पृष्ठ २१९४

कृपालु त्रि० कपां लाति ला--आदाने मित० डु । दयालौ कपायुक्ते अमरः ।

कृपीट न० कृप--कीटन् । १ उदरे २ जले च मेदि० । ३ वने

४ इन्धने च शब्दरत्ना० । कृपीटयोनिः ।

कृपीटपाल पु० कृपीटं पालयति पालि--अण् उप० द० ।

१ समुद्रे । २ केनिपाते नौकाङ्गे काष्ठभेदे च मेदि० ३ वायौ
शब्दरत्ना० तस्य उदरवनयोःपालकत्वात् तथात्वम् ।

कृपीटयोनि पु० कृपीटस्य जलस्य योनिः कृपीटं काष्ठं योनि

रस्य वा । बह्नौ अमरः “अग्नेरापः इति श्रुतेस्तस्य जल
हेतुत्वात् काष्ठोद्भूतत्वाच्च तथात्वम् । तत्पुरुषे स्त्री इति भेदः

कृपीपति पु० ६ त० । द्रोणाचार्य्ये शब्दमाला । तस्या-

स्तत्पतित्वकथा कृपशब्दे दृश्या ।

कृपीसुत पु० ६ त० । भारतप्रसिद्धे अश्वत्थाम्नि त्रिका० कृपीतनयादयोऽप्यत्र

कृ(क्रि)मि पु० क्रम--इन् अतैत्त्वम् “भ्रमेः सम्प्रसारणञ्च” उ०

इत्यतः सम्प्रसारणानुवृत्तौ सम्प्रवा । १ क्षुद्रजन्तुभेदे उज्ज्व-
ल० । “लुम्पन्ति कीटकृमयः परितस्तथैते” नागार्ज्जनीये
ऋकारयुक्तपाठः । २ लक्षायां ३ कृमियुक्ते ४ खरे गर्द्दभे च
मेदि० । ५ रोगभेदे पु० । तन्निदानादि सुश्रुते उक्तं यथा
“अथातः कृमिरोगमध्यायं व्याख्यास्यामः । अजीर्ण्णाध्यश-
नासात्म्यैर्व्विरुद्धमलिनाशनैः । अव्यायामदिवास्वप्नगुर्व्व-
तिस्निग्धशीतलैः । माषपिष्टान्नविदलविसशालूकषेरुकैः ।
पर्ण्णशाकसुराशुक्तदधिक्षीरगुडेक्षुभिः । पललानूपपिशित-
पिन्याकपृथुकादिभिः । स्वाद्वम्लद्रवपानैश्च श्लेष्मा पित्तञ्च
कुप्यति । कृमीन् बहुविधाकारान् करोति विविधाश्रयान् ।
आमपक्वाशयस्तेषां प्रसवः प्रायशः स्मृतः । विंशतेः कृमि-
जातीनां त्रिविधः सम्भवः स्मृतः । पुरीषकफरक्तानि तेषा
वक्ष्यामि लक्षणम् । अयवा वियवाः किप्पा श्चिप्यागण्डू-
पदास्तथा । चूरवो द्विमुखाश्चैव सप्तैवैते पुरीषजाः । श्वेताः
सूक्ष्मास्तुदन्त्येते गुदं प्रतिसरन्ति च । तेषामेवापरे पुच्छैः
पृथवश्च भवन्ति हि । शूलाग्निमान्द्यपाण्डुत्वविष्टम्भबलस-
ङ्क्षयाः । प्रसेकारुचिहृद्रोगविड्भेदास्तु पुरीषजैः । रक्ता
गण्डूपदा दोर्घा गुदकण्डूनिपातिनः । शूलाटोपशकृ-
द्भेदपक्तिनाशकराश्चते । दर्भपुष्पाः १ महापुष्पाः २ प्रलूना ३
टिपिटा ४ स्तथा । पिपीलिका ३ दारुणाश्च ६ कफकोपसमु-
द्भवाः । रोमशा रोममूर्द्धानः सपुच्छाः श्यावमण्डलाः ।
मूढधान्याङ्गुराकाराः शुक्लास्ते तनवस्तथा । मज्जादा १
नेत्रलेढार २ स्तालुश्रोतभुज ३ स्तथा । शिरोहृद्रोगवमथुप्रति-
श्यायकराश्चते । केशरोमनखादाश्च ४ दन्तादाः ५ किक्कि-
शा ६ स्तथा । कुष्ठजाश्र परीमर्प्पा ७ ज्ञेयाः शोणितसम्भ-
वाः । ते सरक्ताश्र कृष्णाय स्रिग्धाश्च पृथयस्तथा । रक्ता-
धिष्ठानजान् प्रायोविकारान् जनयन्ति ते । माषपिष्टान्न-
लवणगुडशाकैः पुरीषजाः । मांसमाषगुडक्षीरदधिशुक्तैः
कफोद्भवाः । विरुद्धाजीर्णशाकाद्येः शोणितोत्था भवन्ति
हि । ज्वरो विवर्णता शूलं हृद्रोगः मदसंभ्रमः ।
भक्तद्वेषोऽतिसारश्च सञ्जातकृमिलक्षणम् । दृश्यास्त्रयो-
दशाद्यास्तु कृमीणां परिकीर्त्तिताः । केशादाद्यास्त्व-
दृश्यास्ते द्वावाद्यौ परिवर्जयेत् । एषामन्यतमं ज्ञात्वा
जिघांसुः म्निग्वमातुरम्” । “तुदन्त्यामत्वचं र्दशा
मशकामत्कुणादयः । रुदन्तं विगतज्ञानं क्रिमयः क्रिमिलं
यथा” भाग०, ३, ३१, २८,
स्वार्थे क तत्रार्थे “ततो भक्षयतस्तस्य फलात् कृमिरभू-
दणुः । सत्यवागस्तु स मुनिः कृमिर्मां दशतामयम्” ।
“एवमुक्त्वा स राजेन्द्रो ग्रीवायां सन्निवेश्य तम् । कृमिकं
प्राहसत्तूर्ण्णं मुमूर्षुर्नष्टचेतनः” भा० आ० ४३ अ० ।

कृमिकण्टक न० कृमौ कृमिरोगे कण्टकमिव तन्नाशक

त्वात् । १ विडङ्गे २ चित्राङ्गे (चिता) ३ उदुम्बरे च मेदि०
तेषां तन्नाशकत्वात् तथात्वम् ।

कृमिकर पु० कृमिं करोति कृ--ताच्छील्यादौ टच ।

कीटभेदे “कोष्ठागारी कृ(क्रि)मिकरोयस्य मण्डलपुच्छकः”
सुश्रु० प्राणनाशनकीटोक्तौ

कृमिकर्ण्ण(क) पु० कृमियुक्तः कर्ण्णोयत्र वा कप् । सुश्रुतोक्ते

कर्ण्णरोगभेदे । “यदा तु मूर्च्छन्त्यथवापि जन्तवः
सृजन्त्यपत्यान्यथवापि मक्षिकाः । तदञ्जनत्वात् श्रवणो
निरुच्यते भिषग्भिराद्यैः कृमिकर्ण्णकस्तु सः” । “कृमि-
कर्ण्णप्रतीनाहौ विद्रधिर्द्विविधस्तथा” । “कृमिकर्ण्णक-
नाशार्थं कृमिघ्नं योजयेद्विधिम्” इति च सुश्रु० ।

कृमिकोषोत्थ न० कृमेः कोषादुत्तिष्ठति उद् + स्था--क ५ त० ।

कौषेये (रेश्मी कापड) वस्त्रे अमरः ।

कृमिग्रन्थि पु० सुश्रुतोक्ते सन्धिगतरोगभेदे । तद्विवृतिर्यथा

“अथातः सन्धिगतरोगविज्ञानीयमध्यायं व्याख्यास्यामः
पूयालमः सोपनाहः स्रावः पर्वणिकालजी । क्रि(कृ) मि
ग्रन्थिश्च विज्ञेया रोगाः सन्धिगता नवेति” विभज्य क्रि
(कृ)मिग्रन्थिर्वर्त्मनः पक्ष्मणश्च कण्डू कुर्य्युः कृमयः सन्धि
जाताः” । मुश्रु०

कृमिघ्न पु० कृमिं हन्ति हन--ताच्छाल्यादौ ढक् “हन्तेरत्-

पूर्बस्य” पा० नियमात् न णत्वम् । १ विडङ्गे अमरः
२ पलाण्डौ (पेयाज) ३ कोलकन्दे ५ पारिभद्रे (पालिदामां
दार) ६ भल्लातके (भेला) च राजनि० तेषां कृमिघाति-
तया तथात्वम् ७ हरिद्रायां स्त्री० भावप्र० अजा० टाप् ।
८ विडङ्गे स्त्री० ङीप् राजनि०
पृष्ठ २१९५

कृमिज न० कृमिभिर्जन्यते कृमेर्जायते वा जन--ड । १ अगुरुणि

अमरः । २ कृमिजातमात्रे त्रि० ३ लाक्षायां स्त्री० राजनि०

कृमिजग्ध न० कृमिभिर्जग्धम् । उपचारात् तज्जाते अगुरु-

चन्दने राजनि०

कृमिजलज पु० कृमिरिव जलजः । कृमिशङ्खे राजनि०

कृमिण त्रि० कृमिरस्त्यस्य पामा० न णत्वञ्च । कृमियुक्ते

कृमिदन्तक पु० कृमियुक्तोदन्तोऽत्र । दन्तरोगभेदे “कृष्ण-

च्छिद्रश्चलः स्रावी ससंरम्भो महारुजः । अनिमित्त
रुजोवातात् स ज्ञेयः कमिदन्तकः” तल्लक्षणम् “शौषिरो
गलशालूकं कण्टका कृमिदन्तकः” क्षुद्ररोगगणना-
याम् सुश्रु०

कृमिफल पु० कृमयः फलेऽस्य । उदुम्बरे शब्दचिन्ता०

कृमिभोजन पु० कृमिमिर्भुज्यतेऽत्र भुज--आधारे ल्युट् ६ त० ।

नरकभेदे तामिस्रान्धतामिस्राद्युपक्रमे “अन्धकूपकृमिभो
जन इत्यादिना विभज्य भाग० ५ । २६ । २४ तत्स्वरूपा-
द्युक्तं यथा
“यस्त्विह वा असंपिभज्याश्नाति यत् किञ्चनोपनमत
निर्मितपञ्चयज्ञोवायमसंस्तुतः स परत्र कृमिभोजने
नरकाधमे निपतति । तत्र शतसहस्रयोजने कृमिकुण्डे
कृमिभूतः स्वयं कृमिभिरेव भक्ष्यमाणः कृमिभोजनोया-
वत्तदप्रत्ताप्रहुतादोऽनिर्वेशमात्मानं यातयते” ।
कृमिभक्षादयोऽप्यत्र विष्णुपु० तन्नामतयैव कीर्त्तनात्

कृमिमत् त्रि० कृमि + अस्त्यर्थे मतुप् मोपधत्वेऽपि यवादि०

न मस्यवः । कृमियुक्ते स्त्रियां ङीप् ।

कृमिरिपु ६ त० । विडङ्गे शब्दरत्ना० । कृमिशत्रुप्रभृतयोऽप्यत्र

कृमिल त्रि० कृभिं लाति ला--क । कृभियुक्ते बहुप्रसवायां

स्त्रियां स्त्री० हेमच०

कृमिलाश्व पु० आजमीढवंश्ये नृपभेदे “आजमीढ़ात्तु

नीलिन्यां सुशान्तिरुदपद्यत । पुरुजातिः सुशान्तेश्च
वाह्याश्वः पुरुजातितः । वाह्याश्वतनयाः पञ्च बभूतुरम-
रोपमाः । मुद्गलः सृञ्जयश्चैव राजा वृहदिपुस्तथा ।
यवीनरश्च विक्रान्तः कृमिलाश्वश्च पञ्चमः” हरिवं० ३२ अ०

कृमिलोदर त्रि० कृमिं लाति ला--क तादृशरुदरमस्य ।

कृमियुक्तोदररोगभेदयुक्ते । “भुक्त्वाऽस्पृसंस्यसंस्पृष्टोजा-
यते कृमिलोदरः” शाता० ।

कृमिवारिरुह पु० कृमिरिव वारिरुहः । कृमिशङ्खे राजनि०

कृमिवृक्ष पु० कृमिप्रधानो वृक्षः । कोषाम्रे प्रावप्रकाशः ।

कृमिशङ्ख पु० कृमिरिव शङ्खः । शङ्खभेदे राजनि०

कृमिशुक्ति स्त्री कृमिरिव शुक्तिः । जलशुक्तौ राजनि०

कृमिशैल पु० कृमीणां शैल इव । बल्मीके । कृमिपर्व्व-

तादयोऽप्यत्र पु०

कृमीलक पु० कृमीत् ईरयति जनयति ईर--ण्वुल् रस्य लः । वनमुद्गे राजनि० ।

कृमुक पु० क्रमुक + पृषो० । गुवाकवृक्षे तस्योत्पत्तिकथा शत०

ब्रा० ६ । ६ । २ । ११
“सा कार्मुकी स्यात् । देवाश्चासुराश्चोभये प्राजापत्या
अस्पर्धन्त ते देवा अग्निमनीकं कृत्वा सुरानभ्यायं स्तस्या-
र्चिषः प्रगृहीतस्यासुरा अग्रं प्रावृश्चंस्तदस्यां प्रत्यतिष्ठ-
त्स कृमुकोऽभवत्तस्मात् सस्वादु रसोहि तस्मादु लोहितो
चिर्हि स एषोऽग्निरेव यत् कुमुकोऽग्निमेवास्मिन्न तत्
सम्भूतिं दधाति” । कृमुकस्येयम् अण् ङीप् । कार्मुकी
कुमुकसम्बन्धिन्यां समिधि स्त्री

कृव कृतौ हिंसे च इदित् स्वा० प० सक० सेट् श्रौ कृ

इत्यादेशः । कृणोति--अकृणोत् अकृण्वीत् । इदित्त्वात्
कुण्व्यते इत्यत्र न नलोपः ।

कृवि पु० करोत्यनेन कृ--वि किच्च । तन्तुवयनसाधनद्रव्ये तन्त्रे (ताँत) सि० कौ० ।

कृश तनूकरणे दिवा० पर० सक० सेट् । कृश्यति इरित् अकृशत्

अकर्शीत् । णिचि कर्शयति ते अचीकृशत्--त अचकर्श-
त्त । कर्शयाम् बभूव आस चकार चक्रे । कृशः ।

कृश त्रि० कृश--क्त नि० । १ अल्पे, २ सूक्ष्मे च । “आकाशे-

शास्तु विज्ञेया बालवृद्धकृशातुराः” ष्ठपवासकृशं तन्तु”
“क्षत्रियञ्चैव सर्पञ्चब्राह्मणं वा बहुश्रुतम् । नावमन्येत वै
भूयः कृशानपि कदाचन” मनुः “ब्राह्मणस्य सुरश्रेष्ठ! कृश
वृत्तेः कदाचन” भा० आनु० ६२ अ० । सूक्ष्मे कृशो-
दरी । कृशस्य भावः इमनिच् क्रशिमत् तद्भावे पु० ।
ष्यञ् । कार्श्य न० । तल् । कृशता स्त्री, त्व “कृशत्व
न० तद्भावे “त्वय्येवं कृशता कुतः” सा० द० । अतिशयेन
कृशः इष्ठन् क्रशिष्ठ ईयसुन् क्रशीयस् । अतिशयकृशे
त्रि० ईयसौ स्त्रियां ङीप् ।

कृशर पु० कृशमल्पमात्रां राति रा--क । “तिलतण्डुल

संमिश्रः कृशरः परिकीर्त्तितः” स्मृत्युक्ते १ पक्वान्नभेदे
हेमच० । (खिचड़ी) ख्याते २ पक्वान्नभेदे रत्री टाप् भावप्र०
कृतान्नशब्दे लक्षणादि दृश्यम् । कृशरश्च शनैश्चराय
गृहयज्ञे बलित्वेन देयः यथाह मत्स्यपुरा० “र{??}दनं
रवेर्दद्यात् सोमाय घृतपायसम् । संयावकं कुजे दद्यात्
पृष्ठ २१९६
क्षीरान्नं सोमसूनवे । दध्योदनञ्च जीवस्य शुक्राय तु
घृतौदनम् । शनैश्चराय कृशरमाजमांसञ्च राहवे ।
चित्रौदनञ्च केतुभ्यः सर्व्वभक्ष्यैः समर्चेयेत्” ।

कृशला स्त्री कृशं कार्श्य लाति ला--क टाप् । केशे शब्दच०

कृशशाख पु० कृशा शाखा यस्य । १ पर्पटे (पापडी)

राजनि० २ ह्रस्वशाखान्विते त्रि० ।

कृशाङ्गी स्त्री कृण्मङ्गं यस्याः ङीष् । १ प्रियङ्गुवृक्षे शब्द-

चन्द्रिका २ सूक्ष्माङ्गयुक्ते त्रि० स्त्रियां ङीष् ।

कृशानु पु० कृश--आनुक् । १ वह्नौ २ चित्रकवृक्षे च अमरः ।

तस्य तन्नामकत्वात् “तस्मिन् कृशानुसाद्भूते” भट्टिः ।
३ सोमपालके । “इत्कृशानोरस्तुर्मनसाह बिभ्युषा” ऋ०
९, ७७, २, “कृशानोः सोमपालस्यः” “कृशानुः सोमपालः
सव्यस्य पदः” ऐत० ब्रा० ३, २६, भा० । “कृशानुरस्ता
मनसा भुरण्यन्” ऋ० ४, २७, ३, “कृशानुरेतन्नामकः सोमपालः”
भा० । ४ सव्यपार्श्वस्यरश्मिधारके च । “कृशानो! सव्याना-
यच्छ” ता० व्रा० “कृशानुर्नाम सव्यपार्श्वस्थानां रश्मीनां
धारयितेति” भा० । ततः मत्वर्थे गोषदा० टन् ।
कृशानुक वह्नियुक्ते त्रि० तद्गणे कृशानुस्थाने कृशाकु
इति वा पाठः कृशाकोश्च वह्निरेवाऽर्थः ।

कृशानुरेतस् पु० कृशानौ पवितं रेतोऽस्य । १ महादेवे अम

रः । तस्य यथा वह्नौ तेजोनिषेकः तथा कालिकापु०
४७ अ० उक्तं कालिकापु० शब्दे २०५५ पु० तत्कथामात्रं
दृश्यं विस्तरस्तु कालिकापुराणे दृश्यः । ६ त० । २ वह्ने
स्तेजसि न० ।

कृशाश्व त्रि० कृशोऽश्वोऽस्य । १ ह्रस्वाश्वस्वामिनि । तृणविन्दु-

वंश्ये २ राजर्षिभेदे पु० । “तत् पुत्रात् संयमादासीत्
कृशाश्वः सहदेवजः । कृशाश्वात् सोमदत्तोऽभूत्” भाग० ९, २,
२२, श्लो० । ३ दक्षजामावृभेदे पु० “कृशाश्वोऽर्चिषि
भर्य्यायां धूमकेशमजीजनत् । धिषणायां वेदशिरं देवलं
वयुनं मनुम्” भाग० ६६, १८, श्लो० । रामा० तु अन्यना-
मिकवोर्दक्षकन्ययोः तद्भार्य्यात्वमुक्तं यथा
“मर्वास्त्राणि कृशाश्वस्य पुत्राः परमधार्म्मिकाः । कौशि-
काय पुरा दत्ता यदा राज्यं प्रशासति । तेऽपि पुत्राः कृशा-
नुस्य प्रजापतिसुतासुताः । नैकरूपा महावीर्य्या दीप्ति
मलो जयावहाः । जया च सुप्रभा चैव दक्षकन्ये
सुमध्यमे । असुवातां च शस्त्राणि शतं परमभाखरम् ।
पञ्चाशतं सुतान् लेभे जया लन्धवरा वरान । बधायासु-
रसैन्यानामप्रमेयानुरूपिणः । सुप्रभाऽजनयच्च्यपि पु-
त्रान् पञ्चाशतं पुनः । संहारान्नाम दुर्धर्षान्दुराक्रामान्-
बलीयसः । तानि चास्त्राणि वेत्त्येष यथावत्कुशिका-
त्मजः । अपूर्वाणां च जनने शक्तो भयश्च धर्म्मवित्” ।
“देवि एतानि सरहस्यानि जृम्भकास्त्राणि यानि भगवतः
कृशाश्वात् कौशिकमृषिमुपसंक्रान्तानि तेन च ताडका-
बधे प्रसादोकृतार्न्याय्यस्य” उत्तरराम० । “व्यश्वः साश्वः
कृशाश्वश्च शशविन्दुश्च पार्थिवः” भा० स० ८ अ० यमसभ्योक्तौ
“धौन्धुमारिर्दृढाश्वश्च” इत्युपक्रमे “संहताश्वोनिकुम्भस्य
पुत्रोरणविशारदः । अकृशाश्वकृशाश्वौ च संहताश्वश्च तौ
नृप” हरिव० १२ अ० उक्ते धुन्धुषारवंश्ये ३ नृपभेदे
च । ततः तेन प्रोक्तमधीयते नटसूत्रम् इनि । कृशाश्विन्
तत्प्रोक्तनटसूत्राध्यायिषु ब० व० ।

कृशिका स्त्री कृशैव स्वार्थे क । आखुकर्ण्णीलतायां (उन्दुरकाणी) राजनि० ।

कृष विलेखने आकर्षणे च तुदा० आ० सक० अनिट् । कृषते ।

अकृक्षत--अकृष्ट । चकृषे चकृषिषे । क्रष्टा क्रक्षीष्ट
क्रक्ष्यते । कर्षणम् । प्रनिकृषते ।

कृष विलेखने आकर्षणे च भ्वा० पर० सक० अनिट् । कर्षति

अक्राक्षीत्--अकार्क्षीत्--अकृक्षत् । चकर्ष चकर्षिथ
चकृषिव । क्रष्टा कृष्वात् क्रक्ष्यति । कर्म्मणि कृष्यते अकर्षि
अकृक्षाताम् अकृषाताम् । कृष्यः कर्षणीयः क्रष्टव्यः । क्रष्टा
कर्षकः कर्षी कर्षन् कृष्यमाणः । क्रक्ष्यन् क्रक्ष्यमाणः ।
कृष्टः कृष्टिः कृष्ट्वा अनुकृष्य । कर्षः कर्षणम् ।
  • अनु + पूर्वस्थितस्य पदादेः उत्तरवाक्ये योजनार्थे अनुसन्धाने
अनुषङ्गे सक० अनुकर्षति । अनुकर्षशब्दे विवृतिः
  • अप + हीनताकरणे स्वकालात् पूर्ब्बत्र काले करणे च सक०
अपकर्षति अपकर्षसपिण्डनम् । अपकृष्टः ।
अपकर्षशब्दे विवृतिः
  • अप + आ + निवर्त्तने सक० । “तमशक्यमपाक्रष्टुं निदेशात्
स्वर्गिणः पितुः” रषुः ।
  • अभि + आभिमुख्येन कर्षणे सक० अभिकर्षति ।
  • अव + अधःस्थतया कर्षणे सक० । अवकर्षति
  • आ + विषयान्तरतोनयने सक० । आकर्षति
  • उद् + अतिशायने प्राधान्यप्रापणे स्वकालात् उत्तरकालकरणे
आकर्षणे च सक० । उत्कर्षन्त्यां च रशनां क्रुद्धायां
मयि पक्षिणे” रामा० ल० ३८, १४ । उत्कर्षशब्दे विवृतिः
  • निस् + निर् + निस्मारणे निश्चये च सक० । निष्कर्षति
“निक्रष्टुमर्थं चकमे कुबेरात्” रघुः । तदयं निष्वर्षः
  • प्र + अतिशयेन कर्षणे उत्तमतावाने सक० प्रकर्षति प्रकृष्टः
पृष्ठ २१९७
प्रकर्षः पाधान्थभवने अक० “इदं तु मम दीनस्य मनोभूयः
प्रकर्षति” रामा० सु० १, १,
  • सम् + सम्यक्र्षणे सक० सङ्कर्षणम् ।
  • सम् + आ + सम्यक्तया दूरपर्य्यन्तनयने सक० । समाकर्षति समाकर्षी ।
कृषधातुर्न्यादिपाठात् द्विकर्म्मकः । कर्षणञ्च भूमिसंयो-
जनेन बलेन देशान्तरसंयोगानुकूलव्यापारानुकूलव्यापारः
तेनास्य द्विव्यापारबोधकतया द्विकर्म्मकत्वम् । ग्राम-
मजां कर्षति इत्यादौ अकथितञ्चेत्यादि पा० अजादेः
कर्म्मत्वम् । अत्र प्रधाने कर्म्मण्येव वाच्ये लकारादयः ।
“प्रधाने नीकृष्वहाम्” भर्त्तृहर्य्युक्तेः । अजा ग्रामं कृष्य-
ते । विलेखनञ्च विदारणं तत्रार्थे न द्विकर्म्मकतेति भेदः

