पृष्ठ २८७७

चतुर्भाव पु० चतुर्ण्णां भावः उत्पत्त्यपादानम् । विष्णौ

परमेश्वरे “चतुरात्मा चतुर्भावश्चतुर्वेदविदेकपात्”
विष्णुस० । “धर्म्मार्थकाममोक्षाख्यंपुरुषार्थचतुष्टयं
भवत्युत्पद्यतेऽस्मादिति चतुर्भावः” भा० ।

चतुर्भुज पु० चत्वारो भुजा यस्य । १ विष्णौ “चतुरात्मा

चतुर्व्यूहश्चतुर्दष्ट्रोश्चतुर्भुजः” विष्णुस० । २ तदवतारे
वासुदेवे नन्दनन्दने च “तेनैव रूपेण चतुर्भुजेन
सहस्वबाहो । भव विश्वमूर्त्ते!” गोवा । “तमद्भुतं
बालकमम्बुजेक्षणं चतुर्भुजं शङ्खगदाद्युदायुधम्” भाग० १० ।
६ । ९ । श्लो० ३ चतुर्बाहुयुक्ते त्रि० । “मुक्तकेशीं चतुर्भु-
जाम्” श्यामाध्यानम् । “सवाल आसीद्वपुषा
चतुर्भुजः” (शिशुपालः) माधः । ४ चतुष्कोणे क्षेत्रे न० ।
भुनक्ति भुज--क चतुर्ण्णीं धर्म्मार्थकामानां भुजः ।
५ धर्म्मार्थकामगोक्षभाजने त्रि० ।

चतुर्मुख पु० चत्वारि मुखान्यस्य । १ चतुरानने वेधसि

चतुराननशब्दे दृश्यम् । “चतुर्वर्गफलं ज्ञानं काला-
वस्थाश्चतुर्युगम् । चतुर्वर्ण्णमयोलोकस्त्वत्तः सर्व्वं
चतुर्मुखात्” मनुः । २ चतुर्द्वारे गृहे न० । चतुर्ण्णां
मुखानां समाहारः ङीप् । ३ चतुर्षु मुखेषु स्त्री ।
चतुर्मुखसमीरिताः” कुमा० । “चतुर्भिर्मुखैः समीरिताः
वाक्ये उत्तरपदद्विगुः । समाहारे चतुर्मुखी स्यात् ।
४ औषधभेदे पु० तल्लक्षणं वैद्यके यथा
“रसगन्धकलौन्हाभ्रंसमं सूताङ्घ्रि हेम च । सर्वं-
खल्लतले क्षिप्त्वा कन्यारसविमर्द्दितम् । एरण्डपत्रै
रावेष्ट्य धान्यराशौ दिनत्रयम् । संस्पाप्य तत उद्धृत्य
सर्वरोगेषु योजयेत् । एतद्रसायनवरं त्रिफलामधु-
संयुतम् । तद्यथाग्निबलं खादेत् वलीपलितनाश-
नम् । क्षयमेकादशविधं कासं पञ्चविधं तथा । कुष्ट
मष्टादशविधं पाण्डुरोगान् प्रमेहकान् । शूलं श्वासञ्च
हिक्काञ्च मन्दाग्निं चाम्लपित्तकम । व्रणान् सर्वा-
नाम्रवातविसर्पं विद्रषिं तथा । अपस्मारग्रहोन्मादान्
सर्पार्शांसि त्वगामयान् । क्रमेण सेवितं हन्ति वृक्ष-
मिन्द्राशनिर्यथा । पौष्टिकं बल्यमायुष्यं पुत्रप्रसवकार-
णम् । चतुर्भुखेण देवेन कृष्णात्रयेण सूचितम” ।
चतुर्मुखप्रकाशितत्वाटस्य चतुर्मखत्वम् ।

चतुर्मूर्त्ति पु० चतस्रोमूर्त्तयोऽस्य । १ परमेश्वरे तस्य विराट्-

मूत्रात्माव्याकृततुरीयमूर्त्तिकत्वात् तथात्वम् । “चतुर्मूर्त्ति-
श्चतुर्वाहुश्चतुर्व्यूहश्चतुर्गतिः” विष्णुस० । चतस्रो मूर्त्तयः
विराट्सूत्रात्माव्याकृततुरीयात्मानोऽस्य” शाङ्करभाष्यम् ।

चतुर्युग न० चतुर्णां युगानां समाहारः पात्रादि० न ङीप्-

स्त्रीत्वे । सत्यत्रेताद्वापरकलिरूपेषु चतुर्षु युगेषु
“तद्द्वादशसहस्राणि चतुर्युगमुदाहृतम् । सूर्य्यावद्-
सङ्ख्यया द्वित्रिसागरैरयुताहतैः ४३२०००० । सन्ध्या-
सन्ध्यांशसहितं बिज्ञेयं तच्चतुर्युगम्” सू० सि० ।

