविधानाभावा-
दिति केचित् । तन्न अस्य निर्मूलत्वात् । अतस्तदपि
कनिष्ठकृतमावर्त्त्यते वृद्धिश्रौतपिण्डपितृयज्ञार्थं तु कृतं
नावर्त्त्यते । नासपिण्डेऽग्निमान् पुत्रः पितृयज्ञं
समाचरेत् । न पार्वणं नाभ्युदयिकं कुर्वन्न लभते
फलमिति” वृद्ध्युत्तरनिषेधनादिति “भ्राता वा भ्रातृपुत्रो वा”
इत्यादिहारीतादिवचोभ्यः कनिष्ठादेरप्यधिकारात् तथा
चात्र ज्येष्ठकर्तृकत्वबाधः । सपिण्डने तु बहु वक्तव्यं तन्नि-
र्ण्णये वक्ष्यामः । अधिकारिविशेषेण क्रियाव्यवस्थोक्ता विष्णु-
पुराणे (पूर्ब्बादिक्रियाः शुद्धितत्त्वे दर्शयिष्यमाणाः) ।
“प्रेते पितृत्वमापन्ने सपिण्डीकरणादनु । क्रियन्ते याः
क्रया पुत्रै प्रोच्यन्तेतानृपोत्तराः । पितृमातृस-
पिण्डैश्च समानसलिलैस्तथा । तत्सङ्घान्तर्गतैश्चैव राज्ञा
वा धनहारिणा । पूर्व्वा मध्याश्च कर्त्तव्याः पुत्रा-
द्यैरेवचोत्तराः । दौहित्रैर्वा नरश्रेष्ठ! कार्य्यास्तत्त-
नयैस्तथा । मृताहनि तु कर्त्तव्या स्त्रीणामप्युत्तराः
कियाः” । दौहित्रतत्पुत्रयोर्द्धनहारिणोरिदम् ।
एवमन्यत्व धनहर्त्तुः । “यश्चार्थहरः स पिण्डदायी स्यात्”
शङ्खोक्तेः । “प्रेतस्य प्रेतकार्य्याणि अकृत्वा धनहारकः ।
वर्ण्णानां यद्बधे प्रोक्तं तद्व्रतं प्रयतश्चरेदिति “पृथ्वीचन्द्रोदये-
व्याघपादोक्तेः । मदनरत्ने स्कान्देऽपि “मलमेतन्म-
नुष्याणां द्रविणं यत्प्रकीर्त्तित” मित्युक्त्वा “ऋषिभिस्तस्य
पृष्ठ १५२८
निर्दिष्टा निष्कृतिः पावनी परा । आदेहपतनात्तस्य
कुर्यात्पिण्डोदकक्रियाम्” इत्युक्तम् । क्रियानिबन्धे कात्या-
यनः “न च माता न च पिता कुर्य्यात्पुत्रस्य
पैतृकम् । नाग्रजश्च तथा भ्राता भ्रातॄणां तु कनीयसाम्” ।
पृथ्वीचन्द्रोदये बौधायनः । “पित्रा श्राद्धं न कर्त्तव्यं पुत्राणां
तु कथञ्चन । भ्रात्रा चैव न कर्त्तव्यं भ्रातॄणाञ्च कनीय-
साम् । यदि स्नेहेन कुर्वीत सपिण्डीकरणं विना ।
गयायां तु विशेषेण ज्यायानपि समाचरेत्” । अन्याभावे
पित्रादिरपि कुर्य्यात् । “उच्छिन्नबान्धतं प्रेतं पिता भ्राताथ
वाऽग्रजः । जननी वापि संस्कुर्य्यान्महदेनोऽन्यथा
भवेदिति” सुमन्तूक्तेः । ब्रह्मचारिणां तु शुद्धिद्धिविवेके
ब्राह्मे “असमाप्तव्रतस्यापि कर्त्तव्यं ब्रह्मचारिणः । श्राद्धं तु
मातापितृमिर्न तु तेषां करोति सः” । श्राद्धं मासिका-
व्दिकादि सर्वं कार्य्यमित्यर्थः । नत्विति निषेधोऽन्यसत्त्वे ।
यत्तुच्छन्दोगपरिशिष्टे “न त्यजेत्सूतके कर्म्म ब्रह्मचारी
स्वयं क्वचित् । न दीक्षणात्परं यज्ञे न कृच्छ्रादितपश्चरन् ।
पितर्य्यपि मृते नैषां दोषोभवति कर्हिचित् । अशौच कर्म्मणां
न स्यात् त्र्यहं वा ब्रह्मचारिणाम्” । यच्च याज्ञवल्क्यः
“न ब्रह्मचारिणः कुर्य्युरुदकम्पतितास्तथेति” । तदप्यन्यसत्त्वे ।
अन्यागावे तु ब्रह्मचारिणापि कार्य्यम् पूर्व्वोक्तवृद्धमनु
घचनात् । “आचार्य्यपित्रुपाध्यायान् निर्हृत्याऽपि व्रती-
व्रती । स तदन्नं च नाश्नीयान्नच तैः सह संवसेदिति”
तेनैबोक्तेः । “ब्रह्मचारिणः शवकर्मिणोव्रतान्निवृत्तिः
अन्यत्र मातापित्रोरिति” वसिष्ठोक्तेः । अत्राशौचमेकाहं
वक्ष्यामः । प्रागुपनयनात्तु पञ्चवर्षोत्तरं सपिण्डी-
करणवर्ज्जं षोडशश्राद्धादि सर्व्वं कार्य्यमित्युक्तं
देवजानीये “असंस्कृतानां भूमौ पिण्डं दद्यात्संस्कृतानां
कुशेष्विति” प्रचेतोवचनात् । एतच्चाग्रे वक्ष्यामः ।
अविभक्तानां विशेषमाह पृथ्वीचन्द्रोदये मरीचिः । “बहवः
स्युर्यदा पुत्राः पितुरेकत्रवासिनः । सर्वेषां तु मतङ्कृत्वा
ज्येष्ठेनैव तु यत्कृतम् । द्रव्येण चाविभक्तेन सर्वैरेव
कृतम्भवेत्” । ज्येष्ठस्य कर्त्तव्येऽपि सर्वे फलभागिन इत्यर्थः ।
तेन ये ब्रह्मचर्य्यपरान्नवर्ज्जनादयः कथिताः संस्कारास्ते
सर्बेषां भवन्तोति सिद्धम् संसृष्टिनामप्येवम् तुल्यत्वात् ।
विभक्तानां विशेषमाहोशनाः । “नवश्राद्धं सपिण्डत्वं
ब्राद्धान्यपि च षोडश । एकेनैव तु कार्याणि संविभक्त
धनेष्वपि” । लघुहारीतः “सपिण्डीकरणान्तानि यानि
श्राड़ानि षोडश । पृथङ्नैव सुताः कुर्युः पृथग्द्रव्या
अपि क्वचित् । ऊर्द्ध्वं सपिण्डीकरणात् सर्वे कुर्युः
पृथक्पृथक्” । मदनरत्ने “विभक्तास्त पृथक्कुर्युः प्रतिसंव-
त्सराव्दिकम् । एकेनैवाविभक्तेषु कृते सर्वैस्तु तत्कृतम्”
एतेनाब्दिकादिष्वविभक्तानामनियम इति वदन्
शूलपाणिः परास्तः” । अयमधिकारिक्रमोदाक्षिणात्यप्रचलितः ।
गौड़देशवासिभिस्तु रघुनन्दनमतानुसारिणी व्यवस्था-
द्रियते सा च व्यवस्था शुद्धितत्त्वे तेन दर्शिता यथा
व्याघ्रः “कृतचूड़स्तु कुर्वीत उदकं पिण्डमेव च” । एतच्च
पुत्रेतरपरम् “असंस्कृतः सुतः श्रेष्ठोनापरोवेदपा-
रगः” इति दायभागधृतात् । अन्यथा सुतत्वेन
विशेषोपादानं व्यर्थं स्यात् । श्राद्धेऽनुपनीतस्य मन्त्र-
पाठाधिकारमाह मनुः । “नाभिव्याहारयेद्व्रह्म स्वधा-
निनयनादृते । शूद्रेण हि समस्तावद्यावद्वेदे न जायते” ।
अभिव्याहारयेत् वदेदिति यावत् स्वार्थेणिच् ।
तत्र प्रथमतोज्येष्ठपुत्रः यथाह मरीचिः “मृते पितरि
पुत्रेण क्रिया कार्य्या विधानतः । बहवः स्युर्यदा पुत्राः
पितुरेकत्र वासिनः । सर्वेषास्तु मतं कृत्वा ज्येष्ठेनैव
तु यत् कृतम् । द्रव्येण चाविभक्तेन सर्वैरेव कृतं भवेत्” ।
तदभावे यथाक्रमं कनिष्ठपुत्रपौत्रप्रपौत्राः । तथाच
विष्णुपुराणम् “पुत्रः पौत्रः प्रपौत्रो वा तद्वद्वा भ्रातृ-
सन्ततिः । सपिण्डसन्ततिर्वापि क्रियार्हा नृप! जायते” ।
एतच्च षोडशश्राद्धपर्य्यन्तम् तथाच छन्दोगपरिशिष्टम्
“पितामहः पितुः पश्चात् प्रेतत्वं यदि गच्छति ।
पौत्रेणैकादशाहादि कर्त्तव्यं श्राद्धषोडशम् । नैतत्
पौत्रेण कर्त्तव्यं पुत्रवांश्चेत् पितामहः” । सपिण्डीकरण-
पर्य्यन्तमपृथक्कर्त्तव्यमाह लघुहारीतः “सपिण्डीकरणा-
न्तानि यानि श्राद्धानि षोडश । पृथङ्नैव सुताः कुर्य्युः
पृथग्द्रव्या अपि क्वचित्” । एषामभावे पत्नी तथाच
शङ्खः “पितुः पुत्रेण कर्त्तव्या पिण्डदानोदकक्रिया ।
तदभावे तु पत्नी स्यात्तदभावे सहोदरः । भार्य्यापिण्डं
पतिर्दद्यात् भर्त्रेभार्य्या तथैव च” । इति “अपुत्रधनं
पत्न्यभिगामि तदभावे दुहितृगामीत्यादि” विष्ण्वादिवचनेन
धनाधिकारश्रुतेः । तदभावे इति प्रपौत्रपर्य्यन्ताभावपरं
पार्वणपिण्डदातृत्वेन धनाधिकारित्वेन च तेषां
बलवत्त्वात् । “अपुत्रा स्त्री यथा पुत्रः पुत्रवत्यपि भर्त्तरि ।
पिण्डं दद्यात् जलञ्चैव जलमात्रन्तु पुत्रिणी” इति
निर्मूलं समूलत्वेऽपि बालदेशान्तरितपुत्रसद्भावविषयमिति
श्राद्धविवेकप्रभृतयः । पत्न्यभावे कन्या । “अपुत्रस्य तु
पृष्ठ १५२९
या पुत्री सैव पिण्डप्रदा भवेत् । तस्य पिण्डान् दशैवै-
तानेकाहेनैव निर्वपेत्” इति ऋष्यशृङ्गवचनात् “गोत्र-
ऋक्थानुगः पिण्डः” इति मनुवचनेन दत्ताद्यपेक्षया
तस्याबलवत्वात् । कन्याभावे यथाक्रमं वाग्दत्तादत्ता-
दौहित्राः “दत्तानां चाप्यदत्तानां कन्यानां कुरुते पिता ।
चतुर्थेऽहनि मास्तेषां कुर्वीरन् सुसमाहिताः” इति
ब्रह्मपुराणवचनात् । ननु “दुहिता पुत्रवत् कुर्य्यान्मा-
तापित्रोश्च संस्कृता । अशौवमुदकं पिण्डमेकोद्दिष्टं
सदा तयोः” इति शङ्खवचनात् पुत्रानन्तरमेव दुहित्रधि-
कारश्रुतेः इति चेन्न पत्न्याः प्रथमं धनाधिकारश्रुतेः
यथा याज्ञवल्क्यः । “पत्नी दुहितरश्चैव पितरौ
भ्रातरस्तया । तत्सुतोगोत्रजोबन्धुः शिष्य सुब्रह्म-
चारिणः । एषामभावे पूर्वेषां धनभागुत्तरोत्तरः” इति ।
तथा “मातामहानां दौहित्राः कुर्वन्त्यहनि चापरे” ।
इति ब्रह्मपुराणात् । “पौत्रदौहित्रयोर्लोके न विशेषो-
ऽस्ति धम्मतः । तयोर्हि माता पितरौ संभूतौ तस्य
देहतः” । इति मनुचनेन “पौत्रदौहित्रसयुक्ता ये तथा
चिरजीविनः । प्रियङ्कराश्च बालानां ते नराः स्वर्गगा-
मिनः” इति विष्णुधर्म्मोत्तरेण पौत्रतुल्यताभिधानाच्च ।
तेन यथा पुत्राभावे पौत्रस्तथादुहित्रभावे दौहित्रः । न
च दत्तकन्यादौहित्राभ्यां प्राक्सगोत्रत्वात् सोदराधिकार
इति वाच्यम् गोत्रबलापेक्षया पिण्डदानादेर्धनसाध्य-
त्वात् ऋक्थग्राहिणोर्दुहितृदौहित्रयोर्बलवत्त्वात् । अत
एव दुहितृधनाधिकारे तद्धनेनं मृतोपकारकरणं हेतु-
रित्याहापस्तम्बः । “अन्तेवास्यार्थांस्तदर्थेषु धर्म्मकृत्येषु
प्रयोजयेत् दुहिता वेति” तदर्थेषु मासिकादिना तद्भोगार्थं
धर्मकृत्येष्वदृष्टार्थमिति । “गोत्रऋक्थानुगः पिण्डः”
इति मनूक्तेः । “अनंशौ क्लीवपतितौ जात्यन्धवधिरौ
तथा । उन्मत्तजड़मूकाश्च ये च केचिन्निरिन्द्रियाः” । इति
मनूक्तानां “पितृद्विट्पतितः षण्डोयश्च स्यादौपपातिकः ।
औरसाअपि नैतेऽंशं लभेरन् क्षेत्नजाः कुतः” इति
नारोदोक्तानाञ्च भागानधिकारिणां पिण्डदानानधि-
कारः । जात्यन्धबधिरौ जन्मप्रभृतिअन्धबधिरौ निरिन्द्रियाः
पङ्ग्वदयः श्रौतस्मार्त्तकर्म्मानधिकारिणोऽपि गृह्यन्ते
इति रत्नाकरः । तथाच वृद्धशातातपः । “चाण्डालं
पतितं व्यङ्गमुन्मत्तं शवहारकम् । सूतिकां सूयिकां नारीं
रजसा च परिप्लुताम् । श्वकुक्वुटवराहांश्च ग्राम्यान्
संस्पृश्य मानवः । सचेलं सशिरःस्नात्वा तदानीमेव शु-
ध्यति” । व्यङ्गः पाण्यादिविकलः । व्यङ्गोन्मत्तयोः
सदाचारहीनत्वात् अस्पृश्यतेति प्रायश्चित्तविवेकः । श्रौ-
तस्मार्त्तक्रियानधिकारित्वं सदाचारहोनत्वञ्च मूत्रपुरी-
षाद्यशौचापनयनासमर्थत्वेनेति बोध्यम् । सूयिकां प्रस-
वकारयित्रीम् । पितृद्विट् पोषणौर्द्ध्वदेहिकविमुखः ।
औपपातिकः उपपातकैः संस्पृष्टः । उपपातकेति प्रकाश-
कारपाठेऽपि सएवार्थः । अपपात्रित इति पाठे तु
राजबधादिदोषेण बान्धवैर्यस्य घटापवर्ज्जनं कृतमिति
कल्पतरुः । व्यक्तं याज्ञबल्क्येनोक्तम् “न ब्रह्मचारिणः
कुर्य्युरुदकं पतिता न च । पाषाण्डमाश्रितास्तनान व्रात्या
न विकर्मणः । गर्भभर्त्तृद्रुहश्चैव सुरापाश्चैव योषितः” ।
पाषण्डं त्रयीबाह्यधर्मम् । स्तेनाः सततं चौर्य्यवृत्तयः ।
व्रात्याःषोड़शवर्षपर्य्यन्तमप्राप्तोपनयनाः, विकर्मणः
आलस्येनाश्रद्दधानतया स्वधर्म्माननुष्ठायिनः व्यङ्गत्वा-
दिना स्वधर्म्मानुष्ठानासमर्थाश्च बोध्या इति “कश्चित्
क्षिपति सत्पुत्रोदौहित्रोवा सहोदरः । गृहीत्वास्थीनि
तद्भस्म नीत्वा तोये विनिःक्षिपेत्” इत्यादिपुराणे क्रम-
दर्शनादत्रापि दौहित्राभावे सोदरः पूर्व्योक्तशङ्खवचनेऽ-
प्येवं क्रमोबोध्यः । अत्र ज्येष्ठः कनिष्ठश्चाविशेषात् । “नानु-
जस्य तथाग्रज” इति छन्दोगपरिशिष्टं कनिष्ठभ्रातृसद्भाव-
विषयं तयोरभावं तथाविधौ वैमात्रेयौ । “भ्रातुर्भ्राता
स्वयं चक्रे तद्भार्य्या चेन्न विद्यते । तस्य भ्रातृसुतश्चक्रे
यस्य नास्ति सहोदरः” इति ब्रह्मपुराणाद्वैमात्रेय-
स्यापि एकजातत्वेन भ्रातृत्वात् । “देशान्तरस्थक्लीवैकवृष-
णानसहोदरान्” इत्यादिछन्दोगपरिष्टेन परिवेदने वैमात्रे-
यस्य भ्रातृत्वप्रसक्तावसहोदरानित्यनेन प्रतिप्रसवाच्च ।
पितृव्यपुत्रादौ भ्रातृपदप्रयोगो गौणः । गुणश्च वीजि-
पुरुषापेक्षया समानसंख्यजनकजम्यत्वमिति । धनिपित्रादि
पिण्डद्वयद तुः सोदरपुत्राद् धनिपित्रादिपिण्डत्रयदा
तृत्वाद्वैमात्रेयस्य धनाधिकारित्वेन बलवत्त्वाच्च । ततश्च
सहोदरैति पूर्व्वार्द्ध्वानुरोधात् वैमात्रेयपरमपि अन्यथा
सहोदराभावे वैमात्रेयसत्त्वे वैमात्रेयपुत्र घिकारापत्तेः ।
तेन वैमात्रेयाभावे सोदरवैमात्रेयभ्रातृक्रमवत् सोदर-
पुत्रस्तदभावे वैमात्रेयपुत्रः । तन्मातृभोम्यपिण्डदातृतया
प्रथमाधिकारित्वेन बलवत्त्वात् तस्यातिदिष्टपुत्रत्वाच्च ।
तदभावे पिता । “पुत्रोभ्राता पिता वापि मातुलोगुरुरेवच ।
एते पिण्डप्रदाज्ञेयाः सगोत्राश्चैव बान्धवाः” इति प्रचे-
तोवचनात् । “न पुत्रस्य पिता दद्यात्” इति छन्दोग-
पृष्ठ १५३०
परिशिष्टं भ्रातृपुत्रपर्य्यन्तसद्भावविषयम् । तदभावे
माता । “पुत्रोभ्राता पिता वापि” इत्यत्रापिशब्देन मातुः
समुच्चयात् । “पितरौ भ्रातरस्तथेत्यादौ धनाधिकारे तथा
