पृष्ठ १६४१

कदन न० कद--णिच्--घटादि० करणे ल्युट् । १ पापे, माये

ल्युट् । २ मर्दने, ३ मारणे च । आधारे ल्युट् । ४ युद्वे ।
“तथा प्रजानां कदनं विदधुः कदनप्रियाः” भाग०
७, २, ११ । “संसारचक्रकदनात् ग्रसता प्रणीतः” भाग०
७, ९, १६ । कद--भावे ल्युट् । ५ विह्वलतायाम् ।

कदन्न न० कुत्सितमन्नं कोः कद् । कुत्सितान्ने । शास्त्रेऽ-

भक्ष्यत्वेन वैद्यकेऽपथ्यत्वेन च कीर्त्तितमन्नञ्च कदन्नम् ।

कदपत्य न० कुत्सितमपत्यं कोः कद् । मूर्खादि-

रूपे कदाचारयुते चापत्ये । “कदपत्यभृतं दुःखं येन
विन्दन्ति दुर्भरम्” भाग० ४, १३, ३७ । “कदपत्यं वरं
मन्ये सदपत्याच्छुचां पदात्” भा० ४, १३, ४३ ।

कदम्ब पु० कद--करणे अम्वच् । दर्शनेन विरहिवैक्लव्यसा-

धने (कदम) वृक्षे अमरः । “एकद्वारे चतुश्चक्रं वनमा-
लाविमूषितम् । कदम्बकुसुमाकारं लक्ष्मीनारायणं विदुः”
शालग्रामलक्षणे पुरा० । “कदम्वमुकुलस्थूलैरभिवृष्टां
प्रजाश्रुभिः” रघुः “कदम्बमुकले द्वष्टिः समारोपिता” उद्भटः ।
“कदम्बोमधुरः शीतः कषायो लवणो गुरुः । सरोविष्ट-
म्भकृद्रूक्षः कफस्तन्यानिलप्रदः” मावप्र० तद्गुणा उक्ताः ।
तस्यभेदास्तत्रैव । “नीपोमहाकदम्बः स्यात् धारा कदम्ब
इत्यपि । द्वितीयोऽल्पप्रसारश्च वृत्तपुष्पः कदम्बकः” ।
हारिद्रस्तुरजोवलः । धूलीकदम्बकोंधाराकदम्बः षट्पदप्रियः ।
वृत्तपुष्पः केशराढ्यः प्रावृषेण्यः कदम्बकः । नीपो महाक-
दम्बोऽपि तथा बहुफलोमतः” इति भरतः । अत्र प्रावृषेण्य
इत्युक्तिर्गौड़ादिदेशाभिष्रायेण मथुरादौचैत्रेऽपि तत्पुष्पा-
णादामस्माभिःप्रत्यक्षती बहुशो दृष्टत्वात् अत एव “यः
कौमारहरः स एव हि वरस्ता एव चैत्रक्षपास्ते चोन्मी-
लितमालतीसुरभयः प्रौढाः कदम्बानिला” काव्य-
प्र० चैत्रमासे तत्पुष्पवर्णनमुपपद्यते । एतेन कदम्बपदं
केलिकदम्बपरमिति” सा० द० रामचरणव्याख्यानं
मथुरादिदेशानभिगमनसूचकम् । तेन देशभेदात्तस्य वसन्त-
प्रावृडुभयभवत्वमिति ज्यायः । कविभिस्तु वर्घाकाले एव
तद्वर्णनं क्रियते यथा माघे रैवतकपर्व्वतवर्णने । वर्षर्तु-
वर्ण्णनमधिकृत्य “विहगाः कदम्बसुरभाविह गाः
कलथन्त्यनुक्षणमनेकलयम्” । भ्रमयन्नुपैति मुहुरब्भ्रमयं
पवनश्च धूतनवनीपवनः” । वर्षावर्ण्णने च तत्नैब “अनवनी
नवनीपवनीरभिः” तस्य च प्रावृण्यात्वादेवः” कदम्ब शूरणं
तथैत्यादिना हरिशयने भोजननिषेधः । इति” त्वत्सम्पर्कात्
पुलकितमि० प्रौढपुष्पैः कदम्बैः” मेघद्र० आषाढ
मधिकृत्यैव तद्ग्रन्थप्रणयनात् । इति तस्य प्रावेण्यत्वमपि ।
कदम्बवृक्षश्च मेरुविष्कम्भपर्वतरूपमन्दरम्य विशेषचिह्नवृक्ष-
“विष्कम्भशैलाः खलु मन्दरोऽस्य सुगन्धशैलो विपुलः
सुपार्श्वः । तेषु क्रमात् सन्ति च केतुवृक्षाः कदम्बजम्बूवट-
पिप्पलकाख्याः । सि० शि० । अस्य सुमेरोः ।

कदम्बक पु० स्वार्थे कन् । १ कदम्बवृक्षे । संज्ञायां कन् संघर्षेण

विह्वलीकरणसाधने २ समूहे न० अमरः । “गजकद-
म्बकमेचकमुच्चकैः” माघः । “पृथुकदम्बकदम्बकराजितम्”
किरा० । “कदम्बकं वातमजं मृनाणाम्” भट्टिः
कदम्ब इव कायति कै--क । ४ हरिद्रौ ३ सर्षपे च राजनि०
कदम्बकोरकोपरिस्थसूक्ष्मांशतुल्यफलत्वात्तस्य तथात्वम् ।
५ देवताड़तृणे न० रत्नमा० ।

कदम्बकीरकन्याय पु कदम्बपुष्पस्य यथा सर्व्वावय-

वेषु युगपत्कोरकाणामुत्पत्तिस्तादृशे एकदोत्पत्तौ दृष्टान्त-
भेदे शब्दानामुत्पत्तिर्हि द्विविधा । “वीचितरङ्गन्यायेन
तदुत्पत्तिस्तुकीर्त्तिता । कदम्बकोरकन्यायादुत्पत्तिः कस्य-
चिन्मते” भाषा० उक्ता । दशदिक्षु दश शब्दा उत्पद्यन्ते
ततश्चान्ये दश शब्दा इत्येवं कदम्बकोरकोत्पत्तिवत्
सर्व्वासु दिक्षूपर्य्युपरि शब्दानामुत्पत्तिरिति कस्य चिन्मतस्
न्यायमते तु वीचितरङ्गन्यायेनैव तदुत्पत्तिरिति भेदः ।

कदम्बद पु० कदम्बः तदुपरिस्थः सूक्ष्मांश इव दीयते खण्ड्यते

दो--खण्डने कर्म्मणि घञर्थे क । सर्षपे शब्दचन्द्रिका तस्य
कदम्वकोरकोपरिस्थितसूक्ष्मांशतुल्यफल्त्वात्तथात्वम् ।

कदम्बपुष्पा स्त्री कदम्बस्येव पुष्पमस्यास्ति अशे० अच् ।

मुण्डिका वृक्षे (मुण्डेरी) रत्नमाला तस्य पुष्पमिव पुष्प-
मस्याः विग्रहे तु ङीप् । कदम्बपुश्री तत्रैवार्थे राजनि० ।

कदम्बभ्रमवृत्त न० कदम्बवत् भ्रमस्य वृत्तं गोलक्षेत्रम् ।

सि० शि० उक्ते गोलवृत्तभेदे । तद्बन्धप्रकारस्तत्रैव
“तत्रापसण्डलप्राच्या याम्या सौम्या च दिक् सदा ।
कदम्बभ्रमवृत्तं च बध्नीयात् परितो ध्रुवात् । लोले तुजिनतुल्यां
शैस्तत्र ज्या क्रान्तिशिञ्जिसी । सर्व्वतः समवृत्ताच्च याम्यो-
दक कुजसंगमे । तत्तिर्य्यग्गतसूत्राणां योगः स समसं-
ज्ञकः । समध्रुवः कदम्बानामुपरि द्युचरान्नयेत् । सूत्राणि
वृत्तरूपाणि वलनानि तदन्तरे । अक्षजं कलनं मध्ये स्यात्
समध्रुवसूत्रयोः । कदम्बध्रुवसूत्रान्तरायनं च त्रिभेग्र-
हात् । कदम्बसमसूत्रान्तः स्फुटं सर्वदिशां च तत्” ।

कदम्बवादिन् पु० कदम्ब इति वादः संज्ञा अस्त्यस्य णिनि ।

कदम्बसंज्ञायुक्ते नीपे । “कदम्बवादिनो नीपान् दृष्ट्वा
कण्टकितैरिव । समन्ततो भ्राजमानं कदम्बककदम्बकैः”
पृष्ठ १६४२
काशी० । कदम्बककदम्बकैः कदम्बसमुदायैः स्वतुल्यक-
दम्बशब्दवाच्यान् नीपान् महाकदम्बान् दृष्ट्वा कण्ट-
कितेर्जातपुलकैरिवेत्युत्प्रेक्षा ।

कदम्बी स्त्री कद--करणे अम्बच् गौरा० ङीष् । देवदालीलयायाम् राजनि० ।

कदर पु० कं जलं दृणातिदृ--अच् । १ श्वेतखदिरे तस्य

सेवनात् मुखस्थितस्यश्लेष्मणा संहतरूपजलस्य दारणात्
“कदरो विशदोवर्ण्योमुखरोगकफास्रजित्” इति
भावप्र० तद्गुणमध्ये सुखकफनाशित्वोक्तेस्तथात्वम् ।
२ पायसभेदे (छेड़ापायस) न० शब्दमाला । तस्य
अम्लादियोगात् दुग्धान्तर्गतजलदारणात् तथात्वम् । कदः
विह्वलकारिका अरा अस्य । ३ क्रकचे(करात)मेदि० सुश्रु-
तोक्ते ४ क्षुद्ररोगभेदे स च रोगः “समासेन चत्वारिंशत्
क्षुद्ररोगा भवन्तीत्युद्दिश्य” “कदरम् अजगल्लिक इत्यादि-
ना विभज्य “शर्करोन्मथिते पादे क्षते वा कण्टकादिभिः ।
मेदोरक्तानुगैश्चैव दोषैर्वेधादथापि वा । कोलमात्रः
सरुक्स्रावो जायते कदरस्तु सः” लक्षितः (पाएरजासुडा)
तत्र बिभागे कदरमित्युक्तेर्नपुंसकताप्यस्य ।

कदर्थ पु० कुत्सितोऽर्थः कोः कद् । कुत्सितपदार्थे । ततः

तत्करोतीति” णिच् । कदर्थयति कुत्सितमर्थं करोती-
त्यर्थः । ततः क्त कदर्थितः । कुत्सितार्थीकृते । “भ्रष्ट-
भूषणकदर्थितमाल्यः” माघः । ल्युट् । कदर्थनम् कुतसि-
ताथकरणे । युच् । कदर्थना तत्रैव स्त्री । अकदर्थं कदर्थं
करोति च्वि कदर्थीकृ--क्त । कदर्थीकृत अभूतकदर्थे कदर्थ-
तया कृते त्रि० । “केशैः कदर्थीकृतवीर्य्यसारः” किरा० ।

कदर्य्य त्रि० कुत्सितोऽर्य्यः स्वामी कुगतिस० कोः कद् । सति

विभवे १ अदातरि, क्षुद्रे । “आत्मानं धर्मकृत्यञ्च पुत्रदारांश्च
पातयन् । यो लोभात् सञ्चिनोत्यर्थान् स कदर्य्य इति
स्मृतः” इत्युक्तलणे २ अर्थसञ्चयकारके च । “दीक्षितस्य
कदर्य्यस्य बद्धस्य निगड़स्य च” “आत्रेयस्य कदर्य्यस्य वदान्यस्य
च बार्द्धुर्षेः” मनुः “उवाच न मे जनपदे कदर्य्यो
न मद्यपोनानाहिताग्निर्नाविद्वान् न खेरी” छा० उ० ।

कदल पु० कद--वृषा० कलच् । १ रम्भावृक्षे मेदि० । २ पृश्नौ

(चाकुलिया) ३ डिम्बिकायाम् (डिमि) शाल्मलिवृक्षे च
स्त्री मेदि० । अजादेराकृतिगणत्वात् टाप् ।

कदली स्त्री काय जलाय दल्यते त्वगादौ जलबाहुल्यात् गौरा०

ङीष् । १ रम्भावृक्षे, अमरः । कदली गुणादि भावप्र०
उक्ता यथा । “कदली वारणा मोचाम्बुसारांशुम-
नीफला । मोचाफलं स्वादु शीतं विष्टम्भि कफनुद्-
गुरु । स्निग्धं पित्तास्रतृड़्दाहक्षतक्षयसमीरजित् ।
पक्वं स्वादु हिमं पाके स्वादु वृष्यञ्च वृंहणम् । क्षुत्तृष्णा
नेत्रगदहृन्मेहध्नं रुचिमांसकृत् । माणिक्यमूर्त्त्यामृत-
चम्पकाद्या भेदाः कदल्याबहवोऽपि सन्ति । उक्ता गुणा-
स्तेष्वधिका भवन्ति निर्दोषता स्याल्लघुता च तेषाम्” ।
रम्भायाश्च स्तम्भे जलाधिकयुक्तत्वात् शैत्याधिक्य-
युक्तपत्रत्वाच्चतथात्वम् “कदलो कदली करभः करमः
करिराजकरः करिराजकरः” प्रसन्नरा० । अत्र द्वितीय
कदलीपदम् शैत्यादिगुणयोगात् गौणमिति सा० द०
समर्थितम् “ऐकान्तशैत्यात्कदलीविशेषाः” कुमा० । २ वैजय-
न्त्याम्कदल्याकारपत्ररूपवस्त्रवत्त्वात् तथात्वम्
अतएव माघे कदल्याः कामवैजयन्तीत्वेनौत्प्रेक्षणम् तदीया-
कारसाम्यात् यथा । “जगद्वशीकर्त्तुमिमाः स्मरस्य प्रभा-
वनीके तमवै जयन्तीः । इत्यस्य तेने कदलीर्मधश्रीः
प्रवनी केतनवैजयन्ती” माघः । “क्रीडाशैलः कनककदलावष्टन
प्रेक्षणीयः” “यास्यत्यूरुःसरसकदलीस्तम्भगौरश्चलत्वम्” मेघ० ।
स्वार्थेकन् रम्भावृक्षादौ । “अभ्युल्लसत्कदलिकावनरा-
जिरुच्चैः” माघः । ३ हस्तिपताकायां हारा० ।
“कदलिका कामकारिणः” काद० । ४ मृगभेदे “कदलीमृगमो-
कानि कृष्णश्यामारुणानि च । काम्बोजः प्राहिणोत्तस्मैः”
भा० स० ४७ अ० “मोकानि अजिनानि” नीलक० । तेन
तस्य कम्बोजदेशस्थत्वं गम्यते तस्य च कदलीस्तम्भवदभ-
ङ्गुरपादकत्वात्तथात्वम् । कदल्याः फलं पुष्पं वा अण्
तस्य लुप् लुपि स्त्रीपरत्ययस्यापि लुक् । कदल तत्फले
न० । “पनसे कदलं कदले च घृतं घृते च लवण लवणे च
दधि” वैद्यकम् । “कदली लवनी धात्री” इत्यादौ तु उपचारात्
तत्फलपरता । संघे खण्ड च । कदलीखण्डतत्संघे न० ।

कदलोकन्द पु० ६ त० । रम्भामूले तद्गुणाश्च भावप्र० उक्ता

यथा “शीतलः कदलीकन्दो बल्यः केश्योऽम्लपित्तजित् ।
वह्निकृद्दाहहारी च मधुरो रुचिकारकः” । “कन्दः
कदल्यादलितोनितान्तं संस्वेदितो हिङ्गुघृतेन राद्धः ।
उद्धूलितः सैन्धवरेणुनाथ मरीचसंम्पर्कत एष रुच्यः”

कन्दलीकुसुम न० ६ त० । (मोचा) कदलीपुष्पे ।

“कदल्याः कुसुमं स्निग्धं मधुरं तुवरं गुरु । वातपित्तहरं शीतं
रक्तपित्तक्षयप्रणुत्” भावप्र० तद्गुणा उक्ताः । कदलोपुष्प-
रम्भापुष्पादयोप्यत्र न०
पृष्ठ १६४३

कदलीदण्ड पु० ६ त० । (थोड) ख्याते कदलीस्तस्तमध्यस्थे

पदार्थे “कृत्तः खिन्नः सलिलविधृतः कृत्ततन्तुः प्रभिन्नः
कम्बोर्भृत्या जलविरहितः क्षारजम्बीरपुष्टः । मध्ये
मध्ये तनुशकलितेनार्द्रकेणातिपूर्णः स्वादुस्तूर्णं भवति
सुतरां गर्भदण्डः कदल्याः । योनिदोषहरोदण्ड
कादल्योऽसृक्दरं जयेत् । रक्तपित्तहरः शीतः सुरु-
च्योऽग्निप्रवर्द्धनः” भावप्र० तद्गुणाद्युक्तम् ।

कदा अव्य० कस्मिन् काले किम् + दा--कादेशः । कस्मिनंकाले

इत्यर्थेअनद्यतने काले तु तत्रार्थेवा र्हिल् कर्हि कदा वा ।
“कदा काश्यां गमिष्यामि कदा द्रक्ष्यामि शङ्करम् । इति
ब्रुवाणः सततं काशीवासफलं लभेत्” काशीख० । “न पादौ
धावयेवत् कांस्ये कदा चिदपि भाजने” मनुः “कदा
वाराणस्यामिह सुरधुनीरीधसि वसन्” “कदा वृन्दा-
रण्ये विमलयमुनातीरपुलिने” “कदायोध्यामध्येवि-
मलसरयूतीरपुलिने । “विभाषा कदाकर्ह्योः” पा०
एतद्योगे भव्ये लट् । “कदा कर्हि भुङ्क्ते भोक्ष्यते भोक्ता
वा” सि० कौ० । अव्ययत्वात् ततो भवार्थे ट्युल् तुट् च ।
कदातन कस्मिन् काले भवे त्रि० स्त्रियां ङीप्

कदाकार त्रि० कुत्सिताकारोऽस्य कोः कद् । १ कुत्सिताकारे

कुगति स० । २ कुत्सिताकारे पु० ।

कदाख्य पु० कुत्सिता आख्या यस्य कदादेशः । (कुड़) १ वृक्षे

कुष्ठौषधौ शब्दच० । २ कुत्सिताख्ये त्रि० । कुगतिस० ।
३ कुत्सिताख्यायां स्त्री ।

कदाचन अव्य० कदा + चन मुग्ध० । अनिर्द्धारिते कस्मिंश्चित्

काले इत्यर्थे “कदाचन स्तरीरसि” श्रुतिः । “पञ्चानन-
गते भानौ पक्षयोरुभयोरपि । चतुर्थ्यामुदितश्चन्द्रो नेक्षि-
तव्यः कदाचन” ति० त० पु० । कदा + चित् मुग्ध० ।
कदाचित् कदापीत्यर्थे अव्य० । “ततः कदाचि-
दुर्व्वश्यां भैरवो मैथुनं ययौ” कालिका० “कण्डूयमानेन
कटं कदाचित्” रघुः । पा० चिच्चनप्रत्ययाभावात्
“असाकल्ये तु चिच्चनेत्यमरोक्तेश्च पदद्वयमिति विवेक्तव्यम् ।

कदामत्त पु० कदाचिन्मत्तः । ऋषिभेदे ततः गोत्रापत्ये

इञ् । कादामत्ति तदपत्ये पुं स्त्री तस्य बहुत्वे उपका०
वां इञो लुक् । कादामत्तयः कदामत्ताः ।

कदुष्ण न० ईषत् उष्णम् ईषदर्थककोः कद् । १ ईषदुष्णे स्पर्शे

२ तद्वति त्रि० । “श्वसन् कदुष्णं पुरमाविवेश” भट्टिः ।
“कदल्याः स्वरसः श्रेष्ठः कदुष्णः कर्णपूरणः” “कदुष्णं
कर्णयोर्देयमेतद्वा वेदनापहम्” सुश्रु० । पक्षे कादेशः
कोष्ण तदर्थयोः “भुवं कोष्णेन कुण्डोध्नी” रघुः । पक्षे
कवादेशः कबोष्ण उक्तार्थयो ।

कद्ड कार्कश्ये अक० कड्डवत् दोपधत्वात् क्विप् कद् इति भेदः

कद्रथ पु० कुत्सितोरथः कोः कद् । कुत्सिते रथे “युधि

कद्रथवद्भीमं बभञ्च ध्वजशालिनम्” भट्टिः ।

कद्रु पु० कद--रु । १ पिङ्गलवर्णे । २ तद्वति त्रि० “प्राजा-

पत्यं कद्रुभालभेत” तैत्ति० २, १, ४, २, ३ कर्वुरवर्णे पु०
४ तद्वति त्रि० “वासः कृष्णशं कद्रु” कात्या० २२, ४, १२,
“कद्रुकर्वुरं वासः” संग्रहव्या० । संज्ञायामूञ् ।
कद्रू ६ नागमातरि दक्षप्रजापतेः कन्याभेदरूपे कश्य-
पपत्रीभेदे स्त्री “कद्रूस्तु सुषुवे नागान्” भा० आ० ।
काद्रवेयशब्दे विवृतिः । “प्रजज्ञिरे महाभागा दक्ष-
कन्यास्त्रयोदश । अदितिर्दितिर्दनुः काला दनायुः
सिंहिका तथा । क्रोधा प्रधा च विश्वा च विनता कपिला
मुनिः । कद्रूश्च सनुजव्याघ्र! दक्षकन्यैव भारत” भा०
आ० ६५ अ० । “लोका भारतशार्दूल! कश्यपस्य निबोध
मे । अदितिर्दितिर्द्दनुश्चैव अरिष्टा सुरसा खशा । सुरभि-
र्विनता चैव ताम्रा क्रोधवशा इरा । कद्रुर्मुनिश्च राजेन्द्र!
ताखपत्यानि मे शृणु भा० हरि० ३ अ०

कद्रुण त्रि० कद्रुरस्त्यस्य पाभा० न । पिङ्गलवर्ण्णन्विते ।

कद्रु(द्रू)पुत्र पु० ६ त० पृषो० वा ह्रस्वः । १ सर्पे । कद्रु (द्रू)सुता-

दयोऽप्यत्रार्थे । तस्य कद्रूतनयत्वं काद्रवेयशब्दे वक्ष्यते ।

कद्र्यञ्च् त्रि० कस्मिन्नञ्चति किम् + अनृचु--क्विप् अद्र्यादेशः

किमः कः । अनिश्चित देशगन्तरि कस्मिन् गन्तरि अनिश्चित-
देशगमने । शसादावचि अल्लोपदीर्धौ । कद्रीचः कद्रीचा
इत्यादि । स्त्रियां ङीप् अल्लोपदीर्घौ । कद्रीची । “सा
कद्रीची कं स्विदर्द्धं परागात्” ऋ० १, १६४, १ उ ।
“कद्रीची कगतेत्यनिश्चितगमनादित्थं प्राप्तवती” भा० ।

कद्वत् त्रि० कः कशब्दोऽस्त्यस्य मतुप् मस्य वः पृषो० ।

कशब्दयुक्ते मन्त्रादौ स्त्रियां ङीप् । “कद्वत्यो याज्यानु-
वाक्याः कोहि प्रजापतिः” शत० ब्रा० ६, २, २, ५ ।

कद्वद त्रि० कुत्सितं वदति वद--अच् कोः कदादेशः । गर्हित-

वाक्यवादिनि अमरः “येन जातं प्रियापाये कद्वदं
हंसकोकिलम्” भट्टिः । २ दुःश्रवशब्दयुक्ते च “वाग्विदां
वरमकद्वदो नृपः” माघः ।

कद्वर त्रि० कं जलमिवाचरति क + क्विप् शतृ कता व्रियते

घृ--कर्म्मणि अप् । दधिस्नेहे तक्रभेदे कद्वरे त्रिकाण्ड० ।

कधप्रिय पु० स्कन्धं प्रीणाति प्री--क वेदे पृषो । स्कन्धप्रिये ।

“कस्त ऊषः कधप्रिये भुजे” ऋ० १, ३० २ । स्कन्धं
प्रीणाति प्री--क्विप् वेदे पृषो० । कधप्री तत्रैवार्थे । “कन्न
नूनं कधप्रियः पिता पुत्रं न हस्तयोः दघिध्वे वृक्तबर्हिषः”
ऋ० १, ३८, १ ।
पृष्ठ १६४४

कन प्रीतौ अक० गतौ सक० भ्वा० पर० सेट् । कनति अकनीत्-

अकानीत् चकान । प्रनिकनति । ईदित् । कान्तः ।
ञीदित् वर्त्तमाने क्त । कान्तोवर्त्तते । कान्तिः । कननम् ।
“अविक्रीतो अकानिषं पुनर्यन्” ऋ० ४, २४, ९,

कनक न० कनी दीप्तौ कृञादि० वुन् । १ स्वर्ण्णे अमरः ।

२ पलाशवृक्षे ३ नागकेषरे ४ धस्तूरे ५ काञ्चनालवृक्षे ६ कालीय-
वृक्षे ७ चम्पकवृक्षे च पु० मेदि० । ८ कासमर्द्दवृक्षे पु० राजनि०
९ लाक्षातरौ शब्दमा० । “सुप्तः सन् कनकपलाशकर्ण्णिकारान्”
सुश्रु० । “सौदामन्या कनकनिकषस्निग्धया दर्शयोर्व्वीम्”
“नीत्वा मासान् कनकवलयभ्रंशरिक्तप्रकोष्ठः” । अन्वेष्टव्यैः
कनकसिकतामुष्टिनिक्षेपगूढै” मेध० “कनककुण्डलवान्
किरिटी” विष्णुध्यानम् “कनकचषकमेतद्रोचनालोहितेन”
माघः । “अद्यापि तां कनकचम्पकदामगौरीम्”
चोरप० । कूर्मविभागे बृह० सं० “अपरस्याम् मणिसान्वित्यु-
क्रम्य तारक्षितिबृद्ध्ववैश्यकनकशकाः” इत्युक्ते १० पश्चिम-
देशस्थदेशभेदे पु० । कनकस्येम् परिमाणम् अण् । कानक
तत्परिमाणे निष्कादौ त्रि० । काञ्चनोत्पत्तिकथा च
अग्निरेतःशब्दे ५९ पृष्ठे उक्ता । भावप्र० तदुत्पत्तिगुणा-
दिकमुक्तं यथा “पुरा निजाश्रमस्थानां सप्तर्षीणां जिता-
त्मनाम् । मरीचिरङ्गिराअत्रिः पुलस्त्यः पुलहः क्रतुः ।
वशिष्टश्चेति सप्तैते कीर्त्तिताः परमर्षयः । पत्नीर्बि-
लोक्य लावण्यलक्ष्मीसम्पन्नयौवनाः । कन्दर्पदर्पविध्वस्त-
चेतसो जातवेदसः । पतितं यद्धरापृष्ठे रेतस्तद्धेमतामगात् ।
कृत्रिमञ्चापि भवति तद्रसेन्द्रस्य येधतः । तारं शुल्वोत्थितं
स्निग्धं कोमलं गुरु हेम सत् । (सत् उत्तमम्) तच्छेतं कठिनं
रूक्षं विवर्णं समलं दलम् । दाहे च्छेदे सितं स्वेतं
कषे त्याज्यं लघु स्फुटम् । सुवर्णं शीतलं वृष्यं वल्यं
गुरु रसायनम् । स्वादुतिक्तञ्च तुवरं पाके च स्वादु
पिच्छिलम् । पवित्रं वृंहणं नेत्र्यं मेधास्मृतिमति
प्रदम् । हद्यम्धयुष्करं कान्तिवाग्विशुद्धिस्थिरत्वकृत् ।
विषद्वयक्षयोन्मादत्रिदोषज्वरशोषजित् । बल्यं सवीर्य्यं
हरते नराणां रोगव्रजान् शोषयतीह काये । असौख्यकृच्चा-
पि सदा सुवर्णमशुद्धमेतन्मरणञ्च कुर्य्यात् । असम्यग्मारितं
स्वर्णं वलं वीर्य्यञ्च नाशयेत् । करोति रोगान् मृत्युञ्च
तद्धन्याद्यत्नतस्ततः” ।

कनकक्षार पु० कनकस्य द्रावणाय क्षारः । (सोहागा)

टङ्गे राजनि० । तत्सम्पर्कात् हि झटिति कनकं द्रवति ।

कनकदण्ड न० कनकस्य दण्डोयत्र । राजच्छत्रे त्रिका०

कनकच्छत्रादयोऽप्यत्र ।

कनकध्वज पु० धृतराष्ट्रपुत्रभेदे । “दीर्घबाहुर्महाबाहुर्व्यू-

ढोरुः कनकध्वजः” भा० आ० ११७ अ० । तत्पुत्रकीर्त्तने ।

कनकपल पुं स्त्री कनकमिव पलं मांसमस्य । मत्स्यभेदे

हारा० स्त्रियां ङीष् । तत्राद्यन्तयोर्मत्स्यपर्य्यायकथ-
नात् मध्ये सुवर्ण्णपलरूपपरिमाणार्थकताकल्पनं शब्द
कल्पद्रुमादौ प्रमादिकमेव । ६ त० । कनकस्य कर्षचतुष्टय
रूपपलपरिमाणे न० ।

कनकपत्र न० कनकनिर्म्मितम् पत्रं पत्राकारं भूषणम् ।

(कानपात) १ कनकमयकर्ण्णाभरणभेदे । “अद्यापि तन्म-
नसि सम्परिवर्त्तते मे रात्रौ मयि क्षुतवति क्षितिपाल-
पुत्र्या । जीवेति मङ्गलवचः परिहृत्य कोपात् कर्ण्णे-
कृतं कनकपत्रमनालपन्त्या” चोरप० । “कनकपत्राल-
ङ्कृतया” काद० ।

कनकप्रभा स्त्री कनकस्य प्रभेव प्रभा यस्याः । महाज्योति ष्मतीलतायाम् राजनि०

कनकप्रसवा स्त्री कनकमिव प्रसवः पुष्पं यस्याः । स्वर्ण-

केतक्याम् राजनि० ।

कनकमय त्रि० कनकस्य विकारः मयट् । स्वर्ण्णविकारे

“आधत्ते कनकमयस्य यत्र लक्ष्मीम्” किरा० ।

कनकरम्भा स्त्री कनकवर्ण्णफलिका रम्भा शा० त० । स्वर्णकदल्याम् राजनि०

कनकरस पु० कनकवर्ण्णोरस उपरसः । १ हरिताले राजनि०

तस्य स्वर्ण्णवर्ण्णत्वात् पारदतुत्यगुणतयोपरसत्वाच्च तथात्वम् ।
उपरसाश्च भाबप्र० दर्शिताः यथा । “गन्धोहिङ्गुलमभ्र-
तालकशिलाः स्नोतोऽञ्जनं टङ्कनम् । राजावर्त्तकचुम्बकौ
स्फटिकया शङ्गी खटी गौरिकम् । काशीसं रसकं
कपर्द्दसिकता वोलाश्च कङ्कुष्ठकम् सौराष्ट्री च मता अमी
उपरसाः सूतस्य किञ्चिद्गुणैः । (सूतस्य पारदस्य)
“खर्ण्णवर्ण्णं गुरु स्निग्धम् इत्यनेन तस्य गुणादिकमुक्तम्
तत्रैव । ततश्च स्वर्ण्णवर्णत्वात् पारदात् किञ्चिदूनगुणकत्वा
च्चास्यतथात्वम् । ६ त० । स्वर्ण्णस्य द्रवीभूते २ रसे च ।

कनकलोद्भव पु० कनतीति कना दीप्ता कला अवयवः तया

उद्भवति उद् + भू--अच् । (धूना) सालनिर्य्यासे । राजनि

कनकसूत्र न० कनकनिर्म्मितं सूत्रम् । (सोनारतार)

स्वर्ण्णसूत्रे
पृष्ठ १६४५

कनकाङ्गद न० कनकमयमङ्गदम् । स्वर्ण्णमये केयूरे । “कनका-

ङ्गदद्युतिरस्य” माघः । तदस्त्यस्य मतुप् मस्य वः । कनका-
ङ्गदवत् इनि । कनकाङ्गदिन् तद्युक्ते त्रि० विष्णौ पु०
“महावराहोगोविन्दः सुषेणः कनकाङ्गदी” विष्णुस० ।

कनकाचल पु० कनकमयोऽचलः । १ सुमेरुपर्व्वते, धान्या-

चलादिषु दशसु दानीयपर्व्वतेषु मध्ये दानीये स्वर्ण्णप-
र्व्वते च । हेमशैलस्वर्ण्णशैलादयोऽप्यत्र । तद्दानकालपरिमा-
णादि मत्स्यपु० उक्तं यथा “प्रथमोधान्यशैलः स्याद्द्विती-
यो लवणाचलः । गुड़ाचलस्तृतीयस्तु चतुर्थो हेमपर्व्यतः ।
पञ्चमस्तिलशैलः स्यात् षष्ठः कार्पासपर्वतः । सप्तमो
घृतशैलश्च रत्नशैलस्तथाष्टमः । राजतो नवमस्तद्वद्दशमः
शर्कराचलः । वक्ष्ये विधानमेतेषां यथाबदनुपूर्ब्बशः ।
अयने विषुवे पुण्ये व्यतीपाते दिनक्षये । शुक्लपक्षे
तृतीयायामुपरागे शशिक्षये । विवाहोत्सवयज्ञेषु
द्वादश्यामथवा पुनः । शुक्लायां पञ्चदश्यां वा पुण्यर्क्षेवा
विधानतः । धान्यशैलादयो देयाः यथा शास्त्रविधानतः ।
तीर्थे चायतने वापि गोष्ठे वा भवनाङ्गने । मण्डपं
कारद्भक्त्या चतुरस्रमुदङ्मुखम् । प्रागुदक्प्लवनं तद्वत् प्राङ्मु-
खं वा विधानतः! गोमयेनानुलिप्तायां मूमावास्तीर्य्यवै
कुशान् । तन्मध्ये पर्वतं कुर्य्याद्विष्कम्भपर्व्वतान्वितम्” ।
विधानयुक्तविष्कम्भपर्ब्धतनिर्म्माणप्रकारादि धान्यपर्व्वत
हेमाब्दे वक्ष्यते । अस्य परिमाणमुक्तं ब्रह्माण्ड पु० ।
“अथ पापहरं वक्ष्ये सुवर्णाचलमुत्तमम् । यस्य प्रसा-
दाद्भवनं विरिञ्चेर्याति मानवः । उत्तमः पलसाहस्रो
मध्यमः पञ्चभिः शतैः । तदर्द्धेनाधरस्तद्वत् अल्प
वित्तोऽपि शक्तितः । दद्यादेकपलादूर्द्धं यथा शक्त्या
विमत्सरः । धान्यपर्व्वतवत् सर्व्वं विदध्यात् विधिमुत्तमम् ।
विष्कम्भशैलास्तद्वच्च ऋत्विग्भ्यः प्रतीपादयेत्” ।

कनकाध्यक्ष पु० ७ त० । सुवर्ण्णरक्षणादावधिकृते अमरः ।

कनकायु पु० धृष्टराष्ट्रपुत्रभेदे तत्पुत्रगणने भा० आ० ६७ अ०

“उग्रायुधोभीमरेताः कनकायुर्दृढायुधः” ।

कनकार पु० कनकं दीप्तं यथा ऋच्छति सर्व्वतो व्याप्नोति

ऋ--अण् । कोविदारवृक्षे । राजनि० ।

कनकालुका स्त्री कनकनिर्म्मिता आलुः संज्ञायां कन् ।

भृङ्गारे (झारी) सौवर्णकलसभेदे अमरः ।

कनकावतीमाधव कनकावतीं माधवञ्चाधिकृत्य कृतोग्रन्थः

अण् आख्याधिकायाम् तस्य लुक् । कनकावतीमा-
धववृत्तान्ताख्यापके शिल्पकरूपनाटकभेदे तल्लक्षणं
शिल्पकशब्दे वक्ष्यते ।

कनकाह्व पु० कतकस्याह्वा आह्वा यस्य । १ सुवर्ण्णनामनामके

नागकेशरे न० । २ धूस्तूरेपु०! अमरः कनकाह्वयीऽ-
प्यत्र राजनि० । पुष्पे न० ।

कनखल पु० । १ तीर्थभेदे तच्च तीर्थं गङ्गाद्वारसनीपस्थम् यथोक्तं

भा० व० ९१ अ० “बिभेद तरसा गङ्गां गङ्गाद्वारं युधिष्ठिर
पुण्यं तद्ध्यायतं राजन्! ब्रह्मर्षिगणसेवितम् । सनत्-
कुमारः कौरव्य! पुण्यं कनखलं तथा । पर्व्वतस्य पुरु-
र्नाम यत्र जातः पुरूरवाः” । तस्य माहात्म्यमुक्तम् “गङ्का-
द्वारे कुशावर्त्ते विल्वके नीलपर्व्वते । तथा कनखले स्रात्वा
धूतपाष्मा दिवं व्रजेत्” भा० अनु० २५ । “विशेषो वै कनखले
प्रयागे परमं महत् । यत्राकार्य्यशतं कृत्वा कृतं गङ्गा-
वसेचनम् । सर्व्व तत्तस्य गङ्गापोदहत्यग्निरिवेन्धनम्”
भा० व० ८५ अ० । “ततो गच्छेत धर्म्मज्ञ नमस्कृत्य
महागिरिम् । स्वर्गद्वारेण यत्तुल्यं गङ्गाद्वारं न संशयः” इत्यु
पक्रम्य “ततः कनस्यले स्नात्वा त्रिरात्रोपोषितोनरः । अश्व-
मेधमवाप्नोति स्वर्गलोकञ्च विन्दति” भा० व० ८४ । तत्तीर्थस्थ
२ समीपस्थपर्ब्बते च “एते कनखला राजन्नृषीणां दयिता-
नृप! । एषा प्रकाशते गङ्गा युधिष्ठिर! महानदी” भा० व०
१३५ अ० “तस्माद्गच्छेरनुकनखलं शैलराजावतीर्णाम्” मेघ०
“तीर्थं कनखलं नाम गङ्गाद्वारेऽस्ति पावनम् । यत्र काञ्च-
नपातेन जाह्नवी देवदन्तिना उशीनरगिरिप्रस्थाद्भित्त्वात्मव-
तारिता” कथासरित्सागरः ।

कनन त्रि० कन--युच् । काणे एकनेत्रे हेमच०

कनल त्रि० कन--अलच् । दीप्ते । तेन निर्वृत्तादि अरीहणा०

चतुरर्थ्याम् वुञ् । कानलक तन्निर्वृत्तादौ त्रि०

कनवक पु० यदुवंम्ये वसुदेवम्रातरि शूरस्य पुत्रभेदे ।

शूरात् वसुदेवोत्पत्तिमुक्त्वा । “देवभागस्ततोजज्ञे तथा
देवश्रवाः पुनः । अनाधृष्टिः कनवको वत्सवानथ गृञ्जिमः”
हरि० ३५ । तत्रैव “तन्द्रिजस्तन्द्रिपालश्च सुतौ कनवकस्य तु”

कना स्त्रो कनि नामधातु--अच् । कनिष्ठायाम् । “पुनस्तदा

वहति यत् कनाया दुहितुः” ऋ० १०, ६१, ५ ।

कनि नामधातु युवानं अल्पं वा करोति णिच्--कनादेशः

उभय० सक० सेट् । कनयति ते । “कीर्त्तने कनयन्ति च” भट्टिः

कनिक्रद त्रि० क्रन्द--यङ् लुक् अच्--चुत्वाभावः निगागमश्च ।

अत्यन्तक्रन्दितरि । “इमं मा हिंसारेकशफं पशुं
कनिक्रदम्” यजु० ३, ४८ । दाधर्तीत्यादि पा० सू० कनिक्रददिति
प्रकृतिभागमात्रनिपातः तेनान्यप्रत्ययेऽपि रूपं भवत्येव ।
पृष्ठ १६४६