चतुर्वक्त्र पु० चत्वारि वक्त्राण्यस्य । चतुरानने चतुर्वदना

दयोऽप्यत्र ।

चतुर्वय पु० चत्वारोवयाः शाखा अवयवा अस्य । चमसभेदे ।

“एकं वि चक्र चमसं चतुर्वयम्” ऋ० ४ । ३६ । ४ ।
वयाः शाखाः चतुःशाखं चतुरवयवम्” भा० ।

चतुर्वर्ग पु० ६ त० । धर्म्मार्थकाममोक्षसमुदाये “चतुर्वर्ग

फलं ज्ञानं कालावस्थाश्चतुर्युगम्” मनुः ।

चतुर्वर्गचिन्तामणि पु० हेमाद्रिकृते स्मृतिनिबन्धभेदे “यः

पूर्वं चारुचिन्तामणिममितगुणं मन्दराद्रिः समुद्रम्
निर्मथ्य प्रायशोऽयं वितरति बहुशः प्रार्थनादर्थमेब ।
सम्प्रत्यालोच्य सर्वस्मृतिनिगमपुराणेतिहासाम्बुराशीन्
हेमाद्रिः स्पर्द्धयैव प्रकटयति चतुर्वर्गचिन्तामणिं सः ।
“खण्डानि चास्मिन् व्रतदानतीर्थमोक्षाभिधानि क्रमशो
भवन्ति । यत्पञ्चमं तत्परिशेषखण्डमखण्डितो यत्र
विभाति धर्म्मः” हेमाद्रि व्र० ख० । “चतुरेण चतुर्वर्ग-
चिन्तामणिबणिज्यया । हेमाद्रिर्वोपदेवेन मुक्तांफलम-
चीकरत्” मुक्ताफलम् ।

चतुर्वर्णः पु० ब० व० चत्वारोवर्णाः संज्ञात्वात् न समा० द्वि०

कर्म्म० । ब्राह्मणक्षत्रियवैश्यशूद्रेषु चतुर्षु वर्णेषु ।
“चतुर्वर्णमयोलोकस्त्वत्तः सर्वं चतुर्मुखात्” मनुः ।
स्वार्थे भावे वा ष्यञ् चातुवर्ण्य चतुर्षु वर्णेषु तद्भावे च
न० । “चातुर्वर्ण्यं मया प्रोक्तं गुणकर्मविभागशः” गीता०

चतुर्वर्णादि पु० स्वार्थे ष्यञ्प्रत्ययनिमित्ते का० वार्त्तिका-

क्ते शब्दगणे । “चतुर्वर्णादीनां स्वार्थे उपसंख्या-
नम्” का० वार्त्ति० । स च गणः “चतुर्वर्ण चतुराश्रम
सर्वविद्य त्रिलोक त्रिस्वर षड्गुण सेना अनन्तर सन्निधि
समीप उपमा सुख तदर्थ इतिह मणिक” चतुर्वर्णादिः ।

चतुर्विंशति स्त्री चतुर्भिरधिका विंशतिः । (चव्विश)

१ चतुरधिकविंशतिसंख्यायां २ तत्संख्येये च । पूरणे डट् ।
चतुर्विंश तत्संख्यापूरणे त्रि० स्त्रियां ङीप् ।
पृष्ठ २८७८

चतुर्विंशतिक त्रि० चतुरधिका विंशति र्यत्र कप् । १

चतुर्विंशतिसंख्यायुक्ते । २ सांख्योक्ते प्राकृतिके गणे पु०
“पञ्चभिः पञ्चभिः ब्रह्मश्चतुर्भिर्दशभिस्तथा । एतच्चतु-
र्विंशतिकं गणं प्रधानिकं विदुः । महाभूतानि पञ्चैव-
भूरापोऽग्निर्म्मरुन्नभः । तन्मात्राणि च तावन्ति ५ गन्धा-
दीनि मतानि वै । इन्द्रियाणि दश श्रोत्रं त्वग्दृ-
ग्रसननासिकाः । वाक्करौ चरणौ मेट्रं पायु र्दशम
उच्यते । मनोबुद्धिरहङ्कारश्चित्तमित्यन्तरात्मकम् ।
चतुर्द्धा लक्ष्यते मनोवृत्त्या लक्षणरूपया” भाग०३ । ३६ । १४ ।
तादृशगणश्च “प्रकृतेर्महान् महतोऽहङ्कारस्तस्मात् गणश्च
षोडशकः । तस्मादपि षोडशकात् पञ्चभ्यः पञ्च भूतानि”
सा० का० उक्तः ।