कृषक त्रि० कृष--क्वुन्! १ कर्षके कृषिशब्दे उदा० । २ फाले

न० मेदि० । २ वृषे पु० हेम० ।

कृषर न० कृष--करन् । कृशरशब्दार्थे पृषो० कृसरोऽप्यत्र केचित्

कृषाण त्रि० कृष--वा० आनक् । कर्षके कृषिशब्दे उदा०

कृषि स्त्री कृष--इक् । शस्योत्पादतार्थं भूमिकर्षणरूपेवैश्यवृत्ति-

भेदे अमरः कृषिकम्म प्रकारादि कृषिपराशरे दर्शितं यथा
तत्रादौ कृषिप्रशंसा “चतुर्व्वेदालयो ब्रह्मा व्रवीति
कृषणं वचः । अलक्ष्म्या युज्यते सोऽपि प्रार्थमालाय-
वान्वितः । एकयैव पुनः कृष्या प्रार्थको नैव जायते ।
कृष्यान्वितो हि लोकेऽस्मिन् भूयादेकश्च भूपतिः ।
सुवर्णरौप्यमाणिक्यवसनैरपि पूरिताः । तथाप प्रार्थ-
यन्त्येव कृषकान् भक्ततृष्णया । कण्ठे हस्ते च कर्ण्णो च
सुवर्णं यदि विद्यते । उपवासस्तथापि स्यादन्नाभावेन
देहिनाम् । अन्नं प्राणा बलञ्चान्नभन्नं सर्व्वार्थसाध-
कम् । देवासुरमनुष्याश्च सर्व्वे चान्नोपजीविनः ।
अन्नन्तु धान्यसम्भूतं धान्यं कृष्या विना न च । तस्मात्
सर्वं--परित्यज्य कृषिं यत्नेन कारयेत् । कृषिर्धन्या कृषि-
र्म्मोध्या जन्तूनां जीवनं कृषिः । हिंसादिदोषयुक्तोऽपि
मुच्यतेऽतिथिपूजनात् । तेवार्च्चितं जगत् सर्व्वमतिथि
र्येत पूजिनः । अर्च्चितास्तेन देवाश्च सएव पुरुषोत्तमः” ।
  • अथ कृषेः स्वयमवेक्ष्यतोक्तिः “फलत्थवेक्षिता स्वर्णं, दैन्यं सैवा-
नवेक्षिता । कृषिः कृषिपुराणज्ञ इत्युवाच पराशरः” ।
अथ चान्ये मुनयआहुः “पितुरन्तःपुरं दद्यान्मातुर्दद्या-
न्महानसम् । गोषु चात्मसमं दव्यात् स्वयमेव कृषिं
व्रजेत् । कृषिर्गावो वाणविद्याः स्त्रियो राजकुलानि
च । क्षणेनेवावसोदत्ति मुहूर्तमनवेक्षणात् । समर्थैय
कृषिः कार्य्या लीकामां हितकाम्यया असमर्थो हि
कृषको मिक्षामटति नोचयत् । गोहितः क्षेत्रगामी
च कालज्ञो वीजतत्परः । वितन्द्रः सर्व्वशस्याट्यः षकको
नावसीदति” ।
  • अथ वाहपोषणादिप्रकारः । “कृषिञ्च तादृशीं कुर्य्यात् यथा
वाहान्न पीड़येत् । वाहपीडार्जितं शस्यं गर्हितं
सर्वकर्म्मसु । वाहपीडार्जितं शस्यं फलितञ्च
चतुर्गुणम् । वाहनिश्वासविफलः कृषको निः स्वतां
व्रजेत् । गुण्डकैर्यवसैर्धूमै स्तधान्यैरपि पोषणैः । वाहाः
क्वचिन्न सीदन्ति सायं प्रातश्च चारणात्” ।
  • अथ गोशालाविधानम् । “गोशाला सुदृढ़ा यस्य शुचिर्गो-
मयवर्जिता । तस्य वाहा विवर्द्धन्ते पोषणैरपि
वर्जिताः । शकृन्मूत्रविलिप्ताङ्गा वाहा यत्र दिते दिने ।
निःसरन्ति गवां स्थानात् तत्र किं पोषणादिभिः ।
पञ्चपञ्चायता शाला गवां वृद्धिकरी मता । सिंहस्याने
कृता सैव गोनाशं कुरुते ध्रुवम् । सिंहगेहेऽर्षितां चैव
गोशालां कुरुते यदि । प्रमादान्मन्दबुद्धित्वात् गवां
नाशोभवेत्तदा । तण्डुलानां जलञ्चैव तप्तमण्डं
झषोदकम् । कार्पासास्थितुषञ्चैव गोस्थाने गोविनाशकृत् ।
सम्मार्ज्जनीञ्च मुसलमुच्छिष्टं गोनिकेतने । कृत्वा
गोनाशमाप्नोति तथा तत्राजबन्धने । गोमूत्रजालकेनैव
तत्रावस्करभोचनम् । कुर्व्वन्ति गृहमेधिभ्यस्तत्र का
वाहवासना । विलब्धिं गोमयस्यापि रविभौमशने-
र्द्दिने । न कारयेत् भ्रमेणापि गोवृद्धिं यदि वाञ्छ-
ति । वारत्रयं परित्यज्य दद्यादन्येषु गोमयम् ।
विलभ्य शनिभौमेषु गवां हानिकरः स्मृतः । श्लेष्ममूत्रम्-
रीषाणि पङ्कानि च रजांसि च । न पतन्ति गवां यत्र
तत्र लक्ष्मीः स्थिरा भवेत् । सन्ध्याकाले च गोस्थाने
दीपो यत्र न दीयते । स्थानं तत् कमलाहीनं वीक्ष्य
क्रन्दन्ति गोगणाः । हलमष्टगवं धर्म्म्यं षड्गवं व्यव-
सायिनाम् । चतुर्गवं नृशंसानां द्विगवञ्च गवाशिनाम् ।
नित्यं दशहले लक्ष्मीर्नित्यं पञ्चहले धनम् । नित्यञ्च
त्रिहले भक्तं नित्यमेकहले ऋणम् । आत्मपोषणमात्रन्तु
द्विहलेन च सर्व्वदा । पितुदेवातिथीनाञ्च पुष्ट्यर्थं सोऽ
क्षभो भवेत् ।
  • अथ गोपर्वकथनम् “गोपूजां कार्त्तिके कुर्य्यात् लगुड़पति
पत्तिथौ । बद्ध्वा श्यामलतां स्कन्धे लित्वा तैलहरिद्रया ।
कुङ्कुमैश्चन्दनैश्चापि कृत्या चाङ्गे विलेपनम् । उद्यम्य
लमुडं हस्ते गोपालाः कृतभूषणाः । ततो वाद्यैच
पृष्ठ २१९८
नृत्यैश्च मण्डयित्वाऽम्बरादिभिः । भ्रामयेषुर्वृषं मुख्यं ग्रामे
गोविन्नशान्तये । गवामङ्गे तदा दद्यात् कार्त्तिकप्रथमे
दिने । तैलं हरिद्रया युक्तं मिलित्वा कुङ्कुमैः सह ।
तसलोहादिकं तत्र गवामङ्गे प्रदापयेत् । छेदनञ्च प्रकु-
र्व्वीत लाङ्गूले कचकर्णयोः । सर्वा गोजातयः सुस्था भवन्त्ये-
तेन तद्गृहे । नानाव्याधिनिर्म्मुक्ता वर्षमेकं न संशयः” ।
  • अथ गवां यात्राप्रवेशकालादि । पूर्वात्रयं धनिष्ठाच इन्द्राग्नि-
सौम्यवारुणाः । एते शुभप्रदा नित्यं गवां यात्राप्रवेश-
योः । उत्तरात्रयरोहिण्यां शिनीवाली चतुर्द्दशी ।
पुष्यश्रवणहस्तेषु चित्रायामष्टमीषु च । गवां यात्रां न
कुर्वीत प्रस्थानं वा प्रवेशनम् । पशवस्तस्य नश्यन्ति ये
चान्ये तृणचारिणः । अर्कार्किकुजवारेषु नवां यात्राप्रवेश-
योः । गमने गोविनाशः स्यात् प्रवेशे गृहिणो बधः” ।
  • अथ गोमयकूटोद्धारः “माघे गोमयकूटन्तु संपूज्य श्रद्धया-
न्वितः । सारं शुभदिनं प्राप्य कुद्दालैस्तीलयेत्ततः ।
रौद्रे संशोष्य तत् सर्वं कृत्वा गुण्डकरूपिणम् । फाल्-
गुने प्रतिकेदारे गर्त्तं कृत्वा निधापयेत् । ततो वपनका-
ले तु कुर्य्यात् सारविमोचनम् । विना सारेण यद्धान्यं
वर्द्धते न फलत्यपि” ।
  • अथ हलसामग्रीकथनम् “ईशा युगो हलस्थाणुर्णिर्योल
स्तस्य पाशिका । अड्डचल्लश्च शौलश्च पच्चनी च
हलाष्टकम् । पञ्चहस्ता भवेदीशा स्थाणुः पञ्चवितस्तिकः ।
सार्द्वहस्तस्तु निर्योलो युगः कर्णसमानकः । निर्योलपा-
शिका चैव अड्डचल्लस्तथैव च । द्वादशाङ्गुलमानो हि
शौलोऽरत्निप्रमाणकः । सार्द्धद्वादशमुष्टिर्वा कार्य्या वा
नवमुष्टिका । हढ़ा पच्चनिका ज्ञेया लौहाग्रा वंशसम्भ-
वा । आबन्धो मण्डलाकारः स्मृत पञ्चदशाङ्गुलः ।
योक्त्रं हस्तचतुष्कञ्च रज्जुः पञ्चकरात्मिका । पञ्चाङ्गु-
लाविको हस्तो हस्तो वा फालकः स्मृतः । अर्कस्य
पत्रसटशी पाशिका च नवाङ्गुला । एकविंशतिशल्यस्तु
विद्धकः परिकीर्त्तितः । नवहस्ता तु मदिका(मै)प्रशस्ता
कृषिकर्म्मसु । इयं हि हलसामग्री पराशरमुनेर्म्मता ।
सुदृढ़ा कर्षकैः कार्य्या शुभदा कृषिकर्म्मणि । अडढ़ा
युज्यमाना सा सामग्री वाहनस्य च । विघ्नं पदे पदे
कुर्य्यात् कर्षकाले न संशयः” ।
  • अथ हलप्रसारणकालादि “अनिलोत्तररोहिण्यां मृगमूलपु-
नर्वसौ । पुष्यश्रवणहस्तेषु कुर्य्याद्वलिपसारणम् ।
हलप्रसारणं कार्य्यं कर्षकैः शस्यवृद्धये । शुक्रेन्दुजीववा-
रेषु शशिजस्य विशेषतः । भौमार्कदिससे चैव तथैव
शनिवासरे । कृषिकर्म्मसमारम्भो राज्योपद्रवमादिशेत् ।
दशम्येकादशी चैव द्वितीया पञ्चमी तथा । त्रयोदशी
तृतीया च सप्तमी च शुभावहा । शस्यक्षयः प्रतिपदि
द्वादश्यां बधबन्धनम् । बहुविघ्नकरी षष्ठी कुहूः कृषक-
नाशिनी । हन्त्यष्टमी बलीवर्द्दात् नवमी शस्यघातिनी ।
चतुर्थी कीटजननी सर्वं हन्ति चतुर्द्दशी । वृषे मीने च
कन्यायां युग्मे धनुषि वृश्चिके । एतेषु शुभलग्नेषु
कुर्य्याद्वलप्रसारणम् । मेषलग्ने पशुं हन्यात् कर्कटे
जलजात् भयम् । सिंहे चौरभयञ्चैव कुम्भे सर्पभयं
तथा । मकरे शस्यनाशः स्यात् तुलायां प्राणसंशयः ।
तस्माल्लग्नं प्रयत्नेन कृष्यारम्भे विचारयेत् । शुभेऽर्के
चन्द्रसंयुक्ते शुक्लयुग्मेन वाससा । शुक्लपुष्पैश्च गन्धैश्च
पूजयित्वा यथाविधि । पृथिवीं हलसंयुक्तां पृथुञ्चैव
प्रजापतिम् । अग्नेः प्रदक्षिणं कृत्वा भूरि दत्त्वा च
दक्षिणाम् । फालाग्रं स्वर्णसंयुक्तं कृत्वा च मधुलेपनम् ।
अहेः क्रोड़े वामपार्श्वे कुर्य्याद्वलप्रसारणम् । स्मर्त्तव्यो
वासवो व्यासः पृथूरामः पराशरः । सम्पूज्याग्नं द्विजं
देवं कुर्य्याद्वलिप्रसारणम् । कृष्णौ वृषौ हले श्लाघ्यौ रक्तौ
वा कृष्णलोहितौ । मुखपार्श्वौ तयोःस्नाप्यौ नवन्या च
घृतेन च । उत्तराभिमुखो भूत्वा इन्द्रायार्घ्यं निवेद-
येत् । शुक्लपुष्पसमायुक्तं दधिक्षीरसमन्वितम् । सुवृष्टिं
कुरु देवेश! गृहाणार्य्यं शचीपते! । निविष्टो विष्टरे
भक्तः सस्थाप्य जानुनी क्षितौ । प्रणमेद्वासवं देवं
मन्त्रेणानेन कर्षकः । वृषो महाकटिर्वर्ज्यश्छिन्नला-
ङ्गूलकर्णकः । सर्वशुक्लस्तथा वर्ज्यः कृषकैर्हलकर्म्मणि ।
हलप्रसारणं कार्य्यं नीरुगभिर्वृषकर्षकैः । छिग्नरेखा न
कर्त्तव्या यथा प्राह पराशरः । एका तिस्रस्तथा पञ्च
हलरेखाः प्रकीर्त्तिताः । एका जयकरी रेखा तृतीया
चार्थसिद्धिदा । पञ्चमाख्या त या रेखा बहुशस्यप्रदा-
यिनी । हलप्रबाहकाले तु कूर्म्ममुत्पाटयेद्घदि । गृहि-
णी म्रियते तस्य तथा चाग्निभयं भवेत् । फालोत्पाटे च
मङ्गे च देशत्यागो भवेद्ध्रुवम् । लाङ्गलो भिद्यते वापि
प्रभुस्तस्य विनश्यति । ईशाभङ्गोभवेद्वापि कृषको
जीवनाक्षमः । भ्रातृनाशो युगे भग्ने शौले च म्रियते वृषः ।
योक्त्रच्छेदे च रोगः स्यात् शस्यहानिश्च जायते । निपाते
कर्षकस्यापि कष्टं स्यात् राजमन्दिरे । हलप्रबाहकाले
तु गौरेकः प्रपतेद्वदि । ज्वरातिसाररोगेण मानुषो
पृष्ठ २१९९
म्रियते तदा । हले प्रवहमाने तु वृषो धावन् यदि
व्रजेत् । कृषिभङ्गो भवेत्तस्य पीड़ा चापि शरीरजा ।
हलप्रवाहमात्रन्तु गौरेको नर्द्दते यदि । नासालीढ़ं
प्रकुर्वीत तदा शस्यं चतुर्गुणम् । प्रवाहान्मुक्तमात्रन्तु
गौरेकः स्वनते यदि । अन्यस्य लेहनं कुर्य्यात् तदा शस्यं
चतुर्गुणम् । हले प्रवहमाने तु शकन्मूत्रं यदा स्रवेत् ।
शस्यवृवृइः शकृत्पाते मूत्रे वन्या प्रजायते । हलप्रसारणं
येन न कृतं मृगकुम्भयोः । कुतस्तस्य कृषाणस्य फलाशा
कृषिकर्म्मणि । हलप्रसारणं नैवं कृत्वा यः कर्षणं
चरेत् । केबलं बलदर्पेण स करोति कृषिं वृथा । मृत्
सुवर्णसमा माघे कुम्भे रजतसन्निभा । चेत्रे ताम्रसमा
ख्याता धान्यतुल्या च माधवे । ज्यैष्ठे मृदेव विज्ञेया
आषाढ़े कर्द्दमाह्वया । निष्फला कर्कटे चैव हलैरुत्पा-
टिता तु या” । तथाच पराशरः । “हेमन्ते कृष्यते हेम ।
वसन्ते ताम्ररौप्यकम् । धान्यं निदाघकाले तु दारिद्र्यन्तु
घनागमे” ।
  • अथ वीजस्थापनविधिः “माघे वा फाल्गुने वापि सर्ववीजस्य
सङ्ग्रहः । शोषयेदातपे सम्यक् नीहारे विनिधापयेत् ।
वीजस्य पुटिकां कृत्वा निधानं तत्र शोधयेत् । वीजं
निधानसंमिश्रं फलहानिकरं परम् । एकरूपन्तु
यद्वीजं फलं फलति निर्भरम् । एकरूप प्रयत्नेन तस्माद्वीजं
समाहरेत् । सुदृढं पुटकं बद्धा तृणं छिन्द्यात् विनि-
गतम् । अच्छिन्नतृणक ह्यस्मिन् कृषिः स्यात्तृणपूरिता ।
न वल्मीके न गोस्थाने न प्रसूतानिकेतने । न च बन्ध्या-
वति गेहे वीजस्थापनमाचरेत् । नोच्छिष्टः संस्पृशेद्वीजं
न च नारी रजस्वला । न बन्ध्या गुर्विणी चैव न च सद्यः-
प्रसूतिका । घृतं तैलञ्च तक्रञ्च प्रदीपं लवणं तथा ।
वीजोपरि भ्रमेणापि कृषको नैव कारयेत्” । तथाच
गार्ग्यः “दीपाग्निधूपसंसृष्टं वृष्ट्या चोपहतञ्च यत् ।
वर्जनीयं सदा वीज यद्गर्त्तेषु पिधापितम् । प्रोथितं
वीजसंमिश्रं भ्रान्त्या न निवपेत् क्वचित् । निधानं
गुण्डसंमिश्रं तद्वीजं बन्ध्यतां व्रजेत् । कृषाणसार
केदारवृषलाङ्गलकादयः । सर्वे ते बन्ध्यतां यान्ति वीजे
बन्ध्यत्वमागते । तिलधान्ययवादीनां विधिरेष प्रकी-
र्त्तितः । वीजेयत्नमतः कुर्य्यात् वीजमूलाः फलादयः” ।
  • अथ वीजवपनविधिः “वैशाखे वपनं श्रेष्ठं ज्यैष्ठे तु मध्यमं
स्मृतम् । आषाढे चाधमं प्राहुः श्रावणे
चाधमाधमम् । रोपणार्थन्तु वीजानां शुचौ वपनमु-
त्तमम् । श्रावणे चाधमं प्रोक्तं भाद्रे चैवाधमाध-
मम् । उत्तरात्रयमूलेन्द्रमैत्रपैत्रेन्दुधातृषु । हस्ता
यामथ रेवत्यां वीजवापनमुत्तमम् । विष्णुपूर्वविशा
खासु यमरौद्रानिलाहिषु । वीजानां वपनं कृत्वा
वीजं प्राप्नोति मानवः । वपने रोपणे चैव
वारयुग्मं विवर्जयेत् । मूषिकाणां भयं भौमे मन्दे
शलभकीटयोः । न वापयेत्तिथौ रिक्ते क्षीणे सोमे
विशेषतः । एवं सम्यक् प्रयुञ्जानः शस्यवृद्धिमवाप्नुयात् ।
ज्यैष्ठान्ते त्रिदिनं सार्द्धमाषाढादौ तथैव च । वपनं
सर्वशस्यानां फलार्थी कृषकस्त्यजेत्” । तथाच वराहः
“वृषान्ते मिथुनादौ च त्रीण्यहानि रजस्वला । वीजं
न वापयेत्तत्र जनः पापाद्विनश्यति । मृगशिरसि
निवृत्ते रौद्रपादऽम्बुवाची भवति ऋतुमती क्ष्मा भास्करे
त्रीण्यहानि । यदि वपति कृषाणः क्षेत्रमासाद्य वीजं न
भवति फललाभो दारुणश्चात्र कालः । हिमेन वारिणा
सिक्तं वीजं शान्तमनाः शुचिः । इन्द्रं चित्ते
समाधाय स्वयं मुष्टित्रयं वपेत् । कृत्वा धान्यस्य
पुण्याह कृषका हृष्टमानसाः । प्राङ्मुखाः कलसं
कृत्वा पठेयुर्म्मन्त्रमुत्तमम् । ॐ वसुधे! हेमगर्भासि
बहुशस्यफलप्रदे! । वसुपूज्ये! नमस्तुभ्यं वसुपूर्णास्तु मे
कृषिः । रोपयिष्यामि धान्यानां वृक्षवीजानि प्रावृषि ।
सुस्था भवन्तु कृषका धनधान्यसमृद्धिभिः । वासवो
नित्यवर्षी स्यान्नित्यवर्षास्तु तोयदाः । शस्यसम्पत्तयः
सर्वाः सफलाः सन्तु नीरुजः । इति प्रणम्य
वसुधां कृषकान् घृतपायसैः । भोजयित्वा गृही भूरि
निर्विघ्नां कुरुते कृषिम” ।
  • अथ मदिकादानम् । “वीजस्य वपनं कृत्वा मदिकां तत्र
दापयेत् । विना मदि(मै)प्रदानेन सस्यजन्म न जायते” ।
  • अथ धान्यरोपणविधिः “वपन रोपणञ्चैव वीजं स्यादुभ-
यात्मकम् । वपनं गदनिर्म्मुक्तं रोपणं सगदं
विदुः । न वृक्षरूपधान्यानां वीजाकर्षणमाचरेत् ।
न फलन्ति दृढ़वीजा वृक्षाः केदारसंस्थिताः ।
हस्तान्तरं कर्कटे च सिंहे हस्तार्द्धमेव च । रोषणं
सवधान्यानां कन्यायां चतुरङ्गुलम्” ।
  • अथ धान्यकट्टनम् “आषाढे श्रावणे चैव धान्यमाकट्टये-
द्बुधः । अनाकृष्टन्तु यद्धान्यं यथा वीजं तथैव हि ।
भाद्रेच कट्टयेद्धान्यमवृष्टौ कृषितत्परः । भाद्रे चार्द्ध-
फलप्राप्तिः फलाशा नैव चाश्विने । न बिलभूमौ धा-
पृष्ठ २२००
न्यानां कुर्य्यात् कट्टनरोपणे । न च सारप्रदानन्तु
तृणमात्रन्तु शोधयेत्” ।
  • अथ धान्यनिस्तृणीकरणम् “निष्पन्नमपि यद्धान्यमकृत्वा
तृणवर्जितम् । न सम्यक् फलमाप्तोति तृणक्षीण
कृषिर्भवेत् । कुलीरभाद्रयोर्म्मध्ये यद्धान्यं निस्तृणं
भवेत् । तृणैरपि तु सम्पूर्णं तद्धान्यं द्विगुणं भवेत् ।
द्विवारमाश्विने मासि कृत्वा धान्यन्तु निस्तृणम् ।
अथ पाकविकीनं हि धान्यं फलति माषवत् ।
तस्मात् सर्व्वप्रयत्रेन निस्तृणां कारयेत् कृषिम् । निस्तृ-
णा हि कृषाणानां कृषिः कामदुघा भवेत्” ।
  • अथ भाद्रे जलमीचनम् “नैरुत्यार्थं हि धान्यानां जलं
भाद्रे विमोचयेत् । मूलमात्रन्तु संस्थाप्य कारयेज्जजमो-
क्षणम् । भाद्रे च जलसम्पूर्णं धान्यं विविधबाधकैः ।
प्रपीड़ितं कृषाणानां न धत्ते फलमुत्तमम्” ।
  • अथ धान्यव्याधिखण्डनमन्त्रः “ॐ सिद्धिः, गुरुपादेभ्यो
नमः । स्वस्ति, हिमगिरिशिखरात् शङ्खकुन्देन्दुधबल-
शिखरतटात् नन्दनवनसङ्काशात् परमेश्वरपरमभट्टारक
महाराजाधिराजश्रीमद्रामभद्रपादा विजयिनं समुद्रत-
टावस्थितनानादेशागतवानरकोटिलक्षाग्रगण्यं खरतर-
नखरातितीक्ष्णहस्तमूर्द्धलाङ्गूलं लीलागमनसमुद्धूतवा-
तवेगाबधूतपर्व्वतशतं परचक्रप्रमथनं पवनसुतं श्रीहनूम-
न्तमाज्ञापवन्ति असुकग्रामे अमुकगोत्रस्य श्रीमतोऽनुकस्य
अखण्डक्षेत्रे राता भोम्मा उदा गान्धिया भोम्भी गान्धी
द्रोढ़ी पाण्डरमुखी महिषामुण्डी धूलिशृङ्गा मण्डूका
इत्यादयः तालजङ्घाः चटकशुकशूकरमृगमहिषमूषिकव-
राहपतङ्गादयः सर्व्वे शस्योपपातिनो यदि त्वदीयवचनेनू
न त्यजन्ति तदा तान् वज्रलाङ्गूलेन ताड़यिष्यसीति ।
ॐ आं श्रीं ष्रीं नमः” ।
  • मतान्तरे धान्यव्याघिखण्डनमन्त्रः “ॐ सिद्धिः, गुरुपादेभ्यो
नमः । श्रीरामचन्द्रचरणेभ्यो नमः । स्वस्ति,
हिमगिरिशिखरात् शङ्खकुन्देन्दुधबलशिलातटात् नन्दनवन-
सङ्काशात् परमेश्वरपरमभट्टारकमहाराजाविराजश्री-
मद्रामभद्रपादाः कुशलिनः समुद्रतटावस्थितनानादेशाग-
तवानरकोटिलक्षाग्रगण्यं खरतरनखरातितीक्ष्णहस्तमू-
र्द्ध्वलाङ्गूलं लीलागमनसमुद्धूतवातवेगाबधूतपर्वतशतं
परचक्रप्रमथनं पवनसुतं श्रीमन्त” हनूमन्तमाज्ञापन्त्वदः,
अमुकग्रामे अमुकगोत्रस्य श्री अमुकस्य अखण्डक्षेत्रे
भोम्भा--भोम्भी--पाण्डरमुखी--गान्धी--धूलिशृङ्ग्यादिराग-
च्छलेन त्रिपुटी नाम राक्षसी सप्त पुत्रानादाय विविधविघ्नं
समाचरन्त्यवतिष्ठते, इदं मदीयशासनलिखनमवगम्य तां
पापराक्षसीं सपुत्रबान्धवां वज्रदण्डाधिकलाङ्गूलदण्डैः
खरतरनखरैश्च विदार्य्य दक्षिणसमुद्रे लवणाम्बुधौ
खण्डशः प्रणिवेहि, यद्यत्र त्वया क्षणमपि विलम्ब्यते
तर्हि त्वं केशरिणा पित्रा पवनेन मात्रा चाञ्जनया
शप्तव्योऽसीत्यन्यथा नाहं प्रभुर्न त्वं भृक्ष इति ॐ
घ्रां घ्रीं घ्रः” ।
इमं मन्त्रं विल्वकण्टकेन केतकीदले लिखित्वा मुक्तकेशेना-
दित्यवारे क्षेमस्यैशान्यां शस्यमध्ये मञ्जरीषु बन्धयेत् ।
पाटान्तरञ्च लिखित्वाऽलक्तकेनैतन्मन्त्रं शस्येषु बन्धयेत् ।
न व्याधिकीटहिंस्राणां भयं तत्र भवेत् कचित्” ।
  • अथ जलरक्षणम् । आश्विने कार्त्तिके चैव धान्यस्य
जलरक्षणम् । न कृतं येन मूर्खेण तस्य का शस्यवासना ।
यथा कुलार्यी कुरुते कुलस्त्रीपरिरक्षणम् । तथा
संरक्षयेत् वारि शरत्काले समागते ।
  • अथ कार्त्तिकसंक्रान्त्यां नलरोपणम् “घटप्रवेशसंक्रान्त्यां
रोपयेत्तु नलं तथा । केदारैशानकोणे च सपत्रं कृषकः
शुचिः । गन्धैः पुष्पैश्च धूपैश्च शुक्लवस्त्रैर्विशेषतः ।
पूजयित्वा नलं तत्र पूजयेद्धान्यवृक्षकान् । दविभक्तञ्चनै
वेद्यं पायसञ्च विशेषतः । ततो दद्यात् प्रयत्नेन ताला-
ष्टिशस्यमेव च” । तत्र मन्त्रः । “बालकास्तरुणा वृद्धाः
सन्ति ये धान्यवृक्षकाः । ज्येष्ठाश्चापि कनिष्ठा वा सगदा
निर्गदाश्च ये । आज्ञया भीमसेनस्य रामस्य च पृथोपरि ।
ताड़िता नलदण्डेन सर्व्वे स्युः समपुष्पिताः ।
समपुष्पत्वमासाद्य फलन्त्राशु च निर्भरम् । सुस्था भवन्तु
कृषका धनधान्यसमन्विताः । रोपयित्वा नलं क्षेत्रे
मन्त्रेणानेन च क्रमात् । धान्यवृद्धिं परां प्राप्य नन्दन्ति
कृषका जनाः । नलन्तु घटसंक्रान्त्यां क्षेत्रे नारोपयन्ति
ये । विपमा बन्ध्यपुष्पाश्च तेषां स्त्रुर्धान्यजातयः” ।
  • अथ मार्गे मुष्टिग्रहणम् । “ततो मार्गे तु सम्प्रासे केदारे
शुभवासरे । धान्यस्य लवनं कुर्य्यात् सार्द्धमुष्टिद्वयं शुचिः ।
गन्धैः पुप्यैश्च धूपैश्च नैवेदौर्धान्यवृक्षकान् । पूजयित्वा
यथान्यायमीशाने लवनं चरेत् । ततस्तन्मस्तके कृत्वा सम्मुखं
शीर्षकान्वितम् । न स्पृष्ट्वा कमपि क्वापि व्रजेन्मौनेन
मन्दिरम् । सप्तपद्यां ततः पादं दत्त्वा मुख्यनिकेतने ।
प्रविश्य स्थापयेत्तत्तु पुष्पगन्धादिपूजितम् । न मुष्टिग्र-
हणं कुर्य्यात् कदाचिद्धटपौषयोः । श्रेष्ठो मुष्टिग्रहो
पृष्ठ २२०१
मार्गे धनघान्यफलप्रदः । सार्द्धं मुष्टिद्वयं मार्गे
योऽच्छित्त्वा लवनञ्चरेत् । पदे पदे विफलता तस्य धान्यं
कुतो गृहे । रौद्रे मघे तथा सौम्ये पुष्ये हस्तानि-
लोत्तरे । धान्यच्छेदं प्रशंसन्ति मूलश्रवणयोरपि ।
व्यतीपाते च भद्रायां रिक्तायां वैधृतौ तथा । भौमार्कि-
बुधवारेषु मुष्टिसंग्रहणं त्यजेत्” ।
  • अथ मार्गे मेधिरोपणम् “कृत्वा तु खलकं मार्गे समं
गोमयलेपितम् । रोषणीया प्रयत्नेन तत्र मेधिः शुभेऽहनि ।
स्त्रीनाम्ना कृषकैः कार्य्या मेधिर्वृश्चिकभास्करे । मेधेर्गु-
णेन कृषकः शस्यवृद्धिमवाप्नुयात् । न्यग्रोधः सप्तपर्णो
वा गाम्भारी शाल्मलिस्तथा । औदुम्बरो विशेषेण
अन्योवा क्षीरवांस्तरुः । वटादीनामभावे तु कार्य्या स्त्री
नामधारिका । वैजयन्तीयुता मेधिर्निम्वसर्षपरक्षिता ।
धान्यकेशरसंयुक्ता तृणमर्कटकान्विता । अर्च्चिता गन्ध
पुष्पाभ्यां मेधिः शस्यसुखप्रदा । पौषे मेधिर्न चारोप्या
क्रूराहे श्रवणे तथा । शस्यवृद्धिकरी मार्गे पौषे शस्य-
क्षयङ्करी । कपित्थविल्ववंशानां तृणराज्ञां तथैव च ।
मेधिः कार्य्या नरैर्नैव यदोच्छेदात्मनः शुभम्” ।
  • अथ पौषे पुष्ययात्राकथनम् “अखण्डिते ततो धान्ये
पौषे मासि शुभे दिने । पुष्ययात्रां जनाः कुर्युरन्योन्यं
क्षेत्रसन्निधौ । परमान्नञ्च तत्रैव व्यञ्जनैर्म्मत्स्यमांसजैः ।
निरामिषैस्तथा दिव्यैर्हिङ्गुमारीचसंयुतैः । दधिभिश्च
तथा दुग्धैराज्यपायसमिश्रितैः । नानाफलैश्च
मूलैश्च मिष्टपिष्टकयिस्तरैः । एभिः सुढौकितं कृत्वा तदन्नं
कदलीदले । भोजयेयुर्जनाः सर्वे यथावृद्धपुरःसराः ।
आचम्य च ततस्तत्र चन्दनैश्च चतुःसमैः । अन्योन्यं लेपनं
कुर्य्युस्तैलैः पक्वैः सुगन्धिभिः । कर्पूरवासितं दिव्यं
ताम्बूलं गन्धधूपितम् । भक्षयेथुः प्रषूर्य्यास्यं परिधाय
नवाम्बरम् । पुष्पैराभरणं कृत्वा नमस्कृत्य शचीपतिम् ।
गीतैर्वाद्यैश्च नृत्यैश्च कुर्य्युस्तत्र महोत्सवम् । ततस्तु
हर्षिताः सर्वे मन्त्रं श्लोकचतुष्टयम् । हस्तसंपुटकं कृत्वा
पठेयुर्वीक्ष्य भास्करम् । क्षेत्रे चाखण्डिते धान्ये तव
देव! प्रसादतः । पुष्यन्तु मिलिताः सर्वे शस्यानि शुभका-
रकाः । मनसा कर्म्मणा वाचा ये चास्माकं विरोधिनः ।
ते सर्वे पशमं यान्तु पुष्ययात्राप्रभावतः । धान्यवृद्धिर्य-
शोवृद्धिः प्रवृद्धिः पुत्रदारयोः । राजसम्मानवृद्धिश्च गवां
वृद्धिस्तथैव च । मन्त्रशासनवृद्धिश्च लक्ष्मीवृद्धिरहर्न्नि-
शम् । अस्माकमस्तु सततं यावत् पूणी न वत्सरः ।
ततः प्रमुदिताः सर्वे व्रजेयुः स्वनिकेतनम् । न भोजर्न
पुनः कुर्य्युस्तस्मिन्नहनि मानवाः । हिताय सर्तलोकानां
पुष्ययात्रा मनोहरा । पुरा पराशरेणेयं कृता सर्वाथसा
धिनी । तस्मादियं प्रयत्नेन पुष्ययात्रा विधानतः । सर्व-
विघ्नप्रशान्त्यर्थं कार्य्या शस्यस्य वृद्धये । पुष्ययात्रां न
कुर्वन्ति ये जना धनगर्विताः । न विघ्नोपशमस्तेषां
कुतस्तद्वत्सरे सुखम् । पौषे मासि ततः कुर्य्याद्धान्यच्छेदं
विचक्षणः । मर्द्दयित्वा यथायोगमाढ़केन प्रमापयेत् ।
सुप्रमाप्य च तद्धान्यं यथालाभं प्रबन्धयेत् । प्रमादेनापि
पौषे त व्ययं तस्य न कारयेत् । मापनं सर्वशस्यानां
वामावर्त्तेन कीर्त्तितम् । धान्यनां दक्षिणावर्त्तं मापनं
क्षयकारकम् । वामावर्त्तेन सुखदं धान्यवृद्धिकरं परम्” ।
  • आढ़कलक्षणम् “द्वादशाङ्गुलकैर्म्मानैराढ़कः परिकीर्त्तितः ।
श्लेष्मातकाम्रपुन्नागकृतमाढ़कमुत्तमम् । कपित्थपर्कटीनि-
म्बजनितं दैन्यवर्द्धनम्” ।
  • अथ धान्यस्थापनम् । हस्ते स्वातौ च पुष्यायां रेवत्याञ्च
प्रजापतौ । यममूलोत्तरे सौम्ये मघायाञ्च पुनर्वसौ । जीवे
सोमे भृगोर्वारे निधने क्रूरवर्जिते । मीनलग्ने शुभे ऋक्षे
धान्यस्थापनमुत्तमम्” ।
कृषिकर्त्तव्यतायां विशेषो वृहत्पराशरसं० दर्शितोयथा
  • “अतःपुरं गृहस्थस्य कर्माचारं कलौ युगे । धर्मं साधारणं
साक्षाच्चतुर्वर्णक्रमागतम् । युष्माकं सम्प्रवक्ष्यामि पाराश-
रप्रचोदितम् । षट्कर्मसहितोविप्रः कृषिवृत्तिं समाश्रयेत् ।
हीनाङ्गं व्याधिसंयुक्तं प्राणहीनञ्च दुर्बलम् । क्षुद्युक्तं
तृषितं श्रान्तमनड्वाहं न वाहयेत् । स्थिराङ्गं नीरुजं
तृप्तं शान्तं षण्डविवर्जितम् । अधृष्टं सबलप्राणमन-
ड्वाहं तु वाहयेत् । वाहयेद्दिवसस्यार्धं पश्चात् स्नानं
समाचरेत् । कुगवैर्न कृषिं कुर्य्यात्सर्वथा धेनुसंग्रहम् ।
बन्धनं पालनं रक्षा द्विजः कुर्य्यात्गृही गवाम् । वत्साश्च
यत्नतो रक्ष्या वर्धन्ते ते यथाक्रमम् । न दूरे तास्तु मो
क्तव्याश्चरणाय कदाचन । दूरे गावश्चरन्त्यो वै न भवनि
शुभायनाः । प्रातरेव हि दोग्धव्या दुहाः सायं तथा
गृही । दोग्धुर्विषर्य्यये नैव वर्द्धन्ते ताः कदाचन ।
अनादेयतृणं भुक्त्वा स्रवन्त्यनुदिनं पयः । तुष्टिकृद्देवतादीनां
पूज्या गावः कथन्न ताः । यस्याः शिरसि ब्रह्मास्ते
स्कन्धदेशे शिवः स्मृतः । पृष्ठे विष्णुस्तथा तस्थौ श्रुतयश्च-
रणेषु तु । या अन्या देवताः काश्चित्तस्या लोमसु ताः
स्थिताः । सर्वदेवमयी गौस्तु तुष्येत्तद्भक्तितो हरिः ।
पृष्ठ २२०२
हरत्ति स्पर्शनात्पापं पयसा पोषयन्ति याः । प्रापयन्ति
दिवं दत्ताः पूज्या गावः कथन्न ताः । यच्छफाहतभूमेस्तु
उद्यतः पांशुसंचयः । प्रोथयेत् पुरुषस्येनो वन्द्या
गावः कथन्न ताः । शकृन्मूत्रं हि यस्यास्तु पितुः पुनाति
पातकम् । किमपूज्यं हि तस्या गोरिति पाराशरोऽ
ब्रवीत् । गौरवत्सा न दोग्धव्या नचैव गर्भसन्धिनी ।
प्रसूता च दशाहार्वाग्दोग्धा चेन्नरकं ब्रजेत् । दुर्बला
व्याधिसंयुक्ता पुष्पिता या द्विवत्सभूः । सा साधुभिर्न
दोग्धव्या वर्णिभिः सुखमीप्सुभिः । कुलान्ते पुष्पिता गावः
कुलान्ते बहवस्तिलाः । कुलान्ते चलचित्तास्त्री कुलान्ते
वन्धुविग्रहः । एकत्र पृथिवी सर्वा सशैलवनकानना ।
तथा गौर्ज्यायसी साक्षादेकत्रोभयतोमुखी । यथोक्तवि-
धिना यस्ता वर्णैः पाल्यास्तु पूजिताः । पालयेत् पूजय-
न्नेताः स प्रेत्येह च मोदते । दक्षिणाभिमुखा गाव उत्त-
राभिमुखा अपि । बन्धनीयास्तथैतास्तु न च प्राक्पश्चि-
मामुखाः । गोवृषवाजिशालायां सुतीक्ष्णं लोहदात्र-
कम् । स्थाप्यन्तु सर्वदा तस्यां गवि लुप्तविमोक्षणात् ।
नावो देयाः सदा रक्ष्याः पोष्याः पाल्याश्च सर्वदा । ताड़-
यन्ति च ये पापा ये चाकर्षन्ति ता नराः । नरके पच्य-
न्तेऽङ्गानि श्वासेव च प्रपीड़िताः । विसर्पन्तीं न दण्डेन
पालकस्तां निवर्त्तयेत् । गच्छ गच्छेति तां ब्रूयान्मा
माभैरिति वारयेत् । संस्पृशन् गां नमस्कृत्य कुर्य्यात्तान्तु
प्रदक्षिणम् । प्रदक्षिणीकृता तेन सप्तद्वीपा वसुन्धरा । त्रणो-
दकादिसंयुक्तं यः प्रदद्याद्गवाह्निकम् । सोऽश्वमेधसमं पुण्यं
लभते नात्र संशयः । पृथिव्यां यानि तीर्थानि समुद्राश्च
सरांसि च । गवां शृङोदकस्नाने कलां नार्हन्ति षोड़शोम् ।
कुतस्तेषां हि पापानि येषां गृहमलङ्कृतम् । सततं
बालवत्साभिर्गोभिः स्त्रीभिरिव स्वयम् । ब्राह्मणाश्चैव
गावश्च कुलमेकं द्विधा कृतम् । तिष्ठन्त्येकत्र
मन्त्राणी हविरेकत्र तिष्ठति । गोभिर्यज्ञाः प्रवर्तन्ते
गोभिर्येवाः प्रतिष्ठिताः । गोभिर्वेदाः समुद्गीर्णाः सषड़ङ्ग-
पदक्रमाः । सौरभेयास्तु तस्याग्रे पृष्ठतोऽप्यस्य ताः
स्थिनाः । वसन्ति हृदये नित्यन्तासां मध्ये वसन्ति ये ।
ते पुण्यपुरुपाः क्षौण्वां नाकेऽपि दुर्लभाश्च ते । शृङ्ग-
मूले स्थितो प्रह्मा शृङ्गमध्ये तु केशवः । शृङ्गाग्रे शङ्करं
विद्यास्त्रयोदेवाः प्रतिष्ठिताः । शृङ्गाग्रे सर्वतीर्थानि
स्यावराणि चराणि च । सर्वे देवाः स्थिता देहे सर्वदेव-
मयी हि गौः । ललाटाग्रे स्थिता देवी नासामध्ये तु
षण्मुखः । कम्बलाश्वतरौ नागौ तत्कर्ण्णे तु व्यवस्थि-
तौ । स्थितौ तस्याश्च सौरभ्याश्चक्षुषोः शशिभास्करौ ।
दन्तेषु वसवश्चाष्टौ जिह्वायां वरुणः स्थितः । सरस्वती
च हुङ्कारे यमयक्षौ च गण्डयोः । ऋषयो रोमकूपेष्र
प्रस्नावे जाह्नवीजलम् । कालिन्दी गोमये तस्या अपरा
देवतास्तथा । अष्टाविंशतिदेवानां कोट्या लोमसु ताः
स्थिताः । उदरे गार्हपत्योऽग्निर्हृद्देशे दक्षिणस्तथा ।
मुखे चाहवनीयस्तु चावसथ्यस्तु च कुक्षिषु । एवं यो
वर्त्तते गोषु ताडने क्रोधवर्जितः । महतीं श्रियमाप्तो-
ति स्वर्गलोके महीयते । कुल्यं तस्या न लङ्घेत पूतिग-
न्धं न वर्जयेत् । यावजिजघ्रति तद्गन्धं तावत्पुण्यं प्रव-
र्द्धते । यो गां पयस्विनीं दद्यात्तरुणीं वत्ससंयुताम् ।
शिवस्यायतनं दत्तं दत्तन्तेन च विश्वकम् । उक्षा
गौर्वेधसा सृष्टा तस्य ह्युत्पादनाय च । तैरुत्पादितशस्येन
सर्बमेतद्धि धार्य्यते । यश्चैतान् पालयेत् यत्नात् वर्धयेच्चैव
यत्नतः । जगन्ति तेन सर्वाणि साक्षात् स्युः पालितानि
च । यावद्गोपालने पुण्यमुक्त’ पूर्वमनीषिभिः ।
उक्ष्णोऽपि पालने तेषां फलं दशगुणं भवेत् । जगदेतद्-
धृतं सर्वमनडुद्भिश्चराचरम् । वृष एष ह्यतोरक्ष्यः
पालनीयस्तु सर्वदा । धर्मोऽयं भूतले साक्षाद्ब्रह्मणा हितका-
रिणा । त्रैलोक्यधारणायालमन्नानाञ्च प्रसूतये ।
अनादेयानि घासानि विध्वंसन्ति सकामतः । भ्रमिता
भूतलं दूरमुक्षाणङ्को न पूजयेत् । उत्पादयन्ति शस्यानि
मर्दयन्ति वहन्ति च । आनयन्ति दवीयःस्थनुक्ष्णोवा
कोऽधिको भुवि । स्कन्धेन दूराच्च वहन्ति मारमन्नादि-
कानां न च भक्षयन्ति । स्वीयेन जीवेन परस्य जीवं रक्षन्ति
पुष्णन्ति विवर्धयन्ति । पुण्यास्तु गावो वसुधातले मां
विभ्रत्यलं पृष्ठगगर्भभारम् । भारः पृथिव्या दशताड़िताया
एकस्य चाष्णो ह्यपि साधुवाचः । एकेन दत्तेन वृषेग
येन दत्ता भवेयुर्द्दश सौरभेयाः । दाने ह्यपीयं धरणी
समा नो तस्माद्वृषात् पूजितमस्ति नान्यत् । उत्पाद्य
शस्यानि तृणञ्चरन्ति तदेव भूयः सकलं वहन्ति । म
भारखिन्नाः प्रवदन्ति किञ्चिदहोवृषाद्धार्यति जीवलोकः ।
तृतीयेऽह्नि चतुर्थे वा यदेवोक्षा दृढोभवेत् । तदा नसा न
भेत्तव्या नैव प्राग्दुर्बलस्य च । नासावेधनकीलन्तु
खादिरं वाथ शैंशपम् । द्वादशाङ्गुलकङ्कार्य्यन्तज्ज्ञैस्त्रीणि
समे च वा । शाला द्विपानां वृषगोहयानां तां याम्यदिग्-
द्वारवतीं विदध्यात् । सौम्यां ककुब्द्वारवतीं सुशीभान्तेषां
पृष्ठ २२०३
शमिच्छन् हितमात्मनश्च । गावो वृषो वा हयहस्तिनो
र्वा अन्ये ऽपि सर्वे पशवो द्विजेन्द्राः । याम्यामुखा
नैव तु उत्तरादिङ्मुखांसकास्ते खलु बन्धनीयाः ।
शालाप्रवेशे वृषगोपशूना राजापि यत्नाद्धयकुञ्जराणाम् ।
होमञ्च सप्तार्चिषिशास्त्रयुक्तं कुर्य्याद्विधिज्ञो द्विजपूजनञ्च ।
  • लाङ्गलं तत् प्रवक्ष्यामि यत्काष्ठं यत्प्रमाणतः । हलीशाया-
स्तथा मानं प्रतोदस्य युगस्य च । चत्वारिंशत्तथाचाष्टा-
वङ्गुलानि कुहः (हलः) स्मृतः । अथापामोऽङ्गुलैर्भाज्यो
हलीशावेधतश्च यः । षोड़शैव तु तस्याधः षड्विंशति
रथोपरि । वेधस्तथा च कर्त्तव्यः प्रमाणेन षड़ङ्गुलः ।
अष्टाङ्गुलमुरस्तस्य वेधादूर्द्ध्वं प्रकल्पयेत् । ग्रीवा
दशाङ्गुला चोर्द्ध्वं हस्तग्राहो ततः स्मृतः । अङ्गुलैश्चाष्ट-
भिस्तत् स्याद्वेधः स्यात् प्रतिहारकः । तस्यावस्ता-
द्यच्चत्वारि स वेधश्चतुरङ्गुलः । प्रतिहारी शुभा
कार्य्या तद्वेधस्त्र्यङ्गुलो भवेत् । पञ्चाङ्गुलमुरस्तस्याः
सीरस्येति विभाजनम् । पृथुत्वं शिरसोधार्य्यं हस्ततल-
प्रमाणकम् । अङ्गुलानि तया चाष्टौ उरसः पृथुता
स्मृता । बन्ध द्बहिः प्रतीहारी षड्त्रिंशदङ्गुला भवेत् ।
सुतीक्ष्णा लोहपाल्यस्य उक्ता दामादिदारकृत् । न सीरं
क्षीरवृक्षस्य न विल्वपिचुमर्दयोः । इत्यादीनां हि कुर्वाणो
न नन्दति चिरं गृही । प्राञ्जला सप्तहस्ता तु हलीशा
विदुषां मता । तस्याः(ईशायाः)वेधः सवर्णायाः कार्य्योनव-
वितस्तिभिः । प्लक्षाक्षयोर्न तत्कुर्य्यात् कीर्तिघ्नौ तौ प्रकी-
र्तितौ । प्रमादतस्तु ताः कुर्वन् सशस्यो नश्यते गृही ।
नीचोच्चवृषमानेन तजज्ञास्तां प्रवदन्ति हि । चतुर्हस्तं
युगं कार्य्यं स्कन्धस्थानेऽर्धचन्द्रवत् । मेषशृङ्ग्याः
कदम्बस्य सालधवद्रुमस्य च । सम्या (साँपि)वेधाद्बहिः कार्य्या
दशाङ्गुलप्रमाणिका । तन्माने च प्रबाली च तदन्तरदशा-
ङ्गुलम् । प्रतोदविषमग्रन्थि र्वैणवश्च चतुःकरः । तदग्रे
तु प्रकर्त्तव्या यवाकारा तु लोहवत् । हीनातिरिक्तं
कर्त्तव्यं नैव किञ्चित्प्रमाणतः । कुर्य्यादनडुहां दैन्या-
ददैन्यान्नरकं व्रजेत् । यथाऽभीष्टं यथाशोभं बाहकस्य
प्रमाणतः । भूमेश्च कर्षणायालं तज्ज्ञाः सर्वं वदन्ति
हि । योजन तु हलस्याथ प्रवक्ष्यामि यथा तथा ।
श्रेष्ठनक्षत्रसंयुक्ते पुण्येऽह्नि तद्विधीयते । यत्र दिने
तु बुध्येत तत्र कार्य्यं विजानता । यत्र कृत्यं हितं
चापि पुण्यं वा मनसि स्मरेत् । तत्र विद्वान् द्विजश्रेष्ठः
पुण्येऽह्नि तद्विधीयते । मातृश्राद्धं द्विजः कृत्वा यथो-
क्तविधिना गृही । द्रव्यकालानुसारेण कुर्वतो धर्म्मतः
कृषिम् । प्रोल्लिखन् मण्डलं पुष्पधूपदीपैः समर्चयेत् ।
इन्द्राय च तथाश्विभ्यां मरुद्भ्यश्च तथा द्विजः । कुर्य्या-
द्बलिहृतिं विद्वान् उदकसञ्चयाय च । तथा कुमार्य्यै
सीतायै अनुमत्यै तथा बलिम् । नमः स्वाहेति मन्त्रेण
संवाञ्छन्नात्मनः शुभम् । दधिगन्धाक्षतैः पुष्पैः शमीपत्रै-
स्तिलैस्तथा । दद्याद्बलिं वृषाणाञ्च तथाज्यप्राशनं ततः ।
संघृष्य सीरफालाग्रे हेम्ना वा राजतेन वा । प्रलिप्य
मधुसर्पिभ्यां कुर्य्याच्चैव प्रदक्षिणम् । अग्न्युक्ष्णोर्मण्डलं
कुर्य्यात् कृत्वा सीरप्रवाहणम् । पुष्पं लाङ्गलकल्याणं
कल्याणाय नमोऽस्त्विति । सीतायाः स्थापनं कुर्य्यात्
पाराशरमृषिं स्मरन् । सीतां युञ्जत इत्याद्यैर्मन्त्रैः सीरं
प्रवाहयेत् । दधिदूर्वाक्षतैः पुष्पैः शमीपत्रैश्च पुण्यदैः ।
सीतां पूज्य वशी भक्तैरक्तवस्त्रैर्विषाणके । सप्त
धान्यानि चादाय प्रोक्ष्य पूर्वामुखो हली । तानि दत्त्वो-
क्षणः क्षेत्रे किरन् भूमीं कृषेद्विजः । न यवैर्न
तिलैर्हीनं द्विजः कुर्य्याच्च कर्षणम् । तद्विहीनन्तु
कुर्वाणं न प्रशंसन्ति देवताः । तिलमात्रच्युतं
तोयं दक्षिणस्याम्पतेर्दिशि । तेन तृप्यन्ति पितरो
यावन्न तिलविक्रयः । विक्रीणीते तिलान् यस्तु तर्पये-
न्नर्षिदेवताः । विमुच्य पितरस्तन्तु प्रयान्तीव तिलैः
सह । ऊषाजलं यवस्तम्बपत्रेभ्यो भूतले पतत् ।
पयोदधिघृताद्यैस्तु तर्पयेत् सर्व्वदेवताः । देवपर्ज्यन्यभू-