कनिष्ठ त्रि० अतिशयेन युवा अल्पो वा इष्ठन् कनादेशः ।

१ अतितरुणे २ अत्यल्पे । ३ अनुजे पु० स्त्री । ४ दुर्वलाङ्गलौ
अल्पाङ्गुलौ (कडेआङ्गल) स्त्री मेदि० । ५ कनिष्ठस्य
भार्य्यायां ६ अल्पवयस्कायां स्त्रियाम् स्त्री । तत्र पुंयोगलक्षणं
ङीषं वयोवाचिलक्षणं ङीयं च बाधित्वा अजादि-
पाठात् टाप् । ७ नायिकाभेदे सा च रमसञ्जर्य्यां धीरा-
ऽधीराधीराधीराभेदेन त्रिविधेति विभज्य परिणीतत्वे
सति भतृंन्यूनस्नेहा कनिष्ठेति लक्षयित्वा धीराधी-
रादिज्यष्ठकनिष्ठयोरुदाहरणमुक्तम् तत्र धीरे ज्येष्ठा-
कनिष्ठे यथा “एकस्मिन् शयने सरोरुहदृशोर्विज्ञाय
निद्रार्त्तयोरेकां पल्ववितावगुण्ठनवतीमुत्कन्धरीं दृष्ट-
वान्” । अन्यस्याः सविधं समेत्य निभृतं व्यालोलहस्ता
ङ्गुलिव्यापारैर्वसनाञ्चलं चपलयन् स्वापच्युतिं कॢप्त-
वान् । अधीरे ज्येष्ठाकनिष्ठे यथा “अन्तः कोपकषायिते
प्रियतम पश्यन् घने कानने पुष्पस्यावचयाय नम्रवदना
मेकां समायोजयन् । अर्द्धोन्मीलितलोचनाञ्चलचमत्का-
राभिरामाननां स्मेराभाधरपल्लवां नवबधूमन्यां समालि-
ङ्गति” । घीराधीरे ज्येष्ठाकनिष्ठे यथा “धैर्य्याधैर्य्यपरि-
ग्रहग्रहिलयोरेणीदृशोः प्रीतये रत्नद्वन्द्वमनन्तकान्ति
रुचिरं मुष्टिद्वये न्यस्तवान् । एकस्याः कलयन् करे प्रथम-
तोरत्नं परस्याःप्रियो हस्ताहस्तिमिषात् स्मृशन् कुचतटी
मानन्दमाविन्दति” । ८ अत्यल्पपरिमिते त्रि० ।
“गायत्री छन्दसां कनिष्ठा “तैत्ति० ६, १, ६, ३ । वैदिक-
छन्दसां गायत्र्याः प्रथमत्वेन उष्णिगादितीऽल्पाक्षरत्वात्
कनिष्ठत्वम् “तद्वै कनिष्ठ छन्दः यद् गायत्री प्रथमा छन्द-
सां युज्यते” शत० १, ८, २, १० ।
९ उत्तरकालजाते त्रि० । “गर्द्दभः कनिष्ठं पशूना प्रजायते”
तैत्ति० ५, १, ५, ५ । “अथ यदजाः कनिष्ठानि पात्राणि खलु
प्रजायन्ते तस्मादेतास्त्रिः संवत्सरस्य विजायमाना द्वौ
त्रोन् विजनयन्त्यः कनिष्ठाः कनिष्ठानि हि पात्राणि खलु
प्रजायन्ते” शत० ब्रा० ४, ५, ५, ९ । १० अधःपदे ११ अधरे
च त्रि० । “छाययेवायं पुरुषः पाप्मनानुषक्तः सोऽस्य एव
कनिष्टो भवत्यधःपदमिवेयस्यते तत्कनिष्ठमिति” शत० व्रा०
२, २, ३, २ । १२ परजातमात्रे । “अन्वञ्चोऽमात्या
अधोनिवीताः प्रकृत्तशिखाः ज्योष्ठप्रथमाः कनिष्ठजघन्याः” आ०
४, २, ९ । “यो यः कनिष्ठः स पृष्ठतो गच्छेत् नारा०
“पुत्रः कनिष्ठः ज्येष्ठायां कनिष्ठायाञ्च पूर्वजः” मनुः ।
“सर्वं ज्येष्ठः कनिष्ठश्च संहरेतां यथोदितम्” “येऽन्ये
ज्येष्ठकनिष्ठाभ्यां तेषां स्यात् सव्ययं धनमिति” मनुः
“सरत्रिः स्यादरत्निस्तु निष्कनिष्टेन सुष्टिना” अमरः ।
कनिष्ठायाः अपत्यं ढकञ्--इनुक् । कानिष्ठिनेय कनिष्ठाया
अपत्ये । “कृते कानिष्ठिनेयस्य भरतस्य विवासितम्” भट्टिः ।
१३ महादेवे पु० “नमो ज्येष्ठाय कनिष्ठाय च” यजु०
१६, ३२ । तस्य च “अणोरणीयान् महतोमहीयान्”
इति श्रुत्या अणुतरत्वक्तोक्तेः कनिष्टत्वम् ।

कनिष्ठपद न० वीजगणितोक्ते ज्येष्ठापेक्षया न्यूनसख्या-

न्विते पदे वर्गमूले । वर्गप्रकृतौ तदानयनप्रकारः स
प्रयोजनं तत्र दर्शितं यथा
“इष्टं ह्रस्वंतस्य वर्ग्गः प्रकृत्या क्षण्णोयुक्तोवर्जितोवा
स येन । मूलं दद्यात् क्षेपकं तं धनर्णं मूलं तच्च ज्येष्ठ-
मूलं वदन्ति ॥ ह्रस्वज्येष्ठक्षेपकान्न्यस्य तेषां
तानन्यान् वाधोनियेश्य क्रमेण । साध्यान्येभ्योभावनाभिर्ब्ब
हूनि मूलान्येषां भावना प्रोच्यतेऽतः । वज्वाभ्यासो
ज्येष्ठलघ्वोस्तदैक्यं ह्रस्वं लघ्वोराहतिश्च प्रकृत्यां क्षुण्णा
ज्येष्ठाभ्यासयुग्ज्येष्ठसूलं तत्राभ्यासः क्षेपयोः क्षेपकः
स्यात् ॥ ह्रखं वज्राभ्यासयोरन्तरं वा लघ्वोर्धा-
तोयः प्रकृत्या विनिघ्नः । घातो यश्च ज्येष्ठयोस्तद्वियो-
गोज्येष्ठं क्षेपोऽत्रापि च क्षेपघातः ॥ इष्टवर्ग्गहृतः
क्षेपः क्षेपः स्यादिष्टभाजितः । मूले ते स्तोऽथ वा
क्षेपः क्षुण्णः क्षुण्णे तदा पदे ॥ इष्टवर्ग्गप्रकृत्योर्यद्वि-
वरं तेन वा भजेत् । द्विघ्नमिष्टं कनिष्टं तत् पदं स्या-
देकसंयुतौ ॥ ततोज्येष्ठमिहानन्त्यं भावनाभिस्तथेष्टतः” ॥
उदाहरणम् । “कोवर्ग्गोऽष्टहतः सैकः कृतिः स्याद्गण-
कोच्यताम् । एकादशगुणः कोवा वर्गः सैकः कृतिभर्वेत् ॥
प्रथमोदाहरणे
न्यासः प्र ८ क्षे १ अत्रैकमिष्टं ह्रस्वं प्रकल्प्य जाते
मूले सक्षेपे क १ ज्ये ३ क्षे १ । एषां भावनार्थं न्यासः
प्र ८ क १ ज्ये ३ क्षे १ । क १ ज्ये १ क्षे १
वज्राभ्यासौ ज्येष्ठलघ्वोरित्यादि प्रथमकनिष्ठ द्वितीय-
ज्येष्ठसूलाभ्यासः ३ द्वितीयकणिष्ठ १ प्रथमज्येष्ठमूलाभ्यास-
३ अनयोरैक्यं ६ कनिष्ठपदं स्यात् कनिष्ठयोराहतिः १
प्रकृतिगुणा ८ ज्येष्ठयोरभ्यासेन ९ अनेन युता १८ ज्येष्ठ
पदं स्यात् क्षेपयोराहति क्षेपकः स्यात् १ प्राङ्मूलक्ष-
पाणाम् एभिः सह भावलार्थं न्यासः
प्र ८ क १ ज्ये ३ क्षे १ । क ६ ज्ये १७ क्षे १
भावनया लब्धे मूले क ३५ ज्ये ९९ क्षे १
एवं पदानामानन्त्यम्
द्वितीयोदाहरणे रूपभिष्टं कनिष्ठम् प्रकल्प्र तद्वर्गात्प्रकृति-
पृष्ठ १६४७
गुणात् ११ रूपद्वयमपास्य मूलं ज्येष्ठं ३ अत्र भावनार्थं
न्यासः प्र ११ क १ ज्ये ३ क्षे २ । क १ ज्ये ३ क्षे २
प्राग्वल्लब्धे चतुःक्षेपमूले क ६ ज्ये २० क्षे ४ इष्टवर्ग्ग-
हृतः क्षेपैत्यादिना जाते रूपक्षेपमूलेक ३ ज्ये १० क्षे १
अतस्तुल्य भावनया वा कनिष्ठज्येष्ठमूले जाते क ६०
ज्ये १९९ क्षे १ एवमनन्तमूलानि ।
अथवा रूपं कनिष्ठं प्रकल्प्य जाते पञ्चक्षेपपदे क १
ज्ये ४ क्षे ५० अतस्तुल्यभावनया मूले क ८ ज्ये २७
क्षे २५ । इष्टवर्ग्गहृत इत्यादिना पञ्चकभिष्टं प्रकल्प्य
जाते रूपक्षेपपदे क (८५) ज्ये (२७५) क्षे १
अनयोः पूर्व्वमूलेभ्यः मूलभावनार्थं
न्यासःप्र ११ क (८५) ज्ये (२७५) क्षे १ ।
क ३ ज्ये १० क्षे १ भावनया लब्धे मूले क (१६१५)
ज्ये (५६४५) क्षे १ । अथ वा ह्रस्वं वज्राभ्यासयोरन्तर
मित्यादिना कृतया भावनया जाते मूलेक १ ज्ये ४ क्षे ५”
चक्रवालेन तदानयनप्रकारः चक्रवालशब्दे वक्ष्यते ।
कनिष्ठसूलमप्यत्र न० ।

कनिष्ठक न० कनिष्ठमिव कायति कै--क । शूकतृणे राजनि० स्वार्थे कन् । २ कनिष्ठशब्दार्थेत्रि० ।

कनिष्ठिका स्त्री कनिष्ठैव स्वार्थेकन् । (कडे आङ्गुल) क्षुद्रा-

ङ्गुलौ “द्विः कनिष्ठिकया” कात्या० ७, ७, १८ । पञ्चमे
षष्ठेच माने अनामिकामुत्सृज्यौतया कनिष्ठिकया द्विर्वा-
रम्” कर्कः । “परिवर्त्त्यपरिवर्त्त्याङ्गुलकनिष्ठिकाभ्यामादाय
पलाशपूटे प्रास्यति” कात्या० १, ५, ७, १ ।

कनी स्त्री कन--अच् गौरा० ङीष् । १ दुहितरि २ कन्यायाञ्च हेमच० ।

कनीचि स्त्री कन--बा० ईचि । १ गुञ्जायां (कुँच) शब्दर० ।

२ सपुष्पलतायाम् ३ शकटे च उणादि० । अयं मूर्द्धन्यम-
ध्य एव न मध्यस्तु प्रामादिकः “मृकणिम्यामीचिः” उज्ज्व-
लदत्तेन णान्तकणेरेव ग्रहणात्

कनीन त्रि० कन--प्रीतौ ईनन् । १ कमनीये । “सद्योहजोवो

वृषभः कनीनः” ऋ० ३, ४८, २ । “कनीनः कमनीयः” भा०
“भिनत् कनीन ओदनं पच्यमानम्” ऋ० ८, ६९, १४ ।
“जारः कनीन इव चक्षदानः” ऋ० १, ११७, १८ ।

कनीनका स्त्री “कनीनका कन्या कमनीया भवति क्वेय

नेतव्येति वा कमनेनानीयत इति या कमतेर्वा कान्ति
कर्म्मणः” निरुक्तोक्ता व्युत्पत्तिः पृषो० । १ कन्यायाम्
“कनीनकेव विद्रधे नवे द्रुपदे अर्भके” ऋ० ४, ३२, २३,
इमामृचमधिकृत्य ४, १५, निरुक्ते प्रागुक्ता निरुक्तिर्दर्शिता ।
भाष्यकृता तु कनीनका कननीयशालभञ्जिकेति व्याख्यातम्
तेन २ तदर्थेऽपि कनीनका कन्या काम्यत्वेनास्त्यस्याः कर्श०
अच् । ३ कन्याकामे पु० । “जनिष्ट योषा पतयत्
कनीनकः” ऋ० १०, ४०, ९, । कनीनकः कन्याकामः” इति भा० ।
कनीन इव कायति र्क--क । ४ कनीनिकायां न० सुश्रु० “ततः
कनीनकगतम्” तत्रोक्तेः अक्षिशब्दे ४५ पृ० विवृतिः

कनीनिका स्त्री कन--कनि--वा ईनन् संज्ञायां कन् टाप् अत

इत्त्वम् । १ अक्षितारायां २ कनिष्ठाङ्गुलौ च मेदि० ।
अक्षिशब्दे ४५ पृ० विवृतिः

कनीनी स्त्री कनि--नामधा० ईनन् ङीष् । कनिष्ठाङ्गुलौ अमरटीका

कनीयस् त्रि० अयमनयोरतिशयेन युवा अल्पो वा ईयसुन्

कनादेशः । द्वयोर्भध्ये १ अल्पतरे, “अन्नं कनीयो
भविष्यति” छा० उप० । २ युवतरे, ३ अनुजे भ्रातरि पु० ।
“कथं कनीयानहमुत्सहेयम्?” भट्टिः “कनीयान्
वृषमुत्सृजेत्” स्मृतिः “कलत्रवानहं बाले कनीयां-
सं भजस्व मे” रघुः । स्त्रियां ङीप् ।

कनीयस न० कन--दीप्तौ अच् कनः सूर्य्यस्तस्येदं छ कनीयं

तथाभूततया सीयते अवसीयते सो--घञर्थेकर्मणि क ।
१ ताम्रे । हेमच० ताम्रस्य सूर्य्यदेवाकत्वात्तथात्वम् ।
कनीयस् + स्वार्थे बा० अच् । २ कनीयसि कनिष्ठे त्रि० ।
“अभिषेक्तुकामं नृपतिं पूरुं पुत्रं कनीयसम्” “ययाति-
र्नाहुषोराजा पूरुं पुत्रं कनीयसम्” भा० आ० ८६ अ० ।

कन्त त्रि० कमित्यव्ययं कं सुखमस्त्यस्य कम् + त । सुखयुक्ते एवम्

“शङ्कम्भ्यां वंभयुस्तितुतयसः” पा० कम + ति कन्ति
कम् + तु । कन्तु तत्रार्थे त्रि० ।

कन्तु पु० कम--तुन् । १ कामदेवे २ हृदये न० उणा० कम् + तु

सुखान्विते त्रि० ।

कन्थक पु० ऋषिभेदे ततोगोत्रे गर्गा० यञ् । कान्थक्य तद्गोत्रापत्ये पुंस्त्री ।

कन्थरी स्त्री कम--अरन् पृषो० थुक् च गौरा० ङीष् ।

दुष्प्रवेशायां तीक्ष्णकण्टकयुक्ते वृक्षभेदे राजनि० । आरन्
थुक् । कन्थारीत्यप्यत्र राजनि० ।

कन्था स्त्री कम--थन् । मृण्मयभित्तौ(कांथ)सूत्रग्रथितजीर्ण-

वस्त्रखण्डे । (कांथा) “भिक्षा प्राणस्य रक्षार्थं कन्था-
शीतनिवारिणी । अचला केशवे भक्तिः विभवैः किं प्रयो-
जनमिति” पुरा० । “कन्थां वहसि दुर्बुद्धे! गर्द्दभेनापि
दुर्वहाम्” शङ्करदि० अस्य तत्पुरुषे “संज्ञायां कन्थोशीन-
रेषु” पा० क्लावता सौशमिकन्थम् । संज्ञाभावे
ओशोनरभेदे च न । दाक्षिकन्था सि० कौ० ।
पृष्ठ १६४८

कन्द पुं न० कन्दति कन्दयति कन्द्यते वा कदि--अच्--णिच्--अच्

घञ् बा । १ शूरण (ओल) २ शस्यमात्रमूले, ३ गृञ्जने
च (गाँजर) ४ मेधे पु० मेदि० । मेघनामनामके
५ कर्पूरे च पु० “कन्दमूलफलाशिनः” चातुर्मास्यव्रतविधिः
“कन्दोद्भेदा वैद्रुमा वारिणीव” माघः “वने निवसतां
तेषां कन्दमूलफलाशिनाम्” भा० अनु० ४१ अ० । कन्द
भेदास्तेषां विशेषगुणाश्च सुश्रु० दर्शिताः यथा “कन्दानत
ऊर्द्ध्वं वक्ष्यामः । विदारीकन्दशतावरीविसमृणालशृङ्गा-
टककशेरुकपिण्डालुकमध्वालुकहस्त्यालुककाष्ठालुकशङ्खालु-
करक्तालुकेन्दीवरोत्पलकन्दप्रभृतीनि ।
रक्तपित्तहराण्याहुः शीतानि मधुराणि च । गुरूणि
बहुशुक्राणि स्तन्यवृद्धिकराणि च । मधुरी वृंहणो वृष्यः
शीतः स्वर्य्योऽतिमूत्रलः । विदारीकन्दो बल्यस्तु पित्त-
वातहरस्तु सः । वातपित्तहरी वृष्या स्वादुतिक्ता
शतावरी । महती चैव हृद्या च मेधाग्निबलवर्द्धिनी । ग्रह-
ण्यर्शोविकारघ्नी वृष्या श्वेता रसायनी । कफपित्तहरा-
स्तिक्तास्तस्या एवाङ्कुराः स्मृताः । अविदाहि विसम्प्रोक्तं
रक्तपित्तप्रसादनम् । विष्टम्भि दुर्ज्जरं रूक्षं विरसं मारु-
तावहम् । गुरुविष्टम्भिशीतौ च शृङ्गाटककशेरुकौ ।
पिण्डालुकं कफकरं गुरु वातप्रकोपणम् । सुरेन्द्रकन्दः
श्लेष्मघ्नो विपाके कटुपित्तकृत् । वेणोः करीरा गुरवः
कफमारुतकोपनाः । स्थूलशूरणमाणकप्रभृतयः कन्दा
ईषत्कषायाः कटुका रूक्षा विष्टम्भिनो गुरवः कफवातलाः
पित्तहराश्च । माणकं स्वादु शोतञ्च गुरु चापि प्रकीर्त्ति-
तम् । स्थूलकन्दस्तु नात्युष्णः शूरणो गुदकीलहा ।
कुमुदोत्पलपद्मानां कन्दा मारुतकोपनाः । कषायाः
पित्तशमना विपाके मधुरा हिमाः । वाराहकन्दः श्ले-
ष्मघ्नः कटुको रसपाकतः । मेहकुष्ठकृमिहरो बल्यो वृषो
रसायनः” । भावप्र० उक्तगुणादि तत्तच्छब्दे दृश्यम् ।
माधवनिदानोक्ते ६ योनिरोगभेदे पु० । “दिवास्नप्नादति
क्रोधाद्व्यायामादतिमैथुनात् । क्षताच्च नखदन्ताद्यैर्वा-
ताद्याः कुपितायदा । पूयशोणितसङ्काशोलकुचाकृति,
सन्निभः । उत्पद्यते यदा योनौ नाम्ना कन्दस्तु योनिजः”
स चतुर्विधः वातापत्तकफसन्निपातजभेदैः । “रूक्षं विवर्णं
स्फुटितं वातिकं तम् विनिर्द्दिशेत् । दाहरोगज्वरयुतं
बिद्यात् पित्तात्मकन्तु तम् । नीलपुष्पप्रतोकाशं कण्डूमन्तं
कफात्मकम् । सर्व्वलिङ्गसमायुक्तं सन्निपातात्मकं विदुः ।
सन्निपातात्मकोऽसाध्यः शेषाः कृच्छ्रप्रसाधनाः” ।

कन्दगुडुची स्त्री कन्दोद्भवा गुडुची शाक० । १ गुडुचीभदे,

राजनि० (सुथ्नी) इति ख्याते २ कन्दे च शब्दच०

कन्दट न० कदि--अटन् । श्वेतोत्पले (सादासुँदि) शब्दरत्ना०

कन्दफला स्त्री कन्दात् फलं यस्याः । क्षुद्रकारवेल्वायाम् ।

(छोटौच्छा) राजनि०

कन्दबहुला स्त्री कन्दैर्बहुला । त्रिपर्ण्णिकावृक्षे राजनि०

कन्दमूल न० कन्दरूपं मूलमस्य । भूलके (मूलो) राजनि०

कन्दर न० कम् जलेन दीर्य्यते दृ--कर्म्मणि अप् । १ आर्द्रके

२ अङ्गुरेच राजनि० ३ गुहाकारे पर्वतनितम्बस्थाने पुंस्त्री
अमरः । स्त्रीत्वे गौरा० ङीष् स्वामी । ४ गुहायां स्त्री
ठाट् अमरटीकान्तरम् “निर्ह्रादस्ते मुरज इव चेत्
कन्दरेषु ध्वनिः स्यात्” मेघ० । “विदूरगं प्रतिभयमस्य-
कन्दरम्” माघः “नानामलप्रस्रवणैर्नानाकन्दरसानुभिः”
भाग० ४, ६, १०, “अग्न्यर्थमेव शरणमुटजंवाद्रिकन्दरम्”
भाग० ७, १२, १९, कन्दस्य सन्निकृष्टदेशादि अश्मादि०
चतुरर्थ्यां र । कन्दर ५ कन्दसन्निकृष्टदेशादौ त्रि० ।
कं गजशिरीदीर्य्यतेऽनेन करणे अप् । ६ अङ्गशे मेदि०

कन्दराकर पु० ६ त० । पर्व्वते मेदिनिः ।

कन्दराल पु० कन्दरायाङ्कुरायालति--अल--अच् ॥ १ गर्द्द-

भाण्डवृक्षे २ प्लक्षवृक्षे (पाकुड़) ३ आखोटवृक्षे च राजनि०
संज्ञायां कन् । ४ प्लक्षवृक्षे पु० शब्दरत्ना० ।

कन्दरोद्भवा स्त्री कन्दरे उद्भवति उद् + भू--अच् । १ क्षुद्र-

पाषणभेदीवृक्षे राजनि० २ कन्दरोडवमात्रे त्रि० ।
३ गुडुचीभेदे स्त्री राजनि०

कन्दरोहिणी स्त्री कन्दात् रोहति रुह--णिनि । गुडुचीभेदे राजनि०

कन्दर्प पु० कम् सुखं तस्मै तत्र वा दृप्यति कम् + दृप + अच्,

कम् कुत्सितो दर्पोऽस्मात् वा । १ कामदेवे अमरः । “तत्र
निश्चित्य कन्दर्पगगमत् पाकशासनः” कुमा० । २ सङ्गी-
तोक्ते ध्रुवभेदे । “त्रयोविंशतिवर्ण्णाङ्घ्रिर्ध्रुवःकन्दर्पसंज्ञकः ।
वीरे वा करुणे वा स्यात् खण्डताले विधीयते” संङ्गी० दा०

कन्दर्पकूप पु० कन्दर्पस्य कूप इव । स्त्रीचिह्नभेदे जटाधरः ।

कन्दर्पकेलि पु० कन्दर्पेण केलिः । कामहेतुके केलौ

तमधिकृत्य कृतोग्रन्थः अण् आख्यायिकायां तस्य लुक् ।
प्रहसनभेदे ।

कन्दर्पजीव पु० कन्दर्पं जीवयति वर्द्धयति जीव--णिच्--अण् ।

कामवृद्धिकारफलके पनमवृक्षे राजनि० ।

कन्दर्पमयन पु० कन्दर्पं मथ्नाति मथ--ल्यु । १ महादेवे

कन्दर्पशत्रुकामहादयोऽप्यत्र पु० ।

कन्दर्पमूषल पु० कन्दर्प मूषल इव । पुरुषचिह्नभेदे । त्रिका० ।

पृष्ठ १६४९

कन्दर्पशृङ्खल पु० “नारीपदद्वयं न्यस्य कान्तस्योरुद्वयोपरि ।

कटिञ्चेद्दोलयेदाशु बन्धः कन्दर्पशृङ्खलः” रतिमञ्जर्द्युक्ते
रतिबन्धभेदे ।

कन्दल त्रि० कदि--अलच् । १ कलापे २ उपरागे ३ नवाङ्कुरे

४ कलध्वनौ च मेदि० ५ अपवादे शब्दर० । ७
कलहभेदे (वाग्युद्धे) ७ कपाले च पु० धरणिः । गौरा०
ङीष् कन्दली ८ मृगभेदे ९ गुल्मप्रभेदे च स्त्री मेदि० सा च
भूमिकदली, “द्रोणपर्णी स्निग्धकन्दा कन्दली मूकदल्य
पीति” शब्दार्ण्णवोक्तेः “ध्वजांशुकैस्तर्जितकन्दलीवनः”
माघः । “आविर्भूतप्रथममुकुला कन्दली चानुकच्छम्” मेघ०
पुष्पे न० । “विड़म्ब्यमाना नवकन्दलैस्ते” रघुः ।
“द्विदलकन्दलकम्पनलालितः” माघः “निष्पीडितेन्दुकरक-
न्दलजोऽनुसेकः” उत्तरराम० । १० ओले पु० भावप्र० ।

कन्दलता कन्दप्रधाना लता । माणके राजनि० ।

कन्दलीकुसुम न० कन्दल्या शव कुसुममस्य । शुलीनध्रे ।

६ त० । १ सूमिकदलीपुष्पे च ।

कन्दवर्द्धन पु० कन्देन बर्द्धते वृध--ल्यु । शूरणे (ओल) राजनि०

कन्दवल्ली स्त्री कन्दाकारा वल्ली । बन्ध्याकर्कट्याम् राजनि० ।

कन्दशाक न० कन्दप्रधानः शाकः । कन्दप्रधाने शाके कन्द-

शब्दे दर्शितकन्दवर्गशाके शूरणादौ । “सर्वेषां कन्द-
शाकानां शूरणः श्रेष्ठ उच्यते” मावप्र० ।

कन्दशूरण पु० कन्देषु शूरणः श्रेष्ठः । (ओल) शूरणेराजनि०

कन्दसार न० कन्दानां सारोऽत्र । १ नन्दनवने त्रिका० । क

न्दः सारोऽस्य । कन्दप्रधाने औलादौ त्रि० । ३ कन्दशब्दे
दर्शितकन्दवर्गेत्रि० ।

कन्दाढ्य पु० कन्दे नाढ्यः । भूमिकन्दै राजनि० ।

कन्दामृता स्त्री कन्दप्रधानाऽमृता । कन्दप्रधाने गुडुचीभेदे राजनि० ।

कन्दार्ह पु० कन्देषु अर्ह पूज्यः । शूरणे राजनि० ।

“सर्वेषां कब्दशाकानां शूरणःश्रेष्ठ उच्यते इत्युक्तेस्तस्य
कन्देषु प्रधानत्वात्तथात्वम् ।

कन्दालु पु० कन्देनालुरिव । १ कासालौ २ भूमिकन्दे ३ त्रि-

पर्ण्णिकायाञ्च राजनि० ।

कन्दिन् त्रि० कन्दोऽस्त्यस्य इनि । १ कन्दयुक्ते । २ ओले पु० राजनि० ।

कन्दिरी स्त्री कन्द--इरच् गौरा० ङीष् । लज्जालुवृक्षे वेद्य०

कन्दी स्त्री कन्दोऽस्त्यस्य अच् गौरा० ङीष् । मांसकन्द्याम् ।

कन्दु पुंस्त्री स्कन्द उ सलोपश्च । (ताओया) १ खेदनीपात्रे

“कन्दुपक्वं तैलपक्वमिति” स्मृतिः २ तण्डुलादेः भर्जन-
पात्रमात्रे च (भोजना खाला) “गोकुले कन्दुशालायां
तैलयन्त्रेक्षुयन्त्रयोः” स्मृतिः । “कन्दुपक्वानि तलन
पायसं दधि सक्तवः । द्विजैरेतानि भोज्यानि शूद्रगेह
कृतान्यपि” ति० त० कूर्म्मपु० ।

कन्दुक पु० कं सुखं ददाति दा--मितद्र् वा० डु संज्ञायां कन्

कन्दु + यावादि० कुमारीक्रीडनकत्वेन कन् वा । १ वस्त्रादि
निर्म्मिते उत्पातनावपातनक्रीड़ासाधनद्रव्यभेदे (गे दो) ।
“स्तनाङ्गरागारुणिताच्च कन्दुकात्” । “क्लमं ययौ कन्दु-
कलीलयापि या” “सा कन्दुकैः कृत्रिमपुत्रकैश्च” कुमा० ।
“कराभिघातोत्थितकन्दुकेयम्” रघुः “तटभुवि कन्दकवि-
भ्रमं बभार” माघः । “इदं कन्दुकं यत्र येभ्यश्चतुर्भ्योगः”
वृ० र० टीकोक्ते २ त्रयोदशाक्षरपादके छन्दोभेदे न० ।

कन्दुकेश्वर न० काशीस्थे ज्येष्टस्थानस्थे शिवलिङ्गभेदे कन्दुक

खेलनप्रकारः तदाविर्भावकथा च काशी० ६५ अ० दर्शिता
“स्वैरं विहरतस्तस्य ज्येष्ठस्थाने महेशितुः । कौतुकेनैव
विक्रीड शिवा कन्दुकलीलया । उदञ्चन्न्यञ्चदङ्गानां लाघवं
परितन्वती । निश्वासामोदमिलितभ्रमराकुलितेक्षणा ।
भ्रश्यद्ध्वम्मिल्लसम्माल्यसुपुटीकृतभूमिका । स्विद्यत्कपोल
पत्रालीस्रवदम्बुकणोज्वला । स्फुटच्चेलांशुकपथनिर्यदङ्ग
प्रभाविता । उल्लसत्कन्दुकास्फालातिशोणितकराम्बुजा ।
कन्दुकानुगसंदृष्टिनर्त्तितभ्रूलताञ्चला । मृडानी किलखे
लन्ती ददृशेजगदम्बिका । अन्तरीक्षचराभ्यां च दितिजाभ्यां
मनीहरा । कटाक्षिताभ्यामिव वै समुपस्थितमृत्युना ।
विदलोत्पलसंज्ञाभ्यां दृप्ताभ्यां वरतोविधेः । तृणीकृतत्रिज-
गतीपुरुषाभ्यां स्वदोर्बलात् । देवों परिजिहीर्षू तौ
विषमेषुप्रपीडितौ । दिवोऽवतेरतुः क्षिप्रं मायां स्वीकृत्य-
शाम्बरीम् । धृत्वा पारिषदीं मूर्त्तिभायातावम्बिकान्ति-
कम् । तावत्यन्तं सुदुर्वृत्तावतिचञ्चलमानसौ । सर्व्वज्ञेन
परिज्ञातौ चाञ्चल्याल्लोचनोद्भबात् । कटाक्षिताथ देवेन
दुर्गा दुर्गविघातिनी । विज्ञातनेत्रसंज्ञान्तु सर्वज्ञार्द्धशरी-
रिणी । तेनैव कन्दुकेनाथ युगपन्निजघान तौ । महाबलौ
महादेव्या कन्दकेन समाहतौ । परिभ्रम्यपरिभ्रम्य तौ
दुष्टौ विनिषेततुः । वृन्तादिव फले पक्वेतालादनिललोलिते ।
दम्भोलिना परिहते शृङ्गेइव महागिरेः । तौ निपात्य
महादैत्यावकार्य्य करणोद्यतौ । ततः परिणतिं यातो-
लिङ्गरूपेण कन्दुकः । कन्दुकेश्वरसंज्ञंच तल्लिङ्गमभबत्तदा ।
ज्येष्ठेश्वरसमीपे तु सर्वदुष्टनिवारणम् । कन्दुकेशसमुत्-
प्रत्तिं यः श्रोष्यति मुदान्वितः । पूजयिष्यति योभक्त-
स्तस्य दुःखभवं कुतः । कन्दुकेश्वरभक्तानां मानवानां
पृष्ठ १६५०
निरेनसाम् । योगक्षेमं सदा कुर्य्याद्भवानी भयनाशिनी ।
मृडानी तस्य लिङ्गस्य पूजां कुर्य्यात् सदैव हि । तत्रैव
देव्याः सान्निध्यं पार्व्वत्या भक्तसिद्धिदम् । सर्व्वोपसर्ग
संघातविघातकरणं परम् । कन्दुकेशं महालिङ्गं
काश्यां यैर्न समर्च्चितम् । कथं तेषां भवानीशौ स्यातां
सर्वेप्सितप्रदौ । द्रष्टव्यं च प्रयत्नेन तल्लिङ्गं कन्दुकेश्व-
रम् । कन्दुकेश्वरनामाऽपि श्रुत्वा वृजिनसन्ततिः । क्षिप्रं
क्षयमवाप्नोति तमः प्राप्योष्णगुं यथा” । कन्दुकेशमप्यत्र ।

कन्दुपक्व त्रि० जलोपसेकं विना कन्दुपात्रे पक्वं तण्डु-

लादि । शुषकतया भ्रष्टतण्डुलादौ । “कन्दुपक्वानि
तैलेनेत्यादि ति० त० कूर्मपु० । कन्दुशब्दे उदा० ।

कन्दुशाला स्त्री कन्दुपाकार्था शाला शा० त० (कानशाला)

कन्दुपाकार्थं शालायाम् “गोकुले कन्दशालायां तैलयन्त्रेक्षु
यन्त्रयोः । अमीमांस्यानि शौचानि स्त्रोषु बालातुरेषु च”
स्मृतिः ।

कन्दोट पु० कदि--ओटन् । १ श्वेतोत्पले २ नीलोत्पले न० । शब्दरत्ना० ।

कन्दोत पु० कन्दे मूले ऊतः वेञ्--क्त । कुमुदे । त्रिका० ।

कन्दोद्भवा स्त्री कन्दादुभवोऽस्याः । गुडुचीभेदे ।

कन्ध पु० कं जलं दधाति धा--क । १ मेघे शब्दत्ना० । तन्ना

मनामके २ मुक्ते च ।

कन्धर पु० कं जलं शिरो व धारयति धृ--अच् । १ मेघे मेदि० ।

तन्नामनाषके २ मुस्ते च । ३ मारिषशाके (नटियाशाक)
राजनि० । ४ ग्रीवायाञ्च सारसुन्दरी । ग्रोवायां स्त्री
अमरः । “कन्धराबाहुसक्थ्नाञ्चभङ्गे मध्यमसाहसम्”
याज्ञ० “उत्कन्धरं दारुक इत्युवाच” माघः “कवाटवक्षाः
परिणद्धकन्धरः” रघुः ।

कन्धि स्त्री कं शिरोजलं वा धीयतेऽत्र आधारे कि । १ ग्रीवायां २ समुद्रे पु० राजनि० ।

कन्न न० कन्यते प्राप्यते दुःखमनेन कन--गतौ बा करणे क्त ।

१ पापे २ मूर्च्छायाञ्च शब्दमाला ।

कन्यका स्त्रो अज्ञाता कन्या + अज्ञातार्थे कन् क्षिपकादित्वात्

नेत्त्वम् । “अष्टबर्षा भवेद्गौरी नववर्षा च रोहिणी ।
दशमे कन्यका प्रोक्ता अतऊर्द्ध्वं रजस्वला” स्मृत्युक्तायांसश-
मवर्षायां स्त्रियां तस्यादशमवर्षादर्वाक् रजोयुक्ततया अज्ञात-
त्वात्तथात्वम् । स्वार्थे कन् । २ कन्याशब्दार्थे “राक्षसो युद्धह-
रणात् पैशाचः कन्यकाच्छलात् “सुवासिनीबालवृद्धगर्भिण्या-
तुरकन्यकाः । संभोज्यातिथिभृत्यांश्च दम्पत्योः शेषभोजनम्”
याज्ञ० । “कन्यकातनयकौतुकक्रियाम्” । “संबद्धवैखानस
कन्यकानि” रघुः । ३ नायिकाभेदे रसमञ्जर्य्याम् स्वकी-
परकीयासामान्यवनितेति प्रथमं त्रिधा विभज्य अप्रकटि-
तपरपुरुषानुरागा परकीयेति लक्षयित्वा सा च द्विवि-
धा परोढा कन्यका चेति विभज्य कन्यायाः पित्राद्यधी-
नत्वात् परकोयत्वमिति समर्थ्य अस्या गुप्ता एव सर्वाश्चे-
ष्टा इत्युक्त्वा उदाहृतम् यथा “किञ्चित् कुञ्चितहारयष्टि-
सरलभ्रुवल्लिसाचिस्मितम्प्रान्तभ्रान्तविलोचनद्युतिभुजाप-
र्य्यन्तकर्णोत्पलम् । अङ्गुल्याङ्कुरदङ्गुलीयकरुचा गण्डस्य-
कण्डूयनं कुर्वाणा नृपकन्यका सुकृतिनं सव्याजमालोकते”

कन्यकाजात पु० ५ त० । कानीने व्यासकर्णप्रभृतौ

“कानीनः कन्यकाजातोमातामहसुतोमतः” स्मृतेस्तस्य माता-
महपुत्रता

कन्यकापति पु० ६ त० । जामातरि शब्दरत्ना० ।

कन्यना स्त्री कन्यामाचष्टे कन्या + णिच्--भावे युच् । कन्या

ख्याने कन्याह्वाने । “स्तोमं जुषेथां युवशेव कन्यनाम्”
ऋ० ८, ३५, ५, “कन्यनां कन्याह्वानम्” भा० ।

कन्यला स्त्री कनयतेर्भावे यत् कन्यं कमनोयतां लाति गृह्णाति

ला--क । कन्यायाम् । “वृषण्यन्तीव कन्यला” ऋ० ५, ५,
३, मुद्रितपुस्तके एषा ऋक् न दृश्यते पुस्तकान्तरेऽस्ति ।

कन्यस पु० कन--अघ्न्यादि० नि० कन्यः कन्यत्वेन काम्यत्वेन सीय

ते अवसीयते सो--घञ्र्थे क । १ कनिष्ठे भ्रातरि सारसुन्दरी
“रामस्य कन्यसोभ्राता” रामा० । २ कन्यसी कनिष्ठायां
भगिन्यां स्त्री । वयोवाचैत्यात् ङीष् । “अभिजित्स्पर्द्ध-
मानांतु रोहिण्याः कन्यसीस्वसा । इच्छन्ती ज्येष्ठतां देवीं
तपस्तप्तुं वनं गता” भा० व० २३९ अ० । ३ अधमे त्रि०
“कन्यसं षडभिरुद्दिष्टम्” अङ्गुलिपरिमाणे कालि० पुरा० ।