चतुर्विंशतिमूर्त्ति स्त्री कर्म्म० । विष्णोर्हस्तभेदेनचक्रादि

विन्यासभेदेन चतुर्विंशतिसंख्यके मूर्त्तिभेदे तन्मूर्त्ति
लक्षणं तद्भेदेन विष्णोर्नामभेदाश्च अग्निपु० उक्ताः यथा
“ओंरूपः १ केशवः पद्मशङ्खचक्रगदाधरः । २ नारायणः
शङ्खपद्मगदाचक्री प्रदक्षिणम् । ततो गदी ३ माधवोऽ-
रिशङ्खपद्मी नमामि तम् । चक्रकौमोदकीपद्मशङ्खी
४ गोविन्द ऊर्जितः । मोक्षदः श्रीगदी पद्मी शङ्खी
विष्णु ५ श्च चक्रधृक् । चक्रशङ्खाब्जगदिनं ६ मधुसूदनमा-
नमे । भक्त्या त्रिविक्रमः ७ पद्मो गदी शङ्खी च चक्य्र-
पि । शङ्खचक्रगदापद्मी वामनः ८ पातु मां सदा ।
मुक्तिदः श्रीधरः ९ पद्मी चक्री गदी च शङ्ख्यपि ।
हृषीकेशो १० गदाचक्री पद्मी शङ्खी च पातु नः । वरदः
पद्मनाभ ११ स्तु शङ्खाब्जारिगदा धरः । दामोदरः १२
पद्मशङ्खगदाचक्री नमामि तम् । रक्षेद्गदी शङ्ख-
चक्री वासुदेवो १३ ऽब्जभृज्जगत् । सङ्कर्षणो १४ गदी
शङ्खी पद्मी चक्री च पातु नः । चक्री शङ्खगदी
पातु प्रद्युम्नः १५ पद्मभृत् प्रभुः । अनिरुद्ध १६ श्चक्रगदी
शङ्खी पद्मी च पातु नः । सुरेशोऽर्य्यब्जशङ्खाढ्यः
श्रीगदी पुंरुषोत्तमः १७ । अधोक्षजः १८ पद्मगदी चक्री
शङ्खी च पातु नः । देवो नृसिंह १९ श्चक्राब्जगदा-
शङ्खी नमामि तम् । अच्युतः २० श्रीगदी पद्मी चक्री
शङ्खी च पातु नः । बालरूपी शङ्खगदी उपेन्द्र २१
श्चक्रपद्म्यपि । जनार्द्दनः २२ पद्मचक्री शङ्खधारी
गदाधरः । शङ्खी चक्री च पद्मी च हरिः २३ कौमो-
दकीधरः । कृष्णः २४ शङ्खी गदी पद्मी चक्री मे भुक्ति-
मुक्तिदः । आदिमूर्त्तिर्वासुदेवस्तस्मात् सङ्कर्षणोऽभवत् ।
सङ्कर्षणाच्च प्रद्युम्नः प्रद्युम्नादनिरुद्धकः । केशवादि
प्रभेदेन एकैकस्य त्रिधा क्रमात् । द्वादशाक्षरकं स्तोत्रं
चतुर्विंशतिमूर्त्तिमत् । यः पठेच्छृणुयाद्द्वापि निर्ललः
सर्तमाप्नुयात्” ।
चतुर्विंशतिमूर्त्तीनां दक्षहस्तोर्द्ध्वादिष्वस्तन्यासभेदेन
नामभेदविवृतिः ।
मूर्त्तिनाम दक्षोर्द्धे दक्षाधः वामोर्द्ध्वे वामाधः ।
१ केशवस्य १ पद्मम् १ शङ्खः १ चक्रम् १ गदा
२ नारायणस्य १ शङ्खः १ पद्मम् १ गदा १ चक्रम्
३ माधवस्य १ गदा १ चक्रम् १ शङ्खः १ पद्मम्
४ गोविन्दस्य १ चक्रम् १ गदा १ पद्मम् १ शङ्खः
५ विष्णोः २ गदा २ पद्मम् २ शङ्खः २ चक्रम्
६ मधुसूदनस्य २ चक्रम् २ शङ्खः २ पद्मम् २ गदा
७ त्रिविक्रमस्य २ पद्मम् २ गदा ३ शङ्खः ३ चक्रम्
८ वामनस्य २ शङ्खः २ चक्रम् २ गदा पद्मम्
९ श्रीधरस्य ३ पद्मम् ३ चक्रम् ३ गदा २ शङ्खः
१० हृषीकेशस्य ३ गदा ४ चक्रम् ३ प्रद्यम् ३ शङ्खः
११ पद्मनाभस्य ३ शङ्खः ३ पद्मम् २ चक्रम् ३ गदा
१२ दामोदरस्य ४ पद्मम् ३ शङ्खः ४ गदा ४ चक्रम्
१३ वासुदेवस्य ४ गदा ४ शङ्खः ३ चक्रम् ३ पद्मम्
१४ सङ्कर्षणस्य ५ गदा ५ शङ्खः ४ पद्मम् ५ चक्रम्
१५ प्रद्युम्रस्य ३ चक्रम् ६ शङ्खः ५ गदा ४ पद्मम्
१६ अनिरुद्धस्य ४ चक्रम् ३ गदा ४ शङ्खः ५ पद्मम्
१७ पुरुषोत्तमस्य ५ चक्रम् ४ पद्मम् ५ शङ्खः ४ गदा
१८ अधोक्षजस्य ५ पद्मम् ४ गदा ४ चक्रम् ४ शङ्खः
१९ नृसिंहस्य ६ चक्रम् ५ पद्मम् ६ गदा ५ शङ्खः
२० अच्युतस्य ६ गदा ६ पद्मम् ५ चक्रम् ६ शङ्खः
२१ उपेन्द्रस्य ४ शङ्खः ५ गदा ६ चक्रम् ६ पद्मम्
२२ जनार्हनस्य ६ पद्मम् ५ चक्रम् ६ शङ्खः ५ गदा
२३ हरेः ५ शङ्खः ६ चक्रम् ६ पद्मम् ६ गदा
२४ कृष्णस्य ६ शङ्कः ६ गदा ६ पद्मम् ६ चक्रम्
हेमाद्रिव्र० ख० मुद्रितपुस्तके ११४ पृ० चतुर्विंशतिमूर्त्ती-
नां ध्यानवाक्यत्वेन यन्मुद्रितं तत्र केशवमूर्त्तिं विहाय
वयोर्विंशतिमूर्त्तीनां ध्यानानि सन्ति तत्र चरमे विष्णु-
र्बिभर्त्ति यः” इत्यत्र “कृष्णोबिभर्त्ति य” इत्येव भवितु-
मुचितम् विष्णोः पूर्व्वमुक्तत्वात् कृष्णस्यानुक्तत्वात् ।
तथा वासुदेवादीनां त्रयोविंशतिमूर्त्तीनामेव मूर्त्ति-
ज्ञापकाः सार्द्धैकादशश्लोकाः सन्ति केशवमूर्त्तिज्ञापक-
मर्द्धपद्यं पतितम् । तच्च संस्कर्त्तुः प्रमादवशात्
एवं मूर्त्तिभेदलक्षणैक्यमपि इति सुधीभिश्चित्यम् ।
पृष्ठ २८७९
चतुर्षु हस्तेषु चतुरस्त्रविन्यासभेदाच्चतुर्विंशतिसंख्यकाएव
मूर्त्तिभेदा भवन्ति । “स्थानान्तमेकादिचथाङ्कघातः
संख्याविभेदाः” लीला० उक्तदिशा १ । २ । ३ । ४ । २४ संख्या
इति तद्वृत्तौ उक्तम् ।

