पृष्ठ १८५६

काग पुं स्त्री केति शब्दं गायति गे--क । काके जटा० । स्त्रियां जातित्वात् ङीष् ।

कागद न० कागःकाकवर्ण्णोमस्यादिर्दीयतेऽत्र दा--धञर्थे,क

कागेन कागवर्णेन मस्यादिना दायति शुध्यति वा दै--शोधे
क वा । लेखनाधारे पत्रभेदेतप्प ष्प्पवर्ण्णमस्यादिदाना-
धारत्वात् तेन शुद्धत्वाच्च तथात्वम् । “भूर्जे वा वसने रक्ते
क्षौमे वा तालपत्रके । कागदे वाऽष्टगन्धेन पञ्चगन्धेन
वा पुनः । त्रिगन्धेनैकगन्धेन विलिख्य धारयेन्नरः”
मन्त्रकल्पद्रुमे हनुम्त्कवचम् ।

काग्नि पु० ईषदग्निः कोः कादेशः । ईषदग्नौ मुग्ध० ।

काङ्क्षा स्त्री काक्षि--भावे अ । अभिलाषे “उद्गारशुद्धावपि भक्त

काङ्क्षा” सुश्रु० ।

काङ्क्षिन् त्रि० काक्षि--णिनि । अभिलाषिणि “देवा अप्यस्य

रूपस्य नित्यं दर्शनकाङ्क्षिणः” गीता स्त्रियां ङीप् ।
तदाश्वसिहि भद्रं ते भव त्वं कालकोङ्क्षिणी” रामा० ।

काङ्गा स्त्री कुत्सिकमङ्गमस्याः । वराटिकायाम् शब्दच० ।

काच दीप्तौ अक० बन्धने सक० इदित् भ्वा० आत्म० सेट् ।

काञ्चते अकाञ्चिष्ट चकाञ्चे प्रनिकाञ्चते ।

काच न० कच्यतेऽनेन कच बन्धने करणे घञ् न कुत्वम् ।

(मोम) सिक्थे तस्य बन्धहेतुत्वात्तथात्वम् । काचः क्षार-
मृत्तिकाऽस्त्यस्याकरत्वेन अच् । क्षारनृत्तिकोद्भवे ३
लवणभेदे (कालालोन) । राजनि० । ३ तत्साधने मृत्ति-
काभेदे पु० । (क्षारीमाटी) अमरः । ४ शिक्ये (शिका)
५ मणिभेदे (काँच) मेदि० । “आकरे पद्मरागाणां जन्म
काचमणेः कुतः” काचः काचः मणिर्मणिः” उद्भटः ।
काचश्च सुश्रुते अनुशस्त्रतयोक्तो
यथा“अनुशस्त्राणि तु त्वक्सारस्फटिककाचकुरुविन्दजलौकाग्नि-
क्षारनखगोजीशेफालिकाशाकपत्नकरीरबालाङ्गुलयः” इति ।
“शिशूनां शस्त्रभीरूणां शस्त्राभावे च योजयेत् ।
त्वक्सारादिचतुर्वर्गं छेद्ये भेद्ये च बुद्धिमान्” इति
तदुपयोगविषयस्तत्रैवोक्तः । “पानीयं पानकं मद्यं
मृण्मयेषु प्रदापयेत् । काचस्फटिकपात्रेषु शीतलेषु
शुभेषु च” “काचाम्लकोथान् पटलांश्च घोरान् पुष्पञ्च
हन्त्यञ्जननस्ययोगैः” सुश्रु० । ६ नेत्ररोगवेदे तल्ल-
क्ष्मादि सुश्रुते उक्तं
यथा“तिमिराख्यः स यो दोषश्चतुर्थं पटलं गतः । रुणद्धि
सर्वं तो दृष्टिं लिङ्गनाश इति क्वचित् । अस्मिन्नपि
तमोभूते नातिरूढे महागदे । चन्द्रादित्यौ सनक्षत्रौ अन्त-
रिक्षे च विद्युतः । निर्मलानि च तेजांसि भ्राजिष्णूनीव-
पश्यति । स एव लिङ्गनाशस्तु नीलिकाकाचसंज्ञितः”
व्याकृतमेतत् मावप्र० यथा “यो दोषोनेत्ररोगः चतुर्थं पटलं
बाह्यं पटलं गतः स तिमिराख्यः तिमिरदर्शनेन तिमिर-
मस्यास्तीति तिमिरः अर्शआदित्वात् अच् । तस्य
लक्षणमाह रुणद्धीत्यादि सर्वतः सर्वत्र । लिङ्गनाश इति
क्वचित् तन्त्रान्तरे लिङ्गनाशसंज्ञः । तस्य निरुक्तिश्च ।
लिङ्ग्यते ज्ञायतेऽनेनेति लिङ्गं दृष्टितेजः तस्य नाशोऽ-
स्मिन्निति लिङ्गनाशः । अस्मिन्नपि तिमिरेऽपि तमोभूते
तमस्तुल्ये अत्र भूतशब्दस्तुल्यार्थः “भूतं प्राण्यतीते समे”
इत्यमरात् नातिरूढे अप्रौढे नवे, चन्द्रादित्यौ नक्षत्राणि
च पश्यति अन्तरिक्षे अन्तरिक्षस्य प्रकाशमयत्वेन
तमोऽभिभवात् तेजांसि अग्न्यादेः भ्राजिष्णूनि रत्न-
सुवर्ण्णादीनि । अस्मिन् प्रौढे चिरजे चन्द्रादीन्यपि न
पश्यतीत्याशयः । नीलिकाकाचसंज्ञितः नीकिका काचेति
नामान्तराभ्यां युक्तः” । तन्निदानादि दृष्टिरोगशब्दे
वक्ष्यते । स्वार्थे कन् काचकोऽप्युक्तार्थे ।

काचन न० कच--बन्धने स्वार्थे णिच्--भावे ल्युट् ।

१ पुस्तकादिबन्धने त्रिका० स्वार्थे कन् । काचनक तत्रार्थे
हारा० । का + चन मुग्ध० । २ असाकल्यान्वितायां
किम्शब्दार्थस्त्रियाम् अव्य० । “व्यूढा काचन
कन्यका खलु मया तेनास्मि ताताधिकः” प्रबोधच०

काचनकिन् पु० काचनकमस्त्यस्य इनि । लेखपत्रे जटा०

तस्य काचनकरूपबन्धनवत्त्वात् तथात्वम् ।

काचभाजन न० काचमयं भाजनम् । (काचेरवासन) काचपात्रे त्रिका० ।

काचमल न० काचस्य क्षारमृत्तिकायाः मल इव ।

काचभवे सौवर्चले लवणभेदे राजनि० ।

काचलवण न० काचः काचहेतुकं लवणम् । (कालालोन)

सौवर्चले लवणमेदे राजनि० तस्य क्षारमृत्तिकोद्भव-
त्वात्तथात्वम् । तद्गुणाद्युक्तं सुश्रु० । “लघु सौयर्चलं
पाके वीर्य्योष्णं विशदं कटु । गुल्मशूलविबन्धघ्नं हृद्यं
सुरभि रोचनम्” ।

काचसम्भव न० सम्भवत्यस्मात् सम् + भू--अपादाने अप्

काचः क्षारमृत्तिका सम्भवोऽस्य । काचलवणे सौवर्चले
राजनि० । काचोद्भपमप्यत्र न० ।

काचसौवर्चल न० काचस्थानिकं सौवर्चलम् शा० त० ।

(कालालोन) लवणभेदे । राजनि० ।

काचस्थाली स्त्री काचस्य क्षारस्य स्थालीव । (पारुलगाछ)

१ फलेरुहावृक्षे अमरः । ६ त० । २ काचपात्रेच ।

काचाक्ष पुंस्त्री काच इवाक्षि अस्य षच् समा० । वकभेदे

स्त्रियां जातित्वेऽपि संयोगोपधत्वात् न ङीष् किन्तु
षित्त्वात् ङीष् इति भेदः । अयञ्च प्लवः सबचारी च
पृष्ठ १८५७
सुश्रुतेनोक्तः यथा हंससारसेत्याद्युपक्रमे काचाक्ष-
मल्लिकाक्षेत्यादीनुक्त्वा “प्लवाः संघचारिणश्च” ।

काचिघ पु० कच--दीप्तौ बा० इण् काचिं कान्तिं हन्ति

नच्छति हन--गतौ बा० ड पृषो० हस्य घः । १ काञ्चने ।
२ छेमण्डे (छेमडा) ३ सूचके च मेदि० ।

काचित त्रि० कच--बन्धने णिच् कर्मणि क्त । शिक्यारोपिते अमरः ।

काचित् अव्य० का + चित् मुध० पाणिन्यादिमते द्विपदम् ।

असाकल्यान्विते कापीत्यर्थे । “गोपीभर्त्तुर्विरहविधुरा
काचिदिन्दीवराक्षी” पदाङ्कदूतम् । चयनं चित्
चिसंप० क्विप्--ईषत् चित् कोः कादेशः । ईषच्चयने ।
“प्रियं काचित्करं हविः” ऋ० १०८६, १३ । “काचित्
करम् ईषच्चयनकरम्” ।

काचिम पु० कच--बन्धे णिच्--इमन् । देवकुलोद्भवे भञ्जकवृक्षे त्रिका० ।

काचूक पुंस्त्री कच--दीप्तौ बा० ऊकञ् । १ कृकवाकौ ताम्रचूडे

पीतमस्तके खगे २ कोके चक्रवाके च मेदि० स्त्रियां
जातित्वात् ङीष् ।

काजल न० कुत्सितं जलम् कोः कादेशः । कुत्सितजले मुग्ध०

काञ्चन न० काचि--दीप्तौ भावे ल्युट् । १ दीप्तौ । काचि--दीप्तौ

ल्यु । २ स्वर्णे अमरः । “अमित्रादपि सद्वृत्तममेध्यादपि
काञ्चनम्” “वार्य्यन्नगोमहीवासस्तिलकाञ्चनसर्पिषाम्”
“गोवीजकाञ्चनैर्वैश्यं शूद्रं सर्वैस्तु पातकैः” मनुः । ३ पद्म-
केशरे मेदि० । ४ नागकेशरपुष्पे ५ धने राजनि० ।
६ चम्पके ७ नागकेशरवृक्षे ८ उदुम्बरे ९ धुस्तूरे १० स्वनाम-
ख्याते वृक्षे च पु० मेदि० । स्वार्थे कन् । काञ्चनवृक्षे ।
काञ्चनवृक्षश्च सुश्रुते वातशमनतयोक्तः । भद्रदारुकुष्ठेत्या-
द्युपक्रमे “काञ्चनकभार्गीत्यादिना “समासेन वातसंशमनो-
वर्ग” इति । “काञ्चनारः काञ्चनको गण्डारिः
शोणपुष्पकः । कोविदारश्च मरिचः कुद्दालो युग्मपत्रकः ।
कुण्डली ताम्रपुष्पश्चाश्मन्तकः स्वल्पकोरकः । काञ्चनारो
हिमग्राही तुवरः श्लेष्मपित्तनुत् । कृमिकुष्ठगुदभ्रंश
गण्डमालाव्रणापहः । कोविदारोऽपि तद्वत् स्यात्
तयोः पुष्पं लघु स्मृतम् । रूक्षं संग्रांहि पित्तास्रप्रदर-
क्षयकासनुत्” भावप्र० तत्पर्य्यायभेदगुणाद्युक्तम् ।
काञ्चनमिव कायति कै--क । हरिताले न० राजनि०
शालिभेदे सुश्रु० “लोहितकशालिकलमेत्याद्युपक्रमे” दीर्घ
शूककाञ्चनकेत्यादि “महादूषकप्रभृतयः शालयः” इत्य-
न्तम् । काञ्चनस्य विकारः अण् । ११ काञ्चनविकारे त्रि० ।
“स काञ्चने यत्र मुनेरनुज्ञया” माघः । “निर्लेपं काञ्चनं
भाण्डमद्भिरेव विशुध्यति” मनुः । स्त्रियां ङीप् ।
“तन्मध्ये च स्फटिकफलका काञ्चनी वासयष्टिः” मेघ० ।
किमः द्वितीयान्तात् स्त्रियां चन मुग्ध० । १३ काञ्चिदि-
त्यर्थे अव्य० । “न च काञ्चन काञ्चनसद्मचितिम्” भटुः ।
“न काञ्चन परिहरेत्” छा० उ० । द्विपदमिति बहवः ।
काचि बन्धने भावे ल्युट् । १२ बन्धने न० ।

काञ्चनकदली स्त्री काञ्चनवर्णा कदली । स्वर्णकदल्याम्

(चाँपाकला) राजनि० ।

काञ्चनकारिणी स्त्री काञ्चनं बन्धनं करोति कृ--णिनि

६ त० । शतमूल्यां शब्दच० । तस्या बहुमूलत्वेन बन्धन-
कारित्वात् तथात्वम् ।

काञ्चनक्षीरी स्त्री काञ्चनमिव क्षीरमस्याः गौरा० ङीष् । क्षीरिणीलतायाम् राजनि० ।

काञ्चनगिरि पु० काञ्चनमयस्तत्प्रधानो वा गिरिः शाक०

त० । १ सुमेरुपर्वते हेमच० । २ दानार्थकल्पितस्वर्ण्णाचले च ।
काञ्चनाचलस्वर्णाचलादयोऽप्यत्र ।

काञ्चनपुष्पक न० काञ्चनमिव पीतं पुष्पमस्य कप् । आहुल्य-

वृक्षे राजनि० आहुल्यशब्दे ९०५ पृ० दृश्यम् ।

काञ्चनपुष्पी स्त्री काञ्चनमिव पुष्पमस्य ङीप् । गनिकारी

वृक्षे राजनि० ।

काञ्चनप्रभ पु० ऐलवंश्ये नृपभेदे । ऐलपुत्रवंशोपक्रमे

“अमावसोस्तु दायादो भीमोराजाथ लग्नजित् । श्रीमान्
भीमस्य दायादो राजासीत् काञ्चनप्रभः” हरिवं० २७ अ०

काञ्चनाक्ष पु० दानवभेदे । “काञ्चनाक्षः कपिस्कन्धो व्याघ्राक्षः

क्षितिकल्पनः” हरिवं० २४० अ० ।

काञ्चनार पु० काञ्चनं तद्वर्णमृच्छति पुष्पेण, ऋ--अण् अप०

स० । पीतपुष्पे कोविदारे काञ्चनवृक्षभेदे भावप्र० ।

काञ्चनाल पु० काञ्चनं तद्वर्णमलति अल--अण् उप०

स० । पीतपुष्पे कोविदारे काञ्चनवृक्षभेदे शब्दर० ।

काञ्चनी स्त्री काञ्चते दीप्यतेऽनया काचि--दीप्तौ करणे ल्युट्

ङीप् । १ हरिद्रायाम् मेदि० २ गोरोचनायाम् । काञ्चनं
तद्वर्णः क्षीरेऽस्याः ङीष् । ३ स्वर्णक्षीरिणीवृक्षे च राजनि० ।

काञ्चनीया स्त्री काञ्चनाय दीप्तौ हिता छ । १ गोरोचनायाम्

राजनि० काञ्चनस्येदम् वृद्धत्वात् छ । २ काञ्चनसम्बन्धिनि
त्रि० । “काञ्चनीयाऽपि माला या न सा दुष्यति कर्हि-
चित्” भा० अनु० १०४ अ० ।

काञ्चि(ञ्ची) स्त्री काचि--बन्धने कर्मणि इन् । रशनायाम्

(चन्द्रहार गोट) इत्यादौ कटिबन्धदामभेदे । “स्वकराव-
लम्बनविमुक्तगलतकलकाञ्चि काञ्चिदरुणत्तरुणः” माघः ।
पृष्ठ १८५८
काचि--दीप्तौ कर्त्तरि इन् । २ मोक्षदसप्तपुर्य्यन्तर्गतपुरीभेदे
च “अयोध्या मथुरा माया काशी काञ्चिरवन्तिका । पुरी
द्वारवती चैव सप्तैता मोक्षदायिकाः” काञ्चिरभिजनोऽस्य अण्
तस्य बहुषु लुक् । ३ पित्रादिक्रमेण तत्र वासिषु जनेषु पु०
ब० व० । “मूत्रतश्चासृजत् काञ्चींच्छरभांश्चै वै पार्श्वतः”
भा० आ० १७५ अ० । कृदिकारान्तत्वात् वा ङीप् उक्तार्थे ।
“वारिक्षोभात्तरितविहगश्रेणिकाञ्चीगुणायाः” मेघ० ।
“पुनः पुनः केशरदामकाञ्चीम्” “काञ्चीगुणस्थानमनि-
न्दितायाः” कुमा० । “माहिष्मतीवप्रनितम्बकाञ्चीम्” रघुः ।
मुक्तिस्थानानान्यकेनीत्युपक्रमे “काञ्ची च त्र्यम्बकं चापि
सप्तगोदावरीतटम्” काशी० ६ अ० “जगाम नगरीं काञ्चीं
कान्तां त्रिभुवनादपि । लक्ष्मीकान्तः स्वयं साक्षाज्जन्तूस्तत्र
निवासिनः । श्रीकान्तानेव कुरुते परत्रेह च निश्चितम् ।
दृष्ट्वा काञ्चीं कान्तिमतीं कान्तिमद्भिर्निषेविताम् । कान्तिमान-
भवत् सोऽपि नाकान्तिस्तत्र कस्यचित्” काशीख० । इत्यञ्च
द्विविधा शिवकाञ्ची विष्णुकाञ्ची च पु० प्रसिद्धा । काञ्चीपुरी
च दक्षिणस्यां वृ० स० कूर्म्मविभागे उक्ता । अथ दक्षिणेन
लङ्केत्युपक्रमे काञ्ची “मरुचीपट्टन चेर्य्यार्य्यकसिं हला
ऋषभाः” इति । काञ्चीशब्दस्य प्रस्थशब्दे परे आद्युदा-
त्तता । मेखलाभेदश्च “एकयष्टिर्भवेत् काञ्ची मेखला त्वष्ट-
यष्टिका । रशना षोड़श ज्ञेया कलापः पञ्चविंशकः”
इत्युक्तलक्षणः । अभेदोपचारादन्ययष्टिकायामपि
वत्तिरिति बोध्यम् ।

काञ्चिक न० काचि--बन्धने इन् संज्ञायां कन् । काञ्जिके हेमच० ।

काञ्चि(ञ्ची)पद न० ६ त० । जघने । हेमच० ।

काञ्जिक न० अन्ज--धात्वर्थनिर्देशे ण्वुल् कुत्सिता अञ्जिका

व्यक्तिर्यस्य । आरनाले (काँजि) हेमच० ।
तस्य ग्रणादि साव० प्र० उक्तं यथा “काञ्जिकं रोचनं रुच्यं
पाचनं वह्निदीपनम् । शूलाजीर्ण्णविबन्धघ्नं कोष्ठशुद्धि-
करं परम्” अन्यत्र वैद्यके च “संहितं धान्यमण्डादि
काञ्जिकं कथ्यते जनैः । काञ्जिकम्भेदि तीक्ष्णोष्णं रोचनं
पाचनं लघु । दाहज्वरहरं स्पर्शात् पानाद्वातकफापहम् ।
नाषादिवटकैर्यत्तु क्रियते तद्गुणाधिकम् । लघु वातहरं
तत्तु रोचनं पाचनम्परम् । शूलाजोर्णविबन्धानां
नाशनं वस्तिशोधनम् । धान्याम्लमच्छतरमामनिवारि
हारि शुण्ठीरजोलवणजीरकसंस्कृतं यत् । आवासितं
सुरभि हिङ्गुकणेन यत्नात् तेनाशुशुक्षणिकणोऽधिकतां
प्रयाति । एलामहौषधविभावितमाणिमन्थं संसिद्ध-
मामलकमेदककाञ्जिकं यत् । मन्दं विवर्द्धयति जाठर-
वीतिहोत्रं निर्वाणदीपमिव गन्धकचूर्ण्णयोगः । काञ्जिकं
रुचिदं हृद्यं स्वच्छमग्निकरं परम् । वातहृद्बलदं
श्रेष्ठं गुर्वाहारस्य पाचकम्” । अन्यत्र च “काञ्जिकं
दधितैलन्तु बलीपलितनाशनम् । गात्रशैथिल्यदानाय
मर्द्दनान्न च भक्षणात्” । भावप्र० तद्भेदतद्विधाना-
द्युक्तं यथा--“कुल्माषधान्यमण्डेन संहितं काञ्जिकं
भवेत् । यन्मस्त्वादि शुचौ भाण्डे सगुड़ं क्षौद्र-
काञ्जिकम् । धान्यराशौ त्रिरात्रस्थं शुक्तं चुक्रं
तदुच्यते । तुषाम्बुसंहितम् ज्ञेयमामैर्विदलितैर्यवैः ।
यवेस्तु निस्तुषैः पक्वैः सौवीरं साधितं भवेत् ।
आरनालन्तु गोधूमैरामैः स्यान्निस्तुषीकृतैः । पक्वैर्वा संहितै
स्तत्तु सौवीरसदृशं गुणैः । कल्माषधान्यमण्डादि संहितं
काञ्जिकं विदुः । शिण्डिका संहिता ज्ञेया मूलकैः
सर्षपादिभिः” ।

काञ्जिकवटक पु० (काँजिवडा) प्रसिद्धे भावप्रकाशोक्ते

वटकभेदे तद्विधानगुणादि तत्रोक्तं यथा “मन्थनी नूतना धार्य्या
कटुतैलेन लेपिता । निर्म्मलेनाम्बुनापूर्य्य तस्यां चूर्ण्णं
विनिःक्षिपेत् । राजिकाजीरलवणहिङ्गुशुण्ठीनिशा-
कृतान् । निःक्षिपेद्वटकांस्तत्र भाण्डस्यास्यञ्च मुद्रयेत् ।
ततोदिनत्रयादूर्द्धमम्लाः स्युर्वटका ध्रुवम् । काञ्जिको
वटकोरुच्यो वातघ्नः श्लेष्मकारकः” । शीतोदाहं
शूलमजीर्ण्णं हरते दृगामयेष्वहितः” ।

काञ्जिका स्त्री ईषदञ्जिका अन्ज--ण्वुल् अत इत्त्वम् कोः

कादेशः । १ जीवन्तीलतायां २ पलाशीलतायां राजनि० ।
वैद्यकीक्ते सार्षपकन्देन कृते व्यञ्जनभेदे तल्लक्षणं यथा “सार्ष-
पीक्रन्दली सूक्ष्मा खण्डिता स्निग्धभाजने । स्थापिता मण्ड
सहिता त्वथ वा तण्डुलोदके । सप्तरात्रात् परं चुक्रं
ततः सम्यक् प्रजायते । तस्मादेव समाकृष्य तलयेद्वा-
प्रलेहयेत् । काञ्जिकेति समाख्याता सूदधर्म्मोपजीवकैः ।
सार्षपस्य गुणा ये हि ते चास्या अपि कीर्त्तिताः” ।

काञ्जी स्त्री कं जलमनक्ति अन्ज--अण् उप० स० गौरा०

ङीष् पा०, मुग्ध० षण् ईप् । महाद्रोणीवृक्षे राजनि०

काट पु० कं जलमट्यते प्राप्यतेऽत्र अट--आधारे घञ् ।

१ कूपे निरु० । “इन्द्रं कुत्सो वृत्रहणं शचीपतिं काटे
निबाह्लः” ऋ० १, १०६, ६, “कूटयास्य संशीर्य्यन्ते श्लोणया
काटमर्द्दति” अथ० १२, ४, ३, २ विपममार्गे वेददी०

काटुक न० कटुकस्य भावः युवा० अण् । कटुकरसे ।

पृष्ठ १८५९

काट्य त्रि० काटे विषममार्गे कूपे वा भवः यत् । १ विषममार्ग-

भवे २ कूपभवे च ३ रुद्रभेदे पु० । “नमः काट्याय च
नीप्याय च” यजु० १६, ३७, नमः काट्याय च गह्वरे-
ष्ठाय च” । “काटे कूपे विषममार्गे वा भवः” वेददी० ।

काठ पु० कठ्यते तङ्क्यते कठ--तङ्कने कर्म्मणि घञ् ।

१ पाषाणे त्रिका० । कठस्येदम् अण् । २ कठसंबन्धिनि
त्रि० स्त्रियां ङीप् ।

काठक न० कठानां धर्म्मआम्नायः समूहो वा वुञ् ।

१ कठशाखाध्यायिधर्म्मे ३ तदाम्नाये ३ तत्समूहे च “देवसु-
म्नयोर्यजुषि काठके” पा० कठशब्दे व्याकृतमेतत् ।
“यदरोदीत्तद्रुद्रस्य रुद्रत्वमिति काठकम्” निरु० ।

काठिन्यफल पु० काठिन्यं फलेऽस्य । कपित्थे राजनि० ।

काठेरणि पु० ऋषिभेदे । तस्येदं तत्रभवो वा गहा० छ ।

काठेरणीय तत्सम्बन्धिनि तत्रभवे वा त्रि० ।

काण पुं स्त्री कण--निमीलने संज्ञायां कर्त्तरि घञ् । १ काके

मेदि० स्त्रियां जातित्वात् ङीष् । २ एकचक्षुर्युक्ते त्रि० ।
काणत्वञ्च चक्षुरिन्द्रियशून्यैकगोलकवत्त्वम् । “पौन-
र्भवश्च काणश्च यस्योपपतिर्गृहे” “वीक्ष्यान्धो नवतेः काणः
षष्टेः श्वित्री शतस्य तु” अपाङ्क्तेयकथने मनुः ।
“खञ्जो वा यदि वा काणो दातुः प्रेष्योऽपि वा भवेत्”
“काणं वाप्यथवा खञ्जमन्यं वापि तथाविधम् । तथ्ये-
नापि ब्रुवन् दाप्यो दण्डं कार्षापणं वरम्” मनुः ।
अस्य निरुक्ते ६ अ० “अदायिकाणे विकटे” इत्यृचमधि-
कृत्य अन्याऽपि निरुक्तिर्दर्शिता यथा-- “अदायिनि काणे
विकटे विक्रान्तदर्शने इत्यौपमन्यवः । कणतेर्वा स्यादणू-
भावकर्मणः । कणतिः शब्दाणूभावे भाष्यतेऽनुकण-
तीति मात्राणूभावात् कणादर्शनाणूभावात् काणः” इति
“परोपहासकृत् काणो गां दद्यात् स समौक्तिकाम्” शाता०
परोपहासकर्मविपाकः काणत्वमुक्तम् । मनुना तु
दीपनिर्वाणकर्म्मविपाकत्वमुक्तम् । “दीपहर्त्ता भवेदन्धः काणो
निर्वापको भवेत्” ।

काणभूति पु० वररुचिनामकात्यायनेन वृहत्कथाश्रावणोद्देश्ये

पिशाचत्वप्राप्ते यक्षभेदे । “विन्ध्याटव्यां कुवेरस्य शापात्
प्राप्तः पिशाचताम् । सुप्रतीकाभिधोयक्षः काणभूत्याख्यया
स्थितः” “इत्याख्याय कथामध्ये विन्ध्यान्तः काणभूतये ।
पुनर्वररुचिस्तस्मै प्रकृतार्थमवर्ण्णयत्” इति च वृहत्क०
तदितिवृत्तं तत्रैव दृश्यम् ।

काणुक त्रि० कण--दीप्तौ बा० उकञ् । १ कान्ते २ क्रान्ते

३ पूर्ण्णीकृते च । “इन्द्रः सोमस्य काणुका” ऋ०
८, ७७, ४ । “काणुका कान्तानि क्रान्तानि सोमेन,
कृतानि वा सोमपूर्णानि” भा० । निरुक्ते तु
इमामृचमविकृत्य ५, ११, उक्तं यथा--“काणुका कान्त-
कानीति वा क्रान्तकानीति वा कृतकानीति वा इन्द्रः
सोमम्य कान्त इति वा कणेघात इति वा कणेहतः
कान्तिहत इति” । तत्र पृषो० सर्व्वत्र साधु ।

काणूक पुंस्त्री कणति कण--ऊकण् । वायसे उज्ज्व० ।

स्त्रियां जातित्वात् ङीष् ।

काणेय पुंस्त्री काणायाः अपत्यम् “स्त्रीभ्यो ढक्” पा० ढक् ।

काणाया अपत्ये पक्षे “क्षुद्राभ्यो वा” पा० ढ्रक् । काणेर-
तत्रार्थे पुंस्त्री “क्षुद्राश्च अङ्गहीनाः शीलहीनाश्च”
सि० कौ० । काणेयानां विषयो देशः भैरिका० विधल् ।
काणेयविध तद्विषये देशे ।

काणेली स्त्री १ अनूढायां कन्यायाम् २ असत्यां स्त्रियाञ्च ।

“काणेलीमातः! वामतस्तस्य सार्थवाहस्य गृहम्” मृच्छ० ।

काण्टकमर्द्दनिक त्रि० कण्टकमर्दनेन निर्वृत्तम् अक्षद्यूता०

ठक् । कण्टकमर्दनेन निर्वृत्ते स्वास्थ्यादौ ।

काण्ठेविद्धि पुंस्त्री कण्ठे विद्धः ७ त० सप्तम्याः अलुक्

कण्ठे विद्धऋषिभेदस्तस्यापत्थम् इञ् । कण्ठेविद्धस्यापत्ये
स्त्रियां तु गोत्रप्रत्ययान्तत्वात् वा ष्यञ् पक्षे ङीप् ।
काण्ठेविद्ध्या काण्ठेविद्धी वा ।

काण्ड पुंन० कनी--दीप्तौ ड तस्य नेत्त्वं किच्च दीर्घः ।

१ दण्डे २ वाणे ३ पर्वणि कुत्सिते ४ वर्गे ५ अवसरे
६ जले च अम० । ७ नाले (डाँटा) ८ वृक्षस्कन्धे (गुँडि)
९ स्तम्वे (गुल्मभेदे) १० निर्जने धरणिः ११ नाङीवृन्दे
१२ वृक्षभेदे (शरवृक्षे) मेदि० । १३ श्लाघायां हेमच० ।
टण्डश्चात्र षोड़शहस्तमितः वंशः वंशाटिण्डश्च
“काण्डान्तात् क्षेत्रे” पा० क्षेत्रे यः काण्डान्तो
द्विगुस्ततो न ङीप् तद्धितलुकि सति द्वे काण्डे प्रमाण-
मस्याः सा द्विकाण्डा क्षेत्रभक्तिः । “प्रमाणे दृयसजिति”
पा० विहितस्य मात्रचः “प्रमाणे लोद्विगोर्नित्यमिति”
वार्त्ति० लुक् । क्षेत्रे किं द्विकाण्डी रज्जुः” सि० कौ० ।
“पृषता वरत्राकाण्डेनाहन्ति” कात्या० ८, ७, २७ ।
वरत्राकाण्डेन वंशदण्डेन” कर्कः । वाणे “सविप
काण्डमादाय मृगयामास वै मृगम्” भा० अनु० २६५ ओ० ।
वर्गे “क्षपातमस्काण्डमलीमसं नभः” माघः । “घृक्ष-
काण्डमितो भाति” रामा० । “दूर्व्वाकाण्डमिव
पृष्ठ १८६०
श्यामा” भट्टिः । वर्गश्च एकजातीयसमुदायः “क्रिया-
काण्डेषु निष्णातोयोगेषु च कुरूद्वह!” भाग० ४, २४, ९ ।
“अग्निर्मुखं यस्य तु जातवेदा जातः क्रियाकाण्डनिमित्त-
जन्मा” भाग० ८, ४, २४ । उपचारात् १४ तत्प्रतिपादक-
ग्रन्थे च ब्रह्मकाण्डं कर्म्मकाण्डम् अवसरश्चात्र योग्य-
कालः प्रस्तावश्च तत्र योग्यकाले अकाण्डशब्दे ५३९ उदा० ।
प्रस्तावे अयोध्याकाण्डं लङ्काकाण्डमित्यादि । नालमत्र-
लतादीनां पत्राधारदण्डः (डाँटा)नालारूपञ्च । तत्र नाले
“काण्डमूलपत्रपुष्पफलप्ररोहरसगन्धानां सादृश्येन प्रति-
निधिं कुर्य्यात् सर्वाभावे यवः प्रतिनिधिः” श्रा० त० पैठी० ।
“काण्डं नालम्” रघु० । “पुच्छकाण्डाद्दक्षिणेऽस्थनि” कात्या०
२५, ६, ५ । पुच्छं काण्डमिव नालारूपत्वात् । स्तम्बे
“काण्डात् काण्डात् प्ररोहन्तीः” यजु० १३, १४ ।
“महतः पञ्चमूलस्य काण्डमष्टादशाङ्गुलम्” सुश्रु० ।
स्कन्धे “इक्षुकाण्डानि वा कृष्णसर्पेण दंशयित्वा भक्ष-
येत्” “दूर्वेन्दीवरनिस्त्रिंशार्द्रारिष्टशरकाण्डानामन्यतम-
वर्ण्णः” सुश्रु० “उद्भिज्जाः स्थावराः सर्वे वीजका-
ण्डप्ररोहिणः” “वीजकाण्डरुहाण्येव प्रतानाबल्ल्य एव
च” मनुः । १५ ग्रन्थपरिच्छेदे । मधुकाण्डं श्राद्धकाण्डम्
१६ सन्धिविच्छिन्नैकखण्डास्थ्नि न० । “भग्नं समासात् द्विविधं
हुताशकाण्डे च सन्धौ च हि तत्र सन्धौ । उत्पिष्टवि-
श्लिष्टविवर्त्तितञ्च तिर्य्यग्गतं क्षिप्तमधश्च षट् च” ।
रोगनिश्चयः । “सन्धिविच्छिन्नमेकखण्डेमस्थि काण्डम्” तट्टीका-
काण्डस्यावयवो विकारो वा विल्वा० अण् । १७ काण्डा-
वयवे १८ तद्विकारे च त्रि० १९ अङ्कोठवृक्षे पु० शब्दचि० ।

काण्डकटुक पु० काण्डे स्तम्बेऽपि कटुकस्तिक्तः । कारवेल्ले,

(करेला) राजनि० ।

काण्डकाण्डक पु० काण्डस्य शरवृक्षस्य काण्डमिव काण्डमस्य कप् । काशतृणे राजनि० ।

काण्डकार पु० काण्डं किरति विस्तीर्णतया कॄ--ण्वुल् ।

१ गुवाकवृक्षे शब्दमा० । कृ--ण्वुल् । २ वाणकारके त्रि० ।

काण्डकीलक पु० काण्डे कीलमिव यस्य कप् समा० ।

लोध्रवृक्षे राजनि० । तस्मित् हि कीटसम्बन्धात् कीलमिव
स्कन्धे जायते ।

काण्डगुण्ड पु० काण्डेन गुण्डयति गुडि--वेष्टने अण् । दोघकाण्डे गुण्डनामतृणे राजनि० ।

काण्डगोचर पु० काण्डस्य बाणस्य गोचर इव गोचरोऽस्य ।

लोहनाले नाराचाख्ये अस्त्रभेदे त्रिका० ।

काण्डतिक्त पु० काण्डे तिक्तः । भूनिम्बे (चिराता)

राजनि० । स्वार्थेकन् । काण्डतिक्तक तत्रैव ।

काण्डधार पु० काण्डं घारयत्यत्र धृ--णिच् आधारे अच् ।

१ देशभेदे । स अभिजनोऽस्य तक्षशिला० अञ् । २ काण्ड-
धार पित्रादिकमेण तत्रवासिनि त्रि० ।

काण्डनील च० काण्डे नोलः कीटाकलितत्वात् । लोध्रवृक्षे राजनि० ।

काण्डपट पु० काण्ड इव पटः । (कानात) पटभेदे, हेमच० ।

तस्य हि संकोचे काण्डरूपता भवति । “ततः स्वमेवागार-
मानीय काण्डपटपरिक्षिप्ते विविक्तोद्देशे” दशकु० स्वार्थे
कन् । काण्डपटक तत्रैव । “उत्क्षिप्तकाण्डपटकान्तरलीय-
मानः” माघः ।

