पृष्ठ १७८०

कलभ पु० करेण शुण्डेन भाति भा--क रस्य लः । “त्रिंश-

द्वर्षस्तु कलभ” इति वैजयन्त्युक्ते १ गजभेदे । “मुदा रमन्ते
कलभा विकस्वरैः” । “इह मुहुर्मुदितैः कलभै रवः”
“सकलकलभकुम्भविभ्रमाभ्याम्” माघः । २ पञ्चवर्षे
करिपोते सुभूतिः “द्विपेन्द्रभावं कलभः श्रयन्निव” मोघवृ-
त्तिकलभस्य चेष्टितम्” । “दृष्टो हि वृण्वन् कलभप्रमाणम्”
रघुः । “ननु कलभेन यूथपतेरनुकृतम्” मालवि० । “गत्वा
सद्यः कलभतनुतां शीघ्रसम्पातहेतोः” मेघ० । शावक-
मात्रपरत्वेनकरिकलभकरमृदिततमालकिशलया मेदिनी”
काद० । वयोवाचित्वात् जातित्वात् स्त्रियां ङीप् ।
कं वातं लभते साधनत्वेन लभ--अच् । धुस्तूरे मेदि०
तस्य मादकद्रव्यत्वेन वाताधायकत्वात्तथात्वम्

कलभवल्लभ पु० ६ त० । पीलुवृक्षे राजनि० ।

कलभप्रियादयोप्यत्र ।

कलभी स्त्री कं जलं लभते आश्रयत्वेन लभ--अच् गौरा० ङीष् । चञ्चुवृक्षे राजनि० ।

कलम पु० कलते अक्षराणि कल--कमच् । १ लेखन्याम्

जटाधरः २ धान्यभेदे च राजव० । स च “कलमःकलिविख्यातो
जायते स वृहद्वने । कश्मीरदेश एवोक्ती
महातण्डुलगर्भकः” इति भावप्र० उक्तदेशजः । ३ उत्खात-
प्रतिरोपितधान्यभेदे च । “आपादपद्मप्रणताः कलमा इव
ते रघुम् । फलैः संवर्द्धयमासुरुत्खातप्रतिरोपिताः”
रघुः “कलमगोपबधूर्न मृगव्रजम्” माघः “तत्र
लोहितकशालिकलमकर्दमकपाण्डुकसुगन्धकशकुनाहृतपु-
ष्पाण्डकपुण्डरीकमहाशालिशीतभीरुकलोध्रपुष्पकदीर्घशूक-
काञ्चनकमहिषमस्तकहायनकदूषकमहादूषकप्रभृतयः
शालयः । मधुरा वीर्य्यतः शीता लघुपाका बलावहाः ।
पित्तघ्नाल्पानिलकफाः स्निग्धा बद्धाल्पवर्चसः । तेषां
लोहितकः श्रेष्ठो दोषघ्नः शुक्रमूत्रलः । चक्षुष्योवर्ण
बलकृत् स्वर्य्यो हृद्यश्रमापहः । व्रण्यो ज्वरहरश्चैव सर्व-
दोषविषापहः । तस्मादल्पान्तरगुणाः क्रमशः शालयोऽव-
राः” सुश्रुते तस्य गुणा उक्ताः । अस्य च रोपितधान्यत्वेन
गुणविशेषःभावप्र० उक्तो यथा “रोपितास्तु नवा वृष्याः
पुराणा लधवः स्थिराः । तेभ्यस्तु रोपिता भूयः शीघ्रपाकाः
गुणाधिकाः” । अस्य शिला पिङ्गलवर्ण्णा “कपोलदेशे
कलमाग्रपिङ्गलाः” इति कुभारे पिङ्गलोपमानत्वेन वर्णनात् ।
कलयति परेस्वं कल--अमच् । ४ चौरे पु० मेदि० ।

कलमोत्तम पु० ७ त० । गन्धशालौ राजनि० ।

कलम्ब पु० कल--क्षेपे अम्बच् कड--मदे अम्बच् डस्य लो

वा । शाकनाड़िकायां तस्या आहारकाले त्यज्यमानत्वात्
तथात्वम् । २ शरे अमरः तस्य अरिं प्रति क्षिप्यमाणत्वात्
तथात्वम् ३ कदम्बवृक्षे विश्वः कामिनां मादहेतुत्वात्तथा-
त्वम् । संज्ञायां कन् । कलम्बक--धाराकदम्बे राजनि० ।

कलम्बिका स्त्री कलम्बोव कायति कै--क संज्ञायां ह्रस्वः ।

१ ग्रीवापश्चाद्भागस्थनाड्यां तस्याः कलम्बीतुल्यशुषिरमध्यत्वात्
तथात्वम् । स्वार्थे कन् ह्रस्वः । (कलमी) २ शाकभेदे च ।

कलम्बी स्त्री के जले लम्बते लबि--अविश्रंसने अच्

गौरा० ङीष् । (कलमी) शाकभेदे तस्या जले लम्ब-
मानत्वात्तथात्वम् । भावप्र० तद्गुणाद्युक्तं यथा ।
“कलम्बी शतवर्षी च कथ्यन्ते तद्गुणा अथ । कलमी स्तन्यदा
प्रोक्ता मधुरा शुक्रकारिणी” । ति० त० स्मृतौ अस्यादश-
म्यामभक्ष्यत्वमुक्तम् “तुम्बी गोमांसतुल्या स्यात् कलम्बी
गोबधात्मिका” हरिशयने चास्या अभक्ष्यत्वमभक्ष्य-
शब्दे उक्तम् । डलयोरैक्यात् कडम्बीत्यप्यत्र शब्दरत्रा० ।

कलम्बु(म्बू) स्त्री के जले लम्बते लवि--उण् ७ त० । (कलमी)

शाकभेदे शब्दर० । अप्राणिजातिवाचकत्वात् वा ऊङ् ।

कलम्बुट न० के जले लम्बते लबि--बा० उट

३ त० । १ हैयङ्गवीने राजनि० । २ नवनीते हारा० ।
तयोर्जलोपरिप्लवमानत्वात्तथात्वम् ।

कलरव पुंस्त्री कलोरवोऽस्य । १ पारावते (पायरा) अमरः

२ कोकिले राजनि० । स्त्रियां जातित्वादुभयतो ङीष् ।
३ कलध्वनियुक्ते त्रि० मेदि० कर्म० । ४ मधुराव्यक्ते रवे पु०

कलल पुंन० कल--वृषा० कलच् । १ गर्भवेष्टचर्म्मणि अमरः

कलनशब्ददर्शितभागवतोक्ते एकरात्रेण पच्यमानगर्भा-
द्यवयवभूते २ रेतोविकारभेदे । उदा० तत्रैव शब्दे दृश्यम् ।

कललज पु० कललमिव जायते जन--ड कर्म्म० । १ राले

राजनि० । २ गर्भे च ।

कललजोद्भव पु० उद्भवत्यस्मात् उद्--भू--अपादाने अप्

६ त० । १ सालवृक्षे राजनि० । ततो रालरूप-
कललजस्योत्पत्तेः तस्य तथात्वम् ।

कलविङ्क(ङ्ग) पुंस्त्री कलं वङ्क(ङ्ग)ते वगि (बकि)--गतौ अच्

पृषो० अत इत्त्वम् । १ चटके खगे, अमरः जाति-
त्वेऽपि संयोगोपधत्वात् स्त्रियां टाप् । “ग्रीष्माय
कलविङ्गान् वर्षाभ्यस्तित्तिरान्” यजु० २४, २० । “कल-
पृष्ठ १७८१
विङ्कोलोहितादिः पुष्करसादस्ते त्वाष्ट्राः” २४, ३० । अश्व-
मेधपशुदेवकथने । अभक्ष्यप्रकरणे अस्याभक्ष्यतोक्ता
मनुना “कलविङ्कं प्लवं हंसं चक्राङ्कं ग्रामकुक्कुटम्”
बन्मांसगुणाः तस्य संज्ञाभेदश्च सुश्रुते उक्तो
यथाचकोरकलविङ्कमयूरक्रकरोपचक्रकुक्कुटसारङ्गशतपत्रकतित्ति-
रकुररबाहुकशरलप्रभृतयस्त्र्याहना विष्करालघवः
शीतमधुराः कषाया दोषशमनाश्च” । मुखपादैर्हननात्त्र्याहनाः ।
भावप्र० विशेषतस्तन्मांसगुणा उक्ता यथा-
चटकः कलविङ्कः स्यात् कुलिङ्गः कालकण्ठकः । कुलिङ्गः
शीतलः स्निग्धः स्वादुः शुक्रकफप्रदः सन्निपातहरो
वेश्मचटकश्चातिशुक्रलः” २ कलिङ्गवृक्षे मेदि० ।

कलश पु० कलं मधुराव्यक्तं ध्वनिं शवति शु--गतौ बा० ड ।

१ घटे । कर्षशब्दे दर्शितभावप्रकाशोक्ते २ मानभेदे च ।

कलशदिर् स्त्री कलशस्य दीर्दरणम् दॄ--भावे क्विप् ।

यज्ञियकलशविदारणे “अथ कलशदिराम् यदि कलशो
दीर्य्येतानुलिप्सध्वमिति ब्रूयात्” “यद्यनीतासु दक्षिणासु
कलशो दीर्य्येत तत्राप्येकामेव गां दद्यादथावभृथादेवो
देत्य पुनर्दीक्षेत पुनर्यज्ञोह्येव तत्र प्रायश्चित्तिरिति
कलशदिराम्” शत० ब्रा० ४, ५, १०, ७ ।

कलशपोतक पु० नागभेदे “आर्य्यकश्चोग्रकश्चैव नागः

कलशपोतकः” भा० आ० ३५ अ० ।

कलशि स्त्री कं जलं लाति ला--क तथा सती शीर्य्यति

बा० शॄ--डि । (चाकुलिया) १ पृश्निपर्ण्ण्याम् अमरः २ घटे
हेमच० “कलशिमुदधिगुर्वीं वल्लवा लोडयन्ति” माघः । अस्य
कृदिकारान्तत्वात् वा ङीप् कलशीत्यप्युभवत्र ।

कलशीकण्ठ त्रि० कलश्याः कण्ठ इव कण्ठोऽस्य । १ कलशी

कण्ठतुल्यकण्ठान्विते २ ऋषिभेदे पु० ततः गोत्रप्रत्ययस्य
बहुषु उपका० वा लुक् । कालशीकण्ठयः कलशीकण्ठाः

कलशीपदी स्त्री कलशीव पादावस्याः अन्त्यलोपः समा०

कुम्भपद्या० ङीप् पद्भावश्च । कुम्भाकारपादयुतायां
स्त्रियाम् ।

कलशी(सी)सुत पु० कलश्याः (स्याः) सुत इव

तत्रोत्पन्नत्वात् । अगस्त्ये मुनौ कुम्भसम्भवशब्दे तत्कथा ।

कलशोदर पु० कलश इव उदरमस्य । दानवभेदे “सुबाहुः

खञ्जबाहुश्च वरुणः कलशोदरः” हरिवं० २४० ।
२ कुम्भकारीदरयुक्ते त्रि० स्त्रियां वा ङीप् ।

कलस पु० केन जलेन लसति लस--अच् ३ त० । १ घटे

हेमच० । तन्नामनिरुक्तिः “कलां कलां गृहीत्वा तु
देवानां विश्वकूर्मणा । निर्मितोऽयं स वै यस्मात् कलसस्तेन
कथ्यते” निर्वाणत० उक्ता । “सागरे मथ्यमाने तु पीयूषाथं
सुरासुरैः । पीयूषधारणार्थाय निर्मितो विश्वकर्मणा ।
कलाः कलास्तु देवानामपि तास्ताः पृथक् पृथक् । यतः
कृतास्तु कलसास्ततस्ते परिकीर्त्तिताः” कालि० पु० ८७ अ०
पृषो० साधनम् । कर्मादौ स्थाप्यफलसमानमुक्तं शा० ति०
यथा--“पञ्चाशदङ्गुलो, व्यासं उत्सेधः षोडशाङ्गुलः ।
कलसानां प्रमाणन्तुमुखमष्टाङ्गुलं मतम् । षट्त्रिंशदङ्गुलं
कुम्भं विस्तारोन्नतिशालिनम् । षोडशं द्वादशं वापि ततो
न्यूनं न कारयेत्” । पुष्पाभिषेके कालिकापु० ८७ ।
पुष्पाभिषेके स्थाप्यघटनामभेदस्तत्स्थापनप्रकारश्च तत्रै-
वाध्याये यथा “नवैव कलसाः प्रोक्ता नामतस्तान्निबीधत ।
गोह्योपगोह्यो मरुतो मयूखश्च तथाऽपरः । मनोहा कृषि-
भद्रश्च विजयस्तनुशोधकः । इन्द्रियघ्नोऽथ विजयो
नवमः परिकीर्त्तितः । तेषामेव क्रमाद्भूप! नव
नामानि यानि तु । शृणु तान्यपराण्येव शान्तिदानि
सदैव हि । क्षितीन्द्रः प्रथमः प्रोक्तो द्वितीयो
जलसम्भवः । पवनाग्नी ततो द्वौ तु यजमानस्ततः परः ।
कोषसम्भवनामा तु षष्ठः स परिकीर्त्तितः । सोमस्तु
सप्तमः प्रोक्तश्चादित्यस्तु तथाष्टमः । विजयो नाम
कलसो योऽसौ नवम उच्यते । स तु पञ्चमुखः प्रोक्तो
माहादेवस्वरूपधृक् । घटस्य पञ्चवक्त्रेषु पञ्चवक्त्रः स्वयं
तथा । यथाकाष्ठं स्थितः सम्यक् वामदेवादिनामतः ।
मण्डलस्य च पद्मान्तः पञ्चवक्त्रघटं न्यसेत् । क्षितीन्द्रं
पूर्व्वतो न्यस्य पश्चिमे जलसम्भवम् । वायव्ये वायवं
न्यस्य आग्नेये ह्यग्निसम्भवम् । नैरृत्ये यजमानन्तु
ऐशान्यां कोषसम्भवम् । सोममुत्तरतो न्यस्य
सौरं दक्षिणतो न्यसेत् । न्यस्यैवं कलसांश्चैव तेषु
चैतान् विचिन्तयेत् । कलसानां मुखे ब्रह्मा ग्रीवायां
शङ्करः स्थितः । मूले तु संस्थितो विष्णुर्म्मध्ये मातृगणाः
स्थिताः । दिक्पाला देवताः सर्व्वे वेष्टयन्ति दिशो
दश । कुक्षौ तृ सागराः सप्त सप्त द्वीपाश्च
संस्थिताः । नक्षत्राणि ग्रहाः सर्व्वे तथैव
कुलपर्व्वताः । गङ्गाद्याः सरितः सर्व्वा वेदाश्चत्वार एव
च । कलसे संस्थिताः सर्व्वेतेषु तानि विचिन्तयेत् ।
रत्नानि सर्व्ववीजानि पुष्पाणि च फलानि च । वज्र
मौक्तिकवैदूर्य्यमहापद्मेन्द्रस्फाटिकैः । सर्व्वधाममयं
विल्वं नागरोडुम्बरं तथा । वीजपूरकजम्बीरकाम्रा-
म्रातकदाडिमान् । यवं शालिञ्च नीवारं गीधूमं
पृष्ठ १७८२
सितसर्षपम् । कुङ्कुमागुरुकर्पूरमदनं रोचनं तथा ।
चन्दनञ्च तथा मांसीमेलां कुष्ठं तथैव च । कर्पूरपत्र
चण्डञ्च जलं निर्यासकाम्बुदम् । शैलेयं वदरं जातो
पत्रपुष्पे तथैव च । कालशाकं तथा पृक्वां देवीं पर्णकमेव
च । वचां धात्रीं समञ्जिष्ठां तुरुष्कं मङ्गलाष्टकम् ।
दूर्व्वां मोहनिकां भद्रां शतमूलीं शतावरीम् । पर्णालीं
सरलां क्षुद्रां सहदेवीं गजाङ्कुशाम् । पूर्णकोषां
सितां पाठां गुञ्जां सुरसिकालसौ । व्यामकं गजदन्तञ्च
शतपुष्पां पुनर्णवाम् । ब्राह्मीं देवीं शिवां रुद्रां सर्व्वस-
न्धानिकां तथा । समाहृत्य शुभानेतान् कलसेषु
निधापयेत् । कलसस्य यथा देवान् विधिं शम्भुं
गदाधरम् । यथाक्रमं पूजयित्वा शम्भुं मुख्यतया
यजेत् । प्रासादेन तु मन्त्रेण शम्भुतन्त्रेण शङ्करम् ।
प्रथमं पूजयेन्मध्ये नानानैवेद्यवेदनैः” ।
सर्व्वकर्म्मोपयोगिकलसस्थापनविधिः रुद्रकल्पे दर्शितो यथा
ॐ मूरसीतिमन्त्रेण मण्डलात्पूर्वस्यां दिशि भूमिस्पर्शः ।
ॐ ओषधयः समवन्तेति तत्र धान्यपुञ्जीकरणम् । ॐ
चित्पतिर्म्मा पुनात्विति सप्तभिर्द्दर्भपवित्रैः कलसपवित्री-
करणम् । ॐ आजिघ्रेति धान्यपुञ्जोपरि कलसस्थापनम् ।
ॐ स्थिरोभवेति स्थिरीकरणम् । ॐ मही द्यौरिति जलेन
कलसपूरणम् । ॐ या ओषधीरिति तत्र सर्वौषधिप्र-
क्षेपः । ॐ व्रीहयश्च म इति धान्यम् । ॐ हिरण्य-
गर्भ इति हिरण्यम् । ॐ अश्वत्थेव इति पञ्च पल्लवान् ।
ॐ काण्डात्काण्डादिति दूर्वाः । ॐ स्योना पृथिवीति
पञ्च सप्त वा मृदश्च दापयेत् । ॐ धान्यमसीति पूर्णपात्रे
धान्यनिधानम् । ॐ पूर्णादर्वीति तस्यैव पूर्णपात्रस्य कलसो-
परिनिधानम् । ॐ याः फलिनीरिति पूर्णपात्रे नारि-
केलादिफलस्थापनम् । ॐ सुजात इति वासोयुग्मेन
वाससा वा पवित्रेण वा कलससंवेष्टनम् । ततः कलसे गङ्गाद्या-
वाहनम् “इमं मे गङ्गे! यमुने! सरस्वति! सिताऽसिते
सरितौ! पावका नः सरस्वती । ॐ अश्वावतीर्गोमतोः ।
ॐ पञ्चनद्यः । ॐ “प्रपद्ये वरुणं देवं यादसांपतिमीश्वरम् ।
याचितं देहि मे तीर्थं सर्वपापापनुत्तये” । ॐ “गङ्गे! त्वं
सर्वतीर्थानामाश्रयोऽसि यतस्ततः । यजमानाभिषेकार्थमेहि
पाप विनाशय” । “तापनि! यसुने! देवि! त्रिषु
लोकेषु विश्रुते! यजमानाभिषेकार्थमेहि पापं विनाशय ।
सरस्वति! नमस्तुभ्यं महेश्वरि! हरिप्रिये! । यजमाना-
भिषेकार्थमे हि पापं व्यपीह वै” इति मन्त्रैः ॐ कल-
सस्य मुखे विष्णुरित्यादिकैः प्रसन्नोभव सर्वदेत्यन्तैर्मन्त्रै-
श्चावाहनम् । ॐ मनोजूतिरितिमन्त्रान्ते “कलस! सुप्र-
तिष्ठितोभवेति प्रतिष्ठा । ततोगन्धादिभिः कलसपूजनम्” ।
अत्र प्रतीकमात्रं प्रदर्शितम् समग्रमन्त्राश्च मत्
कृततुलादानादिपद्धतौ २२ पृष्ठादौ ज्ञेयाः ।
अत्र शाखिभेदात् मन्त्रभेदास्तु तत्तद्ग्रन्थेऽवधेयाः
नवरात्रे कलसस्थापने विशेषः नि० सि० उक्तो यथा ।
भार्गवार्चनदीपिकायां देवीपुराणे “त्वाष्ट्रवैधृतियुक्ता
चेत् प्रतिपन्नाम्बिकार्चने । तयोरन्ते विधातव्य
कलसारोपणं गुहेति” । चित्रावैधृतियुतापि द्विती-
यायुता चेत् सैव ग्राह्येत्युक्तं दुर्गोत्सवे । “भद्रान्विता चेत्
प्रतिपत्तु लभ्यते विरुद्धयोगैरपि सङ्गता सती । सैवा-
पराह्णे विबुधैर्विधेया स्त्रीपुत्रराज्यादिविवृद्धिहेतुरिति” ।
यदा तु वैधृत्यादिपरिहारेण प्रतिपन्न लभ्यते ।
तदोक्तं तत्रैव कात्यायनेन । “प्रतिपद्याश्विने मासि
भवेत् वैधृतिचित्रयोः । आद्यपादौ परित्यज्य प्रारभेन्न-
वरात्रकमिति” । भविष्येऽपि चित्रावैधृतिसंपूर्णा-
प्रतिपच्चेद्भवेन्नृप! । त्याज्या अंशास्त्रयस्त्वाद्यास्तुरीये-
ऽंशे तु पूजनमिति” । रुद्रयामलेऽपि “वैधृतौ पुत्र
नाशः स्याच्चित्रायां धननाशनम् । तस्मान्न स्थापये-
त्कुम्भं चित्रायां वैधृतौ तथा । संपूर्णा प्रतिपद्देव!
चित्रायुक्ता यदा भवेत् । वैधृत्या वापि युक्ता स्यात्तदा
मध्यन्दिने रवौ । अभिजित्तु मुहूर्त्तं यत्तत्र स्थापनमिष्यते” ।
“इदं कलसस्थापनं रात्रौ न कार्य्यम् । “न रात्रौ स्थापनं
कार्य्यं न च कुम्भामिषेचनमिति” मात्स्योक्तेः “भास्क-
रोदयमारभ्य यावत्तु दश नाडिकाः । प्रातः काल
इति प्रोक्तः स्थापनारोपणादिषु” इति विष्णुधर्मोक्तेश्च ।
रुद्रयामले “स्नानं माङ्गलिकं कृत्वा ततो देवीं
प्रपूजयेत् । शुभाभिर्मृत्तिकाभिश्च पूर्वं कृत्वा तु वेदि-
काम् । यवान्वै वापयेत्तत्र गोधूमैश्चापि संयुतान् ।
तत्र संस्थापयेत्कुम्भं विधिना मन्त्रपूर्वकम् । सौवर्णं
राजतं वापि ताम्रं मृण्मयमेव वेति” । “कलसं
जलसंभृतं पुरः” नैष० ।

कलसि स्त्री केन लसति लस--इन् । १ घटे २ पृश्नि-

पर्ण्याञ्च (चाकुलिया) हेम० । कृदिकारान्तत्वात् वा ङीप्
कलसीत्युभयत्र “अलम्बितकर्ण्णशष्कुलीकलसीकं
रचयन्नवोचत” नैष० ।
पृष्ठ १७८३

कलह पुं न० कलं कामं हन्त्यत्र हन--बा० आधारे ड । अर्द्ध-

र्चादि । विवादे वाग्विवादे (झक्डा) “क्षत्तः! पुत्रेषु पुत्रैर्मे
कलहोन भविष्यति” भा० आ० ४८ । “न विवादे न
कलहे न सेनायां न सङ्गरे” मनुः । २ युद्धे अमरः ।
“विधित्सतः कलहमवेक्ष्य विद्विषः” “भाविकलह-
फलयोगमसौ” माघः ।

कलहंस पुंस्त्री कलप्रधानो हंसः । १ (बालहाँस) हंसभेदे

२ राजहंसे ३ नृपश्रेष्ठे च मेदि० । “कुन्दावदाताः
कलहंसमालाः प्रतीयिरे श्रोत्रसुखैर्निनादैः” भट्टिः । “कलसं
जलसंभृतं पुरः कलहंसः कलयाम्बभूव सः” नैष०
“बधूदुकूलं कलहंसलक्षणम्” कुमा० । स्त्रियां जाति-
त्वात् ङीष् । “कलहंसीषु मदालसं गतम्” रघुः । ४
परमात्मनि ब्रह्मणि च शब्दर० ।

कलहकार त्रि० कृलहं करोति कृ--हेत्वादावपि न ट किन्तु

अण् उप० स० । कलहकारके । “हन्तुं कलहकारो-
ऽसौ शब्दकारः पपात खम्” भट्टिः ।

कलहनाशन च० कलहं नाशयति नश--णिच्--ल्यु ।

पूतिकरञ्जे शब्दरत्र० कलहनाशकता चास्य कार्मण विद्यायां
विख्याता ।

कलहप्रिय पु० कलहः प्रियोऽस्य । १ नारदे ॠषौ, तस्य

कलहप्रियत्वं पुराणादौ प्रसिद्धम् । २ सारिकापक्षिण्याम्
स्त्री राजनि० ।

कलहान्तरिता स्त्री अवस्थान्तरप्राप्ते नायिकाभेदे । सा च

“चाटुकारमपि प्राणनाथं दोषादपास्य या । पश्चात्तापम-
बाप्नोति कलहान्तरिता तु सा” सा० द० उक्तलक्षणा ।
यथा “नो चाटुश्रवणं कृतं न च दृशा हारोऽन्तिके
वीक्षितः कान्तस्य प्रियहेतवे निजसखीवाचोऽपि दूरी-
कृताः । पादान्ते विनिपत्य तत्क्षणमसौ गच्छन्मया मूढया
पाणिभ्यामवरुध्य हन्त सहसा कण्ठे कथं नार्पितः?” ।