चतुर्विद्या स्त्री चतस्रः विद्या संज्ञात्वात् कर्म्म० । १ ऋग्यजुः

सामाथर्वाख्यासु विद्यासु । चतस्रोवेदरूपा विद्याअस्य ।
२ चतुर्वेदाभिज्ञे । ततः स्वार्थे चतुर्वर्णा० ष्यञ्
अनुशतिका० उभयपदवृद्धिः । चातुर्वेद्य चतुर्वेदाभिज्ञे

चतुर्विध त्रि० चतसो विधा अस्य । चतुःप्रकारे “एष वोऽभि-

हितो धर्म्मोब्राह्मणस्य चतुर्विधः” । “पारुष्यमनृत्तं चेव
पैशुन्यञ्चापि सर्वशः । असम्बन्घप्रलापश्च बाड्मयं स्या-
च्चतुर्विधम्” इति च मनुः । चतुर्विधशरीराणि (जरा-
युजाण्डजस्वेदजोद्भिज्जाख्यानि) धृत्वा मुक्त्वा सहस्रशः ।
सुकृतान्मानवोभूत्वा ज्ञानी चेन्माक्षभाप्रुयात्” शब्दार्थ-
चि० धृतवाक्यम् ।

चतुर्वीज न० समाहारद्विगुः । “मेथिकाचन्द्रशूरञ्च कणा

जाजी यवानिका । एतच्चतुष्टय युक्तं चतुर्वीजमिति
स्मृतम्” भावप्र० उक्ते वीजचतुष्टये । “तच्चूर्णं भक्षितं
नित्यं निहन्ति पवनामयान् । अजीर्णं शूलमाध्मानं
पार्श्वशूलं कटिव्यथाम्” भावप्र० तद्गुणा उक्ताः ।

चतुर्वेद पु० चत्वारोवेदाः प्रतिपादका अस्य, चतुरो बेदान्

वेत्ति अधीते वा विद--अण् उप० स० वा । १ परमेश्वरे
“चतुर्वेदश्चतुर्होत्रश्चतुरात्मा सनातनः” हरिव० २३८ अ० ।
२ चतुर्वेदाभिज्ञे च । ततः स्वार्थे ष्यञ् । चतुर्वेदस्योभय
पदवृद्धिः । चातुर्वैद्य तदर्थे पु० ।