काण्डपुङ्खा स्त्री काण्डस्य शरस्य पुङ्खो यस्याः ५ त० । शरपुङ्खावृक्षे राजनि० ।

काण्डपुष्पा स्त्री काण्डात् पुष्पमस्याः “काण्डप्रान्तशतैकेभ्यः

पुष्पात्” पा० ठाप् । द्रोणवृक्षे शब्दच० पुष्पे न० ।

काण्डपृष्ठ न० काण्डं वृक्षस्कन्धैव स्थूल पृष्ठमस्य ।

१ स्थूलपृष्ठे धमुरादौ । काण्डः पृष्ठेऽस्य । २ शस्त्राजीविनि
पु० । “स्त्रीपूर्व्वाः काण्डपृष्ठाश्च यावन्तो भरतर्षभ! ।
अजपा ब्राह्मणश्चैव श्राद्धं नार्हन्ति केतनम्” भा०
अनु० २३ अ० । “अव्रतानामुपाध्यायः काण्डपृष्ठस्तथैव
च” भा० अनु० १० अ० अपाङ्क्तेयकथने । “चिकित्सकः
काण्डपृष्ठः पुराध्यक्षः पुरोहितः” भा० अनु० १३५ अ०
अभोज्यान्नकथने । पाप्रिनां तिर्य्यग्योनितः काण्डपृष्ठता-
प्राप्तिश्च क्रमशो यथा भवति तथा भा० अनु० २८ अ०
निरूपितं यथा “तिर्य्यग्योनिगतः सर्व्वोमानुष्यं यदि
गच्छति । स जायते पुक्कशो वा चण्डालो वाऽप्य-
संशयः । पुक्कशः पापयोनिर्वा यः कश्चिदिह लक्ष्यते ।
स तस्यामेव सुचिरं मातङ्गः परिवर्त्तते । ततोदशशते
काले लभते शूद्रयोनिताम् । शूद्रयोनावपि ततो
बहुशः परिवर्त्तते । ततस्त्रिंशद्गुणे काले लभते
वैश्यतामपि । वैश्यतायां चिरं कालं तत्रैव परिवर्त्तते ।
ततः षष्टित्रये काले लभते ब्रह्मबन्धुताम् । ब्रह्मबन्धुश्चिरं
कालं तत्रैव परिवर्त्तते । ततस्तु द्विशते काले लभते
काण्डपृष्ठताम् । काण्डपृष्ठश्चिरं कालं तत्रैव परिवर्त्तते ।
ततस्त त्रिशते काले लभते जड़तामपि । ताञ्च प्राप्य चिरं
कालं तत्रैव परिवर्त्तते । ततश्चतुःशत काले श्रोत्रियो
नाम जायते” । “स्वकुलं पृष्ठतः कृत्वा योवै परकुलं
व्रजेत् । तेन दुश्चरितेनासौ काण्डपृष्ठ इति स्मृतः”
स्मृत्यन्तरोक्तकर्म्मविपाकः काण्डपृष्ठता । ३ वेश्यापतौ
शब्दकल्पद्रुमः तन्मूलं मृग्यम् ।

काण्डरुहा स्त्री काण्डात् रोहति रुल--क । (कटकी)

१ कटुक्याम् रत्नमाला । २ । स्कन्धरुहमात्रे त्रि० । “वीज-
काण्डरुहाण्येव” मनुः ।
पृष्ठ १८६१

काण्डर्षि पु० काण्डस्य वेदभागभेदस्य ऋषिः तदधिकारेण

विचारकः । वेदभागभेदमीमांसके जैमिन्यादौ त्रिका० ।
तत्र कर्म्मकाण्ड मीमांसको जैमिनिः तेन हि ‘अथातो धर्म्म-
जिज्ञासा’ इत्यादिसूत्रजातेन कर्म्मकाण्डस्य विचारः
कृतः । ब्रह्मकाण्डस्य विचारको वेदव्यासः तेन हि “अथातो
ब्रह्मजिज्ञासा” इत्यादिसूत्रजाते ब्रह्मकाण्डस्य विचारः
कृतः । एवं भक्तिकाण्डस्य विचारकः शाण्डिल्य इति बोध्यम्

काण्डवत् पु० काण्डोऽस्त्यस्य प्रहरणत्वेन मतुप् मस्य वः ।

शरधारिणि (तीरन्दाज) अमरः ।

काण्डवारिणी स्त्री काण्डान् रिपुवाणान् वारयति स्मरणेन

वृ--णिच्--णिनि । दुर्गायाम् “महागजघटाटीपसंयुगे
नरवाजिनाम् । स्मरणात् वारयेत् वाणान् तेन सा
काण्डवारिणी” देवीपु० ४५ अ० देवीनामभेदनिरुक्तौ ।

काण्डलाव त्रि० काण्डं लुनाति लू--अण् उप० स० ।

१ वृक्षस्कन्धच्छेदके काण्डं लवितुम् “अण् कर्मणि च”
पा० । क्रियार्थायां क्रियायां कर्मण्युपपदेऽण् । २ काण्डं
छेत्तुमित्यर्थे । काण्डलावो व्रजति” सि० कौ० काण्डं
छेत्तं व्रजतीत्यर्थः ।

काण्डवोणा स्त्री काण्ड इव स्थूला वीणा । १ स्थूलवीणायां

चाण्डालवीणायाम् । काण्डस्य शरस्य विकारः विल्वा० अण्
काण्डी वीणा कर्म० । २ शरमय्यां वीणायाम् २ “गोधावी-
णाः काण्डवीणाश्च पत्न्योवादयन्त्युपगायन्ति” कात्या० १३,
३, १७ । “शरकाण्डमय्योवीणाः काण्डवीणाः” कर्कः ।

काण्डसन्धि पु० ६ त० । ग्रन्थौ पर्वणि (पाव्) (गाँट) राजनि०

काण्डस्पृष्ट पु० स्पृष्टं गृहीतं काण्डं येन निष्ठान्तत्वात्

परनि० । शस्त्राजीवे अमरः ।

काण्डहीन न० काण्डेन हीनम् ३ त० । भद्रमुस्तके शब्द च० ।

काण्डिका स्त्रौ काण्डोऽस्त्यस्याः प्राशस्त्येन ठन् । १ लङ्काना-

मकधान्यभेदे २ वालुकानामकर्कटीभेदे च राजनि० ।

काण्डिन् त्रि० काण्डः गुलमीऽस्त्यस्य प्राशस्त्येन इनि ।

प्रशस्तगुल्मयुक्ते स्त्रियां ङीप् । “अशुमतीः काण्डिनीर्या
विशाखा ह्वयामि ते वीरुधः” अथ० ८, ७, ४ ।

काण्डीर पु० काण्डोवाणोऽस्त्यस्य इत्यर्थे “काण्डाण्डादीरन्नी-

रचौ पा०” इत्यत्वन ईरन् ईरच्वा । १ वाणास्त्रधा-
रिणि (तीरन्दाज) अमरः “काण्डीरः खाड्गिकः शार्ङ्गी”
भट्टिः वाणाकारशिखावत्त्वात् २ अपामार्गे काण्डवेल इति
ख्याते ३ लताभेदे च राजनि० ४ मञ्जिष्ठायां स्त्री रत्नमाला
अत्रार्थे गौरादित्वात् ङीष् ।

काण्डेक्षु पु० काण्डे इक्षुरिव (ताल्माखना) इति ख्याते काशतृणभेदे राजनि० ।

काण्डेरी स्त्री काण्डं वाणाकारं हस्तिदन्तमिव पुष्पम् ईर्त्ते

ईरङ्--गतौ अण् गौरादेराकृतिगणत्वात् ङीष् पा०,
मुग्ध० षण् ईप् । नागदन्तीवृक्षे रत्नमाला ।

काण्डेरुहा स्त्री काण्डे रोहति रुह--क ७ त० अलुक्स० ।

(कट्की) कटुकीवृक्षे रत्नमा० ।

काण्डोल पु० कण्डोल + प्रज्ञा० स्वार्थे अण् । कण्डोलशब्दार्थे अमरे पाठान्तरम् ।

काण्व पु० काण्व्यस्य कण्वगोत्रापत्यस्य छात्रः कण्वादि० अण्

यलोपः । १ कण्वगोत्रापत्यस्य छात्रे “यजुर्भिरकरोच्छाखा
दशपञ्चशतेर्बिभुः । जगृहुर्वाजसंन्यस्ताः काण्वमाध्यन्दिना-
दयः” भाग० १२, ६, ७७ । २ तदधीतशाखायां स्त्री ङीप् ।
कण्वस्यापत्यं शिवा० अण् । ३ कण्वापत्ये पुं स्त्री “याभिः
काण्वस्योप बहिः” ऋ० ८, १, ८ । “इथा धीमन्तमद्रिवः
काण्वं मेध्यातिथिम्” ८, २, ४० । “काणं कण्वस्य पुत्रम्”
भा० । गोत्रापत्ये तु गर्गा० यञ् । काण्व्य तद्गोत्रापत्ये
बहुषु तस्य लुक् । स्त्रियां गोत्रान्तत्वात् ङीप् यलोपश्च ।
काण्वी तद्गोत्रापत्यस्त्रियाम् । “काण्वीपुत्रात् काण्वीपुत्र” वृ०
उ० वेदवंशवर्णने । ततः स्त्रियां लोहिता० फक् । काण्वा-
यनी । ततोयून्यपत्ये तु “यञिञोश्च ४ । १ । १०१” पा० फक् ।
काण्व्यायन तदीययुवापत्ये पुंस्त्री । कण्वेन दृष्टं साम अण् ।
४ कण्वदृष्टे सामभेदे । “कौत्सं भवति काण्वं भवति”
श्रुतिः । तच्च साम गेय(वे)गाने १६ प्रपाठके दृश्यम् ।

कात् अव्य० कुत्सितमतत्यनेन अत--आधारे क्विप् कोः

कादेशः । तिरस्कारे तिरस्कारस्य कुत्सितप्राप्तिहेतुत्वा-
त्तथात्वम् । “यन्मयैश्चर्य्यमत्तेन गुरुः सदसि कात्कृतः”
भाग० ६, ७, ९ । “कात्कृतस्तिरस्कृतः” श्रीधरः ।

कातन्त्र न० ईषत्तन्त्रमस्य कोः कादेशः । कालापकव्याकरणे

तच्च कार्त्तिकेयप्रसादेन सर्ववर्मणा कृतं यथोक्तं वृहत्-
कथासारे सर्ववर्माभ्यभाषतेत्युपक्रमे “ततोऽन्तःपभणा
तेन स्कन्देन मम दर्शनम् । दत्तं तत्र प्रविष्टा मे मुखे
मूर्ता सरस्वती । अथासौ भगवान् साक्षात् षड्भि-
राननपङ्कजैः । “सिद्धोवर्णसमाम्नायः” इति सूत्रमु
दैरयत् । तच्छ्रुत्वैव मनुष्यत्वसुलभाच्चापलात् परम् ।
उत्तरं सूत्रमभ्युह्य स्वयमेव मयोदितम् ।
अथाब्रवीत् स देवो मां नावदिष्यः स्वयं यदि । अमविष्य-
दिदं शास्त्रं पाणिरीयोपमर्दकम् । अधुना स्वल्पतन्त्रलात्
पृष्ठ १८६२
कातन्त्राख्यं भविष्यति । मद्वाहनकलापस्य नाम्ना काला-
पकं तथा । इत्युक्त्वा शब्दशास्त्रं तत्प्रकाश्याभिनवं
लघु । साक्षादेव स मां देवः पुनरेवमभाषत”

कातर त्रि० ईषत्तरति स्वकार्य्यसमाप्तिं गच्छति तॄ--अच् कोः

कादेशः । १ अधीरे, व्यसनाकुले अमरः २ भीते, ३ विवशे,
४ चञ्चले च । “घेन्वा तदध्यासितकातराक्ष्या” रघुः ।
“तयोः समापत्तिषु क्रातराणि” कुमा० । “कातरोऽपि
यदि चोद्गतार्चिषा” रघुः । “मद्गेहिन्याः पिय इति
सखे! चेतसा कातरेण” मेघ० । “विद्धा मृगी व्याध-
शिलीमुखेन मृगोऽपि तत्कातरवीक्षणेन” उद्भटः । के
जले आतरति प्लवते न तु विशेषती मज्जति । ५ उडुपे ।
(कातला) ६ मत्स्यभेदे पुंस्त्री स्त्रियां जातित्वात् ङीष् ।
७ ऋषिभेदे पु० ततः गोत्रे नड़ा० फक् । कातरायण
तद्गोत्रापत्ये पुंस्त्री । भावे ष्यञ् । कातर्य्य व्याकुल-
तायां न० “कातर्य्यं केवला नीतिः शौर्य्यं श्वापदचेष्टितम्”
रघु । तल् कातरता स्त्री, त्व कातरत्व न० तदर्थे ।

कातल पु० कस्य जलस्य न तलमस्ति स्पृश्यत्वेनास्य अच् ।

(कातला) १ मत्स्यभेदे राजमि० । स्त्रियां जातित्वात्
ङाष् । “कातलो मधुरश्चोष्णोगुरुपाकी त्रिदोषकृत्”
वैद्य० । २ ऋषिभेदे च ततः गोत्रापत्ये नडा० फक् ।
कातलायन तदपत्ये पुंस्त्री स्त्रियां गोत्रत्वात् ङीष् ।

काति स्त्री कै--शब्दे क्तिन् । स्तवे ऋणकातिशब्दे उदा० ।

कातीय त्रि० कात्यायनस्य छात्रः तस्येदं वा “वृद्धाच्छः”

पा० छ तत्र फको वा लुक् । १ कात्यायनच्छात्रे २
तत्सम्बन्धिनि च त्रि० । कातीयं श्रौतसूत्रं गृह्यसूत्र
मित्यादि पक्षे न लुक् । कात्यायनीय तदर्थे त्रि० । कातीय
श्रौतसूत्रप्रतिपाद्यविषयाश्च कात्यायनशब्दे दृश्याः ।

कातु पु० कं जलमतति सातत्येन गच्छति अत--उन् ६ त० ।

कूपे निरु० तस्य ग्रीष्मे निःशेषेण शोषणाभावात् तथात्वम्

कात्थक्य पु० कत्थ--श्लाघायाम् ण्वुल् कत्थकः स्वार्थे ष्यञ्

अग्निभेदे निरु० । “यज्ञैध्म इति कात्थक्योऽग्निरिति”
शाकपूणिः । “नाराशंसो यज्ञ इति कात्थक्यः नरा
अस्मिन्नासीनाः शंसन्ति अग्निरिति शाकपूणिः । इति च
निरु० ८, ५, ६,

