पृष्ठ २५९१

गिरिराज पु० ६ त० । हिमालये । यथा च तस्य नगराजत्वं

तथा अचलराजशब्दे ८३ पृ० उक्तम् । “सोऽपि कार्पाटि-
कस्तस्य गिरिराजस्य भाषितम्” । “गिरिराजाङ्गजासखः”
काशी० । “गिरिराजराजसुतान्वितवामतनुम्” शिवस्तवः ।

गिरिवासिन् त्रि० गिरिं वासयति सुरभीकरोति वासि-

णिनि, गिरौ वसति वस--णिनि वा । हस्तिकन्दे
वृक्षे राजनि० ।

गिरिव्रज न० गिरीणां पञ्चानां व्रजो यत्र । मगधदेशान्त-

र्गते जरासन्धपुर “सोऽभिजनोऽस्य अण् । गैरिव्रज
तद्देशवासिनि त्रि० बहुषु तस्य लुक् । “गिरिव्रजाः
मगधपुण्ड्रमिथिलाश्च” वृ० स० १० अ० ।
गिरिव्रजवर्णनं भा० स० २१ अ० । यथा
“एष पार्थ! महान् भाति पशुमान्नित्यमम्बुमान् ।
निरामयः सुवेश्माढ्यो निवेशो मागधः शुभः । वैहा-
रो १ विपुलः शैलो वराहः २ वृषभ ३ स्तथा । तथा
ऋषिगिरि ४ स्तात! शुभश्चैत्यक ५ पञ्चमाः । एते पञ्च
महाशृङ्गाः पर्वताः शीतलद्रुमाः । रक्षन्तीवाभिसंहत्य
संहताङ्गा गिरिव्रजम्” इत्युपक्रमे ।
“अङ्गवङ्गादयश्चेव राजानः सुमहाबलाः ।
गौतमक्षयमभ्येत्य रमन्ते स्म पुरार्ज्जुन! । वनराजीस्तु
पश्येमाः पिप्पलानां मनोरमाः । लोध्राणाञ्च शुभाः
पार्थ! गौतमौकःसमीपजाः । अर्व्वुदः शक्रवापी
च पन्नगौ शत्रुतापनौ । स्वस्तिकस्यालयश्चात्न
मणिनागस्य चोत्तमः । अपरिहार्य्या मेघाना मागधा
मनुना कृताः । कौशिको मणिमांश्चैव चक्राते चाप्यनु-
ग्रहम् । एवं प्राप्य पुर रम्य दुराधर्षं समन्ततः ।
अर्थसिद्धिं त्वनुपमां जरासन्धोऽभिमन्यते” ।

गिरिश पु० गिरौ शेते शी--बा० लोकेऽपि ड, गिरिरस्त्यस्य

लामा० श वा । १ शिवे अमरः । “गिरिशमुपचचार प्रत्यहं
सा सुकुशी” कुमा० । “गिरिशरमणी कालि! सततम्”
कालास्तवः । “शिवेन वचसा त्वा गिरिशाच्छा वदामसि”
यजु० १६ । ४ ।

गिरिशन्त पु० महादेवे । “गिरिशन्ताभिचाकशीहि” यजु०

१६ । २ । “गिरौ कैलासे स्थितः शं सुखं प्राणिनां
तनांति विस्तारयति, गिरि वाचि स्थितः शं तनोतीति
वा गिरौ--मेघे स्थितो वृष्टिद्वारेण शं तनोतीति वा
वेददी० । सर्वत्र तन--बा० ड । गिरि वाचीति पक्षे
अलुक्स० ।

गिरिशय पु० गिरौ कैलासे शेते शी--अच् । महादेवे ।

“नमो गिरिशयाय च गिरिष्ठाय च” यजु० १६ । ९ ।

गिरिशाल पु० गिरिं शलति आश्रयत्वेन गच्छति

शलगतौ अण् उप० स० । सुश्रुतोक्ते प्रतुदे पक्षिभेदे ।
कपोतपारावतेत्युपक्रमे गिरिशालह्वानदूषकेत्यादयः
प्रतुदाः” सुश्रुतः ।

गिरिशालिनी स्त्री गिरिं बालमुषिकाकर्ण्णं शलते श्लाघते

स्वपत्रेण शल--श्लाघायां णिनि ङीप् । गिरिक-
र्ण्णिकायामपराजितायाम् “पारिभद्रं पाटला च
बकुलं गिरिशालिनी” वामनपु० । तत्तुल्यपत्रत्वेन
गिरेः श्लाघनात् तस्यास्तथात्वम् ।

गिरिशृङ्ग पु० गिरेः शृङ्गमाकारेणास्त्यस्य अच् । १ गणेशे

शब्दरत्ना० शुण्डादण्डस्योत्तलने गिरिशृङ्गाकारत्वात्
तस्य तथात्वम् । ६ त० । २ पर्वतशिखरे न० ।

गिरिषद् पु० गिरौ सीदति सद--क्विप् षत्वम् । महादेवे ।

गिरिष्ठा स्त्री गिरौ तिष्ठति स्था क्विप् अम्ब० षत्वम् ।

१ महादेवे २ पर्वतस्थायिमात्रे त्रि० । “मृगो न भीमः कुचरो
गिरिष्ठाः” ऋ० १ । १४४ । २ । “गिरिष्ठा गिरिस्थायी” निरु०

गिरिसर्प पु० नित्यः ७ त० । दर्वीकरसर्पभेदे सुश्रुतः ।

अहिशब्दे ५८१ पृ० विवृतिः ।

गिरिसार पु० ६ त० । १ लौहे २ रङ्गे घातुभेदे च “द्रोणाय

प्रेषयामास गिरिसारसयीं वली” भा० भी० ५३ अ०
गिरिसु सारः चन्दनादिसुरभिद्रव्यवत्त्वात् श्रेष्ठः । ३
मलयपर्वते मेदिनिः ।

गिरिसुत पु० ६ त० । १ मैनाकपर्वते । २ पार्वत्याम् स्त्री ।

“अवतु वो गिरिसुता शशिभृतः प्रियतमा” उद्भटः । “शम्भोः
शिरसीन्दुकला वृषध्वजोऽक्षि च तृतीयमप्यूर्ध्वम् । शूलं
धनुः पिनाकं वामार्धे वा गिरिसतार्धम” वृ० स०
५८ अ० ।

गिरिस्रवा स्त्री गिरेः स्रवति स्रु--अच् ५ त० । पर्वसनद्यां

“गिरिस्रवाभि! सर्वाभिः पृष्ठतोऽनुगता शुभा” भा०
आनु० १४ अ० ।

गिरिह्वा स्त्री गिरिं बालमूषिकाकर्ण्णं ह्वयति स्पर्द्धते

तदाकारेण ह्वे--क । गिरिकर्णिकायाम् अपराजिता-
याम् तत्कर्णतुल्यपत्रत्वास्तस्यास्तथात्वम् । “श्वेता गिरिह्वा
किणिही सिता च” सुश्रु० । आ + ह्वे--क । गिर्य्याह्वा-
प्यत्र । “शिरीषः किणीहिः शेलः गिर्य्याह्वा रजनी-
द्वयम्” सुश्रु० ।
पृष्ठ २५९२

गिरीन्द्र पु० गिरिरिन्द्र इव श्रेष्ठत्वात् ६ त० वा । हिमा-

लये पर्वते अचलराजशब्दे ८३ पृ० विवृतिः । १
महादेवे च कैलासेश्वरत्वत्तस्य तथात्वम् । “माधवञ्च गिरी-
न्द्रोऽसौ सम्भावयति चेतसि” काशी० ६६ अ० ।

गिरीश पु० गिरेः कैलासस्य ईशः । महादेवे अमरः ।

“सुतां गिरीशप्रतिषक्तमानसाम्” कुमा० । गिरीणामीशः ।
२ हिमालये । गिरां वाचामीशः । ३ वाचस्पतौ च मेदि० ।

गिर्वणस् पु० गिरा स्तुत्या वन्यते बन--कर्म्मणि असुन्

संज्ञात्वात् णत्वं पृषो० नोपपददीर्घः । १ स्तवनीये देवभेदे ।
“गिर्वणादेवो भवति गीर्भिरेनं वनयन्ति” निरु० ६ । १४ ।
“सोमास इन्द्र! गिर्वणः” ऋ० १ । ५ । ७ । “गीर्भिः
स्तुतिभिः संभजनीयो देवविशेषः” भा० । कर्त्तरि
असुन् । २ स्तोतरि च । “धीरो गिर्वणस्युर्विदानः” ऋ०
१० । १११ । १ । “गोर्भिर्वनन्ति भजन्ते इति गिर्वणसः
स्तोतारः वनतेरसुनि रूपम् उपपददीर्घाभावश्छान्दसः ।
तदन्तात् क्यप् । “क्याच्छन्दसि” पा० उप्रत्ययः स्तो-
तॄन् कामयमानः” धा० । “परि त्वा गिर्वणो! गिर
इमा भवन्तु विश्वतः” शत० ब्रा० ३ । ६ । १ । २४ ।

गिर्वन् पु० गिरा वन्यते वन--विच् नि० उपपददीर्घाभावः ।

इन्द्रादौ देवे “इन्द्रो वै गिर्वा” शत० ब्रा० ३ । ६ । १ । २४ ।

गिर्वाहस् पु० गिरा स्तुतिवाचा उह्यते नि० उपपददीर्घा-

भावः । “स्तुतिवाक्यवाहनीये इन्द्रादौ देवे । “न जग्मुर्गि-
र्वाहो! अश्वाः” ऋ० ६ । २४ । ६ ।

गिल गिल गिलने सक० तु० पर० सेट् । गिलति गिलन्

सार्वधातुकविषयोऽयम् । गिरतेः रस्य लः इत्येके ।
किन्तु गिलन इति निर्द्देशात् सौत्रोऽयं धातुरित्येव ज्यायः

गिल त्रि० गिल--क । १ भक्षके । “गिलेगिलस्व” वार्त्ति०

एतत्परे पूर्वस्य मुम्! तिमिङ्गिलः । “तिमिङ्गिलगि-
लोऽप्यस्ति तद्गिलोऽप्यस्ति राघव!” गिलस्म तु न
गिलगिलः “गेलगिले च” वा० । तिमिङ्गिलगिलः
इत्यादौ मुम् । २ कुम्भीरे पु० शब्दच० । तस्य सर्वपदा-
र्थस्य चर्वणाभावेन गिलनात् तथात्वम् । कर्म्मणि
मूल० क । ३ जम्बीरे शब्दच० तस्य दन्तशठत्वेन चर्वण-
न्तरेण गिलनात्तथात्वम् ।

गिलगिल पु० गिलं कुम्भीरं गिलति गिल--क । अगिलस्ये-

त्युक्तेः न मुर्म् । गिलग्राहे नक्रे (हाँगर) ।

गिलग्राह पु० गिलं कुम्भीरं गृह्णाति ग्रह--अण् उप० स० ।

नक्रे राजनि० ।

गिलन न० सौ० गिल--ल्युट् गिलन इति निर्द्देशात् न

गुणः । चर्वणमन्तरेण भक्षणे(गेला) अमरः ।

गिलायु “ग्रन्थिर्गले त्वामलकास्थिमात्रः स्थिरोऽल्परुक् स्यात्

कफरक्तमूर्त्तिः । संलक्ष्यते सक्तमिवाशनञ्च स शस्त्र
साध्यस्तु गिलायुसंज्ञः” सुश्रुतोक्ते कण्ठरोगभेदे ।

गिलि स्त्री गिल--भावे इन् । गिलने अमरटी० ।

गिलित त्रि० गिल--क्त । भक्षिते अमरः ।

गिलोड्य पु० मधुरफले वृक्षभेदे । “कतकड्यिगलोपियालेत्या-

द्युपक्रमे “समासेन मधुरो वर्गः” सुश्रुतः ।

गि(गे)ष्णु त्रि० “गै--गादाभ्यामिष्णुच्” उणा० इष्णुच् आद्गुणः ।

इष्णुगिति केचित् पठन्ति तन्मते आतो लोपः । १ गायने
२ सामादिगायके पु० । उज्ज्वलदत्तीये तु इष्णुजित्येव
पाठः मतान्तरे एष्णुक् इति पाठान्तरमुक्त्वा आतो लोपे
रूपसामान्यमुक्त्वा चित्स्वराभावात् स्वरे भेद इत्युक्तं
तेनं शब्दकल्पद्रुमे गिष्ण इत्यदन्तशब्दकल्पनं प्रामादिकम् ।
तथा च गिष्णुरिति, गेष्णुरिति वा शब्दरूपद्वयम् ।

गीत न० गे--गाने भावे क्त । गाने स्वरविशेषनिष्पाद्ये

शब्दभेदे । तच्च द्विविधं लौकिकं वैदिकञ्च तत्र
गानशब्द वदिकगानलक्षणादिकमुक्तं लौकिमधुनोच्यते ।
“धातुमात्रासमायुक्तं गीतमित्युच्यते बुधैः । तत्र
नादात्मकोधातुर्मात्रा ह्यक्षरसञ्चयः” । तद्धिविधं यया
“गीतञ्च द्विविधं प्रोक्तं यन्त्रगात्रविभागतः । यन्त्रं
स्याद्वेणुवीणादि गात्रन्तु मुखजं मतम् । निवन्ध-
मनिवन्धञ्च गीतं द्विविधमुच्यते । अनिवन्धं
भवेद्गीतं वर्णादिनियमं विना । तद्वा गमकधात्वाद्यै
रनिवन्धं विनाकृतम् । निवन्धञ्च भनेद्गीतं तालमान
रसाञ्चितम् । छन्दोगमकधात्वाद्यैर्वर्णादिनियमैः
कृतम् । ऋग्भिः पाठ्यमभूद्गीतं सामभ्यः समपद्यत ।
यजुर्भ्योऽभिनया जाता रसाश्चाथर्वणः स्मृताः । अथ
संगीतलक्षणम् “तालवाद्यानुगं गीतं नटीभिर्यत्र
गीयते नृत्यस्यानुग तं रङ्गे तत्सङ्गीतकमुच्यते ।
सङ्गीतकेन रम्येण सुखं यस्य न चेतसि । मनुष्य-
वृषभो लोके विधिनैव स वञ्चितः । संसारदुःख
दग्धानामुत्तमानामनुग्रहात् । प्रभुणा शङ्करेणात्र
गीतवाद्यं प्रकाशितम् । गीतं वाद्यं तथा नृत्यं तौर्य्य-
त्रिकमिदं मतम् । तूर्य्यशब्दोमृदङ्गे स्यात् मुर-
पृष्ठ २५९३
जेऽपि च दृश्यते । गीतज्ञो यदि गीतेन नाप्नोति परमं
पदम् । रुद्रत्यानुचरो भूत्वा तेनैव सह मोदते । गीतेन
हरिणा रङ्गं प्राप्नुवन्त्यपि पक्षिणः । वनादायान्ति
फणिनः शिशवो न रुदन्ति च । हृदि चमत्कृतये
किमतः परं फणिवरोऽश्वतरो वत पञ्चमः । अपि
मृता यदवाप मदालसां मधुरगीतवशीकृतशङ्करः ।
परमानन्दविबर्द्धनमभिमतफल वशीकरणम् ।
सकलजनचित्तहरणं विमुक्तिवीजं परं गीतम्” । “शुद्धशाल-
गसङ्कीणभेदाद्गीतं त्रिधा मतम् । एला साद्यभवा
सपाठकर तत् पञ्चतानेश्वरः कैराते स्वरचक्रपालविजया
पत्रं त्रिभङ्गितया । टेङ्कावर्णसरःपुटौ द्विपदिका सुक्ता-
वलीमाहकालम्बोदण्डकवर्त्तनीति कथिताः शुद्धासु ते
विंशतिः” सङ्गीतदा० । एलादीनामेतेषां विंशति संख्य-
कानां प्रबन्धगीतानामङ्गानि षट् भवन्ति यथा “पदं
तानो विरुदश्च तालः पाठः स्वरस्तथा । एलादीनां षड़-
ङ्गानि कथितानि विरिञ्चिना । पौनरुक्त्यं न देशीये गीते
दोषोऽभिजायते । शीघ्रोच्चारेण वर्णानां तथा चैव प्रसा-
रणे । लिङ्गान्यत्वे विसन्धौ च संयुक्ताक्षरमोक्षणे । परिवर्त्ते
ऽक्षराणाञ्च ह्रस्वदोर्घव्यतिक्रमे” । शालगसूत्रं यथा
“ध्रुवकोमण्डकश्चैव प्रतिमण्डोनिसारुकः । वासकः
प्रतिलाभश्च तथान्या चैकतालिका । यतिश्च झुमरि
श्चेति शालगं सूत्रमीरितम्” । सङ्कीर्णसूत्रं यथा
“चैत्रोमङ्गलकस्तथा न गणिका चर्च्चातिनाटोन्नवी दोहा
स्याद्वहुलस्तथागुरुबलो गीता च गोविस्तथा । हेम्नो-
फोप्यथ कारिका त्रिपदिकेत्येतानि कामद्विषा संक्षे-
पेण चतुर्द्दश प्रकृटितान्यत्राधमानि क्रमात्” सङ्गीतदा० ।
अधिकम् उल्लोप्यशब्दे १३७३ पृ० दृश्यम् । स्वार्थे क
तत्रार्थे “काव्यालापाश्च ये केचित् गीतकान्यखिलानि
च । शब्दमूर्त्तिधरस्यैते विष्णोरंशा महात्मनः” अग्निपु० ।
कर्म्मणि क्त । २ शब्दिते मेदि० । ३ स्तुते ४
गानकर्म्मणि कृतगाने त्रि० । “गीता सुगीता कर्त्तव्या”
गानशब्दे उदा० ।

गीतगोविन्द पु० गीतोगोविन्दोऽत्र । जयदेवकृते श्रीकृष्ण-

चरितख्यापके द्वादशसर्गात्मके ग्रन्थभेदे । “यच्छृङ्गार
विवेकतत्त्वमपि सत्काव्येषु लीलायितम् तत्सर्वं
जयदेवपण्डितकवेः कृष्णैकतानात्मनः । सानन्दाः
परिशोधयन्तु सुधियः श्रीगीतगोविन्दितः” गीतगो० ।

गीतप्रिय त्रि० गीतं प्रियमस्य । १ गानरक्ते २ महादेबे पु०

३ कुमारानुगतमातृकामेदे स्त्री । “गीतप्रिया च कल्याणी
रुद्ररोमाऽमिताशना” भा० शल्य० ५ अ० मातृगणोक्तौ ।

गीतमोदिन् त्रि० गीतेन मोदते मुद--णिनि । १ गीतेना-

मोदकर्त्तरि स्त्रियां ङीप् । २ किन्नरे पु० शब्दर० ।

गीता स्त्री गै--कर्मणि क्त । १ गुरुशिष्यकल्पनया आत्मविद्योप-

देशात्मके कथाविशेषे सा च भनवद्गीतारामगीतादिभेदात्
बहुला किन्तु भगवद्गीतायामेव प्रसिद्धिः । “गीता सुगीता
कर्त्तव्या किमन्यैः शास्त्रविस्तरैः । या स्वयं पद्मनाभस्य
मुखपद्मात् विनिःसृतेति” श्रीधरस्वामिधृतवचनम् । प्रसिद्ध
गीतायास्तात्पर्य्यादि नीलकण्ठेन समग्राहि यथा
“भारत सर्ववेदार्थो, भारतार्थश्च कृत्स्नशः । गीतायामस्ति,
तेनेयं सर्वशास्त्रमयी मता । कर्मोपास्तिज्ञानभेदैः शास्त्रं
काण्डत्रयात्मकम् भक्तिस्तूपासनाकाण्डात्तृतीयान्नातिरि-
च्यते । तदेव ब्रह्म त्वं विद्धि नेदं यत्तदुपासते । इति श्रुत्यैव
वेद्यस्य ह्युपास्यादन्यतेरिता । इयमष्टादशाध्यायी क्रमात्
षट्कत्रिकेण हि । कर्मोपास्तिज्ञानकाण्डत्रितयात्मा
निगद्यते” । मधुसूदनसरस्वतीभिस्तु गीतागूढ़ार्थदीपिन्यां
तत्प्रयोजनादिकं विस्तरेण दर्शितं यथा
सहेतुकस्य संसारस्यात्यन्तोपरमात्मकम् । परं
निश्रेयसं गीताशास्त्रस्योक्तं प्रयोजनम् । सच्चिदानन्दरूप-
न्तत् पूर्णं विष्णोः परं पदम् । यत्प्राप्तये समारब्धाः
वेदाः काण्डत्रयात्मकाः । कर्मोपास्तिस्तथा ज्ञानमिति
काण्डत्रयं क्रमात् । तद्रूपाष्टादशाध्यायी गीता काण्ड-
त्रयात्मिका । एकमेकेन षट्केन काण्डमत्रोपलक्षयेत् ।
कर्मनिष्ठाज्ञाननिष्ठे कथिते प्रथमान्त्ययोः । यतः
समुच्चये नास्ति तयोरतिविरोधतः । भगवद्भक्तिनिष्ठा तु
मध्यमे परिकांर्त्तिता । उभयानुगता सा हि सर्वविघ्ना-
पनोदिनी । कर्ममिश्रा च शुद्धा च ज्ञानमिश्रा च सा
त्रिधा । तत्र तु प्रथमे काण्डे कर्म्मतत्त्यागवर्ण्णनात् ।
त्वंपदार्थो विशुद्धात्मा सोपपत्तिर्निरूप्यते । द्वितीये
भगवद्भक्तिनिष्ठावर्णनया ततः । भगवान् परमानन्दस्तत्-
पदार्थोऽवधार्य्यते । तृतीये तु तयोरैक्यं वाक्यार्थो वर्ण्यते
स्फुटम् । एवमप्यत्र काण्डानां संबन्धोऽस्ति परस्परम् ।
प्रत्यध्यायं विशेषन्तु तत्रतत्रैव वक्ष्यते । मुक्तिसाधनपर्वेदं
शास्त्रार्थत्वेन कथ्यते । निष्कामकर्मानुष्ठानं त्यागात्
काम्यनिषिद्धयोः । तत्रापि परमोधर्मो जपस्तुत्यादिकं
हरेः । क्षीणपापस्य चित्तस्य विवेके योग्यता यदा ।
नित्यानित्यविवेकस्तु जायते सुदृढ़स्तदा । इहामूत्रार्थ
पृष्ठ २५९४
वैराग्यं वशीकाराभिधं क्रमात् । ततः शमादिसंपत्त्या
संन्यासनिष्ठता भवेत् । एवं सर्वपरित्यागान्मुमुक्षा
जायते दृढ़ा । ततो गुरूपसदनमुपदेशग्रहस्ततः । ततः
सन्देहहानाय वेदान्तश्रवणादिकम् । सर्वमुत्तरमीमां-
साशास्त्रमत्रोपयुज्यते । ततस्तत्परिपाकेण निदिध्या-
सननिष्ठता । योगशास्त्रं तु संपूर्णमुपक्षीणं भवेदिह ।
क्षीणदोषे ततश्चित्ते वाक्यात्तत्त्वमतिर्भवेत् । साक्षात्-
कारो निर्विकल्पः शब्दादेवोपजायते । अविद्याविनि-
वृत्तिस्तु तत्त्वज्ञानोदये भवेत् । तत आवरणे क्षीणे
क्षीयेते भ्रमसंशयौ । अनारब्धानि कर्माणि नश्यन्त्येव
समन्ततः । न चागामीनि जायन्ते तत्त्वज्ञानप्रभावतः ।
प्रारब्धकर्मविक्षेपाद्वासना तु न नश्यति । सा सर्वतो बलवतो
संयमेगोपशाम्यति । संयमो धारणा ध्यानं समाधिरिति
यत् त्रिकम् । यमादिपञ्चकं पूर्वं तदर्थमुपयुज्यते । ईश्वरो
प्रणिधानात्तु समाधिः सिध्यति द्रुतम् । ततोभवेन्मनोनाश-
वासनाक्षय एव च । तत्त्वज्ञानं मनोनाशोवासनाक्षय
इत्यपि । युगपत्त्रितयाभ्यासाब्जीवन्मुक्तिर्दृढ़ा भवेत् । विद्वत्-
संन्यासकथनमेतदर्थं श्रुतौ कृतम् । प्रागसिद्धो यएवांशो
यत्नः स्यात्तस्य साधने । निरुद्धे चेतसि पुरा सविकल्प-
समाधिना । निर्विकल्पसमाधिस्तु भवेदत्र त्रिभूमिकः ।
व्युत्तिष्ठते स्वतस्त्वाद्ये द्वितीये परवोधितः । अन्त्येतू-
त्तिष्टने नैव सदा भवति तन्मयः । एवम्भूतोब्राह्मणः
स्याद्वरिष्ठो ब्रह्मवादिनाम् । गुणातीतः स्थितप्रज्ञो विष्णु-
भक्तश्च कथ्यते । अतिवर्णाश्रमी जीवन्मुक्त आत्मरति-
स्तदा । एतस्य कृतकृत्यत्वाच्छास्त्रमस्मान्निवर्त्तते । यस्य देवे
परा मक्तिर्यथा देवे तथा गुरौ । तस्यैते कथिता ह्यर्थाः
प्रकाशन्ते महात्मतः । इत्यादिश्रुतिमानेन कायेन
मनसा गिरा । सर्वावस्थासु भगवद्भक्तिरत्रोपयुज्यते ।
पूर्वभूमौकृता भक्तिरुत्तरां भूमिमानयेत् । अन्यथा विघ्नबा-
हुल्यात् फलसिद्धिः सुदुर्लभा । पूर्वाभ्यासेम तेनैव क्रियते
ह्यवशोऽपि सः । तानेकजन्मसंसिद्ध इत्यादि च वचो हरेः ।
याश्च प्रागभवसंस्कारैरचिन्त्यत्वात्तु कश्चन । प्रागेव कृतकृत्यः
ग्यादकस्मात् फलपातवत् । न तं प्रतिकृतार्थत्वाच्छास्त्र-
मारब्धमिष्यते । प्राक्सिद्धसाधमाभ्यासाद्दुर्ज्ञोया भगवत्-
लपा । एवं प्राग्भूमिसिद्धावप्युत्तरोत्तरभूमये । विधेया
मयवद्भक्तिस्तां विना सा न सिद्ध्यति । जीवन्मुक्तदशायां
त न भक्तेः फलकल्पना । अद्वेष्टृत्वादिवत्तेषां स्वभावो
लजनं हरेः । अत्मारागाश्च मुनयो निर्ग्रन्या अप्यरु-
क्रमे । कुर्वन्त्यहैतुकीं भक्तिमित्थंभूतगुणो हरिः । तेषां
ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते । इत्यादिवचनात्
प्रेमभक्तोऽयं सुख्य उच्यते । एतत् सर्वं भगवता गीता-
शास्त्रे प्रकाशितम् । अतो व्याख्यातुमेतन्म
मम उत्सहते भृशम् । निष्कामकर्मानुष्ठानं मूलं मोक्षस्ये
कीर्त्तितम् । शोकादिरासुरः पाप्मा तस्य च प्रतिबन्धकः ।
यतः स्वधर्भविभ्रंशः प्रतिषिद्धस्य सेवनात् । फलाभिमन्धि
पूर्वा वा साहङ्कोरा क्रिया भवेत् । आविष्टः पुरुषो
नित्यमेवमासुरपाप्मभिः । पुमर्थलाभायोग्यः सन् लभते
दुःखसन्ततिम् । दुःखं स्वभावतो द्वेष्यं सर्वेषां प्राणिना-
मिह । अतस्तत्साधनं त्याज्यं शोकमोहादिकं विदा ।
अनादिभवसन्ताननिरूढ़ं दुःखकारणम् । दुस्त्यजं
शोकमोहादि केनोपायेन हीयताम् । एवमाकाङ्क्षया-
विष्टं पुरुषार्थोन्मुखं नरम् । बुबोधयिषुराहेदं भगवान्
शास्त्रमुत्तमम्” । व्यासप्रणीताध्यात्मरामायणान्तर्गता
रामगीता भारताश्वमेविकोक्ते ब्राह्मणगीतानुगीते
देवीभागवतोक्ता देवीगीता वैष्णवभागवतोक्ता गोपीगीता
तन्त्रोक्ता शिवगीता इत्यादयो वह्व्यो गीताः सन्ति ।
ताश्च सर्वा एव अध्यात्मविद्याप्रकाशिकाः । अपराधशब्दे
२२३ पृ० उक्तवाक्ये प्रत्यहं गीताध्यायपाठफलमुक्तम् ।

गीतायन न० ६ त० । गानसाधने वेणुमृदङ्गादौ “गीतायनैः

दुन्दुभिशङ्खवेणुभिः” भाग० ४ । ४ । ६ ।

गीतासार पु० गीताया भगवद्गीताया सारः संक्षेपेणार्थ-

कथनमत्र । गरुडपुराणान्तर्गते २३५ अध्यायादित्रये
भगवद्गीतार्थोक्तिसंक्षेपरूपग्रन्थे ।

गीति स्त्री गै--भावे क्तिन् । १ गाने । “तवास्मि गीति-

रागेण हारिणा प्रसभं हृतः” । “अहोरागपरिवा-
हिणी गीतिः” शकु० । “श्रुताप्सरोगीतिरपि क्षणे-
ऽस्मिन्” कुमा० । “आर्य्याप्रथमदलोक्तं कथमपि
लक्षणं भवेदुभयोः । दलयोः कृतयतिशोभां तां गीतिं
गीतवान् भुजङ्गेशः” वृ० र० उक्ते २ मात्रावृत्तभेदे ।

गीतिका स्त्री गीतिरिव कायति कै--क । १ गीतितुल्यगाथायां

“गायत्रीं पठते यस्तु वर्णशङ्करजस्तथा । गाथा च
गीतिका चापि तस्य सम्पद्यते नृप!” भा० व० ८५ अ० ।
“गाथा स्वरनियमहीना, गद्यवन्मुखान्निः सरात ।
गाथैव ग्राम्यगोतिवत् स्वरवर्णविकृता गीतिका” गीलक० ।
“सगणो जयुग्मभरैः स्लगैः कथिता युधैरिह गीतिका”
वृ० र० टी० उक्ते २ विंशत्यक्षरपादके समचतुष्पादवर्णवृत्त-
भेदे च । स्वार्थे क । गीतिका ३ गीतौ गाने ।
पृष्ठ २५९५

गीथा स्त्री गै--थक् । वाचि । “एष उ वा उद्गीथः प्राणो वा

उत् प्राणेन हीदं सर्वमुत्तब्धं, वागेव गीथा उच्च गीथा
चेति स उद्गीथः” शत० ब्रा० १४ । ४ । १ । २५ । “वागेव
गीथा उद्गीथाभिव्यक्तिरूपा गायतेः शब्दार्थत्वात्” भा०

गीरथ पु० गीः रथ इवास्य । १ गीष्पतौ त्रिका० । २ जीवा-

त्मनि शब्दार्थचि० ।

गीर्ण्ण त्रि० गॄ--निगरणे शब्दे कर्म्मणि क्त । १ वर्णिते

२ स्तुते ३ गिलिते च अमरः ।

गीर्ण्णि स्त्री गॄ--भावे क्तिन् । १ स्तुतौ २ वर्णने ३ गिलने च अमरः ।

गीर्देवी स्त्री गिरोऽधिष्ठात्री देवी । १ सरस्वत्याम् शब्दरत्ना० ।

गीर्पति पु० ६ त० अहरा० वा रः । १ वृहस्पतौ । २ पण्डिते

च पक्षे षविर्गौ गीष्पतिः गीःपतिशब्दावप्यत्र अमरः ।

गीर्बा(र्वा)ण पु० गीरेव बाणः कार्य्यसाधनत्वादस्त्रं यस्य

१ देवे सुरे । अन्तःस्थमध्यत्वे निरं स्तुतिरूपां वनुत
बनयाचने अण् “पूर्वपदात् संज्ञायामिति” पा० णत्वम्
उप० स० । देवानां स्तुतिप्रियत्वात् तथात्वमिति भेदः ।

गीर्बा(र्वा)णकुसुम न० गीर्बा(र्वा)णप्रियं कुसुमम् ।

देवकुसुमे लवङ्गे राजनि० गीर्वाणपुष्पादयोऽप्यत्र ।

गीर्लता स्त्री गीरिव विस्तीर्णा लता । महाज्योतिष्मतील-

तायाम् राजनि० ।

गीर्वत् त्रि० गीरस्त्यस्य मतुप् “छन्दसीरः” पा० मस्य वः ।

वाक्ययुक्ते छब्दसीत्युक्तेः लोके न वः । गीर्मत् इति ।

गु ध्वनौ अव्यक्तशब्दे भ्वा० आत्म० अक० अनिट् । गवते

अगोष्ट । जुगुवे । “उपो वेनस्य जोगुवानः” ऋ० १ । ६१ ।
१४ । गुङ् अव्यक्ते शब्दे अस्मात् यङ्लुकि पदव्यत्ययेन
शानच” भा० । “विश्वासूक्ष्मासु जोगुवे” ऋ० ५ । ६
४ । २ । “जोगुवे शब्दयामीति” भा० पूर्ववत् पदव्यत्ययः ।

गु विष्ठोत्सर्गे तुदा० कुटा० पर० अक० अनिट् । गुवति अगुत

ओदित् क्त तस्य नः “दुग्वोर्दीर्घश्च” पा० दीर्घः गूनः ।

गुग्गु(ल)लु पु० गुज--क्विप् गुक् व्याधिः ततो गुडति रक्षति

गुड--क कु वा डलवोरेकत्वम् । स्वनामख्याते वृक्षभेदे,
अमरः । भरतस्तु इममदन्तमप्याह स्म । २ रक्तशोभा-
ञ्जनष्ठक्षे शब्दच० ।
“श्रीवासकरसगुग्गुलुभल्लातककुन्दुरूक्षसर्जरसैः”
“लाक्षाकुन्दुरुगुग्गुलुगृहधूमकपित्थविल्वमध्यानि” वृ० स०
५७ अ० । तस्य पर्य्यायमदगुणादि भावप्र० उक्तं यथा
“गुग्गुलु र्देवधूपश्च जटायुः कौशिकःपुरः । कुम्भा-
लु खलकं क्लीवे महिषाक्षः पलङ्कषः । महिषाक्ष १
महानीलः २ कुमुदः ३ पद्म ४ इत्यपि । हिरण्यः ५ पञ्चमो
ज्ञेयो गुग्गुलोः पञ्च जातयः । भृङ्गाञ्जनसवर्णस्तु
महिषाक्ष इति स्मृतः । गहानीलस्तु विज्ञेयः स्वनाम-
समलक्षणः । कुमुदः कुमुदागः स्यात् पद्मो माणिक्य-
सन्निभः । हिरण्याख्यस्तु हेमाभः पञ्चानां लिङ्ग
मीरितम् । महिषाक्षो महानीलो गजेन्द्राणां हिता
वुभौ । हयानां कुमुदः पद्मः स्वस्त्यारोग्यकरौ परौ ।
विशेषेण मनुष्याणां कनकः परिकीर्त्तितः ।
कदाचिन्महिषाक्षश्च मतः कैश्चिन्नृणामपि । गुग्गुलु
र्विशदस्तिक्तो वीर्य्योष्णः पित्तलः सरः । कषायः कटुकः
पाके कटू रूक्षो लघुः परः । भग्नसन्धानकृद् वृष्यः
सूक्ष्मः स्वर्यो रसायनः । दीपनः पिच्छिलो बल्यः
कफवातव्रणापचीः । मेदोमेहाश्मवातांश्च क्लेद
कुष्ठाममारुतान् । पिड़िकाग्रन्थिशोफार्शःगण्डमाला
कृमीन् जयेत् । माधुर्य्याच्छमयेद्वातं कषायत्वाच्च
पित्तहा । तिक्तत्वात् कफजित्तेन गुग्गुलुः सर्व्वदोषहा ।
स नवो वृंहणो वृष्यः पुराणस्त्वतिलेखनः । स्निग्धः
काञ्चनसङ्काशः पक्वजम्बूफलोपमः । नूतनो
गुग्गुलुः प्रोक्तः सुगन्धिर्य्यस्तु पिच्छिलः । शुष्को दुर्गन्ध-
कश्चैव त्यक्तप्रकृतिवर्णकः । पुराणः स तु विज्ञेयः
गुग्गुलुर्वीर्य्यवर्ज्जितः । अम्लं तीक्ष्णामजीर्णञ्च
व्यवायं श्रममातपम् । मद्यं रोषन्त्यजेत् सम्यग्गुणाथी
पुरसेवकः” पुरः गुग्गुलुः ।
अस्य स्थानविशेषे जन्मादिकथनं यथा “जायन्ते
पुरपादपा मरुभुवि ग्रीष्मेऽर्कसन्तापिताः शीतर्कौ शिशिरे-
ऽपि गुग्गुलुरसं मुञ्चन्ति ते पञ्चधा । हेमाभं महिषा-
क्षितुल्यमपरं सत् पद्मरागोपमं भृङ्गाभं कुमुदद्युति-
ञ्चे विधिना ग्राह्या परीक्षा ततः । वह्नौ ज्वलन्ति
तपने विलयं प्रयान्ति क्लिद्यन्ति कोष्णसलिले पयसः
समानाः । ग्राह्या शुभाः परिहरेच्चिरकालजातान् अङ्गार-
वर्णसमपूयबिगन्धवर्णानिति” प्रयोगामृतम् । अस्य वह्नि-
पु० उत्पश्विस्थानमुक्तम् यथा
“गोरचना या सङ्गल्या संजाता सर्वकामिका । गुग्गु-
लुस्तु ततो जातो गोमूत्राच्छुभदर्शनः” ।