चतुर्वेदविद् पु० चतुरो वेदान् वेत्ति विद--क्विप् ६ त० ।

१ विष्णौ “चतुरात्मा चतुर्भावश्चतुर्वेदविदेकपाद्” विष्णु स० ।
२ चतुर्वेदाभिज्ञमात्रे च ।

चतुर्व्यूह पु० चत्वारो व्यूहा अस्य । १ विष्णौ “चतुर्व्यूह-

श्चतुर्गतिः” विष्णुस० । “शरीरपुरुषः, छन्दः पुरुषोवेद
पुरुषो महापुरुषः इयि वह्वृचोपनिषदुक्ताश्चत्वारोव्यूहा
अस्येति चतुर्ष्यूहः” भा० । “चतुरात्मा चतुर्व्यूहः”
विष्णुस० । “सृष्ट्यादिकार्य्यार्थं चत्वारोव्यूहा विभागा
वासुदेवसङ्कर्षणप्रद्युम्नानिरुद्धसंज्ञा मूर्त्तयो यस्यसः” भाष्य-
म् । उभयविधव्युत्पत्तियोगात्तु द्विनामतया द्विधा प्रयोगः ।
तथा । “व्यूह्यात्मानञ्चतुर्द्धा वै वासुदेवादिमूर्त्तिभिः ।
तृष्ट्यादीन प्रकोरोव्येष विश्रुतात्मा जनार्द्दनः” इति
विष्णुपुः । मार्कण्डेयपुराणे च “मूलकारणं वासु-
देवाख्यं व्यूहमुक्त्रोक्तम् “द्विदीया पृथिवी मूर्द्ध्ना
शेषाख्या धारयत्यधः । तामसी सा समाख्याता तिर्य्य
क्त्वे समुपाश्रिता । तृतीया कर्म कुरुते प्रजापालन
तत्परा । सत्वोद्रिक्ता तु सा ज्ञेया धर्मसंस्थान
कारिणी । चतुर्थी जलमध्यस्था शेते पन्नगतल्पगा ।
राजस्यास्तद्गुणः सर्गं सा करोति सदैव हि” ।
पाङ्ख्ये २ मोक्षशास्त्रे । तत्र हि हेयं हानं हेयहेतुः
हानापायश्चेति चत्वारोव्यूहाः प्रतिपाद्याःसन्ति ।
तत्र त्रिविधै दुःखं हेयम् । तदत्यन्तनिवृत्तिर्हानम् ।
प्रकृतिपुरषसंयोगद्वारा चाविवेको हेयहेतुः । विवेक-
ख्यातिस्तु हानोपाय इति । ३ चिकित्साशास्त्रे च न० ।
तत्र च रोग आरोग्यं रोगनिदानं भैषज्यमिति च त्वा-
रोय्यूहा उक्ताः इति तस्य तथात्वम् ।

चतुर्हायन(ण) त्रि० चत्वारोहायना अस्य । चतुर्वर्षोद्भवे

जन्तौ वयोवाचित्वे स्त्रियां ङीप् णत्वञ्च । वयोऽ न्यत्र
न ङीप् णत्वं वा । चतुर्हायना शाला ।

चतुर्होतृ पु० कर्म्म० । चतुर्वेदोक्तहोमचतुष्टयकारिषु होतृषु

“चतुर्होतार् आप्रियश्चातुर्मास्यानि नीविदः” अथ०
११ । ७ । १९ । चतुर्होतॄणां कर्म्म अण् । चातुर्होत्र
तत्कृतकर्म्मणि । “चतुर्भुजश्चतुर्मूर्त्तिश्चातुर्होत्रप्रवर्त्तकः”
हारव० ३७९ अ० ।