कात्य पुं स्त्री कतस्यर्षेःगोत्रापत्यम् गर्गा० यञ् । कतर्षिगोत्रापत्ये ।

कात्यायन पु० कतस्य गोत्रापत्यं युवा गर्गा० यञ् यञन्तत्वात्

यनि फक् । कतस्य युवगोत्रापत्ये ऋषिभेदे । स च त्रिविधः
विश्वामित्रवंश्या, गोभिलपुत्रः, कतवंश्यसोमदत्त
द्विजपुत्रः वसुदत्तागर्भजः वररुचिनाम्ना ख्यातश्च । तत्र
विश्वामित्रगोत्रोत्पन्नः हरिवं २८३० उक्तोयथा ।
“विश्वामित्रस्य च सुता देवरातादयः स्मृताः । विख्याता-
स्त्रिषु लोकेषु तेषां शीलानि ये शृणु । देवश्रवाः
कतश्चैव यतः कात्यायनाः स्मृताः” इति ।
अयञ्च गोभिलपुत्रकात्यायनात् भिन्नः । गोभिलपुत्र-
कात्यायनेन च कर्मप्रदीपाख्यं छन्दोगपरिशिष्ट-
रूपं शास्त्रं प्रणीतं तस्येदमादिमं वचनम् । “अथातो
गोभिलोक्तानामन्येषाञ्चैव कर्म्मणाम् । अस्पष्टानां तथा
सम्यग्दर्शयिष्ये प्रदीपवत्” । तत्र १ प्रपाठके १० खण्डाः
तत्र १ ख० यज्ञोपवीतादिपरिभाषा । २ ख० श्राद्धदृव्यादि
परिभाषा । ३ ख० अक्रियादित्रैविध्यादिकथनपूर्वकं श्राद्ध-
विधिनिरूपणम् । ४ ख० पिण्डदानविधानम् । ५ ख०
नान्दीमुखश्राद्धादिकर्त्तव्यताविधानानि । ६ ख० अग्न्या-
धानादिकालाधिकारिधर्मविधानम् । ७ ख० अरणीनिर्माण-
प्रकारादि । ८ ख० अग्न्युद्धारप्रकारादि । ९ ख०
अग्निहोत्रकालादितद्विधानादि । १० ख० दन्तधावन-
स्नानादिविधानम् उपाकर्म्मोत्सर्गादिस्नानादिविधानञ्च ।
२ प्रपाठके नव खण्डाः । तत्र १ ख० सन्ध्योपासन-
कालादितद्विधानानि । २ ख० तर्पणप्रकारादि । ३ ख०
पञ्चयज्ञविधानप्रकारादि । ४ ख० वैश्वदेवविधानप्रकारः ।
५ ख० दक्षिणादानादिप्रकारः । ६ ख० अमावास्यादि-
श्राद्धकालव्यवस्था तद्विधानप्रकारश्च । ७ ख० कर्षूनि-
र्माणप्रकारः श्राद्धविधानप्रकारश्च । ८ ख० दर्शपौर्णमास-
विधानप्रकारः । ९ ख० प्रवासगमनकाले साग्निकस्य कर्त्तव्य-
विशेषकथनम् ।
तृतीयप्रपाठके । १ खण्डाः । तत्र १ ख० साग्निकस्य पत्नी-
मरणे कर्त्तव्यविशेषविधानम् । २ ख० साग्नेर्दाहप्रकारः ।
३ ख० शवस्पर्शिकर्त्त व्यभेदविधानम् साग्निकस्य विदेशमरणे
दाहविधानञ्च । ४ ख० सूतके सन्ध्यादित्यागेऽपि श्रौत-
कर्मणामनुष्ठानविधानम् । ५ ख० पुंसवनादिक्रियाङ्ग-
होमाहुतिसंख्याविशषकथनं शुङ्गापतिव्रताबह्मबन्धुशलाटु-
ग्रन्थकपुष्णिकाकपुच्छलकृषरादिशब्दपरिभाषा ब्रह्म-
चारिकर्त्तव्यविधानञ्च । ६ ख० समशनीयचरुकर्त्त-
व्यताविषयोपदर्शनम् नवयज्ञकालकथनञ्च । ७ ख०
विहितकर्मातिक्रमे प्रायश्चित्तविशेषविधानम्, अनृचैण-
रुरुशंवरशब्दपरिभाषा । ८ ख० वर्णभेदेन दण्डप्रमाणकथ-
नम्, ग्राह्यदर्भनिरूपणञ्च । दक्षिणायां गोः प्रवर-
पृष्ठ १८६३
तोक्तिः उपाकर्मप्रकारश्च । ९ ख० यवधानादिशब्दानां
पारिभाषिकार्थकथनम् । वेदोत्सर्गकथनं तत्र बलिप्रकारः
सूतकादिना तदकरणे आग्रहायणिककर्त्तव्यताविधानम्
तत्र बलिदानवर्जनञ्च । त्रैयम्बकमण्डकगोलकचीवरशब्द-
परिभाषा । अनुमन्त्रणप्रकारः । १० ख० । पशुसं-
स्कारस्थानविशेषकथनम् । पश्ववदाने एकादशस्थान-
कथनम् । पश्वभावे पायसपिण्डैः होमविधानम् श्राद्धे
पिण्डदानप्राधान्यं गयादौ पिण्डमात्रदानदर्शनादिति
परमतमुक्त्वा अन्नदानस्य प्राघान्यमिति स्वमतकथनम् ।
आमश्राद्धविधाने पिण्डाभाव इत्युक्तिः । द्वीपार्घ्यमधु-
पर्कादिशब्दपरिभाषा” ।
अनेनैव धर्म्मसंहिता कृता । “मन्वत्रिविष्णुहारीत-
याज्ञवल्क्योशनोऽङ्गिराः । यमापस्तम्बसंवर्त्ताः कात्यायन-
वृहस्पती” इत्युपक्रमे “धर्मशास्त्रप्रयोजकाः” याज्ञ० ।
तत्र च प्रायेणाष्टादशविवादनिर्णयः । कातीयश्रौत-
गृह्यसूत्रसर्वानुक्रमणिकादिकमनेनैव कृतम् । वररुचि-
नामकात्यायनश्च पुष्पदन्तावतारस्तत्कथा च वृहत्-
कथायाम् । सुप्रतीकयक्षावतारकाणभूतये स्वजन्मादि
श्रावणरूपशापान्तमुपवर्ण्य स्वजन्मकथादि तत्रोक्तं यथा ।
“ततः स मर्त्यवपुषा पुष्पदन्तः परिभ्रमन् । नाम्ना
वररुचिः किञ्च कात्यायन इति श्रुतः । पारं संप्राप्य
विद्यानां कृत्वा नन्दस्य मन्त्रिताम् । खिन्नः समाययौ
द्रष्टुं कदाचित् विन्ध्यवासिनीम्” इत्युपक्रम्य तस्य
काणभूतिना सह मेलने जाते काणभूतिना निजशापा-
दिवृत्तान्ते उक्ते । “इत्थं मे शाषदोषोऽयं पुष्पदन्तागमा-
वधिः । इत्युक्त्वा विरते तस्मिन् काणभूतौ च
तत्क्षणम् । स्मृत्वा वररुचिर्जातिं सुप्तोत्थित इवावदत् ।
सएव पुष्पदन्तोऽहं मत्तस्ताञ्च कथां शृणु । इत्युंक्त्वा ग्रन्थ-
लक्षेण सप्त सप्त महाकथाः । कात्यायनेन कथिताः
काणभूतिस्ततोऽब्रवीत्” इत्युपक्रम्य “तद्ब्रूहि निजवृत्तान्तं
जन्मनः प्रभृति प्रभो!” इति काणभूतिप्रश्ने “ततो
वररुचिस्तस्य प्रणतस्यानुरोधतः । सर्वमाजन्मवृत्तान्तं
विस्तरादब्रवीदिदम् । कौशाम्ब्यां सोमदत्ताख्यो नाम्ना
ग्निशिख इत्यपि । द्विजोऽभूत् तस्य भार्या च वसुदत्ताभि
धाऽभवत् । तस्यां तस्मात् द्विजवरात् एष जातोऽस्मि-
शापतः” इति स्वजन्ममूम्यादिकमुक्तम् । पश्चाच्च व्याड़ि-
समीपे तन्मात्रा तस्य जन्मवृत्तान्तो यथा वर्णितस्तदप्यु-
क्तं तत्रैव “तथा हि पूर्वं जातेऽस्मिन्नेकपुत्रे मम स्फुटा ।
गगनादेवमुदभूदशरीरा सरस्वती । एकश्रुतिधरो जातो
विद्यां वर्षादवाप्स्यति । किञ्च व्याकरणं लोके प्रतिष्ठां
प्रापयिष्यति । नाम्ना वररुचिश्चायं तत्तदस्मै हि रोचते ।
यद् यद् वरं भवेत् किञ्चिदित्युक्त्वा वागुपारमत्” इत्थं
तज्जन्मकथान्ते व्याडीन्द्रत्ताभ्यां तन्मातुः सकाशादभ्यर्थ्यतं
गृहीत्वा तेन सह वर्षसमीपं गतमित्यप्युक्तं तत्रैव
यथा “व्याडीन्द्रदत्तौ तरसा निर्गतौ नगरात्ततः । अथ
क्रमेण वर्षस्य गृहं प्राप्ता वयं गुरोः” इत्युपक्रमे
“अध्यापयितुमस्मांश्च प्रवृत्तोऽभूदसौ ततः । सकृच्छ्रतं
मया तत्र, द्विःश्रुतं व्याड़िना तथा । त्रिःश्रुतञ्चेन्द्र-
दत्तेन गुरुणोक्तमगृह्यत” इति स्वस्य वर्षसमीपेऽध्ययनं
वर्ण्णितम् । “अथ कालेन वर्षस्य शिष्यवर्गो महा
नभूत् । तत्रैकः पाणिनिर्नाम जडबुद्धितरोऽभवत् ।
स शुश्रूषापरिक्लिष्टः प्रेषितोवर्षभार्य्यया । अगच्छत् तपसे
खिन्नो विद्याकामो हिमालयम् । तत्र तीव्रेण तपसा
तोषितादिन्दुशेखरात् । सर्वविद्यामुखं तेन प्राप्तं व्याकरणं
नवम् । ततस्तत्रावयोर्वादे प्रयाताः सप्त वासराः । अष्ट-
मेऽह्नि मया तस्मिन् जिते तत् समनन्तरम् । नमःस्थेन
महाघोरो हुङ्कारः शम्भुना कृतः । तेन प्रनष्टमैन्द्रं
तदस्मद्व्याकरणं भुवि । जिताः पाणिनिना सर्वे मूर्खी-
भूता वयं पुनः” । “अत्रान्तरे तुषाराद्रौ कृत्वा तीव्रतरं
तपः । आराधितो मया देवो वरदः पार्वतीपतिः ।
तदेव तेन शास्त्रं मे पाणिनीयं प्रकाशितम् । तदिच्छानु-
ग्रहादेव मया पूर्णीकृतं च तत्” ।
अनेनैव पाणिनिव्याकरणतात्पयप्रकाशकः परिशिष्टरूपो
वार्त्तिकपाठोनिरमायि स च “सिद्धे शब्दार्थसम्बन्धे
लोकतोऽर्थप्रयुक्ते शब्देप्रयोगे शब्देन धर्म्मनियमः” इत्या
दिकः अष्टाध्याय्यात्मकः । वृहत्कथायाम् “तदैवानीय
दत्ता मे योगनन्देन मन्त्रिता” इत्यनेन वररुचेस्तन्मन्त्रि-
ताकरणं वर्णितम् । तेन पाणिनेर्वररुचिनामकात्यायनस्य
च योगनन्दसमकालता प्रतीयते । वृहत्कथाया
इदानीमप्राप्यत्वेऽपि तत्कथासारस्याधुनोपलम्भात् तत्र च
यथावर्णितकालताऽवगम्यते वृहत्कथासारस्य चाप्रामाण्यं
नाशङ्कनीयं तत्कथासारे “यथामूलं तथैवैतन्न मनाग-
प्यतिक्रमः । ग्रन्थविस्तरसंक्षेपमात्रभाषा च भिद्यते”
इत्युक्त्या वृहत्कथामूलकतायास्तत्कथासारस्योक्तेः । स
च कतगोत्रापत्यत्वात् कात्यायनः । अतएव हरिवं०
“ततः कात्यायनाः स्मृताः” इति बहुत्वनिर्दशात् अन्य-
पृष्ठ १८६४
स्यापि तद्गीत्रभवयुवापत्यस्य कात्यायनत्वमिति भूतस्य
भविष्यतो वा स्यादिति सूचितम्” इति । ततः प्राचीनेन
कात्यायनेन शुक्लयजुर्वेदविहितकर्म्मणामनुष्ठानज्ञापकं
षड्विंशत्यध्यायात्मकं कातीयं श्रौतसूत्रं गृह्याख्यं
सूत्रञ्च प्रणीतम् । तत्र श्रौत्रसूत्रे १ अध्याये १ कण्डि-
कायां २१ सूत्राणि । तत्र अग्न्याध्यानादिषु अधीतसार्थ-
वेदानां द्विजानां सपत्नीकानाम् रथकारस्य चाधिकारः ।
अङ्गहीनक्लीवपतितशूद्राणामनधिकारः । निषादस्थ-
पतेर्गावेधुके चरावधिकारः । अवकीर्ण्णिनश्च प्रायश्चित्त
रूपगर्द्दभेज्यायाम् । तत्र गावेधुकचरुरवकीर्ण्णिगर्द्द-
भेज्या च लौकिकेऽग्नौ कार्य्या । गर्द्दभेज्यायां पुरोडाश
श्रपणं भूमावेव न कपाले कार्य्यम् । तत्र अवदानहोम
उदके एव नाग्नौ, अन्यदाघारादि अग्नावेव । प्राशित्रं
गर्द्दभस्य शिश्नादवदेयम् । श्रौतं कर्म्म वैतानिकेषु
विहारार्थेषु गार्हपत्याहवनीयदक्षिणाग्निषु कर्त्तव्यम् ।
स्मार्त्तन्तु आवसथ्येऽग्नौ कर्त्तव्यम् । गृहारम्भे मांस-
पाकनिषेधः ।
२ क० २३ सू० । तत्र देवतोद्देशेन द्रव्यत्यागोयाग इति
यागलक्षणम् दर्शपौर्ण्णमासादिशब्दवाच्यार्थस्त्यागविशेषः ।
तस्य च प्राधान्यं, तत्प्रकरणपठिताग्न्यान्वाधानादि-
ब्राह्मणदक्षिणान्तस्य कर्म्मजातस्याङ्गत्वम् । एवं प्रयाजादयः
पूर्ब्बाघारादिहोमाश्च तदङ्गानि । तिष्ठता होमः वषट्कार
प्रदानः यजतिशब्दार्थः तत्र याज्यापुरोऽनुवाक्ये च ।
उपविष्टेन स्वाहाकारप्रदानो होमः जुहोतिशब्दार्थः ।
सर्व्वकर्म्मसु ब्राह्मणा एव ऋत्विजः, न क्षत्रियवैश्याः
तेषा हविःशेषभक्षणनिषेधात् । फलेच्छासत्त्वे कास्य-
कर्म्माणि कर्त्तव्यानि नावश्यम् । नित्यानि तु अग्निहोत्रा-
दान्यवश्यं कर्त्तव्यानि अकरणे दोषश्रवणात् । दोक्षितेन
सत्यवचमाधःशयनब्रह्मचर्य्यादिनियमाः अवश्यं कार्य्याः ।
गृहदाहादिनिमित्त धनहानिनिमित्तं च प्रायश्चित्त-
मवश्यं कार्य्यं न तस्य इच्छयानुष्ठानम् । नित्यानि
यथाशक्त्यङ्गयुक्तान्यपि कार्य्याणि । काम्यानि तु सर्व्वाङ्गो-
पेतान्येव । कामनासत्त्वेऽपि यदा यथाश्रुताङ्गानि कर्त्तुं
शक्यन्ते तदैव काम्यं कार्य्यं नान्यदा ।
३ क० ४२ सू० । तत्र ऋग्यजुःसामप्रैषभेदेन मन्त्राश्चतु-
र्विधाः । ऋगादिलक्षणम् (ऋग्वेदशब्दे उक्तम्) । यजुषां
यावति पदसमूहे उच्चरिते पदसमूहोनिराकाङ्क्षोभवति ।
तावत्परिमितमेकं वाक्यं कर्म्मकाले प्रयोक्तव्यम् ।
यत्र तु मध्ये पठितैः पदैर्यजुर्निराकाङक्षं न भवति
तत्र पदान्तरं योग्यमध्याहृत्य पूर्ब्बपठितं वानुषज्य
निराकाङ्क्षीकृत्य प्रयोज्यम् । प्रयोगे मन्त्राः कर्म्मारम्भे
प्रयोज्याः । यजुर्व्वेदमन्त्राश्च उपांशु प्रयोज्याः ऋग्वेद-
सामवेदयोस्तु मन्त्राउच्चैःप्रयोज्याः । याजुषा अपि
प्रैषा उच्चैःप्रयोज्याः । कुशजातिमात्रं बर्हिःशब्दार्थः ।
अग्न्यगारादौ वसोर्धाराहोमादौ च विशेषसंख्या-
नुक्तौ यावता कार्य्यसिद्धिस्तावत्संख्या ग्राह्या । इध्म-
बर्हिर्बन्धार्थानि संनहनानि विषमसंख्यतृणमुष्टिवद्धा-
नीति । संनहने भेदस्तु प्रागग्रे संहनने उदग्रं
बहिर्निधाय संनहनेन दृढं बद्धा बर्हिमूलभागे ग्रन्थिमुप-
गूहेत्, उदगग्रे संनहने तु प्रागग्रमिध्मभागं निधायेध्ममूले
ग्रन्थिमुपगूहेत् इति । अष्टादशसंख्यारत्निमात्रकाष्ठकः
तथाभूतैकविंशतिकाष्ठको वा पालाशस्तदभावे वैकङ्कतः
इध्मः कार्य्यः । तदभावे श्रीपर्ण्णवृक्षभवः वैण्वः
औदुम्बरःखादिरो वा तत्तदभावे इध्मस्तथाभूतः कार्य्यः ।
इध्मादेव त्रीणि काष्ठान्यादाय परिधिपरिधानं कुर्य्यात् ।
सामिधेनीवृद्धौ चेध्मकाष्ठवृद्धिः पित्र्यादौ सामिधेनी-
ह्रासेऽपि नेध्मसंख्याह्रासः । अग्निप्रणयनार्थ इष्म
उक्तसंख्याधिककाष्ठकोऽपि भवति । इष्टकापशौ अष्टा-
विंशतिप्रभृतिभिस्तथाभूतकाष्ठैः इध्मः कार्यः । सच त्रिभिः
संहननैर्मूलभागे बद्धः कल्प्यः । दर्शपौर्णमास एव
वेदकरणम् । सूत्रे आङ्शब्दार्थोऽभिविधिरिति प्रतिज्ञा ।
सर्वकर्म्मस्वनुक्तमपि गार्हपत्यात् आहवनीयदक्षिणाग्न्यो-
रुद्धरणं कार्य्यम् । अन्यकर्मार्थमुद्धृतयोस्तयोरागन्तुका-
न्यकार्य्यापाते तत्करणं नोद्धरणान्तरम् । यथा दर्शा-
द्यर्थमुद्धृतयोस्तयोः प्राप्तकालाग्निहोत्रहोमः । यत्कर्मा-
र्थमुद्धृतौ तो तत्समाप्तौ लौकिकावेव भवतः । तत ऊर्द्ध्वं
तत्राहवनीयादिविहितं कर्म्म न कार्य्यं तयोः लौकिकत्वोप-
देशात् । तेन यत्र पौर्ण्णमासादौ पृथक्तन्त्रा बह्व्यः इष्ट-
यः सन्ति तत्र प्रतीष्टि पृथगग्न्युद्धरणेन ताः कार्याः ।
तथा च न सकृदुद्धृतयोः सर्वत्रोपयोगः । खादिरस्रुवादी-
नां क्वचिदनुक्तौ प्रकृतिवत् विकृतावपि कार्य्यता । स्रुव-
स्फ्यस्रुग्जुहूप्रभृतिहोमसाधनपदार्थानां लक्षणम् । तानि
च तद्भाष्ये विवृतानि यथा (खादिरः स्रुवोऽङ्गुष्ठपर्व-
वृत्तपुष्करो नासिकावत्पर्व्वार्द्धखातो भवति । स्फ्यश्च
खादिरः खड्गाकृतिररत्निमात्रः स्रुचो बाहुमात्र्यो
मूलदण्डास्त्वग्बिला हंसमुखसद्वशैकप्रणालिकायुक्ताः पा-
पृष्ठ १८६५
णिमात्रपुष्करास्तावत्खातयुक्ताश्च कार्य्याः । पाला-
शी जुहूः । उपभृदाश्वत्थी, वैकङ्कती ध्रुवा, एतेषां
वृक्षाणामेकस्य वा सर्व्वाः स्रुचः कारयेत् । अग्नि-
होत्रहवणी वैकङ्कती, अग्निहोत्रस्रुवो वैकङ्कतः । यैः
पात्रैर्होमोन क्रियते तानि सर्वाणि वारणानि भवन्ति
तानि चोलूखलमूसलकूर्चेडापात्रीपिष्टपात्रीपुरोडाशपात्री-
शम्याशृतावदानाभ्र्युपवेषान्तर्द्धानकटप्राशित्रहरणषड़वत्त
ब्रह्मासनादीनि । तत्रोलूखलमूसलौ लोकप्रसिद्धौ । कूर्चो
बाहुमात्रः पीठाकारः । इडापात्री पिष्टपात्र्यौ
अरत्निमात्र्यौ मध्यसंगृहीते । पुरोडाशपात्री प्रादेश-
मात्री समचतुरस्रा षड़ङ्गुलवृत्तखातवती । शम्या प्रादेश
द्वादशाङ्गुला । प्राशित्रहरणं वृत्तमादर्शाकारं वतुरस्रं
चमसाकारं वा तथैव द्वितीयमपिधानपात्रम् । षड़वत्तं
चोभयत्र खातवत् । आसनानि चारत्निमात्रदीर्घाणि
प्रादेशमात्रविपुलानि । सर्वेषु पात्रेषु मूलाभिज्ञानार्थं
वृन्तानि कार्याणि । अनादशे सोमसाधनपात्राणि
वैकङ्कतानि कार्य्याणि । षोड़शिनः पात्रं खादिरं
चतुरस्रम् । अंश्वदाभ्यपात्रमौदुम्बरम् । वाजपेये सप्त-
दशग्रहपात्राणि वरणवृक्षभवानि । सुराग्रहपात्राण्यपि ।
मृण्मयानि वा” । इष्टिसु प्रणीतोत्करावन्तरेण सर्वेषां
गमनागमनार्थो मार्गः, सोत्तरवेदिकेषु कर्मसु चात्वालोत्-
करयोरन्तरालेन मार्गः ।
४ क० १९ सू० । तत्र विहितद्रव्याभावे काम्यं कर्म-
नारब्धव्यम् । नित्यन्तु मुख्यद्रव्याभावे प्रतिनिधिनाप्या-
रभ्यम् । काम्येऽङ्गसद्भावं ज्ञात्वाऽऽरम्भोत्तरम् मुख्यद्रव्या-
पचारे प्रतिनिधिद्रव्येण समापनम् । न तु असमाप्तस्य
त्यागः । नित्ये तु आरब्धे ऽनारब्धे वा प्रतिनिध्युपा-
दानमिति भेदः । काम्यस्यावश्यकार्य्यत्वाभावात् प्रति-
निधिना नारम्भः । आरब्धे चावश्य समापनीयत्वात्
समाप्त्यर्थं प्रतिनिधिर्भवति । दीक्षितस्य पयआदिके
व्रतेऽपि प्रतिनिधिरस्ति । प्रतिनिधिना करणपक्षे
मुत्यद्रव्यवाचकपदघटितमन्त्रे ऊहो न कार्थः । यत्र
जात्यन्तरं विहितं तत्र ऊहः । विकल्पस्थले अन्यतर
द्रव्यारब्धे कर्मणि दैवात्तस्य दोषेविनाशे वा तत्प्रतिनिधि-
द्रव्यान्तरेणैव समाप्यं न तु वैकल्पिकद्रव्येण यथा
व्रीह्यारब्धे कर्मणि व्रीहिनाशदोषयोः व्रीहिसदृशनीवा-
रादिना समापनं न तु यवेन, एवमन्यत्र । व्रीह्यभावे
नीवारैः प्रयोगे आरब्धे नीवारेषु विनष्टेषु कथञ्चिद्
व्रीहिप्राप्तौ व्रीहिभिरेक अप्राप्तौ व्रीहिसदृशैरेव कर्म
समापनम् न नीवारसदृशैः नापि वैकल्पिकैर्यवैः । मुख्य-
द्रव्येण सर्वप्रयोजनासिद्धौ तत्समर्थप्रतिनिधिनैव कर्म-
कार्य्यम् । यत्र कृष्णाः व्रीहयोविहितास्तत्र कृष्ण-
व्रीह्यलाभे शुक्लव्रीहिभिः कर्म कार्य्यं न तु कृष्णनी-
वारैः गुणस्य द्रव्यापेक्षया दुर्ब्बलत्वात् । पुंवत्सत्वलक्षणं
गुणं हित्वा स्त्रीवत्सायाअपि गोः पयसा होमो न तु
पुंवत्सायाः मेष्याः पयसा । एवमार्द्रत्वगुणालाभे शुष्क-
पलाशैरपि कर्म कार्य्यं न तु आर्द्रसमिदन्तरेण एवं
सर्वत्र । एवं प्राशित्रादिसर्वकर्मसु पार्य्याप्तव्रीह्यलामेऽपि
अवदानद्वयपर्याप्तपु रोडाशनिष्पत्तिसमर्था व्रीहय एव
ग्राह्या न तु प्राशित्रादिसर्वकार्य्यपर्याप्ता नीवारा इति
५ क० १७ सू० । तत्र श्रुतिपाठमन्त्रपाठार्थसिद्धिक्रमेण
पदार्थानुष्ठानम् । यत्र च पाठक्रमार्थसिद्धिक्रमयो-
र्विरोधः तत्र पाठक्रममनादृत्यार्थसिद्धिक्रमोग्राह्यः । यथा
“स वै पर्ण्णशाखया वत्सानपाकरोति तामाच्छिनत्ति”
इत्यत्र पाठक्रममनादृत्य पूर्ब्बं छेदनं ततोऽपाकर-
णम् । यत्र तु श्रुतिपाठक्रमयोर्विरोधः “संस्थिते यज्ञे
ब्राह्मणं तर्पयितवै ब्रूयादिति” श्रुतिः संस्थिते यज्ञे ब्रह्म-
तर्पणं विदधाति पाठक्रमस्तु प्राशित्रावदानात् पूर्व्वम् ।
तत्र श्रुतिक्रमेण संस्थितएव कार्यम् न पाठक्रमेण । यत्र
च श्रुतिपाठमन्त्रपाठयोर्विरोधः तत्र श्रुतिपाठक्रममनादृत्य
मन्त्रपाठक्रमेण कार्य्यम् । यथा सोऽसावाज्यमधिश्रय-
तीत्यधिश्रयणं विधाय, तदनन्तरमेवोद्वासनं विहितम्
मन्त्रक्रमस्तु पत्नीसंहननान्ते इति विरोधः तत्र-
मन्त्रपाठक्रमेणैवाज्योद्वासनम् । यत्र बहूनां प्रधानानां
सह प्रयोगस्तदा सन्निपत्योपकारकाः पदार्थाः सर्व्वेषां
प्रधानानां पृथक पृथक् सदृशपदार्थानुसमये कार्य्याः
यथा सप्तदशसु प्राजापत्येषु पशुषु सर्व्वेषां प्रथम
मुपाकरणं ततः सर्व्वेषां नियोजनम वतः सर्व्वेषां
प्रोक्षणमित्यादि । आरा कारकास्तु तन्त्रेण कार्य्या न
तेषु क्रमचिन्ता । यथा दर्शादौ प्रयाजादय
आरादुपकारकास्तन्त्रेण कार्य्याः । चतुर्मुष्टिकनिर्वापः
एकादशादिकपालोपधानञ्च एकैकस्य कार्य्यम् । सोमे चैकै-
कस्य ग्रहस्यासादनान्तं ग्रहणं कार्य्यम् । सर्व्वत्र-
हविषोऽवदानं प्रदानान्तं कार्य्यम् । देवताऽभेदे
हविर्मात्रभेदे देवतागुणे वा उपांश्वादिकेऽभिन्ने प्रदानान्तमव-
दानं न भवति किन्तु क्रमेण सर्षाणि हुवींष्यवदाय पश्चा
पृष्ठ १८६६
त्तेभ्यः प्रदानं कार्य्यम् । सप्तदशसु प्राजापत्यपशुषु उपाक-
रणरूपे प्रथमपदार्थे कृते द्वितीयपदार्थादौ उपाकरणक्रम
आदर्त्तव्यः न क्रमान्तरम् । अयं प्रावृत्तिकः क्रमः ।
प्रधानानामाग्नेयादीनां पाठक्रमेण तदङ्गानां निर्वा-
पादिक्रमः । यथा प्रथमपठितस्याग्नेयस्य प्रथमं निर्वा-
पादि । पश्चात् पठितस्याग्नीषोमीयस्य पश्चात् इत्ययं
क्रमो मुख्यः । अनेकाहसाध्यदर्शादौ क्रियमाणे मध्ये
नित्यस्याग्निहोत्रादेः काले प्राप्तेकाम्यमध्येऽपि तत् कार्य
मेव न तु दर्शाद्यनुरोधेन नित्याग्निहोत्रादिकालातिक्रमः
कार्यः । सौत्रामण्यादिविकृतिमध्यएवामावास्यायां दक्षि-
णाग्नौ पिण्डपितृयज्ञः कार्यः । षोड़श्यतिरात्रादौ च
षोडशिनोनियतकालत्वेऽपि दैवादुक्थ्योत्कर्षे तदनन्तर-
मेव षोडशियागः कार्यः न तु कालानुरोधात् ततः पूर्वम् ।
अग्निष्टोमादिसत्रपर्यन्तानां प्रधानानामनुष्ठाने क्रमा
भावः । यदा यत्र यस्येच्छा तदा तदनुष्ठेयम् ।
अध्ययनार्थ एवैषां पाठक्रमः नानुष्ठानार्थः ।
६ क० २६ सूत्राणि । तत्र अवत्तहविर्नाशेऽन्यद्धविः कार्य्यं
न स्विष्टकृदादिप्रतिपत्तिसहितः यागः कार्यः । नवा पुनः
शेषादवदेयम् । अग्न्यादिदेवतानां, मन्त्राणां, प्रयाजानु-
याजादिक्रियाणाञ्च न प्रतिनिधिरस्ति । दृष्टार्थानां तु
क्रियाणामवघातादीनां प्रतिनिधिरस्ति । प्रतिषिद्धं वस्तु
श्रुतद्रव्यसदृशमपि न प्रतिनिधेयम् । यथा मौद्गे चरौ
माषादि । त्यागादौ वपनादौ संस्कारकर्म्मणि च
यजमानस्य प्रतिनिधिर्नास्ति । गुणकर्म्मसु पात्रासादना-
ज्यावेक्षणाग्न्याधानव्यूहनवेदबन्धनादिषु यन्नमान-
स्यापि प्रतिनिधिरस्ति । पत्न्यभावेऽप्याज्यावेक्षणान्वा-
रम्भोपाञ्जनादौ गुणकर्म्मणि प्रतिनिधिरस्ति । सत्रेषु
यजमानस्य प्रतिनिधिरस्ति । यजमानकर्म्मणा सम्बन्धात्
यजमानधर्म्मा अपि दीक्षणादयः प्रतिनिहितस्य भवन्ति
सत्रेषु यजमानानामृत्विक्पदार्थकर्त्तृत्वविधानात् । ब्रा-
ह्मणस्यैव सत्नेषु अधिकारो न क्षात्रवैश्यानाम् ।
ब्राह्मणानामप्येककल्पानां न भिन्नकल्पानाम् । वैश्य
क्षत्रिययोर्गृहपतित्वेऽपि सत्रेषु नाधिकारः । सहस्र
संवत्सरसत्रं मनुष्याणामपि भवति तत्र संवत्सरशब्दस्य
अहःसु लक्षणा यतस्तत्र सहस्रसंवत्सरे सहस्रं सौत्यान्य
हानि तानि च दिनसहस्रे सम्भवन्तीति ।
७ क० २८ सूत्राणि । यत्र एकफलार्थं बहूनि प्रधानानि एक
वाक्येन विधीयन्ते । तत्र तेषां सह प्रयोगः । देशकाल
फलकर्म्मादिसाम्ये सति प्रधानानामारादुपकारीणि
आघारप्रयाजाज्यभागादीनि सकृदेव कार्य्याणि । न प्रतिप्रधानं
पृथक् पृथक् कार्य्याणि । देशभेदे कालभेदे च तन्त्रभेदएव
भवति न सहक्रिया । यथा दर्शपौर्ण्णमासयोः कालभेदे ।
वरुणप्रघासेषु च मारुत्या देशभेदे । अहर्गणे सुब्रह्मण्या-
निगदे द्वादशाहे सुत्यामुपगच्छेदित्यत्र कालसंयुक्तं
कर्म्म तन्त्रेणैव सकृत् प्रयोज्यम् । एकद्रव्ये कर्म्मावृत्तौ
सत्यां मन्त्रवचनं सकृदेव कार्य्यम् न प्रतिक्रियम् ।
यथा स्फ्येन पदं त्रिः परिलिखेदस्मे रमस्वेत्यत्र एकवारं
मन्त्रेण, द्विस्तूष्णोमिति । हविर्ग्रहणे बर्हिषोलवने
तस्य स्तरणे आज्यग्रहणे च प्रतिक्रियं मन्त्रावृत्तिः न
सकृत् । आज्यग्रहणे तु वचनात् त्रिधा मन्त्रेण ग्रह-
णम् शेषं तूष्णीं हविर्ग्रहणे चतुर्थं तूष्णीम् । वचना-
दुत्तमे मुष्टौ मन्त्रनिवृत्तिः । दीक्षितस्यानेकदुःस्वप्नदर्शने
सकृदेव मन्त्रपाठः । एकनद्या अनेकप्रवाहतरणेऽनुमन्त्रणं
सकृदेव । अववर्षणे अनेकवृष्तिधारासंयोगेऽपि अनुमन्त्रणं
सकृदेव । युगपदनेकामेध्यदर्शने सूर्य्योपस्थापनं सकृदेव ।
वनीवाहने (विश्रम्य विश्रम्य पुनः पुनः प्रयाणे) अमेध्य-
दर्शने मन्त्रपाठः सकृदेव । एकरात्रिमध्ये पुनपुनःस्वापादौ
अमेध्यदर्शनादिषु च कालभेदे भेदेनैवानुमन्त्रणं न सकृत् ।
अप्रधानकालीनमङ्गं सकृदेव, न प्रतिधानमावर्त्तते ।
यथाऽग्निषोमीयसवनीयानूबन्ध्यपशूनां साधारण एव स्वरुरपि
यूपवत् सर्व्वपशुसाधारण एव । आधानादिकर्म्मसु पुरु-
षाएव कर्त्तारोन स्वयं केवलं यजमानः । तत्रायं
भेदः देवतोद्देशेन द्रव्यत्यागात्मककर्म्माणि यजमानः स्वयं
कुर्य्यात् । पुरुषयोगिमन्त्रान् यजमानः स्वयं जपेत्
वपनाभ्यञ्जनादयो यजमानस्यैव संस्काराः । सति
विशेषवचने ऋत्विजामपि ते संस्काराः यथा “हिरण्य-
मालिनोवाजपेयेन चरन्ति” । सति वचने उक्तादन्यदपि
यजमानस्य भवति । यथा यजमानोवसोर्धारां जुहोति ।
यजमानः पात्राण्यासादयतीत्यादि । शेषं कर्म्मं
यथासमख्यमृत्विगादयः कुर्युः । यथा अध्वर्युराध्वर्य्यवं,
होता हौत्रम्, उद्गाता औद्गात्रमित्यादि । सर्व्वाणि
कर्म्माणि यज्ञोपवीतिनः कुर्य्यः तानि च प्राक्संस्थानि
उदक्संस्थानि वा कुर्युः । परिस्तरणपर्य्युक्षणादौ
प्रदक्षिणं कार्य्यम् । पित्र्येऽपसव्यम् । दैवे यत्रावृत्तिः
पैत्रे तत्र सकृत् । दक्षिणा च दिक् पित्र्ये । यद्दैवे
प्राक्संस्थादि पैत्रे तत्दक्षिणसंस्थं कार्य्यम् । प्रधान-
पृष्ठ १८६७
द्रव्यविनाशे सन्निपत्योपकारकाङ्गसहितस्यैव तस्यावृत्तिः
नारादुपकारकसहितस्य ।
८ क० ४७ सू० । विकल्पस्यले एकेनेव कार्य्यकरणम् ।
अदृष्टार्थेषु बहुषु विहितेषु समुच्चयः यथा होतृ-
मन्त्राणामग्निमन्थनीयादीनाम् अग्निस्थापनमन्त्राणाञ्च ।
होतृमन्त्रत्वेऽपि याज्यानुवाक्ययोर्न समुच्चयः । तथा च
याज्या पुरीनुवाक्या च एकैकस्मिन् यागे एकैकैव ।
एकनिमित्तकप्रायश्चित्तानां समुच्चयः । यज्ञकाले मन्त्रा-
णामेकश्रुत्या प्रयोगः, न संहितास्वरेण, नापि ब्राह्मणं-
स्वरेण । सुब्रह्मण्यासामजपन्यूङ्खयाजमानानां मन्त्राणां
संहितावदेव स्वरेण प्रयोगोन त्वेकश्रुतिस्वरेण । आधाने
विहितदक्षिणाभेदस्य विकल्पः, न समुच्चयः । अनेक
साघनके कर्म्मणि ऊबध्यादीनां समुच्चयः । सर्व्वपशूनां
तानि कार्य्याणि । सोमक्रये विहितगवादिद्रव्यदशकस्य
दृष्टार्थत्वात् न समुच्चयः । सर्व्वत्र गार्हपत्याहवनीययोः
प्रदक्षिणीकृत्यापसव्यावृत्तिः अपसव्यीकृत्य च प्रदक्षिणा
वृत्तिः कार्य्या । विहारोत्तरतः सर्व्वकर्म्म कार्य्यम् ।
विहारस्य दक्षिणतः ब्रह्मयजमानयोरासने कार्य्ये ।
तयोर्मध्ये यजमानस्य वेदिं स्पृष्ट्वा (वेदिमध्ये पादाग्रं
निधाय) उपवेशनम् । पश्चात् ब्रह्मोपवेशनम् ।
अनादेशेऽध्वर्युः यजुर्विहितं कर्म्म कुर्य्यात् आदेशे तु अन्योऽपि ।
विरोधे तु अन्योऽपे कर्त्ता यथा पेषणेऽध्वर्योर्व्यापृतत्वेन
विरोधात् कपालोपधानमग्नीत् कुर्य्यात् । हविष्पात्रस्वा-
मृयत्विजामेकत्र समावेशे यद्यत् पूर्व्वं तत्तदन्तरं, यद्य-
दुत्तरं तद्बहिर्भवति । हविषामपि मध्ये पूर्ब्बं पूर्ब्बं
हविरन्तरं कार्य्यं उत्तरमुत्तरं बहिः । प्रतापनाद्यग्निसाध्य-
सस्कारा गार्हपत्याग्नौ कार्य्याः । सर्व्वकर्मसु हविःश्रपणं
गार्हपत्ये आहवनीये वा कार्य्यम् । संस्काररहितं
घृतमात्रमाज्यशब्दार्थोग्राह्यः । घृतं च गव्यमेव ग्राह्यम् ।
द्रव्यविशेषानुक्तौ सर्व्वत्र घृतेन होमः कार्य्यः विशेषवचने
तेनैवं । चात्वालात् बहिस्थं पुरीषं निवपेत् । आहवनीये
यजतयः, आज्यभागोपांशुयाजादयः आज्यहविष्का
ध्रुवातः आज्यं गृहीत्वा चतुरवदाय कार्य्याः ।
इडाप्राशित्राघारानप्येके ध्रुवातः कुर्व्वन्ति । आघारौ प्राञ्चौ
विदिशौ वा होतव्यौ उभयपक्षेऽपि ऋजू दीर्घौ सन्ततौ
च तौ कार्य्यौ । अनादेशेसर्वे होमा आहवनीये एव
कार्य्याः । आदेशे तु यथादेश मन्यत्राग्नौ । आदेशाभावे
सर्व्वत्र सकृद्गृहीतमेव होतव्यम् आदेशविशेषेऽन्यथा ।
९ क० २१ सू० । सर्व्वत्र व्रीहयोयवा वा हवींषि भवन्ति ।
व्रीह्याग्रयणानन्तरं यवाग्रयणादर्वाक् व्रीहिभिरेव दर्श-
पौर्ण्णमासौ कार्य्यौ यवाग्रयणानन्तरं च प्राग्व्रीह्याग्रय-
णात् यवैरेव तौ कार्य्यौ । आपस्तम्बमते सर्व्वदा व्रीहिभि-
रेवेति भेदः । दर्शपौर्णमासयोरेवायं द्रव्यनियमः न विकृ-
तौ । द्विरवदानविधाने पुरोडाशचर्वादेर्म ध्यदेशादेक
मङ्गुष्ठपर्व्वमात्रं तिरश्चीनम् आद्यमवदानम् । द्वितीयं
तु हविःपूर्व्वभागात् तथावदानम् । तच्चावदानयोर्मर्या-
दाभङ्गाभावेनैव कार्य्यम् । पञ्चार्षेयाणां जमदग्नीनां
जमदग्निप्रवराणाञ्च हविषस्त्रिरवदानम् । तत्राद्यं
मध्यात्, द्वितीयं पूर्ब्बभागात्, तृतीयम् पश्चाद्भागात् ।
यत्र आज्यभागपत्नीसंयाजोपांशुयाजाग्निहोत्रहोमा-
दौ चतुरवदानं विहितं तत्र जमदग्नीनां पञ्चशोऽवदा-
नम् । दधिपयसीरपि स्रुवेणावदानग्रहणम् ।
तदप्यङ्गुष्ठपर्व्वमात्रमेव कार्य्यम् ।
पुरोडाशादिहविषोऽवदानात् प्रथममाज्यं सकृदवदाय
ततोऽन्यद्धविरवदेयम् । पुनरप्यन्ते आज्यं सकृदवदेयम् ।
स्विष्टिकृद्धोमे तु प्रधानावदानादेकोनं हविषोऽवदानम् ।
तथा च येषां प्रधानयागेऽवदानद्वयं विहितं तेषां
स्विष्टिकृद्धोमे सकृदवदानं, येषां प्रधानेऽवदानत्रयं तेषां
हविष उत्तरार्द्धादेव स्विष्टिकृति अवदानद्वयम् । एवं चतुः
पञ्चशोऽवदाने त्रिः चतुर्वाऽवदानम् । उपस्तारः सकृत् ।
उपर्य्यभिघारणं तु द्विर्वारं भवति । हविषोऽवदेयाव-
दानयोः प्रत्यभिघारणम् । स्विष्टिकृदवदानानन्तरम् हविषो
न प्रत्यभिधारणम् । एककपालः पुरोडाशः सर्वहुतः
कार्यः । चतुर्थ्यन्तेन देवतापदेनानुवचनप्रैषा कार्य्या
यथा अग्नयेऽनुब्रूहीषेवंरूपा । आश्रावणानन्तरं
यत्र मैत्रावरुणः प्रैष्यते तत्रापि चतुर्थ्यन्तं देवतापद
प्रयोज्यम् । अग्नये प्रेष्य, सोमाय प्रेष्येत्येवम् ।
आश्रावणानन्तरं यत्र मेत्रावरुणस्य प्रेषाभावस्तत्र द्वितीया-
न्तं देवतापदं प्रयोज्यम् । अग्निं यज सोमं यजेत्येवम् ।
प्रैषसम्बन्धिन्यनुवाचने द्रव्यात् षष्ठी भवति यथा इन्द्रा-
ग्निभ्यां छागस्य हविषोऽनुब्रूहीति । वपायै धाना सोमेभ्यः
इति प्रैषद्वये तु न षष्ठी । यत्रासौ यजेति विहितं
यथा नामग्राहं यजेति प्रशास्त्रादीन् प्रति । तत्र देवता-
पदं न प्रयोज्यम् । प्रशास्तर्यज पोटर्श्रजेत्येवं प्रयोज्यम् ।
यत्र यत्र मन्त्रे असाविति पदं श्रूयते तत्र तत्र
असाविति पदमपनीय तस्य स्थाने तत्पदवाच्यस्य मैत्रादेर्नामो-
पृष्ठ १८६८
च्चार्यं यथा इमममुष्य पुत्रमित्यादौ देवदतस्य पुत्रमित्या-
दि । सवषट्कारास्वाहुतिषु वेदेर्दक्षिणभागे उदक्-
प्राङ् इतीशानाभिमुखस्तिष्ठन् वषट्कारानन्तरं वषट्-
कारेण सह वा जुहुयात् । यत्राज्यमिश्रं हविर्विहितं,
तत्र पूर्ब्बमाज्यं हुत्व ततो मध्ये हविर्हुत्वा पुनरुप-
र्य्याज्यं जुहुयात् । अथ वा सहैव सर्वमाज्यं हविश्च
जुहुयादिति पक्षद्वयम् ।
१० क० १४ सू० । तत्र आग्नेयोऽष्टाकपालो भवती-
त्यादौ लटः लिङ्परत्वकल्पनया विधिपरत्वम् । कर्मसु
कर्त्तव्येषु तदुपकरणद्रव्यसमुदायानामादौ उपकल्पनं
तानि चानीय कर्मदेशस्थाने स्थापयेत् । चर्माण्यु त्तरलो-
मानि प्राग्ग्रीवाणि सर्व्वत्रास्तरणीयानि । हविषां मध्ये
यत् पश्चात् पठितं तद्देशतः कालतश्चोत्तरं कार्य्यम् ।
ग्रहणादिकं पूर्ब्बपठितस्य पूर्वम् उत्तरपठितस्योत्तरम्
कार्यम् । एवम् अधिश्रयणाद्यपि पूर्ब्बपठितस्य दक्षि-
णतः पश्चात्पठितस्योत्तरत इति । एकद्रव्ये स्थालीस्रु-
वादौ साज्ये दक्षहस्तेन गृहीते सति वामेन वेदस्योप
ग्रहणं कार्य्यम् । एकद्रव्यैत्युक्तेः उपभृदादौ द्वितीय-
द्रव्ये सति वेदोपग्रहणाभावः । आज्यादन्यद्रव्येण
द्रव्यवति यागे उपस्थानादौ च स्फ्येनोपग्रहणं कार्यम् ।
असत्सु वेदवज्रद्वितीयद्रव्येषु कुशैरुपग्रहणम् । यथा स्फ्ये
अन्यकर्मव्यापृते सोमे ग्रहहोमादौ द्वितीयद्रव्याभावे
च कुशोपग्रहणम् । स्रुचोरादानकाले आसादितां
स्रुचं जुहूञ्च पाणिम्यां परिगृह्य उपभृतौपरि
निदध्यात् । तत्र च परस्परसंस्पर्शजशब्दो न कार्य्यः ।
विश्वजिन्न्यायेन सर्व्वत्र स्वर्गः फलत्वेन कल्प्यते । एकस्मिन्
कर्मणि वैकल्पिकानामङ्गानां यथाश्रुतञ्च विहितानां
मध्ये अधिकाङ्गानुष्ठानपक्षे सर्व्वत्र फलाधिक्यम् । यथा
पौर्णमासादौ वैकल्पिकवैमृधाद्यधिकाङ्गानुष्ठाने । एवमन्वा-
हार्य्यादिदक्षिणादाने षड्दक्षिणापक्षतोद्वादशचतुर्विं-
शतिदक्षिणापक्षयोः फलतारतम्यम् । दानान्वारम्भणवरण-
व्रतप्रमाणानि यजमानसम्बन्घीनि ग्राह्याणि । तथाच यानि
दानादीनि प्रमाणानि विहितानि च तानि याजमानान्येव
व्रतञ्च सत्यवदनाधःशयनपयोव्रतादिकं यजमानस्येव,
प्रयाणं चाग्निखरवेदिशालासदोगृहादिमानं यजमान
हस्तमानेनैव कार्य्यम् । यूपावटोपरवादौ खाते, लूने
बर्हिषि, छिन्ने यूपे, अवहतेषु व्रीहिषु पिष्टेषु तण्डुल-
धानादिषु, दुग्धेपयसि, दग्धेषु महावीरेष्टकादिषु तदव-
यवलक्षणया क्रियादिसम्भवः । रौद्रमन्त्रं रक्षोदैवतम्
असुरदैवतं शैव्यं मन्त्रमुच्चार्य तत्तद्देवताकं कर्म्म च कृत्वा
आत्मानमुपस्पृश्यापां स्पर्शनं हस्तेन कुर्य्यात् । इति सर्व्व-
कार्य्योपयोगिविधानानि प्रथमाध्याये उक्तानि । एतेषां
सर्व्वकर्म्मोपयोगित्वात् विस्तरेणोक्तिः । अन्यान्याध्यायार्थाः
संक्षेपणोच्यन्ते ।
२ अध्याये अष्टौ कण्डिकाः । तत्र १ क० पौर्णमासेष्टि-
कालः तत्राग्न्यान्वाधानेऽध्वर्युयजमानयोरधिकारः । तद्वि-
धानप्रकारः । दीक्षाग्रहणे दीक्षितधर्माः । दिवामैथुन-
मांसवर्जनम् अशिखकेशादिवापनम् । अपराह्णे पत्नी
यजमानयोरतृप्त्या हविषा सह व्रतकालयोग्यं
माषमांसलवणवर्ज्जंहविष्यं भोज्यम् । तत्र व्रतयोग्यं भोज्यं
भाष्ये दर्शितं यथा पुलस्त्यः “सकृत् पर्व्वणि सर्पि-
ष्मत् हविष्यं लघु भोजनम् । न सायं नोपवासः स्यात्
तैलामिषविवर्जितम्” बौधा० “सर्वमेवैतदहः, कौशीधान्यं
विवर्जयेदन्यत्र तिलेभ्यः” । परिशिष्टे च “शाकं मांसं
मशूरं च चणकं कोरदूषकम् । माषान् मधु परान्नञ्च
वर्जयेदौपवस्तके” । कर्म्मप्रदीपे “लवणं मधु मांसञ्च क्षारान्
श्वोयेन हूयते । उपवासे न भुञ्जीत नोरुरात्रौ न
किञ्चन” । “तिलमुद्गादृते शैत्यं शस्यं गोधूभकोद्रवौ । चणकं
देवधान्यञ्च सर्व्वशाकं तथैक्षवम् (गुडम्) । सर्ज्जीक्षारं