कलहाय कलहं करोति कलह + ङ्य नामधातुः आत्म०

अक० सेट् । कलहायते अकलहायिष्ट । कलहायाम्
बभूव आस चक्रे । कलहायमानः कलहायितः ।

कला स्त्री कलयति कलते वा कर्त्तरि अच् कल्यते ज्ञायते

कर्मणि अच् वा । चन्द्रमण्डलस्य षोडशे भागे यथा च
चन्द्रस्य षोड़शभागस्य कलाशब्दवाच्यत्वम् । तथा कालमा०
उक्तं यथा स्कान्दे-
“अमा षोडशभागेन देवि! प्रोक्ता महाकला । संस्थिता
परमा माया देहिनां देहधारिणी । अमादिपौर्णमास्यन्ता
या एव शशिनः कलाः । तिथयस्ताः समाख्याताः षोड़शैव
वरानने!” इति “अयमर्थः या महामाया आधारशक्ति-
रूपा देहिनां देहधारिणी संस्थिता सा चन्द्रमण्डलस्य
षोड़शभागेन परिमिता चन्द्रदेहधारिण्यमानाम्नी
महाकलेति प्रोक्ता क्षयोदयरहिता नित्या तिथिसंज्ञिकैव
इतरा अपि पञ्चदश कला दिवसव्यवहारोपयोगिन्यः
क्षयोदयवत्यः, पञ्चदश तिथयो भवन्तीति तिथयः
षोडशैवेत्यविरुद्धं वचनमिति । श्रुतिस्त्वस्मिन्नर्थे पक्षनिर्णय
एवोदाहृता । “तस्य रात्रय एव पञ्चदश कला ध्रुवै-
वास्य षोड़शी कलेति” । एवञ्च सत्यत्र सामान्यविशेषरूपेण
तिथिद्वैविध्यमुक्तं भवति तत्र येयममेत्युक्ता क्षयोदय-
विवर्जिता ध्रुवा षोडशी कला तद्युक्तः कालस्तिथि-
सामान्यं यास्त्ववशिष्टाः वृद्धिक्षयोपेताः पञ्चदश
कलास्ताभिर्विशिष्टाः कालविभागास्तिथिविशेषाः । तासां पञ्च-
दशानामेकैकां कलां बह्न्यादयः प्रजापत्यन्ताः पञ्च-
दश देवताः क्रमेण पिबन्ति । तत्र वह्निना या कला प्रथमं
पीयते मा प्रथमेत्युच्यते, तया युक्तः कालविशेषः प्राथ
म्यवाचिना प्रतिपच्छब्देनाभिधीयते । एवं द्वितीयादीना
पञ्चदश्यन्तानां तिथीनां नामान्यवगन्तव्यानि, ता एताः
कृष्णपक्षे तिथयो भवन्ति । पुनश्च ताः पीताः कलास्तेनैव
क्रमेण तत्र तथा वह्न्यादिदेवताभ्यो निर्गत्य चन्दमण्डलं
पूरयन्ति ताभिर्युक्ताः कालविशेषाः शुक्लपक्षगताः प्रति
पदाद्यास्तिथयो भवन्ति । बह्न्यादिदेवतानां कलापानं
सोमोत्पत्तौ पठितम्, तथा हि “प्रथमां पिबते वह्निर्द्वि-
तीयां पिबते रविः । विश्वेदेवास्तृतीयान्तु चतुर्थीं
सलिलाधिपः । पञ्चमीं तु वषट्कारः षष्ठी पिबति वासवः ।
सप्तमामृषयोदिव्या अष्टमीमज एकपात् । नवमीं कृष्णपक्षे
ऽस्य यमः प्राश्नाति वै कलाम् । दशमीं पिबते वायुः
पिबत्येकादशीमुमा । द्वादशीं पितरः सर्वे समं प्राश्नन्ति
भागशः । त्रयोदशीं धनाध्यक्षः कुवेरः पिबते कलाम् ।
चतुर्दशीं पशुपतिः पञ्चदशीं प्रजापतिः । निष्मीतः
कलया शेषश्चन्द्रमा न प्रकाशते । कला षोड़शिका या सा त्वपः
प्रविशते सदा । अमायां तु सदा सोम ओषधीः प्रति-
पद्यते । तमोषधिगतं गावः पिबन्त्यम्बुगतञ्च यत् ।
तत्क्षीरममृतं भूत्वा मन्त्रपूतं द्विजातिभिः । हुतमग्निषु
यज्ञेषु पुनराप्यायते शशी । दिने दिने कलावृद्धिः
पौर्णमास्यां तु पूर्णतेति” ।
एवं षोडशानां कलानामेका नित्या अन्या क्षयोदय-
शालिनी, तदेतत् स्पष्टमुक्तम् शत० ब्रा० १४, ४, ३, २२ ।
पृष्ठ १७८४
यथा “प्रजापतिः षोड़शकलस्तस्य रात्रय एव पञ्चदश-
कला ध्रुवैवास्य षोड़शी कला स रात्रिभिरेवा च पूर्य्यते
ऽप च क्षीयते सोऽमावास्यां रात्रिमेतया षोड़श्या कलया
सर्वमिदं प्राणभृदनुप्रविश्य ततः प्रातर्जायते तस्मादेतां
रात्रिं प्राणभृतः प्राणं न विच्छिन्द्यादपि कृकलासस्य”
“योऽयमन्नात्मा प्रजापतिः प्रकृतः स एष संवत्सरात्मना
विशेषतो निर्दिश्यते रात्रयः अहोरात्राणि तिथय एव
प्रतिपदाद्याः ध्रुवैव नित्यैव व्यवस्थिता । एतासां वित्तत्वं
वक्तुं तत्साधर्म्यमाह स चन्द्रात्मा प्रजापतीरात्रिभिरेव
प्रतिपद्राद्याभिरुपचीयमानाभिः शुक्लपक्षे वर्धते कृष्णपक्षे
ताभिरेवापचीयमानाभिः कलाभिरपक्षीयते अमावा-
स्यायां ध्रुवैका कला व्यवस्थिता । एवं कलानां वित्तत्वे
सिद्धे तदुपचयापचयौ कर्मेत्यभिप्रेत्याह स कलात्मा प्रजा-
पतिरमावास्यां रात्रिं रात्रौ या ध्रुवा कलात्रावस्थितोक्ता
एतया षोड़श्या कलया सर्वमिदं प्राणिजातं स्थावर-
जङ्गमात्मकमनुप्रविश्य यदपः पिबति यच्चोषधीरश्नाति
तत् सर्वमेवौषध्यात्मना व्याप्यामावास्यां रात्रिमवस्थाय
ततोऽपरेद्युः प्रातर्जायते द्वितोयया संयुक्तो भवति
एवमसौ प्रजापतिः पाङक्तात्मकः संवृत्तः एवं प्रजापतेः
पाङ्क्तकर्मफलत्वमुक्त्वा प्रासङ्गिकमथमाह तस्मादिति
प्राणिनं न प्रमापयेत् कृकलासस्यापि सरटस्यापि प्राणं
न विच्छिन्द्यात्” भा० । चन्द्रकलानां नामभेदादिकमनुपदं
वक्ष्यते । “सर्वाभिः सर्वदा चन्द्रस्तं कलाभिर्निषेवते”
“ज्योत्स्नान्तराणीव कलान्तराणि” । “कला च सा
कान्तिमती कला(व)भृतः” कुमा० । “कलासमग्रेण गृहा-
नमुञ्चता” “कलादधानः सकलाः स्वभाभिरुद्भासयन्
सौधसिताभिराशाः” “निधिरम्भसामुपचयाय कलाः”
इति च भाघः कलाधरः कलाभृत् कलानिधिः कलावान् ।
२ अवयवमात्रे च । “सोमसूर्य्याग्निभेदेन मातृकावर्ण
सम्भवाः । अष्टत्रिंशत्कलास्तत्तन्मण्डलेषु व्यवस्थिताः” शा०
ति० । “सोममण्डलस्य षोड़शकलता सूर्य्यमण्डलस्य द्वाद-
शकलता वह्निमण्डलस्य दशकलतोक्ता” तासां नामानि
ध्येयरूपाणि च तत्र दर्शितानि
यथा“अमृता मानदा पूषा तुष्टिःपुष्टोरतिर्धृतिः । शशिनी
चन्द्रिका कान्तिर्ज्योत्स्ना श्रीः प्रीतिरङ्गदा । पूर्णा पूर्णा-
मृता कामदायिन्यः स्वरजाः कलाः १६ । तपिनी तापिनी
धूम्रा मरीचिर्ज्वालिनी रुचिः । सुषुम्णा भोगदा विश्वा
योधिनी धारिणी क्षमा । कञाद्या वसुदाः सौराः टठान्ता
द्वादशेरिताः १२ । “धूम्रार्चिरूष्मा ज्वलिनी ज्वालिनी
विस्फुलिङ्गिनी । सुश्रीः सुरूपा कपिला हव्यकव्यवहे
अपि । डादीनां दशवर्णानां कला धर्मप्रदा इमाः” १० ।
अभयेष्टकराध्येया श्वेतपीतारुणाः क्रमात्” ।
तथा अकारोकारमकारनादविन्द्वात्मकप्रणवस्य पञ्चाशत्-
कलात्मकतामुक्त्वा तन्नामधेयरूपाण्यपि तत्रोक्तानि
यथा“तारस्य पञ्चभेदस्य पञ्चाशद्वर्णगाः कलाः । सृष्टिरृद्धिः-
स्मृतिर्मेधा कान्तिर्लक्ष्मीर्धृतिः स्थिरा । स्थितिः सिद्धि-
रिति प्रोक्ता कचवर्नकलाः १० क्रमात् । अकाराद्-
ब्रह्मणोत्पन्नास्तप्तचामीकरप्रभाः । एताः करधृताक्ष-
स्रक्पङ्कजद्वयकुण्डिकाः । जरा च पालिनी शान्तिरैश्वरी
रतिकामिके । वरदाह्लादिनी प्रीतिर्द्दीर्घा स्वुष्टतवर्गजाः १० ।
उकाराद्विष्णुनोत्पन्नास्तमालदलसन्निभाः । अभीतिशङ्ख
चक्रेष्टबाहवः परिकीर्त्तिताः । तीक्ष्णा रौद्री भया
निद्रा तन्द्रा क्षुत् क्रोधिनी क्रिया । उत्करी मुत्य रेताः
स्युः कथिताः पयवर्गजाः १० । रुद्रेण मार्णादुत्पन्नाः
शरच्चन्द्रसमप्रभाः । उद्वहन्त्योऽभयं शूलं कपालं बाहु-
भिर्वरम् । ईश्वरेणोदिता विन्दोःपीताश्वेताऽरुणाऽसिताः ४ ।
अनन्तास्ताःषवर्गस्था जवाकुसुमसन्निभाः । अभयं हरिणं ठङ्कं
दधाना बाहुभिर्वरम् । निवृत्तिः सुप्रतिष्ठा स्वाद्विद्या
शान्तिरनन्तरम् । इन्धिका दीपिका चैव रेचिका मोचिका-
परा । सूक्ष्मा सूक्ष्मामृता ज्ञानामृता चाप्यायिनी तथा ।
व्यापिनी व्योमरूपा स्युरनन्ताः स्वरसंगताः १६ । सदाशिवेन
संजातानादादेताः सितत्विषः । अक्षस्रक्पुस्तकगुणकपा
लाट्यकराम्बुजाः । न्यासे तु योजयेदादौ षोड़श स्वरजाः
कलाः । इति पञ्चाशदाख्याताः कलाः सर्वसमृद्धिदाः”
कल्यते ज्ञायतेऽनेन । अंशतुल्ये ३ उपाधिभेदे च ।
“तस्मै स होवाच । इहैवान्तः शरीरे सौम्य! स पुरुषो
यस्मिन्नेताः षोड़श कलाः प्रभवन्तीति” पश्रोपनिषत् ।
“तस्मै स होवाच । इहैवान्तः शरीरे हृदयपुण्डरी-
काकाशमध्ये हे सौम्य! स पुरुषो न देशान्तरे विज्ञेयो
यस्मिन् एता उच्यमानाः षोड़श कलाः प्राणाद्याः प्रभ-
वन्त्युत्पद्यन्त इति षोड़शकलाभिरुपाधिरूपाभिः सकल
इव निष्कलः पुरुषो लक्ष्यतेऽविद्ययेति” भाष्यम् ।
“पुरुषस्य षोड़शकलत्वं न साक्षात्सावयवत्वेन, किन्तु
कलाजनकत्वेन तदुपाधिमत्त्वादिति वक्तुंयस्मिन्नेता इति
वाक्यतात्पर्य्यमाह षोडशकलाभिरिति” आनन्द०
यथा च पुरुषस्य वोडशकक्षत्वं तथोक्तं तत्रैव
पृष्ठ १७८५
प्रश्नोपनिषदि शङ्कराचार्य्यकृततद्भाष्ये च
यथा“स ईक्षाञ्चक्रे कस्मिन्नहमुत्क्रान्त उत्क्रान्तो भविष्यामि
कस्मिन् वा प्रतिष्ठिते प्रतिष्ठास्यामीति” उप० । “तदुपाधि-
कलाध्यारोपापनयनेन विद्यया स पुरुषः केवलो दर्शयितव्य
इति कलानां तत्प्रभवत्वमुच्यते । प्राणादीनामत्यन्तनिर्व्वि-
शेषे ह्यद्वये शुद्धे तत्त्वे शक्यतेऽध्यारोपमन्तरेण प्रतिपाद्य-
प्रतिपादनादिव्यवहारः कर्त्तुमिति कलानां प्रभवस्थि-
त्यप्यया आरोप्यन्ते अविद्याविषयाश्चैतन्याव्यतिरेकेणैव
हि कला जायमानास्तिष्ठन्त्यः प्रलीयमानाश्च सर्व्वदा
लक्ष्यन्ते । अत एव भ्रान्ताः केचिदग्निसंयोगाद्घृत-
मिव घटाद्याकारेण चैतन्यमेव प्रतिक्षणं जायते
नश्यतीति तन्निरोधे शून्यमिव सर्व्वमिति । अपरे
घटादिविषयं चैतन्यं चेतयितुर्नित्यस्यात्मनोऽनित्यं
जायते विनश्यतीति । अपरे चैतन्यंभूतधर्म्म इति
लौकायतिकाः । अनपायोपजननधर्म्मकचैतन्यमात्मैव
नामरूपाद्युपाधिधर्मैः प्रत्यवभासते । “सत्यं ज्ञानमानन्दं
ब्रह्म” “विज्ञानघन एवेत्यादि” श्रुतिभ्यः । स्वरूपाव्यभि-
चारात् यथा यथा यो यः पदार्थो विज्ञायते
तथा तथा ज्ञायमानत्वादेव तस्य तस्य चैतन्यस्याव्य-
भिचारित्वं वस्तु च भवति किञ्चिन्न ज्ञायत इति
चानुपपन्नम् । रूपञ्च दृश्यते न चास्ति चक्षुरिति
वत् । व्यभिचरति तु ज्ञानं, ज्ञेयं न व्यभिचरति
कदाचिदपि । ज्ञेयाभावेऽपि ज्ञेयान्तरेभावाज्ज्ञानस्य ।
न हि ज्ञानेऽसति ज्ञेयं नाम भवति कस्यचित्-
सुषुप्तेऽदर्शनात् ज्ञानस्यापि सुषुप्तेऽभावाज्ज्ञेयाज्ज्ञान-
स्वरूपस्य व्यभिचार इति चेन्न । ज्ञेयावभासकस्य
ज्ञानस्यालोकवज्ज्ञेयाभिव्यञ्जकत्वात् स्वव्यङ्ग्याभावे
आलोकाभावानुपपत्तिवत् सुषुप्ने विज्ञानाभावानुपपत्तेः ।
न ह्यन्धकारे चक्षुषो रूपानुपलब्धौ चक्षुषोऽभावः
शक्यः कल्पयितुमवैनाशिकेन । वैनाशिको ज्ञेयाभावे
ज्ञानाभावं कल्पयत्येवेति चेत्? येन तदभावं कल्पये-
त्तस्याभावः केन कल्प्यत इति वक्तव्यम् वैनाशिकेन ।
तदभावस्यापि ज्ञेयत्वाज्ज्ञानाभावे ज्ञानाभाव इति
चेत्? न, अभावस्यापि ज्ञेयत्वाभ्युपगमादभावोऽपि
ज्ञेयोऽभ्युपगम्यते वैनाशिकैः, नित्यञ्च तदव्यतिरिक्तञ्चे-
ज्ज्ञानं नित्यं कल्पितं स्यात्तदभावस्य च ज्ञानात्म-
कत्वादभावत्वं वाङ्मात्रमेव न परमार्थतोऽभावत्वम-
नित्यत्वं च ज्ञानस्य । न च नित्यस्य ज्ञानस्याभावो-
नाममात्राध्यारोपे किन्नश्छिन्नम् । अथाभावो ज्ञेयो-
ऽपि सन् ज्ञानवदतिरिक्त इति चेन्न तर्हि ज्ञेया-
भावे ज्ञानाभावः ज्ञेयं ज्ञानव्यतिरिक्तं न तु ज्ञानं
ज्ञेयव्यतिरिक्तमिति चेन्न । शब्दमात्रत्वाद्विशेषानुपपत्तेः ।
ज्ञेयज्ञानयोरेकत्वञ्चेदभ्युपगम्यते--ज्ञेयं ज्ञानव्यतिरिक्तं
न ज्ञेयव्यतिरिक्तं ज्ञानम् ज्ञेयव्यतिरिक्तं नेति तु
शब्दमात्रमेव तद्वह्निरग्निव्यतिरिक्तोऽग्निर्न वह्निव्यतिरिक्त
इति यद्वदभ्युपगम्य ज्ञेयव्यतिरेके तु ज्ञानस्य ज्ञेयाभावे
ज्ञानाभावानुपपत्तिः सिद्धा । ज्ञेयाभावेऽदर्शनादभावो
ज्ञानस्येति चेन्न सुष्प्तेरित्यभ्युपगमात् । वैनाशिकैरभ्युपग-
म्यते हि सुषुप्तेऽपि विज्ञानास्तित्वं, तत्रापि ज्ञेयसत्त्वमभ्यु-
पगम्यते ज्ञानस्य स्वेनैवेति चेन्न भेदस्य सिद्धत्वात् ।
सिद्धं ह्यभावज्ञेयविषयस्य ज्ञानस्याभावज्ञेयव्यतिरेका-
ज्ज्ञेयज्ञानयोरन्यत्वम् । न हि तत्सिद्धं मृतमिवोज्जीव-
यितुं पुनरन्यथा कर्त्तुं शक्यते वैनाशिकशतैरपि ज्ञानस्य
ज्ञेयत्वमेवेति । तदप्यन्येन तदप्यन्येनेति त्वत्पक्षेऽति-
प्रसङ्ग इति चेन्न तद्विभागोपपत्तेः । सर्वस्य यदा हि
सर्वं ज्ञेयं कस्यचित्तदा तद्व्यतिरिक्तं ज्ञानं ज्ञान-
मेवेति द्वितीयो विभाग एवाभ्युपगम्यतेऽवैनाशिकैः ।
न तृतीयस्तद्विषय इत्यनवस्थानुपपत्तिः ज्ञानस्य स्वे
वाविज्ञेयत्वे सर्वज्ञत्वहानिरिति चेत्? सोऽपि दोषस्तस्यैवास्तु
किन्तन्निवर्हणेनास्माकमनवस्थादोषश्च ज्ञानस्य ज्ञयत्वाभ्युप-
गमादवश्यञ्चैव वैनाशिकानां ज्ञानं ज्ञेयम् स्वात्मना
चाविज्ञेयत्वेननवस्थाऽनिवार्य्या । समान एवायं दोष
इति चेन्न ज्ञानस्यैकत्वोपपत्तेः । सर्व्वदेशकालपुरुषा-
द्यवस्थमेकमेव ज्ञानं नामरूपाद्यनेकोपाधिभेदात्
सवित्रादिजलादिप्रतिविम्बवदनेकतयावभासत इति । नाऽसौ
दोषः । तथा चेदिहेदमुच्यते । ननुश्रुतेरिहैवान्तः शरीरे
परिच्छिन्नः कुण्डवदरवत्पुरुष इति, न प्राणादिकला-
कारणत्वात् । न हि शरीरमात्रपरिच्छिन्नस्य प्राणस्य
श्रद्धादीनां कलानां कारणत्वं प्रतिपत्तुं शक्नुयात् ।
कलाकार्य्यत्वाच्च शरीरस्य । न हि पुरुषकार्य्याणां
कलानां कार्य्यं सच्छरीरं कारणकारणं स्वस्य पुरुषं
कुण्डवदरमिवाभ्यन्तरं कुर्य्यात्, वीजवत्स्यादिति चेत्?
यथा वीजकार्य्यो वृक्षस्तत्कार्य्यञ्च फलं स्वकारणकारणं
वीजमभ्यन्तरीकरोत्याम्रादि तद्वत्पुरुषमभ्यन्तरीकुर्य्यात्
शरीरं स्वकारणकारणमपीति चेन्न अन्यत्वात् सावय-
वत्वाच्च । दृष्टान्ते कारणवीजाद्वृक्षफलसंवृत्तान्यन्यान्येव
पृष्ठ १७८६
वीजानि दार्ष्टान्तिके तु स्वकारणकारणभूतः स एव पुरुषः
शरीरेऽभ्यन्तरीकृतः श्रूयते । वीजवृक्षादीनां सावयवत्वाच्च
स्यादाधाराधेयत्वं निरवयवश्च पुरुषः सावयवाश्च कलाः
शरीरञ्च एतेनाकाशस्यापि शरीराधारत्वमनुपपन्नं किमु-
ताकाशकारणस्य पुरुषस्य तस्मादसमानो दृष्टान्तः ।
किन्दृष्टान्तेन वचनात् स्यादिति चेन्न वचनस्याकारक-
त्वात् । न हि वचनं वस्तुनोऽन्यथाकरणे व्याप्रियते
किन्तर्हि यथाभूतार्थावद्योतने । तस्मादन्तः शरीर इत्येतद्वचनं
अण्डस्यान्तर्व्योमेतिवच्च द्रष्टव्यम् । उपलब्धिनिमित्तत्वाच्च ।
दर्शनश्रवणमननविज्ञानादिलिङ्गैरन्तःशरीरे परिच्छिन्न
इव ह्युपलभ्यते चात उच्यते--अन्तःशरीरे सोम्य! स
पुरुष इति । न पुनराकाशकारणं सन् कुण्डवदरवच्छ-
रीरपरिच्छिन्न इति मनसापीच्छति वक्तुं मूढोऽपि!
किमुत प्रमाणभूता श्रुतिः । यस्मिन्नेताः षोडश कलाः
प्रभवन्तीत्युक्तं पुरुषविशेषणाथं कलानां प्रभवः, स चान्यो-
ऽर्थोऽपि श्रुतः केन क्रमेण स्यादित्यत इदमुच्यते । चेतन-
पूर्विका च सृष्टिरित्येवमर्थे च पुरुषः षोडशकलः पृष्टो
यो भारद्वाजेन, स ईक्षाञ्चक्रे ईक्षणं दर्शनं चक्रे कृतवा-
नित्यर्थः । सृष्टिफलक्रमादिविषयं कथमित्युच्यते कस्मिन्
कर्तृविशेषे देहादुत्क्रान्तो भविष्याम्यहमेव वा कस्मिन्वा
शरीरे प्रतिष्ठितेऽहं प्रतिष्ठास्यामि प्रतिष्ठितः स्यामित्यर्थः” ।
“स प्राणमसृजत प्राणाच्छ्रद्धां खंवायुर्ज्योतिरापः
पृथिवीन्द्रियम् । मनोऽन्नमन्नाद्वीर्यं तपो मन्त्राः कर्म-
लोका लोकेषु च नाम च” उपनि० ।
“नन्वात्माऽकर्त्ता, प्रधानं कर्तृ, अतः पुरुषाथे प्रयो-
जनमुररीकृत्य प्रधानं प्रवर्त्तते महदाद्याकारेण, तत्रेद-
मनुपपन्नं पुरुषस्य स्वातन्त्र्येणेक्षापूर्व्वकं कर्तृत्ववचनं
सत्वादिगुणसाम्ये प्रधाने प्रमाणोपपन्ने सृष्टिकर्त्तरि सति
ईश्वरेच्छानुवर्त्तिषु परमाणुषु सत्स्वात्मनोऽप्येकत्वेन
कर्तृत्वे साधनाभावादात्मन आत्मन्यनर्थकर्तृत्वानुपपत्तेश्च ।
न हि चेतनावान् बुद्धिपूर्व्वकार्य्यात्मनोऽनर्थं कुर्य्यात्,
तस्मात्पुरुषार्थेन प्रयोजनेनेक्षापूर्व्वकमिव नियतक्रमेण
प्रवर्त्तमानेऽचेतने प्रधाने चेतनवदुपचारोऽयं--स ईक्षाञ्चक्रे
इत्यादिः । यथा राज्ञः सर्वार्थकारिणि भृत्ये राजेति
इति चेत्? नात्मनो भोक्तृत्ववत्कर्तृत्वोपपत्तेः । यथा साङ्ख्यस्य
चिन्मात्रस्यापरिणामिनोऽप्यात्मनो भोक्तृत्वं तद्वद्वेदवादि-
नाभीक्षादिपूर्वकं जगत्कर्तृत्वमुपपन्नं श्रुतिप्रामाण्यात् ।
तत्त्वान्तरपरिणामादात्मनोऽनित्यत्वाशुद्धत्वानेकत्वनिमित्त-
चिन्मात्रस्वरूपविक्रियातः पुरुषस्यात्मन्येव भोक्तृत्वे
चिन्मात्रस्वरूपविक्रिया न दोषाय । भवतां षुनर्वेदवादिनां
सृष्टिकर्तृत्वे तत्त्वान्तरपरिणाम एवेत्यात्मनोऽनित्यत्वादि-
सर्वदोषप्रसङ्ग इति चेन्न, एकस्याप्यात्मनोऽविद्याविषयनाम-
रूपोपाध्यनुपाधिकृतविशेषाभ्युपगमादविद्याकृतनामरूपो-
पाधिकृतो हि विशेषोऽभ्युपगम्यते आत्मनोबन्धमोक्षादि-
शास्त्रकृतसंव्यवहाराद्युपरमार्थं” परमार्थतीऽनुपाधिकृतञ्च
तत्त्वमेकमेवाद्वितीयमुपादेयं सर्वतार्किकबुद्ध्यनवगाह्यमभय
शिवमिष्यते न तत्र कर्तृत्वं भोक्तृत्वं वा क्रियाकारक-
फलञ्च स्यादद्वैतत्वात्सर्वभावानाम् । साङ्ख्यास्त्वविद्याध्या-
रोपितमेव पुरुषे कर्तृत्वं क्रियाकारकं फलञ्चेति कल्प-
यित्वाऽऽगमबाह्यत्वात्पुनस्ततस्त्रस्यन्तः परमार्थत एव
भोक्तृत्वं पुरुषस्येच्छन्ति तत्त्वान्तरञ्च प्रधानं पुरुषात्
परमार्थवस्तुभूतमेव कल्पयन्तोऽन्यतार्किकनिराकृतबद्धिविषयाः
सन्तो विहन्यन्ते । तथेतरे तार्किकाः साङ्ख्यैरित्येवं
परस्परविरुद्धार्थकल्पनात् आमिषाथिन इव प्राणिनोऽन्योन्यं
विरुध्यमाना अर्थदर्शित्वात् परमार्थतत्त्वाद्दूरमेवापकृष्यन्ते-
ऽतस्तन्मतमनादृत्य वेदान्तार्थतत्त्वमेकत्वदर्शनं प्रत्यादर-
वन्तो मुमुक्षवः स्युरिति तार्किकमते दोषदर्शनं किञ्चिदुच्यते
ऽस्माभिः न तु तार्किकतात्पर्य्येण तथैतत् अत्रोक्तम् । “विव-
दन् खेऽवनिक्षिप्य विरोधोद्भवकारणम् । तैः संरक्षित-
सद्बुद्धिः सुखं निर्व्वाति वेददित्” । किञ्च--भोक्तृत्वकर्तृ-
त्वयोर्विक्रिययोर्विशेषानुपपत्तिः । का नामासौ कर्तृ-
त्वाज्जात्यन्तरभूता भोक्तृत्वविशिष्टा विक्रिया यतो भोक्तैव
पुरुषः कल्प्यते न कर्त्ता । प्रधानन्तु कर्त्त्रेव न भोक्त्रिति
ननूक्तं पुरुषश्चिन्मात्र एव स्वात्मस्थो विक्रियते भुञ्जानोऽ-
नन्तान्तरपरिणामेन । प्रधानन्तु तत्त्वान्तरपरिणामेन
विक्रियतेऽतोऽनेकमशुद्धमचेतनञ्चेत्यादिधर्म्मवत्तद्विपरीतः
पुरुषः । नाऽसौ विशेषो वाड्मात्रत्वात्प्राग्भोगोत्पत्तेः ।
केवलचिन्मात्रस्य पुरुषस्य भोक्तृत्वं नाम विशेषो भोगो-
त्पत्तिकाले चेज्जायते निवृत्ते च भोगे पुनिषस्तद्वादशे-
भेतश्चिन्मात्र एव भवतीति चेन्महदाद्याकारेण च परिणम्य
प्रधानं ततोऽपेत्य पुनः प्रधानं खरूपेणावतिष्ठत इति
अस्यां कल्पनायां न कश्चिद्विशेष इति वाङ्मात्रेण
प्रधानपुरुषयोर्विशिष्टविक्रिया कल्प्यते । अथ भोगकाले-
ऽपि चिन्मात्र एव प्राग्वत्पुरुष इति चेत्? न तर्हि
परमार्थतो भोगः पुरुषस्य । भोगकाले चिन्मात्रस्य
विक्रिया परमार्थैव, तेन भोगः पुरुषस्येति चेन्न प्रधान-
पृष्ठ १७८७
स्यापि भोगकालेऽविक्रियत्वाद्भोक्तृत्वप्रसङ्गः । चिन्मात्रस्यैव
विक्रियाभोक्तृत्वमिति चेदौष्ण्यादसाधारणधर्म्मवतामग्न्या-
दोनामभोक्तृत्वे हेत्वनुपपत्तिः । प्रधानपुरुषयो-
र्युगपद्भोक्तृत्वमिति चेन्न प्रधानस्य पारार्थ्यानुपपत्तेः ।
न हि भोक्त्रोर्द्वयोरितरेतरगुणप्रधानभाव उपपद्यते प्रका-
शयोरिवेतरेतरप्रकाशने । भोगधर्म्मवति सत्वाङ्गिनि
चेतसि पुरुषस्य चैतन्यप्रतिविम्बादयोऽविक्रियस्य पुरुषस्य
भोक्तृत्वमिति चेन्न पुरुषस्य कस्यापनयनार्थं मोक्षसा धनं
शास्त्रं प्रणीयतेऽविद्याध्यारोपितानर्थापनयनाय शास्त्र-
प्रणयनमिति चेत्? परमार्थतः पुरुषो भोक्तैव न कर्त्ता
प्रधानं कर्त्त्रेव न भोक्तृ परमर्थसद्वस्त्वन्तरं पुरुषाच्चेतीयं
कल्पनाऽऽगमबाह्या व्यर्था निर्हेतुका च इति नादर्त्तव्या
मुमुक्षुभिः । एकत्वेऽपि शास्त्रप्रणयनाद्यानर्थक्यमिति
चेन्न अभावात् । न हि शास्त्रप्रणेत्रादिषु तत्फलार्थिषु च
शास्त्रस्य प्रणयनमनर्थकं सार्थकञ्चेति कल्पना स्यात् । न
ह्यात्मैकत्वे शास्त्रप्रणेत्रादयस्ततोऽभिन्नाः सन्ति तदभावे
एवंविकल्पनैवानुपपन्नाः । अभ्युपगते आत्मैकत्वे प्रमा-
णार्थश्चाभ्युपगतो भवता यदात्मैकत्वमभ्युपगच्छता ।
तदभ्युपगमे च कल्पनानुपपत्तिमाह शास्त्रम् । “यत्र त्वस्य
सर्वमात्मैवाभूत्तत्केन कं पश्येत्?” इत्यादिशास्त्रप्रणयनाद्युप-
पत्तिञ्चाह । अन्यत्र परमार्थवस्तुस्वरूपादविद्याविषये “यत्र
हि द्वैतमिव भवतीत्यादि” । विस्तरतो वाजसनेयके ।
विभक्ते विद्याऽविद्ये परापरे इत्यादावेव शास्त्रस्यातो
न तार्किकवादभटप्रवेशः वेदान्तराजप्रमाणबाहुगुप्ते
इहार्त्मकत्वविषय इति । एतेनाविद्याकृतनामरूपाद्युपाधि-
कृतानेकशक्तिसाधनकृतभेदवत्त्वाद्ब्रह्मणः सृष्ट्यादिकर्तृत्वे
साधनाद्यभावो दोषः प्रत्युक्तो वेदितव्यः परैरुक्त आत्मा-
नर्थकर्तृत्वादिदोषश्च । यस्तु दृष्टान्तो राज्ञः सर्वार्थकारिणि
कर्त्तृत्वाद्युपचाराद्राजा कर्त्तेति सोऽत्रानुपपन्नः । “स ईक्षा-
ञ्चक्र” इति श्रुतेर्मुख्यार्थबाधनात्प्रमाणभूतायाः तत्र हि
गौणी कल्पना । शब्दस्य, यत्र मुख्यार्थो न सम्भवति । इह
त्वचेतनस्य मुक्तबद्धपुरुषविशेषापेक्षया कर्तृकर्म्मदेशकाल-
निमित्तापेक्षया च बन्धमोक्षादिफलार्था नियता पुरुषं
प्रति प्रवृत्तिर्नोपपद्यते । यथोक्तसर्वज्ञेश्वरकर्तृत्वपक्षे
तूपपन्ना, ईश्वरेणैव सर्वाधिकारी प्राणः पुरुषेण सृज्यते ।
कथं? स पुरुष उक्तप्रकारेणेक्षित्वा प्राणं १ हिरण्य-
गर्भाख्यं सर्वप्राणिकरणाधारमन्तरात्मानमसृजत सृष्टवान्,
अत्रः प्राणात् श्रद्धां २ सर्वप्राणिनां शुभकर्म्मप्रवृत्तिहेतु-
भूताम् । ततः कर्म्मफलोपभोगसाधनाधिष्ठानानि कारण-
भूतानि महाभूतान्यसृजत । खं ३ शब्दगुणं वायुं ४ स्वेन
स्पर्शेन कारणगुणेन च विशिष्टं द्विगुणम् । तथा ज्योतिः ५
स्वेन रूपेण पूर्व्वाभ्याञ्च शब्दस्पर्शाभ्याम् विशिष्टं त्रिगुणं
तथाऽऽपो ६ रसेन गुणेनासाधारणेन पूर्व्वगुणानुप्रवेशेन
चतुर्गुणाः । तथा गन्धेन पूर्बगुणानुप्रवेशेन पञ्चगुणा
पृथिवी ७ । तथा तैरेव भूतैरारब्धमिन्द्रियं ८ द्विप्रकारं
बुद्ध्यर्थं कर्म्मार्थञ्च दशसङ्ख्यम् । तस्य चेश्वरमन्तःस्थं
संशयसङ्कल्पादिलक्षणं मनः ९ । एवं प्राणिनां कार्य्यं
करणञ्च सृष्ट्वा तत्स्थित्यर्थं व्रीहियवादिलक्षणमन्नम् १० ।
ततश्चान्नादद्यमानाद्वीर्य्यं ११ सामर्थ्यं बलं सर्वकर्म्मप्रवृत्ति-
साधनम् । तद्वीर्य्यवताञ्च प्राणिनां तपः १२ विशुद्धिसाधनं
सङ्कीर्य्यमाणानां, मन्त्रा १३ स्तपोविशुद्धान्तर्वहिःकरणेभ्यः
कर्मसाधनमेता ऋग्यजुःसामाथर्वाङ्गिरसः । ततः कर्म्म १४
अग्निहोत्रादिलक्षणम् । ततो लोकाः १५ कर्म्मणां फलम् ।
तेषु च सृष्टानां प्राणिनां नाम १६ च देवदत्तो यज्ञदत्त-
इत्यादि । एवमेताः कलाः प्राणिनामविद्यादिदोषवीजा-
पेक्षया सृष्टास्तैमिरिकदृष्टिसृष्टा इव द्विचन्द्रमशक-
मक्षिकाद्याः स्वप्नदृक्सृष्टा इव च सर्वे पदार्थाः पुनस्तस्मि-
न्नेव पुरुषे प्रलीयन्ते हित्वा नामरूपादिविभागम्” भा० ।
“स यथेमा नद्यः स्यन्दमानाः समुद्रायणाः समुद्रं प्राप्यास्तं
गच्छन्ति, भिद्येते तासां नामरूपे समुद्र इत्येवं प्रोच्यते ।
एवमेवास्य परिद्रष्टुरिमाः षोड़श कलाः पुरुषायणाः
पुरुषं प्राप्यास्तं गच्छन्ति, भिद्येते तासां नामरूपे पुरुष
इत्येवं प्रोच्यते, स एषोऽकलोऽमृतो भवति, तदेष श्लोकः”
“कथं स दृष्टान्तः? यथा लोके इमा नद्यः स्यन्द-
मानाः स्रवन्त्यः समुद्रायणाः समुद्रोऽयनं गतिरात्मभावो
यासां ताः समुद्रायणाः समुद्रं प्राप्योपगम्यास्तं
नामरूपतिरस्कारं गच्छन्ति । तासाञ्चास्तं गतानां भिद्येते
विनश्येते नामरूपे गङ्गायमुनेत्यादिलक्षणे । तद्भेदे समुद्र
इत्येवं प्रोच्यते तद्वस्तूदकलक्षणमेव, यथाऽयं दृष्टान्तः ।
उक्तलक्षणस्य प्रकृतस्य पुरुषस्यपरिद्रष्टुः परि समन्ताद्द्रष्टु-
र्दर्शनस्य कर्त्तुः स्वरूपभूतस्य । यथार्कः स्वात्मप्रकाशस्य
कर्त्ता तद्वद्, इमा षोड़श कलाः प्राणाद्याः उक्ताः कलाः
पुरुषायणा नदीनामिव समुद्रः पुरुषोऽयनमात्मभावगमनं
यासां कलानां ताः पुरुषायणाः पुरुषं प्राप्य पुरुषात्म-
भावमुपगम्य तथैवास्तं गच्छन्ति । भिद्येते तासां
नामरूपे कलानां प्राणाद्याख्या रूपञ्च । यथास्वभेदे च
पृष्ठ १७८८
नामरूपयोर्यदनष्टं तत्त्वं पुरुष इत्येव प्रोच्यते ब्रह्म-
विद्भिः । य एवं विद्वान् गुरुणा प्रदर्शितकलप्रलय-
मार्गः स एष विद्यया प्रविलापितास्वविद्याकामकर्म्म-
जनितासु प्राणादिकलास्वकलोऽविद्याकृतकलानिमित्तो
हि मृत्युस्तदपगमेऽकलत्वादेवामृतो भवति । तदेतस्मिन्नर्थे
एष श्लोकः” भा० ।
“अरा इव रथनाभौ कला यस्मिन् प्रतिष्ठिताः । तं वेद्यं
पुरुषं वेद यथा भा वो मृत्युः परिव्यथ” उप० ।
“अरा रथचक्रपरिकरा इव रथनाभौ रथचक्रस्य नाभौ
यथा प्रवेशितास्तदाश्रया भवन्ति यथा तथेत्यर्थः । कलाः
प्राणाद्या यस्मिन् पुरुषे प्रतिष्ठिता उत्पत्तिस्थितिलय-
कालेषु तं पुरुषं कलानामात्मभूतं वेद्यं वेदनीयं पूर्ण्ण-
त्वात् पुरुषं पुरि शयनाद्वा वेद जानीयात् । यथा हे
शिष्या वो युष्मान्मृत्युर्मा परिव्यथा मा परिव्यथयतु ।
व्यथामापन्ना दुःखिन एव यूयं स्थ अतस्तन्मा भूद् युष्मा-
कमित्यभिप्रायः” भा० ।
तथा च प्राणः १ श्रद्धा २ व्योम ३ वायुः ४ तेजः ५
जलं ६ पृथिवी ७ इन्द्रियं ८ मनः ९ अन्नम् १० वीर्य्यम्
११ तपः १२ मन्त्राः १३ कर्म १४ लोकः १५ । नाम १६
इत्येता प्राणादिनामान्ताः षोड़श कलाः पुरुषस्य
उपाधय इति स्थितम् । “गताः कलाः पञ्चदश प्रतिष्ठाम्” श्रुतिः
३ अंशमात्रे च “प्राची दिक् कला दक्षिणा दिक् कलोदीची-
दिक्कलैष सौम्य! चतुष्कलः पादो ब्रह्मणः प्रकाशवान्नाम
स य एतमेवं विद्वांश्चतुषकलं पादं ब्रह्मणः प्रकाशवा-
नित्युपास्ते प्रकाशवानस्मिँल्लोके भवति प्रकाशवतो ह
लोकाञ्जयति य एत मेवंविद्वांश्चतुष्कलं पादं ब्रह्मणः
प्रकाशवानित्युपास्ते” “पृथिवी कलाऽन्तरिक्षं कला द्यौः
कला समुद्रः कलैष वै सौम्य! चतुष्कलः पादोब्रह्मणोऽ-
नन्तवान्नाम । स य एतमेवंविद्वांश्चतुष्कलं पादं ब्रह्मणोऽ-
नन्तवानित्युपास्तेऽनन्तवानस्मिँल्लोके भवत्यनन्तवतो ह
लोकाञ्जयति य एतमेवंविद्वांश्चतुष्कलं पादं ब्रह्मणो-
ऽनन्तवानित्युपास्ते” । “अग्निः कला सूर्य्यः कला चन्द्रः
कला विद्युत्कलैष वै सौम्य! चतुष्कलः पादो ब्रह्मणो
ज्योतिष्मान्नाम स य एतमेवंविद्वांश्चतुष्कलं पादं
ब्रह्मणोज्योतिष्मानित्युपास्ते ज्योतिष्मानस्मिल्ल्ॐके भवति
ज्योतिष्मतो ह लोकाञ्जयति य एतमेवंविद्वांश्चतुष्कलं
पादं ब्रह्मणो ज्योतिष्मानित्युपास्ते” । “प्राणः कला
चक्षुः कला श्रोत्रं कला मनः कलैष वै सौम्य! चतु-
ष्कलः पादोब्रह्मण आयतनवान्नाम स य एतमेव “विद्वां
श्चतुष्कलं पादं ब्रह्मण आयतनवानित्युपास्ते
आयतनवानस्मिल्ल्ॐके भवत्यायतनवतो लोकाञ्जयति य एतमेवं-
विद्वांश्चतुष्कलं पादं ब्रह्मण आयतनवानित्युपास्ते” ।
अवतारशब्दे भूरि उदाहरणम् दृश्यम् ।
पलद्वयात्मके ४ कालांशभेदे स च सि० शि० दर्शितोयथा-
“योऽक्ष्णोर्निमेषस्य खराम ३० भागः स तत्परस्तच्छतभाग
उक्ता । त्रुटिर्निमेषैर्धृतिभि १८ श्च काष्ठा तत्त्रिंशता सद्ग-
णकैः कलोक्ता । त्रिं शत्कलाऽऽर्क्षी घटिका क्षणः स्यान्नाडी-
द्वयं तैः खगुणै ३० र्दिनं च । गुर्वक्षरैः खेन्दुमितै १० रसुस्तैः
षडिभः पलं तैर्घटिका खषड्भिः ६० । स्याद्वा घटीषष्टिरह-
खरामै ३० र्मासो दिनैस्तैर्द्विकुभि १२ श्च वर्षम् । क्षेत्रे
समाद्येन समा विभागाः स्युश्चक्रराश्यंशकलाविलिप्ताः” शि० ।
“योऽक्ष्णोर्लोचनयोः पक्ष्मपातः स निमेषः । स यावता
कालेन निष्पद्यते तावान् कालोऽपि निमेषशब्देनो-
च्यते उपचारात् । तस्य त्रिंशद्विभागस्तत्परसंज्ञः
तत्परस्य शतांशस्त्रुटिरिति । अथ च निमेषैरष्टादशभिः
काष्ठा । क्वचिच्छास्त्रान्तरे तिथिभिरिति पाठः । काष्ठा-
त्रिंशता कलोक्ता । कलानां त्रिंशता घटिका ।
साचाक्षीं भभ्रमस्य षष्टिभाग इत्यर्थः । घटिकाद्वयेन
क्षणो मुहूर्त्तः । क्षणानां त्रिंशता दिनम् । अथ
प्रकारान्तरेण दिनमुच्यते । गुर्वक्षरैः खेन्दुमितैः १०
असुरिति । एकमात्रोलघुः द्विमात्रो गुरुः । तथा “सानु-
स्वारी विसर्गान्तो दीर्घोयुक्तपरस्तु यः” इति छन्दो-
लक्षणे प्रतिपादितम् यदक्षरं सानुस्वारं विसर्गान्तं
दीर्घं यस्याक्षरस्य परतः संयोगस्तल्लघ्वपि गुरुसंज्ञं ज्ञेय-
म् । गुर्वक्षरस्योच्चार्य्यमाणस्य यावान् कालस्तद्दशकेनै-
कोऽसुः प्राणः । प्रशस्तेन्द्रियपुरुषस्य श्वासोच्छ्वासा-
न्तर्वर्त्ती कालैत्यर्थः । षड्भिः प्राणैरेकं पानीयपलम् ।
पलानां षष्ट्या धटी । घटीनां षष्ट्या दिनम् । त्रिंशद्दि-
नैरेकोमासः । मासैर्द्वादशभिर्वर्षमिति कालस्य विभागो
दर्शितः” प्रमि० । “अह्नोऽस्तमयवेलायां कलामात्राऽपि
या तिथिः” कालमा० व्यासः । “प्रतिपल्लेशमात्रेण
कलामात्रेण चाष्टमी” पठन्ति । “स च त्रीणि त्रीणि
कलासहस्राणि पञ्चदश च कला एकैकस्मिन् धाताववतिष्ठते”
इति सुश्रु० । “अष्टादश सहस्राणि संख्या चास्मिन्
समुच्चये । कलानां नवतिः प्रोक्ता” सुश्रु० ।
“विकलानां कला षष्ट्या तत्षष्ट्या भाग उच्यते ।
पृष्ठ १७८९
तत्त्रिंशता भवेद्राशिर्भगणोद्वादशैव ते” सू० सि० । उक्ते
राशिचक्रस्य २१६००० मिते भागे च “क्षेत्रे
समाद्येन समा विभागा इत्यादि” शि० क्षेत्रे कक्षायां
समाद्येन वर्षाद्येन समास्तुल्याः क्षेत्रविभागा ज्ञेयाः । ते
के । चक्रराश्यंशकलाविलिप्ताः । यथैकस्य वर्षस्व
मासदिनादयो विभागा एवं भगणस्य राश्यंशादयः” प्रमि० ।
सि० शि० उक्ते दिनमानज्ञानोपयोगिनि दिनज्यागुणिते
व्यासार्द्धभक्ते सूत्रात्मके ६ पदार्थे च यथा--
“उक्ता प्रभाभिमतदिङ्नियमेन तावत् तामेव कालनियमेन
च वचिम् भूयः । स्यादुन्नतं द्युगतशेषकयोर्यंदल्पं
तेनोनितं दिनदलं नतसंज्ञकं च । अथोन्नतादून-
युताच्चरेण क्रमादुदग्दहिणगोलयोर्ज्या । स्यात्
सूत्रमेतद्गुणितं द्युमौर्व्या व्यासार्धभक्तं च कलाभिधा-
नम्” शि० “दिवसस्य यद्गतं यच्च शेषं तयोर्यदल्पं तदुन्नत-
संज्ञं ज्ञेयं तेनोन्नतेनोनीकृतं दिनदलप्रमाणं तन्नतसंज्ञं
भवति । अथोन्नतादुन्नतकालादुत्तरगोले चरेणोनितात्-
दक्षिणे युताद्या ज्या तत् सूत्रम् सा सूत्रसंज्ञेत्यर्थः ।
तत् सूत्रं द्युज्यया गुणितं त्रिज्यया भक्तं
कलासज्ञं भवति । अत्रोपपत्तिः । यस्मिन् काले छाया
साध्या तस्मिन् काले स्वाहोरात्रवृत्ते यावतीभिर्घटि-
काभिः क्षितिजादुन्नतो रविस्तासामुन्नतसंज्ञा । येन कालेन
मध्याह्नान्नतस्तस्य नतसं ज्ञा । अथ चरेण मध्याह्नान्नतयुत-
स्योन्नतकालस्य किल ज्या साध्या सा च ज्यामध्यावधि-
र्भवति । स च मध्यप्रदेशोऽहोरात्रवृत्तस्योन्मण्डलसंपाते
भवति । यत उन्मण्डलसंपाताभ्यामूर्ध्वमहोरात्रवृत्तस्या-
र्धमधोऽर्धम् । अत उन्मण्डलावधिर्जीवा साध्या । क्षिति-
जोन्मण्डलयोरन्तरं चरार्धम् । अतश्चरार्धेन वर्जितादुन्न-
तादुत्तरगोले, दक्षिणे तु युतात् । यत उत्तरगोले
क्षितिजादुपर्युन्मण्डलम्” दक्षिणेऽधः । तस्मात् कालाद् या
ज्या साधिता सा त्रिज्यावृत्तपरिणता । सा च सूत्र-
संज्ञा । अथ यदि त्रिज्यावृत्ते एतावती, तदा द्युज्या-
वृत्ते कियतीत्यनुपातेन द्युज्यावृत्तपरिणता । सा च
कलासंज्ञा । इदानीं प्रकारान्तरेण कला तस्याश्चेष्टयष्टि-
माह” प्रमि० । “सूत्रं कुजीवागुणितं विभक्तं चरज्यया
स्यादथवा कला सा । कला पलक्षेत्रजकोटिनिघ्नी
तत्कर्णभक्ता भवतींष्टयष्टिः” शि० । “अथवा तत् सूत्रं
कुज्यया गुणितं चरज्यया मक्तं सत् कला मवति । सा
कलाष्टधा पलक्षेत्रकोटिभिर्गुण्या स्वस्वकर्णेन भाज्या
फलमष्टधेष्टयष्टिर्भवति । अत्रोपपत्तिः । अत्र चरज्या-
कुज्ये त्रिज्याद्युज्यापरिणते । अतस्ताभ्यां चानुपातः ।
यदि चरज्यया कुज्या लभ्यते तदा सूत्रेण किमिति ।
फलं कला । सा कलाऽहोरात्रवृत्ते ज्या । सा
पलवशादक्षकर्णवत् तिरश्चींनां जाता । अथ तस्याः
कोटिसूत्रमात्रमानेयम् । तत्रानुपातः । यदि पलक्षेत्र-
कर्णेन तत्कोटिर्लभ्यते तदा कलाकर्णेन किमिति ।
फलमुन्मण्डलशङ्कृग्रसमसूत्रादुपर्यर्कबिम्बादध ऊर्ध्वं
कोटिरूपं भवति । तस्येष्टयष्टिसंज्ञा” प्रमि० ।
“स्नायुभिश्च प्रतिच्छन्नान् सन्ततांश्च जरायुणा । श्लेष्मणा
वेष्टिताश्चापि कलाभागांस्तु तान् विदुः । धात्वाशयान्तरे
धातोर्यःक्लेदस्त्वधितिष्ठति । देहोष्मणाभिपक्वश्च सा कलेत्य-
भिधीयते” भावप्र० उक्ते देहस्थे धात्वाशयान्तरस्थे
७ धातुक्लेदभेदे तद्भेदाश्च तत्रैवोक्ताः । “आद्या मांसधरा
प्रोक्ता द्वितीया रक्तधारिणी । मेदोधरा तृतीया तु
चतुर्थी श्लेष्मधारिणी । पञ्चमी च मलं धत्ते षष्ठी पित्त-
धरा मता । रेतोधरा सप्तमी स्यादिति सप्त कलाः स्मृताः”
८ एकमात्रात्मकलघुवर्ण्णे “षड्विषमेऽष्टौ समे कलास्ताश्च
समेऽस्युर्नो निरन्तराः । न समात्र पराश्रिता कला”
“सर्वगुर्वन्तमध्यादिगुरवोऽत्र चतुष्कलाः । ज्ञयाश्च-
तुर्लघूपेता पञ्चार्य्यादिषु संस्थिताः” इति च
वृत्तर० “ऋणप्रयोगे मूलधनादधिके आयत्वेनाधमर्ण्णेन
उत्तमर्णाय दीयमाने ९ वृद्धिरूपे (सुद) पदार्थे मेदि० ।
“मासे शतस्य यदि पञ्च कलान्तरं स्यात्” लीला० १० स्त्री-
रजसि ११ नौकायां १२ कपटे च विश्वः । १३ गीतादिविद्याभेदे
सा च चतुःषष्टि ६४ विधा शैवतन्त्रोक्ता यथा--१ गीतम्
२ वाद्यम् ३ नृत्यम् ४ नाट्यम् । ५ आलेख्यम् ६ विशोषकच्छेद्यम्
७ तण्डुलकुसुमयलिविकाराः ८ पुष्पास्तरणम् ९ दशनवसना-
ङ्गरागाः १० मणिभूमिकाकर्म ११ शयनरचनम् १२
उदकवाद्यम् १३ उदकघातः १४ चित्रायोगाः १५
माल्यग्रथनविकल्पाः १६ केशशेखरापीडयोजनम् १७
नेपथ्ययोगाः १८ कर्णपत्रभङ्गाः १९ गन्धयुक्तिः २०
भूषणयोजनम् २१ इन्द्रजालम् २२ कौचुमारयोगाः
२३ हस्तलाघवम् २४ चित्रशाकापूपभक्ष्यविका-
रक्रिया २५ पानकरसरागासवयोजनम् २६ सूची-
वापकर्म २७ वीणाडमरुकसूत्रक्रीडा २८ प्रहेलिका
२९ प्रतिमा ३० दुर्वचकयोगाः ३१ पुस्तकवाचनम्
३२ नाटिकाख्यायिकादर्शनम् ३३ काव्यसमस्यापूरणम्
पृष्ठ १७९०
३४ पट्टिकावेत्रवाणविकल्पाः ३५ तर्कूकर्माणि ३६
तक्षणम् ३७ वास्तुविद्या ३८ रूप्यरत्नपरीक्षा ३९
धातुवादः ४० मणिरागज्ञानम् ४१ आकरज्ञानम्
४२ वृक्षायुर्वेदयोगाः ४३ मेषकुक्कुटलावकयुद्धविधिं
४४ शुकसारिकाप्रलापनम् ४५ उत्सादनम् ४६
केशमार्जनकौशलम् ४७ अक्षरमुष्टिकाकथनम् ४८
म्लेच्छितक विकल्पाः ४९ देशभाषाज्ञानम् ५० पुष्प
शकटिकानिमित्तज्ञानम् ५१ (अत्र निमित्तज्ञा-
नमिति पृथक् केचित् पठन्ति) । यन्त्रमातृका
५२ धारणमातृका ५३ सम्पाट्यम् ५४ मानसी काव्य-
क्रिया ५५ क्रियाविकल्पाः ५६ छलितकयोगाः
५७ अभिधानकोषच्छन्दोज्ञानम् । ५८ वस्त्रगोपनानि
५९ द्यूतविशेषः ६० आकर्षणक्रीडा ६१ बालकक्रीडनकानि
६२ वैनायिकीनां विद्यानां ज्ञानम् ६३ वैजयिकीनां
विद्यानां ज्ञानम् ६४ वैतालिकीनां विद्यानां ज्ञानम् इति
भाग० ९४५ अ० २८ श्लो० टीकायां श्रीधरलिखिताः । क्वचित्
पुस्तके सूचीवापकर्म्मसूत्रक्रीडेत्येकं पदम् तदुत्तरं
वीणाडमरुकवाद्यानीति । वैतालिकीनामित्यत्र वैयासिकी-
नामिति च पाठो दृश्यते । “अहोरात्रैश्चतुःषष्ट्या संयतौ
तावतीः कलाः” भाग० १०, ४५, २८ । “चतुःषष्ट्यङ्गमद-
दत् कलाज्ञानं ममाद्भुतम्” भा० अनु० १८ अ० ।
“अधिगत कलाकलापकम्” कांद० । “चतुःषष्टिकला-
विद्या ईश्वरीप्रीतिवर्द्धनम्” गायत्रीकवचम् ।