कन्या स्त्री कन--यत् अघ्र्या० नि० । “कन्यायाः कनीन् चेति

निर्देशात् “वयसि प्रथम” पा० न ङीष् । १ अनूढायां स्त्रियां
२ अनूढ़दुहितरि “अकृतोपयमा कन्या” सा० द० ।
३ मेषादितः षष्ठे राशौ च । निरुक्तौ ४, १५ । अन्यैव
निरुक्तिरुक्ता । “कन्या कमनीया भवति क्वेयं नेतव्येति
कमनेनानीयते इति वा कनतेर्वा स्यात् कान्तिकर्मणः” तत्र
सत्र पृषो० साधु । भा० व० ३०६ अ० अन्यैव निरुक्तिर्दर्शिता
“सर्वान् कामयते यस्मात् कमेर्धातोश्च
भाविनि! । तस्मात् कन्येह सुश्रोणि! स्वतन्त्रा
वरवर्ण्णिनि!” ३ योषिन्मात्रे । “अहल्या द्रौपदी कुन्ती
तारा मन्दोदरी तथा । पञ्च कन्याः स्मरेन्नित्यं महापातक
नाशनम्” पुरा० । “आचारलाजैरिव पौरकन्याः” रघुः
४ दुहितृमात्रे “नरेन्द्रकन्यास्तमवाप्य सत्पतिम्” रघुः ।
पृष्ठ १६५१
“ब्राह्मणाद्वैश्यकन्यायामम्बष्ठोनाम जायते” “निषादः शूद्र-
कन्यायां यः पारशव उच्यते” । “क्षत्रियाच्छूद्रकत्यायां क्रूरा
चारविहारवान् । क्षत्रशूद्रवपुर्जन्तुरुग्रोनास प्रजायते”
मनुः तत्र अनूढदुहितरि “कन्यायां दत्तशुल्कायां श्रोयां-
श्चेत् वर आव्रजेत्” कात्या० स्मृतिः “पितृवेश्मनि या
कन्या रजः पश्यत्यसंस्मृता । सा कन्या वृषली ज्ञेया
हरंस्तां न विदुष्यति, विष्णुः । ऋतुत्रयमुपास्यैव कन्या
कुर्यात् स्वयंवरम् । ऋतुत्रये व्यतीते तु प्रभवत्यात्मनः
सदा” विष्णुः । ५ अनूढ़स्त्रीमात्रे “प्रसह्य
कन्याहरणं राक्षसोविधिरुच्यते” । “योऽकन्यां दूषयेत्
कन्याम्” । “अभिषह्य तु यः कन्यां कुर्य्यात् दर्पेण
मानवः” इति च याज्ञ० । “कन्यैव कन्यां या कुर्य्यात्
तस्याः स्याद्द्विशतो दमः” । “या तु कन्यां प्रकुर्य्यात् सा
सद्योवै मौण्ड्यमर्हति” मनुः “कन्यैवाक्षतयोनिर्या”
स्मृतिः । “सह चान्यया स्थविरराजकन्यया” माघः ।
“सेकान्ते पुनःकन्याभिस्तत्क्षणोज्झतवृक्षकम्” रघुः ।
कन्याया भावः । कन्यात्व संज्ञात्वान्न पुंवद्भावः । पुरु-
षसङ्गरहितावस्थायां “कन्यात्वे दूषिते चापि कथं शक्ष्ये
द्विजोत्तम!” भा० आ० ६० । विवाहयोग्यावस्थाययाञ्च ।
“प्रादाच्च तस्यै कन्यात्वं पुनः स परमद्युतिः” भा०
आ० १११ अ० । कन्यादावविक्रयवोर्गुणदीषौ यथा ।
“कन्यां ये तु प्रयच्छन्ति यथाशक्ति स्वलङ्कृताम् । विवाहकाले
संप्राप्ते यथोक्तसदृशे वरे! क्रमात् क्रमं क्रतुशतमनुपूर्वं
लभन्ति ते । श्रुत्वा कन्याप्रदानन्तु पितरः प्रपितामहाः ।
विमुक्ताः सर्वपापेभ्यो ब्रह्मलोकं व्रजन्ति ते । ब्राह्मेण तु
विवाहेन यस्तु कन्यां प्रयच्छति । ब्रह्मलोकं व्रजेच्छीघ्रं
ब्रह्माद्यैः पूजितः सुरैः । दिव्येन तु विवाहेन यस्तु कन्यां
प्रयच्छति । भित्त्वा द्वारन्तु सूर्य्यस्य स्वर्गलोकञ्च गच्छति ।
गान्धर्व्वेण विवाहेन यस्तु कन्यां प्रयच्छति । गन्धर्वलोक
मासाद्य क्रीडते देववच्चिरम् । शुल्केन दत्त्वा यो कन्यां तां
पश्चात् सम्यगर्च्चयेत् । स किन्नरैश्च गन्धर्वैः क्रीडते काल
मक्षंयम् । (शुल्केन गोमिथुनरूपशुल्कोपलक्षितेनार्षेण)
न मत्युं कारयेत्तासां पूज्याश्च सततं गृहे । ब्रहु-
देया विशेषेण ब्राह्मी भोज्या सदा भवेत् । कन्यायां
ब्रह्मदेयायामभुञ्जन् सुखमश्नुते । अथ भुञ्जीत यो मोहात्
भूक्त्वा स नरकं व्रजेत् । अप्रजायाञ्च कन्यायां न भुञ्जीयात्
कदाचन । दौहित्रस्य मुखं दृष्ट्वा किमर्थमनुशोचसि” । यः
कत्यापालनं कृत्वा करोति यदि विक्रयम् । विक्रेता धनलो-
भन कुम्भीपाकं स गच्छति । कन्यामूत्रपुरीषञ्च तत्र भक्ष-
ति पातकी । कृमिभिर्दंशितः काकैर्यावदिन्द्राश्चतुर्द्दश ।
मृतश्च व्याधयोनौ च स लभेज्जन्म निश्चितम् । विक्रीणीते
मांसभार वहत्येव दिवानिशमिति” ब्रह्मवैवर्त्तपुराणम् ।
विवाह्यकन्यालक्षमुपयमशब्दे उक्तम् । उद्वहशब्देऽधिकं
दृश्यम् । “स्वपितृभ्यः पिता दद्यात् सुतसंस्कारकर्म्मसु” इत्युक्तेः
सुतपदस्य पुंस्त्वाविवक्षया कन्यापुत्रसंस्कारेषु वृद्धिश्राद्धे
प्राप्ते “स्त्रीणामप्येवमेव स्यात्” मनूक्तेश्च सर्वसंस्कारेषु च
प्राप्तेषु च निष्क्रमभिन्नकन्यासंस्काराणाममन्त्रककतया
कर्त्तव्यता तत्रापि वृद्धिश्राद्धनिषेधमाह महानि० त० ९५
प० । “कन्याया निष्क्रमो नास्ति वृद्धिश्राद्धं न विद्यते” ।
वृद्धिश्राद्धनिषेधेऽपि विवाहे वृद्धिश्राद्धमिष्यत एव “कन्या-
पुत्रविवाहेषु वृद्धिश्राद्धं विधीयते इति” स्मृतेः । “नामान्न-
प्राशनं चूड़ां कुर्य्यात् स्त्रीणाममन्त्रकम्” । इति “जात-
कर्मादि चूड़ान्तं कुमार्य्याश्चाप्यमन्त्रकम् । कर्त्तव्यं पञ्च-
भिर्वर्ण्णैरेकं निष्क्रमणं विनेति” च । तेन निष्क्रमण
भिन्नाः संस्काराः अमन्त्रकाः कार्य्याः । विवाहस्य
चोपयनस्थानीयत्वात् न तदाचरणम् इति भेदः ६ धृतकु-
मार्य्याम् मेदि० ७ स्थूलैलावायां ८ वाराहीकन्दे
९ कन्ध्याकर्कट्याञ्च राजनि० । “ग्मौ चेत् कन्या” इत्युक्तलक्षणे
चतुक्षरपादके १० छन्दोभेदे च । कन्याराशिश्च उत्तरफाल्गु-
न्याःशेषपादत्रयहस्तचित्रार्द्धनक्षत्रघटितः राशिचक्रे घष्ठः
१५० सार्द्धशतांशोत्तराशीत्युत्तर शतांशपर्य्यन्तस्त्रिंशदंशा-
त्मकः । तदधिष्ठातृदेवतास्वरूपञ्च । “कन्या प्लवस्था स्मृताः ।
कन्या शस्यहुताशयुक्” इति जातकप० । उक्तम् तस्य
राशेश्च वर्ण्णादिकमुक्तम् नील० ता० यथा । “पाण्डुर्द्विपात्
स्त्री द्वितनुर्यमाशा निशा मरुत् शीतसमोदयः क्ष्मा ।
कन्यार्द्धशब्दा शुभभूमिवैश्यरूक्षाल्पसङ्ग प्रसवा शुमा च” ।
ततश्चास्य राशेः पाण्डवर्णः द्विपदराशिता स्त्रीराशिता
द्विस्वभावात्मकता दक्षिणदिगभिमुखता रात्रिरूपता
वातप्रकृतित्वं शीतवीर्य्यं समराशित्वम् । मूमिरूपता । अर्द्धशब्दः
शुभस्वामिकत्वम् वैश्यवर्ण्णः रूक्षत्वम् अल्पसङ्गोऽल्पप्रसवः
अकूररूपत्वञ्च । तच्च जन्मप्रश्नलग्नफलाद्युपयोगार्थमुक्तम्
अस्य स्वामी बुधः । अन्यत्रास्य शीर्षोदयत्वमुकम् “कन्यां
गते पूषणि” “अप्राप्ते भास्करे कन्याम” इति च ज्यो०

कन्याका स्त्री कन्यैव कन् अनुक्तपुंस्कत्वात् न ह्रस्वः । कन्या-

यां शब्दर० ।

कन्याकाल पु० कन्यात्वोपलक्षितः कालः शा० त० । अविवा-

होपलक्षिते काले विवाहकालश्च उपयमशब्दे उक्तः ।
पृष्ठ १६५२

कन्याकुब्ज पु० कन्याः कुब्जाः यत्र । कान्यकुब्जदेशे हेम०

“कन्याकुब्जेऽपिबत् सोममिन्द्रेण सह कौशिकः” भा० व०
२७ अ० । कन्यानां संघः अण् कान्यं तत् कुब्जं यत्र का
न्यकुब्जोऽप्यत्र । यथा च तद्देशे कन्यानां वायुना कुब्जत्वं
कृतं यथा वर्णितम् रामा० आ० काण्डे ।
“कुशनाभस्तु राजर्षिः कन्याशतमनुत्तमम् । जनयामास
धर्म्मात्मा घृताच्यां रघुनन्दन! । तास्तु यौवनशालिन्यो
रूपवत्यः स्वलङ्कृताः । उद्यानभूमिमागम्य प्रादृषीव
शतह्रदाः । गायन्त्यो नृत्यमानाश्च वादयन्त्यस्तु राघव! ।
आमोदं परमं जग्मुर्वराभरणभूषिताः । अथ ताश्चारु-
सर्व्वाङ्ग्यो रूपेणाप्रतिभा भुवि । उद्यानभूमिमागम्य तारा
इव घनान्तरे । ताः सर्व्वा गुणसम्पग्रा रूपयौवनसंयुताः ।
दृष्ट्वा सर्व्वात्मको वायुरिदं वचनमब्रवीत् । अहं वः कामये
सर्व्वा भार्य्या मम भविष्यथ । मानुपस्त्यज्यतां भावो
दीर्घमायुरवाप्स्यथः चलं हि यौवनं नित्यं मानुषेषु
विशेषतः । अक्षयं यौवनं प्राप्ता अमर्य्यश्च भविष्यथ ।
तस्य तद्वचनं श्रुत्वा वायोरक्लिष्टकर्म्मणः । अपहस्य
ततो वाक्यं कन्याशतमथाब्रवीत् । अन्तश्चरसि भूतानां
सर्व्वेषां मुरसत्तम! । प्रभावज्ञाश्च ते सर्व्वाः किमर्थमव-
मन्यसे । कुशनाभसुतादेव! समस्ताः सुरसत्तम! । स्थाना-
च्च्यावयितुं देवं रक्षामस्तु तपो वयम् । मा मूत् स कालो
दुर्म्मेधः! पितरं सत्यवादिनम् । अवमन्य स्वधर्भोण खयं
वरमुपास्महे । पिता हि प्रभुरस्माकं दैवतं परमञ्च सः ।
यस्य नो दास्यति पिता स नो भर्त्ता भविष्यति । तासां
तु वचनं श्रुत्वा हरिः परमकोपनः । प्रविश्य सर्वगा-
त्राणि बभञ्ज भगवान् प्रभुः । ताः कन्या वायुना भम्बा
विविशुर्नृपतेर्गृहम् । प्रविश्य च सुसम्भ्रान्ताः सलज्जाः
साश्रुलोचनाः । स च ता दयिता भग्नाः कन्याः
परमशोभनाः । दृष्ट्वा दीवस्तदा राजा सम्भ्रान्त इमदब्रवीत् ।
किमिदं कथ्यतां पुत्त्र्यः! को धर्ममवमन्यते । कुब्जाः
केन कृताः सर्व्वाश्चेष्टन्त्यो नाभिभाषत” ।

कन्याकूप पु० तीर्यभेदे । “कन्याकूपे उपल्पृश्य

बलाकायां कृतोदकः” भा० अनु० २५ अ० ।

कन्याट पु० कन्या अटायत्र आधारे घञ् । वासभवने

त्रिका० स्त्रीणां वासगृहे एव गतिविधानात् अन्यत्र-
गतिनिषेधाज्व तस्य तथात्वम् ।

कन्यातीर्थ न० १ कुरुक्षत्रस्थे कुञ्जरसमीपस्थतीर्थभेदे कुञ्जर-

तीथमुपक्रम्य “ततो गच्छेत धर्मज्ञः कन्यातीर्थमनुत्तमम् ।
कन्यातीर्थे नरः स्नात्वा गोसहस्रफलं लभेत्” भा० व०
८ ३ अ० । समुद्रकावेरीसङ्गमनिकटस्थे २ तीर्थभेदे च ।
“ततो गच्छेत कावेरीं वृतामप्सरसां गणैः । तत्र स्नात्वा
नरोराजन्! गोसहस्रफलं लभेत् । ततस्तीरे समुद्रस्व
कन्यातीथ मुपस्पृशेत् । तत्रोपस्तृश्य राजेन्द्र! सर्व-
पापैः प्रमुच्यते” ८५ अ० । अप्सरोरूपकन्यावृतत्वेन
तस्य कन्यातीर्थत्वभ् ।

कन्याधन न० कन्याकाले लब्धं धनम् । स्त्रीधनभेदे शुल्कादौ ।

अनूढायास्तस्यामरणे तादृग्धने भ्रातुरधिकारः “भगिनी
शुल्कं सोदर्य्याणाम्” गौतमोक्तेः ।

कन्यापति पु० ६ त० । जामातरि जटाधरः ।

कन्यापाल पु० कन्याप्रधानः पालः । १ पालाख्ये वणिग्-

जातिभेदे त्रिका० स्त्रियां ङीप् । उप० स० । ३ कन्यायाः
पालके त्रि० ।

कन्याभर्त्तृ पु० कन्याभिः प्रार्थनीयः भर्त्ता । १ कार्त्तिकेये तस्य

सौन्दर्य्यातिशयात् सर्वमामिनीभिभर्तृत्वेन प्रार्थनात्
तथात्वम् । “आग्नेयश्चैव स्कन्दश्च” इत्युपक्रम्य “कन्याभर्त्ता
विभक्तश्च स्वाहेयो रेवतीसुतः” भा० व० २३१ कार्त्ति-
केयनामसु तन्नाम पठितम् । ६ त० । २ जामातरि पु० ।

कन्यामय न० कन्या + प्राचुर्य्येमयट् । कन्याप्रचुरे अन्यःपुरे

कन्याराम पु० बुद्धभेदे त्रिका० ।

कन्यावेदिन् पु० कन्यां दहितरमावृइन्दति आ +

विदणिनि । जामातरि । “कन्यां कन्यावेदिनश्च पशूबृ
मुख्यान् सुतानपि” या० द्वितीयाश्राद्धस्य प्रश
पजामातृलाभरूपं फलमुक्तम् ।

कन्याश्रम म० तीर्थभेदे । “ततः कन्याश्रमं गच्छेत् नियतो

ब्रह्मचर्य्यवान् । त्रिरात्रोप्रोषितो राजन्! नियतोनिय-
ताशनः । लभेत् कन्याशतं दिव्यं स्वर्गलोकञ्च नच्छति”
भा० व० ८३ ।

कन्यासंवेद्य न० तीर्थभेदे । “कन्यासंवेद्यमामाद्य नियतोनिय-

ताशनः । मनोः प्रजापतेर्लोकानाप्तोति पुरुषर्षभ! ।
कन्यार्यं यत् प्रयच्छन्ति दानमण्वपि भारत! ।
तदक्षयमिति प्राहुरृषयः संशितव्रताः” भा० व० ८४ ।

कन्याहुद पु० तीर्थगेदे । “यस्य कन्याह्रदे वासा देवलोकं

स गच्छति” भा० अनु० २५ अ० ।

कन्यिका स्त्री कन्यैव कन् काम्यत्वेनोक्तपुंस्कत्वात् वा ध्व

इत्त्वम् । कन्यायां शब्दरत्ना० ।
पृष्ठ १६५३

कन्युष न० कन--इन् कन्या दीप्त्या ओषति उष--क । हस्त-

पुच्छे हारा० ।

कप चलने (सौत्रः) पर० अक० सेट् । कपति अका (क) पोत् चकाप प्रनिकपति न णत्वम् कप्रोलः ।

कप चलने भ्वादि० इदित् आत्म० अक० सेट् । कम्पते

अकम्पिष्ट चकम्पे । कम्पा कम्पनम् कम्पितः कमामानः
कम्पितुम् कम्पनः कम्पित्वा । “समुद्राश्च चकम्पिरे” देवीमा०
“चकम्पे तीर्ण्णलौहित्ये तस्मिन् प्राग्ज्योतिषेश्वरः” रघुः ।
“महाकटितटश्रोण्यः कम्पमानाः पयोधरैः” भा० व० ४३ ।
णिचि कम्पयति अचिकम्पत् । अत्र फलवत्कर्त्तर्य्यपि
पर० “क्ष्मां कम्पयन्त्योनिपतन्ति चोल्काः” । आर्षे
कचित् न पर० “अकम्पयत मेदिनीम्” रामा० ।
  • अनु + दयायामनुग्रहे सक० “प्रकम्पेनेनानुचकम्पिरे सुराः”
माघः स्वार्थेणिच् तत्रार्थे “प्रथमा वृष्टिविवानुकम्पयत”
कुमा० । कर्म्मणि अनुकम्प्यते “अनुकम्प्यतामयं
जनः पुनर्दर्शनेन शकु० ।
  • आ + ईषच्चलने । “अनोकहाकम्पितपुष्पगन्धिः” रघुः ।
सम्यक्कम्पने च “शतं विज्ञानवतामेको धनवानाकम्प-
यते” छा० उप० ।
उद् + ऊर्द्धतश्चालने । “हुत्वोर्द्धमुत्कम्पयति” शत०ब्रा० १४, २, २, १७ ।
  • प्रति + प्रतिरूपकम्पने यथा स्वस्य कम्पनं तत्तुल्यमन्यस्य कम्पनं
प्रतिरूपकम्पनम् । “गतेन भूमिं प्रतिकम्पयंस्तदम्” भा०
बि० २० ।
  • वि + विशेषेण चलने । “खधर्ममपि चावेक्ष्य न विकम्पितुमर्हसि” गीता ।
  • सम् + सम्यक् चलने । “यस्य ज्यातलनिर्घोषात् समकम्पन्त
शत्रवः” भा० विरा० १९ अ० ।

कप पु० कानि जलानि पाति पा--रक्षणे--क । १ वरुणे

जलपतित्वात् तस्य तथात्वम् पा--पाने क । २ जलपा-
यिनि त्रि० । ३ असुरविशेषेषु तेषां धर्म्मविशेषप्रतिपा-
दनं ब्राह्मणकर्तृकबधकथा च यथा ।
“देवाऊचुः मदास्यव्यतिषिक्तानामस्माकं लोकपूजित! ।
वनेन हृवा भूमिः कपैश्च त्रिदिवं प्रमो! । ब्रह्मोवाच ।
नच्छध्वं शरणं विप्रानाशु सेन्द्रादिवौकसः । प्रसाद्य
तानुभौ लोकाववाप्स्यथ यथा पुरा । ते ययुः शरणं
विप्रानूचुस्ते कान् जयासहे । इत्युक्तास्ते द्विजान् प्राहुर्ज्ज-
यतेह कपानिति । भूगतान् हि विजेतारो वयमित्यब्रुवन्
द्विजान् । ततः कर्म्म समारब्धं ब्राह्मणैः कपनाशनम् ।
वच्छुत्वा प्रेषितोदूतो ब्राह्मणेभ्यो धनी कपैः (धनी
तन्नामा दतः) भगतान् ब्राह्मणानाह घनी कषवचो यथा ।
भवद्भिः सदृशाः सर्व्वे कपाः किमिह वर्त्तते । सर्व्वे-
वेदविदः प्राज्ञाः सर्व्वे च क्रतुयाजिनः । सर्व्वे सत्यव्रता-
श्चैव सर्वे तुल्यामहर्षिभिः । श्रीश्चैव रमते तेषु धारयन्ति
श्रियञ्च ते । वृथा दारान्न गच्छन्ति वृथा मांसं न भुञ्जते ।
दीप्तमग्निं जुह्वते च गुरूणां वचनेस्थिताः । सर्व्वेच नियता-
त्मानोयलानां संविभागिनः । उपेत्य शनकैर्यान्ति न सेवन्ति
रजस्वलाम् । स्वर्गतिञ्चैव गच्छन्तितथैव शुभकर्मिणः । अभुक्त
वत्सु नाश्नन्ति गर्भिणीदृद्धकादिषु । रमन्तेन च दीव्यन्तिदिवा
चैव न शेरते । एतैश्चान्यैश्च बहुभिर्गुणैर्युक्तान् कथं कपान् ।
विजेष्यथ? निवर्त्तध्वं निवृत्तानां शुभं हि वः । ब्राह्मणा
ऊचुः । कपान् वयं विजेष्यामोये देवास्ते वयं स्मृताः । तस्माद्
वध्याः कपास्माकं धनिन्! याहि यथागतम् । धनी गत्वा
कपानाह न वोविप्राः प्रियङ्कराः गृहीत्वाऽस्त्राण्यतोवि-
प्रान् कपाः सर्व्वे समाद्रवन् समुदग्रायुधान् दृष्ट्वा कपान्
सर्वे द्विजातयः । व्यसृजन् ज्वलितान्ग्नीन् कपानां
प्राणनाशनान् । ब्रह्मसृष्टाहव्यभुजः कुपान् हत्ता
सनातनाः । नभसीव यथाऽभ्राणि व्यवर्द्धन्त नराध्प! । हत्वा
वै दानवान् देवाः सर्व्वे संभूय संयुगे । तेनाभ्यजानन् हि
तदा ब्राह्मणैर्निहतान् कपान् । अथागम्य महातेजा
नारदोऽकथयद्विभो । यथा हता महाभागैस्तेजसा ब्राह्मणैः
कपाः । नारदस्य वचः श्रुत्वा प्रीता सर्व्वे दिवौकसः । प्रश-
शंसुर्द्विजांश्चापि ब्राह्मणांश्च यशस्विनः । तेषां तेजस्तघा
वीर्य्यं देवानां ववृधे ततः । अवाप्नुवंश्चामरत्वं त्रिषु
लोकेषु पूजितम्” । भा० अनु० १५७ अ० ।

कपट स्त्री कप--अटत्, कं ब्रह्माणमपि पटति आच्छादयति

पट--अच् ६ त० वा अर्द्धर्चादि । यथास्थितवस्तुनोऽन्यथा
प्रकाशनरूपे हृदयस्थाभावनिगूहनरूपे च छले अमरः । “मयि
सकपटं किञ्चित् क्वापि प्रणीतविलोनने” सा० द० । “नरे
न्द्रसिंह! कपटं न वोढुं त्वमिहार्हसि” भा० आ० ७४ ।
कपटस्य भावः ष्यञ् । कापट्य न० तल् कपटता स्त्री त्व
कपटत्व न० कपटभावे । कापट्यञ्च अन्यथास्थितवस्तुनीऽ-
न्यथाप्रकाशनरूपव्यापारभेदः हृद्गतभावस्य प्रच्छा-
दनञ्च । कपटमस्त्यस्व ठन् । कपटिक कपटयुक्ते शब्द-
र० । इनि कपटिन् कपटयुक्ते त्रि० स्त्रियां ङीष् ।
साच (चिड़ा) नामगन्धद्रव्ये राजनि० । कप--अटन् ।
गौरा० ङीष् कपटी । परिमाणभेदे (एक आकाँड़) शब्दर० ।

कपटधारिन् त्रि० कपटं धारयति ष्ट--णिनि । कपटयुक्ते

शब्दर० स्त्रियां ङीप् ।
पृष्ठ १६५४

कपटपटु त्रि० कपटे पटुः ७ त० । १ छद्मव्यवहारदक्षे २ ऐन्द्र-

जाणिकप्रभृतौ च । “छलयन् प्रजास्त्वममृतेन कपटपटु-
रैन्द्रजालिकः” माघः

कपटेखरी स्त्री कमिव शुभ्रः पटस्तत्तुल्यं फलमीष्टे

ईशषुरच् । श्वेतकण्टकरीवृक्षे राजनि० । तस्या श्वे-
तफलस्यजलवच्छुद्धपटाकारत्वात् तथात्वम् ।

कपन पु० कप(सौ०)--ल्यु । कम्पने घुणादौ कृमौ “कपनाः

कम्पनाः कृमयो भवन्ति” निरु० ६, ४, “वृक्षं कपनेव
वेधसः” ऋ० ५, ५ ४, ६, कपनाः कम्पनाः कृमयः वृक्षं
घुणादयः” भा० । “सैष दाशरहथीरामः” इत्यादिवत्
पाद पूरणार्थः कपनेवेत्यत्र सन्धिः ।

कपर्द्द पु० पर्व्व पूरणे क्किप् रात् वलोपे पर् पूर्त्तिः कस्य

गङ्गाजलस्य परा पूर्त्त्या दायति शुध्यति क + पर् + दै--क ।
१ हरजटायाम् । केन सुखेन परा पूर्त्त्या दीयते
दाघञर्थेक । २ वराटके अल्पर्थेकन् अत्नार्थे पुंस्त्री० ।
स्त्रीत्वे टाप् अत इत्त्वम् । कपर्द्दिकाप्यत्र! दपर्दक-
भेदाश्च राजनि० दर्शिता यथा । १ सुवर्णवर्णा सिंही
२ धूम्रवर्णा व्याघ्री, ३ पीतपृष्ठा सितोदरा मृगी, ४ श्वेत-
वर्णा हंसी ५ नातिदीर्घिका विदन्ता” । कपर्द्दश्च उपर
सभेदः भावप्र० उक्तः तद्वाक्यञ्च कनकरसशब्दे दर्शि
तम् । तस्य गुणाश्च ततोक्ता यथा “कपर्दो दाहपित्ता-
सृशोथहः शीतलः सरः” । राजनि० तु “कपर्दः कटुति-
क्तोष्णः कर्णशूलव्रणापहः । गुल्मशूलनेत्रदोषनाशनः
परिकीर्त्तितः” । “पञ्चाङ्कान् सौवर्ण्णान् कपर्द्दान्” यजु० ।
“यद्यहमिमं सक्तुशरावं विक्राय दश कपर्द्दकान् प्रा-
प्नोमि” हितो०

कपर्द्दिन् पु० कपर्द्दः अस्त्यस्य इनि । १ महादेवे । “इमारुद्राय

तवसे कपद्दिने” यजु० १६, ४७, २ जटायुक्तमात्रे त्रि०
स्त्रियां ङीप् । “मृणालव्यालवलया वेणीबन्धकपर्द्दिनी ।
हरानुकारिणी पातु लीलया पार्व्वती जगत” सा० द०

कपर्द्दीश पु० काशोस्थे शिवलिङ्गभेदे । “कालेश्वरकपर्द्दीशौ

चरणावतिनिर्म्मलौ” काशीख० ३३ अ० ।

कपाट अस्त्री० कं वातं पाटयति तद्गतिं रुणद्धि पट--णिच्-

अण् । द्वारावरणन वातरोधके स्वनामख्याते काष्ठमये-
द्रव्ये । “मोक्षद्वारकपाटपाटनकरी मातान्नपूर्णेश्वरी” अन्नपू-
र्ण्णास्तवः । अर्द्धचाद अमरः । अणन्तत्वात् स्त्रियां ङीप् ।
कपाटीत्यप्यन्ये । “कपाटविस्तीणमनोरमोरः--” माघः कपा
टवक्षाः परिणद्धकन्धरः” रघुः । “कपाटयुक्तमज्ञातं समं
भूम्याश्च भारत!” भा० आ० १४७ अ० । “कपाटयन्त्रदुर्द्धर्षा
बभूवुः सहुड़ोपलाः” भा० व० २८३ अ० । अल्पार्थे
कन् । कपाटिका स्वल्पकपाटे (खिड़कीर कवाट) कपा”
टिका + स्वार्थे शर्करा० अण् । कापाटिक तत्रार्थे न० स्वार्थि-
कप्रत्ययाः प्रकृतलिङ्गान्यतिवर्त्तन्ते इत्युक्तेः लिङ्गातिक्रमः

कपा(वा)टघ्न त्रि० कपा(वा)टं हन्ति शक्तौ हन--टक् ।

कपाटघातशक्तियुक्ते चौरभेदे । (ढाकाइत) ।

कपाटसन्धि पु० कपाटं सन्धीयतेऽत्र सम् + धा आधारे

कि । द्वारकाष्ठेन कपाटयोजनसन्धिभेदे ।

कपाटसन्धिक पु० सुश्रुतोक्ते कर्णबन्धरूपकर्णरोगभेदे तत्र

हि “एवं विबर्द्धितः कर्णच्छिद्यते तु द्विधा नृणाम् ।
दोषतो वाभिघाताद्वा सन्धानं तस्य मे शृणु । तत्र
समासेन पञ्चदश कर्णबन्धनाकृतयः” इत्युद्दिश्य“नेमिसन्धान
इत्युपक्रम्य “कपाटसन्धिकोऽर्द्धकपाटसन्धिकः” इत्यादिना
विभज्य । “अभ्यन्तरदीर्धकपालिरितराल्पपालिः कपाटस-
न्धिक” इति लक्षितः । उत्पलभेद्यकशब्दे ११२२ पृ० विवृतिः ।

कपाल अस्त्रीकं जलं शिरोवा पालयति पाल--अण् कप--सौ०

आलन् वा । १ घटादेरवयवे “कपालतरुसंयोगात् संयोग
स्तरुकुम्भयोः” भाषा० । २ समूहे च मेदि० । ४ शिरोऽस्थ्नि
(माथारखुलि) नरशिरः कपालं शुचिप्राण्यङ्गत्वाच्छङ्खव-
दित्यनुमानाप्रामाण्यमिति मथुरानाथः “कपालनेत्रान्तर-
लब्धमार्गैः” कुमा० । “कपालि वा स्यादथ चन्द्रशेखरम्”
“कपालमेवामलशेखरश्रीः” कुमा० । ५ यत्यादेभिक्षापात्रे
“कपालं वृक्षमूलानि कुचेलमसहयता । समता चैव सर्व-
स्मिन्नेतन्मुक्तस्य लक्षणम्” मनुः । “नग्नो मुण्डः कपालेन
भिक्षार्थी क्षुत्पिपासितः” मनुः “कपालपाणिः पृथिवीमटतां
चीरमंवृतः” रामा० । ६ अण्डादीमामवयव वा । “द्राक् पर्य्या-
प्तकपालसंपुटमिलवद्ब्रह्माण्डभाण्डोदरेत्यादि” वीरच०
“कुक्कुटाण्डकपालानि सुमनोमुकुलानि च” । कुक्कुटाण्ड्-
कपालानि कतकं मधुक समम्” सुश्रु० । ७ भर्ज्जनपात्रभेदे
(खोला) । “कपालम्नष्टाम् संक्तून् कारयित्वा” सुश्रु० ।
८ यज्ञियपुरोडाशादिसंस्काराधारे मृस्मयपात्रभेदे ।
“अष्टनः कपालाद्धविषि” पा० । अष्टाकपालः पुरोडाशः
एवमेकादशकपाल इत्यादि । “कपालानि वोपदधाति
पुरोडाशं चाधिश्रपयाति” तैत्ति० १, ६, ९, ३ । “अग्नये-
गायत्राय त्रिवृते राथन्तरायाष्टाकपाल, इन्द्राय त्रैष्टुभाय
पञ्चदशाय बार्हतायैकादशकपालो, विश्वेभ्यो देवेभ्यो
जागतेभ्यः सप्तदशेभ्यो वैरूपेभ्योद्वादशकपालो, मित्राव-
पृष्ठ १६५५
रुणाभ्यामानुष्टुभाभ्यामेकविंशाभ्यां वैराजाभ्यां पयस्या
वृहस्पतये, पाङ्क्ताय त्रिणवाय शाक्वराय चरुः सवित्र
औष्णिहाय त्रयस्त्रिंशाय रैवताय द्वादशकपालः
प्राजापत्यश्चरुरदित्यै विष्णपत्न्यै चरुरग्नये वैश्वानराय
द्वादशकपालोऽनुमत्या अष्टाकपालः” यजु० २९, ६० ।
कुष्ठरोगभेदे न० हेमच० तल्लक्षणम् यथा । “कृष्णारुण-
रकपालाभः यद्रूक्षं परुषं तनु । कपालं तोदबहुलं
तत्कुष्ठं विषमं स्मृतम्” माधवनि० । सुश्रुते महाकुष्ठा-
न्यरुणौडुम्बरर्ष्य जह्वकपाल काकलकपुण्डरीकदद्रुकुष्ठा-
नीति विभज्य कृष्णकपालिकाप्रकाशानि कपालकुष्ठा-
नीति लक्षितम् ।

कपालनालिका स्त्री कपालस्य सूत्रससूहस्य नालिकेव

निःसरणहेतुत्वात् । सूत्रसं घनिःसारणहेतौ तक्नौ
(टोको) त्रिका० ।

कपालभृत् पु० कपालं ब्रह्मणः शिरोस्थिमयं पात्रं विभर्त्ति

भृ--क्विप् । १ शिवे महादेवे अमरः । तस्य यथा ब्रह्म-
शिरः कपालभृत्ता तथा कपालमोचनशब्दे वक्ष्यते २
कपालधारके भिक्षुके च त्रि० । कपालधारकादयोऽप्यत्र ।

कपालमालिन् पु० कपालानां माला विद्यतेऽस्य इनि ।

१ शिवे कपालमोचनशब्दे विवृतिः “कपालमालिने नित्यं
सुवर्ण्णमुकुटाय च” भा० आश्व० ८ अ० १ दुर्गायां स्त्री ङीप् ।