गुग्गुलुक त्रि० गुग्लुः पण्यमस्य किशरा० ष्ठन् । गुग्गुलु-

विक्रेतरि स्त्रियां षित्त्वात् ङीष् ।
पृष्ठ २५९६

गुग्गुलुगन्धि पुंस्त्री गुग्गुलुर्गन्धो लेशोऽस्य अल्पार्धग-

न्धस्येत् समा० । गवि “गावो गुग्गुलुगन्धयः” प्रा० त० यमः
गुग्गुलोर्गोमूत्रभवत्वात् गोस्तथात्वम् गुग्गुलुशब्दे
तत्कथा । गुग्गुलोर्गन्ध इव गन्धोऽस्य वा इत् समा० ।
२ गुग्गुलुगन्धयुक्ते त्रि० ।

गुङ्गू स्त्री कुहू + पृषो० । कुहूतिथौ । “या गुङ्गूर्य्या सिनी-

वाली या राका या सरस्वती” ऋ० २ । ३२ । ८ ।
“अत्र गुङ्गूशब्देन राकासिनीबाल्योः साहचय्यांत् कुहू-
रुच्यते” भा० ।

गुच्छ(त्स) पु० गु--संप० क्विप् गुतं छ्यति स्यति वा छो--सो--वा

क । कलिकाकुसुमादिसमूहवति १ स्तवके, काण्डशून्ये
मूलत एव शाखाप्रधानसंधात्मके धान्यमल्लिकादेः
२ स्तम्बे, द्वात्रिंशद्यष्टिके ३ हारभेदे, ४ मयूरपुच्छे
च मेदि० । ५ मल्लिकादौ च “गुच्छगुल्मं तु विविधं
तथैव तृणजातयः । वीजकाण्डरुहाण्येव प्रताना वल्ल्य
एव च । तमसा बहुरूपेण वेष्टिताः कर्म्महेतुना ।
अन्तःसंज्ञा भवन्त्येते सुखदुःखसमन्विताः” मनुनां तेषां
कर्म्महेतुतोक्ता । “मूलतएव यत्र लतासमूहो भवति न
प्रकाण्डानि ते गुच्छा मल्लिकादयः, गुल्मा एकमूलाः
संघातजाताः शरेक्षुप्रभृतयः” कुल्लू० । ६ गुच्छकरञ्जे
मेदि० । स्तवके पु० स्त्री राजनि० स्त्रियां ङीप् ।
“ववुख्युक्छदगुच्छसुगन्धयः” माघः । स्वार्थे क । गुच्छक
उक्तेष्वर्थेषु । संज्ञायां कन् । रीठाकरञ्जे ग्रन्थिपर्णे
न० भाव० ।

गुच्छ(त्स)कणिश पु० गुच्छः कणिशोऽस्य । धान्यभेदे राजनि०

गुच्छ(त्स)करञ्ज पु० गुच्छाकरः करञ्जः । करञ्जभेदे

राजनि० । “कटुर्गुच्छकरञ्जस्तु तिक्तोष्णो विषवातहृत् ।
कण्डूविचर्चिकाकुष्ठस्पर्शत्वग् दोषनाशनः” राजनि० ।

गुच्छ(त्स)दन्तिका स्त्री गुच्छीभूता दन्ताः पुष्परूपाःसन्त्यस्याः

ठन् । कदल्याम् राजनि० । तस्या हि माचकरूपे
पुष्पे गुच्छाकृतिदन्तरूपत्वात्तथात्वम् ।

गुच्छ(त्स)पत्र पु० गुच्छाकृतीनि पत्राण्यस्य । तालवृक्षे

राजनि० । तस्य हि प्रत्येकपत्रस्य गुच्छात्मकत्वात्तथात्वम् ।

गुच्छ(त्स)पुष्प पु० गु(त्सा)च्छाकृतीनि पुष्पाण्यस्य । सप्तच्छद-

वृक्षे २ रीठाकरञ्जे ३ धातक्यां स्त्री राजनि० ङीष् ।

गुच्छ(त्स)फल पु० गु(त्सा)च्छाकृतीनि फलान्यस्य । १ रीठाक-

रञ्जे, २ राजादन्यां, ३ कतके च । ४ अग्निदमन्यां, ५
काकमाच्यां, ६ द्राक्षायां ७ कदल्याञ्च स्त्री राजनि० टाप् ।

गुच्छ(त्स)बध्रा स्त्री गुच्छेन बध्यते बन्ध--बा० रक् ।

गुण्डालावृक्षे राजनि० ।

गुच्छ(त्स)मूलिका गुच्छाकृति मूलमस्या कप् अतैत्त्वम् । गुण्डालिनीतृणे राजनि० ।

गुच्छा(त्सा)र्द्ध पु० गु(त्स)च्छ इव ऋघ्नोति ऋध--अच् ।

चतुर्वंशतियष्टिके हारभेदे । ६ त० । गुच्छ(त्स)स्यार्द्धे पु० न० ।
अमरः ।

गुच्छा(त्सा)ल पु० गुच्छाय अलति अल--अच् गुच्छमालाति आ + ला--क वा । भूतृणे राजनि० ।

गुच्छा(त्सा)ह्वकन्द पु० गुच्छमाह्वयति आ + ह्वे--क गुच्छा-

ह्वः कन्दीऽस्य । गुलुञ्चकन्दे राजनि० ।

गुज ध्वनौ तुदा० कुटा० पर० अक० सेट् । गुजति अगुजिष्ट

जुगोज । प्रनिगुजति ।

गुज कूजने भ्वा० पर० अक० सेट् । जोजति अगोजीत् । जुगेज ।

गुज कूजने भ्वा० पर० सक० सेट् इदित् । गुञ्जति अगुञ्जीत्

जुगुञ्ज गुञ्जितम् गुञ्जः गुञ्जन् । (गुनगुन)
इति ध्वनितमिह कूजनम् । “न जुगुञ्ज यः
कलमिति” । “न गुञ्जितं तन्न जहार यन्मनः” ।
“रेणून् पुपूरिरे गुञ्जा” जुगुञ्जुः करघट्टिताः” भट्टिः ।
“लताकुञ्जं गुञ्जन्मदवदलिपुञ्जं चपलयन्” “गुञ्जन्
मत्तमधुव्रतः” सा० द० ।

गुज्ज(र्ज)री स्त्री १ रागिणीभेदे । तत्स्वरूपं सङ्गीतदा० उक्तं

यथा “श्यामा सुकेशी मलयद्रुमाणां मृदूल्लसत्पल्लव-
तल्पयाता । श्रुतेः स्वराणां दधती विभागं तन्त्रीमुखात्
दक्षिणगुर्ज्ज(ज्ज)रींयम्” कालभदे तस्या गानं निषिद्धं
तत्रैव “नाटी गौडी वराटी च गुज्ज(र्ज्ज)री
देशिरेव च । पूर्वाह्णे गानमेतेषा निषिद्धमिति
तद्विदः” २ रागभेदे च “गुज्ज(र्जरीरागैकतालीतालेन
गीयते” गीतगो० ।

गुञ्ज पु० गुजि--अच् । १ पुष्पस्तवके शब्दर० । भावे घञ् ।

गुञ्जने (गुनगुन) इति २ ध्वनौ च । भावे ल्युट् । गुञ्ज-
नमप्यत्र ध्वनौ ।

गुञ्जकृत् पु० गुञ्जं ध्वनिभेदं करोति कृ--क्विप् । १ भ्रमरे शब्दच० ।

गुञ्जा स्त्री गुजि--अच् । १ लताभेदे (कुँच) तत्फलेऽपि

हक्यादिरितत्वादणो लुक् । “तुल्या यवाभ्यां कथितात्र
गुञ्जेति” लीलावती । २ गोधूमद्वयनाने, राजनि०
३ चतुर्धान्यमाने, वैद्यकम् “श्वेता रक्तोच्चटा प्रोक्ता कृष्णला
चापि सा स्मृता । रक्ता सा काकचिञ्ची स्यात्
काकणन्ती च रत्तिका । काकादनी काकपीलुः सा
स्मृता काकवल्लरी” “श्वेतरक्तप्रभेदेन ज्ञेयं गुञ्जा-
द्वयं बुधैः । गुञ्जाद्वयं तु केश्य स्यात् वातपित्त-
पृष्ठ २५९७
ज्वरापहम् । मुखशोषश्रमश्वासवृष्णामदविनाशनम् ।
नेत्रामयहरं वृष्यं बल्यं कण्डव्रणं हरेत् ।
कृमीन्द्रलुप्तकुष्ठानि रक्ता च धवलाऽपि च” भावप्र०
तद्गुणा उक्ताः । सितगुञ्जा चाभिचारकर्म्मभेदे
विहिता । “जपित्वा सितगुञ्जानां कुड़वं कुलिकोदये”
शा० ति० नवदुर्गामन्त्राभिचारे । तत्र स्मार्त्तवैदिकपौरा-
णिककृत्येषु त्रियवमिता गुञ्जा वैद्यके तु चतुर्यव-
मितेति भेदः । कर्षशब्दे १७७४ पृ० दृश्यम् । “सहसि
प्लवगैरुपासितं न हि गुञ्जाफलमेति सोष्मताम्”
माघः । “अन्तर्विषमयाह्येता बहिश्चैव मनोरमाः
गुञ्जाफलसमाकाराः स्वभावादेव योषितः” पञ्चत० ।
“तेनेयं मधुगन्धलुब्धमनसा गुञ्जालता सेव्यते”
भ्रमरा० । कर्त्तरि अच् । ४ पटहे । भावे अ । ५
कलध्वनौ मेदि० ६ चर्च्चायां त्रिका० । आधारे अ ।
७ मदिरागृहे शब्दरत्ना० । तत्र सुरासवगन्धेन भ्रमर-
गुञ्जाबाहुल्यात् तथात्वम् ।

गुञ्जिका स्त्री गुञ्जा + संज्ञायां कन् । त्रियवपरिमाणे शब्दच० ।

गुटिका स्त्री वट्येव स्वार्थे क पृषो० । वटिकायाम् वर्त्तुलाकारे

पदार्थे । “समुद्रे गुटिकापातः” ज्यो० । “गुटिकापाता-
दिना व्यञ्जनं वा विभागः” दायभागः । “निर्द्धौतहार-
गुटिकाविशदं हिमाम्भः” रघुः । कबभावे ङीप् गुटी-
त्यपि तत्रार्थे ।

गुटिकाञ्जन न० “गैरिकं सैन्धवं कृष्णां नागरञ्च यथोत्त-

रम् । द्विगुणं पिष्टमद्भिस्तुगुटिकाञ्जनमिष्यते” सुश्रुतोक्ते
१ अञ्जनभेदे । गुटिका वटिका तथाभूतमञ्जनमित्यर्थः ।
“अञ्जनं क्रियते येन तद्द्रव्यमञ्जनं मतम् । रसो वटी
तथा चूर्णमिति त्रिविधमञ्जनम्” भावप्र० । सुश्रुतेऽपि
“वटिकारसचूर्ण्णानि त्रिविधान्यञ्जनानि च” ।

गुठ वेष्टने चुरा० उभ० इदित् सक० सेट् । गुण्ठयति--ते

अजुगुण्ठत्--त । गुण्ठितः गुण्ठनम् । “प्रतिपद्य पदा
सूनुर्धरणीरेणुगुण्ठितः” भा० आ० ७४ अ० । “अग्नि-
होत्रं त्रयोवेदास्त्रिदण्डं भस्मगुण्ठनम् । बुद्धिपौरुष-
होनानां जीविकेति वृहस्पतिः” सर्वद० । अव + समन्तात्-
वेष्टने । “रजनीतिमिरावगुण्ठिते पुरमार्गे” कुमा० ।

गुड़ वेष्टने रक्षणे चूर्णने च चुरा० उभ० इदित सक० सेट् ।

गुण्डयति--ते अजुगुण्डत्--त । गुण्डः गुण्डिता ।
गुण्डनं गुण्डा ।

गुड़ रक्षणे व्याषात च तुदा० कटा० पर० सक० सेट् । गुडति । अगुडोत । जुगोड ।

गुड़ पु० गु--ड कित् । १ इक्षुविकारे इक्षुशब्दे ९०९ पृ०

विवृतिः । “ऐक्षवं गुडवर्जितम्” ति० त० । गुडेन निर्वृत्तादि
गुड + अश्मा० र । गुडर गुडनिर्वृत्ते त्रि० । गुडायसाधु
गुडा० ठञ् । गौडिक गुडसाधने इक्षौ । भक्ष्येण
मिश्रणे स० गुडधाना गुडौदन गुडमिश्रितधानादौ ।
“सिता चतुर्गुणा देया वटीषु द्विगुणो गुडः”
वैद्यकम् । २ गोले वर्त्तुलाकारपदार्थे “प्रादुरासन्
महीपाल! कार्ष्णायसमया गुड़ाः” भा० द्रो० २०० अ०
३ हस्तिसन्नाहे मेदि० । ४ ग्रासे हेमच० । ५ कार्पास्यां
स्त्री राजनि० । ६ स्नुहीवृक्षे स्त्री गुडाप्रायाः केशा
यस्य । गुडाकेशः अर्ज्जुनः । उज्ज्वलद० ।

गुडक त्रि० गुडेन पक्वः वा० कन् । १ गुडपक्वे औषधादौ

गुड़ + स्वार्थे क । २ गोलाकारे पदार्थे । “सभुगुण्ड्यश्म-
गुडकाः” भा० ब० १५ अ० । अश्मगुडकाः वर्तुलीकृताः
फाषाणाः” नील० । “नीतौ च तद्युक्तात्” पा० परम्परया
अनुकम्पायाम् कन् । अनुकल्प्यपुत्रादौ दीयमाने ३
गुडद्रव्ये च । हन्त ते धानकाः गुडका एहकि” सि० कौ० ।

गुडकरी स्त्री रागिणीभेदे हलायु० ।

गुडकुष्माण्डक न० चक्रदत्तोक्ते औषधभेदे यथा ।

“कुष्माण्डस्य पलशतं सुखिन्नं निष्फुलीकृतम् ।
प्रस्थं वृतस्य तैलस्य तस्मिंस्तप्ते प्रदापयेत् । त्वक्पत्र-
धन्याकव्योषजीरकैलाद्वयानलम् । ग्रन्थिकं चव्यमानङ्ग-
पिप्पलीविश्वभेषजम् । शृङ्गाटकं कशेरुञ्च प्रलम्बं
तालमन्तकम् । चूर्णीकृतं पलांशञ्च गुडस्य च तुलां
पकेत् । शीतीभूते पलान्यष्टौ मधुनः संप्रदापयेत् ।
कफपित्तानिलहरं मन्दाग्नीनाञ्च शस्यते । कृशानां
वृंहणं श्रेष्टं वाजीकरणमुत्तमम् । प्रमदासु प्रसक्तान
ये च स्युः क्षीणरेतसः । क्षयेण च गृहीतानां परमे-
तद् भिषग् जितम् । कासं श्वासं ज्वरं हिक्कां हन्ति
छर्दिमरोचम् । गुड़कुष्माण्डकं ख्यातमश्विभ्यां
समुदाहृतम् । खण्डकुष्माण्डवत् पात्रं स्विन्न-
कुष्माण्डकद्रवः ।”

गुडची स्त्री गुडेन चीयते ची--ड गौ० ङीष् । गुडूच्याभ् भरतः

गुडतृण न० गुडसाधनं तत्प्रधानं वा तृणम् शा० त० । १ इक्षौ

राजनि० पृषो० । गुडत्रिणमप्यत्र शब्दरत्ना० ।

गुडत्वच् स्त्री गुड इव मधुरा त्वग् यस्याः । (दारचिनि)

ख्याते पदार्थे शब्दरत्न । “त्वक् स्वाद्वी तु गुडत्वक् स्यात्
तथा दारुसिता मता । उक्ता दारुसित स्वाद्वी तिक्ता
चानिलपित्तहृत् । सुरभिः शुक्रदा वर्ण्ण्या मुखशोषतृ-
षापहा” भाबप्र० ।
पृष्ठ २५९८

गुडत्वचा स्त्री गुड इव मषुरा त्वचा यस्याः । १ गुडत्वचि (दार-

चिनि) ख्याते पदार्थे २ राजभोग्ये (जयत्री) न० शब्दच० ।

गुडदारु न० गुडप्रधानं दारु शाक० त० । इक्षौ त्रिका० ।

गुडधेनु स्त्री दानार्थं नुडनिर्भिते धेनुभेदे । तद्विधिश्च हेमा० दा०

यथा “प्रथमा गुडनेनुः स्यात् घृतघेनुस्तथाऽपरा । तिलधेनु-
स्तृतीया तु चतुर्थी जलसंज्ञिता । क्षीरधेनुश्च विख्याता
मधुधेनुस्तथाऽपरा । सप्तमी शर्कराधेनुर्दधिधेनुस्तथाऽष्टमी ।
रसधेनुर्नवमी स्वाद्दशमी स्यात् स्वरूपतः” इत्युपक्रमे
“एतासां तु विधानञ्च समाचक्ष्व जगत्पते! । किंरूपं केन
मन्त्रेण दातव्या तदिहोच्यताम् । मत्स्य उवाच ।
गुडधेनुविधनास्य यद्रूपमिह यत्फलम् । तदिदानीं प्रव-
क्ष्यामि सर्वपापविनाशनम् । कृष्णाजिनं चतुर्हस्तं
प्रागग्रीवं विन्यमेद्भुवि । गोमयेनोपलिप्तायां दर्भाना-
स्तीर्य्य सर्वतः । लघ्वेणकाजिनन्तद्वद्वत्सस्य परिकल्पयेत् ।
प्राङ्मुखीं स्थापयेद्धेनुमुदक्पादां सवत्सकाम्” । एणका-
जिनं कृष्णाजिनं प्राङ्मुखीं प्राक्शिरसमित्यर्थः । “तदु-
त्तरेण वत्सोऽपि तथैव परिकल्पनीयः । “उत्तमा
गुडधेनुः स्यात्सदा भारचतुष्टयम् । वत्सम्भारेण कुर्वीते
भाराभ्यां मध्यमा स्मृता । अर्द्धभारेण वत्सः! स्यात्
निजवित्तानुसारतः” । निजवित्तानुसारत इति
इयमुत्तममध्यमादिकल्पना निजवित्तानुसारतः कर्त्तव्ये-
त्यर्थः । “धेनुवत्सौ घृतास्यौ तौ सितसूक्ष्माम्बरा-
वृतौ । शुक्तिकर्णाविक्षुपादौ शुचिमुक्ताफलेक्षणौ ।
सितसूत्रसिरालौ तौ सितकम्बलकम्बलौ । ताम्रकद्रूक-
पृष्ठौ तौ सितचामररोमकौ” । कद्रूकं ककुत्प्रदेशः ।
“विद्रुमभ्रूयुगोपेतौ नवनीतस्तनान्वितौ । क्षौम-
पुच्छौ कांस्यदोहाविन्द्रनीलकतारकौ । सुवर्णशृङ्गा-
भरणौ राजतक्षुरसंयुतौ । नानाफलमयैर्दन्तैर्घ्राण-
गन्धकरण्डकौ” । अत्र च सारतः परिमाणतश्च
फलविशेष इति यथाशक्ति सुबर्णशृङ्गादित्वमवधेयम् ।
“इत्येवं रचयित्वा तु धूपदीपैरथार्च्चयेत्” । “विधान-
मेतद्धेनूनां सर्वासामिह पठ्यते” । सर्वासाम्प्रत्यक्ष-
धेनुव्यतिरक्तानामित्यवगन्तव्यम् । तथा “एतदेव विधानं
स्यात्त एवोपस्कराः स्मृताः । मन्त्राघाहनसंयुक्ताः सदा
पर्यणिपर्वणि । यथाश्रद्धं प्रदातव्या भुक्तिसुक्तिफलप्रदाः ।
अशेषयज्ञफलदाः सर्वपापहराः शुभाः । अयने विषुवे
पुस्थे व्यतीपातेऽथ वा पुनः । गुडधेन्वादयो देया
उपरागादिपर्वसु” मत्सपु० । अत्र घृतादिधेनुद्रव्यपरिमाणमपि
गुडधेनूक्तमेव । “विधानमेतद्धेनूनां सर्वासामपि पठ्यते
इत्यतिदेशात् “कुम्भाः, स्युर्द्रवधेनूनामितरासान्तु राशय्नः”
इति तु भारचतुष्टयादिपरिमितस्य द्रवद्रव्यस्य कुम्भाधार-
तयावस्थापनम्” हेमाद्रिदानखण्डम् ।
अन्यत् क्षीरधेनुशब्दे २३७३ पृ० दर्शितरीत्या कार्य्यम्”
“धेनुवत्सौ तदा तौ तु सितसूक्ष्माम्बरावृतौ । शक्ति-
कर्णाविक्षुपादौ शुद्धमुक्ताफलेक्षणौ । सितसूत्रसिरासौ
तु सितकम्बलकम्बलौ । ताम्रककुदपृष्ठौ तु सितचामर-
रोमकौ । विद्रुमभ्रूयुगयुतौ नवनीतस्तनान्वितौ । क्षौम-
पुच्छौ कांस्यदोहाविन्द्रनीलकतारकौ । इत्येवं रचयित्वा
तु धूपदीपैः समर्च्चयेत्” पद्मपु० ।

गुडपाक पु० ६ त० । गुडस्य पाके वैद्यकोक्ते औषधपाकभेदे

तत्पाकप्रकारः चक्रदत्तेनोक्तो यथा “तोयपूर्णे
यदा पात्रे क्षिप्तो न प्लवते गुडः । क्षिप्तश्च निश्चल-
स्तिष्ठेम् परितस्तु न शीर्य्यते । यदा दर्वीविलेपः
स्याद्यावद्वा तन्तुलीभवेत् । एष पाको गुडादीनां सर्वेषां
परिकीर्त्तितः” । “सुखनद्धःसुखस्पर्शो गुडः पाकमुपा-
गतः । पीडितो भजते तन्तु गन्धवर्णरसान्वितम्” ।

गुडपिप्पलीवृत न० चक्रदत्तोक्ते औषधभेदे ।

“सपिप्पलीगुडं सर्पिः पचेत् क्षीरचतुर्गुणे । विनि-
हन्त्यम्लपित्तञ्च शूलञ्च परिणामजम्” ।

गुड़पुष्प पु० गुड इव मधुर पुष्पमस्य । मधुकवृक्षे (मौल)

(महुया) अमरः ।

गुड़फल पु० गुड इव मधुरं फलमस्य । पीलुवृक्षे अमरः ।

गुड़भल्लातक पु० गुडेन पक्वः भल्लातकः । पाकविशेषेण गुड़-

पक्वे भल्लातकादिरूपे औषधभेदे चक्र० तत्पाको यथा
“भल्लातकसहस्रे द्वे जलद्रोर्णे विपाचयेत् । पादशेषे रसे
तस्मिन् पचेद्गुडतुलां भिषक् । भल्लातकसहस्रार्द्धं
छित्त्वा तत्रैव तापयेत् । सिद्धेऽस्मिंस्त्रिफलाव्योषय-
मानीमुस्तसैन्धवम् । कर्षांशसम्मित दद्यात् त्वगेलाप-
त्रकेशरम् । खादेदग्निबलापेक्षी प्रातरुत्थाय मानवः! ।
कुष्ठार्शःकामलामेहग्रहणीगुल्मपाण्डताः । हन्यात्
प्लीहोदरं कासक्रिमिरोगभगन्दरान् । गुङभल्लातको-
ह्येष श्रेष्ठश्चार्शोविकारिणाम्” । प्रकान्तरं यथा
“दशमूल्यमृता भार्गी श्वदंष्ट्रा चित्रकं शटी । भल्लातकसहस्रञ्च
पलाशं क्वाथवेद् बुधः । पादशेषे जलद्रोणे रसे तस्निन्
पृष्ठ २५९९
विपाचयेत् । दत्त्वा गुडतुलामेकां लेहीभूतं समुद्धरेत् ।
माक्षिकं पिप्पलीतैलं मारुवकञ्च दापयेत् । कुडवं कुडव-
ञ्चात्र त्वगेलामरिचन्तथा । अर्शःकासमुदावर्त्तं पाण्डुत्वं
शोथमेव च । नाशयेद्वह्निसादञ्च गुडभल्लातकः स्मृतः” ।

गुड़भा स्त्री गुड़ इव भाति भा--क । यावनालशर्करायाम् ।

राजनि०

गुड़मूल पु० गुड इव मधुरं मूलमस्य । क्षुद्रमारिषशाके (कन्कानटे । शब्दच० ।

गुड़ल न० गुड़ं कारणतया लाति ला--क । १ गौड्यां

मदिरायां शब्दच० । २ गुड़ोत्पन्ने त्रि० ।

गुड़वीज पु० गुड इव मधुरं वीजमस्य । १ मसूरे राजनि० ।

गुड़शर्करा स्त्री गुडजाता शर्करा । गुडजातशर्करायाम्

त्रिका० ।

गुड़शिग्रु पु० गुड इव मधुरः शिग्रुः । रक्तशोभाञ्जने शब्दच०

गुड़ा स्त्री गु--ड किच्च । १ स्नुहीवृक्षे २ वटिकायां गुटिकायां

मेदि० । ३ उशीर्य्यां राजनि० ।

गुड़ाका स्त्री गुडि वेष्टने बा० आकन् उपघालोपश्च ।

१ आलस्ये २ निद्रायाञ्च ।

गुड़ाकेश पु० गुडा स्नुहीव केशा अस्य उज्ज्व० गुडाकाया

निद्राया आलस्यस्य वा ईशः । २ गुडावत्केशयुक्ते
अर्जुने । “गुडाकेशः अर्ज्जुनः” उज्वल० । २ जिता-
लस्ये “एवमुक्त्वा हृषीकेशं गुडाकेशः परन्तपः”
गीता । “गुडाकेशो जितालस्यः” मघुसूदनः ३ शिवे
जटा० ।

गुड़ाचल पु० दानार्थं कल्पिते गुडनिर्मिते मेरुरूपे पर्वते

“प्रथमो धान्यशैलः स्यात् द्वितीयो लवणाचलः ।
गुड़ाचलस्तृतीयस्तु” पद्मपु० दश मेरूक्तौ । गुड़-
पर्वतादयोऽप्यत्र । तद्विधिः हेमा० दा० ब्रह्मपु० ।
“पुलस्त्य उवाच । “अथात संप्रवक्ष्यामि गुड़पर्वतमु-
त्तमम् । यत्प्रदानान्नरः स्वर्गमाप्नोति सुरपूजितम् ।
उत्तमो दशभिर्भारैर्मध्यमः पञ्चभिर्मतः । त्रिभिर्भारैः
कनिष्ठः स्यात्तदर्द्धेनाल्पवित्तवान्” । भारः, परिभाषाय
व्याख्यातः । “तद्वदामन्त्रणं पूजाहैमवृक्षसुरार्चनम् ।
विष्कम्भपर्वतांस्तद्वत् सरांसि वनदेवताः । होमं जागरणं
तद्वल्लोकपालाधिवासनम् । धान्यपर्वतवत् कुर्य्यातृमं
मन्त्रमुदीरयेत् । यथा देवेषु विश्वात्मा प्रवरोऽयं जनार्दनः ।
सामवेदस्तु वेदानां महादेवस्तु योगिनाम् । गुणवः
सर्वमन्त्राणां नारीणां पार्वती यथा । तथा रसानां
प्रवरः सदैवेक्षुरसो मतः । मम तस्मात् परां लक्ष्मीं
ददस्व गुड़पर्वत! । यस्मात् सौभाग्यदायिन्या भ्राता त्वं
गुड़पर्वत! । निवासश्चापि पार्वत्यास्तस्मान्मां पाहि
सर्वदा । अनेन विधिना यस्तु दद्यात् गुडमयं गिरिम् ।
पूज्यमानः स गन्धर्वैर्गौरीलोके महीयते । पुनः कल्प-
शतान्ते तु सप्तद्वीपाधिपो भवेत् । आयुरारोग्यसम्पन्नः
शत्रुभिश्चापराजितः” इति पद्मपुराणोक्तो गुड़पर्वत
दानविधिः । “श्रीभगवानुवाच । अतः परं प्रवक्ष्यामि
गुड़पर्वतमुत्तमम् । सर्वपापहरं पुण्यं सौभाग्यजननं
परम् । पुष्टिदं शान्तिदञ्चैव सुखदं दिव्यभोगदम् ।
भारैस्तं दशभिः कुर्य्याद्यथाशक्त्यापि वा भवेत् । पूर्ववत्
मण्डपं कृत्वा सर्वोपकरणानि च” । पूर्ववदिति, ब्रह्माण्ड-
पुराणोक्तधान्यपर्वतवदित्यर्थः । लोकपालसमोपेतं तथा
काञ्चनशृङ्गिणम् । मुक्ताफलविचित्राङ्गं वस्त्रालङ्कृतविग्र-
हम् । प्रबालकलतोपेतं इक्षुखण्डोपवेणुकम् । नितम्बं
राजतन्तस्य मेखलाकारसंस्कृतम् । कुर्य्यात्ताम्रमयं स्कन्धं
नानाधातुविभूषितम् । कृत्वा तमीदृशं शैलं सर्वधान्यस-
मावृतम् । सर्वौषधिसमोपेत सशृङ्गं समहाद्रुमम् ।
कल्पयित्वा विधानेन सवितानं विचक्षणैः । कुण्डमेक
ततः कृत्वा चतुःकोणं स्वलङ्कृतम् । नियोज्यास्तत्र
विद्वांसो व्राह्मणाः शंसितव्रताः । पञ्चमो गुरुरत्रोक्तस्तान्
सर्वान् पूजयेत्ततः । पूजितास्ते यथान्यायं होमं कुर्य्यु-
रतन्द्रिताः । लोकपालान् ग्रहांश्चैव व्रह्मादींश्च विधा-
नतः । स्वलिङ्गोक्तेश्च मन्त्रैश्च होमयेयुर्द्विजोत्तमाः ।
महाव्याहृतिभिश्चैव अयुतं तत्र होमयेत् । आचार्य्यः
सह विप्रैस्तैर्मौनेन सुसम हितः । ब्रह्मघोषरतस्तस्मिन्
कारयित्वा महोत्सवम् । एवं विधिं तदा कृत्वा पूर्वेद्युः
श्रद्धयान्वितः । दद्यात्तं माघमासस्य तृतीयायां विशेषतः ।
चैत्रस्य वा विधानेन तृतीयायां प्रदापयेत् । अन्येष्वपि
च कालेषु ग्रहणादिषु कारयेत् । त्वं रसानां वरो नित्यं
देवानाञ्च सदा प्रियः । सुखं प्रयच्छ मे नित्यं नमस्ते
पर्वतोत्तम! । यावद्भूः सागरा नद्यो याच्चन्द्रार्कतारकाः ।
तावन्मे त्वं सुखं यच्छ सौभाग्यमतुलं तथा । एवं
संपूजयित्वा तं ब्राह्मणानां निवेदयेत् । आचार्य्यं पूजयेत-
पाश्चाद्दीनान्थकृपणानपि । विसृज्य ब्राह्मणास्तांस्त
कृत्वा चैव प्रदक्षिणम् । तस्मिन् दिने च भोक्तव्य मधुर
क्षारवर्ज्जितम् । अनग्नालेपनञ्चैव कृतकृत्यो भद्धरः ।
तस्मादेवमिदं दानं फलमुत्तममिच्छता । गतिञ्च शास्वर्त
लोके सौभाग्यं रूपमेव च । अनेन विधिना चैव दातव्यो
पृष्ठ २६००
गुड़पर्वतः । विंशद्भारस्तु कर्तव्यः शेषं पूर्वदाचरेत् ।
दानमेतत् प्रशस्तं स्यात् स्त्रीणां राजन् विशेषतः ।
सौभाग्यराज्यकामस्य “सर्वस्यापि विधीयते । पूर्वोक्तञ्च
फलं प्राप्य कृतकृत्यो हि जायते” इति ब्रह्माण्डपुरा-
णोक्तो गुड़पर्वतदानविधिः” ।

गुड़ादि पु० पा० गण० उक्ते साध्वर्थे ठञ्निमित्ते शब्दगणे

स च गण “गुड कुल्माष सक्तु अपूप मांसौदन इक्षु वेणु
संग्राम सङ्घात संक्राम संवाह प्रवास निवास उपवास”
“गुड़ादिभ्यष्यञ्” पा० गुड़ाय साधु गोडिक इक्षुः ।

गुड़ापूप पु० गुडेन मिश्रितः अपूपः । गुडमिश्रिते

पिष्टके “तदस्मिन्नन्नं प्रायेण संज्ञायाम्” पा० कन् टाप् ।
गुडापूपका पौर्णमास्यां सि० कौ० ।

गुड़ाशय पु० गुड़ इव मधुररसआशेतेऽस्मित् आ + शी

आधारे अच् ६ त० । आंखोटवृक्षे (आस्वरोट) राजनि० ।

गुडुगुडायन न० “रुणद्धि मारुतं श्लेष्मा कुक्षिपार्श्वव्यव-

स्थितः । संनिरुद्धः करोत्याशु ध्वानं गुडुगुडायनम्”
सुश्रुतोक्ते श्लेष्मरुद्धवायुजनिते शब्दभेदे ।

गुडु(डू)ची स्त्री गुड--रक्षणे बा० उ (ऊ) चट् ङीप् ।

स्वनामख्यातायां लतायाम् । तस्या उत्पत्तिगुणादिकं
भावप्र० उक्तं यथा
“हते तस्मित् सुरारातौ रावणे बलगर्विते । देवराजः
सहस्राक्षः परितुष्टोऽति राघवे । तत्र ये वानराः
केचिद्राक्षसैर्निहिता रणे । तानिन्द्रो जीवयामास
संसिच्यामृतवृष्टिभिः । ततो येषु प्रदेशेषु कपिगात्रात्
परिच्युताः । पीयूंषविन्दवः पेतुस्तेभ्यो जाता गुड़ू-
चिका । गुड़ूची मधुपर्णी स्यादमृताऽमृतबल्लरी ।
छिन्ना छिन्नरुहा छिन्नोद्भवा वत्सादनीति च । जीवन्ती
तन्त्रिका सोमा सोमवल्ली च कुण्डली । चक्रलक्षणिका
धीरा विशल्या च रसायनी । चन्द्रहासी वयस्था च
मण्डली देवनिर्मिता । गुडूची कटुका तिक्ता स्वादु-
पाका रसायनी । संग्राहिणी कषायोष्णा लघ्वी
बल्याऽग्निदीपनी । दोषत्रयामवृड्दाहमेहकासांश्च पाण्डु-
ताम् । कामलाकुष्ठवातास्रज्वरक्रिमिवमीन् हरेत् । प्रमे-
हश्वासकासोर्शःकृच्छ्रहृद्रोग्वातनुत् ।” तत्कल्कगुणाः
“अमृतायाः कृतं चूर्णं वाससा परिशोधितम् ।
पृथक् षोडश भागा स्युर्गुडमाक्षिकसर्पिषाम् ।
यथाग्नि भक्षवेदेतन्नरो हितमिताशनः । नास्य कश्चित्-
भवेद्ध्याधिर्न जरा पलित न च । न ज्वरा
विषमा नैव मेहोनानिलरक्तकम् । न च नेत्रगता
रोगाः परमेतद्रसायनम् । मेधाकरं त्रिदोषघ्नं प्रयोगा
दस्य बुद्धिमान् । जीवेद्वर्षशतं साग्रं यथैवादितिजा
स्तथेति” । तत् पत्रगुणाः
“गुड़ूचीपत्रमाग्नेयं सर्वज्वरहरं लघु । कषायं
कटुतिक्तञ्च स्वादुपाकं रसायनम् । बल्यमुष्णञ्च
सङ्ग्राहि हन्याद् दोषत्रयं तृषाम् । दाहप्रमेह-
वातास्रकामलाकुष्ठपाण्डुताः” ।
“गुडूची कटुका लघ्वो स्वादुपाका रसायनी । संग्रा-
हिणी कषायाष्णा बल्या तिक्ताग्निदोपिनी । कामला
कुष्ठवातास्रज्वरपित्तक्रिमीन् जयेत् । घृतेन वातं सहसा-
विवन्धं पित्तं सिताढ्या मधुना कफञ्च । वातास्रमेरण्डक
तैलमिश्रा शुण्ठ्यामवातं शमयेद्गुडूची” वैद्यकम् ।