कलाकुल न० कलया मात्रयापि आकुलयति आकुलि--

नामधा० अच् । हलाहलविषे राजनि० ।

कलाकेलि पु० कलेव केलिरस्य । कामदेवे त्रिका० ।

कलाङ्कुर पुंस्त्री कलस्याङ्कुरो यत्र । १ सारसपक्षिणि त्रिका०

जातित्वात् स्त्रियां ङीष् । कलानामङ्कुरो यत्र । २ स्तेय-
शास्त्रप्रवर्त्तके मूलदेवे कर्ण्णीसुते त्रिका० । मूलदेवस्य
स्तेयरूपशिल्पप्रवर्त्तकत्वात् कलाङ्कुरत्वम् । कंसासुरे
इति शब्दकल्पद्रुमोक्तिश्चिन्त्या कर्ण्णीसुतशब्दे विवृतिः ।

कलाङ्गला स्त्री “सतोमराङ्कुशा राजन्! सशतघ्नीकलाङ्गलेति”

भा० व० १५ अ० १६ श्लोके तादृशशब्दं कल्पयन् वोथलिङ्
बुधो भ्रान्तः । तत्र शतघ्न्या सहितं सशतघ्नीकं “नद्यृतः
कप्” पा० कप् । तादृशं लाङ्गलं यत्र सशतघ्नीकलाङ्गला
इत्यर्थकतया न तस्य कलाङ्गलशब्दघटितत्वमिति बोध्यम् ।

कलाची स्त्री कलामचति गच्छति अच--गतौ अण् उप०

समा० गौरा० ङीष् पा० मुग्धबो० षण् षित्त्वात् ईप् ।
इतिभेदः । प्रकोष्ठे कफोणेरधःस्थे मणिबन्धपर्य्यन्तहस्ता-
वयबे । स्वार्थे कन् । कलाचिकाप्यत्र हेमच० ।

कलाटीन पुंस्त्री कलेनाटनम् आटः कलाटस्तत्र साधुः

ख । कर्काङ्गे पक्षिभेदे हारा० जातित्वात् स्त्रियां ङीष् ।

कलाजाजी स्त्री कलायै जायते जन--ड तथा सतों

आजायते जन--ड गौरा० ङीष् । (कलौञ्जा) (मङ्ग्रैला)
पाश्चात्त्यभाषाप्रसिद्धे वृक्षभेदे शब्दचि० ।

कलाद पु० कलामंशमादत्ते आ--दा--क । स्वर्णकारे अमरः

अलङ्कारगठनार्थं गृहीतधनस्यांशहरणात्तस्य तथात्वम्

कलादक पु० कलामत्ति अद--ण्वुल् ६ त० । स्वर्णकारे

शब्दच० गठनार्थं दत्तद्रव्यांशस्य भोजित्वात्तस्य तथात्वम् ।

कलाधर पु० कलाः धरति धृ--अच् ६ त० । १ चन्द्रे ।

२ चतुःषष्टिकलाधारकमात्रे त्रि० ।

कलानिधि क० कलानिधीयतेऽस्मिन् नि + धा--आधारे कि

उपप० स० । चन्द्रे अमरः । “अहो महत्त्वं महतामपूर्व्वं
विपत्तिकालेऽपि परोपकारः । यथाऽऽस्यमध्ये पतितोऽपि
राहोः” “कलानिधिः पुण्यचयं ददाति” उद्भटः ।

कलानुनादिन् पु० कलमनुनदति अनु + नद--णिनि ६ त० ।

१ भ्रमरे २ चटके ३ कपिञ्जले ४ चातके च जातित्वात्
स्त्रीत्वमपि तत्र नान्तत्वात् ङीष् ।

कलान्तर पु० अन्या कला अंशः मयू० स० । वृद्धिभेदे “मासे

शतस्य यदि पञ्च कलान्तरं स्यादिति” लोलावती, २ अन्यस्यां
चन्द्र कलायाञ्च, “ज्योत्स्नान्तराणीव कलान्तराणि” कुमा० ।

कलान्यास पु० कलानां न्यासः । तन्त्रोक्ते न्यासभेदे कलाश्च

कलाशब्दे दर्शिताः शारदातिलकोक्तरीत्या तासां पूजाङ्गतया
न्यासः । देहे कलाविशेषस्य न्यासश्च
यथातन्त्रसारे “शिष्यशरीरे कलान्यासंकुर्य्यात् । तद्यथा
ईशत्रयेण पादतलाज्जानुपर्य्यन्तम् ॐ निवृत्त्यै नमः ।
जानुयनोनाभिपर्यन्तम् ॐ प्रतिष्ठायै नमः । नाभेराकण्ठम्
ॐ विद्यायै नमः कण्ठादाललाटम् ॐ शान्त्यै नमः
ललाटाद्ब्रह्मरन्धपर्य्यन्तम् ॐ शान्त्यतीतायैनमः । पुनर्ब्रह्म-
रन्ध्रादाललाटम् ॐ शान्त्थतीतायै नमः ललाटादाकण्ठम्
ॐ शान्त्यै नमः । कण्ठान्नाभिपर्य्यन्तम् ॐ विद्यायै नमः
नाभेर्ज्जानुपर्य्यन्तम् ॐ प्रतिष्ठायै नमः जानुनः
पादपर्य्यन्तम् ॐ निवृत्त्यैनमः ।

कलाप पु० कलां मात्रामाप्नोति आप्--अण् । १ समूहे, २ मयूर-

पिच्छे, ३ भूषणे, ४ काञ्च्याम्, ५ चन्द्रे, मेदिनि० तत्र
समूहे “मुक्ताकलापीकृतसिन्धुवारम्” कुमा० । “अधिगतकला-
पृष्ठ १७९१
कलापकम्” वर्हे आलम्बिभिश्चन्द्रकिणः कलापैः” । “दृष्ट्वेव
निर्ज्जितकलापभरामधस्तात् व्याकीर्ण्णमाल्यकवरां कवरीं
तरुण्याः” माघः । भूषणे “मुक्ताकलापस्य च निस्तलस्य”
कुमा० “मुक्ताकलापस्य मुक्ताभूषणस्य” मल्लि० । काञ्च्याम्
“रशनाकलापगुणेन बधूः” माघः । ६ तूणे तूणश्च
शरपूर्ण्णः चर्म्ममयः भस्त्रारूपः यथाह “कलापिनः”
कात्या० २२, ३, १८, व्या० “कलापशब्देन शरसूर्ण्णा
चर्म्ममयी भस्त्रोच्यते” कर्कः । “कलापी चषालः”
आश्व० श्रौ० ९, ७, १८, “सा मेधी अग्रप्रदेशे धान्यपूलै-
र्बद्धा तिष्ठति स एव चषाली भवति” नारा० वृत्त्युक्तेः
धान्यपूलानां शरतुल्यत्वारोपेण बहुशरवत्त्वगुणयो-
गात्तूणवत्त्वम् इति तथा च गौण्या चषालस्य
कलापित्वम् । ७ शरे “कलापिनौ धनुष्पाणी शोभमानौ
दिशोदश” रामा० १, २२, ७, अत्रार्थे क्लीवत्वमपि “परीप्स-
मानः पार्थानां कलापानि धनूंषि च” भा० व० १५७ अ० ।
८ धनुषि । “हारिद्रवर्ण्णा ये त्वेते हेमपुङ्खाः शिला-
शिताः (शराः) । नकुलस्यकलापोऽयं पञ्चशार्दूललक्षणः ।
“येनासौ व्यजयत् कृत्स्नां प्रतीचीं दिशमाहवे” भा०
वि० ६५ अ० नकुलास्त्रकथने । ९ अर्द्धचन्द्राकारास्त्रभेदे च
“खड्गांश्च दीप्तान् दीर्घांश्च कलापांश्च महाधनान् । विपा-
ठान् क्षुरधारांश्च धनुर्भिर्निदधुः सह” भा० वि० ५ अ० ।
कलापः कार्त्तिकेयमयूरपिच्छः उत्पत्तिस्थानत्वेनास्त्यस्य
अच् । १० व्याकरणभेदे कार्त्तिकेयमयूरपिच्छयोनित्वात्तस्य
तथात्वम् । “अधुना स्वल्पतन्त्रत्वात् कातन्त्राख्यं भविष्यति ।
तद्वाहनकलापस्य नाम्ना कालापकं तथा” वृहत्कथा
सारः । ११ ग्रामभेदे । “देवापिर्योगमास्थाय कलाप-
ग्राममास्थितः । सोमवंशे कलौ नष्टे कृतादौ स्थापयि
ष्यति” भाग० ९, १२, १३, “सुदर्शनोऽथाग्निवर्ण्णः शीघ्र-
स्तस्य मरुः सुतः । योऽसावास्ते योगसिद्धः कलापग्राम-
मास्थितः । कलेरन्ते सूर्य्यवंशं नष्टं भावयिता पुनः”
भाग० ९, १२, ५, “सत्यभामा तथैवान्या देव्यः कृष्णस्य सम्मताः ।
वनं प्रविविशूराजंस्तपसे कृतनिश्चयाः । फलमूलादि
भोजिन्यो हरिध्यानैकतत्पराः । हिमवन्तमतिक्रम्य
कलापग्राममाविशन्” भा० मौ० ७ अ० । तेनास्य
हिमचदुत्तरपार्श्वे सन्निवेश इति गम्यते ।
चन्द्रे तु कलामाप्नोति आप--अण् कलां पाति पा--क वा
व्युत्पत्तिः । तस्य कलापतित्वात् कलाधारत्वाच्च तथात्वम्
१४ विदग्धे त्रि० मेदि० विविधकलाधरत्वात्तस्य तथात्वम् ।

कलापक पु० कलाप + स्वार्थे कन् । १ कलापार्थे, २ हस्तिस्कन्ध-

बन्धे, हेमच० एकवाक्यतापन्ने ३ श्लोकचतुष्के न० ।
“छन्दोबद्धपदं पद्यं तेनैकेन च मुक्तकम् । द्वाभ्यां
युग्मञ्च सन्दानितकं त्रिभिरिहेष्यते । कलापकं चतुर्भैश्च
पञ्चभिः कुलकं मतम्” सा० द० उक्तेः किराते उदा० । “लोकं
विधात्रा विहितस्य गोप्तुं क्षत्रस्य मुष्णन् वसु जैत्रमोजः ।
तेजस्विताया विजयैकवृत्तेर्निघ्नन् प्रियं प्राणमिवाभिमा-
नम् १ । व्रीड़ानतैराप्तजनोपनीतः संशय्य कृच्छ्रेण नृपैः
प्रपन्नः । वितानभूतं विततं पृथिव्यां यशः समूहन्निव
दिग्विकीर्णम् २ । वीर्य्यावदानेषु कृतावमर्षस्तन्वन्नभूतामिव
सम्प्रतीतिम् । कुर्वन् प्रयासक्षयमायतीनामर्कत्विषामह्न
इवावशेषः ३ । प्रसह्य योऽस्मासु परैः प्रयुक्तः स्मर्त्तुंन
शक्यः किमुताधिकर्त्तुम् । नवीकरिष्यत्युपशुष्यदार्द्रः
स त्वद्विना मे हृदयं निकारः ४” । कलापिनोमयूरायस्मिन्
काले सोऽपि कालः कलापी उपचारात् तस्मिन् काले
देयमृणम् “कलाप्यश्वत्थयवबुसाद्वुन्” पा० वुन् । कलापक
२ तत्काले देये ऋणे न० सि० कौ० ।

कलापद्वीप पु० कलापो ग्रामो द्वीप इव वृहत्त्वात् । कलाप-

ग्रामे स च ग्रामः हिमवन्तमतिक्रम्य उत्तरत्र वर्त्तमानः
कलापशब्दे दर्शितः । “अग्निवर्णसुतः शोघ्रः शीघ्रस्य तु
मरुः सुतः । मरुस्तु योगमास्थाय कलापद्वीपमास्थितः”
हरिवं० १५ अ० । अस्यैव कलापग्रामत्वेन भाग० ९,
१२, उक्तिः तच्च वाक्यं कलापशब्दे दर्शितम् ।

कलापिन् पु० कलापोवर्होऽस्यास्ति इनि । १ मयूरे तद्वर्हतुल्य-

शाखावति २ वटवृक्षे मेदि० । थाप--णिनि कलस्यापी ६ त० ।
३ कोकिले । “ध्वनिहृष्टकूजितकलाः कलापिनः” माघः ।
“कलापिनामुद्धतनृत्यहेतौ” रघुः । ४ कलापशब्दार्थवति त्रि०
कलापशब्दे रामायणादिवाक्यमुदाहृतम् । स्त्रियां ङीप् ।
४ वैशम्पायनान्तिवासिभेदे पु० तदन्तेवासिनश्च
आलम्बः लङ्गः कमलः ऋचामरुणि ताण्ड्यः श्यामायनः
कठः कलापीति कलापिनोऽन्तेवासिनश्च हरिद्रुश्छगली
तुम्बुरुरुलपश्चेति चत्वारः” मनो० । “कलापिवैश-
म्पायनान्तेवासिभ्यः” पा० तेन प्रोक्तमधीयते णिनि ।
कलापिनस्तत्प्रोक्ताध्येतृषु ब० व० ।

कलापिनी स्त्री कलापश्चन्द्रोऽस्त्यस्याम् इनि । १ रात्रौ राजनि०

कलापतुल्याकारवत्त्वीः २ नागरमुस्तायां राजनि० ।

कलापूर्ण्ण पु० कलाभिः पूर्णः । १ चन्द्रे शब्दचन्द्रिका । २

कलाभिः पूर्णेत्रि० । “सदा भवान् फाल्गुनस्य गुणैरस्मान्
विकत्थते । न चार्ज्जुनः कलापूर्ण्णः मम दुर्योधनस्य च”
भा० वि० ३९ अ० ।
पृष्ठ १७९२

कलाभृत् कलां बिभर्त्ति भृ--क्विप् ६ त० । कलाधारके चन्द्रे

हेम० “कला च सा कान्तिमती कलाभृ(व)तः” कुमा० ।
२ शिल्पादिधारके त्रि० । “दशाव्दाख्यं पौरसख्यं
पञ्चाव्दाख्यं कलाभृताम्” मनुः ।

कलाय पु० कलामयते अय--अण् । (मटर) १ शमीधान्यभेदे ।

“कलायोमधुरः स्वादुः पाके रूक्षश्च शीतलः । कपायो
वातलोग्राही कफपित्तहरो लघुः” भावप्र० तद्गुणाः ।
“कलायपरिमण्डलमुभयतोमुकुलाग्रम्” सुश्रु० । “विक-
सत्कलायकुसुमासितद्यते!” माघः २ गण्डदूर्व्वायां स्त्री ।

कलायन कलानामयनं यत्र । नर्त्तकमात्रे शब्दच०

कलालाप पुंस्त्री कलमालपति आ + लप--अण् उप० स० ।

१ भ्रमरे । राजनि० । स्त्रियां जातित्वात् ङीष् । ६ त०
२ कलस्यालापे पु०

कलावत् पु० कला अमृतादिकाः सन्त्यत्र मतुप् मस्य वः ।

१ चन्द्रे “कला च कान्तिमती कलाव(भृ)तः” कुमा०
२ गीतादिकलायुक्तमात्रे २ अंशवति च त्रि० स्त्रियां ङीप्

कलावती स्त्री शा० ति० ४ पटलोक्ते दीक्षाभेदे । स च

“अथ दीक्षां प्रवक्ष्यामि मन्त्रिणां हितकाम्यया । विवाऽनया
न लभ्येत सर्व्वमन्त्रफलं ततः । ज्ञानं दिव्यं यतोदद्यात्
कुर्य्यात् पापक्षयं यतः । तस्माद्दीक्षेति सा प्रोक्ता देशिकै-
स्तन्त्रवेदिभिः । चतुर्विधा सा सन्दिष्टा क्रियावत्यादि-
भेदतः । क्रियावती वर्ण्णमयो कलात्मा वेधवत्यपि ।
ताः क्रमेणैव कथ्यन्ते तन्त्रेऽस्मिन् सम्पदावहाः” इत्युपक्रम्य
दर्शिता । तत्र कलात्मा कलाशब्ददर्शितशारदातिलकोक्त-
पञ्चाशत्कलावतीत्यर्थः । कलात्माप्यत्र ।

कलाविक पुंस्त्री कलेन सम्यक् विकायति विशेषेण शब्दा-

यते आ + वि + कै--क ३ त० । कुक्कुटे त्रिका० तस्य
रात्रिशेषे विशेषेण शब्दायमानत्वात् तथात्वम् । स्त्रियां
जातित्वात् ङीष् ।