कपालमोचन न० कपालं मुच्यतेऽत्र मुच--आधारे ल्युटु ।

काशीस्थे तीर्थभेदे । आमूलं तत्कथा काशीख० ३१ अ० यथा
“पुरा पितामहं विप्र! मेरुशृङ्गे महर्षयः । प्रोचुः
प्रणम्य लोकेशं किमेकं तत्त्वमव्ययम् । स मायया महेशस्य
मोहितो लोकसम्भवः । अविज्ञाय परं भावमात्मान
प्राह वर्ष्मिणम् । जगद्योनिरहं धाता स्वयम्भूरेक
ईश्वरः । अनादिमदहं ब्रह्म मामनर्च्य न मुच्यते ।
प्रवर्त्तको हि जगतामहमेव निवर्त्तकः । नान्यो मदधिकः
सत्यं कश्चित् क्वापि सुरोत्तमः । तस्यैवं ब्रुवतोधातुः
क्रतुर्नारायणांशजः । प्रोवाच प्रहसन्वाक्यं रोसताम्र-
विलोचनः । अविज्ञाय परन्तत्त्वं किमेतत् प्रतिपाद्यते ।
अज्ञानं योगयुक्तस्य नचैतदुचितन्तव । अहं कर्त्ता हि
लोकानां यज्ञो नारायणः परः । न मामनादृत्य विधे!
जीवनं जगतामज! । अहमेव परं ज्योतिरहमेव
परागतिः । मत्प्रेपितेन भवता सृष्टिरेषा विधीयते । एवं
विप्रकृतौ मोहात् परस्परजयैषिणौ । पप्रच्छतुः प्रमाण-
ज्ञानाम्नायांश्चतुरोऽपि तौ । विधिक्रतू ऊचतुः । वेदाः प्र-
माणं सर्व्वत्र प्रतिष्ठां परमाश्रिता! । यूयमेव न सन्देहः
किन्तत्त्वं प्रतितिष्टत । श्रुतयऊचुः । यदि मान्यावयन्देवौ!
सृष्टस्थितिकरौ! विभू! । तदा प्रमाणं वक्ष्यामोभवत्सन्दे-
हभेदकम् । इत्युक्तमिदमाकर्ण्य प्रोचतुस्तौ श्रुतीः प्रति ।
युष्मदुक्तं प्रमाणं नौ तत्त्वं तत्सम्यगुच्यताम् । ऋगुवाच ।
यदन्तःस्थानि भूतानि यतः सर्वं प्रवर्त्तते । यदाहुस्तत् परं
तत्त्वं म रुद्रस्त्वेक इव हि । यजुरुवाच । योयज्ञैग्खिलै
रीज्वो यो योगेन समीक्ष्यते । चेत् प्रमाणं वयं वां हि स
एकः सर्वदृक् शिवः । सामोवाच । येनेदं भ्राम्यते विश्वं
योगिभिर्यो विचिन्त्यते । यद्भासा भासते विश्वं स
एकस्त्र्यम्बकः षरः । अथर्वोवाच । यं प्रपश्यन्ति सर्व्वेशं
भक्त्यानुग्राहिणोजनाः । तमाहुरेकं कैवल्यं शङ्करं
दुःखतस्करम् । श्रुतीरितं निशम्येत्थंतावतीव विमोहितौ ।
स्मित्वाहतुः क्रतुविधी महामर्षयुतौ मुने! । कथं प्रमथ-
नाथोऽसौ रममाणो निरन्तरम् । दिगम्बरः पितृवने शिव
या धूलिधूसरः । विटङ्गवेशो जटिलो वृषगोव्यालभूषणः ।
परं ब्रह्मत्वमापन्नःक्व तत्सङ्गविवर्जितम् । तदुदीरितमा-
कर्ण्य प्रणवात्मा सनातनः । अमूर्त्तोमूर्त्तिमान् मूत्वा
हसमान उवाच तौ । प्रणव उवाच । नह्येष भगवान्
शक्त्या आत्मनो व्यातरिक्तया । कदाचिद्रज्यते रुद्रो
लीलारूपधरोहरः । असौ हि भगवानीशः स्वयं
ज्योतिः सनातनः । आनन्दरूपा तस्यैषा शक्तिर्नाग-
न्तुका शिया । इत्येवमुक्तेऽपि तदामखमूर्त्तेरजस्य हि ।
नाज्ञानमगमन्नाशं श्रीकण्ठस्यैव मायया । प्रादुरासीत्त
तोज्योतिरुभयोरन्तरे महत् । पूरयन्निजया भासा द्यावा-
भूम्योर्यदन्तरम् । ज्योतिर्मण्डलमध्यस्थोददृशेपुरुषाकृतिः ।
प्रजज्वालाथ कोपेन ब्रह्मणः पञ्चमं शिरः । आवयोर-
न्तरं कोऽसौ यिभृयात् पुरुषाकृतिम् । विघिः संभावये
द्यावत्तावत् सहि विलोकितः । स्रष्ट्रा क्षणेन च महान्
पुरुषो नीलंलोहितः । त्रिशूलपाणिर्भालाक्षो नागोडु-
पविभूषणः । हिरण्यगर्भस्तं प्राह जाने त्वां चन्द्रशेख-
रम् । भालस्थलान्मम पुरा रुद्रः प्रादुरभूद्धवान् ।
रीदआद्रुद्रनामासि योजितोऽति मया पुरा । मामेव शरणं
याहि पुत्र रक्षां करोमिते । कथेश्वरः पद्मयोनेः श्रुत्वा
गर्ववतीं गिरम् । स कोपतःसमुत्पाद्य पुरुषं भैरवाकृति-
म् । प्राह पङ्कजजन्माऽसौ शास्यस्ते कालभैरव । कालव-
द्राजसे यस्मात् कालराजस्ततो भवान् । विश्वं भर्त्तुं
समर्थोऽमि भरणाद्भैरवः स्मृतः । त्वत्तोभेष्यति कालोऽपि
पृष्ठ १६५६
ततस्त्वं कालभैरवः । आमर्दयिष्यति भवान् रुष्टो
दुष्टात्मनोयतः । आमर्दक इकि ख्यातिं ततः सर्वत्र
यास्यति । यतः पापानि भक्तानां भक्षयिष्यति तत्क्षणात् ।
पापभक्षण इत्येतत्तव नाम भविष्यति । या मे मुक्तिपुरी
काशी सर्वेभ्याऽपि गरीयसी । आधिपत्यञ्च तस्यान्ते
कालराज! सदैव हि । तत्र ये पापकर्त्तारस्तेषां शास्ता
त्वमेब हि । शुभाशुभं न तत् कर्म चित्रगुप्तो लिखिष्यति ।
एतान् वरान् प्रगृह्याथ तत्क्षणात् कालभैरवः । वामा-
ङ्गुलिनखाग्रेण चकर्त्त च शिरोविधेः । यदङ्गमपराध्नोति
कार्य्यन्तस्यैव शासनम् । अतो येन कृता निन्दा तच्छि-
न्नं पञ्चमं शिरः । यज्ञमूर्त्तिधरो विष्णुस्ततस्तुष्टाव
शङ्करम् । भोतो हिरण्यगर्भोऽपि जजाष शतरुद्रियम् ।
आश्वास्य तौ महादेवः प्रीतः प्रणतवत्सलः । प्राह स्वभू-
र्त्तिमपरां भैरवं तं कपर्दिनम् । मान्योऽध्वरेशोभवता
तथा शतधृतिस्त्वयम् । कपालं वैधसञ्चापि नीललोहित!
धारय । ब्रह्महत्याप्रनोदाष धृतिं लोकाय दर्शयन् ।
चर त्वं सततं भिक्षां कपालिव्रतमास्थितः । इत्युक्त्वान्तर्हि-
तो देवः प्रीतः प्रणतवत्सलः । उत्पाद्य कन्यामेकान्तु-
ब्रह्महत्येति विश्रुताम् । रक्ताम्बरधरां रक्तां रक्तस्रगनु-
लेपनाम् । दंष्ट्राकरालवदनां ललज्जिह्वातिभीषणाम् ।
अन्तरीक्षैकपादाग्रां पिबन्तीं रुधिरं बहु । कर्त्तृकर्पर
हस्ताङ्कां स्फुटं पिङ्गोग्रतारकाम् । जनयन्तीं महोद्-
वेगं भैरवस्यापि भीषणाम् । यावद्वाराणसीन्दिव्यां पुरी
मेष गमिष्यति । तावत्त्वं भीषणे । कालमनुगच्छोग्ररू-
पिणि! । सर्वत्र ते प्रवेशोऽस्ति मुक्त्वाताराणसीं पुरीम् ।
नियोज्य तामिति शिवोऽप्यन्तर्घानं गतस्ततः । तत्सान्नि-
ध्याद्भैरवोऽपि कालोऽभूत् कालकालनः । स देवदेववाक्ये
न बिभ्रत् कापालिकं व्रतम् । कपालपाणिर्विश्वात्मा
चचार भुवनत्रयम् । नात्याक्षीच्चापि तं देवं ब्रह्महत्याति-
दारुणा । सत्यलोकेऽपि वैकुण्ठे महेन्द्रादिपुरीष्वपि ।
त्रिजगत्पती रुद्रोऽपि व्रतीति जगतीश्चरन् । प्रतितीर्थं
भ्रमन्नापि विमुक्तो व्रह्महत्यया । अनेनैवानुमानेन
महिमा त्ववगम्यताम् । ब्रह्महत्यापनोदिन्याः काश्याः कलस
सम्भव! । सन्ति तीर्थान्यनेकानि बहून्यायतनानि च ।
अधित्रिलोकि नो काश्याः कलामर्हन्ति पोड़शीम् ।
तावद्गर्जति पापानि ब्रह्महत्यादिकान्यलम् । यावन्नाम न
शृण्वन्ति काश्याः पापाचलाशनेः । प्रमथैः सेव्यमानोऽपि
त्रिलोकीं विचरन् हरः । कापालिको ययौ देवो नारायण
निकेतनम् । अथायान्तं महाकालं त्रिनेत्रं धृतकुण्ड-
लम् । महादेवांशसंमूतं मैरवं भीषणाकृतिम् । पपात
दण्डवद्भूमौ दृष्ट्वा तं गरुड़ध्वजः । देवाश्च मुनयश्चापि
देवनार्य्यः समन्ततः । निपेतुः प्रणिपत्यैनं प्रणतः
कमलापतिः । शिरस्यञ्जलिमारीप्य स्तुत्वा बहुविधैः स्तवैः ।
क्षोरोदमथनोद्भूतां प्राह पद्मालयां हरिः । प्रिये! पश्या-
ज्बनयते! धन्याऽसि शुभगेऽनघे! । धन्योऽहं देवि ।
सुश्रोणि! यत् पश्यावीजगत्पतिम् । अयं धाता विधाता
च लोकाना प्रभुरीश्वरः । अनादिशरणं दान्तः परः
षड्विंशसम्मितः । सर्वज्ञः सर्वयोगीशः मर्वभूतैकनायकः ।
सर्व्वभूतान्तरात्मायं सर्व्वगः सर्व्वदः सदा । यं विनिद्रा-
विनिःश्वासाः शान्ता ध्यानपरायणाः । धिया पश्यन्ति
हृदये सोऽयमद्य निरीक्ष्यताम् । यं विदुर्वेदतत्त्वज्ञा योगि-
नोजितमानसाः । अरूपोरूपवान् भूत्वा सोऽयमायाति
सर्व्वगः । अहोविचित्रं देवस्य चेष्टितं परमेष्ठिनः ।
यस्याख्यां ब्रुवतोनित्यं न देहः सोपि देहभृत् । यं दृष्ट्वा
न पुनर्जन्म लभ्यते मानवैर्भुवि । सोऽयमायाति भगवान्
त्र्यम्बकः शशिभूषणः । पुण्डरीकदलायामे धन्ये मेऽद्य
विलोचने । ययोरतिथितां नीतो लोलारूपधरोहरः ।
धिक्धिक् पदन्तु देवानां परं दृष्ट्वा तु शङ्करम् । लभ्यते
यन्न निर्व्वाणं सर्व्वदुःखान्तकृच्छिवः । देवत्वादशुभं
किञ्चिद्देवि! लोके न विद्यते । दृष्ट्वापि सर्व्वदेवेशं यन्मुक्तिं
न लभामहे । एवमुक्त्वा हृषीकेशः संप्रहृष्टतनूरुहः ।
प्रणिपत्य महादेवमिदमाह वृषध्वजम् । किमिदं
देवदेवेन सर्व्वज्ञेन त्वया विभो! । क्रियते जगतां धात्रा सर्व-
पापहराव्यय! । क्रीड़ेयन्तव देवेश! त्रिलोचन! महाद्यु-
ते! किंकारणं विरूपाक्ष! चेष्टितं ते खरार्द्दन । किमर्थं
भगवन् शम्भोः! भिक्षाञ्चरसि शक्तिप! । संशयोमे
जगन्नाथ! नतत्रैलोक्यराज्यद! । एवमुक्तस्ततः शम्भुर्विष्णुमेत-
तदुदाहरत् । ब्रह्मणस्तु शिरश्छिन्नमङ्गुल्यग्रनखेन ह ।
तदाप्रभृत्यहं विष्णो! चराम्येतद्व्रतं शुभम् । एवमुक्तो-
महेशेन पुण्डरीकविलोचनः । स्मित्वा किञ्चिन्नतशिराः
पुनरेवं व्यजिज्ञपत् । यथेच्छसि तथा क्रीड़ सर्व्वपिष्ट-
पनायक! । मायया मां महादेव! न छादयितुम-
हसि । नाभीकमलकोषात्तु कोटिशः कमलासनान् । कल्पे
कल्पेसृजामीश त्वन्नियोगबलाद्विभो! । त्यज मायामिमां
देव । दुस्तरामछतात्माभः । मदादयो महादेव! मायया
तव भीहिताः । यथावन्नावगच्छामश्चेष्टितन्ते शिवापते! ।
पृष्ठ १६५७
संहारकाले संप्रप्ते सदेवानखिलान् मुनीन् । लोकान्
वर्ण्णाश्रमवतो हरिष्पसि यदा हर! । तदा क्व ते महादेव!
पापं ब्रह्मबधादिकम् । पारतन्त्र्यं न ते शम्भो! स्वैरं
त्रीडेस्ततोभवान् । व्यतीतब्रह्मणामस्थ्नां स्रक्कण्ठे ते
ऽवभासते । यदा तदा क्वानुगता त्वां हत्या ब्रह्मणोऽनघ ।
कृत्वापि सुमहत् पापं त्वां यः स्मरति भावतः । आधारं
जगतामीश! तस्य पापं विलीयते । यथा तमोन तिष्ठेत
सन्निधावं शुमालिनः । तथा च तव भक्तस्य पापं
नश्यति तत्क्षणम् । यश्चिन्तयति पुण्यात्मा तव पादाम्बुज-
द्वयम् । ब्रह्महत्याभवमापि पापन्तस्य व्रजेत् क्षयम् ।
तव नामानुरक्ता वाग्यस्य पुंसोजगत्पते! । अप्यद्रिकूटतु
लितं नैनस्तमनुधावति । रजसा तमसा विवर्द्धितंक्वनु पापं
परितापदायकम् । क्व च ते शिवनाम मङ्गलं
जनजीवातु जगद्रुजापहम् । यदि जातु चिदन्धकद्विषस्तव
नामौष्ठपुटाद्विनिःसृतम् । शिव । शङ्कर! चन्द्रशेखरेत्य
सकृन्नाम न संसृतिः पुनः । परमात्मन्! परं धाम
स्वेच्छाविधृतविग्रह! । कुतूहलं तवेशेदं क्व पराधीनता
शिवे । अद्य धन्योऽस्मि देवेश! यन्न पश्यन्ति योगिनः ।
पश्यामि त्वां जगन्मूलमक्षयं परमेश्वरम् । अद्य मे
परमोलाभस्त्वद्य मे मङ्गलं परम् । त्वदॄष्ट्यमृततृप्तस्य
तृणं स्वर्गापवर्गकम् । इत्थं वदति गोविन्दे विमला
पद्मया तया । मनोरथवती नाम भिक्षा पात्रे समर्पिता ।
भिक्षाटनाय देवोऽपि निरगात् परया मुदा । दृष्ट्वानुया-
यिनीन्तान्तु समाहूय जनार्द्दनः । संप्राथयंद्व्रह्महत्यां
विमुञ्चेति त्रिशूलिनम् । ब्रह्महत्योवाच । अमुनापि
मिषेणाहं संसेव्यद्य वृषध्वजम् । आत्मानं पावयि-
ष्यामि क्व पुनर्भवदर्शनम् । सा तत्याज न तत्पार्श्वं व्या-
हृतापि मुरारिणा । तमूचेऽथ हरिं शम्भुः स्मेरास्यो
वचनं शुभम् । त्वद्द्याक्यामृतपानेन तुष्टोऽस्मि
बहुमानद! । वरं वृणीष्व गोविन्द! वरदोऽस्मि तवानघ!
न माद्यन्ति तथा भैक्षैर्भिक्षवोऽप्यतिसंस्कृतैः । यथा मान
सुधापानैर्ननु भिक्षाटनज्वराः । विष्णुरुवाच । एष
एव वरः श्लाघ्यो यदहन्देवताधिपम् । पश्यामि त्वां देव
देवं मनोरथपथातिगम् । अनभ्रेयं सुधावृष्टिर-
नायासो महोत्सवः । अयत्नो निधिलाभोयं वीक्षणं
हरते सताम् । अवियोगस्तु मे देव । त्वदङ्घियुगलेन वै ।
एष एव वरः शम्भो! नान्यं कञ्चिद्वरं वृणे । श्रीभैरवौवा-
च । एबं भवतु ते देव! यत्त्वयोक्तं महामते! । सर्व्वेषा-
मेव देवानां वरदस्त्वं भविष्यसि । अनुगृह्येति दैत्यारिं
सेन्द्रादिभुवने चरन् । भेजेविमुक्तिजननीं नाम्ना वारा-
णसीं पुरीम् । यत्र स्थितानां जन्तूनां कलां नार्हन्ति
षोडशीम् । अपि ब्रह्माणि देवानां पदानि विपदाम्प-
दम् । वरं वाराणसीवासो जटामुण्डोदिगम्बरः ।
नान्यत्र छत्रसम्पन्नवसुधामण्डलेश्वरः । वरं वाराणसी
भिक्षा न लक्षाधिपतान्यतः । लक्षाधीशोविशेद्गर्भं
तद्भिक्षाशी न गर्भभाक् । भिक्षापि यत्र भिक्षुभ्योदत्ताऽम-
लक सम्मिता । सुमेरुणापि तुलिता वाराणस्यां गुरुर्भवेत् ।
वर्माशनं हि योदद्यात् काश्यां सीदत्कुटुम्बिने ।
यावन्त्यन्नानि तावन्ति युगानि स दिवीज्यते । वाराणस्यां
वर्षभोज्यं योदद्यान्निरुपायिने । स कदाचित् तृट्क्षुधा नो
दुःखं भुङ्क्ते नरर्षभ! । वाराणस्यां निवसतां यत्पुण्य
मुपजायते । तदेव संवासयितुः फलं त्वविकलं भवेत् । ब्रह्म-
हत्यादिपापानि यस्या नाम्नोऽपि कीर्त्तनात् । त्यजन्ति
पापिनां काशी सा केनेहोपमीयते । क्षेत्रे प्रविष्टमात्रेऽथ
भैरवे भीषणाकृतौ । हाहेत्युक्त्वा ब्रह्महत्या पातालतल
माविशत् । कपालं ब्रह्मणोरुद्रः सर्व्वेषामेव पश्यताम् ।
हस्तात्पतितमालोक्य ननर्त्त परया मुदा । विधेः कपालं
नामुञ्चत् करमत्यन्तदुस्त्यजम् । हरस्य भ्रमतः क्वापि
तत् काश्यां क्षणतोऽपतत् । शूलिनो ब्रह्मणोहत्या नापैति
स्मैव या क्वचित् । सा काश्यां क्षणतोनष्टा कथं काशी
न दुर्लभा । वाराणसीति काशीति महामन्त्रमिम-
ञ्जपन् । यावज्जीशं त्रिसन्ध्यन्तु जन्तुर्जातु न जायते ।
अविमुक्तं महाक्षेत्रं न्मरन् प्राणांस्तु यस्त्यजेत् ।
दूरदेशान्तरस्थोऽपि मोऽपि जातु न जायते । आनन्दकाननं
यस्य विचित्रं स्मरते सदा । तत्क्षेत्रनामस्मरणान्न
सभूयोऽभिजायते । रुद्रावासे यसेन्नित्यं नरोनियतमानसः
एनसामपि सम्भारं कृत्वा तस्माद्विमुच्यते । महाश्म-
शानमासाद्य यदि दैवाद्विपद्यते । पुनः श्मशानशयनं
न क्वापि लभते पुमान् । कपालनीचनं काश्यां ये स्मरिः
ष्यन्ति मानवाः । तेषां विनङ्क्ष्यति क्षिप्रमिहान्यत्राषि
पातकम् । आगत्य तीर्थमवरे स्नानं कृत्वा विधानतः ।
तर्पयित्वा पितॄन् देवान् मुच्यते ब्रह्महत्यया” ।
भैरवमहादेवयोरभेदात् नहादेवे कपालभृत्त्वादिव्यपदेशः ।
“कपालमोचनं तीर्थं सर्व्वपापप्रमोचनम् । तत्र स्नात्वा
नरव्यघ्र! सर्व्वपापैः प्रमुच्यते” भा० व० ८२ अध्याये ।

कपालशिरस पु० कपालं शिरसि यस्य । महादेवे “ऋषय-

स्तत्र बहवोविहृत्य शरदां शतम् । तपसा दिवमारूढाः
कपालशिरसा सह” ।
पृष्ठ १६५८

कपालस्फोट पु० ६ त० । शिरःस्फोटने (माथाखोड़ा)

कपालाधिकरण न० जैमिनिसूत्रोक्ते अधिकरणभेदे तच्चा-

धिकरणं ४, १, पादे यथ
“अर्थाभिधानकर्म च भविष्यता संयोगस्य तन्निमित्वाद-
र्थो हि विधीयते” र्ज० सू० । दर्शपूर्णमासयोः श्रूय-
ते “कपालेषु पुरोडाशं श्रपयति” इति तथा “पुरो-
डाशकपालेन तुषानुपवपति” इति तत्र संदेहः
किम्? उभयं कपालानि प्रमोजयति? पुरोडाश-
श्रपणं तुषोपवापश्च उत श्रपणं प्रयोजकं न तुषोप-
वापः? इति किंप्राप्तम्? विनिगमनायां हेतोः
अभावात् उभयम् इति प्राप्तोउच्यते अर्थाभिघानम् प्रयो-
जनसम्बद्धमभिधानं यस्य यथा पुरोडाशकपालम् इति
पुरोडाशार्थकपालं पुरोडाशकपालम् कथम् एतदव
गम्वते? पुरोडाशं तावत् तस्मिन् काले नास्ति येन
वर्त्तमानः सम्बन्धः कपालेत स्यात् तेनैव हेतुना
नभूतः सएव, कपालस्य पुरोडाशेन भविष्यता समन्धः
भविष्यता सम्बन्धश्च तन्निमित्तस्य भवति तस्मात् पुरो-
डाशेन प्रयुक्तं यत् कपालं तेन तुषा उपवप्तव्याः इति
कपालं स्यात् न चेत् न, तेन तुषा उपवप्तव्याभवन्ति
तस्मत् न तुषोपवापः कपालानाम् प्रयोजकः प्रयोजकं
तु श्रषणम्” एवञ्च सति चरौ पुरोडाशाभावे यदा तुषा-
नुपवप्तुम् कपालमुपादीयते न तत्पुरोडाशम्” भा० ।

कपालि पु० कं ब्रह्मशिरः पालयति व्रतकाले पाल--इन् ।

महादेवे त्रि० “कपालिंत्रिपुरान्तकम्” भा० स० ४५ अ० ।

कपालिका स्त्री कपाल + अल्पार्थे कन् अत इत्त्वम् । १ भग्न-

मृण्मयखण्डे (खापरा) । कपालिकैव शर्करा० स्वार्थेऽण् ।
कापालिक तत्रार्थे न० स्वार्थिकत्वेऽपि क्वचित् लिङ्गाति-
क्रमनियमात् । नाधितिष्ठेत्तुषं जातु केशभस्मकपालि-
का” भा० अनु० १० ४ अ० ।
“अधितिष्ठेन्न केशांस्तु न भस्मास्थिकपालिकाः” । “अश्मनी-
ऽस्थोनि गोवालांस्तुषान् भस्मकपालिकाः” मनुः । “कृष्ण-
कपालिकाप्रकाशानि कपालकुष्ठानि” सुश्रुतः “सुश्रुतोक्ते
२ दन्तरोगभेदे स च “दन्तगतास्तु दालनः कृमिदन्तको
दन्तहर्षोभञ्जनकः शर्करा कपालिका श्यावदन्तकोऽनुमीक्ष-
श्चेति” विभज्य “दलन्ति दन्तवल्कानि यदाशर्करया सह ।
ज्ञेया कपालिका सैव दणनानां विनाशिनी” सुश्रुते
लक्षितः ३ कपालावयवे “कपालिकाभ्यां कपालं कपाला-
भ्यां च घटआरभ्यते” न्यायकन्दली ।

कपालिन् पु० कपालमस्त्यस्य इनि । १ महादेवे २ कपालयुक्ते

त्रि० “कपालि वा स्यादथ चन्द्रशेखरम्” कुमा० स्त्रियां
ङीप् सा च ३ दुर्गायाम्” हेम० । शिरःकपाली ध्वजवान्
भिक्षाशी कर्म वेदयन् । ब्रह्महा द्वादशव्दानि मितभुक
शुद्धिमाप्तुयान्” याज्ञ० “तन्माल्यभस्मनृकपाल्यवसत्
पिशाचै” भाग० ४, ४, १७ । ४ जातिभेदे पुंस्त्री पराशरः ।
जातिशब्दे तज्जातिविवृतिः । स्त्रियां ङीप् “नटी
कपालिनी वेश्या कुलटा नापिताङ्गना” तन्त्रे कुलनारी-
कीर्त्तने । कपालमस्त्यस्य भोजपात्रत्वे न ठन् कपालिक ।
कपालाधारेभोजिनि जातिभेदे च । तस्येदमण् । कापा-
लिक तत्सम्वन्धिनि त्रि० कपालमोचनशब्दे उदा० “कापा-
लिकान्नभोक्तॄणां तन्नारीगामिनां तथा । ज्ञानात् कृच्छ्राव्-
दमुद्दिष्टमज्ञानादैन्दवद्वयम्” प्रा० वि० आपस्त० ।

कपि पु० कपि--इन् नलोपश्च । १ वानरे अमरः । “नश्यन्ति

ददर्श वृन्दानि कपीन्द्रः” भट्टिः । “कुपितकपिकपोल-
क्रोड़ताम्रस्तमांसि” उद्भटः । “विड्वराहखरोष्ट्राणां
गोमायोः कपिकाकयोः । प्राश्य मूत्रपुरीषाणि द्विजश्चान्द्रा-
यणं चरेत्” भनुः “रामायणमिव कपिकथासमाकुलम्” काद० ।
२ सिह्लके (शिलारस) । गन्धद्रव्यभेदे तस्य कपिजातत्वा-
त्” भाव० प्र० कपिनामतोक्तेश्च तथात्वम् । ३ नारायणे च ।
मेदि० । “कपिलः कपिरप्ययः” विष्णुस० । कं जलं
रश्मिभिः पिबतीति कपिर्वराहो वा “कपिर्वराहः इति
वचनात्” भा० । कादुदकात् भूमिं पाति उद्धरति
पाक । ४ वराहे । ५ धात्रिकायां (आमला) शब्दमा० ।
६ करञ्जभेदे शब्दच० । कपिक्रीडवर्ण्णत्वात् ७ रक्तचन्दने ।
तदर्ण्णे ८ पिङ्गले च पु० । तद्वर्ण्णवति त्रि० । कपेः शास्वा-
मृगत्वम् मांसगुणाश्च सुश्रुते दर्शिताः । “मद्गुमूषिक-
वृक्षशायिकावकुशपूतिघासवानरप्रभृतयः पर्णमृगाः”
“मधुरा गुरवो वृष्याश्चक्षुष्याः शोषिणे हिताः । सृष्ट-
मूत्रपुरीषाश्च कासार्शःश्वासनाशना ।

कपिकच्छू स्त्री कपीनामपि कच्छूः यस्याः ५ ब० । (आल्कुशी)

कपिकण्डूहेतौ शूकशिम्ब्याम् अमरः । तद्गुणा भावप्र०
उक्तायथा “कपिकच्छूर्भृशं वृष्या मधुरा ष्टंहणो गुरुः ।
तिक्ता वातहरी वल्या कफपित्तास्रनाशिनी । तद्वीजं
वातशमनं स्मृतं वाजीकरं परम्” ।

कपिकच्छूफलोपमा स्त्री कपिकच्छूफलस्य उपमा यत्र तुल्य

फलत्वात् । जतुकालतयां राजनि० तस्यास्तत्तुल्यफल-
त्वात्तथात्वम् ।
पृष्ठ १६५९

कपिकच्छूरा स्त्री कपिभ्यः कच्छूं राति ददाति रा--क । (आल्कुशी) शूकशिम्ब्याम् भरतः

कपिकन्दुक न० अपि + कदि--उक अतोलोपः कस्य शिरसः

पिकन्दुकम् । शिरोस्थ्नि शब्दच० ।

कपिका स्त्री कपिर्वराह इव कायति प्रकाशते कृष्णत्वात्

कैक । नीलसिन्धुवारवृक्षे राजनि० ।

कपिकेतन पु० कपिर्हनूमान् केतने यस्य । अर्ज्जुने कपिध्वजे

“स्वान्तपूर्वमिदं वाक्यमब्रवीत् कपिकेतनः” भा० आश्व० ८२ ।
यथा च तस्य कपिकेतनता तथावर्ण्णितं” भा० व० १५१ अ० ।
“एवमुक्तस्तु हनुमान् भीमसेनमभाषत । भ्रातृत्वात्
सौहृदाच्चैव करिष्यामि प्रियं तव । चमूं विगाह्य शत्रूणां
परिशक्तिमदाकुलाम् । यदा सिंहरवं वीर! करिष्यसि
महाबल! । तदाहं वृंहयिष्यामि स्वरवेण रवं तव ।
विजयस्य ध्वजस्थश्च नादान् मोक्ष्यामि दारुणान् । शत्रूणां ये
प्राणहराः सुखं येन हनिष्यथ” । कपिध्वजादयोऽप्यत्र ।

कपिकोलि पु० कपीनां प्रियः कोलिः । (शेओआकुल)

कोलिभेदे रत्नमा० ।

कपिचूड़ा स्त्री कपीनां चूड़ेव । आम्रातकवृक्षे राजनि० ।

वन्मुकुलस्य कपिचूडातुल्यतया तथात्वम् ।

कपिचूत पु० कपीनां चूत इव प्रियत्वात् । आम्रातकवृक्षे त्रिका०

कपिज पु० कपितोजायते जन--ड । कपितैले तुरष्के

(शिलारस) राजनि० ।

कपिजङ्घिका स्त्री कपेर्जङ्घेव जङ्घा यस्याः संज्ञायां कन् ।

वैलपिपीलिक्लायां (तेलोपोका) राजनि० तस्याः
कपितुत्यदीघजङ्घत्वात्तथात्वम् ।

कपिञ्जल पुं स्त्री “कपिरिब जवते ईषत् पिङ्गलो वा कमनीयं

शब्दं पिञ्जयतीति वा” निरुक्तोक्ता व्युत्पत्तिः पृषो० ।
१ पक्षिभेदे चातके राजवल्ल० जलयाचनाय तस्य रम्यशब्द-
करणात् तथात्वम् । २ तित्तिरौ त्रिका० । तित्तिरि-
रिह श्वेत एव ग्राह्यः । “वर्त्तिकालावबर्तीर कपिञ्जल-
कत्रित्तिराः । कलिङ्गाः कुक्कुष्टाद्याश्च विस्किराः समुदा-
हङ्गाः । विकीर्य्य भक्ष्ययन्त्येते यस्मात्तस्माद्धि विस्किराः ।
कपिञ्जल इति प्राज्ञैः कथितो गौरतित्तिरिः” भावप्र० उक्तेः
अर्तएव “वसस्ताय कपिञ्जलानालभेत ग्रीष्माय कलविङ्गान्
पर्वाभ्यस्त्रित्तिरीन्” यजु० ४, २० । कपिञ्जलतित्तिरीणां
नेदेन निदेशः “कपिञ्जलः कपोत ललूकः शशस्ते निरृ-
खै” यजु० २४, ३८ तस्य चारण्यत्वात् तत्तदेवतोद्दे-
शेन उत्सर्ग एवात्रालभनम् । “कपिञ्जलादीनुत्सृजति
पर्य्यग्निकृतान्” कात्या० ४०, ६, ९ उक्तेः । कपिञ्जलमास-
गुणाश्च भावप्र० उक्ताः कपिञ्जलादीन् विषिकरानुक्त्वा
“विषिकराः मधुरा शीताः कषायाः कष्टुपाकिनः ।
बल्यावृष्यास्त्रिदोषघ्ना पथ्यास्ते लघवः स्मृताः” ।
कपिञ्जलशब्दस्यावर्ण्णान्तत्वेन द्व्यच्त्र्यज्भिन्नत्वेन
च अर्स्मशब्देन समासे न आद्युदात्तत्वम् । “अर्म्मे चावर्ण्णं
द्व्यच्त्र्यच्” पा० सूत्रात्

कपिञ्जलन्याय पु० बहुत्वस्य त्रित्वपर्य्यवसायिताख्यापके

न्यायभेदे स च न्यायो यथा “सवन्ताय कपिञ्जलाना-
लभेतेति” श्रुत्या कपिञ्जलगतं बहुत्वं बोधितं तच्च
विवक्षितं विधेयसंख्यात्वात् कपिञ्जलस्यान्यतोऽप्राप्तत्वात्
विधेयत्वं बहुत्वं च त्रित्वमारभ्य परार्द्धपर्य्यन्तपय्यवसन्नमि-
त्यनव्यवसायेनाप्रवृत्त्या वेदाप्रामाण्यापत्तिरिति प्राप्तेराह
“प्रथसोपस्थितेस्तन्त्रत्वात्” जै० सू० । त्रित्वोत्पत्त्यनन्तरं
त्रित्वसहितैकत्वबुद्ध्या चतुष्ट्वं जन्यते तत्र त्रित्वस्य प्रथमो-
पस्थितत्वात् वेदबोध्यवहुत्वस्य तत्रैव पर्य्यवसान्नानध्यवसोयः
संख्यायाम् एकत्वस्येव बहुत्वसंख्यायायां त्रित्वस्यैव प्रथमो-
पस्थितत्वात्तत्रैव वेदतात्पर्य्यात् । अपेक्षबुद्धिसहकृत्रैक-
त्वत्रयेण त्रित्वम् एवं तथाविधैकत्व चतुष्केण चतुष्ट्वं ञ्चन्यते
इति मते तु कारणीभूतापेक्षाबुद्धिलाघवेन प्रथमोषस्थित-
त्रित्वस्यैव वेदबोध्यता नातोऽप्रवृत्तिः अतएव वैया० भू०
संख्यायाम् एकत्वसंख्याया एव ग्रहणे कपिञ्जलालम्भ-
वाक्ये त्रित्वग्रहणं दृष्टान्तीकृतं यथा “अभेदैकत्वसंख्या-
या वृत्तौ भानमिति स्थितिः । कपिञ्जलालम्भवाक्ये त्रित्वं
न्यायाद्यथोच्यते” । “बहुत्वगणनायां त्रित्वस्यैव प्रथभो-
पस्थितत्वात् तद्रूपेणैव भानवदेकत्वस्य सर्वतः प्रथमोपस्थित-
त्वमस्तीति भावः” ।

कपितैल न० कपिभिः शिलायादारणेन निष्पादितं तैलम् ।

सिह्लके तुरष्के नन्धद्रव्यभेदे (शिलारस) । “सिह्लकस्तु
तुरष्कः स्याद्यतोयवनदेशगः । कपितैलञ्च संख्यातं तथा
च कपिनामकः” भावप्र० । तेन तुरष्करूपयवनदेशी-
द्भवशिलादलनेन कपिभिरुद्भावनात्तस्य तथात्वम् ।

कपित्थ पु० कपिस्तिष्ठत्तत्र तत्फलप्रियत्वात् स्था--क पृषो० ।

(कएतवेल) वृक्षभेदे “त्रिरात्रान्ते त्रिरात्रान्ते कपित्यव-
दराशनः” भाग० ४, ८, ६० । अस्य गुणपर्य्यायादि भावप्र०
उक्तं यथा । “कपित्थस्त दाथत्थः त्याततथा पुष्पफलः स्मृतः ।
कपिप्रियोद्रधिफलस्तथा द्रन्तशठोऽपि च । कपित्थमामं
पृष्ठ १६६०
सङ्ग्राहि कषायं लघु लेखनम् । पक्वं गुरु तृषाहिक्का-
शमनं वातपित्तजित् । स्यादल्पन्तुवरङ्कण्ठशोधनं ग्राहि
दुर्जरम्” । अपिच “कपित्यमामं कण्डूघ्नं विशदं ग्राहि
वातलम् । मधुराम्लकषायत्वात् सौगन्ध्याच्च रुचिप्रदम्”
सुश्रुते अम्लवर्गेऽयं पठितः अम्लशब्दे तद्वाक्यं दर्शितम् ।
हारीतेनास्य भक्षणं सर्वदा निषिद्धं यथा “न वटप्ल-
क्षोदुम्बरनीपदधित्थमातुलाङ्गानि भक्षयेत् । कपित्थो-
स्त्यत्र देशे पुष्करा० इनि कपित्थिनी स्त्री कपित्थयुक्तदेशे ।
तस्य सन्निकृष्टदेशादि काशा० इनि । कपित्थिन् तत्स-
न्निकृष्टदेशादौ त्रि० ।

कपित्थत्वक् पु० कपित्थस्य त्वगिव त्वक् वल्कलमस्य । एलवालुकवृक्षे राजनि०

कपित्थपर्णी स्त्री कृपित्थस्य पर्ण्णमिव पर्णमस्याः गौ० ङीष् ।

कपित्थतुल्यपत्रिकायां चित्रपत्रिकायां वृक्षभेदे रत्ना० ।

कपित्थाष्टक न० चक्रदत्तोक्ते चूर्ण्णभेदे । यथा “यमानी

पिप्पलीमूलचतुर्जातकनागरैः । रीचनाग्निजलाजाजी
धान्यसौवर्चलैः समैः । वृक्षाम्लधातकी कृष्णा विल्वदाडि-
मतिन्दुकैः । त्रिगुणैः षड्गुणसितैः कपित्थाष्टगुणैः कृतः ।
चूर्णोऽतिसारग्रहणीक्षयगुल्मगलामयान् । कासं श्वा-
सारुचिं हिक्कां कपित्याष्टमिकमाजयेत्” चक्रद० ।

कपित्थास्य पुं स्त्री कपित्थमिवास्यं यस्य । गोलाङ्गूलाख्ये

वानरभेदे त्रिका० । तस्य कपित्थाकारमुखत्वात्तथात्वम्
जातित्वेऽपि संयोगोपधत्वात् स्त्रियां टाप् ।

कपिनामन् पु० कपेर्नाम नाम यस्य । सिह्लके भावप्र० ।

कपितैलशब्दे तद्वाक्यं दृश्यम् ।

कपिपिप्पली स्त्री कपिः कपिवर्ण्णा रक्ता पिप्पलीव । १ रक्ता-

पामार्गेवैद्य० । २ सूर्य्यावर्त्तवृक्षेरत्नमा० ।

कपिप्रभा स्त्री कपावपि प्रभा स्वगुणप्रसारोऽस्याः ।(आल-

कुशी) कपिकच्छ्वाम् शब्दरत्ना० ।

कपिप्रभु पु० ६ त० । १ रवुनाये रामचन्द्रे शब्दरन्ता० । २ सुग्रीवे च

कपिप्रिय पु० ६ त० । १ आम्रातकवृक्षे राजनि० । २ कपित्थे

भावप्र० । कपितैलशब्दे तद्वाक्यमुक्तम् ।

कपिरय पु० कपिर्हनुमान्रथ इव वाहनमस्य । १ श्रीरामे

शब्दरत्ना० । कपिर्हनुमान्रथेऽस्य । २ अर्ज्जुने कपिकेतन
शब्दे तन्नामताकारणं दर्शितम् ।