गुडूच्यादि पु० “गुड़ूची निम्बधन्याकं पद्मकं चन्दनानि च ।

एष सर्वज्वरान् हन्ति गुडुच्यादिस्तु दीपनः । हृल्ला-
सारोचकच्छर्द्दिपिपासादाहनाशनः” इति चक्रद० त्तोक्ते
गुडूच्यादिद्रव्यगणे । “आरग्बधादिगुर्डूण्यादिरित्यादिना
सुश्रुतेऽसौ तिक्तवर्गे उक्तः तिक्तशब्दे विवृतिः ।

गुडूच्यादिकषाय पु० “गुडुच्यतिविषाधान्यशुण्ठीविल्वाब्द-

बालकैः । पाठाभूनिम्बकुटजचन्दनोशीरपद्मकैः । कषायः
शोतलः पेयो ज्वरातीसारशान्तये । हृल्लासारोचक-
च्छर्द्दिपिपासादाहनाशनः” चक्रदत्तोक्ते पाचनभेदे ।

गुडूच्यादिघृत न० “गुडुच्याः क्लाथकल्काभ्यां त्रिफलाया

वृषस्य च । मृद्विकाया बलायाश्च सिद्ध्वाः स्नेहा ज्वरा-
र्त्तिहाः” चक्रदत्तोक्ते घृतभेदे ।

गुडूच्यादितैल न० “गुडूचीक्वाथदुग्धाभ्यां तैलं लाक्षारसेन

च । सिद्धमभ्वककाश्मर्य्यरसैर्वा वातरक्तनुत् “चक्रदत्तोक्ते
तैलभेदे ।

गुडेर पु० गुडि--एरक् नलोपश्च । १ गुडके (गुली) वर्त्तुलाकारे

पदार्थे उज्ज्वल० २ ग्रासे हेमच० । स्वार्थे क । तत्रार्थे ।

गुडोद्भवा स्त्री उद्भवत्यस्मात् उद् + भू--अपादाने अप्

गुड उद्भवोऽस्याः । १ शर्करायाम् राजनि० । २
गुडजातमात्रे त्रि०

गुण आमन्त्रणे आम्रेडने आवृत्ता इत्येकं अद० चु० उभ० सक०

सेट् । गुणयति--ते अजुगुणत्--त । “गुण्यान्त्यमङ्कं
गुणकेन हन्यात्” । “विषमे गच्छे व्येके गुणकः
स्थाप्यः समेऽर्द्धिते वर्गः” “गुण्यः पृथग्वा गुणित-
समेतः” लीला० । “वर्गेण वर्गं गुणयेत् भजेच्च” वीजग०
पृष्ठ २६०१

गुण पु० गुण--भावे कर्त्तरि वा अच् । १ धनुषोमौर्व्याम्

धनुराकर्षणदामनि, २ रज्जुमात्रे, “गुणवन्तीऽपि
सीदन्ति न गणग्राहको यदि । सगुणीऽपि पूणकुम्भो
यथा कूपे निभज्जति” उद्भटः । ३ शौर्य्यादिधर्मे, राज्ञां
४ सन्धिविग्रहादिषु षट्सु साधनेषु, “षड्गुणाः
शक्तयान्तिस्रः” अमर । “षाड्गुण्यनुपयुञ्जते” इति
मावः । ५ ज्ञानविद्यादिषु, “गुणा गुणानुबन्धिचादिति”
रघुः । सांख्यतते पुरुषोपभोगोपकरणभूतत्वात् तद्बन्धनो-
पयोगित्वाच्च सत्वरजस्तमआदिषु ६ पदार्थेषु । “प्रकृते-
र्गुणसमूढाः सज्जन्ते गुणकर्मसु” गीता । ७ अप्र-
धाने, “षष्ठीं कुर्य्यात्तदा गुणे” भर्त्तृहरिः ।
तद्म णसंविज्ञानबहुयोहिः । न्यायमते ८ रूपादिषु चतुर्विं-
शतिपार्थेषु “सत्वे निविशतेऽपैति पृथग्जातिषु
दृश्यते । आधेयश्चाक्रियाजश्च सोऽसत्वप्रकृतिर्गुणः”
भाव्योक्ते द्रव्यसात्राश्रिते द्रव्यभिन्ने उत्पाद्यानुपाद्यता-
समानाधिंकरणे सिद्धरूपे ९ वस्तुधर्मे, “अदेङ्गुणः” पा०
परिभाषिते १० अकारे ११ एकारे १२ ओकारे च “दुषधा-
तोरिवास्माकं दोषसम्पत्तये गुणः” उद्भटः । अलङ्कारोक्तेषु
१३ माधुर्य्यादिषु, “तददोषौ शब्दार्थौ सगुणावनल
ङ्कृतो पुनः क्वापि” काव्यप० । “निर्दोषं
गुणवत् काव्यमलङ्कारैरलङ्कृतम्” सा० द० । १४ आवृत्तौ,
“विधियज्ञाज्जपयज्ञो विशिष्टो दशमिर्गुणेः” मनुः । १५
उत्कर्षे, । १६ विशेषणे “समासतद्धितकृतां यत्किञ्चिदुप-
दर्शकम् । प्रधानगुणभावे च तत्र दृष्टो विपर्ष्ययः”
साकाङ्क्षापयवं भेदे, परानाकाङ्क्षशब्दकम् । क्रियाप्रधानमे-
कार्थं सगुणं वाक्यमुच्यते” हरिः । सगुणं सविशेषणं
क्रियान्वयिकरणादिविशेषणसहितमित्यर्थः । १७ अप्रधान-
धर्मभेदे तेजोबलवीर्य्यैश्वर्यवैराग्यादिशक्त्यादौसं हि
पराश्रितत्वादप्रधानभूतः “उपैत्यन्यज्जहात्यन्यत् दृष्टोद्रव्यान्त-
एष्वपि । वाचकः सर्वलिङ्गानां द्रव्यादन्योगुणः स्मृतः”
इत्युक्तलक्षणे १८ धर्मभेदे च देशकालज्ञतादिषु चतुर्दसु
१९ धर्मभेदेषु ते च “देशकालज्ञता १ दार्द्यं २ सर्वक्लेशसहि-
ष्णुता ३ । सर्वविज्ञानता ४ दाक्ष्य ५ मोजः ६ संवृत-
मन्त्रता ७ । अविसंवादिता ८ शौर्य ९ शक्तिज्ञत्वं १०
कृतज्ञता ११ । शरणागतवात्सल्य १२ ममर्षित्व १३ मचापलम् १४ ।
एते चतुर्दशगुणाः प्रोक्ताः शास्त्रेषु सूरिभिः” इत्युक्ताः ।
“दया सर्वभूतेषु १, क्षान्तिः २ अनसूया ३ शौचम् ४
अनायासः ५ मङ्गलम् ६ अकार्पण्यम् ७ अस्पृहा ८ इति” ।
२० गौतमोक्तधर्मभेदे । २१ सूदे २२ इन्द्रिये २३ त्यागे २४ वट्याम्
मेदि० । दोषान्यधर्मे २५ विद्यादौ मुमुक्षासाधने २६ विवे-
कवैराग्यसुश्रूषादौ च । “प्रक्षीणदोषाय गुणान्विताय”
वेदान्तसा० । प्रधाननिर्वाहके २७ अङ्गे । “गुणानाञ्च
परार्थत्वादसम्बन्धः समत्वात् स्यात्” जैमि० । तिथिनक्षत्र-
वारादिसाधनं पुण्यपापयोः प्रधानगुणभावेन
सातन्त्र्येण न ते क्षमाः” “शब्दात्तु तदुवस्थानमुपादेये गुणो
भवेत्” भट्टका० । २८ सादृस्यादिवस्तुधर्म च । “लक्ष्य-
माणगुणैर्योगात् वृत्तोरष्टा तु गौणता” काव्यप्र० ।
२९ वस्तुधर्ममात्रे “गुणः प्रधानसंस्कारः प्रधानं प्रति-
पद्यते” काव्यप० । “सतो गुणान्तराधनं प्रतियत्नः”
सि० कौ० । “गन्धं स्पर्शोरसो रूपं शब्दश्चेति गुणाः
स्मृताः । तस्य गन्धस्य वक्ष्यामि विस्तरामिहितान्
गुणान्” भा शा० १८४ अ० । गन्धरूपगुणस्य
“गुणादिर्निर्गुणक्रिय” इत्युक्तेः प्रसिद्धगुणशून्यत्वात्
धर्ममात्रपरता “निर्गुणं निष्क्रियं शान्तं निरवद्यं
निरञ्जनत्वं इत्यादिश्रुतौ गुणशब्दस्य धर्ममात्रपर-
त्वम् । “ब्रह्मत् ब्रह्मण्यनिर्दिश्ये निर्गुणे गुणवृत्तयः ।
कथं चरन्ति श्रुतयः” माग० १० । ८७ अ० ।
३० दूर्वायाम् स्त्री राजनि० तस्या बहुतन्तुमत्त्वात्तथा-
वर्ण्णोत्पत्त्यनन्तरभाविषु शिक्षोक्तेषु ३१ विवारादिषु बाह्य-
प्रयत्नेषुपु० “वर्णाभिव्यक्त्यनन्तरभाविनस्तु आन्तरतम्यपरी-
क्षोपयुक्ताः कण्ठविवरविकाशादेरास्यबहिर्भागावच्छिन्नस्य
कार्य्यस्य जनका यत्ना गुणशब्देनोच्यत्ते” शब्देन्दुशे-
खरः । बाह्यप्रयत्नाश्च एकादशघा विवारसवार-
श्वासतादघोषाघोषाल्पप्राणमहाप्राणाः उदात्तादयश्च
त्रयःस्वराः । “स्थानेऽन्तरतमः” पा० । “तुल्यास्यप्रयत्नं
सवर्णमिति” पा० । “सादृश्यञ्च स्थानतो वर्णतः गुणतः
प्रमाणतश्च” तत्र गुणतः (बाह्यप्रयत्नात्) यथा । नादवतो
घोषवतो महाप्राणस्य संवृतकण्ठस्थस्य हकारस्य
सदृशस्तादृश एव थकारः” । सुश्रुतोक्ते ३२ अष्टविधवीर्य्ये
च । “केचिदाहुरष्टविधं वीर्य्यम् उष्णं शीतं स्निग्धं
रूक्षं विशदं पिच्छितं मृदु तीक्ष्णञ्च” सुश्रुते विभज्य “वीर्य्य-
संज्ञा गुणा येऽष्टौ तेऽपि द्रव्याश्रयाः स्मृताः” इति तेषां
गुणत्वमुक्तम् । गुण--कर्मणि अच् । ३३ गुणिते ।
“आहारो द्विगुणः स्त्रीणां बुद्धिस्तासां चतुर्गुणा ।
षड्गुणोव्यवसायश्च कामश्चाष्टगुणः स्मृतः चाण० ।
वैद्यकोक्तद्रव्यगुणाश्चभावप्र० गुणग्रन्थे दृश्यास्तच्छवदे
पृष्ठ २६०२
व ते प्रायेण उक्ता वक्ष्यन्ते च ३४ भीमसेने हेम० ३५ त्रित्व-
संख्यायाञ्च सत्वे निविशते इत्यस्यायमर्थः । सत्वं द्रव्यम् ।
सत्व एव निविशते इति सावधारणम् । तेन स त्ता
व्यावर्त्त्यते । सत्ता हि न केवलं द्रव्ये वर्त्तते
किन्तु द्रव्यगुणकर्मसु । ननु द्रव्य एव द्रव्यत्वं वर्त्तते
इति तत्रातिव्याप्तिरतआह अपैतीति असम्बन्धो
भवतीत्यर्थः अर्थात् द्रव्ये यथा पीततायां जातायां
फलादेर्नीलतापैति नैवं द्रव्यत्वं द्रव्यादपैति ।
एवमपि गोत्वं गोषु वर्त्तते अश्वादावसम्बद्धम् तत्राति-
व्याप्तिरतआह पृथग्जातिषु दृश्यत इति । गोत्रं
हि द्रव्यत्वावान्तरनानाजातिषु न दृश्यते गुणस्तु दृश्यते
यथा अभ्रे नीलता दृष्टा तृणादिष्वपि सा दृश्यते । तेन
पूर्व्वार्द्धेन सकलजातेर्व्यवच्छेदः । एवं तर्हि कर्म द्रव्ये
वर्त्तते ततोऽपैति, पृथग् जातिषु दृश्यते चेति तत्राति-
व्याप्तिरतआह आधेयश्चाक्रियाजश्चेति । उत्पाद्यानुत्-
पाद्यतासमानाधिकरणजातिमान् इत्यर्थः । तत्रोत्पाद्यो
यथा घटादेः पाकजो रूपादिः । अक्रियाजः अनुत्पाद्यो
यथा आकाशादेर्महत्त्वादिः । क्रिया तु सर्वाप्युत्पाद्यैव
न क्वापि नित्येति तस्या नित्यत्वसामानाधिकरण्या-
भावात् गुणत्वामावः । एवमपि द्रव्यस्य गुणत्वापत्तिः
अवयविद्रव्यं हि अवयवद्रव्येषु निविशते, असमवा-
यिकारणसंयोगनिवृत्तौ च स्वयं विनाशात्ततोऽपैति
भिन्नजातीयेषु च हस्तपादादिषु दृश्यते । तच्च द्विविधं
भवति नित्यानित्यभेदेन निरवयवस्यात्मपरमाण्वादेर्नित्य-
त्वादवयविद्रव्यस्य तु घटादेरनित्त्यत्वादतआह असत्व-
प्रकृतिरिति । अद्रव्यस्बभावः द्रव्यभिन्न इति यावत् ।
वैशेषिकमतप्रसिद्धगुणभेदलक्षणादिकं कणादसूत्रवृत्त्यो-
रुक्तं यथा
“रूपरसगन्धस्पर्शाः सङ्ख्याः परिमाणानि पृथकत्वं
सयोगविभागौ परत्वापरत्वे बुद्धयः सुखदुःखे इच्छाद्वेषौ
प्रयत्नाश्च गुणाः” १ । ७ सू० ।
“गुणत्येन रूपेण गुणानां सर्वद्रव्याश्रितत्वं द्रव्याभिव्य-
ङ्ग्यत्वं द्रव्याभिव्यञ्जकत्वञ्चेति द्रव्यानन्तरं गुणानामुद्देशं
विभागञ्चाह रूपेत्यादि चकारेण गुरुत्वद्रवत्वस्नेहसंस्कार-
धर्म्माधर्मशब्दान् समुच्चिनोति ते हि प्रसिद्धगुणभावा एवेति
कण्ठतो नोक्ताः । गुणत्वञ्चामीषां यथास्थानं लक्षणतः
स्वरूपतश्च वक्ष्यति तत्र रूपरसगन्धस्पर्शानां समानकालीन
रूपरसगन्धस्पर्शसामानाधिकरण्यं नास्तीति सूचनार्थं
समासः । सङ्ख्यापरिमाणयोस्तु समानकालीनसङ्ख्य
परिमाणसामानाधिकरण्यसूचनायासमासो बहुवचन-
निर्देशश्च यद्यप्येकत्वसमाधिकरणं नैकत्वान्तरं न वा
महत्त्वदीर्घत्वसमानाधिकरणं महत्त्वदीर्घत्वान्तरं तथापि
द्वित्वादीनामन्योऽन्यं सामानाधिकरण्यं महत्त्वदीर्घत्वादी
नाञ्च विजातीयपरिमाणयोः सामानाधिकरण्यमस्त्येव ।
पृथक्त्वञ्च यद्यपि द्विपृथक्त्वादिसमानाधिकरणं, तेन
सङ्ख्यावद्बहुत्वेनैव निर्द्देष्टुमर्हति तथाप्यवधिव्यङ्ग्यत्व-
लक्षणं सङ्ख्यातो वैधर्म्यं सूचयितुमेकवचननिर्द्देशः ।
संयोगविभागयोर्द्वयोरप्येककर्मजन्यत्वसूचनाय द्विवचनं,
परत्वापरत्वयोरन्योन्याश्रयनिरूप्यतया दिक्काललिङ्गत्व-
विशेषसूचनाय च द्विवचनं, बुद्धीनां विद्यादिभेदेन
साङ्ख्याभिमतैकमात्रबुद्धिनिराकरणसूचनाय बहुवचनं,
सुखदुःखयोर्द्वयोरपि भोगत्वावच्छेद्यैककार्य्यजनकत्वम्
अविशेषेण चादृष्टोन्नायकत्वं सुखस्यापि दुःखत्वेन
भावनञ्च ख्यापयितुं द्विवचनम् । इच्छाद्वेषयोर्द्वयोरपि प्रवृत्तिं
प्रति कारणत्वसूचनाय द्विवचनं प्रयत्नानां विहितनिषि-
द्धगोचराणां दशविधानां पुण्यहेतुत्वं, दशविधानाञ्च
पापहेतुत्वमभिसन्धाय बहुवचनमित्युन्नेयम् । यद्वा
रूपरसगन्धस्पर्शानां मौतिकेन्द्रियव्यवस्थाहेतुत्वज्ञापनार्थं
पाकजप्रक्रियाव्यवस्थापनार्थं वा ते समस्योक्ताः सङ्ख्यायां
द्वित्वबहुत्वादौ विप्रतिपत्तिरिति तन्निराकरणसूचनार्थं
बहुत्वेनाभिधानं पृथक्त्वे तु सङ्ख्याबहुत्वेनैवास्यापि
बहुत्वमिति सूचनायावधिज्ञानव्यञ्जनीयत्वं सङ्ख्यातो
वैधर्म्म्यमिति सूचनाय च पृथगभिधानम् । परिमाणे तु
दीर्घत्वह्रस्वत्वादिविप्रतिपत्तिनिरासाय बहुवचनम् । संयोग
विभागयोरन्योन्यविरोधज्ञापनाय द्विवचनं, परत्वापरत्व-
योर्दैशिककालिकभेदेन भिन्नजातीत्वसम्भवेन चतुष्ट्वापत्तौ
गुणविभागो न्यूनः स्यात् इति तत्रापि द्विवचनमित्या-
द्युन्नेयम्” उप० वृत्तिः ।
“द्रव्याश्रय्यगुणवान् संयोगविभागेष्वकारणमनपेक्ष इति
गुणलक्षणम्” १ । ८ सू०
“द्रव्यमाश्रयितुं शीलमस्येति द्रव्याश्रयी एतच्च द्रव्येऽपि
गतमत आह अगुणवानिति तथापि कर्मण्यतिव्याप्तिरि-
त्यत आह संयोगविभागेष्वकारणं तथापि संयोगविभाग-
धर्माधर्मेश्वरज्ञानादीनामसङ्ग्रहःस्यादत उक्तमनपेक्ष इति
अत्रानपेक्ष इत्यनन्तरं गुण इति पूरणीयं संयोगविभा-
गेष्वनपेक्षः सन् कांरणं यो न भवति स गुण इत्यर्थः ।
पृष्ठ २६०३
संयोगविभागादीनां संयोगविभागौ प्रति सापेक्षत्वात्
नित्यवृत्तिनित्यवृत्तिसत्तासाक्षाद्व्याप्यजातिमत्त्वं गुणत्वं
संयोगविभागौ मिलितौ प्रति समवायिकारणत्वासमवायिका-
रणत्वरहिते सामान्यवति यत् कारणत्वं तद्गुणत्वाभिव्य-
ञ्जकं, संयोगविभागयोः प्रत्येकमेव संयोगविभागकारण-
कत्वं न मिलितयोः, धर्माधर्मेश्वरज्ञानादोनां द्वयोर्निमित्त-
कारणत्वमात्रं न समवायिकारणत्वं नाप्यसमवायिका-
रणत्वमिति तेषां संग्रहः, यद्वा संयोगविभागसमवायित्वा-
समवायिकारणत्वशून्यत्वं सामान्यसमानाधिकरणं
गुणत्वव्यञ्जकं सामान्यवत्त्वे सति कर्मान्यत्वे च सत्यगुणवत्त्व-
मेव वा गुणलक्षणम् ॥” उप० वृत्तिः
“नित्यवृत्तिनित्यवृत्तिसत्तासाक्षाद्व्याप्यजातिमत्त्वं गुणत्वं
समवायिकारणावृत्तिनित्यवृत्तिसत्तासाक्षाद्व्याप्यजातिमत्त्वं
वा असमवायिकारणवृत्तिनित्यवृत्तिसत्तासाक्षाद्व्याप्यजाति-
मत्त्वं वा कार्य्यासमानाधिकरणकर्मावृत्तिजातिमत्त्वं वा”
तत्रेवीक्तम् । कर्म्मत्वजातेः सत्तासाक्षाद्व्याप्यत्वेऽपि
नित्यवृत्तित्वाभावात् द्रव्यत्वजातेस्तथात्वेऽपि नित्यवृत्ति
नित्यवृत्तित्वाभावान्नातिव्याप्तिः गुणत्वजातेस्तु नित्येष्वा-
त्मादिषु वर्त्तमाने नित्ये महत्त्वादौ सत्त्वात् तामादाय
लक्षणसमन्वयः । व्याप्तिश्च भेदगर्भा बोध्या । तेन
सत्ताव्याप्यत्वस्य स्वस्मिन्नपि सत्त्वेन तामादाय न द्रव्य
कर्मणोरतिव्याप्तिः ।
“तेषां मूर्त्तामूर्त्तगुणत्वादिभेदः भाषायामुक्तो यथा ।
“रूपं रसः स्पर्शगन्धौ परत्वमपरत्वकम् । द्रवो
गुरुत्वं स्नेहश्च वेगो मूर्त्तगुणा अमी । धर्म्माधर्म्मौ
भावना च शब्दो बुद्ध्यादयोऽपि च । एतेऽमूर्त्तगुणाः
सर्वे विद्वद्भिः परिकीर्त्तिताः । संख्यादिश्च विभागान्त
उभयेषां गुणी मतः । संयोगश्च विभागश्च संख्या
द्वित्वादिकास्तथा । द्विपृथक्त्वादयस्तद्वदेतेऽनेकाश्रिता
गुणाः । अतः शेषा गुणाः सर्व्वे मता एकैकवृत्तयः ।
बुद्ध्यादिषट्कं स्पर्शान्ताः स्नेहः सांसिद्धिको द्रवः ।
अदृष्टभावनाशब्दा अमी वैशेषिका गुणाः । संख्या-
दिरपरत्वान्तो द्रवोऽसांसिद्धिकस्तथा । गुरुत्ववेगौ
सामान्यगुणा एते प्रकीर्त्तिताः । संख्यादिरपरत्वान्तो
द्रवत्वं स्नेह एव च । एते तु द्वीन्द्रियग्राह्या अथ
स्पर्शान्तशब्दकाः । बाह्यैकैकेन्द्रियग्राह्या, गुरुत्वादृष्ट-
भावनाः । अतीन्द्रिया, विभूनान्तु ये स्युर्वैशेषिका
गुणाः । अकारणगुणोत्पन्ना एते तु परिकीर्त्तिताः ।
अपाकजास्तु स्पर्शान्ता द्रवत्वञ्च तथःविधम् । स्नेह-
वेगगुरुत्वैकपृथक्त्वपरिमाणकम् । स्थितिस्थापक इत्येते
स्युःकारणगुणोद्भवाः । सयोगश्च विभागश्च वेगश्चैते
तु कर्म्मजाः । स्पर्शान्तपरिमाणैकपृथक्त्वस्नेहशब्दके ।
भवेदसमवायित्व, मथ वैशेषिके गुणे । आत्मनः स्यान्नि-
मित्तत्व, मुष्णस्पर्शगुरुत्वयोः । वेगेऽपि च द्रवत्वे च
संयोगादिद्वये तथा । द्विधैव कारणत्वं, स्यादथ प्रादे-
शिको भवेत् । वैशेषिको विभुगुणः संयोगादिद्वयं
तथा” ।
एते च गुणाः द्रव्यभिन्ना गन्धशब्दे २५२४ पृ० दर्शिते
उपस्करवृत्तिवाक्ये स्पष्टमुक्ताः । तद्भिन्ना अपि ते द्रव्याधीना
इति वैशेषिकादय आहुः । वैदान्तिकादयस्तु द्रव्याभिन्ना एव
गुणा इति मन्यन्ते यथाह शा० भा० “वैशेषिकास्तन्त्रार्थ-
भूतान् षट् पदार्थान् द्रव्यगुणकर्मसामान्यविशेषसमवा-
याख्यानत्यन्तभिन्नान् भिन्नलक्षणानभ्युपगच्छन्ति यथा
मनुष्योऽश्वः शश इति । तथात्वमभ्युपगम्य तद्विरुद्धं
द्रव्याधीनत्वं शेषाणामभ्युपगच्छन्ति । तन्नोपपद्यते कथं
यथाहि लोके शशकुशपलाशप्रभृतीनामत्यन्तभिन्नानां सतां
नैवेतरेतराधीनत्वं भवति एवं द्रव्यादीनामप्यत्यन्तभिन्नानां
नैव द्रव्याधीनत्वं गुणादीनां भवितुमर्हति । अथ च
भवति द्रव्याधीनत्वं गुणादीनाम् । ततो द्रव्यभावे
भावात् द्रव्याभावे चाभावात् द्रव्यमेव सेस्थानादिभेदाद-
नेकशब्दप्रत्ययभाग् भवति । यथा देवदत्त एकएव सन्नबस्था-
न्तरयोगादनेकशब्दप्रत्ययभाग् भवति तद्वत् तथासति
साङ्ख्यसिद्धान्तप्रसङ्गः स्वसिद्धान्तविरोधश्चापद्येयाताम् ।
नन्व्यग्नेरन्यस्यापि सतीधूमस्याग्न्यधीनत्वं दृश्यते, सत्यं
दृश्यते भेदप्रतीतेस्तु तत्राग्निधूमयोरन्यत्वं निश्चीयते इह
तु शुक्लःकम्बलोरोहिणी धेनुर्नीलमुत्पलमिति द्रव्यस्यैव
तस्य तस्य तेन विशेषेण प्रतीयमानत्वान्नैव द्रव्यगुणयो-
रग्निधूमयोरिव भेदप्रतीतिरस्ति ।” इतःपरं भाष्यम्
अयुतसिद्धशब्दे ३४५ पृ० दर्शितम् । तत्र च द्रव्याभि-
न्नत्वं गुणादीनामुक्तम् ।
सां० प्रव० भा० समवायनिराकरणेणैव गुणादीनां द्रव्या-
भिन्नत्वमुक्तं यथा
“कादाचित्कविभागे सत्येव सम्बन्धः सिध्यति
अन्यथा वक्ष्यमाणरीत्या स्वरूपेणैवोपपत्तौ सम्बन्ध-
कल्पनानवकाशात् । स च कादाचित्को विभागो न
सम्बन्धनित्यत्वे सम्भवति । अतः सम्बन्धग्राहकप्रमाणे-
पृष्ठ २६०४
नैव बाधान्न नित्यः सम्बन्धः । नन्वेवं नित्ययोर्गुणगु-
णिनोर्नित्यः समवायो नोपपद्येत तत्राह” सा० भा०
“न समवायोऽस्ति प्रमाणाभावात्” सा० सू० ।” ननु
वैशिष्ट्यप्रत्यक्षं विशिष्टबुद्ध्यन्यथानुपपत्तिश्च प्रमाणं
तत्राह” भा० । “उभयत्राप्यन्यथासिद्धेर्नप्रत्यक्षमनुमानं
वा” सू० । “उभयत्रापि वैशिष्ट्यप्रत्यक्षे तदनुमाने च
स्वरूपेणैवान्यथासिद्धेर्न तदुभयं समवाये प्रमाणमि-
त्यर्थः । अयं भावः । यथा समवायवैशिष्ट्यबुद्धिः
तत्स्वरूपेणैवेष्यतेऽनवस्थामयादिति तत्र प्रत्यक्षानुमाने
अन्यथासिद्धे । एवं गुणगुणिप्रभृतीनां विशिष्टबुद्धिरपि
गुणादिस्वरूपेणैवेष्यताम् । अतस्तत्रापि प्रत्यक्षानुमाने
अन्यथासिद्धे इति । नन्वेवं संयोगोऽपि न सिद्ध्यति
भूतलादौ घटादिप्रत्ययस्यापि स्वरूपेणैवान्यथासिद्धेरिति
चेन्न वियोगकालेऽपि भूतलघटयोः स्वरूपतादवस्थ्येन
विशिष्टबुद्धिप्रसङ्गात् । समवायस्थले च समवेतस्य
कदापि स्वाश्रयवियोगी नास्तीति नायं दोषः । कश्चित्
तु तादात्म्यसम्बन्धेनात्र समवायस्यान्यथासिद्धिमाह
तन्न शब्दमात्रभेदात् । तादात्म्यं ह्यत्र नानन्यत्वं
वक्तव्यम् गुणवियोगेऽपि गुणिसत्त्वात् वैशिष्ट्या-
प्रत्ययाच्च । किन्तु भेदाभेदबुद्धिनियामकः सम्बन्धविशेष
एवागत्या वक्तव्यः । तथाच तस्य समवाय इति वा
तादात्म्यमिति वा नाममात्रं भिन्नम् सम्बन्धिद्वयाति-
रिक्तः सम्बन्धस्तु सिद्ध एवेति । यदि च तादात्म्यं
स्वरूपमेवोच्यते तदास्माभिरपि तदेवोक्तमिति शब्दमात्र-
भेद इति” ।
“सङ्केतो गृह्यते जातौ गुणद्रव्यक्रियासु च” इत्युक्तेः
शुक्लादिशब्दानां शुक्लादयो गुणा शक्यताबच्छेदका
भवन्ति शुक्लादयो हि सिद्धवस्तुधर्मा गवादिकं सजाती-
येभ्यो व्यवच्छिन्दन्ति इति तेषां तत्पदप्रवृत्तिनिमित्तत्वम् ।
साङ्ख्यमते सत्वादयो गुणाद्रव्यात्मकाः सूक्ष्मभूतोपादा-
नत्वात् तेषाञ्च पुरुषभोगसाधनत्वेनाङ्गत्वात् तथात्वं
यथाह शा० प्र० भा० ।
“सत्वादीनि द्रव्याणि न वैशेषिकादिमतसिद्धा गुणाः
संयोगविभागवत्त्वात् लघुत्वचलत्वगुरुत्वादिधर्मकत्वाच्च ।
तेष्वत्र शास्त्रे श्रुत्यादौ च गुणशब्दः पुरुषोपकरणत्वात्
पुरुषपशुबन्धनत्रिगुणात्मकमहदादिरज्जुनिर्मातृत्वाच्च
प्रयुज्यते” ।
राज्ञां नीत्यङ्गानि सन्ध्यादयश्च षट् यथा
“सन्धिविग्रहयानानि स्थानमासनमेव च । द्वैधीभावश्च
विज्ञेयाः षड्गुणा नीतिवेदिनामिति” । रसाङ्गगुणाश्च
“ये रसस्याङ्गिनो धर्माः शौर्यादय इवात्मनः । उत्
कर्षहेतवस्ते स्युरचलस्थितयी गुणाः इत्युपक्रमे “श्लेषः १
प्रसादः २ समता ३ माधुर्य्यं ४ सुकुमारता ५ । अर्थव्यक्ति ६
रुदारत्व ७ मोजः ८ कान्ति ९ समाधयः १० । इति
वैदर्भीमार्गस्य प्राणा दश गुणाः स्मृताः” अन्यमतप्रसिद्धान्
दश गुणानुक्त्वा तेषां त्रिष्वेवान्तर्भावात् गुणत्रैविध्य-
माह स्म काव्यप० “माधुर्य्यौजः प्रसादाख्यास्त्रयस्ते न
पुनर्दश । केचिदन्तर्भवन्त्येषु दोषत्यागात् परे श्रिताः । अन्ये
भजन्ति दोषत्वं कुत्रचिन्न ततो दश” । काव्यप्र० ।

गुणक त्रि० गुणयति आबर्त्तयति गुण--ण्वुल् । गुणन-

कारके । “गुण्यान्त्यमङ्कं गुणकेन हन्यात्” । “विषमे
गच्छे व्येके गुणकः स्थाप्यः समेऽर्द्धिते वर्गः” लीला० ।

गुणकथन न० ६ त० । १ गुणवर्णने “मम त्वेतां वाणीं गुण

कथनपुण्येन भवतः” शिवस्तवः । २ कामकृते नायक-
दशाभेदे । “अभिलाषश्चिन्ता स्मृतिगुणकथनोद्वेग-
संप्रलापाश्च । उन्मादोऽथ व्याधिर्जड़ता मृतिरिति दशात्र
कामकृता” सा० द० । रसमञ्जर्य्यान्तु गुणकथनभित्यत्र
गुणकीर्त्तनमिति पठित्वा “विरहकालीनकान्ताविषयक
प्रशंसाकथनं गुणकीर्त्तनमिति लक्षयित्वा “संस्पर्शः स्तन-
संस्पर्शो वीक्षणम् रत्नवीक्षणम् । तस्याः केलिक-
लालापसमयः समयः सखे!” इत्युदाहृतं तेन
गुणकीर्त्तनमप्यत्र ।

गुणकर्मन् न० कर्म्म० । १ अप्रधाने कर्म्मणि कर्म्मणो-

ऽप्रधानत्वञ्च द्विकर्म्मकधात्वर्थघटकाप्रधानक्रियान्वि-
तत्वम् । “कर्त्तृकर्म्मणोः कृति” पा० “गुणकर्म्मणि
वेष्यते” वार्त्ति० । “नेताश्वस्य स्रुघ्नं स्नुघ्नस्य वा” अत्र
गमनानुकूलव्यापारोनयत्यर्थस्तद्विशेषणीभूतगतौ स्रुघ्न-
स्यान्वितत्वेन गुणकर्म्मत्वम् । “गुणानां सत्वादिद्रव्य-
रूपाणाम् कर्म्म । सत्वादिद्रव्यरूपजन्ये २ कर्मभेदे च तानि
च कर्माणि सा० का० उक्ताणि यथा ।
“सत्वं लघु प्रकाशकमिष्टमुपष्टम्भकं चलञ्च रजः ।
गुरु वरणकमेव तमः प्रदीपवच्चार्थतोवृत्तिः ।” सत्व-
मेव लघु प्रकाशकमिष्टं सांख्याचार्य्यैः, तत्र कार्य्यो-
द्गमने हेतुर्धर्म्मोलाघवं गौरवप्रतिद्वन्द्वि यतोऽग्ने-
रूर्द्ध्वज्वलनं भवति तदेव लाघवं कस्यचित्तिर्यग्ममने
हेतुर्यथा वायोः । एवं करणानां वृत्तिपटुत्वहेतु-
पृष्ठ २६०५
र्लाघवं गुरुत्वे हि मन्दानि स्युरिति सत्वस्य प्रका-
शकत्वत्वमुक्तम् । सत्वतमसी स्वयमक्रियतया स्वस्वकार्य्यं-
प्रवृत्तिं प्रत्यवसीदन्ती रजसोपष्टभ्येते अवसादात् प्रच्या
व्य स्वकार्य्ये ते उत्साहं प्रयत्नं कार्य्येते तदिदमुक्त-
मुपष्टम्भकं रजैति । कस्मादित्यत उक्तं चलमिति ।
तदनेन रजसः प्रवृत्त्यर्थत्वं दर्शितम् । रजस्तु चलतया
परितस्त्रैगुण्यं चालयद्गुरुणावृण्वता च तमसा यत्र
प्रवृत्तिप्रतिबन्धकेन क्वचिदेव प्रवर्त्तते इति ततस्ततो
व्यावर्त्त्य तमोनियामकमुक्तं गुरु वरणकमेव तमैति ।
एवकारः प्रत्येकं गिन्नक्रमः सम्बध्यते सत्वमेव
रजएव तमएव । ननु परस्परविरोधशीलागुणाः मुन्दो
पसुन्दवत्परस्परं ध्वंसयन्ते इत्येव युक्तं प्रागेव तेषा-
मेकक्रियाकर्तृतायाः, इत्यत आह “प्रदीपवच्चार्थतो
वृत्तिः, दृष्टमेतत् यथा वर्त्तितैले अनलविरोधिनी
अथच मिलिते सहानलेन रूपप्रकाशलक्षणं कार्य्यं कुरुतः
यथा च वातपित्तश्लेष्माणः परस्परविरोधिनः शरीर-
धारणलक्षणकार्य्यकारिणः एवं सत्वरजस्तमांसि मिथो-
विरुद्धान्यपि अनुवर्त्स्यन्ति च स्वस्वकार्य्यं करिव्यन्ति
च अर्थतः पुरुषार्थत इति यावत् । वक्ष्यति च “पुरुषार्थ
एव हेतुर्न केनचित्कार्य्यते करणम्” इति । अत्र च
सुखदुःखमोहाः परस्परविरोधिनः स्वस्वानुरूपाणि
सुखदुःखमोहात्मकान्येव निमित्तानि कल्पयन्ति ।
तेषाञ्च परस्परमभिभाव्याभिभावकभावान्नानात्वम् ।
तद्यथा एकैव स्त्री रूपयौवनकुलशीलसम्पन्ना स्वामिनं
सुखाकरोति तत्कस्य हेतोः? स्वामिनं प्रति तस्याः
सुखरूपसमुद्भवात् । सैव स्त्री सपत्नीः दुःखाकरोति-
तत्कस्य हेतोः? ताः प्रति तस्या दुःखरूपसमुद्भवात् ।
एवं पुरुषान्तरं तामविन्दत् सैव मोहयति तत्कस्य
हेतोः? तत् प्रति तस्या मोहरूपसमुद्भवात् । अनया
च स्त्रिया सर्वे भावा व्याखाताः । तत्र यत्मुखहेतुस्त-
त्सुखात्मकं सत्वं, यत् दुःखहेतुस्तद्दुःखात्मकं रजः,
यन्मोहहेतुस्तन्मोहात्मकं तमः, सुखप्रकाशलाघवानां
त्वेकस्मिन् युगपदुद्भूतावविरोधः सहदर्शनात् ।
तस्मात् सुखदुःखमोहैरिव विरोधिभिरेकैकगुणवृत्तिभिः
सुखप्रकाशलाघवैर्न निमित्तभेदा उन्नोयन्ते एवं दुःखो-
पष्टम्भकत्वप्रवर्त्तकत्वैरेवं मोहगुरुत्वावरणैरिति सिद्धं
त्रैगुण्यमिति ।”
विस्तरेण गुणकर्म्मविभागश्च गीतायां दर्शितो यथा ।