दर्शनाच्च । अतएव श्राद्धविवेके पितुरभावे तुल्यन्याय-
तया मातापीत्युक्तमिति । तदभावे पुत्रबधूः । तथाच
शङ्खः “भार्य्यापिण्डं पतिर्दद्यात् भर्त्त्रे भार्य्या तथैव च ।
श्वश्र्वादेश्च स्नुषा चैव तदभावे द्विजोत्तमः” । अत्रादिप
दात् श्वशुरादेरपि परिग्रहः इतरत्र स्नुषात्वाभावात् ।
द्विजोत्तमैत्यत्र सपिण्डक इति मैथिलानां पाठः । स्वस्व-
पदोपात्तसपिण्डविशेषाभावे “अनन्तरः सपिण्डाद्यस्तस्य
तस्य धनं भवेत्” इति धनाधिकारे तथादर्शनादत्रापि
सन्निधितारतम्येन माता पुत्रबधूः पौत्री पौत्रबधूः प्रपौत्री
प्रपौत्रबधूः पितामहः पितामही पितृव्यादयः सपिण्डाश्चाधि-
कारिणः” “पुत्रामावे स पिण्डाः” इति वक्ष्यमाणवचनात् ।
शङ्खवचनस्थमैथिलपाठाच्च । तदभावे समानोदकाः! “सपि-
ण्डसन्तनितिर्वापि” इति वक्ष्यमाणात् । सपिण्डसन्ततिः
समानोदकाइत्यर्थः । तदभावे सगोत्राः “सगोत्राश्चैवेति”
“गोत्रऋक्थानुगःपिण्डः” इत्युक्तत्वात् “एषामभावे सर्व्वेषां
समानोदकसन्ततिरिति” वक्ष्यमाणाच्च । तदभावे माता-
महः “दातामहाना दौहित्राः कुर्वन्त्यहनि चापरे ।
तेऽपि तेषां प्रकुर्वन्ति द्वितीयेऽहनि सर्वदा” इति ब्रह्मपुरा-
णात् । तदभावे मातुलः तदभावे भागिनेयः “मातु
लोभागिनेयस्य स्वस्रीयोमातुलस्य च” इति शातातपीयपाठ-
क्रमात् । तदभावे सन्निधिक्रमेण मातामहसपिण्डाः ।
तदभावे मातामहसमानोदकाः । “सपिण्डसन्ततिर्व्वापि क्रिया-
हानृप! जायते । एषामभावे सर्वेषां समानोदकसन्ततिः ।
मातृपक्षस्य पिण्डेन सम्बद्धा ये जलेन वा” विष्णुपुरा-
णात् । तदभावे श्वशुरः तदभावे जामाता “जामातुः
श्वशुराश्चक्रुस्तेषां तेऽपि च संयताः” इति ब्रह्मपुराण-
पाठक्रमात् । तदभावे पितामहीभ्राता । “भागिनेयसुता-
नाञ्च सर्व्वेषान्त्वपरेहऽनि । श्राद्धं कार्य्यञ्च प्रथमे स्नात्वा
कृत्वा जलक्रियाम्” इति ब्रह्मपुराणात् । अपरेऽहनि
इत्यत्राशौचान्तदिनस्येति शेषः । तदभावे यथाक्रमं
शिष्यर्त्विगाचार्य्याः गौतमेन “पुत्त्राभावे सपिण्डाः
मातृसपिण्डा वा शिष्या वा दद्युः तदभावे ॠत्विगा-
चार्य्यौ” इत्युक्तत्वात् । तदभावे सुहृत्पितृसुहृदौ
“मित्राणां तदपत्यानामिति” व्रह्मपुराणपाठक्रमात् ।
तदमावे एकग्रामवासी । “संघातान्तर्गतैर्वापि कार्य्या प्रेतस्य-
सत्क्रिया” इति विष्णुपुराणात् तदभावे तद्धनं गृहीत्वा
यः कश्चित् सवर्णः । “उच्छन्नबन्धुश्चेच्छ्राद्धं कारयेदवनी-
पतिः” इति विष्णुपुराणात् । और्द्ध्वदेहिकमधिकृत्य
शिष्णुपुराणं “व्राह्मणस्त्वन्यवर्णानां न करोति कदाचन ।
कामाल्लोभाद्भयान्मोहात् कृत्वा तज्जातितामियात्” ।
स्त्रियास्तु यथाक्रमं पुत्त्रपौत्त्रप्रपौत्राः विष्णुपुराणे
“पुत्रः पौत्रः प्रपौत्रो वा” इत्यविशेषश्रुतेः । तदभावे
कन्या । “अपुत्रस्य च या पूत्री” इतस्योद्देश्यगतलिङ्गाविव-
क्षया स्त्री पुंसाधारणत्वात् धनाधिकारित्वाच्च । तदभावे
वाग्दत्ता “दत्तानामप्यदत्तानाम्” इत्यत्रापि पितृपदस्य
मातृपदोपलक्षकत्वात् । तदभावे दत्ता “दुहिता पुत्रवत्
कुर्य्यान्मातापित्रोश्च संस्कृता” इति मनुवचनात् ।
तदभावे दौहित्रः प्रागुक्तब्रह्मपुराणे तथा दर्शनात् ।
“पौत्रदौहित्रयोर्लोके न विशेषोऽस्ति धर्म्मतः । तयोर्हि
मातापितरौ सम्भूतौ तस्य देहतः” इत्यनेन यथा पुत्रा-
भावे पौत्रः तथा दुहित्रभावे दौहित्रः इति प्रागेव
उक्तत्वात् । “मातुलोभागिनेयस्य स्वस्रीयोमातुलस्य च ।
श्वशुरस्य गुरोश्चैव सख्युर्मातामहस्य च । एतेषां चैव
भार्य्याभ्यः स्वमुर्मातुः पितुस्तथा । पिण्डदानन्तु कर्त्तव्य-
मिति वेदविदां स्थितिः” इति वृद्धशातातपवचनेन
मातामह्याश्च साक्षात् दौहित्रेण पिण्डदानश्रुतेः धनाधि-
कारित्वाच्च । दौहित्राभावे सपत्नीपुत्रः । तस्य पुत्र
त्वस्मरणात् । यथाह मनुः । “सर्व्वासामेकपत्नीनामेका
चेत् पुत्रिणी भवेत् । सर्व्वास्तास्तेन पुत्रेण प्राह पुत्र-
वतीर्मनुः” । एकपत्नीनामिति एक्वः पतिर्यासामिति
अत्र सपत्नीपुत्रस्य पुत्रत्वातिदेशात् तत्सत्त्वेऽपि स्त्रीणां
सपिण्डनं मैथिलैरुक्तं तन्न “पुत्रेणैव तु कर्त्तव्यं
सपिण्डीकरणं स्त्रियाः । पुरुषस्य पुनस्त्वन्ये भ्रातृपुत्रादयोपि
ये” इति लघुहारीतवचने एवकारेणातिदिष्टपुत्रनिषे-
धात् । अतएवोत्तरार्द्धे म्नातृपुत्रोपादानं सङ्गच्छते ।
अन्यथा पुंसां तत्र पुत्रत्वातिदेशात् पुत्रत्वेनैव प्राप्तेः
भ्रातृपुत्रोपादानं व्यर्थं स्यात् । तथाह मनुः । “भ्रा-
तॄणामेकजातनामेकश्चेत् पुत्रवान् भवेत् । सर्वे ते तेन
पुत्रेण पुत्रिणोमनुरब्रवीत्” एकजातानामेकपितामातृ-
जातानां तथाच “वृहस्पतिः । यद्येकजातावहवोभ्रातरः
स्युः सहोदराः । एकस्यापि सुते जाते सर्व्वेते पुत्रि-
णोमताः” । एतन्यायमूलं तदिति चेन्न आदिपदग्रा-
ह्येषु “भ्राता वा भ्रातृपुत्रो वा सपिण्डः शिष्यएव वा ।
पृष्ठ १५३१
सहपिण्डक्रियां कृत्वा कुर्य्यादभ्युदयन्ततः” इति लघुहारी-
तीक्तेषु न्यायानुपपत्तेः । भ्राता वेति वाशब्दात् पूर्वेषां
दौहित्रादीनां तदपेक्षया प्रधानाधिकारिणां समुच्चयः । अत
एव सपिण्डत्वेनैव भ्रातृतत्पुत्रयोरधिकारसिद्धौ पृथगुपा-
दानं प्राधान्यज्ञापनार्थम् । पुत्रत्वातिदेशफलन्तु पुन्नामनर-
कनिस्तारः । अतस्तत्सत्त्वे क्षेत्रजाद्यकरणञ्च । तथाहि
“पुन्नाम्नोनरकाद्यस्मात्त्रायते पितरं सुतः । मुखसन्द-
र्शनेनापि तदुत्पत्तौ यतेत सः” इति मनुवचने पुन्नाम-
नरकत्राणाय पुत्त्रोत्पादनं विहितम् । तच्च फलं यद्यति-
दिष्टपुत्राभ्यां भ्रातृसपत्नीजाभ्यां निष्पन्नं तदा सिद्धे इच्छा-
विरहात् तदुपायान्तरपुत्रप्रतिनिधीभूतक्षेत्रजादेर्नोपादा-
नम् । पुत्रोत्पादनन्तु तथापि कार्य्यं पुत्रसत्त्वेऽपि
पुत्रान्तरेच्छाविधानेन तत्कर्त्तव्यताप्रतीतेः यथा मत्स्य
पुराणम् । “एष्टव्याबहवः पुत्रायद्यप्येकीगयां व्रजेत् ।
यजेत वाश्वमेधेन नीलं वा वृषमुत्सृजेत्” । एवमेव
कल्पतरुपारिजातशूलपाणिमहामहोपाध्यायरत्नाकरवाच
स्पतिमिश्रादयः । स्त्रीणामपि पुत्त्रात् पुन्नामनरक
निस्तारणमाहतूरत्नाकरे शङ्खलिखितौ “आत्मा पुत्त्र
इति प्रोक्तः पितुर्मातुरनुग्रहात् । पुन्नाम्नस्त्रायते पुत्त्र-
स्तेनापि पुत्त्रसंज्ञितः” । पूर्वोक्तलघुहारीतवचने पुत्त्रे-
णेति तत्सत्त्वमात्रं विवक्षितम् । “सपिण्डीकरणन्तानाम्
पुत्त्राभावे न विद्यते” इति मार्कण्डेयपुराणैकवाक्य-
त्वात् । “यानि पञ्चदशाद्यानि अपुत्त्रस्येतराणि च ।
एकस्यैव तु दातव्यमपुत्त्रायाश्च योषितः” इति छन्दो-
गपरिशिष्टेनापुत्त्राया एवाद्यपञ्चदशश्राद्धैः प्रेतत्वपरिहा-
रोक्तत्वाच्च । एतत् पत्युरभावे द्रष्टव्यम् । “अपुत्त्रायां
मृतायान्तु पतिः कुर्य्यात् सपिण्डनम् । श्वश्र्वादिभिः
सहैवास्याः सपिण्डीकरणं भवेत्” इति पैठीनसिवचनात् ।
ततश्च यथा शिशौ पुत्रेऽन्येन्यापि सपिण्ड्यते । एवं
पतिसत्त्वेऽपि । अतएव मैथिलैरवीवरायाः सपिण्डनं नास्ती-
त्युक्तम् तदमावे पतिः । “भार्य्यापिण्डं पतिर्दद्यात्”
इति शङ्खवचनात् । “न जायायाः पतिः कुर्य्यादपुत्राया
अपि क्वचित्” इति छन्दोगपरिशिष्टवचनम् मपत्नीपुत्रपर्य्य-
न्तसद्भावविषयम् । पत्यभावे स्नुषा “श्वश्र्वादेश्च स्नुषा चैव”
इति यमवचनात् । तदभावे सान्निध्यक्रमेण सपिण्डाः ।
शङ्खवचने “तदभावे सपिण्डकाः इति मैथिलपाठात्” ।
“तदभावे सपिण्डः” इति पूर्वोक्तगोतमवचने सामान्यतः
श्रुतेश्च । तदभावे सनानीदकाः । “सपिण्डसन्ततिर्वेत्यविशे-
षश्रुतेः । तदभावे सगोत्राः । समानोदकसन्ततिरिति
वक्ष्यमाणात् । श्राद्धविवेकेऽप्येवम् । एषामभावे पिता ।
“दत्तानाञ्चाप्यदत्तानां कन्यानां कुरुते पिता” इत्युक्त-
त्वात् । तदभावे भ्राता । “पुत्रोभ्राता पिता वापि”
इत्यविशेषश्रुतेः । तदभावे यथाक्रमं दायभागोक्तो-
पकारतारतम्येन “मातुलोभागिनेयस्थ स्वस्रीयोमातु-
लस्य च । श्वशुरस्य गुरोश्चैव सख्युर्मातामहस्य च ।
एतेषाञ्चैव भार्य्याभ्यः स्वसुर्मातुः पितुस्तथा । पिण्डदा-
नन्तु कर्त्तव्यमिति वेदविदां स्थितिः” इति शाताप-
बचनात् भगिनीपुत्रभर्त्तृभागिनेयभ्रातृपुत्रजामातृभर्त्तृ-
मातुलभर्त्तृशिष्याः पत्यपेक्षया पौत्रादिवत् पिण्डदाम-
तारतम्येन क्रमेणा धिकारिणः । तथाहि तत्पिण्डतत्-
पुत्रदेयतत्पित्रादिपिण्डत्रयदातृत्वात् भगिनीपुत्रः ।
तदभावे भर्त्तृभागिनेथः । पुत्राद्भर्त्तुर्दुबलत्वेन तत्स्थान-
पातिनोऽपि तथैवा । बलाबलस्य न्याय्यत्वेन तद्भर्त्तृदेयपुरुष-
त्रयपिण्डतद्भर्त्त पिण्डदत्वात् । तदभावे भ्रातृपुत्रः ।
तत्पिण्डतत्पुत्रदेयतत्पित्रादिपिण्डद्वयदत्वात् । तदभावे
जामाता । “मातृष्वसा मातुलानी पितृव्यस्त्री पितृ-
ष्वसा । श्वश्रूः पूर्व्वजपत्नी च मातृतुल्या प्रकीर्त्तिता”
इति वृहस्पतिबचनेन मातृष्वस्रादीनां मातृतुल्यत्वाभि-
धानात् । स्वस्रीयाद्यैः सह जामातुः पुत्रतुल्यत्व-
प्रतीतेः । अतएव तेषां धनभागित्वमाह वृहस्पतिः ।
“यदासामौरसोन स्यात् सुतोदौहित्रएव वा । तत्सुतोवा
धनं तासां खस्रीयाद्याः समाप्नुयुः” । धनग्राहित्वे-
नापि पिण्डदातृत्वमाह मनुः । “गोत्रऋक्थानुगः-
पिण्डः” इति । तदभावे भत्तृमातुलभर्त्तृशिष्याः
क्रमेणाधिकारिणः शातातपीयपाठक्रमानुरोधात् ।
प्रातिस्विकानामभावे पितृवंश्यमातृवंश्यौ । “पितृमातृ-
सपिण्डैश्च समानसलिलेर्नृप!” इति ब्रह्मपुराणेऽविशेष-
श्रुतेः । तयोरभावेऽसम्बन्धी द्विजोत्तमः पूर्व्वोक्तशङ्ख-
वचने द्विजोत्तम इति गौड़ीयपाठात् संघातान्तर्गतै-
र्व्वापीति अविशेषश्रुतेः ।
त्रिधाक्रियाकर्त्तॄनाह विष्णुपुराणम् “पुत्रः पौत्रः
प्रपौत्रोवा तद्वद्वा भ्रातृसन्ततिः । सपिण्डसन्ततिर्वापि-
क्रियार्हा नृप! जायते । एषामभावं सर्वेषां समानो-
दकसन्ततिः । मातृपक्षस्य पिण्डेन सम्बद्धांये जलेन
वा । कुलद्वयेऽपि वोत्सन्ने स्त्रीभिः कार्य्या क्रिया
नृप । संघातान्तर्गतैवापि कार्य्या प्रेतस्य सत्क्रिया ।
पृष्ठ १५३२
उत्सन्नबन्धोरृक्थाद्वा कारयदेवनीपतिः । पूर्वाः क्रिया
मध्यमाश्च तथा चैवोत्तराः क्रियाः । त्रिप्रकाराः
क्रियाह्येतास्तासां भेदान् शृणुष्व मे । आदाह-
वाय्यांयुधादिस्पर्शाद्यन्ताश्च याः क्रियाः । ताः पूर्वामध्य-
मामासिमास्येकोद्दिष्टसंज्ञिताः । प्रेते पितृत्वमापन्ने
सपिण्डीकरणादनु । क्रियन्ते याः क्रियाः पित्र्याः प्रो-
च्यन्ते तानृपोत्तराः । पितृमातृसपिण्डैश्च समानसलिलै-
र्नृप! । संघातान्तर्गतैर्वापि राज्ञा वा धनहारिणा ।
पूर्वक्रियास्तु कर्त्तव्याः पुत्राद्यैरेव चोत्तराः । दौहित्रैर्वा
नरश्रेष्ठ! कार्य्यास्तत्तनयैस्तथा । मृताहनि तु कर्त्तव्याः
स्त्रोणामप्युत्तराः क्रियाः । प्रतिसंवत्सरं राजन् ।
एकोद्दिष्टं विधानतः” । आदाहेति दाहावधेरशौचान्तविहि-
तवार्य्यायुधादिस्पर्शाद्यन्तास्ताः पूर्वाः । मासिमासीत्येकादशा-
हादिसपिण्डनान्तप्रेतक्रियोपलक्षणम् । सपिण्डनोत्तराः
पार्वणादिक्रिया उत्तराः । अत्र पुत्रादिसपिण्डादयः
पूर्वाः क्रिया अवश्यं कुर्य्युः । मध्यमक्रियायामनियमः ।
उत्तरक्रियायां पुत्रादयो भ्रातृसन्ततिपर्य्यन्तानियताः ।
श्राद्धविवेकेऽप्येवम् । दौहित्रैर्वेति वाशब्दः समुच्चयार्थः
तेन दौहित्रोऽप्युत्तरक्रियायां नियताधिकारी ।
दौहित्रतनयैरिति पुत्रिकापुत्रविषयमिति कल्पतरुः । कर्त्तृ-
प्रकरणात् स्त्रीणामिति “वा कर्त्तरि कृत्ये” इति कर्त्तरि
षष्ठी । उत्तरक्रियायां प्रतिसंवत्सरमेकोद्दिष्टविधाननिय-
मात् । न पार्वणवृद्धिश्राद्धादौ स्त्रीणामधिकारः ।
मार्कण्डेयपुराणम् “सर्वाभावे स्त्रियः कुर्य्युः स्वभर्तॄ-
णाममन्त्रकम् । तदभावे च नृपतिः कारयेत् स्वकुटुम्ब-
वत् । स्त्रीणामप्येवममेवंतदेकोद्दिष्टमुदाहृतम् । मृता-
हनि यथान्यायं नॄणां यद्वदिहोदितम्” । स्त्रियोऽत्रा-
सवर्णोढ़ाऽपरिणीता वेति श्राद्धविवेकः । सवर्णोढ़ायाः-