कलाविकल पुंस्त्री कलेनाविकलः । चटके शब्दर० स्त्रियां

जातित्वात् ङीष् ।

कलाहक पु० कलमाहन्ति आ + हन् क्विप् संज्ञायां कन् । काहलवाद्ये शब्दरत्ना० ।

कलि पु० कल--शब्दादौ इन् । चतुर्थे युगे तन्मानमाह

पुराणसर्व्वस्वे ब्रह्मपु० । “दिव्यवर्षसहस्रैस्तु कृतत्रेता-
दिसंज्ञितम् । चतुर्युगं द्वादशभिस्तद्विभागं निबोध मे ।
चत्वारि त्रीणि द्वे चैकं कृतादिषु यथाक्रमम् । दिव्या-
व्दानां सहस्राणि युगेष्वाहुः पुराविदः । तत्प्रमाणैः
शतैः सन्ध्या पूर्व्वा तत्राभिधीयते । सन्ध्याणकश्च तत्तुल्यो-
युगस्यानन्तरोहि सः । सन्ध्यासन्ध्यांशयोरन्तः कालोवै
मुनिसत्तम! । युगाख्यं तत्तु विज्ञेयं कृतत्रेतादि-
संज्ञितम्” । सूर्य्यसिद्धान्तेऽप्युक्तं
यथा“सूर्य्याब्दसङ्ख्यया द्वित्रिसागरैरयुताहतैः । सन्ध्यास-
न्ध्यांशसहितं विज्ञेयं तच्चतुर्युगम् । कृतादीनां
व्यवस्थेयं धर्मपादव्यवस्थया” सू० सि० ।
“तेषां दिव्यवर्षाणां द्वादश सहस्राणि चतुर्युगम् ।
चतुर्णां युगानां कृतत्रेताद्वापरकल्पाख्यानां समाहारो
योगस्तदात्मकं महायुगमित्यर्थः । एतद्द्योतनार्थं
चतुरित्युक्तिरन्यथा युगमित्युक्तौ तद्वैयर्थ्यापत्तेः । माना-
भिज्ञैरुक्तम् । अथ सौरमानेन तत्संख्यां विशेषं
चाह । सूर्याव्दसङ्ख्ययेति तद्देवासुरमानेनोक्तं
चतुर्युगं द्वादशसहस्रवर्षात्मकं महायुगं सन्ध्यासन्ध्यांश-
सहितम् । युगचरणस्याद्यन्तयोः क्रमेण प्रत्येकं सन्ध्या-
सन्ध्यांशाभ्यां युक्तं सदेव सन्ध्यासन्ध्यांशावन्तर्गतौ न
पृथक् यत्रैतादृशम् । सौरवर्षप्रमाणेन द्वित्रिसागरैः ।
“अङ्कानां वामतो गतिः” इत्यनेन द्वात्रिंशदधिकैश्चतुः
शतमितैः । अयुतेन दशसहस्रेण गुणितैः । खचतुष्कद्वा-
त्रिंशच्चतुर्भिः ४३२०००० परिमितं ज्ञेयमित्यर्थः । अथ
चतुर्युगान्तर्गतयुगाङ्घ्रीणां विशेषतो मानाश्रवणात् “समं
स्यादश्रुतत्वादिति” न्यायेन प्रत्येकं महायुगचतुर्थांशो
मानमिति चतुर्युगमित्यनेन फलितं निषेधति । कृता-
दीनामिति । कृतत्रेताद्वापरकलियुगानाम् धर्मपाद-
व्यवस्थया धर्मचरणानां स्थित्या । इयं वक्ष्यमाणा
व्यवस्था स्थितिर्ज्ञेया न तु समकालप्रमाणं स्थितिः ।
अयमर्थः--कृतयुगे चतुश्चरणो धर्म इति तस्य मान
मधिकम् । ततस्त्रेतायां घर्मस्य त्रिपादवत्त्वात्
तदनुरोधेन त्रेतामानं न्यूनम् । एवं द्वापरकल्यो-
र्धर्मस्य क्रमेण द्व्येकचरणवत्त्वात् कृतत्रेतामानाभ्यां
क्रमेणोक्तानुरोधान्न्यूनमानम् । न तु समं
मानमिति । अथ सर्वधर्मचरणयोगेन दशमितेन यदि
महायुगं भवति तर्हि स्वस्वधर्मचरणैः किमत्यनुपातेन
पूर्बोक्तफलितेन कृतादियुगानां मानज्ञानं सविशे-
षणमाह” । रङ्ग० । तेन ४३२००० वर्षास्तन्मानम् ।
“युगस्य दशमो भागश्चतुस्त्रिद्व्येकसङ्गुणः । क्रमात्
कृतयुगादीनां षष्ठांशः सन्ध्ययोःस्वकः” सू० सि० ।
पृष्ठ १७९३
“प्रागुक्तदिव्यवर्षद्वादशसहस्रमितस्य युगस्य दशमो भागो
दशांश इत्यर्थः । चतुर्द्धा क्रमेण चतुस्त्रिद्व्येकैर्गुणितः ।
गुणक्रमात् कृतयुगादोनां कृतत्रेताद्वापरकलियुगानां
मानं स्यादिति शेषः । ननु मनुग्रन्थे कृतादिमानं
दिव्यवर्षप्रमाणेन ४००० । ३००० । २००० । १००० उक्तम् ।
अत्र तु तन्मानं तद्वर्षप्रमाणेन ४८०० । ३६०० । २४०० ।
१२०० । इति विरोध इत्यत आह । षष्ठ इति ।
स्वकः स्वसम्बन्धी षष्ठो विभागः सन्ध्ययोराद्यन्तसन्ध्य-
योरैक्यकाल इति शेषः । तथा च मदुक्तमानानि
४८०० । ३६०० । २४०० । १२०० । एषां षडंशाः
८०० । ६०० । ४०० । २०० । एते स्वस्वयुगानामाद्यन्तयोः
सन्ध्ययोर्योग इत्येषामर्धं सन्धिकालः । प्रत्येकमाद्यन्तयोः
सन्धिकालः ४०० । ३०० । २०० । १०० । अनेन प्रत्येकं
मदुक्तमानं न्यूनीकृतं ग्रन्थान्तरोक्तं केवलं मानं
भवति न स्वसन्धिभ्यां सहितम् । यथा कृतादिसन्धिः ४०० ।
कृतमानम् ४००० कृतान्तसन्धिः ४०० । योगे ४८००
त्रेतादिसन्धिः ३०० त्रेतामानं ३००० त्रेतान्तसन्धिः
३०० । ३६०० द्वापरादिसन्धिः २०० द्वापरमानं २०००
द्वापरान्तसन्धिः २०० २४०० । कल्यादिसन्धिः १००
कलिमानम् १००० कल्यन्तसन्धिः १०० । १२०० एवं च
स्वसन्धिभ्यां सहितं मयोक्तं स्वसम्बन्धात् सन्ध्ययोस्तद-
न्तर्गतत्वाच्चेति न विरोध इति भावः” रङ्ग० ।
कलौ यथा प्राणिनां दुःशीलत्वम् धर्म्मादिहानिश्च तथा
वर्णितम् भा० व० १९० अ० “कृते चतुष्पात् सकलो निर्व्याजो-
पाधिवर्जितः । वृषः प्रतिष्ठिती धर्म्मो मनुष्ये भरतर्षभ! ।
अधर्म्मपादविद्धस्तु त्रिभिरंशैः प्रतिष्ठितः । त्रेतायां द्वापरे
ऽर्द्धेन व्यामिश्रो धर्म उच्यते । त्रिभिरंशैरधर्मस्तुलोका-
नाक्रम्य तिष्ठति । तामसं युगमासाद्य तदा भरतसत्तम! ।
चतुर्थांशेन धर्मस्तु मनुष्यानुपतिष्ठति । आयुर्व्वीर्य्यमथो
बुद्धिर्बलन्तेजश्च पाण्डव! । मनुष्याणामनुयुगं ह्रसतीति
निबोध मे । राजानो ब्राह्मणा वैश्या शूद्राश्चैव युधि-
ष्ठिर! । व्याजैर्धर्मञ्चरिष्यन्ति धर्मवैतंसिका नराः । सत्यं
संक्षेप्स्यते लोके नरैः पण्डितमानिभिः । सत्यहान्या
ततस्तेषामायुरल्पं भविष्यति । आयुषः प्रक्षयाद्विद्यां न
शक्ष्यन्त्युपजीवितुम् । विद्याहीनानविज्ञानाल्ल्ॐभोऽप्यभि-
भविष्यति । लोभक्रोधपरा मूढ़ाः कामासक्ताश्च मानवाः ।
वैरबद्धा भविष्यन्ति परस्परबधैषिणः । ब्राह्मणाः क्षत्रिया
वैश्याः संकीर्य्यन्ते परम्परम् । शूद्रतुल्या भविष्यन्ति तपः-
सत्यविवर्ज्जिताः । अन्त्या मध्या भविष्यन्ति, मध्याश्चान्त्या
न संशयः । ईदृशो भविता लोको युगान्ते पर्य्युपस्थिते ।
वस्त्राणां प्रवरा शाणी, धान्यानां कोरदूषकाः । भार्य्या-
मित्राश्च पुरुषा भविष्यन्ति युगक्षये । मत्स्यामिषण
जीवन्तो दुहन्तश्चाप्यजैड़कम् । गोषु नष्टासु पुरुषा येऽपि
नित्यं धृतव्रताः । तेऽपि लोभसमायुक्ता भविष्यन्ति
युगक्षये । अन्योऽन्यं परिमुष्णन्तो हिंसयन्तश्च मानवाः ।
अजपा नास्तिकाः स्तेना भविष्यन्ति युगक्षये । सरित्तीरेषु
कुद्दालैर्वापयिष्यन्ति चौषधीः । ताश्चाप्यल्पफलास्तेषां
भविष्यन्ति युगक्षये । श्राद्धे दैवेऽपि पुरुषा येऽपि नित्यं
धृतव्रताः । तेऽपि लोभसमायुक्ता भोक्ष्यन्तीह परस्परम् ।
पिता पुत्रस्य भोक्ता च, पितुः पुत्त्रस्तथैव च ।
अतिक्रान्तानि भोज्यानि भविष्यन्ति युगक्षये । न व्रतानि
चरिष्यन्ति ब्राह्मणा वेदनिन्दकाः । न यक्ष्यन्ति न
होष्यन्ति हेतुवादविमोहिताः । निम्नेष्वीहां करिष्यन्ति
हेतुवादविमोहिताः । निम्ने कृषिं करिष्यन्ति योक्ष्यन्ति
धुरि धेनुकाः । एकहायनवत्सांश्च योजयिष्यन्ति मानवाः ।
पुत्रः पितृबधं कृत्वा पिता पुत्त्रबधं तथा । निरुद्वेगो
वृहद्वादी न निन्दामुपलप्स्यते । म्लेच्छभूतं जगर्त्सर्वं
निष्क्रियं यज्ञवर्ज्जितम् । भविष्यति निरानन्दमनु-
त्सवमथो तथा । प्रायशः कृपणानां हि तथा बन्धु-
मतामपि । विधवानाञ्च वित्तानि हरिष्यन्तीह
मानवाः । स्वल्पवीर्य्यबलाः स्तब्धा लोभमोहपरायणाः ।
तत्कथादानसन्तुष्टा दुष्टानामपि मानवाः । प्रतिग्रहं
करिष्यन्ति मायाचारपरिग्रहाः । समाह्वयन्तः कौन्तेय!
राजानः पापबुद्ध्वयः । परस्परबधोद्युक्ता, मूर्खाः पण्डि-
तमानिनः । भविष्यन्ति युगस्यान्ते क्षत्रिया लोकक-
ण्टकाः । अरक्षितारो लुब्धाश्च मानाहङ्कारदर्पिताः ।
केवलं दण्डरुचयो भविष्यन्ति युगक्षये । आक्रम्या-
क्रम्य साधूनां दारांश्चापि धनानि च । भोक्ष्यन्ते
निरनुक्रोशा रुदतामपि भारत! । न कन्यां याचते
कश्चिन्नापि कन्या प्रदीयते । स्वयंग्राहा भविष्यन्ति
युगान्ते समुपस्थिते । राजानश्चाप्यसन्तुष्टाः परार्थान्
मूढचेतसः । सर्वोपायैर्हरिष्यन्ति युगान्ते पर्य्युपस्थिते ।
म्नेच्छीभूत जगत्सर्व्वं भविष्यति न संशयः । हस्ता-
हस्ति परिमुषेद्युगान्ते समुपस्थिते । सत्यं संक्षिप्यते
लोके नरैः पण्डितमानिभिः । स्थविरा बालमतयो
बालाः स्थविरबुद्धयः । भीरुस्तथा शूरमानी शूरा
पृष्ठ १७९४
भीरुविवादिनः । न विश्वसन्ति चान्योऽन्य युगान्ते
पर्य्युपस्थिते । एकहार्य्यं युगं सर्वं लोभमोहव्यव-
स्थितम् । अधर्म्मो वर्द्धते तत्र न तु धर्मः प्रव-
र्त्तते । ब्राह्मणाः क्षत्त्रिया वैश्या न शिष्यन्ते
जनाधिप! । एकवर्णस्तदा लोको भविष्यति युगक्षये । न
क्षंस्यति पिता पुत्त्रं, पुत्त्रश्च पितरं तथा । भार्य्याश्च
पतिशुश्रूषां न करिष्यन्ति संक्षये । ये यवान्ना
जनपदा गोधूमान्नास्तथैव च । तान् देशान् संश्रयि-
ष्यन्ति युगान्ते पर्य्युपस्थिते । स्वैराचाराश्च पुरुषा
योषितश्च विशाम्पते! । अन्योऽन्यं न सहिष्यन्ति
युगान्ते पर्य्युपस्थिते । म्लेच्छीभूतं जगत्सर्वं
भविष्यति युधिष्ठिर! । न श्राद्धैस्तर्पयिष्यन्ति दैवतानीह
मानवाः । न कश्चित् कस्य चिच्छ्रोता न कश्चित्
कस्यचिद्गुरुः । तमोग्रस्तस्तदा लोको भविष्यति
जनाधिप! । परमायुश्च भविता तदा वर्षाणि षोड़श ।
ततः प्राणान् विमोक्ष्यन्ति युगान्ते समुपस्थिते ।
पञ्चमे वाऽथ षष्ठे वा वर्षे कन्या प्रसूयते । सप्त-
वर्षाऽष्टवर्षाश्च प्रजास्यन्ति नरास्तदा । पत्यौ स्त्री तु
तदा राजन्! पुरुषो वा स्त्रियं प्रति । युगान्ते
राजशार्दूल! न तोषमुपयास्यति । अल्पद्रव्या वृथालिङ्गा
हिंसा च प्रभविष्यति । न कश्चित् कस्यचिद्दाता
भविष्यति युगक्षये । अट्टशूला जनपदाः शिवशूलाश्चतु-
ष्पथाः । केशशूलाः स्त्रियश्चापि भविष्यन्ति युगक्षये ।
म्लेच्छाचाराः सर्व्वभक्षा दारुणाः सर्वकर्म्मसु । भाविनः
पश्चिमे काले मनुष्या नात्र संशयः । क्रयविक्रयकाले
च सर्व्वः सर्वस्य वञ्चनम् । युगान्ते भरतश्रेष्ठ! वित्त-
लोभात् करिष्यति । ज्ञानानि चाप्यविज्ञाय करिष्यन्ति
क्रियान्तथा । आत्मच्छन्देन वर्त्तन्ते युगान्ते समुप-
स्थिते । स्वभावात् क्रूरकर्म्माणश्चान्योऽन्यमभिशंसिनः ।
भवितारो जनाः सर्व्वे संप्राप्ते तु युगक्षये ।
आरामांश्चैव वृक्षांश्च नाशयिष्यन्ति निर्व्यथाः । भविता
संशयो लोके जीवितस्य हि देहिनाम् । तथा लोभाभि-
भूताश्च भविष्यन्ति नरा नृप! । ब्राह्मणांश्च हनिष्यन्ति
ब्राह्मणस्वोपभोगिनः । हाहाकृता द्विजाश्चैव भयार्त्ता
वृषलार्द्दिताः । त्रातारमलभन्तो वै भ्रमिष्यन्ति
महीमिमाम् । जीवितान्तकराः क्रूरा रौद्राः प्राणिविहिंसकाः ।
यदा भविष्यन्ति नरास्तदा सङ्क्षेप्स्यते युगम् ।
आश्रयिष्यन्ति च नदीः पर्व्वतान् विषमाणि च ।
प्रधावमाना वित्रस्ता द्विजाः कुरुकुलोद्वह! । दस्युभिः
पीडिता राजन्! काका इव द्विजोत्तमाः । कुराज-
भिश्च सततं करभारप्रपीडिताः । धैर्य्यं त्यक्त्वा
महीपाल! दारुणे युगसंक्षये । विकर्माणि करिष्यन्ति शूद्राणां
परिचारकाः । शूद्रा धर्मं प्रवक्ष्यन्ति ब्राह्मणाः पर्य्यु-
पासकाः । श्रोतारश्च भविष्यन्ति प्रामाण्येन व्यवस्थिताः ।
विपरीतश्च लोकोऽयं भविष्यत्यधरोत्तरः । एडूकान्
पूजयिष्यन्ति वर्ज्जयिष्यन्ति देवताः । शूद्राः परिच-
रिष्यन्ति न द्विजान् युगसंक्षये । आश्रमेषु महर्षीणां
ब्राह्मणावसथेषु च । देवस्थानेषु चैत्येषु नागा-
नामालयेषु च । एडूकचिह्ना पृथिवी न देवगृह-
मूषिता । भविष्यति युगे क्षीणे तद्युगान्तस्य लक्षणम् ।
यदा रौद्रा धर्महीना मांसादाः पानपास्तथा ।
भविष्यन्ति नरा नित्यं तदा संक्षेप्स्यते युगम् ।
पुष्पं पुष्पे यदा राजन्! फले वा फलमाश्रितम् ।
प्रजास्यति महाराज! तदा सङ्क्षेप्स्यते युगम् ।
अकालवर्षी पर्ज्जन्थो भविष्यति गते युगे । अक्रमेण
मनुष्याणां भविष्यन्ति तदा क्रियाः । विरोधमथ यास्यन्ति
वृषला ब्राह्मणैः सह । मही म्लेच्छजनाकीर्णा
भतिष्यति ततोऽचिरात् । करभारभयाद्विप्रा भजिष्यन्ति
दिशो दश । निर्व्विशेषा जनपदास्तदा विष्टिकरा-
र्द्दिताः । आश्रमानुपलप्स्यन्ति फलमूलोपजीविनः ।
एवं पर्य्याकुले लोके मर्य्यादा न भविष्यति । न
स्थास्यन्त्युपदेशे च शिष्या विप्रियकारिणः ।
आचार्य्योऽपनिधिश्चैव भत्र्स्यते तदनन्तरम् । अर्थयुक्त्या
प्रवत्स्यन्ति मित्रसम्बन्धिबान्धवाः । अभावः सर्व्व-
भूतानां युगान्ते सम्भविष्यति । दिशः प्रज्वलिताः
सर्व्वा नक्षत्राण्यप्रभाणि च । ज्योतींषि प्रतिकूलानि
वाताः पर्य्याकुलास्तथा । उत्कापाताश्च बहवो
महाभयनिदर्शकाः । षडमिरन्यैश्च सहितो भास्करः प्रत-
पिष्यति । तुमुलाश्चापि निर्ह्रादा दिग्दाहश्चापि
सर्वशः । कबन्धान्तर्हितो भानुरुदयास्तमने तदा ।
अकालवर्षी भगवान् भविष्यति महस्रदृक् । शश्यानि
च न रोक्ष्यन्ति युगान्ते पर्य्युपस्थिते । अभीक्ष्ण
क्रूरवादिन्यः परुषा रुदितप्रियाः । भर्त्तॄणां वचने
चैव न स्थास्यन्ति तदा स्त्रियः । पुत्त्राश्च मातापितरौ
हनिष्यन्ति युगक्षये । सूदयिष्यन्ति च पतीन् स्त्रियः
पुत्त्रानपाश्रिताः । अपर्व्वणि महाराज! सूर्य्यं राहुरु-
पृष्ठ १७९५
पैष्यति । युगान्ते हुतभुक् चापि सर्वतः प्रज्वलिष्यति ।
पानीयं भोजनञ्चापि याचमानास्तदाऽध्वगाः । न
लप्स्यन्ते निवासञ्च निरस्ताः पथि शेरते । निर्घात-
वायसा नागाः शकुनाः समृगद्विजाः । रूक्षा वाचो
विमोक्ष्यन्ते युगान्ते पर्य्युपस्थिते । मित्रं सम्बन्धि-
नश्चापि सन्त्यक्ष्यन्ति नरास्तदा । जनं परिजनञ्चापि
युगान्ते पर्य्युपस्थिते । अथ देशान् दिशश्चापि पत्त-
नानि पुराणि च । क्रमशः संश्रयिष्यन्ति युगान्ते
पर्युपस्थिते । हा तात! हा सुतेत्येवं तदा वाचः
सुदारुणाः । विक्रोशमानश्चान्योऽन्यं जनो गां (पृथ्वीं) पर्य-
टिष्यति । ततस्तुमुलसंघाते वर्त्तमाने युगक्षये । द्विजा-
तिपूर्वको लोकः क्रमेण प्रभविष्यति । ततः काला-
न्तरेऽन्यस्मित् पुनर्लोकविवृद्धये । भविष्यन्ति पुनर्द्दैव-
मनुकूलं यदृच्छया । यदा सूर्य्यश्च चन्द्रश्च तथा
तिष्यवृहस्पती । एकराशौ समेष्यन्ति प्रवत्र्स्यति तदा
कृतम् । कालवर्षी च पर्ज्जन्यो नक्षत्राणि शुभानि च ।
प्रदक्षिणा ग्रहाश्चाप्रि भविष्यन्त्यनुलोमगाः । क्षेमं सुभिक्ष-
मारोग्यं भविष्यति निरामयम् । कल्की विष्णुयशा नाम
द्विजःकालप्रणोदितः । उत्पत्स्यते महावीर्य्यो महाबुद्धि-
पराक्रमः । सम्भूतः शम्भलग्रामे ब्राह्मणावसथे शुभे । मनसा
तस्य सर्व्वाणि वाहनान्यायुधानिंच । उपस्थास्यन्ति योधाश्च
शस्त्राणि कवचानि च । स धर्म्मविजयी राजा चक्रवर्त्ती
भविष्यति । स चेमं सङ्कुलं लोकं प्रसादमुपने-
ष्यति । उत्थियो ब्राह्मणो दीप्तः क्षयान्तकृदुदारधीः ।
संक्षेपको हि सर्वस्य युगस्य परिवर्त्तकः । स सर्वत्र
गतान् क्षुद्रान् ब्राह्मणैः परिवारितः । उत्सादयि-
ष्यति तदा सर्व्वम्लेच्छगणान् द्विजः” ।
कलियुगंस्य विशेषप्रवृत्तिरुक्ता भाग० १२, २ अ० ।
“सप्तर्षीणान्तु पूर्व्वौ यौ दृश्येते उदितौ दिवि । तयोस्तु
मध्ये नक्षत्रं दृश्यते यत् समं निशि । तेनैव ऋषयो-
युक्तास्तिष्ठन्त्यव्दशतं नृणाम् । ते त्वदीये द्विजाः काले
अधुना चाश्रिता मघाः । विष्णोर्भगवतो भानुः कृष्णाख्यो-
ऽसौ दिवं गतः । तदाविशत् कलिर्लोकं पापे यद्रमते जनः ।
यावत् स पादपद्माभ्यां स्पृशन्नास्ते रमापतिः । तावत्
कलिर्वैपृथिवीं पराक्रान्तुं न चाशकत् । यदा देवर्षयः
सप्त मघासु विचरन्ति हि । तदा प्रवृत्तस्तु कलिर्द्वादशा-
व्दशतात्मकः । यदा मघाभ्यो यास्यन्ति पूर्व्वाषाढा
महर्षयः । तदा नन्दात् प्रभृत्येष कलिर्वृद्धिं गमिष्यति ।
यस्मिन् दिने दिवं यातस्तस्मिन्नेव तदाऽहनि । प्रतिपन्नं
कलियुगमिति प्राह पुराविदः” ।
कलिदोषमुक्त्वा तच्छमनोपायः भाग० १२, ३ अ० उक्तो यथा
“केनोपायेन भगवन्! कलेर्दोषान् कलौ जनाः । विधमिष्य-
न्त्युपचितांस्तन्मे ब्रूहि यथा मुने! । युगानि युगधर्म्मांश्च
मानं प्रलयकल्पयोः । कालस्येश्वररूपस्य गतिं विष्णोर्म्महा-
त्मनः । श्रीशुकौवाच । कृते प्रवर्त्तते धर्म्मश्चतुष्पात्तु
जनैर्भृतः । सत्यंदया तपोदानमिति पादा विभो! नृप! ।
सन्तुष्टाः करुणा मैत्राः शान्ता दान्तास्तितिक्षवः ।
आत्मारामाः समदृशः प्रायशः श्रमणा जनाः । त्रेता-
यां धर्म्मपादानां तुर्य्यांशोहीयते शनैः । अधर्म्मपादैरनृत-
हिंसाऽसन्तोषविग्रहैः । तदा क्रियातपोनिष्ठा नाति-
हिंस्रा न लम्पटाः । त्रैवर्गिकास्त्रयीवृद्धावर्णा ब्रह्मो-
त्तरा नृप! । तपःसत्यदयादानेष्वर्द्धंह्रसति द्वापरे ।
हिंसाऽतुष्ट्यनृतद्वेषैर्धर्म्मस्याधर्म्मलक्षणैः । यशस्विनोमहा-
शोलाः साध्यायाध्ययने रताः । आढ्याः कुटुम्बिनोहृष्टाः
वर्णाः क्षत्रद्विजोत्तराः । कलौ तु धर्म्महेतूनां तुर्य्यां-
शोऽधर्म्महेतुभिः । एधमानैः क्षीयमाणोह्यन्ते सोऽपि
विनङ्क्ष्यति । तस्मिल्लुँब्धादुराचारानिर्दयाः शुष्कवैरिणः ।
दुर्भगा भूरितर्षाश्च शूद्रदासोत्तराः प्रजाः । सत्वं रजस्तम-
इति दृश्यन्ते पुरुषे गुणाः । कालसंनोदितास्ते वै परिवर्त्तन्त-
आत्मनि । प्रभवन्ति यदा सत्वे मनोबुद्धीन्द्रियाणि च ।
तदा कृतयुगं विद्याज्ज्ञाने तपसि यद्रुचिः । यदा कर्म्मसु
काम्येषु भक्तिर्यशसि देहिनाम् । तदा त्रेता रजोवृत्तिरिति
जानीहि बुद्धिमन्! । यदा लोभस्त्वसन्तोषो मानोदम्भो-
ऽथ मत्सरः । कर्म्मणाञ्चापि काम्यानां द्वापरं तद्रजस्तमः ।
यदा मायाऽनृतं तन्द्रा निद्रा हिंसा विषादनम् ।
शोकमोहोभयंदैन्यं स कलिस्तामसः स्मृतः । यस्मात् क्षुद्र-
दृशोमर्त्याः क्षुद्रभाग्या महाशनाः । कामिनोवित्तहीनाश्च
स्वैरिण्योहि स्त्रियोऽसतीः । दस्यूत्कृष्टा जनपदा वेदाः
पाषण्डदूषिताः । राजानश्च प्रजाभक्ष्याः शिश्नोदरपरा
द्विजाः । अव्रता वटवोऽशौचा भिक्षवश्च कुटुम्बिनः ।
तपस्विनोग्रामवासा न्यासिनोऽत्यर्थलोलुपाः । ह्रस्वकाया
महाहाराभूर्य्यपत्या गतह्रियः । शश्वत्कटुकभाषिण्य-
श्चौर्य्यमायोरुसाहसाः । पणयिष्यन्ति वै क्षुद्राः किराटाः
(बणिजः) कूटकारिणः । अनापद्यपि मंस्यन्ते वार्त्तां साधु-
जुप्सिताम् । पतिं त्यक्ष्यन्ति निर्द्रव्यं भृत्या अप्यखिलोत्तमम् ।
भृत्यं विपन्नं पतयः, कौलं गाश्चापयस्विनीः । पितन्
पृष्ठ १७९६
भ्रातॄन् सुहृज्ज्ञातीन् हित्वा सौरतसौहृदाः ।
ननन्दृश्यालंसवादा दीनास्त्रैणाः कलौ नराः । शूद्राः
प्रतिग्रहीष्यन्ति तपोवेशोपजीविनः । धर्म्मं वक्ष्यन्त्यघर्म्मज्ञा-
अधिरुह्योत्तमासनम् । नित्यमुद्विग्नमनसोदुर्भिक्षकर-
कर्षिताः । निरन्ने भूतले राजन्ननावृष्टिभयातुराः । वासो-
ऽन्नपानशयनव्यवायस्नानभूषणैः । हीनाः पिशाचसन्दर्शा
भविष्यन्ति कलौ प्रजाः । कलौ काकिणिकेऽप्यर्थे विगृह्य
त्यक्तसौहृदाः । त्यक्ष्यन्तीह प्रियान् प्राणान् हनिष्य-
न्ति स्वकानपि । न रक्षिष्यन्ति मनुजाः स्थविरौ पितरा-
वपि । पुत्रान् भार्य्याञ्च कुलजां क्षुद्राः शिश्नोदरम्भराः ।
कलौ न राजन्! जगतां परं गुरुं त्रिलोकनाथानतपाद-
पङ्कजम् । प्रायेण मर्त्या भगवन्तमच्युतं यक्ष्यन्ति
पाषण्डविभिन्नचेतसः । यन्नामयेयं ग्नियमाण आतुरः
पतन् स्खलन् वा विवशोगृणन् पुमान् । विमुक्तकर्म्मार्गल-
उत्तमां गतिं प्राप्नोति यक्ष्यन्ति न तं कलौ जनाः ।
पुंसां कलिकृतान् दोषान् द्रव्यदेशानुसम्भवान् । सर्व्वान्
हरति चित्तस्थो भगवान् पुरुषोत्तमः । श्रुतः संकीर्त्ति-
तोध्यातः पूजितस्त्वादृतोऽपि वा । नॄणां क्षिणोति भगवान्
हृत्स्थोजन्मायुताशुभम् । यथा हेम्नि स्थितोवह्निर्दुर्व्वर्णं
हन्ति धातुजम् । एवमात्मगतोविष्णुर्योगिनामशुभाशय-
म् । विद्यातपःप्राणनिरोधमैत्रीतीर्थाभिषेकव्रतदानजप्यैः ।
नात्यन्तशुद्धिं लभतेऽन्तरात्मा यथा हृदिस्थे भगवत्यनन्ते ।
तस्मात् सर्व्वात्मना राजन्! हृदिस्थं कुरु केशवम् । म्रिय-
माणोह्यवहितस्ततोयाति परां गतिम् । म्रियमाणैरपि
ध्येयो भगवान् परमेश्वरः । आत्मभावं नयत्यद्धा सर्व्वात्मा
सर्व्वसम्भवः । कलेर्दोषनिधेराजन्नस्ति ह्येकोमहान् गुणः ।
कीर्त्तनादेव कृष्णस्य मुक्तबन्धः परिव्रजेत् । कृते यद्ध्यायतो
विष्णुं त्रेतायां यजतोमखैः । द्वापरे परिचर्य्यायां कलौ
तद्धरिकीर्त्तनात्” ।
विश्वेश्वरसरस्वतीकृते कलिधर्मे नानाप्रमाणात्तद्दोषो
पशमनमुक्तं यथा--विष्णुपुराणाग्निपुराणयोः ।
“धर्मोत्कर्षमतीवाशुप्राप्नोति पुरुषः कलौ । स्वल्पासेन धर्म-
ज्ञास्तेन तुष्टोऽस्म्यहं कलेः । धन्ये कलौ भजेद्द्विप्रोह्यल्प-
क्लेशैर्महाफलम् । अत्यन्तदुष्टस्य कलेरयमेको महान्
गुणः” ब्रह्माण्डपुराणे । “त्रेतायामाव्दिको धर्मोद्वापरे-
मासिकः स्मृतः । यथाशक्ति परं प्राज्ञस्तदह्ना प्राप्नु-
यात् कलौ” । विष्णुपुराणब्रह्मपुराणयोः “यत् कृते
दशभिर्वर्षैः त्रेतायां हायनेन तत् । द्वापरे तत्तु मासेन अहो-
रात्रेण तत् कलौ । तपसो ब्रह्मचर्यस्य जपादेश्च फल
द्विजाः! । प्राप्नोति पुरुषस्तेन कलिः साध्विति भाषितम्
तथाल्पेनैव यत्नेन षुण्यस्कन्धमनुत्तमम् । करोति यः
कृतयुगे क्रियते तपसा हि सः । स्कान्दे काशीखण्डे ।
“कलौ विश्वेश्वरोदेवः कलौ वाराणसी षुरी । कलौ
भागीरथी गङ्गा कलौ दानं विशिष्यते” । अग्निपुराणे
“नास्ति श्रेयस्करं नॄणां विष्णोराराधनान्मुने! । युगे-
ऽस्मिंस्तामसे घोरे यज्ञवेदविवर्जिते । कुर्वीताराधनं
राजन्! वासुदेवे कलौ युगे । यदभ्यर्च्य हरिं भक्त्या कृते
वर्षशतं नृप! विधानेन कलौ लेभे अहोरात्रात् कलौ
हि तत्” नारदीये । “अहोऽतीव सभाग्यास्ते सकृद्ये
केशवाचर्काः । घोरे कलियुगे प्राप्ते सर्व्वधर्मबहिष्कृते ।
शिवपूजापरा ये तु शिवनामपरायणाः । त एव
शिवतुल्याश्च घोरे कलियुगे द्विजाः” । स्कन्दपुराणे
“ब्रह्मा कृतयुगे देवस्त्रेतायां भगवान् रविः । द्वापरे
भगवान् विष्णुः कलौ देवो महेश्वरः” । मत्स्यपुराण-
स्कन्दपुराणयोः “ज्ञात्वा कलियुगं घोरं हाहाभूतमचेत-
नम् । अविमुक्तं न मुञ्चन्ति कृतार्थास्ते नरा भुवि । नान्यं
पश्यामि जन्तूनां मुक्त्वा वाराणसीं पुरीम् । सर्व्वपापोप-
शमनं प्रायश्चित्तं कलौ युगे” । भविष्यपुराणे “कृते
सर्वाणि तीर्थानि त्रेतायां पुष्करं परम् । द्वापरे तु कुरु-
क्षेत्रं कलौ गङ्गैव केवलम् । ध्यानं कृते मोक्षहेतु
स्त्रेतायां तच्च वै तपः । द्वापरे तद्द्वयं यज्ञाः कलौ
गङ्गैव केवलम्” । स्कन्दपुराणनारदीयपुराणयीः “भुक्ति-
मुक्तिफलप्रेप्सुरल्पोपायेन चेन्नरः । तीर्थान्येवाश्रये-
द्विद्वान् कलौ गङ्गां विशेषतः” । मनुपाराशरौ-
“तपः परं कृतयुगे त्रेतायां ज्ञानमुच्यते । द्वापरे
यज्ञमित्याहुः दानमेकं कलौ युगे” । महाभारते “तपः
परं कृतयुगे त्रेतायां ज्ञानमुच्यते । द्वापरे यज्ञमेवाहुः
कलौ दानं दया दमः । गीता गङ्गा तथा भिक्षुः कपिला-
श्वत्थसेवनम् । वासरं पद्मनाभस्य सप्तमं न कलौ युगे” ।
एवमुक्तानां विष्णुमहादेववाराणसीगङ्गादानानां कलौ
विशेषतः सेवायां यानि फलानि तान्त्युत्तरत्र क्रमेण प्रदश्यन्ते ।
तत्रादौ विष्णोराराधनफलं कथ्यते । “कलौ कलिमलध्वंसं
सर्वपापहरं परम् । येऽर्चयन्ति हरिं नित्यन्तेऽपि वन्द्यायथा
हरिः” नारदीये “तीर्थान्वश्वत्थतरवोनावो विप्रास्तथा भुवि ।
मद्भक्ताश्चेति विज्ञेयास्तनवोमम पञ्चधा । तेषां पुण्यात्मनां
भोतोभृशं कलिरघात्मकः । मन्दीभवत्खविभवो निःशङ्कं
पृष्ठ १७९७
न प्रवर्द्धते । पूजिताः प्रणताः स्पृष्टाः स्तुता दृष्टाः स्मृता
अपि । नॄणां सर्व्वाघहन्तारः सततं ते हि मन्मयाः” ।
कलौविष्णोर्नामसं कीर्त्तनेन आराधनं कर्त्तव्यम् उक्तञ्च
भागवते । “कलिं सभाजयन्त्यार्या गुणज्ञाः सव (यज्ञ) भागिनः ।
यत्र संकीर्त्तनेनैव सर्वः स्वार्थोऽपि लभ्यते । नास्त्यतः
परमोलाभो देहिनां भ्राम्यतामिह, । यतोविन्देत परमां
शान्तिं, नश्यति संसृतिः” । कलेर्टोषोपशमनोपाये भागवत-
वाक्यमनुपदं दर्शितम् ।
स्कन्दपुराणे “गोविन्दनामा यः कश्चिन्नरो भवति भूतले ।
कीर्त्तनादेव तस्यापि पापं याति सहस्रधा” विष्णुधर्मो-
त्तरे “येऽहर्निशं जगद्धातुर्वासुदेवस्य कीर्त्तनम् । कुर्वन्ति
तान्नरव्याघ्र! न कलिर्बाधते नरान् । चक्रायुधस्य नामानि
सदा सर्व्वत्र कीर्त्तयेत् । नाशौचं कीर्त्तने तस्य स पवित्र
करोयतः । अज्ञानादथ वा ज्ञानादुत्तमश्लोकनाम यत् ।
संकोर्त्तितमघं पुंसोदहेदेधो यथाऽनलः” । विष्णुरहस्ये
“सा हानिस्तन्महच्छिद्रं स मोहः स च विभ्रमः । यन्मूहूर्त्तं
क्षणं वापि वासुदेवं न चिन्तयेत्” । मोहोऽविवेकः विभ्रमो
विपरीतज्ञानम् । स्कान्दे “अभक्ष्यभक्षणात् पापमगम्या-
गमनादिजम् । नश्यते नात्र संदेहो गोविन्दस्य च कीर्त्त-
नात् । स्वर्णस्तेयं सुरापाणं गुरुदाराभिमर्शनम् । गोविन्द
कीर्त्तनात् सद्यः पापं याति महामुते! । तावत्तिष्ठति देहे-
स्मिन् कलिकल्मषसंभवम् । गोविन्दकीर्त्तनं यावत् कुरुते
मानवोन हि” “गोविन्देत्युक्तिमात्रेण हेलया कलिवर्द्धितम्
पापौघो विलयं याति दानमश्रोत्रिये यथा । गोविन्देति
तथा प्रातर्मध्याह्ने वा निशागमे । कीर्त्तनात् पुण्यमा-
प्नोति जन्मकोटिशतोद्भवम् । गवामयुतकोटीनां कन्यानाम
युतायुतैः । तीर्थकोटिसहस्राणां तुल्यं गोविन्दकीर्त्तनम् ।
तन्नास्ति कर्मजं लोके वाग्जं मानसमेव वा । यत्तुन क्षीयते
पापं कलौ गोविन्दकीर्त्तनात् । प्रमादादपि संस्पृष्टो यथाऽ
नलकणोदहेत् । तथौष्ठपुटसंस्पृष्टं हरिनाम हरेदघम्” ।
वामनपुराणे । “अश्वमेधादिभिर्यज्ञैः नरमेधैस्तथैव च ।
याजितं तेन, येनोक्तं हरिरित्यक्षरद्वयम् । महाभारते
“प्राणप्रयाणपाथेयं संसारव्याधिभेषजम् । दुःखशोक-
परित्राणं हरिरित्यक्षरद्वयम्” । विष्णुपुराणे “ध्यायन् कृते
यजन् यज्ञैः त्रेतायां, द्वापरेऽर्चयन् । यदाप्नोति
तदाप्नोति कलौ संकीर्त्य केशवम् । अवशेनापि यन्नाम्नि कीर्त्तिते
सर्व्वपातकैः । पुमान् विमुच्यतेसद्यः सिंहत्रस्त्रैर्मृगैरिव” ।
अथ कलिदोषोपशमनाय शिवपूजनादि विहितं यथा-
लिङ्गपुराणे “कलौ रुद्रो महादेवः शङ्करो
नीललोहितः । प्रकाशते प्रतिष्ठार्थं धर्मस्य विकटाकृतिः ।
ये तं विप्राश्च सेवन्ते येन केनापि शङ्करम् । कलिदोषं
विनिर्जित्य प्रयान्ति परमां गतिम्” वृहन्नारदीये “शिव!
शङ्कर! रुद्रेश! नीलकण्ठ! त्रिलोचन! । इतीरयन्ति ये
नित्यं न हि तान् बाधते कलिः । महादेव! विरूपाक्ष!
गङ्गाधर! मृड़ाव्यय! । इतीरयन्तिये नित्यं ते कृतार्थो न
संशयः । हरिस्मरणनिष्ठानां शिवनामरतात्मनाम् ।
सत्यं समस्तकर्माणि यान्ति संपूर्णतां द्विजाः! ।
शिवपूजापरा ये तु शिवनामपरायणाः । तएव शिवतुल्याश्च
घोरे कलियुगे द्विजाः” महाभारते “यस्त्वों नमः शिवा-
येति मुच्यते स कलौ नरः । शाट्येनापि नमस्कारः
प्रयुक्तः शूलपाणये । संसाररोगसंघानामुन्मूलनकरः
कलौ । यदा कदा तं यजते श्रद्धया मुनिपुङ्गव! । लिङ्गे-
ऽथ स्थण्डिले वापि कौतुके विधिपूर्वकम् । पुरा दोषं
विनिर्जित्य रुद्रलोके महीयते!” । शिवपुराणे “ध्यानं
परं कृतयुगे त्रेतायां यजनं परम् । द्वापरे लिङ्गपूजा
च कलौ शङ्करकोर्त्तनम्” स्कन्दपुराणे “ब्रह्मा कृतयुगे
देवः त्रेतायां भगवान् रविः । द्वापरे भगवान् विष्णुः
कलौ देवो महेश्वरः” ।
अथ कलौ काशीवासस्य तथात्वमाह स्म स्कन्दपुराणे
व्यासः । “इदं कलियुगं घोरं संप्राप्तं पाण्डु-
नन्दन! । ततो गच्छामि देवस्य पुरीं वाराणसीं शुभाम् ।
अस्मिन् कलियुगे घोरे नराः पापानुवर्त्तिनः । भविष्यन्ति
महाबाहो! वर्ण्णाश्रमविवर्जिताः । नान्यत् पश्यामि
जन्तूनां मुक्त्वा वाराणसीं पुरीम् । सर्वपापप्रशमनम्
प्रायश्चित्तं कलौ युगे । ये विप्रास्तां पुरीं प्राप्य न
मुञ्चन्ति कदाचन । विजित्य कलिजान् दोषान् यान्ति
तत् परमं पदम्” लिङ्गपुराणे “कलौ युगे तु मर्त्त्यानां
स्थानं मोक्षप्रदायकम् । भक्त्या चाराधनेनैव स्नानतर्पण-
पूजनैः । ज्ञात्वा कलियुगं घोरं अल्पायुषमधार्मिकम् ।
सिद्धक्षेत्रं न सेवन्ते जायन्ते च म्रियन्ति च” मत्स्यपुराणे
“ज्ञात्वा कलियुगं घोरं हाहाभूतमचेतनम् ।
अविमुक्तं न मुञ्चन्ति कृतार्थास्ते नरा भुवि । जप्यध्यान-
विहीनानां ज्ञानविज्ञानवर्जिनाम् । तपस्युत्साहहीनानां
गतिर्वाराणसी नृणाम्” स्कान्दे काशीखण्डे “न सिध्यति
कलौ योगो न सिध्यति कलौ तपः । न्यायार्जितधनोत्-
सर्गैः सद्यः सिध्येत् कलौ परः । न व्रतं न तपो ज्ञानं न
पृष्ठ १७९८
जपोन सुरार्चनम् । दानमेव कलौ मुक्त्यै, काशी दानेन
चाप्यते । कलिस्तानेव बाधेत कालस्तांश्च जिघांसति ।
एनांसि ताँश्च बाधन्ते ये न काशीं समाश्रिताः ।
कलिक लकृतं कर्म त्रिकण्टकमितीरितम् । एतत्त्रयं न
प्रभवेदानन्दवनवासिनाम्”
अथ गङ्गायास्तथात्वमाह तुः काशीखण्डभविष्य-
पुराणे “कृते सर्वत्र तीर्थानि त्रेतायां पुष्करं
परम् । द्वापरे तु कुरुक्षेत्रं कलौ गङ्गैव केवलम् ।
ध्यानं कृते मोक्षहेतुस्त्रेतायां तच्च वै तपः । द्वापरे
तद्द्वयं यज्ञाः कलौ गङ्गैव केवलम्” । विष्णु धर्मोत्तरे
“पुषकरं तु कृते सेव्यं त्रेतायां नैमिषं तथा । द्वापरे
तु कुरुक्षेत्रं, कलौ गङ्गां समाश्रयेत्” । स्कन्दपुराणे “भक्ति-
मुक्तिफलप्रेप्सुरल्पोपायेन चेन्नरः । तीर्थान्येवाश्रयेद्विद्वान्
कलौ गङ्गां विशेषतः” । नारदीये कलौ तत्परमब्रह्मप्राप्तये
सत्वरं नृणाम् । गङ्गाभजनमेवाहुर्महोपायं महर्षयः ।
लैङ्गे “कृते युगे पुष्कराणि त्रेतायां नैमिषं तथा । द्वापरे
तु कुरुक्षेत्रं कलौ गङ्गां समाश्रयेत्” कामिकसंहितायाम्
“न भवेद्वेदमन्त्राणां संशुद्धिः, शुद्धिवर्जितैः । मन्त्रैर्विना न
सिध्यन्ति यज्ञाः, शुद्धिः सुदुर्लभा । काले कलौ विशेषेण शुद्धं
वस्तु न दृश्यते । कलौ युगे हि तमसा नष्टधर्म्मे भयङ्करे ।
अनेकच्छिन्नसन्तानो धर्म्मतन्तुर्हि जाह्नवी । विना गङ्गां
धर्म्ममयीं कथं स्याच्च गतिः कलौ । शिरसः कर्त्तनं तस्य
प्राणत्यागोपि वा वरः । समर्थस्तु कलौ काले गङ्गां यो
नाभिगच्छति” भविष्यपुराणे “कलौ कलुषचित्तानां
पापद्रव्यरतात्मनाम् । विधिहीनक्रियाणाञ्च गतिर्गङ्गां
विना नहि । अनाश्रित्य तु गङ्गां हि मुक्तिमिच्छति यः
कलौ । सूर्य्यं द्रष्टुमिहोद्युक्तो जात्यन्धसदृशस्तु सः ।
वृथाकुलं, वृथा विद्या, वृथायज्ञा, वृथा तपः । वृथा दानानि
तस्येह कलौ गङ्गां न याति यः” कूर्म्मपु० “गङ्गामेव
निषेवेत प्रयागे तु विशेषतः । नान्यत् कलियुगोद्भूतं
मलं हन्ति सुदुस्तरम्” ।
अथ कलियुगे दानस्य श्रेष्ठत्वम् अतएव मनुः “अन्ये
कृतयुगे धर्म्मास्त्रेतायां द्वापरे परे । अन्ये कलियुगे नॄणां
युगह्रासानुरूपतः” इति युगभेदेन धर्मभेदमाह स्म ।
मनुपाराशरौ “तपः परं कृतयुगे त्रेतायां ज्ञान-
मुच्यते । द्वापरे यज्ञमित्याहुर्दानमेकं कलौ युगे” ।
महाभारते “तपः परं कृतयुगे त्रेतायां ज्ञानमुच्यते ।
द्वापरे यज्ञमेवाहुः कलौ दानं दया दमः” वृहस्पतिः
“त्रयीधर्म्मः कृतयुगे, ज्ञानं त्रेतायुगे स्मृतम् । द्वापरे
चाध्वरः प्रोक्तः, कलौ दानं दया दमः” । लिङ्गपुराणे
“ध्यानं परं कृतयुगे त्रेतायां ज्ञानमुच्यते । प्रवृत्तं द्वापरे
युद्धं, दानमेकं कलौ युगे” । अग्निपुराणे “देवतावेश्म-
मूर्त्त्यादिनगराणि कलौ युगे । कर्त्तव्यानि महीपालैः
स्वर्गलोकमभीप्सुभिः”
इत्येवं कलौ विशेषधर्माः सेव्या इति दर्शितम् ।
सामान्यतः कलौ सेव्यधर्मानाह स्म पराशरः ।
“अस्मिन्मन्वन्तरे धर्म्माः कृतत्रेतादिके युगे । सर्व्वे
धर्म्माः कृते जाताः सर्व्वे नष्टाः कलौ युगे । चातु-
र्वर्ण्यसमाचारं किञ्चित् साधारणं वद । व्यासवा-
क्यावसाने तु मुनिमुख्यः पराशरः । धर्मस्य निर्णय
प्राह सूक्ष्मं स्थूलञ्च विस्तरात् । शृणु पुत्र! प्रवक्ष्ये-
ऽहं शृण्वन्तु ऋषयस्तथा । कल्पे कल्पे क्षयोत्पत्तौ
ब्रह्मविष्णुमहेश्वराः । श्रुतिः स्मृतिः सदाचारा निर्णेत-
व्याश्च सर्व्वदा । न कश्चिद्वेदकर्त्ता च वेदस्मर्त्ता
चतुर्मुखः । तथैव धर्मं स्मरति मनुः कल्पान्तरान्तरे ।
अन्ये कृतयुगे धर्म्मास्त्रेतायां द्वापरे परे । अन्ये
कलियुगे नॄणां युगरूपानुसारतः । तपः परं कृतयुगे
त्रेतायां ज्ञानमुच्यते । द्वापरे यज्ञमित्यूचुर्द्दानमेकं
कलौ युगे । कृते तु मानवोधर्म्मस्त्रेतायां गौतमः
स्मृतः । द्वापरे शङ्खलिखितः कलौ पाराशरः स्मृतः ।
त्यजेद्देशं कृतयुगे, त्रेतायां ग्राममुत्सृजेत् । द्वापरे
कुलमेकन्तु कर्त्तारञ्च कलौ युगे । कृते सम्भाषणात्
पापं, त्रेतायाञ्चैव दर्शनात् । द्वापरे चान्नमादाय, कलौ
पतति कर्म्मणा । कृते तु तत्क्षणाच्छापस्त्रेतायां
दशभिर्द्दिनैः । द्वापरे मासमात्रेण, कलौ संवत्सरेण तु ।
अभिगम्य कृते दानं, त्रेतास्वाहूय दीयते । द्वापरे याचमानाय,
सेवया दीयते कलौ । अभिगम्योत्तमं दानमाहूतञ्चैव मध्य-
मम् । अधमं याच्यमानं स्यात्, सेवादानञ्च निष्फलम् ।
कृते चास्थिगताः प्राणास्त्रेतायां मांससंस्थिताः । द्वापरे
रुधिरं यावत्, कलावन्नादिषु स्थिताः । धर्मोजितोह्यधर्मेण,
जितः सत्योऽनृतेन च । जिताभृत्यैस्तु राजानः, स्त्रीभिश्च
पुरुषा जिताः । सीदन्ति चाग्निहोत्राणि, गुरुपूजा प्रण-
श्यति । कुमार्य्यश्च प्रसूयन्ते तस्मिन् कलियुगे सदा ।
युगे युगे च ये धर्मास्तत्र तत्र च ये द्विजाः । तेषां
निन्दा न कर्त्तव्या युगरूपा हि ते द्विजाः । युगे
युगे च सामर्थ्यं शेषैर्मुनिभिर्भाषितम् । पराशरेण
पृष्ठ १७९९
चाप्यकं प्रायश्चित्तं प्रदीयते । अहमद्यैव तद्धर्म्मम-
नुस्मृत्य ब्रवामि वः । चातुर्व्वर्ण्यंसमाचारं शृणुध्वं
मुनिपुङ्गवाः । पराशरमतं पुण्यं पवित्रं पापना-
शनम्” इत्यारभ्य कलियुगे कर्त्तव्यास्तत्तद्धर्स्मास्तत्रोक्तास्ते
च तत एवावसेयाः । कलिस्वभाववर्ण्णनेनागमोक्तैवोपा-
सना कलौ कार्य्येति महानिर्वाणतन्त्रे निरूपितं यथा
“आयाते पापिनि कलौ सर्व्वधर्मविलोपिनि ।
दुराचारे दुष्प्रपञ्चे दुष्टकर्मप्रवर्त्तके । न वेदाः प्रभव-
स्तत्र स्मृतीनां स्मरणं कुतः । नानेतिहासयुक्तानां नाना-
मार्गप्रदर्शिनाम् । बहुलानाम्पुराणानां विनाशो भविता
विभो! । तदा लोका भविष्यन्ति धर्मकर्मबहिर्मुखाः ।
उच्छृङ्खला मदोन्मत्ताः पापकर्मरताः सदा । कामुका
लोलुपाः क्रूरा निष्टुरा दुर्मुखाः शठाः । स्वल्पायुर्मन्दमतयो
रोगशोकसमाकुलाः । निःश्रीका निर्बला नीचा नीचाचार-
परायणाः । नाचसंसर्गनिरताः परवित्तापहारकाः ।
परनिन्दापरद्रोहपरीवादपराः खलाः । परस्त्रीहरणे
पापशङ्काभयविवर्जिताः । निर्धना मलिना दीना
दरिद्राश्चिररोगिणः । विप्राः शूद्रसमाचाराः सन्ध्यावन्दन
वर्जिताः । अयाज्ययाजकालुब्धा दुर्वृत्ताः पापकारिणः ।
असत्यभाषिणोमूर्खा दाम्भिकाः दुष्प्रवञ्चकाः । कन्या-
विक्रयिणो व्रात्यास्तपोव्रतपराङ्मुखाः । लोकप्रतारणा
र्थाय जपपूजापरायणाः । पाषण्डाः पण्डितम्मन्याः
श्रद्धाभक्तिविवर्जिताः । कदाहाराः कदाचाराभृतकाः
शूद्रसेवकाः । शूद्रान्नभोजिनः क्रूरा वृषलीरतिकामुकाः ।
दास्यन्ति धनलोभेन स्वदारान्नीचजातिषु । ब्राह्मण्यचिह्न-
मेतावत् केवलं सूत्रधारणम् । नैव पानादिनियमोभक्ष्या
भक्ष्यविवेचनम् । धर्मशास्त्रे सदा निन्दा साधुद्रोहो निर
न्तरम् । सत्कथालापमात्रञ्च न तेषां मनसि क्वचित् ।
त्वया कृतानि तन्त्राणि जीवोद्धारणहेतवे । निगमाग-
मजातानि भुक्तिमुक्तिकराणि च । देवीनां यत्र देवानां
मन्त्रयन्त्रादिसाधनम् । कथिता बहवोन्यासाः सृष्टि-
स्थित्यादिलक्षणाः । बद्धपद्मासनादीनि गदितान्यपि
भूरिशः । पशुवीरदिव्यभावा देवतामन्त्रसिद्धिदाः ।
शवासनं चितारोहोमुण्डसाधनमेव च ।
लतासाधनकर्माणि त्वयोक्तानि सहस्रशः । पशुभावदिव्य-