“सत्वं रजस्तम इति गुणाः प्रकृतिसम्भवाः । निब
ध्नन्ति महावाहो! देहे देहिनमव्ययम् । तत्र सत्वं
निर्म्मलत्वात् प्रकाशकमनामयम् । सुखसङ्गेन बध्नाति
ज्ञानसङ्गेन चानघ! । रजोरागात्मकं विद्धि तृष्णासङ्गम
मुद्भवम् । तन्निबध्नाति कौन्तेय! कर्मसङ्गेन देहिनम्
तमस्त्वज्ञानजं विद्धि मोहनं सर्व्वदेदिनाम् । प्रमादाल-
स्यनिद्राभिस्तन्निबध्नाति भारत! । सत्वं सुखे सञ्जयति
रजः कर्म्मणि भारत! । ज्ञाममावृत्य तु तु तमः
प्रमादे सञ्जयत्युत । रजस्तमश्चाभिभूय सत्वे भवति
भारत! । रजः सत्वं तमश्चैव तमः सत्त्वं रजस्तथा ।
सर्वद्वारेषु देहेऽस्मिन् प्रकाश उपजायते । ज्ञानं यदा
तदा विद्याद्विवृद्धं सत्वमित्युत । लोभः प्रवृत्तिरारम्भः
कर्मणामशमः स्तृहा । रजस्येतानि जायन्ते विवृद्धे
भरतर्षभ! । अप्रकाशोऽप्रवृत्तिश्च प्रमादोमोहएव च ।
तमस्येतानि जायन्ते विवृद्धे कुरुनन्दन! । यदा सत्वे
प्रवृद्धे तु प्रलयं याति देहभृत् । तदोत्तमविदां लोका
नमलान् प्रतिपद्यते । रजसि प्रलयं गत्वा कर्मसङ्गिषु
जायते । तथा प्रलीनस्तमसि, मूढयोनिषु जायते ।
कर्मणः सुकृतस्याहुः सात्विकं निर्म्मलं फलम् ।
रजसस्तु फलं दुःखमज्ञानं तमसः फलम् । सत्वात्
संजायते ज्ञानं रजसोलोभएव च । प्रमादमोहौ
तमसोभवतोऽज्ञानमेव च । ऊर्द्ध्वं गच्छन्ति सत्त्वस्था-
मध्ये तिष्ठन्ति राजसाः । जघन्यगुणवृत्तिस्थाअधोग-
च्छन्ति तामसाः ।”

गुणकार त्रि० गुणं पाकभेदेनान्नरसरूपं गुणं करोति

कृअण् । १ सूपकारे २ भीमसेने पु० त्रिका० । स हि
विराटनगरे छद्मवेशेन सूपकारितां जग्राहेति तस्य तथात्वं
तत्कथा भा० वि० २ अ०
“पौरोगवो ब्रुवाणोऽहं वल्लवो नाम नामतः ।
उपस्थास्यामि राजानं विराटमिति मे मतिः । सूपानस्य
करिष्यामि कुशलोऽस्मि महानसे । कृतपूर्वाणि यैरस्य
व्यञ्जनानि सुशिक्षितैः । तानप्यभिमविष्यामि प्रीतिं
संजनयन्नहम् । आहरिष्यामि दारूणां निचयान्
महतोऽपि च । तत्प्रेक्ष्य विपुलं कर्म्म राजा प्रीतो
भविष्यति । अमानुषाणि कुर्वाणं तानि कर्माणि भारत! ।
राज्ञस्तस्य परिप्रेष्या मंस्यन्ते मां यथा नृपम् । भक्ष्यान्न-
रसपानानां भविष्यामि तथेश्वरः” । तस्य पाकशास्त्रक-
र्तृत्वेन रसकारकारित्वात् तथात्वमिति तु ज्यायः ।
पृष्ठ २६०६

गुणकेशी स्त्री मातलिकन्यायाम् “मतस्तिदशराजस्य

मातलिर्नाम सारथिः । तस्य चैका कुले कन्या रूपतो
लोकविश्रुता । गुणकेशीति विख्याता नाम्ना सा देवसन्नि-
भा” भा० उ० ९६ अ० । तस्याश्चार्य्यकनागपौत्रेण
सुमुखनागेन विवाहकथा च १०३ अ० उक्ता तत एवावसेया ।

गुणगृह्य त्रि० ग्रह--पक्ष्यार्थे क्यप् ६ त० । गुणपक्षपातिनि ।

गुणगौरी स्त्री गुणेन गौरी शुद्धा गौरीव वा । १ गुणैः

शुद्धायां २ गुणः पार्वतीतुल्यायां च । “अनृतगिरं
गुणगौरि! मा कृथा माम्” माघः ।

गुणग्राहिन् त्रि० गुणं गृह्णाति ग्रह--णिनि । गुणग्र-

हीतरि स्त्रियां ङीप् । ण्वुल् गुणग्राहकोऽप्यत्र । “गुण-
वन्तोऽपि सीदन्ति न गुणग्राहको यदि” उद्भटः ।

गुणज्ञ त्रि० गुणं जानाति ज्ञा--क ६ त० । गुणज्ञातरि

“गुणिनि गुणज्ञो रमते” हितो० ।

गुणधर्म्म पु० “यो गुणेन प्रवर्त्तेत गुणधर्मः स उच्यते” इत्युक्ते

मूर्द्धाभिक्तस्य प्रजापालनादिधर्मे ।

गुणनिका स्त्री गुण--आम्रेड़ने भावे युच् स्वार्थे क ।

१ अभ्यासे निश्चयार्थं पाठ्यग्रन्थस्य पुनःपुनरनुशीलने,
“हेतुः परिचयस्थैर्य्ये वक्तुर्गुणनिकैव सा” माघः ।
२ शून्ये, ३ नृत्ये, मदि० । ४ मानायाञ्च “दरिद्राणां चिन्ता-
मणिगुणनिका” आनन्दलहरी ।

गुणनिधि पु० गुणानिधीयन्ते अस्मिन् नि + धा--आधारे कि

६ त० । १ गुणाधारे कम्पिल्लनगरवासियज्ञदत्तदीक्षितद्विज-
पुत्रे “आसीत् काम्पिल्लनगरे सोमराजिकुलोद्भवः ।
दीक्षितो यज्ञदत्ताख्यो यज्ञविद्याविशारदः । तस्य पुत्रो
गुणनिधिश्चन्द्रविम्बसमाकृतिः” काशी० १३ अ० । स
चात्यन्तद्यूताद्यासङ्गेन दुर्वृत्ततया पित्रा त्यक्तः इतस्ततोऽटन्
अन्नालाभेन शिवचतुर्दश्यामुपोष्य रात्रौ शैवकृतशिवलिङ्गा-
र्चनादिकं दृष्ट्वा सुप्तेषु तदर्चकेषु शिवनिर्माल्यहरणायोप
चक्राम तत्र काले च शिवगृहे पूर्वप्रज्वलितप्रदीपे निर्वा-
णपायतां प्राप्ते अपहर्त्तव्यद्रव्य सम्यग् दर्शनार्थं स्ववस्त्र-
खण्डेन तस्य दीपस्योद्दीपनं कृत्वा शिवनैवेद्यान्नं हर्त्तु
मारेभे अस्मिन्नेव काले शिवोपासकानां निद्रापगमे-
तैस्ताड्यमानो गुणनिधिर्मृतः तत्र प्रसङ्गेन शिवरात्रि-
दिनोपवासजेन शिर्वार्चादर्शनजेन शिवगृहदीपोद्दीपनजेन
च पुण्येन कैलासं जगाम भोगावसाने कलिङ्गदेशाधिपत्यं
लेभे पूर्वसंस्कारवशात् शिवभक्तेः प्रादुर्भावे शिवाराधनेण
कुवेरपदवीं प्राण इति तत्रत्यकथासंक्षेपः । विस्वरस्तु
तत्र दृश्यः ।

गुणनी स्त्री गुण्यतेऽनया गुण--ल्युट् ङीप् । गुणनिकायामनुशीलने त्रिकाः ।

गुणनीय पु० गुण--करणे अनीयर् । १ अभ्यासे हारा० ।

कर्म्मणि अनीयर् । २ गुणितव्ये त्रि० ।

गुणपदी स्त्री गुणौ गुणितौ पादावस्याः कुम्भपद्या०

अन्त्यलोबो ङीप् च । गुणितपादायां स्त्रियाम् ।

गुणप्रवृद्ध पु० गुणैः सत्वादिभिः प्रवृद्धः । संसाररूपवृक्ष-

शाखादौ “अधश्चोर्द्ध्वं च प्रसृतास्तस्य शाखा गुणप्रवृद्धा-
विषयप्रबालाः” गीता ।

गुणभृत् त्रि० गुणं बिभर्त्ति, अधिष्ठातृत्वेन वा विभर्त्ति

आश्रयति भृ--क्विप् । १ गुणधारिणि २ गुणाधिष्ठातरि
परमेश्वरे पु० । “गुणभृन्निर्गुणो महान्” विष्णु स० ।
“सृष्टिस्थितिप्रलयकर्म्मस्वधिष्ठातृत्वात् गुणभृत्” भा० ।

गुणभ्रंश पु० ६ त० । गुणनाशे हारा० ।

गुणमय त्रि० गुणात्मकः गुणप्रचुरो वा गुण + तादात्म्ये

प्राचुर्य्ये वा मयट् । १ गुणात्मके “तया बद्धमनश्चक्षुः
पाशैर्गुणमयैस्तदा” भा० आ० १७१ अ० । एतैर्गुण-
मयैभावैः” गीता । स्त्रियां ङीप् “दैवी ह्येषा गुणमयी
मम माया दुरत्यया” गीता । २ गुणाढ्ये च ।

गुणलयनी स्त्री गुणा गुणनिर्म्मिताः पटा लीयन्तेऽस्याम्

ली--आधारे ल्युट् ङीप् । १ पटमण्डपे (तांवु) हलायुधः ।
स्वार्थे क । अत इत्त्वम् । गुणलयलिका । तत्रार्थे हेम०

गुणवचन पु० गुणमुक्तवान् वच--कर्त्तरि भूते ल्यु । गुणवद्द्रव्य

वाचके शुक्लादौ शब्दे । “वोतो गुणवचनस्य” पा० । अत्र
विशेषणतया गुणवचनानामेव तथात्वं तेन गुणिवाच-
कत्वे सति गुणवाचकत्वं गुणवचनत्वम् । ततो मृद्वादिप-
दानामेव तथात्वम् रूपादिपदानान्तु केवलगुणवाचकत्वात्
न गुणवचनत्वमिति बोध्यम् । गुणमुक्तवान् इति भूत एव
ल्युट् तेन यदा कदाचिद्गुणवाचकत्वे सति इदानीं
गुणवचनत्वमिति शेख “तृतीया तत् कृतार्थेन गुणवचनेन” पा० ।
“गुणश्चात्र धर्ममात्रं तेन शङ्कुलाखण्ड इत्याद्युदाहृतौ
खण्डनस्य क्रियारूपत्वेऽपि नासङ्गतिः” “गुणवचनब्रा-
ह्मणादिभ्यः ष्यञ्” पा० । अत्र विशेषणमात्रपरम्
गुणवचनं ग्राह्यम् तेन जडस्य भावः जाड्यम् इति वैशि-
ष्ट्यमित्यादिसिद्धिः “अजादी गुणवचनादेव” पा० अत्रापि
विशेषणतयैव गुणवाचिनां द्रव्यपरत्वे इष्ठनीयसुनौ
न गुणपरत्वे इत्याकरे स्थितम् “प्रकारे गुणवचनस्य”
पा० द्वित्वम् । पटुप्रकारः पटुपटुः इत्यादि ।
गुणवचनशब्दे परे विस्पष्टादीनामाद्युदात्तता विस्पष्ट-
कटुकम्” सि० कौ० ण्वुल् । गुणवाचकोऽप्यत्र ।
पृष्ठ २६०७

गुणवत् त्रि० गुणोऽस्त्यस्य मतुप् मस्य वः । १ गुणाढ्ये “गुण-

वन्तोऽपि सीदन्ति न गुणग्राहको यदि” उद्भटः । “सर्वत्र
गुणवद्दानम्” स्मृतिः स्त्रियां ङीप् । यदुवंश्यसुनाभस्य
२ दोहित्रे पु० ३ तत्कन्यायां स्त्री । “वज्रनाभस्य तनयः
सुनाभो नाम विश्रुतः । द्रहितृद्वयञ्च नृपते! तस्य
रूपगुणान्वितम् । एका चन्द्रवती नाम्ना गुणवत्यथ चापरा”
हरिव० १५३ अ० । “गुणवत्यपि पुत्रञ्च गुणवन्तमजीजनत्”
हरिवं० १५५ अ० ४ अप्सरोभेदे स्त्री । “अलम्बुषा
गुणवती स्थूलकेशी कलावती” काशी० ९ अ० ।

गुणवाद पु० गुणस्य अङ्गस्य वादः । अर्थवादभेदे तथाहि अर्थ-

वादो विध्यसमभिव्याहृतवाक्यरूपः सोऽपि त्रिविधः
“गुणवादी विरोधे स्यादनुवादीऽवधारिते । भूतार्थवादस्तद्धाना
वर्थवादस्त्रिधा मतः” इति भट्टका० । अयमर्थः विरोधे विशे-
ष्यविशेषणयोः सामानाधिकरण्येनान्वयविरोधे गुणवादः
अङ्गकथनरूपत्वात् यथा यजनानः प्रस्तर इति अत्र
हि प्रस्तरः कुशमुष्टिः तस्य यजमानेऽभेदान्वयबाधात्
यजमानस्य कुशमुष्टिधारणरूपाङ्गवादरूपत्वात् गुणवादः ।
अवधारिते प्रमाणान्तरसिद्धेऽर्थे यो वादः सोऽनुवादः यथा
“अन्तरीक्षे नाग्निश्चेतव्यः” “अग्निर्हिमस्य भेषजम्” इत्यादि
च, अन्तरीक्षे अग्निचयनस्यासम्भवेन तदभावस्य, अग्नेर्हि-
मनाशकत्वस्य च लौकिकप्रमाणसिद्धत्वात् अनुवादः । तद्धा-
नौ तयोर्विरोधावधारणयोरभावे भूतार्थवादः । “इन्द्रो वृत्र-
महन्नित्यादि” सोऽपि द्विविधः स्तुत्यर्थवादो निन्दार्थवादश्च ।
“सन्ध्यामुपासते ये तु सततं संशितव्रताः । विधूतपापास्ते
यान्ति ब्रह्मलोकबनामयमित्यादौ” स्तुत्यर्थवादः । “तैल-
स्त्रीमांसमम्भोगी पर्वस्वेतेषु वै पुमान् । विण्मूत्रभोजनं
नाम प्रयाति नरकं ध्रुवम्” इत्यादौ निन्दार्थवाद इति ।

गुणविधि पु० गुणस्याङ्गस्य द्रव्यादेर्विधिः । प्राप्तस्याऽप्राप्तस्य वा

कर्मणोऽङ्गद्रव्यविधाने । यथा “अग्निहोत्रं जुहोति स्वर्ग-
कामः” इति विधिना स्वर्गसाधनत्वेन प्राप्तस्याग्निहोत्रादे-
रङ्गं “दध्ना जुहोतीति” वाक्यन दधिद्रव्यं विदधत्
गुणविधिः । यत्र च कर्म अङ्गं च मानान्तरेणाप्राप्तं
तत्रोभयविधानं यथाहि तस्य अङ्गरूपगुणविधानेन
गुणविधित्वं तथा कर्मस्वरूपप्रापकत्वेन उत्पत्तिविधित्वं
चेत्युभयरूपत्वम् तदेतत् गौगाक्षिग्रन्थे विवृतं यथा
“अज्ञातार्थज्ञापको लेदभागो विधिः । स च प्रयोजन
वदर्थविधानेनाऽर्थवान् । तादृशञ्चार्थं प्रमाणान्तरेणाप्राप्तं
विधत्ते । यथा “अग्निहोत्रं जुहुयाम् स्वगकामः इति
विधिः प्रमाणान्तरेणाप्राप्तस्वर्गप्रयोजनवद्धोमं
विधत्ते अग्निहोत्रेण स्वर्ग भावयेदिति वाक्यार्थवोधः ।
यत्र कर्म प्रमाणान्तरेण प्राप्तं तत्र तदुद्देशेन गुणमात्रं
विधत्ते । यथा “दध्ना जुहोति” इत्यत्र होमस्य “अग्निहोत्रं
जुहुयात्” इत्यनेन प्राप्तत्वाद्धोमीद्देशेन दधिमात्रविधानं
दध्ना होमं भावयेदिति । यत्र तूभयमप्राप्तं, तत्र विशिष्टं
विधत्ते । यथा “सोमेन यजेत” इत्यत्र सोमद्रव्ययागयो-
रप्राप्तत्वात् सोमविशिष्टयागविधानम् । सोमपदे मत्यर्थ-
लक्षणया सोमवता यागेनेष्टं भावगेदिति वाक्यार्थ-
बोधः । न चोभयविधाने वाक्यभेदः, प्रत्येकमुभयस्या-
विधानात् किन्तु विशिष्टस्यैकस्यैव विधानात् । न
च “ज्योतिष्टोमेन स्वर्गकामोयजेतेति” प्राप्तयागोद्देशेन
सोमरूपगुणविधानमेवास्तु सोमेन यागं भावयेदिति,
किं मत्वर्थलक्षणयेति वाच्यम् । तस्याधिकारविधित्वे-
नोत्पत्तिविधित्वासम्भवात् । ननु “उद्भिदा यजेत
पशुलाम” इत्यस्येव ज्योतिष्टोमेन इत्यस्याप्युत्पत्त्यधिकार-
विघित्वमस्त्विति चेन्न दृष्टान्ते उत्पत्तिवाक्यान्तरा-
भावेनान्यथानुपपत्त्या तथात्वाश्रयणात् । किञ्च ज्यो-
तिष्टोमेनेत्यत्रोभयविधित्वे तेनैव यागस्तस्य फलसम्बन्धश्च
बोधनीय इति सुदृढ़ोवाक्य भेदस्तद्वरं सोमपदे मत्वर्थ-
लक्षणया विशिष्टविधानम्” । अधिकं विधिशब्दे वक्ष्यते ।
उभयविधाने अन्यदुदाहरणं तत्त्ववोथिन्यां दर्शितं यथा
“प्रथमस्य चतुर्थे “वाजपेयेन स्वाराज्यकामोयजे-
तेति” तत्र वाजपेयशब्देन वाजमन्नं पेयं सुरादीति ।
तत्र तत्तद्यागमनूद्य वाजपेयद्रव्यरूपोगुणो विधीयते, किं
वा वाजपेयनामा यागविशेषोऽनेन विधीयत इति संशयः
तत्र विशिष्टयागान्तरकल्पने गौरवादन्नसुरात्मकं द्रव्यद्वयं
गुणो विधीयते नच गुणविधित्वे वाजपेयकरणक
यागेन स्वाराज्यं कुर्य्यादिति यागे वाजपेयकर-
णत्वेन वाजपेयसाध्यत्वस्त्राराज्यसाधनत्वयोर्विरुद्धयोरेक
ज्ञानविषयत्वानभ्युपगमात् वाजपेयगुणवता यागेन
स्वाराज्यं भावयेदिति मत्वर्थलक्षणा प्रसज्येतेतिवाच्यं
सकृदुच्चरितस्य यजेतेत्यस्य तन्त्रेणोभयत्रान्वयाङ्गीकारात्
बाजपेयेन द्रव्येण स्वाराज्याय यागं कुर्य्यादित्यर्थलाभान्न
मत्वर्थलक्षणा । तथाच सूत्रं “नामधेये गुणाश्रुतेः स्याद्वि-
धानमिति चेदिति” (जैमि० १ । ४ । ८ ।) प्राप्ते ब्रूमः यजेः
पृष्ठ २६०८
फले द्रव्ये च उभयत्र सम्बन्धाङ्गीकारे विरुद्धं त्रिकद्वय
मापद्येत । तथा हि उपादेयत्वं गुणत्वं विधेयत्व-
ञ्चेत्येकं त्रिकम् उद्देश्यत्वमनुवाद्यत्वं मुख्यत्वञ्चेत्यपरं
त्रिकं तत्रोद्देश्यत्वादयस्त्रयः स्वाराज्यफलनिष्ठा धर्माः ।
उपादेयत्वादयस्त्रयः साधनीमूतयागनिष्ठा धर्माः
फलमुद्दिश्य यागस्योपादानात् फलमनूद्य यागस्य विधा-
नात् फलस्य च साध्यतया मुख्यत्वात् यागस्य साधन-
त्वेनोपसर्ज्जनत्वात् तदेव च गुणत्वम् । अत्र चोपादेय-
त्वोद्देश्यत्वयोः, गुणत्वमुख्यत्वयोरनुवाद्यत्वविधेयत्वयोर्वि-
रोध इति त्रिकद्वयं विरुद्धम् । तथाचैकेनैकदा तादृश
विरुद्धोभययोर्वोधकत्वं नाङ्गीक्रियत इति भावः । अथ
मा भूत्तन्त्रेण सम्बन्धः यजेतेनुषङ्गेण पृथक् फले द्रव्ये-
चान्वयः स्वीक्रियतामिति चेन्न अनुषङ्गकल्पने वाजपेय
द्रव्येण यजेत यागं कुर्य्यात् स्वाराज्याय यजेत यागेन
स्वाराज्यं भावयेदिति वाक्यभेदापत्तेः तस्माद्वाजपेय
शब्दो न द्रव्यवाचकः अपि तु यागनामधेयमिति । इत्थ-
ञ्चानुषङ्गकल्पने वाक्यभेदरूपगौरवं दोष इत्यनुषङ्गा-
धिकरणसिद्धान्तः । यत्र चानुषङ्गकल्पने विशेषप्रमाण-
मस्ति तत्र प्रामाणिकत्वात् तत्कल्पने गौरवं न दोषायेति
ध्येयम्” ।
उभयत्र च द्रव्यमात्रगुणविधाननिराकरणम् प्रयो-
जनम् । क्वचित्तु गुणमात्रविधानं जै० १ । ४ । ९ सूत्र-
भाष्ययोर्दर्शितं यथा
“तद्गुणास्तु विधीयेरन्नविभागाद्विधानार्थे न चेदन्येन
शिष्टाः” ९ सू० । “यथा “आग्नेयोऽष्टाकपालोऽमावास्यायां
पौर्णमास्यां चाच्युतो भवति” इत्येवमादयः श्रूयन्ते
तत्र सन्देहः, किम् ‘आग्नेयोऽग्नीषोमीयः’ इत्येवमादयो
गुणविधयः, कर्मनामधेयानि वा? इति । किं तावत्
प्राप्तम्? गुणविधी सत्यनेको गुणो विधीयेत, अग्नि-
पुरोड़ाशाष्टाकपालाः इति, तस्मान्न गुणविधयः इत्येवं
प्राप्ते ब्रूमः, तच्च कर्म, गुणाश्चास्य विधीयेरन्,
अविभक्ता हि ते कर्मणो विधानार्थे तद्धितान्ते शब्दे, तत्र
हि अष्टाकपालस्याग्नेयता विधीयते, स एष
एवमाग्नेयो भवति, यद्यग्नये संकल्प्य दीयते, तेनायम्
अनेन प्रकारेण यागो विहिती भवति, स एवं विधीय-
मानो न शक्यते सम्बन्धिनावविधाय विहित इति
वक्तुम् । तस्मात् गुणविधयः, अष्टसु कपालेषु संस्क्रिय-
माणो व्रीहिमयो वा पुरोड़ाश एव भवति, सोऽनुवादः
सिद्धश्चात्राष्टाकपाल उच्यते, ‘कपालेषु श्रपयति’ इति
वचनात् नान्येन श्रपितं गृह्णन्ति, तेनास्मिन्पक्षे
वाक्यभेदो भवति, ‘न चेदन्येन शिष्टाः’ यत्र पुनरन्ये
वचनेन शिष्टा गुणा भवन्ति तत्र नामधेयं, यथ
‘अग्निहोत्रं जुहोति ।’

गुणवृक्ष पु० गुणानां नौकाकर्षणरज्जूना वन्धनाधारः

वृक्षैव । नौकाकर्षकदामाद्याधारे काष्ठे । (मास्तुल) ।
स्वार्थे क, स इव कायति कै--क वा । तत्रार्थे अमरः ।

गुणवृत्ति स्त्री गुणेन वृत्तिः । १ लक्ष्यमाणसादृश्यादिगुणा-

वलम्बनेन शब्दस्य अर्थप्रकाशनरूपशक्तौ लक्षणावृत्तौ,
“यस्याक्षिसमीपे पौण्ड्राणि स गुणवृत्त्या चतुरक्षः”
कात्या० श्रौ० २० । १ । ३८ सूत्रे कर्कः । गुणे वृत्तिर्यस्य ।
२ गुणसामर्थ्यवति त्रि० “ब्रह्मन् ब्रह्मण्यनिर्द्देश्ये निर्गुणे
गुणवृत्तयः । कथं चरन्ति? श्रुतयः साक्षात् सदसतः
परे” भाग० १०८७ अ० । गुणानां सत्वादीनां वृत्तिः ।
सत्वादीनां ३ परिणामभेदेषु स्त्री “परिणामतापसंस्कार-
दुःखैर्गुणविवरोधाच्च दुःखमेव सर्वं विवेकिनः” पात० सू० ।
तासाञ्च यथाऽन्योन्यविरोधस्तथा तत्सूत्रभाष्यादिषु
दर्शितम् ।
“प्रख्याप्रवृत्तिस्थितिरूपा बुद्विगुणाः परस्परानुग्रह-
तन्त्रीभूत्वा शान्तं घोरं मूढ़ं वा प्रत्ययं त्रिगुणमेवा-
रभन्ते चलञ्च गुणवृत्तमिति क्षिप्रपरिणामि चित्तमुक्तं
रूपातिशया वृत्त्यतिशयाश्च परस्परेण विरुध्यन्ते सामा-
न्यानि तु अतिशयैः सह प्रवर्त्तन्ते एवमेते गुणा
इतरेतराश्रयेणोपार्ज्जितसुस्वदुःखमोहप्रत्यया इति
सर्वे सर्वरूपा भवन्ति गुणप्रधानभावकृतस्तेषु विशेष
इति तस्मात् दुःखमेव सर्व्वं विवेकिन” व्यासभा० ।
“प्रख्याप्रवृत्तिस्थितिरूपबुद्धिरूपेण परिणता
गुणाः सत्वरजस्तमांसि परस्परानुग्रहतन्त्राः शान्तं-
सुखात्मक, घोरं दुखात्मकं, मूढ़ं विषादात्मकमेव प्रत्ययं
सुखोपभोगरूपमपि त्रिगुणं प्रारभन्ते नच सोऽपिं
तादृशरूपोऽस्य परिणामः स्थिरः इत्याह चलञ्च
गुणवृत्तमिति क्षिप्रपरिणामि चित्तमुक्तं नान्वेकप्रत्ययः
कथं परस्परविरुद्धशान्तघोरमूढ़त्वान्येकदा प्रतिपद्यते?
इत्यत आह रूपातिशया वृत्त्यतिशयाश्च परस्परेण
विरुध्यन्ते सरूपास्त्वष्टा भावा धर्म्मादयो वृत्तयः सुखा-
द्यास्तदिह धर्म्मेण विपच्यमानेनाधर्म्मस्तादृशो विरुध्यते
एवं ज्ञानवैराग्यैश्वर्य्यैः सुखादिभिश्च तादृशान्येव
पृष्ठ २६०९
तद्विपरीतानि विरुध्यन्ते, सामान्यानि त्वसमुदाचरद्रू
पाणि अतिशयैः समुदाचरद्निः सहाविरोधात् प्रवर्त्तन्ते
इति । ननु गृह्णीमएतत्तथापि विषयसुखस्य कुतः स्वाभा-
विकी दुःखतेत्यत आह एवमेव इति उपादानाभेदा-
दुपादानात्मकत्वाच्चोपादेयस्याप्यभेद इत्यर्थः । तत्किमिदा-
नीमात्यन्तिकमेव तादात्म्यं तथा च बुद्धिव्यपदेशभेदी
न कल्पते इत्यत आह गुणप्रधानेति सामान्यात्मना
गुणभावोऽतिशयात्मना च प्राधान्यं तस्मादुपाधितः
स्वभावतश्व दुःखभेव सर्व्वं विवेकिन इति” वाच० विवरणम्

गुणसङ्ग पु० गुणेषु गुणकार्य्येषु सुखदुःखादिषु सङ्गः । सुखा-

द्यासक्तौ “कारणं गुणसङ्गोऽस्य” गीता ।

गुणसंख्यान न० गुणाः संख्यायन्तेऽनेन सम्--ख्या

करणे ल्युट् ६ त० । सांख्यप्रातञ्जलशास्त्रे ।

गुणसम्मूढ़ त्रि० गुणैः सम्मूढ़ः । गुणकार्य्यदेहादिष्वात्मा-

भिमानवति । “प्रकृतेर्गुणसंमूढ़ाः सज्जन्ते गुणकर्मसु”
गीता ।

गुणसागर पु० गुणानां सागर इवाधारः । चतुर्मुखे १

ब्रह्मणि शब्दच० । २ बुद्धभेदे त्रिका० ३ गुणाधारे च । शब्दक०
अस्य अत्रार्थे त्रिलिङ्गतोक्तिः प्रामादिकी सागरशब्दस्य
नियतलिङ्गत्वात् “द्वन्द्वतत्पुरुषयोः” पा० सूत्रेण विशेषं
विना उत्तरपदलिङ्गस्य नियमनात् ।

गुणा स्त्री गुणोऽस्त्यस्याः अच् । १ दूर्वायां २ मांसरोहिण्याञ्च

राजनि० । तयोर्बहुतन्तुमत्त्वात्तथात्वम् ।

गुणाकर पु० ६ त० । १ बुद्धभेदे शब्दर० २ गुणयुक्ते च

“तपस्यभिरतस्याथ तस्य पुत्रो गुणाकरः । सत्यवान् नाम
देवर्षे!” भा० व० सावित्र्युपाख्याने । गुणसागरशब्दोक्त-
हेतुना शब्दक० अस्य त्रिलिङ्गतोक्तिः प्रामादिकी ।

गुणाढ्य त्रि० गुणैराढ्यः । सद्गुणयुक्ते ।

गुणातीत पु० गुणान् सत्वादिगुणधर्म्मात् सुखदुःखादीन-

तीतः । १ परमेश्वरे स्थितप्रज्ञे २ आत्मज्ञे च । गुणातीत-
ताकारणसहितं तल्लक्षणमुक्तं गीतायां यथा
“गुणानेतानतीत्य त्रीन् देही देहसमुद्भवान् ।
जन्ममृत्युजरादुःखैर्विमुक्तोऽमृतश्नुते । अर्ज्जुन उवाच ।
कैर्लिङ्गैस्त्रीन् गुणानेतानतीतो भवति प्रभो! । किमा-
चारः कथं चैतांस्त्रीन् गुणानतिवर्त्तते । श्रीभगवा-
नुवाच । प्रकाशञ्च प्रवृत्तिञ्च मोहमेव च पाण्डव! ।
न द्वेष्टि संप्रवृत्तानि निवृत्तानि न काङ्क्षति । उदासी-
नवदासीनोगुणैर्योन विचाल्यते । गुणा वर्त्तन्त इत्येवं
योऽवतिष्ठति नेङ्गते । समदुःखसुखः स्वस्थः समलोष्ट्राश्म-
काञ्चनः । तुल्यप्रियाऽप्रियो धीरस्तुल्यनिन्दात्मसंस्तुतिः ।
मानापमानयोस्तुल्यस्तुल्यो मित्रारिपक्षयोः । सर्वारम्भ-
परित्यागी गुणातीतः स उच्यते । माञ्च योऽभ्यभि-
चारेण भक्तियोगेन सेवते । स गुणान् समतीत्यैतान्
ब्रह्मभूयाय कल्पते” ।

गुणादि “गुणादयोऽवयवाः” । (“अवयववाचिनः

परे गुणादयोनान्तोदात्ताः”) पा० सूत्रविहितान्तो-
दात्ततानिषेधनिमित्ते १ शब्दगणे । स च गुण “गुण
अक्षर, अध्याय सूक्तछन्दस् मान” । २ गुणकर्म्मजाति-
समवायविशेषाभावेषु “गुणादिर्निगुणक्रियः” भाषा० ।

गुणान्वित त्रि० ३ त० । १ विवेकवैराग्योपरमादिभिर्मोक्षो-

“पायैरन्विते” “प्रक्षीणदोषाय गुणान्विताय” वेदा० सा०
२ गुणयुक्ते च ।

गुणिका स्त्री गुण इन् स्वार्थे क । शूनाङ्गे उच्छूनदेहे हारा० ।

गुणित त्रि० गुण--आम्रेडने कर्मणि क्त । १ आहते ताड़िते

पूरिते अमरः । “इष्टकृतिरष्टगुणिता व्येका दलिता
विभाजितेष्टेन” लीला० ।

गुणिन् त्रि० गुण + अस्त्यर्थे इनि । गुणयुक्ते “गुणिगण-

गणनारम्भे न पतति कठिनी ससम्भ्रमा यस्य” हितो० ।

गुणीभूत त्रि० अगुणः भूतः गुण + च्वि + भू--क्त ।

अप्रधानीभूते “गुणीभूता गुणाः सर्वे तिष्ठन्ति हि पराक्रमे”
भा० स० १५ अ० । च्व्यर्थे कृतादित्वात् समासे उक्तार्थत्वात्
ततो न च्विः । तेन गुणभूतोऽप्यत्र । “गुणभूतैरवयवैः
समूहः क्रमजन्मनाम् । बुद्ध्या प्रकल्पिताऽभेदः क्रियेति
व्यपदिश्यते” हरिः ।