यवक्षारं टङ्कणक्षारमेव च । व्रतस्थो वर्ज्जयेन्नित्यं सामुद्रं
लवणं तथा” । सामुद्रविशेषणात् सैन्धवमानसयोर्न
निषेधः । “सैन्धवं लवणं यच्च यच्च मानससम्भवम् ।
पवित्रं लवणं ह्येते प्रत्यक्षे अपि मर्वतः इति स्मृतेः” ।
सत्यवदनञ्चात्र कर्म्मार्थम् उपनयनोत्तरविहितं तु पुरु-
षार्थः अतः प्रायश्चित्तभेदः । रात्रौ तस्मिन्नेव विहारे-
ऽग्निहोत्रहोमः । सायमशनेच्छायां होमानन्तरमार-
ण्यौषधीनां नीवारादीनामन्नम् आरण्यवृक्षादीनां च
फलमनतिरात्रौ भुञ्जीत । आहवनीयगृहे गाहपत्यगृहे
वाऽधः शयनं तत्राप्यास्तरणनिषेधः, ब्रह्मचर्य्यञ्च । एष
नियमः सपत्नीकयजमानस्यैव । पौर्णमासे अन्वाधानादि-
कर्मापवर्गान्ते द्व्येहे एकाहे वा कार्यभेदोक्तिः तच्च प्रातरेव
कार्यम् । २ क० । अग्निहोत्रानन्तरं ब्रह्मवरणं
तत्प्रकारः । ३ क० ८ क० पर्य्यन्ते ब्रह्मसदनादेः आत्मस्पर्श-
पर्यन्तस्य कर्मकलापस्यानुष्ठानप्रकारमन्त्रादिकीर्त्तनम् ।
३ अध्याये अष्टौ कण्डिकाः । तत्र होतृसदनादिपौर्ण्णमास-
समाप्तिपर्यन्तकर्त्तव्यकार्यकलापस्यानुष्ठानप्रकारमन्त्रादि ।
पृष्ठ १८६९
४ अ० १५ क०! तत्र १ । २ । ३ क० दर्शयागात् प्राक्कर्त्तव्यं पिण्ड-
पितृयज्ञानुष्ठानप्रकारमन्त्रादिकथनम् । तत्र द्रव्यदेवतायुक्तः
आख्यातप्रत्ययान्तकर्म्मशब्दोवेदबोधितो यागशब्दार्थः इत्यु-
क्तिः । सर्व्वासु इष्टिषु अग्नीषोमीये पशौ च दर्शपौर्ण्णमास
यागधर्म्मातिदेशः । वैश्वदेववरुणप्राघाससाकमेधशुनासी-
रीयरूपचतुःपर्व्वात्मकचातुर्मास्यस्याद्ये वैश्वदेवे पर्व्वणि
दर्शपौर्ण्णधर्म्माः । ततोऽतिरिक्तत्रयेषु औपदेशिकाः प्राचोन-
प्रवणे त्रिधाबर्हिःप्रस्ताराद्रयोधर्म्मा भवन्ति । चातु-
र्मास्ये वरुणप्रघासादिषु त्रिषु तु वैश्वदेवपर्व्वधर्म्माः किन्तु
मारुत्यादिषु न भवन्ति । सौमिकादवभृथात् वारुण-
प्राघासिकावभृथे धर्म्माभवन्ति । क्व? कुर्यादिति
सन्देहे लौकिकाग्निरेव ग्राह्यः । दर्शपौर्ण्णमासयो-
राग्नेयादयः षट् प्रधानयागाः । वैकृते कर्मण्येक-
दैक्ये सर्व्वत्राग्नेयधर्माः । अतेकदैवत्ये तु अग्नी-
षोमीयैन्द्राग्नादेः । तत्रापि आग्नावैष्णवादौ अग्नीषोमी-
यस्यैव धर्मा नैन्द्राग्न्यास्येति निर्द्धार्यम् । मारुतेषु ऐन्द्रा-
ग्न्यस्येति निर्द्धार्यम् । द्रव्यसामान्येनापि धर्मप्रवृत्तिर्भवति
यथा पुरोडाशचरुधानासक्त्वादौ पुरोडाशस्य, सान्नाय्ये
सान्नाय्यस्य, आज्ये आज्यस्येति । देवतागुणस्योपांशुत्वादेः
साम्ये धर्म्मप्रवृत्तिर्भवति । यथोपांशुयाजे उपांशुयागः ।
द्रव्यदेवतासामान्यविरोधे द्रव्यसामान्यादेव धर्माभवन्ति न
देवतासामान्यात् यथा ऐन्द्रपुरोडाशादौ देवता
सामान्यात् पुरोडाशस्यैव । पयस्यायां पयस एव धर्मा-
भवन्ति न दध्नः । अतश्चातुर्सास्यादौ परिवासितया शाखया
पवित्नबन्धनानन्तरं वत्सापाकरणं दोहनचतुष्टयासाद-
नञ्च भवति । पशावपि पयस एव धर्माभवन्ति न दध्नः ।
अतःसान्नाय्योखास्थानापन्नानां वशाश्रपणीशूलोखाना
मासादनप्रोक्षणे भवतः । द्रव्येषू स्थानापत्तेर्धर्माभवन्ति
यथा श्यामाकानां व्रीहिववस्थानापत्तेस्तर्द्धर्म्मा ग्रहणा
सादनप्रोक्षणकण्डनादयो गृह्यन्ते । प्राकृतस्थानाप-
न्नस्यापि द्रव्यस्य ये स्थानिनो धर्माविरुध्यन्ते स्थाना-
पन्ने द्रव्ये नं ते भवन्ति यथा परिधौ पशुनियोजने
यूपस्थानापन्नस्यापि परिधेः तक्षणाष्टाश्रीकरणादयोधर्मा
न भतन्ति विरुद्धत्वात् । विकृतौ यत्र प्राकृतद्रव्यदेव-
तास्थानेऽन्यद्रव्यदेवतादिर्विहितस्तत्र प्राकृतमन्त्रस्य यथार्थ
मूहोभवति । यथा अग्नये त्वा जुष्टभिणस्य प्रकृतौ मन्त्रस्य
इन्द्राग्निव्यां वां जुष्टमित्यूहः । प्रकृतौ मन्त्राणामूहो
न भवति प्रकृतेरपूर्वत्वात् । यथा पत्नीं संनह्ये-
त्येकवचनान्तमन्त्रस्य बहुपत्नीकयागेऽपि नोहः । किन्तु
एकवचनान्त एव प्रयोज्यः । तथा पवित्रे स्थ इति
मन्त्रस्य पवित्रद्वयपक्षेऽपि नोहः । अत्रापवादः ।
विकृतौ वचनविशेषे प्राकृतधर्म्मा न भवन्ति । अर्थलोपात्
(प्रयोजनलोपादपि) प्राकृतधर्म्मा न भवन्ति । यथा
मौद्गे चरौ कण्डनस्य प्रकृतितः प्राप्तस्यापि प्रयोजना-
भावात् नानुष्ठानम् । तथा विरोधादपि प्राकृतधर्म्माणां
विकृतावप्रवृत्तिः । यथा चरौ पेषणस्य दध्युपसर्ज-
नीनामधिश्रयणस्य च । यच्च प्रकृतौ परार्थतया विहितं
विकृतौ परार्थाभावेन तस्याप्रवृत्तिः यथा प्रकृतौ प्रति-
पत्तिकर्म्मणां परार्था (प्रतिपाद्यद्रव्यार्था) उत्पत्तिरस्ति
अती विकृतौ प्रतिपाद्यद्रव्याभावे द्रव्यकर्मणामप्यभावो
भवति । यत्र तु परार्थोत्पन्नं द्रव्यं क्वचित् कर्म्मान्तर-
साधनत्वेन विहितं तत्र परस्याभावेऽपि परार्थोत्पन्नस्य
भावो भवति (परार्थोत्पन्नेन द्रव्येण यत्कार्य्यं तदन्येनापि
येन केनचित् कार्यम्) यथा यूपशकलेन शुक्रं समार्ष्टी-
त्यत्र यूपार्थं तक्ष्यमाणे यूपे यत् शकलमुत्पन्नं यूपाभावेन
तत्सम्बन्धिशकलाभावेऽपि ग्रहसंमार्गसाधनत्वेन विहित-
त्वाद्येन केनचिच्छकलेन शुक्लसंमार्जनं कार्यम् ।
सर्व्वासामिष्टीनां सद्यस्कालत्वम् ।
४ क० । प्रजापश्वन्नयशस्कामकार्य्य दाक्षायणयज्ञमन्त्रप्रकारादि ।
दर्शपौर्णमासयोर्देवद्रव्यभेदकथनपूर्ब्बकतद्विधानप्रकारः ।
५ क० । उपांशुशब्दार्थकथनम् । (व्यक्तत्वे चोदनैकत्वे तन्त्रै-
क्ये यत्र कामना । तादर्थ्येनैव चोत्पत्तिस्तत्रैव स्यादुपां-
शुता” कर्कः । तत्रद्रव्यदेवतादिकथनम् ।
६ क० व्रीहीणां यवानां वा पाके आग्रयणसंज्ञं कर्म्म
कार्य्यम् तत्र शरद्वसन्तादिकालद्रव्यदेवतादिमन्त्रविधान-
प्रकाराश्च । दर्शपौर्ण्णमासेष्ट्यनन्तरमेवाग्रयणाद्या प्रकृ-
तिवत् कार्य्याः न पूर्ब्बम् । दर्शपौर्णमासोत्सर्गे कृते
अग्निहोत्रमेव जुह्वत आग्रयणविधानप्रकारः । दीक्षिते
विशेषः । संवत्सरोपसत्कादौ यज्ञे आग्रयणविशेषः ।
संवत्सरसुत्यादौ द्रव्यविशेषाः । श्यामाकाग्रयणविधान
प्रकारः ।
७ क० । अग्न्याध्येयकर्मकालदेवतामन्त्रविधानप्रकारादि
अग्नाधेयशब्दे ऋग्वे दविधिरुक्तो माध्यन्दिनानां विशे-
षस्तु विस्तरभयान्नोक्तः पद्धतौ दृश्यः ।
८ । ९ । १० क० । आधानस्याङ्गकर्मणां विधानम् । मन्त्रादिकथनम् ।
११ क० । पुनराधाने निमित्तं वित्तहान्यादि । तद्विधान-
पृष्ठ १८७०
१२ क० । अग्निहोत्राङ्गस्य वात्सप्रस्योपस्थानप्रकारः ।
१३ । १४ । १५ क० । अग्निहोत्रकालद्रव्यदेवताविधानमन्त्रादि ।
तत्र कागनाभेदेनावस्थाभेदयुक्ते वह्नौ होमः कार्यः यथा
प्रजाभ्योबलेनान्नादिकं जिहीर्षुणा समिद्धे धूममिश्रेऽग्नौ
होमः कायः । प्रजाउपरुध्य ताभ्योऽन्नं जिहीर्षुणा अतिब-
हुलज्वालायुक्ते, श्रीकामैः यशस्कामैर्ब्राह्मणादिभिः प्रदीप्ते,
मित्रभावेन प्रजाभ्योऽन्नं जिघृक्षुणा राज्ञा ज्वालापसरणे
जाते, ब्रह्मवर्चसकामेन देदीप्यमानेष्वङ्गारेषु सत्सु वह्नौ
होमः । कामनाभेदे हीम्यद्रव्यभेदाः । यथा स्वर्गकामः
पशुकामो वा पयसाऽग्निहोत्रं जुहुयात् । एवं ग्राम-
कामो यवाग्वा, बलकामः व्रीहिश्यामाकनीवारयवगोधूम-
शालीनां तण्डुलैः, यावनालैः प्रियङ्गुभिश्च । इन्द्रिय-
कामोदध्ना, तेजस्कामो घृतेन । एतमुक्तद्रव्याणां प्रत्यहं
संवत्सरहोमे तत्तत्फलसिद्धिः । अग्निहोत्रहोमे सर्वा-
स्विष्टिषु च गार्हपत्यागारस्य दक्षिणद्वारेण प्रवेशनम् ।
सर्वदा यजमानः स्वयं होमः कार्यः, कार्यवशात् तन्नियुक्तेन
अध्वर्युणा वा । किन्तु दर्शे पौर्णमास्याञ्च सदा स्वयं होमः
कार्यः । प्रवासे सूतकादौ च विशेषः ।
५ अध्याये । १ ३ कण्डिकाः तत्र । १ । २ क० । चातुर्मास्ययज्ञ
वैश्वदेवपर्व्वकालद्रव्यदेवताप्रयोगादि ।
३, ४, ५, क० वरुणप्राघासरूपतदीयपर्व्वकालद्रव्यदेव-
तामन्त्रविधानादि ।
६ क० । साकमेधरूपतदीयपर्व्वकालविधानद्रव्यदेवतामन्त्रादि ।
७ क० तत्र द्विहविष्कक्रौडिनीयेष्टिकालविधानद्रव्यदेवता-
मन्त्रादिकथनम् ।
८, ९, क० तत्र पित्र्येष्टिकालद्रव्यदेवतामन्त्रादिकथनम् ।
१० क० तत्र त्रैयम्बकहोमकालविधानद्रव्यदेवतामन्त्रादि
११ क० चातुर्मास्यपर्ब्बभेदशुनासीरीयकालद्रव्यदेवता-
मन्त्रादिकथनम् । तत्रायं विशेषः । कृतवैश्वदेवपर्व्वण
एव वरुणप्राघाससाकमेधादिपर्व्वत्रयस्य नियतकालत्वात्
वरुणप्राघासादि कर्त्तव्यमेव । कृते पौर्णमामे दर्शेष्टिवत् ।
चातुर्मास्यानां षुनःप्रारम्भः सूतकादावपि कार्यएव ।
चातुर्मास्यानि त्रिविधानि ऐष्टिकानि, पाशुकानि सौमि-
कानि वेति तेषां द्रव्यदेवतामन्त्रविधानादि ।
१२, १३, क० मित्रविन्देष्टिद्रव्यदेतता मन्त्रबिधानकथनम् ।
६ अ० दशभिः कण्डिकाभिः निरूढपशुबन्धयागकालद्रव्य-
देवतामन्त्रविधानादिकथनम् ।
७ अ० ९ क० । तत्र ज्योतिष्टोमकालद्रव्यदेवतामन्त्रादि
विधानादि । तत्र सोमयागरूपस्याद्यसंस्थस्य द्रव्यदेवतादि
विधानादि ।
८ अ० ९ क० । तत्र १, २, क० आतिथ्यकर्मद्रव्यदेवतामन्त्रादि
३ क० औपवसथ्यकालद्रव्यदेवतामन्त्रादिकथनम् ।
४, ५, ६, ७, ९, क० ।
आसु९ अ० १४ कण्डिकात्मके १ कण्डिकायाञ्च सौत्यकर्म्म-
कालद्रव्यदेवतामन्त्रविधानादिकथनम् । अध्यायशेषे
समाप्तिपर्य्यन्ते प्रातःसवनद्रव्यदेवतामन्त्रविधानोक्तिः ।
१० अ० ९ क० । तत्र किञ्चिदूनाध्यायसमाप्तिपर्य्यन्ते
मध्यन्दिनसवनतृतीयसवनयोर्द्रव्यदेवतामन्त्रविधानकथनम् ।
अन्ते ज्योतिष्टोमे सोमोत्तरकर्त्तव्यानाम् ‘अत्यग्निष्टोमः
उक्थ्यः षोडशी वाजपेयोऽतिरात्रः आप्तोर्याम इत्येवं
रूपाणां षण्णां सोमसहितानां सप्तानां यागानां ज्योति-
ष्टोमत्वमुक्तं तत्र च ज्योतिष्टोमस्याध्वर्यवविधानप्रकारः ।
११ अ० १ कण्डिका । तत्रज्योतिष्टोमाङ्गब्रह्मत्वविधानादि ।
१२ अ० ६ क० । तत्र द्वादशाहयागविधानम् । तत्र
एकादशाहादियागे च ज्योतिष्टोमधर्मातिदेशः । तत्रा-
ग्निष्टुतो धर्मातिदेशः इत्येकस्य मतम् । द्वादशाहो द्विविधः
सत्ररूपः अहीनरूपश्च । तत्रोभयरूपयोर्लिङ्गप्रदर्शनम् ।
यथा यस्याद्यन्तयोः अतिरात्रयागस्तत्सत्रं, यत्र तु
अन्तेएव अतिरात्रोयागः सः अहीन इति तयोर्लिङ्गतोक्तिः ।
सत्रेषु यजमानसहितानां षोडशर्त्त्विजां कर्त्तृत्वात्
सर्व्वेषां यजमानत्वम् तेन तत्र दक्षिणाभावः सर्व्वेषां
स्वामित्वयोगात् फलवत्त्वाच्च यजमानत्वातिदेशेन सप्त-
दशानामेव यजमानधर्म्मदीक्षणादि । अन्वारम्भस्तु
गृहपतेरेव । क्रतुनिष्पत्त्यर्थं पात्रासादनादौ कर्मणि
एकस्यैककर्त्तृत्वं तेनैव कृते सर्व्वकृतत्वम् । गृहपत्याह-
वनीयीय एव अङ्गारप्रामनम् । अध्यायसमाप्तिपर्य्यन्ते
तदीयद्रव्यदेवतामन्त्रदीक्षाकालविधानादि ।
१३ अ० ४ क० । तत्र १ क० गवामयनमत्रप्रकारः तत्र द्वाद-
शाहधर्मातिदेशः । २, ३, ४ क० तत्रद्रव्यदेवतामन्त्रविधानादि
१४ अ० ३ क० । तासु ज्योतिष्टोमसंस्थाभेदवाजपेयकाल
द्रव्यदेवतामन्त्रविधानादि ।
१५ अ० १० क० । तासु राजसूययाग उक्तः तत्र
क्षत्रियजातेरेवाधिकारः वाजपेयेनेष्ट्वा न राजसूयः
कार्यः । तत्र द्रव्यदेवतामन्त्रविधानादि
१६ अ० ८ क० । तत्र १ क० पञ्चचितिकस्थलविशेषस्था-
ग्निविधानप्रकारः चयनरूपाङ्गकाग्नेः सोमाङ्गत्वोक्तिः
पृष्ठ १८७१
तत्र च इच्छयाऽधिकारः तत्रायं भेदः महाव्रतसंज्ञक-
स्तोत्रसाध्यसोमयागे एव पञ्चचितिकस्थलस्य नियमः
अन्यत्र इच्छया विकल्पः । ४ क० पर्य्यन्ते उखानिर्माण-
प्रकारादि । उखाशब्दे तद्विधिरुक्तः
४ कण्डिकान्ते ५ क० च अग्निचयनप्रकारस्तत्रत्यदेवतामन्त्रादिकथनम् ।
६ क० अग्निविशेषपञ्चकचयनप्रकारः
७ क० तत्रत्यप्रायश्चित्तिहोमविधानम्
८ क० अग्निचयनस्य पूर्व्वमुक्तस्य प्रकारभेदतत्कालद्रव्यदेव तामन्त्रादि ।
१७ अ० १२ क० । तत्र प्रायश्चित्तान्तकर्मोत्तरकर्त्तव्यविधान-
भेदद्रव्यदेवतामन्त्रादिकथनम् ।
१८ अ० ६ क० तासु शतरुद्रियहोमः तदङ्गकर्मद्रव्यं-
देवतामन्त्रादिकयनम् । ६ क० शेषे अग्निचितोनियमा
उक्ता यथा अग्निचिद्वर्षति न पठेत् । पक्षिमांसा-
भोजनम् । प्रथमचयने द्विजातिभार्य्यामेव गच्छेत् न
शूद्राम् । द्वितीयचयने सवर्णामेवोपगच्छेत् नान्यवर्णां
क्षत्रियां वैश्यां वा । तृतीव्ये न काञ्चन स्त्रियं गच्छेत् ।
ब्रह्मचार्येव भूयात् । यावज्जीवमित्थं व्रतं कुर्य्यात् ।
संवत्सरं वेति पक्षान्तरम् । चित्याशक्तौ सोमेज्यायां स्वय
मातृण्णाविश्वज्योतिरृतव्यानामन्यतमानामिष्टकानामुपधा-
नम् । पुनश्चयनमचयनं वेति पक्षान्तरोक्तिः ।
१९ अ० । ७ क० । तत्र सौत्रामणीयागोविहितः । तत्र
ऋद्धिकामस्य ब्राह्मणस्यैवाधिकारः । स च अग्निमता
सोमयाजिना सोमयागान्ते कार्य्यः । सीमातिपूतस्य (यस्य मुखा-
तिरिक्तनासाकर्णगुह्यादिच्छिद्रेभ्यः पीतः सोमः स्रवति स
सोमातिपूतः) सोमवामिनश्च (मुखेन यः पीतसीमं वमति
स सोमवामी) तस्याऽत्राधिकारः । स्वराज्यात् रिपुभिः
प्रच्यावितस्य राज्ञोऽपि स्वराज्यप्राप्त्यर्थमधिकारः ।
पशुप्राप्तियोग्यस्यापि अप्राप्तपशोः पशुकामनया वैश्यस्याऽ-
प्यत्राधिकारः । अयं चतूरात्रसाध्यः । तदङ्गसुरासन्धान
प्रकाराद । तत्र द्रव्यदेवतामन्त्रादि ।
२० अ० ८ क० । तत्राश्वमेधयागोविहितः तत्र
अभिषेकवतः क्षत्रियजातेः राज्ञोऽधिकारः न विप्रवैश्ययोः ।
स च त्रिरात्रसाध्यः सर्वकामाप्तिफलकः । तत्र
कालद्रव्यदेवतामन्त्रादि । अश्वमेधशब्देऽस्य विवृतिः ।
२१ अ० ४ क० । तत्र १ क० पुरुषमेधयज्ञोविहितः सर्व-
भूतेभ्योऽतिष्ठोत्कर्षकामस्यात्राधिकारः । स च पञ्चरात्र-
साध्यः एकविंशतिदीक्षः ब्राह्मणक्षत्रिययोस्तत्राधिकारः
न वैश्यस्य । तदीयद्रव्यदेवतामन्त्रादि । २ क० सर्व्वकामस्य
सर्वमेधयागोविहितः स च दशरात्रसाध्यः । ३ । ४ क० ।
तत्र पुरुषः अश्वः गौः मेषः अजः इति पञ्चपश्वालम्भनं
तद्विधानादि प्रोषितस्य मृतस्य वा संवत्सरास्मृतौ पितृ-
मेधो यज्ञो विहितः तत्र नक्षत्रादिकालद्रष्टव्यदेवतामन्त्र-
विधानादिकथनम् ।
२२ अ० ११ क० । तत्र १ क० यजुर्वेदोक्ताधानादिपितृमेधान्त-
कर्म्माण्युक्त्वा सामवेदविहिता एकाहसाध्ययागा विहिताः ।
तत्र परिभाषा । संस्यान्तरानुक्तौ अग्निष्टोममंस्थएव
क्रतुर्भवति । भूर्नामैकाहः १ धनुमात्रदक्षिणः । ज्यीति-
र्नामैकाहः २ । तौ च विशेषानुक्तौ अग्निष्टोमसंस्थौ ।
गोसंज्ञकः ३ आयुःसंज्ञकश्च ४ एतावेकाहौ उक्थ्यसंस्थौ
अभिजिद्विश्वजितौ ५६ एतौ अग्निष्टोमकल्पौ । तत्राभि-
जिति गोसहस्रं शताश्वं वा समुदितं वा दक्षिणा ।
विश्वजिति सहस्रं सर्व्वस्वं वा समुदितं वा दक्षिणा ।
तत्र ज्येष्ठपुत्रस्य विभागयोग्यद्रव्यभिन्नं भूमिदासवर्ज्जं
सर्वस्वपदार्थः । यतो भूमेः धारणचङ्क्रमणद्वारेण
उपयोगात् दासस्य शुश्रूषार्थमुपयोगात् तद्वर्ज्जं
हिरण्यादिकं सर्व्वस्वपदार्थः इत्येकमतम् । स्वमते पुरुषमेधे
गर्भदासदानदर्शनात् भूम्येकदेशपरित्यागे धारणसम्भ-
वात् तद्व्यतिरिक्तं सर्व्वस्वं देयमिति । अवभृथस्नाने
वत्सच्छविं परिदधातीतिश्रुतेः तद्व्यतिरिक्तविषयं सर्व्व-
स्वम् । एवं दीक्षोपयोगिद्रव्यव्यतिरिक्तविषयमपि ।
सहस्रादधिकं सर्व्वस्वं दक्षिणा देयेति फलितम् ।
विश्वजिति द्वादशरात्रादिनियमभेदः । अभिजिति कृते
विश्व जितोऽनुष्ठानम् अभिजिद्विश्वजितोर्युगपदनुष्ठानं वा ।
तयोर्युगपत्करणे देवयजनस्थानविशेषोक्तिः तत्र वृतषोड-
शर्त्विजां बाहुल्यात् अन्यतमेनान्यत्र कर्म सम्पाद्यम् ।
तत्र बहिर्वेदिकानि कर्म्माणि समानानि । अन्तर्वेदिकान्येव
विशिष्टानि । युगपत्करणपक्षेऽपि अभिजित एव पूर्व्वं पूर्व्व
मङ्गं कृत्वा विश्वजितः उत्तरमुत्तरं कार्यम् । सर्वजिन्नामा
७ एकाहः स च महाव्रतसंज्ञसामस्तवसाध्यः तद्विधा-
नादि तत्र संवत्सरं दीक्षा सप्ताहाभिषवः । तत्र तिस्रः
षट् वा उपसदः । तथा च संवत्सरं दीक्षां कृत्वा तदूर्द्ध्वं
सप्तमाहे अभिषवं कृत्वा सप्ताहे अतीते सुत्या भवति तत्र
च तिस्रः षड् वा उपसदः कार्य्याः । तत्र संवत्सरं दीक्षा-
अग्निचयनवद्वा दीक्षा कार्य्या । स च अग्निष्टोमसंस्य
एव । २ क० सर्व्वजिति दक्षिणाभेदतद्विधानादि । अयञ्च
उक्य्यकल्पः । उक्तानामभिजिदादीनां संज्ञान्तरम् ।
पृष्ठ १८७२
तत्र अभिजितो ज्योतिःसंज्ञा विश्वजितः विश्वज्योतिः-
संज्ञा । सर्वजितः सर्व्वज्योतिःसंज्ञा । तद्दक्षिणाभेद-
विधानादि । उक्थ्यसंस्थश्चतुर्थस्त्रिरात्रसम्मितसंज्ञः ।
साद्यस्क्रसंज्ञाः ८, ९, १०, ११, १२, १३ षट् क्रतवोविहि-
ताः । ते च क्रमेणोत्तरत्र दर्शिताः । तत्राद्ये ८ स्वर्ग-
कामपशुकामभ्रातृव्यवतामेवाधिकारः । द्वितीये साद्यस्क्रे ९
दीर्घव्याधिशमप्रतिष्ठान्नाद्यकामानामधिकारः ।
अनुक्रीनाम साद्यस्क्रः तृतीयः १० तत्र कर्मादिना हीनस्य
तन्निवृत्तिकामस्याधिकारः । विश्वजिच्छिल्पाख्यः ११
चतुर्थः । तस्मिन् दक्षिणाभेदः तत्र सर्व्वस्वप्रतिनिधि-
र्वेति दक्षिणोक्ता सर्व्वस्वप्रतिनिधिद्रव्याण्येवमुक्तानि यथा
धेत्वनुडुत्सीरधान्यपलादिमानार्हस्वर्ण्णरूप्यादिदासदासी-
मिथुनसोपकरणमहानसहयाद्यारोहणगृहशय्या । तेन
सर्व्व स्वपदेनैषामेव ग्रहणम् । वैरनिर्यातनकामस्य श्येनो-
नाम १२ पञ्चमः साद्यस्क्रः । तत्र दक्षिणाऽनुष्ठान-
मन्त्रदेवतादि । एकत्रिकनामा षष्ठः १३ साद्यस्क्रः । सर्व्वे-
षामेषां दीक्षायाः सद्यःक्रियमाणत्वात् साद्यस्क्रसंज्ञा ।
व्रात्यस्तोमाश्चत्वार एकाहाः १४ । १५ । १६ । १७ विहिताः ।
इह त्रिपुरुषं पतितसावित्रीका व्रात्यास्तद्दोषशान्त्यै एते
कार्य्यास्तत्र लौकिकेऽग्नौ होमः । तेषां प्रथमे १४
व्रात्यस्तोमे गाननर्त्तनकारिणां व्रात्यानामधिकारः ।
नृशंसत्वेन निन्दितस्य द्वितीये उक्थ्यसंस्थे १५
अधिकारः । कनिष्ठस्य तृतीये १६ । तथा च कनिष्ठं
गृहपतिं कृत्वा स कार्य्यः । ज्येष्ठस्य अल्पप्रजनस्य स्थविरस्य
चतुर्थे १७ अधिकारः तादृशं गृहपतिं कृत्वा गार्हपत्ये
स कार्यः । तद्दीक्षाविधानादि । कृतव्रात्यस्तोमस्य व्यव-
हार्यता भवति । अन्ते ब्रह्मवर्चसवीर्य्यान्नाद्यप्रतिष्ठाकामस्य
आत्मनोऽपूतत्वनिवृत्तिकामस्य च कर्त्तव्यः अग्निष्टोम-
संस्थः अग्नि ष्टुन्नामैकाहः १८ ।
५ क० । तत्र द्रव्यदेवतामन्त्रविधानाद्युक्तम् । त्रिवृत्-
स्तोमका अग्निष्टोमस स्थाः चत्वारः क्रतवोविहिताः । तत्र
अनिरुक्तप्रातःसवनः प्रथमः १९ । तस्य ईप्सुयज्ञ इति
संज्ञा । हिरण्यादिकामस्य ग्रामकामस्य चात्राधिकारः ।
तत्र द्रव्यदेवतामन्त्रविधानादि । वृहस्पतिसवः द्वितीयः
२० । राज्ञा सहिता ब्राह्मणाः यं ब्राह्मणं धर्म्मस्थापक-
त्वेनाङ्गीकुर्वीरन् तस्यात्राधिकारः । इषुसंज्ञ २१ स्तृतीयः ।
स च श्येनवत्कार्य्यः किन्तु न सद्य इति भेदः । स च
मरणकामकर्त्तव्यः । ६ क० सर्व्वंस्वारश्चतुर्थः २२ एकाहः
क्रतुः जीवितुकामस्य मर्त्तुकामस्य वात्राधिकारः । तत्र-
सिद्धान्नदक्षिणा । तस्य द्रव्यदेवताविधानादि । ऋत्विग-
पोहनीयास्त्रयः २३, २४२५ क्रतवोविहिताः । तेषु
आद्यः सर्व्वस्तोमः २३ । द्वादशाहिकच्छन्दोमत्रयमध्ये
उक्थ्यसंस्थे उत्तमे अहनो पृथक् कृत्वा द्वितीय-
तृतीयौ २४, २५, ऋत्विगपोहनीयौ कार्यौ । वाचस्तो-
माश्चत्वारः २६, २७, २८, २९ । छान्दोग्ये चैषां विशेषः ।
अन्ते त्रिवृत्पञ्चदशसप्तदशैकविंशत्रिनवत्रयस्त्रिंशाख्याः
षट् ३०, ३१, ३२, ३३, ३४, ३५, पृष्ट्यस्तोमाः एकाह-
विशेषाविहिताः ।
७ क० । तेषां विधानप्रकारमन्त्रदेवतादिकथनम् ।
अग्न्याधेयपुनराधेयाग्निहोत्रदर्शपौर्ण्णमासदाक्षायणाग्रयण
संज्ञाः ३६, ३७, ३८, ३९, ४०, ४१, षट् प्रतिकर्म्मसोमाः
क्रतवोविहिताः । तद्विधानादि ।
८ क० । सप्तदशस्तोमकाः ४२, ४३, ४४, ४५, ४६, पञ्च
क्रतबोविहिताः तत्र ग्रामकामस्य उपहव्यनामा ४२
अनिरुक्तः । मिथ्याभिशस्तस्यापि तत्राधिकारः । तद्दक्षिणा-
विधानादि । स्वर्गकामस्य ऋतपेयः ४३ । तद्विधानप्रकार-
देवतामन्त्रकथनम् ।
९ क० पशुवैश्यकामयोर्वैश्यस्तोमः ४४ । तद्विधानादि ।
तीव्रसुन्नामकः ४५ उक्थ्यसंस्थः क्रतुः । तीव्रसुति
सोमातिदेशेऽपि विशेषविधानम् । तत्र सोमातिपूतस्य
स्वराज्यात् प्रच्यावितस्य राज्ञः दीर्घव्याधिशान्तिग्राम-
प्रजापशुकामानाञ्चाधिकारः । तद्विधानादि ।
१० क० राज्यकामस्य राजन्यस्य राट्संज्ञकः क्रतुः ४६
तद्विधानादि । सचाग्निष्तोमसंस्थः । सऐन्द्रपरियज्ञः
ऋषभवत्कार्य्यः । विराडाख्यः ४७ क्रतुः अन्नाद्य-
कामस्य कर्त्तव्यः सऐन्द्रपरियज्ञवत् आद्यन्तयोः आग्नेय-
पशुकः कार्य्यः । औपशदनामा ४८ एकाहः प्रजाति-
कामस्य विहितः । तद्विधानादि । पुनस्तोमनामा ४९
एकाह उक्थ्यसंस्थः । तत्र प्रतिग्रहदोषशान्तिकामस्या-
धिकारः तद्दक्षिणादि । पशुकामस्य चतुष्टोमनामकौ ५०,
५१ उद्भिद्बलभिदौ च एकाहौ ५२, ५३ दर्शपौर्ण्ण-
मासंवत् संहतावेव तौ फलसाधकौ । इषुरिष्टिः ५४
तद्विधानादि । उद्भिदा इष्ट्वा ततएव दिनादारभ्यार्द्धमास
मासं संवत्सरं वा प्रत्यहं इषुरिष्टिर्विधेया । तद्विधा-
नादि । पूजाकामस्य अपचितिनामकौ ५५, ५६, द्वौ
यज्ञौ विहितौ । तत्राराज्ञस्त्रैवर्णिकस्य वाधिकारः । तद्वि-
पृष्ठ १८७३
धानादि । तत्रपूर्ब्बस्य पक्षीतिसंज्ञा ५५ उत्तरस्य ज्योतिः
संज्ञा ५६ । तौ च साग्निचित्यौ सर्वजिद्वद्दीक्षायुक्तौ च
११ क० तयोर्दक्षिणा । ऋषभगोषव उ५७, ५८, द्वौ
क्रतू विहितौ तत्र अग्निष्टोमसंस्थे ऋषभे राज्ञोऽधिकारः
तद्दक्षिणाभेदश्च । गोषव उक्य्यसंस्थः गवायुतदक्षिणः
तत्र वैश्यस्यान्येषा वा अधिकार इति मतद्वयम् । तद्विधा-
नादि । मरुत्स्तोमनामा ५९ यज्ञः तत्र भातॄणां सखीनां
वा गणभूतानामधिकारः । वैश्यस्तोमोक्तदक्षिणा । ऐन्द्राग्न-
कुलायोनाम ६० क्रतुः प्रजाकामपशुकामयोस्तत्राधि-
कारः । गोकुलदक्षिणा । तत्र च द्वयोर्भ्रात्रोः सख्यो-
र्वाऽधिकारः न गणानाम् । राजकर्त्तव्यः उक्थ्यसंस्थ
इन्द्रस्तोमो ६१ विहितः । पुरोधाकामस्य इन्द्र्याग्नो-
स्तोमः ६२ क्रतुः विहितः । सायुज्यकामयोः राजपुरोहित
योरप्यत्राधिकारः । तयोः पृथक् वा सह वाधिकार इति
विकल्पः । पशुकामस्य अग्निष्टोमसंस्थौ विघनौ ६३, ६४
नाम यज्ञौ विहितौ । अभिचारकामस्य पशुकामस्य वा
तयोरधिकारः तत्र पशुकामस्य सम्पन्ना वृहती, अभिचारकामस्य
त्रिंशद्गावोदक्षिणेति भेदः । अभिचारकामस्य संदश-
बज्रौ ६५, ६६ द्वौ यज्ञौ विहितौ, तौ च द्वन्द्वसोमौ कर्त्त-
व्यौ, तत्र वज्रः षोडशिसंस्थः कर्त्तव्यः तत्र विशेषोक्तिः ।
स दशेन राजानमेवाभिचरेत् न जनपदम् । वज्रेण
जनपदमेवाभिचरेत् न राजानम् । वैपरीत्येन वेति
मतान्तरम् । अभिचारेण राजाद्युपशमं कृत्वा मारयित्वा
वा आत्मशुद्ध्यर्थं ज्योतिष्टोमेन यजेतेति । इति सामवेद
विहिता एकाहाः दर्शिताः ।
२३ अ० ५ क० । तत्र १ क० । अहीनसंज्ञकयागानां
द्वादश उपसदः, माससमाप्यत्वञ्च । सुत्योपसद्विशेषोपदेशः
दीक्षाभेदश्च च विहितः । तथा च सौत्यानि उपसदाञ्च
दिनानि परिगणय्य दीक्षा । द्विरात्रावधिद्वादशाह-
पर्य्यन्तसाध्या यागाः अहीना इत्युच्यते । तत्र पाठात्
अतिरात्रस्याप्यहीनसंज्ञत्वम् इत्येकीयमतम् । द्व्यहादिषु
दशरात्रादिकादिप्रवृत्तिर्गौण्या इत्युक्तिः । द्वादशाह-
कर्त्तव्यदशरात्रस्य द्व्यहादिषु कर्त्तव्यतोक्तिः । द्विरात्रा-
दिषु सहस्रदक्षिणा चतूरात्रादिष्वधिका दक्षिणा । तत्र
दक्षिणादाने प्रत्यहं समभागेन देयतोक्तिः । अन्त्येऽ-
वशिष्टदानम् । १३ त्रयोदश अतिरात्राः विहिताः । यथा
तत्र षोडशिग्रहरहिताश्चत्वारः प्रथमा अतिरात्राः । तत्र
प्रजातिकामस्य नवसप्तदशसंज्ञः १ ज्येष्ठभ्रातृमत्याः स्त्रियाः
ज्येष्ठपुत्रस्य कर्त्तव्यः विषुवन्नामातिरात्रः २ । भ्रातृव्यवतः
गौर्नामातिरात्रः ३ । स्वर्गकामस्यारोग्यकामस्य वा
आयुर्नामातिरात्रः ४ । इति प्रथमाः चत्वारः । ऋद्धिकामस्य
ज्योतिष्टोमनामा ५ । पशुकामस्य विश्वजिन्नामा ६ । ब्रह्म-
वर्चसकामस्य त्रिवृन्नामा ७ । वीर्य्यकामस्य पञ्चदश-
नामा ८ । अन्नाद्यकामस्य सप्तदशनामा ९ । प्रतिष्ठाका-
मस्य एकविंशनामा १० इति षट् अतिरात्रा विहिताः ।
प्राप्तस्यप्राप्तस्यपशोर्भ्रंशे तल्लाभकामस्य आप्तोर्यामोऽतिरा-
त्रः ११ । भ्रातृव्यवतोऽभिजिन्नामातिरात्रः १२ । भूतिमिच्छोः
सर्वस्तोऽमोतिरात्रः १३ । इति त्रयोदश अतिरात्राः ।
२ क० । द्विसुत्यास्त्रयः अहीनाः । तत्र द्वितीयतृतीययोः
षोडशिग्रहरहितौ द्वौ अतिरात्रौ । आङ्गिरसचैत्र-
रथकापिवना इति तेषां संज्ञाः । द्वितीयं द्विरात्रमुक्थ्य
पूर्वकमेके इच्छन्ति । पार्ष्ठिकस्याग्निष्टोमस्य स्याने
उक्थ्यं कुर्व्वन्ति । संस्थान्यत्वमात्रं धर्म्मास्तु तदीयाएव ।
पुण्यार्होऽपि यः पुण्यहीन इव स्यात् तस्य आङ्गिरसद्विरा-
त्रेऽधिकारः । १ । प्रजाकामस्य चैत्ररथे २ । स्वर्ग कामस्य
पशुकामस्य वा कापिबनेऽधिकारः ३ । त्रिसुत्या अहीनाः
गर्गवैदच्छन्दोमान्तर्वसुपराकाख्याः पञ्च क्रतवः । तत्र
वैदे त्रिरात्रे १ त्रिवृत्स्तोमयुक्ताः सर्व्वे अतिरात्राः
तत्संस्थान्यत्वमात्रम् । तत्र राज्यकामस्याधिकारः ।
पशुकामस्य अन्तर्वसौ २ । स्वर्गकामस्य पराके ३ इति भेदः ।
अत्रिचतुर्वींरजामदग्न्यवशिष्ठसंसर्पविश्वामित्राख्याश्चत्वारः
चतुरहसाध्याःक्रतवो विहिताः । तत्र जामदग्न्ये, चतुरहे
पुष्टिकामोऽधिकारी । तत्र विंशतिर्दीक्षाः । सर्वेषु
उपसदः पुरोडाशवत्यः स्युः । ३ क० तेषां विधानादि ।
४ क० । पञ्चाहसाध्याः त्रयः अहीनाः । तत्र प्रथमः
देवपञ्चाहसंज्ञकः पञ्चशारदीयः द्वितीयः तद्विधानादि व्रतवत्
संज्ञकस्तृतीयः पञ्चाहः । तत्र ज्योतिर्गौर्महाव्रतं गौरायुः
इत्येतन्नामका पञ्च एकाहाः । सर्वजितैवात्र दीक्षा भवति ।
तद्विधानदि । ५ क० । षडहा अहीनास्त्रयः ।
ऋतुषडहः १ पृष्ठ्यावलम्बाख्यः २ त्रिकद्रुकः ३ इति तेषां
नाम । तेषु स्तोमविधानादि । सप्त सप्ताहा अहीना
विहिताः । तत्र चतुर्ण्णां महाव्रतमुत्तमं भवति । चतुर्ण्णां
मध्येतृतीयः पशुकामस्य भवति । इन्द्रसप्ताहसंज्ञः पञ्चमः ।
तत्र पञ्चमे सप्ताहे द्वितीयादेकाहादारभ्य षडेकाहाः
सुत्याहानि भवन्ति । तत्र ज्योतिर्गौः आयुः अभिजि-
द्विश्वजित् सर्व्वजित् इत्येते षट् प्रत्येकं समहाव्रताः
पृष्ठ १८७४
कार्याः । एवञ्च महाव्रतं सर्वाहेषु भवति । सर्वस्तोमौत्तमः
शेषाहे ज्योतिर्गौरायुरभिजित् विश्वजित् सर्व्वजित्
महाव्रतं सर्व्वस्मोमोऽतिरात्रः । जनकसप्तरात्रः षष्ठः
सप्ताहः । तद्वि धानादि । उत्तमे सप्तमे सप्ताहे
वृहद्रथन्तरसामयुक्तवृष्ट्यः ते च पृष्ट्यस्तीमाख्याः इत्येवं
सप्त सप्ताहा अहीना उक्ताः । तत्र विधानादि । अष्टसुत्ये
अहीने पार्ष्ठिकात् षड़हादवसितात् महाव्रतम् भवति ।
नवरात्रे त्रिकद्रुका ज्योतिः गौः आयुः इत्येतन्ना-
मकाः । नवरात्रे षडहादूर्द्ध्वं ज्योतिः गौः आयुरित्येते
रकाहा भवन्ति । तस्यैव प्रकारान्तरम् । तद्विधानादि ।
दशरात्राश्चत्वारः । त्रिककुप् प्रथमः प्रतिष्ठाकामस्य ।
तद्विघानादि । कोसुरुविन्दो नाम द्वितीयः अभिचर्य्य-
माणस्य । पूर्दशरात्रनामा तृतोयो दशरात्रः ।
तद्विधानादि । पशुकामस्य छन्दोमनामा चतुर्थो
दशरात्रः । पोण्डरीकनामा एकादशरात्रः तद्विधानादि ।
२४ अ० ७ कण्डिकाः । तत्र १ क० । द्वादशरात्रादीनि
एकैकाहर्वृद्ध्या चत्वारिंशद्रात्रान्तानि सत्राणि उक्तानि ।
तत्र च येन क्रमेण यान्यहानि उपदिष्टानि तानि तथैवा-
वगम्यानि । तत्र आवापिकानामन्यः क्रमः औपदेशिकानान्तु
उपदेशक्रमएव ग्राह्यः । तत्रोपदिष्टाहर्व्यतिरिक्तानामह्ना
मावापक्रमोक्तिः । यथा अपूर्य्यमाणे सत्रे दशरात्रावापो-
भवतिं स च भवन् पर एव भवति न पूर्ब्बः । षट्
पार्ष्ठिकानि अहानि, चत्वारि छन्दोमानि अहानीति
दशरात्रः । पृष्ट्यः षडहः त्रयश्छन्दोमा अविवाक्योदशम
इत्ययं वा दशरात्रो भवति । अयञ्च सर्व्वेषामह्नामन्ते
परोमवति । प्रकृतिविहितेषु महाव्रतं दशरात्रादुत्तरमे-
काहार्थे भवति । एकाहं विना सत्रसंख्यापूरणे दशरात्रात्
परं महाव्रतं भवतीत्यर्थः । महाव्रतादम्यत्र आवापानन्तरं
दशरात्रात् पूर्व्वं भवति । यत्र षड्भिरहोभिर्विना न
पूर्यते सत्रसंख्या तत्राभिप्लवः षडहाथे पूरणोभवति ।
अभिप्लवस्यादितः पञ्चाहानि । पञ्चाहार्थे (पञ्चाहन विना
(संख्याऽपूरणे) । त्र्यहार्थे (त्र्यहेम विना सत्रसंख्याऽ-
पूरणे) ज्योतिर्गौरायुः । ज्योतिरादीनां त्रिकद्रुका इति
संज्ञा । चतुरहार्थे (चतूरहं विना सत्रसंख्याऽपूरणे) ।
ज्योतिरादित्रिकम् महाव्रतञ्च । एतच्चतुष्कं पूरणं भवति ।
द्व्यहार्थे (द्व्यहं विना सत्रसंख्याऽपूरणे) गौरायुश्च
पूरण भवति । सत्रस्याद्यन्तयोरतिरात्रः कार्य्यः प्राय-
णीयोदयनीययोरन्तराले । आवापस्थानम् । यश्चा-
वापः क्रियते तस्य तयोरतिरात्रयोर्मध्ये करणं विहि-
तम् । आवापानां समवायेन यत्र सत्रं पूर्य्यते तत्र
यद्यदल्पं तत्तत्पूर्ब्बं भवति । यथा एकोऽभिप्लवः षडहः
अपरस्तस्यैव पञ्चाहः चतुरहस्त्र्यहोह्यहो वा तत्र पञ्चा-
हादेः पूर्व्वमावापः । इति सत्रावापोपयोगिनी परिभाषा ।
द्वेत्रयोदशरात्रसत्रे । तत्र पृष्ठ्यादवसितात् सर्व्वस्तोम-
संज्ञोऽतिरात्रो भवति । अयं भावः सर्व्वेषु सत्रेषु द्वादशाह-
धर्माविहिता अतस्त्रयोदशरात्रे सत्रे सकलोऽपि द्वाद-
शाहो भवति, एकमहरवशिष्यते । तत्र पृष्ठ्यात् परः सर्व्व-
स्तीमोऽतिरात्रः कार्यः । तथाच १ प्रथमदिने प्राय-
णीयातिरात्रः, ततो द्वितीयादिषु षट्सु दिनेषु सप्त-
माहान्तेषु पृष्ट्यः षड़हः, अष्टमे सर्वस्तोमोऽतिरात्रः,
नवमादिषु चतुर्षु छन्दोमाश्चत्वारः, त्रयोदशे उदयनीयाति-
रात्र इत्येवं क्रमः, एवमन्यत्रापि । द्वियोये त्रयोदशरात्रे तु
दशरात्रादुत्तरं महाव्रतमिति भेदः । सम्भार्यतृतीयत्रयो-
दशरात्रस्य गवामयनवत् सम्भरणप्रकारः । चतुर्द्दशरात्राणि
त्रीणिसत्राणि । तेषां विधानादि । तत्रान्तिमे विवाहोदक-
तल्पसंशयितानामधिकारः । पञ्चदशरात्राणि चत्वारि ।
तद्विधानादि सप्तदशरात्रे अष्टादशरात्रे एकोनविंशरात्रे
विंशतिरात्रे च एवमेवावपनपूर्त्तिः । २ क० षोड़शरात्रा-
दिषु चतुर्षु आवापप्रकारः । तत्र षोडशरात्रे प्रायणीयात्
त्रिकद्रुकाः दशरात्रोत्तरं व्रतञ्च । सप्तदशरात्रे प्रायणीयात्
पञ्चाहः । अष्टादशरात्रे प्रायणीयात् षडहः, एकोन-
विंशरात्रे प्रायणीयात् षडहोदशरात्रोत्तरं व्रतञ्च ।
इत्येवमावापोक्त्या विधानप्रकारः । एकविंशतिरात्रौ
अषोड़शिको द्वौ अतिरात्रौ । तत्रावापप्रकारः । तद्विधानाति ।
अन्नाद्यकामस्य द्वातिंशतिरात्रो विहितः । तद्विधानादि ।
प्रतिष्ठाकामस्य त्रयोविंशतिरात्रोविहितः । प्रजाकामस्य
पशुकामस्य च चतुर्विंशतिरात्रोविहितः । तच्च द्विविधं
तत्र प्रथमस्य विधानादि । द्वितीयस्य संसदसंज्ञा । तत्र
विधानादि । अन्नाद्यकामस्य पञ्चबिंशतिरात्रं, प्रतिष्ठा-
कामस्य षड्विंशतिरात्रम्, ऋद्धिकामस्य सप्तविंशति
रात्रम्, प्रजाकामस्य पशुकामस्य वा अष्टाविंशतिरात्रस्,
द्वात्रिंशद्रात्रञ्च विहितम् । तेषां क्रमशो विधानानि ।
एकोनत्रिंशद्रात्रस्य त्रिंशद्रात्रस्य एकत्रिंशद्रात्रस्य द्वात्रिश-
द्रात्रस्य च विधानादि । त्रयस्त्रिंशद्रात्रस्य त्रयो भेदास्तेषां
विधानादि । चतुस्त्रिंशद्रात्रमारभ्य आ चत्वारिंशद्रात्रात्
सप्तानि सताणि आवापक्रप्तेण पूर्य्याणि । तत्र च विशेषः
पृष्ठ १८७५
अन्नाद्यकामस्य चतुस्त्रिंशद्रात्रम् प्रतिष्ठाकामस्य षट्त्रिंश-
द्रात्रम् समृद्धिकामस्य सप्तत्रिंशद्रात्रं प्रजाकामस्य पशुकामस्य
वा अष्टात्रिंशद्रात्र चत्वारिंशद्रात्रञ्च सत्रं विहितम् ।
एकान्नपञ्चाशद्रात्राणि सप्त सत्राणि विहितानि । तत्र
प्रथमस्य विधृतिसंज्ञा । तद्विधानादि । द्वितीयस्य यमा
तिरात्रसंज्ञा तद्विधानादि । अञ्जनाभ्यञ्जनीयम् तृतीयं,