भावौ स्वयमेव निवारितौ । कलौ न पशुभावोऽस्ति
दिव्यभावः कुतो भवेत् । पत्रं पुष्पं फलं तोयं स्वययेवा
हरेत् पशुः । न शूद्रदर्शनं कुर्यान्मनसा न स्त्रियं
स्मरेत् । दिव्यश्च देवताप्रायः शुद्धान्तःकरणः सदा
द्वन्द्वातीतोवीतरागः सर्वभूतसमः क्षमी । कलिकल्मप-
युक्तानां सर्वदाऽस्थिरचेतसाम् । निद्रालस्यप्रसक्ताना-
म्भावशुद्धिः कथम्भवेत्? । वीरसाधनकर्माणि पञ्च-
तत्त्वानि यानि तु । मद्यं मांसं तथा मत्स्यो मुद्रा
मैथुनमेव च । एतानि पञ्च तत्त्वानि त्वया
प्रोक्तानि शङ्कर! । कलिजा मानवा लुब्धाः शिश्नोदर-
परायणाः । लोभात् तत्र पतिष्यन्ति न करिष्यन्ति
साधनम् । इन्द्रियाणां सुखार्थाय पीत्वा च बहुलं मधु ।
भविष्यन्ति मदोन्मत्ता हिताहितविवर्जिताः ।
परस्त्रीधर्षकाः केचिद् दस्यवो बहवो भुवि । न करिष्यन्ति
ते मत्ताः पापयोनिविचारणम् । अतिपानादिदोषेण
रोगिणो बहवः क्षितौ । शक्तिहीना बुद्धिहीना भूत्वा च
विकलेन्द्रियाः । ह्रदे गर्त्ते प्रान्तरे च प्रासादात् पर्वतादपि ।
पतिष्यन्ति मरिष्यन्ति मनुजा मदविह्वलाः । केचिद्-
विवादयिष्यन्ति गुरुभिः स्वजनैरपि । केचिन्मौना
मृतप्राया अपरे बहुजल्पकाः । अकार्यकारिणः क्रूरा धर्म-
मार्गविलोपकाः । हिताय यानि कर्माणि कथितानि त्वया
प्रभो! । मन्ये तानि महादेव! विपरीतानि मानवे ।
के वा योगं करिष्यन्ति न्यासजातानि केऽपि वा । स्तोत्र-
पाठं यन्त्रलिपिं पुरश्चर्य्यां जगत्पते! । युगधर्मप्रभावेन
स्वभावेन कलौ नराः । भविष्यन्त्यतिदुवृऐत्ताः सर्वथा पाप
कारिणः । तेषामपायं दीनेश! कृपया कथय प्रभो! ।
आयुरारोग्यवर्चस्यं बलवीर्य्यविवर्द्धनम् । विद्याबुद्धिप्रदं
नॄणामप्रयत्नशुभङ्करम् । येन लोका भविष्यन्ति महाबल-
पराक्रमाः । शुद्धचित्ता परहिताः मातापित्रोः प्रियङ्कराः ।
स्वदारनिष्ठाः पुरुषाः परस्त्रीषु पराङ्मुखाः । देवतागुरु-
भक्ताश्च पुत्रस्वजनपोषकाः । ब्रह्मज्ञा ब्रह्मविद्याश्च ब्रह्मचि-
न्तनमानसाः । सिद्ध्यर्थं लोकयात्रायाः कथयस्व हिताय
यत् । कर्त्तव्यं यदकर्त्तव्यं वर्णाश्रमविभेदतः । विना त्वां
सर्वलोकानां कस्त्राता भुवनत्रये” १ उल्ला० देवीप्रश्नः
“इति देव्या वचः श्रुत्वा शङ्करो लोकशङ्करः । कथयामास
तत्त्वेन महाकारुण्यवारिधिः । सदाशिव उवाच । साधु
पृष्टं महाभागे! जगतां हितकारिणि! । एतादृशः शुभः
प्रश्नो न केनापि कृतः पुरा । धन्यासि सुकृतज्ञासि
हितासि कलिजन्मनाम् । यद् यदुक्तं त्वया भद्रे! सत्यं
सत्यं यथार्थतः । सर्वज्ञा त्वं त्रिकालज्ञा धर्मज्ञा परमे-
श्वरि! । भूतम्भवद्भविष्यञ्च धर्ममुक्तं त्वया प्रिये! । यथातत्त्वं
पृष्ठ १८००
यथान्यायं यथायोग्यं न संशयः । कलिकल्मषदीनानां
द्विजादीनां सुरेश्वरि! । मेध्याऽमेध्याविचाराणां न शुद्धिः
श्रौतकर्मणाम् । न संहिताद्यैः स्मृतिभिरिष्टसिद्धिर्नृणां
भवेत् । सत्यं सत्यं पुनः सत्यं सत्यं सत्यं मयोच्यते । विना-
ह्यागममार्गेण कलौ नास्ति गतिः प्रिये! । श्रुतिस्मृतिपुरा-
णादौ भयेवोक्तं पुरा शिवे! । आगमोक्तविधानेन कलौ
देवान् यजेत् सुधीः । कलावागममुल्लङ्घ्य योऽन्यमार्गे प्रव-
र्त्तते । त तस्य गतिरस्तीति सत्यं सत्यं न संशयः । सर्वैर्वेदैः
पुराणैश्च स्मृतिभिः संहितादिभिः । प्रतिपाद्योऽस्मि
नान्योऽस्ति प्रभुर्जगति मां विना । आमनन्ति च ते सर्घे
मत्पदं लोकपावनम् । मन्मार्गविमुखा लोकाः पाषण्डा
ब्रह्मघातिनः । अतो मन्मतमुत्सृज्य यो यत् कर्म
समाचरेत् । निष्फलं तद्भवेद्देवि! कर्त्तापि नारकी भवेत् ।
मूढो मन्मतमुत्सृज्य योऽन्यमतमुपाश्रयेत् । ब्रह्महा पितृहा
स्त्रीघ्नः स भवेन्नात्र संशयः । कलौ तन्त्रोदिता मन्त्राः
सिद्धास्तूर्णफलप्रदाः । शस्ताः कर्मसु सर्वेषु जपयज्ञ-
क्रियादिषु । निर्वीर्याः श्रौतजातीया विषहीनोरगाइव ।
सत्यादौ सफला आसन् कलौ ते मृतका इव । पञ्चालिका
यथा भित्तौ सर्व्वेन्द्रियसमन्विताः । अमूरशक्ताः कार्य्येषु,
तथाऽन्ये मन्त्रराशयः । अन्यमन्त्रैः कृतङ्कर्म बन्ध्यास्त्रीसङ्गमो
यथा । न तत्र फलसिद्धिः स्याच्छ्रम एव हि केवलम् ।
कलावन्योदितैर्मार्गैः सिद्धिमिच्छति योनरः । तृषितो जाह्नवी-
तीरे कूपं खनति दुर्मतिः । मद्वक्त्रादुदितं धर्मं हित्वान्यध-
र्ममीहते । अमृतं स्वगृहे व्यक्त्वा क्षीरमार्कं स वाञ्छति ।
नान्यःपन्थामुक्तिहेतुरिहामुत्र सुखाप्तये । यथा तन्त्रो-
दितोमार्गो मोक्षाय च सुखाय च । तन्त्राणि बहुधो-
क्तानि नानाख्यानान्वितानि च । सिद्धानां साधकानाञ्च
विधानानि च भूरिशः । अधिकारिविभेदेन पशुबाहुल्यतः
प्रिये! कुलाचारोदितं धर्मं गुप्त्यर्थं कथितं क्वचित् ।
जीवप्रवृत्तिकारीणि कानिचित् कथितान्यपि । देवा नाना-
विधाः प्रोक्ता देव्योऽपि बहुधा प्रिये! । भैरवाश्चैव वेताला-
वटुका नायिका गणाः । शाक्ताः शैवा वैष्णवाश्च सौरा गाण
सतादयः । नानामन्त्राश्च यन्त्राणि सिद्ध्युपायाह्यनेकशः ।
नूरिप्रयाससाध्यानि यथोक्तफलदानि च । यथा यथा
कृताः प्रश्ना येन येन यदा यदा । तदा तस्योपकाराय
तथैवोक्तंमया प्रिये । सर्व्वलोकोपकाराय सर्व्व प्राणिहिताय
च । युगधर्मानुसारेण याथातथ्येन पार्वति! । त्वया यादृ-
क्कृतः प्रश्नो न केनापि पुरा कृतः । तव स्नेहेन वक्ष्यामि
सारात् सारं परात् परम् । वेदानामागमानाञ्च तन्त्राणाञ्च
विशेषतः । सारमुद्धृत्य देवेशि! तवाग्रे कथ्यते मया ।
यथा नरेषु तन्त्रज्ञाः सरितां जाह्नवी यथा । यथाहं
त्रिदिवेशानामागमानामिदं तथा । किं वेदैः किंपुरा-
णैश्च किं शास्त्रैर्बहुभिः शिवे! । विज्ञातेऽस्मिन्महातन्त्रे
सर्व्वसिद्धीश्वरोभवेत् । यतो जगन्मङ्गलाय त्वयाहं
विनियोजितः । अतस्ते कथयिष्यामि यद्विश्वहितकृत्-
भवेत्” २ उल्ला० ।
“कलौ पापयुगे घोरे तपोहीनेऽतिदुस्तरे । निस्तारवीज-
मेतावद्व्रह्ममन्त्रस्य साधनम् । साधनानि बहूक्तानि नाना-
तन्त्रागमादिषु । कलौ दुर्बलजीवानामसाध्यानि महेश्वरि! ।
अल्पायुषः खल्पवृत्ता अन्नाधीनासवः प्रिये! लुब्धा धनार्जने
व्यग्राः सदा चञ्चखमानसाः । समाधावस्थिरधियो यो
गक्लेशासहिष्णवः । तेषां हिताय मोक्षाय ब्रह्ममार्गोऽ-
यमीरितः । कलौ नास्त्येव नास्त्येव सत्यं सत्यंमयो-
च्यते । ब्रह्मदीक्षां विना देवि । कैवल्याय सुखाय च । यदा
तु वैदिकी दीक्षा दीक्षा पौराणिकीतथा । न स्थास्यति
वरारोहे! तदैव प्रबलः कलिः । यदा तु पुण्यपापानां
परीक्षा वेदसम्भवा । न स्थास्यति शिवे! शान्ते! तदैव
प्रबलः कलिः । क्वचिच्छिन्ना क्वचिद्भिन्ना यदा सुरतर-
ङ्गिणी । भविष्यति कुलेशानि! तदैव प्रबलः कलिः ।
यदा तु म्लेच्छजातीया राजानोधनलोलुपाः ।
भविष्यन्ति महाप्राज्ञे! तदैव प्रबलः कलिः । यदा स्त्रियो-
ऽतिदुर्दान्ताः कर्कशाः कलहे रताः । गर्हिष्यन्ति स्वभर्त्तारं
तदैव प्रबलः कलिः । यदा तु मानवा भूमौ स्त्रीजिताः
कामकिङ्कराः । द्रुह्यन्ति गुरुमित्रादीन् तदैव प्रवलः
कलिः । यदा क्षौणी स्वल्पफला तोयदाः स्तोकवर्षिणः ।
असम्यक्फलिनोवृक्षास्तदैव प्रबलः कलिः । भ्रातरः
स्वजनामात्या यदा धनकणेहया । मिथः सम्प्रहरिष्यन्ति
तदैव प्रबलः कलिः । प्रकटे मद्यमांसादौ निन्दादण्डविव-
र्जिते । गूढ़पानं चरिष्यन्ति तदैव प्रबलः कलिः” ३ उल्ला०
इत्युपक्रम्य ब्रह्मसाधनप्रकारस्तत्र दर्शितः स च तत
एवावसेयः । उपासनायां विशेषः । कुब्जिकातन्त्रे १ पटले ।
“श्रुतिस्मृतिविधानेन पूजा कार्य्या युगत्रये आगमोक्त-
विधानेन कलौ देवान् यजेत् सुधीः । न हि देवाः
प्रसीदन्ति कलौ चान्यविधानतः” । पुरश्चरणरसोल्लासतन्त्रे
३ पटलेऽपि । “तन्त्रोक्तं ध्यानमन्त्रञ्च प्रशस्तं भारते
कलौ । वेदोक्तञ्चैव स्मृत्युक्तं पुराणोक्तं वरानने! ।
पृष्ठ १८०१
न शस्तं चञ्चलापाङ्गि! कदाचिद्भारते कलाविति” ।
“श्रौतोधर्म्मः कृतयुगे त्रेतायां स्मार्त्त एव तु । द्वापरे
च पुराणोक्तः कलावागमसम्मतः” पठन्ति । अत्रे-
दमभिदध्महे । वेदेषु काण्डत्रयमस्ति कर्म्मोपासना
ब्रह्मरूपप्रतिपाद्यभेदात् । तत्र कर्म्मकाण्डमधिकृत्य
जैमिनिप्र भृतिभिः सम्यक्तया कर्त्तव्यातादि विवेचि-।
तम् उपासनाकाण्डमधिकृत्य शाण्डिल्यनारदादिभिः,
ब्रह्मकाण्डमधिकृत्य च व्यसादिरभिः प्रपञ्चो
दर्शितः । तत्र उपासनाकाण्डमधिकृत्यैवागमशास्त्र-
प्रव्र्त्तिः तन्मूलञ्च रामतापनीयमृसिंहतापनीयप्रभृति ।
इत्यागमशास्त्रस्य प्रामाण्यम् । अनुपलभ्यमानमूल-
कागमस्यापि स्मृतिवत् श्रुतिकल्पकत्वेन प्रामाण्यम् ।
तत्र कर्म्मकाण्डे सर्व्वेऽप्यधिकारिणः मुमुक्षोरपि तत्त्व-
ज्ञानपर्य्यन्तं चित्तशुद्ध्यर्थं प्रत्यवायपरिहारार्थं च कर्म्म-
करणविधानात् “तमेतमात्मानं विविदिषन्ति वेदानुबचनेन
यज्ञेन तपसा नाशकेनेति” श्रुत्या तथोक्तेः । उपासना-
काण्डेऽपि तथैव सर्व्वेषामधिकारः “तपसा किल्विषं हन्ति
विद्ययाऽमृतमश्नुते” इति स्मृतेः । तत्र सति कामे कर्म्म-
काण्डविहितकर्म्माचरणे स्वर्गः फलम् । कामनाऽभावे
मोक्ष एव फलम् । एवमुपासनायामपि । तत्रापि सत्यां
कामनायां स्वर्गादि नानाफलम् असत्याञ्च तस्यां क्रममुक्तिः
फलम् । ब्रह्मकाण्डे तु मुमुक्षोरेवाधिकारः । इत्येवं विषय
विभागे स्थिते श्रौतीपौराणिकीस्मार्त्तीतान्त्रिकीषूपासनासु मध्ये
कलौ आगमोक्तैवोपासनादर्त्तव्येति प्रदर्शितागमवाक्येभ्यो
निश्चीयते । अन्यत्र च “हरेर्नाम हरेर्नाम हरेर्नामैव
केवलम् । कलौ नास्त्येव नास्त्येव नास्त्येव गतिरन्यथा”
“कलौ जागर्त्ति गोपालः कलौ जागर्त्ति कालिका” पठन्ति ।
अथ कलियुगे राजविशेषोत्पत्तिः कलेर्वृद्धिरन्ते कल्कि-
रूपभगवदवतारप्रादुर्भावश्च भाग० १२१, २ अ० उक्तो
यथा“योऽन्त्यःपुरञ्जयोनाम भविष्योवारहद्रथः । तस्यामात्यस्तु
शुनको हत्वा स्वामिनमात्मजम् । प्रद्योतसंज्ञं राजानं
कर्त्ता यत् पालकः सुतः । विशाखयूपस्तत्पुत्रोभविता
राजकस्ततः । नन्दिवर्द्धनस्तत्पुत्रः पञ्च प्रद्योतनाइमे ।
अष्टत्रिंशोत्तरशतं १३८ भोक्ष्यन्ति पृथिवीं नृपाः!
शिशुनागस्ततो भव्यः काकवर्णस्तु तत्सुतः । क्षेमधर्म्मा
तस्य पुत्रः क्षेत्रज्ञः क्षेत्रधर्म्मजः । विधिसारः सतस्तस्या
जातशत्रुर्भविष्यति । दर्भकस्तत्सुतो भव्यो दर्भकस्याजयः
स्मृतः । नन्दिवर्द्धन आजेयो महानन्दिस्तु तत्सुतः!
शैशुनागा दशैवैते षष्ट्युत्तर शतत्रयम् ३६० । समा भोक्ष्य-
न्ति पृथिवीं कुरुश्रेष्ठ! कलौ नृपाः । महानन्दिसुतो
राजन्! शूद्रागर्मोद्भवो बली । महापद्मपतिः कश्चित्
नन्दः क्षत्रविनाशकृत् । ततोनृपा भविष्यन्ति शूद्रप्राया-
अधार्म्मिकाः । स एकच्छत्रां पृथिवीमनुलङ्घित
शासनः । शासिष्यति महापद्मो द्वितीय इव भार्गवः ।
तस्य चाष्टौ भविष्यन्ति सुमाल्यप्रमुखाः सुताः । य इमां
भोक्ष्यन्ति महीं राजानश्च शतं समाः १०० । नव नन्दान्
द्विजः कश्चित् प्रपन्नानुद्धरिष्यति । तेषामभावे जगतीं
मौर्य्या भोक्ष्यन्ति वै कलौ । स एव चन्द्रगुप्तं वै द्विजो
राज्येऽभिषेक्ष्यति । मत्सुतो वारिसारस्तु ततश्चाशोक-
वर्द्धनः । सुयशा भविता तस्य सङ्गतः सुयशः सुतः ।
शालिशूकस्ततस्तस्य सोमशर्मा भविष्यति । शतधन्वा
सुतस्तस्य भविता तद्वृहद्रथः । मौर्य्यास्त्वेते दश नृपाः
सप्तत्रिंशच्छतोत्तरम् १३७ । समा भोक्ष्यन्ति पृथिवीं कलौ
कुरुकुलोद्वह! । अग्निमित्रस्ततस्तस्मात् सुज्येष्ठो भविता
ततः । वसुमित्रो भद्रकश्च पुलिन्दो भविता सुतः । ततो
घोषसुतस्तस्माद्वज्रमित्रो भविष्यति । ततो भागवतस्तस्मा-
द्देवभूतिः कुरुद्वह! । शुङ्गा दशैते भोक्ष्यन्ति भूमिं वर्ष-
शताधिकम् ११२ । ततः कण्वानियं भूमिर्य्यास्यत्यल्पगुणा-
न्नृप! । शुङ्गं हत्वा देवभूतिं काण्वोऽमात्यस्तु स्वामिनम् ।
स्वयं करिष्यते राज्यं वासुदेवो महामतिः । तस्य पुत्रस्तु
भूमित्रस्ततो नारायणः सुतः । काण्वायना इमे भूमि
चत्वारिंशच्च पञ्च च । शतानि त्रीणि ३४५ भोक्ष्यन्ति
वर्षाणाञ्च कलौ युगे । हत्वा काण्वं सुशर्माणं तद्भृत्यो-
वृषलोबली । गां भोक्ष्यत्यन्धजातीयः कञ्चित् कालमस-
त्तमः । कृष्णनामाथ तद्भ्राता भविता पृथिवीपतिः ।
श्रीशान्तकर्णस्तत्पुत्रः पौर्णमासस्तु तत्सुतः । लम्बोदरस्तु
तत्पुत्रस्त स्माच्छिविलकोनृपः । मेघस्वांतिः शिवि-
लकात् दृढमानन्तु तत्सुतः । अनिष्टकर्मा हानेयस्त-
लकस्तस्य चात्मजः । पुरीषभेरुस्तत्पुत्रस्ततो राजा
सुनन्दनः । चकोरो वटको यत्र शिवस्वातिररिन्द मः ।
तस्यापि गोमतीपुत्रः पुरीमान् भविता ततः ।
मेदशिराः शिवस्कन्धो यज्ञश्रीस्तत्सुतस्ततः । विजयस्तत्-
सुतो भव्यश्चन्द्रवीर्य्यश्च सोमधिः । एते त्रिंशन्नृपतय-
श्चत्वार्य्यव्दशतानि च । षट् पञ्चाशच्च ४५६
पृथिर्वी भोक्ष्यन्ति कुरुनन्दन! । सप्ताभीरा आवभृत्या
दश गर्द्धभिनो नृपाः । कङ्का षोड़श भूपाला भविष्यन्त्य-
पृष्ठ १८०२
तिलोलुपाः । ततोऽष्टौ यवना भव्याश्चतुर्द्दश तुरुष्ककाः ।
भूयो दश गुरुण्डाश्च मौला एकादशैव तु । एते भोक्ष्यन्ति
पृथिवीं दश वर्षशतानि च । नवाधिकाञ्च नवतिं १०९९
मौला एकादश क्षितिम् । भोक्ष्यन्त्यव्दशतान्यङ्ग! त्रीणि
३०० तैः संस्थिते ततः । किलकिलायां नृपतयो भूतनन्दो-
ऽथ वङ्गिरः । शिशुनन्दि स्तु तद्भ्राता यशोनन्दिः प्रवी-
रकः । भोक्ष्यन्त्येते वर्षशतं भविष्यन्त्यधिकानि षट् १०६ ।
तेषां त्रयोदश सुता भवितारश्च वाह्लिकाः । पुष्पमित्रोऽथ
राजन्यो दुर्मित्रोऽस्य तथैव च । एककाला इमे भूपा
सप्तान्ध्राः सप्त कोशलाः । वैदूरपतयो भव्या नैषधास्तत
एव हि । मागधानाञ्च भविता विश्वस्फूर्जिः
पुरञ्जयात् । करिष्यत्यपरान् वर्णन् पुलिन्द यदुमद्रकान् ।
प्रजाश्चाब्रह्मभूयिष्ठाः स्थापयिष्यति दुर्मतिः । वीर्य्यवान्
क्षत्रमुत्सार्य्य पद्मवत्यां स वै पुरि । अनुगङ्गमाप्रयागं
गुप्तां भोक्ष्यति मेदिनीम् । सौराष्ट्रावन्त्याभीराश्च
शूरा अर्बुदमानवाः । व्रात्याद्विजा भविष्यन्ति शूद्र-
प्राया जनाधिपाः । सिन्धोस्तटं चन्द्रभागां कान्तीं
काश्मीरमण्डलम् । भोक्ष्यन्ति शूद्रा व्रात्याद्या म्लेच्छा
अब्रह्मवर्चसः । तुल्यकाला इमे राजन्! म्लेच्छ-
प्रायाश्च भूभृतः । एतेऽधर्मानृतपराः फल्गुदास्तीव्र-
मन्यवः । स्त्रीबालगोद्विजघ्नाश्च परदारधनादृतः ।
उदितास्तमितप्राया अल्पसत्वाल्पकायुषः । असंस्कृताः
क्रियाहीना रजसा तमसाऽऽवृताः । प्रजास्ते भक्षयिष्यन्ति
म्लेच्छराजन्यरूपिणः । तन्नाथास्ते जनपदास्तच्छी-
लाचारवादिनः । अन्योऽन्यतो राजभिश्च क्षयं यास्यन्ति
पोड़िताः” १ अ० ।
“ततश्चानुदिनं धर्मः सत्यं शौचं क्षमा दया । कलिना
बलिना राजन्! नङ्क्ष्यन्त्यायुर्ब्बलं स्मृतिः । वित्त-
मेव कलौ नॄणां जन्माचारगुणादयः । धर्मन्यायव्यवस्थायां
कारणं बलमेव हि । दाम्पत्येऽभिरुचिर्हेतुर्मायैव व्याव-
हारिके । स्त्रीत्वे पुंस्त्वे च हि रतिर्विप्रत्वे सूत्रमेव
हि । लिङ्गमेवाश्रमख्यातावन्योन्याप्रत्तिकारणम् । अवृत्त्या
न्यायदौर्बल्यं, पाण्डित्ये चापलं वचः । अनाट्य-
तैवासाधुत्वे साधुत्वे दम्भ एव च । स्वीकार एव चोद्वाहे,
स्नानमेव प्रसाधनम् । दूरे वार्य्ययनं तीर्थं लावण्ये
केशधारणम् । उदरम्भरता स्वार्थः सत्यत्वे धार्ष्ण्यमेव
हि । दाक्ष्ये कटुम्बभरणं, यशोऽर्थे धर्मसेवनम् । एवं
पजाभिर्दुष्टाभिराकीर्णे क्षिंतिमण्डले । ब्रह्मविट्क्षत्र-
शूद्राणां यो बली भविता नृपः । प्रजा, हि लुब्धै
राजन्यैर्निर्घृणैर्दस्युधर्मिभिः । आच्छन्नदारद्रविणा यास्यन्ति
गिरिकाननम् । शाकमूलामिषक्षौद्रफलपुष्पाष्टि (आँटि)
भोजनाः । अनावृष्ट्या विनङ्क्ष्यन्ति दुर्भिक्षकरपीड़िताः ।
शीतवातातपप्रावृठिमैरन्योन्यतः प्रजाः । क्षुत्तृड्भ्यां
व्याधिभिश्चैव सन्तप्स्यन्ते च चिन्तया । त्रिंशद्विंशति
वर्षाणि परमायुः कलौ नृणाम् । क्षीयमाणेषु देहेषु
देहिनां कलिदीषतः । वर्णाश्रमवतां धर्मे नष्टे वेदपथे
नृणाम् । पाषण्डप्रचुरेऽधर्म दस्युप्रायेषु राजसु । चौर्या-
नृतवृथाहिंसा नानावृत्तिषु वै नृषु । शूद्रप्रायेषु वर्णेषु
छागप्रायासु धेनुषु । गृहप्रायेष्वाश्रमेषु यौनप्रायेषु
बन्धुषु । अणुप्रायेष्वोषधीषु शमीप्रायेषु स्थास्नुषु । विद्य्-
त्प्रायेषु मेघेषु शून्यप्रायेषु सद्मसु । इत्थं कलौ
गते प्रायें जनेषु खरधर्मिषु । धर्मत्राणाय सत्वेन
भगवानवतरिष्यति । चराचरगुरोर्विष्णोरीश्वरस्याखिला-
त्मनः । धर्मत्राणाय साधूनां जन्म कर्मापनुत्तये । शम्भल-
ग्राममुख्यस्य ब्राह्मणस्य महात्मनः । भवने विष्णुयशसः
कल्किः प्रादुर्भविष्यति । अश्वमाशुगमारुह्य देवदत्तं
जगत्पतिः । असिनाऽसाधुदमनमष्टैश्वर्य्यगुणान्वितः ।
विचरन्नाशुना क्षौण्यां हयेनाप्रतिमद्युतिः । नृपलिङ्गच्छदो-
दस्यून् कोटिशोनिहनिष्यति । अथ तेषां भविष्यन्ति
मनांसि विशदानि वै । वासुदेवाङ्गरागाभिपुण्यगन्धानिल-
स्पृशाम् । पौरजानपदानां वै हतेष्वखिलदस्युषु । तेषां
प्रजा विसगश्च स्थविष्ठः सम्भविष्यति । वासुदेवे भगवति
सत्वमूर्त्तौ हृदि स्थिते । यदाऽवतीर्णो भगवान् कल्किर्धर्मपति
र्हरिः । कृत भविष्यति तदा प्रजासूतिश्च सात्विकी ।
यदा सूर्य्यश्च चन्द्रश्च तथा तिष्यवृहस्पती । एकराशौ
समेष्यन्ति भविष्यति तदा कृतम् । येऽतीतावर्त्त-
माना ये भविष्यन्ति च पार्थिवाः । ते ते उद्देशतः
प्रोक्तावंशजाः सोमसूर्य्ययोः । आरभ्य भवतो जन्म
यावन्नन्दाभिषेचनम् । एतद्वर्षसहस्रन्तु शतं पञ्चदशोत्तरम्”
“यदा यदा सतां हानिर्वेदमार्गानुसारिणाम् । तदा
तदा कलेर्वृद्धिरनुमेया विचक्षणैः” । अनुपदमधिकमुक्तम् ।
अधिकं कलिखभावादिकं कल्किशब्दे वक्ष्यते ।
कलियृगे च शककर्त्तारः षट् यथोक्तं ज्योतिर्विदाभरणे
“युधिष्ठिरो विक्रमशालिवाहनौ धराधिनाथौ, विजयाभि-
नन्दनः । इमेऽनु नागार्ज्जुनमेदिनीपतिर्बलिः क्रमात् षट्
शककारकाः कलौ” । तेषां शककालश्च शकशब्दे वक्ष्यते ।
पृष्ठ १८०३
कलौ वर्ज्यधर्म्माः निर्ण्णयसिन्धावुक्ता यथा-
“वृहन्नारदोये । “समुद्रयात्रास्वीकारः कमण्डलु-
विधारणम् । द्विजानामसवर्णासु कन्यासूपयमस्तथा ।
देवराच्च सुतोत्पत्तिर्मधुपर्के पशोर्बधः । मांसदानं तथा
श्राद्धे वानप्रस्थाश्रमस्तथा । दत्ताऽक्षतायाः कन्यायाः
पुनर्दानं परस्य च । दीर्घकालं ब्रह्मचर्य्यं नरमेधाश्व-
मेधकौ । महाप्रस्थानगमनं गोमेधश्च तथा मखः ।
इमान् धर्मान् कलियुगे वर्ज्यानाहुर्मनीषिणः” । कमण्डलुः
“सोदकञ्च कमण्डलुम्” इत्युक्तः मृण्मयो वा । दत्ता ऊढा ।
“ऊढायाः पुनरुद्वाहं ज्येष्ठांशं गोबधं तथा ।
कलौपञ्च न कुर्वीत भ्रातृजायां कमण्डलुमिति” हेमाद्रौ
वचनात् । “ऊढा पुरुषसंयोगात् सृते देयेति केचन”
इत्यादिभिर्विवाह्यतोक्ता । हेमाद्रौ बाह्मे “गोत्रान्मातुः
सपिण्डाच्च विवाहो गोबधस्तथा । नराश्वमेधौ मद्यञ्च कलौ
वर्ज्यं द्विजातिभिः” । गोत्रात् गोत्रजायाः पितृष्वसुः,
मातुः सपिण्डात् मातुलात्, तत्कन्याया विवाहः कलौ
न कार्य्यः । तेन यानि तद्विधायकानि तानि युगान्तर-
विषयाणि । तथा च व्यासः । “तृतीयां मातृतः कन्यां,
तृतीयां पितृतस्तथा । शुक्लेन चोद्वहिष्यन्ति विप्राः
पापविमोहिताः” इति कलौ निन्दामाह । मातृतस्तृ-
तीयां मातुलकन्यामित्यर्थः । उक्तञ्चैतत् प्राक् । मद्यं
“स्त्रीभ्यः सुरामाचामम्” इत्यादिना विहितमपि वर्ज्यम्”
हेमाद्रौ आदित्यपुराणे “विधवायां प्रजोत्पत्तौ देवरस्य
नियोजनम् । बालायाः क्षतयोन्याश्च वरेणान्येन सस्कृतिः ।
कन्यानामसवर्ण्णानां विवाहश्च द्विजातिभिः ।
आततायिद्विजाग्र्याणां धर्मयुद्धेन हिंसनम् । द्विजस्याब्धौ
तु नौयातुः शोधितस्यापि संग्रहः ।
महाप्रस्थानगमनम्, गोसंज्ञप्तिश्च गोसवे । सौत्रामण्यामपि
सुराग्रहणस्य च संग्रहः । अग्निहोत्रहवन्याश्च लेहो-
लीढ़ापरिग्रहः । वृत्तस्वाध्यायसापेक्षमघसङ्कोचनं
तथा । प्रायश्चित्तविधानञ्च विप्राणां मरणान्तिकम् ।
संसर्गदोषस्तेयान्यमहापातकिनिष्कृतिः । वरातिथि-
पितृभ्यश्च पशूपाकरणक्रिया । दत्तौरसेतरेषां तु पुत्र-
त्वेन परिग्रहः । सवर्ण्णान्याङ्गनादुष्टैः संसर्गः शौधितै-
रपि । अयोनौ संग्रहे वृत्ते परित्यागो गुरुस्त्रियाः ।
परोद्देशात्मसंत्याग उद्दिष्टस्यापि वर्ज्जनम् । प्रतिमा-
भ्यचनाऽर्थाय, संकल्पश्च सधर्मकः । अस्तिसञ्चयनादू-
र्द्ध्वमङ्गस्पर्शनमेव च । शामित्रं चैव विप्राणां सोमविक्र-
यणं तथा । षड्भक्तानशने चाथ हरणं हीनकर्म्मणः ।
पृथ्वीचन्द्रादये “शूद्रेषु दासगोपालकुलमित्रार्द्धसीरि-
णाम् । भोज्यान्नता गृहस्थस्य तीर्थसेवातिदूरतः । शिष्यस्य
गुरुदारेषु गुरुवद्वृत्तिशीलता । आपद्वृत्तिर्द्विजाग्र्या-
णामश्वस्तनिकता तथा । प्रजार्थं तु द्विजाग्र्याणां
परजायापरिग्रहः । ब्राह्मणानां प्रवासित्वं मुखाग्निधम-
नक्रिया । बलात्कारादिदुष्टस्त्रीसंग्रहो विधिनोदितः ।
यतेश्च सर्ववर्णेषु भिक्षाचर्य्या विधानतः । नवोदके
दशाहश्च दक्षिणा गुरुणोदिता । ब्राह्मणादिषु शूद्रस्य षच
नादिक्रियापि च । भृग्वग्निपतनैश्चैव वृद्धादिमरणं तथा ।
गोतृप्तिशिष्टपयसि शिष्टैराचमनक्रिया । पितापुत्रविरोधेषु
साक्षिणां दण्डकल्पनम् । यतेः सायंगृहत्वं च सूरिभिस्त-
त्त्वदर्शिभिः । एतानि लोकगुप्त्यर्थं कलेरादौ महात्मभिः ।
निवर्त्तितानि विद्वद्भिर्व्यवस्थापूर्वकं बुधैः” । सुराग्रहणस्य
तत्कर्तुः संग्रहो व्यवहारः । न च मद्यं चेति सामा-
न्येन निषिषेधेनास्योपसंहार इति शङ्क्यम् । निषेधस्य
निवृत्तिफलत्वेन विशेषानपेक्षत्वात्, मा हिंस्यादित्यस्य
न ब्राह्मणं हन्यादित्यनेनोपसंहारे हिंसान्तरस्या
दोषापत्तेश्च । निरूपितं चैतद्धेमाद्रिणान्यत्रेत्थुपरम्यते ।
“एकाहाद्ब्राह्मणः शुध्येद्योऽग्निवेदसमन्वितः” इत्युक्तेः
अघस्य अशौचस्य सङ्कोचः “न तस्य निष्कृतिर्दृष्टा भृग्वग्नि-
पतनादृते” इत्युक्तस्य प्रायश्चित्तस्य विधानम् उपदेशः ।
“कलौ कर्त्तैव लिप्यत” इति व्यासोक्तेः पतितसंसर्गदोषे
सत्यऽपि पातित्यं नेत्यर्थः इति केचिदाहुः । ते मूर्खाः माना-
भावात् । तेनायमर्थः । तत्संसर्गी तु पञ्चमः स्तेयञ्च इति
तदन्यानि महापातकानि ब्रह्मबधसुरापाणगुरुतल्पाभिगम-
नानि त्रीणि, तेषां कामकृतानां प्रायश्चित्तं कलौ न, तेषु
कामतोमरणान्तस्यैवोक्तेः । तत्स्थाने द्वादशावदं, द्वैगुण्ये
आत्मनो ब्रह्मबधनिमित्ते च चतुर्विं शत्यव्दमिति
चतुर्गुणद्वादशाब्दापत्तेस्तस्य च “चतुर्थे नास्ति निष्कृतिरिति”
निषेधात्संसर्गिणो व्रतस्यैवौक्तेः । “स्तेये च राज्ञो बध
कर्तृत्वान्नात्मब्रह्मबधापत्तिः । अतो द्वैगुण्यै युक्तोऽधि-
कारः । न च विघित्वं, निषेधबाधात् । आत्मबधदो-
षापवादेऽपि ब्रह्मबधाभावात् युगान्त रदोषसाम्येऽपि-
कलौ दोषाधिक्यात् । एतद्विप्रपरम् । असवर्ण्णान्या सवर्ण्णा
क्षत्रियादिस्तया दुष्टैः । अयानौ शिष्यादौ । “स्त्रिय-
स्तथा परित्याज्याः शिष्यगा गुरुगाश्च याः” इत्युक्तेस्त्वागः ।
परोद्देशेन ब्राह्मणाद्यर्थ आत्मत्यागः । यद्वा परो-
पृष्ठ १८०४
द्देशात्मा त्यागोदानं मनसा पात्रमुद्दिश्येत्युक्तम् । उद्दि-
ष्टस्य त्यक्तस्य वर्ज्जनम् प्रतिग्रहसमर्थोऽपीत्युक्तम् ।
वेतनग्रहणेन प्रतिमापूजा । “स्वाशौचकालाद्विज्ञेयं
स्पर्शनन्तु त्रिभागतः” इत्युक्तः स्पर्शः । षडिति “उपो-
षितस्त्र्यहं स्थित्वा धान्यमब्राह्मणाद्धरेत्” इत्युक्तमन्नचौर्य्यम् ।
आपदि क्षत्रादिवृत्तिः, मुखेनैव धमेदग्निमित्युक्तं
धमनम् । “दशाहेनैव शुध्येत भूमिष्ठं च नवोदकम्” इत्युक्ता
दशाहः । “गुरवे तु वरं दत्त्वा” इत्युक्ता दक्षिणा ।
शूद्रेषु दासगोपालेति । “कन्दुपक्वं स्नेहपक्वं यच्च
दुग्धेन पाचितम् । एतान्यशूद्रान्नभुजो भोज्यानि
मनुरब्रवीत्” इत्यपरार्के सुमन्तूक्ता शूद्रस्य पाकक्रिया ।
“पितापुत्रविवादे तु साक्षिणां त्रिपणोदमः” इत्युक्तः ।
सायंगृहत्वम् “विधूमे सन्नमुषले” इत्युक्तम् । पृथ्वी
चन्द्रण तु । “अटन्ति वसुधां विप्राः पृथिवीदर्शनाय
च । अनिकेता निराहारा ये तु सायंगृहास्तु ते” इति
पुराणोक्तो निषिद्धः, तेनाज्ञातशीलपान्थादेः श्राद्धादौ
विनियोगो न कार्य्यः । कलौ एतानि वर्ज्यानीत्यर्थः ।
निगमः । “अग्निहोत्रं नवालम्भं संन्यासं पलपैतृकम् ।
देवराच्च सुतोत्पत्तिं कलौ पञ्च विवर्जयेत्” । अग्निहोत्रं
तदर्थमाधानम् । एतच्च सर्वाधानपरम् । “अर्द्धाधानं
स्मृतं श्रौतं स्मार्त्ताग्न्योस्तु पृथक्कृतिः । सर्वाधानं
तयोरैक्यकृतिः पूर्वयुगाश्रितेति” लौगाक्षिवचनादिति स्मृति-
चन्द्रिकायाम् एतेन “चत्वार्यव्दसहस्राणि चत्वार्य-
ब्दशतानि च । कलेर्यदा गमिष्यन्ति तदा त्रेता-
परिग्रहः । संन्यासश्च न कर्त्तव्यो ब्राह्मणेन
विजानतेति” व्यासवचनं व्याख्यातम् । सर्वाधानेऽपि
विशेषमाह देवलः “यावद्वर्ण्णंविभानोऽस्ति यावद्वेदः
प्रवर्त्तते । संन्यासञ्चाग्निहोत्रञ्च तावत्कुर्य्यात् कलौ युगे”
इति । संन्यासस्त्रिदण्डः केचित्” ।
दत्तौरसेतरेषान्त्वित्यत्र दत्तपदं कृत्रिमस्याप्युपलक्षणम्
“औरसः क्षेत्रजश्चैव दत्तः कृत्रिम एव च” कलिधर्म्मे
पराशरस्मरणात् इति दत्तकमीमांसादिमतम् । दत्तकशब्दे
चन्द्रिकामतं वक्ष्यते । समुद्रयात्रास्वोकारोऽप्यत्र तीर्थ-
यात्रारूपधर्मपरः तथा हि
“शोधितस्यापीत्यनेन कृतप्रायश्चित्तस्यैव संग्रहपद-
वाच्यव्यवहार्य्यतानिषेधेन यत्र विषये समुद्रनौयानं निषिद्धं
तत्रैव विषये कृतप्रायश्चित्तस्याप्यसग्रह इति प्रतिपादि-
तम् । अत्र शोधितत्वोक्त्यैव प्रायश्चित्तनिमित्तीभूतपापनि-
श्चय आक्षिप्यते तन्निश्चयश्च पापावेदकशास्त्रादेव, समुद्र-
गमनमात्रे च कुत्रापि शास्त्रे प्रायश्चित्ताद्यदर्शनात् न
तस्य निषिद्धता, किन्तु तद्ग मनकाले म्लेच्छादिस्पृष्टजला-
न्नसेवन एव, तत्पापापनोदनाय तु कृतेऽपि प्रायश्चित्ते न
तद्यातुः संग्रह इत्येव कल्पयितुमुचितम् शोधितस्या-
पीति पदस्वारस्यात् । अन्यथा समुद्रनौगमनमात्रे संग्रह
इत्येवाभिदध्यात् । न च तथाभिहितम् । न च “समु-
द्रयात्रास्वीकारः कमण्डलुर्विधारणम् । इत्युपक्रम्य
“इमान् धर्मान् कलियुगे वर्ज्यानाहुर्मनीषिणः” इति
वृहन्नारदीयवचने समुद्रयात्रास्वीकारस्य कलौ निषिद्ध-
तयोक्तेः निषिद्धातिक्रमे च “विहितस्याननुष्ठानान्निन्दि-
तस्य च सेवनात् । अनिग्रहाच्चेन्द्रियाणां नरः
पतनमृच्छति” इतिया० स्मृतौ क्रमशस्तथाचरणे पातित्यप्रतिपाद-
नात् तद्विषय एव प्रायश्चित्ताचरणसम्भवेन तत्रैय शोधित-
स्यापीत्यस्यावकाश इति वाच्यम् वृहन्नारदीयवचने उपसं-
हारे “इमान् धर्मान्” इत्युक्तेः धर्म्मारूपसमुद्रयात्रास्वी-
कारस्यैव कलौ निषेधात् बाणिज्यराजाज्ञादिनिमित्तकस्य
तस्य निषेधाभावेन तद्विषयकत्वासम्भवात् । स्मर्य्यते च
ब्रह्महत्यादिपापापनोदनार्थं समुद्रगमनं पराशरेण,-
प्रायश्चित्तप्रकरणे “शतयोजनविस्तीर्ण्णं शतयोजनमायतम् ।
रामचन्द्रस--मादिष्ट--नल--सञ्चय--सञ्चितम् । सेतुं दृष्ट्वा
समुद्रस्य ब्रह्महत्यां व्यपोहति” इत्यन्तेन । न चाप्यत्र
समुद्रसेतुदर्शनस्यैव ब्रह्महत्यानाशकत्वं शङ्क्यं समुद्रया-
त्रास्वीकारं विना शतयोजनाय तस्य सेतोर्दर्शनासम्भवेन
आक्षेपेणैव तद्गमनलाभात् । अन्यथा सेतोर्यत्किञ्चिदंश-
मात्रस्य तथात्वे “शतयोजनमायतम्” इति विशेषणमन-
र्थकं स्यात्, तथा च शतयोजनविस्तारायतसेतुबन्धदर्शन-
स्यैव प्रकृतब्रह्महत्यापापनाशकत्वं न तु यत्किञ्चिन्मात्र-
दर्शनस्य, पापप्राबल्येन परिश्रमप्राबल्यस्यापेक्षितत्वात्
किन्तु एकादश्यादिव्रतस्येव यत्किञ्चिन्मात्रदर्शनस्याति-
दिष्टब्रह्महत्यानाशकत्वम् युक्तम् । अतएव “यो भूय
आरभते तस्य फले विशेषः” इति जैमिनिना सम्यगायास
फलबाहुल्यं निर्णीतम्, निर्णीतञ्च ऋग्वेदभाष्ये माधवाचार्य्येण
सम्यगायासादिना अनुष्ठिताश्वमेधाद्यषेक्षया तत्तद्यज्ञविद्या-
बोधकवेदाध्यायिनोऽतिदिष्टब्रह्मवधादिनाशकत्वम् । एवञ्च
प्रकृतब्रह्महत्यायाः अपनोदनार्थं शतयोजनदीर्घविस्तार-
सेतुदर्शनं स्मृतौ विहितम् । तेनैव च समुद्रनौगमनम-
र्थापत्तिलभ्यम् एवं द्वारवत्यादितीथ यात्राङ्गमपि समुद्रयान-
पृष्ठ १८०५
गमनमर्थापत्तिप्रमाणलभ्यम् । एवञ्च ईदृशसमुद्रयानस्यैव
धर्मरूपतया विहितस्य कलौ निषेधः वृहन्नारदीयवचने
कमण्डलुविधारणादिभिः पुण्यापरपर्य्यायधर्मसाधनत्वेन
धर्मरूपैः समभिव्याहारेण पठितत्वात् धर्मरूपस्यैव समुद्र-
यानस्य निगिद्धत्वौचित्यात् “प्रायेण समानरूपाः सहचरा
भवन्ति” इति न्यायात् । एतेन वृहन्नारदीये “समुद्र-
यात्रास्वीकार” इति पाठे रघुनन्दनमाधवाचार्य्यादिबहु-
निबन्धकारसम्मते स्थिते निर्णयसिन्धौ समुद्रयातुः स्वीकार
इति क्वाचित्कपाठस्तु अनाकरोऽनुचितश्च, तथा सति
समुद्रयातुर्जनस्य स्वीकाररूपव्यवहारस्य धर्मरूपत्वाभावेन
“इमान् धर्मान्” इत्यभिधानस्यायुक्तत्वापत्तेः । ततश्च धर्मार्थ-
समुद्रयात्रा--खीकारस्यैव निषिद्धतया बाणिज्यराजाज्ञादिनि-
मित्तकस्य तस्य कुत्राप्यनिषेधात् तत्समये म्लेच्छादिगुरुतर-
संसर्गे सन्ध्याबन्दनादित्यागे च तत्पापापनोदनार्थं शोधि-
तस्यापि (कृतप्रायश्चित्तस्य) न संग्रह इत्यत्रैव आदित्य-
पुराणवचनतात्पर्य्यम् । यथा च “कामतोऽव्यवहार्यस्तु
यचनादिह जायते, इति याज्ञवल्क्येन पातकविशेषे प्राय-
श्चित्ताचरणेऽपि अव्यवहार्यताऽभिहिता, तत्समानन्यायाद-
त्रापि प्रायश्चित्ताचरणेऽपि न व्यवहार्यतेति युक्तमुत्प-
श्यामः । एवञ्च समुद्रनौगमनकाले सन्ध्यादिकर्तुः ।
म्लेच्छादिभिर्गुरुतरं संसर्गमकुर्वतश्च प्रायश्चित्तज्ञापकशास्त्रा-
भावात् न अव्यहार्य्यता, नापि प्रायश्चित्ताचरणम् । ततश्च
“उषित्वा यत्र कुत्रापि स्वधर्म्मं प्रतिपालयन् । षट्
कर्माणि प्रकुर्वीरन्निति धर्म्मस्य निश्चयः” इति स्मृतौ यत्र
कुत्वापि वासेऽपि स्वधर्म्मानुष्ठाने पापशून्यत्वमुक्तं सूपपन्नम् ।
अतएव कलौ वाणिज्याद्यर्थसमुद्रयाने शिष्टाचारोऽपि
दृश्यते । तथा हि कलियुग नृपवत्सराजामात्ययोर्यौगन्धरा-
यणबाभ्रव्ययोर्युद्धार्थं वत्सराजाज्ञया समुद्रयानं रत्ना-
वलीनाटके वर्णितम्, वर्णितञ्च भाषाचण्डीपुस्तके श्रीम-
न्ताभिधबणिजस्तत्पितुश्च इतो वङ्गदेशात् सिंहलगमन-
नम् । नंच तद्गमनं तदा केनाषि विगीतम् । यदि तद्वि-
गीतं स्यात् तदा ते हि शिष्टाः कथं तत् कुर्युः । इदानी-
न्तनानां विगानन्तु म्लेच्छमूरिसंसर्गाशङ्कयैवेति एतन्मू-
लकमेव इदानीमपि अन्यैर्दाक्षिणात्य शिष्टैर्बाणिज्याद्यर्थं
सिंहलादिगमनमनुष्ठीयते । अतः समुद्रयानगमनमात्रं
निषिद्धमिति तु रिक्तं वचः! ततश्च धर्मार्थसमुद्रयानगमनमेव
कलौ निषिद्धमित्यायातम् । तद्गमनकाले च यदा म्लेच्छादि-
भिर्गुरुतरसंसर्गः सन्ध्यादित्यागश्च तदैव प्रायश्चित्ताचरणेऽपि
द्विजानामव्यवहार्यता शूद्राणान्तु प्रायश्चित्ताचरणे व्यव-
हार्यतैव द्विजपदस्वारस्यात् अन्यथा लोकस्याब्धौ त्वित्यभिद-
ध्यात् । इत्येव द्विजेभ्यः शूद्राणां विशेष इति दिङ्मात्रमुप-
दर्शितम्” २ कलिकालाधिष्टातृदेवभेदे च तस्योत्पत्तिर्यथा
“प्रलयान्ते जगत्स्रष्टा ब्रह्मा लोकपितामहः ससर्ज घोरं
मलिनं पृष्ठदेशात् स पातकम् । सचाधर्म्म इति ख्यातस्तस्य
वंशानुकीर्त्तनात् । श्रवणात् स्मरणाल्लोकः सर्व्वपापैः प्रमु-
च्यते । अधर्भस्य प्रिया रम्या मिथ्या मार्ज्जारलोचना ।
तस्याः पुत्रोऽतितेजस्वी दम्भः परमकोपनः । स मायायां
भनिन्यान्तु लोमं पुत्रञ्च कन्यकाम् । निकृतिं जनयासास
तयोः क्रोधः सुतोऽभवत् । स हिंसायां भनिन्यान्तु
जनयामास तं कलिम् । वामहस्तधृतोपस्थं तैलाभ्यक्ताञ्जन-
प्रभम् । काकोदरं करालास्यं लोलजिह्वं भयानकम् ।
पूतिनन्धिं द्यूतमद्यस्त्रीसुवर्ण्णकृताश्रयम् । भगिन्यान्तु
दुरुक्त्यां स भयं पुत्रञ्च कन्यकाम् । मृत्युं र्सजनयामास
तयोस्तु निरयोऽभवत् । यातनायां भगिन्यान्तु लोभपुत्रा-
युतायुतम् । इत्थं कलिकुले जाता बहवो धर्मनिन्दकाः”
इति कल्किपुराणे १ अ० ।
तस्य नलं प्रति द्वेषभावस्तच्छरीरे प्रवेशश्च भा० व०
५८, ५९ अ० वर्ण्णितः । यथा
“ततोऽब्रवीत् कलिः शक्रं दमयन्त्याः स्वयंवरम् । मत्वा
हि वरयिष्ये तां मनो हि मम ताङ्गतम् । तमब्रवीत्
प्रहस्येन्द्रो निर्व्वृत्तः स स्वयंवरः । वृतस्तया नलो
राजा पतिरम्मत्समीपतः । एवमुक्तस्तु शक्रेण कलिः
कोपसमन्वितः । देवानामन्त्र्य तान् सर्व्वानुवाचेदं
कचस्तदा । देवानां मानुषं मध्ये यत् सा पतिमविन्दत । तत्र
तस्या भवेन्न्याय्यं विपुलं दण्डधारणम् । एवमुक्ते तु
कलिना प्रत्यूचुस्ते दिवौकसः । अस्माभिः समनुज्ञाते
दमयन्त्या नलो वृतः । का च सर्व्वगुणोपेतं नाश्रयेत
नलं नृपम् । यो वेद धर्म्मानखिलान् यथावच्चरितव्रतः ।
योऽधीते चतुरो वेदान् सर्व्वानाख्यानपञ्चमान् ।
नित्यं तृप्ता गृहे यस्य देवा यज्ञेषु धर्म्मतः । अहिंसानि-
रतो यश्च सत्थवादी दृढव्रतः । यस्मिन् सत्यं धृति-
र्ज्ञानं तपः शौचं दमः शमः । ध्रुवाणि पुरुषव्याघ्रे
लोकपालसमे नृपे । एवं रूपं नलं यो वै कामयेच्छपितुं
कले! । आत्मानं स शपेन्मूढो हन्यादात्मानमात्मना ।
एवंगुणं नलं यो वै कामयेच्छपितुं कले! । कृच्छ्रे स
नरके मज्जेदगाधे विपुले ह्रदे । एवमुक्त्वा कलिं देवा
पृष्ठ १८०६
द्वापरञ्च दिवं ययुः । ततो गतेषु देवेषु कलिर्द्वापर-
मब्रवीत् । संहर्त्तुं नोत्सहे कोपं नले वत्स्यामि
द्वापर! । भ्रंशयिष्यामि तं राज्यान्न भैम्या सह रंस्यते ।
त्वमप्यक्षान् समाविश्य साहाय्यं कर्त्तमर्हसि” ५८ ।
“एवं स समयं कृत्वा द्वापरेण कलिः सह ।
आजगाम ततस्तत्र यत्र राजा स नैषधः । स नित्यमन्तरं प्रेप्सु-
र्निषधेष्ववसच्चिरम् । अथास्य द्वादशे वर्षे ददर्श
कलिरन्तरम् । कृत्वा मूत्रमुपस्पृश्य सन्ध्यामन्वास्त नैषधः ।
अकृत्वा पादयोः शौचं, तत्रैनं कलिराविशत् । स
समाविश्य च नलं समीपं पुष्करस्य च । गत्वा पुष्करमा-
हेदमेहि दीव्य नलेन वं । अक्षद्यूते नलं जेता भवान्
हि सहितो मया । निषधान् प्रतिपद्यस्व जित्वा
राज्यं नलं नृपम् । एवमुक्तस्तु कलिना पुष्करो
नलमभ्यगात् । कलिश्चैव वृषोभूत्वा गवां पुष्करमभ्यगात् ।
आसाद्य तु नलं वीरं पुष्करः परवीरहा । दीव्यावेत्य-
ब्रवीद्भुत वृषेणेति मुहुत्मुहुः । न चक्षमे ततो राजा
समाह्वानं महामनाः । वैदर्भ्याः प्रेक्षमाणायाः पणकाल-
ममन्यत । हिरण्यस्य सुवर्णस्य यानयग्यस्य वाससाम् ।
आविष्टः कलिना द्यूते जीयते स्म नलस्तदा” ५९ ।
अधिकं कर्कोटकशब्दे उक्तम् “कर्कोटकस्य नागस्य दमयन्त्या
नलस्य च । ऋतपर्ण्णस्य राज्ञश्च कीर्त्तनं कलिनाशनम्” ।
भा० व० । ३ विभीतकवृक्षे (वयडा) तस्य नलप्रधर्षणार्थं
कलिनाश्रितत्वात्तथात्वम् । “विभीतकमधिष्ठाय यथा
भूतेन तिष्ठता । तेन भीमभुवो भीरुः स राजर्षिरधर्षि
न । तमालम्बनमासाद्य वैदर्भीनिषेधेशयोः । कलुषं कलिर-
न्विष्यन्नवात्सीद्वसरान बहून्” नैष० । ४ कलहे ।
मुहुरुप्रहसितामिवालनादैर्वितरसि नः कलिकां किमर्थ-
भेनाम् । वसतिमुपगतेन धाम्नि तस्याः शठ! कलिरेष
महांस्त्वयाऽद्य दत्तः” माघः । ५ शूरे ६ युद्धे च हमच० ।
द्यूतविषये ७ एकाङ्कयुक्तपार्श्वकपाशके । यस्मिन्
अक्षपार्श्वे एकाङ्कचिह्नमस्ति तस्मिन् अक्षभागे ।
कलिना दृष्टं साम कलेरपत्यादि वा ढक् । कालेय तद्दृष्टे
सामनि तदपत्यादौ । ७ कोरके स्त्री अमरटीका वा ङीप् ।