पुत्रपौत्रपर्य्यन्ताभावएव विधानात् । स्त्रीणामिति तु
संप्रदानपरम् । एवमेवामन्त्रकमिति श्राद्धविवेकः । अत्र
स्त्रियैत्यस्यासवर्णोढाऽपरिणीतापरत्वव्याख्यानात् स्त्रीणां
मन्त्रतिषेधोऽपि तत्संप्रदानकश्राद्धएवावगम्यते । नतु स्त्री-
मात्रसंप्रदानके । एतच्च विप्रेतरपरं तस्य हीनवर्णश्रा-
द्धनिषेधात् । कल्पतरौ तु स्त्रीणामप्येवमिति सम्बन्धेन
स्त्रीणामेतत् कर्त्तव्यमिति एतद्व्यख्यने स्त्रीसम्प्रदानक-
श्राद्धे सुतरां मन्त्राः पाठ्याः । याज्ञवल्क्येनापि समन्त्रक-
मेकोद्दिष्टं सपिण्डीनञ्चोक्त्वा । एतत् सपिण्डकरणमेकोद्दिष्टं
स्त्रियाअपि इत्यनेन स्त्रियाअपि तथैवेत्युक्तम् । “मातुः
सपिण्डीकरणं पितामह्या सहोदितम् । यथोक्तेनैव
कल्पेन पुत्रिकाया न चेत् सुतः” इति छन्दोगपरिशि-
ष्टेनापि यथोक्तेनैव कल्पेनेत्यनेन मन्त्रादिकमतिदिष्टम् ।
व्यवहारोऽपि तथेति ।
तदयसंक्षेपः । ज्येष्टपुत्रकनिष्ठपुत्रपौत्रप्रपौत्रापुत्रपत्नी-
कम्मासमर्थपुत्रयुक्तपत्नीकन्यावाग्दत्तादत्तकन्यादौहित्रकनि-
ष्ठसहोदरज्येष्ठसहोदरकनिष्ठवैमात्रेयज्येष्ठवैमात्रेयकनिष्ठस
होदरपुत्रज्येष्ठसोदरपुत्रकनिष्ठवैमात्रेयपुत्रज्येष्ठवैमात्रेय-
पुत्त्रपितृमातृपुत्त्रबधूपौत्रीपौत्रबधूप्रपौत्रीप्रपौत्रबधूपिता-
महपितामहीपितृव्यादिसपिण्डसमानोदकसगोत्रमातामह-
मातुलभागिनेयमातृपक्षसपिण्डतत्समानोदकासवर्णभार्य्या-
ऽपरिणीतस्त्रीश्वशुरजामातृपितामहीभ्रातृशिष्यर्त्विगाचार्य्य
मित्रपितृमित्रैकग्रामवास्यगृहीतवेतनसजातीयाः अष्ट-
चत्वारिंशत्प्रकाराः क्रमेणाधिकारिणः ।
स्त्रियास्तु ज्येष्ठपुत्रकनिष्ठपुत्रपौत्रप्रपौत्रकन्यावाग्दत्ता-
दत्तादौहित्रसपत्नीपुत्रपतिस्नुषासपिण्डसमानोदकसगोत्रपि-
तृभ्रातृभगिनीपुत्रभर्त्तृभागिनेयभ्रातृपुत्रजामातृभर्त्तृमातुल-
भर्त्तृशिष्यपितृसमानोदकपितृवंश्यमातृसमानोदकमा
तृवंश्यद्विजोत्तमाश्चतुर्विंशतिप्रतिकाराः” इति
अथाविदकश्राद्धरूपैकोदिष्टे विशेषः श्रा० त० निर्ण्णीतः
यथा गोभिलः । “अतऊर्द्ध्वं संवत्सरे संवत्सरे प्रेतायान्नं
दद्यात् यस्मिन्नहनि प्रेतः स्यादिति” । अतऊर्द्ध्वं सपिण्डीक
रणान्तश्राद्धनिमित्तादाद्यसंवत्सरादूर्द्ध्वं संवत्सरे संवत्सरे
प्रतिवर्षं यस्मिन्नहनि मृतस्तस्मिन्नहनि मृताय दद्यात् ।
व्याघ्रः । “प्रतिमंवत्सरञ्चैवमेकोद्दिष्टं मृताहनि” । एतेन
सपिण्डीकरणापकर्षे आद्यसंवत्सरेऽपि मृताहे श्राद्धान्तरं
कर्त्तव्यमिति मैथिलोक्तं हेयम् । व्यक्तमाह हेमाद्रिधृत-
वचनम् । “पूर्णे संवत्सरे श्राद्धं षोड़शं परिकीर्त्तितम् ।
तेनैव च सपिण्डत्वं तेनैवाविदकमिष्यते” । अत्र पूणसव-
त्सरक्रियमाणश्राद्धाद्यथीभयनिर्व्वाहस्तथापकृष्टसपिण्डी-
करणश्राद्धादप्युभयनिर्व्वाहो न पूर्णसंवत्सरे आव्दि-
कान्तरम् एवं पञ्चदशश्राद्धेऽप्युन्नेयम् । मत्स्यपुराणम्
“ततःप्रभृति संक्रान्तावुपरागादिपर्व्वसु । त्रिपिण्डमा-
चरेत् श्राद्धमेकोद्दिष्टं मृताहनि” । ततः प्रेतत्वपरीहा-
रात् त्रिपिण्डं त्रैपुरुषम् । निरुपपदमृताहशब्दः मृतसम्ब-
न्धिमासपक्षतिथिविशेषपरः । उपपदात्तु क्वचित्तिथिविशेष-
मात्रपरः । यथा मृताहे प्रतिमासम् कुर्य्यादित्यादौ । शङ्खः
“सपिण्डीकरणादूर्द्ध्वं यत्रयत्र प्रदीयते । तत्र तत्र त्रयम्
पृष्ठ १५३३
कुर्य्यात् वर्जयित्वा मृताहनि । अमावस्याम् क्षयो यस्य
प्रेतपक्षेऽथवा पुनः । सपिण्डीकरणादूर्द्ध्वं तस्योक्तः
पार्व्वणो विधिः” । त्नयं सम्प्रदानानां त्रयं कुर्य्यात्
त्रिभ्यो दद्यादित्यर्थः । मृताहपर्य्युदस्तत्रिदेवतत्वस्य प्रति-
प्रसवमाह अमावस्यामिति प्रेतपक्षोऽत्र पितृपक्षः अश्व-
युक्कृष्णपक्ष इति यावत् न तु कृष्णपक्षमात्रं कृष्णपक्षसा-
मात्यपरत्वेऽमावास्यापदवैयर्थ्यापत्तेः । पितृपक्षं विशेषयति
हेमाद्रिमाधवाचार्य्यधृतं नागरखण्डम् “नभोवाथ
नभस्योवा मलमासो सदा भवेत् । सप्तमः पितृपक्षः स्याद-
न्यत्रैव तु पञ्चमः” । अत्र श्रावणभाद्रयोरन्यतरस्य
मलमासत्वे आषाढ्यपेक्षया सप्तमपक्षस्य पितृपक्षत्वम् । अत्र-
मृतस्यैव प्रेतपक्षमृतत्वं न तु मलमासभाद्रकृष्णपक्षमृतस्य ।
ततश्च तत्र मृतस्य वर्षान्तरेऽश्वयुक्कृष्णपक्षेऽपि तच्छ्राद्धकरणे
न पार्व्वणं किन्त्वेकोद्दिष्टमिति । अत्र पार्व्वणोविधिः
पार्व्वणेतिकर्त्तव्यताकैकोद्दिष्टविधिरिति नव्यवर्द्धमानप्रभृ-
तयः । तन्न पूर्व्ववचनोक्तत्रैपुरुषिकस्य मृताहे पर्य्युदस्तस्य
पार्वणो विधिरित्यनेन प्रतिप्रसवात् तस्मात् सदैवकैकोद्दिष्टं
त्रैपुरुषिकं नतु षाट्पौरुषिकं “कर्षूसमन्वितं मुक्त्वा त
थाद्यं श्राद्धषोड़शम् । प्रत्याब्दिकञ्च शेषेषु पिण्डाः
स्युःषड़ितिस्थितिः” इति छन्दोगपरिशिष्टवचनेन प्रत्याव्दि-
कव्यतिरेकेण षट्संख्यानियमात् । एवममावास्यादिमरण-
निमित्तेन मातुरपि प्रत्याव्दिकं पार्व्वणविधिनैव “अपुत्रा
ये मृताः केचित् स्त्रियोवा पुरुषाश्च ये । तेषामपि च देयं
स्यादेकोद्दिष्टं न पार्व्वणम्” इति आपस्तम्बवचने अपुत्त्रा
इति विशेषणीपादानात् सपुत्राणां पार्व्वणाभ्यनुज्ञानात् ।
एतच्च मात्रादित्रितयदैवतं कार्य्यम् । “मात्रेपितामह्यै-
प्रपितामहह्यै च पूर्व्ववत् व्राह्मणान् भोजयित्वा” इत्यन्व-
ष्टकायां तथादर्शनात् अवसानदिनमिमित्तत्वेन पार्वण-
विधिना छन्दोगैरपि मात्रादित्रिकाणां श्राद्धं कर्त्तव्यं
“न येषिद्भ्यः पृथग्दद्यादवसानदिनादृतें इति छन्दोग-
परिशिष्टवचने विशेषतः प्रतिप्रसवात् । एवं सपिण्डी-
करणेऽपि । एतच्च । मृताहपार्व्वणं मातापित्रोरेव ।
तथाच हेमाद्रिघृतं कात्यायनबचनम् । “सपिण्डीकरणा-
दूर्द्ध्वं पित्रोरेव हि पार्व्वणम् । पितृव्यभ्रातृमातॄणा-
मेकोद्दिष्टं स दैव तु” । मातृपदं सपत्नीमातृपरम् ।
सपत्नीमात्रित्यत्र मातृपदस्य राजदन्तादित्वात्
परनिपातः । ततश्च वाक्ये मातृसपत्नीति न प्रयोज्यं किन्तु
सपत्नीमातरित्यादिकम् । एवं साग्निकौरसक्षेत्रजाभ्यां
मृताहे पार्वणं कर्त्तव्यम् । “औरसक्षेत्रजौ पुत्रौ विधिपा
पार्वणेन तु । प्रत्यवदमितरे कुर्य्युरेकोद्दिष्ट सुता दश”
इति जावलिवचनस्य “यत्र यत्र प्रदातव्यं सपिण्डीकरणात्
परम् । पार्वणेन विधानेन देयमग्निमता सदा” इति
मत्स्यपुराणवचनस्य चैकवाक्यत्वात् । उशना च “प्रत्य-
व्दं दर्शवच्छाद्धं साग्निः कुर्वीत बै द्विजः । एकोद्दिष्टं
सदा कुर्य्यान्निरग्निः श्राद्धदः सुतः” । अत्र प्रागुक्तयुग्त्या
प्रेतश्राद्धस्य एकोद्दिष्टत्वाभिघानात् सांवत्सरिकश्राद्धे
तदेकोद्दिष्टपदमुक्तं तत् प्रेतश्राद्धधर्म्मग्राहित्वार्थम् । ततण
योग्यत्वादेकार्घ्यादिलाभः न च यथा प्रेतश्राद्धे पितृशब्द-
स्थाने प्रेतपदोहः तथात्रापीति वाच्यं सांवत्सरिके
प्रेतत्वाभावात्तथाबिधानानुपपत्तेः । एवं प्रतिसांवत्-
सरिकश्राद्धे सम्बन्धार्थकपदं आशीःप्रार्थनं शेषभोजनद्य
कर्त्तव्यम् ।
रजखलायां विशेषयति गोतमः “अपुत्रा तु यदा
भार्य्या सम्पाप्ते भर्त्तुराव्दिके । रजस्वला भवेत् मा तु
कुर्य्यात्तत्पञ्चमे दिनें । कुर्य्याच्छ्राद्धमिति शेषः । यत्तु
श्राद्धचिन्तामणौ “एकोद्दिष्टं त्रैवर्णिकेन सिद्धान्नेन
जर्त्तव्यम् । “एकोद्दिष्टन्तु कर्त्तव्यं पाकेनैव सदा स्वयम् ।
अभावे पाकपात्राणां तदहः समुपोषणम्” इति कघुहारी-
तवचनात् पाकपात्राभावः पाकसामग्र्यभाबोपलक्षणं
तदापि नामश्राद्धं किन्तूपोषणमेव श्राद्धस्थानीयमित्यर्थः ।
स्वयमित्यभिधानादपाटवादिनापि नान्यद्वारा कारयितव्यम्
अतएव उपवासेनैब श्राद्धस्थानीयेन तदकरणप्रायश्चित्तेन
बा कृतकृत्यतया श्राद्धविघ्नैत्यादिवचनादपि नैकादश्या-
मनुष्ठानमिति” तन्न पितृतृप्तेरजातत्वेनैकादश्यां तदनु-
ष्ठानस्य युक्तत्वात् । अन्यथा षोड़शश्राद्धाधिकारिणः
कदाचित्तथात्वे “यस्यैतानि न दीयन्ते प्रेतश्राद्धानि षोड़श ।
पिशाचत्वं ध्रुवं तस्य दत्तैः श्राद्धशतैरपि” इति यमचनेन
षोड़शश्राद्धाभावे प्रेतत्वपरीहारो न स्यात् । तस्मादुपवा-
सोन श्राद्धार्थः किन्तु तदानीन्तनाकरणप्रायश्चित्तार्थः
यथा स्वकालाकृतसंस्कारे प्रायश्चित्तं कृत्वा कालान्तरे
तत् करणं तथात्रापि तद्दिने उपवासं कृत्वा एकादश्यां
श्राद्धं कर्त्तव्यमिति । एकोद्दिष्टं नान्यद्वारा कार्य्यमित्यत्रापि
गोत्रजेतरत्वेन विशेषणीयं “न कदाचित् सगोत्राय श्राद्धं
कार्य्यमगोत्रजैः” इति प्रेतश्राद्धे ब्रह्मपुराणात् । अत्र
हि नागोत्रजस्य साक्षात् कर्त्तृत्व निषिध्यते सगोत्रायेत्यसम्ब-
न्धापत्तेः तस्मादगोत्रजैर्द्वारभूतैः सगोत्राय त्रातं न
पृष्ठ १५३४
क्वार्य्यमित्यर्थः । तथाच पर्य्युदासपक्षे गोत्रजद्वारा कारयि
तव्यमिति सुव्यक्तमेव प्रसज्यपक्षे तु अगोत्रजविशेषणस्वर-
सात् गोत्रजलाभः । प्रेतश्राद्धधर्म्मग्राहित्वात् सवित्सरिक-
मपि तथेति श्राद्धविवेकः । कल्पतरुरत्नाकरयोस्तु स्वगो-
त्रायेति पठितं स्वमात्मीयं गोत्रं यस्य स स्वगोत्रः विद्य-
मानगोत्रैत्यर्थः । यस्मै श्राद्धं कर्त्तव्यं तस्य स्वगोत्रजे
विद्यमानेऽन्यगोत्रजेन संघातान्तर्गतेन राज्ञा श्राद्धं न
कारयितव्यमिति व्याख्यातञ्च । एतन्मतेऽप्यूढ़दुहित्रादी-
नामसगोत्रत्वेऽपि न निषेधः । वस्तुतस्तु तत्पाठेऽपि कम्मै
धारयापेक्षया बहुव्रीहेर्जघन्यत्वात् स्वमात्मीयञ्च तत्
गोत्रञ्चेते तस्मै अन्यगोत्रजद्वारा श्राद्धंन कार्य्यमि-
त्यर्थः । अतोलघुहारीतवचने स्वयंपदं स्वगोत्र
परम् । अन्यथा ब्रह्मपुराणोक्तागोत्रजपदवैयर्थ्यापत्तेः ।
एवञ्च भविष्यपुराणप्रभासखण्डयोः “मृताहनि पुतु-
र्यस्तु न कुर्य्यात् श्राद्धमादरात् । मातुश्चैव वरारोहे!
वत्सरान्ते सृताहनि । नाहन्तस्य महादेवि! पूजां गृह्णाभि
नोहरिः” । मरीचिः । “पतिताऽज्ञानिनोमूर्खास्त्रियोऽथ
ब्रह्मचारिणः । मृताहं समतिक्रम्य चाण्डालेष्वभिजायते” ।
इत्याभ्यां कालमाधवीयधृताभ्यां वचनाभ्यां सांवत्सरिक
श्राद्धस्य मृताहकर्त्तव्यत्वेनावश्यकत्वात् भविष्यन्मृताहे स्वयं
कर्त्तव्यत्वसम्भावनारहितेन मृताहात् पूर्वकालेऽपि प्रतिनि-
धायते । “प्रक्षिप्याग्नि स्वदारेषु परिकल्प्यर्त्विजं तथा ।
प्रवसेत् कार्य्यवान् विप्रोवृथैव न चिरं क्वचित” इति
छन्दोगषरिशिष्टोक्तसाय प्रातर्होमप्रतिनिधिवत् । एवं
सति प्रतिनिध्यकरणएव एकादश्यां क्रियते । नच
पाकस्याङ्गत्वेन प्रधानतिथिकर्त्तव्यतानियम इति वाच्यम् ।
“व्रतोपवासनियमे घटिकैका यदा भवेत् । सा तिथिः
सकला ज्ञेया पित्रर्थे चापराह्णिकी” इति वचनेन मुहूर्त्त
मात्रलाभेऽपि कर्त्तव्यतोपदेशात् तदानीं पाके तदसम्भ-
वात् । एवमुदीच्याङ्गशेषभोजनेऽपि न तन्नियम इति” ।
एतच्च पुत्रदुहित्रोर्नित्यं प्रागुक्तवचनेभ्यः । मृतपितृकपौत्र-
स्यापि तथा । “सृतमासस्य यः पक्षस्तत्तिथौ प्रतिवत्सरम् ।
“यावत्स्मरति पौत्रोऽपि एकमुद्दिश्य दापयेत्” प्रचेतोवाक्यात्
लघुहारोतवाक्येन द्विजानां सिद्धान्नेर्नवेकोद्दिष्टकरणवि-
धानात् तत्पाकेधिकारिविशेषोनिरूप्यते । तत्र श्रा० त०
देवलः “तथैवामन्त्रितोदाता प्रातः स्नातः सहाम्बरः ।
आरभेत नवैः पात्रैरन्नारम्भं सबान्धवः” । अत्र
सबान्धव इत्यक्तेः सपिण्डानामपि पाकाधिकारः इति
गोड़ाचारः । नि० सि० बिशेष उक्तः । हेमा०
आश्वला० “समानप्रवरैर्मित्रैः सपिण्डैश्च गुणा-
न्वितैः । कृतोपकारिभिश्चैव पितृकार्यं प्रशस्यते” । व्यासः
“महिला चैव सुस्नाता पाकं कुर्यात् प्रयत्नतः । निष्-
पन्नेषु च पाकेषु पुनः स्नानं समाचरेत्” पृथ्वीचन्द्रोदये
ब्राह्मे । “रजस्वलाञ्च पाषण्डां पुंश्चलीं पतितां
तथा । त्यजेच्छूदां तथा बन्ध्यां विधवाम् चान्यगोत्रजाम् ।
व्यङ्गकर्ण्णां चतुर्याहस्नातामपि रजस्वलाम् । वर्ज्जये-
च्छाद्धपाकार्थममातृपितृवंशजाम्” स्मृतिसारे “न पाकं
कारयेत् पुत्रीमन्यां वाप्यसगोत्रजाम्! मृतबन्ध्यां
पुंश्चलीं च गर्भिणीञ्चैव दुर्मुखाम्” ।