विद्वत्सु मध्ये आत्मानं विख्यापयितुकामस्यात्राधिकारः ।
तद्विधानादि । संवत्सरमितं नाम चतुर्थं तद्विधानादि ।
३ क० । प्रजातिकामस्य विहितस्य एकषष्टिरात्रस्य एतत्
समानतया विधानादिप्रसङ्गादुक्तम् । सवितुः ककुभः पञ्चमः
तद्विधानादि । तत्र प्रजातिकामस्याधिकारः । षष्ठसप्त-
मयोः सामान्यतोविधानादि । शतरात्रस्य विधानादि ।
तत्र विधाने विकल्पः ।
४ क० । तत्र सवनसन्तन्यादिहोमविधानादि । संवत्सरप्र-
भृतिसत्रे गवामयनधर्मातिदेशः । आदित्यानामयनसंज्ञक-
सत्रस्य विधानादि । आदित्यानामयनवत् अङ्गिरसामयनं
कार्य्यंतत्र विशेषः । दृतिवातवतोरयनसंज्ञसत्रस्य विधानादि ।
कुण्डपायिनामयनसंज्ञसत्रस्य कालविधानादि । तत्र सुत्या-
स्थानेषु सोमोपनहनादिविशेषः । सर्पसत्रसंज्ञस्य सत्रस्य
भेदविधानादि तत्र गवामयनधर्मातिदेशः ।
५ क० । तापश्चितनामसत्रस्य विधानादि । महतापश्चित-
नामसत्रस्य विधानादि । क्षुल्लकतापश्चितनामसत्रस्य, सहस्र-
साव्याग्निसत्रस्य च विधानादि । त्रिसंवत्सरसत्रस्य विधा-
नादि । महासत्रसंज्ञसत्रस्य विधानादि । प्रजापतिसत्रसं-
ज्ञस्य द्वादशसंवत्सरसाध्यस्य विधानादि । षट्त्रिंशद्वत्सरसा-
ध्यस्य शक्त्यानामयनासंज्ञसत्रस्य विधानादि । शतसंवत्मरसा-
ध्यस्य साध्यानामयनसंज्ञसत्रस्य विधानादि । सहस्रसंवत्सर-
साध्यस्य विश्वसृजामयननामसत्रस्य विधानादि । तस्य च
गौण्या वृत्त्या सहस्रदिनसाध्यता तेन सहस्रसुत्यमेतत्
सत्रमित्युन्नेयम् । सारस्वतसत्राणां विधानादि । यात्-
सत्रनाम सत्रम् । ऋषभेनाधिकं गर्भिणीनां वत्सतरीणां
प्रथमगर्भाणां शतं सहस्रपूरणायारण्ये उत्सृजेत् तासां
सहस्रपूरणे इदं सत्रं समाप्यते स्त्रीवत्सानां दोहनाभावे
क्षिप्रं वर्द्धमानानां तासां सहस्रपूरणं सम्पद्यते इत्युक्तिः ।
सारस्वतस्य दीक्षाकालदेशादि यथा चेत्रशुक्लसप्तम्याम्
सरस्वतीविनशने स्थाने दीक्षा । सरस्वती नाम प्रत्यक्-
स्रोता नदी प्रवहति । तस्याः प्राक्पश्चाद्भागौ सर्वलोक
प्रत्यक्षौ मध्यमस्तु भागः भूम्यन्तर्निमग्नः प्रवहति नासौ
केनचिद्दृश्यते तत्स्थानं विनशनमुच्यते तच्च प्रभासस्थान-
मिति माधवाचार्य्यः । तत्र दीक्षाविधानादिप्रकारः ।
६ क० । तदीयाङ्गविधानादि । सरस्वतीदृषद्वत्योः सङमे
तद्विधानादि । प्लक्षस्रवणे (सरस्वत्या उत्पत्तिस्थाने) अग्नये
कामाये ष्टिर्विहिता तत्र कारपचदेशभेदे यजमानावभृथस्ना-
नम् । उदवसनीया इष्टिश्चान्ते कार्य्या । पृष्ठशमनीयरहि-
तानि स्वारस्वतानि त्रीणि सत्राणोत्युक्तिः । पूर्व्वोक्त-
सहस्रापूरणे गृहपतिमरणे सर्वासां गवां हानौ वा
एतत् सत्रं समाप्यते इत्युक्तिः । तत्र वक्ष्यमाणैरतिरात्रै-
रिष्ट्वा सत्रं समाप्यमित्युक्तिः । तत्र सहस्रपूरणे तदेव
दत्त्वा सत्रसमाप्तिः । गृहपतिमरणे आयुःसंज्ञातिरात्रं
कृत्वा, सर्वहानौ तु विश्वजित्सत्रं कृत्वा समापयेत्
इति भेदः । उभयथाऽपि ज्योतिष्टोमं कृत्वा वेति पक्षान्त-
रम् । इति प्रथमसारस्वतम् । द्वितीय दृतिवातवतोरयनवत्
कार्यं तद्विधानादि । तत्र तिथिक्षयवृद्ध्योरप्यविशेष
विधानम् । शुक्लकृष्णयोर्विशेषविधानादि । तृतीये सारस्वते
विश्वजिदभिजितोर्विधानादि । ऋत्विजाऽऽचार्य्येण वा
तत्र दार्षद्वतं नाम सत्रं कार्य्यम् । तत्र अरण्ये उत्सृष्टा-
गावः संवत्सरं, द्वितीयसंवत्सरं विगतोदके स्थाने रक्ष-
णीयाः । सरस्वतीतीरे नेतन्धवानाम पुराणा ग्रामाः सन्ति,
तत्राग्न्याधानमारम्भणीयं, कुरुक्षेत्रे परीणत्स्थले अन्वार-
म्भणीयम् । ततस्तृतीयवत्सरे परीणन्नामस्थले दर्शपौर्ण-
मासान्तं कुर्य्यात् । अवशिष्टविधानादि । दृषद्वतीतीरेणा-
गत्य यमुनाया मवभृथस्नानम् तत्र स्थाने मन्त्रपाठे विशेषः ।
७ क० । चैत्रस्य वैशाखस्य वा शुक्लपञ्चम्यां तुरायणनाम
सारस्वतं सत्रं कार्य्यम् । तस्य दीक्षाविधानादि । तच्चैकवर्ष-
साध्यं तत्र वर्षपर्यन्तकर्त्तव्योपदेशः । दार्षद्वतवदनियतो-
केऽवभृथस्नानम् । भरतद्वादशाहादिः द्वादशाहभेदः
तद्विधानादि । उत्सर्पिषु गवामयनविकल्पाभिधानम् ।
२५ अ० १४ क० । तत्र अङ्गवैगुण्यदोषोपशमार्थं प्रायश्चित्त-
विधानम् । तत्र प्रायश्चित्तशब्दार्थस्तु प्रपूर्व्वकायतेर्भावे
घञ् प्रायोविनाशः स च विध्यतिक्रमदोषः तस्य चित्तं
सन्धानं चितधातोर्भावे क्तः चित्तं धातूनामनेकार्थत्वात्
सन्धानमित्युच्यते । प्रायस्य विध्यतिक्रमदोषस्य चित्तं
सन्धानम् “प्रायस्य चितिचित्तयोः” इति “पार-
स्करप्रभृतीनीति” पा० वा० सुट् । तच्च विनाश-
कालएव कार्य्यमिति पूर्ब्बपक्षे “आगन्तुकानामन्ते
निवेशः” इति न्यायेन सर्व्वकार्य्यान्ते कार्य्यमिति सिद्धान्तो
पृष्ठ १८७६
गौणः । निमित्तकाले एव कर्त्तव्यतेतिमुख्यसिद्धान्तः
तत्कालाकरणेऽन्ते करणमितितस्य गौणकालताव्यपस्थापनम् ।
अनादेशे सर्व्वत्र प्रायश्चित्तं महाव्याहृतिहोमः । आदेश
विशेषे तु यथादिष्टं करणीयम् । यथा “प्रणीताः
स्कन्ना अभिमृशेदिति” यजु० ५, २८, प्रणीताभिमर्शनमेव
प्रायश्चित्तम् । महाव्याहृतिहोमेऽयं विशेषः । हौत्रिके
(ऋग्वेदोदिते) कर्म्मणि उपघाते गार्हपत्येऽग्नौ भूःस्वा हेति
प्रा० होमः अयमग्निदैवतः । स च अनादिष्टकर्त्तृकत्वात्
ब्रह्मणा कार्य्यः । ब्रह्मवरणात् प्राक्निमित्ते जाते ब्रह्मवर-
णात् प्राक् व्याहृतिहोमाय ब्रह्मान्तरं वृत्वा तेन कारयि-
तव्यम् । अब्रह्मवरणकेऽग्निहोत्रादौ तु स्वयं कार्य्यः ।
सोमे तु कालाहुतिमिरस्य समुच्चयः । यजुर्व्वेदोक्तकर्म्मोप-
वाते दक्षिणाग्नौ भुवःस्वाहेति प्रा० होमः कार्य्यः स च
प्राग्वत् ब्रह्मणैव कार्य्यः । सोमे तु तत्रापि आग्नीध्रीये
भुवः स्वाहेति होम इति भेदः । तस्य वायुर्देवता ।
सामवेदविहितकर्मोपघाते आहवनीयेऽग्नौ स्वःस्वाहेति
प्रा० होमः स च सूर्य्यदैवतः । चतुर्गृहीतानि सर्व्वत्र ।
सर्ववेदोक्तकर्म्मोपघाते व्यस्तैस्त्रिभिः समस्तेन भूर्भुवः
स्वःस्वाहेत्येकेनेति चतुर्वारहोमः कार्य्यः । अयाश्चाग्ने
इत्याद्याभिः पञ्चभिः प्रत्यृचमाहवनीये पञ्चाहुतिरूपः
सर्व्वप्रायश्चित्तसंज्ञकोहोमः । अविज्ञाते स्मार्त्तादौ
कर्म्मणि व्यस्तसमस्तमहाव्याहृतिहोमाश्चत्वारः कार्य्याः ।
तथा हि यत्र ऋग्वेदोक्तत्वादिना विशेषग्रहोनास्ति अथ च
स्मृतिरुपलभ्यते । यथा यज्ञोपवीतिना वद्धशिखेन दक्षिण-
पाणिना पवित्रपाणिना कर्म कर्त्तव्यमित्यादि स्मृति-
विहितं यज्ञोपवीतधारणादि । तस्य कथञ्चिदुपघाते
व्यस्तसमस्तमहाव्याहृतिहोमचतुष्टयं प्रायश्चित्तं कार्य्यम् ।
तदन्ते च याजुषेः प्रागुक्तं सर्वप्रायश्चित्तसंज्ञकं पञ्चर्चा-
हुतिरूपं सर्व्वत्र ज्ञातेऽविज्ञाते निमित्ते वा करणीयम् ।
अत्रायं सम्प्रदायभेदः । भूरिति गार्हपत्ये, भुव इति
दक्षिणाग्नौ, स्वरिति आहवानीये भूर्भुवः स्वरिति, सर्व्वप्रा-
यश्चित्तसंज्ञकनञ्चार्चाहुतिहोमश्च आहवनीये इति याज्ञिक
वासुदेव भट्टाः । भूरित्याद्याहुतिनवकमाहवनीय एवेति सम्प्र-
दायकारिकाकारौ । महापितृयज्ञे, दक्षिणाग्नौ
अवभृथेऽप्स्वेव, शतरुद्रिये परिश्रित्सु । त्र्यम्बकासु च चतु
षशथाग्नौ” इति कर्कः । अथ कर्मविशेषेषु प्रायश्चित्तभेदाः
७ क० ८ सू० पर्य्यन्तेषु उक्ताः । ७ क० ९ सूत्रादौ
कर्मसमाप्तितः पूर्ब्बं यजमाने मृते तदैव कर्मसमाप्तिर्भव-
त्येकः पक्षः ऋत्विगादिभिः शेषं समाप्यमित्यपरः पक्षः ।
तत्र कर्मसमाप्तावपि उत्तरक्रियाविशेषोविहितः ।
८ क० उपकृतपशुपलायनादौ प्रायश्चित्तभेदः ।
ततोऽन्त्येष्टिपद्धतिः । ९ क० । अस्थिचयनप्रकारादि ।
१० क० । सत्रविशेषकरणार्थं कृते उद्यमे दैवात्तदकरणे
विश्वजिन्नामकेनातिरात्रेण यजेत् । सत्राद्यर्थं कृतदीक्षाणां
यदि देवान्मानुषाद्वा निमित्तात् सामिकृते दीक्षामात्र
कृते वा सत्रे स्वामिनः सत्रं न समापयामीति बुद्धिर्जायते
तदा सोमेनोपलक्षितं साधारणं धान्यघृतादिकं पुत्रादिभ्यः
पृथगात्मीयं कृत्वा सर्व्वस्वदक्षिणेन विश्वजिताऽतिरात्रेण
यजेत् । स च सोमे क्रीतएव भवति नाकृते इति
ताण्ड्ये स्थितम् । क्रीतेऽक्रीते वा सोमे विश्वजिद्भवतीति
स्वमतम् । अध्वर्य्युप्रभृतीनां दैवात् स्वस्वकार्य्याकरणे
अदक्षिणं कर्म समाप्य पृनरन्यवरणपूर्व्वकं यागारम्भः ।
तत्र दिनभेदे विशेषः । दीक्षितस्य पत्नी चेत् रजस्वला तदा
दीक्षारूपाणि शङ्क्वादीनि निधाय सिकतासु आ रक्त-
स्रवणात् आसीत । सुत्यासु वर्त्तमानासु सिकतासूप-
विशेत् । प्रातःसायञ्च वेदिसमीपे सिकतास्वेव तिष्ठेत् ।
चतुर्थेऽहनि गोमूत्रमिश्रोदकेन स्मार्त्तं स्नानं विधाय
वासो धृत्वा सान्निपातिकं कुर्यात् नारादुपकारकम् ।
आरादुपकारकं च दीक्षणीयभूम्युल्लेखनादि । प्रसूता-
यास्तु दशरात्रादूर्द्ध्वं स्नानादि । गर्मिणीं न दीक्षयेदिति
तद्दीक्षानिषेधः इति मतान्तरम् । “अयज्ञियाः गर्भा”
इति श्रुतेः अनुबन्ध्याप्रकरणीयत्वात् निषेधस्य तद्विषय-
त्वेन गर्मवत्या अपि दीक्षाधिकारः इति स्वमत-
मुक्तम् । दीक्षितस्य दुःस्वप्नादिदर्शनादिप्रायश्चित्तविशेषः ।
चमसस्य पीतापीतत्वविषये प्रायश्चित्तम् । सोमस्योपरि
मेघवर्षणे भक्षाभक्षनिर्ण्णयपूर्ब्बकं तत्र प्रायश्चित्तम् ।
चमसदोषे द्रोणकलसशोषे च प्रायश्चित्तम् । अभ्रिभेदने
होमभेदः प्रायश्चित्तम् ।
सोमापहरणे, अव्यक्तरागपुष्पाणि तृणानि सोमकार्ये निधाय
अभिषवं कुर्य्यात् । बहुकालीनखादिरवृक्षस्य वल्लीरूपा
अङ्कुरा जायमाना श्येनहृतमित्युच्यते तत्, श्यामकान्,
सोमसदृशान् लताविशेषान् पूतीकान्, अरुणदूर्व्वा अव्यक्त-
रागा दूर्व्वा हरितकुशान् अशुष्कान् दर्भान् वा पूर्वपूर्व्वा-
भावे उत्तरोत्तरान् प्रतिनिघायाभिषुणुयात् । तत्र गोदानं
प्रायश्चित्तं कृत्वा उक्तद्रव्येण यागसमापनम् । तत्र च
अवभृयान्ते पुनः यज्ञः करणीयः, सोमकलसभेदे ब्रह्मसाम
पृष्ठ १८७७
पाठः प्रायश्चित्तम् इति विकल्पः । अभिषवणचर्मणि प्रसृ-
त्यादिमात्रसोमरसलाभे जलादिना तस्य वर्द्धनेन कलसमा-
पूर्य्य द्रोणकलसपूरणं सम्पाद्यम् । सोमेऽनुलभ्यमाने यत्किञ्चि-
दविगतमानीय पुनः यज्ञः । तत्र गोदानं प्रायश्चित्तम् ।
१२ क० । सोमातिरेके आद्यादिसवनभेदे प्रायश्चित्तभेदः ।
दीक्षितस्य रोगे द्रोणकलसे उप्तानां शुण्ठीपिष्पल्यादीनां
मध्ये येने च्छेत् तेन भिषक् विचिकित्सेत् नान्येन । तस्य
विधानादि । ज्वरितस्यापि रोगशान्तिं यावत् प्राग्विहितदेश
एव वासोनान्यत्र । प्रातःसवने च तस्य मन्त्रविशेषेणाभि-
षेकप्रकारः । एवं दीक्षितं सर्वे ऋत्विजः सवनान्तेषु स्पृशे-
युः । तत्र यजमानस्य मन्त्रभेदेन स्पर्शः । तत्र मरणे तस्य
दाहविशेषं कृत्वा दीक्षितस्यास्थीनि कृष्णाजिने बद्ध्वा
मृतस्यैव पत्न्यपि स्वकर्म पतिकर्म च कुर्य्यात् । पत्नी-
मरणेऽप्येवम् इति पक्षान्तरम् । तस्य भ्रात्रादिकं नेदि-
ष्ठिनं दीक्षयित्वा सत्रस्य समापनम् इति मतान्तरम् ।
खमते मरणे एव कर्मसमाप्तिः । उभयपक्षेऽपि । तत्र
प्रायश्चित्तविधानादि ।
१४ क० । उखाभरणदिने यजमानमरणे विशेषविधान-
प्रायश्चित्तानि । सत्रदीक्षामध्ये मरणेऽपि उक्तसोमादि-
कर्मान्तकरणाय दीक्षितस्य तत्कमेफलं भवति दीक्षि-
तस्य भ्रात्रादेरेव प्रकृतक्रतुफलप्राप्तिरिति मतान्तरम् ।
त्साग्निना नेदिष्ठिना पुत्रादिना स्वकीयेष्वग्निषु स्वकीयेन
द्रव्येणानुष्ठितस्य साग्निचित्यादिकक्रतोः नेदिष्ठिनएव फलं
प्रकृतक्रतुफलं तु मृतयजमानस्येति स्वमतम् । तत्र
उपदीक्षी स्वेष्वग्निषु नस्वनिकृन्तनावधि द्वादशान्तं सान्नि-
प्रातिकं कुर्य्यात् । यद्यनाहिताग्निर्नेदिष्ठी तदा सत्रिणा-
मेवाग्निषु करणं तत्र च वैश्वानरनिर्वापः प्रायश्चित्तम् ।
एकराजकयोरपर्व्वतान्तरेऽबद्यन्तरे समानदेशे यजमानयोः
यज्ञकरणे सोमसंसवो भवति । तथाच द्वौ यजमानौ
चेत् मिथो वैरिणौ समकाले एकस्मिन् देशे, गिरि-
नद्यादिव्यवधानं विना यागार्थं सोममेककालं सुनुतः
तदा समेत्य सवनात् संसव इत्युच्यते । तत्र सर्व्वं
कर्म सत्वरं कार्यम् । परयज्ञापेक्षया स्वयज्ञे संस्थाधिक्य-
मिच्छन् सत्वरं सर्वं कार्य्यं कुर्य्यात् । तद्विधानादि । भिन्न-
देशकालादौ पर्व्वताद्यन्तरे प्रीतौ च न संसव । ति
भेदः । संसवविषयएव होत्रादिभिस्वसदृशमरणकामैः
कर्त्तव्यकर्मविशेषविधानम् । यया होत्रा होतुः अध्व-
र्युणाऽध्वर्योः यजमानेन यजमानस्येत्यादिरूपेण मरण-
मिच्छता तत्कर्म कार्यम् । अयञ्च यज्ञः एकदिनरथ-
गम्यदेशे परस्परद्वेषे भवति अन्यतरस्य द्बेषाभावे उक्तदेशतो-
दूरत्वेच न सम्भवति । उक्तानामेकतरेण तथानुष्ठिते
एकतरस्य मरणे । स्वस्वयज्ञान्तर्गता अध्वर्य्वादयः तदीयकर्म्म-
शेषं स्मरणपूर्ब्बकं कुर्युः न वरणान्तरमपेक्ष्यते । सोमादि-
दाहे प्रतिनिधिना कर्म समापयेयुः । पञ्चगोदानं दत्त्वा
यज्ञसमापनम् । द्वादश्या रात्रेः प्राक् तथाभूते दोषे
पुनर्यज्ञारम्भः उत्तरन्तु पञ्चगोदानमात्रदक्षिणा प्राय-
श्चित्तमिति मतान्तरम् । ब्रह्मणएव विहितकर्माधिकारात्
अनादेशे सर्व्वत्र प्रायश्चित्तहोमे तस्येवाधिकारः । अब्रह्मके
तु अग्निहोत्रादौ यजमानाधिकारः इत्युक्तं प्राक् ।
२६ अ० ६ क० कण्डिकाः प्रवर्ग्योपयोगिमहावीरसम्भर-
णकर्मप्रतिपादिकाः । यथा मृत्पिण्डसञ्चयं वल्मीकलोष्टं
शूकरोत्खातां मृत्तिकां पूतिकालताविशेषं गवेधुकाः
(जलसन्निहितमहातृणजानि शुक्लानि फलानि) इत्येतान्
सम्भारान् प्राक्संस्थान् उदक्संस्थान् वा कृत्वा कृष्णा-
जिनम् वक्ष्यमाणलक्षणम्, अभ्रिम् (कुद्दालम्) उत्तरतोनिद-
ध्यात् । तेषामादाननिधानादिमन्त्राः । मृच्चात्र
अतिचिक्कणा भाण्डादिनिर्माणयोग्या कुम्भकारसंस्कृतैव गृह्यते ।
तथाभूतमृदः कृष्णाजिने उत्तरतोनिधानम् । दक्षिण-
तश्च कृष्णाजिने वल्मीकलोष्टस्य । कृष्णाजिनं परिगृह्य
पञ्चारत्निप्रमाणं समचतुरस्रं भूभागं प्राग्द्वारं कृत्वा सप्त
भूसंस्कारान् कृत्वा सिकतोपकिरणे परिवृते उक्त-
स्थाने कृष्णाजिनस्थान् सम्भारान् निदध्यात् । उल्ले-
खने जलैरभ्युक्षणे सम्भारैः संसर्गे च मन्त्राः ।
ततोऽध्वर्युः गवेधुका अजापयश्च पृथक् निधाय वल्मीक-
लोष्टादिभिः सह मृत्पिण्डं मिश्रयेत् । ततो
महावीरं कार्य्यम् । तत्स्वरूपं प्रादेशमात्रमूर्द्ध्वमासेचनवन्तं
(गर्त्तवन्तम्) मध्यदेशे सङ्कुचितमेखलम् (उलूखलवत्
मुष्टिग्रहणयोग्यम्) । मेखलाया ऊर्द्ध्वं त्र्यङ्गुलम्
(प्रादेशमात्रस्योपरिभागे त्र्यङ्गुलम्) परिशेष्य
ततोऽधस्ता मेखला कार्य्या । “मखस्य शिर” इति मन्त्रेण
निष्पन्नमहावोरस्पर्शनम् । अनेनैव मन्त्रेण तदादान-
मपीत्येके । एवमितरौ महावीरौ कुर्य्यात् । अभिमर्श-
नानन्तर मर्वेषां भूमौ निधानम् । स्रुड्मुखाकृती पिन्वने
(दोहनपात्रे) रौहिणकपाले वक्ष्यमाणपुराडाशकपाले
वर्त्तुले सर्व्वसमीपे भूमौ निधाय । उपशायाम् (तदवशिष्टां
सृदम्) प्रायश्चित्तार्थं निदध्यात् । “मखाय त्वेति मन्त्रेण”
पृष्ठ १८७८
गवेधुकाभिः श्लक्ष्णीकुर्य्यात् । दक्षिणाग्निनादीप्तेन अश्व
पुरीषेण् “अश्वस्य त्वेति” तस्याः मृदोधूपनम् । उखावत्-
प्रदाहनादि । चतुरस्रमवटं खात्वा तत्र श्रपणम् (पाक-
साधनमिन्धनादि) आस्तीर्य्य तत्र त्रीन्
महावीरान् न्युब्जीकृतान् निधाय पिन्वने (दोहनपात्रे)
रौहिणकपाले च न्युब्जे निधाय पुनः श्रपेणावच्छाद्य
दक्षिणाग्निना दीपयेत् । “ऋजवे त्वेति” मन्त्रेण पक्वां
मृदमुद्वरेत् दिवैव प्रदाहनोद्ध्वारौ कार्य्यौ । ततस्तानि
अजापयसावसिञ्चेत् । तूष्णीं पिन्वनादीनां करणाभि-
मर्शनश्लक्षणधूपनप्रदहनोद्धरणावसेचनादि कुर्यात् ।
२ क० महावीरमुक्त्वा प्रवर्ग्यचरणप्रकारः । यथा प्रत्यहं
सायंप्रातः प्रागुपसदः प्रवर्ग्यचरणं कार्यम् । अपिहित-
द्वारे प्रवर्ग्यचरणम् । पत्नीसन्निधावपि तया तस्य दर्शनं
न कार्यम् । वैदिकशब्दानुक्तिस्तत्र कार्या । प्रकृत्यन्तरा-
भावात् यावदुक्तं तावदेवात्र भवति नाधिकम् । अत्र
घर्मसम्बन्धिपात्रमौदुम्बरम् मानसूत्रं मौञ्जं त्रिवृत् । तत्र
विशेषः यजमानस्कन्धप्रमाणपादाया औदुम्बर्या आसन्द्या
वाल्वजं वल्वजत्रयं बन्धनरज्जुर्भवति ।
गार्हपत्यं पूर्ब्बेण प्रागग्रकुशानास्तीर्य तेषु पात्रासादनं
द्वन्द्वशः कार्यम् । पात्राणि तु उपसंयमनीं महावीरं,
परोशासौ, पिन्वने, रौहिणकपाले, रौहिणहवन्यौ ।
अनुत्कीर्णे स्रुचौ, स्थूणामयूखम्, धृष्टी, शतमाने, विंशतिं
मुञ्जप्रलवान्, प्रादेशमात्रान् विकङ्कतशकलान्, स्रुवं
मुञ्जवेदम्, धवित्राणि, परिधीन्, रज्जुसन्दानमा-
सन्दीम् कृष्णाजिनमभ्रिम्, खरार्थाः सिकता अर्थ-
वच्च, पाठक्रमेणैवासादयेत् । तत्र बाहुप्रमाणा
औदुम्बरी उपसंयमनी । महामुखा प्रचरणीया स्रुक् ।
परीशासौ संदशाकारौ, स्थूणा गोर्बन्धानार्थः स्तम्भभेदः ।
मयूखः अजाबन्धनार्थः शङ्कुरूपः कीलकः । धृष्टी
उपवेषौ औदुम्बरौ । एकं रजतरत्तिकाशतमानं, द्वितीयं
स्वर्णरत्तिकाशतमानम् इति द्वे शतमाने । औदुम्बरएवा-
रत्निमात्रः स्रुवः । वेदोमुञ्जमयः । धुनोत्येमिरिति
धवित्राणि कृष्णाजिनखण्डनिर्म्मितानि दण्डवन्ति त्रीणि
व्यजनानि । सन्दानं दोहनकाले गोपादबन्धनार्था
अजबग्यनार्था च रज्जुः । अर्थवत् प्रयोजनोपयोगि अन्यदपि
द्वन्द्वश आसादयेत् । प्रयोजनवद्द्रव्यञ्च स्फ्यः पवित्रे,
अग्निहोत्रहवनी आज्यस्थाली प्रभूतमाज्यं, शूर्पं, पात्री-
पिष्टम्, उपसर्ज्जनीपात्रम्, उपशया, इतरौ महावीरौ,
च । होतृषदनं मौञ्जं कार्य्यम् औदुम्बरी समिदि-
त्यादि द्वन्द्वश आसादयेत् । प्रोक्षणीः संस्कृत्य उत्थाय
ब्रह्मणोऽनुज्ञाकरणम् । होत्रादिप्रेषणञ्च “यमाय त्वेति,
मन्त्रेण प्रतिमन्त्रम् उक्तद्रव्याणां प्रत्येकं प्रोक्षणं राशीकृत्य
च तूष्णीं प्रोक्षणञ्च कार्यम् । शालायाः पूर्ब्बद्वारेण स्थूणां
मयूख च निष्कास्य, शालाया दक्षिणस्यां होतुः सन्दर्शने
निखननम्, (गार्हपत्यसमीपे उपविष्टो होता यत्र
निखातां स्थूणां मयूखं च पश्यति तादृशं स्थानं
होतृसन्दर्शनम्) । गार्हपत्याहवनीययोरुत्तरतः
खरनिवापः । दक्षिणतश्च भित्तलग्नमुच्छिष्टखरनिवापः
कार्य्यः । आहवनीयं पूर्ब्बेण सम्राड़ासन्दीं पर्य्याहृत्य
दक्षिणतः प्राचीमासादयेत् । राजासन्द्या उत्तरतः कृष्णा-
जिनमथास्तृणाति तस्मिन्नभ्र्युपशये निदध्यात्
महावीरौ चाच्छादयेद्वेति । स्थूणादिनिर्हरणानि अध्वर्य्यु-
रन्यो वा कुर्य्यात् । “देवस्य त्वे” ति मन्त्रेण एतेषामञ्जनं
होता कुर्यात् । महावीरमाज्यं च संस्कृत्य “पृथिव्याः
संस्पृश” इति मन्त्रेण रजतशतरत्तिकामानं सिकतामध्ये
प्रवेशयेत् । ३ क० शुक्रं गायेति प्रस्तोतुः प्रेषणम् । पत्नी-
शिर आच्छादनम् । संसीदस्वेति यदाऽऽज्यं संस्कृत्य होता
वक्ति तदा मुञ्जप्रलवान् शरेषीकापरितोभवानि शरतृ-
णानि मध्यमोटनेन द्विगुणीकृतानादीप्य प्रतिदिशं
सिकतासु निदध्यात् । तेषु मुञ्जप्रलवेषु संस्कृतं प्रचरणीयं
महावीरं घृत पूर्ण्णम् “अर्चिरसीति” मन्त्रेण निदध्यात् ।
महावीरस्योपरि प्रादेशधारकं यजमानम् “अनाधृष्टेति”
मन्त्रं वाचयेत् । प्रतिदिशं वा तथा वाचनमिति विकल्पः ।
दक्षिणत उत्तानं पाणिं यजमानोनिदध्यात् । “मनोरश्वेति”
मन्त्रेण महावीरस्योत्तरतः प्रादेशनिधानम् । महावीरं
परितः भस्मक्षेपं कृत्वा गार्हपत्याङ्गारैः उपवेषाभ्यां
महावीरं “मरुद्भिरिति” परिकीर्य्य (महावीरस्य सर्व्वतो
निरन्तरानङ्गारान् निधाय) । अङ्गारैः विकङ्कतशकलैश्च
प्रागुदग्भिः त्रयोदशभिः “स्वाहामरुद्भिरिति” मन्त्रेण
परिश्रपयेत् । तेषां त्रयोदशानां मध्ये प्रतिदिशं त्रीन्
त्रीन् स्थापयेत् तत्र द्वौ द्वौ समन्त्रकमेकं तूष्णीं तयोरुपरि
इत्येवं प्रागादिषु चतुर्षु दिक्षु स्थापितानां द्वादशानाम-
धिकमेकं दक्षिणतः स्थापयेत् स्थापनक्रमेणैव श्रपणञ्च ।
मुवर्ण्णशतरत्तिकामानेन “दिवः संस्पृश” इति मन्त्रेण
महावीरं पिदध्यात् ।
४ क० तत्रपिधानकाले “चन्द्रं गायेति” प्रस्तोतुः प्रेष-
पृष्ठ १८७९
णम् । कृष्णाजिनखण्डनिर्म्मितेर्व्यजनैर्दण्डवद्भिस्त्रिभिः
महावीरं परितः प्रकीर्ण्णानङ्गारान् दीपनाय
उपवीजयेयुः । तेषु व्यजनेषु एकं प्रतिप्रस्थाता, अपर
मग्नीधा, शिष्टमध्वर्युणा गृहीत्वा धूनयद्भिः सव्यापसव्यं
त्रिः प्रदक्षिणं कार्यम् । तत्र सव्यावृत्तौ व्यजन
धूननम् दक्षिणावृत्तौ व्यजनान्यन्तः कृत्वेति भेदः ।
धूननेन प्रदीप्तत्वात् जाते अर्चिषि सुवर्णशतमानं निधा-
याज्येन स्रुवेण महावीरं सिञ्चेत् । एतच्च सुवर्ण्णशतमानं
महावीरादन्यत्र सुगुप्ते देशे स्थापयित्वा कार्यम् । अध्वर्यो
र्महावीरसेके व्यापृततया प्रतिप्रस्थाता लौकिकपिष्टानां
व्रीहीणां यवाना रौहिणौ पुरोडाशौ पचेत् । रौहिण
पुरोडाशयोरन्यपुरोडाशधर्म्मत्वं तेन कपालयोः संस्का-
रादि कार्यम् । “ईड़े द्यावापृथीवी” इति मन्त्रेण
परिधीन् परिधाय रौहिणौ पुरोडाशौ पात्रीस्थानीय-
योरुपस्तीर्ण्णयोः रौहिणहवन्योः स्रुचोरुद्वास्य
तत्स्थावेव आहवनीयदक्षिणोत्तरयोः एकं दक्षिणतोऽ-
परमुत्तरतश्च स्थापयेत् । “घर्म्मस्य तन्वौ गायेति”
प्रस्तोतृप्रेषणम् । यजमानसहितानामृत्विजां परिक्रम-
णम् । प्रस्तोतृव्यतिरिक्ताः पञ्चर्त्विजः उपतिष्ठेयुः ।
छन्दोगानां मते तत्सहिताः षट् परिक्रमेयुः । “गर्भो
देवानामिति” सकृत्, द्विस्तूष्णीं परिक्रमेयुः । पत्नी-
शिरोऽपगताच्छादनं कृत्वा महीवारमीक्षमाणां पत्नीं
“त्वष्टृमन्त” इत्येतं मन्त्रं वाचयेयुः । प्रातः “अहः केतु-
नेति” मन्त्रेण दक्षिणं रौहिणं, सायं “रात्रिरिति” मन्त्रेण
उत्तरं रौहिणं जुहुयात् । ५ क० । घर्म्मधुग्बन्धनार्था
पाशवती रज्जुः तस्याएव पश्चात्पादबन्धनार्थं मन्दानं
तद्द्वयमादाय “इडएहीति” मन्त्रेण उपांशु, नाम्ना च
त्रिरुच्चैः गार्हपत्यं गच्छन् तामाह्वयेत् । “धेनुं गायेति”
प्रस्तोतृप्रेषणम् । “अदित्यै रास्नासीति” मन्त्रेणसमागतां
गां पाशेन प्रतिमुच्य (तस्याः रज्जुपाशं शृङ्गयोः प्रोतं
कृत्वा स्थूणायां बद्धा) “पूषासीति” मन्त्रेण धेनुं पश्चात्-
पादयोः सन्दानेन (नियमनेन) बद्ध्वा “घर्म्माय दीष्वेति”
वत्सं ततोऽपाकुर्य्यात् । (स्तनपानात् निवर्त्तयेत्)
“अश्विभ्यां पिन्वस्वेति” मन्त्रेण पिन्वने (पात्रभेदे) दुहेत् ।
“स्वाहेन्द्रवदिति” मन्त्रेण पिन्वने पतिताविप्रुषोऽभि-
मन्त्रयेत् । “यस्ते स्तन” इति स्तनालम्भनम् । प्रतिप्रस्थाता
अजामेवं मयूखे तूष्णीं बद्ध्वा दुहेत् । “पयोगायेति प्रति-
प्रस्थातृप्रेषणम् । “उत्तिष्ठ ब्रह्मणस्पते” इति मन्त्रे
होत्रोच्यमाने अध्वर्युः गोः समीपादुत्तिष्ठेत् ।
“उपद्रव पयसेति” मन्त्रे हीत्रीच्चार्यमाणे गार्हपत्यं प्रति
अध्वर्युगतिः । “गायत्रं छन्दोऽसीति” प्रतिमन्त्रं
परीशासावादद्यात् । “वसिष्ठशफौ गायेति” प्रस्तोतृप्रेष-
णम् । “द्यावापृथिवीभ्यां त्वा परिगृह्णामीति” मन्त्रेण
परीशासाभ्यां महावीरग्रहणम् परीशासाभ्यां महावीर-
मुत्क्षिप्य मुञ्जवेदेनोपमृज्य उपयमन्या अन्तरिक्षेणो-
पयच्छामीति गृह्णीयात् । उपयमनीं च दुग्धरूपधर्म्मस्य
अधस्तात् स्थापयेत् । उपयमन्या गृहीतं महावीरमजपय-
सासेकेन शान्ते महावीरे “प्रैतु ब्रह्मणस्पते इति” वाक्ये
होत्रोच्यमाने “इन्द्राश्विनेति” गोः पयोऽपनयेत् ।
६ क० आहवनीयं गच्छन् “समुद्राय त्वेति” मन्त्रेण
वातनाम जपेत् । उपयमन्यां पतितं पयोघृतं वा घर्म्मे
(दुग्धे) “स्वाहा घर्म्मायेति” आसिञ्चेत् । “स्वाहा
घर्म्मः पित्रे” इति जपित्वाऽतिक्रम्याश्राव्य प्रस्तोतारं
घर्म्मस्य यजेतिप्रेषयेत् । वषट्कारेण “विश्वाआशा इति”
मन्त्रेण होमः । “दिवि वा इति” मन्त्रेण महावीरंत्रिरुत्-
कम्पयेत् । “स्वाहाऽग्नये इति” मन्त्रेण वषट्कारयोजितेन
होमः । हुतावशिष्टद्रव्यस्य “अश्विनी घर्ममिति” ब्रह्मानु-
मन्त्रणम् । “अपातामिति” मन्त्रेण घर्मस्य यजमानानुमन्त्र-
णम् । अतितप्तत्वात् पात्रमध्ये सर्वतः इतस्तत उच्छ-
लन्तो ये घर्मलेशास्तेषाम् “इषे पिन्वस्वेति” मन्त्रेणानु-
मन्त्रणम् । “घर्मादिति” मन्त्रेण ऐशान्यामध्वर्युरुद्ग-
च्छन् “अमेन्यस्मे” इति मन्त्रेण महावीरं सिकतासु
निदध्यात् । तच्च परीशासगृहीतमेव स्थापयेत् । नीचै-
र्घर्म्ममध्ये शकलं प्रवेश्य तत्स्थेनाज्येन विकङ्कत-
शकलम् अक्त्वा अक्त्वा “स्वाहा पूष्णे शवस” इति
मन्त्रेण तदेव जुहुयात् हुत्वा हुत्वा च प्रथमपरिधौ
विकङ्कतशकलान् निदध्यात् । एवं त्रिधा हुत्वा चतुर्थ-
महुतं तच्छकलमीक्षमाणो दक्षिणतो बर्हिषि उपगूहेत्
(प्रवेशयेत्) । अहुतं सप्तमं च विकङ्कतशकलम् दक्षिणेक्ष-
माणः सर्वलेपाक्तं (महावीरस्थघृतलेपेवाक्तम्) मूलाग्र-
पर्यन्तं प्रतिप्रस्थात्रे दद्यात् । प्रतिस्थाता तं शकलमुदञ्चं
नियच्छेत् । घर्मसम्बन्धि नवनीतादि “स्वाहा सं ज्यो-
तिषा” इति मन्त्रेण परीशासाभ्यामुत्पाद्य उपयमन्यां
स्रुच्यासिञ्चति (स्रुग्मुखस्यीपरि अधोमुखं करोतीत्यर्थः)
ततोद्विनीयरौहिणहोमः । मध्यमपरिधौ निहितानि
पञ्च वैकङ्कतशकलानि आहवनीये जुहुयात् । उपयमन्यां
पृष्ठ १८८०
स्थितं घमाज्यमग्निहोत्रविधानेन हुत्वा “मधु हुतमिति”
मन्त्रेण सर्वे ऋत्विगादयो वाजिनवत् भक्षयेयुः । उच्छिष्ट-
खरे प्रक्षाल्य उपयमनीं निदध्यात् । अत्र काले
उपश्रितानां पञ्चशकलानामाहवनीये प्रहरणम् । अध्वर्युर्होत्रा
संसाद्यमानाय महवीरायानुब्रूहीति अनुवाचयेत् ।
ततो धेनवे तृणोदके दद्यात् । सर्वं पात्रजातमना-
शाय आसन्द्यां कुर्य्यात् । “अभीममिति” मन्त्रेण
महावीरमासन्द्यां स्थापयेत् । इतराणि तु पात्राणि तूष्णी-
मिति भेदः । ततः शान्तिपाठः द्वारोद्घाटनञ्च ।
खरस्थूणामयूखकृष्णाजिनाभ्र्युपशयासन्दीनां सकृदासादन
प्रोक्षणे । आरादुपकारकत्वात् प्रथमे प्रवर्ग्यचरणे एव
आसादनप्रोक्षणे इत्येकपक्षः । असकृत्, “प्रतिप्रधानं गुणा
वृत्तिरिति” न्यायात् इति पक्षान्तरम् । ७ क० । उपसदन्ते
प्रवर्ग्योत्सादनप्रकारः । यथा शालामध्यात् दक्षिणेन
द्वारेण घर्मसम्बन्धि द्रव्यं निष्क्रास्य अन्तःपात्यसमोपे
सादितपात्रेभ्यो दक्षिणतएव निदध्यात् । आहवनीये
त्रीन् शालाकान् प्रदीप्य प्रदीप्य अग्नीध्रो धारयेत् यजमान
सक्तेषु मुखमात्रनाभिमात्रजानुमात्र प्रमाणेषु तान् प्रदी-
प्तान् शालाकान् निदध्यात् । अध्वर्युराज्यं संस्कृत्य
चतुर्गृहीतं गृहीत्वा तेषां प्रदीप्तानां शालाकानामुपरि “याते
घर्म! दिव्या शुगिति” प्रतिमन्त्रं जुहुयात् । एकमेव
चतुर्गृहीतं गृहीत्वा त्रिष्वपि शालाकेषु जुहुयात् । तथाच
शलाकानां समूहः शालाकः तेन त्रिसृभिः शलाकाभिः
एकः शालाकः । तादृशान् त्रीन् शालाकान् हस्ते गृहीत्वा
तेषामेकं शालाकं शालाद्वार्य्ये प्रदीप्याग्नीध्रोयजमानमुख-
मात्रे आहवनीयस्योपरि धारयेत् । अध्वर्युश्चतुर्गृहीतं
तृतीयांशं तस्मिश्छालाके प्रदीप्ते जुहुयात् । ततस्त्रं
शालाकमाहवनीयमध्यएव क्षिपेत् । ततोद्वितीयं शालाकं
प्रदीप्याग्नीध्रो यजमानस्य नाभिदघ्ने आहवनीयस्योपरि
धारयेत् अध्वर्युस्तथैव जुहुयात् । तृतीयन्तु अग्नीधा प्रदीप्य
यजमानजानुमात्रे धृतमध्वर्युराहवनीये निक्षिप्य तत
उपविश्य सर्वं चतुर्गृहीतं शेषं जुहुयात् । अत्र उपविश्ये
युक्तेः पूर्वयोः तिष्ठता होमौ कार्य्यौ । ततोऽध्वर्युः पुरस्तात्
पत्नीमग्रे कृत्वा “क्षत्रस्य त्वेति” मन्त्रेण शालाया निष्क्र-
मेत् । अवभृथवत् अध्वर्युणा प्रस्तोतुः सामगानार्थं प्रेष-
णम् । अवभृथवत् देशगतिः निधनञ्च । सामगानात् परं
मर्वे उत्सादनदेशं गच्छेयुः । (उत्सादनदेशश्च महावीरादि
पात्रादीनां परित्यागदेशः “परिष्यन्दोवा अन्योवा देशः”
इति शत० ब्रा० १४, ३, १, १४, विहितदेशः) । तत्र
अग्निचित्यारहिते यज्ञे उत्तरवेदिं प्रति सर्व्वेगच्छेयुः ।
अग्निचित्यायुक्ते यज्ञे तु परिष्यन्दं (जलपरिवृतं द्वीपम्)
(निर्जनस्थलं वा) प्रत्येव गमनम् । तमुत्सादनदेशम्
उत्तरवेदिं वा “अचिक्रददिति” त्रिः परिषिच्य उत्तरकार्य्यं
कार्य्यम् । अध्वर्युरुत्तरवेदौ उत्सादनपक्षे प्रथमं
महावीरं नाभिस्पृष्टं “चतुःस्रक्तिरिति” निदध्यात् । इतरौ
महावीरौ प्राक्संस्थौ प्राच्यां मन्त्रावृत्त्या निदध्यात् ।
उपशयाम् (महावीरघटनावसरे पुरिशेषितां मृदम्) तथैव
तूष्णीं निदध्यात् । महावीरादिकमभितः परीशासौ
निदध्यात् । अवकृष्टे (नीचे वाह्ये) रौहिणहवन्यौ स्रुचौ
निदध्यात् । रौहिणहवन्योरुत्तरतः अभ्रिनिधानम् ।
तयोरेव दक्षिणतः आसन्दीम्, अभ्रेरुत्तरतः सर्व्वधवित्राणि
च निदध्यात् । तथाच दक्षिणतः, पश्चात्, उत्तरतश्चैकैकं
धवित्रं निदध्यात् । परिधीनपि निहितद्रव्याण्यभितो
निदध्यात् । निहितप्रात्रगणस्य पश्चात् उपयमनीं स्रुचं
प्रागग्रां निघाय रज्जुसंदानं वेदञ्च तन्मध्ये
निदध्यात् । पिन्वने (दोहनपात्रे) उपयमनीमुखस्य पश्चात्
अभितोदण्डं निदध्यात् । पिन्वनयोः पश्चात् दक्षिणतः
स्थूणाम्, उत्तरतो मयूखं, निदध्यात् स्थूणामयूखयोः
पश्चात् रौहिणकपाले निदध्यात् । तयोरेव पश्चात्
धृष्टी (उपवेषौ) निदध्यात् । घर्मोपयुक्तं स्रुवमौञ्ज-
कूर्चादि आसादितपात्राणां मध्ये निदध्यात् । सर्व-
पात्राणामुत्तरतः प्रचरणीयौ खरौ निदध्यात् । मार्जा-
लीयस्थानस्य दक्षिणतो वेदेर्बहिर्भागे उच्छिष्टखरं
निदध्यात् । सगर्त्तानि सप्त पात्राणि (महावीरत्रयं द्वे पिन्वने
उपयमनीं स्रुवञ्च) एतानि “घर्मैतत्ते” इति प्रतिमन्त्रं पयसा
पूरयेत् । व्रतमिश्रं पयःशेषं पूर्ब्बमदत्तं चेत् साग्निके सोमे
प्रागेव सकलं देयमिति विधानात् । वर्षाहारेष्टाहोत्रीय
मामगानार्थं प्रस्तोतुरध्वर्युणा प्रेषणम् । सपत्नीकाः सर्वे
“सुमित्रिया न इति” मन्त्रेण चात्वालं मार्जयेयुः ।
ऐशानीं प्रति “उद्वयमिति” मन्त्रेण यजमान उद्गच्छेत् ।
प्रादेशमात्रामेकां समिधं हस्तेन “अनपेक्षमेत्येधोऽसीति”
मन्त्रेणादाय “समिदसीति” मन्त्रेण आहवनीये दद्यात् ।
गार्हपत्ये तु तादृशीं समिधं तूष्णीं दद्यात् । यजमानः
रजतसुवर्णशतमाने ब्रह्मणे दद्यात् । यजमानव्रतदुघां रूपां
घर्मदुघां यजमानः अध्वर्य्यवे दद्यात् । पत्नीव्रतदुघां
गामुद्गात्रे दद्यात् । अजामग्नीधे दद्यात् । घर्मस्य महा
पृष्ठ १८८१
वीरस्य भेदने यथाकालं प्रायश्चित्तं कुर्यात् । तत्प्रायश्चित्त
प्रकारादि । अभग्नेन द्वितीयतृतीययोर्मध्ये द्वयेनान्यतरेण
वा प्रवर्ग्यं चरेत् । तत्र पूर्णाहुतिहोमप्रकारः । संभ्रिय-
माणो महावीरो यदि भिद्यते तदा प्रायश्चित्तहोमे प्रजा-
पतिर्देवता । निष्ठिताभिमर्शनादारभ्य अजापयोऽवसेच-
नान्तकाले महावीरभेदने प्रायचित्तमेदः । तत्र प्रथमदिने
भेदने प्रा० सविता देवता । द्वितीयेऽहनि भेदे अग्नि-
र्देवता तृतीयदिने भेदने वायुर्देवता ।
अथ प्रवर्ग्याधिकारिणः । अग्निष्टोमस्याठ्यसंस्थाति-
रात्रस्य प्रथमे प्रयोगे न प्रवर्ग्यचरणम् इत्येकः पक्षः ।
विकल्पेन तत्रापि प्रवर्ग्यचरणमिति शाखान्तरम् । सप्रवर्ग्ये
यज्ञे दधिघर्मसम्बन्धिनीतिकर्त्तव्यता । सपवित्राया-
मग्निहोत्रहवन्यां दधिघर्मग्रहणं कुर्य्यात् । तच्च
यथाकथञ्चित् स्थालीमुखेनैव स्रुचि निनयेत् । प्रस्तरणाभि
घारणे अप्यत्र न । हुतशेषस्य “मयि त्यदिति” मन्त्रेण
भक्षणम् । तच्च महाव्रतीयेऽह्नि कर्त्तव्यम् । दधिभक्षान-
न्तरं चात्वाले मार्ज्जनम् । प्रवर्ग्यचरणस्यादौ अन्ते च
शान्तिकाध्यायपाठः । (शान्तिकाध्यायश्च ऋचं
वाचमित्याद्यध्यायः) । शान्तिकरणद्वयमध्ये द्वारपिधानोत्तर-
काले आदिमम् । पात्राणामासन्द्यां निधानानन्तर-
मन्तिमम् इति भेदः ।
कातीयगृह्यसूत्रप्रतिपाद्यविषयाश्च विस्तरभयान्नात्रोक्तास्तत
एवासेयाः । कात्यायनसर्व्वानुक्रमणिकाप्रतिपाद्यविषयाश्च
सर्व्वानुक्रमणिकाशब्दे वक्ष्यन्ते ।