कलिक पुं स्त्री कल + मत्वर्थे ठन् । वकभेदे (क्ॐचवक्) शब्दर०

स्त्रियां जातित्वात् ङीष् ।

कलिका स्त्री कलिरेव स्वार्थे कन् । १ कोरके (कडि) अस्फु-

टितपुष्पे अमरः । “वितरसि नः कलिकां किमर्थमेनाम्”
“असकलकलिकाकुलीकृतानि स्खलनविकीर्ण्णविकाशि-
केशराणाम्” मावः । “मुग्धामजातरजसं कलिकामकाले”
सा० द० । “चूतानां चिरनिर्गतापि कलिका वध्नाति
न स्वं रजः” शकु० । “सकलिका कलिकामजितामपि”
रघुः । कलोध्वनिभेदः साध्यतयाऽस्त्यस्य ठन् । वीणामूले
हेमच० तस्य कलसाधनत्वात् तथात्वम् । कलैव स्वार्थे
कन् । ३ कलाशर्ब्दार्थे । “तन्यन्ते कलिका यस्मात्तस्मा-
त्तास्तिथयः स्मृताः” सि० शि० । कलिकापूर्व्वम् । “प्रथम-
मपरचरणसमुत्थं श्रयति स यदि लक्ष्म । इतरदितरगदि-
तमपि यदि च तुर्य्यम् । चरणयुगलकमविकृतमपरमिति
कलिका सा” वृत्तर० उक्ते ४ छन्दोभेदे च । ५ पदसन्ततियुक्त-
रचनाभेदे सा च गोविन्दवीरुदावलीतद्भाष्ययोर्दर्शिता
यथा “स्युर्म्महाकलिकारम्भे श्लोकस्तु युगशः स्मृता ।
अन्यासां कलिकानान्तु भवन्त्येकैकशोहि ते । पूर्त्तौ द्वौ
कलिकाभिस्तु वीरुदस्तुल्यसंख्यकाः । कला नाम
भवेत्तालनियता पदसन्ततिः । कलाभिः कलिका प्रोक्ता
तत्भेदाः षट् समीरिताः । कलिका चण्डवृत्त्याख्या
द्विगादिगणवृत्तका । तथा त्रिभङ्गी वृत्त्याख्या
मध्या मिश्रा च केवलेति” । चण्डवृत्ते दशधा संयुक्त
वर्णाः । अत्र संयुक्तवर्णानां नियमो दशधा च ते । मधुर
श्लिष्टविश्लिष्टशिथिलह्रादिनस्त्वमी । भिद्यन्ते ह्रस्वदी
र्घाभ्यां ते दर्श्यन्ते स्फुटं यथा । ह्रस्वान्मधुरसंयोगा-
शङ्कराङ्कुशकिङ्कराः । तस्मात्तु श्लिष्टसंयुक्तादर्पकर्परसर्पवत् ।
ततोविश्लिष्टसंयक्ता भल्लकल्याणवल्लयः । तथा शिथिल
संयक्ताः पश्यकश्यपवश्यवत् । प्रोक्ता ह्रादियुता मह्यं-
सह्यंगुहा प्रसह्यवत् । गर्हादीन् ह्रादिसंयुक्तभेदान्
केचित् समूचिरे । दीर्घात्तुङ्गाङ्गकार्पासं बाल्यं वैश्यश्च
नाह्यकमिति” । कलापरिमाणमुक्तम् । “अधिकाश्चेच्चतुःषष्टि
र्न्यूना द्वादशतः कलाः । एताभ्यो नाधिकाः कार्य्यान्यूना-
श्चापि न पण्डितैरिति” । तत्र तावच्चण्डवृत्तकलिका द्विविधा
नखोविशिखश्चेति भेदात् तत्र रणादिविंशतिभेदस्य नखस्येह
वर्द्धितादयोनव भेदा गृहोताः “वर्द्धितं वीरभद्रश्च
समग्रोऽच्युतौत्पलम् । तुरङ्गः श्रीगुणरतिस्तथा मातङ्ग
खेलितम् । तिलकश्चेति कलिकानखस्येहोदिता नव इत्युक्तेः
अथ विशिखः पद्मकुन्दचम्पकवञ्जुलबकुलभेदात्
पञ्चविधः तेष्वादिमं पद्मं पङ्केरुहसितकञ्जप्राण्डूत्
पलेन्दीवरारुणाम्भोरुहकह्णारभेदात् षड्विधम् अन्तिमं
बकुलन्तु भासुरमङ्गलभेदात् द्विविधमित्येकादशभेदो
विशिखः पङ्केरुहं सितकञ्जंतथा पाण्डूत्पलं परम्” इन्दी-
पृष्ठ १८०७
वरारुणाम्भोजे कह्लारञ्चेति षड्विधम् । ईषद्भेदेन कथित
पद्ममेव मनीषिभिः । चम्पकं वञ्जुलं कुन्दं बकुलं द्विविधं
तथा । इति पञ्चविधस्यापि विशिखस्येशसंख्यकाः” इत्युक्तेः
एवं चण्डवृत्तकलिकाविंशतिधा गृहीताः अथ पञ्चधा द्वि-
गादिगणवृत्तका कलिका मञ्जरीत्यभिहिता क्रमात् कोरक
गुच्छकसंफुल्लकुसुमगन्धाख्या तस्याश्चात्र कोरकगुच्छकु-
सुमानि गृहीतानि” कोरकोगुच्छकुसुमै र्मञ्जरी त्रिविधात्र
तु” इत्युक्तेः । त्रिभङ्गी कलिका तु शिखरिण्यादिपूर्ब्बा षोढा
तस्याश्चात्र दण्डकपूर्व्वा विदग्धपूर्वा च गृहीता “दण्डकाख्या
विदग्धाख्या त्रिम ङ्गीह द्विधा मता” इत्युक्तेः अथ मिश्र-
कलिका “कलिका गद्यसंपृक्ता सप्तविभक्तिका वा अक्षरमयी
सर्वलघ्वी चेति द्विभेदा केवला चेत्यष्टौ तदेवं षड्भ्योमहा-
कलिकाभ्यः अष्टाविंशतिरिह कलिका गृहीताः । रणादय
एकादश नखभेदाः संफुल्लगन्धौ मञ्जरीभेदौ शिखरिण्या-
दयः त्रिभङ्गीभेदा मध्यकलिका च त्यक्ताश्चारुताधिक्य-
विरहात्” ।

कलिकापूर्व य० कलिकया अंशेन जन्यमपूर्वम् ।

परमापूर्वजनके अङ्गजन्यापूर्ब्बभेदे । तत्साधने युक्तिः शब्द-
चिन्तामणिमाथुर्य्योर्दर्शिता यथा-
“नन्वेवमाग्नेयादीनां षण्णां क्षणिकत्वात् योग्यतानव-
गतौ परमापूर्वकारणत्वानवगमे कथमपूर्वकल्पनम्? इति
चेत् काम्येऽपूर्ववाच्यत्वस्थितावाग्नेयादौ तद्द्वारासा-
धनत्वस्य योग्यत्वसम्भवात् न तु प्रथम” शब्दचि० ।
व्याकृतं चैतत् मथुरानाथेन यथा-
“ननु फलसाधनतान्वये फलसमयस्थायित्वतादृशव्यापा-
रोपधायकत्वान्यतरत्वस्य योग्यतात्वे आग्नेयाष्टाकपाल-
यागैन्द्रदधियागैन्द्रपयोयागात्मकयागत्रयरूपस्य दर्शस्य,
आग्न याष्टाकपालोपांशुयागाग्रिषोमीयैकादशकपालयागा-
त्मकयागत्रयरूपस्य पौर्ण्णमासस्य चावान्तरकलिका-
पूर्ब्बत्रय विना षड्जन्यैकपरमापूर्ब्बजनकत्वमनुपपन्नं
युगपदाग्न यादीनां सहानवस्थानादतः “दर्शपौर्ण्णमासाभ्यां
यजेत स्वर्गकामः” इत्यादि प्रधानविधिबोधितपरमापूर्व्व-
साधनत्वान्ययानुपपत्त्या तत्र परमापूर्ब्बनाश्यं कलिका-
पूर्ब्बषट्कं कंल्प्यते इति तव मिद्धान्तो व्याहतः योग्यता-
ज्ञानाभावेन प्रधानविधिवाक्यात् प्रथमं परमापूर्ब्ब-
साधनत्वान्वयस्यैवासम्मवादित्याशङ्कते नन्वेवमिति ।
एवंसाधनत्वान्वये निरुक्तान्यतरत्वस्य योग्यतात्वे । क्षणिकत्वा-
दिति आशुविनाशित्वादित्यर्थः । परम्पराघटकानुपस्थितेश्चेति
शेषः । कथमिति । कथं प्रधानविधिबोधितपरमापूर्व्वसा-
धनतान्यथानुपपत्तेः कलिकापूर्ब्बकल्पनम्? इत्यर्थः ।
यदि च निरुक्तयोग्यताज्ञानं विनाप्रि परमापूर्ब्बसाधनत्वा-
वगमस्तदा परमापूर्ब्बज्ञानं विना स्वर्गसाधनत्वस्यापि
ज्ञानसम्भवात् किं परमापूर्ब्बस्यापि वाच्यतया? इति
भावः । न च तत्रापि प्रधानविधिबोधितपरमापूर्ब्ब-
साधनत्वान्यथानुपपत्त्या कलिकापूर्ब्बाणि न कल्प्यन्ते
अपि तु आग्नेयादिबोवकप्रत्येकवाक्यात् कलिका-
पूर्ब्बोपस्थितौ प्रधानविधिवाक्यात् परमापूर्ब्बसाधन-
त्वावगमः प्रथमन्तु प्रधानविधिवाक्यं मूकमेवेति
वाच्यम् अपसिद्धान्तात् “आग्नेयाष्टाकपालोभवत्यमा-
वस्यायाम्” इत्यादिप्रत्येकबोधकवाक्यानां दर्शपौर्ण्ण-
मासाबोधकतया कलिकापूर्ब्बाबोधकत्वाच्चेति निगर्वः ।
आशुविनाशित्वेन प्रतिसंहितकर्म्मणि यद्रूपेण फलस्य
कालान्तरभावित्वप्रतिसन्धानं तद्रूपावच्छिन्नफलसाधन-
त्वान्वये तत्पर्य्यन्तस्थायिव्यापारोपधायकत्वं योग्यता
प्रकृते च प्रधानविधिना कार्य्यत्वरूपेण परमा-
पूर्व्वं बोध्यते, तथाच कार्य्यत्वरूपेणं तज्जनकता
दर्शादीनां ग्राह्या, तत्र च परमापूर्वत्वरूपेण
कालान्तरभावित्वप्रतिसन्धानेऽपि न कार्य्यत्वरूपेण
कालान्तरभावित्वप्रतिसन्धानं, कार्य्यत्वावच्छिन्नस्य दर्शाद्य-
व्यवहितक्षणेऽपि सम्भवादतःपरमापूर्वसमयस्थायिव्यापारो-
पधायकत्वज्ञानं विनापि प्रथमं कार्य्यत्वरूपेण सामा-
न्यतस्तत्साधनत्वग्रहः, उत्तरकालञ्च स्वर्मसमयस्थायिकार्य्या-
न्तराजनकस्य तादृशकार्य्यजनकत्वं परमापूर्वजनकतयैव
पर्य्यवस्यति, तच्च साक्षान्न सम्भवति आग्नेयादेराशुविनाशि-
त्वादतः परम्परया जनकत्वं, तच्चावान्तरव्यापारं विनाऽनुप-
पन्नमित्यनुपपत्तिज्ञानात् कलिकापूर्वाणि कल्प्यान्ते, स्वर्गस्य च
देहान्तरभोग्यत्वेन कालान्तरभावित्वप्रतिसन्धानात्तत्पर्य्य-
न्तस्थायिव्यापारोपधायकत्वज्ञानं विना सामान्यतोऽपि न
तत्साधनत्वग्रहसम्भव इति गूढाभिसन्धिना समाधत्ते काम्य
इति “दर्शपौर्ण्णमासाभ्यां थजेत स्वर्गकामः” इति काप्य-
विधावित्यर्थः । अपूर्ववाच्यत्वस्थिताविति कार्य्यत्वरूपेण
परमापूर्ववाच्यत्वस्थितावित्यर्थः, तद्द्वारा साधनत्वस्येति
परमापूर्वद्वारा साधनत्वस्येत्यर्थः, सामान्यतः स्वर्गसाधन-
त्वरूपेणान्वये इति शेषः । योग्यतासम्भवात् योग्यता-
ज्ञानसम्भवात्, न तु प्रथममिति । न तु परमापूर्व-
वाच्यत्वं विनेत्यर्थः । स्वर्गस्य देहान्तरभोग्यत्वेन काला-
पृष्ठ १८०८
न्तरभावित्वप्रतिसन्धानात् तत्साधनत्वान्वये तत्पर्य्यन्तस्था-
यिव्यापारोपधायकत्वस्य योग्यतात्वात् कार्य्यत्वरूपेण
परमापूर्वसाधनत्वान्वये च न तत्पर्य्यन्तस्थायिव्यापारोप-
धायकत्वज्ञानमपेक्षितं कार्य्यत्वावच्छिन्नस्य देहान्तरभावि-
प्रतिसन्धानादित्यभिसन्धिः । एतच्चापाततः स्वर्गस्य काला-
न्तरभावित्वाप्रतिसन्धाने क्रियायाः क्षणिकत्वाप्रति-
सन्धाने वा स्वर्गसाधनत्वान्वयेऽप्यपूर्वोपस्थितिं विना योग्य-
ताज्ञानसम्भवात् । केचित्तु “दर्शपौर्णमासाभ्यां यजेत स्वर्ग-
कामः” इत्यत्र विधिप्रत्ययस्य कार्य्यत्वरूपेणापूर्वसामान्य
एव शक्तत्वात् प्रथमं कार्य्यत्वरूपेण कलिकापूर्वसाधन-
त्रावगमस्ततः कार्य्यत्वरूपेण परमापूर्बसाधनत्वावगमः,
न तु प्रथममेव परमापूर्वसाधनत्वायगमः । न च
प्रथमं कार्य्यत्वरूपेण कलिकापूर्वसाधनत्वावगमेऽपि तत्र
परमापूर्वपर्य्यन्तस्थायित्वं न गृहीतमिति वाच्यं द्वितीय-
बोधे परमापूर्वस्वर्गपर्य्यन्तस्थायित्ववत् प्रथमबोधे कलिका-
पूर्वस्य स्वर्गपर्यन्तस्थायिव्यापारसमयस्थायित्वभाने बाधका-
भावादिति समाधत्ते काम्य इति । “दर्शपौर्णमासाभ्यां यजेत
स्वर्गकाम” इति काम्यविधावित्यर्थः, अपूर्ववाच्यत्वस्थि-
ताविति कार्य्यत्वरूपेण कलिकापूर्वस्यापि वाच्यत्वस्थितावि-
त्यर्थः, तदुद्वारा साधनत्वस्येति कलिकापूर्वद्वारा परमापूर्व-
साधनत्वस्येत्यर्थः, अन्वय इति शेषः । योग्यतासम्भ-
वात् प्रथमं योग्यताज्ञानसम्भवात्, न तु प्रथममिति
परमापूर्वसाधनत्वावगम इति शेषः । न चैवं प्रतीतपर-
मापूर्वसाधनत्वानुपपत्त्या कलिकापूर्वाणां कल्प्यत्वमिति
सिद्धान्तव्याघात इति वाच्यं प्रधानविधिवाक्यात् परमा-
पूर्वसाधनत्वान्वयानुपपत्त्या क लिकापूर्वाणामेव प्रथमान्वय-
बोधविषयत्वम् इत्येव तदर्थात् इति भावः” इत्याहुः ।
ननु एकस्मिन्नेव परमापूर्वे स्वर्गे च दर्शपौर्णमासयोः
केन रूपेण जनकत्वमिति चेदुच्यते दर्शपौर्णमासोभय-
साधारणेन दर्शपौर्णमासत्वव्यापकीभूतेन वैजात्यविशे-
षेण विजातीयापूर्वं विजातीयस्वर्गञ्च प्रति जनकत्वं,
विजातीयापूर्वजनकतावच्छेदकतयैव तद्वैजात्यसिद्धिः,
न च दण्डचक्रन्यायेन दर्शपौर्ण्णमासत्वाभ्यामेव
जनकत्वमस्तु केवलदर्शात् केवलपौर्ण्णमासाद् वा
फलानुत्पादस्य परस्परव्यतिरेकादेवोपपत्तेरिति वाच्यं कार्य्य-
कारणभावद्वयकल्पने गौरवात् दर्शत्वादेर्जनकतावच्छेदकता-
पर्य्यन्तस्य विध्यर्थत्वाभावात् । न च तवापि दर्शत्वादि
प्रत्येकधर्ममादाय विनिगमनाविरहात् कार्य्यकारणभाव-
द्वयमावश्यकमिति वाच्यम्, केवलदर्शात् केवलपौर्ण्ण-
मासाच्च फलोत्पादस्य वारणाय कार्य्य कारणभाव-
द्वयस्यावश्यकत्वेन गौरवस्यैव विनिगमकत्वात्, यदि च
पौर्णमासं विना कृते दर्शे दर्शत्वस्य, दर्शं विना कृते
च पौर्णमासे पौर्णमासत्वस्य प्रत्यक्षसिद्धत्वं नाभ्युपेयते किन्तु
दर्शपूर्वकृते पौर्णमास एव पौर्ण्णमासत्वं, पौर्ण्णमासो-
त्तरकृत एव दर्शे दर्शत्वमुपेयते, तदा तु प्रत्येकं दर्शत्व-
पौर्णमासत्वाभ्यामेव जनकत्वं, न व्यापकजात्या, अतिरिक्त-
कल्पने गौरवात् अतिरिक्तजातिकल्पनेऽपि दर्शत्वादिक-
मादाय विनिगमनाविरहेण कार्य्यकारणभावद्वयस्यावश्यक-
त्वात् । अथ यदि पौर्ण्णमासोत्तरकृते दर्श एव दर्शत्वं,
तदा दर्शत्वेनैव हेतुतास्तु किं पौर्ण्णमासत्वेन हेतुतया?
न च विनिगमनाविरहात् पौर्ण्णमासत्वेनापि हेतुत्वमिति
वाच्य केवलपौर्णमासत्वेन हेतुत्वे पौर्ण्णमासानन्तरं
दर्शोत्पादप्राक्काल एव परमापूर्वोत्पत्त्यापत्तेरेव विनि-
गमकत्वादिति चेन्न “दर्शपौर्ण्णमासाभ्यां यजेत स्वर्गकाम”
इति श्रुत्या पौर्ण्णमासस्यापि हेतुत्वबोधनात् पौर्ण्णमास-
त्वेनापि हेतुत्वस्यावश्यकत्वात् दर्शतस्य पौर्ण्णमासा
वृत्तित्वात् । एतेन पयोयागात्मकदर्शचरमयागस्यैव
पयोयागत्वेन हेतुत्वमस्त्वित्यपि निरस्तम् । दर्शपौर्ण्णमासत्वा
क्रान्तानामन्येषामपि हेतुत्वस्य वेदबोधितत्वात् ।
अथोभयसाधारणवैजात्येन हेतुतापक्षे जातेरव्या-
सज्यवृत्तितया आग्नेयादियागषट्कस्थल एव
आग्नेयादियत्किञ्चिद्यागानन्तरं परमापूर्ब्बोत्पत्त्यापत्तिः
कारणतावच्छेदकावच्छिन्नयत्किञ्चित्कारणसत्त्वात् एवं
दर्शत्वपौर्ण्णमासात्वादिना प्रत्येकहेतुत्वपक्षेऽपि पौर्ण्ण-
मासानन्तरं दर्शान्तर्गतयत्किञ्चिद्यागे कृत एव
परमापूर्व्वोत्पत्त्यापत्तिरिति चेन्न परमापूर्व्वव्यापारी-
भूतानां कलिकापूर्ब्बषट्कानामपि तत्तद्रूपेणं दण्ड-
चक्रवत् हेतुतया कलिकापूर्ब्बषट्कानां सम्बन्धतया-
वा तदभावादेव तत्र परमापूर्व्वानुत्पादात् । ननु
तथापि दर्शपौर्ण्णसासस्थले कियन्त्यपूर्व्वाणीति चेदत्र
प्राञ्चः--प्रथमतः पौर्ण्ण मासत्रयेण प्रत्येकं कलिकापूर्ब्ब
त्रयं जनयित्वा मध्ये एकं परमापूर्व्वं जन्यते एवं
दर्शत्रयणापि प्रत्येकं कलिकापूर्ब्बंत्रयं जनयित्वा मध्ये
एकं परमापूर्ब्बं जन्थते, ततस्ताभ्यां परमापूर्ब्बाभ्यां
चरमं परमापूर्ब्बान्तरं जन्यते इति नवापूर्व्वाणी-
त्याहुः । नव्यास्तु मध्यमपरमापूर्ब्बद्वये मानाभावात्
पृष्ठ १८०९
षड्भिः कलिकापूर्व्वेरेव चरमं परमापूर्व्वं जन्यते इति
सप्तापूर्व्वाणि । न च पूर्ब्बपूर्ब्ब क्रियाभिर्जनितैः पञ्चभिः
कलिकापूर्वैः सह चो त्तरक्रियैव चरमं परमापूर्व्वं
जनयतु किं चरमक्रियाजन्यकलिकापूर्ब्बेणेति वाच्यं
तस्या अपि स्वोत्तराङ्गदक्षिणादानादिसाचिव्येनैव परमा
पूर्व्वजनकत्वोपगमेन तावत्कालानवस्थित्या चरम
कलिकापूव्वखीकारात्, दक्षिणादानाद्युत्तराङ्गञ्च साक्षादेव
परमापूर्ब्बहेतुर्नतु तत्र द्वारापेक्षेति प्राहुः । उच्छृ-
ङ्खलास्तु षड्भ्यः कलिकापूर्व्वेभ्य एव स्वर्गोपपत्तेः
परमापूर्ब्बे मानाभावः । न च खर्गं प्रति षण्णामपूर्व्वाणां-
षडपूर्ब्बसम्बन्धेन दर्शपौर्ण्णमासयोर्वा हेतुत्वे गौरव-
मिति वाच्यं, तवापि परमापूर्ब्बं प्रति षडपूर्ब्बाणां
षडपूर्व्वसम्बन्धेन दर्शपौर्ण्णमासयोर्वा हेतुत्वेन तुल्यत्वात्
षडपूर्ब्बाणां सम्बन्धत्वन्तु मतद्वय एव । यदि षडपूर्व्वाणा-
मपि पृथक् हेतुत्वं तदाऽपूर्ब्बत्वेनैव । इरथा षट्कत्वेनेत्य-
न्यदेतदित्याहुः । (अपूर्व्वशब्दे परमापूर्ब्बखण्डनमेतन्मनु-
सारेणैवोक्तमिति स्मर्त्तव्यम्) तदसत्, परमापूर्व्वानभ्युपगमे
दक्षिणादानादेश्चरमाङ्गस्य खर्गोपयीगित्वानुपपत्तेः न हि
दक्षिणादानं साक्षात् खर्गहेतुः, अङ्गत्वात्
आशुविनाशित्वाच्च तज्जन्यस्य पृथगपूर्वस्य स्वीकारे किमपराद्धं
परमापूर्ब्बेण? । परमापूर्ब्बं प्रति च दक्षिणादानादेश्चर-
माङ्गस्य साक्षादेव हेतुत्वम् इत्युक्तमेव । न च परमापूर्ब्बा-
भ्युपगमे तत्र षड़पूर्ब्बाणां दक्षिणादानस्य च कारणत्वं
कल्पनीयमतोगौरवमिति वाच्यं, तवापि षड़पूर्ब्बाणां
दक्षिणादानादिजन्यादृष्टस्य च खर्गं प्रति हेतुत्वेन
तुल्यत्वात् मम तु कलिकापूर्ब्बषट्कं परमापूर्वजनन
एव द्वारं नतु स्वर्गहेतुः, मानाभावात् यागस्य हेतुत्वे च
श्रुतिरेव मानमिति न किञ्चिदेतत् । ननु तथापि नवा
वृत्त्यादिस्थले दशपार्थिवशिवपूजादिस्थले च केन रूपेण
परमापूर्व्वविशेषे खर्गविशेषे च हेतुत्वं, तत्र नवावृत्ति-
त्वादेर्ज्जातित्वाभावात् न च तत्रापि अपेक्षाबुद्धिविशेष
विषयत्वरूपनवत्वादिविशिष्टावृत्तित्वादिनैव हेतुत्वम् ।
अपेक्षाबुद्धिश्च प्रत्येकसङ्कल्पपूर्ब्बकनवावृत्त्यादि-
व्यावृत्ता ग्राह्या इति वाच्यं प्रत्येकनवावृत्त्यादिमात्र-
वृत्त्यपेक्षाबुद्धेः कारणतावच्छेदकत्वेऽननुगमात् सकल
नवावृत्त्यादिवृत्त्यपेक्षाबुद्धेः कारणतावच्छेदकत्वेऽसम्भ-
वात् अथ चण्डीपाठावृत्तितत्तन्नवत्वेतरनवत्वत्वा-
दिना नवत्वादिकमनुगतीकृत्य तद्विशिष्टत्वेन हेतुत्वं
वाच्यं “कारणतावच्छेदकसम्बन्धश्च खर्गं प्रति परमापूर्ब्ब-
त्वमेव परमापूर्ब्बं प्रति तु परमापूर्व्वेतरापूर्व्वसामान्य-
मेव दर्शादिस्थानवदत्रापि प्रत्येकावृत्तिजन्यकलिका-
पूर्ब्बनवकादिद्वारैव परमापूर्व्वजननात् प्रत्येकसङ्कल्प-
पूर्ब्बकप्रत्येकावृत्तिजन्यापूर्ब्बतो नवावृत्त्यादिस्थलीय-
प्रत्येकावृत्तिजन्यकलिकापूर्व्वस्य न वैलक्षण्यमतः
कलिकापूर्ब्बं प्रति चण्डीपाठत्वादिनैव हेतुत्वं कार्य्यताव-
च्छेदकश्च चण्डीपाठसामान्यजन्यतावच्छेदकतया सिद्धो
नवावृत्त्यादिजन्यतावच्छेदकजातिव्यापको जाति-
विशेष एव । धारावाहिकपरमापूर्व्वं द्वयादिवारणाय
परमापूर्व्वेतरेति । नवत्वादेः प्रत्येकापरिसमाप्तत्वादेक-
स्मान्न परमापूर्व्वोत्पाद इति चेन्न, निखिलापेक्षाबुद्धि-
साधारणस्य नवत्वस्य एकस्यानुगतस्याभावेन तेन रूपेणा-
नुगमासम्भवात् इति, मैवं नवावृत्तित्वादेरपि नवंपा-
ठादिविषयकमानसज्ञानविशेषवृत्तिमानसत्वव्याप्यजातित्वात्
“नवकृत्वः पठेत्” “दश पार्थिवशिवलिङ्गानि पूजयेत्”
इत्यादावपि तादृशज्ञानविशेष एव धात्वर्थः तादृशज्ञान-
विशेषश्च परमापूर्ब्बं प्रति साक्षादेव हेतुरिति संक्षेपः” ।

कलिकार पुंस्त्री कलिं कलहं करोति कृ--अण्

कलिमृच्छति ऋ--अण् वा उप० स० । पीतमस्तके
१ धूम्याटेपक्षिणि (फिङ्गे) । तस्यामस्तके कलिकाकरपीत-
चिह्नवत्त्वात् तथात्वम् । स्त्रियां जातित्वात् ङीष् ।
२ पूतिकरञ्जे (काँटाकरम्चा) पु० मेदि० । ३ विषलाङ्गल्याम्
राजनि० गौरा० ङीष् । ४ कलहकारके ५ कलिका-
प्राप्तरि च त्रि० । ६ नारदे पु० ।