एकोनचत्वारिंशत् स्त्री एकेनोना चत्वारिंशत् । (ऊनचल्लिश)

१ संख्यायां २ तत्संख्यान्विते च एवम् एकोनविंशत्या-
दयोऽपि एकेनोनतत्संख्यासंख्येययोः स्त्री ।

एकौघ पु० एकः अविच्छिन्नओघः प्रवाहः । अविच्छिन्नप्रवाहे

“एकौघेन स्वर्ण्णपुङ्खैर्द्विषन्तः” माघः ।

एज कम्पने भ्वा० आत्म० अक० सेट् । एजते ऐजिष्ट एजां-

बमूव आस चक्रे । एजकः एजितव्यः एजिता । एजितः
एजमानः एजनम् णिच् । एजयति जनमेजयः । “क्षुद्र-
मन्त्रमत एजयतेऽक्षिणी मे” भाग० ५, २, १५ । वेदे
गणव्यत्यासः । “एजतु दशमास्यो गर्भः” यजु०, २८ अथास्य
मध्यमेजतु” २३, २७ मुष्का विदस्या एजतो गोशफ”
२३, २८ । “उदेजति पतति यस्य तिष्ठति” अथ० २०८
११, १ । “सुखेन वृष्णिरेजति” ऋ० १, १०, २ उदङ्ङे
जत्यन्तरा वा एतदाहबनीयम्” श० ब्रा० १, ५, १, २५
क्वचिल्लोके तथा । “शतान्यशीतिरष्टौ च सहस्राणि च
विंशतिः । सर्पाणां प्रग्रहा यान्ति धृतराष्ट्रोऽयमेजति”
भा० आ० ८० अ० “त्वत्तःपरं नापरमप्यनेजदेजच्च
किञ्चिद् व्यतिरिक्तमस्ति” भाग० ७, ३, ३० । बलीपलित
एजत्कः” भाग० ६, ९, ४२, एजत्कः कम्पमानशीर्षः”
  • अप + अपगमने एङि पररूपम् अपेजते । क्वचिदन्तर्भूत-
ण्यर्थेऽपि । “अपेजते शूरो अस्तेव शत्रून्” ऋ० ६, ६४,
३ “शत्रून् अपेजते अपगमयति भा० । उद् + ऊर्द्ध्व-
गतौ उदेजते । “उदेजतु प्रजापति र्वृषा शुष्मेण वाजिना
अथ० ४, ४, २, “उदेजयान् भूतगणान्न्यषेधीत्” भट्टिः ।
प्र + प्रकर्षचलने पररूपम् प्रेजते । सम् + सङ्गतौ
नियमेन चलने “एवेदनु द्यून् किरण० समेजात्” ऋ० १०,
२७, ५ । “समेजात् नियमेन प्रयाति” भा० ।
पृष्ठ १५३५

एज दीप्तौ भ्वादि० पर० अक० सेट् । एजति ऐजीत् । एजाम्-

बभूव आस चकार । एजन् ।

एजथु पु० एज--बा० भावे अथु । कम्पे “महानवेग एजथुर्वेपथुष्टे” अथ० १२, १, १८ ।

एजय त्रि० एज--णिच्--खश् । कम्पके जनमजयः अनङ्ग-

मेजयः अरिमेजयः विश्वमेजयः ।

एजि त्रि० एज--इन् । वातरोगग्रस्ते ततीऽपत्ये कुर्वा० ण्य ।

ऐज्य तदपत्ये पुंस्त्री ।

एज्य त्रि० आ + यज--कर्म्मणि क्युप् । सम्यग्यजनीये

“आयजतामेज्या इष इति प्रजाया इषस्ता एवैतद्यायजूकाः”
शत० ब्रा० १७, ३, १५ ।

एठ बाधने भ्वादि० आत्म० अक० सेट् । एठते ऐठिष्ट रठाम्

बभूव आस चक्रे । एठनम् एठितः । बाधनमत्र शाठ्यम्

एड पुंस्त्री इल--स्वप्ने अच् डस्य लः । १ मेषे “श्वैडवराहेषूद

धारा प्राचीदं विष्णुरिति” कात्या० २५, ४, १८ ।
स्त्रियां जातित्वात् ङीष् २ बधिरे त्रि० । एडमूकः ।