चतुर्होत्र पु० चत्वारि होत्राणि होमा प्रीत्यर्था अस्य ।

१ विष्णौ परमेश्वरे । चतुर्वेदश्चतुर्होत्रश्चतुरात्मा सनातना
हरिवं० २३८ अ० ।

चतुर्होत्रक न० चत्वारि होत्राणि यत्र कर्म्मणि कप् ।

चतुर्होत्रविधायके चतुर्वेदे “त्रय्या चतुर्होत्रकबिद्यया
च” भाग० ७ । ३ । २८ ।

चतुल त्रि० चत--उलच् । स्थापयितरि संक्षिप्तसा० ।

चतुश्चक्र न० रुद्रयामलोक्ते दीक्षाङ्गेमन्त्रशुद्धिज्ञापके चक्रभेदे

यथा “चतुश्चक्रम् प्रवक्ष्यामि शृणु पार्वतीवल्लभ ।
वामदक्षिणयोगेन रेखापञ्चकमालिस्वेत् । पूर्वपश्चिमभेदेन पञ्च
रेखाः समालिखेत् । पतुष्कोष्ठे दक्षभागे चतुष्कोष्ठे च
मन्त्रवित् । तदधश्च चतुष्कोष्ठे तद्वामस्थे चतुर्गृह ।
प्रलिखेत् क्रमशश्चाद्ये चतुर्मन्दिरमध्यगे । स्निग्धञ्च
शीतलं जप्नं सिद्धञ्चापि ततः परम् । अकारञ्च उकारञ्च
ऌमोकारं ततः परम् । स्निग्धस्थमिति वर्णं च
शीतलस्थं शृणु प्रभो! । आकारञ्च ऊकारञ्च ऌमौकारं
ततः परम् । तदधोजप्रगेहस्थं वर्णं शृणु महाप्रभो ।
पृष्ठ २८८०
इकारञ्च ऋकारञ्च एतमोङ्कारसः परम् । सिद्धगेहस्थितं
वर्णं शृणु सर्वसुखप्रदम् । ईकारञ्च ॠकारञ्च
औकारञ्च ततः परम् । दक्षे चतुर्गेहस्थितान् वर्णान् तव वदामि
तान् । आह्लादं चापि प्रत्यायं मुख्यञ्च शुद्धमित्यपि ।
एतत्कोष्ठस्थितान् सर्वान् शुभाशुभफलप्रदान् ।
ककारञ्च खकारञ्च झकारञ्च ञकारकम् । आह्लादस्थ-
मिति प्रोक्तं प्राप्तिमात्रेण सिद्धिदम् । प्रत्यायस्थं
गकारञ्च घकारं सचमित्यपि । मुस्व्यस्थं हि
ङकारञ्च टकारं डठमित्यपि । शुद्धस्थञ्च ढकारञ्च णकारं
प्ततमित्यपि । तदधःस्थं चतुर्गेहं लौकिकं सन्धिकं
तथा । मानसिकं राजसिकं चतुर्गेहस्थितं त्विमम् ।
लौकिकस्थं थकारञ्च दकारं च मकारकम् । सात्विकस्थं
धकारञ्च नकारञ्च यकारकम् । मानसिकस्थं शृणु भो
पकारं च फकारकम् । तद्वामस्थचतुर्गेहं शृणु
पञ्चानन! प्रभो! । सुप्तं क्षिप्तञ्च लिप्तञ्च दुष्टमन्दं प्रकी-
र्त्तितम् । एतद्गेहस्थितान् वर्णमात्रान् गृह्णाति
योनरः । वर्जयित्वा सुप्तमन्त्रं क्षिप्तं लिप्तञ्च दुष्टकम् ।
ऐहिके सिद्धिमाप्नोति परे मुक्तिमबाप्नुयात् । यद्यभाम्य-
वशात् सुप्तादिषु गेहेषु लभ्यते । तदा मन्त्रं शोधयेत्
वै सुप्तस्तम्भितकीलितैः । वर्द्धितैर्दोषजालस्थैरशुभं
भूतशुद्धये । भूतलिप्या पुटीकृत्य जप्त्वा सिद्धिं ततो
लभेत् । न तु वा वर्जयेत् गेहं चतुष्कं वर्णवेष्टितम् ।
सुप्तगेहस्थितं वर्णं शृणुष्व पञ्चकानन । बकारञ्च
भकारञ्च ततोऽन्यगृहसंस्थितम् । शकारञ्च लकारञ्च
लिप्तगेहस्थितं द्वयम् । षकारञ्च क्षकारञ्च लिप्तगेहस्थितं
द्वयस् । दुष्टगेह स्थितं नाथ! सकारं गगनं तथा ।
निजस्वभावमुक्तं यत्तन्मन्त्रं समुपाश्रयेत्” ।

चतुश्चत्वारिंशत् स्त्री चतुरधिका चत्वारिंशत् । (चोया-

ल्लिश) १ चतुरधिकचत्वारिंशत्संख्यायां २ तत्संख्यान्विते
च । परणे डट् । चतुश्चत्वारिंश तत्संख्यापूरणे त्रि०
स्त्रियां ङीप् ।

चतुश्शृङ्ग पु० चत्वारि शृङ्गाण्यस्य । १ कुशद्वीपस्थ वर्ष-

पत्रेते “बभ्रुश्चतुश्शृङ्गः कपिलाचित्रकूटोदेवानीकऊर्द्ध्व-
रोसा द्रविणः” भाग०५ २० । ११ श्लो० । २ परमेश्वरे च ।
“चत्वारि शृङ्गा त्रयो अस्य पादा द्वेशीर्षे” इत्यादि श्रुतौ
तस्य चत्रश्शृङ्गत्वोक्तेस्तथात्यम् । ३ शब्दशास्त्रे च
तस्य नामाख्यातनिपातोपसगरूपचतुर्विधार्थबोधकत्वात्
तथात्वम् ।