कपिल पु० कबृ वर्णे इलच् बस्य पश्च, अपि + सिध्मा० लच् वा ।

सांख्यशास्त्रप्रवर्त्तके १ मुनिभेदे कर्द्दमप्रजापतेर्देवहूतिगर्भज-
पुत्ररूपे २ भगवदवतारभेदे । ३ वह्नौ ४ कुक्कुरे च हेम० ।
(शिलारभ) ५ लिह्लके रत्नमा० । ६ पिङ्गलवर्णे । ७ त-
द्वति त्रि० अमरः । स च वर्णः नीलपीतमिश्रितवर्ण्ण इति
रभसः रोचनाच्छविरित्याथे । साङ्ख्यमतञ्च द्विविधं सेश्व-
रनिरीश्वरभेदात् तत्र सेश्वरसांख्यशास्त्रं भगवदवतारः
कपिलः प्रणीतवान् । निरीश्वरसांख्यन्तु अग्न्यवतारः
कपिलः” “अग्निः स कपिलो नाम सांख्यशास्त्रप्रवर्त्तकः”
इति स्मृतेः । तत्र निरीश्वरसांख्यप्रवृत्त्यादि यथा
सां० का० उक्तं यथा “पुरुषार्थ ज्ञानमिदं गुह्यम्परमर्षिणा
समाख्यातम् । स्थित्युत्पत्तिप्रलयाश्चिन्त्यन्ते यत्र भूतानाम् ।
एतत्पवित्रभग्र्यं मुनिरासुरयेऽनुकम्पया प्रददौ । आसुरि-
रपि पञ्चशिखाय तेन बहुधा कृतन्तन्त्रम् । शिष्यपर-
म्परायातमीश्वरकृष्णेन चैतदार्य्याभिः । संक्षिप्तमार्य्य
मतिना सम्यग्विज्ञाय सिद्धान्तम् । सप्तत्या किल येऽर्था-
स्तेऽर्थाः कृत्स्नस्य षष्टितन्त्रस्य । आख्यायिकाविरहिताः
परवादविवर्ज्जिताश्चापि” विवृतञ्चैतदस्माभिः सा० त०
कौ० व्याख्योपक्रमे यथा
“अथ त्रिविधदुःखात्यन्तनिवृत्तिरत्यन्तपुरुषार्थः” इत्यादिक-
सूत्रजातात्मकं षडध्यायीरूपं शास्त्रम् कपिलमुनिः
आसुरिनामानं मुनिमुपलक्ष्यीकृत्य प्रणिनाय तेनापि ततः श्रुत्वा
तदर्थानुगुणं संक्षिप्तमपरं शास्त्रं स्वशिष्याय पञ्चशिखायो
प्रदिष्टमेवं लोके प्रचारमुपगतेऽस्मिन् शास्त्रे ईश्वरकृष्णेन
विद्वद्वर्य्येणाख्यायिकापरवादनिराकणवर्जं षष्टिपदार्थीप्रति-
पादनाय द्धासप्ततिरार्य्याः निर्म्मिताः । एतच्छास्त्रस्य तु
“सङ्क्यां प्रकुर्व्वते यस्मात् प्रकृतिं च प्रचक्षते । तत्त्वानि
च चतुर्व्विंशत् तेन साङ्क्यं प्रकीर्त्तितम्” इति महाभा-
रतवाक्यानुसारेण प्रकृतिपुरुषसम्यग्विवेकज्ञानरूप्रसङ्क्या-
याः, प्रकृत्यादिचतुर्विंशतितत्त्वसङ्ख्यायाश्च प्रतिपादनात्
साङ्ख्याशब्दाभिधेयता । तदिदं शास्त्रं चिकित्साशास्त्र-
मिव चतुर्व्यूहम् यथा रोगः रोगनिदानं रोगनिवृत्त्यु
पायः रोगनिवृत्तिरित्येते पदार्थाः चिकित्साशास्त्रगताः
एवं हेयं दुखं, तन्निदानं चित्तादि, तन्निवृत्त्युपायो विवे
कसाक्षाल्कारः, दुःखनिवृत्तिश्चेत्येते पदार्थाः अत्र शास्त्रे
प्राध्यान्येनोपदिष्टाः प्रसङ्गागताश्चान्ये । प्रछप्तेः साम्या-
बस्थापन्नगुणतयात्मि कायाः सर्गभेदेऽप्येकत्वं, खर्गामवर्गरूप-
प्रयोजनवत्त्वम्, परार्थतया प्रष्टत्तिमत्त्वञ्च, असङ्गस्य
चेतनस्य पुरुषस्य प्रकृतिकार्य्योभ्यो भेदः, अकर्तृखं जन्ममर-
णादिव्यवस्यान्यथानुपपत्तेर्बहुत्वञ्च, प्रकृतेः पुरुषस्य
चोभयोः अस्तित्वं, संयोगः, वियोगश्च स्थूलसूक्ष्मभूतानां
स्थितिरिव्येते दश प्रदार्थाः मौलिकाः । तथा अविद्या-
पृष्ठ १६६१
ऽस्मितारागद्वेषाभिनिवेशात्मकाः पञ्च विपर्य्ययाः
इन्द्रियादीनां स्वस्वव्यापारेऽसामार्थ्यम् “बाधिर्य्यं कुष्ठि-
तान्धत्वं जड़ताऽजिघ्रता तथा । मूकता कौण्यपङ्गु-
त्वं क्लैव्योदावर्त्तमन्दता” । इत्येकादशविधम्, नवधा
तुष्टयोऽष्टधा सिद्धयः तासां विपर्य्ययः सप्तदशधा इत्येवम-
ष्टाविंशतिः नवधा तुष्टयोऽष्टौ सिद्धयैत्येवं षष्टिः
पदार्थाः “प्रधानास्तित्वमेकत्वमर्थवत्त्वमथान्यता । पारार्थ्यञ्च
तथानैक्यं वियोगो योग एव च । शेषवृत्तिरकर्तृत्वं मौलि
कार्थाः स्मृता दश । विपर्य्ययः प्रञ्चविधस्तथोक्ता नवतुष्टयः ।
करणानामसामर्थ्यमष्टाविंशतिधा मतम् । इति षष्टिः
पदार्थानामष्टाभिः सिद्धिभिः सह” । इति राजवार्त्ति-
कोक्ता उपदिष्टाः । प्रकृतिपुरुषविवेकोपदेशायप्रवृत्त शास्त्रं
प्रथमं चेतनाचेतनत्वेन पदार्थद्वैविध्यं सूचायाम्बभूब । तत्र
चेतनाः पुरुषा जन्मादिव्यवस्थान्यथानुपपत्तेर्बहवः । प्रकृ-
त्यादयः चतुर्विंशतिः पदार्थाः संहतपरार्थाः अचेतनाश्च ।
अचेतनाअपि प्रकृत्यादयः पुरुषस्य भोगापवर्गार्थं
वत्सवृद्ध्यर्थं क्षीरमिव प्रवर्त्तन्ते । तत्प्रवृत्तौ च अनाद्य-
विद्या मिथ्याज्ञानजन्यवासनासहकृता पुरुषेण संयोगं
सम्पादयन्ती हेतुः । पुरुषसंयुक्ता च साम्यावस्थापन्नगुण-
त्रयात्मिका प्रकृतिः महत्तत्त्वाकारेण परिणमते इदभि-
त्थमेवेतिनिश्चयात्मकवृत्तिविशिष्टमन्तःकरणमेव महत्तत्त्वसं-
ज्ञकम् । तच्च पुनः इदं मम अनेनाहं कार्य्यं निष्पादया-
मीत्येवमहङ्कारात्मकवृत्तिविशिष्टान्तःकरणरूपाऽहङ्काराकारे-
णपरिणमते । सोऽपि सूक्ष्मभूत् रूषशब्द तन्मात्रस्पर्शतन्मात्र
रूपतन्मात्ररसतन्मात्रगन्धतन्मात्राकारेण परिणमते ।
तानि च श्रोत्रत्वङ्नयनरसनाजिह्वाख्य--पञ्चज्ञानेन्द्रिय--वाक्-
पाणिपादपायूपस्थाख्य--पञ्चकर्म्मेन्द्रिय--सङ्कल्पबिकल्पात्मकवृ-
त्तिकमनोरूपेण, आकाशवायुज्वलनजलभूमिरूपमहाभूता-
कारेण च परिणमन्ते । तएते चतुर्विंशतिः पदार्थाः “प्रकृते
र्महान्, महतोऽहङ्कारः, अहङ्कारात् पञ्च तन्मात्राणि,
तन्मात्रेभ्य एकादशेन्द्रियाणि पञ्च भूतानि चेति” सूत्रो
पदिष्टाः । तेभ्य एव च भौतिकब्रह्माण्डचतुर्विधप्राणि-
देहादीनामुत्पइः । प्रकृतिश्चैवं भूयोभूयः स्वव्यापारान्
पुरुषाय दर्शथित्वा भूयोभूयो भुज्यमानेषु तेषु क्रमशः
पुरुषस्य वैराग्यमुत्पाद्य आत्मात्मकार्य्येभ्यः पुरुषस्य विवे-
कज्ञानं साधयित्वा च दृष्टात्मविवेकं पुरुषं प्रति स्वव्या-
पारदर्शवेन कृतकृत्यतया निवर्त्तते । तन्निवृत्तौ च तत्का-
र्य्यसकलपदार्थव्यापारनिवृत्तिरित्यतः सकार्य्यप्रकृति वृत्ति-
निवारणाय प्रयत्नः कार्य्यः । तन्निवृत्तिश्च विवेकज्ञानसाध्या
इत्येवं विवेकसाधनायेदं शास्त्रं प्रवृत्तम् । विवेकश्च
यत् वस्तु यथास्थितम् तत्तथारूपेण ज्ञानम् तत्र पुरुषस्य
निःसङ्गतया क्रियाशून्यतया चापरिणामित्वेन कर्तृत्वा-
भावात् प्रकृतिकार्य्यबुद्धिरेव कर्त्री कृतिसमानाधिकरण्येनैव
तत्फलस्य सुखदुःखादेः तन्निष्ठतैव । पुरुषेतु प्रवानकार्य्य-
बुद्धेश्चिदात्मनि प्रतिविम्बात् दुःखादेरपि पुरुषे प्रतिम्बनं
तेन च पुरुष उपतप्यते, बुद्धेर्दुःखनिवृत्तौ च नैव तस्योप-
ताप इत्यतः प्रतिविम्बरूपदुःखभोक्तृत्वेन आत्मानं जानन्
पुरुष उपतप्यमान इव भवति । ततश्च प्रकृतेर्भिन्नतया
तत्कार्य्यसुखादिशून्यतया ज्ञातः पुरुषः प्रतिविम्बाकारैः
दुःखैर्न संवध्यते इत्येवं प्रकृत्यादीनां चतुर्विंशतितत्त्वानां
पुरुषस्य च असाधारणधर्म्मविशेषकथनद्वारा तयोर्विवेकज्ञा-
नोपयोग्युपदेशायैवेदम् शास्त्रं प्रवृत्तम् यथा च तयोर्विवे-
कस्तथा शास्त्रे तन्मूलके द्वासप्ततिकारिकात्मके प्रबन्धे च
आख्यायिकापरवादनिराकरणवर्जसीश्वरकृष्णेन दर्शितम्” ।
तत्र सांख्यमतं सर्वदर्शसंग्रहे इत्यं समग्राहि
“सङ्क्षेपेण हि साङ्ख्यशास्त्रे चतस्रो विधाः सम्भाव्यन्ते
कश्चिदर्थः प्रकृतिरेव, कश्चिद्विकृतिरेव, कश्चिद्विकृतिः प्रकृ-
तिश्च, कश्चिदनुभय इति । तत्र केवला प्रकृतिः प्रघान
पदेन वेदनीया मूलप्रकृतिः नासावन्यस्य कस्यचिद्विकृतिः,
प्रकरोतीति प्रकृतिरितिव्युत्पत्त्या मत्त्वरजस्तमोयुणानां
साम्यावस्थाया अभिधानात् तदुक्तं “मूलप्रकृतिरविकृतिरिति” ।
मूलञ्चासौ प्रकृतिश्च मूलप्रकृतिः महदादेः कार्य्यकलाप-
स्यासौ मूलं न त्वस्य प्रधानस्य मूलान्तरमस्ति अनवस्थापा-
तात् । न च वीजाङ्कुरवदनवस्थादोषो न भवतीति वाच्यं
प्रमाणाभावादिति भावः । विकृतयश्च प्रकृतयश्च महदहङ्का
रतन्मात्राणि । तदप्युकं “महदाद्याः प्रकृतिविकृतयः सप्तेति”
अस्यार्थः प्रकृतयश्च ताः विकृतयश्चेति प्रकृतिविकृतयः सप्त
महादादीनि तत्त्वानि तत्रान्तःकरणादिपदवेदनीयं महत्त-
त्त्वमहङ्कारस्य प्रकृतिः मूलप्रकृतेस्तु विकृतिः । एवमहङ्कार-
तत्त्वमभिमानापरनामधेयं महतो विकृतिः प्रकृतिश्च पञ्च-
तन्मात्रादीनाम् तत्राहङ्कारतत्त्वं तामसं सत् पञ्चतन्मात्राणां
सूक्ष्माभिधानां प्रकृतिः, तदेव सात्विकं सत्प्रकृतिरेकादशेन्द्रि-
याणां बुद्धीन्द्रियाणां चक्षुःश्रोत्रव्राणरसनात्वगाख्यानां,
कर्म्मेन्द्रयाणां बाक्पाणिपादपायूपस्थाख्यानामुभयात्मकस्य
ममसश्च । रजसस्तूमयत्र क्रियोत्पादनद्वारेण कारणत्वम-
स्तीति न वैयर्थ्यम् । तदुक्तमीश्वरकृष्णेन “अभिमानोऽ-
पृष्ठ १६६२
हङ्कारस्तस्माद्द्विविधः प्रवर्त्तते सर्गः । एकादशकश्च
गणस्तन्मात्रपञ्चकञ्चैव । सात्विकएकादशकः प्रवर्त्तते वैकृ-
तादहङ्कारात् । भूतादेस्तन्मात्रः स तामसस्तैजसादुभयम् ।
बुद्धीन्द्रियाणि चक्षुःश्रोत्रघ्राणरसनत्वगाख्यानि । वाक्पा-
णिपादपायूपस्थानि कर्म्मोन्द्रियाण्याहुः । उभयात्मकमत्र
मनः सङ्कल्पविकल्पात्मकमिन्द्रियञ्च साधर्म्म्यादिति” ।
विवृतञ्च तत्त्वकौमुद्यामाचार्य्यवाचस्पतिभिः । केवला
विकृतिस्तु वियदादीनि पञ्च भूतानि एकादशेन्द्रियाणि च तदुक्तं
“षोड़शकस्तु विकारः” इति षोड़शसङ्ख्यावच्छिन्नो गणः
षोड़शको विकार एव न प्रकृतिरित्यर्थः यद्यपि पृथिव्या-
दथो गोघटादीनां प्रकृतिस्तथापि न ते पृथिव्यादिभ्यस्त-
त्त्वान्तरमिति न प्रकृतिः तत्त्वान्तरोपादानत्वं चेह प्रकृति-
त्वमभिमतं गोघटादीनां स्थूलत्वेन्द्रियग्राह्यत्वयोः समान-
त्वेन तत्त्वान्तरत्वाभावात् । तत्र शब्दस्पर्शरूपरसगन्धतन्मा-
त्रेम्यः पूर्व्वपूर्व्वसूक्ष्मभूतसहितेभ्याः पञ्च भूतानि वियदा-
दीनि क्रमेणैकद्वित्रिचतुःपञ्चगुणानि जायन्ते । इन्द्रिय-
सृष्टिस्तु प्रागेवोक्ता । तदुक्तम् “प्रकृतेर्महांस्ततोऽहङ्कार-
स्तस्माद्गणश्च षोड़शकः । तस्मादपि षोड़शकात् पञ्चभ्यः
पञ्चभूतानीति” । अनुभयात्मकः पुरुषः तदुक्तं “न प्रकृ-
तिर्न विकृतिः पुरुष” इति । पुरुषस्तु कूटस्थनित्योऽपरि-
णामी न कस्यचित् प्रकृतिर्नापि विकृतिः कस्यचिदित्यर्थः ।
एतत्पञ्चविंशतितत्त्वसाधकत्वेन प्रमाणत्रयमभिमतं तदप्युक्तं
“दृष्टमनुमानमाप्तवचनञ्च सर्व्वप्रमाणसिद्धत्वात् । त्रिविथं
घ्रमाणमिष्टं प्रमेयसिद्धिः प्रमाणाद्धीति” । इह कार्य्यकारण-
भावे चतुर्द्धा विप्रतिपत्तिः प्रसरति । असतः सज्जायत
इति सौगताः सङ्गिरन्ति । नैयायिकादयः सतोऽसज्जायत
इति । वेदान्विनः सतो विवर्त्तः कार्य्यजातं न वस्तु-
सदिति । सांख्याः पुनः सतः सज्जायत इति । तत्रासतः
सज्जायत इति न प्रामाणिकः पक्षः असतो निरुपाख्यस्य
शशविषाणवत्कारणत्वानुपपत्तेः तुच्छातुच्छयास्तादात्म्यानु-
पपत्तेश्च । नापि सतोऽसज्जायते कारकव्यापारात् प्राग-
सतः शशविषाणवत्सत्तासम्बन्धलक्षणोत्पत्त्यनुपपत्तेः नहि
नीलं निपुणतमेनापि पीतं कर्त्तुं पार्य्यते । ननु सत्त्वासत्त्वें
घटस्य धर्म्माविति चेत्तदचारु असति, धर्म्मिणि तद्धर्म्म इति
व्यपदेशानुपपत्त्या धर्म्मिणः सत्त्वापत्तेः । तस्मात् कारक-
व्यापारात् प्रागपि कार्य्यं सदेव, सतश्चाभिव्यक्तिरुपपद्यते
यथा पीड़नेन तिलेषु तैलस्य दोहेन सौरभेयीषु पयसः ।
असतः करणे किमपि निदर्शनं न दृश्यते । किञ्च कार्य्येण
सम्बद्धं कारणं तज्जनकम् असम्बद्धं वा प्रथमे कार्य्यस्य सत्त्व-
मायातं सतोरेव सम्बन्ध इति नियमात् चरमे सर्वं कार्य्य-
जातं सर्वस्माज्जायेत असम्बद्धत्वाविशेषात् । तदप्यख्यायि
साङ्ख्याचार्य्यैः “असत्त्वान्नास्ति सम्बन्धः कारणैः सत्त्वस-
ङ्गिभिः । असम्बद्धस्य चोत्पत्तिमिच्छतो न व्यवस्थितिरिति” ।
अथैवं मन्येथा असम्बद्धमपि तत् तदेव जनयति यत्र यच्छक्तं
शक्तिश्च कार्य्यदर्शनोन्नेयेति तन्न सङ्गच्छते तिलेषु तैल
जननशक्तिरित्यत्र तैलस्यासत्त्वे सम्बद्धत्वासम्बद्धत्वविकल्पेन
तच्छक्तिरिति निरूपणायोगात् । कार्य्यंकारणयोरभेदाच्च
कार्य्यस्य सत्त्वं कारणात् पृथक् न भवति पटस्तन्तुभ्यो न
भिद्यते तद्धर्म्मत्वान्न यदेवं न तदेवं यथा गोरश्वः, तद्धर्मश्च
पटस्तस्मान्नार्थान्तरम् । तर्हि प्रत्येकं त एव प्रावरणकार्य्यं
कुर्य्युरिति चेत् संस्थानभेदेनाविर्भूतपटभावानां प्रावरणार्थ-
क्रियाकारित्वोपपत्तेः यथा हि कूर्मस्याङ्गानि कूर्मशरीरे
निविशमानानि तिरोभवन्ति निःसरन्ति चाविर्भबन्ति
एवं कारणस्य तन्त्वादेः पटादथो विशेषा निःसरन्त
आविर्भवन्त उत्पद्यन्त इत्युच्यन्ते निविशमानास्तिरोभवन्तो
विनश्यन्तीत्युच्यन्ते न पुनरसतामुत्प्रत्तिः सतां बा विनाशः ।
यथोक्तं भगवद्गीतायाम् “नासतो विद्यते भावो नाभावो
विद्यते सतः” इति । ततश्च कार्य्यानुमानात् तत्प्रधान-
सिद्धिः । तदुक्तम् “असदकरणादुपादानग्रहणात् सर्व्वं-
सम्भवाभावात् । शक्तस्य शक्यकरणात् कारणभावाच्च सत्का-
र्य्यमिति” । नापि सतो ब्रह्मतत्त्वस्य विवर्त्तः प्रपञ्चः बाधा-
नुपलम्भात् अधिष्ठामारीप्ययीश्चिज्जड़योः कलधौतरू-
प्यादिवत् सारूप्याभावेनारोपासम्भवाच्च । तस्मात्सुखदुःस्न-
मोहात्मकस्य तथाविधकारणमवधारणीयं तथा च प्रयोगः
विमतं भावजातं सुखदुःखमोहात्मककारणकं तदन्वितत्वात्
यद्येनान्वीयते तत्तत्कारणकं यथा रुचकादिकं सुवर्णान्वितं
सुवर्णकारणकं तथाचेदं तस्मात्तथेति । तत्र जगत्कारणे
येयं सुखात्मकता तत्सत्वं, या दुःखात्मकता तद्रजः, या
च मोहात्मकता तत्तम इति त्रिगुणात्मककारणसिद्धिः तथा
हि प्रत्येकं भावास्त्रैगुण्यवन्तोऽनुभूयन्ते यथा मैत्रदारेषु
सत्यवत्यां मैत्रस्य सुखमाविरस्ति त्रं प्रति सत्वगुणप्रादुर्भा-
वात् तत्सपत्नीनां दुःखम् ताः प्रति रजोगुणप्रादुर्भावात् ।
तामलभमानस्य चैत्रस्य मोहो भवति तं प्रति तमोगुणसमु-
द्भवात् । एवमन्यदपि घटादिकं लभ्यमानं सुखाकरोति
परैरपि ह्रियमाणं दुःखाकरोति उदासीनस्योपेक्षाविषयत्वेनो-
पतिष्टते उपेक्षानिषयत्वं नाम मोहः मुह--वैचित्त्ये इत्यु-
पृष्ठ १६६३
स्माद्धातोर्मोहशब्दनिष्पत्तेः उपेक्षणीयेषु चित्त्वृत्त्यनुदयात् ।
तस्मात्सर्बं भावजातं सुखदुः खमोहात्मकं त्रिगुणप्रधानकार-
कणकमवगम्यते । तथाच श्वेताश्वतरोपनिषदि श्रूयते
“अजामेकां लोहितशुक्लकृष्णां बह्वीः प्रजा जनयन्तीं सरूपाः ।
अजोह्येको जुषमाणोऽनुशेते जहात्येनां भुक्तभोगामजोऽ-
न्यः” इति । अत्र लीहितशुक्लकृष्णशब्दा रञ्जकत्वप्रकाशक-
त्वावरकत्वसाधर्म्यात् रजस्मत्वतमोगुणत्वप्रतिपादनपराः ।
नन्वचेतनं प्रधानं चेतनानधिष्ठितं महदादिकार्य्येन
व्याप्रियते अतः चेनचिच्चेतनेनाधिष्ठात्रा भवितव्यं तथाच
सर्व्वार्थदर्शी परमेश्वरः स्वीकर्त्तव्यः स्यादिति चेत् तदसङ्ग-
तम् अचेतनस्यापि प्रधानस्य प्रयोजनवशेन प्रवृत्त्युपपत्तेः
दृष्टञ्च अचेतनं चेतनानधिष्ठितं पुरुषार्थाय प्रवर्चमानं यथा
वत्सविवृद्ध्यर्थमचेतनं क्षीरं प्रवर्त्तते यथा जलमचेतनं
लोकोपकाराय प्रवर्त्तते तथा प्रकृतिरचेतनापि पुरुषविमो-
क्षाय प्रवर्त्तति । तदुक्तम् “वत्सविवृद्धिनिमित्तं क्षीरस्य
यथा प्रवृत्तिरज्ञस्य । पुरुषविमोक्षनिमित्तं तथा प्रघृत्तिः
प्रधानस्येति” । यस्तु परमेश्वरः करुणया प्रवर्त्तक इति
परमेश्वरास्तित्ववादिनां डिण्डिमः स प्रायेण गतः विकल्पा-
नुपपत्तेः स किं सृष्टेः प्राक् प्रवर्त्तते सृष्ट्युत्तरकालं वा
आद्ये शरीराद्यभावेन दुःखानुत्पत्तौ जीवानां दुःखप्र-
हाणेच्छानुपपत्तिः, द्वितीये परस्पराश्रयप्रसङ्गः करुणया
सृष्टिः सृष्ट्या च कारुण्यमिति । तस्मादचेतनस्यापि
चेतनानधिष्ठितस्य प्रधानस्य महदादिरूपेण परिणामः
पुरुषार्थप्रयुक्तः प्रधानपुरुषसंयोगनिमित्तः । यथा
निर्व्यापारस्याप्ययस्कान्तस्य सन्निधानेन लोहस्य व्यापारः
तथा निर्वापारस्य पुरुषस्य सन्निधानेन प्रधानव्यापारो
युज्यते । प्रकृतिषुरुषसम्बन्धश्च पङ्ग्वन्धवत्परस्परापेक्षानिव-
न्धनः । प्रकृतिर्हि भोग्यतया भोक्तार पुरुषमपेक्षते पुरु-
षोऽपि भेदाग्रहाद्बुद्धिच्छायापत्त्या तद्गतं दुखत्रयं वारय-
माणः कैवल्यमपेक्षते । तत्प्रकृतिपुरुषविवेकनिबन्धबनम् । न
च तदन्तरेण युक्तयिति कैवल्यार्थं पुरुषः प्रधानमपेक्षते ।
यथा खलु कौचित् पङ्ग्वन्धौ पथि सार्थेन गच्छन्तौ
दैवकृतादुपप्लवात् परित्यक्तसार्थौ मन्दमन्दमितस्ततः परिभ्र-
सन्तौ भयाकुलौ दैववशात् संयोगमुपगच्छेतां तत्र चान्धेन
पङ्गुः स्कन्धनारोपितः ततः पङ्गुदर्शितेन मार्गेणान्धः
समीहितं स्थानं प्राशोति पङ्गुरपि स्कन्धाधिरूढः । तथा
परस्फरापेक्षप्रधानपुरुषनिबन्धनःसर्गः । यथोक्तम् “पुरु-
षस्य दर्शनार्थं कैवल्यार्थं तथा प्रधानस्य । पङ्ग्वन्धवदुभयो-
रपि सम्बन्धस्तत्कृतः सर्गः” इति । ननु पुरुषार्थनिबन्धना
भवतु प्रकृतेः प्रवृत्तिः निवृत्तिस्तु कथमुपपद्यते? इति
चेदुच्यते यथा भर्त्रा दृष्टदोषा स्वैरिणी भर्त्तारं पुनर्नोपैति
यथा वा कृतप्रयोजना नर्त्तकी निवर्त्तते तथा प्रकृतिरपि ।
यथोक्तम् “रङ्गस्य दर्शयित्वा निवर्त्तते नर्त्तकी यथा
नृत्यात् । पुरुषस्य तथात्मानं प्रकाश्य विनिवर्त्तते प्रकृ-
तिरिति” । एतदर्थं निरीश्वरसाङ्ख्यशास्त्रप्रवर्त्तककपिला-
नुसारिणां मतसुपन्यस्तम्” ।
तत्र मूलीमूतमादिमं तत्त्वसमासाख्यसूत्रं तदुक्तार्थप्रवचनात्
षडध्याय्याः सांख्यप्रवचनसंज्ञेति यथोक्तं तद्भाष्ये “नन्वेवमपि
तत्त्वसमासाख्यसूत्रैः साहास्याः षडध्याय्याः पौनरूक्त्यमिति
चेत् मैवम् संक्षेपविस्तररूपेणोभयोरप्यपौनरुक्तात् अतएवाऽ-
स्याः षडध्याय्याः योगदर्शनस्येव साङ्ख्यप्रवचनसंज्ञा युक्ता ।
तत्त्वसमासाख्यं हि यत् सङ्क्षिप्तं साङ्ख्यदर्शनं तस्यैव प्रक-
र्षेणास्यां निर्वचनमिति, विशेषस्त्वयं यत् षडध्यायां तत्त्वस-
समासाख्योक्तार्थविस्तरमात्रं योगदर्शने त्वभ्युपगमवाद-
प्रतिषिद्धस्यैवेश्वरस्य निरूपणेन न्यू नतापरिहारोऽपीति”
षडध्याय्यां च क्रमेणैतेऽर्था यथा “हेयहाने तयोर्हेत
व्यूहा एते यथाक्रमम् । चत्वारःशास्त्रमुख्यार्थाः आद्या
ध्याये प्रपञ्चिताः । संक्षिप्तसांख्यसूत्राणामर्थस्यात्र प्रप
ञ्चनात् । शास्त्रं योगवदेवैतत् सांख्यप्रवचनाभिधम्” १
लिङ्गदेहस्य धटकं यत् प्रप्तदशसंख्यकम् । प्रधा-
नकार्य्यं तत्सूक्ष्मं द्वितीयाध्यायगामि च २ । अत्यन्तल
यपर्य्यन्तः कार्य्योऽव्यक्तस्य नात्मनः । तृतीयोक्तोविवेकोऽत्र
परवैराग्यसाधनम् ३ । अध्यायत्रितयोक्तस्यः विवेकस्यान्त-
रङ्गकम् । आख्यायिकाभिः संप्रोक्तं तुर्य्येऽध्याये
समासतः ४ । स्वसिद्धान्तविरुद्धार्थवादिनो ये कुवादिनः । पञ्चमे
तान् निराकत्य स्वसिद्धान्तो दृढीकृतः ५ । शास्त्रमुख्यार्थ-
विस्तारस्तन्त्राख्येऽनुक्तपूरणैः । षष्ठाध्याये कृतः पश्चाद्वा-
क्यार्यश्चोपसंसहृतः ।
सेश्वरसांख्यमतन्तु पातञ्जलमतत्वेन प्रसिद्धम् तन्म-
तञ्च पतञ्जलिशब्दे दर्शयिष्यते । तदेव मतं कर्दमप्रजा-
पतेर्देवहूतावाविर्मूय भगवदतारकपिलःमातरमुपदिदेश
तच्च भाग० ३, २५, २९ अध्यायेष वर्ण्णितम यथा ।
“अथ ते संप्रवक्ष्यामि तत्त्वानां लक्षणं पृथक् । यद्विदित्वा
विमुच्यैत पुरुषः प्राकृतैर्गुणैः । ज्ञानं निःश्रेयसा-
र्थाय पुरुषस्यात्मदर्शनम् । यदाहुर्व्वार्णये तत्ते हृदत
ग्रन्थिभेदनम् । अनादिरात्मा पुरुपो निर्गुणः प्रकृतेः
पृष्ठ १६६४
परः । प्रत्यग्धाम स्वयं ज्योतिर्विश्वं येन समन्वितम् ।
स एष प्रकृतिं सूक्ष्मां देवीं गुणमयीं विभुः । यदृच्छयै
वोपगतामभ्यपद्यत लीलया । गुणैर्विचित्राः सृजतिं
सरूपाः प्रकृतिं प्रजाः । विलोक्य मुहुह सद्यः स इहज्ञान-
गूहया । एवं पराभिध्यानेन कर्तृत्वं प्रकृतेः पुमान् ।
कर्म्मसु क्रियभाणेषु गुणैरात्मनि मन्यते । तदस्य
संसृतिर्व्वन्धः पारतन्त्र्यञ्च तत्कृतम् । भवत्यकर्त्तुरी
शस्य साक्षिणो निर्व्वृतात्मनः । कार्य्यकारणकर्तृत्वे
कारणं प्रकृतिं विदुः । भोक्तृत्वे सुखदुःखानां पुरुषं
प्रकृतेः परम् । देवहूतिरुवाच । प्रकृतेः पुरुषस्यापि
लक्षणं पुरुषोत्तम! । ब्रूहि कारणयोरस्य सदसच्च यदात्म-
कम् । भगवान् उवाच । यत्तत् त्रिगुणमव्यक्तं नित्यं
सदसदात्मकम् । प्रधानं प्रकृतिं प्राहुरविशेषं विशेषवत् ।
पञ्चमिः पञ्चभिः ब्रह्म चर्भिर्दशमिस्तथा । एतच्चतु-
र्व्विंशतिकं गणं प्राधानिकं विदुः । महाभूतानि पञ्चैव-
भूरापोऽग्निर्म्मरुन्नभः । तन्मात्राणि च तावन्ति गन्धा-
दीनि मतानि मे । इन्द्रियाणि दश श्रोत्रं त्वग्दृग्रसन-
नासिकाः । वाक्करौ चरणौ मेद्रं पायुर्दशम उच्यते ।
मनोबुद्धिरहङ्कारश्चित्तमित्यन्तरात्मकम् । चतुर्द्धा
लक्ष्यते भेदोवृत्त्या लक्षणरूपया । एतावानेव संख्यातो
ब्रह्मणः सगुणस्य च । सन्निवेशोमया प्रोक्तोयः कालः
पञ्चविंशकः । प्रमावं पौरुषं प्राहुः कालमेके यतोभयम् ।
अहङ्कारविनूढस्य कर्त्तुः प्रकृतिमीथुषः । प्रकृतेर्गुणसा-
म्यस्य निर्व्विशेषस्य भानवि! । चेष्टा यतः स भगवान् काल
इत्युपलक्षितः । अन्तः पुरुषरूपेण कालरूपेण योबहिः ।
समन्वेत्येष सत्वानां भगवानात्ममायया । दैवात् क्षुभित
धर्म्मिण्यां स्वस्यां योनौ परः पुमान् । आधत्त वीर्य्यं
माऽसूत महत्तत्वं हिरण्मयम् । विश्वमात्मगतं व्यञ्जन्
कूटस्थोजगदङ्कुरः । स्वतेजसाऽपिबत्तीवमात्मप्रस्वापनं तमः ।
यत्तत् सत्वगुणं स्वच्छं शान्तं भगवतः पदम् । तदाहु-
र्व्वासुदेवाख्यं चित्तं तन्महदात्मकम् । स्वच्छत्वमविकारित्वं
शान्तत्वमिति चेतसः । वृत्तिभिर्लक्षणं प्रोक्तं यथा मां
प्रकृतिः परा । महत्तत्वाद्विकुर्व्वाणाद्भगवद्वीर्य्यसम्भवात् ।
क्रियाशक्निरहङ्कारस्त्रिविधः समपद्यत । वैकारिकस्तै-
जसश्च तामसश्च यतोभयः । मनसश्चेन्द्रियाणाञ्च भूतानां
महतामपि । सहस्वशिरसं साक्षात् यमनन्तं प्रचक्षते ।
सङ्कर्षणाख्यं पुरुषं भूतेन्द्रियमनोमयम् । कर्तृत्वं
करणत्वञ्च कार्य्यत्वञ्चेति लक्षणम् । शान्तघोरविमढत्व-
मिति वा स्यादहङ्कृतेः । वैकारिकाद्विकुर्व्वाणान्मनस्तत्त्वम-
जायत । यत्संकल्पविकल्पाभ्यां वर्त्तते कामसम्भवः ।
यद्विदुर्ह्यनिरुद्धाख्यं हृषीकाणामधीश्वरम् । शारदेन्दी-
वरश्यामं संराध्यं योगिमिः शनैः । तैजसात्तु विकुर्व्वाणा-
द्बुद्धितत्त्वमभूत् सति! । द्रव्यस्फुरणविज्ञानमिन्द्रियाणा
मनुग्रहः । संशयोऽथ विपर्य्यासोनिश्चयः स्मृतिरेव च ।
स्वाप इत्युच्यते बुङ्केर्लक्षणं वृत्तितः पृथक् । तैजसानी-
न्द्रियाण्येव क्रियाज्ञानविभागशः । प्राणस्य हि क्रिया
शक्तिर्बुद्धेर्व्विज्ञानशक्तिता । तामसाच्च विकुर्व्वाणाद्भगव-
द्वीर्य्यनोदितात् । शब्दमात्रमभूत्तस्मान्नमः श्रोत्रन्तु
शब्दगम । अर्थाश्रयत्वं शब्दस्य द्रष्टुलैङ्गत्वमेव च ।
तन्मात्रञ्चैव नभसोलक्षणं कवयोविदुः । भूतानां छिद्रदातृ-
त्वं बहिरन्तरमेव च । प्राणेन्द्रियात्मधिष्ण्यत्वं नभसो
वृत्तिलक्षणम् । नभसः शब्दतन्मात्रात् कालगत्या विकु-
र्व्वतः । स्पर्शोऽभवत्ततोवायुस्त्वक् च स्पर्शस्य संग्रहः ।
मृदुत्वं कठिनत्वञ्च शैत्यमुष्णत्वमेव च । एतत् स्पर्शस्य
स्पर्शत्वं तन्मात्रञ्च नभस्वतः । चालनं व्यूहनं प्राप्तिर्ने-
तृत्वं द्रव्यशब्दयोः । सर्व्वेन्द्रियाणामात्मत्वं वायोः
कर्म्माभिलक्षणम् । वायोश्च स्पर्शतन्मात्रात् रूप दैवेरिताद
भूत् । समुत्थितं ततस्तेजश्चक्षूरूपोपलम्भनम् । द्रव्या-
कृतित्वं गुणता व्यक्तिसंस्थत्वमेव च । तेजस्त्वं तेजसः
साध्वि! रूपमात्रस्य वृत्तयः । द्योतनं पचनं पानमदनं
हिममर्द्दनम् । तेजसोवृत्तयस्त्वेताः शोषणं क्षुत्तृडेव च ।
रूपमात्राद्विकर्व्वाणात्तेजसो दैवनोदितात् । रसमात्रम-
भूत्तस्मादम्भोजिह्वा रसग्रहः । कषायोमधुरस्तिक्तः
कष्ट्वम्लाइति नैकधा । मौतिकानां विकारेण रसएकोवि-
भिद्यते । क्लेदनं पिण्डनं तृप्तिः प्राणनाप्यायनोदनम् ।
तापापनोदो मूयस्त्वगम्भसो वृत्तयोस्त्विमाः । रसमात्रा-
द्विकुर्व्वाणादम्भसो देवनोदितात् । गन्धमात्रमभूत्तस्मात्
पृथ्वी घ्राणस्तु गन्धगः । करम्भपूतिसौरभ्यशान्तोदग्रा-
दिभिः पृथक् । द्रव्यावयववैषम्याद्गन्ध एकोविभिद्यते ।
भावनं ब्रह्मणःसानं धारणं सद्विशेषणम् । सर्व्वसत्व-
गुणोद्भेदः पृथिवीवृत्तिलक्षणम् । नभोगुणविशेधोऽर्थो
यस्य तत् श्रोत्रमुच्यते । वायोर्गुणविशेषोऽर्थो यस्य तत्
स्पर्शनं विदुः । तेजोगुणविशेषोऽर्थो यस्य तच्चक्षुरुच्यते ।
अम्भोगुणविशेषोऽर्थो यस्य तद्रसनं विदुः । भूमेर्गुण
विशेषोऽर्थो यस्य घ्राणः स उच्यते । परस्य दृश्यते धर्म्मो-
ह्यपरस्विन् समन्वयात् । अतोविशेषो भावानां मूमा-
पृष्ठ १६६५
वेथोपलभ्यते । एतान्यसंहत्य यदा महदादीनि सप्तवै ।
कालकर्म्मगुणोपेतो जगदादिरुपाविशत् । ततस्तेनानु-
विद्धेभ्यो युक्तेभ्योऽण्डमचेतनम् । उत्थितं पुरुषो
यस्मात् उदतिष्ठदसौ विराट् । एतदण्डं विशेषाख्यं
क्रमवृद्धैर्यथोत्तरैः । तोयादिभिः परिवृतं प्रधानेनावृतं
बहिः । यत्र लोकवितानोऽयं रूपं भगवतोहरेः ।
हिरण्मयादण्डकोषादुत्थाय सलिलेशयात् । तमाविश्य
महादेवो बहुधा निर्बिभेद खम् । निरमिद्यतास्य प्रथमं
मुखं वाणी ततोऽभवत् । वाण्यावह्निरथोनासे प्राणतो
घ्राण एतयोः । घ्राणाद्वायुरभिद्येतामक्षिणी चक्षुरे-
तयोः । तस्मात् सूर्य्योऽन्वभिद्येतां कर्णौ श्रोत्रं
ततोदिशः । निर्बिभेद विराजस्त्वग्रोमश्मश्र्वाद्रयस्ततः ।
ततओषधयश्चासन् शिश्नं निर्बिभेदे ततः । रेतस्तस्मादाप
आसन्निरभिद्यत वै गुदम् । गुदादपानोऽ पानाच्च मृत्यु-
र्लोकभयङ्करः । हस्तौ च निरभिद्येतां बलं ताभ्यां ततः
स्वराट् । पादौ च निरभिद्यतां गतिस्ताभ्यां ततोहरिः ।
नाड्योऽस्य निरमिद्यन्त ताभ्यो लोहितमाभृतम् । नद्यस्ततः
समभवन्नुदरं समभिद्यत । क्षुत्पिपासे ततः स्यातां
समुद्रस्त्वेतयोरभूत् । अथास्य हृदयं भिन्नं हृदयान्मन
उत्थितम् । मनसश्चन्द्रमाजातो बुद्धिर्ब्बुद्धेर्गिरां पतिः ।
अहङ्कारस्ततोरुद्रः चित्तञ्चैत्तस्ततोऽभवत् । एते
ह्यभ्युत्थिता देवा नैवास्योत्यापनेऽशकन् । पुनराविविशुः
स्वानि तमुत्थापयितुं क्रमात् । वह्निर्वाचा मुखं भेजे
नोदतिष्ठत्ततोविराट् । घ्राणेन नासिके वायुर्नोदतिष्ठत्ततो-
विराट् । अक्षिणो चक्षुरादित्योनोदतिष्ठत्ततोविराट् ।
हस्ताविन्द्रो बलेनैव नोदतिष्ठत्ततोविराट् । विष्णुर्गत्येव
चरणौ नोदतिष्ठत्ततोविराट् । नाडीर्नद्यो लोहितेन
नोदतिष्ठत्ततोबिराट् । क्षुत्तृड्भ्यामुदरं सिन्धुर्नोदतिष्ठ-
त्ततोविराट् । बुद्ध्या ब्रह्मापि हृदयं नोदतिष्ठत्ततोवि-
राट् । श्रोत्रेण कर्णौ च दिशोनोदतिष्ठत्ततोविराट् । त्वचं
रोमभिरोधध्यो नोदतिष्ठत्ततोविराट् । रेतसा शिश्नमा-
पस्तु नोदतिष्ठत्ततोविराट् । गुदं मृत्युरपानेन नोदति-
ष्ठत्ततोविराट । रुद्रोऽभिमत्या हृदयं नोदतिष्ठत्ततो-
विराट् । चित्तेन हृदयं चैत्तः क्षेत्रज्ञः प्राविशद्यदा ।
विराट् तदैव पुरुषः सलिलादुदतिष्ठत । यथा प्रसुप्तं
हृदयं प्राणेन्द्रियमनोधियः । प्रभवन्ति विना येन
नोत्थापयितुमोजसा । तमस्मिन् प्रत्यगात्मानन्धिया योगवि-
वृत्तया । भक्त्या विरक्त्या ज्ञानेन विविच्यात्मनि चिन्तयेत्”
इति भागवते तृतीयस्कन्धे षड्विंशाध्याये कपिनवचः ।
“प्रकृतिस्थोपि पुरुषोनाज्यते प्राकृतैगुर्णैः । अविकारा-
दकर्तृत्वान्निर्गुणत्वाज्जलार्कवत् । सएष यर्हि प्रकृते-
र्गुणेष्वपि विसज्जते । अहङ्क्रियाविमूढात्मा कर्त्तास्मी-
त्यभिमन्यते । तेन संसारपदवीमवशोऽभ्येत्य निर्व्वृतः ।
प्रासङ्गिकैः कर्म्मदोषैः सदसन्मिश्रयोनिषु । अर्थेह्यवि-
द्यमानेऽपि संसृतिर्न निवर्त्तते । ध्यायतो विषयानस्य
स्वप्नोनार्थागभोयथा । अतएव शनैश्चित्तं प्रसक्तमसतां
पथि । भक्तियोगेन तीव्रेण विरक्त्या च नयेद्वशम् ।
यमादिभिर्योगपथैरभ्यसन् श्रद्धयान्वितः । मयि भावेन
सत्येन मत्कथाश्रवणेन च । सर्व्वभूतसमत्वेन निर्वेरेणा-
ऽप्रसङ्गतः । ब्रह्मचर्य्येण मौनेन स्वधर्म्मेण महीयसा ।
यदृच्छयोपलब्धेन सन्तुष्टोमितभुङ्मुनिः । विविक्तशरणः
शान्तोमैत्रः करुण आत्मवान् । सानुबन्धे च देहेऽ-
स्मित् न कुर्व्वन्नसदाग्रहम् । ज्ञानेन दृष्टतत्त्वेन प्रकृतेः
पुरुषस्य च । निवृत्तबुद्ध्यवस्थानोदूरीभूतान्यदर्शनः ।
उपलभ्यात्मनात्मानं चक्षुरेकाग्रमात्मदृक् । मुक्तलिङ्गं
सदाभासमसति प्रतिपद्यते । सतो बन्धुमसच्चक्षुः सर्वानुष्यूवम-
द्वयम् । यथा जलस्थ आभासः स्थलस्थेनावदृश्यते ।
स्वाभासेन तथा सूर्य्यो जलस्थेन दिविस्थितः । एवं त्रिवृद
हङ्कारो मूतेन्द्रियमनोमयैः । स्वाभासैर्लक्षितोऽनेन सदा
भासेन सत्यदृक् । भूतसूक्ष्मेन्द्रियमनीबुद्ध्यादिष्विह निद्र-
या । लीनेष्वसति यस्तत्र विनिद्रो निरहङ्क्रियः । मन्य
मानस्तदात्मानमनष्टो नष्टवन्मृषा । नष्टेऽहङ्करणे द्रष्टा-
वित्त इवातुरः । एवं प्रत्यवदृश्यासावात्मानं प्रतिपद्यते
साहङ्कारस्य द्रव्यस्य योऽवस्थानमनुग्रहः । देवहूतिरुवाच ।
पुरुषं प्रकृतिर्ब्रह्मन्! न विमुञ्चति कर्हिचित् । अन्योन्यो-
पाश्रयत्वाच्च नित्यत्वाच्चानयीः प्रमी! यथा गन्धस्य मूमेश्च-
न भावो व्यतिरेकतः । अपां रसस्य च यथा तथा बुद्धेः
परस्य च । अकर्त्तुः कर्म्मबन्धोऽयं पुरुषस्य यदाश्रयः ।
गुणेषु सत्सुप्रकृतेः कैवल्यं तेष्वतः कथम्? । कच्चित्तत्त्वा-
वमर्शेन निवृत्तं भयभुल्वणम् । अनिवृत्तनिमित्तत्वात् पुनः
प्रत्यवतिष्ठते । श्रोभगवानुवाच । अनिमित्तनिमित्तेन
स्वधर्मेणामला त्मना । तीव्रया मयि भक्त्या च श्रुतसंभृतया-
चिरम् । ज्ञानेन दृष्टतत्त्वेम वैराग्येण बलीयसा । तपोयु
क्तेन योगेन तीव्रेणात्मसमाधिना । प्रकृतिः पुरुषस्येह
दह्यमाना त्वहर्न्निशम् । तिरोभवित्री शनकैरग्नेर्योनि
रिवारणिः । भुक्तभोगा परित्यक्ता दृष्टदोषा च नित्यशः ।
पृष्ठ १६६६
नेश्वरस्याशुभं धत्ते स्वे महिम्रि स्थितस्य च । यथा
ह्यप्रतिबुद्धस्य प्रस्वापोबह्वनर्थकृत् । स एव प्रतिबुद्धस्य न
विमोहाय कल्पते । एवं विदितत्त्वस्य प्रकृतिर्मयि
मानसम् । युञ्जतोनापकुरुते आत्मारामस्य कर्हिचित् । यदैव-
मध्यात्मरतः कालेन बहुजन्मना । सर्व्वत्र जातवैराग्य
आ ब्रह्मभवनान् मुनिः । मद्भक्तः प्रतिबुद्धार्थोमत्प्रसादेन
भूयसा । निःश्रेयसं स्वसंस्थानं कैवल्याख्यं मदाश्रयम् ।
प्राप्नोतीहाञ्जसा धीरः स्वदृशा च्छिन्नसंशयः । यत् गत्वा न
निवर्त्तेत योगी लिङ्गविनिर्गमे । यदा न योगोपचितासु-
चेतो मायासु सिद्धस्य विसज्जतेऽम्ब! । अनन्यहेतुष्वथ मे गतिः
स्यादात्यन्तिकी यत्र न मृत्युहासः” भाग० ३ स्क० २७ अ०
“योगस्य लक्षणं वक्ष्ये सवीजस्य नृपात्मजे! । मनो येनैव
विधिना प्रसन्नं याति सत्पथम् । स्वधर्माचरणं शक्त्या वि
धर्माच्च निवर्त्तनम् । दैवाल्लब्धेन सन्तोष आत्मविच्चरणार्च्च
नम् । ग्राम्यधर्म्मनिवृत्तिश्च मोक्षधर्मरतिस्तथा । मितमे-
ध्यादनं शश्वद्विविक्तक्षेमसेवनम् अहिंसा सत्यमस्तेयं
यावदर्थपरिग्रहः । ब्रह्मचर्य्यं तपः शौचं स्वाध्यायः
पुरुषार्चनम् । मौनं सदासनजयः सथिर्य्यं प्राणजयः
शनैः । प्रत्याहारश्चेन्द्रियाणां विषयान्मनसा हृदि ।
स्वधिष्ण्यानामेकदेशे मनसा प्राणधारणा । वैकुण्टलीलामि-
ध्यानं समाधानं तथात्मनः । एतैरन्यैश्च पथिभिर्म्मनोदुष्टम-
सत्पथम् । बुद्ध्या युञ्जीत शनकैर्जितप्राणोह्यतान्त्रितः । शुचौ
देश प्रतिष्ठाम्प विजितासनआसनम् । तस्मिन् स्वस्तिकमा-
सीन ऋजुकायः समभ्यसेत् । प्राणस्य शोधयेन्मागं पूरकु-
म्भकरेचकैः । प्रतिकूलेन वा चित्तं यथास्थिरमचञ्चलम् ।
मनोऽचिरात् स्याद्विरजं जितश्वासस्य योगिनः । वाय्वग्नि-
भ्यां यथा लोहं ष्मातं त्यजति वै मलम् । प्राणायामैर्द
हेद्दोषान् धारणाभिश्च किल्विषान् । प्रत्याहारेण संसर्गान्
ध्यानेनानीश्वरान् गुणान् । यदा मनः सुविरजं योगेन सु
समाहितम् । काष्ठां भगवतो ध्यायेत् स्वनासाग्रावलोकनः ।
प्रसन्नवदनाम्भोजं पद्मगर्भारुणेक्षणम् । नीलोत्पलदलश्यामं
शङ्खचक्रगदाधरम् । लमत्पङ्कजकिञ्जल्कपीतकौशेयवास-
सम् । श्रीवत्सवक्षसं भ्राजत्कौस्तुभासुक्तकन्धरम् ।
मत्तद्विरेफकलया परीतं वनमालया । परार्द्धहारवलयाकि-
रीटाङ्गदनूपुरम् । काञ्चीगुणोल्लसोच्छ्रोणिं हृदयाम्भोज
विष्टरम् । दर्शनीयतमं शान्तं मनीनयनवर्द्धनम् ।
अपाच्यदर्शनं शश्वत् सर्वलोकगमस्कृतम् । सन्तं वपसि कैशोरे-
भृत्यानुग्रहकातरम् । कार्त्तन्यतीर्थयशसं पुण्यश्लोकयशस्क-
रम् । ध्यायेदेवं समग्राङ्गं यावन्न च्यवते मनः । स्थितं
व्रजन्तमासीनं शयानं वा गुहाशयम् । प्रेक्षणीये हितं
ध्यायेत् शुद्धभावेन चेतसा । तस्मिन् लब्धपदं चित्तं
सर्वावयवसंस्थितम् । विलक्ष्यैकत्र संयुञ्ज्यादङ्गे भगवतो
मुनिः! । सञ्चिन्तयेद्भगवतश्चरणारविन्दं वज्राङ्कुशध्वज-
सरोरुहलाञ्चनाढ्यम् । उत्तुङ्गरक्तविलसन्नखचक्रवाल-
ज्योत्स्नाभिराहतमहद्धृदयान्धकारम् । यच्छौचनिःसृत-
सरित्प्रवरीदकेन तीर्थेन मूर्द्ध्न्यधिकृतेन शिवः शिवोऽभूत् ।
ध्यातुर्म्मनःशमनशैलनिसृष्टवज्रं ध्यायेच्चिरं भगवत
श्चरणारविन्दम् । जानुद्वयं जलजलोचनया जनन्या
लक्ष्म्याखिलस्य सुरवन्दितया विधातुः । ऊर्वो-
र्निधाय करपल्लवरोचिषा यत् संलालितं हृदि विभो-
रभवस्य कुर्य्यात् । ऊरू सुपर्णभुजयोरधिशोभमानावोजो
निधी अतसिकाकुसुमावभासौ । व्यालम्बिपीतवरवाससि
वर्त्तमानकाञ्चीकलापपरिरम्भिनितम्बविम्बम् । नाभीहदं
भुवनकीषगुहोदरस्थं यत्रात्मयोनिधिषणाखिललोकप-
द्मम् । व्यूढं हरिन्मणिवृषस्तनयोरमुष्य ध्यायेत् द्वयं
विशदहारममूढगौरम् । वक्षोधिवासमृषभस्य
महाविभूतेः पुंसां मनोनयननिर्व्वृतिमादधानम् । कण्ठञ्च
कौस्तुभमणेरधिभूषणार्थं कुर्य्यान्मनस्यखिललोकनमस्कृ-
तस्य । बाहूंश्च मन्दरगिरेः परिवर्त्तनेन निर्णिक्तबा-
हुवलयानधिलोकपालान् । संचिन्तयेद्दशशतारमसह्यतेजः
शङ्खञ्च तत् करसरोरुहराजहंसम् । कौमोदकीं भगवतो
दयितां स्मरेत दिग्धामरातिभटशोणितकर्द्दभेन । मालां
मधुव्रतवरूथगिरोपघुष्टां चैत्यस्य तत्त्वममलंमणिमस्य कण्ठे ।
भृत्यानुकम्पितधियेह गृहीतमूर्त्तेः सञ्चिन्तयेद्भगवतोवदना-
रविन्दम् । यद्विस्फुरन्मकरकुण्डलवल्गितेन विद्योतिता-
मलकपोलमुदारलासम् । यत् श्रीनिकेतमणिभिः परिषे-
च्यमानम् भृत्या स्वया कुटिलकुण्डलवृन्दजुष्टम् । मीनद्वया
श्रयमधिक्षिपदब्जनेत्रम् ध्यायेन्मनोमयमतन्त्रितौल्लसद्भ्रु ।
तस्यावलीकमधिकं कृपयाऽतिघोरतापत्रयोपशमनायनिसृ-
ष्टमक्ष्णोः । स्निग्धुस्मितानुगुणितं विपुलप्रसादम् ध्याये-
जिरं विततभावनया गुहायाम् । हासं हरेरवनताखिल-
लोकतीव्रशोकाश्रुसागरविशोषणमित्युदारम् । संमोहनाय
रचितं निजमाययास्य भूमण्डलं मुनिकृते मकरध्वजस्य ।
ध्यानायनं प्रहसितं बहुलाधरोष्ठभासारुणायिततनु-
द्विजकुन्दपंक्ति । ध्यायेत् स्वदद्रुकुहरेव सितस्य विष्णोर्भ-
क्त्यार्द्रयार्पितमना न पृथक् दिवृक्षेत् । एवं हरौ भगवति
पृष्ठ १६६७
प्रतिलब्धभावोभक्त्याद्रवद्धृदय उत्पुलकप्रमोदात् ।
औत्कण्ठ्यवाष्पकलया मुहुरर्द्यमानस्तच्चापि चित्तवडिशं
शनकैर्व्वियुङ्क्ते । मुक्ताश्रयं यदि तु निर्व्विषयं विरक्तं निर्व्वाण
मृच्छति मनःसहसा यथार्च्चेः । आत्मानमत्र पुरुषेऽव्यवधा-
नमेकमन्वीक्षते प्रतिनिवृत्तगुणप्रवाहः । सोऽद्येतया चर
मयामनसोनिवृत्त्या तस्मिन्महिम्न्यवसितः सुखदुःखबाह्ये ।
हेतुत्वमप्यसति कर्त्तरि दुःखयोर्यत्स्वात्मन्! विधत्त
उपलब्धपरात्मकाष्ठः । देहञ्च तन्न चरमः स्थितमुत्थितं वा
सिद्धो विपश्यति यतोऽध्यगमत् स्वरूपम् । दैवादपेतमुत
दैववशादुपेतं वासोयथा परिहृतं मदिरामदान्धः । देहोऽपि
दैववशगः खलु कर्म्म यावत् स्वारम्भकं प्रतिसमीक्षत एव
सासुः । तं सप्रपञ्चमधिरूढसमाधियोगः स्वाप्नं पुनर्न भजते
प्रविबुद्धवस्तु । यथा पुत्राच्च वित्ताच्च पृथङ्मर्त्यः प्रतीयते ।
अप्यात्मत्वेनाभिमताद्देहादेः पुरुषस्तथा । यथोल्मुकाद्वि-
स्फुलिङ्गाद्धूमाद्वापि स्वसम्भवात् । अप्यात्मत्वेनाभिमता-
द्यथाग्निः पृथगुल्मुकात् । भूतेन्द्रियान्तः करणात् प्रधाना-
ज्जीवसंज्ञितात् । आत्मा तथा पृथग्द्रष्टा भगवान् ब्रह्मसं-
ज्ञितः । सर्व्वभूतेषु चात्मानं सर्वभूतानि चत्मनि । ईक्षेता-
नन्यभावेन भूतेष्वपि तदात्मताम् । स्वयोनिषु तथा ज्यो-
तिरेकं नाना प्रतीयते । योनीनां गुणवैषम्यात्
तथात्मा प्रकृतिस्थितः । तस्मादिसां स्वां प्रकृतं देवीं सदसदा
त्मिकाम् । दुविभाव्यां पराभाव्य स्वरूपेणावतिष्ठते” इति
भा० ३ स्क० २८ अ० ।
“देवहूतिरुवाच । लक्षणं महदादीनां प्रकृतेः पुरु-
षस्य च । स्वरूपं लक्ष्यतेऽभीषां येन तत् पारमार्थिकम् ।
यथा सांख्येषु कथितं यन्मूलं तत् प्रचक्षते । भक्तियो-
गस्य मे मार्गं ब्रूहि विस्तरतः प्रभो! । विरागी येन पुरु-
षो भगवन्! सर्वतोभवेत् । आचक्ष्व जीवलोकस्य विविधा
मम संसृतीः । कालस्येश्चररूपस्य परेषाञ्च परण्य ते ।
स्वरूपं वत कुर्बन्ति यद्धेतोः कुशलञ्जनाः । लोकस्य मि
थ्याभिमतेरचक्षुषश्चिरं प्रसुप्तस्य तमस्यानाश्रये । श्रान्त-
स्यं कर्म्मस्वनुवद्ध्या धिया त्वमाविरासीः सिल योगभा-
स्करः । श्रीमैत्रेय उवाच । इति मातुर्वचः श्लक्ष्णं प्रति-
नन्द्य महामुनिः । आनमाषे कुरुश्रेष्ठ! प्रीतस्तां करुणा-
र्द्रितः । श्रीभगवानुवाच । भक्तियोगो बहुबिधोमार्गै
र्भवति! भाव्यते । स्वभावगुणमार्गेण पुंसां भावोविमि-
द्यते । अभिसन्धाय यद्धिंसां दम्भं मात्सर्य्यमेव वा ।
संरम्भी भिद्भद्वग्भावं मयि कुर्य्यात् स तामसः । वि-
षयानभिसन्धाय यश ऐश्वर्य्यमेव वा । अर्च्चादावर्च्चयेद्-
योमां पृथग्भावः स राजसः । कर्म्म निर्हारमुद्दिश्य
परस्मिन् वा तदर्पणम् । यजेत् यष्टव्यमिति वा पृथग्भावः
ससात्विकः । मद्गुणश्रुतिमात्रेण मयि सर्वगुहाशये ।
मनोगतिरविच्छिन्ना यथा गङ्गाम्भसोऽम्बुधौ । लक्षणं
भक्तियोगस्य निर्गुणस्य ह्युदाहृतम् । अहैतुक्यव्यवहि-
ता या भक्तिः पुरुषोत्तमे । सालोक्यसार्ष्टिसामीप्यसा-
रूप्यैकत्वमप्युत । दीयमानं न गृह्णन्ति विना मत्सेवनञ्ज-
नाः । सएव भक्तियोगाख्य आत्यन्तिक उदाहृतः ।
येनातिव्रज्य त्रिगुणां मद्भावायोपपद्यते । निषेविता
निमित्तेन स्वधर्म्मेण महीयसा । क्रियायोगेन शस्तेन
नातिहिंस्रेण नित्यशः । मद्धिष्ण्यदर्शनस्पर्शपूजास्तुतिनि-
बन्धनैः । भूतेषु मद्भावनया सत्वेनासङ्गमेन च । महतां
बहुमानेन दीनानामनुकम्पया । मैत्र्या चैवात्मतुल्येषु यमेन
नियमेन च । आध्यात्मिकानुश्रवणान्नामसंकीर्त्तनाच्च मे ।
आर्जवेनार्य्यसङ्गेन निरहङ्क्रियया तथा । मद्धर्म्मणो गुणै-
रेतैः परिसंशुद्धआशयः । पुरुषस्याञ्जसाभ्येति श्रुतिमात्र-
गुणं हि माम् । यथा वातरथोघ्राणमावृङ्क्ते गन्धआशयात् ।
एवं योगरतं चेत आत्मानमविकारि तत् । अहं सर्वेषु
मूतेषु भूतात्मावस्थितः सदा । तमवज्ञाय मां मत्युः कुरुतेऽ-
र्च्चाविडम्बनम् । यो मां सर्वेषु भूतेषु सन्तमात्पानमीश्वरम् ।
हित्वार्च्चां भजते मौढ्यात् भस्मन्येव जुहोति सः । द्वि-
षतः परकाये मां मानिनो भिन्नदर्शिनः । भूतेषु बद्धवैर-
स्य न मनः शान्तिमृच्छति । अहमुच्चावचैद्रव्यैः क्रिययोत्
पश्नयाऽनधे! । नैव तुष्येऽर्चितोऽर्चायां भूतग्रामावमानिनः ।
अर्चादावर्चयेत्तावदीश्वरं मां स्वकर्मकृत् । यावन्न वेद स्वहृ-
दि सर्वभूतेष्ववस्थितम् । आत्मनश्च परस्यापि यः करोत्यन्त-
रोदरम् । तस्य भिन्नदृशोमृत्युर्विदधे भयमुल्वणम् । अथ
मां सर्वभूतेषु भूतात्मानं कृतालयम् । अर्हथेद्दानमानाभ्यां
मैत्र्यभित्रेन चक्षुषा । जीवाः श्रेष्ठाह्यजीवानां ततः प्रा-
णभृतः शुभे । ततः सचित्ताः प्रवराः ततश्चेन्द्रियवृत्तयः ।
तत्रापि स्पर्शवेदिभ्यः प्रवरा रसवेदिनः । तेभ्यो गन्धविदः
श्रेष्ठास्ततः शब्दविढोवराः । रूपभेदविदस्तत्र ततश्चोभयतो-
दतः । तेषां बहुपदाः श्रेष्ठाश्चतुष्पादस्ततोद्विपात् ।
ततो वर्णाश्च चत्वारस्तेषां ब्राह्मण उत्तमः । ब्राह्मणेप्यपि
वेदज्ञोह्यर्थज्ञोऽभ्यधिकस्ततः । अर्थज्ञात् संशयच्छेत्ता ततः
श्रेयान् स्वकर्मकृत् । मुक्तसङ्गस्ततोभूयान् दोग्धान धर्ममात्मनः
तस्मिन्मय्यर्पिताशेषक्रियार्थात्मा निरन्तरः । मय्यर्षितात्मनः
पृष्ठ १६६८
पुंसोमयि संन्यस्तकर्मणः । न पश्यामि परं भूतमकर्त्तुः
समदर्शनात् । मनसैतानि भूतानि प्रणमेद्बहु मानयन् ।
ईश्वरो जीवकलया प्रविष्टो भगवानिति । भक्तियोगश्च
योगश्च मया मानव्युदीरितः । ययोरेकतरेणैव पुरुषः पूरुषं
ब्रजेत् । एतद्भगवतोरूपं व्रह्मणः परमात्मनः । परं
प्रधामं पुरुषं दैवं कर्म विचेष्टितम् । रूपभेदास्पदं दिव्यं
काल इत्यभिधीयते । भूतानां महदादीनां यतोभिन्नदृशां
भयम् । योऽन्तः प्रविश्य भूतानि मूतैरत्त्यखिलाश्रयः ।
सविष्ण्वाख्योऽधियज्ञोऽसौ कालः कलयतां प्रभुः । नचास्यक-
श्चिद्दयितो न द्वेष्यो न च बान्धवः । आविशत्यप्रमत्तोऽसौ
प्रमत्तजनमन्तकृत् । यद्भयाद्वाति वातोऽयं सूर्य्यस्तपति यद्भ-
यात् । यद्भयाद्वर्षते देवो भगणो भाति यद्भयात् । यद्वन-
खतयोभीता लताश्चोषधिभिः सह । स्वे स्वे कालेऽ-
भिगृह्णन्ति पुष्पाणि च फलानि च । स्रवन्ति सरितो
भीतानोत्सर्पत्युदधिर्यतः । अग्निरिन्धे सगिरिभिर्भूर्न मज्जति
यद्भयात् । अदोददाति श्वसतां पदं यन्नियमान्नमः । लोकं
स्वदेहं तनुते महान् सप्तभिरावृतम् । गुणाभिमानिनो
देवाः सर्गादिष्वस्य यद्भयात् । वर्त्तन्तेऽनुयुगं येषां वश
एतच्चरारम् । सोऽमन्तोऽन्तकरः कालोऽनादिरादिकृदव्ययः ।
जनञ्जनेन जनयन् मारयन् मृत्युनान्तकम्” भाग० २९ अ० ।
भगवदवतार एव कपिलः सगरसन्ततीर्हुङ्कारेण भस्मीचकार
यथोक्तं रामा० आ० ४० अ० “यस्येयं वसुधा कृत्स्ना
वासुदेवस्य धीमतः । महिषी माधवस्यैषा स एष भगवान्
प्रभुः । कापिलं रूपमास्थाय धारयत्यनिशं धराम् ।
तस्य कोपाग्निना दग्धा भविष्यन्ति नृपात्मजाः । पृथिव्या-
श्चापि निर्भेदो दृष्ट एव सनातनः । सगरस्य च पुत्राणां
विनाशोऽदीर्घदर्शिनाम्” इति ब्रह्मवाक्यमुपवर्ण्य रामं प्रति
विश्वामित्रेणोक्तम् । “ततः प्रागुत्तरां गत्वा सागराः
प्रथितां दिशम् । रोषादत्यखनन् सर्वे पृथिवीं सगरात्मजाः ।
ते तु सर्वे महात्म नो भीमवेगाः महावलाः । ददृशुः
कपिलं तत्र वासुदेवं सनातनम् । हयञ्च तस्य देवस्य चरन्त
सविदूरतः । प्रहर्षमतुलं प्राप्ताः सर्वेते रघुनन्दन! ।
ते तं यज्ञहनं ज्ञात्वा क्रोधपर्य्याकुलेक्षणाः । खनित्र-
लाङ्गलधरा नानावृक्षशिलाधराः । अभ्यधावन्त संक्रुद्धा-
स्तिष्ठतिष्ठेति चाव्रुपन् । अन्माकं त्वं हि तुरगं यज्ञियं
हृतवानांस । दुर्नेधस्त्रं हि संपाप्तान् धिद्धि नः सगरा-
त्मजान् । श्रुत्वा तद्वचनं तेषां कपिलो रधुनन्दन! ।
रोषेण महताविष्टो हुङ्कारमकरोम्भुनिः । ततस्तेनाप्रमेयेण
कपिलेन महात्मना । भस्मराशीकृताः सर्वे काकुत्स्थ!
सगरात्मजाः” । अत्र प्रागुत्तरामिति भूमध्यस्थलङ्कापेक्षया
तत्स्थानस्य तथात्वात् । वस्तुतः सिद्धेशः कपिलोऽपि
भगवदवतारसवः । “पञ्चमे कपिलो नाम सिद्धेशः
कालविप्लुतम् । प्रोवाचासुरये सांख्यं तत्त्वग्रामविनिर्ण्णयम्”
भा० १, ३, ११ उक्तेः “सिद्धानां कपिलो मुनिः”
गीतोक्तेश्च अग्न्यवतारकथनन्तु कल्पभेदाभिप्रायमित्य-
विरोधः । स च प्रत्यहं तपेणियर्षिभेदः “सनकश्च
सनन्दश्च तृतीयश्च सनातनः । कपिलश्चासुरिश्चैव
वोढुः पञ्चशिखस्तथा” ब्रह्मपु० तर्पणमन्त्रलिङ्गात् ।
“कपिलः पिङ्गलः पिङ्गः” इत्यमरे पिङ्गलक-
पिलयोः पर्य्यायत्वेऽपि तयोरीषद्भेदोऽस्त्येव
अतएव सुश्रुते “अत ऊर्द्ध्वं व्रणवर्णान् वक्ष्याम् इत्यु-
पक्रम्य नीलः पीतः हरितः श्यामः कर्वुरः कृष्णः
रक्तः कपिलः पिङ्गलः इति कपिलपिङ्गलयोर्भे-
देन निर्देशः । “वाताय कपिला विद्युत्” सि० कौ० ।
८ सुश्रुतोक्ते भूषिकभेदे “पूर्व्वमुक्ताः शुक्रविषा
मूषिका ये समासतः । नामलक्षणभैषज्यैरष्टादश निबोध
मे । लालनः पुत्रक इत्यादिना “श्वेतेन महता सार्धं
कपिलेनाखुना तथेति विभज्य! तद्दंशोपद्रवचिकित्सा
तत्रोक्ता यथा “कपिलेन व्रणकोथो ज्वरो ग्रन्थ्युद्गमस्तथा ।
क्षौद्रेण लिह्यात्त्रिफलां श्वेतां चापि पुनर्णवाम्”
सुश्रुतोक्ते ९ लूताभेदे स्त्री यथा ।
“विश्वामित्रो नृपवरः कदाविदृषिसत्तमम् । वशिष्ठं
कोपयामास गत्वाश्रमपदं किल । कुपितस्य मुनेस्तस्य
ललाटात्स्वेदविन्दवः । अपतन्दर्शनादेवमधस्तात्तीत्त्स्णवर्च्चसः ।
लूने तृणे महर्षीणां धेन्वर्थं सम्भृतेऽपि च । ततो
जातास्त्विमा घोरा नानारूपा महाविषाः । अपका-
राय वर्त्तन्ते नृपसाधनवाहने । यस्माल्लूनंतृणं प्राप्ता
मुनेः प्रस्वेदविन्दवः । तस्नाल्लूतेति भाव्यन्ते सङ्ख्यया
ताश्च षोडश । कृच्छ्रसाध्यास्तथाऽसाध्या लूताश्च द्विविधाः
स्मृताः । तासामष्टौ कृच्छ्रसाध्या वर्ज्यास्तावत्य एव तु ।
त्रिमण्डला तथा श्वेता कपिला पीतिका तथा ।
आलमूत्रविषा रक्ता कसना चाष्टमी स्मृता । ताभिर्दष्टे
शिरोदुः खं कण्डूर्दंशे च वेदना । भवन्ति च विशेषेण
गदाः श्लैष्मिकयातिकाः । सौवर्णिका स्वाजावर्णा जालिन्ये-
णीपदी तथा । कृष्णाग्निवर्णा काकाण्डा मालागुणाष्टमो
स्मृता । ताभिर्दष्टे दंशकोथः प्रवृत्तिः क्षतजस्य च । ज्वरो-
पृष्ठ १६६९
दाहोऽतिसारश्च गदाःस्युश्च त्रिदोषजाः । पिडका विवि-
धाकारा मण्डलानि महान्ति च । शोफा महान्तो मृदवो
रक्ताःश्यावाश्चलास्तथा । सामान्यं सर्वलूतानामेतदादंश-
लक्षणम् । विशेषणक्षणं तासां वक्ष्यामि सचिकित्सितम्”
इत्युपक्रम्य “आदंशे पिडका ताम्रा कपिलायाः स्थिरा
भवेत् । शिरसो गौरवं दाहस्तिमिरं भयमेव च” १० गोवि-
शेषे स्त्री कपिलादानशब्दे विवृतिः । कपिलानां नरश्रेष्ठ ।
शतस्य फलमश्नुते” भा० व० ८३ अ० । “क्षत्रियश्चैव वृत्त-
स्थो वैश्यः शूद्रोऽथ वा पुनः । यः पिबेत् कपिलाक्षीरं
न ततोऽन्योऽस्त्यपुण्यकृत्” प्रा० वि० आप० । “कापिलं यः
पिबेच्छूद्रो नरकेण विपच्यते” प्रा० वि० भवि० पु० तत्र
शूद्रस्य कपिलाक्षीरपाणं महापातकं तत्पाननिषेधस्तु
क्षत्रियवैश्ययोपीति भेदः । ११ नदीभेदे स्त्रो “कज्जला-
चलशैलात्तु पूर्वस्मिन् शुभपर्वतः । शच्या सह पुरा रेमे
यत्र शक्रः सुरेश्वरः । तत्पूर्वस्यां महादेवि! नदी
कपिलसंज्ञिता । तां च स्नात्वा नरोगङ्गास्नानजं
फलमाप्नुयात्” कालिपु० ८१ अ० १२ कपिलपुष्मायां शिंश-
पायां स्त्री राजनि० । १३ रेणुकाणामगन्धद्रव्ये १४ पुण्ड-
रीकदिग्गजस्त्रियाञ्च हारा० १५ गृहकन्यायां १६ शिंशपा-
मात्रे १७ राजनीतो च स्त्री राजनि० । कपिलवर्ण्णायां
स्त्रियां तु टाबेव वर्ण्णवाचित्वेऽपि अनुदात्तत्वाभावात्
“नोद्वहेत कपिलां कन्याम्” मनुः कुक्कुरजातिस्त्रियान्तु
जातित्वात् ङीष् । कूर्म्मविभागे नैरृतदिक्स्थे १८
देशभेदे पु० “नैरृत्यां दिशि देशाः” इत्युपक्रन्य “कपिलना-
रेमुखानर्त्ताः” इति वृह० सं० । अत्र कपिलनारीमुख
इत्येकं नाम इत्यन्ये ।