एडक पुंस्त्री० इल--ण्वुल् डंस्य लः । १ वनच्छागे, २ पृथु

शृङ्गे मेषे ३ मेषमात्रे च जातित्वात् स्त्रीत्वे अजादि
त्वात् टापि क्षिपकादि० नात इत्त्वम् एडका । एड इव
प्रतिकृतौ कन् । मेषसदृशे दक्षिणापथप्रसिद्धे ४ पशुभेदे ।
वर्द्धन्ते पक्षिसंघाश्च तथा पशुगवेडकम्” भा० व० १४२ अ० ।
तस्येदम् अण् । ऐडक तत्संबन्धिनि त्रि० स्त्रियां
ङीष् । “अनैडकीरूर्णाः प्रक्षाल्य” कात्या० ५, ३, ७ ।
एडको नाम दक्षिणापथे मेषाकृतिः पशुः तस्येमाः
ऐडक्यः” कर्क० “तयोर्मेषे मेष्यां च यद्यनैडकीरूर्ण्णा
विन्देत ताः प्रणिज्य निश्लेषयेत्” शत० ब्रा० २, ५, २, १५,
एडकैवाचरपि क्यच् एडकीयति उपसर्गस्थावर्णात्
परस्य वा पररूपम् उपे(पै)डकीयति

एडगज पु० एडोमेष एव गज इव भक्षकत्वादस्य । (दाद-

मर्द्दन) चक्रमर्दे दद्रुघ्ने वृक्षे अमरः ।

एडमूक श्रि० श्रुतिरहितएडोबधिरश्चासौ मूकः । वाक्श्रुतिशक्तिरहिते ।

एडु(डू)क न० ईड--(ऊ)उक उलूका० नि० गुणः ।

१ अन्तर्न्यस्तास्थियुक्ते २ अन्तन्यस्तकठिनद्रव्ययुक्ते च कुड्येतभि-
त्तिमात्रे च । एडूकचिह्ना पृथिवी न देवगृहभूषिताः”
भा० व० १० । तस्य पुंस्त्वमपि “एडूकान् पूजयिष्यन्ति
पर्ज्जयिष्यन्ति देवताः” भा० व० १९० अ० । स्वार्थेऽण ।
ऐडूकमपि वा० ओकः एडोकमपि तत्रैव द्विरूपकोषः ।

एण पुंस्त्री इ--ण तस्य नत्त्वम् । कष्णवर्णे मृगे । स्त्रियाम्

ङीप् “यस्य स्तनप्रणयिभिर्मुहुरेणशावैः” रघुः । “अष्टा-
वेणस्य मांसेन रौरवेण नवैव तु” मनुः । तस्य कृष्णत्व-
मुक्तम् छन्दोग० “अनृचोमाणवोज्ञेय एणः कृष्णमृगः
स्मृतः । रुरुर्गौरमुखः प्रोक्तः शंवरः शोण उच्यते” ।
“तं त्वेणकुणकं कृपणं स्रोतसानुह्यमानम्” भाग० ५, ८, ८
“एणकुणकं मृगशावकम्” श्रीधरः । एगया क्रीतम् “एण्या
ढञ् पा० ढञ् । ऐणेय एणीक्रीते त्रि० । एणेन क्रीत-
मित्यत्राणेव । ऐण तत्क्रीते त्रि० । स्वार्थे कन् । एणक
तत्रैव शब्दरत्ना० ।

एणतिलक पु० एणस्तिलकमिव चिह्नं यस्य । मृगाङ्के चन्द्रे हारा० ।

एणभृत् पु० एणं बिभर्त्ति भृ--क्विप ६ त० । चन्द्रे तस्य-

मृगाङ्गत्त्वात् तथात्वम् ।

एणीपचन न० एणी पच्यते अत्र पच--आधारेल्युट् “एणी-

पाकाधारे देशभेदे स्त्रीपशीरबध्यत्वेऽपि तद्देशवासिभि-
र्निषेधमुल्लङ्घ्यतत्पचनात्तथात्वम् । तत्र भवः पक्वे छ ।
एणीचनीय तद्देशभवे त्रि०

एणीपद त्रि० एण्याःपादाविव पादावस्य अच् नि० पद्भावः । एणीपादाकारपादयुक्ते ।

एत पु० इण--तन् । १ कर्व्वुरवर्णे । २ तद्वति त्रि० । तोपध-

वर्णवाचित्वात् स्त्रियां ङीप् तस्य नश्च । “त्र्येन्याः
शलल्याः” श्रुतिः “मैत्रोवरुण्योऽन्यत एन्योमैत्र्यः”
यजु० २४, ८ । वर्णवाचिनि एते परे “वर्ण्णोवर्ण्णेष्वनेते”
पा० एतशब्दपर्य्युदासात् तत्पुरुषे पूर्ब्बपदं न प्रकृत्या ।
कृष्णैतः शुक्लैत इत्यादौ न प्रकृतिस्वरः । आ +
इणकर्त्तरि क्त । ३ आगते त्रि० । “कया मती कुत एतास
एतेऽर्चन्ति” ऋ० १, ६५, १ । “एतास आगताः” भा० महो
भिरेता उपयुज्महे” ऋ० १, ६६, ५ । “एतानागन्तून्” भा०

एतग्व पु० एतवर्ण्णोऽश्वः पृषो० । १ चित्तवर्ण्णाश्वे । “एतग्वा

चिद्य एतशा युयोजते हरी” ऋ० ८, ७०, ७ । “एतग्वा
एतवर्ण्णावेवाश्वौ” भा० । “पिपर्त्त्येतग्वा चिन्न सुयुजा
युजानः” ऋ० ७०, ७, २ । २ अश्वमात्रे निरु० ।

एतद् त्रि० इण्--अदि तुक् च । बुद्धिस्थे समीपवर्त्तिनि

“इदमस्तु सन्निकृष्टं समीपवर्त्ति चैतदोरूपम् । अदसस्तु
विप्रकृष्टं तदिति परोक्षेविजानीयात्” इत्युक्तेः समीपवर्त्ति
बुद्धिस्थोपलक्षितधर्म्मावच्छिन्ने एतदो वृत्तिः । क्रिय-
विशेषणत्वेऽस्य क्लीवता “न वा उ एतन्म्रियसे ऋ०
१, १६२, २१ । अस्य सर्ब्बनामकार्य्यम् । एते एतस्मै
एतस्मात् एतेषाम् एतस्मिन् एतस्या एतासामित्यादि । “एते
वयममी दाराः” कुमा० । “देवा एतस्यामवदन्त पूर्व्वे”
१०, १००, १४ । एष वैप्रथमः कल्पः” मनुः । “एतणि-
पृष्ठ १५३६
न्नन्तरे देवी” देवीमा० “एतान् महाराज! विशेषधर्म्मान्”
शु० त० पुरा० । “एषा तेऽभिहिता सांख्ये” “एतत्ते
सर्वमाख्यातम्” गीता । अनूक्तौ तु “द्वितीयाटौस्मेनः” पा०
एनम् एनौ एनान् एनेन एनयोः । “एनोनिवृत्तेन्द्रिय-
वृत्तिरेनम्” रघुः । “महाशनोमहापाप्मा विद्ध्येनमिह
वैरिणम्” गीता क्लीवेऽपि अनूक्तौ एनादेशः । इदं कुलं
शोभते एनत्पश्य । परिमाणे वतु आदन्तादेशश्च ।
एतावत् एतत्परिमाणे त्रि० “एतावानेव पुरुषोयज्जायात्मा
प्रजेति ह” मनुः “किंवेतावन्मात्रमुपजानीन” शत० ब्रा०
१, ६, १, ४ । “एतावदुक्त्वा विरते मृगेन्द्रे” रघुः “एतावता
नन्वनुमेयशोभि” कुमा० स्त्रियां ङीप् । “एतावती महिना
सं बभूव” ऋ० १०, १२५८ । एतदि दृश--क्विन् क्स टक् ।
आदन्तादेशः । एतादृश् एतादृक्ष एतादृश एतत्तुल्यदर्शने
त्रि० तत्र क्विनन्तस्य झलि पदान्ते च कुः “एतादृक्कृशता
कुतः” सा० द० । टगन्तस्य स्त्रियां ङीप् । “अस्थाने पतता-
मतीव महतामेतादृशी स्याद्गतिः” उद्भटः । तस्येदमित्यर्थे
छ । एतदीय एतत्सम्बन्धिनि त्रि० । एतदात्मकः मयट्
एतन्मय एतदात्मके त्रि० । परिमाणे मात्रच् । एतन्मात्र
एतत्परिमाणे त्रि० स्त्रियां ङीप् । दिग्देदेशकालवृत्ते-
स्तस्मात् प्रथमापञ्चमीसप्तम्यर्थे त्रल् तसिश्च । एतत्र एतस्
प्रथमाद्यर्थयुक्तैतच्छब्दार्थदिगादौ अव्य० । अन्वादेशे
“एतदोऽश् त्रतसोस्त्र तसौ चानुदात्तौ” पा० उक्तेः अशादेशे
अत्र अतः इत्येवेति भेदः ।

एतन पु० आ + इण्--तन । निश्वासे हेमच० । निश्वासस्य सन्ततगतित्वात्तथा ।

एतर्हि अव्य० इदम् + काले र्हिल् “एतैतौ रथोः” पा०

एतादेशः । अस्मिन् काले इत्यर्थे “अथ योऽयमेतर्ह्यग्निः
स भीषा निलिल्ये” शत० ब्रा० १, २, ३, १ । “एतर्हि
खलु वा एतद्यज्ञमुखम्” तैत्ति० ।

एतश पु० इण्--तशन् । १ ब्राह्मणे उज्ज्व० २ अश्वे निरु० ।

“येन वृश्चादेतशो ब्रह्मणस्पतिः” ऋ० १०, ५३, ९ ।
“यत्रैतशोऽभिधीयसे” यजु० ४, ३२ । “सजूः सूर
एतशेन” १२, ७४ । एतशेनाश्वेनेति” वेददी० “उभे चक्रं
न वर्त्येतशस्” ऋ० ८, ६, ३८ ।

एतशस् त्रि० इण्--तसुन् । १ ब्राह्मणे २ अश्वे च ।

एदिधिषुःपति पु० इण्--विच् कर्म्म० पृषो० मध्ये सुट् ।

अग्रेदिधिषुंपतौ । “निरृत्यै, परिविन्दानमारद्ध्या
अदित्यै, एदिधिषुःपतिं निष्कृत्यै” यजु० ३०, ९ ।
पुरुषमेधीयपशुदेवताभेदकीर्त्तने

एध वृद्धौ भ्यादि० आत्म० अक० सेट् । एधते ऐधिष्ट । एधाम्-

बभूव--आस--चक्रे । एधितव्यः एधनीयः एध्यः एधिता
एधितः एधनम् एधः एधमानः एधित्वा समेध्य एधांसि ।
“हिरण्यभूमिसंप्राप्त्या पार्थिवो न तथैधते” मनुः । क्वचिदस्य
आमभावः “यत्र मैथुनैरेधिरे प्रजाः” भाग० ३, २१, १ ।
आर्षत्वात् समाधेयः “तपसा महतैधित” भा० आ० ८८३ ।
“विवर्द्ध ज्वलना इवैधमानाः” ७१, ५५ । “लोकयोरुभयोः
शक्यं नित्यदा सुखमेधितुम्” रामा० । क्वचित् पर० ।
“न हि साहसकर्त्तारः सुखमेधन्ति भारत!” भा० व०
२४५ अ० । णिचि एधयति ते ऐदिधत् त । “किं त्वं
मामजुगुप्सिष्ठानैदिधः स्वपराक्रमम्” भट्टिः । उपसर्ग-
स्थावर्णात् वृद्धिरेव न पररूपं प्रैधते एङादित्वे एव तथा
तेन मा प्रेदिधत् इत्यादौ न वृद्धिः ।

एध पु० इध्यतेऽग्निरनेन इन्ध--करणे घञ् नि० नलोपगुणौ ।

काष्ठे “एधान् हुताशनवतः स मुनिर्ययाचे” रघुः “एधो-
दक्वं मूलफलमन्नमभ्युदितं च यत्” मनुः । “यथैधः स्वस-
मुत्थेन वह्निना नाशमृच्छति” भा० व० ८४ अ० ।

एधतु पु० एध--कर्त्तरि चतु । १ पुरुषे उज्व० । २ अग्नौ मे०

३ वृद्धियुक्ते त्रि० शब्दर० भावे चतु । ४ वृद्धौ स्त्री । “युवं
हिष्मा पुरुभुजेममेधतुम्” ऋ० ८, ८६, ३, “एधतुं धनादि-
वृद्धिम्” भा० “ते हैतामेधतुमेधाञ्चक्रिरे” शत० ब्रा०
६, २, ३, “एतामेधतुमृद्धिम्” भा०

एधस् न० इध्यतेऽग्निरनेन इन्ध--असि नि० नलोपगुणौ ।

काष्ठे “यथैधांसि समिद्धोऽग्निर्भस्मसात् कुरुतेऽर्ज्जुन ।”
गीता । “अनलायागुरुचन्दनैधसे” रघुः । “फलैधः कुसु-
भस्तेयमधैर्य्यञ्च मलावहम्” “यथैधस्तेजसा वह्निः” मनुः ।