सीरयोगात् कृषिः प्रजायते । व्यापारात् पुरुषस्यापि
तस्मात्तत्रोद्यतो भवेत् । शालीन् सशणकार्पासं वार्त्ता-
कुप्रभृतीनि च । वापयेत्सर्व्ववीजानि सर्ववापी न
सीदति । चन्द्रक्षये पतिर्विप्रो यो युनक्ति वृषान् क्वचित् ।
तत्पञ्चदशवर्षाणि त्यजन्ति पितरो हि तम् । चन्द्रक्षये
द्विजो विद्वान् यो भुङ्क्ते तु पराशनम् । भोक्तुर्मासा-
र्जितं पुण्यं भवेदशनमस्य तत् । चन्द्रार्कयोस्तु संयोगे
कुर्य्याद्यः स्त्रीनिषेवणम् । सरेतोभोजिनस्तस्य षण्मासं
पितरोऽहिताः । चन्द्रक्षये च यः कुर्य्यान्नरस्तरुनिकृन्त-
नम् । तत्पर्णसङ्ख्यया तस्य भवन्ति भ्रूणहत्यकाः ।
वनस्पतिगते सोमे योऽप्यध्वानं व्रजेन्नरः । प्रभ्रष्टद्विज-
कर्म्माणं तं त्थजन्त्यमरादयः । वासांसीन्दुप्रणाशोयो
रजकस्यामतिः क्षिपेत् । पिबन्ति पितरस्तस्य मासं
वस्त्रजलन्तु तत् । सोमक्षये द्विजो याति यत्कालस्तु हुता-
शनम् । तदेव पितृशापाग्निदग्धो नरकमाविशेत् ।
पृष्ठ २२०४
अष्टमी कामभोगेन, षष्ठी तैलोपभोगतः । कुहूस्तु दन्त-
काष्ठेन हिनस्त्यासप्तमं कुलम् । चन्द्राप्रतीतौः पुरुषस्तु
दैवादद्यादगत्या यदि दन्तकाष्ठम् । नराधिराजैः
सहितस्तु तेन घातः कृतः स्यात्पितृदेवतानाम् । तत्राभ्यज्य
विषाणानि गावश्चैव वृषास्तथा । चरणाय विसृज्यन्ते
आगतान्निशि भोजयेन् । य उत्पाद्येह शस्यानि सर्वा-
णि तृणचारिणः । जगत्सर्व्वं धृतं यैस्तु पूज्यन्ते किन्न
ते वृषाः । येनैकेन प्रदत्तेन दत्तं गोदशकम्भवेत् ।
यद्रूपेण स्थितो धर्म्मः पूज्यन्ते किन्न ते वृषाः । पाल्या-
हि यत्नतस्ते वै वाहनीया यथाविधि । स याति नरकं
घोरं यो वाहयत्यपालयन् । नाधिकाङ्गो न हीनाङ्गः
पुष्पिताङ्गो न दूषितः । वाहनीयो हि शूद्रेण
वाहयन् क्षयमाप्नुयात् । वर्जयेद्दुष्टदोषांश्च गावो वै दोहने
नरः । पाल्या वै यत्नतः सर्व्वे पालयन् शुभमाप्नु-
यात् । अन्नार्थमेतानुक्षाणः ससर्ज परमेश्वरः । अन्ने-
नाप्यायते सर्व्वं त्रैलीक्यं सचराचरम् । अग्निर्ज्वलति
चान्नार्थं वाति चान्नाय मारुतः । गृह्णाति चाम्भसां
सूर्य्यो रसानन्नाय रश्मिभिः । अन्नं प्राणो बलं चान्न
मन्नाज्जीवितमुच्यते । अन्नं सर्व्वस्य चाधारः सर्व्व
मन्ने प्रतिष्ठितम् । सुरादीनां हि सर्व्वेषामन्नं वीजं
परं स्थितम् । तस्मादन्नात्परं तत्त्वं न भूतं न भविष्यति ।
ट्यौः पुमान्, धरणी नारी, अम्मोवीजन्दिवश्च्युतम् । द्यु-
धात्रीतोयसंयोगादन्नादीनां हि सम्भवः । आपोमूलं
हि सर्व्वस्य सर्वमप सु प्रतिष्ठितम् । अतोऽमृतरसा ह्याप
आपः शुक्रं बलं महः । सर्व्वस्य वीजमापो वै सर्व
मद्भिः समावृतम् । सद्य आप्यायना ह्यापः आपो
ज्येष्ठतरा ह्यतः । किञ्चित्कालं विनाऽन्नाद्यैर्जीवन्ति
मनुजादयः । न जीवन्ति विना तास्तु तस्मादापीऽमृतं
स्मृतम् । दत्तानि चाद्भिरेतस्यां किं न दत्तं क्षितौ भवेत् ।
तथान्नेन प्रदत्तेन सर्वं दत्तं भवेदिह । अतोऽप्यन्नार्थ-
भावेन कर्त्तव्यं कर्षणं द्विजः । यथोक्तेन विधानेन
लाङ्गलादिप्रयोजनम् । सीते! सौम्ये! कुमारि! त्वं
देवि! देवार्चिते! श्रिये । सत्कृता हि यथा सिद्धा यथा
मे सिद्धिदा भव । मरुत्सूनोर्विना नाम्ना सीतायाः
स्थापनं विना । विनाभ्युक्षणरक्षार्थं सर्वं हरति
राक्षसः । वापने लवने क्षेत्रे खले गन्त्रीप्रवाहणे । ऐष
एव विधिर्ज्ञेयो धान्यानाञ्च प्रवेशने । देवतायतनो-
द्याननिपातस्थानगोव्रजान् । सीमाश्मशानभूमिञ्च घृक्ष-
च्छायाक्षितिं तथा । भूमिं निखातयूपाञ्च
अयनस्थानमेव च । अन्यामपि हि चावाह्यां न कर्षेत्
कृषिकृत् धराम् । नोषरां वाहयेद्भूमिं वर्चाश्मक-
र्करीवृताम् । वाहयन्नप्रमत्तश्च न नदीपुलिनं तथा ।
यद्यसौ वाहयेल्लोभात् द्वेषाद्वापि हि मानवः । क्षीयते सोऽ
चिरात्पापात् सपुत्रपशुबान्धवः । नरकं घोरतामिस्रं
पापीयान् याति चैनसा । परकीयां योऽपहृत्य कृषि-
कृद्वाहयेद्धराम् । स भूमिस्थेन पापेन ह्यनन्तनरकं
वसेत् । न दूरे वाहयेत् क्षेत्रं नचैवात्यन्तिके तथा ।
वाहयेन्न पथि क्षेत्रं वाहयन्दुःखभाग् भवेत् । क्षेत्रेष्वेवं
वृतिं कुर्य्यात् यामुष्ट्रो नावलोकयेत् । न लङ्घयेत्पशु-
र्यां वा नाभीयाद्याञ्च शूकरः । बन्धश्च यत्नतः कार्य्यो
मृगयुत्रासनाय च । अत्राप्युपद्रवं राजतस्करादि-
समुद्भवम् । संरक्षेत्सर्वतो यत्नाद्यस्मात् गृह्णात्यसौ
करात् । कृषिकृन्मानवस्त्वेवं मत्वा धर्म्मं कृषेर्ध्रुवम् ।
अनवद्यां शुभां स्निग्धां जलावगाहनक्षमाम् । निम्नां
हि वाहयेद्भूमिं यत्र विश्रमते जलम् । वाहयेत्तु
जलाभ्यर्णे पुष्टे ससेकसम्भवे । शारदमुच्चकैःस्थाने
कलम्बं वापयेद्धली । अर्धाप्तकासु कार्पासं तदन्यत्र तु
हैमनम् । वसन्तग्रीष्मकालीयमप्सु स्निग्धेषु तद्विदः ।
केदारेषु तथा शालीन् जलोपान्तेषु चेक्षवः । वृन्ताकशा-
कमूलानि कन्दानि च जलान्तिके । वृष्टिविश्रान्तपानीय-
क्षेत्रेषु च यवादिकान् । गोधूमांश्च मसूरांश्च खल्वान्
खलु कुलत्थकाः । समस्निग्धेषु चोप्यानि भूमीजीवान्
निजानता । तिला बहुविधाश्चोप्या अतसीशणमेव
च । मृदम्बुजं जगत्सर्वं वापयेत्कृषिकृन्नरः ।
संपश्येच्चरतः सर्वान् गोवृषादीन् स्वयङ्गृही । चिन्तयेत्स-
र्वमात्मानं स्वयमेव कृषिं व्रजेत् । प्रथमं कृषिबाणिज्यं
द्वितीयं योनिषोषणम् । तृतीयं विक्रयः प्रोक्तश्चतुर्थं
राजसेवनम् । नखैर्विलिखने यस्याः ब्रूयुर्दोषं
मनीषिणः । तस्याः सीरविदारेण किन्न पापं क्षितेर्भवेत् ।
तृणैकच्छेदमात्रेण प्रोच्यते क्षयमायुषः । असङ्ख्य-
कन्दनिर्वासादसङ्ख्यातम्भवेदघम् । यत्सेचनात् कीटवध
स्तथा सङ्कर्षणादपि । अंहः कुक्वुटिकानाञ्च तदंहः
कृषिजीविनाम् । बधकानाञ्च यत्पापं यत्पापं मृगयो-
रपि । कदर्य्याणाञ्च तत्पापं तत्पापं कृषिजीविनाम् ।
वर्णानाञ्च गृहस्थानां कृषिवृत्त्युपजीविनाम् । तदेनसो
विशुद्ध्यर्थं प्राह सत्यवतीपतिः । द्वादशो नवमो वापि
पृष्ठ २२०५
सप्तमः पञ्चमोऽपि वा । धान्यभागः प्रदातव्यो देहिनः
क्षेत्रिणा ध्रुवम् । अश्मर्य्यद्यूतभूमौ च विट्पतिः क्षेत्र-
भुग्भवेत् । एकैकांशापकर्म्म स्याद्यावद्दशमसप्तमौ ।
ग्रामेशस्य नृपस्यापि वर्ण्णिभिः कृषिजीविभिः । स स
भागः प्रदातव्यो यतस्तौ कृषिभागिनौ । व्यूढौ त्व
श्व्यर्य्यमात्राया देयोंऽशः स्याच्चतुर्द्दशः । एकैकांशाप
कर्म्म स्यात् यावद्दशमसप्तमौ । ब्राह्मणस्तु कृषिं कुर्वन्वाह-
येदिच्छया धराम् । न किञ्चित् कस्यचिद्दद्यात्स सर्वस्य प्रभु-
र्य्यतः । ब्रह्मा वै ब्राह्मणानां स्यात्प्रभुस्त्वसृजदादितः ।
तद्रक्षणाय बाहुभ्यामसृजत् क्षत्रियानपि । पशुपाल्या-
शनोत्पत्त्यै ऊरुभ्याञ्च तथा विशः । द्विजदास्याय
पण्याय पद्भ्यां शूद्रमकल्पपत् । यत्किञ्चिज्जगतीसस्थं
भूगेहाश्च गजादिकम् । स्वभावेनेह विप्राणां ब्रह्मा
स्वयमकल्पयत् । ब्राह्मणश्चैव राजा च द्वावप्येतौ
धृतव्रतौ । न तयोरन्तरं किञ्चित्प्रजा धर्म्मेण रक्षयेत् ।
तस्मान्न ब्राह्मणो दद्यात् कुर्वाणो धर्मतः कृषिम् ।
ग्रामेशस्य नृपस्यापि किञ्चिन्मात्रमसौ बलिम् ।
अथान्यत्सम्प्रवक्ष्यामि कृषिकृच्छुद्धिकारणम् । संशुद्धः कर्ष-
कोयेन स्वर्गलोकमवाप्नुयात् । सर्वसत्वोपकाराय सर्वत्र
कृषिकृन्नरः । कुर्य्यात् कृषिं प्रयत्नेन सर्वसत्वोपजीव्यकृत् ।
सर्वस्य स्थितिकारुण्यात्स देवपितृभिः पुनः । मनुष्याणान्तु
पोव्याय कृषिं कुर्य्यात् कृषीबलः । वयांसि चान्यसत्वानि
क्षुत्तृष्णातो विमोचयन् । विमुक्तः सर्वपापेभ्यः स्कर्लोक-
स्तमवाप्नुयात् । चतुर्दिक्षु खले कुर्य्यात्प्राच्यामतिघनावृ-
तिम् । सैकद्वारपिधानञ्च पिदध्याच्चैव सर्वतः । खरोष्ट्राजो-
रणादोंस्तु विशतस्तु निवारयेत् । शूकरान् श्वशृगालादिका-
कोलूककपोतकान् । त्रिसन्ध्यं प्रोक्षणं कुर्य्यात् दानीया-
भ्युक्षणाम्बुभिः । रक्षा च भस्मना कुर्य्याज्जलधारा-
भिरक्षणम् । त्रिसन्ध्यमर्चयेत्सीतां पराशरमृषिं
स्मरन् । प्रेतभूतादिनामानि न वदेच्च तदग्रतः ।
सूतिकागृहवत्तत्र कर्त्तव्यं परिरक्षणम् । हरन्त्यरक्षितं
यस्मात् रक्षांसि सर्वमेव हि । प्रशस्तोदिनपूर्वाह्णो
नापराह्णेन सन्ध्ययोः । धान्योन्मानं सदा कुर्यात्सीता-
पूजनपूर्वकम् । यजेत खलभिक्षाभिः खलेरोहिण्यएव
हि । भक्त्या सर्वं प्रदत्तं हि तत्समस्तमिहाक्षयम् ।
खलयज्ञाः पक्षिणां वै ब्रह्मणा निर्मिताः पुरा ।
भागधेयमथो कृत्वा तां गृह्लन्तीह मात्रिकाम् । शतकृत्वा-
दयो देवाः पितरः सोमपादयः । सनकादिमनुष्याश्च ये-
चान्ये दक्षिणाशनाः । तानुद्दिश्य च विप्रेभ्यो दद्याच्च
प्रथमं हली । विवाहे स्वलयज्ञे च संक्रान्तौ ग्रह-
णेषु च । पुत्रे जाते व्यतीपाते दत्तं भवति चाक्ष-
यम् । अन्येषामर्थिनां पश्वात्कारुकाणा पुनः पुनः ।
दीनानामप्यनाथानां कुष्ठिनां कुशरीरिणाम् । क्लीवा-
न्धवधिरादीनां सर्वेषामपि दीयते । वर्णानां पतिता-
नाञ्च द्युदृग्भूतानि तर्पयेत् । चाण्डालानां श्वपाकानां
प्रीत्यात्थुच्चावचा ददत् । ये केचिदागतास्तत्र पूज्यास्ते
विधिवद्द्विजाः । स्तोकशः सीरिमिः सर्वे वर्णिभिर्गृह-
मेधिभिः । दत्त्वा त्वनृतया वाचा क्रमेणाथ विसर्जयेत् ।
तत्कृत्वा स्वगृहं गच्छेच्छ्राद्धमभ्युदयं चरेत् ।
शरद्धेमन्तवसन्तनवान्नैः श्राद्धमाचरेत् । नाकृत्वा तत्तदश्नी-
यादश्नंस्तदघमश्नुते । कृष्या तूत्पाद्य धान्यानि
खलयज्ञं समाप्य च । सर्वसत्वहितोद्युक्त इहामुत्र सुखी
भवेत् । कृषेरन्योत्त धर्मं न लभेत् कृषितोऽन्यतः ।
न सुखं कृषितोऽन्यत्र यदि धर्मेण कर्षति । अवस्त्रत्वं
निरन्नत्वं कृषितो नैव जायते । अनातिथ्यञ्च दुःखित्वं
दुर्मनो न कदाचन । निर्धनत्वमसभ्यत्वं विद्यायुक्तस्य
कर्हिचित् । अस्थानित्वमभाग्यत्वं न सुशीलस्य कर्हि-
चित् । वदन्ति कवयः केचित् कृष्यादीनां विशुद्धये ।
लाभस्यांशप्रदानञ्च सर्वेषां शुद्धिकृद्भवेत् । प्रतिग्रहचतु-
र्थांशं बणिग्लाभं तृतीयकम् । कृषितो विंशतिञ्चैव ददतो
नास्ति पातकम् । राज्ञो दत्त्वा च षड्भागं देवतानां
च विंशकम् । त्रयस्त्रिंशञ्च विप्राणां कृषिकर्मा न
लिप्यते । कृष्या समुत्पाद्य य{??}दिकानि घान्यानि
भूयांसि, मखं विधाय । मुक्तो गृहस्थोऽपि पराशरेण
तस्यामयः कश्चिदवादि दोषः । देवा मनुष्याः
पितरश्च सर्वे साध्याश्चयक्षाश्च सकिन्नराश्च । गावो द्विजे-
न्द्राः सह सर्वसत्वैः कृषां न तृप्तानि मनाग् दुरेति ।
यश्चैतदालोच्य कृषिं विदध्यात् लिप्येत पापैर्न स भूभवैश्च ।
सीरेण तस्यापि विदारितापि स्याद्भूतधात्री वरदानदात्री ।
षट् कर्माणि कृषिं ये तु कुर्युर्ज्ञानविधिं द्विजाः । ते
सुरादिवरप्राप्ताः स्वर्गलोकमवाप्नुयुः । षट्कर्मभिः कृषिः
प्रोक्तो द्विजानां गृहमेधिनाम्” ।
कृषिकार्म्मारम्भमुहूर्त्तादि मु० चि० पी० धा० दर्शितं यथा
“मूलद्वीशमघाचरध्रुवमृदुक्षिप्रैर्विनार्कं शनिं पापैर्हीन
बलैर्विधौ जलगृहे शुक्रे विधौ मांसले । लग्ने देवगुरौ-
हलप्रवहणं शस्तं न सिंहे घटे कर्काजैणधटे तनौ क्षय-
पृष्ठ २२०६
करं रिक्तासु षष्ट्यान्तथा । एतेषु श्रुतिवारुणादितिविशा
खोडूनि भौमं विना बीजोप्तिर्गदिता शुभा त्वगुभतोऽष्टा-
ग्नीन्दुरामेन्दवः । रामेन्द्वग्नियुग न्यसच्छुभकराण्यु-
प्तौ हलेऽर्कोज्झिताद्भाद्रामाष्टनवाष्टभानि मुनिभिः
प्रोक्तान्यसत्सन्ति च” मू०
“मूलविशाखामघाभिः चरध्रुवमृदुक्षिप्रैश्च एकोनविं-
शतिनक्षत्रैर्हलप्रवहणं हलप्रवृत्तिं कुर्यात् यदाह
नारदः “मृदुध्रुवक्षिप्रचरविशाखापितृभेषु च ।
हलप्रवाहं प्रथमं विदध्यान्मूलभे वृषैः” । विशेषमाह
श्रीपतिः “मृदुध्रुवक्षिप्रचरेषु मूले मघाविशाखासहितेषु
भेषु । हलप्रवाहं प्रथमं विदध्यान्नीरोगमुष्कान्वित
सौरभेयैः” । नीरोगाः षीडारहिता मुष्का वृषणा-
स्तैरन्विता ये सौरभेया वृषास्तैर्विदध्यादित्यर्थः ।
उक्तञ्चैतत् वृषाणां वृषणास्तु फलरूपा अतस्तादृ-
शैर्वृषैः कृतं कर्षणं सफलं स्यात् चूर्णितवृषणै-
र्वृषैः कृतं कर्षणं निष्फलमेव भवति । तथाऽर्कं सूर्य-
वारं शनिवारं विना त्यक्त्वान्यवारेषु चन्द्रमङ्गलबुध
वृहस्पतिशुक्रवारेषु हलप्रवहणं शुभम् । उक्तञ्च
व्यवहारतत्त्वे “पूर्वाद्वीशयमाग्निभेऽर्कयमयोरिक्तासु
नेष्टा कृषिरिति” । अथ सामान्यतोलग्नशुद्धिः
तत्र पापग्रहैर्हीनबलैर्निर्बलैरुपलक्षिते लग्ने विधौ
चन्द्रे शुक्रे मांसले बलिनि पुष्टे उदित इत्यर्थः । तत्र
विधौ चन्द्रे जलगृहे जलराशिस्थे सति देवगुरौ लग्न-
स्थे च सति हलप्रवहणं शुभम् । उक्तञ्च रक्तमाला-
याम् “शक्तिशालिनि सितेऽथ शीतगौ दुर्बलैरसि-
तभौमभास्करैः । आश्रिते शशिनि वारिभोदये लग्न-
वर्त्तिनि गुरौ कृषिक्रिया” । कश्यपोऽपि “गुरौ लग्नगते
शुक्रे बलिन्यापोदये विधौ । शस्ता कृषिक्रिया तत्र दुर्बलैः
क्रूरखेचरैः” । अथ विशेषतो लग्नशुद्धिः तत्र सिंहे
धटे कुम्भे कर्के अजे मेषे एणे मकरे धटे तुलायाम्
एषु लग्नेषु कृषिकर्म्म न शस्तं यतस्तत्क्षयकरं पीडाकरं
तथा रिक्तासु चतुर्थीनवमीचतुर्दशीषु षष्ठ्याञ्च क्षयकरं
तथाशब्दोऽनुक्तसमुच्चयार्थस्तेनाष्टम्यामपि न शस्तं
कृषिकर्म्म । उक्तञ्च ज्योतिःसारसागरे “मेषलग्ने
पशून् हन्ति कर्कटे जलजन्भयम् । सिंहे सस्यभयं ज्ञेयं
तुलायां हलसंक्षयः । मकरे सस्यनाशः स्यात्कुम्भे
चौरभयन्तथा । हन्त्यष्टमी बलीवर्दान् नवमी सस्यघातिनी ।
षष्ठी च कीटजननी पशून् हन्ति चतुर्दशी” । चतुर्थ्याम-
पीदं फलं ध्येयम् । अथ वीजोप्तिमुहूर्त्तफणिचक्र-
हलचक्राणि शार्दूलविक्रीडितेनाह एतेष्विति ।
श्रुतिः श्रवणः बारुणं शततारका अदितिः पुनर्वसुः
विशाखा प्रसिद्धा एतैरुडुभिर्नक्षत्रैर्विनैतेषु पूर्वोक्तन-
नक्षत्रेषु मूलमवाध्रुवमृदुक्षिप्रधनिष्ठास्वातीषु पञ्चदश-
नक्षत्रेषु बीजोप्तिर्वीजवपनं शुभम् । उक्तं च रत्न-
मालायाम् “हस्ताश्विपुष्योत्तररोहिणीषु चित्रानु
राधामृगरेवतीषु । स्वातीधनिष्ठासु मघासु मूले वीजो-
प्तिरुत्कृष्टफला प्रदिष्टा” । वसिष्ठेनाप्येतावन्त्येव नक्ष-
त्राण्युक्तानि “धातृव्वये कौणपपैत्रपुष्ये हस्तत्रये त्र्यु-
त्तरमैत्रभेषु । पौष्णे धनिष्ठास्वथ वाश्विनीषु वीजोप्ति-
रुत्कृष्टफलप्रदा स्यादिति” । कौणपोमूलम् नारदेनाप्यु-
क्तानि “मृदुध्रुवक्षिप्रभेषु पितृवायुवसूडुषु । समूलभेषु
बीजोप्तिरत्युत्कृष्टफलप्रदा” । कश्यपेनापि वसुवायुभनै-
रृत्यक्षिप्रध्रुवमृदूडुषु । सीतां स्मृत्वाथ वीजोप्तिरत्युत्-
कृष्टफलप्रदा” । अत्र मवा नोक्ता अत्र भौमोमङ्गल-
वारोनिषिद्धः अर्थात् सूर्यचन्द्रवुधगुरुशुक्रशनीनां वारेषु
बीजोप्तिःशुभा । नेष्टा कृषिरित्यती नकारोऽत्रानुवर्त्तते
तेन बीजोप्तिर्नेष्टेत्यर्थः । अत्र कालविशेषनिषेधोराज
मार्त्तण्डे “रवौ रौद्राद्यपादस्थेभूमेः संजायत रजः ।
तस्माद्दिनत्रय तत्र वीजवापं परित्यजेदिति । अथ
वीजीप्तौ फणिचक्रमुच्यते । अगुभतो न विद्यन्ते गावः
किरणायस्यासावगुः यस्य स्वरूपाभावः । तस्य कुतस्तरां
किरणाः तादृशोऽगूराहुस्तस्यभं नक्षत्र तस्मादित्यर्थः
राह्वधिष्ठितनक्षत्रादष्टौ भानि असन्त्यसमीचीनानि, ततस्त्री-
णि शुभानि, तत एकमशुभं ततस्त्रीणि शुभानि ततोप्ये-
कमशुभं ततस्त्रीणि शुभानि ततोऽप्येकमशुभं ततस्त्रीणि
शुभानि ततश्चत्वार्यशुभानि । एवं वीजोप्तौ सप्तविंशति
नक्षत्राणां शुभाशुभत्वभुक्तं उक्तञ्च नारदेन भवेद्भत्रि-
तयं मूर्ध्निधान्यनाशाय राहुभात् । गले त्रयं कज्ज-
लाय वृद्धये द्वादशोदरे । निस्तण्डुलत्वं लाङ्गूले
भचतुष्टयमीरितम् । नाशोबहिःपञ्चके स्याद्बीजोप्ताविति
चिन्तयेदिति” । राहुर्यस्मिन्नृक्षेऽस्ति तस्मान्नक्षत्रत्रयं मूर्ध्नि-
मस्तके स्थाप्यं धान्यनाशकरं भवति । ततस्त्रयं गले स्थाप्यं
कज्जलाय श्यामिकासम्पादकंस्यात् । ततो द्वादश भानि
बहिर्नक्षत्ररहितानि उदरे स्थाप्यानि तानि धान्यवृद्धये स्युः
ततो नक्षत्रचतुष्टयं पुच्छे निस्तन्दुलत्वकरं स्यात् ततोऽ
वशिष्टं बहिर्नक्षत्रपञ्चकं धान्यनाशकरं स्यात् । रत्न-
पृष्ठ २२०७
मालायाभपि “मूर्ध्नि त्रीणि गले त्रयञ्च ऊठरे धिष्ण्यनि
च द्वादश स्यात्पुच्छे च चतुष्टयं बहिरतोभानां स्थितं
पञ्चकम् । क्ष्वेडं कज्जलमन्नवृद्धिरधिका निस्तण्डुलत्वं
क्रमात् स्यादीतिप्रभवं भयञ्च फणिभाद्वीजोप्तिकाले स्फुटम्” ।
अत्रकेचित् । फणिभात् सूर्यनक्षत्रादितिव्याचख्युस्तत्र
युक्तिः “सूर्यभादुरगःस्थाप्यः” इति स्वरोदयवाक्यैक वाक्य-
त्वात्, तन्न नारदवाक्ये साक्षाद्राहुभादित्युक्तत्वात्
“राहोर्धिष्ण्यात्समारभ्य धिष्ण्येष्वष्टसु निष्फलमिति” कश्य-
पोक्तेश्च । “सूर्यभादुरगः स्याप्यः” इति तु स्वरोदयवचनं
वीजरोपणविषयम् । तत्र लग्नशुद्धिमाह वसिष्ठः “भवरिपु-
सहजे पापैस्त्रिकोणकेन्द्रस्थितैश्च शुभैः । कथितेषु च धिष्ण्ये
ष्वपि शुभलग्ने वीजवापनं कार्यमिति” अथ हलप्रवहणे
चक्रमुच्यते हलेइति हले हलचक्रेऽर्कोज्झितात्सूर्यभुक्ता-
न्नक्षत्रात्क्रमेण त्रीणि नक्षत्राणि असन्ति अशुभफलानि ।
ततोऽष्ट भानि सन्ति शुभफलदानि ततो नव भान्यसन्ति
ततोऽष्टौ भानि सन्ति यथा सूर्य अर्द्रायां भुक्तभं
मृगः तत आरभ्य त्रीणि मृगार्द्रापुनर्वसुभान्यशुभानि ।
ततः पुष्पाश्लेषामघापूर्वफाग्लुनीहस्तचित्रास्वातीन-
क्षत्राणि शुभानि । ततो विशाखानुराधाज्येष्ठामूल
पूर्वाषाढोत्तरषाढाभिजिच्छवणधनिष्ठानक्षत्राणि
अशुभानि । ततः शततारकापूर्वभाद्रपदोत्तरभाद्रपदारे-
वत्यश्विनीभरणीकृत्तिकारोहिणीनक्षत्राणि शुभानि ।
एवमष्टाविंशतिर्भानि भवन्ति यदाह वसिष्ठः “अकग-
तागतसंस्थभत्रितयं नेष्टमुभयतस्त्विष्टम् । षोडश धिष्ण्य
नवकं शिष्टमनिष्टं च लाङ्गले चक्रे” इति । अर्केण गतं
भुक्तम् आगरं भीग्यं सस्थमाक्रान्तम् एतद्भत्रितयं नेष्टं तत्त
उभयतःषोडशधिष्ण्यं इष्टं यथा सूर्यभुक्तभात् प्राक्तनान्य-
ष्टौ शभानि सूर्यभोग्यभादग्रेतनानि शुभानि स्युरि-
त्यर्थः । शिष्टमुर्वरितं मध्यगतनक्षत्रनवकमनिष्टम् एव
मत्राप्यष्टाविंशतिर्भानि । नारदोऽपि “हलादौ वृषना
शाय भत्रयं सूर्यभुक्तभात् अग्रे ऋक्षत्रयं लक्ष्मौ सौख्य”
पार्श्वस्थपञ्चकम् । शूलत्रयेऽपि नवकं मरणायान्यपञ्चकम् ।
श्रियै पुच्छे त्रयं श्रेष्ठंस्याच्चक्रे लाङ्गले शुभम्” इति ।
अम्यार्थः हलप्रवहणसमये सूर्यमुक्तनक्षत्रान्नक्षत्रत्रयं
वृषनाशाय स्यात् । तदग्रे नक्षत्रयं लक्ष्म्यै स्यात् तदग्रे
पार्श्वनक्षत्रपञ्चकं सौख्याय स्यात् तदग्रे शूलत्रयगतं
नक्षत्रनवकं मरणाय स्यात् तदग्रेऽन्यत् पार्श्वस्थपञ्चकं
श्रियै स्यात् तदग्रे पुच्छगतं नक्षत्रत्रयं श्रेष्ठं शुभफल-
मिति । अनेनापि प्रकारेण मृगादीनि तान्येवाशुभा-
शुभानिं सम्भवन्ति । तत्र हलचक्राकृतिर्लिख्यते तत्र
कश्यपः “त्रिष्वष्टसु नवर्क्षेषृ सप्तस्वर्कविमुक्तभात् ।
हानिर्वृद्धिः कर्तृमृत्युर्लक्ष्मीश्चैव यथाक्रममिति,
हलनक्षत्रोक्त्यनन्तरमुक्तवान् अस्यायमर्थः अर्कविमुक्तभा-
त्त्रिषु भेषु हानिः ततोऽष्टसु भेषु वृद्धिः ततोनवसु भेषु
कर्त्तुर्नाशः, ततः सप्तसु भेषु लक्ष्मीप्राप्तिरिति यथाक्रमं
फलं ज्ञेयम् । अत्र सप्तविंशतिनक्षत्रोक्तेरभिजिद्गणना-
नास्ति । नन्वत्र पञ्चनक्षत्रत्यागे कोहेतुरित्यत आह
तदन्तरगत इति तच्छब्देन हलोर्ध्वदण्डशूलोर्द्ध्वद-
ण्डावुच्येते तयोरन्तरगते मध्ये विद्यमाने पञ्चकपञ्चके
श्रियै स्थाप्ये नक्षत्रदशकमिति यावत् तच्चान्यद्भत्रितयं
हलदण्डोर्ध्वभागे शुभफलदं लेख्यम्” पी० धा०
अत्र विशेषः ज्यो० त० तत्र
कूर्म्मचक्रशब्दे दर्शितात् ज्यो० त० वाक्यात् परग्रन्थो यथा
“कूर्म्माङ्गस्थदेशानाह । “मध्ये सारस्वतामत्स्याः
शूरसेनाः समाथुराः । पञ्चालशाल्वमाण्डव्यकुरुक्षेत्रगजाह्व-
याः । मरुनैमिषबिन्ध्याद्रिपाण्ड्यघोषाः सयामुनाः ।
काश्ययोध्या प्रयागश्च गयावैदेहकादयः । पाच्यां मागधशोणौ
च वारेन्द्रोगौड़राढ़काः । वर्द्धमानतमोलिप्तप्राग्ज्योति-
षोदयाद्रयः । आग्नेय्यामङ्गवङ्गोपवङ्गत्रैपुरकोशलाः ।
कलिङ्गोड्रान्ध्रकिष्किन्धाविदर्भशवरादयः । दक्षिणेऽवन्ति-
माहेन्द्रमलया ऋष्यमूककाः । चित्रकूटमहारण्यकाञ्ची-
सिंहलकोङ्कणाः । कावेरी ताम्रपर्णी च लङ्कात्रिकूटका-
दयः । नैरृते द्रविडानर्त्तमहाराष्ट्राश्च रैवतः । जवनः
पह्लवः सिन्धुः पारसिकादयो मताः । पश्चिमे हैहया-
स्ताद्रिम्लेच्छवासशकादयः । वायव्ये गुज्जराटश्च नाटजा-
लन्धरादयः । उत्तरे चीननेपालहूनकैकेयनन्दराः ।
गान्धारहिमवत्क्रौञ्चगन्धमादनमालवाः । कैलासमद्रका-
श्मीरम्लेच्छदेशाः खसादयः । ईशाने स्वर्णभौमश्च
गङ्गाद्वारञ्च टङ्कनः । काश्मीरब्रह्मपुरककिरातादरदा-
दयः” । देवलः । “सिन्धुसौवीरसौराष्ट्रास्तथा प्रत्य-
न्तवासिनः । अङ्गवङ्गकलिङ्गोड्नान् गत्वा संस्कार-
मर्हति” तीर्थयात्राव्यतिकेणेति द्रष्टव्यमिति मिता-
क्षरा । व्यासः “उषरा बहुला भूभिः पन्थानस्तस्करा-
हताः । सर्वे बाणिजिकाश्चैव भविष्यन्ति कलौ युगे ।
शस्यानिष्पत्तिरफला तरुणा वृद्धिशालिनः । भविष्यत्य-
फलोहर्षः क्रोधश्च सफलोनृणाम् । पुरुषाल्पं वहुस्त्रीकां
पृष्ठ २२०८
तद्युगान्तस्य लक्षणम्” । तत्र ग्रामादिषु स्वनामफलम् ।
ज्योतिषे “अवर्गेऽष्टाविषुः के च, षट् चे, वेदाः टवर्गके ।
एवं ते सप्त, पे वर्गे, ये द्वयं, शे च वह्नयः । इत्थमष्टसु
वर्गेषु याः संख्याः कथिताः क्रमात् । नाम्नि वर्गात्
स्वराच्चैव प्रत्येकं तां प्रकल्पयेत् । एकीकृत्याष्टभिर्भक्ते
शेषसंख्याध्वजादयः । ध्वजोधूम्रश्च सिंहः श्वा वृषभोरासभो-
गजः । ध्वाङ्क्षश्च क्रमतो ज्ञेयः फलं तत्र बलक्रमात् ।
ध्वाङ्क्षश्वधूम्रवृषभागजः सिंहोध्वजः खरः । यथोत्तर-
बला एते ज्ञातव्याः स्वरपारगैः । प्रभौ योधे पुरे देशे
मित्रनारीगृहेषु च । बलात् प्रायोभवेल्लाभो न लाभो-
बलवर्ज्जितात् । अ गरुड़ः क मार्जारश्च सिंहः ट शुनी-
सुतः । त भुजङ्गः प आखुः स्यात् य वर्गेभः, श मेषकः ।
नामादिवर्णतोज्ञेया अष्टौ वर्गाः क्रमादमी । यद्वर्गभक्ष्यो
यः प्रोक्तस्तस्मात्तस्य भवेत् क्षयः । ग्रामवर्गस्य ये भक्ष्या-
स्त्यज्यास्तद्ग्रामवासिनः । एवं दुर्गे रणे त्यज्या न
कर्त्तव्या गड़ाधिपाः । अवर्गाद्यष्टकं ज्ञेयं प्रागाद्यष्ट-
देशां क्रमात् । स्ववर्मात् पञ्चमे स्थाने खण्डिर्भङ्गश्च
जायते” । व्यासः “धनिनः श्रोत्रियोराजा नदी
वैद्यश्च पञ्चमः । पञ्च यत्र न विद्यन्ते तत्र न दिवसं
वसेत्” । मत्स्यपुराणे “फालकृष्टे तथा देशे सर्ववी-
जानि रोपयेत् । त्रिपञ्चसप्तरात्रेण यत्र रोहन्ति तान्य
पि । ज्येष्ठा मध्या कनिष्ठा भूर्वर्ज्जनीयेतरा मता”!
अथ लाङ्गलचक्रं स्वरोदये “लाङ्गलं दण्डिकायूपं
योक्त्रद्वयसमन्वितम् । दण्डिकादि लखेद्भानि दिनेशाक्रान्त-
भादितः । दण्डिकाहलयूपानां द्विद्विस्थाने त्रिकं त्रिकम् ।
योक्त्रयोश्च त्रिकञ्चैव मध्ये मञ्चाप्रके द्वयम् । दण्डस्थे
च गवां हानिर्यूपस्थे स्वामिनोभयम् । लक्ष्मीर्लाङ्गल-
योक्त्रादौ क्षेत्रारम्भदिनर्क्षके” ।
अथ वीजोप्तिचक्रम् । “सूर्य्यभादुरगः स्थाप्यस्त्रिनाड्ये-
कान्तरक्रमात् । मुखे त्रीणि गले त्रीणि भानि द्वादश-
तूदरे । पुच्छे चतुर्बहिः पञ्च दिनभाच्च फलं वदेत् ।
वदने चोचकं विद्यात् गलकेऽङ्गारकस्तथा । उदरे धान्य-
वृद्धिः स्यात् पुच्छे धान्यक्षयो भवेत् । ईतिरोगभयं
राज्ये चक्रे वीजोप्तिसम्भवे” । सूर्य्यभात् सूर्य्यभुज्य-
माननक्षत्रात् त्रिनाड्येकान्तरक्रमादिति यद्यश्विन्यां
रविस्तदा तामारभ्य गणयेत् । त्रिनाडीषु अश्विनीभ-
रणीकृत्तिका दत्त्वा रोहिणी बहिः कार्य्या मृगार्द्रा-
पुनर्व्वसुमानि त्रिनाडीषु दत्त्वा पुष्योवहिः कार्य्यः एवं
क्रमेणान्या लेख्याः । चोचकं शस्यशून्यताम् । ईतयः ।
“अतिवृष्टिरनावृष्टिः शलभा मूषिकाः खगाः । प्रत्या-
सन्नाश्च राजानः षडेते ईतयः स्मृताः” वीजोप्तिः सम्भवः
कारणमस्येति व्युत्पत्तिभाश्रित्य वीजरोपविषयमिति
पी० वा० स्थितम् ।
“वृषचक्रं वृषाकारं सर्व्वावयवसंयुतम् । लिखित्वा
विन्यमेद्भानि वृषनामर्क्षपूर्व्वकम् । मुखाक्षिकर्णशीर्षेपु
शृङ्गे स्कन्धे द्विकं द्विकम् । त्रीणि पृष्ठे द्वयं पुच्छेऽष्टौ-
पादे तूदरे त्रिकम् । हलप्रवाहवीजोप्तिप्रारम्भादिदिन
र्क्षकम् । यदङ्गेषु स्थितं तस्माद्वक्ष्ये सर्व्वं शुभाशुभम् ।
आस्ये हानिः सुखं नेत्रे कर्णे भिक्षाटनं तथा । शीर्षे
धृतिस्तथा शृङ्गे सौख्ये स्कन्धे च मङ्गलम् । पृष्ठे कष्टं
शुभं पुच्छे भ्रमः पादे सुखं हृदि । चन्द्रयोगादिदं प्रोक्तं
वृषचक्रफलं बुधैः” ।
दीपिकायाम् “पूर्व्वाग्नियाम्यफणिपित्रशिवान्यभेषु
विक्ताष्टमीविगतचन्द्रतिथिं विहाय । द्व्यङ्गालिगोसमुदये
विकुजार्किवारे शस्तेन्दुयोगकरणेषु हलप्रवाहः । हलप्र-
बाहवद्वीजपनस्य विधिः स्मृतः । चित्रायाञ्च शुभे केन्द्रे
स्थिरस्वमनुजोदये” । भीमपराक्रमे “वामे कृष्णं
वलीवर्द्दं दक्षिणे लोहितं न्यसेत् । उत्तराभिमुखोभूत्वा
कर्षकः कृषिमारभेत् । हले तु योजिते यत्र क्षेत्रे ग्रामं
करोति गौः । तत्र स्याद्द्विगुणं शस्यमवश्यं गर्गभाषित-
म्” । कृत्यचिन्तामणौ बलभद्रः “सुखदा प्रतिपच्चैव द्वितीया
कार्य्यसाधिनी । आरोग्यदा तृतीया च चतुर्थीकोट-
कृत्सदा । पञ्चमी श्रीप्रदा नूनं षष्ठी च कलहप्रिया ।
सप्तमी स्थानदा भोग्या वृषं हन्ति तथाष्टमी । नवमी
शस्यनाशाय् दशमी भूनिदा सदा । एकादशी तथा
कुर्य्याद्धनं धान्यं मनोरथम् । द्वादशी प्राणसन्देहा
सर्वसिद्धा त्रयोदशी । चतुर्द्दशी पतिं हन्ति पञ्च
दश्येव निष्फला । अमावास्याष्टमीं षष्ठीं रिक्तां च
परिवर्जयेत् । सौरिभौमदिने चैव कृष्यारम्भे धनक्षयः ।
प्राजेशविष्णुतिष्येषु पित्रकरोत्तरेषु च । अश्विनी-
वातपौष्णेषु मूलादितीन्दुभे तथा । वारे भानुजशुक्रे
च जीवे शीतकरे तथा । लग्ने स्त्रीगोमीन-
युग्मे च कृष्यारम्भं शुभं विदुः । ऐशान्य
पुष्पनैवेद्यैः क्षेत्रपालञ्च पूजयेत् । सालङ्कारोहलधर
स्रग्भिश्च पूजितं हलम् । दध्याज्यमधुभिः श्रेष्ठं
फालाग्रञ्च प्रलेपितम् । कर्षं प्रावर्त्तयेत् प्राज्ञोनूतनेन ह-
पृष्ठ २२०९
लेन च । हस्ताश्वितिष्यचन्द्रेषु ब्रह्मेन्द्रविष्णुवारुणे ।
वायव्येन्द्राग्निभे चैव रोहिण्यामुत्तरासु च । वारे
जीवज्ञशुक्रे च सोमे दिनकरे तथा । युग्मे युवतिगो-
भीने शस्तं स्याद्वीजवापनम्” । राजमार्त्तण्डे
“प्राजेशश्रवणोत्तरादितिमघामार्त्तण्डतिष्याश्विनीपौष्णा-
नुष्णमरीचयः शतभिषास्वातिर्विशाखा तथा । जीवा-
र्केन्दुसितेन्दुनन्दनदिने वारे स्थिरस्योदये शस्यानां वपने
भवन्ति लवने शस्ते तिथौ रोपणे” । देवलः ‘गुरु-
सोमसूर्य्यशुक्राःक्षेम्याः सम्पत्कराः शुभाः । बुधार्कि-
भूमिपुत्त्राश्च न भवन्ति फलप्रदाः । हन्ति मेषः पशून्
सर्व्वान् स्वभावेनाथ वृश्चिकः । कर्कटे न भवेत् सौख्यं
तुलायां न प्ररोहति । केशरी शस्यघाती स्यात् पार्थि-
वोपद्रवं धनुः । मकरे चैव कुम्भे च भयमेव विनिर्द्दि-
शेत् । गोस्त्रीमन्मथमीनेषु शस्यं सम्पद्यते महत् ।
प्रशस्ते चन्द्रतारे च शुचिः शुक्लेन वाससा । स्नात्वा
गन्धैश्च पुष्पैश्च पूजयित्वा विधानतः । पृथ्वीञ्च ग्रहसंयुक्तां
पूजयित्वा प्रजापतिम् । अग्निं प्रदक्षिणीकृत्य दीयते
भूरिदक्षिणा । कृष्णौ वृषौ नियोक्तव्यौ नवनीतैर्घृतेन
वा । मुखपार्श्वं तयोर्लिप्यात् फालाग्रं कनकैः स्पृशेत् ।
उत्तराभिमुखोभूत्वा क्षीरेणार्घ्यं प्रदापयेत् । ततः
शुभकरः श्रीमान् कृषिकर्म्म समाचरेत् । वर्जयेद्भग्नशृङ्गञ्च
क्षुरभग्नञ्च वर्जयेत् । विकलं छिन्नलाङ्गूलं कपिलं वृषभं
तथा । हलप्रवाहणं कार्य्यं नीरुग्भिः कृषिकर्म्मकैः ।
हलादिभिर्दृढैः क्षेमं कुदृढैर्न शुभं वदेत् । वृषभायदि
मुह्यन्ति तस्य विघ्नप्रदा भवेत्” । कृषिरिति शेषः । “तस्मात्
सर्व्वप्रयत्नेन निर्व्विघ्नं कारयेत् सदा । एका जयकरी
रेखा तृतीया चार्थदायिका । पञ्चमी या भवेद्रेखा
बहुशस्यफला हि सा । अतऊर्द्ध्वं न कर्त्तव्यं
महादोषस्ततोभवेत् । संपूज्याग्निं द्विजं देवं कुर्य्याद्धलप्रव-
र्त्तनम् । हेमनिघृष्टं फालाग्रं छिन्नरेखां न कारयेत् ।
स्मर्त्तव्या वसवश्चेन्द्रः पृथ्रामः सचन्द्रमाः । पराशरो-
बलभद्रः सर्वविघ्नप्रशान्तथे । हले प्रावाह्यमाणे । तु
कूर्म्मौत्पद्यते यदि । गृहिणी म्रियते तस्य ततोऽग्नेश्च
भयं भवेत् । लाङ्गलं भिद्यते चापि प्रभुस्तत्र
विनश्यति । ईशाभङ्गीयदा कर्त्तुः संशयोजीवितस्य च ।
सुतनाशोयुगाभङ्गे समीने म्रियते सुतः” । समीने
योक्त्रबन्धनकाष्ठद्वये । “योत्त्नाच्छेदे तु व्यासङ्गः शस्यहानिश्च
जायते । हले प्रवाह्यमाणे तु गौरेकः प्रपतेद्यदि ।
प्रपतेन्मुक्तमात्रस्तु बन्धनं स प्रपद्यते । ज्वरातिसार-
रोगेण कृषिभङ्गं विनिर्दिशेत् । प्रवाहमुक्तमात्रस्तु
ततोगौः प्रपतेत् यदि । वत्सानीढ़ेन नर्देत्तु तदा शस्यं
चतुर्गुणम् । हेमवारिविलिप्तस्य वीजस्योन्नयतः शुचिः ।
इन्द्रं चित्ते निधायाथ स्वय मुष्टित्रयं वपेत् । कृत्वा-
चान्योन्यप्रोत्साहं कर्षकोहृष्टमानसः । प्राङ्मुखः
कलसं गृह्य इमं मन्त्रमुदीरयेत् । त्वं वै वसुन्धरे सीते!
बहुपुष्पफलप्रदे! । नमस्ते मे शुभं नित्यं कृषिं मेधां-
शुभे! कुरु । रोहन्तु सर्वशस्यानि काले देवः प्रवर्षतु ।
कर्षकास्तु भवन्त्यग्र्या धान्येन च धनेन च स्वाहा” ।
कृत्यरत्नाकरे ब्रह्मपुराणम् “चैत्रे च कृष्णपञ्चम्यां
काश्मीरा च रजस्वला । नित्यं भवति तस्मात्तां कृत्वा
शैलमयीं स्त्रियम् । अभ्यङ्गवस्त्रनैवेद्यैः पूजयेच्च
दिनत्रयम् । पुष्पाकङ्कारधूपैश्च गोरसं वर्जयन्ति च” ।
काश्मीरा पृथ्वी । “अष्टम्याञ्च ततः स्नाप्य ताभिरेव गृहे-
गृहे । सुस्नाताभिः प्रहृष्टाभिर्जीवपत्नीभिरेव च ।
अनन्तरं द्विजैः स्नाप्य सर्वौषधियुतैर्जलैः । गन्धैर्वीजै-
स्तथा रत्नै फलैः सिद्धार्थकैस्तथा । स्नापयित्वा च तां
देवीं गन्धैर्माल्यैश्च पूजयेत् । तन्निवेदितशिष्टन्तु प्राशितव्यं
गृहे गृहे । अतःपरं स्नाता गर्भं गृह्णाति ऋतुमेदिनी” ।
तथा “ब्रह्मा विष्णुश्च रुद्रश्च काश्यपः सुरभी गृहे ।
इन्द्रः प्रचेताः पर्जन्यः शेषचन्द्रार्कवह्नयः । वलदेवो
हलं भूमिर्वृषभो रामलक्ष्मणौ । रक्षोघ्नौ, जानकी
सीता युगं गगनमेव च” सीता लाङ्गलपद्धतिः ।
युगं युगकाष्ठम् । “एते द्वाविंशतिः प्रोक्ता प्रजानां
पतयः शुभाः । गोमङ्गले तु संपूज्याः कृष्यारम्भे
महोत्सवे । अर्घ्येः पुष्पैश्च धूपैश्च माल्यै रत्नेः
पृथक्पृथक् । हलेन वाहयेद्भूमिं स्वयं स्नातः स्वल-
ङ्कृतः” । तथा । “उत्प्वा वौजन्तु तत्रैव भोक्तव्यं
वान्धवैः सह” । वीजवपनं प्राजापत्यतीर्थेन यथाह
हारीतः “कनिष्ठायाः पश्चात् प्राजापत्यमावपनं
होमतर्पणे प्राजापत्येन कुर्य्यात्” इति । होमतर्पणे
लाजहोमसनकादितर्पणे । राजमार्त्तण्डे पराशरः “नित्यं
दशहले लक्ष्मीर्नित्यं पञ्चहले धनम् । नित्यञ्च त्रिहले
भक्तं नित्यमेकहले ऋणम्” । “वैशाखे वपनं श्रेष्ठं
मध्यमं रोहिणीरवौ । अतःपरस्मिन्नधमं न जातु श्रा-
वणे शुभम्” । ज्योतिषे “पूर्वभाद्रपदा मूलं रोहि-
ण्युत्तरफल्गुनी । विशाखा शतभिषा वा घा
पृष्ठ २२१०
न्यानां रोपणे वरा । सदोप्त्वा रजनीं नीलीं पुत्र-
वित्तैर्वियुज्यते । स्वयं जाते पुनस्ते द्वे पालयन्नैव
दुष्यति । आरामे गृहमव्ये वा मोहात् सर्षपमावपत् ।
पराभवं रिपोर्याति ससाधनधनक्षयम् । निशा नीली
पलाशश्च चिञ्चा श्वेतापराजिता । कोविदारश्च सर्वत्र
सर्वं निघ्नन्ति मङ्गलम्” । निशा हरिद्रा । कोविदा-
रकोरक्तकाञ्चनः । “हेमाम्भसा वृक्षवीजं स्नातोम-
न्त्रेण रोपयेत् । वसुधेति सुसीतेति पुण्यदेति धरेति
च । नमस्ते शुभगे! नित्यं द्रुमोऽयं वर्द्धतामिति ।
अरिष्टाशोकपुन्नागबकुलाम्रप्रियङ्गवः । माङ्गल्याः पूर्ब-
मारामे रोपणीया गृहेषु च । अश्वत्थमेकं पिचुमर्दमेकं
द्वौ चम्पको त्रीण्यथ केशराणि । तालाष्टकं श्रीफलस-
प्तकञ्च पञ्चाम्रवापी नरकं न पश्येत्” । दानरत्नाकरे
देवीपुराणम् “ये च पापा दुराचाराः श्रीतरुच्छेदका-
रिणः । तेऽप्यवीच्यादिनरके पच्यन्ते ब्रह्मणोदिनम् ।
मृतास्ते जीव्यमानास्तु ब्रह्मघ्नाः कीर्त्तिता भुवि । तस्मिन्
देशे भयं नित्यं राजानोन चिरायुषः । नच नन्द-
त्ययं लोको यत्र श्रीफलभेदिनः । श्रीतरुर्विल्वः ।
“लिखित्वा लक्तकेनापि मन्त्रं शस्येषु बन्धयेत् । न व्या-
विकीटहिंस्राणां भयं तत्र भवेत् क्वचित् । “सिद्धिः
प्रचलतरङ्गतरलितमृदुतरसमीरणवनोद्देशे श्रीमद्रामभ-
द्रपादाः कुशलिनः समुद्रतटे नानाशतसहस्रवानराणां
मध्ये खरनखरपश्चार्द्धलाङ्गूलं पवनसुतं वायुवेगं
परचक्रप्रमथनं श्रीमद्धनूमन्तमाज्ञापयन्ति अमुकस्याखण्ड-
क्षेत्रे वाताभोम्भोगान्धीरुतीपाण्डरमुण्डीधूलीशृङ्गार-
तल्पाकृशराङ्गताफड़िङ्गैलावानरागरुड़ामड़कमहिषादि-
रोगम् खण्डयत क्षणमपि विलम्बं मा चरत यदि
विलम्बं कारयत तदा युष्मान्शतखण्डं कारयामीति ।
घ्रां घ्रीं घ्रों श्रीरामाय नमः” । इति शस्येषु बन्धयेत्”
“कृषेर्वृष्टिसमायोगात् दृश्यन्ते फलसिद्धयः” शु० त० पु० ।
वा ङीप् कृपीत्यप्यत्र । स्वार्थे क कृषिकाप्यत्र स्त्री ।
आधारे कि । भुवि २ । कृषिर्भूवाचकः शब्द” भा० ।
कृष्णशब्दे दृश्यम्