कपिलक त्रि० सौ० कप--इरन् स्वार्थे करस्य लः । कम्पान्विते ।

कपिलकादि पु० पाणिन्युक्ते रकारस्थाने लकारादेशनि-

मित्ते शब्दगणै स च गणः कपिलक निर्वीलक लो
मानि पांशुल काल शुक्त कपिलिका तर्पिलिका तर्पिलि” ।
यथा कपिरक + कपिलक एवं निर्वीरक + निर्वीलक इत्यादि ।

कपिलद्युति पु० कपिला द्युतिरस्य । १ सूर्य्येशब्दच० । कर्म्म०

२ कपिलायां द्युती स्त्री ।

कपिलद्राक्षा स्त्री कपिला द्राक्षा । द्राक्षाभेदे राजनि०

कपिलद्रुम पु० कर्म्म० । काक्षीनामसुगन्धिहेतुवृक्षे शब्दच० ।

कपिलधारा स्त्री कपिलेव शुद्धा धारा यस्याः संज्ञात्वात् “ङापो-

रिति” पा० ह्रस्वः । १ गङ्गायां हेमच० । कपिलानां तदीय-
दग्धानां धारा संज्ञायां “ङ्यापोरिति” पा० ह्रस्वः । २ कपि-
लादीनां दुग्धधारायां ३ तत्कृते काश्या उत्तरसौ मास्थे
तीर्थभेदे च उपचारात् तयोरभेदात् । तदाविर्भावादि
काशी० ६२ अ० । “एतस्मिन्नन्तरे प्राप्ता गोलोकात् पञ्च धेनवः ।
सुनन्दा सुमनाश्चापि सुशीला सुरभिस्तथा । पञ्चमी कपिला
चापि सर्व्वाघौघविघट्टिनी । वात्सल्यदृष्ट्या गर्भस्य तासामू-
धांसि सुस्नुवुः । ववर्षुः पयसां पूरैस्तदूधांसि पयोधराः ।
धारासारैरविच्छिन्नस्तावद्यावध्रदोऽभयत् । पयःपयो-
धिरिव स द्वितीयः प्रैक्षि पार्श्वदैः । देवेशसमधिष्ठानात्तत्-
तीर्थमभवत् परम् । कपिलाहृद इत्याख्यां चक्रे तस्य
महेश्वरः । ततो देवाज्ञया सर्व्वे स्नातास्तत्र दिवौकसः ।
आविरासुस्ततस्तीर्थादथ दिव्यपितामहाः । तान् दृष्ट्वा ते सुराः
सर्व्वे तर्पयाञ्चक्रिरे मुदा । अग्निष्वात्ता बर्हिषद आज्यपाः
सोमपास्तथा । इत्याद्यादिव्यपितरस्तृप्ताः शम्भुं व्यजिज्ञ-
पन् । देवदेव! जगन्नाथ! भक्तानामभयप्रद । अस्मिंस्तीर्थे
त्वदभ्यासाज्जाता नस्तृप्तिरक्षया । तस्माच्छम्भो! वरं
देहि प्रसन्नेनान्तरात्मना । इति दिव्यपितॄणां स श्रुत्वा वाक्यं
वृषध्वजः । शृण्वतां सर्वदेवानामिदं वचनमब्रवीत् । सर्वः,
सर्तपितॄणां वै परं तृप्तिकरं परम् । श्रीदेवदेवौवाच । शृणु
विष्णो! महावाहो! शृणु त्वं च पितामह! । एतस्मिन्
कापिले तीर्थे कापिलेयपयोभृते । ये पिण्डान् निर्वपिष्यन्ति
श्रद्धया श्राद्धदा नराः । तेषां पितॄणां सन्तृप्तिर्भविष्यति म
माज्ञया । अन्यं विशेषं वक्ष्यामि महातृप्तिकरं परम् ।
कूहूसोमसमायोगे दत्तं श्राद्धमिहाक्षयम् । संवर्त्तकाले-
संप्राप्ते जलराशिजलान्यपि । क्षीयन्ते न क्षयं श्राद्धं याति
सोमकूहूकृतम् । अमासोमसमायोगे श्राद्धं यद्यत्र लभ्यते ।
तीर्थेकापिलधारेऽस्मिन् मयया पुव्करेण किम् । गदाधृक्
भगशन् यत्र यत्र त्वं चपितामह! । वृपध्वजोऽस्म्यहंयत्र
फल्मुस्तत्र न संशयः । दिव्यान्तरीक्षभौमानि यानि तीर्थानि
सर्व्वतः । तान्यत्र निवसिष्यन्ति दर्शे सोमदिनान्विते ।
कुरुक्षेत्रे नैमिधे च गङ्गासाभरसङ्गमे । ग्रहणे श्राद्धतोयत्
स्यात्तत्तीर्थे वार्षभध्वजे । अस्य तीर्थस्य नामानि यानि दिव्य
पितामहाः! । तान्यहं कथयिष्यानि भवतां तृप्तिदान्यलम् ।
मधुस्रवेति प्रघग्रमेषा पुष्करिणी मता । घृतकुल्या
ततोज्ञेया ततोऽणी क्षीरनीरधिः । वृषभध्वजतीर्थञ्च तीर्थं
पैतामहं ततः । ततो गदाधराख्यं च पितृतीर्थं
ततः परम् । सतः कापिलधारं वै सुधाखनिरियं पुनः ।
ततः शिवगयाख्यं च ज्ञेयं तीर्थमिदं शुभम् । एतानि दश
नामानि तीर्थस्यास्य पितामहा । भवतां तृप्तिकारीणि वि-
पृष्ठ १६७०
नापि श्राद्धतर्पणैः । सूर्य्येन्दुसङ्गमे यत्र पितॄणां तृप्तिका-
रकाः । ब्राह्मणान् मोजयिष्यन्ति तेषां श्राद्धमनन्तकम् ।
श्राद्धे पितॄणां संतृप्त्यै दास्यन्ति कपिलां शुभाम् । येऽत्र,
तेषां पितृगणोवसेत् क्षीरोदरोधसि । वृषोत्सर्गः कृतोयैस्तु-
तीर्थेऽस्मित् वृषभध्वजे । अश्वमेधपुरोडाशैः पितरस्तैस्तु
तर्पिताः । गयातोऽष्टगुणं पुण्यं अस्मिंस्तीर्थे पितामहाः ।
अमायां सोमयुक्तायां श्राद्धैः कापिलधारिके । येषां
गर्भेऽभवत् स्रावोये दन्तजननान्मृताः । तेषां तृप्तिर्भवेन्नूनं
तीर्थे कापिलधारिके । अवृत्तमोञ्जीदामानो ये वाऽदार
परिग्रहाः । तेभ्योनिर्वपितं पिण्डमिह ह्यक्षयतां व्रजेत् ।
अग्निदाहे मृताये वै नाग्निदाहश्च येषु वै । ते सर्वेतृप्ति-
मायान्ति तीर्थे कापिलधारिके । और्द्ध्वदेहिकहीनाये
षोडशभ्राद्धवर्ज्जिताः । ते तृप्तिमधिगच्छन्ति घृतकुल्यां नि
वापिताः । अपुत्राश्च मृताये वै येषां नास्त्युदकप्रदः । ते
ऽपि तृप्तिं परां यान्ति मधुस्रवसि तर्पिताः । अपमृत्युमृता-
ये वै चौरविद्युज्जलादिभिः । तेषामिह कृतं श्राद्धं जायते
सुगतिप्रदम् । आत्मघातेन निधनं येषामिह विकर्म्मिणाम् ।
तेऽपि तृप्तिं लभन्तेऽत्र पिण्डैः शिवगयाकृतैः । पितृगोत्रे
मृता ये वै मातृपक्षे च ये मृताः । तेषामत्र कृतःपिण्डो-
भवेदक्षयतृप्तिदः । पत्नीवर्गे मृताये वै मित्रवर्गे च ये
मृताः । ते सर्व्वे तृप्तिमायान्ति तर्पिता वार्षभध्वजे ।
ब्रह्मक्षेत्रविशां वंशे शूद्रबंशेऽन्त्यजेषु च । येषां नाम
गृहीत्वा यद्दीयते ते समुद्धृताः । तिर्य्यग्योनिश्रिताये वै
ये पिशाचत्वमागताः । तेऽप्यूर्द्धगतिमयान्ति तृप्ताः
कापिलधारिके । ये तु मानुषलोकेऽस्मिन् पितरोमर्त्य-
योनयः । ते दिव्ययोनयः स्युर्वै मधुस्रवसि तपिताः ।
ये दिव्यलोके पितरः पुण्यैर्देवत्वमागताः । ते ब्रह्मलोके
गच्छन्ति तृप्तास्तीर्थे वृषध्वजे । कृते क्षीरमयं तीर्थं त्रे-
तायां मधुमत् पुनः । द्वापरे सर्पिषा पूर्ण्णं कलौ जलमयं
भयेत् । सीमावहिर्गतमपि ज्ञेयं तीर्थमिदं शुभम् । मध्ये-
वाराणसि श्रेष्ठं मम सान्निध्यतो नरैः । काशीख्यितैर्यतोऽ-
दर्शि ध्यजोमे वृषलाञ्जनः । वृषध्वजेन नाम्नातः स्थास्य-
न्त्यत्र पितामहाः । पितामहेन सहितो गदाधरसमन्वितः ।
रविणा पार्षदैः सार्द्धं तिष्टामोऽत्र पितामहाः”! ।
कापिलधारिककापिलघारादयोऽप्यत्र ।

कपिलफला स्त्री कपिलं फलमस्याः । द्राक्षाभेदे राजनि० ।

कपिलशिंशपा स्त्री कर्म० । पीतपुष्पयुतायां शिंशपायाम्

राजनि० । रक्तपीतमिश्रितवर्णस्य पिङ्गलतया पीता-
धिक्यवर्ण मात्रपरतया पीतपुष्पायां वृत्तिरिति बोघ्यम् ।

कपिलस्मृति स्त्री कपिलप्रणीता स्मृतिः । “अथ त्रिविधदुः-

खात्यन्तनिवृत्तिरत्यन्तपुरुषार्थः” इत्यादिके षडध्यायीरूपे
सांख्यशास्त्रे तस्य शास्त्रस्य च स्मृतित्वं वेदार्थानुभवपूर्ब्बकं
मुनिप्रणीतत्वात् अतएव “स्मृत्यनवकाशदोषप्रसङ्ग इत्यादि
शा० सू० भाष्ये कपिलस्मृतेरनवकाशदोषमाशङ्क्य
मानवादिस्मृत्यन्तरानवकाशदोषात् साङ्ख्यमतं प्रत्याख्यातम्
“असङ्गोऽयं पुरुष” इत्यादिष्वेव तस्य शास्त्रस्य साका-
शत्वेन न निरवकाशत्वमिति व्यवस्थापितञ्च ।

कपिलाक्षी स्त्री कपिलमक्षि इव पुष्पमस्याः । १ पीतपुष्पायां

शिंशपायाम् २ मुर्गेर्वारौ च राजनि० ।

कपिलाचार्य्य पु० कर्म० । विष्णौ । “महर्षिः कपिलाचार्य्य

कृतज्ञोमेदिनीपतिः” वि० स० । “महर्षिः कपिलाचुर्य्य इति
सविशेषणमेकं नाम । महांश्चासौ ऋषिश्चेति महर्षिः
कृत्स्नस्य वेदस्य दर्शनात् कपिलश्चासौ आचार्य्यश्चेति
सांख्यञ्च शुद्धात्मतत्त्वज्ञानम् “शुद्धात्म तत्त्वविज्ञानं
साङ्ख्यम्” इत्यभिधीयते इति व्यामस्मृतेः । “ऋषिं
प्रसूतं कपिलं महान्तमिति” श्रुतेः । “सिद्धानां
कपिलोमुनिरिति” स्मृतेश्च तस्य तथात्वम्” भा० ।

कपिलातीर्थ न० कुरुक्षेत्रस्थे तीर्थमेदे । कुरुक्षेत्रमुप-

क्रम्य रामह्रदादिषु स्राननमुक्त्वा । “कपिलातीर्थमासाद्य
ब्रह्मचारी समाहितः । तत्र स्नात्वार्चयित्वा च पितॄन्
स्वान् दैवतान्यपि । कपिलानां सहस्रस्य कलं विन्दति
मानवः” भा० व० ८३ ।

कपिलाश्व पु० कपिलरूपेणाश्वहरणात् कपिलवर्ण्णाश्वयोगाच्च इन्द्रे । त्रिका० ।

कपिलादान न० ६ त० वक्ष्यमाणविधिना कपिलायाः गीर्दाने

तद्विधानादि हेमा० दा० आदित्यपु० । “कपिलां ये प्रयच्छन्ति
चेलच्छन्नां स्वलङ्कृताम् । स्वर्णशृङ्गीं रौप्यखुरां मुक्ताता-
ङ्गूल भूषिताम् । श्वेतवस्त्रपरिच्छन्नां घण्टास्वनरवैर्युताम् ।
(घण्टास्वनरवैर्घण्टाशब्दकोलाहलैः) । “सहस्रं योगवां
दत्ते कपिलां चापि सुव्रतः । सममेव तयोः पुण्य प्राह
ब्रह्मविदांवर! । यावन्ति रोमकूपाणि कपिलाङ्गे भवन्ति
हि । तावत्कोटिसहस्राणि वर्षाणां दिवि मोदते ।
“रुक्मशृङ्गीं रौप्यस्व्वुरां मुक्तालाङ्गूलभूषिताम् । कांस्यो-
पदोहनां धेनुं वस्त्रच्छन्नामलङ्कृताम् । दत्त्वाद्विजेन्द्राय
नरः स्वर्गलोके महीयते । दशधेनुप्रदानेन तुल्यैका
कपिला मता” याज्ञवल्क्यः “हेमशृङ्गी शफैरौप्यैः सुशीला
वस्त्रसंथुता । सकांस्यपात्रा दातव्या क्षीरिणी गौः सद-
पृष्ठ १६७१
क्षिणा । दातास्याः स्वर्गमाप्नोति वत्सरान् रोमसंमितान् ।
कपिला पुनस्तारयति भूयस्त्वासप्तमं कुलम्” व्यासः “रुक्म-
शृङ्गीं रौप्यखुरां वस्त्रकांस्योपदोहनाम् । सवत्सां कपिलां
दत्त्वा वंशान् सप्तसमुद्धरेत् । यावन्ति तस्या रोमाणि सवत्सा-
था भवन्ति हि । मुरभीलोकमासाद्य रमते तावतीः समाः” ।
लोकोत्तरे “घण्टाचामरसंयुक्ता किंकिणीजालमण्डिता ।
दिव्यवस्त्रसमायुक्ता हेमदर्पणभूषिता । पयस्विनी सुशीला
च तरुणी वत्सकान्विता । कपिलैवं प्रदातव्या शिवस्याग्रे
विधानतः” दानमन्त्रस्तु मत्स्यपुराणे “कपिले! सर्वभूतानां
पूजनीयाऽसि रोहिणी । तीर्थदेवमयो यस्मादतः शान्तिं
प्रयच्छ मे” इति । रोहितवर्ण्णाधिक्यात् रोहिणी ।
स्वर्ण्णशृङ्गादिमानमुक्तम् हे० दा० कूर्म्मपु०
“दशसौवर्ण्णिके शृङ्गे स्वुराः पञ्चपलान्विताः । पञ्चाशत्प-
लिकं ताम्रं कांस्य चैतावदेव तु । वस्त्रन्तु त्रिगुणं धेन्वा
दक्षिणा च चतुर्गुणा । एतैरलङ्कृतां धेनुं घण्टाभरणभू-
षिताम् । कपिलां विप्रमुख्याय दत्त्वा मोक्षमबाप्नुयात् ।
द्विगुणोपस्करोपेता महती कपिला स्मृता । दत्ता सा विप्र-
मुख्याय स्वर्गमोक्षफलप्रदा । सप्तजन्मकृतात् पापान्मुच्यते
दश संयुतः । यान् यान् प्रार्थयते कामांस्तांस्तान् प्राप्नोति
मानवः । अन्ते स्वर्गापवर्गौच फलमाप्नोति संयतः” । २
समानवर्ण्णवत्ससहितकपिलधेनुदाने च “समान वत् सां कपिलां
धेनुं दत्त्वा पयस्विनीम् । सुव्रतां वस्त्रसपन्नाम् ब्रह्मलोके
महीयते” हेमाद्रिदा० भारतवाक्यम्

कपिलावट पु० कपिलया गोलकस्थया कृतोऽवटः गर्त्तः । गङ्गा-

द्वारसमीपस्थे तीर्थभेदे । कनखलतीर्थमुक्त्वा “कपिलावटं
ततोगच्छेत्” भा० व० अ० ।

कपिलाह्रद पु० कपिलाभिः कृतो ह्रदः । काश्या उत्तरसी-

मास्थे तीर्थभेदे कपिलधाराशब्दे विवृतिः । “ततोवारणसीं
गत्वा अर्च्चयित्वा वृषध्वजम् । कपिलाह्रदे नरः स्नात्वा
राजसूयमवाप्नुयात्” भा० व० ८४ अ० ।

कपिलिका स्त्री कपिला + संज्ञायां अत इत्त्वम् । शतपदी-

भेदे । (काण्डाइ) “शतपद्यस्तु वरुषा कृष्णा चित्रा
कपिलिका पीतिका रक्ता श्वेता अग्निप्रभा इत्यष्टौ” सुश्रु०

कपिलेश न० कपिलेन प्रतिष्ठापितमीशलिङ्गम् शा० त० ।

काशीस्थे शिवलिङ्गभेदे “कपिलेशं महालिङ्गं
कपिलेन प्रतिष्ठितम् । मुच्यन्ते कपयोऽप्यस्य दर्शनात् किमु-
मानवाः” काशीख० प्रतिष्ठितं प्रतिष्ठापितमन्तर्भूतण्यर्थत्वात् ।