चतुष्क न० चतुरवयव चत्वाराऽवेयबायस्य वा कन् । १ चतुः-

संख्यायां २ तदन्विते च “एकं द्विकं त्रिकं चैव चतुष्क”
पञ्चकं तथा । तामार्था इति सर्वेऽमी पक्षाः शास्त्रे
व्यवस्थिताः” हरिः । “एतत् कष्टतमं विद्यात् चतुष्कं
कामजे गणे” द्विकन्त्रिकञ्चतुष्कञ्च पञ्चकञ्च शतं समम्”
इति च मनुः । ३ चतुस्तम्भे मण्डपभेदे “चतुष्कपुष्प-
प्रकरावकीर्णयोः” “नार्य्यश्चतुष्काभिसुर्स्व व्यनैपुः” इति
च कुमा० । “नारीसनांसीव चतुष्कमन्तः” रघुः । ४
मशकार्य्यां (मशारि) ५ पुष्करिणीभेदे च स्त्री ङीप् मेदि० ।
६ यष्टिभेदे न० शब्दार्थ० ।

चतुष्कर्णी स्त्री चत्वारः कर्ण्णा अस्या ङीष् । १ कुमारानुचर

मातृभेदे “क्षुरकर्णी चतुष्कर्णी कर्णप्रावरणा तथा”
भा० श० ४७ अ० कुमारानुचरमातृगणोक्तौ । चत्वार १
कर्णाः श्रवणसाधनं यत्र । २ द्वाभ्यां क्रियसाणे मन्त्रे पुप
“षट्कर्णोभिद्यते मन्त्रश्चतुष्कर्णः स्थिरोभवेत्” पञ्चत० ।

चतुष्कल पु० चतस्रः कलाः मात्रायत्र । आर्य्यादिषु

चतुर्मात्रायुते गणभेदे “ज्ञेया सर्वान्तमध्यादिगुरवोऽत्र चतु
ष्कलाः । गणाश्चतुर्लघूपेताः पञ्चार्य्यादिषु संस्थिताः” वृ० र

चतुष्कोण त्रि० चत्वारः कोणा अत्र । १ चतुरश्रे तदाकारं

२ क्षेत्रभेदे न० ।

चतुष्टय त्रि० चत्वारोऽ वयवा विधा अस्य तयप् । १ चतुर्विध

भागवति चतुष्के । स्त्रियां ङीप् “प्रवृत्तिरासोच्छब्दानां
चरितार्था चतुष्टयी” कुमारः । “तदैषु सर्वमेप्येतत्प-
युञ्जीत चतुष्टयम्” मनुः । “चतुष्टयमर्थदेहादिदण्डम्”
चतुर्णामबयवः तयप् । २ चतुःसख्यायाम् “युक्तं
मणीस्तम्भचतुष्टयेन” कुमा० । “केन्द्रं चतुष्टयं ज्ञेयम्”
नील० ता० उक्तेषु ३ लग्नचतुर्थसप्तमदशमस्थानेषु न० ।

चतुष्टोम पु० चतुरुत्तरः स्तोमः त्रिवृत्पञ्चदशसप्तदशैकविं-

शानां समूहः मध्यपदलोपी स० । चतुरुत्तरस्तोमे “बिव-
र्त्तोऽष्टाचत्थारिंशः धर्त्रं चतुष्टोमः” यजु० १४ । ३३ ।
चतुर्द्दिक्षु स्तूयमानत्वात् ३ वायौ च । “यएव चतुष्टोम
स्तोमस्तं तदुपदधाति तद्यत्तमाह धर्त्रमिति प्रतिष्ठा
वै धर्त्रं प्रतिष्ठा चतुष्टोमोऽथो वायुर्वाव धर्त्रं चतुष्टोमः
स व्याभिश्चतसृभिर्दिग्भिः स्तुते वायुर्वै सर्वेषां भूतानां
प्रतिष्ठा तदेतद्रूपमुपदधातीति” शत० ब्रा० ८ । ४ । १ । २६ ।
३ स्तोमभेदे । “समीचीर्दिशः स्पृताश्चतुष्टोमः स्तोमः”
यजु० १४ । २५ । “चतुष्टोमेन स्तोसेन समीचीः समोच्या-
दिशः स्पृताः” वेददी०
पृष्ठ २८८१

चतुष्पञ्चाशत् स्त्री चतुरधिका पञ्चाशत् । (चौयान्न) १ चतु

रुत्तरपञ्चाशत्संख्यायां २ तत्संख्येये च । ततः पूरणे
डट् । चतुष्पञ्चाश तत्संख्यापूरणे त्रि० स्त्रियां ङीप् ।