गुणीभूतव्यङ्ग्य न० गुणीभूतं व्यङ्ग्यं यत्र । काव्यभेदे

तल्लक्षणाभेदादि सा० द० उक्तं यथा
“अपरन्तु गुणीभूतव्यङ्ग्य वाच्यादनुत्तमे व्यङ्ग्ये । अपरं
काव्यं अनुत्तमत्वम् न्यूनतया साम्येन च संभवति । तत्र
स्यादितराङ्गं १ काक्वाक्षिप्त २ ञ्च वाच्यसिद्ध्यङ्गम् ३ संदिग्ध-
प्राधान्यं ४ तुल्यप्राधान्य ५ मस्फुट ६ मगूढम् ७ । व्यङ्ग्यासुन्द-
र ८ मेवं मेदास्तस्योदिता अष्टौ । इतरस्य रसादेरङ्गं
रसादि व्यङ्गं १ यथा । “अयं स रसनोत्कर्षी पीनस्तन-
विमर्द्दनः । नाभ्यूरुजधनस्पर्शी नीवीविश्रंसनः करः” ।
अत्र शृङ्गारः करुणस्याङ्गम् । “मानोन्नतां प्रणयिनी
मनुनेतुकामस्त्वत्सैन्यसागररवोद्गतकर्ण्णतापः । हाहा
कथं नु भवतोरिपुराजधानीप्रासादसन्ततिषु तिष्ठति
पृष्ठ २६१०
कामिलोकः” । अत्रौत्सुक्यत्राससन्धिसंस्कृतस्य करुणस्य
राजविषयरतावङ्गभावः । “जनस्थाने भ्रान्तं कनकमृग-
तृष्णान्धितधिया वचो वैदेहीति प्रतिपदमुदश्रु प्रलपितम् ।
कृता लङ्काभर्त्तुर्वदनपरिपाटीष्रघटना मयाप्तं रामत्वं
कुशलवसुता न त्वधिगता” । अत्र रामत्वं प्राप्तमित्य-
वचनेऽपि शब्दशक्तेरेव रामत्वमवगम्यते वचनेन तु सादृश्य
हेतुकतादात्म्यारोषणमाविष्कृत्य तद्गोपनमपाकृतं तेन
व्यङ्ग्यं सादृश्य वाक्यार्थान्वयोपपादकतयाऽङ्गतां नीतम् ।
काक्वाक्षिप्तं २ यथा । “मथ्नामि कौरवशतं समरे न
कोपाद्दःशासनस्य रुधिरं न पिबाम्युरस्तः । संचूर्ण-
यामि गदया न सुयोधनोरू सन्धिं करोतु भवतां
नृपतिः पणेन” । अत्र मथ्नाम्ये वेत्यादि व्यङ्ग्यं वाच्यस्य
निषेधस्य सहभावेनैव स्थितम् । “दीपयन् रोदसीरन्ध्रमेष
ज्वलति सर्वतः । प्रतापस्तव राजेन्द्र! वैरिवंशदवानलः” ।
अत्रान्वयस्य वेणुत्वारोपणरूपोव्यङ्ग्यः प्रतापस्य दवानल-
त्वारोपसिद्ध्यङ्गम् ३ । “हरस्तु किञ्चित् परिवृत्तेत्यादौ” ।
विलोचनव्यापारचुम्बनाभिलाषयोः प्राधान्ये सन्देहः ४ ।
“ब्राह्मणातिक्रमत्यागोमवतामेव भूयते । जामदग्न्यश्च
योमित्रमन्यथा दुर्मनायते” । अत्र वाच्यस्य परशुरामोरक्षः-
कुलक्षयं करिष्यतीति व्यङ्ग्यस्य च समं प्राधान्यम् ५ ।
“सन्धौ सर्वस्वहरणं विग्रहे प्राणनिग्रहः । अश्वपदीन-
नृपतौ न सन्धिर्न च विग्रहः” । अत्राश्वपदीनाख्ये नृपतौ
दानसामादिमन्तरेण नान्यः प्रशमोपाय इति व्यङ्ग्यं
व्युत्पन्नानामपि झटित्यस्फुटम् ६ । “अनेन लोकगुरुणा
सतां धर्मोपदेशिना । अहं व्रतवती स्वैरमुक्तेन किमतः
परम्” । अत्र प्रतीयमानोऽपि शाक्यमुनेस्तिर्य्यक्योषिति
बलात्कारोपभोगः स्थुटतया वाच्यायमानैत्यगूढम् ७ ।
“वाणीरकुडुङ्गुड्डीणसौणिकोलाहलं सुणन्तीए । वर
कम्मव्वाबडाए सीअन्ति अङ्गाइम्” । अत्र दत्तसंकेतः
कश्चिल्लतागृहं प्रविष्टैति व्यङ्ग्यात् शृण्वन्त्याः सीदन्त्यङ्गानि
इति वाक्यस्य चमत्कारः सहृदयसंवेद्य इत्यसुन्दरम् ८ ।
किञ्च योदीपकतुल्ययोगितादिषु उपमाद्यलङ्कारोव्यङ्ग्यः
म गुणीभूतव्यङ्ग्य एव काव्यस्य दीपकादिमुखेनैव चमत्का-
रविधायित्वात् तदुक्तं ध्वनिकृता “अलङ्कारान्तरस्यापि
प्रतीतौ यत्र भासते । तत्परत्वं तु काव्यस्य नासौ
मार्गोध्वनेर्म्मतः” । यत्र च शब्दान्तरादिना गोपन-
कृतचारुत्वस्य विपर्य्यासः यथा “दृष्ट्या केशवगोपरा-
गहृतया किञ्चिन्नवृष्टं मया तेनात्र स्खलितास्मि नाथ!
पतितां किं नाम नालम्बसे । एकस्त्वं विषमेषुखिन्नमनसां
सर्वाबलानां गतिर्मोप्यैवं गदितः सलेशमवताद्गोष्ठे
हरिर्वश्चिरम्” । अत्र गोपरागादिशव्दानां गीपे
रागइत्यादिव्यङ्ग्यार्थानां सलेशमिति पदेन स्फुटतयाऽ-
वभासः । सलेशमिति पदस्य परित्यागे ध्वनिरेव । किञ्च
यत्र वस्त्वलङ्काररसादिरूपव्यङ्ग्यानां रसान्तरे गुणी-
भावः तत्र प्रधानकृतएव काव्यव्यवहारः तदुक्तं तेनैव
“प्रकारोऽयं गणीभूतव्यङ्ग्योऽपि ध्वनिरूपताम् । धत्ते
रसादितात्पर्य्यपर्य्यालोचनया पृथक्” यत्र च “यत्रो-
न्मदानां प्रमदाजनानामब्भ्रंलिहः शोणमणीमयूखः ।
सन्ध्याभ्रमं प्राप्नुवतामकाण्डेऽप्यनङ्गनेपथ्यविधिं
व्यधत्त” इत्यादौ रसादीनां नगरीवृत्तान्तादिवस्तुमात्रेऽङ्गत्वं
तत्र तेषामतात्पर्य्यविषयत्वेऽपि तैरेव गुणीभूतैः काव्य
व्यवहारः” । अस्य भेदसंख्याविस्तरभयात् नाक्तास्तत
एवावासेयाः ।

गुणेश्वर पु० ६ त० । १ चित्रकूटपर्वते २ सत्त्वादिगुणानां नियामके

परमेश्वरे शब्दरत्ना० । गुणेशोऽपि परमेश्वरे ।

गुणोत्कर्ष पु० ६ त० । गुणातिशये हेमच० । “भूयस्तव

गुणोत्कर्षमेते विद्ये करिष्यतः” रामा० वाल० २६ अ० ।

गुण्ठित त्रि० गुठि--क्त । १ आवृते । २ गुण्डिते ३ कृतधूलिधूसरे

च रमानाथः ।

गुण्ड पु० गुडि--वेष्टने अच् । १ असिपत्रे तृणभेदे राजनि०

यस्य कन्दः कशेरु । कशेरुशब्दे विवृतिः । भावे अच् ।
२ चूर्णने पेषणे (गुँड़ाकरा) पु० । कर्मणि अच् ।
३ चूर्ण्णीकृते त्रि० ।

गुण्डक त्रि० गुड़ि--ण्वुल् । १ मलिने । २ धूलौ ३ कलोक्तौ ४ स्नेहपात्रे च पु० मेदि० ।

गुण्डकन्द पु० ६ त० । कशेरुणि (केशुर) । राजनि० ।

गुण्डारोचनिका स्त्री गुण्डा सती रोचना हरिद्रेव इवार्थे

कन् (कमलागुँडि) वृक्षभेदे रत्नमा० ।

गुण्डाला स्त्री गुण्डं चूर्णनमालाति आ + ला--णिनि ।

जलोद्भवायां क्षुपभेदे राजनि० ।

गुण्डासिनी गुण्डा सती आस्ते आस--णिनि । चिपितालतायाम् राजनि० ।

गुण्डिक पु० गुण्ड + अस्त्यर्थे ठन् । चूर्ण्णीकृते तण्डुलादौ ।

(गुँड़ि) “गुण्डिकैः सितपीतैश्च मण्डयेच्च गृहाङ्गनम्”
अनन्तव्रतकथा ।

गुण्डिचा स्त्री जगन्नाथक्षेत्रस्थे तस्य रथयात्रानन्तरं सप्ता-

हं वासार्थे मण्डपभेदे “मण्डपे बासयेत् देवान् गुण्डि-
चाख्ये मनोहरे” इत्युपक्रमे “विन्दुतीर्थतटे तस्मिन्
पृष्ठ २६११
सप्ताहानि जनार्द्दनः । तिष्ठेत् पुरा स्वयं राज्ञे वरमेतत्
समादिशत् । तत्तीर्थतीरे राजेन्द्र! स्थास्यामि सप्तवा-
सरम् । सर्वतीर्थानि तत्रापि स्थास्यन्ति मयि तिष्ठति ।
तत्र स्नात्वा विधानेन तीर्थे तीर्थोपपावने । सप्ताहं ये
प्रपश्यन्ति गुण्डिचामण्डपे स्थितम् । माञ्च रामं सुभद्राञ्च
मम सायुज्यमाप्नुयुः” । तन्नामनिरुक्तिरपि तत्रोक्ता यथा
“सर्वपापनियन्तृत्वात् पूज्यत्वात् सर्वदैवतैः । गुण्डि-
चाख्यापि सा प्रोक्ता ब्रह्मतेजोऽवगुण्ठनात्” स्क०
पु० उत्ख० ।

गुण्डित त्रि० गुडि--वेष्टने क्त । रजसाकीर्ण्णे, रूषिते अमरः

गुण्य त्रि० गुण--कर्म्मणि यत् । १ गुणनीये पूर्य्ये ।

“गुण्यस्त्वधोऽधो गुणखण्डतुल्यः” । “गुण्यान्त्यमङ्कं
गुणकेन हन्यात्” लीला० । पशस्तो गुणोऽस्यास्ति
“अन्येभ्योऽपि दृश्यते” वार्त्ति० यत् । २ प्रशस्तगुणयुक्ते च ।
“गुण्याः ब्राह्मणाः” सि० कौ० ।

गुत्थ पु० गुत्स + पृषो० । गवेधुकाधान्ये (गड़गडे) रत्नमा०

गुत्थक न० गुच्छेन कायति कै--क पृषो० । ग्रन्थिपर्णे वृक्षे

रत्नमा० ।

गुत्स पु० गुध--स किच्च नि० इट्न् । ग्रन्थिपर्णवृक्षे मेदि० । गुच्छशब्दे २५९६ पृ० विवृतिः ।

गुत्सक पु० गुत्स + स्वार्थादौ क । १ स्तवके शब्दरत्ना० । गुच्छक-

शब्देदृश्यम् । २ ग्रन्थपरिच्छेदे त्रिका० । “अथ वाङ्मयभेदाः
स्युश्चम्पूः खण्डकथा कथा । आख्यायिका परिकथा
कलापकविशेषकौ । सन्धानमनिरुद्धं च प्रकीर्ण्णं गुत्स
कादि च । सर्गोवर्गपरिच्छेदोद्घाताध्यायाङ्कसंग्रहाः ।
उच्छ्वासः परिवर्त्तश्च पटलं काण्डमस्त्रियाम् । स्थानं प्रक-
रणं पर्वाह्निकञ्च ग्रन्थसन्धयः” त्रिका० । अत्र गुत्सकादौ-
त्यादिपदात् स्तवकोल्लासादीनां ग्रहणम् । तत्र कुसुमा-
ञ्जलौ स्तवकः, काव्यप्रकाशे उल्लासः । एवमन्यत्रापि
यथायथं ग्रन्थनामानुसारेण तदवयववाचकशब्दविशेषेण
ग्रन्थसन्धिकरणम् दृश्यते तेषां सर्वेषामादिपदग्राह्यता ।

गुद खेले भ्वा० आत्म० अक० सेट् । गोदते अगोदिष्ट ।

जुगुदे । गुदम् ।

गुद न० गुद--क । मलत्यागद्वारे अपानवायुनिःसारणद्वारे

“तत्र स्थूलान्त्रप्रतिबद्धमर्द्धपञ्चाङ्गुलं गुदमाहुस्तस्मिन्
बलयस्तिस्रोऽध्यर्द्धाङ्गुलान्तरभूताः प्रवाहणी १ विसर्ज्जनी
२ संवरणी चेति । “चतुरङ्गुलायताः सर्वास्तिर्य्यगेकाङ्गुलो-
च्छ्रिताः । शङ्खावर्त्तनिभाश्चापि उपर्य्युपरि संस्थिताः ।
गजतालुनिभाश्चापि वर्णतः सम्प्रकीर्त्तिताः । रोमान्तेभ्यो
यवाध्यर्द्धो गुदौष्ठः परिकीर्त्तितः” सुश्रु० । तस्य स्वरूपा-
दिकमुक्तम् ।
अस्य प्राणायतनता याज्ञ० उक्ता यथा “नाभिरोजो
गुदं शुक्रं शोणितं शङ्खकौ तथा । मूर्द्धां सकण्ठहृदयं
प्राणस्यायतनानि च” । अस्य उपसर्ज्जनत्वे क्रोड़ादौ
शुकेत्यत्र गुद इति पाठान्तरं तेन स्त्रियां ङीष् । भ्रष्टगुदा
इत्येव । २ नाड़ीभेदे स्त्री बह्वादि० वा ङीष्टापौ ।
“आन्त्रेभ्यस्ते गुदाभ्यः” ऋ० १० । १६३ । ३ । “गुदाभ्यः याभिर्ना-
ड़ीभिरन्नरसः समानवायुना धातुषु नीयते ताभ्यो
नाड़ीभ्यः” भा० । ३ बलयाकारे गुदस्थाने पु० । “उदरं च
गुदौ कोष्ठ्यौ विस्तारोऽयमथो शृणु” याज्ञ० “बाह्या-
द्गुदबलयात् अन्तरे गुदवलये द्वे, तौ च गुदौ
कौष्ठ्ये कोष्ठौ नाभेरधोदेशे भवौ” मिता० । वस्तुतः
गुदमस्त्यत्र अर्श० अच् । गुदाधारस्थानपरतायामेव
त्रिलिङ्गत्वम् । अतएव “गुदाः पात्राणि भृदुकामधेनुः”
यजु० १८ । ८६ । व्याख्यायाम् वेददी० । “गुदाः गुदस्थानानि”
इत्युक्तम् “स्थूलगुदया सर्पान् गुदाभिः” यजु० २५ । ७
मन्त्रव्याख्यायां च तेन गुदपरत्वे स्त्रीत्वं छान्दसमित्यु-
क्तञ्च सङ्गच्छते “सिन्धवो गुदाः” शत० ब्रा० ६ । ४ ।
ततः अश्मा० अस्त्यर्थे र । गुदर तद्युक्ते त्रि० ।

गुदकील पु० गुदे कील इव । अर्शोरोगे राजनि० । अर्शः-

शब्दे विवृतिः । “स्थूलकन्दस्तु नात्युष्णः शूरणो
गुदकीलहा” सुश्रु० “आनाहमेदोगुदकीलहिक्काश्वासा-
पहो वन्यकुलत्थ एषः” सुश्रु० । स्वार्थे क । तत्रार्थे हला० ।

गुदग्रह पु० गुदं तद्व्यापारं गृह्णाति ग्रह--अच् ६ त० ।

उदावर्त्तरोगे हेम० । उदावर्त्तशब्दे ११६३ पृ० दृश्यम् ।

गुदपरिणद्ध पु० ऋषिभेदे तस्यापत्यम् इञ् । गौदपरिणद्धि

तदपत्ये तस्य वकनस्वेन द्वन्द्वे इञो लुक् बहुत्वे ।
वकनखगुदपरिणद्धाः ।

गुदपाक पु० ६ त० । अतिसारादिजनिते गुदस्थानस्य

पूयादिनिःस्रावहेतौ पाके । “असंवृतगुदं क्षीणोदरा-
ध्मानादुपद्रुतम् । गुदे पक्वे गतोष्माणञ्चातीसारकिणं
त्यजेत्” सुश्रु० । “मांसपाकेन बध्यन्ते गुदपाके च
दारुणे” “गुदपाके तु बालानां पित्तघ्नीं कारयेत् क्रियाम्”
“गुदपाकस्तु पित्तेन यस्य स्यादहिताशिनः” सुश्रु० ।

गुदभ्रंश पु० “प्रवाहणातिसाराभ्यां निर्गच्छति गुदं बहिः ।

रूक्षदुर्बलदेहस्य गुदभ्रंशं तमादिशेत्” शुदभ्रंशमिमं
कृच्छ्रंपानाभ्यङ्गात् प्रसाधयेत्” सुश्रुतोक्ते रोगभेदे ।
पृष्ठ २६१२

गुदरोग पु० ६ त० । गुदस्थानभवे भगन्दरार्शोभिन्ने

रोगे तस्य च शातातपेन “सुरालये जले वाऽपि
शकृन्मूत्रं करोति यः । गुदरोगो भवेत्तस्य पापरूपः
सुदारुणः” इति कर्म्मविपाकविशेषमुक्त्वा “मासं सुरार्चनेनैव
गोदानद्वितयेन च । प्राजापत्येन चैकेन शाम्यन्ति
गुदजा रुजा” भगन्दरार्शसोः पृथगुक्तत्वात्तद्भिन्नता ज्ञेया

गुदवर्त्मन् न० गुदरूपं वर्त्म । गुदरूपे मलद्वारे जटा० ।

गुदस्तम्भ पु० ६ त० । गुदव्यापारस्य मलनिःसारणस्य प्रतिरोधे

रोगभेदे । “अश्वयोनौ च गमनाद् गुदस्तम्भः प्रजा-
यते । सहस्रकमलैः स्नानं मासं कुर्य्यात् शिवस्य च”
शातातपः ।

गुदाङ्कुर पु० गुदेऽङ्कुर इव । अर्शोरोगे हेमच० ।

गुदौष्ठ पु० गुदस्य ओष्ठ इव । गुदावयवभेदे गुदशब्दे

दर्शिते सुश्रुतवाक्ये तत्स्वरूपादि ।

गुद्र मिथ्याकथने चुरा० उभ० सक० सेट् इदित् । गुन्द्रयति

अजुगुन्द्रत्--त । गुन्द्रयां--बभूव आस चक्रे । गुन्द्रा ।

गुध रोषणे क्य्रा० पर० सक० सेट् । गुध्नाति अगोधीत् ।

जुगोध । सेट्कत्वेऽपि न गुणः गुधित्वा । गुत्सः ।

गुध क्रीडे भ्वा० आत्म० अक० सेट् । गोधते अगोधिष्ट । जुगुधे

गुध वेष्टने दिवा० पर० सक० सेट् । गुध्यति अगोधीत् ।

जुगोध गुधित्वा ।

गुधेर त्रि० गुध वेष्टने एरक् । गोप्तरि उज्ज्वलदत्तः ।

गुन्दल पु० गुमित्यक्तशब्देन दल्यतेऽसौ दल--णिच्--कर्मणि

अच । मर्दलशब्दे हेमच० ।

गुन्द्र पु० गुद्रि--कर्म्मणि अच् । १ शरतृणे (गोपठेर) वृक्षे

अमरः । “गुन्द्रः कषायो मधुरः शिशिरः पित्तरक्तजित् ।
स्तन्यशुक्ररजोमूत्रशोधनो मूत्रकृच्छ्रजित्” भावप्र० ।
२ भद्रमुस्तके ३ प्रियङ्गुवृक्षे च स्त्री अमरः । ४ गवेधुकायां स्त्री
रत्नमाला ५ एरकायां स्त्री भावप्र० ।

गुन्द्रमूला स्त्री गुन्द्रस्य मूलमिव मूलमस्याः । एरकातृणे भावप्र० ।

गुन्द्रला स्त्री गुन्द्रं मिथ्यावचनं लाति ला--क ।

जीवञ्जीवखगे चकोरके हेमच० ।

गुन्फ ग्रन्थे तु० प० सक० सेट् । गुम्फति अगुम्फीत् ।

जुजुम्फ । गुम्भन् गुफितः गुम्भित्वा--गुफित्वा । नोपध
त्वात् क्विपि गुन् गुनौ इत्यादि ।

गुप गोपने सक० आत्म० सेत् कुत्सने स्वार्थे सन् अनिट्

कुत्सनमिह कुत्सापूर्वकनिवृत्तिस्तत्र अक० निन्दनञ्च तत्र
सक० । पापात् जुगुप्ससते अगुप्सीष्ट । जुगुपसां
बभूव आस चक्रे जुगुप्सितः । गोपने गोपते अगो
पिष्ट जुगुपे । “आद्विधानैर्गुपितो वार्हतैः मोक्षरक्षितः
ऋ० १० । ८५ । १ । “तथा राष्ट्रं गुपितं क्षत्रियस्य”
१० । १०९ । ३ । तत्र निन्दार्थत्वे “जुगुप्सेरन्न चाप्ये-
नम् संवसेयुश्च सर्वशः” मनुः “यदा बुध्यति बोद्धव्यं
लोकवृत्तं जुगुप्सते” भा० व० ३११ अ० ।

गुप रक्षणे भ्वा० सक० पर० वेट् स्वार्थे सार्वधातुके नित्य-

मायः आर्द्धधातुके वा । गोपायति अगोपायीत् अगोपीत्
अगौप्सीत् । गोपायाम्--बभूव आस चकार जुगोप ।
गोपायितः गुप्तः । गुप्तिः गोपायनम् गोपनम् । “जु
गोपात्मानमत्रस्नुः” रघुः । “आत्मानं सततं गोपायीत”
श्रुतिः “जुगोप गोरूपधरामिवोर्वीम्” रपुः । “नैनं गोप्स्यति
दुर्बुद्धिमद्य बाणहतं मया” भा० भी० ३८६३ श्लो०
“अगोपिष्टां पुरोलङ्कामगौप्तां रक्षसां बलम्” भट्टिः ।
“यस्य वाङ्मनसी शुद्धे सम्यग्गुप्ते च सर्वदा” मनुः ।

गुप व्याकुलत्वे दिवा० अक० पर० सेट् इरित् । गुप्यति

अगुपत् अगोपीत् जुगोप । गुपितः ।

गुप भासने चुरा० उभ० अक० सेट् । गोपयति ते

अजुगुपत् त । गोपयाम् बभूव आस चकार चक्रे । चतुर्ण्णा
गुपधातूनामुदाहरण कविरहस्ये यथा “गोपायति क्षिति
मिमां चतुरब्धिसीमां पापाज्जुगुप्सत उदारमतिः
सदैव । वित्तं न गोपयति यस्तु बणीयकेभ्यो धीरो न
गुप्यति महत्यपि कार्य्यजाते” ।

गुपिल पु० गुप इलच् किच्च । १ नृपे उज्ज्वल० २ रक्षके त्रि० ।

गुप्त त्रि० गुप--कर्म्मणि क्त । १ त्राते रक्षिते २ गूढे संवृते

च अमरः । “स गुप्तमूलप्रत्यन्तः” रघुः । ३ सङ्गरे पु०
शब्दरत्ना० । “गुप्तदासात्मकं नाम प्रशस्तं वैश्यशूद्रयोः”
उद्वा० त० उक्ते ४ वैश्योपनामभेदे पु० । ५ कपिकच्छ्वां स्त्री
राजनि० । ६ परकीयायां नायिकायां स्त्री । “गुप्ताविदग्धा
लक्षिताकुलटानुशयानामुदिताप्रभृतीनां परकीयायामे-
वान्तर्भावः तत्र गुप्ता त्रिविधा वृत्तसुरतगोपना वर्त्तिष्य
माणसुरतगोपना वर्त्तमानसुरतगोपना चेति विभज्य
रसमञ्जर्य्यां तिसृणामेकत्र पद्ये उदाहृतिः यथा “श्वश्रूः
क्रुध्यतु निर्दहन्तु सुहृदो निन्दन्तु वा यातरस्तस्मिन्नद्य
न मन्दिरे सखि! पुनः स्वापो विधेयो मया” । आखो
राक्रमणाय कोणकुहरादुत्कालमातन्वती मार्ज्जारी
नखरैः खरैः कृतवतो कां कां न मे दुर्दशाम्” । ७ रक्षितायां
स्त्रियाञ्च (राखनी) स्त्री “ब्राह्मणीं यद्यगुप्तां तु सेवेतां
पृष्ठ २६१३
वेश्यपार्थिवौ” मनुः ८ परमेश्वरे पु० “गुप्तश्चक्रगदाधरः”
विष्णुस० “वाङ्मनसमोरगोचरत्वात् गुप्तः “एष सर्वेषु
भूतेषु गूढ़ोत्मा न प्रकाशते” इति श्रुतेः” भा० ।

गुप्तक पु० जयद्रथसेनानीभेदे । “अङ्गारकः कुञ्जरो गुप्त-

कश्च शत्रुञ्जयः सृञ्जयसंप्रवृद्धौ” भा० आ० २६४ अ० ।
स्वार्थे क । २ गुप्तार्थे त्रि० ।

गुप्तगति पु० गुप्ता गतिर्यस्य । अपसर्पे १ गुप्तचरे शब्दार्थचि० । २ गूढ़गमने त्रि० ।

गुप्तचर त्रि० गुप्तश्चरो यस्य । १ गूढ़भावेन चरपेरके । २

बलभद्राख्ये यदुवंश्ये पु० त्रिका० । कर्म्म० । ३ गूढ़े दूतभेदे पु०

गुप्तस्नेह पु० गुप्तः स्नेहोऽत्र । १ अङ्कोटकवृक्षे राजनि० ।

कर्म्म० । २ गूढ़े स्नेहे “गुप्तस्नेहकरी(दृष्टिः)तृतीयभवने”
नीलकण्ठताजकम् ।

गुप्ति स्त्री गुप--भावे क्तिन् । १ गोपने “भयगौरवलज्जादे-

र्हर्षाद्याकारगुप्तिरवहित्था” सा० द० । २ संवरणे
“वृहन्मणिशिलासालं गुप्तावपि मनोरमम्” कुमा० ।
“असिधारासु कोषगुप्तिः” काद० । “स्थानं समुदयं गुप्तिं
लब्धप्रशभनादिकम्” मनुः । ३ रक्षणे “सर्वस्यास्य तु सर्गस्य
गुप्त्यर्थं स महाद्युतिः” (ईश्वरः) मनुः । ४ ग्राह्यमन्त्रसंस्कार-
भेदे तन्त्रसा० “गौतमीये “जननं जीवनं पश्चात् ताड़नं
बोधनं तथा । तथाभिषेको विमलीकरणाप्यायने पुनः ।
तर्पणं दीपनं गुप्तिर्दशैता मन्त्रसंस्क्रियाः” इति विभज्य
“जप्यमानस्य मन्त्रस्य गोपनं त्वप्रकाशनम्” इति लक्षि-
तम् । आधारे क्तिन् । ५ अवस्करस्थाने ६ कारागारस्थाने
मेदि० । “चिरमतिरसलौख्यात् बन्धनं लम्भिवानां
पुनरयमुदयाय प्राप्य धाम स्वमेव । दलितदलकपाटः षट्प-
दानां सरोजे सरभस इव गुप्तिस्फोटमर्कः करोति” माघः
७ भूगर्त्ते । करणे क्तित् । ८ अहिंसादौ योगाङ्गे यमे च
हेमच० । ९ गर्त्तार्थं क्षितेरुत्खनने १० नौकाछिद्रे भरतः ।

गुफ ग्रन्थे तुदा० पर० सक० सेट् मुचा० । गुम्फति अगोफीत्

जुगोफ ।

गुफित त्रि० गुफ--गुन्फ--वा कर्म्मणि क्त । ग्रथिते अमरः ।

गुम्फ ग्रन्थने तुदा० पर० सक० सेट् । गुम्फति अगुम्फीत् ।

जुगुम्फ गुम्फितः । मोपधत्वात् गुम्फित्वा क्विपि गुन्
गुमौ गुम इति ।

गुम्फ पु० गुम्फ--घञ् । १ ग्रन्थने, २ बाहोर्भूषणे मेदि० ३ श्मश्रुणि च शब्दरत्ना० ।

गुम्फना स्त्री गुम्फ--युच् । “वाक्ये शब्दार्थयोः सम्यग्र-

चना गुम्फना स्मृता” इत्युक्तायां १ वाक्यस्य चारुरच-
नायाम् । २ ग्रन्थने च (गाँथा) भावे ल्युट् । २ ग्रन्थने न० ।

गुम्फित त्रि० गुम्फ--क्त । सुभ्रादिना ग्रथिते, अमरः ।

गुर बधे गत्याञ्च दिवा० आत्म० सक० सेट् । गूर्य्यते

अगोरिष्ट । जुगोर । ईदित् गूर्ण्णः । गोरणम् ।

गुर उद्यमे तुदा० कुटा० आत्म० अक० सेट् । गुरते अगुरिष्ट

जुगोर गुरणम् ईदित् गूर्णः । वेदे तु नि० गूर्त्त इत्येव ।
“इषो हवो गूर्त्ततमाः” ऋ० १ । १६७ । १ । “गूर्वी रुषसः
शरदश्च गूर्त्ताः” ऋ० ४ । १९ । ८ । “अवगूर्य्य चरेत् कृच्छ्र-
मतिकृच्छ्रं निपातने” स्मृतिः । “यो ब्राह्मणायाव-
गुरेत् तं शतेन यातायात्” श्रुतिः छान्दसः पदव्यत्ययः ।
एवं “न कदाचिद् द्विजे तस्माद्विद्वानवगुरेदपि” मनुः ।

गुरण न० कुटा० गुर--भावे ल्युट् । हननाद्यर्थभुद्यमे अमरः ।

दैवादिकस्य गोरणमित्येव । तच्च बधे गत्याञ्च । अव +
गोरणं हननार्थमुद्यमे इति भेदः ।