कृषिक पु० कृष--किकन् । फाले अम० कर्षके त्रि० ।

कृषिजीविन् त्रि० कृत्या जीवति जोव--णिनि । स्वयमखयं

वा कृतया कृषिवृत्त्या जीविनि स्त्रियां ङीप् ।

कृषिपराशर पु० कृषिकर्त्तव्यताविधायकपराशरमतानु-

मारिनिबन्धमेदे ।

कृषीवल त्रि० कृषिरस्त्यस्य वृत्तित्वेन वलच् दीर्घः । कर्षके

कृषिजीविनि । “कच्चित्तुष्टाः कृषीवलाः” भा० स० ५ अ०

कृष्कर पु० अव्युत्पन्नं प्रातिपदिकम् । शिवे त्रिकाण्डशेषः

कृष्ट त्रि० कृष--कर्म्मणि क्त । १ कृतकर्षणे क्षेत्रादौ “कृष्टजा-

नामोषधीनां जातानां च स्वयं वने” मनुः कृष्टपच्यः
भावे क्त । २ कर्षणे न० “न प्रदाप्यः कृष्टफलं क्षेत्रमन्येन
कारयेत्” या० । ततः दृढा० भावे इमनिच् ॠतोरः ।
क्रष्टिमन् कृष्टत्वे कर्षणे पु०

कृष्टपच्य त्रि० कृष्टे क्षेत्रे स्वयमेव पच्यते पच--कर्म्मकर्त्तरि

क्यप् । कृष्टक्षेत्रे--स्वयमेव पच्यमाने धान्यादौ “न कृष्ट-
पच्यमश्नीयादकृष्टञ्चाप्यकालतः” भाग० ७ । १२ । १७ ।
वानप्रस्थधर्म्मोक्तौ । शुद्धकर्स्पणितु ण्यदेव “कृष्टपाक्य
इति” सि० कौ०

कृष्टि पु० कृष--कर्त्तरि क्तिच् भावे क्तिन् वा । १ पण्डिते अमरः

२ जनमात्रे निरु० “मानुषीणामेकः कृष्टीनामभवत्
सहावा” ऋ० ६ । १८ । २ “विश्वानमत्त कृष्टयः” ऋ० ८ । ६ । ४ ॥
“कृष्टयः प्रजाः” भा० “कृष्टीनां विचर्षणिः” ऋ० ६ । ४५ । १६
३ कर्षणे स्त्री० त्रिका० ४ आकर्षणे च

कृष्टोप्त त्रि० कृष्टे क्षेत्रे उप्तः । कृतकर्षणक्षेत्रे--कृतवपने

ओषध्यादौ “घन्या ग्राम्याश्चेह तथा कृष्टोप्ताः पर्तताश्र-
याः । अकण्टकाः कण्टकिनो गन्धरूपरसान्विताः” भा०
आ० ९८ अ० ।

कृष्ण पु० कृष--नक् । भगवतोऽवतारभेदे वासुदेवे १ देवकी-

नन्दने । “कृषिर्भूवाचकः शब्दः णश्च निर्वृतिवाचकः ।
तयोरैक्यं परं ब्रह्म कृष्णैत्यभिधीयते” इत्युक्ते २ परब्र-
ह्मणि, ३ वेदव्यासे, ४ अर्ज्जुने मध्यमपाण्डवे च । कृष्ण-
वर्णत्वात् ५ कोकिले, विश्वः ६ काके, मेदि० करमर्द्दके
(करमचा) ७ वृक्षे, शब्दर० ८ नीले, वर्णे ९ तद्वति त्रि०
अमरः १० कालागुरुणि राजनि० । ११ अशुभकर्म्मणि च
न० । कृष्णकर्म्मा अमरः १२ द्रौपद्यां, १३ नीलीवृक्षे, १४
पिप्पल्यां, १५ द्राक्षायां, स्त्री मेदि० १६ नीलपुनर्नवायाम्,
१७ कृष्णजीरके, १८ गाम्मार्य्या १९ कटुकायाम्, २० सावि-
राभेदे २१ राजसर्षपे, राजनि० २२ पर्पट्यां, भावप्र० ।
२३ काकोल्यां, २४ सोमराज्याञ्च स्त्री टाप् जटा० कृष्णवर्ण-
त्वाच्च तासां तथात्वम् २५ धनमेदे न० कृष्णधनशब्दी विवृतिः ।
२६ नीलाञ्जने, २७ लौहे, २८ मरिचे च पु० जटाधरः ।
तत्र भगवदवतारविशेषः “अथ भाद्रपदे मासि कृष्णा-
ष्टम्यां कलौ युगे । अष्टाविंशतिमे जातः कृष्णोऽसौ देव-
पृष्ठ २२११
कीसुतः” ब्रह्मपु० । वसुदेवदेवक्यौ च कश्यपादिती । तौ
च वरुणस्य गोहरणात् ब्रह्मणः शापेन गोपालत्वमापतुः ।
यथाह हरिवं० ५६ अ०
“इत्यम्बुपतिना प्रोक्तो वरुणेनाहमच्युत! । गवां
कारणतत्त्वज्ञः कश्यपे शापमुत्सृजम् । येनांशेन हृता गावः
कश्यपेन महात्मना । स तेनांशेन जगतीं गत्वा गोपत्व-
मेष्यति । या च सा सुरभिर्नाम अदितिश्च सुरारणी ।
उभे ते तस्य वै भार्य्ये सह तेनैव यास्यतः । ताभ्यां
सह स गोपत्वे कश्यपो भुवि रंस्यते । तदस्य कश्यपस्यां-
शस्तेजसा कश्यपोपमः वसुदेव इति ख्यातो गोषु
तिष्ठति भूतले । गिरिर्गोवर्द्धनो नाम मथुरायास्त्वदूरतः ।
तत्रासौ गोष्वभिरतः कंसस्य करदायकः । तस्यभार्य्या-
द्वयञ्चैव अदितिः सुरभिस्तथा । देवकी रोहिणी चैव
वसुदेवस्य धीमतः । तत्रावतर लोकानां भवाय मधुसू-
दन! । जयाशीर्वचनैस्त्वेते वर्द्धयन्ति दिवौकसः ।
आत्मानमात्मना हि त्वमवतार्य्य महीतले । देवकीं
रोहिणीञ्चैव गर्भाभ्यां परितोषय । तत्रत्वं शिशुरेवादौ
गोपालकृतलक्षणः । वर्द्धयस्व महाबाहो! पुरा त्रैविक्रमे
यथा ॥ छादयित्वात्मनात्मानं मायया गोपरूपया ।
गोपकन्यासहस्राणि रमयंश्चर मेदिनीम् । गाश्च ते
रक्षिता विष्णो! वनानि परिधावतः । वनमालापरिक्षिप्तं
धन्या द्रक्ष्यन्ति ते वपुः । विष्णो! पद्मपलाशाक्ष! गोपाल-
वसतिङ्गते । बाले त्वयि महाबाहो । लोको बालत्व-
मेष्यति । त्वद्भक्ताः पुण्डरीकाक्ष! तव चित्तवशानुगाः ।
गोषु गोपा भविष्यन्ति सहायाः सततन्तव । वने
चारयतो गास्तु गोष्ठेषु परिधावतः । मज्जतो यमुनायान्तु
रतिमाप्स्यन्ति ते भृशम् । जीवितं वसुदेवस्य भविष्यति
सुजीवितम् । यस्त्वया तात इत्युक्तः स पुत्र इति वक्ष्य-
ति । अथ वा कस्यं पुत्रत्वं गच्छेथाः कश्यपादृते ।
का वा धारयितुं शक्ता विष्णो! त्वामदितिं विना ।
योगेनात्मसमुत्थेन गच्छत्व विजयाय वै” इति विष्णुं प्रति
ब्रह्मोक्तिः । ताभ्यां तस्योत्पत्तिकथा च तत्र ६० अ० यथा
“यदर्थं सप्त ते गर्भाः कंसेन विनिपातिताः । तन्तु गर्भं
प्रयत्नेन ररक्षुस्तस्य रक्षिणः । स तत्र गर्भवसतौ
वसत्यात्मेच्छया हरिः । समधत्त यशोदाऽपि गर्भं
तदहरेव तु । विष्णोः शरीरजां निद्रां विष्णोर्निर्द्देशकारि-
णीम् गर्भकाले त्वसंपूर्ण्णे अष्टमे मासि ते स्त्रियौ ।
देवकी च यशोदा च सुषुवाते समं तदा । यामेव र-
जनीं विष्णुर्ज्जज्ञे वृष्णिकुलं प्रभुः । तामेव रजनीं कन्या
यशोदातो व्यजायत । नन्दगोपस्य भार्य्यैका वसुदेवस्य
चापरा । तुल्यकालं हि गर्भिण्यौ यशोदा देवकी
तथा । देवक्यजनयद्विष्णुं यशोदा तान्तु कन्यकाम् ।
मुहूर्त्तेऽभिजिते प्राप्ते सार्द्धरात्रे विभूषिते । सागराः
समकम्पन्त चेलुश्च धरणीधराः । जज्वलुश्चाग्नयः शान्ता
जायमाने जनार्द्दने । शिवाः संप्रववुर्व्वाताः प्रशान्तम-
भवद्रजः । ज्योतींषि व्यत्यकाशन्त जायमाने जनार्द्दने ।
अभिजिन्नाम नक्षत्रं जयन्ती नाम शर्व्वरी । मुहूर्त्तो
विजयो नाम यत्र जातो जनार्द्दनः । अव्यक्तः शाश्वतः
कृष्णो हरिर्नारायणः प्रभुः । जायते भगवांस्तत्र
नयनैर्मोहयन् जगत्” । ततोऽनतिदूरे
“वसुदेवस्तु तं रात्रौ जातं पुत्त्रमधोक्षजम् । श्रीवत्स-
लक्षणं दृष्ट्वा युतं दिव्यैश्च लक्षणैः । उवाच वसुदेवस्तं
रूपं संहर वै प्रभो! । भीतोऽहं देव! कंसस्य तस्मादेवं
वदाम्यहम् । मम पुत्त्रा हतास्तेन तव ज्येष्ठाऽम्बुजे-
क्षण! । वैशम्पायन उपाच । वसुदेववचः श्रुत्वा रूपं
संहरदच्युतः । अनुज्ञाप्य पितृत्वेन नन्दगोपगृहं नय ।
वसुदेवस्तु संगृह्य दारकं क्षिप्रमेव च । यशोदाया गृहं
रात्रौ विवेश सुतवत्सलः । यशोदायास्त्वविज्ञातस्तत्र
निक्षिप्य दारकम् । गृहीत्वा दारिकां ताञ्च देवकीशयने
न्यसत् । परिवर्त्ते कृते ताभ्यां गर्भाभ्यां भयविक्लवः ।
वसुदेवः कृतार्थो वै निर्जगाम निवेशनात्” ।
यथा रूपेण तस्याविर्भावस्तथा रूपं भाग० १०३ अ० वण्णितम्
“देवक्यां देवरूपिण्यां विष्णुः सर्वगुहाशयः ।
आविरासीद्यथा प्राच्यां दिशीन्दुरिव पुष्कलः । तमद्भुतं
बालकमम्बुजेक्षणं चतुर्भुजं शङ्खगदाद्युदायुधम् । श्रीवत्सल-
क्ष्मंगलशोभिकौस्तुभं पीताम्बरं सान्द्रपयोदसौभगम् ।
महार्घवैदूर्य्यकिरीटकुण्डलत्विषा परिष्वक्तसहस्रकुन्तलम् ।
उहृआमकाञ्च्यङ्गदकङ्कणादिभिर्विरोचमानं वसुदेव ऐक्षत ।
सविस्मयीत्फुल्लविलोचनो हरिं सुतं विलोक्यानकदु-
न्दुभिस्तदा । कृष्णावतारोत्सवसम्भ्रमोऽस्पृशन्मुदा
द्विजेभ्योऽयुतमाप्लुतोगवाम्” । इत्याविर्भार्व वर्ण्णयित्वा
“जन्म ते मय्यसौ पापोमा विद्यान्मधुसूदन! ।
समुद्विजे भवद्धेतोः कंसादहमधीरधीः । उपसंहर विश्वात्म
न्नदोरूपमलौकिकम् । शङ्खचक्रगदापद्मश्रिया जुष्टं
चतुर्भुजम् । विश्वं यदेतत् स्वतनौ निशान्ते यथावका-
शं पुरुषः परो भवान् । विभर्त्ति, सोऽयं मम गर्भजोऽभू
पृष्ठ २२१२
दहो नृलोकस्य विडम्बनं तत्” । इत्थं देवक्याः प्रार्थने
तां सान्त्वयित्वा तस्य प्राकृतरूपधारणं तत्रैवोक्तं
यथा “इत्युक्त्वा तां हरिस्तूष्ण्णीं भगवानात्ममायया ।
पित्रोः संपश्यतोरेव बभूव प्राकृतः शिशुः । “एवञ्च
चतुर्भुजरूपेणोत्पत्तावपि प्राकृतरूपत्वोक्त्या तस्मादनन्तरं
द्विभुजत्वमिति वैष्णवा मन्यन्ते । गीतायान्तु “तेनैव
रूपेण चतुर्भुजेन सहस्रबाहो! भव विश्वमूर्त्ते!” इति
भारतयुद्धकाले तस्य चतुर्भुजत्वकीर्त्तनात् चतुर्भुजत्व
मेवासीत् शङ्खचक्राद्यायुधशून्यत्वेन प्राकृतत्वमिति
तु युक्तमुत्पश्यामः । तस्येदानीं जन्मसमयोनिरूप्यते
प्रागुक्तब्रह्मपु० कलौ जातत्वाभिधानात् कलियुगएवास्य
प्रादुर्भावः । यदि च एकैकमन्वन्तरे बहवः कलयः
सम्भवन्ति तथापि वर्त्तमानवैवस्वतमन्वन्तरे अष्टाविंशतिमे
महायुगे यः कलिस्तत्रैवाभिर्मूतः । तत्रापि ज्योतिर्निबन्धे
“उच्चस्थाः शशिभौमचान्द्रिशनयो लग्नं वृषोलाभगो
जीवः सिंहतुलालिषु क्रमवशात् पूषोशनोराहवः ।
नैशीथः समयाऽष्टमी बुधदिनं बाह्मर्क्षमत्र क्षणे श्रीकृ-
ष्णाभिधमम्बुजेक्षणमभूदाविः परं ब्रह्म तत्” ग्रहाणां
विशेषराश्यवस्थानकाले तस्याविर्भावोक्तेः तादृशसमय-
स्य च कलेः ६४७ वर्षेषु गतषु सम्भवः कलौ ततः
पूर्व्वं तादृशसमयासम्भवात् । राजतरंङ्गिण्यां च “शतेषु
षट्सु सार्द्धेषु त्र्यधिकेषु च भूतले । कलेर्गतेषु वर्षाणाम
भयन् कुरुपाण्डवाः” इत्यनेन कलेः ६५३ वर्षेषु गतेषु
तत्समकालीनयोः कुरुपाण्डवयोरुत्पत्तिरुक्ता अतस्त-
स्यापि तत्कालोत्पत्तिकत्वम् ।
तदवतारचरितं च हरिवं० ४२ अ० वर्णितं यथा
“अपरः केशवस्यायं प्रादुर्भावो महात्मनः । विख्या-
तो माथुरे कल्पे सर्व्वलोकहिताय वै । यत्र शाल्वञ्च
मैन्दञ्च कंसं द्विविदमेव च । अरिष्टं वृषभं केशिं पूतनां
दैत्यदारिकाम् । नागं कुबलयापीडं चानूरं मुष्टिकं
तथा । दैत्यान्मानुषदेहस्थान् सूदयामाम वीर्य्यवान् ।
छिन्नं बाहुसहस्रञ्च वाणस्याद्भुतकर्म्मणः । नरकश्च
हतः सङ्ख्ये यवनश्च सहाबलः । हृतानि च महीपानां
सर्वरत्नानि तेजसा । दुराच्चाराश्च निहताः पार्थिवा
ये महीतले” ।
तस्य च कृष्णनामता गर्गेण तथा नामकरणात् यथाह
भाग० १० । ८ । ९ “आसन् वण्णास्त्रयोह्यस्य ग्रह्णतोऽनुयुगं
तनूः । शुक्लोरक्तस्तथाऽपीत इदानीं कृष्णतां गतः” इति
अपीतः श्याम इत्यर्थः भाग० ११ अ० युगावतारे द्वापरे
श्याममूर्त्तित्वोक्तेः यथा “कृते शुक्लश्चतुर्बाहुर्जटिलो
बल्कलाम्बरः । कृष्णाजिनोपवीताक्षान् बिभ्रद्दण्डक-
मण्डलू । त्रेतायां रक्तवर्णोऽसौ चतुर्बाहुस्त्रिमेखलः ।
हिरण्यकेशस्त्रय्यात्मा स्रुक्स्रुवाद्यु पलक्षणः । द्वापरे
भगवान् श्यामः पीतवासा निजायुधः । श्रीवत्सादि-
भिरङ्कैश्च लक्षणैरुपलक्षितः । नानातन्त्रविधानेन
कलावपि यथा शृणु । कृष्णवर्णं त्विषाऽकृष्णं साङ्गोपाङ्गा-
स्त्रपार्षदः । यज्ञै संकीर्त्तनप्रायैर्यजन्तीह सुमेधसः” ।
अस्य तन्नामनिर्बचनं च भा० उ० ६९ अ०
“कृषिर्भूवाचकः शब्दोणश्च निर्वृतिवाचकः । विष्णु-
स्तद्भावयोगाच्च कृष्णोभवति सात्वतः”
कल्पभेदेऽपि वैवस्वतमनोरष्टाविंशतिमे युगे युगे तस्याभि
भांवः अतएव छा० उ० कल्पभेदादिप्रायेणैव “तद्धैतत् घोर
आङ्गिरसः कृष्णाय देवकीपुत्रायोक्त्वोवाच” इत्युक्तम् ।
वस्तुतस्तस्य भगवदवतारात् भिन्नत्वमेव तस्य घोरा-
ङ्गिरसशिष्यत्वोक्तेः । परमेश्वरस्य तथात्वासम्भवात् ।
अतस्तन्नाम्नि २९ अपरस्निन्नेव कृष्णशब्दस्य वृत्तिः ।
“कृष्णेति मङ्गलं नाम यस्य वाचि प्रवर्त्तते । मस्मीभवन्ति
राजेन्द्र! महापातककोटयः” पुरा० । अर्ज्जुनस्य तन्नाम-
निर्वचनं भा० वि० ४४ अ० । “कृष्ण इत्येव दशमं नाम
चक्रे पिता मम । कृष्णावदातस्य सतः प्रियत्वात् बालक-
स्य” च । व्यासस्य कार्ष्ण्यात्तथात्वम् “योव्यस्य वेदांश्च-
तुरस्तपसा भगवानृषिः । लोके व्यासत्वमापदे कार्ष्ण्यात्
कृष्णत्वमेव च” भा० आ० १०५ अ० । कृष्णस्येदम् अण्
कार्ष्ण तत्सम्बन्धिनि त्रि० “कार्ष्णं वेदमिमं विद्वान्
श्रावयित्वार्थमश्नुते” भा० आ० १ अ० उक्ते । अपत्ये तु इञ् ।
कार्ष्णि तदपत्ये पुंस्त्री । चन्द्रह्रासकरप्रथमादिपञ्चद-
शकलाक्रियारूपे प्रतिपदादिदर्शान्तात्मकपञ्चदशतिथ्यात्मके
३० कालभेदे अर्द्धमासे “चन्द्रवृद्धिकरः शुक्लः कृष्णश्चन्द्रक्षया-
त्मकः” ति० त० षट्त्रि० । इन्दुकलाक्षयप्रकारः इन्दुशब्दे
६११ पृ० उक्तः । तदुपलक्षिते ३१ पितृयाने “शुक्लकृष्णे
गती ह्येते जगतां शाश्वते मते । एकया यात्यना-
वृत्तिमन्यया वर्त्तते पुनः” गीता । पितृयाने च यथा
कृष्णपक्षसंबन्धस्तथा आतिवाहिकशब्दे ६५१ पृ० दर्शि-
तम् । “धूमोरात्रिस्तथा कृष्णः षण्मासा दक्षिणायनम्”
गीता । कृष्णपक्षाभिमानिनि पितृयानस्थे कर्म्मिणामति-
वाहके ईश्वरनियोजिते ३२ देवभेदे आतिवाहिकशब्द
पृष्ठ २२१३
विवृतिः । ३३ द्यूताद्युपार्जिते धने न० कृष्णधनशब्दे
अर्थशब्दे च विवृतिः । कृष्णस्य भावः ष्यञ् । कार्ष्ण्य
तद्भावे न० “कार्ष्ण्यात् कृष्णत्वमेव च” भा० आ० १०५ अ० ।
इमनिच् । कृष्णिमन् तद्भावे पु० “कृष्णिमानं दधानेन” ।
तल्, कृष्णता स्त्री, त्व कृष्णल, न०, कृष्णवर्ण्णे । “कृष्णाऽपि
शुद्धेरधिकं विधातृभिः” मावः । “अभिवृष्य मरुच्छस्यान्
कृष्णमेघस्तिरोदधे” रघुः । ३४ नेत्रगतेऽशभेदे अक्षिशब्दे
विवृतिः । ३५ कृष्णसारमृगे पुंस्त्री० “एणः कृष्णः स
कीर्त्तितः” छन्दो० प० । कृष्णाजिनम्

कृष्णक पु० कृष्णप्रकारः स्थूला० कन् । १ कृष्णसर्षपे

अनुकम्पितं कृष्णाजिनम् कन् अजिनान्तत्वादत्तरपदलोपः ।
अनुकम्पिते २ कृष्णाजिने न०

कृष्णकन्द न० कृष्णः कन्दोऽस्य । रक्तोत्पले त्रिका०

कृष्णकर्कटक पुंस्त्री नित्यकर्म्म० । कर्कटभेदे सुश्रुतः ।

“कूर्म्मकुम्भीरकर्कटकृष्णकर्कटशिशुमारप्रभृतयः पादिनः”
सुश्रुते पादिजलचरोक्तौ

कृष्णकर्म्मन् न० कर्म्म० । १ हिंसादिनिषिद्धकर्म्मणि । ब० व० ।

२ तद्युक्ते पापाचारिणि त्रि० अमरः ३ व्रणस्य कृष्णतास-
म्पादके क्रियाभेदे स च सुश्रुतेन दर्शितो यथा “अथ
व्रणस्योपशप्रक्रमाभवन्तीत्युपक्रमे “दारुणकर्म्मक्षारक-
र्म्माग्निकर्म्मकृष्णकर्म्मपाण्डुकर्म्म” इत्याद्युक्त्वा । “दुरूढ-
त्वात्तुशुक्लानां कृष्णकर्म्म हितं पुनः इति” तस्योपयोगो-
दर्शितः । कृष्णेऽर्पितं कृष्णार्पितं कर्म्म० । ३ परमेश्वरा-
र्पिते कर्म्मणिन० । ब० व० । ४ तद्युक्ते त्रि० स्त्रियां वा ङीप् ।

कृष्णकलि पु० कृष्ण इव चूडाला कलिः कलिकाऽस्य । स्वना-

मख्याते पुष्पप्रधाने वृक्षे ।

कृष्णकाक पुंस्त्रो नित्यकर्म्म० । (दाडकाक) काकभेदे हारा० स्त्रियां जातित्वात् ङीष् ।

कृष्णकापोती स्त्री ओषधिभेदे सुश्रु० । “अथोषधीर्व्याख्या-

स्यामः” इत्युपक्रमे “श्वेतकापोती कृष्णकापोती” इत्यादिना
विभज्य तदुपयोगप्रकारोदर्शितो यया । “गोनस्यजगरो-
कृष्णकापोतीनां सनखमुष्टि खण्डयित्वा क्षीरेण
विपाच्याभिस्राव्य” इत्याद्युक्तं सुश्रु० तस्या लक्षणमोषधि-
शब्दे १५६३ पृ० उक्तम् ।

कृष्णकाय पुंस्त्री कृष्णःकायोऽस्य महिषे शब्दचि० । जाति-

त्वेऽपि योपधत्वात् स्त्रियां न ङीष् किन्तु टाप् ।

कृष्णकाष्ठ न० कृष्णं काष्ठमस्य । कालागुरुणि राजनि०

कृष्णकोहल पु० कृष्णकस्य कृष्णकर्म्मणः ऊहं वितर्कं लाति

ला--क । द्यूतकारिणि त्रिका० ।

कृष्णगङ्गा स्त्री नित्य० । कृष्णवेणायां नदीभेदे राजनि० ।

कृष्णगतरोग पु० नेत्रावयवभेदकृष्णगतरोगभेदे । तद्विज्ञा-

नादि सुश्रुते उक्तंयथा ।
“अथातः कृष्णगतरोगविज्ञानीयमध्यायं व्याख्यास्यामः ।
यत्सव्रणं शुक्रमथाव्रणं वा पाकात्ययश्चायजका तथैव ।
चत्वार एतेऽभिहिताः विकाराः कृष्णाश्रयाः संग्रहतः
पुरस्तात् । निमग्नरूपं हि भवेत्तु कृष्णे सूच्येव विद्धं
प्रतिभाति यद्वै । स्रावं स्रवेदुष्णमतीव रुक् च
तत्सव्रणं शुक्रमुदाहरन्ति । दृष्टेः समीपे न
भवेत्तु यच्च न चावगाढं न च संस्रवेद्धि । अवेदनावन्न
च युग्मशुक्रं तत्सिद्धिमाप्नोति कदाचिदेव । सितं यदा
भात्यसितप्रदेशे स्यन्दात्मकं नातिरुगश्रुयुक्तम् । विहा-
यसीवाभ्रदलानुकारि तदव्रणं साध्यतमं वदन्ति ।
गम्भीरजातं बहलञ्च शुक्लं चिरोत्थितञ्चापि वदन्ति
कृच्छ्रम् । विच्छिन्नमध्यं पिशितावृतं वा चलं सिरासक्त-
मदृष्टिकृच्च । द्वित्वग्गतं लोहितमन्ततश्च चिरोत्थितञ्चापि
विवर्ज्जनीयम् । उष्णाश्रुपातः पिडका च कृष्णे यस्मि-
न् भवेन्मुद्गनिभञ्च शुक्लम् । तदप्यसाध्यं प्रवदन्ति केचि-
दन्यच्च यत्तित्तिरिपक्षतुल्यम् । संछाद्यते श्वेतनिभेन
सर्वदोषेण यस्यासितमण्डलन्तु । अजापुरीषप्रतिमो
रुजावान् सलोहितो लोहितपिच्छिलास्रः । विदार्य्य
कृष्णं प्रचयोऽभ्युपैति तञ्चाजकाजातमिति व्यवस्येत्” ।

कृष्णगति पु० कृष्णा गतिर्गतिस्थानमस्य । कृष्णवर्त्मनि वह्नौ

तस्य गमनस्थानस्य तद्गत्या कृष्णताप्राप्तेस्तस्य तथात्वम् ।
“ववृधे स तदा गर्भः कक्षे कृष्णगतिर्यथा” भा० आनु०
८५ अ० ।

कृष्णगन्ध पु० कृष्ण उग्रो गन्धोऽस्य । शोभाञ्चनवृक्षे राजनि०

कृष्णगर्भ पु० कृष्णवर्णोगर्भोऽस्य । कट्फले राजनि० ।

कृष्णगिरि पु० नित्यकर्म्म० । नीलगिरौ

कृष्णगोधा कृष्णः गोधेव । कीटभेदे । “सूचोमुखः कृष्ण-

गोधा यश्च काषायवासिकः” सुश्रु० कीटशब्दे विवृतिः ।

कृष्णग्रीव त्रि० कृष्णा ग्रीवा यस्य । कृष्णवर्ण्णगलेऽजादौ

“कृष्णग्रीव आग्नेयः” यजु० २४, २, “कृष्णग्रीवः सितिकक्षोऽ-
ञ्जिसक्थस्ते ऐन्द्राग्नाः” इत्यादि अश्वमेधीयपशुविशे-
षोक्तौ । “श्वेतलोहितपर्य्यन्तः कृष्णग्रीवस्तडिद्द्युतः ।
त्रिवर्ण्णपरिघोभानुः सन्ध्यारागमथावृणोत्” हरि०
१७५ अ० । २ नीलकण्ठे भहादेवे पु० ।

कृष्णचञ्चुक पु० कृष्णा चञ्चूरस्य कप् । चणके राजनि० ।

पृष्ठ २२१४

कृष्णचन्दन न० कृष्णप्रियं चन्दनम् शा० त० । हरिचन्दन

श्वेतचन्दने शब्दचि०

कृष्णचन्द्र पु० कृष्णश्चन्द्र इव । वासुदेवे तस्य चन्द्रवत् भक्ताना माह्णादकत्वात्तथात्वम् ।

कृष्णचर पु० कृष्णस्य भूतपूर्व्वः चरट् । भूतपूर्ब्बकृष्णसम्ब-

न्धिनि गवादौ

कृष्णचूड़ा स्त्री कृष्णस्य चूड़ा इव चूड़ाऽस्य । स्वनामख्याते

पुष्पवृक्षे । स्वार्थे क अत इत्त्वम् । तत्रार्थे राजनि० ।

कृष्णचूडिका स्त्री कृष्णाचूडाऽग्रं यस्याः कप् अत इत्त्वम् ।

गुञ्जायां राजमि० ।

कृष्णचूर्ण्ण न० कृष्णं तद्वर्ण्णं चूर्णम् । लौहमले (लोहार गु) राजनि० ।

कृष्णजटा स्त्री कृष्णा जटा यस्याः । जटामांस्याम् रत्नमा०

कृष्णजीरक पु० नित्यकर्म्म० । कालपर्ण्णजीरके (कालजीरे)

अमरः “कटूष्णः कफशोथघ्नो जीर्ण्णज्वरविनाशनः ।
चक्षुष्यो रुचिकृद्ग्राही कृष्णजीरक ईरितः” राजनि०

कृष्णतण्डुला स्त्री कृष्णस्तण्डुलोयस्याः । कर्ण्णस्फोटल-

तायां राजनि० ।

कृष्णताम्र न० “वर्ण्णोवर्णेन” पा० कर्म्म० । गोशीर्षचन्दने शब्दमा० ।

कृष्णतार पुंस्त्री कृष्णतामृच्छति ऋ--अण् उप० स० । १ कृष्ण-

सारमृगे २ हरिणमात्रेचराजनि० । स्त्रियां जातित्वात् ङीष् ।

कृष्णत्रिवृता स्त्री नित्य कर्म्म० । (कालतेओडी) त्रिवृता-

भेदे जटा० ।

कृष्णदन्त त्रि० कृष्णा दन्तायस्य । १ कालवर्ण्णदन्तयुक्ते २ काश्मरीवृक्षे स्त्री राजनि० टाप् ।

कृष्णदेह पुंस्त्री कृष्णोदेहोऽस्य । १ भ्रमरे सारस्वतः स्त्रियां ङीष्

२ कालवर्णदेहान्विते त्रि० । कर्म्म० । कालवर्ण्णे ३ देहे पु०

कृष्णद्वैपायन पु० द्वीपे यमुनाद्वीपे भषः फक् द्वीपोऽयनं

जन्मभूमिर्वास्य प्रज्ञाद्यण् कर्म्म० । वेदव्यासे तस्य यमुना-
द्वीपोत्पत्तिकथा भा० आ० १०५ अ० ।
“धर्म्मयुक्तस्य धर्म्मार्थं पितुरासीत्तरी मम । सा
कदाचिदहं तत्र गता प्रथमयौवना । अथ धर्मविदा श्रेष्ठः
परमर्षिः पराशरः । आजगाम तरीं धीमांस्तरिष्यन्-
यमुनां नदीम् । स तार्य्यमाणो यमुनां मामुपेत्याब्रवी-
त्तदा । सान्त्वपूर्वं मुनिश्रेष्ठः कामार्त्तो मधुरं वचः । तमहं
शापभीता च पितुर्भीता च भारत! । वरैरसुलभैरुक्ता न
प्रत्याख्यातुसुत्सहे । अभिभूय स मां बालां तेजसा
वशमानयत् । तमसा (कुज्झटिकया) लोकमावृत्य नौगता-
मेब भारत! । मत्स्वगन्धो महानासीत्पुरा मम जुगुप्-
सितः । तमपास्य शुभं गन्धमिमं प्रादात् स मे मुनिः ।
ततो मामाह स मुनिर्गर्भमुत्सृज्य मामकम् । द्वोपेऽस्या
एव सरितः कन्यैव त्वं भविष्यसि । पाराशर्य्यो महा
योगी स बभूव महानृषिः । कन्यापुत्रो मम पुरा द्वैपायन
इति श्रुतः । योव्यस्य वेदांश्चतुरस्तपसा भगवानृषिः । लोके
व्यासत्वमापेदे कार्ष्ण्यात् कृष्णत्वमेव च । सत्यवादी
शमपरस्तपस्वी दग्धकिल्विषः । सद्योत्पन्नः स तु महान् सह
पित्रा ततो गतः” । “श्रुत्वा तु सर्पसत्राय दीक्षितं
जनमेजयम् । अभ्यगच्छदृषिर्विद्वान् कृष्णद्वैपायनस्तदा ।
जनयामास यं काली शक्त्रेः पुत्रात्पराशरात् । कन्यैय
यमुनाद्वीपे पाण्डवानां पितामहम् । जातमात्रश्च यः
सद्य इष्टं देहमवीवृधत् । वेदांश्चाधिजगे साङ्गान् सेति-
हासान्महायशाः । यन्नैति तपसा कश्चिन्न वेदाध्ययनेन
च । न व्रतैर्नोपवासैश्च न प्रसूत्या न मन्युना । विव्या-
सैकं चतुर्द्धा यो वेदं वेदविदांवरः । परावरज्ञो ब्रह्मषिः
कविः सत्यव्रतः शुचिः । यः पाण्डुं धृतराष्ट्रञ्च
विदुरं चाप्यजीजनत् । शान्तनोः सन्ततिं तन्वन्
पुण्यकीर्त्तिर्महायशाः” ।
“मातुर्नियोगाद्धर्मात्मा गाङ्गेयस्य च धीमतः । क्षेत्रे विचि
त्रवीर्य्यस्य कृष्णद्वैपायनः पुरा । त्रीनग्नीनिव कौरव्यान्
जनयामास वीर्य्यवान् । उत्पाद्य धृतराष्ट्रञ्च पाण्डुं
विदुरमेव च । जगाम तपसे धीमान् पुनरेवाश्रमं प्रति” ।
“कृष्णद्वैपायनाज्जज्ञे धृतराष्ट्रो जनेश्वरः । विचित्रवीर्य्य
क्षेत्रे च पाण्डुश्चैव महाबलः । धर्मार्थकुशलो धीमा-
न्मेधावी धूतकल्मषः । विदुरः शूद्रयोनौ तु जज्ञे द्वै-
पायनादपि” । भारते नानास्थान
“कृष्णद्वैपायनं व्यासं विद्धि नारायणं विभुम् । कोह्यन्यः
पुण्डरीक्षात् महाभारतकृत् भवेत्” बिष्णुपु० । तस्य विष्णो
रबरतारत्वकथा भाग० “ततः सप्तदशे जातः सत्य-
बत्यां पराशरात् । चक्रे वेदतरोः शाखा द्वापरे सोऽल्प-
मेधसः” । अवतारशब्दे ४२२ पृ० विवृतिः । कृष्णेति द्वैपा-
यनोति च तस्य नामद्वयम् कर्म्म० क्वचिदेकनामताऽपि ।
“द्वैपायनेन कृष्णेन नगरे वारणावते” भा० स० ७६ अ० ।
“कार्ष्ण्यात् कृष्णत्वमेव च” “कार्ष्णं वेदमिमं शृणु” इति
च ब्यस्तप्रयोगः । “तमहमरागमतृष्णं कृष्णद्वैपायनं
वन्दै” वेणीस० । प्रागुक्तभारते च समस्तप्रयोगः

कृष्णधत्तू(धूस्तू)र पु० कर्म्म० (कनकधुतरा) वृक्षभेदे ।

“सितनीलकृष्णलोहितपीतधूसराश्च सन्ति धत्तूराः ।
सामान्यगुणोपेतास्तेषु गुणाढ्यस्तु कृष्णकुसुमः स्यात्”
राजनि० । धत्तूरशब्दे तत्सामान्यगुणा भावप्र० उक्तायथा
पृष्ठ २२१५
“धत्तूरो मदवर्णाग्निवातकृज्ज्वरकुष्ठनुत् । कषायो
मधुरस्तिक्तो यूकालिक्षाविनाशकः । उष्णो गुरुर्वर्णश्लेष्म
कण्डूकृमि विषापहः” ।