कात्यायनी स्त्री कतस्य गीत्रापत्यं स्त्री गर्गा० यञ् लोहित-

कतन्ता० ष्फः षित्त्वात् ङीष् । १ कतगोत्रापत्यस्त्रियाम् ।
पत्न्यां ङीष् । २ कात्यायनर्षेः पत्न्याम् ३ तत्तुल्य
कषायादिवस्त्रधारिण्यामर्द्धवृद्धायां विधवायां स्त्रियां ४ कल्पभेदे
कतगोत्रोत्पन्नायां दुर्गायां ५ याज्ञवल्क्यर्षिपत्नीभेदे च ।
“याज्ञवल्क्यस्य द्वे भार्य्ये बभूवतुः मैत्रेयो कात्यायनी च
तयोर्ह मैत्रेयी ब्रह्मवादिनी बभूव स्त्रीप्रज्ञैव तर्हि
कात्यायनी” वृ० उ० ।

कात्यायनीतन्त्र न० ६ त० । कात्यायनीपूजामन्त्रादिविधायके शिवप्रणीते तन्त्रभेदे ।

कात्यायनीपुत्र पु० ६ त० । कार्त्तिकेये ।

काथक्य पु० स्त्री कथकस्य गोत्रापत्यं गर्गा० यञ् । कथकर्षे-

र्गोत्रापत्ये यूनि तु यञन्तत्वात् फक् । काथक्यायन तदीय
युवगोत्रापत्ये । स्त्रियां लोहितकतान्तादि० ष्फः षित्त्वात्
ङीष् । काथक्यायनी तद्गोत्रापत्यस्त्रियाम् ।

काथञ्चित्क न० कथञ्चित् + विनयादि० स्वार्थे ठक् तान्तत्वात्

ठस्य कः । कथञ्चिदित्यर्थे ।

काथिक त्रि० कथायां साधु कयादि० ठक् । कथारचनासमर्थे

कादम्ब पु० स्त्री सौ० कदि--णिच्--अम्बच् । (बालिहाँस) १

हंसभेदे स्त्रियां जातित्वेऽपि संयोगोपधत्वान्न ङीष् किन्तु टाप् ।
तस्य च नीलवर्णत्वम् “क्वचित् खगानां प्रियमानसानां
कादम्बसंसर्गवतीव पङ्क्तिः” सितासितगङ्गायमुनासंगम-
वर्णने रघुः । तद्व्या० “कादम्बसंसर्गवती नीलहंससंसृष्टा”
मल्लि० । सुश्रुते हंससारसेत्युपक्रमे कादम्बस्य प्लवत्वं
संघचारित्वञ्चोक्त्वा “रक्तपित्तहराः शीताः स्निग्धा वृष्या
मरुज्जितः । सृष्टमूत्रपुरीषाश्च मधुरा रसपाकयोः” इति तेषां
मांसगुणा उक्ताः । २ इक्षौ पु० विश्वः । ३ वाणे मेदि० ।
“कादम्बानामेकपातैरसीव्यत्” माघः । कदम्बे समूहे भवः
अण् । ५ समूहभवे त्रि० । कदम्बस्येदम् अण् ।
६ कदम्बसम्बन्धिनि त्रि० “कादम्बमर्द्धोद्गतकेशरञ्च” रघुः ।
“कादम्बं नीपकुसुम” मिति मल्लि० । वस्तुतः कदम्बशब्दस्य
पुष्पपरत्वे कदम्बमित्येव ह्रस्वपाठः स्यात् दीर्घपाठे तु
कदम्वानां कुसुमानां समूह इत्यर्थेऽण् । इति तस्य
कदम्बसमूहपरतेति बोध्यम् । कदम्ब एव स्वार्थेऽण् । ७
कदम्बवृक्षे पु० “वेत्रकादम्बवल्वजकरम्भमहाकरम्भाः
पञ्च पुष्पविषाणि” स्थावरविषकीर्त्तने सुश्रु० । स्वार्थे
कन् वाणे हारा० ।

कादम्बर न० कादम्बं लाति प्रकृतित्वेन ला--क लस्य रः । १ ऐक्षवे

गुडादौ, तस्य २ विकारे मद्ये च । “निषेव्य मधु माधवाः
सरसमत्र कादम्बरम्” माघः । तद्व्याख्यायां मल्लिनाथे-
नोक्ता व्युत्पत्तिरुक्ता । कादम्बं कदम्बोद्भवं रसं राति
रा--क । तत्तुल्यरसयुक्ते ३ दधिसरे पु० मेदि० ।

कादम्बरी स्त्री कुत्सितं मलिनमम्बरं यस्य कोः कदादेशः

कदम्बरो लीलाम्बरी बलभद्रस्तस्य प्रिया अण् ।
हलिप्रियायाम्, मदिरायाम् । अस्यानिरुक्तिर्बलभद्रप्रि-
यता च हरि० ९८ अ० दर्शिता यथा “अथ सङ्क-
र्षणः म्यीमान् विना कृष्णेन वीर्य्यवान् । चचार तस्य
शिखरे नगस्य नगसन्निभः । प्रफुल्लस्य कदम्बस्य
प्रच्छाये निषषाद ह । वायुना मदगन्धेन वीज्यमानः
सुखेन वै । तस्य तेनानिलौघेन सेव्यमानस्प तत्र वै । मद
संस्पर्शजो गन्घः संस्पृशन् घ्राणमागतः । तृष्णा चैनं
विवेशाशु वारुणोप्रभवा तदा । शुशोष च मुखं तस्य
मत्तस्येवापरेऽहनि । स्मारितः स पुरावृत्तममृतप्राशनं
पृष्ठ १८८२
विभुः । तृषितोमदिरान्वेवी ततस्तं तरुमैक्षत । तस्य
प्रावृषि फुल्लस्य यदम्भो जलदोज्झतम् । तत्कोटरस्थं
मदिरा व्यजायत मनोहरा । तान्तु तृष्णाभिभूतात्मा
पिबन्नार्त्तैवासकृत् । मदाच्च चलिताकारः समजायत स
प्रभुः । तस्य मत्तस्य वदनं किञ्चिच्चलितलोचनम् । घूर्णि-
ताकारमभवच्छरत्कालेन्दुसप्रभम् । कदम्बकोटरे जाता
नाम्ना कादम्बरीति सा । वारुणी रूपिणी तत्र देवानाम-
मृतारणी । कादम्बरीमदकलं विदित्वा कृष्णपूर्ब्बजम् ।
तिस्रस्त्रिदशनार्य्यस्तमुपतस्थुः प्रियंवदाः । मदिरा रूपिणी
भूत्वा कान्तिश्च शशिनः प्रिया । श्रीश्च देवी वरिष्ठा स्त्री
स्वयमेवाम्बुजध्वजा” । “कादम्बरीमदविघूर्णितलोचनस्य
युक्तं हि लाङ्गलभृतः पतनं पृथिव्याम्” उद्भ० । तेन
कादम्बं कदम्बकोटरमुत्पत्तिस्थानत्वेन लाति ला--क
लस्य रः मत्वर्थे र वेति बोध्यम् । कादम्बं रसं राति
रा--क गौरा० ङीष् । २ कोकिलायाम्, ३ सरस्वत्याम्,
४ शारिकायाञ्च मेदि० वाणभट्टरचिते ५ कथाभेदे ।
सा च वाणभट्टेन सामिकृता तत्पुत्रेण समाप्तिं नीता ।

कादम्बरीवीज न० ६ त० । मद्यसाधने कित्वादिद्रव्यभेदे

रत्नमा० ।

कादम्बर्य्य पु० कादम्बर्य्यां हितं यत् । कदम्बवृक्षे जटाधरः

तस्य कादम्बरीमद्यहेतुत्वात् तथात्वम् ।

कादम्बा स्त्री कादम्बैवाचरति कदम्ब + आचारे क्विप्

अच् । कदम्बपुष्प्यां (सुण्डरी) लतायां शब्दच० ।

कादम्बिनी स्त्री कादम्बाः कलहंसा अनुधावकत्वेन सन्त्यस्याः

इनि । मेघमालायाम् अमरः “मदीयमतिचुम्बिनी भवतु
कापि० कादम्बिनी” रसग० ।

कादलेय त्रि० कदलेन निर्वृत्तादि कदल + सख्या० चतुरर्थ्यां ढञ् । कदलेन निर्वृत्तादौ ।

कादाचित्क त्रि० कदाचिद्भवः कालवाचित्वात् ठञ् ।

कदाचित्कालभवे । “तथापि तस्य कदाचित्कतया
उपचरितेन कार्य्यत्वेन कार्य्यत्वमुपचर्य्यते” सा० द० ।
“अनियतावधिकत्वे च कादाचित्कत्वव्याकोपः” ।
“अनादिश्चेत् कार्यकारणप्रवाहः कादाचित्कत्वान्यथानु-
पपत्त्या कल्प्यः” इति च कुसु० हरिदासः । “क्षणिकत्वञ्च
स्वाधिकरणसमयप्रागभावक्षणानुत्पत्तिकत्वे सति कादा-
चित्कत्वम्” बौ० शि० । कादाचित्कत्वञ्च प्रागभाव-
प्रतियोगित्वध्वंसप्रतियोगित्वान्यतरत्वम् । अन्यतरत्व-
निवेशेन च ध्वं से प्रागभावप्रतियोगित्वस्य, प्रागभावे च
ध्वंसप्रतियोतित्वस्य सत्त्वान्नाव्याप्तिः नित्ये च तदुभयास-
त्त्रान्न प्रसङ्गः ।

काद्रवेय पुंस्त्री कद्र्वाः अपत्यम् शुभा० ढक् ।

फणालाङ्गूलवति सरीसृपभेदे नागे, सर्पे । स्त्रियां जातित्वात्
ङीष् । “काद्रवेयाश्च बलिनः सहस्रममितौजसः । सुपर्ण्ण-
वशगाः नागा जज्ञिरेऽ नेकमस्तकाः” हरिवं० ३ अ०
काश्यपपत्नीभेदक द्रुपुत्रवर्ण्णने

कानक त्रि० कनकस्येदमण् । १ कनकसम्बन्धिनि । कनकं

फलमिव उग्रं फलम स्त्यस्य अण् । जयपालवोजे राजनि० ।

कानन न० कन--दीप्तौ णिच् ल्युट् ल्यु वा । १ वने, २ गृहे,

कस्य ब्रह्मण आननम् । ३ ब्रह्मणो मुखे च मेदि० । “छन्नो-
पान्तः परिणतफलच्योतिभिः काननाम्रैः “शीतोवायुः
परिणमयिता काननौदुम्बराणाम्” मेघ० । “सकानना
निष्पततीव भूमिः” “पुण्यगन्धेन काननम्” रघुः ।

काननाग्नि पु० ६ त० । बाडवानले

काननारि पु० काननस्यारिरिव । शमीवृक्षे शब्दच० ।

शमीगर्भस्थाग्निना निखिलवनदाहात्तस्य तदरित्वम्

कानलक त्रि० कनलेन निर्वृत्तादि० कनल + अरीहणा०

चतुरर्थ्यां वुञ् । कनलनामजननिर्वृत्तादौ ।

कानिष्ठिक न० कनिष्ठिकैव कनिष्ठिका + शर्करा० स्वार्थे अण्

स्वार्थिकस्यापि प्रंत्ययस्य क्वचिल्लिङ्गातिक्रमोक्तेः क्लीवता ।
कनिष्ठायाम् ।

कानिष्ठिनेय पुंस्त्री कनिष्ठाया अपत्यं कल्याण्यादि० ढक्

इनङ् च । कनिष्ठाया अपत्ये । “कृते कानिष्ठिनेयस्य
ज्यैष्ठिनेयोविवासितः” भट्टि० स्त्रियां ङीप् ।

कानीत पु० कनीतस्यापत्यम् शिवा० अण् । कनीतनामनृप-

स्यापत्ये पृथुश्रवसि राज्ञि । “पृथुश्रवसि कानीते स्या
व्युष्याददे” ऋ० ८, ४६, २१ ।

कानीन पु० कन्याया अनूढाया अपत्यम् अण् कनीनादेशश्च ।

“कानीनः कन्यकाजातो मातामहसुतो मतः” इति याज्ञ०
उक्ते पुत्रभेदे । यथा व्यासः कर्णश्च । याज्ञ० मातामहसुत-
त्वमुक्तम् । मनुना तु “पितृवेश्मनि कन्या तु यं पुत्रं जनये-
द्रहः । तं कानीनं वदेन्नाम्ना वोढुः कन्यासमुद्भवम्” इत्य-
नेन वोढुः सुतत्वमुक्तम् । अनयोर्विरोधः अभ्युपगमा-
नभ्युपगमाभ्यामन्यतरयोः सपुत्रापुत्रत्वाभ्यां वा
समाधेयः । “कानीनश्च सहोढश्च क्रीतः पौनर्भवस्तथा ।
स्वयंदत्तश्च शौद्रश्च षड़दायादबान्धवाः” इति मनुना
तस्यादायाद धनहारित्वमुक्तम् ।
कर्णस्य यथा कानीनत्वं तथारुणात्मजशब्दे ३५९ पृ० उक्तम् ।
“कानीनञ्चापि जानामि सवितुः प्रथमं सुतम् । पितृष्वसरि
पृष्ठ १८८३
कर्णं वै प्रसूतं सूततां गतम्” हरि० ६० अ० । “भीष्मः खलु
पितुः प्रियचिकीर्षया सत्यवतीं मातरसुदवाहयत् यामाहु-
र्गन्धकालीमिति । तस्यां पूर्व्वं कानीनो गर्भो पराशराद्
द्वैपायनोऽभवदिति” भा० आ० ९५ अ० । व्यासस्य
कानीनत्वमुक्तम् ।

कान्त पु० कन दीप्तौ कम--वा क्त । १, पत्यौ “कान्तवक्ष-

स्थलस्थिता” उद्भटः । “शिवरात्रौ ददाम्यर्घमुमाकान्त!
गृहाण मे” शिवार्घदानमन्त्रः । सूय्य पूर्व्वकः सूर्य्यका-
न्तशिलायाम्, चन्द्रपूर्व्वकः चन्द्रकान्तमणौ, अय० पूर्वः
अयस्कान्तमणौ (चुम्बकपाथर) २ चन्द्रे ३ वसन्ते ४ हिज्जल-
वृक्षे च । ५ कुङ्कुमे, न० ६ शोभने, “कान्तालकान्ताललनाः
सुराणाम्” माघः “नात्र कान्तमुपगीतया तया” माघः ।
७ अभीष्टे च त्रि० । “भीमकान्तैर्नृपगुणैः” रघुः ।
८ नार्य्यां, ९ प्रियङ्गुवृक्षे च स्त्री । मेदि० १० वृहदे-
लायां १ १ रेणुको षधौ १२ नागरमुस्तायां स्त्री
राजनि० । १३ सुखस्यान्ते १४ लोहभेदे न० भावप्र० तस्य
लक्षणगुणादि तत्रोक्तं यथा
“यत्पात्रे न प्रसरति जले तैलविन्दुः प्रतप्ते, हिङ्गुर्गन्धां
स्त्यजति च निजं तिक्ततां निम्बवल्कः । तप्तं दुग्धं भवति
शिखराकारकं, नैति भूमिं, कृष्णं न स्यात् सजलकणतः
कान्तलोहं तदुक्तम्” । मारितस्य चूर्णीकृतस्य तस्य सेवने
गुणा उक्तास्तत्रैव “गुल्मोदरार्शःशूलाममामवातं भगन्द-
रम् । कामलाशोथकुष्ठानि क्षयं कान्तमयो हरेत् । प्लीहान-
मम्लपित्तञ्च यकृच्चापि शिरोरुजम् । सर्वान्रोगान् विजयते
कान्तलोहं न संशयः । बलं वीर्य्यं वपुः पुष्टिं कुरुतेऽग्निं
विवर्धयेत्” । तत्रैव सामान्यलौहमारणविधिगुणादि ।
“शुद्धं लोहभवं चूर्णं पातालगरुडीरसैः । मर्द्दयित्वा
पुटेद्वह्नौ दद्यादेवं पुटत्रयम् । पुटत्रयं कुमार्याश्च कुठार-
च्छिन्निकारसैः । पुटषट्कं ततोदद्यादेवं तीक्ष्णमृतिर्भवेत्” ।
अन्यच्च । “क्षिपेद्द्वादशमांशेन दरदं तीक्ष्णचूर्णतः ।
मर्द्दयेत्कन्यकाद्रावैर्यामयुग्मं ततः पुटेत् । एवं सप्तपुटै
र्मृत्युं लोहचूर्णमवाप्नुयात् । सत्यानुभूतो योगीन्द्रैः
क्रमोऽन्योलोहमारणे । कथ्यते रसराजेन कौतूहलधि-
याऽघुना । सूतकात् द्विगुणं गन्धं दत्त्वा कुर्य्याच्च कज्जलीम् ।
द्वयोः समं लोहचूर्णं मर्द्दयेत्कन्यकाद्रवैः । यामत्रयं ततः
पिण्डं कृत्वा ताम्रस्य पात्रके । वर्म्मे धृत्वा रुचूकस्य
पत्रैराच्छादयेद्बुधः । यामद्वयाद्भवेदुष्णं धान्यराशौ न्यसे-
त्ततः । दत्त्वोपरि शरावं तु त्रिदिनान्ते समुद्धरेत् । पिष्ट्वा
च गालयेद्वस्रादेवं वारितरं भवेत् । दाड़िमस्य दलं पिष्ट्वा
तच्चतुर्गुणवारिणा । तद्रसेनायसञ्चूर्णं सन्नीय प्लावयेदिति ।
आतपे शोषयेत्तच्च पुटेदेवं पुनः पुनः । एकविंशतिवारै-
स्तन्म्रियते नात्र संशयः । एवं सर्वाणि लोहानि स्वर्णा-
दीन्यपि मारयेत्” । एवं मारितस्य लौहस्य गुणाः । “लोहं
तिक्तं सरं शीतं कषायं मधुरं गुरु । रूक्षं वयस्यं चक्षुष्यं
लेखनं वातलं जयेत् । कफं पित्तज्वरं शूलं शोफार्शःप्ली-
हपाण्डुताः । मेदोमेहक्रिमीन् कुष्ठं तत्किट्टंतद्वदेव हि ।
गुञ्जामेकां समारभ्य यावत् स्युर्नवरत्तिकाः । तावल्लौहं
समश्नीयाद्यथादोषानलं नरः । कुष्माण्डं तिलतैलं च
माषान्नं राजिकां तथा । मद्यमम्लरसञ्चैव वर्जयेल्लोह
सेवकः । शिलागन्धार्कदुग्धाक्ताः स्वर्णाद्याः सर्वधातवः ।
म्रियन्ते द्वादशपुटैः सत्यं गुरुवचो यथा” ।
“कामे कान्ते रसिका काकुरुतेन” माघः । “कान्ताजनेन
रहसि गृहीता ।” “वपुष्यशेषेऽखिललोककान्ता सानन्य-
कान्ताह्युरसीतरा तु” । माघः कं ब्रह्माणमन्तयति द्विप-
रार्द्धकाले । १५ वासुदेवे परमेश्वरे पु० “कामदेवः
कामपालः कामी कान्तः कृतागमः” विष्णुस० । १६ पत्न्यां स्त्री
“मा कान्ते पक्षस्यान्ते पर्य्याकाशे देशे स्वाप्सीः” ज्यो० त०
“कान्तया कान्तसंयोगे किमकारि नवोढया” विदग्धमु० ।
१७ कार्त्तिकेये पु० । “आग्नेयश्चैव स्कन्दश्च” इत्युपक्रमे
“कामजित् कामदः कान्तः” इत्युक्त्वा । “नामान्येतानि
दिव्यानि कार्त्तिकेयस्य यः पठेत्” भा० वन० २३१ अ० ।
“भवेत् कान्ता युगरसहयैर्यनौ नरसा लगौ” इत्यक्तलक्षणे
१८ छन्दोभेदे स्त्री । १९ कामदेवभेदे पु० कामशब्दे विवृतिः ।