गुरु पु० गिरत्यज्ञानं गृणात्युपदिशति धर्म्मं गॄ--गिरणे

गॄ--शब्दे कर्त्तरि, गीर्य्यते स्तूयते वा कर्मणि वा कु उच्च
१ वृहस्पतौ देवाचार्य्ये अमरः । “गुरुकाव्यानुगां बिभ्रत्”
माघः । “गुरोर्भृगोरस्तबाल्ये” नीचस्थे सिंहगे गुरौ”
ज्यो० त० । २ प्रभाकराख्ये मीमांसकभेदे तस्य तन्नामता यथा
“अत्र तु नोक्तम् तत्रापिनोक्तम् अतः पौनरुक्त्यम्” इत्यत्र
स्वगुरोः संशये जाते प्रभाकरेण तदसन्निधाने तत्पुस्तके
तुना, अपिना, इति पदच्छेदः कृतः उत्तरकाले गुरुणा
तद्दृष्ट्या केनेदृशः पदच्छेदः कृतः इति पृष्टे अन्यशिष्ट्ये
द्वारा प्रभाकरकृतत्वं निश्चित्य तस्य संशयापनोदकत्वात्
गुरुरिति संज्ञा कृतेति अख्यायिका “गुरोर्गिरः पञ्च-
दिनान्यधीत्य” सा० द० । “अर्थापत्तिर्गुरूणाम्” शब्द० प्र० ।
“निषेकादीनि कर्म्माणि यः करोति यथाविधि ।
सम्भावयति चान्नेन स विप्रो गुरुरुच्यते” मनूक्ते “स
गुरुर्यः क्रियां कृत्वा वेदमस्मै प्रयच्छति” याज्ञ० उक्ते च
निषेकादिक्रियाकर्त्तरि ३ पितरि प्रायश्चित्तविवे० । “न केबलं
तद्गुरुरेकपार्थिवः” रघुः गुरुतल्पगशब्दे विवृतिः । “अल्पं
वा बहु वा यस्य श्रतस्योपकपरोति यः । तमपीह गुरुं
विद्यात् श्रुतोपक्रियया तया” मनूक्ते शास्त्रोपदेशके ४
आचार्य्यादौ तद्विषये “पिता वै गार्हपत्योऽग्निर्माताग्निर्दक्षिणः
स्मृतः । गुरुराहवनीयस्तु साग्नित्रेता गरीयसी” इमं
लोकं मातृभक्त्या पितृभक्त्या तु मध्यमम् । गुरुशुश्रू-
षया त्वेवं ब्रह्मलोकं समश्नुते” मनुः । “तै गुरुर्गुरु-
पत्नी च” रघुः । “आचार्य्यश्च पिता ज्येष्ठो भ्राता चैव
महीपतिः । मातुलः श्वशुरस्त्राता मातामहपितामहौ ।
पृष्ठ २६१४
वर्णज्येष्ठः पितृव्यश्च पुंस्येते गुरवो मताः” देबलोक्तेषु
५ एकादशसु आचार्य्यादिषु “अनेनैकादशगुरवः सङ्के-
तिताः” प्रा० वि० । गुरुतल्पपगशब्दे विवृतिः ।
“उपाध्यायः पिता ज्येष्ठभ्राता चैव महीपतिः ।
मातुलः श्वशुरस्त्राता मातामहपितामहौ । वर्ण्णज्येष्ठः
पितृव्यश्च पुंस्येते गुरवः स्मृताः । मातामही मातु-
लानी माता मातुश्च सोदराः । श्वश्रूः पितामही
ज्येष्ठा धात्री च गुरवः स्त्रीषु । इत्युक्तो गुरुवर्गोऽयं
मातृतः पितृतो द्विजाः! । अनुवर्त्तनमेतेषां मनो
वाक्कायकर्मभिः । गुरुं दृष्ट्वा समुत्तिष्ठेदभिवाद्य
कृताञ्जलिः । नैतैरुपविशेत् साद्धं विवदेन्नात्मकारणात् ।
जीवितार्थमपि द्वेषाद्गुरुभिर्न्नैव भाषणम् । उदितोऽपि
गुणैरन्यैर्गुरुद्वेषी पतत्यधः । गुरूणाञ्चैव सर्वेषां पूज्याः
पञ्च विशेषतः । तेषामाद्यास्त्रयः श्रेष्ठास्तेषां माता
सुपूजिता । यो भावयति या सूते येन विद्योपदिश्यते ।
ज्येष्ठ भ्राता च भर्त्ता च पञ्चैते गुरवः स्मृताः । आत्मनः
सर्वयत्नेन प्राणत्यागेन वा पुनः । पूजनीया विशेषेण
पञ्चैते भूतिमिच्छता कूर्म० पु० ११ अ० । उक्ते पुंस्त्रीभेदेन
६ उपाध्यायादौ यथायथं पुंस्त्री० ।
“तथापि तन्मय्यपि ते गुरुरित्यस्ति गौरवम्” माघः ।
कृष्णं प्रति तत्पितृव्योद्धवोक्तिः “गुरुद्वयाय गुरुणोरुभ-
योरथ कार्ययोः” माघे ज्येष्ठभ्रातृपितृव्यपरता ।
७ सम्प्रदायप्रवर्त्तके ८ धर्म्मोपदेशके ९ कपिकच्छूवृक्षे राजनि० ।
“सानुस्वारो विसर्गान्तो दीर्घोयुक्तपरश्च यः । वा पादान्ते
त्वसौ” वृ० र० उक्ते १० दीर्घवर्णादौ । “अगुरुचतुष्कं
भवति गुरूद्वौ घनकुचयुग्मे शशिवदनासौ” श्रुतबोध०
“गुरुमतोऽनृच्छेत्यादि” “गुरोश्च हलः” पा० ११ महति त्रि०
शापे गुरुणि गुरूणि” प्रा० त० । १२ दुर्ज्जरं १३ दुष्पाके
त्रि० “तत्फलं (प्रियङ्गुफलम्) मधुरं रूक्षं कषायं शीतलं
गुरु” भावप्र० । १४ अलघनि गुरुत्वति त्रि० मेदि० ।
“कार्ये गुरुण्यात्मसमं नियोक्ष्ये” कुमा० । “नारदस्तु जगतो
गुरुरुच्चैर्बिस्मयाय गगनं विललङ्घे” नैष० “गुरुणीद्वे
रसवती” भाषा० स्त्रियां ङीप् । “अलाबूर्भेदिका गुर्वी”
वैद्यकम् । “इयमतिजरठा प्रकाम गुर्वी” माघः । गुरुत्वं च
गुरुत्वशब्दे दृश्यम् १५ तान्त्रिकमन्त्रोपदेष्टरि पु० तल्लक्ष-
णादि शा० ति० “मातृतः पितृतः शुद्धः शुद्धभावो जिते-
न्द्रियः । सर्वागमाणां तत्त्वज्ञः सर्वशास्त्रार्थतत्त्वविद् ।
परोपकारनिरतो जपपूजादितत्परः । अमोघवचनः शान्तो
वेदवेदार्थपारगः । योगमार्गानुसन्धाता देवताहृदयङ्गमः ।
इत्यादिगुणसम्पन्नो गुरुरागमसम्मतः” वर्ज्यागुरवो-
राववभट्टधृतवचनैरुक्ताः यथा
“नातिबालोन वृद्धश्च न खञ्जो न कृशस्तथा ।
नाधिकाङ्गोन हीनाङ्गो न खल्वाटोन दन्तुरः” । वीरमित्रो-
दयधृतकल्पचिन्तामणौ “क्षयरोगी च दुश्चर्मा कुनखी श्या-
वदन्तकः । काणोऽन्धः कुसुमाक्षश्च खल्वाटः खञ्जरीटकः”
“अङ्गहीनोऽतिरिक्ताङ्गः पिङ्गाक्षः पूतिनासिकः ।
वृद्धाण्डोवामनः कुब्जः श्वित्री चैव नपुंसकः” । पूतिना
सिकोदुर्गान्धिनासिकः । “संस्काररहितोमूर्खो वेदशा-
स्त्रविवर्ज्जितः । श्रौतस्मार्त्तक्रियाशून्यः शुष्कभाषः
सुकुत्सितः । पुरयाजनजीवी च नरो वैद्यश्च
कामुकः । क्रूरो दम्भी मत्सरी च व्यसनी कृपणः खलः
कुसङ्गी नास्तिको भीतो महापातकचिह्नितः । देवा-
ग्निगुरुविद्यादिपूजाविधिपराङ्मुखः । सन्ध्यातर्पणपूजा-
दिमन्त्रज्ञानविवर्ज्जितः । आलस्योपहतो भोगी धर्म
हीन उपश्रुतः । इत्याद्यैर्बहुभिर्दोषैरागमोक्तैश्च
यत्नतः । वर्जनीयोगुरुः प्राज्ञैर्दीक्षासु स्थापनादिषु”
मत्स्यसूक्ते त्रयोदशपटले “अपुत्त्रश्चासपत्नीकः शक्तिहीनं
ऽथ वामनः । कुब्जः कुष्ठः श्यावदन्तो वृषलीपतिरेव च”
तन्त्रसारे रामार्च० च० सदसद्गुरुलक्षणे यथा
“शान्तो दान्तः कुलीनश्च विनीतः शुद्धवेशवान् ।
शुद्धाचारः सुप्रतिष्ठः शुचिर्दक्षः सुबुद्धिमान् । अध्या-
त्मध्याननिष्ठश्च मन्त्रतन्त्रविशारदः । निग्रहानुग्रहे शक्तो
गुरुरित्यभिधीयते । आगमसंहितायाम् “उद्धर्त्तुञ्चैव
संहर्त्तुं समर्घो ब्राह्मणोत्तमः । तपस्वी सत्यवादी च
गृहस्थो गुरुरुच्यते” इति ।
गुरुरपि गृहस्थ एव यथाह ज्ञानार्णवे । “सर्वशास्त्रार्थ-
वेत्ता च गृहस्थो गुरुरुच्यते” गृहस्थेषु पुत्रवतामेवाधि-
कारः यथा यामले “कलत्रपुत्रवान् विप्रो दयालः सर्वं-
सम्मतः । दैवे पित्रेऽरिमित्रे च गृहस्थो देशिको
भवेदिति” मुण्डमालायाम् “मध्यमो वैष्णवः प्रोक्तो मध्यम-
शैवदीक्षितः । परमादीक्षितो यो वै स एव परमो गुरुः”
आगमसारे “गकारः सिद्धिदः प्रोक्तो रेफः
पापस्य दाहकः । उकारःशम्भुरित्युक्तस्त्रितयात्मा गुरुः
स्मृतः । गकारो ज्ञानसम्पत्त्यै रेफस्तत्त्वप्रकाशकः ।
उकारात् शिवतादात्म्यं दद्यादिति गुरुः स्मृतः” ।
निन्द्यगुरुमाह क्रियासारसमुच्चये “श्वित्री चैव गलत्-
पृष्ठ २६१५
कुष्ठी नेत्ररोगी च वामनः । कुमखी श्यावदन्तश्च स्त्री-
जितश्चाधिकाङ्गकः । हीनाङ्गः कपटी रोगी वह्वाशी
बहुवल्गकः । एतैर्दोर्षैर्विहीनो यः स गुरुः शिष्यस-
म्मतः” यामले “अभिशस्तमपुत्रञ्च कदर्य्यं कितवं तथा ।
क्रियाहीनं शठञ्चापि वामनं गुरुनिन्दकम् । जलरक्त
विकारं च वर्ज्जयेन्मतिमान् सदा । सदा मत्सरसं-
युक्तं गुरुं मन्त्रेषु वर्ज्जयेत्” । वैशम्पायनसंहितायाम्
“अपुत्रो मृतपुत्रश्च कुब्जश्च रोषणस्तथा” । सम्बन्धभेदा-
द्बर्ज्यतामाह योगिनीतन्त्रे “पितुर्मन्त्रं न गृह्णीयात्
तथा मातामहस्य च । सोदरस्य कनिष्ठस्य वैरिपक्षाश्रितस्य
च” तथा गणेशविमर्षिण्याम् “यतेर्दीक्षा पितुर्दीक्षा दीक्षा
च वनवासिनः । विविक्ताश्रमिणो दीक्षा न सा कल्याण-
दायिका” अस्यापवादः शक्तियामले “तीर्थाचारव्रतो मन्त्री
ज्ञानवान् सुसमाहितः । नित्यनिष्ठो यतिः ख्यातो गुरुः
स्याद्भौतिकोऽपि च” रुद्रयामले “न पत्नीं दीक्षयेद्भर्त्ता न
पिता दीक्षयेत् सुताम् । न पुत्रञ्च तथा भ्राता भ्रातरं न च
दीक्षयेत् । सिद्धमन्त्रो यदि पतिस्तदा पत्नीं स दीक्षयेत् ।
शक्तित्वेन वरारोहे! न च सा पुत्रिका भवेत्” । इत्यादि-
निषेधवचनात् एभ्यो मन्त्रं न गृह्णीयात् । इदन्तु सिद्धमन्त्रे-
तरविषयं “सिद्धमन्त्रो न दुष्यतीति” वचनात् तथा च सिद्ध-
यामले “यदि भाग्यवशेनैव सिद्धविद्यां लभेत् प्रिये! । तदैव
तान्तु दीक्षेत त्यक्त्वा गुरुविचारणाम्” गणेशविमर्षिण्याम्
“प्रमादाच्च तथाऽज्ञानात् पितुर्दीक्षां समाचरन् । प्रायश्चित्तं
ततः कृत्वा पुनर्दीक्षां समाचरेत्” । पितुरित्युपलक्षणं
मातामहादीनामपि । प्रायश्चित्तन्तु अयुतसावित्रीजपः
सर्वत्र तथा दर्शनात् तथा च शङ्खः “दशसाहस्रजप्येन
सर्वकषल्मनाशिनी” । मत्स्मसूक्ते “निर्वीर्यञ्च पितु-
र्मन्त्रं शैवे शाक्ते न दुष्यति” इति वचन कौलिकमन्त्र-
दीक्षापरम् योगिनीतन्त्रे “शक्तिविद्यामधिकृत्य ततो दीक्षा
निषेधात् । यद्वाशाक्ते तारादिविद्यायां न दोषः मत्स्य-
सूक्ते “निजकुलतिलकाय ज्येष्ठपुत्राय दद्यात्” इति
तारामधिकृत्य तथा प्रतिपादनात् । श्रीक्रमेऽपि “मनु-
र्विमृष्य दातव्यो ज्येष्ठपुत्राय धीमते” उत्तरषट्के च
“अयोग्याय ग दातव्यमित्याज्ञा परमेश्वरि! । सुशीलाय
विनीताय ज्येष्ठपुत्राय धीमते । अनन्तदायिशिष्याय
देव्या मन्त्रं प्रदीयते” । तदुक्तं “कथमपि मनुमेनं प्राप्य
शिन्याय तस्मै निजकुलतिलकाय ज्येष्ठपुत्राय दद्यादिति”
ताराविषयं मत्स्यसूक्ते ताराप्रकरणे तथा दृष्टेः
महातीर्थे उपरागे सति सर्वत्र न दोषभाक् तथा च
विष्णुमन्त्रमधिकृत्य “साधु पृष्टं त्वया व्रह्मन् वक्ष्यामि
सकलन्तव । ब्रह्मणा कथितं पूर्वं वशिष्ठाय महात्मने ।
वशिष्ठोऽपि स्वपौत्राय मत्पित्रे दत्तवान् स्वयम् । प्रसन्न-
हृदयः स्वच्छः पिता मे करुणानिधिः । कुरुक्षत्रे
महातीर्थे सूर्यपर्वणि दत्तवान्” इत्यादि वैशम्पायनसंहितायां
शौनकं प्रति व्यासवाक्यम् । योगिनीतन्त्रे “निर्वीर्य्यञ्च
पितुर्मन्त्रं तथा मातामहस्य च । स्वप्नलब्धं स्त्रिया दत्तं
संस्कारेणैव शुध्यति” । यत्तु “साध्वी चैव सदाचारा गुरु-
भक्ता जितेन्द्रिया । सर्वतन्त्रार्थतल्वज्ञा सुशीला पूजने-
रता । गुरुयोग्या भवेत् साहि विधवा परिवर्ज्जिंता ।
स्त्रियोदीक्षा शुभा प्रोक्ता मातुश्चाष्टगुणा स्मृता” । तत्तु
गुरोरुपासितमन्त्रपरम् । तथा च भैरवीतन्त्रे “स्वीयमन्त्रो-
पदेशे तु न कुर्य्यात् गुरुचिन्तनम्” । मातुरिति
उपासितेऽष्टगुणं अनुपासिते शुभफलदमित्यर्थः । सिद्धमन्त्र
विषयं वेति केचित् । वस्तुतस्तु योगिनीतन्त्रे स्त्रीपदं
विधवापरं एकवाक्यताबलात् । अत्र विधवापदम् अवीरा-
परम् । “विधवायाः सुतादेशात् कन्यायाः पितुराज्ञया ।
नाधिकारोयतोनार्य्या भार्य्याया भर्त्तुराज्ञया” इत्यूर्द्ध्वा
म्रायवचनात् नाधिकार इति स्वातन्त्र्येण नाधिकारः ।
यीगिनीतन्त्रे “स्वप्नलब्धे तु कलसे गुरोर्मूर्त्तिं निवेश-
येत् । वटपत्रे कुङ्कुमेन लिखित्वा ग्रहणं शुभम् ।
ततः शुद्धिमवाप्नोति अन्यथा विफलं भवेत्” । इदन्तु
सद्गुरोरभावे तत्सम्भवे तस्मादेव गृह्णीयात् “स्वप्ने तु
नियमोनहीति” नारदवचनात् । तथा विद्याधराचार्य्य-
धृतवचनम् “मध्यदेशे कुरुक्षेत्रनाटकोङ्कणसम्भावाः । अन्त-
र्वेदिप्रतिष्ठानाः आवन्त्याश्च गुरूत्तमाः । मध्यदेश आर्य्या-
वर्त्तः । “गोड़ाः शाल्वोद्भवाः सौराः मागधाः केरलास्तथा ।
कोशलाश्च दशार्णाश्च गुरवः सप्त मध्यमाः । कर्णाटनर्म्म-
दाराष्ट्रकच्छातीरोद्भवास्तथा । कालिङ्गाश्च कलिङ्गाश्च
काम्बोजाश्चाधमा मताः । वैष्णवे वैष्णवो ग्राह्यः शैवे शैवश्च
शाक्तिके । शैवः शाक्तोऽपि सर्वत्र दीक्षास्वामी न संशयः”
नित्यातन्त्रे “गुरु न मर्त्यं ध्यायेत यदि बुध्येत
तस्य तु । न कदाचिद्धवेत् सिद्धिर्न मन्त्रैर्देवपूजनैः”
१६ परमेश्वरे पु० । “गुरुर्गुरुतमोधाम” विष्णुसं० सर्वविद्या-
नामुपदेष्टृत्वात् सर्वेषां जनकत्वाद्वा गुरुः” भा० ।
“पूर्वेषामपि गुरुः कालेनानवच्छेदात्” पात० सू० । १७
गम्भीरार्थे १८ बलबति १९ पूज्येच त्रि० २० द्रोणाचार्य्ये
पृष्ठ २६१६
पु० शब्दार्थचि० २१ पुष्यनक्षत्रे तस्य गुर्वधिष्ठातृकत्वात् “ध्रुव-
गुरुकरमूलापौष्णभान्यर्कवारे” ज्यो० त० । स्वार्थे क ।
भारातिशययुक्ताद्यर्थे । “ततो युधिष्ठिरस्तस्य गुरुकः
समपद्यत । स तु भाराभिभूतात्मा न तथाशीघ्रगोऽभवत्”
भा० व० १५ ७ अ० । “अतिमात्रं लघूनि स्युर्गात्राणि
गुरुकाणि च” । “गुरुकावस्थिरावूरू न स्वाविव च
मन्यते” सुश्रुतः ।
गुरोर्भावः इमनिच् गरादेशः गरिमन् पु० अण् गौरव न०
तल् गुरुता स्त्री त्व गुरुत्व न० । गुरुभावे पतनासम-
वायिकारणतावति गुणभेदे । अतिशयेन गुरु इष्ठन्,
ईयसुन् गरादेशः । गरिष्ठ गरीयस् अतिगुरौ त्रि०
ईयसूनि स्त्रियां ङीप् । गुरुं करीति णिच् गरादेशः
गरयति ।

गुरुकुण्डली स्त्री गुरुर्जीवः प्रधानभत्र तादृशी कुण्डली

चक्रभेदः । जन्मनक्षत्रभदेन जन्मावध्येकैकवषाधिप-
ज्ञाषके चक्रभेदे तत्र हि चक्रे गुरोर्सध्यस्थित्या
इतरेषामष्टानां ग्रहाणामष्टदिक्षु स्थित्या च गुरप्रधानत्वं
तत्स्वरूपफलाद्युक्तं पञ्चस्वरायां यथा
“रविश्चन्द्रकुजः सौम्यो गुरुः शुक्रः शनैश्चरः । राहुः
केतुश्च विज्ञेया सर्वथा गुरुकुण्डली । कृत्तिकादीनि
ऋक्षाणि त्रिरावृत्ति क्रमान्न्यसेत् । जन्मर्क्षं खेचरे यत्र
जन्माद्यव्दास्ततः क्रमात्” । कुण्डलीद्वयस्य फलमाह ।
शुभं विधौ बुधे च स्यात् मरणं राहुमन्दयोः । गुरुद्वये
महासौख्यं दुःखं स्याद्गोमसूर्य्ययोः” । “पताकी कुण्डली
केतोः कुण्डली च वृहस्पतेः । सर्वत्र पापसंयोगे
संशयो जायते महान्” ।

गुरुक्रम पु० गुरुरेव क्रमो यत्र । पारम्पर्य्योपदेशे हला०

गुरुगीता स्त्री गुरुस्तवनभूता गीता । गीताभेदे ।

गुरुघ्न पु० गुरुं गुरुतां हन्ति हन--ढक् । १ गौरसर्षपे राजनि०

२ गुरुहन्तार त्रि० स्त्रियां ङीप् ।

गुरुण्यक पु० गुरुं गुरुतां दुजरतां रुण्टति रुटि--स्तेये ण्वुल् पृषो० । तिलमयूरे त्रि० ।

गुरुतम त्रि० तशयेन गुरुः । अतिगुरौ “त्रयः पुरु

षस्यातिगुरवो भवन्ति माता पिता चार्य्यश्चेति” विष्णुक्ते
२ मात्रादौ ३ अतिग रुत्ववति च । ४ परमेश्वरे पु० । “गुरु-
र्गुरुतमो धामसत्यः सत्यपराक्रमः” विष्णुस० । “विरि-
ञ्च्यादीनामपि ब्रह्मविद्याप्रवर्त्तकत्वात् गुरुतमः । “यो वै
ब्रह्माणं विदधाति पूर्वं यश्चास्मै प्रहिणोति वेदम्” इति
श्रुतेः भा० । “पूर्वेषामपि गुरुः कालनानवच्छेदात्” पात०
सू० । तस्य सर्वेषां गुरूणामुपद्देष्टृत्वात् गुरुतमत्वमुक्तम् ।

गुरुतल्प पु० गुरोः पितुस्तल्पं तल्प भार्य्या यस्य । १ विमातृ

गन्तरि । स च महापातको तत्प्रायश्चित्तमाह स्म
मनुः । “गुरुतल्पोऽभिभाष्यैनस्तप्ते सुप्यादयोमये ।
शूर्म्भीं ज्वलन्तीं वाश्लिष्येन् मृत्युना स विशुध्यति”
“मातृगमनं दुहितृगमनं स्नुषागमनमित्यतिपातकानीति
विष्णुहारीताभ्यां स्वमातृगमनस्यातिपातकत्वेनाभिधा-
नात् परिशेषात् गुरुतल्पपदं विमातृपरम् यथा च गुरु-
शब्दस्यात्र पितृमात्रपरता तथा गुरुतल्पगशब्दे वक्ष्यते ।
६ त० । २ गुरुभार्य्यायाम् “गत्वैतदेव कुर्वीत गुरुतल्पमकामतः”
प्रा० वि० व्यासः । “ब्रह्महत्या सुरापानं गुरुतल्पगमनं ब्राह्म-
णस्वर्ण्णाहरणं द्विजातीनां महापातकम्” च्यवनः ।

गुरुतल्पग पु० गुरोः पितुस्तल्पं भार्य्यां गच्छति गम--ड ।

विमातृगन्तरि स च महापातकी । महापातकमध्ये
गुरुतल्पगमनमुक्तं तत्र गुरुतल्पशब्दार्थनिर्ण्णये बहूनि
मतानि सन्ति तानि च पूर्वपक्षीकृत्य निरस्य विमा-
तृगमनपरत्वं प्रा० विवेके गिर्ण्णीतं यथा
“तत्र को गुरुः का चाङ्गना । तत्र कश्चित् पितैव
गुरुः तथा च मनुः “निषेकादीनि कर्म्माणि यः करोति
यथाविधि । सम्भावयति चान्नेन स विप्रो गुरुरुच्यते ।
याज्ञवलक्यः “स गुरुर्यः क्रियाः कृत्वा वेदमस्मै प्रय-
च्छति । उपनीय ददद्वेदमाचार्य्यः स उदाहृतः” । क्रि-
यानिषेकादिकाः । आभ्यां गर्भाधानादिक्रियाकर्त्तरि
गुरुशब्दस्य सङ्केतितत्वात् पिता गुरुस्तस्याङ्गना स्त्री माता
तत्सपत्नी च सा च सवर्णा चोत्तमवर्णा च न हीनवर्णा
तद्गमने गुरुतल्पगमनसमानत्वस्य वक्ष्यमाणत्वात् तदगमनं
न महापातकमिति । तदसङ्गतम् आचार्य्यादेरपि गुरुत्व-
श्रवणात् एतयोर्वचनयोरन्यनिषेधार्थत्वाभावात् । तथा
च मनुरेवान्यं गुरुमाह “पिता वै गार्हपत्योऽग्नि-
र्माताग्निर्दक्षिणः स्मृतः । गुरुराहवनीयस्तु साग्नि-
त्रेता गरीयसी । इमं लोकं मातृभक्त्या पितृभक्त्या
तु मध्यमम् । गुरुशुश्रूषया त्ववं ब्रह्मलोकं समश्नुते ।
अल्पं वा बहु वा यस्य श्रुतस्योपकरोति यः । तमपीह
गुरु विद्यात् श्रुतोपक्रियया तया” । तथा गोतमः
“आचार्य्यः श्रेष्ठो गुरूणां मतः” इत्येके । पितरि सङ्केति
तत्वादाचार्य्ये गौणं गुरुपदामति चेन्न आचार्य्यादा-
वपि सङ्केतदर्शनात् यथा विष्णुः “त्रयः पुरुषस्याति-
गुरवो भवन्ति माता पिता आचार्य्यश्चेति” । तथा
पृष्ठ २६१७
देवलः “आचार्य्यश्च पिता ज्येष्ठो भ्राता चैव महीपतिः ।
मातुलः श्वशुरस्त्राता मातामहपितामहौ । वर्णज्येष्ठः
पितृव्यश्च पुंस्येते गुरवो मताः” । त्राता प्राणरक्षकः
वर्णश्रेष्ठः क्षत्रियादीनां ब्राह्मणः । अनेनैकादश गुरवः
सङ्केतिताः । कथमनेकेषामेकगुरुशब्दवाच्यत्वमेकस्य
प्रवृत्तिनिमित्तस्याभावादिति “चेन्न गुरुरनुगन्तव्यः”
इत्यादि श्रुत्या सदापरितोषणीयत्वादिधर्मस्यैकस्योपाधित्वात्
यद्यप्याचार्य्यस्यैव परितोषणीयत्वं श्रूयते तथाप्यन्येष्वति
दिश्यते ततोऽतिदिष्टघर्माऽप्येकपदप्रवृत्तावुपाधिर्भवति
इष्टिपदप्रवृत्ताविव तद्धर्मसम्बन्धः । शास्त्रीयगुरुशब्दप्रवृ-
त्तिविषयत्वं वोपाधिः । भवतु वा विशेषाग्रहात् अक्षा-
दिशब्दवदनेकार्थत्वे को दोषः । अथाचार्य्यपरत्वे गुरु-
शब्दस्य कथमाचार्य्यपत्न्यभिगमने गुरुतल्पातिदेशः तथा
च गोतमः “आचार्य्यपुत्रशिष्यभार्य्यासु चैवमिति” तथा
याज्ञवल्क्यः “मातुःसपत्नीं भगिनीमाचार्य्यतनयान्तथा ।
आचार्य्याणीं स्वाञ्च सुतां गच्छंस्तु गुरुतल्पगः” इति, न
एतस्य हीनजातीयपत्न्यभिप्रावेणाप्युपपत्तेः अतिदेशस्योप-
देशसापेक्षत्वात् प्रथमावगतोपजीव्यगुरुशब्दसङ्कोचे हे
त्वभावात् । न च “पितृभार्य्यां समारुह्य मातृवर्ज्जं
नराधमः । भगिनीञ्च निजां गत्वा निष्कृतिर्न विधीयते” इति
संवर्त्तवचने पितृशब्ददर्शनात् सामान्यवाचिगुरुशब्दे
सङ्कोचोऽस्त्विति वाच्यम् एतस्य प्रायश्चित्तविधिपरत्वेनाचा-
र्य्यादिव्य दासपरत्वाभावात् अन्यथोभयपरत्वे वाक्यभेदा-
पत्तेः । पितृपदस्य गुरोर्विशेषणरूपत्वाभावात् न
सामान्यवचनसङ्कोचकत्वम् किञ्च याज्ञवल्क्यस्वरसात् निषे-
कादिवेददानान्तकर्मकर्त्तुरेवाङ्गना गुर्वङ्गना तद्गमने
महापातकं क्षत्रियादीनां न भवत्तेषां वेदाध्यापकत्वाभावात्
किञ्चैवमवेददातुर्ब्राह्मणस्य पितुर्गुरुत्वाभावात् तदङ्गना-
गसनं महापातकं न स्यात् । किञ्चैवं मातृगमनस्य
महापातकत्वे “मातृगमनं दुहितृगमनं स्नुषागधनमि-
त्यतिपातकानीति” विष्णुहारीतवचनविरोधश्च स्यात्
तस्मान्मातृव्यतिरेक्तैकादशगुर्वङ्गनागमनमेव महापातकमिति
युज्यते देवलवचनादिति । अत्र भवदेवेनोक्तं नात्र
गुरोरङ्गना गुर्वङ्गनेति” षष्ठीसमासः षष्ठीतत्पुरुषस-
मासस्याश्रयणे निषादस्थपतिवत् षष्ठ्यर्थलक्षणापत्तेः ।
अतो गुरुश्चासावङ्गना चेति कर्म्मधारयः । गुरुत्वञ्च मा
तुरेव न मातुः सपत्न्याः शरीरीत्पादकत्वेनोपाधिना
मातापित्रोरेव गुरुशब्दाभिधेयत्वात् । अतएवाचार्य्यादि-
षु गुरुशब्दो गौणस्तद्धर्म्मप्रतिपत्त्यर्थः । ग
गच्छदित्यत्रागत्या षष्ठीसमासः पत्नीशब्दस्य स्वपरिणीता-
वचनत्वात् । गुरुश्चासौ पत्नी चेतिं यदपेक्षया गुरुत्वं
तदपेक्षया पत्नीत्वायोगात् न कर्म्मधारयः । इहत्व-
ङ्गनाशब्दस्य स्त्रीमात्रवचनत्वात् युज्यत एवेति ।
अतोऽत्र गुरुशब्दस्य मातृपरत्वे गुरुपत्नीं न गच्छे-
दित्यत्रापि मातृपरत्वमेव सामानाधिकरण्याभावात् ।
“गुरुतल्पोऽभिभाष्यैनः” इत्यत्र गुरुः तल्पं तल्पं
कलत्रं यस्येति मातुरेव ग्रहः । अतएव मातुः सपत्नी-
मिति याज्ञवल्क्यवचने मातुः सपत्न्यामाचार्य्यपत्न्याञ्च
गुरुतल्पातिदेशो घटते एवेति, तदसङ्गतम् “मातृमगनं
दुहितृगमनं स्नुषागमनमित्यतिपातकानीति” विष्णुहा
रीताभ्यां मातृगमनस्यातिपातकत्वाभिधानात् । न चा
त्र मावृसपत्नीपरत्वं मातृशब्दस्य मुख्यार्थत्यागापत्ते
जननीवचनत्वात् । न च षष्ठीसमासे लक्षणायामपि
मुख्यार्थत्यागः किञ्च कर्म्मधारयसमासे अङ्गनापदवैयर्थ्या-
पत्तिः गुरुगमनमित्येतावतैवार्थसिद्धेः । दुहितुश्च
पितृगमनमतिपातकमेव यथा पितुर्दुहितृगमनेऽतिपातक
पितृनिष्ठं, तथा दुहितुरपि पितृगमनेऽतिपातकं दुहितृ-
निष्ठम् एवं सर्वत्र उभयनिष्ठमेव । किञ्च गुरुपत्नीं न
गच्छेदित्यादिषु बहुषु वचनेषु गुरुपत्नी गुरुतल्पगुरुभा-
र्य्यादिपदस्थपत्न्यादिपदानामनर्थकता स्यात् गुरुपदेनैव
मातुः प्राप्तेः किञ्च निःसन्दिग्धार्थम् मातृपदमेव प्रयोक्तु
मुचितं मुनीनां न तु गुरुपत्न्यादिपदं सन्दिग्धार्थम् ।
एवं गौरवातिशयोऽपि वक्ष्यते । अतएव “सहस्रेण पितु-
र्माता गौरवेणातिरिच्यते” इति । जिकनस्तु आचार्य्य
पितृमहीपतीनामत्र गुरुशब्देनोपादानम् यथा देवलः
“उपाध्यायराजपितृभार्य्यागमनानि गुरुतल्पगमने कष्टत-
मानि” । पापातिशययुक्तार्नात्यर्थः । उपाध्यायोऽत्राचार्य्यः
यथा बौधायनः “पितुर्गुरोर्नरेन्द्रस्य भार्य्यां गत्वा प्रमादतः ।
गुरुतल्पी भवेत्तेन पूर्वोक्ता तत्र निष्कृतिः” पूर्वोक्ता निष्-
कृतिः तप्तलौहशय्याशयनादिः । गुरुरत्राचार्य्यः “नरेन्द्र-
ग्रहणाद्राजाऽत्राभिषिक्तक्षत्रियः । अतएव “राज्ञी
प्रव्रजिता धात्री” इत्यादिषु राक्षीपदं वैश्यनृपतिपत्नीपरम्
“आचार्य्याणीं स्वाञ्च सुतामित्याचार्य्याणीपदं हीनवर्णत-
त्पत्नी परमिति तच्चिन्त्यम् । उच्यते यद्यपि देवलवचनेनैकादश
गुरवो दर्शिताः तथाप्यत्र पितैव गुरुर्ग्राह्यो नाचार्य्यादिः
ततपत्नीगमनस्य गुरुतल्पगमनसमत्वानुपपत्तेः अनुपा-
पृष्ठ २६१८
तकत्वश्रुतेश्च । तथा च विष्णुः “पितृपितृव्यमातामहमा-
तुलश्वशुरनृपपत्न्यभिगमनं गुरुदारगमनसमं पितृस्वसृमा-
तृस्वसृश्रोत्रियर्त्विगुपध्यायमित्रपत्न्यभिगमनञ्चेत्यभिधाय
“अनुपातकिनस्त्वेते महापातकिनो यथा । अश्वमेधेन
शुद्ध्यन्ति तीर्थानुसरणेन वा” । न चात्राचार्य्यादिपत्नी-
नां हीनवर्णानां ग्रहणं नृपस्य क्षत्रियेतरस्य पत्न्या
इति युज्यते आचार्य्यभार्य्यादेर्विशेषत्वात् गुर्वङ्गनाश-
ब्दस्य सामान्यत्वात् सामान्यविशेषन्यायेन गुर्वङ्गनाशब्द-
एव सङ्कोचस्य युक्तत्वात् पितृपत्न्यास्तु हीनवर्णाया
युक्तमेव मातृगमनस्यातिपातकत्वात् सपत्नीमातृगमनस्य
गुर्वङ्गनीगमनत्वेन महापातकत्वात् अर्थादनुपातके
लघुनि हीनवर्णायाः पितृपत्न्याग्रहणं तथा च याज्ञ-
बल्क्यः “मातुः सपत्नीं भगिनीमाचार्य्यतनयां तथा ।
आचार्य्याणीं स्वाञ्च सुतां गच्छंस्तु गुरुतल्पगः” । गुरु-
तल्पगो गुरुतल्पगवदित्यर्थः । भगिन्यादिषु गुरुतल्प-
गत्वानुपपत्तेः । अत्र सुताऽसवर्णा ग्राह्या सवर्णासु-
तागमनस्यातिपातकत्वात् संवर्त्तः “पितृव्यदारगमने
भ्रातृमार्य्यागमे तथा । गुरुतल्पव्रतं कुर्य्यान्नान्या
निष्कृतिरुच्यते” । अत्र गुरुतल्पव्रतातिदेशात् पितृव्या-
दिभार्य्यागमनं न गुरुतल्पगमनमित्यवगम्यते अतएव
विष्णुवचने नृपाचार्य्यपत्नीगमनस्यानुपातकत्वश्रुतेः
पितुर्गुरोर्नरेन्द्रस्य” इति बौधायनवचनेऽपि गुरुतल्पपदं
गौणम् । अत्रापि पितृभार्य्या हीनवर्णा ग्राह्या विष्णु-
वचनैकवाक्यत्वात् अतः पितैव गुरुर्मनुवचनात् तत्पत्न्येव
गुर्वङ्गना सा तु न माता किन्तु सपत्नीमाता सा
च सवर्णोत्तमवर्णा च न तु हीनवर्णा विष्णुव-
चनेऽनुपातकत्वश्रुतेः एतेनैकादशानामेव गुरूणां मुख्य-
पत्नीगमनं महापातकं विष्णुवचने तु पत्नीपद-
ममुख्यस्त्रीपरमिति कल्पतरूक्तं निरस्तमेव । यद्यपि
पञ्चानां पितृत्वं श्रूयते यथा “जनकश्चोपनेता च यश्च
विद्यां (कन्यां) प्रयच्छति । अन्नदाता भयत्राता पञ्चैते
पितरः स्मृताः” इति तथापि जनकव्यतिरिक्ते
तद्गौणं लोके जनक एवाभिधानात् एकस्य प्रवृ-
त्तिनिमित्तस्याभावात् ननु जनकस्यापि संस्कारकर्त्तुरेव
मनुना गुरुत्वमुक्तं याज्ञवल्क्येन च “वेददातृत्वेनेति
कर्थ संस्काराकर्त्तुः पितुरवेददातॄणां क्षत्रियादीनाञ्च
गुरुत्वमिति न देवलवचनेन पितृमात्रेण गुरुत्वाव-
गतेः संस्कारकर्तृत्वं वेददातृत्वञ्चातिशयार्थमिति” प्रा० वि०

गुरुतल्पिन् पु० गुरोस्तल्पं गम्यत्वेनास्त्यस्य इति । विमातृ-

गन्तरि गुरुतल्पगशब्दे उदा० ।

गुरुताल पु० “एकएव गुरुर्यत्र गुरुतालः स कथ्यते” संगी० दा०

उक्ते अन्यवर्णरहिते गुरुतालवति तालभेदे ।

गुरुत्व न० गुरोर्भावः त्वण् । वैशेषिकादिमतसिद्धे पतनहेतौ

द्रव्यनिष्ठे गुणभेदे “अतीन्द्रियं गुरुत्वं स्यात् पृथिव्यादि
द्वये तु तत् । अमित्ये तदनित्यं स्यान्नित्ये नित्यमुदाहृ-
तम् । तदेवासमवायि स्यात्पतनाख्ये तु कर्मणि” भाषा०
“पतने आद्यपतने” मुक्ताव० । तस्याप्रत्यक्षत्वे कारणं
कणा० सू० वृत्त्योर्दर्शितं यथा
ननु गुरुत्वमप्यनेकद्रव्यसमवेतं रूपमहत्त्वसमा-
नाधिकरणञ्चेति कथं न प्रत्यक्षमत आह” उप० वृ०
“तस्य भावादव्यभिचारः” सू० ।
“तस्य रूपत्वादेः सामान्यस्य उद्भवस्य च गुरुत्वेऽभावान्न
गुरुत्वं प्रत्यक्षम् । ननु मा भूत् तत्र रूपत्वादिकं
तथापि तत्प्रत्यक्षं स्यादत आह अव्यभिचार इति
एकैकेन्द्रियग्राह्यत्वं प्रति रूपत्वादीनां पञ्चानां जाती-
नाम् अव्यभिचारो नियम एव यत्रैव रूपत्वादिपञ्च-
कान्यतमत् तत्रैव बाह्यैकैकेन्द्रियग्राह्यत्वं तद्व्यति-
रेकादित्यर्थः, सूत्रे तु गुरुत्वाधिकारस्यास्प टत्वात्
प्रशस्तदेवैरतीन्द्रियेषु मध्ये परिगणितमपि वल्लभाचार्य्यैः
स्पार्शनमुक्तं गुरुत्वे ।” उप० वृ० ।
गुरुत्वञ्च प्रतिबन्धकाभावे एव यथा पतनेऽसमवायि-
कारणं तथा “संयोगाभावे गुरुत्वात् पतनमित्यादि-
“संस्काराभावे गुरुत्वात् पतनमित्यन्तं कणादसूत्रवृत्ति-
वाक्यं ५४३ पृ० दर्शितम् । तच्च गुरुत्वं पृथ्वीसलिलयो
र्धर्मः इति नैयायिकादयः सांख्यास्तु “गुरु वरणकमेव तमः
इत्युक्तेः तमोगुणस्यैव धर्म इत्याहुः तच्च वाक्यं गुणवृ-
त्तिशब्दे २६०८ पृ० दर्शितम् “गृष्टिर्गुरुत्वाद्वपुषोनरेन्द्रः”
“मेने परार्द्ध्यमात्मानं गुरुत्वेन जगद्गुरोः” रघुः ।
तल् । गुरुताप्यत्र स्त्री “नाकृतिगुरुता गुरुता विक्रम
गुरुता गरीयसी ख्याता” उद्भटः । “अवधार्य्य काय्य गुरु-
ताम्” माघः । “गुरुता मण्डलेश” त्वम्नील० ता उक्ते
मण्डलैश्चर्य्ये च ।

गुरुदैवत पु० गुरुर्दैवतमस्य । पुष्यनक्षत्रे हेमच० अश्लेषाशब्दे ४९८ पृ० दृश्यम् ।

पृष्ठ २६१९

गुरुपत्नी स्त्री ६ त० । गुरुः आचार्य्यः पतिर्यस्या वा नुङ् ङीष् ।

गुरोः मवर्णावामसमवर्णायाञ्च स्त्रियाम् । तयोर्वृत्ति-
भेदो मनुनोक्तो यथा
“गुरुवत् प्रतिपूज्याः स्युः सवर्णा गुरुयोषितः ।
असवर्णास्तु संपूज्याः प्रत्युत्थानाभिवादनैः । अभ्यञ्जनं स्ना-
पनञ्च गात्रोत्सादनमेव च । गुरुपत्न्या न कार्य्याणि
केशानाञ्च प्रसाधनम् । गुरुपत्नी तु युवतिर्नाभिवाद्ये-
ह पादयोः । पूर्णविंशतिवर्षेण गुणदोषौ विजानता”
“कामन्तु गुरुपत्नीनां युवतीनां युवा भुवि । विधिवद्
वन्दनीकुर्य्यादसावहमिति ब्रुवन् । विप्रोष्य पादग्रहण-
मन्वहं चाभिवादनम्” । “गुरुदारेषु कुर्वीत सतां धर्म-
मनुस्मरत्” मनुः । ग्ररोः पितुः स्त्री । २ मातरि ३ विमातरि च ।