एधा स्त्री एध--भावे अ । समृद्धौ अमरः

एधित त्रि० एध--कर्त्तरि क्त । १ वृद्धे णिच्--कर्म्मणि क्त ।

२ वर्द्धिते त्रि० । “मधुसमृद्धिसमेधितमेधया” माघः ।

एनस् ब० एति गच्छति प्रायश्चित्तेन क्षमापणेन वा

आगसि अर्थे इण--असुन् नुट् च । १ अपराधे । ईश्वराज्ञा
लङ्घनरूपनिषिद्धाचरणापराधजन्यत्वात् २ पापे च ।
“एनोनिवृत्तेन्द्रियवृत्तिरेनम्” । “अकामोपनतेनेव
साधोर्हृदयमेनसा” । “एनसां स्थूलसूक्ष्माणां चिकीर्ष-
न्नपनोदनम्” मनुः । पापभेदाश्च प्रा० वि० दर्शिताः यथा
“अथ पापोद्देशः । तत्र विष्णुः “अथ पुरुषस्य काम
क्रोधलोभाख्यं रिपुत्रयं सुघोरं भवति परिग्रहप्र-
सङ्गाद्विशेषेण गृहाश्रमिणस्तेनायमाक्रान्तोऽतिपातक
पृष्ठ १५३७
महापातकानुपातकोपपातकेषु प्रवर्त्तते । जातिभ्रंश
करेषु सङ्करीकरणेषु अपात्रीकरणेषु मलावहेषु प्रकी-
र्ण्णेषु च” । अनेन नवविधत्वं पापस्योक्तम् । हारीतस्तु
पञ्चविधत्वमाह “पञ्चविधमशुद्धं भवति प्रासङ्गिकोपपातक-
पातकमहापातकात्यन्तपातकानि” पूर्ब्बवचने पूर्व्वं पूर्ब्बं
गरीयः अत्र तूत्तरोत्तरम् । प्रासङ्गिकं जाति
भ्रंशकरादिपञ्चकम् । पातकपदमनुपातकपर्यायः । ननु
नवस्वेव पापेषु पातकशब्दो दृश्यते यथा पैठीनसिः
“स्त्रीगोवृषलवैश्यक्षत्रियघाती शूद्रसहभोजी कन्या-
दूष्यगारदाही वृषलीपतिः अग्न्युच्छेदी चेति
पातकानि” नवविधं पापमभिधायाह विष्णुः । “एवं
पातकिनः पापमनुभूय सुदुखिताः । तिर्य्यग्योनौ प्रप-
द्यन्ते दुःखानि विविधानि च” । याज्ञवल्क्यः “नीचाभि-
गमनं गर्भपातनं भर्त्तृहिंसनम् । विशेषपतनीयानि
नृणामेतान्यपि ध्रुवम्” । पतनीयानि पातकानीत्यर्थः ।
“कृत्यल्युटोबहुलमिति” करणेऽनीयर् । तथा गौतमः
“ब्रह्महासुरापगुरुतल्पगमातृपितृयोनिसम्बन्धागस्तेन
नास्तिकनिन्दितकर्म्माभ्यासिपतितात्याग्यपतितत्यागिनः
पतिताश्च पातकसंयोजकाश्च तैश्चाव्दं समाचरन्” । पातक
संयोजकाः सुरापाणादौ यः परान् प्रयोजयति सः ।
बाढम् । सामान्यशक्तस्यापि विशेषशक्तिर्भविष्यति
मृगादिपदस्येव, हारीतेन विशेषगणने पाठात् । तथा
च्यवनः “अथ पातकोपपातकमहापातकानि व्याख्यास्यामः”
इति । तथा च पठन्ति । “महापातकतुल्यानि पापान्यु-
क्तानि यानि तु । तानि पातकसंज्ञानि तदूनमुपपातक-
मिति” । ततो महापातकतुल्यपापविशेषेष्वप्यस्य शक्तिः ।
पतनशब्दार्थमाह गौतमः “द्विजातिकर्म्मभ्योहानिः
पतनम् परत्र चासिद्धिस्तमेके नरकम्” । द्विजातिकर्म्म
श्रौतमग्निहोत्रादि स्मार्त्तमष्टकादि प्रायश्चित्ततदङ्गजपा-
दिव्यतिरिक्तम् तेभ्योहानिरनधिकारः इति । द्विजाति
ग्रहणं प्राघान्यार्थम् शूद्रस्यापि वाक्यान्तरेण पाति-
त्याभिधानात् । इहलोके तावत् पातित्यलक्षणमनिष्टं
परलोके चासिद्धिः पापकर्म्मप्रतिबन्धादुपात्तसुकृतफला-
निष्पत्तिः नरकं वा । सूतकादिव्यावृत्यर्थमिदम्” ।
पापलक्षणं पापसत्तायां प्रमाणञ्च प्रा० वि० दर्शितं यथा
“ननु किं पापलक्षणम्” उच्यते “नोदनालक्षणार्थोधर्म्मः!”
इत्यस्मिन् सूत्रे वेदैः प्रतिपाद्योऽर्थोधर्म्म इति धर्म्मलक्षणं
कुर्य्यता सूतकारेण जैमिनिना वेदैकप्रतिपाद्योऽनर्थो-
ऽधर्म्म इत्यधर्म्मलक्षणं सूचितम् । अनर्थश्चानिष्टसाधनं
तथाचोक्तं भाष्यकृता “कोऽर्थोयोऽभ्युदयाय कोऽनर्थोयोऽन-
भ्युदयायेति” । ननु पापसत्तायां किं प्रमाणं न तावद्वेदः
तस्य कार्ये कार्यान्विते वा प्रामाण्यात् न च दुरितापूर्व्वं
कार्य्यं कार्य्यान्वितं वा । न च नित्यकर्म्मानाचरणस्य
निषिद्धाचरणस्य च वेदोक्तप्रत्यवायसाधनत्वानुपपत्त्या-
कम्प्यम् तस्य तयाविधशब्दाभावेन सिद्धत्वेन
चावगन्तुमशक्यत्वात् उच्यते “यो ब्राह्मणायावगुरेत्तं
शतेन यातयेदिति” श्रुतौ लिङ्द्वयश्रुतेरवगोरणशत-
यातनयोः साध्यसाधनफलभावोऽवगम्यते “हेतुहेतुमतो-
र्लिङिति” पा० लिङः स्मरणादिति यथोक्तं शंय्वधिकरणे,
तथाऽऽत्रापि क्वचित् पञ्चम्या क्वचित् तृतीयया क्वचिच्च
विशेषणपदादवगम्यते । यथा याज्ञवल्क्यः “वहितस्यान-
नुष्ठानान्निन्दितस्य च सेवनात् । अनिग्रहाच्चेन्द्रियाणां
नरः पतनमृच्छति” । मनुः “शरीरजैः कर्म्मदोषैर्याति स्था-
वरतां नरः । वाचिकैः पक्षिमृगतां मानसैरन्त्यजाति-
ताम् । इह दुश्चरितैः केचित् केचित् पूर्व्वकृतैस्तथा ।
प्राप्नुवन्ति दुरात्मानोनरारूपविपर्य्ययम्” । तथा विष्णु
पुराणम् “नरकं कर्म्मणःपापादेवमाहुर्महर्षयः” ।
तथायमः “सुरापो ब्रह्महा गोघ्नः सुवर्ण्णस्तेयकृन्नरः ।
पतितैः संप्रयुक्तश्च कृतघ्नोगुरुतल्पगः । एते पतन्ति सर्ब्बेषु
नरकेष्वनुपूर्ब्बशः” । अत्रैते सुरापादयः पतन्तीति सुरा-
पादीनां पतनकर्तृत्वावगतेः कर्तृत्वञ्च साधनत्वविशेषः
अतः सुरापाणादिविशिष्टस्य पुरुषस्य पतनसम्बन्धे विशे-
षणस्य सुरापाणादेः सति सम्भवे पतनसाधनत्वमवगम्यते
“मप्तदश प्राजापत्यान पशूनालभेतेति वत् । एवं “वारिद
स्तृप्तिमाप्नोति” इत्यादावपि । नरकसाधनत्वस्य कार्य्यान्वया
भावात कथं शब्दादवगतिरिति चेत् शंयुवद्विषयविशेषण
तया इति व्रूमः यथा शतयातनासाधनादवगोरणान्नि-
वर्त्तितव्यमिति विधिः, तथा नरकसाधनात् सुरापाणा-
देर्न्निवर्त्तेतेति, नित्येऽपि यस्याकरणे प्रत्यवायस्तस्मिन् कर्म्मणि
प्रवर्त्तेतेति विध्यङ्गीकारात् । अथवा यद् यत्साधन
तदभावस्ततपरीहारसाधनमिति लोकादवगतत्वात् अर्थात्
प्रत्यवायपरिहारस्योपस्थितत्वात् तदर्थिनोऽधिकारोनित्य-
निषेधेष्वपि । ननु “अहरहः सन्ध्यानुपासीत” इत्यादौ
जीवनस्यसन्ध्योपासनव्याप्त्यवगमात् जीवनवतोऽधिकारः ।
“न कलञ्जम्भक्षयेत्” इत्यादौ निवृत्तिस्वभावनिरुद्धा
प्रवृत्ति रधिकारिविशेषण तथाचोवोक्त “मनसा तु प्र-
पृष्ठ १५३८
वृत्तस्य भूतचेष्टावतोऽपि वा । यदनागतभावस्य वर्ज्जनं
तन्निवर्त्तनमिति” अतः कथं प्रत्यवायपरीहारार्थिनोऽ-
धिकारः उच्यते प्रत्यवायपरीहारस्याप्युपस्थितत्वात्
जातेष्टिवत् संवलिताधिकार एव भविष्यति तथा च
जावालः “क्षयं केचिदुपात्तस्य दुरितस्य प्रचक्षते ।
अनुत्पत्तिं तथा चान्ये प्रत्यवायस्य मन्वते । नित्यक्रियान्तथै-
वान्ये ह्यनुषङ्गफलां श्रुतिम्” । अनुत्पत्तिमित्यनेन प्रव-
वायपरीहारः फलमित्युक्तम् । अथवा प्रायश्चित्तवि-
धिषु रात्रिसत्रन्यायेनार्थ वादिकपापक्षयार्थिनोऽधिकारात् ।
एवं च विधयः पाप्रसत्तां बोधयन्ति तथाचाङ्गिराः
“उद्गच्छन् यद्वदादित्यस्तमः सर्व्वं व्यपोहति । तद्वत्-
कल्याणमातिष्ठन् नरं पापं व्यपोहति” । पापञ्चेद्
पुरुषं कृत्वा कल्याणमभिपद्यते । मुष्यते पातकैः सर्व्वे-
र्महाभ्रैरिव चन्द्रमाः” । काल्याणं प्रायश्चित्तम् । यमः
“तपसोऽन्ते विशुद्ध्यन्ति कर्मणां वापरिक्षयात् । तस्मात्
कर्त्तव्यमेतत्तु प्रायश्चित्तं विशुद्धये” । कर्म्मणां भोगेन
परिक्षयादित्यर्थः । अपरं स्मृत्यन्तरे ज्ञेयमिति । ननु
किं पापोत्पत्तिकारणम्? उच्यतेविहिताकरणं निषिद्धा-
चरणञ्च पापकारणं तदाह मनुः । अकुर्वन् विहितं
कर्म्मनिन्दितञ्च समाचरन् । प्रसजंश्चेन्द्रियार्थेषु प्राय-
श्चित्तीयते नरः” । प्रायश्चित्तार्हताज्ञापनेन पापसत्तां
प्रतिपादयति । तथमयाज्ञवल्क्यः । “विहितस्याननुष्ठाना-
न्निन्दितस्य च सेवनात् । अनिग्रहाच्चेन्द्रियाणां नरः
पतनमृच्छति” ।
पापस्य यथा वेदबोध्यत्वं तथा मीमां० भा० दर्शितम् यथा
“उभयमिह चोदनया लक्ष्यते अर्थोऽनर्थश्च इति कोऽर्थ?
यो निश्रेयसाय ज्योतिष्टोमादिः । कोऽनर्थः? यः
प्रत्यवायाय श्येनोवज्रः इषुरित्येवमादिः तत्र अनर्थो
धर्म्म उक्तोमा भूत् इति अर्थग्रहणम् । कथंपुनरनर्थ?
हिंसा हि सा साच प्रतिषिद्धेति । कथंपुनरनर्थः कर्त्तव्य
तयोपदिश्यते? । उच्यते नैव श्येनादरः कर्त्तव्यः विज्ञा
यते योहि हिंसितुमिच्छेत् तस्यायमभ्युपायः इति हि
तेष मुपदेशः “श्येनेनाभिचरन् यजेत” इति समाम-
नन्ति हि “नाभिचरितव्यम्” । “अतएव मूलकर्म्मरूपा-
भिचारस्योपपातकसंज्ञा कृता मनुना तेन तस्यानर्थहेतुत्वं
तव्यक्तमेव । यथा च कलञ्जभक्षणश्येनादेरनिष्टसाधन-
त्वेऽपि वेदबोध्यत्वं तथा शब्द० चि० समर्थितं यथा
मनु “व कलञ्जं नक्षयेत्” इत्यत्र विध्यर्थनिषेधानुपपत्तिः
तद्भक्षणस्य दृष्टेष्टसाधनत्वात् । न चासुराविद्यावत् पर्य्यु-
दासलक्षणया विबोध्यनिष्टसाधनताबोधन, नञोऽसमस्त-
त्वात् क्रियासङ्गतत्वेन प्रतिषेधवाचकत्वव्य तपत्तेश्चेति
चेत् न विशेष्यवति विशिष्टनिषेधस्य “सविशेषणे हीति”
न्यायेन विशेषणभिषेधपर्य्यवसायितया कलञ्जभक्षणमि-
ष्टोत्पत्तिनान्तरीयकदुःखाधिकदुःखसाधनमिति “न कलञ्ज
भक्षयेत्” इत्यनेन बोधनात् । इष्टसाधनतावाचकस्य विधेः
सामान्ये निषेधानुपपत्तेर्बलवदनिष्टाननुबन्धीष्टसाधनवि-
शेषे तात्पर्य्यम् तथा चाशक्यविशेषणनिषेधपरत्वं नज
इति कश्चित् तन्न यथाह्ययोग्यतया छिद्रं विहाय
घटत्वेन तदितरान्वयो न तु छिद्रेतरत्वेन, युगपद्वृतिद्वय-
विरोधात् तथेहापि बलवदनिष्टाननुबन्धित्वेन नोपस्थिति-
रिति कथं निषेधः? । “श्येनेनाभिचरन् यजेत” इत्यत्र
कयं विधिप्रवृत्तिः हिंसाया बलवदनिष्टसाधनत्वादिति
चेत् तत्र कृतिसाध्यत्वे सति इष्टसाधनता योग्यतया
न्येति न तु बलवदनिष्टाननुबन्धित्वमपि अयोग्यत्वात्
निन्दार्थवादेन प्रायश्चित्तोपदेशेन वा हिंसाया बलवदनिष्ट-
साधनत्वोपगमात् । अत एव विहितेऽपि श्येने विणना-
न्नतात्त्विकप्रवृत्तिः । रागद्वेषयोरुत्कटत्वेनानिष्टाननुबन्ध्यं
शम्य तिरोधानात्तु कस्यचित् प्रवृत्तिरित्येके । अन्येत्वभि-
चारस्य वैरिबधफलत्वेन श्रुतत्वात् तत्साधनत्वेन श्येनो-
विधीयते नतु बधसाध्यनरकसाधनत्वेनाश्रुतत्वात् । न च
जनकजनकस्य जनकत्वनियमः कुम्भकारपरम्परायाः कुम्भ
कारणत्वापत्तेः विधिनैव श्येनस्य बलवदनिष्टाननुबन्धित्वस्य
बोधनाच्च । न च श्येनस्य नरकाहेतुत्वेनापेक्षितवेरिषध-
हेतुत्वे सत्यविगीतत्वेन प्रवृत्तिः स्यादिति वाच्यम् । श्ये-
नाद्वेरिबधोबधाच्चावश्यं नरकमिति प्रतिसन्धानेन विगा-
नात् । ननु श्येनोमरणफलकव्यापारत्वेन हिंसा हिंसा च
नरकजनिकेति चेन्न । नहि साक्षात् परम्परासाधारण-
मरणफलकव्यापारो हिंसा कूपादौ नष्टे गवि तत्कर्त्तु-
र्हन्तृत्वप्रसङ्गात् बध्यस्यापि हन्तृमन्यूत्पादनद्वारात्महन्तृत्व-
प्रसङ्गाच्च । न ह्यनुत्पादितमन्युः कश्चित् कञ्चित् व्याप-
दयति । नन्वनुनिष्पादितमरणफलकव्यापारो हिंसा यदनन्तः
मरणं भवत्येव न च श्येनस्तथा किन्तु खड्गहनना
दिकमेव । अथ मरणानुकूलोव्यापारो मरणेद्देशे-
नानुष्ठीयमानो हिंसा श्येनश्च तथा, कूपादौ च न मरणो-
द्देशेनानुष्ठोयमानत्वमिति चेत् एव सति गौरवात्
मरणानुद्देशेन क्षिप्तनारासाद्धते ब्राह्मणे हिंसा न स्यात् ।
पृष्ठ १५३९
हिनस्तिधात्वर्थतावच्छेदकं फलमव्यषहितमेव मरणम्
अव्यवहितफलकव्यापारस्यैव धातुवाच्यत्वात् अन्यथा परम्प
रया विकॢत्तिफलकान्नकामे तण्डुलं कुर्वत्यपि पचतीति
प्रसङ्गात् अथ खड्गघातानन्तरं यत्र विलम्बेन मरणं व्रण-
पाकपरम्परया वा, अन्ने विषप्रयोगेण वा तत्र हन्तृत्वं
प्रायश्चित्तादि च न स्यादिनि चेत् न प्रायश्चित्ततुल्यत्वार्थं
हि तत्र हन्तृत्वव्यपदेशो गौणः विनिगमनन्तु लाघवमेव
वस्तुतस्तु मरणोद्देशेन कृतोऽदृष्टाद्वारकस्तदनुकूलो-
व्यापारः हिंसा श्येनश्चादृष्टद्वारामरणसाधनमतो न हिंसा ।
यद्यदृष्टद्वारा मरणसाधनं हिंसा स्यात्तदा सप्तमीतैलाभ्य-
ङ्गस्यादृष्टद्वारेण विनाशसाधनत्वात् तत्कर्त्तुः हिंसकत्वा-
पत्तिः । अत एव कूपादौ गोमरणेऽपि न गोबधकर्त्तृता
तत्कर्त्तुः, गललग्नान्नमरणेन भक्तुरात्महन्तृत्वं, परिवेषयितुर्वा
ब्राह्मणहन्तृत्वम् । व्रणपाकपरम्परया विलम्बेन
विषप्रयोगेण च हन्तृत्वं मुख्यमेव । नाप्यनुनिष्पादितमरणफल-
कत्वं, गललग्नान्नमरणेस्वहन्तृत्वापत्तेः । अन्योद्देशेन क्षिप्तना
राचहते ब्राह्मणे ब्राह्मणहन्तृत्वं न स्यादिति चेत् न इष्टा
पत्ते । व्यपदेशः प्रयोगो वा लक्षणया समर्थयितुं शक्य-
ते, त्वत्पक्षेऽतिप्रसङ्गो वारयितुं म शक्यत इतीदमेव विनि-
गमनम् । अन्योद्देशेन कृतेऽपि निषिद्धे प्रायश्चित्तार्द्धमुक्तम् ।
अपरे तु अनभिसंहितावान्तरव्यापारमद्वारीकृत्य
मरणसाधनं हिंसा, खड्गकारस्यानभिसंहितावान्तरव्यापारद्वारा
मरणसाधनत्वं तस्य हि अवान्तरव्यापारोनाभिसंहितः ।
किन्तु धनलाभ इति खड्गकारो न घातकः विषस्यान्ने
प्रक्षेपणमवान्तरव्यापारो भोजनमेवाभिसंहितम् अनेनेद
भोक्तव्यमिति सन्धाय विषप्रयोगादिति हिसैव विषप्रयोग
इति तन्न गणलग्नान्नकवलाद्यत्र मरणं तत्र परिवेषयितु
र्षातकत्वापातात् अनेनेदं भोक्तव्यमित्यभिसन्धायैवान्न-
परिवेषणात् भोक्तुःहन्तृत्वापत्तेश्च अनभिसंहितमवान्तर
व्यापारमद्बारीकृत्य मरणानुकूलभक्षणानुष्ठानात् । अत एव
अव्याहितप्राणवियोगफलकोव्यापारो हिंसा व्रणपाकपर-
म्परयामृते न हन्तृत्वं व्यापारव्यवधायकत्वादिति निरस्तम्”
श्येनादेर्वेदबोधितत्वेऽपि यथाऽनर्थहेतुत्वं तथाऽभि-
धार शब्दे दर्शितवचनैरुक्तम् अधिकं श्येनशब्दे वक्ष्यते ।
एनसाकृतम् यत् । एनस्य पापरचिते त्रि० “यक्ष्ममेनस्यम्”
अथ० ८, ७, ३ । एनोऽस्त्यस्य मतुप् मस्य वः । एनस्वत्
विनि । एनस्विन् पापयुक्ते त्रि० उभयत्र स्त्रियां
ङीप । “मा त एनस्वन्तो यक्षिन् भुजेम” ऋ० ७, ८८, ६ ।
एनस्वन्तं चिदेनसः सुदानवः ८, १८, १२ । “एनस्विभि-
रनिर्णिक्ते नार्थं किञ्चित् समाचरेत्” । “अव्दार्द्धमिन्द्र-
मित्येतदेनस्वी सप्तकं जपेत्” मनुः । “इण आगसोति”
उणा० अपराध एव साधुत्वम् पापे तु ईश्वराज्ञालङ्घन-
रूपापराधजत्यत्वेनोपचारात् इति बोध्यम् ।