कान्तपक्षिन् पु० स्त्री कान्तोमनोहरः पक्षोऽस्त्यस्य प्राशस्त्येन

इति । मयूरे शब्दच० स्त्रियां ङीप् ।

कान्तपुष्प पु० कान्तं पुष्पमस्य । कोविदारवृक्षे । राजनि० ।

कान्तलक पु० कान्तं लक्यते लक--आस्वादने कर्मणि घञर्थे

क । (तुंद) तुन्नवृक्षे अमरः ।

कान्तलोह पु० कान्तं प्रियंलोहं यस्य । अयस्कान्त । कर्म्म० ।

(कान्तिलौह) लौहसारे । कान्तशब्दे तद्गुणाद्युक्तम् ।

कान्ताङ्घ्रिलोहद पु० कान्ताङ्घ्रिस्तत्ताड़नं दोहदमस्य पुष्पो-

द्गमे । अशोकवृक्षे त्रिका० । यथा च तस्य तथात्वं
तथाऽशोकशब्दे ४८५ पृ० उक्तम् कान्तापाददोहदादयोऽप्यत्र ।

कान्तायस न० नित्यकर्म० जातित्वात् अच् ससा० । कान्त-

लोहे राजनि० ।
पृष्ठ १८८४

कान्तार पु० कान्ता अभीष्टा अराइव ग्रन्थयोऽस्य, कस्य जल-

स्यान्तं कान्तं मनोज्ञं वा रसम् ऋच्छति ऋ--अण् उप० स० ।
(काजलिया) १ इक्षुभेदे भावप्र० । तत्र तद्गुणाद्युक्तम् “कान्त-
रेक्षुर्गुरुर्वृष्यः श्लेष्मलोवृंहणःमरः । २ कोविदारवृक्षे ३ वंशे
च राजनि० । कस्य सुखस्यान्तमृच्छत्यत्र ऋ--आधारे घञ् ।
६ त० । दुर्गमे पथि ४ महारण्ये च पु० न० अम०
६ छिद्रे मेदि० । स्वार्थे कन् इक्षुभेदे अमरः ।

कान्तारपथिक त्रि० कान्तारपथेनाहृतम् ठञ् । कान्ता-

रपथेनाहृते ।

कान्तारी स्त्री कान्तार + गौ० ङीष् । कान्तारेक्षौ राजव० ।

कान्ति स्त्री कम--कामे कन--दीप्तौ वा भावे क्तिन् । १ दीप्तौ

२ शोभायाम् ३ इच्छायाम् ४ स्त्रीणां शृङ्गारजे सौन्दर्य्य
गुणभेदे च । कान्तौ कारणं च सुश्रुते दर्शितं यथा “तेजो-
ऽप्याग्नेयं क्रमशः पच्यमानानां धातूनामभिनिर्वृत्तमन्तरस्थं
स्नेहजातं रसाख्य स्त्रीणां विशेषतो भवति तेन
मार्द्दवसौकुमार्य्यमृद्वल्परोमतोत्साहदृष्टिस्थितिपङ्क्तिकान्ति
दीप्तयो भवन्ति” । घृतस्य तैजसत्वेन कान्तिदत्वम् यथोक्तं
तत्रैव “घृतन्तु” इत्युपक्रम्यम् “स्मृतिमतिमेधाकान्ति
स्वरलावण्यसौकुमार्य्यौजस्तेजोबलकरम्” । शोभाकान्ति
दीप्तिद्युतीनां भेदस्तु सा० द० उक्तः “रूपयौवनलालित्यं
भोगाद्यैरङ्गभूषणम् । शोभा प्रोक्ता, सैव कान्तिर्मन्मथाप्या-
यिता द्युतिः । कान्तिरेवातिविस्तीर्णा दीप्तिरित्यभिधी-
यते” । इति भेदेन लक्षयित्वां मन्मथोन्मेषेणातिविस्तीर्णा
शोभैव कान्तिरुच्यते इति व्याख्यातम् । तेषां च
नायिकागततेव नायकगतताऽपि । चन्द्रादौ तु शोभा-
दीप्तिकान्तिद्युतीनामभेद एव । “कला च सा कान्ति
मती कलाभृतः” कुमा० । “बध्वा इवाध्वंसितवर्णकान्तेः”
माघः । चन्द्रकलासु मध्ये ७ कलाभेदे । “शशिनी चन्द्रिका
कान्तिर्ज्योत्स्ना” शा० ति० । कलाशब्दे विवृतिः । ८ लक्ष्म्या
अनुचरदेवीभेदे “एवमुक्त्वा तु सा देवी लक्ष्मीर्दैत्यवृषं
त्वलिम् । प्रविष्टा” इत्युपक्रमे “शिष्टाश्च देव्यः प्रवरा ह्रीः
कीर्त्तिद्युतिरेव च” इत्याद्युक्त्वा “श्रुतिः प्रीतिरिड़ा कान्तिः”
इत्यादिकमभिधाय “उपतस्थुर्महासत्वं वलिमिन्द्रं
महारथम्” इत्युक्तम् हरि० २५६ अ० । ९ शशिनः प्रियाभेदे
च “तिस्रस्तिदशनार्य्यस्तम्” इत्युपक्रमे “मदिरा रूपिणी
भूत्वा कान्तिश्च शशिनः प्रिया” हरि० ९८ अ० ।
१० दुर्गायां “स्तुतिः सिद्धिरिति ख्याता श्रिया संश्रयणाच्च
या । लक्ष्मीर्वा लनना वापि कामात् सा कान्तिरुच्यते”
देवीपु० ४५ अ० । ११ कामशक्तिभेदे । “तथा कान्तिः
कलकण्ठी वृकोदरा” शा० ति० राघवभट्टः ।
कामशक्तिशब्दे विवृतिः ।

कान्तिद न० कान्तिं ददाति दा--क । १ पित्ते धातौ शब्द च०

तस्य तैजसत्वात् तथात्वम् । तेजसश्च यथा कान्तिकरत्वं
तथा कान्तिशब्दे उदाहृतसुश्रुतवाक्ये दर्शितम् । २ घृते
च । ३ शोभादायकमात्रे त्रि० कान्तिकरादयोऽप्यत्र ।
४ सोमराज्यां स्त्री राजनि० ।

कान्तिदायक न० कान्तिं ददाति दा--ण्वुल् । कालीयके

गन्धद्रव्यभेदे जटाधरः । तस्य सेवनेन कान्तिपोषणात् तस्य
तथात्वम् । २ कान्तिदातरि त्रि० ।

कान्तिनगरी स्त्री काञ्चिनगर्य्यां काशी० मोक्षपुरीभेदकाञ्ची

नगरीवर्णने कान्तिपुरीति पाठान्तरम् काञ्चीशब्दे च
तद्वाक्यमुक्तम् ।

कान्तिभूत् त्रि० कान्तिं बिभर्त्ति भृ--क्विप् । १ कान्तिधारके

२ चन्द्रे पु० तस्य कान्तिनामकलाधारित्वात् विशिष्टकान्ति
धारित्वात् कान्तिनामदेवीभेदपतित्वाच्च तथात्वम् । कान्ति
शब्दे च कान्तिशब्दस्य कलाचन्द्रपत्नीवाचकत्वं दर्शितम् ।

कान्तिमत् कान्तिरस्त्यस्य मतुप् । १ कान्तियुक्ते । “उपमान-

मभूत् विलासिनां करणं यत्तव कान्तिमत्तया” कुमा० ।
“शेषैः पुण्यैर्हृतमिव दिवः कान्तिमत् खण्डमेकम्” मेघदू०
स्त्रियां ङीप् “कला च सा कान्तिमती कलाभृतः” कुमा० ।
२ अप्सरोभेदे स्त्री “वपुष्मती कान्तिमती लीलावत्युत्पला-
वती” काशी० अप्सरोनामकथने । ३ चन्द्रे पु० कान्तिनाम-
कलावत्त्वात् तस्य तथात्वम् । ४ कामदेवभेदे राघवभ० ।

कान्थक त्रि० “वर्ण्णुसमीपस्था कन्था ततो जातादौ वर्णौ वुक्”

पा० वुक् । वर्णुनदसमीपस्थकन्थाजातादौ । “यथाहि
जातं हिमवत्सु कान्थकम्” सि० कौ०

कान्थक्य पु० स्त्री कन्थकर्षिभेदस्य गोत्रापत्यं गर्गा० यञ् ।

कन्थकर्षिगोत्रापत्ये । यून्यपत्ये यङन्तत्वात् फक् । कान्थ-
क्यायनः बहुषु तस्य लुक् । कन्थकाः । स्त्रियान्तु
लोहिता० ष्फः षित्त्वात् ङीष् । कान्थक्यायनी ।

कान्थिक त्रि० कन्थायां जातादि ठक् । कन्थाभवे ।

कान्द त्रि० कन्दस्येदं तत्र भवो वा अण् । १ तत्सम्बन्धिनि

२ कन्दभवे विषादौ च । ततः अश्मादि० चतुरर्थ्यां र ।
कान्दर तन्निर्वृत्तादौ त्रि० ।

कान्दर्प पुं स्त्री कन्दर्पस्यापत्यं विदादौ किन्दर्भेत्यत्र कन्द-

र्पेति पाठान्तरे अञ् । कन्दर्पापत्ये तस्येदमण् । २ कन्दर्प
सम्बन्धिनि त्रि० ।
पृष्ठ १८८५

कान्दर्पिक न० कन्दर्पस्तद्विवृद्धिः प्रयोजनमस्य ठक् । कन्दर्प-

वृद्धिसाधने वृ० स० उक्ते विधानभेदे । तद्विधानं च तत्र
कान्दर्पिकनामकषट्सप्ततितमेऽध्याये उक्तं यथा ।
“रक्तेऽधिके स्त्री, पुरुषस्तु शुक्रे, नपुंसकं शोणितशुक्र-
साम्ये । यस्म दतः शुक्रविवृद्धिदानि निषेवितव्यानि
रसायनानि । हर्म्य पृष्ठमुडुनाथरश्मयः सोत्पलं मधु
मदालसा प्रिया । वल्लकी स्मरकथा रहः स्रजो वर्ग एष
मदनस्य वागुरा । माक्षीकधातुमधुपारदलोहचूर्ण्णपथ्या-
शिलाजतुविडङ्गघृतानि योऽद्यात् । सैकानि विंशति-
रहानि जरान्वितोऽपि सो ऽशीतिकोऽपि रमयत्यबलां
युवेव । क्षीरं शृतं यः कपिकच्छुमूलैः पिबेत् क्षयं स्त्रीषु
न सोऽभ्युपैति । माषान् पयःसर्पिषि वा विपक्वान्
षड्ग्रासमात्रांश्च पयोऽनुपानान् । विदारिकायाः स्वर-
सेन चूर्ण्णं मुहुर्मुहुर्भावितशोषितं च । शृतेन दुग्धेन
सशर्करेण पिबेत्स यस्य प्रमदाः प्रभूताः । धात्रीफलानां
स्वरसेन चूर्ण्णं सुभावितं क्षौद्रसिताज्ययुक्तम् । लीढ्वानु-
पायाथ पयो ऽग्निशक्त्या कामं निकामं पुरुषो निषे-
वेत् । क्षीरेण वस्ताण्डयुजा शृतेन सम्प्लाव्य कामो
बहुशस्तिलान् यः । सुशोषितानत्ति पिबेत्पयश्च तस्या-
ग्रतः किं चटकः करोति । माषसूपसहितेन सर्पिषा
षष्टिकौदनमदन्ति ये नराः । क्षीरमप्यनुपिबन्ति तामु ते
शर्वरीषु मदनेन शेरते । तिलाश्वगन्धाकपिकच्छुमूलैर्विदा-
रिकाषष्टिकपिष्टयोगः । आजेन पिष्ट्वा पयसा घृतेन
पक्त्वा भवेच्छस्कलिकाऽतिवृष्या । क्षीरेण वा गोक्षुरकोप-
योगं विदारिकाकन्दकभक्षणं वा । कुर्वन्न सीदेद्यदि जीर्यते
ऽस्य मन्दाग्निता चेदिदमत्र चूर्णम् । साजमोदलवणा
हरीतकी शृङ्गवेरसहिता च पिप्पली । मद्यतक्रतरलो-
ष्णवारिभिश्चूर्णपानमुदराग्निदीपनम् । अत्यम्लतिक्तलव-
णानि कटूनि वात्ति सक्षारशाकबहुलानि च भोजनानि ।
दृक्च्छुक्रवीर्यरहितः स करोत्यनेकान् व्याजान् जरन्निव
युवाप्यबलामवाप्य” । भावप्र० तदुपायविधानाद्युक्तं यथा ।
“अथ वाजीकरणाधिकारः । तत्र वाजीकरणस्य लक्षण-
माह । यद्द्रव्यं पुरुषं कुर्याद्वाजीव सुरतक्षमम् ।
तद्वाजीकरमाख्यातं मुनिभिर्भिषजां वरैः । अत्र प्रसङ्गात्
क्लैव्यस्य लक्षणं संख्यां निदानं चाह । क्लीवः स्यात्
सुरताशक्तस्तद्भावः क्लैव्यमुच्यते । तच्च सप्तविधं प्रोक्तं
निदानं तस्य कथ्यते । तैस्तैर्भावैरहृद्यसिस्तु रिरंसोर्मनसि
क्षते । ध्वजः पतत्यतो नॄणां क्लैव्यं समुपजायते । द्वेष्य-
स्त्रीसंप्रयोगाच्च क्लैव्यं तन्मानसं स्मृतम् । तैस्तैर्भावैः-
भयशोकक्रोधादिभिः,--अहृद्यैः--हृदयाहितैः--दुःस्थत्वात्
क्षते पीड़िते अस्वस्थीकृते इति यावत् । ध्वजः--शिश्नः ।
पतति नतून्नमति संप्रयोगोर्मथुनम् । “कटुकाम्लौष्ण-
लवणैरतिमात्रोपसेवितैः । पित्ताच्छुक्रक्षयो दृष्टः क्लैव्यं
तस्प्रात्प्रजायते । कटुकादिनातिमात्रेण प्रवृद्धेन पित्तेन
शुक्रस्य दग्धत्वात् क्लैव्यं भवति पित्तजमिति द्विती-
यम् । अतिव्यवायशीलो यो न च वाजीक्रियारतः ।
ध्वजभङ्गमवाप्नोति स शुक्रक्षयहेतुकः । शुक्रक्षयेण तृती-
यम् । “महता मेढ्ररोगेण चतुर्थी क्लीवता भवेत् । वीर्य-
वाहिशिराच्छेदान्मे हनादुन्नतिर्भवेत् । बलिनः क्षुब्धमनसो
निरोधाद् ब्रह्मचर्यतः । षष्ठं क्लैव्यं स्मृतं तत्तु शुक्र-
स्तम्भनिमित्तकम् । बलिनः पुष्टस्य क्षुब्धमनसः कामात्सं
चलतः मनसो, ब्रह्मचर्यम् अमैथुनं तस्मान्निरोधात् शुक्रस्य,
क्लैव्यं भवति । जन्मप्रभृति यत्क्लैव्यं सहजं तद्धि सप्त-
मम् । असाध्यं क्लैव्यमाह । असाध्यं सहजं क्लैव्यं
मर्मच्छेदाच्च यद्भवेत् । मन्मर्मछेदाद्वीर्यवाहिशिराच्छेदात्
अथ क्लैव्यस्य चिकित्सा । क्लैव्यानामिह साध्यानां
कार्यो हेतुविपर्ययः । मुख्यं विकित्सितं यस्मान्निदान-
परिवर्ज्जनम् । अथ क्लैव्यस्य चिकित्सायां वाजीकरण
विधिमाह । नरो वाजीकरान् योगान् सम्यक् शुद्धो
निरामयः । सप्तत्यन्तं प्रकुर्वीत बर्षादूर्ध्वन्तु षोड़शात् ।
नच वै षोडशादर्वाक् सप्तत्याः परतो न च । आयुष्-
कामो नरः स्त्रीभिः संयोगं कर्तुमर्हति । क्षयवृद्ध्युप-
दंशाद्या रोगाश्चातीव दुर्ज्जयाः । अकालमरणञ्च स्या-
द्भजते स्त्रियमन्यथा । विलासिनामर्थवतां रूपयौवन-
शालिनाम् । नराणां बहुभार्य्याणां विधिर्वाजी-
करो हितः । स्थविराणां रिरंसूनां स्त्रीणां वाल्लभ्य
मिच्छताम् । योषित्प्रसङ्गात् क्षीणानां क्लीवानामल्परेत-
साम् । हिता वाजीकरा योगाः प्रीणयन्त्यबलाः सदा ।
एतेऽपि पुष्टदेहानां सेव्याः कालाद्यपेक्षया । वाजीकर-
णान्याह । भोजनानि विचित्राणि पानानि विविधानि
च । गीतं श्रोत्राभिरामाश्च वाचः स्पर्शसुखास्तथा ।
यामिनी सान्द्रतिलका कामिनी नवयौवना । गीतं श्रोत्र-
मनोज्ञञ्च ताम्बूलं मदिराः स्रजः । गन्धा मनीज्ञा
रूपाणि चित्राण्युपवनानि च । मनसश्चाप्रतीघातं वाजी
कुर्व्वन्ति मानवम् । माक्षीकधातुमधुपारदलोहचूर्णम्
पथ्याशिलाजतुविड़ङ्गघृतानि लिह्यात् । एकाग्रविंश-
तिदिनानि गदार्दितोऽपि साशीतिकोऽपि रमयेत्प्रमदां
युवेव” । तत्रौषधभेदास्तु तत एवावसेयाः ।
पृष्ठ १८८६

कान्दव न० कन्दौ संस्कतं भक्ष्यम् अण् । कन्दुसंस्कृते भक्ष्ये

कान्दविक त्रि० कान्दवं पण्यमस्य ठक् । कन्दुसंस्कृतभक्ष्यद्र-

व्यविक्रेतरि मिष्टान्नपण्यके ।

कान्दिग्भूत त्रि० कां दिशं यामीत्याकुलतां भूतः प्राप्तः

भूप्राप्तौ कर्त्तरि क्त २ त० पृषो० । कां दिशं यामीत्याकुलतं
प्राप्ते । “स कथञ्चिद्भयात्तस्माद्विमुक्तो ब्राह्मणस्तदा ।
कांदिग्भूतो जीवितार्थी प्रदुद्रावोत्तरां दिशम्” भा० शा० प०
१६९ अ० । “कां दिशं यामीत्याकुलः कान्दिग्भूतः”
नीलक० । “कान्दिग्भूतं छिन्नगात्रं विसंज्ञं दुर्य्योधनो-
द्रक्ष्यति सर्व्वसैन्यम्” भा० उद्यो० ४७ अ० ।

कान्दिशीक त्रि० कां दिशं यामीत्याह “तदाहेति माशब्दा-

दिभ्यः” उपसंख्यानात् ठक् पृषो० मयू० आकृतिगणत्वात्
समासः । कदि--वैक्लव्ये भावे इन् कन्दिः वैक्लव्यम् ।
शीकसेचने क्षरणार्थत्वादश्रुपातार्थकता भावे घञ् कन्दिश्च-
शीकः अश्रुपातश्च विद्येते अस्य बा० अण् रायमुकुटः ।
भयद्रुते पलायिते अमरः । “बहूनां प्रलयोजातः
कान्दिशीकमभूज्जगत्” काशी० ।

कान्यकुब्ज पु० देशभेदे कन्यकुब्जशब्दे विवरणम् । “कान्य-

कुब्जे महानासीत् पार्थिवोभरतर्षभ! । गाधीति विश्रुतो
लोके कुशिकस्यात्मसम्भवः” भा० व० १७४ अ० ।

कान्यजा स्त्री कात् जलादन्यस्मिन् जायते जन--ड । नली

नामगन्धद्रव्ये शब्दच० ।

कापटव पुं स्त्री कापटोर्गोत्रापत्यम् अण् । १ कापटुगोत्रापत्ये

स्त्रियां तु गोत्रप्रत्ययान्तत्वेन जातित्वेऽपि न ङीष् ।
किन्तु शार्ङ्गरवादि० ङीन् स्वरेभेदः । कापटवी । गोत्रान्त-
त्वात् तत आगतेऽर्थे वुञ् । कापटवक ततआगते । कुत्-
सितः पटुः कापटुस्तस्य भावः कर्म्म वा अण् । कापटव
२ निन्दितपटुतायां न० ।

कापटिक त्रि० कपटेन चरति ठक् । १ कपटव्यवहारिणि

“कृत्स्नं चाष्टविधं कर्म पञ्चवर्गञ्च तत्त्वतः” इति ७१५४ ।
श्लोकव्या० कापटिकोदास्थितगृहपतिवैदेहिकतापसव्यञ्ज-
नात्मकं पञ्चविधं चारवर्गं पञ्चवर्गशब्दवाच्य तत्त्वतश्चिन्तयेत्
तत्र परमर्म्मज्ञः प्रगल्भश्छात्रः कपटव्यवहारित्वात्
कापटिकस्तं वृत्त्यर्थिनमर्थमानाभ्यामुपगृह्य राजा ब्रूयात् यस्य
दुर्वृत्तं पश्यसि तत्तदानीमेव मयि वक्तव्यमिति” कुल्लू०
उक्ते राज्ञः पञ्चवर्गान्तर्गते २ छात्ररूपे चारभेदे पु० ।

कापथ पु० कुत्सितः पन्थाः अच् समा० कादेशः । १ निन्द्ये-

वर्त्मनि अमरः । “आस्थातुं कापथं दुष्टं विषमं
बहुकण्टकम्” रामा० । दुष्टपथवर्त्तिनि २ दानवभेदे च पु० ।
“शरभः शलभश्चैव कुपथः कापथः क्रथः” इति हरि०
२६३ अ० दानवनामकथने । ३ उशीरे न० मेदि० ।
कापथजातत्वात्तस्य तथात्वम् ।

कापा स्त्री कम् सुखमाप्यतेऽनया आप--करणे घञ् ६ त० ।

प्रातःप्रबोधकवन्दिवाण्याम् । “प्रातर्जरेथेजरणेव कापया”
ऋ० १० । ४० । ३ । प्रातःप्रबोधकस्य वन्दिनो वाणी कापा
तया” भा० ।

कापाटिक न० कपाटिकैव शर्करा० स्वार्थे अण् स्वार्थिक-

स्यापि क्वचिल्लिङ्गातिक्रमोक्तेः क्लीवता । क्षुद्रकपाटे ।

कापाल न० कपालमेव तस्येदं वा अण् । १ कपालरूपाकारे

कुष्ठभेदे कपालशब्दे उदा० । २ कपालसम्बन्धिनि तन्निर्मिते
भूषणादौ च । “त्रिशूलमस्त्रं घोरञ्च कापालमथ कङ्क-
णम्” विक्रमो० । (कालियाखड़ा) ३ कर्कटावृक्षे पु०
रत्नमा० । गौरा० ङीष् । ४ विड़ङ्गायां स्त्री राजनि० ।

कापालिक त्रि० कपालेन नृकपालेन चरति अभ्यवहारादिकं

करोति ठक् । १ शैवाचारभेदयुक्ते सिद्धान्तेभेदे तेषामा-
चारश्च । “नरास्थिमालाकृतभूरिभूषणः श्मशानवासी
नृकपालभोजनः” । “पश्यामि योगाञ्जनशुद्धदर्शनो
जगन्मिथोभिन्नमभिन्नमीश्वरात्” । तस्य धर्मभेदः प्रबो-
धच० वर्णितो यथा । “मस्तिष्काक्तवसाभिघारितमहा-
मांसाहुतीर्जुह्वतां वह्नौ ब्रह्यकपालकल्पितसुरापानेन
नः पारणा । सद्यःकृत्तकठोरकण्ठविगलत्कीलालधारो-
क्षणैरर्च्यो नः पुरषोपहारबलिभिर्देवो महाभैरवः” इति ।
“अथ तीर्थकराग्रणीः प्रतस्थे बहुकापालिकजालकं विजे-
तुम्” शङ्करदिग्विजयः । २ अन्त्यजजातिभेदे (कपालि)
पु० स्त्री० स्त्रियां ङीष् । अन्त्यजशब्दे कपालिन्शब्दे च
विवृतिः । कपालिकैव शर्करा० अण् । ३ क्षुद्रकपाले न० ।

कापालिन् पु० कापाल कपालं ब्रह्मकपालं व्रते धार्प्यत्वेनास्त्यस्य

इनि । ब्रह्मशिरोहरणजपापापनुत्तये व्रतार्थं ब्रह्मकपाल-
धारिणि १ शिवे । “अजैकपाच्च कापाली त्रिशङ्कुरजितः
शिवः” भा० अनु० १७ अ० शिवसहस्रनामकथने । वासुदेवस्य
२ पुत्रभेदे । “कौशिक्यां सुतसोमायां यौधिष्ठिय्यां युधि-
ष्ठिर! । कापाली गरुडश्चैव जज्ञाते चित्रयोधिनौ” हरि०
१६२ अ० । (कपालि) ३ जातिसङ्करे अन्त्यजभेदे पुं स्त्री ।
स्त्रियां ङीप् । “नटी कापालिनी वेश्या कुलटा नापि-
ताङ्गना” तन्त्रसारे सप्तकुलनायिकाकीर्त्तने ।
पृष्ठ १८८७

कापिक पु० कपिरेव अङ्गुल्यादि० ठक् । कपिशब्दार्थे

कापिञ्जल पुं स्त्री कपिञ्जलस्यापत्यं शिवा० अण् ।

कपिञ्जलस्यापत्ये स्त्रियां ङीप् ।

कापिञ्जलादि पुं स्त्री कपिञ्जलान् तन्मांसान्यत्ति अद--अण्

उप० स० कपिञ्जलादस्तस्यापत्यम् “अत इञ्” पा० इञ् ।
कपिञ्जलपक्षिमांसभक्षकस्यापत्ये स्त्रियां ङीप् । तस्यापत्यम्
कुर्व्वादि० ण्य । कापिञ्जलाद्य तदपत्ये पुंस्त्री ।

कापित्थ न० कपित्यस्य विकारः अनुदात्तादित्वात् “अनु-

दात्तादेश्च” पा० अञ् । कपित्थविकारे

कापिल त्रि० कापिलं तदुक्तशास्त्रं वेत्त्यधीते वाऽण् । १ कपिल-

शास्त्रज्ञे २ तदध्येतरि च हेम० । कपिलेन प्रोक्तम् अण्
तस्येदं वा अण् । ३ कपिलप्रोक्ते ४ तत्सम्बन्धिनि शास्त्रे
न० कपिलशब्दे तत्प्रोक्तविषया दर्शिताः । “मार्गज्ञाः
कापिलाः सांख्याः” भा० शा० ३०३ । “बुद्धिश्च
परमा यत्र कापिलानां महात्मनाम्” “पितु र्नियो-
गाज्जग्राह शुको धर्म्मभृतां वरः । योगशास्त्रं च निखिलं
कापिलञ्चैव भारत!” भा० शा० ३२७ अ० ।
स्वार्थेऽण् । ५ षिङ्गलवर्ण्णे पु० ६ तद्वति त्रि० भरतः
कपिलमधिकृत्य कृतोग्रन्थः अण् । ६ कपिलाधिकारेण कृते
उपपुराणभेदे “अन्यान्युपपुराणानि मुनिभिः कथितानि
तु” इत्युपक्रम्य “कापिलं मानवञ्चैव तथैवोशनसेरितम्” ।
हेमा० दा० ख० कूर्म्मपु० उपपुराणगणने उक्तम्

कापिलिक पुंस्त्री कपिलिकायाः कपिलवर्ण्णायाः अपत्यम्

शिवा० अण् । कपिलिकाया अपत्ये स्त्रियां ङीप् ।

कापिलेय पु० कपिलायाः तन्नाम्न्या ब्राह्मण्या अपत्यम् ढक् ।

कपिलानाम्न्याः स्तनपायित्वेन तदपत्ये ब्राह्मण्याः कपिल-
शिष्ये मुनिभेदे । तस्य सम्भवादिकं भा० शा० २१८ अ०
वर्ण्णितं यथा “तत्र पञ्चशिखो नाम कापिलेयो
महामुनिः । परिधावन् महीं कृत्स्नां जगाम मिथिलामथ ।
सर्वसंन्यासधर्माणां तत्त्वज्ञानविनिश्चये । सुपर्यवसितार्थश्च
निर्द्वन्द्वोनष्टसंशयः । ऋषीणामाहुरेकं तु यं कामानावृतं
नृष् । शाश्वतं सुखमत्यन्तमन्विच्छन्तं सुदुर्लभम् । यमाहुः
कपिलं सांख्याः परमर्षिं प्रजापतिम् । समन्ये तेन रूपेण
विस्मापयति हि स्वयम् । आसुरेः प्रथमं शिष्यं यमाहु-
श्चिरजीविनम् । पञ्चस्रोतसि यः सत्रमास्ते वर्षसहस्रि-
कम् । यत्न चासीनमागम्य कापिलं मण्डलं महत् । पञ्च-
स्रोतसि निष्णातः पञ्चरात्रविशारदः । पञ्चज्ञः पञ्चकृत्
पञ्चगुणः पञ्चशिखः स्मृतः । पुरुषावस्थमव्यक्तं परमार्थं
न्यवेदयत् । इष्टसत्रेण संपृष्टो भूयश्च तपसाऽऽसुरिः । क्षेत्र
क्षेत्रज्ञयोर्व्यक्तिं बुबुधे देवदर्शनः । यत्तदेकाक्षरं ब्रह्म
नानारूपं प्रदृश्यते । आसुरिर्मण्डले तस्मिन् प्रतिपेदे
तदव्ययम् । तम्य पञ्चशिखः शिष्यो मानुष्या पयसा भृतः ।
ब्राह्मणी कपिला नाम काचिदासीत् कुटुम्बिनी । तस्याः
पुत्रत्वमागम्य स्त्रियाः स पिबति स्तनौ । ततः स कापि-
लेयत्वं लेभे बुद्धिं च नैष्ठिकीम् । एतन्मे भगवानाह
कापिलेयस्य संभवम् । तस्य तत् कापिलेयत्वं सर्ववित्त्व-
मनुत्तमम्” ।
व्याख्यातञ्चैतत् नीलकण्ठेन यथा “कापिलेयः कपिलायाः
पुत्रः परिधावन् एकत्र वासमकुर्वन् । सुपर्यवसितार्थः
सम्यग्निश्चितप्रयोजनः । कामैरनावृतं कामादवसित
मितिपाठे यदृच्छया स्थितं नृषु सुखम् अन्विच्छन्तं स्थाप-
यितुमिति शेषः । सः कपिलः, तेन पञ्चशिखसंज्ञेन
तत्प्राशष्यत्वात्तत्तुल्यत्वम् । पञ्च स्रोतांसि विषयकेदार
प्रणाडिकाः यस्य तस्मिन् मनसि मानसं सत्रमित्यर्थः ।
यत्र यत्समीपे, कापिलं कपिलमतानुसारि मण्डलं मुनि
समूहं प्रति परमार्थं यो न्यवेदयदित्युत्तरेण सम्वन्धः ।
पञ्चस्रोतसि मनसि निष्णातः ऊहापोहकोशलवान् ।
पञ्चरात्रो नाम विष्णु त्वप्रापकः क्रतुः “पुरुषोह वै नारा-
यणो ऽकामयतात्यतिष्ठेयं सर्वाणि भूतान्यहमेवेदं सर्वं
स्यामिति सएतं पञ्चरात्रं पुरुषमेधं यज्ञक्रतुमपश्य
दिति” शतपवोक्तस्तत्र विशारदः अनुष्ठिताखिलकर्मे-
त्यर्थः । पञ्च अन्नमयप्राणमयमनोमयविज्ञानमयानन्दम-
यान् कोषान् मिथ आत्मनश्च विविक्तान् जानातीति पञ्च-
ज्ञः अतएव पञ्चकृत् पञ्च तद्विषयान्यु पासनानि “भृगुर्वै
वारुणिरित्यस्यामुपनिषदि “सतपस्तप्त्वाऽन्नं ब्रह्मेति व्यजा-
नदित्यादि” विहितानि करोति पञ्चकृत्, पञ्च “शान्तो-
दान्त उपरतस्तितिक्षुः समाहितो भूत्वात्मन्येवात्मानं
पश्यतीति श्रुताः शान्तादयो गुणाः यस्मिन् स पञ्चगुणः
ततश्च “ब्रह्मविद्ब्रह्मैव भवतीति” श्रुतेः पञ्चभ्योऽतिरिच्य-
मानत्वात् शिखेवेति पञ्चशिखं पुच्छं ब्रह्म तज्ज्ञत्वात्
मुनिरपि पञ्चशिखः । ननु पञ्चकृत् कथं षष्ठज्ञः स्यादिति
वेत्? शृणु--यथान्नमयं विकारमुपासीनस्तत्प्रकृतिमन्नं
विराड़ाख्यमेति एवं मायया विकृतमानन्दं तत्पतिमेतीति
न षष्ठोपास्तिः पृयग्वक्तव्या । षष्ठज्ञानाय तस्य पञ्चमो-
पास्तिफलत्वात् तदेतदाह पुरुषेति । पुरुषा अन्नमयादयः
पृष्ठ १८८८
पञ्च अवसन्नतया बाधिततया तिष्ठन्तीत्यस्मिन्निति पुरुषा-
वस्थम् अतएव शिरआद्यवयवरहितत्वादव्ययम्
अबाध्यत्वाच्च परमार्थम् अबोधयत् । तस्यापि गुरुमाह इष्टेत्या-
दिना । इष्टसत्रेण आत्मयज्ञेन हेतौ तृतीया, अध्ययनेन
वसतीतिवत्, सम्यक् पृष्टं प्रश्नो यस्य स संपृष्टः, आत्मज्ञा-
नार्थं कृतप्रश्न इत्यर्थः । व्यक्तिं बाध्यत्वाबाध्यत्वेन स्पष्टताम्
देवदर्शनः दिव्यदृष्टिरित्यर्थः । सांख्यसम्मतं गुणपुरुषान्तर-
ज्ञानात् कैवल्यं प्रधानं चोपादानमिति पक्षं निरस्यति
यत्तरिति, अक्षरमेव जगदुपादानतया नानारूपं न तु
क्षरं प्रधानम्, अव्ययं ब्रह्मैव प्रतिपेदे ज्ञातवान्, न तु गुण
पुरुषान्तरम् । भगवान् मार्कण्डेयः सनत्कुमारो वा” ।

कापिल्य त्रि० कपिलेन निर्वृत्तादि कपिल + चतुरर्थ्यां सङ्काशा०

ण्यः । कपिलेन निर्वृत्तादौ ।

कापिवन न० द्व्यहसाध्ये अहीने यागभेदे “द्व्यहास्त्रय” इत्यु-

पक्रमे “आङ्गिरसचैत्ररथकापिवनाः” कात्या० २३ । २ । ३ ।
“चैत्ररथमन्नाद्यकामः कापिवनं स्वर्गकाम इति द्व्यहाः”
आश्व० श्रौ० १० । २ । ३ ।

कापिश न० कपिशा मार्धवी तत्पुष्पम् साधनतेनास्त्यस्य

अण् । माधवीलताकुसुमजाते मद्यभेदे हेमच० ।

कापिशायन त्रि० कपिशेव स्वार्थेऽण् तत्र जातं “कापिश्याःष्फक्”

पा० ष्फक् । माधवीपुष्पलताजाते मद्ये जटा० । “कापिशायन
सुगन्धि विधूर्णन्” माघः । देवतायां पु० धर० । द्राक्षायां
स्त्री सि० कौ० षित्तात् ङीष् ।