कलिकारक पु० कलिकामृच्छति ऋ--कलिं करोति कृ--वा

ण्वुल् । १ पूतिकरञ्जे (काँटाकरम्चा) २ कलहकारके त्रि० ।
३ नारदे पु० हेमच० ।

कलिङ्ग पुंस्त्री के मूर्द्ध्नि लिङ्गमस्य । १ धूम्याटे पक्षिणि

(फिङ्गे) अमरः तस्य मस्तके पीतचिह्नवत्त्वात्तथात्वम् ।
स्त्रियां जातित्वेऽपि संयोगोपधत्वात् टाप् । कलिं
गच्छति बा० खच् डित् मुम् च । १ पूतिकरञ्जे
(काँटाकरमचा) हेमच० २ कुटजे (कुड़ची) तस्य
फलम् अण् तस्य लुप् । ३ इन्द्रयवे न० । ४ शिरीष-
वृक्षे ५ प्लक्षवृक्षे च मेदि० । “जगन्नाथात् समारभ्य कृष्णा-
तीरान्तगं प्रिये! कलिङ्गदेशः संप्रोक्तो वाममार्गपरायणः”
इति तन्त्रोक्ते ६ देशभेदे ब० व० मेदि० “उत्कलादर्शितपथः
कलिङ्गाभिमुखं ययौ” रघुः । स च देशः वृहत्स० कूर्मविभागे
पृष्ठ १८१०
आग्नेय्यामुकः यथा “आग्नेय्यां दिशि कोशलकलिङ्गवङ्गो-
पवङ्गजठराङ्गाः” । तेषां राजा, ते अभिजनोऽस्य वा अण् ।
कालिङ्ग तद्देशनृपे तद्देशवासिजने च “कालिङ्गः प्रतिज-
ग्राह तमस्त्रैर्गजसाधनः” रघुः बहुषु अणो लुक् । कलिङ्गाः ।
“स सागरं समासाद्य गङ्गायाः सङ्गमे नृपः ।
नदीशतानां पञ्चानां मध्ये चक्रे समाप्लवम् । ततः
समुद्रतीरेण जगाम वसुधाधिपः । भ्रातृभिः सहितो वीरः
कलिङ्गान् प्रति भारत! लोमश उवाच । एते कलिङ्गाः
कौन्तेय! यत्र वैतरणी नदी । यत्रायजत धर्मोऽपि देवा-
ञ्छरणमेत्य वै । ऋषिभिः समुपायुक्तं यज्ञियं गिरिशोभि-
तम् । उत्तरं तीरमेतद्धि सततं द्विजसेवितम् । समानं
देवयानेन पथा स्वर्गमुपेयुषः” । “त्रिशतं वै सहस्राणां
योजनानां युधिष्ठिर! । यत्र ध्वनिं शृणोष्येवं तूष्णीमास्व
विशाम्पते! । एतत् स्वयम्भुवो राजन्! वनं दिव्यं प्रकाशते”
“यत्र प्रकाशते राजन्! वेदी सस्थानलक्षणा । आरुह्यात्र
महाराज! वीर्य्यवान् वै भविष्यसि । सैषा सागरमासाद्य
राजन्! वेदी समाश्रिता । एतामारुह्य भद्रं ते, त्वमेक-
स्तर सागरम् । अहं च ते स्वस्त्ययनं प्रयोक्ष्ये यथा त्वमे
तामधिरोहसेऽद्य । स्पृष्टाहि मर्त्येन ततः समुद्रमेषा वेदी
प्रविशत्याजमीढ! भा० व० ११४ अ० । इति तद्देशस्थनद्या-
दिविवृतिरुक्ता । “स प्रतापं महेन्द्रस्य मूर्द्ध्नि तीक्ष्णं न्यवे-
शयत्” रघौ कलिङ्गदेशस्थः पर्वतः महेन्द्र इति वर्णितम् ।
७ उशीनरभ्रातृतितिक्षुवंश्यबलिनृपपुत्रभेदे । “महामनास्तु
द्वौ पुत्रौ जनयामास भारत! । उशीनरं च धर्मज्ञं
तितिक्षुञ्च महाबलम्” इत्युपक्रम्य । तितिक्षोस्तु प्रजाः
शृणु” इति प्रतिज्ञाय । “तैतिक्षवोऽभवद्राजा पूर्व स्यां दिशि
भारत! । “उशद्रथो महाराज! फेनस्तस्य सुतोऽ-
भवत् । फेनात्तु सुतपा जज्ञे सुतः सुतपसो बलिः ।
जातो मनुष्ययोनौ तु स राजा काञ्चनेषुधिः । महायोगी
स तु बलिर्बभूव नृपतिः पुरा । पुत्रानुत्पादयामास
पञ्च वंशकरान् भुवि । अङ्गः प्रथमतौ जज्ञे वङ्गः सुह्म-
स्तथैव च । पुण्ड्रः कलिङ्गश्च तथा वालेयं क्षत्रमुच्यते”
इत्युक्त्वा “तेषां जनपदाः पञ्च अङ्गा वङ्गाः ससुह्मकाः
कलिङ्गाः पुण्ड्रकाश्चैव प्रजास्त्वङ्गस्य वै शृणु” हरिवं०
३१ अ० उक्तम् । तेन कलिङ्गनृपाधिष्ठितत्वात् देशस्य
तथात्वम् । काय सुखाय लिङ्गमस्याः । ८ योषिति
स्त्री हेम० । त्रिवृति ९ (तेओडि) स्त्री शब्दच० ।

कलिङ्गाद्यगुटिका स्त्री चक्रद० उक्ते औषधभेदे यथा “कलिङ्ग-

विल्वजम्ब्वाम्रकपित्थं सरसाञ्जनम् । लाक्षाहरिद्रे
ह्रीवेरं कट्फलं शुकनासिकाम् । लोध्रं मोचरसं शङ्खं
धातकीवटशुङ्गकम् । पिष्ट्वा तण्डुलतोयेन वटकानक्ष-
सम्मितान् । छायाशुष्कान् पिबेच्छीघ्रं ज्वरातीसार-
शान्तये । रक्तप्रसादनाश्चैते शूलातिसारनाशनाः” ।

कलिञ्ज पु० कं वातं लञ्जति रोधनेन लजि--भत्र्सने अण्

उप० स० । (दरमा) कटे हेमच० । तस्य गृहाद्याव-
रणेन वातरोधनात्तथात्वम् ।

कलित त्रि० कल--कर्मणि क्त । १ विदिते २ प्राप्ते, मेदि० ३ भेदिते

४ संख्याते, शब्दरत्ना० । ५ गृहीते, ६ उक्ते ७ विचारिते,
८ बद्धे च । भावे क्त ९ ज्ञानलाभादौ न० ।

कलिद्रुम पु० कलेराश्रयः द्रुमः । १ विभीतकवृक्षे रत्नमाला ।

तत्र हि नलस्य राज्ञश्छिद्रान्वेषणाय कलिना सुचिर
स्थितमिति कलिशब्ददर्शित नैषधवाक्ये दृश्यम् ।
कलिवृक्षादयोऽप्यत्र

कलिन्द पु० कलिं ददाति द्यति वा खच् मुम् च । अद्रि

विशेषे, यतो यमुना नदी निःसृता, “कलिन्दगिरिन-
न्दिनी तटसुरद्रुमालम्बिनी” रसगङ्गा० । २ विभीतकवृक्षे,
राजनि० । ३ सूर्य्ये भरतः तन्मूल मृग्यम् ।

कलिन्दकन्या स्त्री कलिन्दस्य पर्ब्बतस्य कन्येव तत्र प्रभव-

त्वात् । यमुनायाम् । “कलिन्दकन्या मथुरां गतापि
गङ्गोर्मिसंसक्तजलेव भाति” रघुः । कलिन्दतनया-
कलिन्दजाकलिन्दगिरिजादयोप्यत्र ।

कलिप्रिय पु० कलिः प्रियोऽस्य । नारदे शब्दर० ।

कलिमारक पु० कलीनां कलिकानां माला अत्र लस्य रः

वा कप् संज्ञायां कन् । १ पूतिकरञ्जे स्वामी ।
वा न लस्य रः । कलिमालकोऽप्युक्तार्थे अमरटीकायां
रमानाथः ।

कलिमाल्य पु० कलीनां कलिकानां माल्यं यत्र । १ पूतिकरञ्जे राजनि० ।

कलियुग न० कर्म० राहुशिरोवत् तत्पुरुषो वा ।

कलिरूपे युगे कालविशेषे तन्मानादिकं कलिशब्दे उक्तं
तदारम्भतिथिर्युगाद्या सा च गौडीयमते माघपौर्ण्ण-
मासी यथाह ति० त०
“अथ युगाद्याः तासु च “युगार्द्या वर्षवृद्धिश्च सप्तमी
पार्व्वती प्रिया । रवेरुदयमीक्षन्ते न तत्र तिथियु-
म्मता” । इत्यनेन व्यवस्था । ब्रह्मपुराणे । “वैशाखे
शुक्लपक्षे तु तृतीयायां कृतं युगम् । कार्त्तिके शुक्लपक्षे तु
त्रेताऽथ नवमेऽहनि । अथ भाद्रपदे कृष्णत्रयोदश्यान्तु
पृष्ठ १८११
द्वापरम् । माघे च पौर्णमास्यां वै घोरं कलियुगं
स्मृतम् । युगारम्भास्तु तिथयो युगाद्यास्तेन विश्रुताः” ।
अत्र वैशाखादयः पौर्णमास्यन्ताएव १ ब्रह्मपुराणे
तथैव तिथिकृत्याभिधानात् । मुख्यवाचित्वे कार्त्तिके
नवमेऽहनीत्यनेनैव सिद्धौ शुक्लपक्ष इति व्यर्थं स्यात् तेन
भाद्रकृष्णत्रयोदशी अश्वयुक्कृष्णपक्षीयेति मैथि-
सोक्तं निरस्तम् । आसां प्रशंसामाह विष्णुपुराणम्
“वैशाखमासस्य तु या तृतीया नवम्यसौ कार्त्तिकशुक्लपक्षे ।
नभस्यमासस्य तमिस्रपक्षे त्रयोदशी पञ्चदशी च माघे ।
एता युगाद्याः कविताः पुराणैरनन्तपुण्यास्तिथयश्चत
स्रः । उपप्लवे चन्द्रमसोरवेश्च तथाष्टकास्वप्ययनद्वये
च” । उपप्लवे ग्रहणे “पानोयमप्यत्र तिलैर्विमिश्रं
दद्यात् षितृभ्यः प्रयतोमनुष्यः । श्राद्धं कृतं तेन
समासहस्रं रहस्यमेतत् पितरोवदन्ति” । स्नानमधिकृत्य
भविष्ये “संवत्सरफलं तत्र नवम्यां कार्त्तिके तथा ।
मन्वादौ च युनादौ च मासत्रयफलं लभेत्” ।
तदेतत् कल्पभेदेन व्यवस्थाप्य माघामावस्यैव कलियुना
द्येति दाक्षिणात्याः प्रतिपेदिरे यथाह नि० सि०
“रत्नमालायाम् “माघे पञ्चदशी कृष्णा नभस्ये च
त्रयोदशी । तृतीया माधवे शुक्ला नवम्यूर्जे युगादयः ।
यत्तु गौड़ाः “माघस्य पूर्ण्णिमायां तु घोरं
कलियुगं स्मृतमिति” ब्राह्मोक्तेः “बैशाखमासस्य सिता
तृतीया नवम्यसौ कार्त्तिकशुक्लपक्षे । नभस्यमासस्य
तमिस्रपक्षे त्रयोदशी पञ्चदशी च माघे” इति विष्णु-
पुराणे चकारेण तमिस्रपक्षानुषङ्गेण पूर्वानुरोधात्
पूर्णिमास्यैव ज्ञेया । “द्वे शुक्ले” इत्यादिकन्तु निर्मू-
लमित्याहुः । तन्न “दर्शे तु मावमासस्य प्रवृत्तं द्वापरं
युगम्” इति भविष्यविरोधात् एतेन ब्राह्मानुसारात्
पूर्णिमायामेव युगादिश्राद्धं वदन् शूलपाणिः परास्तः ।
तेन कल्पभेदात् व्यवस्थेति तत्त्वम् । एतेन “कार्त्ति-
के नवमी शुक्ला माचमासे च पूर्ण्णिमा” इति नारदीयं
व्याख्यातम् । निर्मूलत्वोक्तिर्नारदीयाज्ञानकृता” । तत्र
श्राद्धादिकरणमुभयदिने तत्प्राप्तौ निर्ण्णयश्च नि० सि० ।
“अत्र श्राद्धमुक्तं मात्स्ये “कृतं श्राद्धं विधानेन
मन्वादिषु युगादिषु । हायनानि द्विसाहस्रं पितॄ-
णाम् तृप्तिदं भवेदिति” । भारतेऽपि “या मन्वाद्या युगा-
द्याश्च तिथयस्तासु मानवः । स्नात्वार्चयित्वा दत्त्वा च
जप्त्वानन्तकलं लभेदिति” श्राद्धेऽपि पूर्वाहव्यापिनी ग्राह्या
“पूर्वाह्णे तु सदा कार्याः शुक्ला मनुयुगादयः । दैवे
कर्मणि पित्र्ये च कृष्णे चैवापराह्णिकी” इति पाद्मो-
क्तेः । “द्वे शुक्ले द्वे तथा कृष्णे युगादी कवयो विदुः ।
शुक्ले पूर्वाह्णिके ग्राह्ये कृष्णे चैवापराह्णिके” हेमाद्रौ
नारदीयवचनाच्च । दीपिकापि “अथो युगादि, मन्वादि-
कर्मतिथयः पूर्वाह्णिकाः स्युः सिते । विज्ञेया अपरा-
ह्णिकाश्च बहुले” इति । स्मृत्यर्थसारेऽपि “युगादिमन्वा-
दिश्राद्धेषु शुक्लपक्षे उदयव्यापिनी तिथिर्ग्राह्या । कृष्ण-
पक्षे पराह्णव्यापिनीति” । दिवोदासीये गोभिलः “वैशा-
खस्य तृतीयां तु पूर्वविद्धां करोति वै । हव्यं देवा न
गृह्णन्ति कव्यञ्च पितरस्तथेति” । गोविन्दार्णवेऽप्येवम् ।
तेनेयं पूर्वाह्णव्यापिनी दिनद्वये सती परैवेति धर्मतत्त्वविदो-
हेमाद्र्यादयः । अनन्तभट्टस्तु “सवैधृतिर्व्यतीपातो युगमन्वा-
दयस्तथा । सम्मुखा उपवासे स्युर्दानादावन्तिमाः स्मृताः”
इत्याह । दानादाविति श्राद्धसंग्रहः । उपवासस्त्वग्रे
वक्ष्यते । यत्तु मार्कण्डेयः “शुक्लपक्षस्य पूर्वाह्णे श्राद्धं
कुर्य्याद्विचक्षणः । कृष्णपक्षापराह्णे तु रौहिणं तु न
लङ्घयेत्” । रौहिणो नवमोमुहूर्त्तः । अत्र च शुक्लपक्ष-
युगादिश्राद्धं पूर्वाह्णे कार्यमिति शूलपाणिः । निर्ण-
यामृतादयस्तु “कालादर्शे अमाश्राद्धमापराह्णिकमुक्त्वा
एषमन्वादीनां युगादीनां निर्णय इत्युक्तत्वाद् द्वे शुक्ल इत्यादि
वचनं विष्णुपूजाविषयम् । श्राद्धे त्वापराह्णिकैवेति
व्यवस्थां जगदुः । सेयं पूर्वोक्तानेकवचोविरोधात् स्वाच्छ-
न्द्यविलसितमित्युपेक्षणीया । “पूर्वाह्णे दैविकं कुर्य्यात्”
इत्यादिव चनादेव तत्सिद्धेर्वचनवैयर्थ्याच्च । किञ्च काला-
दर्शोक्तिर्न्यायमूला वचोमूला वा नाद्यः युगादि-
श्राद्धस्यामाश्राद्धविकृतित्वेन न्यायतो पराह्णव्याप्तावपि
वचनेन तस्य बाधात् । नान्त्यः अतिदेशादेवापराह्णव्याप्ता-
प्राप्तेर्वचनवैयर्थ्यात् “अप्राप्ते शास्त्रमर्थवदिति” न्यायात्
तेन यदि कालादर्शोक्तेः कथञ्चिच्छ्रद्धाजाड्येन समाधि-
त्सा तर्हि न्यायप्राप्तकृष्णपक्षयुगादिविषयत्वेन सा व्यव-
स्थापनीयेति दिक्” । युगादिकृत्यं मलमासेऽपि कार्य्यम्
“दशहरासु नोत्कर्षश्चतुर्ष्वपि युगादिषु । उपाकर्मणि
चोत्सर्गे ह्येतद्दिष्टं वृषादितः” हेमाद्रौ ऋष्यशृङ्गवचनात्
एतत् दशहरादिकम् । “अव्दोदकुम्भमन्वादिमहालय-
युगादि च । मलमासे च कर्त्तव्यम्” कालादर्श-
वाक्याच्च महालयोऽत्र मघात्रयोदशीति वोध्यम्
स्मृतिचन्द्रिकायां तु मासद्बयेऽपि कर्त्तव्यमित्युक्तम्
पृष्ठ १८१२
“यौगादिकं मासिकं च श्राद्धं चापरपक्षिकम् । मन्वादिकं
तैर्थिकञ्च कुर्य्यान्मासद्वयेऽपि च” तद्धृतवचनात्
अपरपक्षोऽत्र कृष्णपक्षः न तु प्रेतपक्षः तस्य तत्र निषेधात्
“प्रतिमासं मृताहे च श्राद्धं यत् प्रतिवत्सरम् । मन्वादौ
च युगादौ च तन्मासोरुभयोरपीति” मदनरत्ने
मरीच्युक्तेः । प्रतिवत्सरं क्रियमाणं कल्पादिश्राद्धमिति
मदनरत्नम्” एतेन युगाद्यावर्षवृद्धिश्चेति वचनं श्राद्धाति-
रिक्तविष्णुपूजादिविषयम् न तत्र तिथियुग्मतेति अन्त्यच-
रणस्वरसात् तिथियुग्मादरस्य दैवविषयतया तद्विषयकत्व-
स्यैवोचितत्वात् एवं निर्णयः” “सर्वासु युगाद्यासु” ।
अत्रोभयमासे कर्त्तव्यताविधानमपि संक्रान्तिनिमित्त-
पुण्यकालस्योभयत्र लाभे पूर्वदिनाकरणे परदिने कर्त्तव्य-
तावत् पूर्वमासे दैवादकरणे परमासेऽपि कर्त्तर्व्यताभ्यनु-
ज्ञानार्थम् नतूभयमासयोः समुच्चयेन । एकेनैवानुष्ठानेन
दुरदृष्टानुत्पत्तेः “श्वः कार्य्यमद्य कर्त्तव्यमित्युक्तेश्च
प्रथमभासएव मुख्यःकाल इति तत्त्वम् ।
अत्र श्राद्धाकरणे प्रायश्चित्तमुक्तमृग्विधाने । “न यस्य
द्यावामन्त्र च शतवारं तदा जपेत् । युगादयो यदा न्यूनाः
कुरुते नैव चापि यः” यदा न्यूना इत्यनेन अन्यतमा करणं
नैब कुरुते इत्यनेन सर्वासामकरणमिति सूचितम् ।
“युगादौ तु नरः स्नात्वा विधिवल्लवणोदधौ । गोसहस्र-
प्रदानस्य कुरुक्षेत्रे फलं हि यत् । तत्फलं लभते मर्त्यो
भूमिदानस्य च ध्रुवमिति” पृथ्वी च० सौ० समुद्र-
स्नानमुक्तम् ।
युगादिवत् युगान्तकालोऽप्यक्षय पुण्यदः तन्नि-
रूपणादिकं हेमा० दा० यथा-
“नवम्यां शुक्लपक्षस्य कार्त्तिके निरनात् कृतम् ।
त्रेता सिततृतीयायां वैशाखे समपद्यत । दर्शे तु
माघमासस्य प्रवृत्तं द्वापरं युगम् । कलिः कृष्णत्रयोदश्यां
नभस्ये मासि निर्गतः । युनादयः स्मृता ह्येते दत्त-
स्याक्षयकारकाः” ब्रह्मपुराणे “युगारम्भास्तु तिथयो
युगाद्यास्तेन कीर्त्तिताः । फलं दत्तहुतानाञ्च तास्वनन्तं
प्रकीर्त्तितम्” तथा--“एताश्चतस्रस्तिथयो युगाद्या दत्तं
हुतञ्चाक्षयमाशु विन्द्यात् । युगे युगे वर्षशतेन यत्तपो
युगादिकाले दिवसेन तद्भवेत्” । तथा--“सूर्य्यस्य सिंह-
संक्रान्त्यामन्तः कृतयुगस्य च । तथा वृश्चिकसंक्रान्त्यामन्त-
स्त्रेतायुगस्य च । ज्ञेयस्तु वृषसंक्रान्त्यां द्वापरान्तस्तु
संख्यया । तथा च कुम्भसंक्रान्त्यामन्तः कलियुगस्य च” ।
पद्मपुराणे “युगादिषु युगान्तेषु स्नाना--दान--जपादिषु ।
यत्किञ्चित् क्रियते तस्य युगान्ताः फलसाक्षिणः” आदित्य-
पुराणे “दिनर्क्षं रेवती यत्र गमनञ्चैव राशिषु । युगान्त-
दिवसं विद्धि तत्र दानमनन्तकम् । ग्रहोपरागे विषुवे
सौम्ये वा मिहिरोपदिः । सप्तमी शुक्लाकृष्णा वा
युगादिदिवसं विदुः” ।

कलिल त्रि० कल--इलच् । १ गहने, अमरः “थदा ते मोहक-

लिलं बुद्धिर्व्यतितरिष्यति” गीता । २ मिश्रे च उज्ज्व० ।
“लोकालोकी कलोऽकल्ककलिलोऽलिकुलालकः” माघः ।

कलिहारी स्त्री कलिं हरति हृ अण् गौरा० ङीष् ।

(विषलाङ्गलिया) लाङ्गल्याम् भावप्र० “कलिहारी सरा
कुष्ठ शोकार्शोव्रणशूलजित् । सक्षारा श्लेष्मजित्तिक्ता
कटुकातुवराऽपि च । तीक्ष्णोष्णा कृमिहृल्लघ्वी पित्तला
गर्भपातिनी” भावप्रकाशे तद्गुणा उक्ताः ।

कलुष पुं स्त्री कल--उषच् लुष--हिंसायां क १ कस्य जलस्य लुषो

घातकः इति वा । १ महिषे राजनि० स्त्रियां जातित्वात्
ङीष् । २ पापे न० । “त्वां प्रत्यकस्मात् कलुषप्रवृत्तौ” रघुः ।
३ तद्वति त्रि० । ४ अनच्छे आबिले त्रि० अमरः ।
“विभिन्नशङ्खः कलुषीमवन्मुहुर्मदेन दन्तीव मनुष्यधर्मणः”
माघः । ५ गर्हिते त्रि० शब्दचि० । अकलुषः कलुषो
भवति कलुषायते । कलुषायितः । कलुषं करोति णिच्
कलुषयति कलुषितः । ६ असमर्थे । “भावावबोधकलुषा
दयितेव रात्रौ” रघुः ।

कलूतर पु० देशभेदे । ततः कच्छादि० भवादौ अण् । कालूतर तद्देशभवादौ त्रि० ।

कलेवर न० कले शुक्रे वरं श्रेष्ठम् तदुत्पन्नत्वेऽपि शुचि

सप्तम्या अलुक् । देहे । “यं यं चापि स्मरन् भावं त्यज-
त्यन्ते कलेवरम्” गीता । “शरीरे जर्ज्जरीभूते व्याधिग्रस्ते
कलेवरे । औषधं जाह्नवीतोयं वैद्योनारायणः स्वयम्”
पुरा० पठन्ति ।

कल्क पुंन० कल--क तस्य नेत्त्वम् । १ घृततैलादिपाक-

संस्कारविशेषे, २ दम्भे, ३ विभीतकवृक्षे, ४ विष्ठायाम् ५ किट्टे
६ पापे च मेदि० । ७ तुरष्कनामगन्धद्रव्ये राजनि०
८ घृततैलादिपाके देये औषधिद्रव्यभेदे च । कल्कप्रकारः
भावप्र० उक्तो यथा । “स्वरसश्च तथा कल्कः क्वाथश्च
हिमफाण्टकौ । ज्ञेया कषायाः पञ्चैते लघवःस्युर्यथो-
त्तरम्” इति विभज्य “द्रव्यमार्द्रं शिलापिष्टं शुष्कं वा
सजलं भवेत् । प्रक्षिप्य गालयेद्वस्त्रे तन्मानं कर्षसंमितम् ।
कल्के मधुघृतं तैलं देयं द्विगुणमात्रया । सितां गुडूसमां
पृष्ठ १८१३
दद्यात् द्रवोदेयश्चतुर्गुणः” । “क्वाथ्याच्चतुर्गुणं वारि--पादस्थं
स्याच्चतुर्गुणम् । स्नेहात् स्नेहसमं क्षीरं कल्कस्तु स्नेह-
पादिकः । चतुर्गुणन्त्वष्टगुणं द्रवद्वैगुण्यतो भवेत् ।
पञ्चप्रभृति यत्र स्युर्द्रव्याणि स्नेहसंविधौ । तत्र
स्नेहसमान्याहुरर्वाक् च स्याच्चतुर्गुणम्” चक्रद०
तत्र देयद्रव्यमानपरिभाषोक्ता । “अकल्कको निरारम्भः
प्रा० त० तीर्थयात्राङ्गधर्म्मोक्तौ भाव० । ९ रूक्षतासाधने चूर्ण-
भेदे च । “तां लोध्रकल्केन हृताङ्गतैलाम्” कुमा० ।
“लोकालकीकलोऽकल्ककलिलोऽलिकुलालकः” माघः ।
पापाशये त्रि० मेदि० ।

कल्कन न० कल्कं शाट्यं करोति णिच्--भावे--ल्युट् । शाठ्या-

चरणे “चह कल्कने कल्कनं दम्भः शाठ्यं च” सि० कौ० ।

कल्कफल पु० कल्कस्य विभीतकस्य फलमिव फलमस्याकार-

साम्यात् । दाड़िमवृक्षे राजनि० ।

कल्कि पु० कल्कोऽस्त्यस्य हार्य्यतया इन् । भगवतो-

दशमेऽवतारे तदाविर्भावप्रसङ्गादि कल्किपु० उक्तं यथा
“आधिव्याघिजराग्लानिदुःखशोकभयाश्रयाः ।
कलिरांजानुगाश्चेरुर्यूथशोलोलनाशकाः । बभूवुः कालविभ्रष्टाः
क्षणिकाः कामुकानराः । दम्भाचारदुराचारास्तातमातृ
विहिंसकाः । वेदहीना द्विजा दीनाः शूद्रसेवापराः सदा ।
कुतर्कवादवहुला धर्म्मविक्रयिणोऽधमाः । वेदविक्रयिणो
व्रात्या रसविक्रयिणस्तथा । मांसविक्रयिणः क्रूराः शिश्नो-
दरपरायणाः । परदाररता मत्ता वर्णसङ्करकारकाः ।
ह्रस्वाकाराः पापचाराः शठा मठनिवासिनः ।
षोडशाब्दायुषः श्यालबान्धवा नीचसङ्गमाः । विवादकलह-
क्षुब्धाः केशवेशविभूषणाः । कलौ कुलीना धनिनः, पूज्या
वार्द्धुषिका द्विजाः । सन्न्यासिनो गृहासक्ता गृहस्थास्त्व-
विवेकिनः । गुरुनिन्दापरा धर्म्मध्वजिनः साधुवञ्चकाः ।
प्रतिग्रहरताः शूद्राः परस्वहरणादराः । द्वयोः स्वीकार-
उद्वाहः शठे मैत्री, वदान्यता । प्रतिदाने, क्षमाऽशक्तौ,
विरक्तिःकरणाक्षमे । वाचालत्वञ्च पाण्डित्ये, यशोऽर्थे
धर्म्मसेवनम् । धनाढ्यत्वञ्च साधुत्वे, दूरे नीरे च
तीर्थता । सूत्रमात्रेण विप्रत्वं, दण्डमात्रेण मस्करी ।
अल्पशस्या वसुमती नदीतीरेऽवरोपिता । स्त्रियो वेश्या-
लापसुखाः स्वपुंसा त्यक्तमानसाः । परान्नलोलुपा विप्रा-
श्चण्डालग्रामयाजकाः । स्त्रियो वैधव्यहीनाश्च स्वच्छ-
न्दाचरणप्रियाः । चित्रवृष्टिकरा मेघा, मन्दशस्या च
मेदिनी । प्रजाभक्षा नृपा, लोकाः करपीडाप्रपीडिताः ।
स्कन्धे भारं, करे पुत्रं, कृत्वा क्षुब्धाः प्रजाजनाः ।
गिरिदुर्गं वनं घोरमाश्रयिष्यन्ति दुर्भगाः । मधुमांसै-
र्मूलफलैराहारैः प्राणधारिणः । एवं तु प्रथमे पादे
कलेः कृष्णविनिन्दकाः । द्वितीये तन्नामहीनास्तृतीये
वर्ण्णसङ्कराः । एकवर्णाश्चतुर्थे च विस्मृताच्युतसत्क्रियाः ।
निः--स्वाध्याय--स्वधा--स्वाहा--वौषड़ोंकार--वर्ज्जिताः ।
देवाः सर्व्वे निराहाराः ब्रह्मणं शरणं ययुः” । इत्यन्तेन
१ अ० कलिस्वभावमुपवर्ण्ण्य भगवतः प्रादुर्भावप्रतिज्ञोक्ता
“स्तुत्वा प्राह पुरोब्रह्मा देवानां हृदयेप्सितम् । तत्श्रुत्वा
पुण्डरीकाक्षो ब्रह्माणमिदमब्रवीत् । शम्भले विष्णुयशसो-
गृहे प्रादुर्भवाम्यहम् सुमत्यां मातरि विभोः कन्यायां
त्वन्निदेशतः । चतुर्भिर्भ्रातृभिर्देव! करिष्यामि कलिक्षयम् ।
भवन्तोबान्धवा देवाः स्वांशेनावतरिष्यथ । इयं मम प्रिया
लक्ष्मीः सिंहले संभविष्यति । वृहद्रथस्य भूपस्य कौमुद्यां
कमलेक्षणा । भार्य्यायां, मम भार्य्यैषा पद्मानाम्ना
जनिष्यते । यात यूयं भुबं देवाः स्वांशावतरणे
रताः । राजानौ मरुदेवापी स्थापयिष्याम्यहं भुवि ।
पुनः कृतयुगं कृत्वा धर्मान् संस्थाप्य पूर्ववत् ।
कलिव्यालं संनिरस्य प्रयास्ये स्वालयंनिभो! । इत्युदीरितमा-
कर्ण्य ब्रह्मा देवगणै र्वृतः । जगाम ब्रह्मा सदनं देवाश्च
त्रिदिवं ययुः । महीमाश्वास्य भगवान् निजजन्मकृतोद्यमः ।
विप्रर्षे! शम्भलग्राममाविवेश परात्मकः । सुमत्यां विष्णु-
यशसा गर्भमाधत्त वैष्णवम् । ग्रहनक्षत्रराश्यादिसेवित-
श्रीपदाम्बुजम् । सरित्समुद्रागिरयोलोकाःस्थावरजङ्गमाः ।
सहर्षा ऋषयो देवा जाते विष्णौ जगत्पतौ । बभूव सर्वसत्वा-
नामानन्दोविविधाश्रयः । नृत्यन्ति पितरोहृष्टास्तुष्टा देवा
जगुर्यशः । चक्रुर्व्वाद्यादि गन्धर्वा ननृतुश्चाप्सरोगणाः ।
द्वादश्यां शुक्लपक्षस्य माधवे मासि माधवः । जातं ददृशतुः
पुत्रं पितरौ हृष्टमानसौ । धात्री माता महाषष्ठी नाड़ी-
च्छेत्री तदम्बिका । गङ्गोदकक्लेदमोक्षा सावित्री मार्जनो
द्यता । तस्य विष्णोरनन्तस्य वसुधाऽदात् पयः सुधाम् ।
मातृकामङ्गलवचः कृष्णजन्मदिनेऽभवत् । ब्रह्मा तदुषधार्य्याशु
स्वाशुगं प्राह सेवकम् । याहीति सूतिकागारं गत्वा विष्णुं
प्रबोधय । चतुर्भुजमिदंरूपं देवानामपि दुर्ल्लभम् । त्यक्त्वा
मानुषवद्रूपं कुरु नाथा! विचारितम् । इति ब्रह्मवचः
श्रुत्वा पवनः सुरभिः सुखम् । सुशीतः प्राह तरसा
ब्रह्मणोवचनादृतः । तच्छ्रुत्वा पुण्डरीकाक्षस्त त्क्षणात्
द्विभुजोऽभवत् । तदा तत्पितरौ दृष्ट्वा विस्वयापन्न-
पृष्ठ १८१४
मानसौ । भ्रमसंस्कारवत् तत्र मेनाते तस्य मायया ।
ततस्तु शम्भलग्रामे सोत्सवा जीवजातयः । मङ्गलाचा-
रबहुलाः पापतापविवर्ज्जिताः । सुमतिस्तं सुतं लब्ध्वा
विष्णुं जिष्णुं जगत्पतिम् । पूर्णकामा विप्रमुख्यानाहूया-
दाद्गवां शतम् । हरेः कल्याणकृद्विष्णुयशाः शुद्धेन चेतसा ।
सामर्ग् यजुर्विद्भिरग्र्यैस्तन्नामकरणे रतः । तदा रामः
कृपोव्यासो द्रौणिर्भिक्षुशरीरिणः । समायाता हरिं द्रष्टुं
बालकत्वमुपागतम् । तानागतान् समालोक्य चतुरः सूर्य्यस-
न्निभान् । हृष्टरोमा द्विजवरः पूजाञ्चक्रे स ईश्वरान् ।
पूजितास्ते स्वासनेषु संविष्टाः स्वसुखाश्रयाः । हरिं क्रोड-
गतं तस्य ददृशुः सत्वमूर्त्तयः । तं बालकं नराकारं
विष्णुं नत्वा मुनीश्वराः । कल्किं कल्कविनाशार्थमावि-
र्भूतं विदुर्बुधाः । नामाकुर्वंस्ततस्तस्य कल्किरित्यभिविश्रुतम् ।
कृत्वा संस्कारकर्माणि ययुस्ते हृष्टमानसाः । ततः स ववृधे
तत्र सुमत्या परिपालितः । कालेनाल्पेन कंसारिः शुक्ल-
पक्षे यथा शशी । कल्केर्ज्येष्ठास्त्रयः शूराः । कविप्राज्ञसुम-
न्त्रकाः । तातमातृप्रियकरा गुरुविप्रप्रतिष्ठिताः । कल्केरंशाः
पुरो जाताः साधवो धर्मतत्पराः । गार्ग्यभर्ग्यविशालाद्या
ज्ञातयस्तदनुव्रताः । विशाखयूपभूपालपालितास्तापवर्जिताः ।
ब्राह्मणाः कल्किमालोक्य परां पीतिमुपागताः । ततो
विष्णुयशाः पुत्रं धीरं सर्वगुणाकरम् । कल्किं
कमलपत्राक्षं प्रोवाच पठनादृतम् । तात! ते ब्रह्मसंस्कारं यज्ञ-
सूत्रमनुत्तमम् । सावित्रीं वाचयिष्यामि ततो वेदान
पठिष्यसि” २ अ० । तस्य चरितादिकं कल्किपुराणशब्दे दृश्यम्

कल्किन् पु० कल्को नाश्यतयाऽस्त्यस्य इनि । भगवतो दशमे

ऽवतारे कल्किशब्दे विवरणम् । “मत्स्यः कूर्म्मो वराहश्च
नरसि हश्च वामनः । रामोरामश्च रामश्च बुद्धः कल्की
च ते दश” पुरा० । “कल्की सतां च भविता प्रहरि-
ष्यतेऽरीन्” मुग्ध० ।

कल्किपुराण न० । वेदव्यासप्रणीते अनुभागवते उपपुराण-

भेदे तत्र प्रतिपाद्यविषयाश्च
यथासूतसमीपे शौनकादीनां भविष्यप्रश्नः । शुकस्य
कल्किपुराणप्राप्तिविवरणम् । कलेरुत्पत्तिः । कलिविव-
रणम् । कलौ आचारभ्रंशः । धरित्र्या सह देवानां
ब्रह्मलोकगमनम् । ब्रह्मलोकवर्णनम् । ब्रह्मसमीपे
कलेर्दीषकीर्त्तनम् । ब्रह्मणा सह देवानां गोलोके गमनम् ।
विष्णुसमीपे कलिव्र्त्तनिवेदनम् । विष्णोर्विष्णुयशसो
गृहे अवतारतयाविर्भावाङ्गीकारः । विष्णुयशसः पत्न्याः
सुमत्या गर्भः । विष्णौ जाते देवानां हर्षः । विष्णोश्च-
तुर्भुजमूर्त्तिपरिहारपूर्वकं मानुषरूपधारणम् । रामकृप-
व्यासद्रौणीनां कल्किदर्शनार्थमागमनम् । कल्केर्नामक-
रणम् । कल्केरुपनयनकाले पितुरुपदेशः । कल्केर्गुरु-
कुलवासार्थं यात्रा जामदग्न्यप्राप्तिश्च । कल्केर्वेदा-
ध्ययनं धनुर्वेदशिक्षा च । गुरुदक्षिणादानाभिलाषः ।
कल्केर्विल्वोदकेश्वरशिवदर्शनं तत्स्तुतिश्च । शिवया
शिवस्याविर्भावो वरदानञ्च । शङ्करात् कल्केः करवालाशुगतु-
रङ्गप्राप्तिः । कल्केर्गृहप्रत्यागमनम् । कल्केराश्रम-
धर्म्मोपदेशः । कल्केर्धर्म्मकथनम् । ब्राह्मणलक्षणम् ।
सिंहलद्वीपवर्णनम् । पद्माया राजकन्याया विवरणम् ।
शिवात् पद्माया वरलाभः । पद्मायाः स्वयंवरोद्योगः ।
समागतभूपानां स्त्रीत्वप्राप्तिः । पाद्माया विलापः ।
कल्केरादेशेन शुकस्य पद्मासमीपे गमनम् । पद्माशुकसं-
वादः । विष्णुपूजाप्रकरणम् । पद्मासमीपे अच्युताव-
तारकथनम् । शुकस्य शम्भले प्रतिगमनम् । कल्कि-
शुकसंवादः । कल्केः सिंहलगमनम् । पद्मायाः कल्कि-
समीपे गमनम् । पद्मायाः कल्किदर्शनम् । कल्कि-
दर्शनेन भूपानां पुरुषत्वप्राप्तिः । राजगणकृतकल्किस्तवः ।
अनन्तस्यागमनम् । अनन्तोपाख्यानम् । अनन्तेन
हंसस्य साक्षात्कारः । कल्केराज्ञया विश्वकर्म्मणः शम्भले
पुरीनिर्म्माणम् । कल्केः सस्त्रीकस्य शम्भले प्रत्यागमनम् ।
कल्केः सुतोत्पत्तिः । बौद्धयुद्धम् । जिनविनाशः ।
बौद्धजयः । म्लेच्छजयः । म्लेच्छकामिनीभिः कल्केर्युद्धम् ।
बालखिल्लानामागमनम् । निकुम्भदुहितुराख्यानम् ।
कुथोदर्य्याः संहारार्थं कल्केर्यात्रा । कुथोदर्य्या बधः ।
नारदादीनां महर्षीणामागमनम् । मरोरात्मपरिचयार्थं
सूर्य्यवंशवर्णनम् । श्रीरामचरितम् । सीतापरित्यागः ।
सीताया भूतलप्रवेशः । रामस्य स्वर्गारोहणम् । रामस्य
वंशावली । मरोरुत्पत्तिविवरणञ्च । चन्द्रवंशे देवा-
पेरुत्पत्तिविवरणम् । देवापेर्मरोश्चदिव्यरथप्राप्तिः ।
कृतयुगस्यागमनम् । मन्वन्तरवर्णनम् । कलिना संग्रा-
मोद्योगः । कल्केर्दिग्विजययात्रा । धर्म्मस्य कलिना
समागमः । कल्किसमीपे धर्मस्यात्मनिवेदनम् । कलिना कल्केः
संग्रामः । मरुदेवापिप्रभृतीनां खशकाम्बोजवर्बरचौला-
दिभिः संग्रामः कलिसहचराणां पराभवः । लोकविको-
कबधः । कल्केर्भल्लाटनगरगमनम् । शशिध्वजस्य समरो-
द्योगः । मूर्च्छितं कल्किमादाय शशिध्वजस्य गृहागमनम् ।
पृष्ठ १८१५
सुशान्ताया गोतम् । शशिध्वजकन्यया कल्केर्विवाहः ।
शशिध्वजस्य हरिभक्तिकारणम् । शशिध्वजस्य पूर्वजन्मवृत्ता-
न्तकथनम् । भक्तिलक्षणम् । हरिभक्तस्य संग्रामप्रवृत्ति-
कारणम् । द्विविदोपाख्यानम् । कृष्णावतारवृत्तान्तः ।
कल्केः काञ्चनपुर्य्यां प्रवेशः । विषकन्यासंवादः ।
कल्केरनुचराणां पृथक् पृथक् राज्येऽभिषेकः । कल्केः
शम्भले प्रतिगमनम् । सत्ययुगप्रवर्त्तनम् । मायास्तवः ।
विष्णुयशसो राजसूययज्ञारम्भः । नारदस्यागमनम् ।
मायाजीवयोः कथोपकथनम् । विष्णुयशसो वनगमनम् ।
परशुरामस्यागमनम् । रुक्मिणीव्रतकथनम् । कल्केः
पत्नीभिर्विहारः । शम्भले देवानामागमनम् । कलकेः
स्वर्गारोहणम् । गङ्गास्तोत्रम् । कल्किपुराणस्यानुक्रम-
णिका । कल्किपुराणश्रवणादिफलम्” ।