कपिलोमन्(मा) स्त्री कपेर्लोमेव खोम मञ्जरी अस्याममनन्त-

त्वात् वा डाप् । रेणुकानामकगन्धद्रव्ये राजनि० ।

कपिलोमफला स्त्री कपिलोमन्यपि फलति कण्डूदानाय प्रभवति

फल--अच् । (आल्कुशी) शूकशिम्ब्याम् राजनि० ।

कपिलोह न० कपिवर्ण्णं पिङ्गलं लोहं धातुः । पित्तले ।

हेमच० ।

कपिल्लिका स्त्री कपिः कपिवर्णा वल्लिका पृषो० । गजपिण्पल्याम् रत्नमा० ।

कपिवक्त्र पु० कपेर्वक्त्रमेव वक्त्रमस्य । नारदे त्रिका० ।

पर्वतषिशापाच्चास्य तथात्वम् यथाह भा० शा० ३० अ० ।
“नारदः पर्व्वतश्चैव द्वावृषी लोकसत्तमौ । मातुलो भागि-
नेयश्च देवलोकादिहागतौ । विहर्त्तुकामौ सम्प्रीत्या मानुषेषु
पुस विभो! । हविःपवित्रभोज्येन देवभोज्येन चैव हि ।
नारदो मातुलश्चैव भागिनेयश्च पर्व्वतः । तावुभौ
तपसोपेताववनीतलचारिणौ । भुञ्जानौ मानुषान् भोगान्
यथावत्पर्य्यधावताम् । प्रीतिमन्तौ मुदा युक्तौ समयञ्चैव
चक्रतुः । यो मवेद्धृदि सङ्कल्पः शुभो वा यदि वाऽशुभः ।
अन्योन्यस्य स आख्येयो मृषा शापोऽन्यथा भवेत् । तौ
तथेति प्रतिज्ञाय महर्षी लोकपूजितौ । सृञ्जयं श्वैत्य-
मभ्येत्य राजानमिदमूचतुः । आवां भवति वत्स्यावः
कञ्चित्कालं हिताय ते । यथावत् पृथिवीपाल! आवयोः
प्रगुणीभव । तथैव कृत्वा राजा तौ सत्कृत्योपचचार ह ।
ततः कदाचित्तौ राजा महात्मानौ तपोधनौ । अब्रवीत्प-
रमप्रीतः सुतेयं वरवर्णिनी । एकैव मम कन्या या सा वां
परिचरिष्यति । दर्शनीयाऽनवद्याङ्गी शीलवृत्तसमाहिता ।
सुकुमारी कुमारी च पद्मकिञ्जल्कसुप्रभा । परमं सौम्य-
मित्युक्त ताभ्यां राजा शशास ताम् । कन्ये! विप्रावुप-
चर देववत्पितृवच्च ह । सा तु कन्या तथेत्युक्त्वा पितरं धर्म्म-
चारिणी । तथा निदेशं राज्ञस्तौ सत्कृत्योपचचार ह ।
तस्यास्तेनोपचारेण रूपेणाप्रतिमेन च । नारदं हृच्छयस्तूणं
सहसैवाभ्यपद्यत । ववृधेहि ततस्तस्य हृदि कामो महात्म-
नः । यथा शुक्लस्य पक्षस्य प्रवृत्तौ चद्रमाः शनैः । न
च तम्भागिनेयाय पर्व्वताय महात्मने । शशंस हृदयन्तीव्रं व्रीड-
मानः स धर्मवित् । तपसा चेङ्गितैश्चैव पर्वतोऽथ बुबो-
ध तम् । कामार्त्तन्नारदं क्रुद्धः शशापैनन्ततो भृशम् ।
कृत्वा समयमव्यग्रो भवान्वै सहितो मया । यो
भवेद्धृदि सङ्कल्पः शुमो वा यदि वाऽशुभः । अन्योन्यस्य ल
आख्येय इति तद्वै मृषा कृतम् । भवता वचनं ब्रह्मं-
स्तस्मादेष शपाम्यहम् । न हि कामं प्रवर्त्तन्तं भवाना-
चष्ट मे पुरा । सुकुमार्य्यां कुमार्य्यां ते तस्मादेष शपा-
पृष्ठ १६७२
म्यहम् । ब्रह्मचारी गुरुर्य्यस्मात्तपखी ब्राह्मणश्च सन् ।
अकार्षीत्समयभ्रं शमावाभ्यां यः कृतो मिथः । शप्स्ये
तस्मात्सुसंक्रुद्धो भवन्तं तं निबोध मे । सुकुमारी च तेर्
भार्य्या भविष्यति न संशयः । वानरञ्चैब ते रूपं विवा-
हात्प्रभृति प्रभो! । संद्रक्ष्यन्ति नराश्चान्ये स्वरूपेण विना-
ननम् । स तद्वाक्यन्तु विज्ञाय नारदः पर्ब्बतं तथा ।
अशपत्तमपि क्रोधाद्भागिनेयंस मातुलः । तपसाब्रह्मचर्य्येण
सत्येन च दमेन च । युक्तोऽपि नित्यधर्म्मश्च न वै स्वर्गम-
वाप्स्यसि । तौ तु शत्या भृशं क्रुद्धो परस्परममर्षणौ ।
प्रतिजग्मतुरन्योन्यं क्रुद्धाविव गजोत्तमौ । पर्व्वतः
पृथिवीं कृत्स्नां विचचार महामतिः । पूज्यमानो
यथान्यायं तेजसा स्वेन भारत! । अथ तामलभत्कन्यां
नारदः सृञ्जयात्मजाम् । धर्म्मेण विप्रप्रवरः सुकुमारोमनि-
न्दिताम् । सा तु कन्या यथाशापं नारदं तं ददर्श ह ।
पाणिग्रहणमन्त्राणां नियोगादेव नारदम् । सुकुमारी
च देवर्षिं वानरप्रतिमाननम् । नैवावमन्यत तदा प्रीति-
मत्येव चाभवत् । उपतस्थे च भर्त्तारं न चान्यं मनसाऽ-
प्यगात् । देवं मुनिं वा यज्ञं वा पतित्वे पतिवत्सला ।
ततः कदाचिद्भगवान्पर्व्वतोऽनुचचार ह । वनं विरहितं
किञ्चित्तत्रापश्यत्स नारदम् । ततोऽभिवाद्य प्रोवाच
नारदं पर्वतस्तदा । भवान् प्रसादं कुरुतात् स्वर्गादेशाय
मे प्रभो! । तमुवाच ततो दृष्ट्वा पर्बतं नारदस्तथा ।
कृताञ्जलिमुपासीनं दीनं दीनतरः स्वयम् । त्वयाऽहं
प्रथमं शप्तो वानरस्त्वं भविष्यसि । इत्युक्तेन मया पश्चा-
च्छप्तस्त्वमपि मत्व्सरात् । अद्यप्रभृति वै वासं स्वर्गे नावा-
स्यसीति ह । तव नैतद्धि सदृशं पुत्रख्याने हि मे भवान् ।
निवर्त्तयेतां तौ शापावन्योन्येन तदा मुनी । श्रीसमृद्धं
तदा दृष्ट्वा नारदं देवरूपिणम् । सुकुमारी प्रदुद्राव
परपत्यगिशङ्कया । तां पर्व्यतस्ततो दृष्ट्वा प्रद्रपन्तीमनिन्दि-
ताम् । अव्रवीत्तव भर्त्तैष नात्र कार्य्या विचारणा ।
ऋषिः घरमधर्म्मात्मा नारदो भगवत्प्रभुः । तवैवाभेद्यहृ-
दयो मा तेऽसूदत्र संशयः । साऽनुमीता बहुविधं पर्ब्ब-
तेन महात्मना । शापदोषञ्च तं मर्त्तुः श्रुत्वा प्रकृति-
मागता । पर्व्वतोऽथ ययौ स्वर्गम् नारदोऽध्यगमद्गृहान्” ।
कपिनुखकीशास्यादयोऽप्यत्र । ६ त० वानरमुखे न० ।

कपिवदान्य पु० कपिषु वदान्यो बहुफलत्वेन तत्प्रदानात् ।

आम्रातकवृक्षे । शब्दच० ।

कपिवल्ली स्त्री कपिखि तल्लोमतुल्या वल्ली । गजपिप्पल्याम् अमरः ।

कपिश पु० कपिः कपिनामास्त्यस्य लोमा० श । १ सिह्लके

(शिलारस) मेदि० कपिं कविवर्ण्णं श्यति शो--क ।
२ कृष्णपीतमिश्रितवर्ण्णे पु० ३ तद्युक्ते त्रि० अम० । “मधुक-
रविटपानमिता तरुपङ्क्तीर्बिभ्रतोऽस्य विटपानमिताः ।
विपाकपिशङ्गलता--रजसा रोधश्चकास्ति कपिशं गलता”
माघः । अत्र तरुपङ्क्तेः कृष्णत्वात् पिशङ्गलतारजो-
योगात् श्यावत्वम् । ४ रक्तकृष्णमिश्रवर्ण्णे पु० ५ तद्वति त्रि०
“सन्ध्याभ्रकपिशस्तस्य विराधोनाम राक्षसः” रघुः ।
“ईषद्बत्तरजः कणाग्रकपिशा चूते नवा मञ्जरी” विक्र० ।
“नीपं दृष्ट्वा हरितकपिशं केशरैरर्द्धरूढैः” मेघ० ।
तत्तुल्य वर्ण्णत्वात् ६ मद्यभेदे न० हला० । “ग्रामानपश्यत्
कपिशं पिपासतः” माघः ७ माधवीलतायां मेदि० स्त्री ।
८ उत्कलदेशसमीपस्थे नदीभेदे । “स तीर्त्त्वा कपिशां
सैन्यैर्वद्धद्विरदसेतुभिः । उत्कलादर्शितपथः कलिङ्गा-
भिमुखं ययौ” रघुः ।

कपिशाञ्जन पु० कपिशमञ्जनं यत्र । शिवे त्रिका० तस्य

श्वेतत्वेनाञ्जनस्य कृष्णत्वात्तयोर्मिश्रणात् तथात्वम् ।

कपिशापुत्र पु० कपिशायाः पुत्रः । पिशाचे शब्दरत्ना० ।

कपिशी स्त्री कपिश + वर्णवाचित्वात् ङीष् । १ माधव्यां २ सुरा-

याञ्च शब्दकल्पद्रुमे मेदिनिजटाधरवाक्यं प्रमाणत्वे
नीक्तम् । तच्चिन्त्यं “कपिशस्त्रिषुंश्यावे स्त्री माधव्यां
सिह्लके पुमान्” इति मेदिन्यां स्त्रीमात्रोक्तेः ङीषन्ततानु-
क्तेश्च । “वर्णात्तोपधादनुदात्तात् तोनः” “अन्यतोङीष्” पा०
सूत्रयोः तोपधभिन्नवर्णवाचिनोऽनुदात्तान्तप्रतिपादकात्
स्त्रियां ङीष् स्यात् सि० कौ० व्याख्यानात् कपिश-
शब्दस्यानुदात्तत्वाभाबेन ङीषोऽप्रसक्तेः “लघावन्ते
द्वयोश्च बह्वषो गुरुः” फिट्सूत्रेण तस्य पिशङ्गकल्माषयोरिव
गुरुयुक्तत्वाभावेन अनुदात्तत्वामावात् अतएव “ईषद्वद्ध-
रजःकणाग्रकपिशा चूते नबा मञ्जरीति” विक्रमोर्वश्याम्
टावन्ततया प्रयोगः । तथा च स्त्रीखेऽपि कपिशा इत्येवं-
रूपेण भवितव्यं न ङीषन्तेनेति द्रष्टव्यम् । किञ्च उक्त०
येदिनिवाक्ये तस्य सुरार्थताऽपि न दृश्यते प्रत्युत “कश्यं
मद्यञ्च मैरेयं कपिशं कापिशायनम्” हलायुधोक्तेः मद्ये
क्लीवत्वग्रेव । अतएव “ग्राम्यानपश्यत् कपिशं पिशासतः” इति
माधे क्लीयतयैव प्रयुक्तम् ।

कपिशीका स्त्री कपिशैव स्वार्थेबा० ईक । मदिरिकायां त्रिका०

कपिशीर्ष न० कपीनां प्रियं शीर्षमग्रम् शाक० । प्राकाराग्रे

त्रिका० । कपीनां प्राकाराग्रवासित्वं हि लोकसिद्धम् ।
पृष्ठ १६७३

कपिशीर्षक न० कपेः शीर्षमिव कायति कै--क । हिङ्गुले ।

शव्दच० ।

कपिष्ठल पु० “कपिष्टलो गोत्रे” पा० नि० षत्वम् । गोत्रप्रव-

र्त्तके ऋषिभेदे तस्य गोत्रापत्यम् इञ् । कापिष्ठलि
तद्गोत्रापत्ये बहुत्वे उपका० इञ्० वा लुक् । कापिष्टलयः
कपिष्ठलाः । गोत्रादन्यत्र न षत्वम् ६ त० । कपिस्थल
वानरस्थाने न० ।

कपिस्कन्ध पु० दानवभेदे “उद्योगं परमं चक्तुर्दानवायुद्धदु-

र्मदाः” इत्युप्रक्रम्य “काञ्चनाक्षः कपिस्कन्धोव्याघ्नाक्षः क्षि-
तिकम्पनः” हरिवं० १४० अ० ।

कपीकच्छू स्त्री कपिकच्छू + संज्ञायां वा दीर्घः ।

शूकशिम्ब्याम् (आल्कुशी) शब्दर० ।

कपीज्य पु० कपिभिरिज्यते यज--क्यप् ३ त० । १ क्षीरिकावृक्षे ।

जटाध० । २ रामचन्द्रे । कपिषु श्रेष्ठः ७ त० । ३ सुग्रीवे च ।

कपीत पु० कं जलवर्णं श्वेततर्ण्णमपीतः अपेरतो लोपः । श्वेत-

वुह्नावृक्षे रत्नमा० ।

कपीतन पु० कपीनाम् ईं लक्ष्मीं तनोति तन--अच् । १ आम्रा-

तकवृक्षे २ शिरीषवृक्षे ३ गर्द्दभाण्डवृक्षे च अमरः
४ अश्वत्यवृक्षे मेदि० । ५ गुवाकवृक्षे ६ विल्ववृक्षे च शब्दर० ।
एतेषां यथायथम् कपितुल्यलोमशमञ्जरीकत्वात्
तत्प्रियफलकत्वाच्च तथात्वम् ।

कपीन्द्र पु० कपिरिन्द्र इव । १ हनुमति शब्दच० । “नश्यन्ति

ददर्श वृन्दानि कपीन्द्रः” भट्टिः । ६ त० । कपीनामिन्द्रे
स्वामिनि २ सुग्रीवे कपीनां यथेष्टं नियोक्तरि ३ रामे
तदभेदात् ४ विष्णौ च । “शरीरभूतभृद्भोक्ता कपीन्द्रो
सूरिदक्षिणः” भा० अनु० १३ अ० विष्णुनामकीर्त्तने ।

कपीवत् पु० वसिष्ठपुत्रभेदे । “और्वोवसिष्ठपुत्रश्च स्तम्बः कश्यप

एव च । कपीवानकपीवांश्च दन्तोलिश्च्यवनस्तथा । वसिष्ठ-
पुत्राः सप्तासन्” हरिवं० २६१ अ० ।

कपीवह न० वहति वह--अच् ६ त० “इकोवहे” पा० दीर्घः । सरोवरभेदे ।

कपीष्ट पु० कपीनामिष्टः । १ राजादनीवृक्षे २ कपित्थे च राजनि०

कपुच्छल न० कस्य शिरसः पुच्छमिव लाति--ला--क ।

१ केशचूडायाम् । “अथातस्तृतीये बर्षे चूडाकरणं
कपुष्टिका” गोभि० । “कपुच्छलाख्या केशचूड़ा
तस्याः संस्कारःकपुष्टिका” सं० त० रघु० । कस्य जलस्य
पुच्छमिव लाति ला--क । २ स्रुगग्रस्थाने । “इदमेव
कपुच्छलमयं दण्डः द्वे भवतो द्वौ हीमौ--बाह” शत०
त्रा० ७, ४, १, ३६ । “इदमेव हस्ताग्रं सुष्टिरूपेण कपु-
च्छलम् स्रुगग्रस्थानीयम्” मा० । अत्र सूले कपुच्छ-
लमिति मुद्रितपु० पाठः भाष्ये तु कपृत्सलमिति पाठः
तत्र कस्य जलस्य पृते पूरणाय सलति गच्छतीति व्युत्प-
त्तिः । वेदे परोक्षवचनत्वात् पृषो० साधुत्वम् । “इदमेव
कपुच्छलमयं दण्डः खाहाकारः” शत० ब्रा० ९, ३, १, १० ।

कपुष्टिका स्त्री कस्य शिरसः पुष्ट्यै पोषणाय कायति

कै--क कस्य पुष्ट्यै हितं वा कन् । केशचूड़ासंस्कारक-
र्मणि” कपुच्छलशब्दे गोभिलवाक्यमुदाहृतम् ।

कपूय त्रि० कुत्सितं पूयते पूयी--विसरणे अच् पृषो०

उलोपः । कुत्सिते “अथ य इह कपूयचरणा अभ्यासोह ते
कपूययोनिमापद्येरन्” छा० उ० । “मघवा यः कसखः
यस्य कपूयाः सखायः” निरु० ६, १८ ।

कपृथ् त्रि० कुत्सितं प्रथयति प्रथि--क्विप् वेदे नि० संप्र०

कुत्सितप्रथयितरि । “सेदीशे यस्य रम्बतेऽन्तरा सक्थ्या
कपृत्” ऋ० १०, ८६, १७, “कपृन्नरः कपृथमुद्दधातन
चोदयत खुदत वाजसातये” ऋ० १०, १०१, १२,

कपोत पुंस्त्री कबृ--वर्ण्णे ओत बस्य पश्च, को वायुः पोत इव

यस्य वा । पारावते (पायारा) अमरः “कपोतको
गुरुस्निग्धो रक्तपित्तानिलापहः । संग्राही शुक्रलः शीतः
सुखादू रुचिकारकः” भाव० तद्गुणा उक्ताः । (घुघु) इति
ख्याते २ चित्रकण्टे धूसरवर्ण्णे वनकपोते मेदिनिः ।
कपोतजातिस्तु त्रिधा गृहकपोतवनकपोतचित्रकपो-
तश्चेति भेदात् । वृह० स० तेषां दिवासञ्चारित्वमुक्तम् ।
“श्यामाश्येनशशघ्नवञ्जुलशिखिश्रीकर्णचक्राह्वयाश्चाषा-
ण्डीरकखञ्जरीटकशुकध्वाङ्क्षाः कपोतास्त्रयः । भारद्वाज
कुलालकुक्कुटखरा हारीतगृध्रौ कपिः फेण्टः कुक्कुट
पूर्णकूटचटकाश्चोक्ता दिवासञ्चराः” । तत्र च कपोतविशे-
षाणाम् गृहप्रवेशादरिष्टमुक्तं “यानासनशय्यानि-
लयनं कपोतस्य सद्मनिवेशनं वा । अशुभप्रदं नराणां
जातिविभेदेन कालोऽन्यः । आपाण्डुरस्य वर्षाच्चित्रकपो-
तस्य चैव षण्डासात् । कुङ्कुमधूम्रम्य फलं सद्यः पाकं
कपोतस्य” । अपाण्डुरस्य ईषत्पाण्डोर्धूसरस्य “रक्तपादाः
कपोताश्च” रामा० उ० ६ रिष्टिसूचने विधा० पा० भारते
शान्तिसहितं तस्य गृहप्रबेशनेऽरिष्टमुक्तं यथा ।
“युधिष्ठिर उवाच । कपोतोयदि गाङ्गेय! निविश-
त्यालयं नृणाम् । कथं शान्तिर्मवेत् तस्य क्षिप्रमेतद्वद-
ख मे । भीष्म उवाच । प्रविष्टे सदनं राजन्! कपोते-
भयकारिणि । उत्सन्नं जायते सद्म नात्र कार्य्या विचार-
पृष्ठ १६७४
णा । अथ वा सद्मनःस्वामी त्वरितं मृत्युमाप्नुयात् ।
गेहिनी वा सुती वापि राजा कुप्यति वा भृशम् । येन
केन प्रकारेण प्रोत्सन्नं जायते गृहम् । न च संपद्यते
राजन्! कपोते सदनं गते । निर्विशेत्सदन यस्तु कपोतो
विघ्नकारकः । स हन्तव्योमृतस्यास्य मेदसा जुहुयात् सुधीः ।
जीवनेच्छा कपोते चेद्विधानान्तरभस्ति तत् । शालीनां
पिष्टमादाय पयसालोड्य तत् पुनः । विदधीत कपोतस्य
रूपं शास्त्रविचक्षणः । गुडेनोदरमापूर्य्य मुखं शर्कर-
या पुनः । मधुना चरणौ तस्य पक्षौ धान्येन पक्षिणः ।
ततो वह्निमुखं कृत्वा हावयेत् प्रयतः सुधीः । “देवाः
कपोताः” इत्येष यजने मन्त्र उत्तमः । खगं पिष्टमयन्तं तु
जुहुयात् सर्पिषा युतम् । शतधा तं खगं कृत्वा भागशः
परिकल्पयेत् । शिरसोऽप्यष्टभागांस्तु त्रिंशत्त्रिं शच्चपादयोः ।
सवितुष्ट्वेति शिरसा वसुभ्योयजनं स्मृतम् । मनोज्योतिर्जुष
तेति पक्षौ चन्द्रमसे हुनेत् । यस्मैत्वं सुकृतेति च पादं
दक्षिणमग्नये । चरणं वाममश्विभ्यां जुहुपादश्वि-
मन्त्रतः । “श्येनस्य पक्षा” इति च बाहू रुद्राय वै
हुनेत् । तिलव्रीहीन् व्याहृतिभिर्ग्रहानुद्दिश्य
संहुनेत् । ग्रहांश्चैव पुनः पूज्य यजमानाभिषेच-
नम् । सालङ्कारां सवत्सां च कामदोहां पयस्विनीम् ।
धेनुं दद्यात्सुराणां च दक्षिणार्थे विशेषतः ।
आचार्याय सुशीलाय श्रोत्रियाय कुटुम्बिने । ब्राह्मणान्
भोजयेत् पश्चाद्यथाशक्ति च दक्षिणाम् । एवं कृते विधाने
तु कपोतः शान्तिकृद्भवेदिति” । ज्यो० त० अद्भुशान्तौ
अरिष्टमुक्त्वा उक्तविषये कपोतं विशेष्य शान्त्यन्तरमुक्तम्
यथा “गृध्रः कङ्कः कपोतश्च उलूकः श्येन एव च । चिल्लश्च
चर्मचिल्लश्च भासः पाण्डर एव च । गृहे यस्य पतन्त्येते
गेहं तस्यविपद्यते । पक्षान्भासात्तथा वर्षान्मृत्युः स्याद्
गृहमेधिनः । पत्न्याः पुत्रस्य वा मृत्युर्द्रव्यञ्चापि
विनश्यति । ब्राह्मणाय गृहं दत्त्वा दत्त्वा तन्मूल्यमेव वा ।
गृह्णीयाद् यदि रोचेत शान्तिञ्चेमां प्रयोजयेत्” ।
वैष्णवामृते व्यासः । “ग्रहयज्ञैः शान्तिकैश्च किं क्लिश्यन्ति
नरा द्विज! । महाशान्तिकरः श्रीमांस्तुलस्या पूजितो
हरिः । उत्पातान् दारुणान् पुंसां दुर्निमित्ताननेकशः ।
तुलस्य पूजितो भक्त्या सहाशान्तिकरोहरिः । अत्र-
ब्रह्मपुराणीयोमन्त्रः । “नमस्ते बहुरूपाय विष्णबे
परमात्मने स्वाहेति” । छन्दोगपरिशिष्टम् । “अथातोरज-
स्वलाभिगमने गोऽश्वभार्य्यासु गमने यमजजनने विजा-
तीयजनने वा काककङ्कगृध्रवकश्येनभासचिल्य-
कपोतानां गृहप्रवेशे महिषस्योपरि विश्रामणे एषामेव क्रि-
यमाणे गृहद्वारारोहणे वाद्भुतेषु कल्पदृष्टेन विधिनाऽ-
ग्निमुपसमाधाय प्रायश्चित्ताज्याहुतीर्जुहोति” अद्भुताय
अग्नये स्वाहा, सोमाय, विष्णवे, रुद्राय, वायवे, सूर्य्याय,
मृत्यवे, विश्वेभ्यो देवेभ्यः स्वाहेति” । कपोतं विशेषयति
शौनकः “रक्तपादः कपोताख्य अरण्यौकाः शुकच्छविः ।
स चेच्छालां विशेच्छालासमीपञ्च व्रजेद् यदि । अन्येषु
गृहमध्ये वा वल्कलस्योद्गमादिषु” । कल्पदृष्टेन विधिना
गृह्योक्तेन प्रायश्चित्ताज्याहुतीः अद्भुतदोषप्रशमनार्थाः
सप्ताज्याहुतीः अद्भुतायाग्नये खाहा इत्यादि मन्त्रैः ।
तत्र स्थालीपाकेतिकर्त्तव्यतायां पायसचरुभिरेतेभ्यो देवे-
भ्यो जुहुयात्” रघु० । छन्दोगप० । “पश्चात् घृतपाय-
सेन ब्राह्मणान् भोजयित्वा गोवरं दत्त्वा शान्तिर्भवतीति” ।
वृहत्संहितोक्तत्रिविधकपोतभिन्नकपोतानाम् गृहस्थेन
अवश्यपोष्यता यथाह ज्यो० त० भारतम् । “पारावतामयूराश्च
शुका वैसारिकास्तथा । गृहस्थेन सदा पोष्या आत्मनः
श्रेय इच्छता” अत्र प्रागुक्तकपोतत्रिकस्यैवारिष्टसूचकत्वं
नान्यस्येति व्यवस्था अतएव प्रागुक्तभारते विघ्नकारक
इति विशेषणम् । कपीतश्च प्रतुदः यथाह भावप्र० ।
“हारीतोधवलःपाण्डुश्चित्र पक्षो वृहच्छुकः । कपोतः खञ्ज-
रीटस्तु पिकाद्याः प्रतुदाः स्मृताः । प्रतुद्य भक्षयन्त्येते
तुण्डेन प्रतुदास्ततः” तेषां सामान्यमांसगुणाश्च तत्रै-
वोक्ताः “प्रतुदाः मधुराः पित्तकफघ्नास्तुवरा हिमाः ।
लघवो बहुवर्चस्का किञ्चिद्वातकराः स्मृताः” । “आवर्त्ति-
भिर्गृहकपोतशिरोधराभैः” माघः । कपोतोऽस्त्यस्य
नडादि० छ कुक् च । कपोतकीय कपोतयुक्ते त्रि० तस्मिन्
भवः अण् विल्वका० छमात्रस्य लुक् । कापोतक तत्र
भवादौ त्रि० । ३ सुश्रुतोक्ते कपोताभे मूषिकभेदे च
कपोताभशब्दे उदा० ।

कपोतक न० कपोत इव कायति प्रकाशते कै--क । सौवीराञ्जने राजनि०

कपोतचरणा स्त्री कपोतस्य चरणश्चरणाकारोऽस्त्यस्याः

अर्श० अच् । १ नलीनामगन्धद्रव्यसाधने वृक्षे जटाधरः ।
कपीताङ्घ्रिरप्यत्र अमरः । ६ त० । २ कपोतपादे पु० ।

कपोतपाक पुं स्त्री कपोतःपाको डिम्बः । कपोतशिशौ तेपां

व्रातः ञ्य । कपोतपाक्यः तस्य स्त्रियां बहुषु लुक् ।
कपोतपाकाः स्त्रियां तु न लुक्--कपोतपाक्याः इत्येव ।

कपोतपाद त्रि० कपोतस्य पादाविव पादावस्य हस्त्यादि०

पाठात् नान्त्यलोपः समासान्तः । कपोततुल्यचरणे ।
स्त्रियां वा ङीप् ।
पृष्ठ १६७५

कपोतपालिका स्त्री पालयति पाल + ण्वुल् ६ त० । गृह

स्तम्भाग्रप्रसारितदारुभेदे सौधादिप्रान्ते काष्ठादिरचिते
पक्षिवासस्थाने विटङ्के (पायराखोप) । अमरः ।

कपोतपाली स्त्री कपोतं पालयति अच् गौरा० ङीष् ६ त०

टिट्टाणञित्यत्राद्यन्तयोः साहचर्य्यात् तद्धिताणन्तस्यैव
सि० कौ० ग्रहणात् न ङीप् मुग्ध० तु ईप् उप० स०
इति भेदः । कपोतपालिकार्थे विटङ्के हलायु० ।
“कपोतपालीषु निकेतनानाम्” माघः!

कपोतरोमन् पु० कपोतरूपधारिवह्निवरात् प्राप्ते

उशीनरपुत्रे राजभेदे । तत्कथा भा० व० १९६ अ० ।
“कपोत उवाच । “वैश्वानरोऽहं ज्वलनो धूमकेतुः” इत्युप-
क्रम्य “यामेतां पेशीं मम निष्क्रयाय प्रादा-
द्भवानसिनोत्कृत्य राजन्! । एतद्वो लक्ष्म शिवं
करोमि हिरण्यवर्णं रुचिरं पुण्यगन्धम् । एतासां प्रजानां
पालयिता यशस्वी सुरर्षीणामथ सम्मतो भृशम् ।
एतस्मात् पार्श्वात् पुरुषोजनयिष्यति कपोतरोमेति च
तस्य नाम” । २ यदुवंश्ये कुकुरस्य नृपतेः पौत्रे
नृपभेदे च “कुकुरस्य सुतो घुष्णुर्धृष्णोस्तु तनयस्तथा ।
कपोतरोमा तस्याथ तित्तिरिस्तनयोऽभवत्” हरिवं० ३८ अ० ।

कपोतलुब्धकीय न० कपोतं लुब्धकञ्चाधिकृत्य कृतो ग्रन्थः

“द्वन्द्वाच्छः” पा० छ । भारतान्तर्गते गृहस्थस्य प्राणदाने-
नाप्यातिथ्यावश्यकर्त्तव्यतासूचके आख्यायिकाभेदे तत्कथा
भा० शा० १४६ अ० ।
“स पत्न्या वचनं श्रुत्वा धर्म्मं युक्तिसमन्वितम् । हर्षेण
महता युक्तो बाक्यव्याकुललोचनः । तं वै शाकुनिकं
दृष्ट्वा विधिदृष्टेन कर्मणा । स पक्षी पूजयामास यत्नात्तं
पक्षिजीविनम् । उवाच स्वागतं तेऽद्य ब्रूहि किं
करवाणि ते । सन्तापश्च न कर्त्तव्यः स्वगृहे वर्त्तते भवान् ।
तद्व्रतीतु भवान् क्षिप्रं किं करोमि किमिच्छसि । प्रण
येन ब्रवीमि खां त्वं हि नः शरणागतः । अरावप्युचि-
तं कार्य्यमातिथ्यं गृहमागते । छेत्तुमप्यागते छायां
नोपसंहरते द्रुमः । शरणागतस्य कर्त्तव्यमातिथ्यं हि
प्रयत्नतः । पञ्चयज्ञप्रवृत्तेन गृहस्येन विशेषतः । पञ्च-
यज्ञांस्तु यो मीहान्न करोति गृहाश्रये । तस्य नायं
न च परो लोको भवति धर्म्मतः । तद्ब्रूहि मां सुवि-
श्रब्धो थत्त्वं वाचा यदिष्यसि । तत् करिष्याम्यहं सर्वं
मा त्वं शोके मनः कृथाः । तस्य तद्वचनं श्रुत्वा शकुने-
र्लुब्धकोऽब्रवीत् । बाधते खलु मे शीतं सन्त्राणं हि
विधीयताम् । एवमुक्तस्ततः पक्षी पर्णान्यास्तीर्य्य भूतले ।
यथाशक्त्या हि पर्णेन ज्वलनार्थं द्रुतं ययौ । गत्वाऽ-
ङ्गारककर्मान्तं गृहीत्वाऽग्निमथागमत् । ततः शुष्केषु
पर्णेषु पावकं सोऽप्यदीपयत् । स संदीप्तं महत् कृत्वा
तमाह शरणागतम् । प्रतापय सुविश्रब्धः स्वगात्राण्यकुतो
भयः । स तथोक्तस्तथेत्युक्त्वा लुब्धो गात्राण्यतापयत् ।
अग्निप्रत्यागतप्राणस्ततःप्राह विहङ्गमम् । हर्षेण महताऽऽ
विष्टो वाक्यं व्याकुललोचनः । तथेमं शकुनिं दृष्ट्वा विधि-
दृष्टेन कर्म्मणा । दत्तमाहारमिच्छामि त्वया क्षुद्बाधते
हि माम् । स तद्वचः प्रतिश्रुत्य वाक्यमाह विहङ्गमः ।
न मेऽस्ति विभवो येन नाशयेयं क्षुधान्तव ।
उत्पन्नेन हि जीवामो वयं नित्यं वनौकसः । सञ्चयो नास्ति
चास्माकं मुनीनामिव भोजने । इत्युक्त्वा तं तदा तत्र
विवर्णवदनोऽभवत् । कथं नु खलु कर्त्तव्यमिति चिन्ता-
परस्तदा । वभूव भरतश्रेष्ठ गर्हयन् वृत्तिमात्मनः ।
मूहूर्त्ताल्लब्धसंज्ञस्तु स पक्षी पक्षिघातिनम् । उबाच
तर्पयिष्ये त्वां मुहूर्त्तं प्रतिपालय । इत्युक्त्वा शुष्कपर्णैस्तु
समुज्ज्वाल्य हुताशनम् । हर्षेण महताऽऽविष्टः स पक्षी
वाक्यमब्रवीत् । ऋषीणां देवतानाञ्च पितॄणाञ्च
महात्मनाम् । श्रुतः पूर्ब्बं मया धर्म्मो महानतिथिपूजने ।
कुरुष्वानुग्रहं सौम्य! सत्यमेतब्रद्वीमि ते । निश्चिता खलु
मे बुद्धिरतिथिप्रतिपूजने । ततः कृतप्रतिज्ञो वै पक्षी
प्रहसन्निव । तमग्निं त्रिः परिक्रम्य प्रविवेश महामतिः ।
अग्निमध्ये प्रविष्टन्तु लुब्धो दृष्ट्वा तु पक्षिणम् । चिन्तया-
मास मनसा किमिदं वै कृतं मया । अहो मम नृशंसस्य
गर्हितस्य स्वकर्मणा । अधर्म्मः सुमहान् धोरो
भविष्यति न संशयः । एवं बहुविधं सूरि विललाप स
लुव्धकः । गर्हयन् स्वानि कर्माणि द्विजं दृष्ट्वा तथागतम्” ।

कपोतवङ्का स्त्री कपोतो वन्च्यते प्रतार्य्यतेऽनया वन्च--करणे

घञ् । ब्राह्मीवृक्षे राजनि० । इमाञ्च सुश्रुते वोरतर्व्वादि-
गणे उक्त्वा तद्गुणा उक्ता यथा । “वीरतरुसहचर-
द्वयदर्भदृक्षादनीगुन्द्रानलकुशकाशाश्मभेदकाग्निभन्थमोर-
टावसुकवसिरभल्लूककुरण्टकेन्दीवरकषोतवङ्काः श्वदंष्ट्रा-
चेति । वीरतर्व्वादिरित्येष गणोवातविकारनुत् । अश्म-
रीशर्करामूत्रकृच्छ्राधातरुजापहः” । “कपोतवङ्का-
मूलं हि पिबेदम्लसुरादिभिः” सुश्रु० । भावप्र० “ब्राह्मो
पृष्ठ १६७६
कपोतवङ्का च सोमबल्ली सरस्वती” इत्येव पाठः तत्र
कपोतवल्लीति पाठकल्पनं प्रामादिकं सुश्रुतैकबाक्यतया
कपोतवङ्केति पाठस्यैव न्याय्यत्वात् ।

कपोतवर्ण्णी स्त्री कपोतस्य वर्ण्ण इव वर्ण्णोऽस्याः गौरा० ङीप् ।

सूक्ष्मैलायां राजनि० तत्फलस्य कपोततुल्यशुभ्रत्वात्तथात्वम्

कपोतवाणा स्त्री कपोतस्तत्पाद इव वाणस्तत्तुल्याकारोऽस्याः ।

नलीकनामगन्धद्रव्ये राजनि० शरतुल्यरूपत्वात्तस्यास्तथात्वम्

कपोतवृत्ति स्त्री कपोतानामिव सद्योहरणेनाकृतसञ्चयेन

वृत्तिः । कपोततुल्यायां १ सञ्चयरहितजीविकायाम् तस्याञ्च
सञ्चयराहित्यं कपोतलुब्धकीयशब्दे दर्शितवाक्ये स्फुटम् ।
कपोतानां वृत्तिरिव वृत्तिरस्य । २ तथावृत्तियुक्ते त्रि० ।
“कपोतवृत्तिर्मासनिचयः संवत्सरनिचयोवा । संवत्सर-
निचये पूर्ब्बनिचितमाश्वयुज्यां जह्मात्” विष्णुस०
वानप्रस्थधर्म्मकथने ।

कपोतवेगा स्त्री कपोतस्य वेगो यस्याः ५ ब० । ब्राह्मीवृक्षे । (वामनहाटी) राजनि

कपोतसार न० कपोतः तद्वर्ण्णः इव सारोऽत्र कृष्णत्वात् ।

स्रोतोञ्जने राजनि० ।

कपोताञ्जन न० कपोतवर्ण्णमञ्जनम् । स्रोतोञ्जने अमरःकापोताञ्जनमिति पाठान्तरम् ।

कपोताभ पु० कपोतस्याभेवाभाऽस्य । १ कपोतवर्णे हेम० तस्य

नानावर्ण्णत्वेऽपि कपोताञ्जनादौ कृष्णवर्ण्णो गृह्यते क्वचित्
कर्व्वुरवर्ण्णोऽपि “तदिदं भस्म कपोतकर्व्वुरमिति” कुमार-
प्रयोगात् कर्व्वुरवर्ण्णस्य कृष्णाधिक्यात् कपातवर्ण्णत्वम् ।
सुश्रुतोक्ते २ मूषिकभेदे । “पूर्ब्बमुक्ताः शुक्रविषा मूषि-
का ये समासतः । नामलक्षणभैषज्यैरष्टादश निबोध तान्”
इव्युपक्रम्य “लालन” इत्यादीन् “सूषिकश्च कपोतामस्तथै-
वाष्टादश स्मृताः” इति विभ्यज्य “अरुणेनानिलं
क्रुद्धोवातजान् कुरुते गदान् । महाकृष्णेन् पित्तञ्च श्वेते-
न कफमेव च । महता कपिलेनासृक् क्वपोतेन चतुष्टयम् ।
मवन्ति चैषा टंशेषु ग्रन्थिमण्डलकर्ण्णिकाः । पिड़कोपच-
याश्चोग्राः शोथश्च भृशदारुणः” इत्युक्तम् । रूपचतुष्टयं
वातपित्तकफरक्तजविकाररूपम्” ।

कपोतारि पु० कपोतस्यारिः ६ त० । श्येनपक्षिणि शब्दर० तस्य तन्नाशकत्वात्तथात्वम्

कपोती स्त्री कपोतजातिः स्त्री ङीष् । १ कपोतजातिस्त्रियाम् ।

२ यूपभेदे च । “अथ यस्येतद्वक्रस्य सतः शूलैवाग्रं
भवति सह कपोती नाम यूपः योह तादृशं यूपं
कुरुते बाह्ययुषोऽमुं लोकमेति तस्मात्तादृशमायुष्का-
मोयूपं न कुवींत” शत० ब्रा० ११, ७, ३, २ । “वक्रः
सन्तीक्ष्णाग्रश्च भवति स कपोती यूप कपोताख्य
त्रीपक्षिसन्निवैशसाम्यात्” मा० । तेनात्र केनचित्
कपोतिन् इति शब्दस्य कल्पनं भाष्वविरुद्धत्वादुपेक्ष्यम् ।

कपोल पु० सौ० कप--ओलच् । गण्डे गल्ले (गाल)

अमरः । “कपोलकण्डू करिभिर्विनेतुम” कुमा० ।
“कपोलपाटलादेशि बभूव रघुचेष्टितम्” रघुः । “लीनालिः
सुरकरिणां कपोलकाषः” किरा० “यस्याः कपौलैः
कलधौतधामस्तम्भेषु” । “कपोलभित्तीरिव लोध्रगौरीः”
माघः कपोलाभित्तय इव विस्तीर्णत्वात् उपमि० स० ।
एवं कपोलफलकादयः प्रस्तीर्णकपोले ।

कप्यास न० आस्यतेऽनेन आस करणे घञ् ६ त० ।

कपिपृष्ठान्तभागे “तस्य यथा कप्यासं पुण्डरीकमेवमक्षिणी”
छा० उ० । “कपेर्मर्कटस्यास्यम् कप्यासं आसेरुपवेशनार्थस्य
करणे घञ् कपिपृष्ठान्तो येनोपविशति” भा० ।