कृष्णधन न० कर्म्म० । द्यूतादिभिरर्ज्जिते धने । अर्थशब्दे

३६७ पृ० विवृतिः । “पार्श्विकद्यूतचौर्य्याप्तं प्रतिरूपकसा-
हसैः । छलेनोपार्ज्जितं यच्च तत्कृष्णं स्वमुदाहृतम्”
विष्णसं० । “पार्श्विकः अपात्रस्य पात्रताख्यापनम्” प्रा० वि०

कृष्णपक्ष पु० कर्म्म० । चन्द्रस्य कलाह्रासकरे प्रतिपदादि-

दर्शान्ते पञ्चदशतिथ्यात्मके काले । तत्र (चान्द्रे) पक्षा
वुभौ मासे शुक्लकृष्णौ क्रमेण हि । चन्द्रवृद्धिकरः शुक्लः
कृष्णश्चन्द्रक्षयात्मकः । पक्षत्याद्यास्तु तिथयः क्रमात् पञ्च-
दश स्मृताः । दर्शात्ताः कृष्णपक्षे ताः पूर्ण्णिमान्ताश्च
शुक्लके” ति० त० षट्त्रिंशन्मतम् । “रावणेन हृता सीता
कृष्णपक्षे सिताष्टमी” महाना०

कृष्णपदी स्त्री कृष्णौ पादौ यस्याः कुम्भप० ङीष् अन्त्यलोपः

पद्भावश्च । कालपादयुक्तायां स्त्रियाम् ।

कृष्णपर्णी स्त्री कृष्णं पर्णमस्याः । कालतुलस्याम् । रत्नमा०

कृष्णपवि पु० पूयते पू--शोधे इन् पविः पन्थाः “पन्था वातेन

शुध्यति” इत्युक्तेः पथोवातभिन्नशुद्धिहेत्वनपेक्षणात्
तथात्वम् कृष्णः पन्था यस्य । वह्नौ “पृथिव्यां कृष्ण-
पविरोषधीभिर्ववक्षे” ऋ० ७, ८, २ । “कृष्णपविः कृष्ण-
वर्त्माऽग्निः भा०

कृष्णपाक पु० पच्यते इति पाकः फलं कृष्णः कृष्णवर्ण्णः पाकः फणमस्य । करमर्द्दे रत्ना०

कृष्णपाकफल पु० कृष्णपाकरूपं फलमस्य । करमर्द्दे अमरः

कृष्णपिङ्गल त्रि० “बर्णोवर्णेन” पा० कर्म्म० । कालपिङ्गलवर्ण

युक्ते “ऋतं सत्यं परं ब्रह्म पुरुषं कालपिङ्गलम्” रुद्रो
पस्थानमन्त्रः । तस्यापत्यम् इञ् । काष्र्णपिङ्गलि तदप
त्ये बहुत्वे उपका० अन्यशब्देन द्वन्द्वे अद्वन्द्वे च वा तस्य
लुक । कृष्णपिङ्गलास्तदपत्यषु । २ दुर्गायां स्त्री० त्रिका०

कृष्णपिण्डीतक पु० नित्यकम्म० । कृष्णपिण्डीरभेदे रत्न-

माला कृष्णपिण्डीरोऽप्यत्र ।

कृष्णपिप्पिली स्त्री नित्यकर्म्म० । पिपोलिकाभेदे वृक्षा-

रोहिपिर्प लिकायां (काठपिपिड़ा) राजनि०

कृष्णपुष्प पु० कृष्णं पुष्पमस्य । १ कृष्णधत्तूरे राजनि० २ प्रि

यङ्गवृक्षे स्त्री ङीप् शब्दच०

कृष्णफल पु० कृष्णं फलमस्य । १ करमर्द्दे(करमचा)वृक्षे २

सोमराज्यां स्त्री टाप अमरटीकायांभरत

कृष्णफलपाक पु० कृष्णः फलसूपः पाकोयस्य । करमर्द्दे द्विरूपको०

कृष्ण(व)बलक्ष पु० “वर्णोवर्णेन” पा० स० । १ कालश्वेतवर्ण्णे

२ तद्युक्ते त्रि० “अजिने पार्श्वसहिते कृष्णब(व)लक्षे
आविके” कात्या० २२, ४, १७, कृष्णधवलादयोऽप्यत्र ।

कृष्णभूम पु० कृष्ण मूमिर्यत्र अच् समा० । कालवर्णमृ-

त्तिकायुक्ते देशे हेम०

कृष्णभूमिज त्रि० कृष्णाया भूमेर्जायते जन--ड १ कालवर्ण

मृत्तिकात उत्पन्ने २ गोमूत्रिकातृणे स्त्री राजनि०

कृष्णभेदा(दी) स्त्री कृष्णोवर्णेन भेद । खण्डोऽस्याः ङीप्

कटुकायां (कट्की) वृक्षे राजनि० । वा गौरा० ङीष् ।
तत्रार्थे अमरः

कृष्णमण्डल न० कर्म्म० । “नेत्रावयवभेदे । नेत्रायामत्रिभा-

गात्तु कृष्णमण्डलमुच्यते । कृष्णात् सप्तमभागां तु दृष्टिं
दृष्टिविशारदाः” सुश्रु० । भीमसेनादिवत् उत्तरपदलोपे
कृष्णमप्यत्र तदभिप्रायेणैव कृष्णादिति सुश्रुतोक्तिः

कृष्णमल्लिका स्त्री कृष्णा कृष्णप्रिया मल्लिकेय । कृष्णार्ज्जके

(कालतुलसी) वृक्षे राजनि० ।

कृष्णमत्स्य पुंस्त्री नित्यकर्म्म० (कालवस) इति ख्याते मत्स्य

भेदे “पाठीनपाटलाराजीववर्म्मिगोमत्स्यकृष्णमत्स्य वागुञ्जा-
रसुरल सहस्र दंष्ट्रि प्रभृतयो नादेया” सुश्रुतः स्त्रियां ङीप्

कृष्णमुख त्रि० कृष्णं सुखमास्वमग्रंवा यस्य स्त्रियां वा ङीप्

१ कृष्णवर्ण मुखयुक्ते २ कालाग्रे च “स्तनयोः कृष्णमुखता
रोमराज्यद्गमस्तथा” गर्भलक्षणे सुश्रुतः ३ वानरभेदे
पुंस्त्री० स्त्रियां जातित्वात् ङीष् । ४ दानवभेदे “सहस्र-
पात् कृष्णमुखः कृष्णश्चैव महोदरः” हरिवं० २४० अ०
दानवोक्तौ । कृष्णवदनादयोऽपि पूर्व्वोक्तार्थे त्रि०

कृष्णमुद्ग पु० नित्यकर्म्म० । मुद्गभेदे तद्भेदगुणादि भावप्र०

उक्तं यथा
“मुद्गमसूरयोराध्मानाकारित्वमन्यवैदलापेक्षेया नतु सर्वथा
एतयोरपि किञ्चिदाध्मानकारित्वात् तत्र मुद्गस्य गुणाः
मुद्गोरूक्षो लघुर्ग्राही कफपित्तरसो हिमः । स्वादुरल्पानि-
लो नेत्र्यो ज्वरघ्नो वनजस्तथा । मुद्गो बहुविधः श्यामो
हरितः पीतकस्तथा । श्वेतो रक्तश्च तेषान्तु पूर्वः पूर्वो
लघुः स्मृतः । सुश्रुतेन पुनः प्रोक्तो हरितः प्रवरो गुणैः ।
चरकादिभिरप्युक्त एष एव गुणाधिकः” ।
माधववासन्तसुराष्टजेति राजनि० तस्य पर्व्यायदर्शनात्
वसन्तकाले चैत्रमासे सुराष्ट्रदेशेऽस्योत्पत्तिरवसेया ततोदेशादा
नीयान्यत्र देशेऽपि तस्योत्पादना एवमन्यत्र कालेऽपि ।

कृष्णमूली स्त्री० कृष्णंमूलमस्याः ङीप् । शारिवाभेदे । राजनि

पृष्ठ २२१६

कृष्णमृग पुंस्त्री नित्यकर्म्म० । (कालसार) कृष्णसारमृगे

“रुरून् कृष्णमृगांश्चैव मेध्यादन्यान् वनेचरान्” भा०
व० ५३ अ० । स्त्रियां जातित्वात् ङीष् कृष्णहरिणा-
दयोऽप्यत्र पुंस्त्री०

कृष्णमृद् स्त्री० कर्म्म० । १ कृष्णवर्ण्णे मृत्तिकाभेदे २ श्लक्ष्णभूमौ

हेमच० । “कृष्णमृत् क्षतदाहास्रप्रदरश्लेष्मपित्तनुत्”
राजनि० कृष्णमृत्तिकाऽप्यत्र । ब० व० । ३ तद्युक्ते त्रि०
हेमच०

कृष्णयजुर्वेद पु० तैत्तीरीयरूपयजुर्वेदभेदे । तस्य कृष्णत्वञ्च

तस्य पाठे प्रतिपदायुक्तपूर्ण्णिमायाग्राह्यत्वत् । यजुर्वे-
दस्य द्वौ भेदौ शुक्लकृष्णभेदात् तदवान्तरभेदाश्च चरणव्यू-
हभाष्ययो दर्शिताः यथा
“यजुर्वेदस्य षडशीतिर्भेदा भबन्ति । तत्र चरका नाम
द्वादशभेदा भवन्ति “चरका आह्वरकाः कठाः प्राच्यकठाः
कपिष्ठलकठाश्चारायणीया वार्त्तान्तरीयाः श्येताश्वतरा
वाराहा औपमन्यवश्छागलेया मैत्रायणीयाश्चेति । मैत्रा-
यणीयानाम सप्तभेदा भवन्ति मानवामैत्रायणीया दुन्दु-
भाश्चैकेया हारिद्रवेयाः श्यामाः श्यामायनीयाश्चेति ।
तेषामध्ययनमष्टशतं यजुःसहस्राण्यधीत्य शाखापारो भवति
तान्येव द्विगुणान्यधीत्य पदपारो भवति तान्येव त्रिगुणा-
न्यधीत्य क्रमपारो भवति षडङ्गान्यधीत्य षडङ्गविद्भवति
शिक्षाकल्पो व्याकरणं निरुक्तं छन्दो ज्योतिषमित्यङ्गानि
भवन्ति तत्र प्राच्य उदीच्यां, नैरृत्यां निरृत्यस्तत्र
वाजसनेयानां पञ्चदश भेदा भवन्ति काण्वा माध्य-
न्दिनाः शावीयाः श्यामायनीयाः कापोलाः पौण्ड्रवत्सा
आवटिकाः परमावटिकाः पाराशर्य्याः वैधेया वैनेया
औधेया गालया वैजपाः कात्यायनीयाश्चेति प्रतिपदमनु-
पदं छन्दो भाषा धर्मोमीमांसा न्यायस्तर्क इत्युपाङ्गानि
उपज्योतिषं साङ्गलक्षणं प्रतिज्ञानुवाक्यः परिसंख्या चरण
व्यूहः श्राद्धकल्पः प्रवराध्यायश्च शास्त्रक्रतुसंख्यानुगम-
यज्ञपार्श्वाणि हौत्रिकम्पाशवोक्थानि कूर्मलक्षणम् इत्य-
ष्टादश परिशिष्टानि भवन्ति । द्घे सहस्रे शते न्यूने मन्त्रे
वाजसनेयके । इत्युक्तमेतत्सकलं स शुक्रियञ्च कीर्त्तितम् ।
ग्रन्थाश्च परिसंख्याता ब्राह्मणञ्च चतुर्गुणम् । तत्र तैत्ति-
रीयकानाम द्विभेदा भवन्ति । औख्याः काण्डिकेयाश्चेति ।
काण्डिकेयानाम पञ्चभेदा भवन्ति । आपस्तम्बी बौधायनी
सत्यार्षाढी हिरण्यकेशी औधेयी चेति तत्र कठानां तु
प्रमृथचतुःश्चत्वारिंशदुपग्रन्थाः मन्त्रब्राह्मणयोर्वेदस्त्रिगुणं
यत्र पट्यते । यठुर्बेदः स विज्ञेयोऽन्ये शाखान्तराः स्मृताः ।
तेषामध्ययनं प्रवचनीयाश्चेति” मू० । विवृतमेतद्भाष्ये
यथा “यजुर्वेदस्य षडशीतिर्भेदा भवन्ति” अत्र शाखा-
भेदो ग्राह्यः । षडुत्तराशीतिभेदा इत्यर्थः । “तत्रचरका-
नाम द्वादशभेदा भवन्ति” इतिस्पष्टार्थः । ते के भेदा इत्याह
चरका इत्यादि मैत्रायणीयानाम सप्तभेदा मवन्ति । मैत्रा-
यणीया मानवा इत्यादि । मैत्रायणीयशाखागण इत्यर्थः ।
मैत्रायणीयस्तु वाजसनीयवेदाध्यायी । मानवं कल्पसूत्रम् ।
तेषामध्ययनमष्टोत्तरशतं यजुःसहस्राण्यधीत्य शाखापारो
भवति तेषामध्ययने द्विचत्वारिंशदध्यायाः अष्टशता-
धिकसहस्रमन्त्रा इत्यर्थः । तान्येव द्विगुणान्यधीत्य
पदपारोभवति द्विवारपठनात्पदपारायणफलं भवति इत्यर्थः ।
तान्येव त्रिगुणान्यधीत्य क्रमपारो भवति त्रिवारपठनात्
क्रमपारायणफलं भवतीत्यर्थः । पदक्रमाध्ययनफलं भ
वतीत्यर्थः । तत्र प्राच्य उदीच्यां, नैरृत्यां निरृत्यस्तत्र वा
जसनेयानां पञ्चदश भेदा भवन्ति प्राच्य उदीच्यनैरृत्य
इति तिसृषु दिशासु । वाजसनेयवेदोत्पत्तिमग्रे वक्ष्यामः
इतरदेशेषु वेदशाखयोर्विभाग उच्यते तच्च माहार्णवे उक्तम्
“पृथिव्यामध्यरेखायां नर्मदा परिकीर्त्तिता । दक्षिणोत्तर-
योर्भागे शाखावेदश्च उच्यते । नर्मदादक्षिणे भागे आपस्तम्बा
श्वलायनी । राणायनी पिष्पला च यज्ञकन्याविभागिनः ।
मान्ध्यन्दिनी शाङ्खायनी कौथुमी शौनकी तथा नर्मदो-
त्तरभागे च यज्ञकन्याविभागिनः । तुङ्गकृष्णा तथा गोदा
सह्याद्रिशिखरावधि । आआन्ध्रदेशपर्यन्तम् बह्वृ चश्चाश्वला-
यनी । उत्तरे गुर्जरे देशे वेदो बह्वृच इरितः । कौषीत-
किब्राह्मणं च शाखा शाङ्खायनी स्थिता । आन्ध्रादिदक्षि
णाग्नेय्यां गोदासागरकाबधि । यजुर्भेदस्य तैत्तिर्य्या
आपस्तम्बी प्रतिष्ठिता । सह्याद्रिपर्वतादाराद्दिशाम् नैरृ-
त्यसागरात् । हिरण्यकेशी शाखा च पर्शुरामस्य सन्नि
धौ । मयूरपर्वताच्चैव यावद्गुर्जरदेशतः । व्याप्ता वायव्य-
देशात्तु मैत्रायणी प्रतिष्ठिता । अङ्गवङ्गकलिङ्गाश्च कानीनी
गुर्जरस्तथा । वाजसनेयी शाखा च माध्यन्दिनी प्रतिष्ठिता ।
ऋषिणा याज्ञवल्केन सर्वदेशेषु विस्तृता । वाजसनेय-
वेदस्य प्रथमा काण्वसंज्ञकाः” इति व्यासशिष्योवैश म्पाय-
नोनिगदाख्ययजुर्वेदम्पठित्वा शिष्यान् चकार । तच्चाह
भागवते १२ । ६ अ० “वैशम्पायनशिष्यवै चरकार्ध्वर्यवोऽभवन् ।
यच्चेरुर्ब्रह्महत्यांहःक्षपणं स्वगुरोर्व्रतम् । याज्ञवल्क्यश्च
तच्छिष्य आहांहोभगवन्! कियत् । चरितेनाल्पसाराणां च-
पृष्ठ २२१७
रिष्येऽहं सुदुश्चरम् । इत्युक्तो गुरुरप्याह कुपितोयाह्यलं
त्वया । विप्रावमन्त्रा शिष्येण मदधीतं त्यजत्विति । दे
रातः सुतः सोऽपि छर्दित्वा यजूषांगणम् । ततोऽगतोऽथ
सुतयो ददर्शुस्तान् यजुर्गणान् । यजूंषि तित्तिरीभूत्वा
तल्लोलुपतयाऽऽददुः । तैत्तिरीया इति यजुःशाखा आसन्
सुपेशलाः” । याज्ञवल्क्यः “ॐ नमो भगवते” इत्यादिना
सूर्य्यं तुष्टाव । “एवमुक्तः म भगवान् वाजिरूपधरोहरिः ।
यजूंष्य्यातयामानि मुनयेऽदात् प्रसादितः” (अजीर्णभुक्ते
उच्छिष्टवान्ते यातयामशब्द इति निघण्टुः तदन्यत् अयात-
यामम्) “यजुर्भिरकरोच्छाखादश पञ्च शनैर्विभुः । जगृहु-
र्वाजसन्यस्ताः काण्वा माध्यन्दिनादयः” इत्यादि ग्रन्थ-
पर्यालोचनपा यजुर्वेदत्यागानन्तरं देवरातः सुतेनाब्राह्मण-
त्वभिया प्रसादितः सूर्य्यो वाजिरूपेण तस्मै दत्ता वाजेभ्यः
केसरेभ्यः वाजेन वेगेन वा संन्यस्ताः शाखा वाजसनेय
संज्ञा । तस्य शाखारण्डत्वपरिहारार्थं चातुर्वेद्यत्वसंरक्ष-
णार्थं च वाजिरूपेण सूर्य्येणायातयामानि यानि यजूंषि
मुनये दत्तानि तैर्यजुर्भिरर्कापितैः स मुनिस्ताः
वाजसन्यः पञ्चदश शाखा अकरोत् । तस्माच्च मुनेः काण्वमा
ध्यन्दिनादयः अध्ययनं चक्रुः । ते पञ्चदश भवन्ति
तथा च विष्णुपुराणे यजुर्वेदस्य विस्तारविभागमाह
“यजुर्वेदतरोः शाखाः सप्तविंशन्महामुने! । वैशम्पायन
नामासौ व्यासशिष्यश्चकार वै । शिष्येभ्यः प्रददौ ताश्च
जगृहुस्तेऽप्यनुक्रमात् । याज्ञवल्क्यस्तु तस्याभूद्ब्रह्म-
रातः सुतोद्विजः । शिष्यः परमधर्म्मज्ञो गुरुवृत्तिरतः
सदा । ऋषिर्यश्च महामेरोःसमाजेष्वागमिष्यति । तस्य वै
सप्त रात्रन्तु व्रह्महत्या भविष्यति । पूर्वमेवं मुनिगणैः
समयोऽयं कृतोद्विज! । वैशग्पायन एकस्तु तं व्यतिक्रान्त
वांस्तदा । स्वस्रियं तं च हंसोऽथ पदघृष्टमवातयत् ।
शिष्यानाह च भो शिष्या ब्रह्महत्यापरं व्रतम् ।
चरध्वं मत्कृते सर्वे न विचार्यमिदन्तथा । अथाह
याज्ञवल्क्यस्तङ्किमेतैर्बहुभिर्द्विजैः । क्लेशितैरल्पतेजो-
भिश्चरिष्येऽहमिदं व्रतम् । ततः क्रुद्वो गुरुः प्राह
याज्ञवल्क्यं महामुनिम् । मुच्यतां यत् त्वयाऽधीतं यतो
विप्रायमानकः । निस्तजसोवदस्येतान् यस्त्वं ब्रह्म-
णपुङ्गवान् । तेन शिष्येण नार्थोऽस्ति ममाज्ञाभङ्ग-
कारिणा । याज्ञवल्क्यस्ततः प्राह भक्त्यैतत्ते
मयोदितम् । ममाप्यलन्त्वया त्वत्तोयदधीतं द्विज! त्विदम् ।
श्रोपराशर उवाच इत्युक्त्वा रुधिराक्तानि सरूपाणि
यजूंव्यथ । छर्दयित्वा ददौ तस्मै ययौ च स्वेच्छपा
मुनिः । यजूंष्यथ विसृष्टानि याज्ञवल्क्येन वै द्विज! ।
जगृहुस्तित्तिरीभूतास्तित्तिर्यास्तु च ते ततः । ब्रह्महत्याव्रतं
चीर्णं गुरुणा नोदितैस्तु यैः । चरकाध्वयवस्ते तु
चरण्णान्मुनिसत्तम! । याज्ञवल्क्योऽपि मैत्रेष! प्राणायामप-
रायणः । तुष्टाव प्रणतः सूर्यं यजूंष्यभिलषं स्ततः ।
याज्ञवल्क्य उवाच । नमः सवित्रे द्वाराय मुक्तेरमितते-
जसे । ऋग्यजुःसामरूपाय त्रयीधामात्मने नमः” इत्यादि ।
पराशर उवाच । इत्येवमादिभिस्तेन स्तूयमानः सवै रविः ।
वाजिरूपधरः प्राह प्रीयमाणोऽभिवाञ्छितम् । याज्ञ-
वल्क्यस्तथा प्राह प्रणिपत्य दिवाकरम् । यजूंषि तानि मे
देहि यानि सन्ति न मे गुरौ । पराशरौवाच । एवमुक्तो
ददौ तस्मै यजूंषि भगवान् रविः । अयातयामसंज्ञानि
यानि नो वेत्ति तद्गुरुः । यजूंषि यैरधीतानि तानि
विप्रैर्द्विजोत्तम! । वाजिनस्ते समाख्याता सूर्य्याश्वोद्भव
योगतः । शाखाभेदास्तु तेषां वै दश पञ्च च वाजिनाम्
काण्वाद्यास्तु महाभाग! याज्ञवल्क्यप्रवर्त्तिताः”
काण्वा माध्यन्दिनाः शावीया श्यामायनीया कापो-
लाः पौण्ड्रवत्साःआवटिकाःपरमावटिकाः पारशर्या
वैधेया वैनेया ओघेया गालवा वैजपाः कात्या-
यनीयाश्चेति पञ्चदश शाखा इत्यर्थः । प्रतिपद
मनुपदम् प्रतिपदे अनुपदम् अल्पपदं कर्त्तव्यमित्यर्थः ।
छन्दः छन्दोरत्नाकारादि । भाषा शब्दपरिभाषा, धर्म्मः
धर्मशास्त्रं मन्वादि, मीमांसा प्रसिद्धा न्यायः तर्कः
इति षडुपाङ्गानि । उपज्योतिषं ज्योतिःशास्त्रम्
साङ्गलक्षणं सामुद्रिकादि प्रतिज्ञानुवाक्यः अनेन वाक्येन
अयं सिद्धान्तः । परिसंख्या सूगोलादि । अयं रणव्यूहः ।
आद्धकल्पः प्रवराध्यायश्च शास्त्रं क्रतुसंस्याकल्पादिषु
ज्ञातव्यम् । अनुगमयज्ञा यज्ञक्रियापार्श्वानि हौत्रि-
कभेदाः । हौत्रं यज्ञक्रियाः । पाशवोक्थानि पशुयज्ञाः
कूर्मलक्षणं यज्ञे प्रसिद्धम् । इति अष्टादश परिशिष्टानि
भवन्ति । द्वे सहस्रेशतन्यूने मन्त्रे वाजसनेयके इत्युक्तेः
सकलं सशुक्रियं ग्रन्थाश्च परिसंख्यात मित्यर्थः । वाजस-
नेयवेदे च नवशताविकसहस्रमन्त्रा इत्यर्थः । एतत्स-
कलं सशुक्लियं मध्याह्ने शुक्लवर्णेन सूर्येणदत्तं सशुक्रिय
संज्ञंपरिसंख्यातमित्यर्थः । वेदोपक्रमणे चतुर्दशीयुक्त-
पूर्णिमाग्रहणात् शुक्लयजुः प्रथितमित्यर्थः । प्रतिपदा-
युक्लपूर्णिमाग्रहणात् कृष्णयजुरिति च । ब्राह्मणञ्च चतु-
पृष्ठ २२१८
र्गुणं ब्राह्मणमित्यर्थः, यजुर्वेदतरोरासन् शाखा ह्येकोत्त-
रं शतम् । तत्रापि च शिवाकारा दश पञ्च च वाजिनाम् ।
“तत्रापि प्रथमा मुख्या शाखेयं काण्वसंज्ञिका” इति
ग्रन्थान्तरे । तैत्तिरीयानाम द्विभेदा भवन्ति औख्याः
काण्डिकेयाश्चेति । काण्डिकेयानां पञ्च भेदा भवन्ति
आपस्तम्बी बौधायनी सत्याषाढी हिरण्यकेशी औधेयी चेति
तेषामध्ययनं परिमाणम् । “काण्डास्तु सप्त विज्ञेया
प्रश्नाश्च चतुरुत्तराः । चत्वारिंशत्तु विज्ञेया अनुवाकाः
शतानि षट् । एकपञ्चाशदधिका संख्या पञ्चाश्यथोच्यते ।
द्विसहस्रञ्चैकशतमष्टानवतिकाधिकन् । लक्षैकन्तु द्विन-
वतिः सहह्राणि प्रकीर्त्तितम् । पदानि नवतिश्चैव तथाक्ष-
रन्तदुच्यते । लक्षद्वयं त्रिपञ्चाशत् सहस्राणि शताष्टकम् ।
अष्टषष्ट्यधिकं चेव यजुर्वेदप्रमाणकम्” । काण्डाः ७ । प्रश्नाः
१४४ । अनुवाकाः ६५१ । पञ्चाशी २१९८ । पदानि १९२०९० । अक्ष-
रसंख्या २५३८६८ । इति शाखावाक्यान्ययुतानि सहस्राणि
नवानि च । चतुःशतान्यशीतिश्च अष्टौ वाक्यानि गण्यते
तत्र इति ब्राह्मणे वाक्यसंख्या १९४८० तैत्तिरीयनिगदवेदा-
ख्यसंख्या उक्ता इत्यर्थः । तत्र कठानां तु प्रगाथचतुश्चत्वा-
रिंशदुपग्रन्थाः । मन्त्रब्राह्मणयोर्वेदस्त्रिगुणं यत्र पठ्यते ।
यजुर्वेदः स विज्ञेयो अन्ये शास्वान्तराः स्मृताः”
चतुश्चत्वारिंशदुपग्रन्थाः मन्त्रब्राह्मणयोर्वेदस्य अध्याय
समीपे उक्ताः चतुश्चत्वारिंशत् । मन्त्रश्च ब्राह्मणं च
मन्त्रब्राह्मणे तयोः मन्त्रब्राह्मणयोः तयोश्च वेद इति
संज्ञा तदुक्तं “मन्त्रब्राक्षणयोर्वेद” इति नामधेयमित्यृक्-
शाखीयप्रातिशाख्याभाष्यकारेण, आपस्तम्बसानान्यसू-
त्रभाष्यकारकपर्दिना धूर्त्तखामिना च । तथाच
सति मन्त्रोनाम संहितामन्त्रस्तादृङ्मन्त्ररूपसंहितायाः
मध्ये एव तदग्रे ब्राह्मणत्वेन पठनमित्युभययापि
संहितात्वेन पदत्व न क्रमत्वेन च पठनं त्रिगुणपठन
मिति समन्त्रब्राह्मणयो र्वेदस्त्रिमुणो यत्र पठ्यते इत्यर्थः
एतादृशं पठनं शाखाया अध्ययनं स यजुर्वेदस्तच्च तैत्तिरी
यशाखायामेवास्ति” भाकम् । अयमत्र शाखाभेदसंस्व्या-
निर्णयः । चरकादिकानां द्वादशानां प्रत्येकं मानवादि सप्त
भेदैर्मुणितानां ८४ संख्या सम्पद्यते तैत्तिरीयस्य द्वौ भेदौ
एवं पड़शीतिसंख्या वाजसनेयसंख्या पञ्चदशेति
एकोत्तरशतसंख्या । अतएवमुक्तिकोपनिषदि “एकोत्तर
शतं चैव यजुःशाखाः प्रकीर्त्तिताः” इत्युक्तम् दर्शितविष्णुपु०
सप्तविंशतिभेदोक्तिः चरकादिद्वादशभेदाः काण्वादि
पञ्चदशभेदाश्चेति मुख्यभेदाभिप्रायेणेति न विरोधः ।
कृष्णयजुर्वेदगतोपनिषदश्च उपनिषचच्छब्दे दर्शिताः

कृष्णयाम पु० कृष्णोयामोवर्त्म यस्य । वह्नौ । “वृश्चद्वनं

कृष्णयामम्” ऋ० ६, ६, १, “कृष्णयामं कृष्णवर्त्मानम्” भा०

कृष्णरक्त पु० वर्ण्णोवर्ण्णेनेति” पा० स० । १ काललोहितवर्ण्णे

(वेमुगीरङ्) २ तद्वति त्रि० ।

कृष्णरुहा स्त्री कृष्णा सती रोहति रुह--क । जतुकायां राजनि०

कृष्णरूप्य त्रि० कृष्णस्य भूतपूर्वःरूप्य । तदीयभूतपूर्वसम्बन्धिनि ।

कृष्णाया इत्यर्थे न पुंवत् । कृष्णारूप्य इति भेदः

कृष्णल पु० कृष्णोवर्ण्णोऽस्त्यस्यार्द्धफले सिध्मा० लच् । गुञ्जावृक्षे

शब्दचि० तत्रार्थे स्त्री अमरः २ तत्फले न० । “द्वे कृष्णले
पलधृते विज्ञेयोमध्यमोयवः” मनुः । “त्रियवं त्वेककृष्णलम्” ।
“स दण्ड्यः कृष्णलान्यष्टौ” मनुः । “जालसूर्य्यमरीचिस्थं त्रस-
रेणु रजः स्मृतम् । तेऽष्टौ लिक्षा, तु तास्तिस्रोराजसर्षप
उच्यते । गौरस्तु ते त्वयः, षट् ते यवोमध्यस्तु, ते त्रयः ।
कृष्णलः, पञ्च ते माषः” इति याज्ञ० परिभाषिते ३ वरिमा-
णभेदे पु० स्वार्थे क । तत्रार्थे “पञ्चकृग्णलकोमाषः” मनुः
अत्र पञ्च कृष्णलाःपरिभाणमज्यस्येति कन् । इति तु न्याय्यम्

कृष्णलवण न० नित्यकर्म्म० । सौवर्चललवणे (कालालोन)

राजनि० काचलवणशब्दे १८५६ पृ० विवृतिः ।

कृष्णलोह नित्यक० । अयस्कान्ते लौहसेदे राजनि० ।

कृष्णलोहित पु० कृष्णः सन् लोहितः “वर्णोवर्णेनेति” पा० स० ।

१ रक्तकालमिश्रितवर्णे धूमले (वेगुनीरङ) । २ तद्वति
त्रि० अमरः ।

कृष्णवक्त्र पुंस्त्री० कृष्णं वक्त्रमस्य । वानरे हलायुधः संयोगो-

पधत्वात् जातित्वेऽपि स्त्रियां टाप् । कृष्णवदनादयोऽप्यत्र

कृष्णवर्ण्ण पु० कृष्णो वर्णोऽस्य । १ राहौ ग्रहे । राहोः

छायारूपत्वेन तमोरूपत्यात् तथात्वारोपात् तथात्वम्
कृष्णः अशुद्धी वर्णः । २ शूद्रे पु० । कर्म्म० । काले वर्ण्णे
पु० कृष्णवर्णवति त्रि० । “कृष्णवर्ण्णं त्विपाऽकृष्णम्”
भागव० ११ स्क० ।

कृष्णवर्त्मन् पु० कृष्णं वर्त्म धूमप्रसाररूपगतिस्थानमस्य ।

१ वह्नौ, “हविषा कृष्णवर्त्मेव भूय एवाभिवर्द्धते” मनु
पातयामाम विहगान् प्रदीप्ते कृष्णवर्त्मनि” भा० आ०
२२६ अ० । २ चित्रकवृक्षे अमरः ३ राहौ ग्रहे, मेदि० ।
कृष्णमपवित्रं वर्त्माचरणं यस्य । ४ दुष्टकर्म्मकारके त्रि०
अमरः कृष्णएव वर्त्म । ५ वासुदेवरूपगतौ । “कृष्णवर्त्मनि
गुणान गणयन्ती जीवनेषु लघयन्त्यनुरागम् । आमता
पृष्ठ २२१९
वत जरेव हिमानी सेव्यतां सुरतरङ्गिणी” उद्भटः ।
कृष्णवर्त्तन्यादयोऽपि वह्नौ । “पावकं कृष्णवर्त्तनिम्” ऋ०
८, २३, १९, चित्रकवृक्षे च

कृष्णवर्वर पु० नि० कर्म्म० । वर्वरभेदे (कालतुलसी) राजनि० ।

कृष्णवल्लिका स्त्री कर्म्म० । जतुकालतायाम् राजनि०

कृष्णवल्ली स्त्री कर्म्म० । १ कृष्णतुलस्याम्, २ कर्कट्याञ्च शब्दच०

३ शारिवाभेदे राजनि० ।

कृष्णवानर पुंस्त्री नित्यकर्म्म० । वानरभेदे गोलाङ्गूले राजनि० स्त्रियां जातित्वात् ङीष्

कृष्णविषाणा स्त्री कृष्णस्य मृगस्य विषाणा विषाणयुक्ता ।

यजमानकण्डूयनसाधनद्रव्यभेदे । तत्स्वरूपादि कात्या०
७, ३, उक्तं यथा “कृष्णविषाणां त्रिवलिं पञ्चवलिं
वोत्तानां दशायां बध्नीत” २९ सू० “कृष्णस्य मृगस्य विषाण-
युक्तां बध्नीत आत्मनेपदाद्यजमानः, कीदृशीं त्रिवलिं
ग्रन्थित्रययुक्तां पञ्चवलिं पञ्चग्रन्थियुक्तां वा । सा च प्रादे-
शमात्री परिशिष्ट उक्ता तस्यादक्षिणावर्त्तेन बन्धनमा-
म्नातमापस्तम्बेन “त्रिवलिः पञ्चवलिर्वा दक्षिणावृद्भवति
सव्यावृदित्येक इति” कर्कः । “तया कण्डूयनम्” सू० ३०
“दीक्षितेन कर्त्तव्यम्” कर्कः । कृष्णोमृगः विषाणं
योनिर्यस्य । दीक्षितधार्य्ये मृगचर्म्मभेदे स्त्रीं । यज्ञो
हि कृष्णः (कृष्णमृगः) स यज्ञस्तत्कृष्णाजिनं या
सा योनिः सा कृष्णविषाणा” शत० ब्रा० ३, २, १, २८,

कृष्णवीज पु० कृष्णं वीजमस्य । १ रक्तशिग्रौ, जटाधरः

२ कालिङ्गे वृक्षे न० राजनि० ।

कृष्णवृन्ता स्त्री कृष्णं वृन्तमस्याः १ पाटलावृक्षे मेदि० २

माषपर्ण्याम् अमरः । संज्ञायां कन् कापि अत इत्त्वम् ।
कृष्णवृन्तिका गाम्भार्य्याम् । रत्नमा०

कृष्णवेणा स्त्री भारतप्रसिद्धे नदीभेदरूपे तीर्थभेदे । “ततो-

देवह्रदेऽरण्ये कृष्णावेणाजलोद्भवे । जातिस्मरह्रदे स्नात्वा
भवेज्जातिस्मरोनरः” भा० व० ८५ अ० । “सुनेणां कृष्ण-
येणाञ्च ईरामाञ्च महारसाम्” भा० व० १८८ अ० ।
कृष्णबेण्वाप्यत्र “गोदावरी कृष्णवेण्वा कावेरी च
सरिद्वरा” भा० स० ९ अ०

कृष्णव्रीहि पु० नित्यकर्म्म० । (केलेधान) व्रीहिभेदे ।

कृष्णब्रीहिशालामुखेत्यादिना व्रीहीन् विभज्य सुश्रुते
तद्गुणा उक्ता यथा “कृष्णव्रीहिर्वरस्तेषां कषाया-
नुरसो लघुः” । “नैरृतः परिवृत्त्यै कृष्णव्रीहीणां
नखनिर्भिन्नानाम्” कात्या० १५, ३, १४,

कृष्णश न० कृष्णदश + पृषो० । स्वयमकृष्णे कृष्णदशायुक्ते वा-

ससि । “वासः कृष्णशं कद्रु” “अकृष्णं कृष्णदशं वा
तदाख्यम्” कात्या० २२, ४, १२, १३, । “स्वयमकृष्णं सत्
कृष्णदशं वासः तदाख्यं कृष्णशमित्यर्थः” सं० व्या०

कृष्णशकुनि पुंस्त्री नित्यकर्म्म० । काके । “स्त्रीशूद्रशवकृ-

ष्णशकुनिशुनकादर्शनम्” पार० गृ० ।

कृष्णशा(सा)र पुंस्त्री कृष्णश्चासौ शारः (सारः) शवलश्च

“वर्णो वर्णेनेति पा० स० । (कालसार) मृगभेदे रमानाथः
“कृष्ण(शा)सारस्तु चरति मृगोयत्र स्वभावतः” मनुः ।
“कृष्ण(शा)सारे ददच्चक्षुस्त्वयि चाधिज्यकार्मुके” शकु० ।
स्त्रियां ङीष्

कृष्णशालि पु० कर्म्म० । (केलेधान) धान्यभेदे । राजनि० ।

“कृष्णशालिस्त्रिदोषघ्नोमधुरो दृष्टिकृद्धितः । पुष्टिवीर्य्य-
वर्द्धनश्च वर्ण्णकान्तिबलप्रदः” राजनि०

कृष्णशिग्रु पु० कर्म्म० । कृष्णशोभाञ्जने(कालसजना) । राजनि०

कृष्णशिम्बिका स्त्री० कर्म्म० । काकाण्ड्याम् । (कालशिम्)

रत्नमा०

कृष्णशृङ्ग पु स्त्री० कृष्णं शृङ्गमस्य । १ महिषे हेमच० । स्त्रियां स्वाङ्गत्वात् ङीष् ।

कृष्णसख पु० कृष्णस्य सखा टच समा० । १ अर्ज्जुने तन्नामके

२ अर्ज्जुनवृक्षे च शब्दचि० । वासुदेवतुल्यवर्ण्णत्वात्
३ कालजीरके स्त्री शब्दच०

कृष्णसमुद्भवा स्त्री कृष्णा सती समुद्भवति सम् + भू--अच् ।

कृष्णगङ्गायाम् । कृष्णःसमुद्भवोयस्य कृष्णपुत्रे २ कामदेवादौ

कृष्णसर्प पुंस्त्री० नित्यक० । सुश्रुतोक्ते कृच्छ्रकरे कालरूपे

(केउटा) सर्पभेदे अहिशब्दे विवृतिः “आशीविषैः कृष्ण-
सर्पैः सुप्तं चैनमदंशयत्” भा० आ० ६१ अ० स्त्रियां
जातित्वेऽपि संयोगोपधत्वात् टाप् । २ ओषधिभेदे स्त्री
“वसन्ते कृष्णसर्पाख्या गोनसी प्राप्यते क्वचित्” सुश्रु०

कृष्णसर्षप पुं स्त्री० नित्यकर्म्म० । कालसर्षपे (राइसरिषा)

राजनि० ।

कृष्णसार पु० कृष्णशारवद् विग्रहादि । १ मृगभेदे “एणः कृष्णः

प्रकीर्त्तितः इति” भावप्र० मृगभेदानभिधाय “जाङ्गलाः
प्रायशः सर्व्वे पित्तश्लेष्मकराः स्मृताः । किञ्चिद्वातकरा
श्चापि लघवोबलवर्द्धनाः” इति तन्मांगुणाष्ठक्ता “एणः
कृष्णमृगः स्मृतः” छन्दो० प० । स्त्रियां ङीष् । कृष्णःसा-
रोऽस्य । २ स्नुहीवृक्षे ३ शिंशपावृक्षे च मेदि० ।
४ खदिरवृक्षे शब्दरत्ना० । शिंशपावृक्षे स्त्री शब्दचि०
पृष्ठ २२२०

कृष्णसारङ्ग पु० कर्म्म० । मृगभेदे “कृष्णसारङ्गं मेध्यमभावे

लोहितसारङ्गम्” कात्या० श्रौ० ७ । ९ । २१ । “कृष्णःश्यामः
सारङ्गः सारङ्गवर्ण्णानुविद्धः” कर्कः “कृष्णसारङ्गः
स्यादित्याहुर्यदि कृष्णसारङ्गं न विन्देत अथो अपि
लोहितसारङ्गम्” शत० ब्रा० ३ । ३ । ४ । १३ “कृष्णसारङ्गः
श्यामशवलः” भा०

कृष्णसारथि पु० कृष्णः सारथिरस्य । १ अर्जुने मध्यमपाण्डवे

यथा च तस्य तत्सारथित्वं तथा भा० उ० ६ अ० वर्ण्णितं यथा
“अर्ज्जुन उवाच । मवान् समर्थस्तान् सर्व्वान्निहन्तुं
नात्र संशयः । निहन्तुमहमप्येकः समर्थः पुरुषर्षम! ।
भवांस्तु कीर्त्तिमाल्ल्ॐके तद्यशस्त्वां गमिष्यति । यशसा
चाहमप्यर्थी तस्मादसि मया वृतः । सारथ्यन्तु त्वया
कार्य्यमिति मे मानसं सदा । चिररात्रेप्सितं कामं
तद्भवान् कर्त्तुमर्हति । वासुदेव उवाच । उपपन्नमिदं
पार्थ! यत् स्पर्द्धसि मया सह । सारथ्यं ते करिष्यामि
कामः सम्पद्यतां तव” । तन्नासके २ अर्जुनवृक्षे च राजनि०

कृष्णसुन्दर त्रि० कृष्णवर्ण्णोऽपि सुन्दरः । श्रीकृष्णे । तस्याप-

त्यम् इञ् । कार्ष्णसुन्दरि तदपत्ये पुंस्त्री० स्त्रियां ङीप्
बहुत्वे तु तिककितवादित्वात् द्वन्द्वे अद्वन्द्वे च इञो लुक् ।