गुरुपत्रा स्त्री गुरुपाके दुर्ज्जरं पत्रमस्याः ।

१ तिन्तिडीवृक्षे शब्दरत्ना० २ वङ्गे धातौ न० हेम० ।

गुरुपुत्र पु० ६ त० । आचार्य्यादिगुरूणां पुत्रे । तत्र वृत्ति-

भेदो मनुना दर्शितो यथा
“श्रेयःसु गुरुवद् वृत्तिं नित्यमेव समाचरेत् । गुरु-
पुत्रेषु चार्य्येषु गुरोश्चैव स्वबन्धुषु” मनुः “गुरुपुत्रश्चात्रा-
ऽशिष्योऽधिकवयाश्च बोद्धव्यः शिष्यबालसमवयसामन-
न्तरं विशेषस्य वक्ष्यमाणत्वात्” कुल्लू० । “बालः समान-
जन्मा वा शिष्यो वा यज्ञकर्मणि । अध्यापयन् गुरुसुतो
गुरुवन्मानमर्हति । उत्सादनञ्च गात्राणां स्नापनीच्छिष्ट-
भोजने । न कुर्य्यात् गुरुपुत्रस्य पादयोश्चावनेजनम्” मनुः

गुरुभ न० ६ त० । १ पुष्यनक्षत्रे “गुरुभं श्रवणस्तथाश्विनी-

हस्तम् ।” वृह० सं० ५५ अ० । २ धनुषि ३ मीने च राशौ ।

गुरुमर्दल पु० नित्यकर्म्म० । डिण्डिमवाद्ये शब्दर० ।

गुरुरत्न न० गुरोः प्रियं रत्नम् । १ पुष्परागे मणौ राजनि० ।

२ गोमेदे च तस्य तत्प्रियत्वं नवरत्नशब्दे दृश्यम् गुरुम-
ण्यादयोप्युमयत्र ।

गुरुराहु पु० गुरुणा सह राहुर्यत्र । कालाशुद्धिहेतौ

राहुजीवयोर्योगे “व्रतदीक्षे न कुर्वीत तमोयुक्ते
वृहस्पतौ” व्रतदीक्षे इति नित्येतरकर्म्मोपपलक्षणपरम्
“एकराशौ स्थितौ स्यातां यदि राहुवृहस्पती । विवाह-
व्रतयज्ञादि सर्वं तत्र विवर्ज्जयेत्” स्मृतिसारे ज्यो०
वचनात् । “ऋक्षभेदेऽप्येकराशौ सम्पर्को यदि वाऽनयोः ।
गुरुराह्वोरपि तदा त्यजेद्विद्वान्न संशयः” भविष्यपु० ।
अत्र गुरोर्लज्जितत्वं हेतुः । “यत्र यत्र स्थितो जीव
स्तमोयोगेन लज्जते । उपहासाय किन्न स्यादसत्सङ्गो
मनीषिणाम्” । गुरुचण्डालादयोऽप्यत्र ।

गुरुवर्च्चोघ्न पु० गुरुवर्च्चो विष्ठाविबन्धस्तं हन्ति हन--टक् ।

(पातिलेवु) लिम्पाके शब्दच० ।

गुरुवर्त्तिन् पु० गुरौ गुरुकूले वर्त्तते वृत--णिनि । १ गुरु-

कुलवासिनि ब्रह्मचारिणि गुरुवासिन्प्रभृतयोऽप्यत्र ।
“अष्टाशीतिसहस्राणां यतीनामूर्द्ध्वरेतसाम् । स्मृतं स्थानं
तु यत्तेषां तदेव गुरुवासिनाम्” शब्दाथचि०
धृतवाक्यम् । गुरौ वर्त्तते णिनि । २ गुरुशुश्रूषके च ।

गुरुवर्ष न० पु० ६ त० ज्योतिषोक्ते गुरुओर्मध्यगत्या राशिभोग-

कालात्मके वर्षभेदे वृह० सं० ८ अ० वृहस्पतिचाराध्याये
तद्वर्षमध्ये गुरोरस्तोदयात् तत्संज्ञाभेद उक्तो यथा
“नक्षत्रेण सहोदयमुपगच्छति येन देवपतिमन्त्री । तत्सञ्ज्ञं
वक्तव्यं वर्षं मासक्रमेणेव । वर्षाणि कार्त्तिकादीन्याग्नेया-
द्भद्वयानुयोगीनि । क्रमशस्त्रिभं तु पञ्चममुपान्त्यमन्त्यं च
तद्वर्षम्” । “सहोदयमस्तं वा येन यातीति” पाठं प्रकल्प्य
“नक्षत्रेण गुरुभुज्यमाननक्षत्रेण आग्नेयं कृत्तिका ।
पञ्चमं फाल्गुनम् अन्त्यमाश्विनं उपान्त्यं भाद्रपदम् ।
“अन्त्योपान्त्यौ त्रिभौ ज्ञेयौ फाल्गुनश्च त्रिभोमतः ।
शेषामासाद्विभाज्ञेयाः कृत्तिकादिव्यवस्थया, इति
वचनात् । “द्वे द्वे चित्रादिताराणां पूर्णपर्वेन्दुसङ्गते ।
मासाश्चैत्रादयोज्ञेयास्त्रिकैः षष्ठान्त्यसप्तमाः इति सङ्क-
र्षणवाक्यात् पर्वेन्दुसङ्गते पौर्णमासीसंयुते । तदेकवाक्य-
तया पूर्ववचने पौर्णभासीलाभः । तथा च यथा मासानां
पौर्णमास्यां कृत्तिकादिसम्बन्धात् कार्त्तिकादित्वं
तथावर्षाणां वृहस्पतेरस्तोदयसम्बन्धात् कार्त्तिकादित्वं
तेन कृत्तिकारोहिण्योरेकतरस्मिन् वृहस्पतेरस्तोदयैक-
तरलाभे कार्त्तिकवर्षम् एवं मार्गशीर्षादि । यत्र वर्षद्वय-
घटकयोर्नक्षत्रयोरेकतरस्मिन्नस्तं गतो गुरुरन्यस्मिन्नुदेति
तत्र का गतिरिति चेत् कार्त्तिकोत्तरं मार्गशीर्षं तदुत्तरं
पौषमित्यादिक्रमाद् गतिः” मल० त० व्याख्यातम् ।
“नक्षत्रनाम्ना मासास्तु ज्ञेयाः पर्वान्तयोगतः । कार्त्ति-
क्यादिषु संयोगे कृत्तिकादिद्वयं द्वयम् । अन्त्योपान्त्यौ
पञ्चमश्च त्रिधा मासत्रयं स्मृतम् । वैशाखादिषु कृष्णे च
योगः पञ्चदशे तिथौ । कार्त्तिकादीनि वर्षाणि गुरोर-
स्तोदयात् तथा” सू० सि० तस्य रङ्ग० व्याख्या
अव्दशब्दे २७१ पृ० दर्शितापि स्मरणार्थं दिग्मात्रमत्रो-
च्यते “वृहस्पतेः सूर्य्यसान्निध्यदूरत्वाभ्यामस्तादुदयाद्वा
वैशाखादिषु द्वादशसु मासेषु कृष्णपक्षे पञ्चदशे तिथो
अमायामित्यर्थः चकारः पौर्णमासीसम्बन्धसमुच्चयार्थकः ।
योगो दिननक्षत्रसम्बन्धः । कार्त्तिकादीनि द्वादश वर्षाणि ।
वैशाखकृष्णपक्षामायां मुरोरस्ते तस्य (पौर्ण्णमास्यां वा)
पृष्ठ २६२०
उदये जाते सति तदादि गुरुवर्षं कृत्तिकादिनक्षत्र-
सम्बन्धात् कार्त्तिकसंज्ञं भवति । अमेत्यत्युपलक्षणम् तेन
यद्दिने गुरोरस्तोदयौ तद्दिने यच्चन्द्राधिष्ठितनक्षत्रं
तत्संज्ञं वार्हस्पत्यं वर्षं भवतीति तात्पर्य्यम्” संक्षेपः ।
अत्र चन्द्राक्रान्तनक्षत्रवशेन गुरुवर्षसंज्ञायाः कार्त्तिकादि
शब्दस्य योगरूढ़त्वमाश्रित्य रङ्गनाथेनोक्तिः । तथाहि
“नक्षत्रेण युक्तः कालः” पा० सूत्रे नक्षत्रपदस्य चन्द्रा-
धिष्ठिततत्समीस्थनक्षत्रपरत्वमन्यथाराशिचक्रान्तर्गततत्त-
न्नक्षत्राणां कालभेदेनोदयात्तद्योगस्य प्रतिदिनं सत्त्वेन
नक्षत्रयोगमात्रस्याव्यावर्त्तकत्वम् । तस्य च “लुबविशेषे”
पा० लुप् लुप्ताऽणा प्रत्ययेन च चन्द्राधिष्ठितकृत्तिकादिनक्ष-
त्रयुक्तस्य तत्समीपस्थरोहिण्यादियुक्तस्य च कालस्य
बोधनम् न तु गुरुभुज्यमाननक्षत्रयुक्तकालस्य बोधनम् ।
स च कालः यत्रास्ति अर्श० अचि कार्त्तिकादेर्वर्षस्य बोधः ।
रघु मते तु कार्त्तिकशब्दे १९४९ पृ० दर्शितजयादित्यव्या-
ख्यानुसारेण “सास्मिन् पौर्णमासीति संज्ञायामिति”
पा० सूत्रे अस्मिन्निति पदस्यार्द्धमासमासवर्षपरत्वेऽपि
वर्षपरत्वपक्षे अनेकपूर्णिमाणां वर्षघटकत्वेन तद्योगेन
सज्ञाविशेषानाधायकत्वेन योगार्थाभावात् केवलरूढ़त्वं
पारिभाषिकत्वं वाश्रित्य गुरुभुज्यमाननक्षत्रे गुरोर-
स्तोदयवशात् तन्नामोक्तिरिति मतभेदः । उभयमते-
ऽपि उदयशब्दस्य सूर्य्यसान्निध्यविशेषोत्तरमुदयपरता
न तु प्रत्यहं कालभेदेन जायमानोदयगिरिसम्बन्धमात्र-
परता तस्य सदातनत्वेनाविशेषात् । तत्राप्ययं विशेषः
यद्दिने गुरोरस्तोदयौ तद्दिने यच्चन्द्राधिष्ठितनक्षत्रं
तत्संज्ञं वार्हस्पत्यं वर्षमिति रङ्गनाथोक्तिः अमायाम-
स्तोदययोरेव बोध्या । अमायां हि सूर्यचन्द्रयोरेकराशि-
स्थत्वेन गुरोरपि तत्रस्थितत्वेनास्तत्वात् । पूर्णिमायान्तु
नैतत्सम्भवः तदा चन्द्रस्य सूर्य्यात् सप्तमराशिस्थत्वेन
गुरोश्चन्द्राधिष्ठितनक्षत्रस्थत्वेऽस्तत्वासम्भवात् । अत्र
पूर्णिमायां गुरोरस्तोदययोश्चन्द्राधिष्ठितनक्षत्रं विनाऽपि
सम्भवात् तत्र जीवभुज्यमाननक्षत्रनाम्नैव वर्षसंज्ञा
तदभिप्रायेणैव “ज्येष्ठामूलोपगे जीवे” इति वक्ष्यमाणवचनं
द्रष्टव्यम् नक्षत्रेण सहोदयमित्यस्य “तक्षत्रेण गुरु-
भुजामाननक्षत्रेणेति” रघु० व्याख्या च बोध्या । रङ्ग-
नाथमते तु नक्षत्रेण चन्द्राक्रान्तनक्षत्रेण सह चन्द्रा-
र्काभ्यां सममित्येव व्याख्या अमायाञ्च तयोरेकराशिस्थत्वात्
धथोक्तिः अस्मिन् पक्षे च सह शब्दस्य सार्थक्यं रघु०
मते तु सहशब्दवैयर्थ्यां बोध्यम् । वस्तुतः चान्द्रमाससं-
ज्ञाभेदे चन्द्राक्रान्तनक्षत्रस्य प्रयोजकत्ववत् गुरुवर्षसंज्ञाभेदे
गुरुभुज्यमाननक्षत्रस्यैव प्रयोजकत्वं युक्तमन्यवर्षसंज्ञा-
भेदेऽन्याक्रान्तनक्षत्रस्य प्रयोजकत्वानौचित्यात् । अत्रेदं
बोध्यम् “द्वासप्ततिर्महत्यस्ते इत्युक्तेः” ७२ द्वासप्ततिसा-
वनदिनैर्वार्द्धक्यास्तत्ववाल्यसम्भवेन वार्द्धक्यवाल्यकाल-
परित्यागेन अस्तकालस्य त्रिपक्षात्मकत्वेनामायामस्तत्वे
पूर्णिमायामुदयः पूर्णिमायामस्तत्वेऽमायामुदयः । अमाया
अपि द्वादशभागात्मकम्बेन सूर्य्याक्रान्तांशात् “एकाद-
शामरेज्यस्य” सू० सि० उक्तैकादशांशातिक्रमे गुरोरुद-
यसम्भवः । रङ्गनाथेन “सोहताग्रन्थेऽस्तोदयसम्बन्धात्
वर्षोक्तिः परन्त्विदानीमुदयादवर्षव्यवहारो गणकैर्गण्यते
इत्युक्तत्वात् गुरोरुदयवशादेव तद्वर्षगणना कार्य्या ।
अतएव “अस्तोदयात्तथा” सू० सि० वाक्यस्य अस्तोत्तरं
सूर्य्यसान्निध्यविशेषाधीनास्तकालादुत्तरम् उदय इति
व्याख्या अतएवैकवचनप्रयोगः अतएव च वृ० स० “नक्ष-
त्रेण सहोदयमुपगच्छति येनेति” उदयमात्रस्य वर्षनाम-
प्रयोजकतोक्तिः । तत्र “नक्षत्रेण सहोदयमस्तं वा येन
यातीति रघुनन्दनधृतपाठश्छन्दाभङ्गदोषादनादेयः ।
अत्रेदं बोध्यं ग्रहगतन्यूनाधिकसम्भावनया
ततोऽर्वाक् पश्चाद्वा उदयः सम्भाव्यते इत्यतोऽमेत्युपलक्षण-
मित्युक्तम् । चन्द्राधिष्ठितनक्षत्रद्योतनायैव सू० सि० “वैशा-
खादिषुकृष्णे च योगे पञ्चदशे तिथावित्युक्तं “सा वैशा-
खस्यामावास्या था रोहिण्या संबध्यते” इत्युक्तेः प्रायेण
तस्या रोहिणीसम्बन्धः सम्भाव्यते रोहिणीसम्बन्धे च
वर्षस्य कार्त्तिकत्वं रोहिण्याश्चन्द्राधिष्ठितकृत्तिकासमी-
पस्थत्वात् अतएव नक्षत्रद्वयसम्बन्धेन कात्तिकत्वादित्व-
कथनम् । तथा चायमर्थः । ३ । ४ । नक्षत्रयोः कार्त्ति-
कम् । ५ । ६ । मार्गशीर्षम् । ७ । ८ । पौषम् । ९ । १० ।
माघम् । ११ । १२ । १३ । फाल्गुनम् । १४ । १५ । चैत्रम् ।
१६ । १७ । वैशाखम् । १८ । १९ । ज्यैष्ठम् । २० । २१ । आषाढ़म्
२२ । २३ । श्रावणम् । २४ । २५ । २६ । भाद्रम् । २७ । १ । २ ।
नक्षत्रेषु आश्विनं वर्षम् । एवं द्वादश वर्षाणि भवन्ति । तेन
चन्द्राधिष्ठितशब्दस्य तदाक्रान्ततत्समीपर्क्षपरत्वम् “नक्ष-
त्रेण युक्तः कालः” पा० नक्षत्रशब्दस्य तादृशार्थकत्वेन
तत्प्रत्ययार्थरूपयोगेन तदर्थत्वौचित्यात् अतः कार्त्तिक-
वर्षस्य रोहिणीनक्षत्रसम्बन्धेऽपि सम्भवः । अतएव
“ज्यैष्ठे संवत्सरे चैव ज्यैष्ठमासस्य पूर्णिमः” इति “ज्येष्ठा
पृष्ठ २६२१
मूलोपगे जीवे वर्षं स्यात् शक्रदैवतम्” इत्युक्तिर्द्रष्टव्या ।
एवं कार्त्तिकादिगुरुवर्षनिमित्तेऽवधारिते इतलिदानीं
चिन्त्यते यथा चान्द्रमासस्य तत्तन्नक्षत्रयुक्तपौर्णमासी-
युक्तत्वेऽपि तद्घटितत्वेन शुक्लप्रतिपदादिदर्शान्तस्य
“साऽस्मिन् पौर्णमासीति संज्ञायाम्” पा० इत्यण्प्रत्यया-
न्तार्थतया ग्राह्यता तथा “वैशाखादिष्वित्यादिना
गुरोरस्तोदयसम्बन्धात् गुरुवर्षत्वेऽपि तस्य कतम आद्य-
न्तकाल इति सन्देहे अविशेषात् चान्द्रवर्षस्य सौरवर्षस्य
वा आद्यन्तकाल एव तस्याद्यन्तकाल इति केचित् ।
तन्न नक्षत्रसम्बन्धेन चान्द्रमासस्य ग्रहणे “साऽस्मिन्
पौर्णमासीति” पा० विहिताणा तत्तन्नक्षत्रयुक्तपौर्णमासी-
घटितकालस्य बोधनात् तदादित्वौचित्यात् । गुरुवर्षग्रहणे
तु तथाभूतपौर्णमासीमात्रस्याप्रयोजकत्वात् न चान्द्रादि-
वर्षादित्वकल्पनं किन्तु गुरोर्मध्यगत्या राशिभोगारम्भा-
न्तकाल एव कार्त्तिकादिगुरुवर्षाद्यन्तकालः वक्ष्यमाणबच-
नजातेभ्यः । रङ्ग० ना० मते तदादीत्युक्तेः सावनादिवत् गुरो-
रस्तोदयादिकालाद्यन्तकाल एव आश्विनादेर्गुरुवर्षतया
तदाद्यन्तकालो युक्त इतरस्यासन्निहितत्वात् इति भेदः ।
तच्च वर्षं तदीयोदयादियुक्ततदीयमध्यमराशिभोगावच्छि-
न्नकालः, अव्दशब्दे २७१ पृष्ठे दर्शितायाः “वृहस्पतेरस्त
उदये वा जाते सति तदादि वृहस्पतिवर्षमिति” सूर्य्यसिद्धा-
न्तटीकायां रङ्गनाथेन तदादीत्युक्तेः तदादिर्वेति भेदः ।
तन्मते मध्यमराशिपदं च राशिचक्रान्तर्गतत्रिशांशपरं
तेन यतमांशे उदयः पुनः राश्यन्तरे ततमेऽंशे
उदयकालपर्य्यन्तः राशिशब्दार्थः । अन्यमते तु राशिपदं
मेषादिराशिपरं तेन तदीयराशिभोगारम्भकालावधि
तदवसानपर्य्यन्त एवाश्विनादिवर्षाणामाद्यन्तकालः ।
इदमेव ज्यायः “वृहस्पतेर्मध्यमराशिभोगात् संवत्सरं
सांहितिका वदन्ति” सि० शि० उक्तेः “कल्पा-
दितो मध्यमजीवभुक्ता ये राशयः षष्टिहृतावशेषाः ।
संवत्सरास्ते विजयाश्विनाद्या इतीज्यमाने किल संहितो-
क्तमिति” तत्रत्यपाटान्तरात् “कल्पाव्दभक्ता गुरुराशयो
ये संवत्सराः स्युर्विजयादयस्ते । बभाषिरे सांहितिका
हि पूर्वे वर्षाणि तस्याश्विनपूर्वकाणि” श्रीपतिसमुच्चयोक्तेश्च ।
तेन मध्यमराशिभोगकालस्य गुरोरस्तोदयादाश्विनादिवर्ष-
संज्ञा । तथा च गुरोरेकैकमध्यमराशिभोगकालावच्छिन्नं
गुरवर्षमिति स्थिते यस्मिन् वर्षे गुरोरुदयास्तकाले अश्वि-
न्यादियोगस्तस्य वर्षस्याश्विनादिसंज्ञा एवं गुरुवर्षस्यैव
चान्द्रवर्षसौरवर्षयोरप्रवेशद्विप्रवेशाभ्यां तदीयाधिमासलुप्त-
वर्षोत्कीर्त्तनञ्च सङ्गच्छते यथाह मुहूर्त्तकल्पद्रुमे “चेत्
स्पष्टया वाप्यथ मध्यगत्या राश्यन्तरं यत्र च चान्द्रवर्षे ।
गुरुर्न यायादधिवत्सरोऽधिमासेन तुल्यः स शुभेषु
वर्ज्यः” । यशोधरतन्त्रे “एकस्मिन् रविवर्षे गौरववर्षद्वया-
वसानं चेत् । त्र्यव्दस्पृगेनमेवं विलुप्तसंवसरं प्राहुः” ।
ज्योतिर्विदाभरणे “गुरुसंक्रमयुग्मवत्समा गदिता सा ननु
लुप्तसंज्ञिता । न बुधैर्गदिता शुभेहिताऽधिसमा गीष्यति
संक्रमोज्झिता” । अतः सौरचान्द्रवर्षातिरिक्त एव आश्वि-
नादिगुरुवर्षः गुरोः उदयकालावधिः पुनरुदयकालपर्यन्तः,
तदीयेकैकभध्यमराशिभोगकालावच्छिन्नो वा स्वीकार्यः
इति तदादित्वमेव तस्येत्येवमवसीयते । एवञ्च
महाज्यैष्ठ्यादियोगेऽपि तदाद्यन्त एव ज्यैष्ठोग्राह्यः ।
कार्त्तिकादिगुरुवर्षफलं तद्वर्षेणैव विष्ण्वादिद्वादशवर्षरू-
पयुगानि प्रत्येकतदन्तर्गतसंवत्सरादिवर्षपञ्चकस्य विशेष
संज्ञा इत्येवं षष्टिवर्षास्तत्फलञ्च वृ० सं० उक्तं यथा
“शकटानलोपजीवकगोपीड़ाव्याधिशस्त्रकोपश्च । वृद्धिस्तु
रक्तपीतककुसुमानां कार्त्तिके १ वर्षे । सौम्ये २ (मार्गे)
ऽव्देऽनावृष्टिर्मृगाखुशलभाण्डजैश्च सस्यबधः । व्या-
धिभयं मित्रैरपि भूपानां जायते वैरम् ।
शुभकृज्जगतः पौषो ३ निवृत्तवैराः परस्परं क्षितिपाः ।
द्वित्रिगुणो धान्यार्धः पौष्टिककर्मप्रसिद्धिश्च । पितृपूजा-
परिवृद्ध्विर्माघे ४ महर्द्धिः सर्वभूतानाम् । आरोग्यवृष्टि-
धान्यार्धसम्पदो मित्रलाभश्च । फाल्गुनवर्षे ५ विद्यात्
क्वचित् क्वचित् क्षेमवृद्धिसस्यानि । दौर्भाग्यं प्रमदानां
प्रबलाश्चौरा नृपाश्चोग्राः । चैत्रे ६ मन्दा वृष्टिः प्रिय-
मन्नं क्षेममवनिपा मृदवः । वृद्धिस्तु कोशधान्यस्य भवति
पीड़ा च रूपवताम् । वैशाखे ७ धर्मपरा विगतभयाः
प्रमुदिताः प्रजाः सनृपाः । यज्ञक्रियाप्रवृत्तिर्निष्पत्तिः
सर्वसस्यानाम् । ज्यैष्ठे ८ जातिकुलधनश्रेणीश्रंष्ठा नृपाः
सधर्मज्ञाः । पीड्यन्ते धान्यानि च हित्वा कङ्गु
शमीजातिम् । आषाढ़े ९ जायन्ते सस्यानि क्वचिदवृष्टि-
रन्यत्र । योगक्षेमं मध्यं व्यग्राश्च भवन्ति भूपालाः ।
श्रावणवर्षे १० क्षेमं सम्यक् सस्यानि पाकमुपयान्ति । क्षुद्रा
योपाषण्डाः पीड्यन्ते ये च तद्भक्ताः । भाद्रपदे ११ वल्लीजं
निष्पत्तिं याति पूर्वसस्यं च । न भवत्यपरं सस्य
क्वचित् सुभिक्षं कचिच्च भयम् । आश्वयुजे १२ ऽव्देऽजस्रं
पतति जलं प्रसुदिताः प्रजाः क्षेमम् । प्राणचयः
पृष्ठ २६२२
प्राणभृतां सर्वेषामन्नबाहुल्यम् । उदगारोग्यसुभिक्ष-
क्षेमकरो वाक्पतिश्चरन् भानाम् । याम्ये तद्विपरीतो
मध्येन तु मध्यफलदायी । विचरन् भद्वयमिष्टस्तत्सार्धं
वत्सरेण मध्यफलः । सस्यानां विध्वंसी विचरेदधिकं
यदि कदाचित् । अनलभयमनलवर्णे व्याधिः पीते
रणागमः श्यामे । हरिते च तस्करेभ्यः पीड़ा रक्ते
तु शस्त्रमयम् । धूमाभेऽनावृष्टिस्त्रिदशगुरौ नृपबधो
दिवा दृष्टे । विपुलेऽमले सुतारे रात्रौ दृष्टे प्रजाः
स्वस्थाः । रोहिण्योऽनलभं ३ च वत्सरतनुर्नाभिस्त्वषाढ़ा-
द्वयं सार्पं ९ हृत् पितृदैवतं १० च कुसुमं शुद्धैः शुभं तैः
फलम् । देहे क्रूरनिपीड़ितेऽग्न्यनिलजं नाभ्यां भयं
क्षुत्कृतम्, पुष्पे मूलफलक्षयोऽथ हृदये सस्यस्य नाशो
ध्रुवम् । गतानि वर्षाणि शकेन्द्रकालाद्धतानि रुद्रै ११ र्गु-
णयेच्चतुर्भिः । नवाष्टपञ्चाष्टयुतानि कृत्वा विभाजयेच्छून्य-
शरागरामैः ३७५० । फलेन युक्तं शकभूपकालं संशोध्य
षष्ट्या विषयै ५ र्विभज्य । युगानि नारायणपूर्वकाणि
लब्धानि शेषाः क्रमशः समाः स्युः । एकैकमब्देषु
नवाहतेषु दत्त्वा पृथग्द्वादशकं क्रमेण । हृत्वा चतुर्भि-
र्वसुदेवताद्यान्युडूनि शेषांशकपूर्वमब्दम् । विष्णुः १
सुरेज्यो २ वलभिद् ३ हुताश ४ स्त्वष्टो ५ त्तरप्रोष्ठपदाधि-
पश्च ६ । क्रमाद्युगेशाः पितृ ७ विश्व ८ सोमाः ९
शक्रऽनलाख्या १० ऽश्वि ११ भगाः १२ प्रदिष्टाः । संवत्सरो-
ऽग्निः परि० त्सरोऽर्क इदादिकः शीतमयूखमाली ।
प्रजापतिश्चाप्यनुवत्सरः स्या दुद्वत्सरः शैलसुतापतिश्च ।
वृष्टिः समाद्ये प्रमुखे द्वितीये प्रभूततोया कथिता तृतीये ।
पश्चाज्जलं मुञ्चति यच्चतुर्थं स्वल्पोदकं पञ्चममव्दमुक्तम् ।
चत्वारि मुख्यानि युगान्यथैषां विष्ण्विन्द्रजीवानलदैव-
तानि । चत्वारि मध्यानि च मध्यमानि चत्वारि
चान्त्यान्यधमानि विद्यात् । आद्यं धनिष्ठांशमभिप्रपन्नो
माघेयदा यात्युदयं सुरेज्यः । षष्ट्यव्दपूर्वः प्रभवः स
नाम्ना प्रवर्त्तते भूतहितस्तदाव्दः । क्वचित्त्ववृष्टिः
पवनाग्निकोपः सन्तीतयः श्लेष्मकृताश्च रोगाः । संवत्स-
रेऽस्मिन् प्रभवे प्रवृत्ते न दुःखमाप्नोति जनस्तथापि ।
तस्माद्द्वितीयो विभवः २ प्रदिष्टः शुक्ल ३ स्तृतीयः परतः
प्रमोदः ४ । प्रजापतिश्चेति ५ यथोत्तराणि शस्तानि वर्षाणि
फलानि चैषाम् । निष्पन्नशालीक्षुयवादिसस्यां भयैर्विमुक्ता-
मुपशान्तवैराम् । संहृष्टलोकां कलिदोषमुक्तां क्षत्रं तदा
शास्ति च भूतधात्रीम् । आद्योऽङ्गिराः १ श्रीमुख २ मान-
साह्वौ ३ युवाथ ४ धातेति ५ युगे द्वितीये । वर्षाणि पञ्चैव
यथाक्रमेण त्रीण्यत्र शस्तानि समे परे द्वे । त्रिष्वङ्गि-
राद्येषु निकामवर्षी देवो निरातङ्कभयाश्च लोकाः ।
अव्दद्वयेऽन्त्येऽपि समा सुवृष्टिः किन्त्वत्र रोगाः समराग-
मश्च । शाक्रे युगे पूर्वमथेश्वराख्यं १ वर्षं द्वितीयं बहुधा-
न्य २ माहुः । प्रमाथिनं ३ विक्रम ४ मप्यतोऽन्यद्वृषं ५ च
विद्याद्गुरुचारयोगात् । आद्यं द्वितीयं च शुभे तु वर्षे
कृतानुकारं कुरुतः प्रजानाम् । पापः प्रमाथी वृषवि-
क्रमौ तु सुभिक्षदौ रोगभयप्रदौ च । श्रेष्ठं चतुर्थस्य
युगस्य पूर्वं यच्चित्रभानुं १ कथयन्ति वर्षम् । मध्यं द्वितीयं
तु सुभानु २ संज्ञं रोगप्रदं मृत्युकरं न तच्च । तारणं
३ तदनु भूरिवारिदं सस्यवृद्धिमुदितं च पार्थिवम् । पञ्चमं
व्ययमुशन्ति शोभनं ५ मन्मथप्रबलमुत्सवाकुलम् ४ । त्वाष्ट्रे
युगे सर्वजि १ दाद्य २ उक्तः संवत्सरोऽन्यः खलु सर्वधारी ३ ।
तस्माद्विरोधी ३ विकृतः ४ खरश्च ५ शस्तो द्वितीयोऽत्र भयाय
शेषाः । नन्दनो १ ऽथ विजयो २ जय ३ स्तथा मन्मथो ४ ऽस्य
परतश्च दुर्मुखः ५ । कान्तमन्त्र युग आदितस्त्रयं मन्मथः
समफलोऽधमोऽपरः । हेमलम्ब १ इति सप्तमे युगे स्या-
द्विलम्बि २ परतो विकारि ३ च । शर्वरीति ४ तदनु प्लवः ५
स्मृतो वत्सरो गुरुवशेन पञ्चमः । ईतिप्रायः प्रचुरपवनो
वृष्टिरव्दे तु पूर्वे मन्दं सस्यं न बहुसलिलं वत्सरेऽतो
द्वितीये । अत्युद्वेगः प्रचुरसलिलः स्यात्तृतीयश्चतुर्थो
दुर्भिक्षाय प्लव इति ततः शोभनो भूरितोयः । वैश्वे युगे
क्षोभकृ १ दित्यथाद्यः संवत्सरोऽतः शुभकृद् २ द्वितीयः । क्रोधी ३
तृतीयः परतः क्रमेण विश्वावसु ४ श्चेति पराभव ५ श्च । पूर्वा-
परौ प्रीतिकरौ प्रजानामेषां तृतीयो बहुदोषदोऽव्दः ।
अन्त्यौ समौ किन्तु पराभवेऽग्निः शस्त्रामयार्तिर्द्विजगो-
भयं च । आद्यः प्लवङ्गो १ नवमे युगे अव्दः स्यात्कीलको २
ऽन्यः परतश्च सौम्यः ३ । साधारणो ४ रोधकृ ५ दित्यथाव्दः
शुभप्रदौ कीलकसौम्यसंज्ञौ । कष्टः प्लवङ्गो बहुशः प्रजा-
नां साधारणेऽल्पं जलमीतयश्च । यः पञ्चमो रोधकृदि-
त्यथाव्दश्चित्रं जलं तत्र च सस्यसम्पत् । इन्द्राग्निदैवं
दशमं युगं यत् तत्राद्यमव्दं परिधावि १ संज्ञम् । प्रमाद्य
२थानन्द ३ मतः परं यत् स्याद्राक्षसं ४ चानल ५ संज्ञितं च ।
परिधाविनि मध्यदेशनाशो नृपहानिर्जलमल्पमग्निकोपः ।
अलसस्तु जनः प्रमादिसंज्ञे डमरं रक्तकपुष्पवीजनाशः ।
तत्परः सकललोकनन्दनो राक्षसः क्षयकरोऽनलस्तथा ।
ग्रीष्मधान्यजननोऽत्र राक्षसो वह्निकोपमरकप्रदोऽनलः ।
पृष्ठ २६२३
एकादशे पिङ्गल १ कालयुक्त २ सिद्धार्थ ३ रौद्राः ४ खलु दुर्म-
तिश्च ५ । आद्ये तु वृष्टिर्महती सचौरा श्वासो हनूकम्पयुतश्च
कासः । यत्कालयुक्तं तदनेकदोषं सिद्धार्थसंज्ञे बहवो
गुणाश्च । रौद्रोऽतिरौद्रः क्षयकृत् प्रदिष्टो यो दुर्मति-
र्मध्यमवृष्टिकृत् सः । भाग्ये युगे दुन्द्वुभि १ संज्ञमाद्यं सस्यस्य
वृद्धिं महतीं करोति । उद्गारि २ संज्ञं तदनु क्षयाय
नरेश्वराणां, विषमा च वृष्टिः । रक्ताक्ष ३ मव्दं कथितं तृती-
यं यस्मिन् भयं दंष्ट्रिकृतं गदाश्च । क्रोधं ४ बहुक्रोधकरं
चतुर्थं राष्ट्राणि शून्यीकुरुते विरोधैः । क्षयमिति ५
युगस्यान्त्यस्यान्त्यं बहुक्षयकारकं जनयति भयं तद्विप्राणां
कृषीबलवृद्धिदम् । उपचयकरं विट्शूद्राणां परस्वहृतां
तथा कथितमखिलं षष्ट्यव्दे यत्तदत्र समासतः ।
अकलुषांशुजटिलः पृथुमूर्त्तिः कुमुदकुन्दकुसुमस्फटिकाभः ।
ग्रहहतो न यदि सत्पथवर्त्ती क्षतिकरोऽमरगुरुर्मनुजा-
नाम्” । “वार्हस्पत्येन षष्ट्यव्दम्” सू० सि० ।