एम त्रि० इण--कर्म्मणि म । १ प्राप्ये । “अर्थश्च म एमश्च”

यजु० १८, १५, “एमः प्राप्तव्यार्थः” वेददी० ।

एमन् न० एत्यनेन मार्गेण इण--करणे मनिन् । १ गतिमार्गे

“कृष्णं त एम रुशतः” ऋ० ४, ७, ९ । “कृष्णं त एम
रुशदूर्मे १, ५८, ४ । “एमन्शब्देन गमनमार्ग उच्यते” भा०
एत्यत्र आधारे मनिन् । २ अवस्थितिस्थाने । “पृष्ठे
समुद्रस्येमन्” यजु० १३, १७, “एमन् अवस्थाने” वेददी० ।
“अपां त्वेमन्त्सादयामि” १३, ५३ । सप्तम्या लुकि न
नलोपः । भावे मनिन् । ३ गमने । “दूरे दृशो ये
चितयन्त एमभिः” ऋ० ५, ५९, २ एमभिर्गमनैः” भा० ।

एरका स्त्री इण--बा० र ततः संज्ञायां कन् । निर्ग्रन्थि-

तृणभेदे (नलखाडा) “एरका गुन्द्रमूला च शिम्बी
गुन्द्रा शरीति च । एरका शिशिरा वृष्या चक्षुष्या
वातकोपिनी । मूत्रकृच्छ्राश्मरीदाहपित्तशोणितना-
शिनी” मावप्र० । “ददार करजैरूरावेरकां कटकृद्यथा”
भाग० १, ३१९, “एरकाणां तदा मुष्टिं कोपाज्जग्राह
केशवः” । भा० मौस० ३ अ० “एरकारूपिभिर्वज्रैर्निज
घ्नुरितरेतरम्” भा० आ० २ अ० । २ कौरव्यवंशजे
सर्पभेदे “एरकः कुम्बलोवेणी वेणीस्कन्दः कुमारकः”
भा० आ० ५७ अ० । नागनामकीर्त्तने

एरङ्ग पु० आ + ईर--अङ्गच् । मत्स्यभेदे, “एरङ्गोमधुरः स्निग्धो

विष्टम्भी शोतलो गुरुः” राजनि० तद्गुणः ।

एरण्ड पु० ईरयति वायुम् मलं वाऽधः ईर--अण्डच् नि० गुणश्च ।

१ वृक्षभेदे (एरडी) । (भेरण्डा) । “एरण्डयुग्भं भधुर
मुष्णं गुरु विनाशयेत् । शूलशोथकटीवस्तिशिरःपीडो-
दरज्वरान् । व्रध्नश्वासकफानाहकासकुष्ठाममारुतानिति”
एरण्डयुग्मम् शुक्लरक्तैरण्डौ “एरण्डपत्रं वातघ्नं कफ
कृमिविनाशनम् ॥ मूत्रकृच्छ्रहरञ्चापि पित्तरक्तप्रकोप-
णम् । वातार्य्यग्रदलं गुल्मवस्तिशूलहरं परम् ।
कफवातकृमीन् हन्ति वृद्धि सप्तविधामपि । एरण्डफल-
मत्युष्ण गुल्भशूलानिलापहम् । यकृत्प्लीहोदरार्शोघ्नं
कटुकं दीपनं मतम् । तद्वन्मज्जा च विड्भेदी वातश्लेष्मो-
दरापह । क्वाथेऽस्य मूलं संग्राह्यमित्याहुरपरे जनाः”
पृष्ठ १५४०
“एरण्डर्तलं तीक्ष्णोष्णं दीपनं पिच्छिलं गुरु । वृष्यं
त्वच्यं वयःस्थायि मेधाकान्तिषलप्रदम् । कषायानुरसं
सूक्ष्मं योनिशुक्रविशोधनम् । विस्रं स्वादुरसं पाके
सुतिक्तं कटुकं सरम् (रेचकम्) विषमज्वरहृद्रोगपृष्ठ-
गुह्यादिशूलहृत् । हन्ति वातोदरानाहगुल्माष्ठीलाकटि-
ग्रहान् ॥ वातशोणितविड्बन्धश्लेघ्मशोथामविद्रधीन् ।
आमवातगजेन्द्रस्य शरीरवनचारिणः । एक एव
निहन्तायमेरण्डस्नेहकेशरी” भावप्र० । स्वार्थे कन् । तत्रैव ।
एरण्डस्य फलम् अण् । ऐरण्ड तत्फले । “ऐरण्डं
कोमलं ग्राह्यं फलं तक्रेण स्वेदितम् । पाचितं
कटुतैलेन हिङ्गुनातिसुवासितम् । कफानिलहरं वृष्यं
रूक्षमुष्णञ्च पित्तलम् । अग्निसंजननं रुच्यं गुरु पाके-
ऽतिपिच्छिलम्” भावप्र० । “फले लुक्” पा० अणोलुग्वि-
धानात् एरण्डमित्येव साधु । २ पिष्पल्यां स्त्री शब्दच० ।
टाप् गौ० ङीष् वा ।

एरण्डपत्रिका स्त्री एरण्डस्य पत्रमिव पत्रमस्याः कप् संज्ञायां

वा कन् अत इत्त्वम् । दन्तीवृक्षे ।

एरण्डफला स्त्री एरण्डस्य फलमिव फलमस्याः । लघुदन्तीवृक्षे । राजनि० ।

एरु त्रि० आ + ईर--उन् । गन्तरि । “एजाति ग्लहा कन्येव

तुन्नैरु तुन्दाना पत्येव जाया” अथ० ६, २२, ३,

एर्वारु पु० आ + ईर--क्विप् एरं वारयति वृ--णिच् उण् ।

चिर्भट्याम् कर्कटीभेदे (काकुँड) “एर्वारुवीजं तोयेन-
पिबेद्वा लवणीकृतम्” सुश्रु० । “कट्वेर्वारौ यथा पक्वे
मधुरः सन्रसोऽपि न” या० स्वार्थे कन् तत्रैव ।

एलक पुंस्त्री एडक + डस्य लः । मेषे स्त्रियां अजा० टाप्

क्षिपा० नातैत्त्वम् डलयोरेकत्रस्मरणात् ।

एलङ्ग पु स्त्री आ + इल--अङ्गच् । (राइखड़ा) मत्स्यभेदे

स्त्रियां ङीष् । “एलङ्गोमधुरोवृष्यः संग्राही
कफवातहा । मेधाग्निपुष्टिकारी च शीतलः श्लेष्मलो गुरुः”
राजनि० ।

एल(ला)वालु न० एलेव वलते वल--उण् ङ्यापोरिति

संज्ञायां वा ह्रस्वः । (लालुका) सुगन्धिद्रव्यभेदे
“पुन्नागैलैलवालूनि नागपुष्पोत्पलासिता” सुश्रु० । स्वार्थे
कन् एल(ला)वालुकमप्यत्र न० ।

एला स्त्री इल--अच् । १ स्वनामख्यातलतायाम् । (एलाची)

तद्भेदगुणादि भावप्र० उक्तम् । “एला स्थूला च बहुला
पृथ्वीका त्रिपुटापि च । भद्रैला वृहदेला च चन्द्रबाला च
निष्कुटी । स्थूलैला कटुका पाके रसे वानाहकृल्लघुः ।
रूक्षोष्णा श्लेष्मपित्तास्रकफश्वासतृषापहा । हृल्लासविषवस्त्यास्य
शिरोरुग्वमिकासनुत् । सूक्ष्मैला कुञ्चिका तुच्छा को
रङ्गी द्राविडी गुटिः । एला सूक्ष्मा कफश्वासकासार्शो
मूत्रकृच्छ्रहृत् । रसे तु कटुका शीता लघ्वी वातहरी मता”
“एलालतालिङ्गितचन्दनासु” रघुः । तस्याः फलम्
अण् तस्य लुप् लुपि प्रकृतिलिङ्गत्वेन तत्फलेऽपि स्त्री ।
“ससञ्जुरश्वक्षुण्णानामेलानामुत्पतिष्णवः” रघुः । “सजना
नयौ शरदशयतिरियमेला” वृ० र० उक्ते २ पञ्चदशा-
क्षरपादके छन्दोभेदे ।

एला विलासे कण्ड्वा० प० अक० सेट् । एलायति ऐलायीत् ।

एलायां बभूव आस चकार ।

एलाक पु० एलाय--ण्वुल् । ऋषिभेदे गर्गा० घञ् । ऐलाक्य

तदपत्ये पुंस्त्री० । स्त्रियां ङीपि यलोपः । ऐलाकी ।

एलादिगुटिका स्त्री “एलापत्रत्वचोऽर्द्धाक्षाः पिप्पल्यर्द्ध-

पल तथा । सितामधूकखर्ज्जूरमृद्वीकाश्च पलोन्मिताः ।
संचूर्ण्ण्य मधुना युक्ता गुटिकाः कारयेद्भिषक्” चक्रद० उक्ते
रक्तपित्ताधिकारस्थे गुटिकारूपौषधभेदे ।

एलापत्र पु० एलापत्रमिवाकारोऽस्त्यस्य अच् । नागविशेषे

“नागस्तथा पिञ्जरकः एलापत्रोऽथ वामनः” भा० आ०
३५ अ० । नागनामकीर्त्तने ।

एलापर्ण्णी स्त्री एलायाः पर्णमिव पर्णमस्याः । रास्नायाम् (काटा आमरुल) ।

एलापुर न० नगरभेदे ।

एलीका स्त्री आ + इल--ईकन् । सूक्ष्मैलायाम् (गुजराटि)

राजनि० ।

एलुक न० इल--उक । गन्धद्रव्यभेदे । “भद्रदार्वेलुकाख्ये च सर्वेषु लवणेषु च” सुश्रु० ।