कृष्णस्कन्ध पु० कृष्णः स्कन्धोऽस्य । तमालवृक्षे भरतः

कृष्णागुरु न० कर्म्म० । कालागुरुणि, “कृष्णं गुणाधिकं

तत्तु लोहवत् वारि मज्जति” इत्युक्तलक्षणे गन्धद्रव्यभेदे
राजनि० “विलिप्य कृष्णागुरुणा वाजपेयफलं लभेत्”
आ० त० भवि० पु० “चन्दनाच्चागुरौ ज्ञेयं पुण्यमष्टगुणं
नृप! । कृष्णागुरौ विशेषेण द्विगुणं फलमादिशेत्”
तत्रैव शिवपूजाधिकारे भविष्यपुराणम्

कृष्णाचल पु० कृष्णप्रियः अचलः शा० त० । १ रैवतकपर्वते

जटाधरः । तस्य द्वारकामन्निकृष्टत्वेन तदीयाक्रीडपर्व्व-
तत्वात् तत्प्रियतत्वं तच्च माघे ४ सर्गे वर्ण्णितम् । कर्म्म० ।
२ नीलपर्व्वते ।

कृष्णाजिन न० ६ त० । कृष्णसारमृगस्य चर्म्मणि एणेये

“कृष्णाजिनं चोलूखलमूषले” शत० व्रा० १, १, १, २२,
“कृष्णाजिनोत्तरीयाश्च” भा० आनु० १४ अ०

कृष्णाञ्जनी स्त्री अज्यतेऽनया अन्ज--करणे ल्युट् ङीप्

कर्म० । कालाञ्जनीवृक्ष राजनि० ।

कृष्णाद्यतैल न० चक्रदत्तोक्ते तेलभेदे

“कृष्णाविड़ङ्गमधुयष्टिकसिन्धुजन्मविश्वौषधैः पयमि सिद्ध-
मिदं छगल्याः । तैलं नृणां तिमिरशुक्रशिरोऽक्षिशूल-
पाकात्ययान् जयति नस्यविधौ प्रयुक्तम्” ।

कृष्णानदी स्त्री कर्म्म० बा० न० पुंवद्भावः । कृष्णगङ्गायां राजनि०

कृष्णाध्वन् पु० कृष्णः अध्वा यस्य । कृष्णवर्त्मनि वह्नौ ।

“कृष्णाध्वा तपूरण्यश्चिकेत” ऋ० २, ४, ६,

कृष्णानन्द पु० तन्त्रसारनामकतन्त्रनिबन्धकारके तान्त्रिके विद्वद्भेदे ।

कृष्णाभा स्त्री कृष्णा सती आभाति आ + भा--क । कालाञ्ज-

नीवृक्षे राजनि० ।

कृष्णामिष न० कृष्णं वासुदेवसामियति स्पर्द्धते वर्ण्णेनआ + मिष--क । कालायसे हेम० ।

कृष्णायस न० कर्म्म० जातौ अच् समा० । लौहभेदे रत्नमा०

कृष्णार्चिस् पु० कृष्णः कालवर्ण्णोऽर्च्चिर्भ्यो यस्य । कृष्णता-

कारकशिखे वह्नौ ।

कृष्णार्जक पु० कर्म० । विषघ्ने (कालतुलसी) वनवर्वरे ।

“कृष्णार्जकः कटूष्णश्च कफवातामयापहः । नेत्ररोगवि-
नाशी च रुच्यः सुप्रसवे हितः” शाजनि०

कृष्णालु पु० कर्म्म० । कालालौ आलुभेदे राजनि०

कृष्णावास पु० आवसत्यस्मिन् आ + वस--आधारे चञ् ६ त० ।

अश्वत्थवृक्षे । तस्य तदावासत्वमश्वत्थशब्दे ५०६ पृ० उक्तम्

कृष्णाष्टमी स्त्री कृष्णा अष्टमी । १ कृष्णपक्षाष्टम्याम्

कृष्णस्य वासुदेवस्य जन्मदिनमष्टमी । गौणभाद्रपदमासी-
यकृष्णपक्षस्याष्टम्यां जन्माष्टम्याम् तस्याश्च “अथ भाद्रपदे
मासि कृष्णाष्टम्यां कलौ युगे । अष्टाविंशतिमे जातः
कृष्णोऽसौ देवकीसुतः” ब्रह्मपु० तज्जन्मदिनत्वोक्तेस्तथात्वम्
तत्र कर्त्तव्यव्रतकालनिर्ण्णयः कालमा० दर्शितो यथा
“अथ जन्माष्टमी विचार्य्यते । सा किं पक्षभेदेन
निर्णेतव्या उत व्रतविशेषेणाहोस्विद्योगविशेषेणेतिः । अत्रै-
वेदमपरं चिन्त्यते किं जन्माष्टमीव्रतमेव जयन्तीव्र
तमुत तयोर्मेद इति । तथान्यदपि चिन्तनीयं किं तिथ्य
न्तरवदत्राहर्वेध उत मध्यरात्रवेध इति । प्रथमं व्रतस्वरूपे
निश्चिते पश्चादस्मित् व्रते कीदृशी तिथिरित्याकाङ्क्षोदेति ।
तिथौ च पूर्वविद्धत्वेन परविद्धत्वेन वा निश्चितायां पश्चात्की
दृशोवेध इत्याकाङ्क्षा । तस्मादादौ व्रतं निश्चीयते । तत्र
जन्माष्टमीजयन्तीशब्दाभ्यां व्यवहियमाणं व्रतमेकमेवेति-
तावत् प्राप्तम् । कुतः? रूपभेदामावात् । यथा यागस्थ
द्रव्यदेवत रूपं यथा वोपासनस्प गुणविशेषैर्युक्ता दंवता
यथा च तत्त्वविद्यायां वेद्यन्तत्त्वं रूपम् । तथा व्रते नियम
विशेषोरूपम् नियमश्चात्रोपवासो जागरणं कृष्णपूजा
चन्द्रार्घदानमित्यादिलक्षणः । सचोभयत्र न मिद्यते ।
अथोच्येत रूपाभेदेऽपि नित्यकाम्यत्वाभ्यां भेदो भविष्यति
नित्या जन्माष्टमा अकरणे प्रत्यवायस्मरणात् । तथा च
स्मर्यते “गृध्रमांसं खगं काकं श्येनं च मुनिसत्तम! ।
पृष्ठ २२२१
मांसं वा द्विपदां भुङ्क्ते भुक्त्वा जन्माष्टमी दिने । जन्माष्टमी-
दिने प्राप्ते येन भुक्तं द्विजोत्तम! । त्रैलोक्यसम्भवं
पापं तेन मुक्तं द्विजोत्तमेति” । भविष्यत्पुराणे “श्रावणे
बहुले पक्षे कृष्णजन्माष्टमीव्रतम् । न करोति नरो यस्तु
भवति ब्रह्मराक्षसः । कृष्णजन्माष्टमीं त्यक्त्वा योऽन्यद्वतमुपासते ।
नाप्नोति सुकृतं किञ्चिदिष्टापूर्त्तमथापि वा । वर्षेवर्षे तु
यानारी कृष्णजन्माष्टमीव्रतम् । न करोति महाप्राज्ञ! व्या-
ली भवति कानने” इति । स्कन्दपुराणेऽपि “ये न कुर्वन्ति
जानन्तः कृष्णजन्माष्टमीव्रतम् । ते भवन्ति नराः प्राज्ञ!
व्याला व्याघ्राश्च कानने! रटन्तीह पुराणानि भूयोभूयो
महामुने! । अतीतानागतन्तेन कुलमेकोत्तरं शतम् ।
पातितं नरके घोरे भुञ्जता कृष्णवासरे” इति । जयन्ती
च काम्या फलविशेषस्मरणात् विष्णुधर्मोत्तरे हि जयन्तीं
प्रकृत्य पट्यते “यद्बाल्ये यच्च कौमारे यौवने वार्धके तथा ।
बहुजन्मकृतं पापं हन्ति सोपोषिता तिथिरिति” । बह्नि
पुराणेऽपि “सप्तजन्मकृतं पापं राजन्! यत्त्रिविधं नृणाम् ।
तत् क्षपयति गोविन्दस्तिथौ तस्यां समर्चितः । उपवासश्च
तत्रोक्तो महापापप्रणाशनः । जयन्त्यां जगतीपाल!
विधिना नात्र संशयः” इति । पद्मपुराणेऽपि “प्रेतयो-
निगतानां तु प्रेतत्वं नाशितं नरैः । यैः कृता श्रावणे
मासि अष्टमी रोहिणीयुता । किं पुनर्बुधवारेण सोमेनापि
विशेषतः” इति । स्कन्दपुराणेऽपि “महाजयार्थं कुरुतां
जयन्ती मुक्तयेऽनघ! । धर्ममर्थं च कामञ्च मोक्षञ्च मुनिपु-
ङ्गव! । ददाति वाञ्छितानर्थानत्यर्थानतिदुर्लभानिति” ।
भविष्योत्तरे जयन्तीकल्पे “प्रतिवर्षं विधानेन मद्भक्तोध-
र्मनन्दन! नरो वा यदि वा नारी यथोक्तफलमाप्नु-
यात् । षुत्रं सौभाग्यमारोग्यं सन्तोषमतुलं लभेत् ।
इहधर्मरतिर्भूत्वा मृतोवैकुण्ठमाप्नुयादिति” । एवं
जन्माष्टम्या अकरणे प्रत्यवायाज्जयन्त्याः फलविशेषाच्चो
भयोःक्रमेण नित्यत्वं काम्यत्वञ्चाभ्युपगन्तव्यमिति मैवं गुण
फलाधिकत्वाभ्युपमेऽपि जयन्त्याः फलविशेषोपपत्तेः
गोदोहनंदध्यादि तत्र दृष्टान्तः यथा “चमसेनापः प्रण-
येद्गोदोहनेन पशुकामस्येति” नित्ययोर्दर्शपौर्णमास-
योरपां प्रणयनं विधाय तदेवाश्रित्य पशुफलाय गोदोहन
मात्रं विहितम् । “दध्रेन्द्रियकामस्य” इत्यत्र च पूर्व-
प्रकृते नित्याग्निहोत्रे फलाय गुणो विधीयते । अत्रादि-
पदात् “खादिरं वीर्यकामस्य” इत्युदाहार्यम् । एवं नित्यां
जन्माष्टमीमाश्रित्य फलविशेषाय जयन्तीनामकोरीहि-
णीयोगो विधीयताम् । न च रोहिणीलक्षणस्य
कालविशेषस्यानुपादेयत्वादविधेयत्वं शङ्कनीयम् ।
कालविशेषस्य स्वरूपेण पुरुषैरनुपादेयत्वेऽपि अनुष्ठानाङ्गत्वं
शास्त्रेणावगत्यानुष्ठानाय तत्प्रतीक्षायाः कर्त्तुं शक्य-
त्वात् । अन्यथा “वसन्तेवसन्तेज्योतिषा यजेत” इत्यादिः
सर्वोऽपि कालविधिर्लुप्येत । रोहिणीयोगस्य च जयन्ती-
नामकत्वं जयन्तीलक्षणप्रदिपादकैः स्मृतिवाक्यैरध्यवसेयम् ।
तानि च वाक्यान्युदाहरामः “विष्णुधरे “रोहिणी च यदा
कृष्णपक्षेऽष्टम्यां द्विजोत्तम! । जयन्ती नाम सा प्रोक्ता सर्व-
पापहरा तिथिरिति” सनत्कुमारसंहिताम् “शृणुष्वा-
बहितो राजन्! कथ्यमानं मयानघ! । श्रावणस्य चमास
स्य कृष्णाष्टम्यां नराधिप! । रोहिणी यदि लभ्येत जयन्ती
नाम सा तिथिरिति” स्कान्दे “प्राजपत्येन संयुक्ता
अष्टमी तु यदा भवेत् । श्रावणे बहुले सा तु सर्वपापप्रणा
शिनी । जयं पुण्यं च कुरुते जयां पुण्यां च तां विदु
रिति” । विष्णुरहस्ये “अष्टमी कृष्णपक्षस्य रोहिणीऋ-
क्षसंयुता । भवेत् प्रोष्ठपदे मासि जयन्ती नाम सा स्मृता”
पौर्णमास्यन्तेषु मासेषु स्वीकृतेषु श्रावण्यां पूर्णिमायां
श्रावणमासस्य समाप्तत्वात् उपरितनीं प्रतिपदमारभ्य
भाद्रपदमास इत्यभिप्रेत्य प्रोष्ठपद इत्युक्तम् ।
विष्णुधर्मोत्तरे “प्राजापत्यर्क्षसंयुक्ता कृष्णा नभसि
चाष्टमी । सोपवासोहरेः कृत्वा तत्र पूजां न
सीदतीति” । वशिष्ठसंहितायाम् “श्रावणे वा नभस्ये वा
रोहिणीसहिताऽष्टमी । यदा कृष्णा नरैर्लब्धा सा
जयन्तीति कीर्त्तिता । “श्रावणे न भवेद्योगो नभस्ये तु
भवेद्ध्रुवम् । तयोरभावे योगस्य तस्मिन्वर्षे न सम्भवः” इति ।
अत्र श्रावण इति मुख्यः कल्पः । नभस्यैत्यनुकल्पः ।
यदि वा श्रावणे यदि वा नभस्ये, सर्वथाऽपि रोहिणीकृ-
ष्णाष्टमीयोगो जयन्तीत्येतदविवादम् । पुराणान्तरे
“रोहिणी च यदा पक्षे कृष्णेऽष्टम्यां द्विजोत्तम! । जयन्ती
नाम सा प्रोक्ता सर्वपापहरा तिथिरिति” । तदेवमेतैः
स्मृतिवाक्यैर्जयन्त्याः कृष्णाष्टमीरोहिणीयोगस्वरूपे
सति पूर्वोदाहृतफलकामिनस्तादृशो येगो गोदोहन
दध्यादिवद्गुणत्वेन विधीयते । काम्ये तु ज्योतिष्टोमे
गुणविशेषो न कोऽपि फलाय विहितः । अतः काम्य
ज्योतिष्टोमवैषम्याद्गोदोहनदध्यादिसाम्याच्च पूर्वोदाहृत
फलवाक्यानि प्रकृते नित्ये जन्माष्टमीव्रते गुणफलप्रति-
पादकत्वेनोपपद्यन्ते । तथा सति यथा दर्शपौर्ण्णमासाभ्या
पृष्ठ २२२२
मन्यः कश्चित्पशुफलको गोदोहनसंज्ञको यागोनास्ति
किन्तु गुणएव केवलं गोदोहनम् । तथा न जन्मा-
ष्टमीव्रतादन्यज्जयन्तीव्रतं किन्तु प्रकृतएव व्रतेऽयं
फलाय गुणविधिरित्येवं प्राप्ते ब्रूमः । व्रतद्वयमिदं
भवितुमर्हति कुतः? नामभेदात् १ निमित्तभेदात् २
रूपभेदात् ३ शुद्धमिश्रितत्वभेदात् ४ निर्द्देशभेदाच्च ५ तथाहि
पूर्वोदाहृतेष्वकरणे प्रत्यवायप्रतिपादकस्मृतिवाक्येषु
जन्माष्टमीव्रतमित्येव नाम व्यवहृतम् । तथा
पूर्वोदाहृतेषु जयन्तीव्रतमिति नाम व्यवहारः ।
नामभेदाच्च कर्म्मभेदोज्योतिरधिकरणे व्यवस्थितः । तस्य
चाधिकरणस्य संग्राहकावेतौ श्लीकौ भवतः । “अथैष
ज्योतिरित्यत्र गुणो वा कर्म्म वा पृथक् । गुणः सहस्र
दानात्मा ज्योतिष्टोमे ह्यनूदिते । अथेति प्रकृते च्छिन्न
एतच्छब्दोऽग्रगं वदेत् । संख्ययेवान्यकर्म्मत्वमुत्पत्तिगतसं-
ज्ञयेति” । अयमर्थः “अथैष ज्योतिरथैष विश्वज्योति
रथैष सर्वज्योति र्हेतेन सहस्रदक्षिणेन यजेतेति” श्रु-
तम् । तत्र संशयः । किं प्रकृतएव ज्योतिष्तोमे सहस्र
दक्षिणागुणविधिः उत यागान्तरविधिरिति । एष ज्योति-
रेतेनेत्येताभ्यां एतच्छब्दाभ्यां प्रकृतं ज्योतिष्टोममनू-
द्य तत्र गुणविधिरिति पूर्ब्बः पक्षः । अर्थान्तरद्योतके-
नाथशब्देन प्रकृतस्य ज्यतिष्टोमस्य विच्छेदः क्रियते ।
एतच्छब्दश्च प्रत्यासन्नं ब्रूते प्रत्यासत्तिश्च द्विविधा अतीता
आगामिनी चेति । तत्रातीतायाः प्रत्यासत्तेर्विच्छेदे
सति आगामिप्रत्यासत्तिपरत्वेनैतच्छब्दावुपपन्नो ।
तथाप्येककर्म्मत्वं मा भूत् कर्म्मभेदे तु किं प्रमाणमिति चेत् ।
अपूर्वसंज्ञेति वदामः । एष ज्योतिरित्यस्मिन्नुत्पत्तिवाक्ये
पूर्ब्बप्रकृतकर्म्मविषयाया ज्योतिष्टोमसंज्ञाया अन्या ज्योति-
रित्येषा संज्ञा श्रूयते । तत्र यथा पूर्ब्बाधिकरणे “सप्तदश
प्राजापत्यान् पशूनालभेत” इत्यत्रोत्पत्तिवाक्यगतया
संख्यया कर्म्मभोदो निरूपितः तथात्राप्युत्पत्तिगतया नूत
नसंज्ञया कर्म्मभेदोऽभ्युपगन्तव्य इति एवं च सति
प्रकृतेऽप्यनेन न्यायेनोत्पत्तिवाक्यगताभ्यां जन्माष्टमीव्रत
जयन्तीव्रतसंज्ञाभ्यां वृतभेदोऽम्युपगन्तव्यः ॥ १ ॥
तथा निमित्तभेदादपि व्रतभेदः । जन्माष्टमीव्रते तिथिरेव
निमित्तं जयन्तीव्रते तु रोहिणीयोगः । ननु जन्माष्टमी-
त्यस्मिन्नपि व्यवहारे योग एव विवक्षितव्य नक्षत्र
युक्तायामेव तिथौ देवकीनन्दनस्योत्पत्तेः, मैवम्
तज्जन्मन्यष्टम्याएव प्रधानप्रयोजकत्वात् रोहिणी
तद्योगयोर्विधीमानयोरपि बुधवारादिवदुपलक्षणत्वात् ।
अतएव शास्त्रेषु जन्माष्टमीत्येव समाख्यायते । अन्यथा
जन्मरोहिणीति जन्मयोग इति वा समाख्यायेत
क्वचित्सद्भावमात्रेण प्रयोजकत्वे बुधवारोऽपि प्रयोजकः
स्यात् । अस्त्विति चेत् अतिप्रसङ्गात् । तज्जन्मकाले
द्वापरावसानस्य संबत्सरविशेषस्य च सद्भावेन तयोरपि
प्रयोजकत्वं केन वार्य्येत । तस्माज्जन्मन्यंष्टम्याएव प्रा-
धान्यम् । तत्प्राधान्ये च श्रुतिलिङ्गादिषु षट्सु
समाख्यारूपं षष्ठं प्रमाणमुपन्यस्तं वेदितव्यम् । तथा प्रत्य-
क्षादिषु सम्भवैतिह्यान्तेष्वष्टसु प्रमाणेष्वैतिह्यरूपमागम
रूपं वा प्रमाणमुक्तं भवति । ननु निरर्थकोऽयं पञ्चवाद-
लक्षणः कोलाहलः । यद्येकं व्रतं यदि नाम व्रतद्वयं
तथाप्यनुष्ठाने कोविशेषः स्यात् । अस्त्येव महानतिशयः ।
यस्मिन् संवत्सरे श्रावणबहुलाष्टमीं परित्यज्यान्यस्मिन्न-
वम्यादौ रोहिणी भवति तस्मिन् संवत्सरे जयन्तीस्वरूप-
मेव नास्ति अतो जयन्तीव्रतस्य तत्र लुप्तत्वात्तस्यैव जन्मा-
ष्टमीव्रतत्वे तदपि न प्राप्नुयात् । भेदपक्षे त्वसत्यामपि
जयन्त्यां जन्माष्टमीव्रतं तत्र प्रवर्त्तते इत्ययमनुष्ठानेऽति-
शयः । भवत्वेवन्तथापि नोपन्यस्तो निमित्तभेदो व्रत-
भेदमावहति । कर्म्मभेदहेतुषु शब्दान्तराभ्याससं-
ज्ञागुणप्रक्रियानामधेयेषु षट्सु प्रमाणेषु निमित्तस्या-
नन्तर्भावादिति चेत्, मैवम् तथाहि पूर्ब्बोक्तसंज्ञा
भेद सम्पादितं व्रतभेदं निमित्तभेद उपोद्वलयति ।
तस्मादत्र निमित्तभेदाद्व्रतभेदः २
“तथा रूपभेदादपि ब्रतभेदोऽवगन्तव्यः । रूपभेदस्य
कर्म्मभेदहेतुत्वमामिक्षाधिकरणे निरूपितम् तस्य चाधि-
करणस्य संग्राहका वेतौ श्लोकौ भवतः “गुणः कर्म्मान्तरं
वा स्याद्वाजिभ्यो वाजिनन्त्विति । गुणोदेवाननूद्योक्तः
समुच्चयविकल्पने । आमिक्षोत्पत्तिशिष्टत्वात् प्रबला, तत्र
वजिनम् । गुणोऽप्रविश्य कर्म्मान्यत् कल्पयद्वाजिदेवकमिति” ।
“तप्तेपयसि दध्यानयति सा वैश्वदेव्यामिक्षा वाजिभ्यो
वाजिनमिति” श्रुतम् । अम्लदधिसम्बन्धात् क्षीरनीरयोर्विभेदे
सति योघनीभूतः क्षीरभागः साऽऽमिक्षा तस्याश्च विश्वे
देवा देवताः तत्र यत्पृथग्भूतं नीरं तद्वाजिनम् तस्य
च वाजिनो देवताः । तच्चामिक्षाद्रव्यकं विश्वदेव-
देवताकमेकं कर्म्म, तथा सति किमुपरितनेन वाजिभ्यो
वाजिनमित्यनेन वाक्येन, पूर्वस्मिन्नेव कर्म्मणि वाजिनं
गुणोविधीयते उत कर्म्मान्तरमिति संशयः । तत्र वाजो-
पृष्ठ २२२३
ऽन्नमामिक्षा सा येषां देवानामस्ति ते वाजिन इति व्युत्प-
त्त्या प्रकृतान् देवाननूद्य वाजिनङ्गुणो विधीयते स चामि-
क्षया सह विकल्प्यते समुच्चीयते वेति पूर्वःपक्षः । उत्प-
त्तिशिष्टामिक्षागुणावरुद्ध्वस्य कर्म्मणो गुणान्तराकाङ्क्षा-
ऽभावाद्वाजिनस्य तत्र प्रवेशासम्भवे सत्यन्यथानुपपन्नो-
याजिनगुणो वाजिशब्दार्थस्य प्रकृतदेवताव्यतिरिक्त
देवताकत्वं कल्पयित्वा कर्म्मभेदे पर्यवस्यतीति सिद्धान्तः ।
अत्र यथा द्रव्यदेवतालक्षणस्य यागरूपस्य भिन्नत्वात् कर्म्म
भेदस्तथा प्रकृतेऽपि रूपभोदोऽभ्युपगम्यताम् । उपवास-
मात्रं जन्माष्टमीव्रतस्वरूपं तदुत्पत्तिवाक्ये तन्मात्रस्य
प्रतीयमानत्वात् । ननु जयन्तीव्रतएवोपवासं कुर्य्यादित्यु-
त्पत्तिवाक्यं स्मर्य्यते न तु जन्माष्टमीव्रते, वाढम् । तथा
प्यत्र विधिरुन्नेतव्यः अन्नभोजने प्रत्यवायस्मरणा-
नुपपत्तेः । स चोन्नीयमानो विधिरुपवासमात्रं विधत्ते
न तु मण्डपनिर्माणजागरणप्रतिमादानादिकं, विधे
रुन्नयने हेतुष्वकरणे प्रत्यबायबोधकवाक्येषु भोजननिषे-
धमात्रस्मरणात् । न हि तत्र निद्रायां दानाभावे वा
प्रत्यवायः स्मर्य्यते । अत उपवासमात्रं तस्य स्वरूपं न
तु दानादिकम् । अतएवाकरणे प्रत्यवायवाक्यशेषे
जयन्तीप्रयुक्तदानादिशङ्काव्यावृत्तये केवलशब्दौपवासविशेष-
णत्वेन पठ्यते “केवलेनोपवासेन तस्मिन्जन्मदिने मम ।
शतजन्मकृतात् पापान्मुच्यते नात्र संशयः” इति । तस्माज्ज-
न्माष्टमीव्रतस्योपवासमात्रं स्वरूपं, यदि शिष्टास्तत्र
जागरणदानादिकमनुतिष्ठन्त्यनुतिष्ठन्तु नामाविरुद्धैः पुण्य-
विशेषैर्व्रतस्योपोद्वलनसम्भवात् । शास्त्रेण तु प्रापि-
तमुपवासमात्रम् । जयन्तीव्रतस्य तु दानादिसहित
उपवासः स्वरूपं तद्विधायकेषु शास्त्रेषु तथा विधानात् ।
तथा च वह्निपुराणे “तुष्ठ्यर्थं देवकीसूनोर्जयन्तीसम्भवं
व्रतम् । कर्त्तव्यं विधिनानेन भक्त्या भक्तजनैरपीति” ।
भविष्योत्तरेऽपि “मासि भाद्रपदेऽष्टम्यां निशीथे कृष्णपक्ष
गे । शशाङ्के वृषराशिस्थेऋक्षे रोहिणीसंज्ञके । योगेऽस्मिन्
वसुदेवाद्धि देवकी मामजीनत् । तस्मान्मां पूजयेत्तत्र शुचिः
सम्यगुपोषितः । ब्राह्मणान् भोजयेद्भक्त्या ततोदद्या
च्च दक्षिणाम् । हिरण्यं मेदिनीं गाश्च वासांसि कुसुमा-
नि च । यद्यदिष्टतमन्तत्तत् कृष्णो मे प्रीयतामिति” । भविष्य
द्विष्णुधर्मोत्तरयोः “जयन्त्यामुपवासश्च महापातकनाशनः ।
सर्वैः कार्यो महाभक्त्या पूजनीयश्च केशवः” इति । वह्नि
पुराणे “कृष्णाष्टम्यां भवेद्यत्र कलैका रोहिणी यदि । जयन्ती
नाम सा प्रोक्ताउपोष्या सा प्रयत्नतः” इति । स्मृत्यन्त-
रेऽपि “प्राजापत्यर्क्षसंयुक्ता श्रावणस्यासिताष्टमी । वर्षेवर्षे तु
कर्त्तव्या तुष्ठ्यर्थं चक्रपाणिनः” इति । नारदीयसंहितायाम्
जयन्तीं प्रकृत्य स्मर्यते “उपोष्य जन्मचिह्नानि कुर्याज्जाग-
रणं पुनः । अर्धरात्रयुताष्टम्यां सोऽश्वमेधफलं लभेदिति” ।
एवमेतेषु विधिवाक्येषु दानादियुक्त उपवासोजयन्ती-
ब्रतरूपत्वेन प्रतीयते । अतोरूपभेदाद्व्रतभेदः ३ ।
तथा शुद्धमिश्रत्वभेदादपि द्रष्टव्यः अकरणे प्रत्य-
वायमात्रश्रवणाच्छुद्धं नित्यं जन्माष्टमीव्रतम् । करणे
फलविशेषश्रवणदकरणे प्रत्यवायश्रवणाच्च नित्यत्वेन
काम्यत्वेन च मिश्ररूपं जयन्तीव्रतम् । तत्र फल
वाक्यानि पूर्व्वपक्षएव प्रसङ्गादुदाहृतानि । अकरणे
प्रत्यवायश्च जयन्तीं प्रकृत्य कस्मिंश्चित्पुराणे स्मर्य्यते
“अकुर्वन् याति नरकं यावदिन्द्राश्चतुर्दशेति” । स्कन्दपुरा-
णेऽपि “शूदान्नेन तु यत्पापं शवहस्तस्य भोजने । तत्पापं
लभते कुन्ति! जयन्तीविमुखो नरः” । “ब्रह्मघ्नस्य सुरापस्य
गोबधे स्त्रीबधेऽपि वा । न लोकोयदुशार्दूल! जयन्तीवि-
मुखस्य च । क्रियाहीनस्य मूर्खस्य परान्नं भुञ्जतीऽपि वा ।
न कृतघ्नस्य लोकोऽस्ति जयन्तीविमुस्वस्य च । न करोति
यदा विष्णोर्जयन्तीसम्भवं व्रतम् । यमस्य वशमापन्नः
सहते नारकीं व्यथाम् । जयन्तीवासरे प्राप्ते करोत्युदर-
पूरणम् । संपीड्यतेऽतिमात्रं तु यमदूतैः सुदारुणैः ।
काकोला आयसैस्तुण्डैः कुषन्त्यस्य कलेवरम् ।
योभुञ्जीत विमूढात्मा जयन्तीवासरे नृपेति” । तैरेतैरकरणे
प्रत्यवायवाक्यैर्निष्यत्वं जयन्त्याः । नन्वेवमुक्तैरकरणे
प्रत्यवायवाक्यैः केवलेनोपवासेनेति पापक्षयवाक्यात् जन्मा-
ष्टमीव्रतमपि नित्यकाम्यं स्यात् मैवम् पापक्षयफलत्वमात्रेण
काम्यत्वे सन्ध्यावन्दनादेरपि काम्यत्वप्रसङ्गात् । अतः
सत्यपि पापक्षये फलान्तरास्मरणेन केवलनित्यत्वं जन्मा-
ष्टमीव्रास्य युक्तम् । ततः शुद्धमिश्रभेदाद्ब्रतयोर्भेदः ४ ।
तथा निर्देशभेदादपि व्रतभेदो द्रष्टव्यः निर्देश-
भेदश्च भृगुवाक्ये दृश्यते “जन्माष्टमी जयन्ती च
शिवरात्रिस्तथैव च । पूर्वविद्धैव कर्त्तव्या तिथिभान्ते
च पारणमिति” यत्र जन्माष्टमी रोहिणी चेति
पाठः तत्रापि रोहिणीशब्देन तद्युक्ता तिथिर्विवक्षिता
न तु केवलरोहिणी, तस्मिन्वाक्ये निर्दिष्टयोः पूर्वोत्तर-
योर्जन्माष्टमीशिवरात्र्योस्तिथित्वात् । यद्योकमेव व्रतं
स्यात्तर्हि र्निदेशभेदोनोपपद्यते । ननु व्रतभेदेऽप्यस्त्रि
पृष्ठ २२२४
दोषः यदां दिनद्वयेऽष्टमी वर्त्तते रोहिणी तूत्तरएव तदा
पूर्वदिने जन्माष्टम्युपवासः परेद्युर्जयन्त्युपवास इति
नैरन्तर्य्येणोपवासद्वयं प्रसज्यते प्रसज्यतां नाम प्रमाण-
वत्त्वादिति चेत् न परदिने भोजनोपवासलक्षणविरुद्ध-
धर्म्मद्वयप्रसङ्गात् । उपवासस्याङ्गं पारणमिति हि
वक्ष्यते । तथा च जन्माष्टम्युपवासाङ्गस्य पारणस्य
जयन्त्युपवासस्य चैकत्र प्राप्तिः सोऽयमेकोदोषः । व्यतिरेका-
नुपलम्भश्चापरो दोषः । तथाहि यथा जयन्तीव्यति-
रिक्ता जन्माष्टम्युपलभ्यते तथा जन्माष्टमीव्यतिरिक्तापि
जयन्ती क्कापि वत्सरौपलभ्येत न त्वेवमुपलभ्यते अतोव्रत
मेदोऽपि दुष्टएव । अत्रोच्यते न तावत्पारणोपवाससा-
ङ्कर्यलक्षणोदोषोऽस्ति आघ्राणोदकपानादिना पारणे
सम्पादितेऽप्युपवाससम्भवात् अन्यथा द्वादशीपारणत्रयो-
दशीव्रतयोः क्वचित्साङ्कर्य्यं केन वार्येत । नाप्युपवासद्वयनै
रन्तर्य्यम् रोहिणीसंयोगसम्भवे जन्माष्टम्या अपि तत्रैव
कर्त्तव्यत्वात् सर्वत्र तियिनक्षत्रयोगस्य केवलतिथेरुत्कृ-
ष्टत्रेन केबलायास्तिथेस्तत्रोपेक्षणीयत्वात् । अतएव
व्यतिरेकानुपलम्भोऽप्यलङ्काराय नतु दोषाय जन्माष्टम्या
रोहिणीनिरपेक्षत्वेन व्यतिरेक उपलभ्यतां नाम ।
जयन्त्यास्तु योगरूपत्वेन रोहिण्यामिवाष्टम्याअपि सापेक्ष-
त्वेन् कथं व्यतिरेकाशङ्कावकाशः । तस्माद्व्रतद्वयपक्षे न
कोऽप्यस्ति दोषः । किं च यदा रोहिणीयोगोऽस्ति
तदा जन्माष्टमीजयन्त्योः सहयोगस्यावश्यम्मावित्वेन
जयन्तीव्रतएव जन्माष्टमीव्रतमन्तर्भवति । तस्मादपि नोप
वासद्वयप्रसङ्गः ५
तदेवं व्रतभेदे दोषाभावात्तत्साधकानाञ्च नामभेदा-
टीनां पञ्चानां सद्भावाद्व्रतभेदएवावश्यमभ्युप्येः ।
व्रतैक्यभ्रमस्तु तयोरुक्तयुक्त्यनुसन्धानाभावादष्टम्पु-
पवाससादृश्याच्च केषांचिदुदेति । सादृश्यं च गुणवि-
कृतित्वादाश्रयाश्रयिभावाच्च सम्भाव्यते । यथा दर्शयागस्य
गुणविकृतिः साकप्रस्थापीयोयागः । तत्र दर्शयागे
यावन्तोऽङ्गाङ्गिविषयाः प्रयोगाः, ते सर्वेऽपि साकंप्रस्था-
पीये विद्यन्ते भेदस्तु स्वल्पएव भवति । दर्शयागे सान्ना-
य्यहविषोर्दधिपयसोः पृथगवदानम् । साकप्रस्थापीये
सहैव तु प्रस्थापनम् एतावता भेदेन गुणविकृतिरित्यभिधीय-
ते । तथाग्निष्टोमस्य गुणविकृतिरुक्थः । अग्निष्टेमे द्वादश
स्तोत्राणि उक्थे च द्वादशभ्योऽधिकानि त्रीणि, ततो गुणाधि
क्याद्ग णविकृतित्रम् । एवमत्रापि जन्माष्टम्यामपवासोऽनु-
ष्ठेयः जयन्त्यां तु दानादिरधिकोगुणः । अतः सा गुण
विकृतिः । आश्रयाश्रयिभावश्च ज्योतिष्टोमे तदङ्गाव
रुद्धोपासने दृष्टः । तत्र ज्योतिष्टोम आश्रयः तस्या
ङ्गान्युक्थादीनि आश्नितानि । तत्रोक्थं नाम वहृचा-
ध्यायिना होत्रा शस्यमानं मरुत्वतीयनिष्कैवल्यादिनाम-
कं शस्त्रम् । तच्चोक्थमाश्रित्य वह्वृचब्राह्मणोपनिषत्सूपा-
सनानि विहितानि । तथाच श्रुतिः “उक्थमुक्थमिति वै
प्रजा वदन्ति तदिदमेवोक्थमियमेव पृथिवीति अहमुक्थम-
स्मीति विद्यादिति च” उद्गीथो नाम सामवेदिनोद्गात्रा-
गीयमानः साम्नो भागविशेषः । तञ्चोद्गीथ्रमाश्रि-
त्य छान्दोग्योपनिषत्सूपासनानि विहितानि “ओमित्येत
दक्षरमुद्गीथमुपासीतेति” । एवं प्रकृतेऽपि जन्माष्टमी
व्रते येयं श्रावणकृष्णाष्टमी तामाश्रित्य रोहिणीयोगनि-
मित्तं द्रानादिकं जयन्तीव्रते विधीयते । अतोगुणविकृति
त्वेनाश्रयाश्रयिभावेन च सादृश्यसम्भवादनयोर्व्रतैक्य
भ्रमो मन्दबुद्धीनां जायतां नाम प्रमाणन्यायदर्शिभिस्तु
सर्वथैव व्रतभेदोऽङ्गीकार्य इति सिद्धम् ।
यदेतद्विचारत्रयं पूर्वमुपक्षिप्तं व्रतभेदे तिथिनिणंयेवेधे
चेति तत्र व्रतभेदो निर्णीतः । अथ तिथिर्निर्णेतव्या । तन्नि-
र्णयश्च वेधाधीनः अतोवेधः पूर्वमभिधीयते । तिथ्यन्तरेष्वह्न
एव प्रायेण कर्मकालत्वादुद्रयास्तमयवेलायां त्रिमुहूर्त्तवेधः
सामान्येन निरूपितः । पञ्चम्यां तु विशेषतः षण्मुहु-
र्त्तवेधोदर्शितः जन्भाष्टस्या जयन्त्याश्च रात्रिप्रधानत्वाद्रा-
त्रियोगोऽत्र प्रशस्तः । एतच्च जाबालिवृद्धगौतमाभ्यां
दर्शितम् “अहःसु तिथयः पुण्याः कर्मानुष्ठानतोदिवा ।
नक्तादिव्रतयोगेषु रात्रियोगो विशिष्यत” इति । यद्यप्यु-
पवासस्य व्रतत्वादहनि रात्रौ च मुख्यत्वं युक्तितः
सामर्थ्यसिद्धं तथाप्यर्धरात्रस्य मुख्यकालत्वमुक्तं वशिष्ठसंहि-
तायाम् “अष्टमी रोहिणीयुक्ता निश्यर्द्धे दृश्यतेयदि ।
मुख्यकाल इति ख्यातस्तत्र जातोहरिः स्वयमिति” ।
एवं सत्यर्द्धरात्रव्याप्तिरेवात्र कर्मकालव्याप्तिरित्यभिधीयते ।
एतदेवाभिप्रेत्य विष्णुरहस्ये पठ्यते “रोहिण्यामर्धरा
त्रे तु यदा कृष्णाष्टमी भवेत् । तस्यामभ्यर्चनं शौरेर्हन्ति
पापं त्रिजन्मजमिति” । तस्मिन्नर्द्धरात्रे कियत्परिमाणम
पेक्षितमित्यपेक्षायामादित्यपुराणे दर्शितम् “अर्द्धरात्रादध-
श्चोर्ध्वं कलयापि यदा भवेत् । जयन्ती नाम सा प्रोक्ता-
सर्वपापप्रणाशिनीति” । वराहसंहितायामपि “सिं-
हेऽर्के रोहिणीयक्ता नभःकृष्णाष्टमी यदि । रात्र्यर्द्धपूर्बा-
पृष्ठ २२२५
परगा जयन्ती कलयापि चेति” । पूर्बं
चापरञ्च पूर्बापरे रात्र्यर्द्धे च ते पूर्वापरे च रात्र्यर्द्धपूर्वापरे
तयोर्गच्छति वर्त्तत इति रात्र्यर्द्धपूर्वापरगा । घटिका-
या अशीत्यधिकशतमोभागः १८० कला तावता परिमाणेन
पूर्वार्द्धावसाने उत्तरार्द्धादौ च वर्त्तमाना ग्रहीतव्या ।
खण्डतिथिरूपा कृष्णाष्टमी द्विविधा पूर्वेद्युः सप्तमीयुक्ता
परेद्युर्नवमीयुक्ता चेति । तत्र सप्तमीयुक्तायां रात्रि-
पूर्वार्धावसाने कलासद्भावोविधीयते । उत्तरार्द्धादौ स्वतः
सिद्वत्वेनाविधेयत्वात्तद्विपर्ययेण नवमीयुक्तायामुत्तरा-
र्द्धादौ कलासद्भावो विधीयते तदा पूर्वार्द्धावसाने स्वतः
सिद्धत्वादनुवादः पूर्वार्द्धावसानकलायाः सप्तमीयुत
विषयत्वं, विष्णुधर्मोत्तरे स्पष्टमभिहितम् “रोहिणी
सहिता कृष्णा मासि भाद्रपदेऽष्टमी । सप्तम्यामर्धरा-
त्राधः कलयापि यदा भवेत् । तत्र जातो जगन्नाथः
कौस्तुभी हरिरीश्वरः । तमेवोपवसेत् कालं कुर्यात्तत्रैव
न्तागरमिति” । इयमष्टमी कृष्णपक्षादिमासविवक्षया
भाद्रपदे भवति सैवाष्टमी शुक्लपक्षादिमासविवक्षया
श्रावणे भवति । अतएव योगीश्वरः “रोहिणीसहिता
कृष्णा मासे च श्रावणेऽष्टमी । अर्द्धरात्रादधश्चोर्ध्वं
कलयापि यदा भवेत् । जयन्ती नाम सा प्रोक्ता सर्वपाप
प्रणाशिनीति” । कलाया अतिसूक्ष्मत्वेन दुर्लक्ष्यत्वात्
स एव पक्षान्तरमाह । “अर्द्धरात्रादधश्चोर्ध्वमेकार्धघ-
टिकाचिता । रोहिणी चाष्टमी ग्राह्या उपवासव्रता-
दिष्विति” । एका चार्द्धघटिका चैकार्धघटिके ताभ्यामा-
चिता । कलामपेक्ष्यार्धघटिका स्थूला । तामपेक्ष्य
घटिका स्थूला । तत्रायमर्थः संपद्यते पूर्वभागावसाने
एका घटिका उत्तरभागादौ चैका मिलित्वा तन्निशीथश-
ब्दवाच्यं मुहूर्त्तं तावत्परिमाणं सर्वैरपि सुलक्ष्यत्वा-
न्मुख्यः कल्पः । तदसम्भवेऽर्धवटिकान्वेष्टव्या । तस्याप्य-
सम्भवे कलेति तत्र मुख्यं पक्षमभिप्रेत्य भविष्योत्तरे
“निशीथे कृष्णपक्षगे” इत्युक्तं तच्च वचनं साकल्येन पूर्वमुदा-
हृतम् । अत्र जयन्त्यां चन्द्रार्ष्यदानस्यावश्यकर्त्तव्यत्वा-
त्तस्य च चन्द्रोदयकालीनत्वान्निशीथे योगः प्रशस्तः ।
एतदेव विष्णुधर्मोत्तरेऽभिहितम् “श्र्द्धरात्रे तु योगोऽय-
न्तारापत्युदये तथा । निथतात्मा शुचिः स्नातः पूजां
तत्र प्रवर्त्तयेदिति” । सोऽयमर्धरात्रयोगो मुख्यः कल्पः ।
यस्तु कृत्स्नाहोरात्रयोगः सोऽयं मुख्यतरः । यश्च यदा
कदाचिदीषद्योगः सोऽनुकल्पः । स च वशिष्ठसंहि-
ताषयां दर्शितः “अहोरात्रं तयोर्योगोह्यसंपूर्णोभवेद्यदि
मुहूर्त्तमप्यहोरात्रे योगश्चेत्तामुपोषयेदिति” । सोऽय
जयन्तीव्रते योगनिर्ण्णयः । स एव जन्माष्टमीव्रते-
ऽपि द्रष्टव्यः । यस्मिन्वर्षे योगोनास्ति तस्मि-
न्वर्षे जन्माष्टमीव्रतमेकमेव प्रवर्त्तते तत्रापि नेतरा-
ष्टमीवद्दिवसवेधः किं त्वर्द्धरात्रवेधः । तथा च
पुराणान्तरे “दिवा वा यदि वा रात्रौ नास्ति
चेद्रोहिणीकला । रात्रियुक्तां प्रकुर्वीत विशेषेणेन्दुसं-
युताम्” । अन्यत्रापि “अष्टमी शिवरात्रिश्च ह्यर्द्धरात्राद-
धोयदि । दृश्यते घठिकाया सा पूर्वविद्धा प्रकीर्त्तितेति” ।
इति वेधीनिरूपितः । अथ ग्राह्यतिथिर्निरूप्यते सा च
संवत्सरभेदेन द्विधा भवति रोहिणीरहिता रोहिणी-
युक्ता चेति । तत्र या रोहिणीरहिताष्टमी सापि-
द्विविधा शुद्धा सप्तमीविद्धा चेति । सूर्योदयमारभ्य
प्रवर्त्तमानाष्टमी शुद्धा निशीथासर्वाक् सप्नम्या कियत्यापि
युक्ता विद्धा । शुद्धा पुनर्निशीथव्याप्त्यव्याप्निभ्यां द्विवि-
धा तत्र निशीथव्यापिनी जन्माष्टमीव्रते मुख्या ।
“विशेषेणेन्दुसंयुतामिति” वचनात् । निशीथव्याप्निर-
हितापि “रात्रियुक्तां प्रकुर्वीतेति” वचनेन ग्रहीतव्या
भवति । ननु पूर्वेद्युर्निशीथादूर्ध्वमारभ्य परेद्युर्नि-
शीथादर्वाक् समाप्यते तस्या उभयत्र रात्रिसंबद्ध-
त्वात् कुत्रोप्रवास इति चेत् परेद्युरिति व्रूमः
उभयत्र निशीथठ्याप्त्यभावस्य रात्रिसम्बन्धस्य च तुल्य-
त्वेऽपि परेद्युः प्रातःसंकल्पकालमारभ्य वर्त्तमान-
तपा प्राशस्त्यं द्रष्टव्यम् । सप्तमीविद्धापि त्रिविधा ।
पूर्वेद्युरेव निशीथव्यपिनी परेद्युरेव निशीथव्यापिनी
उभयत्र निशीथव्यापिनी चेति । तत्र प्रथमद्वितीययोः
पक्षयोः निशीथव्याप्तेः प्रयोजकत्वेन या निशीथव्या-
पिनी सा “विशेषेणेन्दुसंयुतामिति” वचनेन ग्रही-
तव्या भवति । या तु दिनद्वये निशीथठ्यापिनी तस्याम्
उभयत्र निशीथयोगस्य रात्रियोगस्य च तुल्पत्वान्नानेन
वचनेन निर्णयः सम्भवति नापि “कृष्णपक्षेऽष्टमी” इत्या-
दिभिरष्टमीमात्रमुपजीव्य प्रवृत्तैः निर्णेतुं शक्यते तेषाम-
हर्वेधविषयत्वात् । अन्यथा व्रतान्तरेष्वपि निशीथवेधः
प्रसज्येत तस्मान्न्यायः परिशिष्यते । न्यायश्च परेद्युरुप-
वासं प्रापयति, संकल्पकालमारभ्य तिथिसद्भावांत् ।
न च साकल्याभिधायिवचनेन पूर्वेद्युरपि संकल्पकाले
तिथिरस्तीति शङ्कनीयम् । तस्यामुख्यतिथित्वाभावात् ।
पृष्ठ २२२६
किञ्च “सा तिथिः सकला ज्ञेया यस्यामस्तमितोरवि
रिति” वचनं निशीथव्यापिनीमष्टमीं न विषयी
रोति तस्मात्परेद्युरेवोपवासः । तदेवं चतुर्विधा रोहि-
णीरहिताष्टमी निर्ण्णीता । अथ रोहिणीसहिताष्टमी
निर्णीयते सापि चतुर्विधा शुद्धा विद्धा शुद्धाधिका विद्धा-
धिका चेति । तत्र शुद्धायां संपूर्णयोगो निशीथयोगोयत्
किञ्चिन्मुहूर्त्तयोगश्चेति त्रैविध्यं भवति । एवं विद्धा
यामपि द्रष्टव्यम् । एतेषु षट्सु भेदेषु दिनान्तरे योगा-
भावादुपावासे सन्देहो नास्ति किंतु केवलं योगगततारत
म्यात्प्राशस्त्यतारतम्यं भवति । यत्किञ्चिन्मुहूर्त्ते योगः
प्रशस्तः अर्धरात्रयोगः प्रशस्ततरः सम्पूर्ण्णयोगः प्रशस्त-
तमः । सर्वेष्वपि योगेषु योगमुपजीव्य उपवासो
विहितः विष्णुधर्म्मोत्तरे “प्राजपत्यर्क्षसंयुक्ता कृष्णा नभसि
चाष्टमी । मुहूर्त्तमपि लभ्येत सोपेष्या सुमहाफला ।
मुहूर्त्तमप्यहोरत्रे यस्मिन् व्यक्तं हि लभ्यते । अष्टम्यां
रोहिणीऋक्षं तां पुण्यां समुपावसेदिति” । शुद्धाधिका तु
पूर्व्वेद्युः सूर्योदयमारभ्य प्रवृत्ता परेद्युः सूर्यो-
दियमतिक्रम्येषद्वर्त्तते सा च त्रिविधा पूर्व्वेद्युरेव
रोहिणीयुक्ता परेद्युरेव रोहिणीयुक्ता दिनद्वयेऽपि
रोहिणीयुक्ता चेति तत्राद्ययोर्द्वयोः पक्षयोर्नास्त्युपवास
सन्देहः रोहिणीयुक्ताया द्वितीयायाः कोटेरभावात् ।
तृतीयपक्षे तु रोहिणीयोगस्योभयत्र समानत्वेऽपि
गुणाधिक्यात् पूर्व्वैवोपास्या गुणाधिक्यं च दर्शयि-
य्यते । येयमत्रोपोष्यत्वेनोक्ता पूर्वा तिथिः सापि
रोहिणीयोगभेदात्त्रिधा भिद्यते अष्टमीवत्सूर्य्योदय-
मारभ्य प्रवृत्ता रोहिणी कदाचित्परेद्युरपि
कियती वर्त्तते, कदाचित्पूर्ब्बेद्युर्निशीथमारभ्य रोहिणी
प्रवर्त्तते । कदाचिन्निशीथादूर्द्ध्वमारभ्य प्रवर्त्तते । तत्र
प्रथमपक्षे संपूर्ण्णत्वमेकोगुणः । संकल्पकालमारभ्य
कृत्स्नकर्म्मकालव्याप्तिरपरोगुणः । निशीथव्याप्तिस्तृ-
तीयोगुणः । नचैते त्रयोगुणाः परेद्युः सम्भवन्ति ।
द्वितीयपक्षे निशीथे जयन्तीसद्भावोगुण, । न च परेद्युः
सोऽस्ति । तृतीयपक्षे दिनद्वयेऽपि निशीथयोगो नास्ति
पूर्ब्बेद्युः केवलाष्टमी परेद्युः केवला रोहिणी । तत्रा-
ष्टम्याः प्राधान्यात्प्राबल्यमास्थेयम् । सर्वत्र हि
जयन्तीवाक्येपु रोहिणीसहिताष्टमीति व्यवहारादष्टमीस-
हिता रोहिणीति व्यवहाराभावाच्च तिथिनक्षत्रयोः
क्रमेण प्रधानोपसर्जनभावोऽवगन्तव्यः । अती गुणाधिक्या-
च्छुद्धाधिका पूर्वैवोर्पाष्या । निशीथादर्वाक् सप्तम्या युक्ता
परेद्युरपि विद्यमाना विद्धाधिका । नन्वत्र निशीथ
वेधो ग्राह्य इत्युक्तम् । वाढं वेध्याया अष्टम्या निशीथ
सद्भावोऽत्र निशीथवेधः न तु वेधिकाया सप्तम्याः
निशीथसमये सद्भावः । विद्धाधिकायामपि पक्षत्रयम् ।
द्वयोः पक्षयोश्च सन्देहाभावः पूर्ब्बवद्योजनीयः । तत्र
या पूर्ब्बेद्युरेव रोहिणीयुक्ता विद्धाधिका तस्यामुपवास
आदित्यपुराणे स्मर्य्यते “विनाऋक्षं न कर्त्तव्या नवमी
संयुताष्टमी । कार्य्या विद्धापि सप्तम्या रोहिणीसहिता-
ष्टमीति” । विष्णुधर्म्मोत्तरेऽपि “जयन्ती शिवरात्रिश्च कार्य्ये
भद्राजयान्विते । कृत्वोपवासं तिथ्यन्ते तथा कुर्य्यात्तु
पारणमिति” । गारुड़पुराणेऽपि “जयन्त्यां पूर्ब्बविद्धा-
यामुपवासं समाचरेत् । तिथ्यन्ते वोत्सवान्ते वा व्रती
कुर्वीत पारणमिति” । या परेद्युरेव रोहिणीयुक्ता
विद्धाधिका तत्रोपवासः पूर्बतिथौ न युक्तः, रोहिणीयोगा
भावात् परेद्युः तत्सद्भावात्पूर्बोदाहृतेन प्राजापत्येत्यादिना
विष्णुरहस्यवचनेनोपवासोविधीयते । या तूभयत्र रोहि-
णीयुक्ता विद्धाधिका सापि निशीथे जयन्तीयोगमपेक्ष्य
चतुर्धा भिद्यते । पूर्ब्बेदुरेव निशीथयोगवती । परेद्यु-
रेव तादृशी, उभयत्रापि निशीथयोगसहिता तद्र-
हिता चेति । तत्र या पूर्ब्बेद्युरेव निशीथयोगवती सा
पूर्बैवोपोष्या तदुक्तं पद्मपुराणे “कार्य्या विद्धापि सप्तम्या
रोहिणी सहिताष्टमी । तत्रोपवासं कुर्वीत तिथिभान्ते
व्य पारणचिति” अत्राविशिष्टेषु त्रिषु पक्षेषु परदिन
एवोपवासः । तत्र दिनद्वये निशीथयोगमुपलक्ष्य ब्रह्म-
वैवर्त्ते पठ्यते “वर्जनीया प्रयत्नेन सप्तमीसंयुताष्टमी!
सा सर्क्षापि न कर्त्तव्या सप्तमीसहिताष्टमी । “अविद्धा-
यान्तु मर्क्षायां जातो देवकीनन्दनः” इति । यदा दिनद्व-
येऽपि निशीथयोगे परत्रोपवासस्तदा किमु वक्तव्यं
परेद्युरेव निशीथयोगे । दिनद्वयेऽपि निशीथयोगराहित्यं
बहुवा जायते । तद्यथा पूर्वेद्युर्निशीथादूर्द्ध्वं तिथि-
नक्षत्रद्वयं प्रवृत्तं तच्च परेद्यु र्निशीथादर्वागेव समाप्तमि-
त्येकः प्रकारः! पूर्बेद्युर्निशीथादर्वागेव नक्षत्रं प्रवृत्तम्
अष्टमी तु निशीथादूर्द्ध्वं प्रवृत्ता परेद्युर्निशीथादर्वाग्
नक्षत्रं निवृत्तमित्यपरः । अष्टमी निशीथादर्वाक् प्रवृत्ता
ऋक्षं च निशीथादूर्द्ध्वं प्रवृत्तम् अष्टम्याःपरेद्युर्निशीथादर्वागेव
समाप्तिरिति तृतीयः । त्रिप्वप्येतेषु प्रकारेषु परैवोपो-
ष्या दिनद्वयेऽप्यर्धरात्रयोगविषये पूर्वोदाहृतस्य “वर्जनीया
पृष्ठ २२२७
प्रयत्नेन” इत्यादिवचनस्यात्राऽपि चारयितुं शक्यत्वात् ।
किञ्च प्रथमप्रकारे न्यावोऽप्युद्वलको भवति । सङ्कल्पकाल-
मारभ्य तिथिनक्षत्रयोगस्य बहुकालव्यापित्वात् प्रशस्तत्वं
द्रष्टव्यम् । द्वितीयप्रकारे परेद्युरष्टमीबाहुल्येऽपि नक्षत्र-
योगस्याल्पत्वादनुपादेयत्वमित्याशङ्का न कर्त्तव्या । अतएव
स्कन्दपुराणे पठ्यते “सप्रमीसहिताष्टम्यां भूत्वा ऋक्षं द्विजो-
त्तम! । प्राजापत्यं द्वितीपेऽह्नि मुहूर्त्तार्धं मवेद्यदि ।
तदाष्टयामिकं ज्ञेयं प्रोक्तं व्यासादिभिः पुरेति” । तृतीयप्रकारे
परेद्युर्नक्षत्रबाहुल्येऽपि अष्टनीयोगस्याल्पत्वादनुपादेयत्व
मित्याशङ्का भवति सा च पद्मपुराणेन निवर्त्त्यते “पूर्व-
विद्धाष्टमी या तु उदये नवमीदिने । मुहूर्त्तमपि संयुक्ता
संपूर्णा साष्टमी भवेत् । कला काष्ठा मुहूर्त्ताऽपि यदा कृष्णा
ष्टमी तियिः । नवम्यां सैव ग्राह्या स्यात् सप्तमीसंयुता
न हीति” । तदेवं जन्माष्टमीभेदा जयन्तीभेदाश्च निरू-
पिताः । तत्र जयन्तीभेदेपूपवासदिने यदि बुधवारः
सोमवासरोवा भवति तदा फलाधिक्यं भवति तदुक्तं
पद्मपुराणे “प्रेतयोनिगतानां तु प्रेतत्वं नाशितं नरैः ।
यैः कृता श्रावणे मासि अष्टमी रोहिणीयुता । किं
पुनर्बुधवारेण सोमेनापि विशेषतः । किं पुनर्नवमीयुक्ता
कुलकोट्यास्तु मुक्तिदेति” । स्कन्दपुराणेऽपि “उदये चाष्टमी
किंचिन्नवमी सकला यदि । भवेत्तु बुधसंयुक्ता प्राजापत्य
क्षेसयुता । अपि वर्षशतेनापि लभ्यते यदि वा नवेति” ।
विष्णुधर्मोत्तरेऽपि “अष्टमी बुधवारेण रोहिणीसहिता
यदा । भवेतु मुनिशार्दूल! किं कृतैर्व्रतकोटिरिति” ।
यथीक्तरीत्या विहिततिथावुपवासं कृत्वा परेद्युः
पारणेनोपवासं समापयेत् पार तीर-कर्मसमात्नाकित्यस्माद्धातोः
निष्पन्नः पारणशब्दः । यद्यप्यसौ समाप्तिमात्रमभिधत्ते
तथाप्युपवाससमप्नावेव लोकशास्त्रयोः प्रयोगात् पङ्कजादि-
शब्दवद्योगरूढोद्रष्टव्यः । तया च योगरूद्योपवासस्य
चरमाङ्गं भोजनमभिधत्ते । अङ्गत्वञ्चोपवासविधिवाक्येषु
“विथिभान्ते च पारणमिति” विधानादवगन्तव्यम् ।
न च रागप्राप्तस्य भोजनस्यानेन वचनेनोपवासाङ्गतिथि
नक्षत्रयोनिप्रेधः क्रियते न तु पारणनामकं किञ्चिद-
ङ्गं विधोयत इति शङ्कनीयम् तथासति पारणशब्द
प्रग्रोगानुयपत्तेः रागप्राप्ते ह्यभ्यवहरणे भोजनशब्दः ।
तत्र पारणशब्देन रागप्राप्तमोजनविवक्षायां मुख्यार्धो
पाधितः स्यात् । किञ्चयदि पारणमङ्गं न स्यात्तदा प्रति-
निधिविधानं नोपपद्येत । तद्विधानञ्च द्वादशीप्रस्तावे
देवलेन स्मर्यते “संकटे विषमे प्राप्ते द्वादश्यां पारयत् कथम्? ।
अद्भिस्तु पारणां कुर्यात् पुनर्भुक्तं न दोषकृदिति” । अतः
पारणशब्दबलात् प्रतिनिधिविधिबलाच्च पारणस्याङ्गत्वं
द्रष्टव्यम् । अतएवादित्यपुराणे “पारणान्तं व्रतं ज्ञेयं व्रता-
न्ते न द्विभोजनम् । असमाप्ते व्रते पूर्वं नैव कुर्य्याद्व्रतान्तर
मिति” तच्च पारणमुपवासदिनात् परदिनपूर्वाह्णे कर्त्त-
व्यम् “उपवासेषु सर्वेषु पूर्वाह्णे पारणं मवेदिति” देवल
स्मरणात् । एवं सामान्यतः पूर्वाह्णे पारणप्राप्तौ क्वचि-
दपवादाय “तिथिमान्ते च पारणम्” इत्यभिधीयते ।
शुद्धाधिकायां पूर्व्वेद्युरेव जयन्तीयोगः उभयत्रापि वा
जयन्तीयोग इत्यनयोः पक्षयोः पूर्व्वेद्युरेवोपवासविधा-
नात् परेद्युः केवलतिथेस्तिथिनक्षत्रयोर्वा सद्भावात्तदन्ते
पारणविधिः । तथा शुद्धाधिकयोर्विद्धाधिकयोरुभयोरपि यदा
परेद्युरेव जयन्तीयोगस्तदा परतिथावुपवासविधानात्पार-
णदिने तिथ्यभावेऽपि कदाचिन्नक्षत्रावशेषसम्भवात्तदन्ते
पारणं विधीयते तिथेर्वा नक्षत्रस्य वावशेषकाले पारणं
ब्रह्मवैवर्त्ते प्रतिषिध्यते । “अष्टम्यामथ रोहिण्यां न कुर्या-
त्पारणं क्वचित् । हन्यात्पुरा कृतं कर्म उपवासार्जितं
फलम् । तिथिरष्टगुणं हन्ति नक्षत्रञ्च चतुर्गुणम् ।
तस्मात् प्रयत्नतः कुर्यात्तिथिभान्ते च पारणमिति” । स्कन्द-
राणेऽपि “तिथिनक्षत्रनियमे तिथिभान्तेच पारणम् ।
अतोऽन्यथा पारणे तु व्रतभङ्गमवाप्नुयादिति” ।
तिथिभान्तश्च द्विविध उभयान्त एकतरान्तश्चेति । दिनद्वये
जयन्तीयोगवत्यां शुद्धाधिकायां परदिने अष्टमी मुहूर्त्तत्र-
यं नातिक्रामति रोहिणी तु पूर्वेद्युर्निशीथादर्वाग् यदा
कदाचित् प्रवृत्ता तदनुसारेण परेद्युः समाप्येत । तत्र
यदि दिवैव समाप्येत तदा तामतिवाह्यैव पारणं कुर्यात्
उभयान्तस्य मुख्यत्वात् । यदि रात्रौ समाप्तिस्तदा तत्समा-
प्तर्न प्रतीक्षणीया रात्रिपारणस्य निषिद्धत्वात् । तथा
च ब्रह्मवैवर्त्ते “सर्वेष्वेवोपवासेपु दिवा पारणमिष्यते ।
अन्यथा पुण्यहानिः स्यादृते धारणपारणमिति । अन्य-
तिथ्यागमोरात्रौ तामसस्तैजणो दिवा । तामसे पारणं
कुर्वंस्तामसीं गतिमश्नुते” इति । दिवापारणं कुर्वन्नाप
नाष्टमीवेलायां कुर्य्यात् एकतरान्तस्याभावात् अष्टमीम-
तिवाह्य रोहिण्यां वर्त्तनायाभपि पारणं कार्यम् । अतएव
नारदीये “तियिनक्षत्रसंयोग उपवासोयदा भवेत् ।
पारणं तु न कर्त्तव्यं यावन्नैकस्व रुक्षयः” । सांयोगिके
व्रते प्राप्ते यत्रैकोऽपि वियुज्यते । तत्रैव पारण कुर्यादेवं
पृष्ठ २२२८
वेदपिदोविदुरिति” । पूर्व्वेद्युरेव निशीथे जयन्तीयोग
वत्यां विद्धाधिकायां पारणदिने तिथिभान्तो बहुधा
संभाव्यते । अहन्युमयान्तएकतरान्तोवा, रात्रावेकतरान्त
उभयान्तोवेति । तेषु चतुर्षु भेदेषु निर्णयः स्मर्यते
“तिथिऋक्षयोर्यदा च्छेदोनक्षत्रान्तमथापि वा । अर्द्ध
रात्रेऽपि वा कुर्यात् पारणञ्च परेऽहनीति” । दिवसे
यद्युभयान्तस्तदा पारणमिति मुख्यः कल्पः । नक्षत्रा-
न्तसित्यनेनैकतरान्तत्वं विवक्षितम् । सोऽयमनुकल्पः ।
यदि रात्रौ निशीथादर्वागुभयान्त एकतरान्तो वा भवति
तदा दिवसे मुख्यानुकल्पयोरुभयोरप्यसंभावाद्रात्रौ
पारणस्य निषिद्धत्वाच्चार्थात्तत्राप्युषवासप्राप्तौ पारणस्य
प्रतिप्रसवः क्रियते “अर्धरात्रेऽपि वा कुर्यादिति” । ननु
पारणेऽष्टम्यन्तस्य प्रतीक्षणीयत्वेऽपि रोहिण्यन्तो न प्रती-
क्षणीयः “याः काश्चित्तिथयः प्रोक्ताः पुण्या नक्षत्रसं-
युताः । ऋक्षान्ते पारणं कुर्याद्विना श्रवणरोहिणीम्”
इति स्मरणात् । मैवम् । “नक्षत्रञ्च चतुर्गुणमिति” प्रत्यवा
यस्योदाहृतत्वात् । तस्मात् “विना श्रवणरोहिणी-
मिति वचनं केवलनक्षत्रोपवासविषयं पूर्वोक्तानुकल्पवि-
षयं वेत्यवगलव्यम् । अशक्तस्य तु तिथिनक्षत्नयोरु-
भयोरनुवर्त्तमानयोरपि प्रातर्देवं संपूज्य क्रियमाणं
पारणं न दुष्यति । “तिथ्यन्ते वोत्सवान्ते वा व्रती कुर्वी-
त पारणमिति” स्मरणात् ।
तत्र निष्कृष्टार्थस्तु तेनैव कारिकामिर्निबद्धोयथा
“जयन्त्याख्यं व्रतं भिन्नं कृष्णजन्माष्टमीव्रतात् । शुद्धा
च सप्तमोविद्धेत्येवं जन्माष्ठमी द्विधा । सप्तमी चेन्नि-
शीथात् प्राग्विद्धा शुद्धाऽन्यथा भवेत् । शुद्धायां नास्ति
सन्देहो विद्धा च त्रिविधेष्यते । निशीथयीगः पूर्वेद्यु-
रुत्तरेद्युर्द्वयोरुत । पूर्वैव प्रथमे पक्षे परैवोत्तरपक्षयोः ।
अष्टमी रोहिणीयुक्ता जयन्ती सा चतुर्विधा । शुद्धा
शुद्धाधिकेत्येवं विद्धा विद्धाधिकेति च । शुद्धायामपि विद्धायां
न संभाव्योत्तरा तिथिः । शुद्धाधिकायां योगः स्यादेक-
स्मिन्वा दिनद्वये । नैकयोगेऽस्ति सन्देहो द्वियोगे प्रथम-
न्दिनम् । यदा निशीथे पश्चाद्वेत्युत्तमो मध्यमोऽधमः ।
योगस्त्रिधापि पूर्वेद्युः संपूर्णत्वादुपोषणम् । बिद्धाधि-
कायां प्रत्येकदिनयोगे स गृह्यताम् । द्वयोर्योगस्त्रिधा-
मिन्नो निशीथवृत्तिभेदतः । तद्युक्तिर्दिन एकस्मिन्नु
भयोर्नोभयोरिति । एकस्मिंश्चेत्तद्दिनं स्यात् पक्षयोरन्त्ययोः
मरा । वुधे सोमे जयन्ती चेद्वारे साऽतिफलप्रदा । तिथ्यृ-
क्षयोर्द्वयोरन्ते उत्तमं कारणं भवेत् । एकस्यान्त
मध्यमं स्यादुत्सवान्तेऽधमं स्मृतम् । यस्मिन्वर्षे
जयन्त्याख्यो योगो जन्माष्टमी तदा । अन्तर्भूता जयन्त्यां
स्यादृक्षयोगप्रशस्तितः । नोपवासद्वयं कार्यमुपोष्यन्तु
परं दिनम्” ।
रघुनन्दनमते तु तद्व्यवस्था यथा
“यत्रैकदिने जयन्तीलाभस्तत्रैवीपवासः । उभयदिने
चेत्तदा परदिने । जयन्त्यलाभे च रोहिणींयुक्ताष्ट-
म्याम् । उभयदिने रोहिणीयुक्ताष्टमीलाभे परदिने ।
रोहिण्यलाभे तु निशीथसम्बन्धिन्यामष्टम्याम् ।
उभयदिने निशीथसम्बन्धे तदसम्बन्धे वा परदिन इति ।
उपवासपरदिने तिथिनक्षत्रयोरवसाने पारणम् ।
यदा तु महानिशायाः पूर्व्वमेकतरस्यावसानमन्यत-
रस्य महानिशायां तदनन्तरं वा तदैकतरावसाने
पारणम् । यदा महानिशायामुभयस्थितिस्तदोत्सवान्ते
प्रातःपारण्णमति” ।
तत्प्रमाणवाक्यानि ति० त० जन्माष्टमीतत्त्वेऽनुसन्धेयानि
माववरघुनन्दनमतयोर्युक्तत्वायुक्तत्वे सत्यपि देशविशेष
वासिभिस्तत्तद्व्यवस्थे आदर्त्तब्ये एते च व्यवस्थे स्मार्त्तैरे-
वादर्त्तव्ये । वैष्णवैस्तु हरिभक्तिविलासाद्यनुसारिणी व्यव-
स्थादर्त्तव्या सा च जन्माष्टमीशब्दे दृश्या । कृष्णजन्माष्ट-
मीशब्दोऽप्यत्र दर्शितकालमाधवीयग्रन्थे उदा० दृश्यम् ।