गुरुवृत्ति स्त्री गुरौ वृत्तिः । आचार्य्यादिगुरौ शिष्यैण

कर्त्तव्ये आचारभेदे सा च मनुनोक्ता यथा
“नोदितोगुरुणा नित्यमप्रचोदित एव वा । कुर्य्या-
दध्ययने यत्नमाचार्य्यस्य हितेषु च । शरीरञ्चैब वाचं च
बुद्धीन्द्रियमनांसि च । नियम्य प्राञ्जलिस्तिष्ठेद्वीक्षमाणी
गुरोर्मुखम् । नित्यमुद्धृतपाणिः स्यात् साध्वाचारः
सुसंयतः । आस्यतामिति चोक्तः सन्नासीताभिमुखं
गुरोः । हीनान्नवस्त्रवेशः स्यात् सर्वदा गुरुसन्निधौ ।
उत्तिष्ठेत् प्रथमञ्चास्य चरमञ्चैव संविशेत् । प्रतिश्रवण-
सम्भाषे शयानो न समाचरेत् । नासीनो न च मुञ्जानी
न तिष्ठन्न पराङ्मुखः । आसीनस्य स्थितः कुर्य्यादभि-
गच्छंस्तु तिष्ठतः । प्रत्युद्गम्य त्वाव्रजतः पश्चाद्धावंस्तु
धावतः । पराङ्मुखस्याभिमुखीदूरस्थस्येत्य चान्तिकम् ।
प्रणम्य तु शयानस्य निदेशे चैव तिष्ठतः । नीचं शय्यासन-
ञ्चास्य सर्वदा गुरुसन्निधौ । गुरोस्तु चक्षुर्विषये न यथेष्टा-
सनोभवेत् । नोदाहरेदस्य नाम परोक्षमपि केवलम्
(अश्रीपूर्वम्) । न चैवास्यानुकुर्वीत गतिभाषितचेष्टितम् ।
गुरोर्यत्र परीवादो निन्दा वापि प्रवर्त्तते । कर्णौ तत्र
पिधातव्यौ गन्तव्यं वा ततोऽन्यतः । परीवादात्
खरोभवति श्वा वै भवति निन्दकः । परिभीक्ता कृमिर्भवति
कीटो भवति मत्सरी । दूरस्थो नार्च्चयेदेनं न क्नुद्धं
नान्तिके स्त्रियाः । यानासने न चैवैनमवरुह्याभिवा-
दयेत् । प्रतिवातेऽनुवाते च नासीत गुरुणा सह ।
असंश्रवे चैव गुरोर्न किञ्चिदपि कीर्त्तयेत् । गोऽश्वो-
ष्ट्रयानप्रासादस्रस्तरेषु कटेषु च । नासीत गुरुणा सार्द्धं
शिलाफलकनौषु च । गुरोर्गुरौ सन्निहिते गुरुवद्वृत्ति-
माचरेत् । न चानिसृष्टो गुरुणा स्वान् गुरूनभि-
वादयेत् । विद्यागुरुष्वेतदेव नित्या वृत्तिः स्वयोनिषु ।
प्रतिषेधत्सु चाधर्म्मान् हितञ्चोपदिशत्स्वपि ।”
तान्त्रिकगुरौ वृत्तिभेदः तन्त्रसारे उक्तो यथा
“गुरौ सन्निहिते यस्तु पूजयेदग्रतो न तम् । स दुर्गतिमवा
प्नोति पूजा च विफला भवेत्” क्रियासारे । “एकग्रामे स्थितः
शिष्यस्त्रिसन्ध्यं प्रणमेद्गुरुम् । क्रीशमात्रस्थितो भक्त्या
गुरुं प्रतिदिनं नमेत् । अर्द्ध योजनतः शिष्यः प्रणमेत्
पञ्चपर्वसु । एकयोजनमारभ्य योजनद्वादशावधि ।
दूरदेशस्थितः शिष्यो भक्त्या तत्सन्निधिं गतः । तत्र
योजनसंख्योक्तमानेन प्रणमेद्गुरुम्” । ज्ञानार्णवे
“गुरौ मनुष्यबुद्धिन्तु मन्त्रे चाक्षरभावनाम् । प्रति-
मासु शिलाबुद्धिं कुर्वाणो नरकं व्रजेत् । जन्महेतू हि
पितरौ पूजनीयौ प्रयत्नतः । गुरुर्विशेषतः पूज्यो धर्म्मा-
धर्मप्रदर्शकः । गुरुः पिता गुरुर्माता गुरुर्देवो गुरुर्गतिः ।
शिवे रुष्टे गुरुस्त्राता गुरौ रुष्टे न कश्चन । गुरोर्हितं
प्रकर्त्तव्यं वाङ्मनःकायकर्म्मभिः । अहिताचरणाद्देवि!
विष्ठायां जायते कृमिः । मन्त्रत्यागाद्भवेन्मृत्युर्गुरुत्या-
गाद्दरिद्रता । गुरुमन्त्रपरित्यागाद्रौरवं नरकं व्रजेत् ।
गुरौ सन्निहिते यस्तु पूजयेदन्यदेवताम् । स याति
नरकं घोरं पूजा च विफला भवेत् । एकत्र गुरुणा
सार्द्धं गच्छेद्वोपविशेत्तु यः । स याति नरकं घोरं
यावदिन्द्राश्चतुर्दश । गुरुवाक्यं हतं कृत्वा आत्मवाक्यं
तु योजयेत् । गुरूक्तं लङ्घयेद्यस्तु पतेत् स नरकाय वै” ।
श्रीक्रमे “उत्पादकव्रह्मदात्रोर्गरीयान् ब्रह्मदः पिता ।
तस्मान्मन्येत सततं पितुरप्यधिकं गुरुम् । गुरुवद्-
गुरुपुत्रेषु गुरुवत्तत्सुतादिषु । अविद्यो वा सविद्यो वा
गुरुरेव च दैवतम् । अमार्गस्थोऽपि मार्गस्थो गुरुरेव
सदा गतिः । आयान्तमग्रतो गच्छेद् गच्छन्तं तमनुब्र-
जेत् । आसने शयने वापि न तिष्ठेदग्रतो गुरोः ।
अनुज्ञां प्राप्य तिष्ठेच्च नैवं पापमवाप्नुयात्” । क्रिया-
सारे “गुरुर्माता पिता स्वामी बान्धवः सुहृदः शिवः ।
इत्याधाय मनो नित्यं भजेत् सर्वात्मना गुरुम्”

गुरुशिंशपा स्त्री नित्यकर्म्म० । शिंशपाभेदे शब्दार्थचि० ।

गुरुसारा स्त्री गुरुः गुरुत्ववान् सारी यस्याः । (शिशु)

१ शिंशपायाम् । शब्दार्थचि० । २ महासारे वन्तुमात्रेत्रि०
पृष्ठ २६२४

गुरुस्कन्ध पु० गुरुः स्कन्धोऽस्य । १ श्रेष्ठपर्वतभेदे । “गुरुस्कन्धो

महेन्द्रश्च माल्यवान् पर्वतस्तथा । एते पर्वतराजानः”
भा० आश्व० ४३ अ० । २ श्लष्मातकवृक्षे शब्दार्थचि० ।

गुरुहन् पु० गुरुं गुरुपाकं हन्ति हन--क्विप् । १ दुर्जरघ्ने

गौरसर्षपे हेमच० २ गुरुहन्तरि त्रि० ।

गुरूत्तम त्रि० गुरूषु गुरूणां वा उत्तमः । १ पूज्यतमे २ परमेश्वरे

पु० । “तस्मै पूर्वगुरूत्तमाय जगतामीशाय पित्रे नमः”
आत्म० वि० । अत्र “न निर्द्धारणे” पा० षष्ठीसमासनि-
षेधात् सप्तमीतत्पुरुष इति बहवः । कैयटस्तु “यस्मा-
न्निर्द्धार्य्यते यश्च निर्द्धार्प्यते यश्च निर्द्धारणहेतुरेतत्त्रितय-
सन्निधाने सत्येवायं निषेधः इति “द्विवचने विभज्योपपदे”
पा० सूत्रे भाष्यकार आह स्म । पुरुषोत्तम इत्यादौ
त्रितयसन्निधानाभावात् न निर्द्धारणविभक्तिः किन्तु सम्ब-
न्धसामान्ये षष्ठीति तया समासः । अतएव “हलादिः
शेषः” पा० सूत्रे “हलामादिरिति षष्ठीसमास” इत्युक्तं
भाष्ये इत्युवाच “न निर्द्धारणे इति” सूत्रवृत्तौ नॄणां द्विजः
श्रेष्ठः इत्युदाहरता च कौमुदीकारेण त्रितयसन्निधान
एव समासाभावः सूचितः । यत्तु गदाधरेण एतदना-
लोच्य, षष्ठीसप्तमीसमासयोः स्वरकृतवैलक्षण्यञ्चानालोच्य
“न निर्द्धारणे” इत्यस्य षष्ठीसमासप्रकरणञ्चानवेक्ष्य
निर्द्धारणषष्ठ्या समासनिषेधे तदर्थकसप्तमीसमासोऽपि
निषिद्धः अन्यथा प्रयोगसाम्यात् सूत्रवैयर्थ्यमतो गुरूत्तम
इत्यत्र पञ्चमीतत्पुरुषोऽङ्गीकृतः, तत्तु साहलमात्रम् तथा
हि “पञ्चमी विभक्ते” पा० सूत्रे निर्द्धार्य्यमाणस्य भेद एव
पञ्चमीविधानात् तयोः सामान्यधर्माक्रान्तत्वाभावे एव
तस्याः प्रवृत्तेः । यथा माथुराः पाटलिपुत्रेभ्य आढ्यतभाः
अत्र पाटलिपुत्रस्थलोकानां माथुराणां च केनापि रूपेण
सामान्यधर्मत्वाभावेन उभयोर्भेद एव इति तत्र
पञ्चमीप्रवृत्तिः । गुरूत्तम इत्यादौ तु ईशस्यान्यगुरुनिष्ठ-
गुरुत्वरूपसामान्यधर्म्माक्रान्तत्वात्तदप्रवृत्तेर्न पञ्चमीसमासः
“अक्षरादपि चोत्तमः” (गीता) इत्यादौ तु अक्षरा-
च्चेतनवर्गात् तमपेक्ष्येति व्याख्या न्यायमते जीवेश्वरयो-
र्भेदेऽपि चेतनत्वसामान्यधर्म्माक्रान्तत्वेन तयोर्भेदाभावात्
न पञ्चमीप्रसक्तिः । वेदान्तिमते अक्षरशब्दस्य मायाप-
रत्वात् ईशमाययोर्भेदसम्भवात् पञ्चमीप्रसक्तिसम्भाव-
नायामपि तया पञ्चम्या न समासप्रसक्तिः पञ्चमी-
तत्पुरुषस्य वक्ष्यमाणसूत्रभ्यो विषयविशेषनियतत्वेनात्र
तदप्रसक्तेः । अक्षरशब्दस्य मायापरत्वञ्च गीताव्याख्यायां
मधुसूदनेन दर्शितं यथा
“द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च । क्षरः
सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते” गीता । “द्वौ इमौ
पृथग्राशीभूतौ पुरुषोपाधित्वेन पुरुषशब्दव्यपदेश्यौ
लोके संसारे, कौ तावित्याह क्षरश्चाक्षर एव च ।
क्षरतीति क्षरो विनाशी कार्य्यराशिरेकश्च पुरुषः, न
क्षरतीत्यक्षरो विनाशरहितः । क्षरस्य पुरुषस्योत्पत्ति-
वीजं भगवतो मायाशक्तिर्द्वितीयः पुरुषः । तौ पुरुषौ,
व्याचष्टे स्वयमेव भगवान्, क्षरः सर्वाणि भूतानि समस्तं
कार्य्यजातमित्यर्थः कूटस्थः कूटो यथार्थवस्त्वाच्छादनेना-
यथार्थवस्तुप्रकाशनं वञ्चनं मायेत्यनर्थान्तरं तेनावरण-
विक्षेपशक्तिद्वयरूपेण स्थितः कूटस्थः भगवन्माया-
शक्तिरूपः कारणोपाधिः संसारवीजत्वेनानन्त्यादक्षर
उच्यते । केचित्तु क्षरशब्देनाचेतनवर्गमुक्त्वा कूटस्थो
क्षर उच्यत इत्यनेन जीवमाहुः तन्न सम्यक्, क्षत्रज्ञ
स्यैवेह पुरुषोतमत्वेन प्रतिपाद्यत्वात् तस्मात् क्षरा-
क्षरशब्दाभ्यां कार्य्यकारणोपाधी उभावपि जड़ावेवो-
च्येते इत्येव युक्तम् । आभ्यां क्षराक्षराभ्यां
विलक्षणः क्षराक्षरोपाधिद्वयदोषेणोऽस्पृष्टो नित्यशुद्धबुद्ध-
मुक्तस्वभावः “उत्तमः पुरुषस्त्वन्यः परमात्म्येत्युदाहृतः ।
यो लोकत्रयमाविश्य विभर्त्त्यव्यय ईश्वरः” (गीता) ।
उत्तम उत्कृष्टतमः पुरुषस्त्वन्यः अन्य एव अत्यन्तविलक्षण
आभ्यां जड़राशिभ्याम्, उभयभासकस्तृतीयश्चेतनराशि-
रित्यर्थः । परमात्म्येत्युदाहृतः अन्नमयप्राणमयम-
नोमयविज्ञानमयानन्दमयेभ्यः पञ्चभ्योऽविद्याकल्पिता-
त्मभ्यः परमः प्रकृष्टोऽकल्पितः “ब्रह्म पुच्छं प्रतिष्ठा” इत्त्युक्त
आत्म्म च सर्वभूतानां प्रत्यक्चेतन इत्यतः परमात्मेत्यु-
क्तो वेदान्तेषु यः परमात्मा लोकत्रयं भूभुवःस्वरा-
ख्यं सर्वं जगदिति यावत् आविश्य स्वकीयया मायया
शक्त्याधिष्ठाय बिभर्त्ति सत्तास्फूर्त्तिप्रदानेन धारयति
पोषयति च कीदृशः अव्ययः सर्वविकारशून्यः ईश्वरः
सर्वस्य नियन्ता नारायणः स उत्तमः पुरुषः परमात्मेत्यु-
दाहृत इत्यन्वयः” । अतः “यस्मात् क्षरमतीतोऽक्षरादपि
चोत्तमः । अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः”
गीतावाक्ये अक्षरादितिल्यब्लोपे पञ्चमी मध्यपदलोपः
अक्षरमतीत्य उत्तम इत्यर्थः । पुरुषोत्तम इत्यत्र पुरुषपदा-
र्थानां पुरुषोपाधिद्वयतद्विलक्षणसुख्यपुरुषाणां मध्ये उत्तम
पृष्ठ २६२५
इत्यर्थः द्वाविमावितिक्षराक्षरपुरुषयोः “उत्तमः पुरुष
स्त्वन्य” इति त्रयाणामेव पूर्वं प्रक्रान्तत्वात्तेषां मध्ये एव
परमात्मन उत्तमत्वेन निर्द्धार्य्यमाणत्वात् अतो न तत्रापि
पञ्चमीसमासः । तथाहि “पञ्चमी भयेन” पा० “अपतापो-
ढमुक्तपतितापत्रस्तैरल्पशः” “स्तोकान्तिकदूरार्थकृच्छ्रणि
क्तेन” पा० सूत्रैः पञ्चमीतत्पुरुषस्य विधानात् तन्मध्ये
च एतत्पञ्चम्याः पाठाभावात् नात्र पञ्चमीतत्पुरुषः
किन्तु सप्तमीसमासः षष्ठोसमासो वेत्येवेति ज्यायः ।

गु(गू)र्जर पु० दक्षिणदेशस्थे देशभेदे सोऽभिजनोऽस्य अण् ।

गौर्ज्जर तद्देशवासिनि बहुषु लुक् । महाराष्ट्राच्च त्रैलि-
ङ्गाद्रविडा गु(गू)र्ज्जरास्तथा” दशविधव्राह्मणकथने ।

गु(गू)र्द्द कूर्दने भ्वा० आत्म० अक० सेट् । गूर्दते

अगूर्द्दिष्ट । जुगूर्दे । लघुयुक्तस्य क्विपि गूः गुरौ गुरः ।
दीर्घान्वितस्य गूः गूरौ गूर इति भेदः ।

गु(गू)र्द्द निवासे कूर्दने च चुरा० उभ० अक० सेट् ।

गु(गू)र्दयति ते अजुगु(गू)र्दत्--त ।

गुर्व उद्यमे भ्वा० पर० अक० सेट् । गुर्वति अगुर्वोत् ।

जुगुर्व ईदित् गूर्णः ।

गुर्विणी स्त्री गुरुर्गर्मोऽस्त्यस्याः ब्रीह्यादित्वात् इनि नि०

गुणाभावः, गर्व--गतौ “गर्वेरत उच्चेति” उणा० इनन्
गौरा० ङीष् वा । गर्भिण्याम् । “उत्तरां त्वमवेक्षस्व
गुर्विणीं मा शुचः शुभे!” भा० आश्व० ६१ अ० ।
“गुर्विणीं नानुगच्छन्ति न स्पृशन्ति रजस्वलाम्” अनायु-
ष्योक्तौ ।

गुर्व्वादित्य पु० गुरुणा सह आदित्यो यत्र । ज्योति-

षोक्ते कालाशुद्धिहेतौ एकराश्येकनक्षत्रस्थयोर्जीवादि-
त्ययोर्योगभेदे “गुर्वादित्ये दशाहिकम्” ज्यो० त० ।
“एकराशौ गतौ स्यातामेकर्क्षविषये यदि । गुर्वादित्यौ,
तदा त्याज्या यज्ञोद्वाहादिकाक्रियाः” राजमा० ।
“गुर्वादित्ये दशाहे त्विति” नक्षत्रभेदविषयम् । अत्यन्ता-
वश्यकत्वे भुजबलभीमः “जीवोऽर्केण युतः करोति
मरणं, बालांशुको भागुरिः नक्षत्रैकगतो वदन्ति मरणं,
पादस्थितो देवलः” तथा च एकराशिस्थत्वेऽकालः अत्य-
न्तावश्यकत्वे एकनक्षत्रपादस्थितौ दशाहं त्यक्त्वा
यज्ञादि कर्त्तुं शक्यते इति व्यबस्था ।

गुर्व्वी स्त्री गुरु--ङीष् । १ गर्भवत्याम् “न हि बन्ध्या विजा-

नाति गुर्वीप्रसववेदनाम्” हितो० २ गौरवयुक्तस्त्रीलिङ्गा
र्थकपदार्थे च “गुर्वीरजसं दृषदः समन्तात्” माघः ।
यत्तु “अनन्यगुर्वास्तव केन केवलम् पुराणमूर्त्तेः” घ
पदो अन्यगुर्व्या इति पाठं कल्पयित्वा शब्दक० उदाज
हार तत् प्रामादिकं “न विद्यतेऽन्या गुरुर्यस्यास्तस्या
अन्यग्यगुर्वा इत्यनीकारान्तः पाठः एव साधुः समासात्
प्राङ् ङीषि “नद्यृतश्चेति” पा० कप्प्रत्ययः स्यात् पश्चात्तु
अनुपसर्जनाधिकारात् “वोतो गुणवचनादिति” न प्राप्नो-
तीति । तद्रूपसिद्धिस्तु “ङिति ह्रस्वश्चेति” पा० वा
नदीसंज्ञत्कायाम् “आण्नद्याः” पा० इत्याडागमात्” मल्लि० ।
समासान्तस्य विधेरनित्यकल्पनेन कबभावकल्पनस्यागतिक-
विषयएव स्वीकारात् अत्र तथाऽकल्पनेऽपि छन्दोदोषाप्र-
सङ्गात्” इति विभाव्यम् । ३ गुरुस्त्रियाञ्च ।

गुल पु० गुड + डस्थ लः । १ ऐक्षवे गुडे २ स्नुहीवृक्षे स्त्री टाप् मेदि० ।

गुलञ्चकन्द पु० गुलं गुडरसमञ्चति अन्च--अण् शक० ।

गुलञ्चः कन्दोऽस्य । (कुली) भाषाप्रसिद्धे कन्दभेदे राजनि०

गुलिका स्त्री गुड़ः गोलाकारः अस्त्यस्य ठन् । १ गुटिकायां

गोलाकारायां वटिकायां (वसन्त) २ रोगभेदे च मेदि० ।
“घृतेन गुडयुक्तेन गोलकुष्माण्डखण्डकान् । रन्धितान्
जीरमरिचैरिमांस्तु गुलिकां विदुः” इत्युक्ते ३ पक्वकुष्मा-
ण्डभेदे च ।

गुली स्त्री गुडाकारोऽस्याः अच् गौरा० ङीष् । १ गुटिकायाम् (वसन्त) २ रोगे च मेदि० ।

गुलगुधा अव्य० । सहार्थे । उर्य्यादि० पा० ग० सू० ।

गुलुच्छ गुच्छ + पृषो० । गुच्छे स्तवके त्रिका० । “कोषात-

कीपुष्पगुलुच्छ(ञ्छ)कान्तिभिः” माघः ।

गुलुञ्छ पु० गुड--क्विप् गुलं गोलाकारमुञ्छति बध्नाति

उछिबन्धने अण् उप० समा० डस्य लः । स्तवके हेमच०
ण्वुल् । गुलुञ्छक तत्रार्थे शब्दरत्ना० । गुलुञ्च इति
हारा० पाठः तत्रार्थे । तत्र ग्लुन्च--अच् पृषो० साधु

गुल्फ पु० गुल--फक् नि० अस्योच्च । पादग्रन्थौ । “षष्ठ्य-

ङ्गुलीनां द्वे पार्ष्ण्योर्गुल्फेषु च चतुष्टयम्” याज्ञ० ।
“आगुल्फकीर्णापणमार्गपुष्पम्” कुमा० । “गुल्फैरति
तनुभिरतिवृहद्भिर्वा” वृ० स० ६१ अ० । गुल्फस्य मूलं
कर्णा० जाहच् । गुल्फजाह गुल्फमूले न० ।

गुल्म पु० गुड--रक्षणे वेष्टने वा मक् डलयोरैक्यात् डस्य लः ।

१ प्रधानपुरुषाधिष्ठिते रक्षके पुरुषसंघे, (गजाः ९, रथाः ९,
अश्वाः २७, पदातयः ४५) एतत्संख्यान्विते २ सैन्यसमु-
दाये, स्वनामख्याते ३ रोगभेदे, अमरः । घट्टदेशे रक्षणार्थं
स्थापिते ४ सैन्ये, ५ अप्रकाण्डे लतादौ मेदि० एक
मूलेषु सङ्घातजातेषु शरेक्षुप्रभृतिषु ६ तृणभेदेषु, कुल्लू० ।
पृष्ठ २६२६
गुच्छगुल्ममित्यादि मनुवचनस्य गुच्छशब्दे दर्शितस्य
कुल्लूभट्टव्याख्या २५९६ पृ० दृश्या । ७ प्लीहरोगे अमरः ।
“त्रींणि सेनामुखान्येकोंगुल्म इत्यभिधीयते १६० पृ०
अनीकिनीशब्दे दर्शितम् भा० उ० वाक्यम् । “प्रच्छन्नस्तरुगहनैः
स गुल्मजालैः” किरा० । “गुल्मगुच्छक्षुपलतेत्यादि”
याज्ञ० । “स्थावराणां तु भूतानां जातयः षट् प्रकी-
र्त्तिताः । गुच्छगुल्मलतावल्ल्यस्त्वक्सारास्तृणजातयः भा०
आनु० ५८ अ० । रक्षणार्थं गुल्मनिवेशनप्रकारो मनुनोक्तो
यथा “द्वयोस्त्रयाणां पञ्चानां मध्ये गुल्ममघिष्ठितम् ।
तथा ग्रामशतानां च कुर्य्याद्राष्टस्य संग्रहम्” । “द्वयो
र्ग्रामयोर्मध्ये त्रयाणां वा ग्रामाणां पञ्चानां वा ग्राम-
शतानां गुल्मं रक्षितृपुरुषसमूहं सत्वप्रधानपुरुवाधि-
ष्ठितं राष्ट्रस्य संग्रहं रक्षास्थानं कुर्य्यात् अस्य लाघव-
गौरवापेक्षश्चोक्तविकल्पः” कुल्लू० । “गुल्मांश्च स्थापये-
दाप्तान् कृतसंज्ञान् समन्ततः । स्थाने युद्धे च कुशलान-
भीरूनविकारिणः” मनुः गुल्भरोगलक्षणादि सुश्रुतोक्तं
यथा “अथातो गुल्मप्रतिषेधं व्याख्यास्यामः । यथोक्तैः
कौपनेर्दोषाः कुपिताः कोष्ठमागताः । जनयन्ति नृणां
गुल्मं स पञ्चविध उच्यते । हृद्वस्त्योरन्तरे ग्रन्थिः
सञ्चारी यदि घाचलः । चयापचयवान् वृत्तः स गुल्म
इति कीर्त्तितः । पञ्च गुल्माश्रया नॄणां पार्श्वे हृन्ना-
भिवस्तयः । कुपितानिलमूलत्वाद्गूढ़मूलोदयादपि ।
गुल्मवद्वा विशालत्वात् गुल्म इत्यभिधीयते । स यस्मादा-
त्मनि चयं गच्छत्यप्स्विव बुद्बुदः । अन्तःसरति यस्माच्च
न पाकमुपयात्यतः । स व्यस्तैर्जायते दोषैः समस्तैरपि
वोच्छ्रितैः । पुरुषाणां, तथा स्त्रीणां ज्ञेयो रक्तेन
चापरः । सदनं मन्दता वह्नेराटोपोऽन्त्रविकूजनम् ।
विण्मूत्रानिलसङ्गश्च सौहित्यासहता तथा । द्वेषोऽन्ने
बायुरूर्द्धञ्च पूर्वरूपेषु गुल्मिनाम् । हृत्कुक्षिशूलं
मुखकण्ठशोषो वायोर्न्निरोधो विषमाग्निता च । ते ते
विक्नाराः पवनात्मकाश्च भवन्ति गुल्मेऽनिलसम्भवे तु ।
स्वेदज्वराहारविकारदाहास्तृष्णाङ्गरागः कटुवक्त्रता च ।
पित्तस्य लिङ्गान्यखिलानि यानि पित्तात्मके तानि भवन्ति
गुल्मे । स्तैमित्यमन्नेऽरुचिरङ्गमादश्छर्दिः प्रसेको
मधुरास्यता च । कफस्य लिङ्गानि च यानि तानि भवन्ति
गुल्मे कफसम्भवे तु । सर्वात्मकः सर्वविकारयुक्तः
सोऽसाध्य उक्तः क्षतजञ्च वक्ष्ये । नवप्रसूताऽहितभोजना
या याचामगर्भं विसृजेदृतौ वा । वायुर्हि तस्याः परि-
गृह्य रक्तं करोति गुल्मं सरुजं सदाहम् । पैत्तस्य
लिङ्गेन समानलिङ्गं विशेषणं चाप्यपरं निबोध । न स्पन्दते
नोदरमेति वृद्धिं भवन्ति लिङ्गानि च गर्भिणीनाम् ।
तं गर्भकालातिगमे चिकित्स्यमसृग्भवं गुल्ममुशन्ति
तज्ज्ञाः” ।

गुल्मकेतु पु० गुल्मः केतुरस्य । अम्लवेतसे राजनि० ।

गुल्ममूल न० गुल्म इव मूलमस्य । आर्द्रके (आदा) शब्दर० ।

गुल्मवल्ली स्त्री गुल्मप्रधाना वल्ली । सोमलतायाम् राजनि० ।

गुल्मशूल न० शूलरोगभेदे शूलशब्दे विवृतिः ।

गुल्मिन् त्रि० गुल्म + अस्त्यर्थे इनि । १ गुल्मरोगयुक्ते ।

गुल्मशब्दे शुश्रुतः । स्त्रियां ङीप् सा च विस्तृतलतायां
२ द्राक्षाताम्बूलीप्रभृतौ अमरः ।

गुल्मी स्त्री गुल्मस्तदाकारफलत्वात् गुल्मरोगहन्तृत्वाद्वा

अस्तीत्यर्थे अच् गौ० ङीष् । १ आमलक्यां, २ एलायाम्,
३ वस्त्रनिर्म्मितमृहे, मेदि० ४ लवल्याम् शब्दार्थचि० ५ गृध्न-
नखीवृक्षे, (गुड़काओली) शब्दच० ।

गुल्य त्रि० गुडं तद्वद्रसमर्हति यत् डस्य लः । मधुरे स्वादौ हेम० ।

गु(गू)वाक पु० गु--पिनाकादित्वात् आक नि० दीर्घः ।

(सुपारी) क्रमुके अमरः “घोरण्टः पूगी पूगश्च गु(गू)वाकः
क्रमुकीऽस्य तु । फलं पूगीफलं प्रोक्लमुद्वेगञ्च तदीरितम् ।
पूगङ्गरु हिमं रूक्षं कषायं कफपित्तजित् । मोहनं
दीपनं रुच्यमास्यवैरस्यनाशनम् । आर्द्रं तद्गुर्व-
भिष्यन्ति बह्निदृष्टिहरं स्मृतम् । स्विन्नं दोषत्रयच्छेदि
दृढ़मध्यं तदुत्तमम्” भावप० । “प्रभाते पूगमधिकं
मध्याह्ने खदिरं तथा । निशासु चूर्णमधिकं ताम्बूले
भक्षयेत् सदा” भावप्र० ।

गुष्पित न० गुन्फ भावे--क्त वेदे नि० । गुम्फने वृक्षादेः

शाखानिर्गमरूपे ग्रन्थने “व्रततेरिव गुष्फितमोजो
दासस्य सम्भवः” ऋ० ८ । ४० । ६ । “गुष्फितं निर्गता
शाखा” भा० ।

गुह संवरणे भ्वा० उभ० सक० वेट् । गूहति ते अगूहीत्

अघुक्षत् । अगूहिष्ट अगूढ़ अघुक्षत अगूहिषत अघुक्षन्त ।
अगूहिषि अघुक्षि । अगूहिष्वहि अगुह्वहि अघुक्षा-
वहि । जुगूह जुगुहे “गूहिता गोढ़ा । गुह्यात् ।
गूहिषीष्ट घुक्षीष्ट गूहिष्यति--ते--धोक्ष्यति--ते, गुह्यम्
गोह्यम् । गूहनं गुहः गुहा । सन् जुघुक्षति “जुगूह
तस्याः पथि लक्ष्मणो यत्” रघुः । “अगूहीच्छायकैर्दिशः”
गूहिष्यामि क्षितिं कृत्तैः” भट्टिः “गूहेत् कूर्म इवाङ्गानि”
पृष्ठ २६२७
मनुः । “जुगूहे दक्षिणे पार्श्वे” भा० वि० २३५ श्लो० ।
“गूहन्ति मेघा इव रश्मिवन्तम्” भा० भी० ७९२ श्लो० ।
“आकारो गूहितं शक्यः” भा० द्रो० ४४७ श्लो० ।
“अगूढ़सद्भावमितीङ्गितज्ञया” कुमा० । णिच्
गूहयति ते अजूगुहत् त । “न देवामपि ह्रुतः सुमति न
जुगुक्षतः” ऋ० ८ । ३१ । ७ । क्विप् घुट् गुहौ गुहः ।
“विश्वायुरग्ने गुहा गुहं गाः” ऋ० १ । ६७ । ३ ।
  • अप + अपनयने “अपागूहन्नमृतां मर्त्येभ्यः” ऋ० १० । १७ ।
२ । “अपागूहन् अपनीतवन्तः” भा० । संवरणे च ।
“मात्मानमप गूहथाः” अथ० ४ । २० । ५ ।
  • अव + सम्यग्संवरणे । “यूपशकलमवगूहति” शत० ब्रा० ३ ।
७ । १ । २२ । “उष्णीषं संहृत्य पुरस्तादवगूहति” ५ । ३ ।
५ । २३ ।
  • उद् + उत्क्षिप्य संवरणे । “नीविमुद्गूहते” शत० ब्रा० ३ । २ । १ । १५ ।
  • उप + आलिङ्गने “गाढ़ं चोपजुगूहैनम्” भट्टिः “छाया-
च्छलेनोपजुगूह लक्ष्मीः” रघुः । “उपगूढ़ानि सवेपथूनि
च” कुमा० । “तरङ्गहस्तैरुपगूहतीव” रघुः आश्लेषणे
च । “कश्चित् कराभ्यामुप्रगूढ़नालम्” रघुः ।
  • नि + अतिशयसंवरणे । “देवात्मशक्तिं स्वगुणैर्निगूढाम्”
श्वेता० उप० । समादिपूर्वस्य तत्तदुपसर्गद्योत्यार्थसंयुतसंवरणे

गुह पु० गूहति देवसेनाम् गुह--क । १ कार्त्तिकेये

“सैनापत्येन देवानामभिषिक्तो गुहस्तदा” भा० व०
३८ अ० । “अथैनमभ्ययुः सर्वादेवसेनाः सहस्रशः ।
अस्माकं त्वं पतिरिति ब्रुवाणाः सर्वतो दिशः” भा० व०
२२८ अ० । “गुहोऽपि येषां प्रथमाप्तजन्मनाम्” कुमा०
तस्य देवसेनारक्षकत्वेन सेनापतित्वात् तथात्वम् ।
भा० आनु० ८५ अ० गुहनामनिरुक्तिरन्यथोक्तो यथा
“स्कन्नत्वात् स्कन्दनामायं गुहावासाद्गुहोऽभवत्” । अत्र
पक्षे गुहा आवासत्वेनास्त्यस्य अच् । २ अश्वे पुंस्त्री शब्द-
रत्ना० एतदाशयेन “यत्राश्वा बिलयोनयः” कुमा० उक्तम् ।
देवखातरूपविलोत्पन्नत्वात्तथात्वम् । ३ परमेश्वरे । “करणं
कारणं कर्त्ता विकर्त्ता गहनो गुहः विष्णुस० ।
“गूहति संवृणोति स्वरूपं माययेति गुहः” भा० “नाहं
प्रकाशः सर्वस्य योगमायासमावृतः” इति गीतोक्तेस्तस्य
स्वमायया स्वात्मरूपसंवरणात्तथात्वम् । गुहारूपमाया-
हृदयाद्याश्रयत्वात् वा तथात्वम् । गुहाशयशब्दे दृश्यम् ।
रामायणप्रसिद्धे शृङ्गवेरपुराधीशे चण्डालजातीये
४ राममित्रे च पु० । आससाद महावीरः शृङ्गवेरपुरं
प्रति” इत्युपक्रमे “यत्र राजा गुहो नाम रामस्यात्म-
समः सखा । निषादजात्यो बलवान् स्थपतिश्चेति
विश्रुतः” इत्यादिना “सहं सौमित्रिणा रामः समागच्छत्
गुहेन स” इत्यन्तेन रामा० अबोध्याकाण्डे तत्सख्यय-
क्तम् । ५ सिंहपुच्छीलतायाम् (चाकुलया) ६ पर्वतादिग-
ह्वरे स्त्री मेदि० । तस्य सर्वसत्वसवारकत्वात् तथात्वम् ।
“गुहानिबद्धप्रतिशब्ददीर्घम्” “प्रतिस्वनेनास्य गुहागतेन”
रघुः ८ शालपर्ण्णीवृक्षे (शालपाण) राजनि० अकृत्रिमे
९ देवखाते, १० हृदये च स्त्री शब्दार्थचि० । हृदयस्य गुहा-
तुल्यत्वात् तथात्वम् यथाह शत० ब्रा० ११ । २ । ६ । ५ ।
“तस्मादिदं गुहा हृदयम्” । “गुहां प्रविष्टौ सुकृतस्य
लोके” श्रुतिः ११ मायायां च । “योन येद निहितं
गुहायां परमव्योमन्” श्रुतिः गुहाहितं गह्वरेष्ठं
पुराणम्” “आत्मा गुहायां निहितः” श्रुतिः ।
वृषा० आद्युदात्तः । १२ गुहाधिष्ठातृदेवतायाम् स्त्री ।
“गुहाभ्यः किरातम्” यजु० ३० । १७ । पुरुषमेषे ।
१३ बुद्धौ । गुह--भावे भिदा० अङ् । १४ संवरणे स्त्री ।
गुह + अश्मा० अस्त्यर्थे र । गुहर तद्युक्ते त्रि० ।

गुहराज पु० वृ० सं० ५५ । अ० लक्षिते प्रासादभेदे प्रासादशब्दे दृश्यम् ।

गुहलु पु० गोत्रप्रबर्त्तके ऋषिभेदे ततो गर्गा० अपत्ये

यञ् । गोहलव्य तद्गोत्रापत्ये पुंस्त्री ।

गुहषष्ठी स्त्री गुहप्रिया षष्ठी तज्जन्मदिनत्वात् शाक०

त० । “येयं मार्गशिरे मासि षष्ठी भरतसत्तम! ।
पुण्या पापहरा धन्या शिवा शान्ता गुहप्रिया” ति०
त० भविष्योक्ते मार्गशुक्लषष्ठीतिथौ । इयं वारभेदादि-
योगेन चम्पेति कीर्त्त्यते यथाह नि० सि० ब्रह्मा० पु०
“मार्गे भाद्रपदे शुक्ला षष्ठी वैधृतिसंयुता । रविवारेण
संयुक्ता सा चम्पेतीह कीर्त्तिता” “विशाखाभौम-
योगेन सा चम्पेतीह कीर्त्त्यते” इति मदनरत्ने पाठः ।
गुहस्य षष्ठ्यां कृतार्थतोक्ता भा० व० २२४ अ० “तस्मिन्
कुण्डे प्रतिपदि कामिन्या स्वाहया तदा । तत् स्कन्नं
तेजसा तत्र संवृतं जनयत् सुतम्” इत्युपक्रमे “द्वितीया-
यामिति व्यक्तस्तृतीयायां शिशुर्बभौ । अङ्गप्रत्यङ्गसम्भूत-
श्चतुर्थ्यामभवद्गुहः” इत्युक्त्वा २२८ अ० “तदा तदाश्रया-
ल्लक्ष्मीः स्वयं देवी शरीरिणाम् । श्रीजुष्टं पञ्चमीं
स्कन्दस्तस्मात् श्रीपञ्चमी स्मृता । षष्ठीं कृतार्थोऽभूद्य
स्मात् तस्मात् षष्ठी महातिथिः” उक्तम् । इयमेव स्कन्द
षष्ठीति नि० सि० उक्तम् । ति० त० तु चैत्रशुक्लषष्ठ्या
एव स्कन्दषष्ठीत्वं व्यवस्थापितं तच्च स्कन्दषष्ठीशब्दे
वक्ष्यते । देशभेदाद्व्यवस्था
"https://sa.wikisource.org/w/index.php?title=वाचस्पत्यम्/गिरिराज&oldid=57718" इत्यस्माद् प्रतिप्राप्तम्