एल्लवालुक न० एलवालुक पृषा० लुडागमः । एलवालुक

सुगन्धिद्रव्ये (लालुका) राजनि०

एव अव्य० इण्--वन् । १ सादृश्ये, २ अनियोगे, ३ वाक्यभूषणे,

४ चारनियोगे, ५ विनिग्रहे, ६ परिभवे ७ ईषदर्थे च ।
विशेष्यसङ्गतः ८ अन्ययोगव्यवच्छेदे । यथा पार्थ एव
धनुर्द्ध्वरः इत्यादौ पार्थान्यपदार्थे प्रशस्तधनुर्द्धरत्वम्
व्यवच्छिद्यते । विशेषणसङ्गतः ९ अयोगव्यवच्छेदे यथा
शङ्खः पाण्डर एवेत्यादौ शङ्खे पाण्डरत्वायोगो व्यवच्छि-
द्यते । क्रियासङ्गतः १० अत्यन्तायोगव्यवच्छेदे यथा नीलं
सरोजं भवत्येवेत्थादौ सरोजे नीलत्वात्यन्तायोगो व्यव-
च्छिद्यते । ११ गन्तरि त्रि० । “एवेत्यवधारणानियोगौ-
पम्यनियोगेषु” इत्युक्त्वा गणरत्ने यथाक्रममुदा-
हृतम् । “अहमेब ददामि । अद्येव । इहैव । श्रीस्तएव-
पृष्ठ १५४१
मेऽस्तु । अद्यैव गच्छ । अत्रानियोगोऽनवधारणम् ।
“एवे चानियोगे” वार्त्ति० । तत्र क्वेव भोक्ष्यसे” इत्यत्र
पररूपैकादेशः । एतद्योगे च “न च वाहाहैवयुक्ते” पा०
न वस्नसाद्यादेशः । “ब्राह्मणस्यैव कर्म्मैतदुपदिष्ट
मनोषिभिः” । “स जीवन्नेव शूद्रत्वमाशु गच्छति सान्वय”
मनुः । १२ एवमित्यर्थे च । “एवा न इन्द्रोतिभिः” ऋ०
४, ३३, ७, एवा एवम् भा० । अत्र वेदे “एवा नु दूर्वे
प्रतनु” इत्यादि वत् दीर्घः । तत्र गन्तरि “एवा न देव्या-
दितिरनर्वा” तैत्ति० ३, १, १, ५, “एवा गमनशीला”
भा० । शीघ्रगन्तृत्वात् १३ अश्वे पु० । “शूरोनाम
पतयद्भिरेवैः” ऋ० १, १५८, २, “एवैरश्वैः” भा० । करणे
भावे वा वन् । १४ गमनसाधने १५ गमने च । “एवेन
सद्यः पर्य्येति पार्थिवम्” ऋ० १, १२८, ३, “एवेन
गमनसाधनेन गमसेन वा” भा० ।

एव त्रि० एवमस्त्यस्य अच् अव्य० टिलोपः । एवंक्रियमाणप्रकारे

“सुदानूनेवया मरुतः” ५, ४१, १६, एवया एवंक्रिय-
माणप्रकारेण” भा० तृतीयस्थाने याच् ।

एवथ पु० अव--भावे अथ पृषो० अतः एत्त्वम् । गमने “न

की राया नैवथा न भन्दनी” ऋ० ८२४, १५, एवथा शत्रु
पुराणि संग्रांमं प्रति गमनेन । तृतायास्थाने आङ् ।

एवम् अव्य० इण--बा० वमु । “एवमिति प्रकृतपरामर्शप्रका-

रेवार्थोपदेशनिर्देशनिञ्चयाङ्गीकारवार्थेषु” गणर० उक्तेषु
अर्थेषु । क्रमेण उदा० तत्रैव । १ प्रकृतपरामर्शे “एव
वादिनि देवर्षौ” कुमा० । २ प्रकारे । एवं कुरुते । इवार्थे
३ सादृश्ये अग्निरेवं विप्रः । ४ उपदेशे एवं पठ । ५ निर्द्देशे
एव तावत् । ६ निश्चये । एवमेतत् कः सन्देहः ।
७ अङ्गीकारे एवं कुर्म्मः । वार्थे ८ समुच्चयार्थे “अहार्य्य-
मेवंमृगनाभिपत्रम्” । “यथेतमनेवम्” शा० सू० ।
९ सम्बन्वये १० परकृतौ ११ प्रश्ने च मेदि० । तत्र एवम्
भूतः एवकृत इत्यादौ क्रियाविशेषणत्वम् एवं विधः
एवंप्रकारैत्यादौ द्रव्यविशेषणत्वमिति भेदः “एवंविधे-
नाहवचेष्टितेन” रघुः । “एवमादीन् विजनीयात् प्रका-
शाल्ल्ॐककण्टकान्” “अन्येषाञ्चैवमादीनाम् मद्याना-
मोदनस्य च” मनुः ।

एवया त्रि० एव एवं अवनं वा याति या--क्विप् पृषो० ।

रक्षके “द्युम्न एवया उ सप्रथाः” ऋ० १, १५६, १,
“एवया रक्षणप्रापयिता” भा०

एवयामरुत् पु० एवया रक्षकोमरुद्यस्य । ऋषिभेदे ।

“मरुत्वते गिरिजा एवयामरुत् । “एतन्नामकस्य ऋषेः
षष्ठ्यालुक्” भा० ।

एवयावन् पु० एवस्य एवंप्रकारस्य यावा या--वनिप् ।

१ रक्षके विष्णौ । “विश्वजन्यामप्रयुतामेवयावो मातं दाः”
ऋ० ७, १००, २, “एवयावः! विष्णो!” भा० । वेदे
सम्बुद्धेरुत्वम् । एव गन्तरि त्रि० “तान्वो महो मरुत्
एवयाव्नोः ऋ० २, ३४, ११, स्त्रियां ङीप् वनोरश्च ।
एवयावरी । “या सुम्नैरेवयावरी” ऋ० ६, ४८, १२,

एवार पु० एव एवमृच्छति ऋ--अण् । सोमभेदे । “एवारे

वृषभाःसुते” ऋ० ८, ४५, ३८, “एवारोनाम कश्चित सोमः” भा०

एवावद पु० एव एवमावदति आ + वद--अच् । ऋषिभेदे

“सहि क्षत्रस्य मनसस्य चित्तिभिरेवावदस्य यजतस्य सध्रेः”
अवत्सारस्य स्पृणवाम्” ऋ० ५, ४४, १, “क्षत्रस्य
मनसस्यैवाबदस्य यजतस्य सध्रेरवत्सारस्य चैषामृषीणाम्” भा०

एष् गतौ भ्वा० आत्म० सक० सेट् । एषते ऐषिष्ट एषाम्

बभूव आस चक्रे । एषणीयः एषितव्यः एषितः एषिता ।
एषितुम् एष्टिः एषणम् एषा एषमाणः । “पराङ्मित्र एष
त्वर्वाची गौरुपैषत” अथ० ६, ६७, ३, वेदे गणव्यत्यासात्
पर० । उपेषतु एङिपररूपम्” । “स वै वत भ्रष्टमतिस्तवै-
षते यः कर्म्मणां पारमपारकर्म्मणः” भाग० ३, १३, ४४,
धातूनामनेकार्य्यात अवलोकयतीत्यर्थः” “तस्माद्दिवा
नष्टैष एति” शत० व्रा० १३, ३, ४, ३, ।
परि + अन्वेषणे पर्य्येषते पर्य्येष्टिः लोकेऽपि क्वचित्
गणव्यात्यासः । “जग्मुः संसिद्ध्वस कल्पाः पर्य्येषन्तो
विभावसुम्” भा० अनु० ८५ ।

एष् स्त्री एष--भावे क्विप् । गतौ “तावामेषे रथानामुर्व्वीम्”

ऋ० ५, ६६, ३, “एषे गन्तुम्” भा० । “राय एषेऽवसे
दधीत” ५, ४१, ५, “एषे प्राप्तुम्” भा० । “तेभ्यः स्वैषमेव
चकार” शत० ब्रा० २, ४, २, ४, । इष--विच् । २ इच्छौ ।
“न क्षोदोऽवृणीतमेषे” ऋ० १, १८०, ४, एषे सौख्यमि-
च्छते” भा० ।

एषण पु० एषते शत्रुहृदयम् ल्यु । १ लौहमयवाणे हलायुधः ।

इष इच्छायां णिच् भावे--युच् । एषणा २ प्रेरणायां
३ पुत्रलोकवित्तकामनायाञ्च स्त्री “न कश्चिदन्यः पंसार
उक्तादस्त्येषणात्रयात्” वेदा० । “तमात्मानं विदित्वा
व्राह्मणाः पुत्रेषणायाश्च वित्तैषणायाश्च लोकैषणायाश्च
व्युत्थायाथ भिक्षाचर्य्यं चरन्ति । या ह्येव पुत्रैषणा सा
वित्तैषणा या वित्तैषणा सा लौकैषणोभे ह्येते एषणे
पृष्ठ १५४२
भवतः” शत० ब्रा० १४, ६, ४, १, “पुत्रैषणा पुत्रोत्पत्ति-
मुद्दिश्य दारसंग्रहेच्छालक्षणा । वित्तं द्विविधं मानुषं
गवादि, दैवं विद्यादि, तस्य कर्म्मणा साधनस्य गवादेरु-
पादानरूपा इच्छा वित्तैषणाऽनेन कर्म्म कृत्वा पितृलोकं
ज्येष्यामीति विद्यासंयुक्तेन वा देवलोकम् । केवलया वा
हिरण्यगर्भविद्यया देवेन वित्तेन देवलोकं जेष्यामीतीच्छा
लोकैषणा । एवमेकत्वेऽपि लोकैषणायाः साधनमन्त-
रेणासिद्धेः साध्यसाधनाभेदेन द्वैविध्यमाह उभे हीति”
भा० । “अपहतसकलैषणामलात्मन्यविरतमेधितभाव
नोपहूतः” भाग० ४, ३१, १८, एष्यते ज्ञायते मानमनया
करणे ल्युट् ङीप् एषणी । ४ तुलासाधने (निक्ति)
मानयन्त्रभेदे मेदिनिः । स्वार्थे कन् । एषणिकाऽप्यत्र ।
अमरः । एषते व्रणपारमनया करणे ल्युष्ट् ङीप् । (वेल-
कार) ५ व्रणस्फोटनास्त्रभेदे मेदि० । भावे ल्युट् ।
सुश्रुतोक्ते ६ व्रणविदारणव्यापारभेदे । तत्र हि “यन्त्रकर्म्मा-
णि तु निर्य्यातनपूरणेत्याद्युपक्रमे “चूषणैषणदारणेत्यादि
पठित्वा चतुर्विंशतिरित्युक्तम् । तत्र एषणमभ्यन्तरे शस्त्र-
प्रवेशनेन पूयादेरपसारणम् । तत्साधनशस्त्रमेषणी यथा
ह सुश्रुतः “विं शतिः शस्त्राणि तद्यथा मण्डलाग्रकरपत्रे-
त्याद्युपक्रमे “वडिशदन्तशङ्क्वेषणी” इत्युक्त्वा “एषण्येषणे
आनुलोम्ये च” इति तत्प्रयोजनमुक्तम् । एषणमभ्यन्तर-
गमनमानुलोम्यं विस्राबणम् तत्रैव एषणीलक्षणं “एषणी
गण्डूपदाकारमुखी” उक्तम् । “एष्येष्वेषण्यलाभे तु बाला-
ङ्गुल्यङ्कुरा हिताः” मुश्रुतः ।

एषणीय त्रि० इष--एष--वा कर्म्मणि अनीयर् । १ आशास्ये

“जायापती लौकिक मेषणीयम्” कुमा० । २ गम्ये च ।

एषा स्त्री एष--अ । इच्छायां जटाधरः ।

एषावीर पुंस्त्री । एषायां यथेष्टं धनादिप्रतिग्रहे-

च्छायां वीरः । यतः कुतश्चित् प्रतिग्राहके निन्दितब्राह्म-
णभेदे । स्त्रियां जातित्वात् ङीष् । “यद्येनमैषावीरा
याजयेयुः” शत० ब्रा० ११, २, ७, ३२, “एषावीरोनाम
निन्दितब्राह्मणजातिविशेषः तत्संबन्धिन ऋत्विजः” भा०

एषिन् त्रि० इष--णिनि । इच्छौ अभिलाषुके । “यौवने

विषयैषिणाम्” “बभूव युद्धं तुमुलं परस्परजयैषिणोः”
रघुः । स्त्रियां ङीप् । “तदाश्रिता हि सा ज्ञेया बुद्धि-
स्तस्येषिणी भवेत्” भा० व० ८१ अ० ।

एष्टव्य त्रि० इषु वाञ्छायाम् तव्य । वाञ्छनीये । “एष्टव्या

वहवः पुत्रा यद्यप्येको गयां व्रजेत्” शु० त० मत्स्यपु०
“तद्ध्येव ब्राह्मणेनैष्टव्यम्” शत० ब्रा० १, ९, ३, १७ ।

एष्टि स्त्री आ + यज--आ + इष--वा क्तिन् । १ अभियजने २

अभिकामनायाञ्च । “पितॄणां शश्वद्बभूथ सुह्वएष्टौ” ऋ० ६, २१
८, । “एष्टौ आयजनेऽभिकामवे वा” भा० करणे क्तिन्
३ आशासनसाधनेषु ऋक्सामेषु । “प्रजापतिर्वै विश्वकर्म्मा
सहीदं सर्वमकरीत् मनोगन्धर्वस्तस्य ऋक्साभान्यप्सरसः
इति मनोह गन्धर्वः ऋक्सामैरप्सरोभिर्मिथुनेन
सहोक्रामैष्टयोनामेत्यृक्सामानि वा एष्टय ऋक्सामैर्ह्याशासते
इति नोऽस्त्विति नोऽस्त्विति” शत० ब्रा० ९, ४, १, १२ ।
“प्रजापतिर्विश्वकर्मा मनोगन्धर्वस्तस्य ऋक्सामान्यप्सरस
एष्टयोनाम” यजु० १८, ४३ ।

एष्य त्रि० इष--कर्मणि ण्यत् । १ वाञ्छनीये भावे ण्यत् सुश्रुतोक्ते

“तच्च शल्यकर्म्माष्टविधं तद्यथा छेद्यं भेद्यं लेख्यं वेध्य-
मेष्यमाहार्य्यं विस्राव्यं सीव्यमित्युक्तेषु अष्टषु मध्ये
२ शल्यकर्म्मभेदे न० । “एष्येष्वेषण्यलाभे” सुश्रु० “घुणोपहत
काष्ठे वेणुनलनालीशुष्कालाबूमुखेष्वेष्यस्य” इत्युक्तेषु
तत्कर्म्माचरणम् । कर्मणि ण्यत् । ४ एषणकर्मसाध्ये त्रि० ।
“एष्या नाद्ध्यः सशल्याश्च व्रणा उन्मार्गिणश्च ये” सुश्रु०
एष गतौ ण्यत् । ५ गन्तव्ये त्रि० । “गतैष्यदिवसाद्येन
गतिर्निघ्नी खषढृता” नील० ता० । इष गतौ दि० इष
इच्छायां भ्वा० इष आभीक्ष्ण्ये क्र्या० एभ्यः ण्यत् ।
एष्य तत्तद्धात्वर्थकर्म्मणि प्राचु प्रैष्य इत्येव प्रेष्यस्तु ईष
गतिहिंसादर्शनेषु इत्यस्य ण्यदन्तस्य रूपम् इति भेदः ।

एह त्रि० आ + ईह अच् । १ सम्यक् चेष्टायुक्ते । एला एहाः

परिपाते ददृश्रान्” अथ० १२, ३, ३३ । आ ईषदर्थे
ईह घञर्थे करणे क । २ क्रोधे निरु० । क्रुद्धस्य सम्यक्कार्य्या-
नर्हत्वात् ईषच्चेष्टावत्त्वेन तथात्वम् ।

एहि त्रि० आ + ईह--त इन् । सम्यक् चेष्टान्विते स्त्रियां शार्ङ्ग० ङीन् । एही ।

एहीड न० एहि ईडे इत्युच्यते यस्मिन् कर्मणि मयूर०

नि० । एहि ईडे इत्युच्यते यस्मिन् कर्मणि तादृशे
कर्मणि एवं एहिकटा एहिबाणिजका एहिद्वितीया
एहिस्वागता एहिविघसा इत्यादयोऽपि तत्तत्क्रियायाम्
स्त्री एहियवं तु तत्कर्म्मणि न० इति भेदः ।
इति वाचस्पत्ये एकारादिशब्दार्थसङ्कलनम् ।
"https://sa.wikisource.org/w/index.php?title=वाचस्पत्यम्/एकादि&oldid=57680" इत्यस्माद् पुनः प्राप्तिः