कृष्णिका स्त्री कृष्णोवर्ण्णो सूम्नाऽस्त्यस्य ठन् कृष्णैव संज्ञायां

कन्वा । (राइसरिष्रा) राजसर्षपे हेमच०

कृष्णेक्षु पु० कर्म्म० । (काजला) इक्षुभेदे कान्तारेक्षौ राजनि० ।

तद्गुणाः इक्षुशब्दे ९०९ पृ० उक्ताः

कृष्णोदर पुंस्त्री० कृष्णमुदरमस्य । दर्वीकरसर्पभेदे “कृष्ण-

सर्पो भहासर्पः कृष्णोदरः” इत्यादि दर्वीकरसर्पभेदौक्तौ
सुश्रु० । अहिशब्दे विवृतिः स्त्रियां जातित्वात् ङीष् ।

कृष्णोदुम्बरिका स्त्री कृष्णस्यकाकस्य प्रिया उदुम्बरिका ।

काकोदुम्बरिकायाम् राजनि०

कृष्य त्रि० कृष--कर्म्मणि अर्हार्थे क्यष् । कर्षणार्हे क्षेत्रादौ

“कृष्यां दहन्नपि ननु क्षितिमिन्धनेद्धः” रघुः

कृसर पु० कृ--सर किच्च बा० न षत्वम् । “तिलतण्डुल

सम्पक्वः कृसरः सोऽभिधीयते” छ० प० उक्ते तिलखण्ड
मिश्रिते पक्वे तण्डुले (खेचडी) कृतान्नभेदे स्त्री भावप्र०
कृतान्नशब्दे दृश्यम्
पृष्ठ २२२९

कॄ विक्षेपे तुदा० पर० सक० सेट् । किरति अकारीत् ।

अकारिष्टाम् चकार चकरतुः चकरिव । करीता ।
क(रि)रीष्यति करी(रि)तव्यः कार्य्यः । कर्म्मणि कीर्य्यते
अकारि अकारिषाताम् अकारि(क(रि)री) सात्राम्
किरन् कीर्य्यमाणः । कीर्ण्णःकीर्ण्णिः करी(रि)तुभ्
  • अनु + पश्चात् क्षेपे अनुकिरति अनुकीर्ण्णः
  • अप + हर्पवासभक्षणार्थतया खनने तत्र चतुष्पाजन्तु--पक्षि
कर्त्तृके आ० सुट् च । अपस्किरते हृष्टो वृषः भक्षार्थी
कुक्कुटः । वासार्थी श्वा वा । हर्षाभावे तु न सृट् न वा
तङ । अपकिरति कुसुमम् ।
  • अव + अधःक्षेपणे दूरतःप्रक्षेपे च सक० अवकिरति मलार्थे
सुट् अवस्करः । व्रतात् पतने अक० । अवकीण्णीं
  • आ + समन्तात् क्षेपणे विस्तारे च सक० “आकीर्ण्णमृषिपत्नीना
मुटजद्वाररोधिभिः” रघुः
  • उद् + उत्खनने (गाड़ा) उत्कीर्ण्णशब्दे उदा०
  • सम् + उद् + छेदने विदारणे हिंसायां च सक० “मणौ वज्रसमुत्कीर्णे” रघुः
  • उप + छेदने सुट् च । उपष्किरति
  • परा + सम्यक क्षेपे व्याप्तौ च सक० पराकीर्ण्णः
  • प्र + प्रक्षेपे सक० नानाजातीयैर्मेलने । प्रकीर्ण्णम्
  • प्रति + हिंसायाम् सुट् च । “उरोविदारं प्रतिचस्करे नखैः” माघः
  • वि + विक्षेपे सक० “व्यवीर्य्यत त्र्यम्बकपादमूलेः कुमा०
  • सम् + मिश्रणे । सङ्करः सङ्कीर्ण्णः

कॄ हिंसने क्य्रादि० उभ० सक० सेट् । कृणाति अकारीत् ।

चकार चकरे करीता करो(रि)ष्यति ते । कीर्णः कीर्णिः

कॄ विज्ञाने चुरा० आत्म० सक० सेट् । कारयते अचीकरत ।

कॄत संशये सशब्दे चु० उभ० सक० सेट् । कीर्तयति--ते

अचकीर्त्तत्--त कविकल्पद्रुमः ।

कॢप्त त्रि० कृप--क्त । १ रचिते, २ नियते, “कॢप्तेन सोपानपर्थ-

नेति” रघुः । ३ छिन्ने च । “कॢप्तकेशनखश्मश्रुः” मनुः

कॢप्तकील स्त्री कॢप्तं कीलयति कीलि--अण् । व्यवस्थालि

पौ त्रिका०

कॢप्तधूप पु० कॢप्तोधूपोयेनं । सिह्णके जटा०

कॢप्ति स्त्री कृप--भावे क्तिन् । १ कल्पने २ अवधारणे ३ नैयत्येच ।

“तेषां कॢप्तिमन्वितरे कल्पन्ते” शत० ब्रा० १२ । १ । १ । ७
“संज्ञामूर्त्तिकॢप्तिस्त्रिवृत्कुर्व्वतः” शा० सू०

कॢप्तिक त्रि० कॢप्तं मूल्यदानेन स्वत्वं देयत्वेनास्त्यस्य ठन्

ततः आगतः कन् वा । २ क्रीते हला० तस्य मूल्यदा-
नेन स्वत्वनैयत्यापादकतया तथात्वम् ।

केकय पु० ब० व० देशभेदे । “अतऊर्द्ध्वं जनपदान्निबोध

गदतो मम” इत्युपक्रमे “उपावृत्तानुपावृत्ताः सुराष्ट्राः
केकयास्तथा” भा० उ० ९ अ० । “उभौ भरतशत्रुघ्नौ
केकयेषु परन्तपौ” रा० अ० ६७ अ० “केकयांस्ते गमिष्य-
न्तोहयानारुह्य सन्मतान्” रामा० अ० ६० अ० “तथा
केकयराजानं वृद्धं परमधार्म्मिकम् । श्वशुरं
राजसिहञ्च सपुत्रं तमिहानय” रामा० आ० १३ । १४ “अयं
केकयराजस्य पुत्रोवसति पुत्रक! त्वां नेतुमागतो वीरो
युधाजित् मातुलस्तव” रामो० ११ । १६ ।
स च देशः वृ० स० कूर्म्मविभागे उत्तरस्यामुक्तः । “उत्त-
रतः कैलासः इत्युपक्रमे “केकयवसातियामुनभोग
प्रस्थार्जुनायनाग्नीध्राः” इति । केकयानां राजा अण
यादेरियादेशः । कैकेय तद्देशनृपे । बहुषु तस्य लुक् ।
केकयाः तद्देशनृपेषु ब० व० । सोऽभिजनोऽस्य अण् । कैकेय
तद्देशवासिनि बहुषु तस्य लुक् । उपचारात् २ केकयनृपे
पु० “सत्कृत्य केकयीपुत्रं केकयोधनमादिशत्” “सत्कृत्य
केकयो राजा भरतस्य ददौ धनम्” रा० अ० ७ । २१ । १९ ।
तस्यापत्यम् अण् । तदपत्ये पुंस्त्री० स्त्रियां तु भर्गा० न
लुक् । कैकेयी “गच्छतातानुजाने त्वां कैकेयी सुप्रजास्त्वया”
रामा० अ० ७० । १७ । केकयात् जन्यजनकभावरूपपुंयोगे ङीप्
केकयी । ३ केकयनृपकन्यायाम् स्त्री द्वापरयुगीये ४
नृपभेदे पु० “यदा तु पञ्चालपतिर्महात्मा सकेकयश्चेदिपति-
र्वयञ्च” भा० भी० १२० अ० युधिष्ठिरं प्रति श्रीकृष्णोक्तिः

केकर त्रि० के सूर्द्ध्नि करीतुं नेत्रतारां शीलमस्य कॄ--अच् अलुक्

स० । निम्नोन्नताक्षियुक्ते १ पुरुषे (ट्येरा) अमरः “पित्रा-
विवदमानश्च केकरो मद्यपस्तथा” मनुः पाठान्तरे । उपचा-
रात् २ तथाचक्षुषि न० “तरक्षौ निहते चैव जायते
केकरेक्षणः” शाता० । तद्धेतुतया तरक्षुबधौक्तः “चतु-
र्वर्ण्णस्तु केकरः” विश्वसारतन्त्रोक्ते चतुवर्ण्णात्मके ३ मन्त्रे
पु० कमारशब्दे २१०६ पृ० विवृतिः

केका स्त्री के मूर्द्ध्नि कायते कर्म्मणि ड अलुक्स० । मयूर-

रवे अमरः “षड्जसंवादिनीः केकाः” रघुः । ततः
अस्त्यर्थे इनिठनौ । केकिन् केकिक तद्युक्ते मयूरे
पुंस्त्री इनौ स्त्रियां ङीप् ठनि टाप्

केकावल पुंस्त्री० केकां रवभेदं वलते स्तृणाति वल--अच्

केका + बा० अस्त्यर्थे वलच् वा । मयूरे शब्दच० स्त्रियां
जातित्वात् ङीष्
पृष्ठ २२३०

केचन अव्य० किमः + पुंजसिरूपं ततश्वन मुग्ध० । केचि-

दित्यर्थे एवं चित्--केचिदित्यप्यत्र । “ये नाम केचिदिह
नः प्रथयन्त्यवज्ञाम्” मालतीमा० । पाणिनिमते द्विपदम्
अतएव चिच्चनशब्दघटितमन्त्रान् पदकाराः द्विपदतया पेठुः

केचुक न० कचु + स्वार्थे क पृषो० । कचुपदार्थे त्रिका० ।

केणिका स्त्री के मूर्द्ध्नि कुत्सितः अणकः स्त्रीत्वं लोकात् ।

पटकुट्याम् (तावु) पटमण्डपे हेमच० ।

केत मन्त्रणे निःश्रावणे (यथोचितभाषणे) च अद० चु० उ०

सक० सेट् । केतयति ते अचिकेतत् त केतयाम् बभूव
आस चकार चक्रे । केतितः सङ्केतः “क्षत्रधर्म्माण-
मप्याजौ केतयेत् कुलजं द्विजम्” भा० आनु० १५ ९५
“केतितस्तु यथान्यायं हव्यकव्ये द्विजोत्तमः” ननुः ।
सम् + इच्छाभेदे शब्दस्यार्थबोधकव्यापारे । “सङ्केतो गृह्यते
जातौ गुणद्रव्यक्रियासु च” काव्यप्र० “साक्षात् सङ्केतितं
योऽर्थम्” सा० द० अभिप्रायसूचके चेष्टाभेदे (इसारा)
सक० “नामगृहीतं कृतसङ्केतम्” जय० “कान्तार्थिनी
तु या याति सङ्केतं साऽभिसारिका” अमरः

केत पु० कित--आधारे घञ् । १ निवासे “अब्जकुलिशाङ्कुश

केतुकेतैः” भाग० १, १६, २६, भावे घञ् । २ वासे च “अवाङ्
मुखाः पक्षिगणाः विशन्ति केतार्थमिवाशु वृक्षम्” भा०
क० ४३३८ । ३ प्रज्ञायां निरुक्त० ४ संकल्पे “देवासो
अनु केतमायन्” ऋ० ४, २६, २, । “केतं संकल्पम्”
भा० । ५ मन्त्रणे च । “आविष्टना पैजवनस्य केतम्”
ऋ० ७, १८, २५, “केतं मन्त्रणम्” भा० ६ ज्ञातरि त्रि० ।
“प्रकेतोऽसि रुद्रेभ्यः” ताण्ड्य० ब्रा० १, १९, १०, प्रकेतः
प्रकृष्टं ज्ञातासि” भा० । ७ ध्वजे पु०

केतक पु० कित--निवासे ण्वुल् । “केतकः सूचिकापुष्पोजम्बु-

कः क्रकचच्छदः” इत्युक्तलक्षणे १ वृक्षे । २ तत्पुष्पे न० ।
“स्फुरितभृङ्गमृगच्छवि केतकम्” माघः । गौरादि०
ङीष् । ३ केतकीत्यपि तद्वृक्षे स्त्री । “सुवर्ण्णकेत-
की तुल्या लघुपुष्पा सुगन्धिनी” भावप्र० । “केतकः कटुकः
स्वादुर्लघुस्तिक्तः कफापहः” भावप्र० । केतक्याः पुष्पम्
अण् तस्य बहुलं लुक् लुकि स्त्रीप्रत्ययस्यापि लुक् । केतक
४ तत्पुष्पे न० । बहुलग्रहणात् पाटलादिवत् स्त्रीप्रत्ययस्य
क्वचित् न लुक् । “केतकीपत्रगर्भा” अर्च्चयेदित्यमुवृत्तौ “न
केतक्या सदाशिवम्” नैष० टी० मल्लिनाथधृतवाक्यम् ।
आ० त० शिवपूजनाधिकारे भविष्यपु० “केतकी चाति
मुक्तञ्च कुन्दो यूथी मदल्लिका । शिरीषसर्ज्जबन्धूककुसु-
मानि विवर्ज्जयेत्” । एवं शिवपूजने तत्पुष्पस्य निषेधात्
राजनि० शिवद्विष्टमिति तत्पर्य्याये उक्तम् । अतएव
नैषधे “विनिद्रपत्रालिगतालिकैतवान्मृगाङ्कचूडामणि-
वर्जनार्जितम् । दधानमाशासु चरिष्णु दुर्यशः स कौतुकी
तत्र ददर्श केतकम्” नैष० वर्ण्णितम् वर्ण्णितञ्च तस्याः
क्रकचाकारपत्रावृतत्वादि यथा “वियोगभाजां हृदि
कण्टकैः कटुर्निधीयसे कर्णिशरः स्मरेण यत् । ततोदु-
राकर्षतया तदन्तकृद्विगीयसे मन्मथदेहदाहिना । त्वदग्र-
सूचीसचिवः स कामिनो र्मनोभवः सीव्यति दुर्यशःपटौ ।
स्फुटञ्च पत्रैः करपत्रमूर्त्तिभिर्वियोगिहृद्दारुणि दारु-
णायसे । धनुर्म्मधुस्विन्नकरोऽपि भीमजापरं परागैस्तव
धूलिहस्तयन् । प्रसूनधन्वा शरसात्करोति मामिति क्रु-
धाऽऽक्रुश्यत तेन कैतकम्” । कैतकमित्यत्र अणो न लुक् ।
पुष्पफलभिन्ने तु नाणो लुक् । “अगमत् कैतकं रजः”
रघुः । केत + स्वार्थे क । ५ ध्वजे पु० । “सारोहायुधकेत-
कान्” भा० क० २४ अ० अत्र बहुब्रीहौ--कप् इति तु ज्यायः