कापिशेय पु० स्त्री कपिशाया अपत्यम् ढक् । कपिशापत्ये पिशाचे त्रिका० ।

कापिष्ठल पु० कपिष्ठलस्येदम् अण् । मध्यदेशभेदे वृह० स० ।

कूर्मविभागे “औदुम्बरकापिष्ठलगजाह्वयाश्चेति मध्यमि-
दम्” इत्युक्तेस्तस्य मध्यदेशत्वम् ।

कापिष्ठलि पु० स्त्री कपिष्ठलस्य गोत्रापत्यम् इञ् । कपिष्टल-

गोत्रापत्ये स्त्रि यान्तु क्रौड्या० ष्यञ् । कापिष्ठिल्या इति
भेदः । यून्यपत्ये तु “यञिञोश्च” पा० फक् । कापिष्ठ-
लायन तद्गोत्रयुवापत्ये पु० ।

कापुरुष पु० कुत्सितः पुरुषः कोः का । १ कुत्सिते पुरुषे

“शत्रोर्विख्यातवीर्य्यस्य व्यञ्जनीयस्य विक्रमैः । पश्यतोयुद्ध-
लुब्धोऽहं कृतः कापुरुषस्त्वया” रामा० कापुरुषस्येदमण् ।
२ कुत्सितपुरुषसम्बन्धिनि त्रि० । “स्त्रीषु शौर्य्यमनथासु
परदारप्रधर्षक! । कृत्वा कापुरुषं कर्म्म शूरोऽहमिति
मन्यसे” रामा० । स्त्रियां ङीप् । ब्राह्मणादि० भावे
कर्म्मणि च ष्यञ् । कापुरुष्य तद्भावे तत्कर्म्मणि च न० ।

कापेय न० कपेर्भावः कर्म्म वा “कपिज्ञात्योर्ढक्” पा० ढक् ।

१ कपेर्भावे कर्म्मणि च । अपत्ये इदन्तत्वात् ढक् । २
कपिगोत्रापत्ये अनाङ्गिरसे पुंस्त्री ३ शौनकर्षौ पु० शब्दचि० ।
स्त्रियां गोत्रप्रत्ययान्तत्वात् ङीष् । तस्येदं ढक् ।
कपिसम्बन्धिनि त्रि० स्त्रियान्तु ङीष् । “कच्चिन्नुखलु
कापेयी सैव ते चलचित्तता” रामा० ।

कापोत न० कपोतानां समूहः अण् । १ कपोतसमूहे कपोत-

स्येदम् । “अनुदात्तादेः” पा० अञ् । २ कपोतसम्बन्धिनि
त्रि० स्त्रियां ङीप् । “अतिथिव्रती क्रियावांश्च कापोतीं
वृत्तिमास्थितः” भा० व० २५९ अ० । “कापोतीं दृत्तिं-
स्वल्पसंग्रहरूपाम्” नीलकण्ठः” “स्तुवन् वृत्तिंस कापोती
दुहित्रा स ययौ पुरात्” भाग० ९, १८, १५, “कापोती
मुञ्छवृत्तिम्” श्रीधरः । कपोतस्य यथा उञ्छवृत्तित्वमल्प-
संग्रहत्वञ्च तथा कपोतलुब्धकीयशब्दे १६७० पृ० दर्शितम् ।
कापोतवर्णोऽस्त्यस्य अर्श० अच् । ३ सौवीराञ्जने ४ रुचके
(सर्ञिकाक्षारे) न० मेदि० । ५ कपोताभवर्ण्णे पु०
६ तद्वति त्रि० हेम० । ७ ओषधिभेदे स्त्री गौ० ङीष् ।
तल्लक्ष्मस्थानमुक्तं सुश्रुते “कौशिकीं सरितं तीर्त्त्वा सञ्ज-
यन्त्यास्तु पूर्वतः । क्षितिप्रदेशोवल्मीकैराचितोयोजन-
त्रयम् । विज्ञेया तत्र कापोती श्वेता वल्मीकमूर्द्धसु”
सुश्रु० । ओषधिलक्षणादिकथने ।

कापोतक त्रि० कपोताः सन्त्यस्याम् नडा० छः कुक् च

कपोतकीयः तत्रभवः अण् विल्वका० छस्य लुक् । कपोत-
कीयभवे ।

कापोतपाक्य पु० कपोतानां पाकः डिम्बः तेषां पूगः ण्यः । कपोतडिम्बसमुदाये ।

कापोताञ्जन न० कापोतं च तदञ्जनं चेति कर्म० । सौवीरा-

ञ्जने अमरः ।

काप्य पुंस्त्री कपेर्गोत्रापत्यम् आङ्गिरसः “कपिवोधादाङ्गिरसे”

पा० यञ् । १ कपिगोत्रापत्ये आङ्गिरसे । स्त्रियान्तु
शार्ङ्गरवादौ काव्येत्यत्र काप्य इति पाठान्तरे ङीन् यलोपः
कापी । यङन्तन्तात् यून्यपत्ये फक् । काप्यायनः कपिगोत्र-
युवापत्ये, स्त्रियान्तु लौहिता० ष्फः षित्त्वात् ङीष् । काप्या-
यनी । अनाङ्गिरसे तु “इतश्चानिञः” पा० ढक् । कापेय
इति भेदः । कुत्सितमाप्यम् कोः का । २ पापादौ त्रि०

काप्यकर त्रि० कुत्सितमाप्यं काप्यं पापं करोति धातूनाम-

नेकार्थत्वात् कथयति कृ--ताच्छील्यादौ--ट । पापं कृत्वा
परस्य कथके स्वपापवक्तरि शब्दर० । कर्म्मणि अण् ।
काप्यकारोऽप्यत्र त्रि० त्रिका० ।
पृष्ठ १८८९

काफल पु० कुत्सितं फलमस्य । (कट्फल) वृक्षभेदे । शब्दरत्ना०

काबर पु० कुत्सितो बन्धः कोः का वेदे पृषो० । कुत्सितबन्धे ।

“श्रवस्युं शुष्मं काबरं बध्रिं कण्वन्तु बन्धुरः” । “शुनां
कपिरिव दूषणो बन्धरा काबरस्य च” दुष्टौ हित्वा भर्त्-
स्यामि दूषयिष्यामि काबरम्” अथ० ३ । ९ । ३ । ४ । ५ ।

काम अव्य० कम--घञ् । १ अनुज्ञायां विश्वः । २ निकामे ३ अत्यर्थे

४ काम्ये न० मेदि० कामाय हितम् अण् । ५ रेतसि न० मेदि०
६ वाढमित्यर्थे, ७ अनुमतौ “काममामरणात् तिष्ठेत् गृहे
कन्यर्त्तुमत्यपि” यममनूः । “मनागनभ्यावृत्त्या वा कामं
क्षम्यतु यः क्षमी” माघः । ८ इच्छायाम् “कामः सङ्कल्पोवि-
चित्सा श्रद्धाऽश्रद्धा धृतिरधतिर्ह्रीर्धीर्भीरित्येतत् सर्वं मनएव”
श्रुतेः तस्य मनोधर्मत्वमिति वेदान्तिनः सांख्याश्च मन्यन्ते
मनोहेतुकत्वोक्तावेव श्रुतेस्तात्पर्यं मन्यमाना आत्मधर्मत्व-
मिति नैयायिका आहुः । अभिलाषशब्दे इच्छाशब्दे
चास्य विवृतिः । “सङ्कल्पमूलः कामो वै यज्ञाः सङ्क-
ल्पसम्भवाः” इत्युपक्रम्य “अकामस्य क्रिया काचित्
दृश्यते नेह कर्हिचित् । यद्यद्धि कुरुते किञ्चित्
तत्तत् कामस्य चेष्टितम्” इति मनुना सर्व्वक्रियां प्रति
कामस्य हेतुत्वमुक्तम् । “सङ्कल्पः अनेन कर्म्मणा इदमिष्टं
फलं साध्यताम्” इति बुद्धिः । तथाच इष्टसाधनता-
ज्ञानरूपात् सङ्कल्पात् काम इच्छा भवति, ततः क्रिया-
निष्पत्तिः । सचाप्राप्तविषयस्य प्राप्तिसाधने चित्तवृत्तिभेदः
कामस्तु रजोगुणहेतुकः । यथोक्तं गीतायाम् “कामएष
क्रोधएष रजोगुणसमुद्भवः” कामश्च इष्टविषयाभिलाषः ।
“पुंसों या विषयापेक्षा स काम इति भण्यते” । पुमानादौ
काममय एव भूत्वार्थकर्मकृत् । यतोऽयं कर्मणोहेतुः कामो-
ऽतोऽस्य प्रधातता” “सङ्गात् सञ्जायते कामः कामात् क्रोधो
ऽभिजायते” गोता । कर्मणि घञ । ९ कामनाविषये, कामना-
विषयश्च त्रिविधः वाह्याभ्यन्तरवासनामयभेदात् तत्र
गृहक्षेत्रादिकं शब्दादिविषयाश्च वाह्यविषयाः शारीरमानसिक-
कर्म्मजातम् आभ्यन्तरः संघः स्वप्नहेतुकः वासनाययः “न
जातु कामः कामानामुपभीगेन शाम्यति । हविषा कृष्ण-
वर्त्मेव भूयएवाभिवर्द्धते” मनुः । धर्मार्थकाममोक्षमध्ये
कामशब्देन काम्यस्यैव ग्रहणं तस्यैव पुरुषार्थत्वात् पुरुषेण
इष्यमाणत्वात् इच्छायास्तथात्वाभावात् । “अप्यर्थ-
कामौ तस्यास्तां धर्मएव मनीषिणः” रघुः । “सन्तान
कामस्य तथेति कामम्” रघुः । काम्यमानत्वात् कामं
वरमित्यर्थः । “तथेति काम प्रतिशुश्रुवान् रघोः” रघुः ।
“इति स्वप्नोपमान् मत्वा कामान् मा गास्तदङ्गताम्”
रघुः । कामनाविषयश्च सुखस्वरूपमात्मैवेति वेदान्तिनः,
तदेव मुख्यं प्रयोजनम् “नवा अरे पत्युः कामाय
पतिः प्रियोभवति आत्मनस्तु कामाय पतिः प्रियोभवति”
वृ० उप० सुखस्वरूपात्मन एव परप्रेमास्पदत्वो-
क्तेः । तत्साधनानान्तु गौणप्रयोजनत्वम् । सुखमिव
दुःखाभावोऽपि मुख्यं काम्यमिति नैयायिकादयः,
“मोक्षकाङ्क्षिभिः काम्यमाने १० परमेश्वरे च । “कामहा
कामकृत् कान्तः कामः कामप्रदः प्रभुः” विष्णुस० ।
स्त्रीपुरुषयोः उपस्थसाध्यानन्दसाधने तयोः परस्प-
रालिङ्गनादिप्रवर्त्तके ११ अनुरागभेदे तत्रैव लोके
कामशब्दस्य रूढिर्दृश्यते । स च तिथिविशेषे स्त्री-
पुरुषयोः स्थानविशेषएव चुम्बनादिना व्यज्यते, यथोक्तं
स्मरदीपिकायाम् “पादे गुल्फे तथोरौ च भगे नाभौ
कुचे हृदि । कक्षे कण्ठे तथौष्ठे च गण्डे नेत्रे
श्रुतावपि । ललाटे शोर्षकेशेषु कामस्थानं तिथिक्रमात् ।
दक्षे पुंसां स्त्रिया वामे शुक्ले कृष्णे विपर्य्ययः । पादाङ्गुष्ठे
प्रतिपदि द्वितीयायाञ्च गुल्फके । ऊरुदेशे तृतीयायां
चतुर्थ्या” भगदेशतः । नाभिस्थाने च पञ्चम्यां षष्ठ्यान्तु
कुचमण्डले । सप्तम्यां हृदये चैव अष्टम्यां कक्षदेशतः ।
नवम्यां कण्ठदेशे च दशम्यां चोष्ठदेशतः । एकादश्यां गण्ड-
देशे द्वादश्यां नयनेतथा । श्रवणे च त्रयोदश्यां चतुर्द्दश्यां
ललाटके । पौर्णमास्यां शिखायाञ्च ज्ञातव्यञ्च इति
क्रमात् । यत्र स्थाने वसेत् कामस्तत्रैव नखचुम्बनम् ।
“हदि कामः भ्रुवोः क्रोधो लोभश्चाधोरदच्छदात्”
भाग० । तस्य समष्टिरूपस्य विराजो ब्रह्मणः हृदय-
जातत्वेन व्यष्टीनामप्यस्मदादीनामपि मनसिजन्यत्वम् ।
प्राणिनां जन्मावधि सर्वकालेष्वस्य वर्त्तमानत्वेऽपि यौवने
एवास्य यथा प्रादुर्भावस्तथा कालिका० पु० १९ ।
२२ अ० वर्णितं यथा
“ब्रह्मापि तनयां सन्ध्यां दृष्ट्वा पूर्ब्बमथात्मनः । कामा-
याशु मनश्चक्रे त्यक्त्वा बुद्धिं सुतेति वै । तस्याश्च चलितं
चित्तं कामवाणविलोड़ितम् । ऋषीणां प्रेक्षतां तेषां
मानसानां महात्मनाम् । भर्गस्य वचनं श्रुत्वा सोपहासं
विधिं प्रति । आत्मनश्चलचित्तत्वममर्य्यादमृषीन् प्रति ।
कामस्य तादृशं भावं मुनिमोहकरं तदा । दृष्ट्वा सन्ध्या
स्वयं तत्र त्रपामापातिदुःखिता । ततस्तु ब्रह्मणा शप्ते
मदने तदनन्तरम् । अन्तर्भूते विधौ शम्भौ गते चापि
पृष्ठ १८९०
निजास्पदे । अमर्षवशमापन्ना सन्ध्या ध्यानपराऽभवत्” ।
ततस्तस्यास्तपसा तीषितेन विष्णुना तत्प्रार्थनया कामप्र-
वृत्तिकालनियमनरूपोवरोदत्तो यथा “सन्ध्योवाच । यदि
देव! प्रसन्नोऽसितपसा मम संप्रति । वृतस्तदायं प्रथमं बरो
मम विधीयताम् । उत्पन्ननात्रा देवेश! प्राणिनोऽस्मिन्
भुवस्तले । न भवन्तु क्रमेणैव सकामाः सम्भवन्तु वै । श्री-
भगवानुवाच । प्रथमं शैशवो भावः कौमाराख्यो द्विती-
यकः । तृतीयो यौवनो भावश्चतुर्थं वार्द्धकं तथा । तृतीये
त्वथ संप्राप्ते वयोभागे शरीरिणः । सकामाः स्युर्द्विती-
यान्ते भविष्यन्ति क्वचित् क्वचित् । तपसा तव मर्य्यादा
जगति स्थापिता मया । उत्पन्नमात्रा न यथा सकामाः
स्युः शरीरिणः” । तथा च कामप्रवृत्तिहेतुर्हि शुक्रवृद्धिः
बाल्ये च शुक्रवृद्धेरसम्भवात् न कामप्रवृत्तिः । बाला-
नामपि अन्नरसपाकेन चरमधातोः शुक्रस्योद्भवसम्भवेऽपि
तस्य सूक्ष्मत्वात् न प्रसरणम् यथाह भावप्र० । “बालानां
शुक्रमस्त्येव किन्तु सौक्ष्म्यान्न दृश्यते । पुष्पाणां मुकुले
गन्धो यथा सन्नपि नाप्यते । तेषां तदेव तारुण्ये
पुष्टत्वाद्व्यक्तिमेति हि । कुसुमानां प्रफुल्लानां गन्धः प्रादु-
भवेद्यथा” । तत्र कारणञ्च अनुपदोक्तविष्णुवर एव
इति न बाल्ये तस्य प्रादुर्भावः । १२ तादृशानुरागाधिष्ठातृ
देवभेदे स च पञ्चाशद्विधः । यथोक्तं शा० ति० टी०
राधवभट्टेन यथा “काम १ कामद २ कान्ता ३ श्च
कान्तिमान् ४ कामग ५ स्तथा । कामचारश्च ६ कामी
७ च कामुकः ८ कामवर्द्धनः ९ । रामो १० रमश्च ११
रमणो १२ रतिनाथो १३ रतिप्रियः १४ । रात्रि
माथो १५ रमाकान्तो १६ रममाणो १७ निशाचरः
१८ । नन्दको १९ नन्दन श्चैव २० नन्दी २१ नन्दयिता
२२ पुनः । पञ्चवाणो २३ रतिसखः २४ पुष्पधन्वा २५
महाधनुः २६ । भ्रामणो २७ भ्रमण २८ श्चैव भ्रममाणो
२९ भ्रमोत्तरः ३० । भ्रान्त श्च ३१ भ्रमुको ३२ भृङ्गो
३३ भ्रान्तचारो ३४ भ्रमावहः ३५ । मोहनो ३६ मोहको
३७ मोहो ३८ मोहवर्द्धन ३९ एव च । मदनो ४० मन्मथ
४१ श्चैव मातङ्गो ४२ भृङ्गनायकः ४३ । गायनो ४४
गीतिज ४५ श्चैव नर्त्तनः ४६ खेलक ४७ स्तथा । उन्म-
त्तोन्मत्तक ४८ श्चैव विला ४९ लोभवर्द्धनः ५०” ।
तेन च कार्त्तिकेयोत्पत्तरे शिवध्यान भङ्गार्थमिन्द्रनियुक्तेन
शिवध्य नभङ्गार्थमुद्युक्तेन पानभङ्गजनितहरकोपात् भस्मी-
भावमासाद्याङ्गहीनत्रमाप्त । यथाह शिवपु० १४ अ० ।
“कामोधनुषि संयोज्य पुष्पवाणं तदा सुते! । पार्वती
सन्मुखे स्थाणौ मोक्तुकामो व्यवस्थितः । हरस्तु र्धर्य्य-
मालम्ब्य किमेतदिति चिन्तयन् । ददर्श पृष्ठतः कार्मं
पुष्पबाणधनुर्धरम् । विवृद्धमन्योस्तस्याथ तृतीयनय-
नान्मुने! स्फुरन्नुदर्च्चिरग्निस्तु पपात मदनोपरि ।
क्रोधं संहर हे देव! इति यावत् वदन्ति खे । इन्द्रा-
दिसकलादेवास्तावद्भस्मीचकार तम्” स च पश्चात् वासु-
देवात् रुक्मिण्यां प्रादुर्भूय मायावतीरूपां रतिं शम्बर-
भार्य्यात्वेन प्रथितामुपयेमे । तदेतत् हरि० वर्ण्णितम् ।
“रुक्मिण्यां वासुदेवस्य लक्ष्म्यां कामोधृतव्रतः । शम्बरान्त-
करोजज्ञे प्रद्युम्नः कामदर्शनः । त सप्तरात्रे सम्पूर्णे
निशीथे सूतिकागृहात् । जहार कृष्णस्य सुतं शिशुं
वै शम्बरो नृप! । स मृत्यना परीतायुर्म्मायया प्रज-
हार तम् । दोर्भ्यासुत्क्षिप्य नगरं स्वंनिनाय
महासुरः । अनपत्या तु तस्यासीद्भार्य्या रूपगुणान्विता । नाम्ना
मायावती नाम मायेव शुभदर्शना । ददौ तं वासु-
देवस्य पुत्त्रं पुत्त्रमिवात्मजम् । तस्या महिष्या नाथिन्या
दानवः कालचोदितः । मायावती तु तं दृष्ट्वा सम्प्रहृष्टतनू-
रुहा । हर्षेण महता युक्ता पुनःपुनरुदैक्षत । अथ तस्या
निरीक्षन्त्याः स्मृतिः प्रादुर्बभूव ह । अयं स मम कान्तोऽ-
भूत् स्मृत्येवं चान्वचिन्तयत् । अयं स नाथोमर्त्ता मे यस्यार्थे
हि दिवानिशम् । चिन्ताशोकह्रदे मग्ना न विन्दामि
रतिं क्वचित् । अयं भगवता पूर्व्वं देवदेवेन शूलिना ।
खेदितेन कृतोऽनङ्गो दृष्टोजात्यन्तरे मया । कथमस्य
स्तनं दास्ये मातृभावेन जानती । भर्त्तुर्भार्य्या त्वहं भूत्वा
वक्ष्ये वा पुत्र इत्युत । एवं सञ्चिन्त्य मनसा धात्र्यास्तं
सा समर्पयत् । रसायनप्रयोगैश्च शीघ्रमेवान्ववर्द्धयत् ।
धात्र्याः सकाशात् स च तां शृण्वन् रुक्मिणिनन्दनः ।
मायावतीमविज्ञानान्मेने स्वामेव मातरम् । सा च तं वर्द्ध-
यामास कार्ष्णिं कमललोचनम् । माया श्चास्मै ददौ सर्व्वा
दानवीः काममोहिता । स यदा यौवनस्थस्तु प्रद्युम्नः
कामदर्शनः । चिकार्षितज्ञो नारीणां सर्व्वास्त्रविधिपारगः ।
तं सा मायावती कान्तं कामयामास कामिनी” हरि०
१६३ अ० । “कुमार! पश्य मां प्राप्तं देवगन्धर्वनारदम् ।
प्रेषितं देवराजेन तव सम्बोधनाय वै । स्मर त्वं पूर्व्वकं
भावं कामदेवोऽसि मानद! । हरकोपानलाद्दग्धस्तेना-
नङ्गस्त्विहोच्यसे । त्वं वृष्णिवंशे जातोऽसि रुक्मिण्या
गर्भसम्भवः । जातोऽसि केशवेन त्वं प्रद्युम्न इति
पृष्ठ १८९१
कीर्त्त्यसे । आहृत्य शम्बरेण त्वमिहानीतोऽसि मानद! ।
सप्तरात्रे त्वसम्पूर्णे सूतिकागारमध्यतः । बधार्थं शम्ब-
रस्य त्वं ह्रियमाणो ह्युपेक्षितः । केशवेन महाबाहो! ।
देवकार्यार्थसिद्धये । यैषा मायावती नाम भार्या वै शम्बरस्य
तु । रतिं तां विद्धि कल्याणी तव भार्यां पुरातनीम् । तव
सा रक्षणार्थाय शम्बरस्य गृहेऽवसत् । मायां शरीरजां
न्यस्य मोहानार्थं दुरात्मनः । रतेरुत्पादनार्थाय प्रेषयत्य-
निशं तदा । एवं प्रद्युम्न! बुद्ध्वा वै तव भार्यां प्रतिष्ठिताम् ।
हत्वा तं शम्बरं वीर! वैष्णवास्त्रेण संयुगे । गृह्य मायावती
भार्यां द्वारकां गन्तुमर्हसि” हरि० १६५ अ० “कामं प्रति-
नारदवाक्यम् । “सोऽब्रवीत् सहसा देवीं रुक्मिणीं देवता-
मिव । अयं स देवि! संप्राप्तः पुत्रश्चापधरस्तव । अनेन
शम्बरं हत्वा मायायाञ्च विशारदम् । हृता मायाश्च ताः
सर्व्वा याभिर्देवानबाधत । सती चेयं शुभा साध्वी भार्याऽपि
तनयस्य ते । मायावतीति विख्याता शम्बरस्य गृहोषिता ।
मा च ते शम्बरस्येयं पत्नीति भवतु व्यथा । मन्मथेऽथ गते
नाशं गते चानङ्गतां पुरा । कामपत्नी, न कान्तैषा शम्ब-
रस्य रतिः प्रिया । मायारूपेण तं दैत्यं मोहयन्त्य-
सकृच्छुभा । न चैषा तस्य कौमारे वशे तिष्ठति शोभना ।
आत्ममायामयं कृत्वा रूपं शम्बरमाविशत् । पत्न्येषा मम
पुत्रस्य स्नुषा तव वराङ्गना” हरि० १६७ अ० । रुक्मिणीं
प्रति कृष्णवाक्यम् । तेन १३ रौक्मिणेये पु० १४ बलदेवे
शब्दर० तस्य कामपालत्वात्तथात्वम् । १५ महाराज
चूते राजनि० । कर्मपूर्ब्बकात् कामयतेः कर्त्तरि अण् ।
तत्तत्पदार्थकामनायुक्ते यथा स्वर्गकामोऽश्वमेधेन यजेत
पशुकामः प्रजाकाम इत्यादि । घञ्न्तकामशब्दे परे
तुमुन्नन्तस्यान्तलोपः । यथा गन्तुकामः रन्तुकामः इत्यादि
वृषादि० तस्याद्युदात्तता । कामनायुक्तवाचककामादिशब्द-
समभिव्याहारे यागे तन्नियोज्यकत्वं तत्कृतिसाध्यत्वञ्च
मतभेदेन प्रतीयते यथा स्वर्गकामो यजेतेत्यत्र स्वर्गकाम
नियोज्यकस्तत्कृतिसाध्योवा याग इति बोधः । लिङादिना
यागादेः कर्त्तव्यत्वबोधनात् यागादेस्तथात्वम् । यागजन्य-
फलं च कामनावतीव तत्तत्फलकामनोद्देश्येऽपि भवति अतः
पितृस्वर्गकामनया कृतपूर्त्तादेः फलं पितरीति मणिकृत् ।
अर्थशब्देन द्वन्देऽस्य वा पूर्व्वं निपातः । अर्थकामौ कामार्थौ ।
तन्त्रोक्ते १६ वीजभेदे । तदुद्धारो यथा तन्त्रसा० कुलार्ण्णवे
“देवीं दक्षिणबाहुशक्रनयनं कामं कलालाञ्छितम्”
दक्षिणबाहुः ककारस्तस्य वर्ण्णस्य मातृकान्यासे दक्षबाहु-
मूले न्यस्यत्वात् तथात्वम् शक्रोलकारः नयनं वाननेत्रं तेन
ईकारः कलालाञ्छितं विन्दुभूषितम् तेन क्लीम् इत्येवं रूपं
कामम् इत्यर्थः । प्रकारान्तरेण तदुद्धारः तन्त्रसा० श्रीक्रमे ।
“तां विद्यां शृणु देवेशि! काममिन्द्रसमन्वितम् ।
नादविन्दुकलाभेदात् तुरीयस्वरसयुतम् । महाश्रीसुन्दरी
विद्या महात्रिपुरसुन्दरी । ककारे सर्व्वमुत्पन्नं कामे-
कैवल्यदायकम् । लकारे सकलैश्वर्य्यमीकारे सर्व्वसौ-
ख्यदम्” कुब्जिकात० । “परा च कमला कामो वाग्-
भवं शक्तिरेव च” । १७ ककाराक्षरे च । शिववीजं (ह) ।
तथा कामं (क) इन्द्रम् (ल) देवीं (स) नियोजयेत् ।
षोडशीविद्यायां शक्तिकूटोद्धारे ।

कामकला स्त्री० कामस्य कला प्रिया । तत्कलाहेतुत्वात्

कामपत्न्याम् १ रतौ शब्दरत्ना० । ३ त० २ कामहेतुक-
लायाञ्च ।

कामकाति त्रि० कै--शब्दे क्तिन् कामपरा कातिर्यस्य ।

कामशब्दयुक्ते । “त्वे सुपुत्र! शवसोऽवृत्तन् कामकातयः” ।
ऋ० ८ । ८१ । १४ ।

कामकाम त्रि० कामं काम्यं कामयते कम--णिङ्--अण्

उप० स० । अभीष्टकामे “एवं त्रयीधर्ममनुप्रपन्नाः गतागतं
कामकामा लभन्ते” गीता । णिनिः कामकामीत्यप्यत्र ।
“आपूर्य्यमाणमचलप्रतिष्ठं समुद्रमापः प्रविशन्ति यद्वत् ।
तद्वत् कामा यं प्रविशन्ति सर्व्वे, स शान्तिमाप्नोति न
कामकामी” गीता । स्त्रियां ङीप् ।

कामकार त्रि० कामं काम्यं करोति कृ--अण् उप० स० ।

१ काम्यनिष्पादके । कारः करणं ३ त० । २ कामेन इच्छया
फलाभिसन्धिना करणे पु० । “अयुक्तः कामकारेण फले सक्तो
निबध्यते” गीता “अग्निहोत्र्यपविध्याग्नीन् ब्राह्मणः
कामकारतः” । “कामकारकृतेऽप्याहुरेके श्रुतिनिदर्शनात्”
मनुः । “यः शास्त्रविधिमुत्सृज्य वर्त्तते कामकारतः,
गीता । कामचारत इति पाठान्तरम् ।

कामकूट पु० कामएव कूटं शृङ्गं प्रधानमस्य । १ वेश्याप्रिये

(षिड्गे) (नाङ) । ६ त० । २ वेश्यायाविभ्रमे च मेदि०
तन्त्रोक्ते ३ कामराजाख्ये श्रीविद्यायाः मन्त्रभेदे । “वियच्च-
न्द्रस्ततः पश्चात् कलौ नकुलिवह्नि च । मायास्वरेण संयुक्तं
नादविन्दुकलान्वितम् । प्रथमं कामराजस्य कूटं
परमदुर्लभम्” (हसकलह्रीम्) “वियद्विष्णुयुतं कामोहंसः
शक्रस्ततःपरम् । महामाया ततः पश्चात् स्वप्नवतीति कथ्यते”
हकसलर्ह्री) द्वितीयम् कामकूटम् । “मदनं शिववीजं च
पृष्ठ १८९२
वायुवीजं ततःपरम् । इन्द्रवीजं ततः पश्चात् महामायां
मसुद्धरेत् । (कहसलह्राँ) तृतीयं कामकूटम् इयं मधुमती ।

कामकृत् त्रि० कामेन करोति कृ--क्विप् ३ त० । १ यथेच्छं

कारिणि । कामं काम्यं करोति । २ अभीष्टदायके
त्रि० । ३ परमेश्वरे पु० “कामहा कामकृत्कान्तः कामः
कामप्रदः प्रभुः” विष्णुसह० ।

कामकेलि पु० कामे तद्धेतुकरतौ केलिर्यस्य । १ जारे त्रिका० । कर्म० । २ सुरते हेमच० ।

कामक्रीड़ा स्त्री कामेन क्रोड़ा । १ कामहेतुकक्रीड़ायाम् ।

“माः पञ्च स्युर्यस्यां सा कामक्रीडासंज्ञा ज्ञेया” इत्युक्त-
लक्षणे पञ्चदशाक्षरपादके २ छन्दोभेदे च ।

कामखड्गदला स्त्री कामोद्दीपकं खड्गैव दलमस्याः ।

स्वर्णकेतक्याम् राजनि० ।

कामग त्रि० कामेन वाह्यस्य इच्छया यथेष्टदेशं गच्छति गम० ड ।

वाह्यस्य इच्छया यथेष्टदेशगामिनि यानादौ । “एवमादि
महाराज! विलप्य दिवसास्थितः । कामगेन स सौभेन”
भा० व० १४ अ० । कामगेन स सौभेन शाल्वः पुनरुपा-
गमन् । व० १६ अ० । कामगत्यादयोऽप्यत्र । कामेन
अनुरागभेदेन गच्छति । यथेच्छं पुरुषगामिन्यां कुलटायाम्
स्त्री “पाषण्ड्यनाश्रितास्तेनाः भर्तृघ्न्यः कामगादिकाः ।
सुरापा आत्मत्यागिन्यी नाशौचोदकभाजनाः” याज्ञ० ।
“कामगा कुलटा” मिता० । ३ यथेष्टं स्त्री गामिनि
पुंसि पु० । ४कन्दर्पभेदे पु० कामशब्दे उदा० ।

कामगामिन् त्रि० कामं यथेष्टं योनिविचारमकृत्वा गच्छति

गम--णिनि । अनुकामीने यथेष्टस्त्रीगामिनि पुरुषे यथेष्ट
पुरुषगामिन्यां स्त्रियां स्त्री ङीप् । काममित्यव्ययगर्भकः
कामङ्गामीत्यप्यत्र अमरः ।

कामगिरि पु० कासप्रधानोगिरिः । भारतवर्षस्थे कामरूपस्थे

पर्व्वतभेदे । “मलयो मङ्गलप्रस्थ इत्युपक्रमे” “इन्द्रकीलः
कामगिरिरिति चान्ये च शतसहस्वशः शैलाः” इति भाग०
५, १९, १७ । कामरूपशब्दे तत्स्थानं वक्ष्यते ।

कामगुणः पु० ६ त० कामकृतो वा गुणः । १ अनुरागे २

विषये ३ आमोगे च मेदि० ।

कामचर त्रि० कामेन चरति चर--ट ३ त० । यथाकामं

चारिणि “तां नारदः कामचरः कदाचित्” कुमा० ।
“इहाहमिच्छामि तवानधान्तिके वस्तुं यथाकामचरस्तथा
विभो!” भा० वि० २२२ श्लो० ।

कामचार त्रि० पु० कामेन स्वेच्छया चारः चर + घञ् ।

यथेच्छाचरणे “न कामचारोमयि शङ्कनीयः” रघुः ।
“तञ्चेदभ्युदयात् सूर्य्यः शयानं कामचारतः” मनुः ।
चर णिच्--अच् ३ त० । कामेन गवादेश्चारणे “पथि
ग्रामविवीतान्ते क्षेत्रे दोषो न विद्यते । अकामतः,
कामचारे चौरवद्दण्डमर्हति” याज्ञ० ।

कामचारिन् त्रि० कामेन चरति चर--णिनि । १ कामुके २

यथेष्टाचारवति च “न त्वं दृष्ट्वा न पुनरलकां ज्ञास्यसे
कामचारिन्!” मेघ० । स्त्रियां ङीप् । ३ चटके मेदि० । तस्याति-
कामित्वात् तथात्वम् । स्त्रियां ङीप् ४ गरुडे पु० शब्दरत्ना० ।

कामज त्रि० कामाज्जायते जन--ड ५ त० । कामजाते १ व्यस-

नादौ कामजव्यसनानि च दशविधानि मनुनोक्तानि यथा
“मृगयाक्षोदिवास्वप्नः परीवादः स्त्रियोमदः । तौर्यत्रिकं
वृथाट्या च कामजोदशकोगणः” । तन्मध्ये चतुर्णाम् अत्यन्त-
कष्टतोक्ता तेनैव यथा “पानमक्षास्त्रियश्चैव मृगया च
यथाक्रमम् । एतत् कष्टतमं विद्यात् चतुष्कं कामजे गणे” ।
“कामजेषु प्रसक्तो हि व्यसनेषु महीपतिः । वियुज्यतेऽर्थ
धर्म्माभ्यां ततोवर्ज्याः सदैव ते” इति तद्दोषस्तेनैवोक्तः ।
२ कामजातमात्रे पुत्रादौ । ज्येष्ठपुत्रस्यैव पित्र्यर्ण्णापाकरण
साधनत्वोक्त्या इतरेषां कामजत्वमुक्तं मनुना यथा “ज्येष्ठेन
जातमात्रेण पुत्री मवति मानवः । पितॄणामनृणश्चैव स
तस्मात् सर्व्वमर्हति” । यस्मिन्नृणं सन्नयति येनानन्त्यं
समश्नुते । स एव धर्म्मजः पुत्रः कामजानितरान् विदुः” ।
“अयुक्तयान्यतश्चैव पुत्रिण्याप्तश्च देवरात् । उभौ तौ नार्ह-
तो भागं जारजातककामजौ” मनुः “याऽनियुक्तान्यतः
पुत्रं देवराद्वाप्यवाप्नुयात् । तं कामजमरिक्थीयं वृथोत्-
पन्नं प्रचक्षते” मनुः ।

कामजान पुंस्त्री कामजमानयति प्रापयति उद्दीपयति

ध्वनिना आ + नी--ड । कोकिले शब्दर० । “चन्द्रचन्दन-
रोलम्बरुताद्युद्दीपनं मतम्” सा० द० कोकिलशब्दादीनां
कामोद्दीपकत्वोक्तेस्तस्य तथात्वं स्त्रियां जातित्वात् ङीष् ।
कामजनिरिति वा पाठः । तत्र कामस्य उद्दीपकध्वनि-
हेतुत्वातुत्पत्तिरस्मात् इति वाक्यम् ।

कामजित् पु० कामं जयति धर्षणेन जि--क्विप् । १ महादेवे

तस्य कामधर्षणात् तथात्वम् । कामं कामदेवं रूपेण जयति
क्विप् । २ कार्त्तिकेये । “कामजित् कामदः कान्तः”
भा० व० २३१ अ० कार्त्तिकेयनामकथने । कामं
कामव्यापारं जयति । ३ जिनदेवे अर्हति तस्य स्त्रीसङ्ग-
वर्ज्जनात् तथात्वम् ।

कामठक पु० धृतराष्ट्रनागकुलजाते सर्पसत्रे नष्टे सर्पभेदे

“अमाठकः कामठकः सुषेणोमलयोऽव्ययः” इति सर्पसत्र-
नष्टधृतराष्ट्रकुलजनागनामकथने भा० आ० ५ ० अ० ।
"https://sa.wikisource.org/w/index.php?title=वाचस्पत्यम्/काग&oldid=314819" इत्यस्माद् प्रतिप्राप्तम्