कफ पु० केन जलेन फलति फल--ड । शरीरस्थे धातु-

भेदे श्लेष्मणि । “प्राणप्रयाणसमये कफवातपित्तैः कण्ठा-
वरोघनबिधौ स्मरणं कुतस्ते” उद्भटः । कफस्य स्वरूप-
स्थानकर्मादिकं मावप्र० उक्तं यथा ।
“श्लेष्मा श्वेतो गुरुः स्निग्धः पिच्छलः शीतलस्तथा ।
तमोगुणाऽधिकः स्वादुर्विदग्धो लवणं भवेत् । एकः
श्लेष्मा नामस्थानकर्म्मभेदैः पञ्चविधः । अथ श्ल
ष्मणां नामान्याह “कफस्यैतानि नामानि क्लेदनश्चाव-
लम्बनः । रसनः स्नेहनश्चापि श्लेष्मणः स्थानभेदतः
अथ क्लेदनादीवां स्थानान्याह । आमाशयेऽथ हृदये कण्ठे
शिरसि सन्धिषु । स्थानेघ्वेषु मनुष्यणां श्लेष्मा तिष्ठत्य-
नुक्रमात् । दोषाणां सकलशरीरव्यापिनामपि पञ्च
स्थानानीति बाहुल्याभिप्रायेणोक्तानि । तथाच वाग्-
भटः “इति प्रायेण दोषाणां स्थानान्येकीकृतात्मनाम् ।
व्यापिनामपि जानीयात् कर्माणि च पृथक् पृथक्” । इति
चरकश्च “ते व्यापिनोऽपि हृन्नाभ्योरधोप्नध्योर्द्धसंश्रयाः”
इति अथ तत्तत्स्थानगतस्य श्लेष्मणः कर्म्माण्याह ।
क्लेदनः क्लेदयत्यन्नमात्मशक्त्याऽपराण्यपि । अनुगृह्णति
च श्लेष्मस्थानान्युदककर्म्मणा । अयमर्थः क्लेदनोऽन्नं
क्लेदयति तेन संहतमन्नं भेदं प्राप्तोति । अपराण्यपि
श्लेष्मस्थानानि हृदयादीनि मार्गेण गत्वा तत्र तत्र-
हृदयालम्बनसं धारणरसग्रहणसमस्तेन्द्रियतर्पणसन्धिसं-
श्लेषणाद्युदककर्मभिरनुगृह्लाति उपकरोति । तथात्त
“रसयुक्तात्मवोर्येण हृदयस्थानलम्बनम् । त्रिकसन्धा-
रणं चापि विदधात्यवलम्बनः । त्रिकं शिरोबाहुद्वय-
पृष्ठ १६७७
सन्धिः । उभावपि यतः सौम्यौ तिष्ठतश्चान्तिके यतः । ततो
रसान्विजानीतोरसनारसनौ समौ । रसना रसनेन्द्रियं
रसनः कण्ठस्थकफः । स्नेहनः स्नेहदानेन समस्तेन्द्रिय-
तर्पणः । श्लेष्मणः सर्वसन्धीनां संश्लेषं विदधात्यसौ” ।
अन्यत्र वैद्यकेऽन्यथानामाद्युक्तम् । “अवलम्वकैत्येकः
क्लेदकः श्लेषकोऽपरः । बोधकस्तर्पकश्चेति श्लेष्मा पञ्चविधः
स्मृतः । तल्लक्षणानि यथा “कफधाम्नां तु शेषाणां यत्
करोत्यवलम्बनम् । ततोऽवलम्बकाख्यातिं श्लेष्मा प्राप्नो-
त्युरः स्थितः” । आमाशयाश्रितः सोऽन्नक्लेदनात् क्लेदकः
स्मृतः । श्लेप्मकः श्लेषणात् सन्धेः स च सन्धौ व्यवस्थितः ।
रसनावस्थितः श्लेष्मा बोधको रसबोधनात् । शिरसि
प्रस्थितश्चासौ तर्पको नेत्रतर्यणात्” कफस्थानानि “उरः कण्ठः
शिरः क्लोमपर्वाण्यामाशयो रसः । मेदोघ्राणञ्च जिह्वा
च कफस्थानमुरःपरम्” । अविकृतकफस्य कर्माणि यथा
सुखबोधे “स्नेहोबन्धः स्थिरत्वञ्च गौरवं वृषता बलम् ।
क्षमा धृतिरलोभश्च कफकर्माविकारजम्” कफसामान्यलक्षणं
यथा “माधुर्य्यलेहगौरवशैत्यपैच्छिल्य गुणलक्षणः श्लेष्मा तस्य
समानयोनिर्मधुरो रसः सोऽस्य माधुर्य्यान्माधुर्य्यं वर्द्ध-
यति स्नेहात् स्नेहं गौरवाद्गौरवं शैत्यात् शैत्यं पैच्छिल्य-
मिति तस्य पुनरन्ययोनिः कटुको रसः स श्लेष्मणः प्रत्य-
नीकत्वात् कटुकत्वान्माधुर्य्यमभिभवति रौक्ष्यात् स्नेहं
लाघवाद्गौरवमौष्ण्यात् शैत्यं वैशद्यात्पैच्छिल्यमिति”
सुश्रु० । विशेषतस्तन्निदानादिकमुक्तं सुश्रुते
“दिवास्वप्नव्यायाभालसमधुरास्ललवणशीतस्निग्धगुरु-
पिच्छिलाभिष्यन्दिहायनकयवकनैषधैत्कटमाषमहामाषगोधू-
मतिलपिष्टविकृतिदधिदुग्धकृशरापायसेक्षुविकारानूपोदकमां
सवसाविसमृणालकशेरुकशृङ्गाटकमधुरवल्लीफलसमशनाध्य-
शनप्रमृतिभिः श्लेष्मा प्रकोपभापद्यते । शीतैः
शीतकाले च वसन्ते च विशेषतः । पूर्व्वाह्णे च प्रदोषे च भुक्त-
मात्रे प्रकुप्यति” ।
सुश्रुते कफविकारे हेतुरुक्तो यथा “विपमोवातजान् रोगान्
तीक्ष्णपित्तनिमित्तजान् । करोत्यग्निस्तथा मन्दो विकारान्
कफसम्भवान्” वयोभेदे कफाद्याधिक्यमाह तत्रैव “बाले
विवर्द्धते श्लष्मा मध्यमे पित्तमेव तु । भूयिष्ठं बर्द्धते वायु
र्वृद्धे तान्वीक्ष्य योजयेत् । देशभेदोऽपि कफहेतुस्तत्रोक्तः
“कफवातरोगगूयिष्ठश्चानूपः” । कफश्चाप्य एब तद्धर्माणां
क्लेदनादेराप्यधर्मत्वात् यथोक्तम् सुश्रुते ।
“शीतस्तिमितस्निग्धमब्दगुरुसान्द्रमृदुपिच्छिलरसबहुलमी-
षत्कषायास्ललवणं मधुररसप्रायमाप्यं तत् स्नेहनप्रह्ला-
दनक्लेदनबन्धनविष्यन्दनकरमिति” । अधिकमाकरे दृश्यम् ।

कफकर त्रि० कफं तद्विकारं करोति कृ--अच् ।

कफविकारकारके द्रव्यभेदे स च द्रव्यभेदः सुश्रुते उक्तः
“काकोलीक्षीरकाकोलीजीवकर्षभकमुद्गपर्णीमाषपर्णीमेदाम-
हामेदाच्छिन्नरुहाकर्कटशृङ्गीतुगाक्षीरीपद्मकप्रपौण्डरीक-
र्द्धिवृद्धिमृद्वीकाजीवन्त्यो मधूकञ्चेति । काकोल्यादिरयं
पित्तशोणितानिलनाशनः । जीवनो वृंहणो वृष्यः स्तन्य-
श्लेष्मकरस्तथा” ।
अन्यत्र “कफपित्तकरा मतस्याः कफपित्तकरं दधि” ।
सुश्रुतेऽपि । सामान्यत उक्तं यथा “कटुकं मूलकं श्लेष्माणं
वर्द्धयति स्निग्धवीर्य्यत्वात्” “वसुधाजलजातार्भ्या बलासं
परिवर्द्धते” बलासं कफः । कफकृत्कफवर्द्धनादयोऽप्यत्र ।
“प्रमेहकृत् स्यात् कफकृच्च सर्वम्” वैद्यकम् ।

कफकूर्चिका स्त्री कफं कूर्चति विकरोति कुर्च--विकारे

ण्वुल् । लालायाम् आस्यासवे (लाल) । हेम० ।

कफघ्नी कफं तद्विकारं हन्ति टक् ङीप् । १ हवुसाभेदे राजनि० ।

२ कफहन्तृदृव्यभेदे त्रि० तानि द्रव्याणि सुश्रुते दर्शितानि यथा
“आरग्वधमदनगोपधोण्टाकुटजपाठाकण्टकीपाटलामूर्व्वे-
न्द्रयवसप्तपर्णनिम्बकुरुण्टकदासीकुरुण्टकगुडूचीचित्रकशा-
र्ङ्गष्टाकरञ्जद्वयपटोलकिराततिक्तकानि सुषवी चेति ।
आरग्बधादिरित्येष गणः श्लेष्मविषापहः” ।
“वरुणार्त्तगलशिग्रौमधुशिग्रुतर्कारीमेषशृङ्गीपूतीकानक्त-
मालमोरटाग्निमन्थसैरीयकद्वयविम्बीवसुकवसिरचित्रकशता-
वरीविल्वाजशृङ्गीदर्भा वृहतीद्वयञ्चेति । वरुणादिर्गणो-
ह्येष कफभेदोनिवारणः” ।
“सालसागाजकर्णखदिरकदरकालस्कन्धक्रमुकभूर्जभेषशृ-
ङ्गीतिनिशचन्दनकुचन्दनशिंशपाशिरीषासनधवार्जुनतालशा-
कनक्तमालपूतीकाश्वकर्ण्णागुरूणि कालीयकञ्चेति ।
सालसारादिरित्येष गणः कुष्ठविमाशनः । मेहपाण्ड्वा-
भयहरः कफमेहविशोषणः” । “रोध्रसावररोध्रपलाश-
कुटन्नटाशोकफञ्जीफट्फलैलवालुकसल्लकीजिङ्गिनीकादम्बमा-
लाः कदली चेति । एष रोघ्रादिरित्युक्तो मेदःक-
फहरो गणः” । “अर्कालर्ककरञ्जद्वयनागदन्तीमयूरकभार्गी-
रास्नेन्द्रपुष्पीक्षुद्रश्वेतागहाश्वेतावृश्चिकाल्यलवणास्तापस-
गृक्षश्चेति । अर्कादिको गणो ह्येष कफमेदोविषा-
पहः” । “सुरासाश्वेतसुरसाफणिज्झकार्य्यकगन्धकभूस्तृ-
णसुमुखकालमालकासमर्हक्षवकखरपुषपाविडङ्कट्फलसुर
पृष्ठ १६७८
सानिर्गुण्डीकुहालोन्दुरुकर्णिकाफञ्जीप्राचीबलकाकमाच्यो
विषमुष्टिकश्चेति । सुरसादिर्गणो ह्येष कफहृत्कृ-
मिसूदनः” । “पिप्पलीपिप्पलीमूलचव्यचित्रकशृ-
ङ्गवेरमरिचहस्तिपिप्पलीहरेणुकैलाजमोदेन्द्रयवपाठाजीरक-
सर्षपमहानिम्बफलहिङ्गुभार्गीमधुरसातिविषावचाविडङ्गा-
नि कटुरोहिणी चेति । पिप्पल्यादिः कफहरः
प्रतिश्यायानिलारुचीः । निहन्याद्दीपनो गुल्मशूलघ्न-
श्चामपाचनः” । “एलातगरकुष्ठमांसीध्यामकत्वक्पत्रनागपु-
ष्पप्रियङ्गुहरेणुकाव्याघ्ननखशुक्तिचण्डास्थाणेयकश्रीवेष्टकचो-
चचोरकबालकगुग्गुलुसर्जरसतुरुष्ककुन्दुरुकाऽगुरुस्पृक्कोशी-
रभद्रदारुकुङ्कुमानि पुन्नागकेशरञ्चेति । एलादिको
वातकफौ निहन्याद्विषमेव च” । “वृहतीकण्टकारिकाकुटज-
फलपाठा मधुकञ्चेति । पाचनीयो वृहत्यादिर्गणः
पित्तानिलापहः । कफारोचकहृल्लासमूत्रकृच्छ्ररुजापहः” ।
“पटोलचन्दनकुचन्द नमूर्व्वागुडूचीपाठाः कटुरोहिणी
चेति । पटोलादिर्गणः पित्तकफारोचकनाशनः” ।
“ऊषकसैन्धवशिलाजतुकासीसद्वयहिङ्गूनि तुत्थकञ्चेति
ऊषकादिः कफं हन्ति गणो मेदोविशोवणः । “मुचा-
स्ताहरिद्रादारुहरिद्राहरीतक्यामलकविभीतककुष्ठहैमवतीव-
पाठाकटुरोहिणीशर्ङ्गष्टाऽतिविषाद्राविडोभल्लातकानि
चित्रकश्चेति । एष मुस्तादिको नाम्ना गणः श्लेष्मनिषू-
दनः” । “हरितक्यामलकविभीतकानि त्रिफला ।
त्रिफला कफपित्तघ्नी मेहकुष्ठविनाशनी” ।
“पिप्पलीमरीचशृङ्गवेराणि त्रिकटुकम् । “त्र्यूषणं
कफमेदोघ्नं मेहकुष्ठत्वगामयान् । निहन्याद्दीपनं शूलपिनसा-
ग्न्यल्पतामपि” । “आमलकीहरीतकीपिप्पल्यश्चित्रकश्चेति ।
आमलक्यादिरित्येष गणः सर्वज्वरापहः । चक्षुष्यो
दीपनो वृष्यः कफारोचकनाशनः” । “लाक्षारेवतकुटजाऽ-
श्वमारकट्फलहरिद्राद्वयनिम्बसप्तच्छदमालत्यस्त्रायमाणा
चेति । कषायस्तिक्तमधुरः कृफपित्तार्त्तिनाशनः” ।
“विल्वाग्निमन्थटुण्टुकपाटलाकाश्मर्य्यश्चेति महत् । सतिक्तं
कफवातघ्नं पाके लघ्वग्निदीपनम् । मधुरानुरसञ्चैव पञ्च-
मूलं महत् स्मृतम्” । “कुशकाशनलदर्भकाण्डेक्षुका इति
तृणणंज्ञकः । मूत्रदोषबिकारञ्च रक्तपित्तं तथैव च ।
अन्त्यः प्रयुक्तः क्षीरेण शीघ्रमेव विनाशयेत् । एषां
वातहरावाद्यावन्त्यः पित्तविनाशनः । पञ्चकौ म्लेष्म-
शमनावितरौ परिकीत्तैतौ” इति विशेषव उक्तम् ।
सामान्यतस्तु तत्रैवोक्तम् “अम्लंकपित्यं श्लेष्माणं शम-
यति रूक्षवीर्य्यत्वात् मधुरं क्षौद्रञ्च” । रसभेदस्य तद्धेतुता
तत्रोक्ता । “ये रसा श्लेष्मशमनाभवन्ति यदि तेषु वै ।
स्नेहगौरवशैत्यानि बलासं बर्द्धयन्ति ते” (बलास कफम्)
तत्पाकपरिपाटी तत्रैवोक्ता । “श्लेष्मा विदग्धीलवणता-
मुपैति” खतेजोनिलजैः श्लेष्मा शमं याति शरीरिणाम् ।
“तत्र यैमे गुणा वीर्य्यसंज्ञकाः शीतोष्णस्निग्धरूक्षमृदु-
तीक्ष्णपिच्छिलविशदास्तेषां तीक्ष्णोष्णावाग्नेयौ ।
शीतपिच्छिलावम्बुगुणभूयिष्ठौ । पृथिव्यम्बुगुणभूयिष्ठः स्नेहः ।
तोयाकाशगुणभूयिष्ठं मृदुत्वं । वायुगुणभूयिष्ठं रौक्ष्यम् ।
क्षितिसभीरणगुणभूयिष्ठं वैशद्यम् । गुरुलघुविकावक्त-
गुणौ । तत्रोष्णस्निग्धौ वातघौ । शीतमृदुपिच्छिलाः
पित्तघ्नाः । तीक्ष्णरूक्षविशदाः श्लेष्मध्नाः गुरुपाको
वातपित्तघ्नः । लघुपाकः श्लेष्मघ्नः । तेषां मृदुशीतोष्णाः
स्पर्शग्राह्याः । पिच्छिलविशदौ चक्षुःस्पर्शाभ्याम् । स्नि-
ग्धरूक्षौ चाक्षुषौ । शीतोष्णौ सुखदुःखोत्पादनेन । गुरु-
पाकं सृष्टविण्मूत्रतया कफोत्क्लेशेन च । लघुर्ब्बद्धवि
ण्मूत्रतया मारुतकोपेन च” ।
“तीक्ष्णोष्णं भूत्रलं हृद्यं कफघ्नं कटुपाकि च” सुश्रु० ।
तन्नाशकद्रव्यगुणभेदाः संक्षिप्यान्यत्रोक्ताः । “गुरुशीत-
मुदुस्निग्धमधुरस्थिरपिच्छिलाः । श्लेष्मणः प्रशमं यान्ति
विपरीतगुणैर्गुणाः” । तन्निवारणोपाया अन्यत्रोक्तायथा
“रूक्षक्षारकषायतिक्तकटुकव्यायामनिष्ठीवन स्त्रीसेवाध्वनि-
युद्धजागररतिक्रीड़ापदाघातनम् । धूमात्युष्णशिरोविरेकव-
मनस्वेदोपनाहादिकं पानाहारविहारभेषजमिदं श्लेष्मा-
णमुग्रं जयेत्” ।
कफहन्तृ कफहादयःश्लेष्महन्तृश्लेष्महादयोप्यत्र त्रि० ।

कफणि पुं स्त्री केन जलेन फणति स्फुरति इन् । भुजमध्य-

ग्रन्थौ । कूर्परे (कुनुइ) हेमच० स्त्रीत्वे वा ङीष् ।

कफल त्रि० कफः साध्यत्वेनास्त्यस्य लच् । कफदायके

“वेणोः करीराः कफलामधुरारसपाकतः” सुश्रु० ।

कफवर्द्धन पु० कफं तद्विकारं वर्द्धयति वृध--णिच्--ल्यु ।

१ पिण्डीतकवृक्षे त्रिकाण्ड० । २ कफवृद्धिकारके त्रि० ।

कफविरोधिन् पु० कफं विरुणद्धि वि + रुध--णिनि । १ मरिचे

राजनि० । कफविरोधकारके २ कफविकारनाशके त्रि० ।

कफान्तक पु० कफमन्तयति अन्त + तत्करोतीति णिच्--ण्वुल् ।

१ वर्बुरवृक्षे, राजनि० । २ कफविकारनाशके त्रि० ।

कफारि पु० ६ त० । १ शुण्ठ्याम् राजनि० २ कफनाशके त्रि० ।

कफिन् त्रि० कफोऽस्त्यत्र कफ + इनि । १ श्लेष्मप्रधने जने ।

अमरः स्त्रियां ङीप् । कफिनी तस्य भावः तल् । कफिता
स्त्री त्व । कफित्व न० कफयुक्तत्वे ।
पृष्ठ १६७९

कफेलू पु० कफ लाति ला--कू नि० । १ श्लेष्मातकतरी उज्ज्वल०

रूपमञ्जरी । शब्दक० कफयुक्ते त्रि० सि० कौ० “प्रमाण-
तयोक्तं यदुक्तं तच्छिन्त्यं सि० कौ० “कफं लाति कफेलूः
म्लेष्मातकः निपातनादेत्त्वम्” इत्युक्तेः तत्र तदर्थत्वा-
दर्शनात् ।

कफोणि पुंस्त्री केन जलेन फणति इन् पृषो० ओत्त्वम् ।

भुजमध्यग्रन्थौ कूर्परे (कुनुइ) अमरः । स्त्रियां वा ङीप् ।

कफौड पु० कफोणि + वेदे पृषो० । (कुनुइ) कूर्परे ।

“कति स्तनौ व्यदधुः कः कफोडः” अथ० १०, ४, २,

कब स्तुतौ वर्णेच भवा० सक० प० सेट् । कबति अकबिष्ट चकाब

ऋदित् णिचि अचकावत् । प्रनिकवति ।

कबन्ध पु० कं जलं बध्नाति बन्ध--अण्, केन वायुना बध्यते,

बन्ध--कर्म्मणि घञ्, कोवायुः प्राणकयुर्बध्यते संबध्यतेऽत्रा
धारे घञ् वा यथायथं वाक्यम् । १ उदरे तस्य
पीतजलनिरोधनात् तथात्वम् । २ धूमकेतौ, प्रवहवा-
युना निचीयमानत्वात्तस्य तथात्वम् ३ राहौ, तस्य
च्छिन्नमस्तकत्वेऽपि अमृतपानात् जीवनसत्त्वेन क्रिया-
वत्त्वात् तथात्वम् ४ राक्षसभेदे च मेदि० ५ जले
अमरः तस्य प्राणवायुधारकत्वात् तथात्वम्
“आपोमयः प्राणः” इति छा० उ० श्रुतेस्तस्य प्राणधारण
करत्वम् “पञ्चदशाहानि माऽशीः काममपः पिबापोमयः
प्राणो न पिबतस्ते विच्छेत्स्यते” छा० उ० जनपानं विना
प्राणविच्छेदस्योक्तेस्तथात्वम् । “मनुष्याणां सहस्रेषुंहतेषु
हृतमूर्द्धसु । तदावेशात् कबन्धः स्यादेकोऽमूर्द्धाक्रियान्वितः”
इत्युक्तलक्षणे शिरःशून्ये ६ क्रियायुक्तदेहे अस्त्री अमरः ।
“कबन्धाश्छिन्नशिरसः खड्गशक्त्तृष्टिपाणयः” देवीमा० ।
“नागानामयुतं तुरङ्गनियुतं सार्द्धं रथानां शतं पत्तीनां
दश कोटयो निपतिता एकः कबन्धोरणे । तादृक्कोटि
कबन्धनर्त्तनविधौ खेलच्चलत् खे शिरस्तेषां कोटिनिपातने
रघुपतेः कीदण्डघण्टारवः” प्राचीनगाथा । “यस्य
नेष्यति वपुः कबन्धताम्” चलितोर्द्धकबन्धसस्पदः” माघः ।
“कश्चित् द्विषत्खड्गहृतोत्तमाङ्गः सद्यो विमानप्रभुता-
मुपेत्य । वामाङ्गसं सक्तसुराङ्गनः स्वं नृत्यत् कबन्धं समरे
ददर्श” । “उत्थितं ददृशेऽन्यच्च कबन्धेभ्यो न किञ्चन”
रघुः । तद्देहस्य शिरःशून्यत्वेऽपि वायोः सम्यग्निःसर-
णाभावेन वायुना सम्बन्धसत्त्वात् क्रियासम्भव इति बोध्यम
७ मेघे निरुक्ते ५, ४ “निचीनवारं वरुणंकबन्धम्” इत्यृचम-
धिकृत्योक्तम् “कबन्धं मेघम् कमुदकं भवति तदस्मिन् धीयते,
उदकमपि कबन्धमुच्यते बन्धिरनिभृतत्वे कमनिभृतञ्च इति”
तत्रोक्तेः तत्र पृषो० साधुत्वम् । कबन्धराक्षसकथा च भा० य०
२३७ अ० यथा । “दुःखशोकसमाविष्टौ वैदेहीहरणार्द्दितौ ।
जम्मतुर्दण्डकारण्यं दक्षिणेन परन्तपौ । वने महति
तस्मिंस्तु रामः सौमित्रिणा सह । ददर्श मृगयूथानि द्रव-
माणानि सर्व्वशः । शब्दञ्च घोरं सत्वानां दावाग्नेरिव
वर्द्धतः । अपश्यतां मुहूर्त्ताच्च कबन्धं घोरदर्शनम् ।
मेघपर्व्वतसङ्काशं सालस्कन्धं महाभुजम् । उरोगतविशालाक्षं
महोदरमहामुखम् । यदृच्छयाथ तद्रक्षः करे जग्राह
लक्ष्मणम् । विषादमगमत् सद्यः सौमित्रिरथ भारत! ।
स राममभिसंप्रेक्ष्य कृष्यते येन तन्मुखम् । विषण्णश्चा-
ब्रवीद्रामं पश्यावस्थामिमां मम । हरणञ्चैव वैदेह्या मम
चायमुपप्लवः । राज्यम्रंशश्च भवतस्तातस्य मरणं तथा ।
नाहं त्वां सह वैदेह्या समेतं कोशलागतम् । द्रक्ष्याभि
पृथिवीराज्ये पितृपैतामहे स्थितम् । द्रक्ष्यन्त्यार्य्यस्य
धन्या ये कुशलाजशमीजलैः । अभिषिक्तस्य वदनं सोमं
शान्तघनं यथा । एवं बहुविधं धीमान् विललाप स
लक्ष्मणः । तमवाचाथ काकुत्स्थः सम्भ्रमेष्वप्यसम्भ्रमः ।
मा विषीद नरव्याघ्र! नैष कश्चिन्मयि स्थिते । छिन्ध्यस्य
दक्षिणं बाहुं छिन्नः सव्यो मया भुजः । इत्येवं वदता
नस्य भुजो रामेण पातितः । खड्गेन भृशतीक्ष्णेन
नित्तिस्तिलकाण्डवत् । ततोऽस्य दक्षिणं बाहुं खड्गेन
नघ्निबान् बली । सौमित्रिरपि संप्रेक्ष्य म्रातरं राघवं
स्थितम् । पुनर्जघान पार्श्वेवै तद्रक्षो लक्षणो भृशम् ।
गतासुरपतद्भूमौ कबन्धः सुमहांस्ततः । तस्य देहाद्विनिः-
सृत्य पुरुषो दिव्यदर्शनः । ददृशे दिवमास्थाय दिवि
सूर्य्य इव ज्वलन् । पप्रच्छ रामस्तं वाग्मी कस्त्वं प्रव्रूपि
पृच्छतः । का माया किमिदं चित्रमाश्चर्य्यं प्रतिभाति मे
तस्याचचक्षे गन्धर्व्वोविश्वावसुरहं नृप! । प्राप्तो ब्राह्मणशा-
पेन योनिं राक्षससेविताम् । रावणेन हृता सीता राम ।
लङ्काधिवासिना । सुग्रीवमभिगच्छ त्वं स ते सह्यं
करिष्यति । एषा पम्पा शिवजला हंसकारण्डवैर्युता ।
ऋष्यमूकस्य शैलस्य सन्निकर्षे तडागिनी । वसते तत्र
सुग्रीवश्चतुर्भिः सचिवैः सह । भ्राता वानरराजस्य वालि-
नो हेममालिनः । तेन त्वं सह सङ्गम्य दुःखमूलं निवे-
दय । समानशीलो भवतः साहाय्यस करिष्यति ।
पृष्ठ १६८०
एतावच्छक्यमस्माभिर्वक्तुं द्रष्टासि जानकीम् । ध्रुवं
वानरराजस्य विदितो रावणालयः । इत्युक्त्वान्तर्हितो
दिव्यः पुरुषः स महाप्रभः । विस्मितं जग्मतुश्चोभौ प्रवीरौ
रामलक्ष्मणौ” । “बधनिर्धूतशापस्य कबन्धस्योपदेशतः” रघुः

कबन्धिन् पु० १ ऋषिभेदे “अथ कबन्धी कात्यायन उपेत्य

पप्रच्छ” प्रश्नोप० । अस्त्यर्थे इनि । २ उदकयुक्ते त्रि०
“अर्य्यम्णोन मरुतः कबन्धिनः” ऋ० ५, ५४, ८ ।
“कवन्धिनः उदकवन्तः” भा० । स्त्रियां ङीप् ।

कबित्थ पु० कपयस्तिष्ठन्त्यत्र तत्फलप्रियत्वात् स्था--क पृषो०

पस्य बः । कपित्थवृक्षे अमरटीका ।

कबिल पु० कबृ--वर्ण्णे इलच्! १ कपिलवर्ण्णे २ तद्वति त्रि० । द्विरूपकोषः ।

कम् अव्य० कम--णिङभावपक्षे विच् चादि । १ पादपूरणे,

२ जले, कञ्जम् । ३ मस्तके ४ सुखे, शब्दर० कन्तिः कन्तुः ५ मङ्गले,
६ निन्दायाम् शब्दचिन्ता० । “अथ ये प्रवृत्तेऽर्थेऽमिताक्ष-
रेषु ग्रन्थेषु वाक्यपूरणा आगच्छन्ति पादपूरणास्तेऽमि-
ताक्षरेष्वनर्थकाः कप्तीमिद्विति” यथा “यत्रोत मर्त्त्याय
कमरिणा” ऋ० ४, ३०, ६, “कमिति पादपूरणम्” निरु०
१, ९, उक्तेः पादपूरणर्थता “तन्वं कृणुषे दृशे कम्”
ऋ० १, १२३, ११, “अत्र कमिति पादपूरणे अथवा कमिति
सुखवचनम् सुखं यथा भवतीति” भा० “एवेदेषा पुरुतमा
दृशे कम् १, १२४, ६, “कम् सुखेन” भा० “अरमयः
सरपसस्तराय कमलम्” ऋ० २, १३, १२, “कं सुखेन” भा० ।
७ जलधारके मेधे “पिन्वसि त्वचं कं चित्” ऋ०, १, १२९, ३,
“कं चित् जलधारिणं मेघम्” भा० । ८ सुखकरे
“पक्षिणं तौग्र्याय कम्” ऋ० १, १८२, ५, “कम् सुखकरम्”
भा० ताः अस्त्यर्ये “कंशम्भ्यां वभयुस्तितुतयसः” पा०
वादयः सप्त प्रत्ययाः । कंव कम्भ कंयु कन्ति कन्तु
कन्त कंय एते सुखान्विते त्रि० ।

कम वाञ्छायां भ्वा० आ० सक० सेट् । अतः स्वार्थे णिङ्

आर्द्धधातुके वा । कामयते कामयीत कामयताम् अकामयत ।
अचीकमत । णिङभावपक्षेऽपि चञ् अचकमत । कामयाम्
बभूव आस चके चकमे । कामयिता--कमिता कामयिषीष्ट-
कमिषोष्ट । कामयिष्यते--कमिष्यते । कामनीयः कमनीयः
काम्यः । कामयितव्यः--कमितव्यः । कामी । कामयिता-
कमिता कानितः कान्तः । कान्तिः । कर्त्तरि अच् कमः कर्म-
ण्युपपदे अण् । स्वर्गकामः । उदित् कामयित्वा कामत्वा
कान्त्वा । कामुकः कम्रः कमनः कामयमानः नि०
कामयानः । काम्यते काम्यमानः । घञ् कामः मुच का-
मना । “नरपतिश्चकमे मृगयारतिम्” “निष्क्रष्टेमर्थं चकमे
कुवेरात्” “भीमकान्तैर्नृपगुणैः” “नवं वयः कान्तमिदं
वपुश्च” रघुः । “सोऽकामत बहु स्यां प्रजायेय” श्रुतिः
“रमणीकमनीयकपीलतले” सा० द० टी० । “स चेत् कामयते
दातुं तव मामरिसूदन!” भा० आ० १७२ । “सर्वान्
कामयते यस्मात्” कत्याशब्दे उक्तम् । “प्रीत्या युक्तः
कामितं सर्वशस्ते” भा० आ० ५८ “कामयाञ्चक्रिरे कान्ता-
स्ततस्तुष्टानिशाचराः” “अकम्पनस्ततो योद्धु चकमे
रावणाज्ञया” भाट्टः । आर्वे क्वचिन् पर० । “एवं रूप
नलं यो वै कामयेच्छपितुं कले ।” भा० व० ५८
अ० । “न च सीता दशग्रीवं मनसापि हि कामयेत्”
“अकामोऽपि बलात् कामं दर्शनादेव कामयेत्” रामा० ।
  • अनु + कामनानुरूपकामनायाम् । अनुकामयते ।
  • षभि + आप्रिमुख्येम कामनायाम् । “दासीं कन्यासहस्रेण
शर्म्मिष्ठामभिकामये” भा० आ० १८ ।
  • नि + निःशेषकामनायाम् । “या तस्य ते पादसरोरुहार्हणं
निकामयेत् साऽखिलकामलम्पटा” भाग० ५ स्क० १८, २२ ।
अतिशये च “निकामतप्ता द्विधेन बह्निना” कुमा०
  • प्र + प्रकर्षेण कामनायां अतिशये । प्रकामः ।

कम वाञ्छायां चुरा० आ० सक० सेट् उदित् कविकल्पद्रुमः ।

णिङन्तकमवत् सर्वंम् । किन्तु तत्र उदित्प्रयोजनं चिन्त्यम ।

कमक त्रि० कम--णिङभावे अच् स्वार्थे क । १ कामुके २

गोत्रप्रवर्त्तके २ ऋषिभेदे पु० । ततः गोत्रापत्ये इञ् । कामकि
तद्गोत्रापत्ये पुंस्त्री वहुषु उपका० तस्य लुक् । कमकाः
कामकयः ।

कमठ पुं स्त्री कम--अठन् । १ कूर्मे कच्छपशब्देविवृतिः स्त्रियां

जातित्वात् ङीष् । “कमठपृष्ठकटोरमिदं धनुः” महाना० ।
२ विष्णोरेकादशे अवतारभेदे । “सुरासुराणामुदधिं
मथ्नतां मन्दराचलम् । दध्रे कमठरूपेण पृष्ठे एकादशे
विभुः” भाग० १, ३, १७ । ३ मुनीनां जलपात्रभेदे न०
विश्वः । ४ वंशे पु० शब्दर० । ५ दैत्यभेदे पु० हेमच० ।
६ शल्लकीवृक्षे पु० धरणिः ।

कमण्डलु पुंन० मण्डनं मण्डः कस्य जलस्य मण्डं लाति-

ला--कु अर्द्धर्चादि । करङ्के संन्यासिनां ब्रह्मचारिणाञ्च
१ जलपात्रभेदे, अमरः । “मेखलामजिनं दण्डमुपवीतं
कमण्डलुम्” । “वैणवीं धारयेद्यष्टिं सोदकञ्च कमण्डलुम्” मनुः ।
“अशेषतीर्थोपहृताः कमण्डलोः” माघः । “कमण्डलु
कपालेन शिरसा च मृजावता” भट्टिः । २ प्लक्षवृक्षे,
पृष्ठ १६८१
मेदिनिः । ३ चतुष्पाज्जातौ च पुंस्त्री “कमण्डलुशब्दश्च-
तुष्पादज्जातिभेदः” सि० कौ० । तस्यापत्यम् चतुष्पा-
द्भ्यो ढञ्” पा० ढञ् “लोपोऽकद्र्वाः” पा०
उलोपः । कामण्डलेय तदपत्ये पुंस्त्री । तस्य कर्म भावो
वा युवादि० अण् । कामण्डलव तद्भावेतत्कमणि च न० ।

कमण्डलुतरु पु० कमण्डलुस्तदाकृतिस्तरुः कर्म्म० । १ प्लक्ष-

वृक्षे रत्नमा० । कमण्डलुद्रुमादयोऽप्यत्र ।

कमन त्रि० कम--णिङभावे ताच्छील्ये युच् । १ कमनीये

अभिरूपे २ कामुके च मेदि० । “कम्रा कमना युवतिः”
सि० कौ० । कमनच्छदः । “त्रिभुवनकमनं तमालवर्ण्णं
रविकरगौरवराम्बरं दधानम्” (वपुः) भाग० १, ९, ३१ ।
करणे युच् । ३ कन्दर्पे । ४ अशोकवृक्षे च पु० मेदि० ।
५ ब्राह्मणे पु० हेमच० ।

कमनच्छद पुं स्त्री कमनः सुन्दरः छदोऽस्य । १ कङ्कपक्षिणि । हेमच० । स्त्रियां ङीष् ।

कमनीय त्रि० कम--णिङमावे कर्मणि अनीयर् । १ सुन्दरे,

“रमणीकमनीयकपोलतले परिपीतपटीररसैरलसः”
सा० द० टी० । “रुचिरं कमनीयतरा गमिता” माघः ।
२ कामनायोग्ये वाञ्छनीये च । “अनन्यनारीकमनीयम-
ङ्कम्” कुमा० । कमनीयस्य भावः “योपधात्गुरूपोत्त-
माद्वुञ्” पा० वुञ् । कामनीयक तद्भावे न० ।

कमन्तक पु० कम--बा० झ स्वार्थे क । ऋषिभेदे तस्य गोत्रा-

पत्यम् इञ् । कामन्तकि तद्गोत्रापत्ये पुं स्त्री बहुत्वे
उपका० इञोलुक् । कामन्तकयः कमन्तकाः ।

कमन्ध न० जले रायमुकुटेपरमतेनोक्तम् । तत्र हि कबन्धमिति

स्वयं व्याख्याय कमन्धम् इति ममध्यपाठे कम् अन्धम्
इति नामद्वयमेकीयमतेनोक्त्वा कमन्धमित्येक नाम
परमतत्वेनोक्तम् ।

कमर त्रि० कम--णिङभावे अरच् । कामुके ऊज्ज्वल०

कमल न० कम--वृषादि० कलच् । १ पद्मे तद्भेदस्त्य

तदवयवभेदस्य च गुणादि भावप्र० उक्तं यथा
“कमलं शीतलं वर्ण्यं मधुरं कफपित्तजित् । तृष्णा-
दाहास्रविस्फोटविषवीसपनाशनम् । विशेषतः सितं
पद्मं पुण्डरीकमिति स्मृतम् । रक्तं कोकनदं ज्ञेयं
नीलमिन्दीवरं स्मृतम् । धवलं कमलं शीतं मधुरं
कफपित्तजित् । तस्मादल्पगुणं किञ्चिदन्यद् रक्तो-
त्पलादिकम् । भूलनालदलोत्फुल्लफलैः
समुदिता पुनः । पद्मिनी प्रोच्यते प्राज्ञैर्विसिन्यादिश्च
सा स्मृता । आदिशब्दान्नलिनी कमलिनीत्यादि ।
पद्मिनी शीतला गुर्व्वी मधुरा लवणा च सा । पित्ता
सृक्वफनुद्रूक्षा वातविष्टम्भकारिणी । अथ नवपत्रादि ।
संवर्त्तिका नवदलं वीजकोषस्तु कर्णिका । किञ्जल्कः
केशरः प्रोक्तः मकरन्दो रसः स्मृतः । मृणालं पद्मनालं
स्यात्तथा विसमिति स्मृतम् । संवर्त्तिकाहिमा तिक्ता
कवाया दाहतृट्प्रणुत् । मूत्रकृच्छ्रगुदव्याधिरक्तपित्त
विनाशिनी । पद्मस्य कर्णिका तिक्ता कषाया मधुरा
हिमा । मुखवैशद्य कृल्लव्वी तृष्णास्रकफपित्तनुत् । किञ्जल्क
शोतलो वृष्यः कषायो ग्राहकोऽपि सः । कफपित्ततृ-
षादाहरक्तार्शोविषशोथजित् । मृणालं वृष्यमधुरं
पित्तदाहास्रजिद्गुरु । दुर्ज्जरं स्वदुपाकञ्च स्तन्यानिल-
कफप्रदम् । संग्राहि मधुरं रूक्षं शालूकमपि तद्गुणम्” ।
“नवावतारं कमलादिवोत्पलम्” रघुः । “प्रत्यूषेषु
स्फटितकमलामोदमैत्रीकषायः” “धारापातैस्त्वमिव
कमलान्यभ्यवर्षन्मुखानि” मेघ० “अमलकमलराशेः” लीला०
“न कमलं कमलम्भयदम्भसि” माघः । कमलयोनिः
कमलासनः । २ क्लोम्नि ३ भेषजे ४ सलिले ५ ताम्रे हेम०
६ मृगभेदे पुंस्त्री स्त्रियां ङीष् ७ लक्ष्म्यां ८ वरनाय्यां
स्त्री मेदि० । ९ सारसपक्षिणि अमरः कमलनामनामत्वा-
त्तस्य स्त्रियां ङीष् । १० स्वनामख्याते जग्वीरभेदे
स्त्री “रम्भाफलं तिन्तिडीकं कमलानागरङ्गकम् ।
फलान्येतानि भोज्यानि एभ्योऽन्यानि विवर्जयेत्” तन्त्रसा०
पुरश्चरणनियमे । तद्गुणाश्च भावप्र० उक्ता यथा ।
“मिष्टनिम्बूफलं स्वादु गुरु मारुतपित्तनुत् । गररोगविषध्वं-
सि कफोत्क्लेशि च रक्तहृत् । शोषारुचितृषाच्छर्द्दिहरं
बल्यञ्च वृंहणम्” ११ मिथिलास्थे नदीभेदेस्त्री । १२ छन्दो-
भेदे स्त्री । तल्लक्षणं वृत्तरत्नावल्यां द्विधोक्तम् यथा “द्विगुण-
नगणसहितः सगणैह हि विहितः । फणिपतिमति-
विमला क्षितिप! भवति कमलेति” “वमुभिः प्रमिता
सगणाविहिताः पुनरेकमितोनिहितोगुरुरन्ते । यदि
सत्कवयोविलसन्मतयोऽभिधया कमलेति तदाकलयन्ते”
(गोलापी) १३ पाटलवर्णे १४ तद्वति त्रि० । “शवलाय स्वाहा
कमलाय स्वाहा पृश्नवे स्वाहा तैत्ति० ७, ३, १८, १ ।
अस्य गुणवचनत्वात् स्त्रियां बह्वादि० वा ङीष् । कमली
कमलानां संघः खण्ड । कमण्डलखण्ड पद्मसंघे न०
तस्य देशः पुस्क० इनि । कमलिनी भावप्र० उक्ते
वीजकोषादौ स्त्री “कमलिनीमलिना दिवसात्यये” उद्भटः ।
“उक्तोमलयतालेन लघुमध्ये स्फुरेद्गुरुः । सप्तदशाक्षरै-
र्युक्तः कमलोऽयं भयानके” सङ्गीतशास्त्रोक्ते १५ घ्रुबभेदे पु०
"https://sa.wikisource.org/w/index.php?title=वाचस्पत्यम्/कदन&oldid=57687" इत्यस्माद् पुनः प्राप्तिः