केतन न० कित--भावाधिकरणकर्म्मकरणेषु यथायथं ल्युट् ।

१ निमन्त्रणे, २ ध्वजे, ३ अम० । ४ चिह्ने, ५ गृहे हेमच० । ६ स्थाने
शब्दरत्ना० । ७ कृत्ये मेदि० । तत्र निमन्त्रणे “प्रतिगृह्य
द्विजोविद्वानेकोद्दिष्टस्य केतनम्” मनुः । “यावन्तः
पतिताविप्रा जःड़ोन्मत्तास्तथैव च । दैवे वाप्यथ वा पित्र्ये
तावन्ना र्हन्ति केतनम्” । मनुः वासे “न तत्र वृक्षच्छाया
वा पानीयं केतनानि च” भा० व० १३३६९ । ध्वजे ।
“भग्नं भीमेन मरुता भवतो रथकेतनम्” वेणी०
“समाललम्बे वृषराजकेतनः” कुमा० “व्यद्रवन्त रणे भीता
विकीर्ण्णायुधकेतनाः” भा० व० १४३०० ।

केतु पु० चाय--तु क्यादेशः । १ प्रज्ञायां निरु० २ राहोरर्द्ध-

देहात्मके ग्रहभेदे ज्यो० ३ दीप्तौ हेमच० ४ पताकायां
चिह्ने ५ ज्योतिषे प्रसिद्धे ६ उत्पातभेदे च वा ब० व०
मेदि० तद्भेदश्च वृ० सं० ११ अ० उक्तो यथा
“गार्गीयं शिखिचारं पाराशरमसितदेवलकृतं च ।
अन्यांश्च बहून्दृष्ट्वा क्रियतेऽयमनाकुलश्चारः । दर्शनमस्तमयो
वा न गणितविधिर्नास्य शक्यते ज्ञातुम् । दिव्यान्तरिक्ष-
भौमास्त्रिविधाः स्युः केतवो यस्मात् । अहुताशेऽनल-
रूपं यस्मिंस्तत् केतुरूपमेवोक्तम् । खद्योतपिशाचालय
मणिरत्नादीन् परित्यज्य । ध्वजशस्त्रभवनतरुतुरगकुञ्ज-
राद्येष्वथान्तरिक्षास्ते । दिव्या नक्षत्रोत्था भौमाः स्युर-
तोऽन्यथा शिखिनः । शतमेकाधिकमेके सहस्रमपरे
वदन्ति केतूनाम् । बहुरूपमेकमेव प्राह मुनिर्नारदः केतुम्
यद्येको यदि बहवः किमनेन फलं तु सर्वथा वाच्यम्
पृष्ठ २२३१
उदयास्तमयैः स्थानैः स्पर्शैराधूमलैर्वर्णैः । यावन्त्यहानि
दृश्यो मासास्तावन्त एव फलपाकाः । मासैरव्दांश्च वदेत्
प्रथमात्पक्षत्रयात् परतः । ह्रस्वस्तनुः प्रसन्नः स्निग्ध-
स्त्वृजुरचिरसंस्थितः शुक्लः । उदितो वाऽप्यभिदृष्टः सुभि-
क्षसौख्यावहः केतुः । उक्तविपरीतरूपो न शुभकरो
धूमकेतुरुत्पन्नः । इन्द्रायुधानुकारी विशेषतो द्वित्रिचूलो
वा । हारमणिहेमरूपाः किरणाख्याः पञ्चविंशतिः
सशिखाः । प्रागपरदिशोर्दृश्या नृपतिविरोधावहा रविजाः ।
शुकदहनबन्धुजीवकलाक्षाक्षतजोपमा हुताशसुताः ।
आग्नेय्यां दृश्यन्ते तावन्तस्तेऽपि शिखिभयदाः । वक्रशिखा
मृत्युसुता रूक्षा कृष्णाश्च तेऽपि तावन्तः । दृश्यन्ते
याम्यायां जनमरकावेदिनस्ते च । दर्पणवृत्ताकारा
बिशिखाः किरणान्विता धराततनयाः । क्षुद्भयदा द्वाविं-
शतिरैशान्यामम्बुतैलनिभाः । शशिकिरणरजतहिमकु-
मुदकन्दकुसुमोपमाः सुताः शशिनः । उत्तरतो दृश्यन्ते
त्रयः सुभिक्षावहाः शिखिनः । ब्रह्मसुत एक एव त्रि-
शिखो वर्णैस्त्रिभिर्युगान्तकरः । अनियतदिक्सम्प्रभवो
विज्ञेयो ब्रह्मदण्डाख्यः । शतमभिहतमेकसमेतमेतदेकेन
विरहितान्यस्मात् । कथयिष्ये केतूनां शतानि नव
लक्षणैः स्पष्टैः । सौम्यैशान्योरुदयं शुक्रसुता यान्ति
चतुरशीत्याख्याः । विपुलसिततारकास्ते स्निग्धाश्च भवन्ति
तीव्रफलाः । स्निग्धाः प्रभासमेता द्विशिखाः षष्टिः
शनैश्चराङ्गभवाः । अतिकष्टफला दृश्याः सर्वत्रैते
कनकसंज्ञाः । विकचा नाम गुरुसुताः सितकतांराः शिखाप-
रित्यक्ताः । षष्टिः पञ्चभिरधिका स्निग्धा याम्याश्रिताः
पापाः । नातिव्यक्ताः सूक्ष्मा दीर्वाः शुक्ला यर्थष्टदिक्प्रभ-
वाः । बुधजास्तस्करसञ्ज्ञाः पापफलास्त्वेकपञ्चशात् ।
क्षतजानलानुरूपास्त्रिचूलताराः कुजात्मजाः षष्टिः ।
नाम्ना च कौङ्कुमास्ते सौम्याशासंस्थिताः पापाः ।
त्रिंशत्त्य्रधिका राहोस्ते तामसकीलका इति ख्याताः ।
रविशशिगा दृश्यन्ते तेषां फलमर्कचारोक्तम् ।
विंशत्याधिकमन्यच्छतमग्नेर्विश्वरूपसञ्ज्ञानाम् । तीव्रान-
लभयदानां ज्वालामालाकुलतनूनाम् । श्यामारुणा
विताराश्चामररूपा विकीर्णदीधितयः । अरुणाख्या वायोः
सप्तसप्ततिः पापदाः परुषाः । तारापुञ्जनिकाशा गणका
नाम प्रजापतेरष्टौ । द्वे च शते चतुरधिके चतुरम्रा
ब्रह्मसन्तानाः । कङ्का नाम वरुणजा द्वात्रिंशद्वंशगुल्म-
संस्थानाः । शशिवत् प्रभासमेतास्तीव्रफलाः केतवः प्रोक्ताः ।
पण्णवतिः कालसुताः कबन्धसञ्ज्ञाः कवन्धसंस्थानाः ।
चण्डा भयप्रदाः स्युर्विरूपताराश्च ते शिखिनः । शुक्ल
विपुलैकतारा नव विदिशां केतवः समुत्पन्नाः । एवं
केतुसहस्रं विशेषमेषामतो वक्ष्ये । उदगायतो महान्
स्निग्धमूर्तिरपरोदयी वसाकेतुः । सद्यः करोति मरकं
सुभिक्षमप्युत्तमं कुरुते । तल्लक्षणोऽस्थिकेतुः स तु रूक्षः
क्षुद्भयावहः प्रोक्तः । स्निग्धस्तादृक् प्राच्यां शस्त्राख्यो
डमरमरकाय । दृश्योऽमावास्यायां कपालकेतुः सधूम्ररश्मि-
शिखः । प्राग्नभसोऽर्धविचारी क्षुन्मरकावृष्टिरोग-
करः । प्राग्वैश्वानरमार्गे शूलाग्रः श्यावरूक्षताम्रार्चिः ।
नभसस्त्रिभागगामी रौद्र इति कपालतुल्यफलः ।
अपरस्यां चलकेतुः शिखया याम्याग्रयाङ्गुलोच्छ्रि-
तया । गच्छेद्यथा यथोदक् तथा तथा दैर्घ्यमायाति ।
सप्त मुनीन् संस्पृश्य ध्रुवमभिजितमेव च प्रति-
निवृत्तः । नभसोऽर्धमात्रमित्वा याम्येनास्तं समुप-
याति । हन्यात् प्रयागकूलाद् यावदवन्तीं च पुष्करार-
ण्यम् । उदगपि च देविकामपि भूयिष्ठं मध्यदेशाख्यम् ।
अन्यानपि च स देशान् क्वचित् क्वचिद्धन्ति रोगदु-
र्भिक्षेः । दश मासान् फलपाको ऽस्य कैश्चिदष्टादश
प्रीक्तः । प्रागर्धरात्रदृश्यो याम्याग्रः श्वेतकेतुरन्यश्च । क
इति युगाकृतिरपरे युगपत्तौ सप्तदिनदृश्यौ । स्निग्धौ
सुभिक्षशिवदावथाधिको दृश्यते कनामा यः । दश वर्षा-
ण्युपतापं जनयति शस्त्रप्रकोपकृतम् । श्वेत इति
जटाकारो रूक्षः श्यावो वियत्त्रिभागगतः । विनिवर्ततेऽप
सव्यं त्रिभागशेषाः प्रजाः कुरुते । आधूम्रया तु
शिखया दर्शनमायाति कृत्तिकासंस्थः । ज्ञेयः स रश्मि-
केतुः श्वेतसमानं फलं धत्ते । ध्रुवकेतुरनियतगति
प्रमाणवर्णाकृतिर्भवति विष्वक् । दिव्यान्तरिक्षभौमो
भवत्ययं स्निग्ध इष्टफलः । सेनाङ्गेषु नृपाणां गृहतरुशैलेषु
चापि देशानाम् । गृहिणामुपस्करेषु च विनाशिनां दर्शर्न
याति । कुमुद इति कुमुदकान्तिर्वारुण्यां प्राक्छिखो
निशामेकाम् । दृष्टः सभिक्षमतुलंदश किल वर्षाणिस
करोति । सकृदेकयामदृश्यः सुसूक्ष्मतारोऽपरेण मणिकेतुः
ऋज्वी शिखास्य शुक्ला स्तनोद्गता क्षीरधारेव ।
उदयन्नेव सुभिक्षं चतुरोमासान् करोत्यसौ सार्धान् ।
प्रादुर्भावं प्रायः करोति च क्षुद्रजन्तूनाम् । जलकेतुरपि
च पश्चात् स्निग्धः शिखयाऽपरेण चोन्नतया । नव मासान्
स सुभिक्षं करोति शान्तिं च लोकस्य । भवकेतुरेकरात्रं
पृष्ठ २२३२
दृश्यः प्राक् सूक्ष्मताकरः स्निग्धः । हरिलाङ्गूलोपमया
प्रदक्षिणावर्तया शिखया । यावत एव मुहूर्तान् दर्शनमा-
याति निर्देशेन्मासान् । तावदतुलं सुभिक्षं रूक्षे प्राणान्ति-
कान् रोगान् । अपरेण पद्मकेतुर्मृणालगौरो भवेन्निशामे-
काम् । सप्त करोति सुभिक्षं वर्षाण्यतिहर्षयुक्तानि ।
आवर्त इति निशार्धे सव्यशिखोऽरुणनिभोऽपरे स्निग्धः ।
यावत्क्षणान् स दृश्यस्तावन्मासान् सुभिक्षकरः । पश्चात्
सन्ध्याकाले र्सवर्तो नाम धूम्रताम्रशिखः । आक्रम्य
वियत्त्य्रंशं शूलाग्रावस्थितो रौद्रः । यावत एव मुहूर्तान्
दृश्यो वर्षाणि हन्ति तावन्ति । भूपांश्छस्त्रनिपातैरुदयर्क्षं
चापि पीडयति । ये शस्तास्तान् हित्वा केतुभिराधूमिते
ऽथवा स्पृष्टे । नक्षत्रे भवति बधो येषां राज्ञां प्रवक्ष्ये
तान् । अश्विन्यामश्मकपं भरणीषु किरातपार्थिवं
हन्यात् । बहुलासु कलिङ्गेशं रोहिण्यां शूरसेनपतिम् ।
औशीनरमपि सौम्ये ५ जलजाजीवाधिपं तथार्द्रासु ।
आदित्ये ७ ऽश्मकनाथं पुष्ये मगधाधिपं हन्ति । असिकेशं
भौजङ्गे ९ पित्र्ये १० ऽअङ्गं पाण्ड्यनाथमपि भाग्ये ११ ।
औज्जयनिकमार्यम्णे १२ सावित्रे १३ दण्डकाधिपतिम् ।
चित्रासु कुरुक्षेत्राधिपस्य मरणं समादिश त्तञज्ञः ।
काश्मीरककाम्बोजौ नृपती प्राभज्जने १५ न स्तः ।
इक्ष्वाकुरलकनाथो हन्येते यदि भवेद्विशाखासु । मैत्रे
१७ पुण्ड्राधिपतिर्ज्येष्ठास्वथ सार्वभौमवधः । मूलेऽन्ध्रमद्र-
कपती जलदेवे २० काशिपो मरणमेति । यौधेयकार्जु-
नायनशिविचैद्यान् वैश्वदेवे २१ च । नैमिषनृपं २२ हन्यात्
केकयनाथं २३ पाञ्चनदम् २४ । सिंहलाधिपं २५ वाङ्गम् २६
किरातं २७ श्रवणादिषु षट्खिमान् क्रमशः । उल्काभि-
ताडितशिस्वः शिवः शिवतरो ऽभिवृष्टो यः । अशुभः स
एव चोलावगाणसितहूणचीनानाम् । नम्रा यतः शिखि-
शिखाभिसृता यतो वा ऋक्षं च यत् स्पृशति तत्कथितांश्च
दशान् । दिव्यप्रभावनिहतान् स यया गरुत्मान् भुङ्-
क्ते गतो नरपतिः परभोगिभोगान्” ।
केतुविशेषाणां कालविशेषादनन्तरमुदयः पराशरवाक्यादिषु
ज्ञेयस्तानि यथा
कपालकेतुः “अथादित्यजानां कपालकेतुरुदयते
अमावास्यायां पूर्ब्बस्यां दिशि सधूम्रार्च्चिशिखो नभसो
विषयार्द्धचरो दृश्यते । पञ्चविंशवर्षशतं प्रोष्य त्रींश्च पक्षान्
तृतिर्यस्य कुमुदकेतोश्चारान्ते स दृष्टएव । दुर्भिक्षाना-
वृष्टिव्याधिभयं प्रत्युपद्रवान् सृजति । यावतो दिवसान्
दृश्यते तावन्मासान्मासैः संवत्सरान् पञ्चप्रस्थं वर्षा-
धान्यस्यार्घं कृत्वा प्रजानामेकमुपयुङ्क्ते” परा० ।

कालकेतुः “अथदक्षयज्ञे रुद्रक्रोधोद्भवः कालकेतु स्त्रीणि वर्ष-

शतानि नव च मासान् प्रोष्य उदयते । पूर्व्वेण
वैश्वानरमार्गे इत्यमृतमयस्य मणिकेतोश्चारान्ते श्यावरूक्षं
ताम्रारुणां शूलाकारसदृशीं शिखां कृत्वा नभसस्त्रिभा-
गचारी स शस्त्रभयरोगदुर्भिक्षावृष्टिमरकैः यावन्मासान्
दृश्यते तावद्वर्षाणि त्रिभागशेषां प्रजां कृत्वा शारदधा-
न्यस्याढकमर्द्धें कृत्वा चास्तं ब्रजति” परा० । तथा च वृद्ध-
गर्गः “ज्येष्ठा मूलमनुराधा या वीथी संप्रकीर्त्तिता ।
ताञ्च वीथीं समारुह्य केतुश्चेत् क्रीडते भृशम् । दक्षि-
णाभिनतां कृत्वा शिखां घोरां भयङ्कराम् । शूलाग्रस-
दृशीं तीक्ष्णां श्यावताम्रारुणप्रभाम् । पूर्व्वेण उदित
श्चैव नक्षत्राण्युपधूपयेत् । घोरं प्रजासूत्सृजति फलं
मासे त्रयोदशे । त्रिभागं नभसो नत्वा ततो गच्छत्यद-
र्शनम् । यावतो दिवसांस्तिष्ठेत् तावद्गर्षाणि तद्भयम् ।
शस्त्राग्निभयरोगैश्च दुर्भिक्षमरकैर्हताः । षूर्णमानाः
प्रजाः सर्व्वा विद्रवन्ति दिशो दश” ।
चलकेतुः “अथ पैतामहश्चलकेतुः पञ्चदशवर्षशतं प्रोष्य उदितः
पश्चिमेनाङ्गुलिपर्व्वमात्रां शिखां दक्षिणाभिनतां कृत्वा
कालकेतोश्चारान्ते नभसस्त्रिभागमनुचरन् यथा
यथोत्तरां व्रजति तथा तथा शूलाग्राकारां शिखां दर्शयन्
ब्राह्मं नक्षत्रमुपसृत्य मनाक् ध्रुवं व्रजन् राशिं सप्तषींन्
संस्पृश्य नभसोऽर्द्धमात्रं दक्षिणमनु परिक्रम्य अस्तं
ब्रजति । स स्वर्गे दारुणकर्म्मा स्वर्गप्राप्तित्वादेव
वक्रास्तमभिनिहन्ति लोकमपि च । भूमिं कम्पयित्वा
दश मासान् मध्यदेशे भूयिष्ठं जनपदमवशेपं कुरुते ।
तेष्वपि च क्वचित् क्वचित् शस्त्रदुर्भिक्षमरकव्याधिभयैः
क्लिष्णात्यष्टादशमासानिति” परा० तथा गर्गः ।
“क्षुच्छस्त्रमरकव्याधिभयैः संपीडयेत् प्रजाः । मासान्
दश तथाष्टौ च चलकेतुः सुदारुणः” ।
उद्दालकश्वेतकेतुः गृहकेतुश्च “अथोद्दालकः श्वेतकेतुर्द्दशी-
त्तरं वर्षशतं प्रोष्य भद्रकेतोश्चारान्ते पूर्व्वस्यां दक्षिणा-
भिनतशिखोऽर्द्धरात्रकाले दृश्यस्तेनैव सह द्वितीयः कः
प्रजापतिपुत्त्रः पश्चिमकेन गृहकेतुर्यूपसंस्थायी
युगपद्दृश्येत । ततस्तावुभौ सप्तरात्रदृश्यौ दशवर्षाणि
प्रजाः पीडयेते । कः प्रजापतिपुत्त्रो यद्यधिकं
दृश्यते तदा । दारुणतरं प्रजानां शस्त्रकोपं
कुर्य्यात् । तथैव स्नेहवर्णयुक्तौ क्षेमारोग्यसुभिक्षदौ
भवतः” परा० ।
पृष्ठ २२३३

काश्यपश्वेतकेतुः “अथ काश्यपः श्वेतकेतुः पञ्चदश वर्षशतं

प्रोष्योग्रः सोमसहजस्य वप्रकेतोश्चारान्ते श्यावरूक्षो
नभसस्त्रिभागमाक्रम्यापसव्यं निवृत्योर्द्ध्वं प्रदक्षिणजटा-
कारशिखः स यावन्मासान् दृश्यते तावद्वर्षाणि सुभि-
क्षमावहति । मध्यदेशे आर्य्यगणानामदोनामोदीच्यै
र्भूयिष्ठस्त्रिभागशेषां प्रजामवशेषयति” परा० ।
रश्मिकेतुः “अथ रश्मिकेतुर्विभावसुजः प्रोष्य वर्षशतमाव-
र्त्तकेतोश्चारान्ते उदितः कृत्तिकासु धूम्रकेतुः ।
अथानियतदिक्कालरूपवर्णप्रमाणसंस्थानो धूमकेतुः
पराभविष्यतां देशानां राज्ञां जनपदानाञ्च वृक्ष
परपर्बतवेश्मध्वजपताकाशस्त्रवर्म्मायुधावरणरथनागोष्ट्रपुरु-
षशयनासनभाण्डेषु च दृश्यते । स एव दिवि म्निग्धो
निर्म्मलः प्रदक्षिणशिखो गजंनागवीथीनामुत्तरेण व्रजन्
सुभिक्षक्षेमारोग्यं चावहति । दशैकविंशतिद्विषष्टि-
शतधा वा दर्शनमिच्छन्ति मुनथो धूमकेतोस्तस्य च
प्रागुदयान्निमित्तान्यर्वाचीनचलनमग्नेः प्रभा मत्स्यप्रधूपनं
दिशां शीतोष्णविपर्य्यय इति व्यक्षिबाहुसम्भवश्च” परा० ।
जलकेतुः “अथ जलकेतुः पैतामहः यश्च चलकेतोर्नवमासाव-
शिष्टे कर्म्मणि कृते प्रवर्त्तयति । पश्चिमेनोदितः स्निग्धः
सुजातोऽनुपश्चिमाभिनतः । स च शिखी नव मासान्
क्षेमसुभिक्षारोग्याणि प्रजाभ्यो धत्ते अन्यग्रहकृता-
नां चाशुभानां व्याघातायेति” । परा०
भवकेतुः “अथ जलकेतोः कर्म्मसमाप्तौ धूम्रादयः शीतान्ताःअष्टौ
प्रादुर्भवन्ति तत्र त्रयोदश चतुर्द्दशाष्टादश वर्षान्तात् दृश्य-
न्ते सुभिक्षाक्षेम्याविपर्य्यया विपरीताः क्षुद्रजन्तूना-
ञ्च बधाय, तेषामष्टानां कर्म्मण्यतीते भवकेतुर्द्दृश्यते ।
पूर्वेणैकरात्रं यावत् कृत्तिकानामन्तरतो वा तत्प्रमा-
णया स्निग्धपारुष्याभया सिंहलाङ्गूलसंस्थानया प्रद-
क्षिणताम्रया शिखयोदितः । स यावन्मूहूर्त्तान् दृश्य-
ते तावन्मासान् भवत्यतीव सुभिक्षाय । रूक्षः प्राणह-
राणाञ्च रोगाणां प्रादुर्भावायेति” परा०
आवर्त्तकेतुः “अथावर्त्तकेतुः श्वेतकेतोः कर्म्मण्यतीतेऽप-
रेऽर्द्धरात्रेऽसव्योदितारुणाभया प्रदक्षिणेन ताम्रया
शिखयोदितः । स यावन्मुहूर्त्तान् दृश्यते तावन्मासान्
अतीव सुभिक्षं नित्ययज्ञोत्सवं जगत्” परा०
  • संवर्त्तककेतुः “अथ संवर्त्तको वर्षसहस्रमष्टोत्तरं प्रोष्य पश्चिमेनास्तं
गते सवितरि सन्ध्यायां दृश्यते तन्वीं ताम्ररूपां शूला-
भां धूम विमुञ्चन्तीं दारुणां शिखां कृत्वा नभस्त्रिभाग
माक्रम्य यावन्मूहूर्त्तान् निशि तिष्ठति तावद्वर्षाणि हन्ति
परस्परं शस्त्रौघमपि पार्थिवाः । यानि नक्षत्राणि
समाश्रयति यत्र वोदेति तानि दारुणतरं पीडयति
तदाश्रितांश्च देशानिति” । परा० । तथा गर्गः “येषां नक्षत्र-
विषये रूक्षः सज्वाललोहितः । दृश्यते बहुमूर्त्तिश्च
तेषां विद्यात् महाभयम् । अवर्षशस्त्रपारुष्यकोपं
दुर्भिक्षमेव च । कुर्य्यान्नृपतिपीडाञ्च सचक्रपरचक्रतः ।
यत्र तिष्ठति नक्षत्रे प्रवासं यत्र गच्छति । धूपयेद्वा स्पृशे-
द्वापि हन्याद्देशांस्तदाश्रयान् । यस्याभिषेकनक्षत्रं जन्मभं
कर्म्मभं तथा । देशर्क्षं पीडयेद्वापि स शान्तिपरमो
भवेत् । स्रिग्धः प्रसन्नो विमलः प्रदक्षिणशिखस्तथा ।
दृश्यते येषु देशेषु शिवं तेषु विनिर्द्दिशेत्” परा०
  • सर्व्वशेषः । “यस्यां दिशि समुत्तिष्ठेत् तां दिशं नाभि
योजयेत् । यतः शिखा यतो धूमस्ततो यावान्नराधि-
पः । प्रतिलोमोयतः केतुर्यथा ध्यायति पार्थिवः ।
सामान्यवाहनबलस्तन्नाशमधिगच्छति” परा०
अथ मासविशेषेषु नामविशेषास्तत्फलन्याह समयामृते
“चैत्रवैशाखयोर्म्मध्ये कौवेरांस्तु विनिर्द्दिशेत् ।
उच्छितैर्यूपवेदीभिरुच्छितैर्ध्वजतोरणैः । हविर्धूमाकुला
तत्र दृश्यते च वसुन्धरा । ज्यैष्ठे चैव तथाषा-
ढे वायुपुत्त्रांश्च निर्द्दिशेत् । वान्ति चैव तथा वाता
महायुद्धं महाभयम् । श्रावणप्रौष्ठपदयोर्वारुणांस्तु
विनिर्द्दिशेत् । आरोहयन्ति ते मेघान् पूर्णां कुर्य्युर्वसु-
न्धराम् । धान्यं सभार्घतां याति ईतयो न भवन्ति
च । आश्विने कार्त्तिके चैव सूर्य्यपुत्त्रान् विनिर्द्दि-
शेत् । ततो दहति तीव्रांशुः सर्वान्नानि दिवाकरः ।
म्रियन्ते च तदा गावः श्वापदाश्च विशेषतः । मार्गशीर्षे
च पौषे च वह्निपुत्त्रान् विनिर्द्दिशेत् । शीघ्रं भवति
दुर्भिक्षं हाहाभूतमचेतनम् । माघे च फाल्गुने चैव
यमपुत्त्रान् विनिर्द्दिशेत् । छर्द्दिर्ज्वरातिसारश्च ग्लानि
श्चैवाक्षिवेदना” ।
नक्षत्रभेदेन देशभेदे तदुपद्रवादि तत्रैवोक्तं यथा
“कृत्तिका रोहिणी सौम्य पृथिव्या मध्यमुच्यते । केतवो
ह्यत्र दृश्यन्ते आग्नेया दश पञ्च च । आग्नेयेषु च
दृष्टेषु लोकानां संक्षयो भवेत् । नित्योद्विग्नाः प्रजाः
सर्वा भवन्ति हि न संशयः । पुनर्व्वसुस्तथा पुष्यः
पृष्ठ २२३४
पृथिव्याः पूर्ब्बमुच्यते । केतवो ह्यत्र दृश्यन्ते रौद्रा
स्तेऽप्येकविंशतिः । यदा रौद्राः प्रदृश्यन्ते दुर्भिक्षं
निर्द्दिशेत्तदा । घूर्णन्ते च प्रजाः सर्वा मृत्युक्षुद्रोगपीडि-
ताः । अश्लेषा पित्य १० भाग्यानि ११ विद्याद्दक्षिणपूर्व्वतः ।
केतवो ह्यत्र दृश्यन्ते औद्दालकिसुता दश । सुभिक्षं क्षेम-
मारोग्यं सुवृष्टिः शस्यसम्पदः । आर्य्यम्णादीनि १२ ।
१३ । १४ च त्रीणि विद्याद्दक्षिणभागतः । केतवो ह्यत्र
दृश्यन्ते काश्यपेयाश्चतुर्द्दश । अनावृष्टिभयं घोरं प्रजानाम-
तिदारुणम् । स्वाती विशाखा मित्रञ्च १७ भागो दक्षिण
पश्चिमः । केतवो ह्यत्र दृश्यन्ते चत्वारो मृत्युसम्भवाः ।
दुर्मिक्षं मरकं घोरमनावृष्टिस्तथैव च । उपद्रवश्च
भूतानां तदा भवति दारुणः । ज्येष्ठा मूलमथाषा-
ढा भाग उत्तरपश्चिमः । केतवो ह्यत्र दृश्यन्ते त्रय
स्ते सोमसम्भवाः । सुभिक्षश्च सुवृष्टिञ्च मही यज्ञोत्सवा-
कुला । उत्तरा २१ श्रवणा चैव नक्षत्रं वसुदैवतम् २३ ।
केतवो ह्यत्र दृश्यन्ते माहेयाः पञ्चविंशतिः । माहेयेषु
च दृष्टेषु लोकानां संक्षयो ध्रुवम् । तदा राजसहस्राणां
मही पिबति शोणितम् । वारुणञ्चैव २४ नक्षत्रं तथा
भाद्रपदद्वयम् । केतवो ह्यत्र दृश्यन्ते वारुणास्त्र-
यएव ते । ऊर्म्मिकेतुः श्वेतकेतुर्धूमकेतुस्तृतीयकः ।
ऊर्म्मिकेतुर्यदा दृश्येत्तदाऽप्युदकजं भयम् । श्वैतकेतु
र्यदा दृश्येत् श्वेतास्थिं कुरुते महीम् । तदा मानुषमां
सानि भक्षयन्तीह मानुषाः । क्षुद्भयार्त्तं जगत् कृत्स्नं चक्र-
वद्भ्रमते तदा । धूमकेतुर्यदा दृश्येत्तस्य वक्ष्यामि
कक्षणम् । स हन्ति शिखया योधान् राजानं मन्त्रिणं
जनान् । रेवत्याश्वयुज १ ञ्चैव नक्षत्रं यमदैवतम् २ ।
केतवो ह्यत्र दृश्यन्ते यमपुत्त्रास्त्रयोदश । यमपुत्त्रेषु दृष्टेषु
लोकानां संक्षयो ध्रुवम् । चतुर्व्विधानां भूतानां
संशयो जायते महान्” ।
तेषां शान्तिस्तत्रैवोक्ता यथा
“केतूत्पाते तु सर्व्वस्मिन् सभये समुपस्थिते । महाशा-
न्तिं प्रकुर्व्वीत विविधां भूरिदक्षिणाम् । धनं वा सर्व्व
मुत्सृज्य मृत्योर्म्मुच्येत बन्धनात् । दद्याद्वा पृथिवीं
सर्वां राजा शान्तिं नियच्छति । अकस्माद्दृश्यते केतु
रुदयेऽस्तमयेऽपि वा । निहन्त्यन्तःपुरे राज्ञो ज्वरः
पित्तोद्भवो भवेत् । दधिमधुघृताक्तानां पुष्पाणामयुतं
ततः । जुहुयादिन्द्रनीलस्य केतुं दद्याद्द्विजातये ।
भूषितं हेमरत्नाद्यैस्ततः सम्पद्यते शुभम्” ।
“ग्रहे रवीन्द्वोरवनीप्रकम्पे केतूद्गमे” इत्यादिना ज्यो० त०
तदुद्गमेऽकाल उक्तः । “व्योम्नीव भ्रकुटीच्छलेन
वदने केतुश्चकाराम्पेदम्” मावः
नवग्रहमध्ये तस्य ग्रहत्वञ्च पी० धा० व्यवस्थापितं यथा
“किं राहुकेत्वोर्ग्रहत्वाभावात् क्रूरग्रहत्वाभावाद्वा
दृश्यग्रहत्वाभावाद्वा कर्त्तरी नास्ति नाद्यः ।
राहोर्ग्रहत्वं श्रुतिस्मृतिप्रामाण्यसिद्धम् । तथा
हि । “स्वर्भानुर्हवा आसुरिः सूर्य्यन्तमसा विव्याधेति”
माध्यन्दिनी श्रुतिः । कश्यपश्च “छिन्नोऽपि विष्णु
चक्रेण सुधामयशिरास्तमः । केशवस्य वरेणासौ
तथापि ग्रहताङ्गतः” इति । नारदोऽपि “अमृता
स्वादनाद्राहुः शिरश्छिन्नोऽपि सोऽमृतः । विष्णुना तेन
चक्रेण तथापि ग्रहताङ्गतः” इति । यद्यपि “अदृ-
श्यरूपाः कालस्य मूर्त्तयो भगणाश्रिताः । शीघ्रमन्दोच्च
पाताख्या ग्रहाणाङ्गतिहेतवः” इति सूर्यसिद्धान्ते
पातानामदृश्यतोक्ता तथापि चन्द्रपातस्य ग्रहत्वं
वाचनिकमेव । “स्वध्रुवे कुमुदिनीपतिपातं राहुमा-
हुरिह केऽपि तमेवेति, भास्कराचार्योक्तेश्च । अतएव
राहोर्नैऋतदिक्स्वामित्वं दानञ्च संहिताकर्त्यभि-
रुक्तम् । राहोरर्द्धशरीरभागः केतुसंज्ञ इति पुरा-
णप्रसिद्धम् । न द्वितीयः । ननु केन वचनेन राहु-
केत्वोः क्रूरत्वमुच्यते । न च “क्षीणेन्द्वर्कयमाराः
पापास्तैः संयुतः सौम्यः” इति वराहेणोक्तम्
तदुपादानाभावात् । किञ्च पापग्रहत्वानभिधानाच्छुभग्रह-
त्वमेवावसीयते । न च “गुरुबुधशुक्राः सौम्याः सौरि-
कुजार्का निसर्गतः पापाः । शशिजोऽशुभसंयुक्तः क्षी-
णोऽपि निशाकरः पापः” इति कल्याणवर्मवाक्ये
शुभग्रहमध्ये गणनाभावात् क्रूरत्वमिति वाच्यम् । पापग्रह
मध्येऽपि गणना नास्तीति शुभग्रहत्वस्यापि सुवचत्वात् ।
उभयभ्रष्टत्वेन वा नरसिंहवज्जात्यन्तरस्यापि वक्तुं शक्य-
त्वादिति चेत् । सत्यम् “सूर्यभौमशनिराहुकेतवः
पापसंज्ञखचराः क्षयिचन्द्रः । पूर्णचन्द्रगुरुशुक्रसोमजाः सर्व-
कर्मसु हि सौम्यखेचराः” इति वसिष्ठेन कण्ठतः क्रू-
रत्वाभिधानादस्ति क्रूरत्वम् । स्वरोदयेऽपि “बुधशुक्रे-
न्दुजीवाश्च सदा सौम्यग्रहामताः । शन्यर्कराहुमा-
हेयाः केतुः क्रूरग्रहा मताः” इति । न तृतीयः ननु
स्वयमशक्तः कथं परान् साधयिष्यतीति न्यायात् सदा
चाक्षुपदर्शनाभावमितस्य राहोः केतोर्वा फलदातृत्वा
पृष्ठ २२३५
सामर्य्यादितिचेन्न अमावास्यायां प्रतिपदि वोत्पन्नस्य
लग्नादिदुष्टस्थानस्थितचन्द्रस्यारिष्टमशुमफलजनकं
भवन्मते निरर्थकमापद्येत । ननु “षष्ठेऽष्टमे चन्द्रः सद्योमर-
णाय पापसंदृष्टः । अष्टाभिः शुभदृष्टोमिश्रैर्वर्षैस्तद-
र्द्धेनेति” वराहोक्तेर्भविष्यतीति चेत् इहापि “स्वच्छ-
न्दत्वं कदशनरतिर्वल्लभत्वं विशील्यं व्याधिः सुश्री-
र्मतिरथ सुखं गर्भपातप्रवृत्तिः । द्यूतासक्तिर्भवति रविजे
वैभवे वक्त्ररोगः स्वर्भानौ वाप्यथ शिखिनि वा लग्नभा-
वादिसंस्थे” इति वसिष्ठपद्ये शनिवदाहुकेत्वोः
शुभाशुभफलदावृत्ववचनं किं वायसैर्भक्षितम् ।
सारावल्याञ्च “राहुश्चतुष्टयस्थो निधनाय निरीक्षितो
भवति पापैः । वर्षैर्वदन्ति दशभिः षोडशभिः केचि-
दाचार्याः । अजवृषकर्कटलग्ने रक्षति राहुः समस्त
पीडाभ्यः । पृथ्वीपतिः प्रसन्नः कृतापराधं यथा
पुरुषमिति” राहोः शुभाशुभफलाभिधानमस्ति । ननु
वराहेण राहोः फलं कुत्रापि नोक्तमिति चेन्न “सोप-
प्लवे शशाङ्के सक्रूरे लग्नगे कुजेऽष्टमगे । मात्रा सार्द्धं
म्रियते चन्द्रवदर्केण शस्त्रेणेति” वराहपद्येऽपि राहु
केत्वोरन्यतराभिधानमस्ति! तथा हि किमिदं
चन्द्रग्रहणं राहुसाहित्यकृतमुत केतुसाहित्यकृतमिति
तत्र ग्रहणीयं, चन्द्रे लग्नगे सक्रूरे क्रूरसाहित्य
मभिहितम् क्रूरास्तु सूर्यभौमशनय एव विवक्षिता
इति चेत् सूर्यस्य तावद्योगाभावश्चन्द्रग्रहणे हि सप्त-
मराशिस्थत्वात् । भौमस्यापि योगः, कुजेऽष्टमग इत्यु-
क्तेर्नास्ति । पारिशेष्याच्छनेरेव योगोवाच्यः । तत्र
स्पष्टत्वार्थं शनिग्रहणमेव कस्मान्नाकारि । अतः सामान्य-
वाचिनः क्रूरशब्दस्य प्रयोगाद्राहुकेत्वोरन्यतरयोगोऽपि
विवक्षितोऽपरस्य (सूर्य्यस्य) सप्तमराशिस्थत्वात् । योग
एकराशिस्थत्वे स्यान्न तु भिन्नराशिस्थत्वे इति । एवं
ग्रहणसम्बन्धिलग्नस्थसूर्यारिष्टेऽपि राहुकेत्वोरन्यतर
योगो व्याख्येयः । अतएव “राहुस्तमोऽगुरसुरश्च शिखीति
केतुरिति पर्यायाभिधानं कृतम् । विवाहपटलेऽपि
“मरणं लत्ता राहोः कार्यविनाशं मृगोर्वदन्तीति” कण्ठतो
राहुलत्ताऽप्युक्ता । तस्माद्वराहमतेऽपि राहुकेतुयोगो
विवक्षित एव । एवं सति जातके यथा राहोः शुभा-
शुभफलदातृत्वं वचनाद्बोध्यते । तथा विवाहेऽपि
प्रागुक्तवसिष्ठवाक्यादपि तत्र तुल्यन्यायत्वात् कर्त्त-
रीदोषे सत्यप्यदृश्यत्वे फलदातृता त्वयापि वक्तव्यैव ।
ननु “पापयोः कर्त्तरीकर्त्रोः शत्रुनीचगृहस्थयोः ।
यदा त्यस्तगयोर्वापि कर्तरी नैव दोषदेति” कश्यपाद्युक्ते
रस्तङ्गतत्वेन राहुकेत्वोः कर्त्तरीदोषो नास्तीति चेत्
भ्रान्तोऽसि शृणु । “सम्भवे व्यभिचारे च स्याद्विशेषण-
मर्थवदिति” न्यायादस्तङ्गतत्वविशेषेणं भौमस्य क्रूर-
युक्तबुधस्य शनेर्वेति त्रयाणामेव सम्भवति न सम्भवति
च । सूर्यस्तु नित्योदित एव राहुकेतू नित्यास्तमिताविति
व्यभिचाराभावात्त्रयाणामेव विशेषणम् । किञ्च किमस्त गत्वं
क्षितिजसन्निधिकृतमुत सूर्यसाघ्निध्यकृतं वेति । तत्र
क्षितिजसन्निधिकृतं यत्तत् सूर्यादिसकलग्रहसाधारणम् ।
तथा सत्यस्तगतत्वविशेषणवैयर्थ्यं प्रागुक्तन्यायात् ।
राहोस्तु नारदादिवाक्याच्छिरोरूपमण्डलावगतेः “इन्द्व-
र्कमण्डलाकृतिरसितत्वात् किल न दृश्यते गगने” इति
वराहोक्तेस्तमोरूपत्वात्तादृक्स्वरूपानुपलब्धेरगोचरत्वप-
रम् । स्थानमप्यस्य चन्द्रविलमण्डक्रान्तिमण्डलस्वस्ति-
के, यदाह केशवाकेः “वेश्म चास्य शशभृद्विमण्डलक्रा-
न्तिमण्डलमिलच्चतुःपथः” इति । अतएव न विद्यन्ते
गावः किरणायस्येत्यगुरन्वर्थताप्यवसीयते । अथ यदि
सूर्यसन्निधिकृतमित्युच्येतेति चेत् न इतरग्रहवद्राहो-
रप्युदयास्तप्रसिद्ध्यभावात् । किञ्च कालांशानभिधानात्
कदोदितः कदास्तमितश्चेति निर्णेतुमशक्यत्वात् । एवं
केतोरप्येतत् द्रष्टव्यम् । मनु केतूदयोह्युत्पातादौ प्रत्यक्ष-
तोदृश्यत इति चेन्न तस्यानियतदिक्प्रभवत्वात्
अनियतनक्षत्रप्रभवत्वाच्च । किञ्च केतूत्पातो हि लोके दुरदृ-
ष्टसूचकः अनियतेनं बहुना स्वल्पेनापि वा कालेन
भवेत् । सूर्यसान्निध्यकृतोदयास्तौ तु नियतकालावेवेति
तयोः केत्वोर्भेदः स्वीकर्त्तव्यः”
केतुक्षेत्रादिकं ज्यो० त० उक्तम् “सिंहस्त्रिकोणं
धनुरुच्चसंज्ञं मीनीगृहं शुक्रशनी विपक्षौ । सूर्य्यारचन्द्राः
सुहृदः समानौ जीवेन्दुजौ षट् शिखिनः परांशाः” ।
तद्व्यानवर्ण्णगोत्रदेशादि ग्रहयज्ञशब्दे वक्ष्यते । विंशोत्तरीय
दशायां तद्दशामानं ७ वर्षाः तच्च दशाशब्दे वक्ष्यते । तस्य
राशिभोगकालश्च १८ मासाः । “केतूपप्लवभौमन्दगतयः
षष्ठे तृतीये शुभाः” ज्यो० त० । ७ दानवभेदे पु० केतुवीर्य्य
शब्दे उदा० दृश्यम्
"https://sa.wikisource.org/w/index.php?title=वाचस्पत्यम्/कृपालु&oldid=57704" इत्यस्माद् प्रतिप्राप्तम्