कल्प पु० कल्पते समर्थो भवति स्वक्रियायै विरुद्धलक्षणया असमर्थो-

भवति वाऽत्र, कृपू सामर्थ्ये विरुद्धलक्षणया असामर्थ्ये वा
आधारे घञ् कल्पयति सृष्टिं विनाशं वात्र कृप-णिच्-
आधारे अच् । ब्रह्मणो रात्रिरूपे जगतां चेष्टाराहित्य-
सम्पादके १ प्रलये २ तस्य दिनरूपे जगतां चेष्टासम्पादके च
कालभेदे । “यदा स देवो जागर्त्ति तदेदं चेष्टते जगत् ।
यदा स्वपिति शान्तात्मा तदा सर्वं निमीलति” मनुना
जगच्चेष्टातद्राहित्ययोर्ब्रह्माहोरात्रयोरुक्तेस्तथात्वम् ।
कलिशब्दे दर्शितवाक्येन युगमानमुक्त्वा कल्पमानं
प्रदर्श्य ब्रह्मणः आयुःपरिमाणं तस्य गतायुःकालश्च
सू० सि० उक्तो
यथा“युगानां सप्ततिः सैका मन्वन्तरमिहोच्यते । कृताव्दस-
ङ्ख्यस्तस्यान्ते सन्धिः प्रोक्तो जलप्लवः” सू० । “युगानां सैका
सप्ततिरेकसप्ततिर्महायुगमित्यर्थः । इह--मूर्त्तकाले । मन्व-
न्तरं मन्वारम्भतत्समाप्तिकालयोरन्तरकालमानमित्यर्थः ।
मूर्त्तकालमानभेदाभिज्ञैः कथ्यते । तस्य मनोरन्ते विरामे
जाते सति कृताव्दसङ्ख्यः मदुक्तकृतयुगवर्षमितः सन्धिः
कालविद्भिः प्रकर्षेण द्वितीयमन्वारम्भपर्य्यन्तं भूतमावि-
मन्वोरन्तिमादिसन्धिरूपैककालेन कथितः । तत्स्वरूपमाह
“जलप्लव इति । जलपूर्ण्णा सकला पृथ्वी तस्मिन्
लोकसंहारकाले भवति । अथ कल्पप्रमाणं सविशेषमाह”
रङ्ग० । “ससन्धयस्ते मनवः कल्पे ज्ञेयाश्चतुर्दश ।
कृतप्रमाणः कल्पादौ सन्धिः पञ्चदशः स्मृतः” सू० । “ते
एकसप्ततियुगरूपा मनवः स्वायम्भुवाद्याः ससन्धयः स्वस्व-
सन्धिसहिताश्चतुर्द्दशसङ्ख्याकाः कल्पकाले ज्ञातव्याः ।
स्वसन्धियुक्तचतुर्द्दशमनुभिः कल्पः स्यादित्यर्थः । ननु
ग्रन्थान्तरे कल्पमानं युगसहस्रं त्वया तु युगमानमेक-
सप्ततिगुणं मनुमानं ३०६७२०००० कृतावद् १७२८०००
युक्तं ससन्धिमनुमानं ३०८४४८००० इदं चतुर्द्दशगुणं
४३१८७२००० कल्पप्रमाणं तच्च कृतीनं युगसहस्त्रमित्यत
आह । कृतप्रमाण इति । कल्पादौ प्रथममन्वारम्भे कृतयुग-
वर्षमितो मनोश्चतुर्दशत्वेऽप्याद्यः पञ्चदशकः सन्धिः कालज्ञै-
रुक्तः । तथा च कृतवर्षानन्तरं प्रथममन्वारम्भ इति तद्वर्षं-
योजनेनाविरोध इति भावः । अथ ब्रह्मणो दिनरात्र्योः
प्रमाणमाह” रङ्ग० । “इत्थं युगसहस्नेण भूतसंहारकारकः ।
कल्पो ब्राह्ममहः प्रोक्तं शर्वरी तस्य तावती” सू० “इत्थं
पूर्व्वोक्तप्रकारसिद्धेन युगसहस्रेण भूतसंहारकारको
लयात्मकः कल्पकाली ब्राह्मं ब्रह्मणः सम्बन्ध्यहः
दिनं कालज्ञैरुक्तम् । तस्य ब्रह्मणस्तावती दिनपरिमिता
शर्व्वरी रात्रिः । कल्पद्वयं तदहोरात्रमिति फलितार्थः ।
अथ ब्रह्मणआयुःप्रमाणमतीतवयःप्रमाणं चाह” रङ्ग० ।
“परमायुः शतं बस्य तयाहोरात्रसङ्ख्यया । आयुषो०
ऽर्द्धमितं तस्य शेषकल्पोऽयमादिमः” सू० । परमपरं शृणु
पूर्व्वोक्तं त्वया श्रुतमपरं च वक्ष्यमाणं शृणु त्वम् । यद्वा
परमेति दैत्यवरार्थकं सम्बोधनम् । त्वं तस्य ब्रह्मणस्तथा
पूर्ब्बोक्तयाहोरात्रमित्या कल्पद्वयरूपया शतं शतवर्ष-
परिमितमायुः शरीरघारणकालं जानीहि । एतदुक्तं
भवति । अहोरात्रमानात् पूर्ब्बपरिभाषया (३०)
मासमानं तस्मात् पूर्व्वोक्तपरिभाषया (१२) ब्रह्मणो वर्षमानमेत-
च्छतसङ्ख्यया ब्रह्मायुरिति । न तु यथाश्रुतार्थेन कल्पशत-
द्वयमायुः, कोटादीनामपि दिनसङ्ख्ययायुषोऽनुक्तेः सुतरां
ब्रह्मणः शतदिनात्मकायुषोऽसम्भवात् “निजेनैव तु मानेन
आयुर्वर्षशतं स्मृतम्” इति विष्णुपुराणोक्तेश्च । एतेन
परमा--रित्येकं पदमिति निरस्तम् ब्रह्मणोऽनियतायुर्दाया-
सम्भवात् । तस्य ब्रह्मण आयु शतवर्षरूपमस्यार्द्धं पञ्चाश
द्वर्षपरिमितमितं गतम् । अयं वर्त्तमान आदिमः
प्रथमः शेषकल्पः शेषायुर्दायस्य ब्रह्मदिवस उत्तरार्द्धस्य
प्रथमदिवसो वर्त्तमान इति फलितार्थः । अथ वर्त्तमानेऽ-
स्मिन् दिवसेऽप्येतद्गतमित्याह रङ्ग० । “कल्पादस्माच्च
मनवः षड् व्यतीताः ससन्धयः । वैवस्वतस्य च
मनोर्युगानां त्रिघनो गतः” सू० । “अस्माद्वर्तमानात् कल्पाद्
ब्रह्मदिवसात् षट्सङ्ख्याका मनय एकसप्ततियुगरूपाः
ससन्धयः सप्तभिः सन्धिभिः कृतयुगप्रमाणैः सहिता
पृष्ठ १८१६
व्यतीता गताः । चकारआयुषोऽर्द्धमितमिति प्रागुक्तेन
समुच्चयार्थकः । वर्त्तमानस्य सप्तमस्य मनोर्वैवस्वताख्यस्य
युगानां त्रिघनस्त्रयाणां घनः स्थानत्रयस्थिततुल्यानां
घातः सप्तविं शतिसङ्ख्यात्मको गतः । सप्तविंशतियुगानि
गतानीत्यर्थः । चः समुच्चये । अथ वर्त्तमानयुगस्यापि
गतमेतदिति वदन्नभिमतकालेऽग्रतो वर्षगणः कार्य्य इत्याह”
रङ्ग० । “अष्टाविंशाद् युगादस्माद्यातमेतत् कृतं युगम् ।
अतः कालं प्रसङ्ख्याय सङ्ख्यामेकत्र पिण्डयेत्” सू० ।
“अष्टाविं शतितमाद्वर्तमानान्महायुगादेतदल्पकालेन पूर्व्व-
काले साम्प्रतं स्थितं कृतं युगं गतम् । अतः कृतयुगान्ता
नन्तरमभिमतकाले कालं वर्षात्मकं प्रसङ्ख्याय गणयित्वा
सङ्ख्यां पञ्चस्थानस्थितां भिन्नामेकत्रैकस्थाने पिण्डयेत्
सङ्कलनविषयां कुर्य्यात् । सर्वेषां गतानां योगं कुर्य्या-
दित्यर्थः” रङ्ग०!
मासस्य त्रिंशत्तिथ्यात्मकतया ब्रह्मसासस्य त्रिंश-
त्कल्पघटितत्वात् तेषां कल्पानां नामानि हेमा० दा०
मात्स्ये आह स्म
“कल्पानुकीर्त्तनं वक्ष्य सर्व्वपापप्रणाशनम् । यस्यानु-
कीर्त्तनादेव वेदपुण्येन युज्यते । प्रथमः श्वेतकल्पस्तु
द्वितीयो नीललोहितः । वामदेवस्तृतीयस्तु ततो रषन्तरो-
ऽपरः । रौरवः पञ्चमः प्रोक्तः षष्ठः प्राण इति स्मृतः ।
सप्तमोऽथ वृहत्कल्पः कन्दर्पोऽष्टम उच्यते । सद्योऽथ नवमः
प्रोक्त ईशानो दशमः स्मृतः । व्यान एकादशः प्रोक्तः
तथा सारस्वतोऽपरः । त्रयोदश उदानस्तु गारुडोऽथ
चतुर्दशः । कौर्म्मः पञ्चदशोज्ञेयः पौर्णमासी प्रजापतेः ।
षोड़शोनारसिंहस्तु समानस्तु ततः परः । आग्नेयोऽ-
ष्टादशः प्रोक्तः सोमकल्पस्तथाऽपरः । मानवो विंशतिः
प्रोक्तस्तत् पुमानिति चापरः । वैकुण्ठश्चापरस्तद्वल्लक्ष्मीकल्प-
स्तथा परः । चतुर्विंशस्तथा प्रोक्तः सावित्रीकल्पसंज्ञकः ।
पञ्चविंशतिमो घोरो वाराहस्तु ततोऽपरः । सप्तविंशोऽथ
वैराजो गौरीकल्पस्तथाऽपरः । माहेश्वरस्ततः प्रोक्तो
त्रिपुरो यत्र घातितः । पितृकल्पस्तथान्ते तु या कुहू-
ब्रह्मणः स्मृता । इत्ययं ब्रह्मणोमासः सर्वपापप्रणा-
शनः । आदावेव हि माहात्म्यं यस्मिन् यस्य विधी-
यते । तस्य कल्पस्य तन्नाम विहितं ब्रह्मणा पारा” ।
तदारम्भकालश्च ब्रह्मसिद्धान्ते उक्तः “चैत्रसितादेर्भानो-
र्वर्षर्ष्ठुमासयुगकल्पाः । सृष्ट्यादौ लङ्कायामिह प्रवृत्ताः
दिनैर्वत्स!” चैत्रसितादेः चैत्रशुक्लप्रतिपदमारभ्येत्यर्थः ।
ब्रह्मपु० “चैत्रे मासि जगत् ब्रह्मा ससर्ज प्रथमे-
ऽहनि । शुक्लपक्षे समग्रन्तु तदा सूर्य्योदये सति । प्रव-
र्त्तयामास तदा कालस्य गणनामपि” इति कालसामान्य-
गणनस्य तत आरभ्योक्तेः” एवं चैत्रशुक्लप्रतिपदि कल्पप्रार-
म्भेऽपि “माघशुक्लतृतीयायां कृष्णायां फाल्युनस्य च ।
पञ्चमी चैत्रमासस्य यथैवाद्या तथा परा । शुक्ला त्रयो-
दशी माघे कार्त्तिकस्य तु सप्तमी । नवमी मार्गशीर्षस्य
सप्तैताः संस्मराम्यहम् । कल्पानामादयो ह्येता दत्त-
स्याक्षयकारकाः” वाराहवाक्यानि यदि समूलानि
तदा कल्पभेदादविरुद्धानि कल्पादित्वेन तत्तत्तिथिषु श्राद्ध
कर्त्तव्यतोपयोगिपारिभाषिकत्वपरतया वा समर्थनीयानि ।
अतएव सू० सि० सुरासुराणामन्योन्यमहोरात्रविप-
र्य्ययात् । यत् प्रोक्तं तद्भवेद्दिव्यं भानोर्भगणपूरणात् ।
मन्वन्तरव्यवस्था च प्राजापत्यमुदाहृतम् न तत्र । द्युनिशो
र्भेदो ब्राह्मं कल्पः प्रकीर्त्तितः, इत्यादिना युगमन्वन्तर-
कल्पानां सौरत्वेनोक्तिः । सौरमाने च नियतयुगादि-
कालेषु अनियततिथिसम्भवेऽषि सर्वेषां कल्पानामादौ
चैत्रसितादितिथिरेव नियता पायुक्तवचनप्रामाण्यात् ।
किन्तु प्रागुक्तमात्स्ये ब्राह्मकल्पानां चान्द्रत्वोक्तेः चान्द्र-
त्वमपि तेन तिथिभेदसम्भवः सू० सि० वाक्यं तु ग्रह-
स्पष्टीकरणोपयोगीत्यविरोधः ।
अत्र तिथिद्वैधे युगादिवत् व्यवस्था । कृप--णिच्--भाबे अच् ।
२ रचने ३ विकल्पे च इतिकर्त्तव्यतायुक्ते ४ विधाने च । “प्रभुः
प्रथमकल्पस्य योऽनुकल्पे प्रवर्त्तते” मनुः । कल्पो-
विधानमस्त्यत्र औचित्येन । ५ उचिते त्रि० शाश्वतः ।
कल्प्यतेऽनुष्ठीयतेऽनेन करणे अच् । ६ वैदिकविधानज्ञापके
शास्त्रभेदे स चाश्वलायनापस्तम्बबौधायनकात्यायनादि-
सूत्रात्मकः । तस्य यथोपयोगिता तथोक्तं सायणा-
चार्य्येण ऋग्वेदभाष्योपोद्घाते यथा-
“कल्पस्त्वाश्वलायनापस्तम्बवौधायनादिसूत्रं, कल्प्यते
समर्थ्यते याबप्रयोगोऽनेनेति व्युत्पत्तेः । नन्वाश्वलायनः
किंमन्त्रकाण्डमनुसृत्य प्रवृत्तः? किं वा ब्राह्मणमनुसृत्य?
नाद्यः “दशपूर्णमासौ तु पूर्वं व्याख्यास्याम” इत्येवं तेनोप-
क्रान्तत्वात् न ह्यग्निमीड़ इत्यादयोमन्त्रा दशपूर्ण्णमासयोः
कचिद्विनियुक्ताः । न द्वितीयः “आग्नावैष्णवमेकादशकपालं
पुरोडाशं निर्वपन्ति दीक्षणीयायाम्” इत्येवं दीक्षणीयेष्टे-
र्बाह्मणे प्रक्रान्तत्वात् । अत्रोच्यते--मन्त्रकाण्डोब्रह्म-
यज्ञादिजपक्रमेण प्रवृत्तो न तु यागानुष्ठानक्रमेण
पृष्ठ १८१७
ब्रह्मयज्ञश्चैवं विहितः “यत् स्वाध्यायमधीयीतैकामप्यृचं
यजुः साम वा तद्ब्रह्मयज्ञम्” इति सोऽयं ब्रह्मयज्ञ
जपीऽग्निमीडे इत्याम्नायक्रमेणैवानुष्ठेयः तथा “सर्वा ऋचः
सर्वाणि यजूंषि सर्वाणि सामानि वाचः स्तोमे पारि-
प्लवं शंसतीति” विवीयते तथा “आश्विने शस्यमाने सूर्यो
नोदियादपि सर्वा दाशतयीरनुब्रूयादिति” विधीयते तथा
“रिच्यत इव वा एष प्रेव रिच्यते यो याजयति यो वा
प्रतिगृह्णाति याजयित्वा प्रतिगृह्य वाऽनश्नन् त्रिःस्वाध्यायं
वेदमधीयीतेति” प्रायश्चित्तरूपं वेदपारायणं विहितम्
इत्यादिषु कृत्स्नमन्त्रका ड्विनियोगेषु संप्रदायपारम्-
पर्यागत एव क्रम आदरणीयः । विशेषविनियोगस्तु
मन्त्रविशेषाणां श्रुतिलिङ्गवाक्यादिप्रमाणान्युपजीव्या-
श्वलायनोदर्शयति अतोमन्त्रकाण्डक्रमाभावेऽपि न कश्चि-
द्विरोधः । इषे त्वेत्यादिमन्त्रास्तु क्रत्वनुष्ठानक्रमेणैवाम्नाता
इत्यापस्तम्बादयस्तेनैव क्रमेण सूत्रनिर्माणे प्रवृत्ताः ।
आम्नातत्वादेव जपादिष्वपि स एव क्रमः । यद्यपि ब्राह्मणे
दीक्षणीयेष्टिरुपक्रान्ता तथापि तस्या इष्टेर्दर्शपूर्णमास-
विकृतित्वेन तदपेक्षत्वादाश्वलायनस्यादौ तद्व्याख्यानं युक्तम्
अतः कल्पसूत्रं मन्त्रविनियोगेन क्रत्वनुष्ठानमुपदिश्यो-
पकरोति तर्हि “प्र वो वाजा” इत्यादीनां सामिधेनीनामृ-
चामेव विनियोगमाश्वलायनोब्रवीतु “नमः प्रवक्त्र” इत्यादय
स्त्वनाम्नाताः कुतो विनियुज्यन्ते? इति चेत् नायं दोषः
शास्वान्तरसमाम्नातानां ब्राह्मणान्तरसिद्धस्य विनियोगस्य
गुणोपसंहारन्यायेनात्र वक्तव्यत्वात् सर्व्वशाखां प्रत्ययमेकं
कर्मेति न्यायविदः, तस्माच्छिक्षेव कल्पोऽप्यपेक्षितः” ।
कात्या० व्या० कर्केण कल्पशास्त्रप्रयोजनमित्थं दर्शितं यथा--
“इह पुण्यो वै पुण्येन कर्म्मणा भवति” “तमेतं
वेदानुवचनेन विविदिषन्ति ब्रह्मचर्य्येण तपसा श्रद्धया
यज्ञेनेति” “अग्निहोत्रं जुहुयात् स्वर्गकाम” इत्यादिमि-
र्वाक्यैः कर्म्मणां स्वर्गापवर्गादिश्रेयःसाधनत्वं प्रतीयते ।
तानि चाग्निहोत्रादिकर्म्माणि वेदवाक्यैकवेद्यानि ।
वेदवाक्यानि चानेकशास्वावस्थिततया स्वतश्च प्रतिवाक्यं
नानाविधपरस्परविरुद्धार्थस्फुरणेन दुर्बोधार्थानि
बहुभिरर्थवादवाक्यैर्मिश्रितानि च तथाहि “अग्निहोत्रं
जुहुयात् स्वर्गकामः” इत्यत्र किं स्वर्गो होमाय, उत होमः
स्वर्गाय, तथा अग्निहोत्रशब्दोगुणविधानार्थो नामधेयं
येति तथा “स वै संवत्सरं दीक्षाभिरेति” इत्याद्रौ क्वचित्
संवत्सरशब्दस्य मुख्यार्थत्वम् सहस्रसंवत्सरादौ तस्यैव
गौणत्वम् । अर्थवादादिभिश्च पाठात् विध्यर्थवादसंदेहोऽपि
भवति किमयं विधिः? उतार्थवादः? इति यद्य पि जैमिनि
शवरस्वामिकुभट्टमारिलप्रभृतिभिर्मीमांसायां तानि वाक्यानि
संदेहनिरासपूर्व्वकं यथार्थं व्याख्यातानि सन्ति । अधीत
शास्त्राणां च तदार्थावगमोऽपि सुकर एव, तथापि तेषां
नानाशाखाव्यवस्थितत्वेनेदानीन्तनैः सर्वैः पुरुषैरध्येतुं
ज्ञातुं वाऽशक्यत्वात्तदधीनं कर्म्मणां ज्ञानं दुःशक्यमि-
दानीन्तनानामिति मत्वा परमकारुणिको भगवान् कात्या-
यनाचार्य्यो नानाशाखागतविधिवाक्यसंग्रहरूपं कल्पसूत्रं
प्रणीतवान्” । तत्र प्रतिपाद्यविषयाः कात्यायनशब्दे वक्ष्यन्ते
आर्षेयकल्पसूत्रविषयाश्च “अथार्षेयकल्पो व्याख्या-
तव्यः” इत्युपक्रम्य सर्वक्रतुप्रकृतिभूतस्य त्रिपर्वणोज्योति-
ष्टोमस्य सर्वाहर्गणप्रकृतिभूतस्य व्यूढस्य द्वादशाहस्य
च ब्राह्मणवाक्येनैव प्रयोगो दर्शितस्तदुपजीवनेन
क्रत्वन्तराणि प्रयोक्तव्यानीति दर्शयितुमादौ ऋत्वि-
ग्वरणादिकमभिधाय १ प्र० “कॢप्तो ज्योतिष्टोमोऽति-
रात्रः षोड़शिकः” इत्यादिना सौभरमुद्वं शीयमित्यन्तेन
सामविशेषयुक्तस्य प्रायणीयस्य प्रयोगो दर्शितः । ततः “उपा-
स्मै गायता नरः” इत्यादिना अभिप्लवस्य प्रथमाहस्य ।
“पवस्व वाचः” इत्यादिना द्वितीयाहस्य । “दविद्युतत्यारु
चा” इत्यादिना तृतोयाहस्य । “पवमानोअजीजनत्”
इत्यादिना चतुर्थाहस्य । “पवमानस्य विश्ववित्” इत्यादिना
पञ्चमाहस्य । “असृत प्रवाजिनः” इत्यादिना षष्ठाहस्य ।
“पृष्ट्यः षड़हः ससूढो वा व्यूढो वा” इत्यारिवा पृष्ट्य-
षड़हस्य त्यहाणां प्रयोगः । एवम् चतुर्थस्याह्न इत्या-
दिला उत्तरत्र्यहकल्पः । २ ग्र० “पवस्य वाचो अग्रियः”
इत्यादिना अभिजितोऽह्नः कल्पः । “उपास्मै गायता
नरः” इत्यादिना स्वरसाम्नां प्रथमस्य । “पवस्व वाचोऽग्रि
यः” इत्यादिना तेषां द्वितीयस्य “दविद्युतत्यारुचा”
इत्यादिना तृतीयस्य । “उपास्मै गायता नरः” इत्यादिन
विषुवायनानामावृत्तानां स्वरसाम्नाम् कल्पः । “उप त्व
जामयः” इत्यादिना विश्वजितः । “पौरमीढं मानवं
जनित्रम्” इत्यादिना आवृत्तयोः पृष्ट्याभिप्लवयोः, ।
ज्योतिष्टोममाज्येत्यादिना आयुष्टोमस्य । “पवस्व वाचोऽ-
ग्रियः” इत्यादिना गोष्टोमस्य । “उपास्मै गायता नरः”
इत्यादिना महाव्रतस्य । ३ प्र० “कॢप्तो ज्योतिष्टोमः”
इत्यादिना गोः, आयुषः, अभिजितः विश्वजितश्च
महाव्रतस्य । “पवस्व वाचोऽग्रियः” इत्यादिंना प्रथम
पृष्ठ १८१८
साहस्रस्य । “एषैवोत्तरस्य कॢप्तिः” इत्यादिना द्वितीय-
तृतीययोः । “उपास्मै गायता नरः” इति चतुर्थस्य ।
“उपास्मै गायता नरः” इत्यादिना प्रथमसाद्यस्क्रम्य ।
“एषैवोत्तरस्य कॢप्तिः” इत्यादिना साद्यस्क्रत्रिकस्य ।
“पवमानस्य जिन्वते” इत्यादिना श्येनरूपसाद्यस्क्रस्य । “उपास्मै
गायता नरः” इत्यादिना एकत्रिकसाद्यस्क्रस्य । ज्योतिष्टोमं
बहिष्पव मानमित्यादिना प्रथमव्रात्यस्तोमस्य । “एते
असृग्रमिन्दव” इत्यादिना द्वितीयतृतीयव्रात्यस्तोमयोः ।
“अग्रियवती प्रतिपत्” इदित्यादिना चतुर्थव्रात्यस्तोमस्य ।
“अग्न! आयूंषि पवस” इत्यादिना प्रथमस्याग्निष्टुतः ।
“एषैवोत्तरस्य कॢप्तिः” इत्यादिना द्वितीयतृतीयचतुर्था-
नामग्निष्टुताम् प्रजापतेरपूर्व्वस्य वृहस्पतिसवस्य, इषु
नामकयज्ञस्य च । “प्र सोमासो अधन्दिषुः” इत्यादिना
सर्व्वस्वारस्य ।
४ प्र० । “अग्न! आयूंषि पवसे” इत्यादिना वैश्वदेव-
वारुणप्रघसिकैकाहस्य । “कया त्वं न ऊत्या पवस्व”
इत्यादिना वारुणप्रघासिकद्वितीयाहस्य । “उप त्वा
जामयोगिरः” इत्यादिना शाकमेधप्रथमाहस्य । “इन्द्रा-
येन्दो! मरुत्वते” इत्यादिना तदीयद्वितीयाहस्य । “विश्व-
कर्मन् हविषा” इत्यादिना तदीयतृतीयाहस्य शुनासीर्यस्य
च । “पवस्वेन्दो! वृषासुतः” इत्यादिना उपहवस्य ।
“द्वितीयस्य स्वरसाम्न” इत्यादिना ऋतपेयदूणासवैश्य-
स्तोमतीव्रसुद्वाजपेयेषु प्रत्यवरोहणीयाभ्यारोहणीययोः
कल्पः । “वायोः शुक्रो अयामि त” इत्यादिना अभिषेच-
नीयस्य । “राजा मेधाभिरीयते” इत्यादिना दशपेयस्य ।
“केशवपनाय व्युष्टिर्द्विरात्र” इत्यादिना तदीयद्वितीया-
हस्य । इत्थं क्षत्रस्य धृतेश्च । एवमुक्तरूपेण सप्तसुत्यस्य
वाजपेयस्य च ।
५ प्र० “राजा मेधाभिरीयते” इत्यादिना राड्विराड़ो-
रुपसदाम् । “रौरवयौधाजये” इत्यादिना पुनस्तोमस्य
चतुष्टोमस्य च । “उपोषु जात” इत्यादिना उद्भि-
द्बलमिदोरपचितेश्च । “साहस्रं वहिष्पवमानम्” इत्यादिना
सर्व्वस्तोमोपचितेरग्नेः स्तोमयोश्च । “पुनानः
सोमधारया” इत्यादिना ऋषभगोषवमरुत्स्तोमानामिन्द्राग्न्योः
कुलायाश्च । “इन्द्रायोन्दो! मरुत्वत” इत्यादिना इन्द्र-
स्तोमस्य । “पवस्व वाचो अग्निय” इत्यादिना इन्द्रा-
ग्न्योःस्तोमस्य आद्यविघनस्य च । “पवस्व वाचो अग्रियः”
इत्यादिना द्वि तीयविघनस्य । “श्येनमाज्यबहिष्पवमा-
नम् इत्यादिना एकाहसाध्यानां कल्पः । एते एकाह-
साध्या इतुक्तिश्च ।
६ प्र० । “कॢप्तो ज्योतिष्टोमोऽतिरात्रोऽषोड़शिक” इत्या-
दिना ज्योतिष्टोमातिरात्रस्य, आहीनिक्या रात्रे, सर्वस्तो-
माप्तोर्यामस्य, नवसप्तदशस्य, विषुवतः गोआयुषः विश्व-
जिदभिजितोः एकस्तोमानाञ्च प्रथमाहस्य कल्पः ।
“गोराज्यबहिष्पवमानम्” इत्यादिना, उक्तानां ज्योति-
ष्टोमातिरात्रादीनां द्वितीयतृतीयचतुर्थाहानाम् एकस्तो-
मानामाङ्गिरसचैत्ररथकापिवनरूपाणां द्विरात्राणां च
कल्पः । “अभिप्लवस्य प्रथमस्याह्नः” इत्यादिना गर्गत्रि-
रात्रे प्रथमाहस्य । “उपोषु जातम्” इत्यादिना तत्र
द्वितीयाहस्य । “पवस्व वाचः” इत्यादिना तत्र तृतीयाहस्य
कल्पः । “पवस्व वाज सातये” इत्यादिना अश्वमेधत्रिरा-
त्रस्य । “प्रसोमासो विपश्चित” इत्यादिना वैदत्रिरात्रस्य ।
“सांवत्सरिकस्य विषुवतः” इत्यादिना, छन्दोमपवमान-
त्रिरात्रस्य । ये गर्गत्रिरात्रस्येत्यादिना अन्तर्वसुपराक-
त्रिरात्रयोः कल्पः ।
७ प्र० । “उपास्मै गायता नरः” इत्यादिना चतुरह
प्रथमाहस्य । “पवस्व वाचो अग्रियः” इत्यादिना
तदीयद्वितीयाहस्य । “दविद्युतत्यारुचा” इत्यादिना तृती-
याहस्य । “पवमानो अजीजनत्” इत्यादिना चतुर्था-
हस्य । “उपोषु जातम्” इत्यादिना जामदग्न्यचतुरहस्य ।
“या जामदग्न्यस्य” इत्यादिना वाशिष्ठचतुरहस्य ।
प्रसोमासोविपश्चितः” इत्यादिना जाह्नवचतुरहस्य ।
“वैश्वामित्रोद्व्यहः” इत्यादिना देवपञ्चरात्रस्य त्रया-
णामह्नाम् । “पवमानो अजीजनत्” इत्यादिना तदीय-
चतुर्थाहस्य । “पवमानस्य विश्ववित्” इत्यादिना पञ्च-
माहस्य कल्पः । “एष चतुरहोयीदेवानाम्” इत्यादिना
पञ्चशारदीयव्रतमध्वोः । “पृष्ट्यः षड़हः समूढो व्यूढो वा”
इत्यादिना ऋतुषडहायुष्कामपृष्ठ्यालम्बनानां षड़-
हानाम् । “एष एव षड़हो य क्रतूनाम्” इत्यादिना
सप्तर्षीणां प्रजापतेः छन्दोगानां जमदग्नेरिन्द्रस्य च
पञ्चसप्तरात्राणाम् । “या देवानां पञ्चरात्रस्य” इत्यादिना
जनकसप्तरात्रस्य । “एष एव षड़होयः क्रतूनाम्” इत्यादिना
पृष्ठ्यस्तोमस्य सप्तरात्रस्य अष्टरात्रनवरात्रयोश्च कल्पः ।
८ प्र० । “अग्न आयूंषि पवस” इत्यादिना त्रिक-
कुब्दशरात्रस्य द्वयीरह्नोः । “दविद्युतत्यारुचा” इत्या-
दिना तदीयतृतीयाहस्य । “पवमानो अजीजनत्” इत्या-
पृष्ठ १८१९
दिना चतुर्थाहस्य । “पवमानस्य विश्ववित्” इत्यादिना पञ्च-
माहस्य । “असृक्षत प्रवाजिनम्” इत्यादिना षाष्ठाहस्य ।
“ये सोमासः परावति” इत्यादिना मप्तमाहस्य । “पवमाना
असृक्षत” इत्यादिना अष्टमाहस्य । “उपोषु जातम्” इत्या-
दिना नवमाहस्य विश्वजिदतिरात्रस्य च कल्पः । “या
वृहस्पतिसवस्य सा कुसुरुविन्दस्य” इत्यादिना कुसुरुविन्दुदश-
रात्रस्य । “पृष्ठ्यालम्बस्य पञ्चाहः” इत्यादिना छन्दोमदश-
रात्रस्य । “त्रिष्टोमोऽग्निष्टोमोयत्” इत्यादिना देवपूर्दश-
रात्रस्य पुण्डरीकैकादशरात्रस्य च कल्पः । इत्येते
अहर्गणसाध्यत्वात् अहीना इत्युच्यन्तं इत्युक्तिश्च ।
९ प्र० । “द्वादशरात्रस्य षोड़शिमन्तावतिरात्रौ” इत्यादिना
त्रयीदशरात्रयोर्द्वयोः, तृतीयषड़्विंशतिरात्रस्य, चतुर्दश-
रात्राणां त्रयाणां, पञ्चदशरात्राणां चतुर्ण्णाम्, षोड़शरात्र-
स्यैकस्य च कल्पः । एते सत्रसंज्ञा इत्युक्तिश्च । “सप्तदशरात्रे
चत्वार्य्याभिप्लवकान्यहानि” इत्यादिना सप्तदशरात्रस्य,
अष्टादशरात्रस्य, एकोनविंशरात्रस्य च । “विंशतिरात्रे
सांवत्सरिकौ विश्वजिदभिजितौ” इत्यादिना विंशतिरात्रस्य ।
एकविंशतिरात्रयोर्द्वयोः, त्रयोविंशतिरात्रस्य,
चतुर्विंशतिरात्रसम्बन्धिपृष्ठ्यातिरात्रयोश्च कल्पः । “पवस्वेन्दो!
वृषा सुतः” इत्यादिना त्रयोविंशतिरात्रस्य । “उपास्मै
गायता नर” इत्यादिना तदीयप्रथमविशालस्य । “एष
उस्यवृषा रथम्” इत्यादिना तदीयद्वितीयप्रभृतिविशालस्य,
चतुर्विंशतिरात्रस्य च कल्पः । तत्रैकैकोत्तरवृद्धाअष्टौ इत्यु-
क्तिश्च । “नानाब्रह्मसाम्नामतिरात्रः” इत्यादिना नानाब्रह्म-
सामादीनां त्रयाणां त्रयस्त्रिंशद्रात्राणाञ्च तत्र च
एकोत्तरवृद्धानि सप्तेत्युक्तिश्च । “विधृतीनां ज्योतिष्टो-
मोऽतिरात्रोऽषोडशिकः” इत्यादिना विधृतीनाम् । “पृष्ठ्यः
षडहः समूढोवा” इत्यादिना, च विधृतीनाम् । “यमाति-
रात्रासु गीष्टोमस्य” इत्यादिना यमातिरात्रप्रभृतीनां
षण्णाम्, एकपञ्चाशद्रात्रस्य, एकषष्टिरात्रस्य, शतरात्रस्य
सांवत्सरिकस्य गवामयनस्य च कल्पः ।
१० प्र० “मध्ये पृष्ठ्यस्य कॢप्तोऽतिरात्रः” इत्यादिना मध्ये
पृष्ट्यस्य, कॢप्तानां व्यूहाग्निष्टोमेभ्य आद्वितीयादह्नः कल्पः ।
“द्वितीयस्याह्न” इत्यादिना तत्रैव द्वितीयाहादि पञ्चानाम-
ङ्गाम् । “सप्तमस्याह्नः” इत्यादिना सप्तमप्रभृतीनां त्रयाणा-
नह्नाम् । “दशमस्याह्नः पञ्चानाम्” इत्यादिना दशमाह-
प्रभृतिकॢप्तस्य च्छन्दोमदशाहस्य अर्हगणस्य । “अस्य प्रत्ना
सनुद्यतम्” इत्यादिना छन्दोमदशाहप्रथमाहस्य । “पवस्व
वाचो अग्रियः” इत्यादिना छन्दोमद्वितीयाहस्य ।
“दविद्युतत्यारुचा” इत्यादिना छन्दोमतृतीयाहस्य ।
“पवमानो अजीजनत्” इत्यादिना छन्दोमचतुर्थाहस्य ।
उतशुग्रासः” इत्यादिना तदीयपञ्चमषष्ठयोरह्नोः । “ये
सोमासः परावति” इत्यादिना तत्र सप्तमाहस्य ।
“हिन्वन्ति सूरमुस्रयः” इत्यादिना तत्र अष्टमाहस्य ।
“उपोषु जातम्” इत्यादिना नवमदशमयोरह्नोः कल्पः ।
११ प्र० “पुरस्तात् पृष्ठ्यस्य कॢप्तोऽतिरात्रः” इत्यादिना पुर
स्तात् पृष्ट्यस्य, त्रिरात्राभिप्लवस्य, गोः, आयुषश्च कल्पः । “अस्य
प्रत्माममुद्युतम्” इत्यादिना द्वितीये छन्दोमे प्रथमाहस्य ।
“पवस्व वाचो अग्नियः” इत्यादिना तत्र द्वितीयाहस्य ।
“दविद्युतत्यारुचा” इत्यादिना तत्र तृतीयाहस्य । “बभ्रवे
नु स्वतवसे” इत्यादिना तत्र चतुर्थपञ्चमयोः षष्ठस्य च ।
“ये सोमासः परावति” इत्यादिना सप्तमादिदशमान्तानां,
महाव्रतस्यातिरात्रस्य च कल्पः । “विधृतिभिः कॢप्तम्”
इत्यादिना दृतिकुण्डपायिनामयनानां, द्वादशसंवत्सरस्य,
षड्विंशतिसंवत्सरस्य, शतसंवत्सरस्य, अग्नेः सहस्रसा-
ध्यायनस्य च । “प्रथमस्य सारस्वतस्य षोड़शिमन्ता-
वतिरात्रौ” इत्यादिना त्रयाणां सारस्वतीनां, दाषर्दृत-
तैरयोः, सर्पसत्रातिरात्रयोः दशि प्रथमस्य च कल्पः ।
“पवस्व वाचो अग्रियः” इत्यादिना दशि द्वितीयस्य, तत्र
उत्तरषण्मासे विपर्य्यासस्य च कल्पः । इत्येवं यागविशेषे
दिनभेदे सूक्तपाठादिप्रयोगो दर्शितः । अन्येषु आश्वलाय-
नसूत्रादिरूपेषु तेषु प्रतिपाद्यविषयाश्च तत्तच्छब्दे
दृश्याः । कल्पग्रन्थश्च वेदाङ्गभेदः तन्मूलमङ्गशब्दे ७२ पृ०
शिक्षादिवाक्यमुक्तम् तत्र “हलों कल्पो ऽथ पठ्यते”
इत्यत्र वैदिककर्म्मणां विधानज्ञानस्य कल्पग्रन्थाधीनत्वात्
कर्म्मसाधनत्वेन हस्तसादृश्याद्धस्तता । पिवृकल्पः श्राद्धकल्पः
पशुकल्पैत्यादि “कल्पवित् कल्पयामास वन्यामेवास्य
संविधाम्” रघुः । अनुष्ठाने । “वैश्यवच्छौचकल्पश्च” मनुः ।
सपूर्वपदः कल्पप्रत्ययनिष्पन्नस्तु ईषदसमाप्तप्रकृत्यर्थे ।
“एते प्रदीपकल्पाः परस्परविलक्षणगुणविशेषाः” सां०
का० । “कार्य्यं त्वया नः प्रतिपन्नकल्पम्” कुमा० ।
“श्राद्धकल्पात्मकश्च यजुर्वेदपरिशिष्टभागः यजुर्वेदशब्दे
विवृतिः । अथर्ववेदस्यांशभेदरूपकल्पस्तु पञ्चविधः ।
“नक्षत्रकल्पोवेदानां संहितानां तथैव च । चतुर्थः ।
स्यादाङ्गिरसः शान्तिकल्पश्च पञ्चमः” विष्णुपु० । हेमा०
दा० देवीपुराणे च “पञ्च कल्पा मवन्ति नक्षत्रकल्पो
वैतानः संहिताविधिराङ्गिरसः शान्तिकल्पश्च
आथर्वणः” इति ।
"https://sa.wikisource.org/w/index.php?title=वाचस्पत्यम्/कलभ&oldid=57692" इत्यस्माद् पुनः प्राप्तिः