चतुष्पत्री स्त्री चत्वारि चत्वारि पत्राण्यस्याः जातित्वात्

ङीष् । १ सुनिषणके (सुसुनि) शाकभेदे “चाङ्गेरी
सदृशः पत्रैश्चतुर्द्दल इति स्मृतः । शाकोजलान्विते देशे
चतुष्पत्रीति चोच्यते” शब्दार्थचि० । २ क्षुद्रपाषाणभेदिनि
च राजनि० ।

चतुष्पथ पु० चत्वारः पन्थानः ब्रह्मचर्य्यादयः आश्रमा यस्य

अच् समा० । १ ब्राह्मणे अमरः ब्राह्मणानां हि “एष
वोऽभिहितो धर्म्मो ब्राह्मणस्य चतुर्विधः” मनुना चातु-
राश्रम्यस्य उक्तत्वात् तथात्वम् । चतुर्णां पथां समाहारः
अच् । २ चतुर्मुखे (चौमाथा) पथि ।

चतुष्पथनिकेता स्त्री चतुष्पथे निकेतोऽस्याः । कुमारानुचर

मातृभेदे “चतुष्पथनिकेता च गोकर्ण्णा महिषानना” भा०
श० ४७ व० कुमारानुचरमातृगणोक्तौ ।

चतुष्पथरता स्त्री ७ त० । कुमारानुचरमातृभेदे । “चतु-

ष्पथरता चैव भूतितीर्थाऽन्यगोचरा” भा० श० ४७ अ० ।

चतुष्पद पुंस्त्री चत्वारि पदानि चरणा अस्य । १ चतुश्चरणे

गवादौ जन्तौ स्त्रियां जातित्वात् ङीष् । २ तिय्यर्द्धरूपे
ध्रुवकरणभोदे न० । करणशब्दे १६९० पृ० सू० सि० वाक्ये
दृश्यम् । अस्य शब्दक० पुंस्त्वोक्तिः सौरागमविरुद्धा ।
“मृगधनुराद्यान्त्यार्द्धे वृषाजसिहाश्चतुश्चरणाः” ज्यो०
त० उक्तेषु ३ मकराद्यार्द्धधनुरन्त्यार्द्धमेषवृषसिंहराशिषु
पु० । स्त्रीणां ४ करणभेदे न० हेमच० ।

चतुष्पदवैकृत न० ६ त० । वृ० स० उक्ते चतुष्पदजन्तुप्रस-

वादिविकारे यथा
“परयोनावभिगमनं भवति तिरश्चामसाधु धेगूनाम् ।
उक्षाणो वान्योऽन्यं पिबन्ति श्वा वा सुरभिपुत्रम् ।
प्रासत्रयेण विद्यात् तस्मिन्निःसंशयं परागमनम् ।
तत्पतिचातायैतौ श्लोकौ गर्गेण निर्दिष्टौ । त्यागो
विवासनं दानं तत्तस्याशु शुभं भवेत् । तर्पयेद्व्राह्मणां
श्चात्र जपहोमांश्च कारयेत् । स्थालीपाकेन धातार
पशुना च पुरोहितः । प्राजापत्येन मन्त्रेण यजेद्बहुल
दक्षिणम्” ४६ अ० ।

चतुष्पदी स्त्री चत्वारः पादा अस्याः अन्त्यलोपः समा० वा

ङीष् पादः पद्भावः । १ पद्ये “पद्यं चतुष्पदी तच्च वृत्तं
जातिरिति द्विधा” छन्दोम० । २ प्राकृतभाषादिप्रसिद्धे
(चौपाया) छन्दोमेदे ३ चतुश्चरण स्त्रीपशौ च अन्य-
लिङ्गे चतुष्पादित्येव ।

चतुष्पर्णी स्त्री चत्वारि चत्वारि पत्रे पत्रे पर्ण्णान्यस्याः

ङीष् । (सुसुनी) शाकभेदे । राजनि० ।

चतुष्पाटी स्त्री चतस्रोदिशः पाठयति पाटि--अण् उप० स० ।

नद्यां शब्दमाला

चतुष्पाठी स्त्री चतुर्ण्णां वेदानां पाठोऽत्र गौरा० ङीष् ।

छात्राणामध्ययनमण्डपे (चौपाडी) गृहे ।

चतुष्पाणि पु० चत्वारः पाणयोऽस्य । १ विष्णौ हारा० २

चतुर्बाहुयुक्तमात्रे त्रि० ।

चतुष्पाद् त्रि० चत्वारः पादा अस्य अन्त्यलोपः समा० ।

चतुरश्चणयुक्ते गवादौ स्त्रियां ङीष् पादः पद्भावः
चतुष्पदीत्येव । समासान्त्यविधेरनित्यत्वात् अन्त्यलोपा-
भावे चतुष्पादोऽपि तत्रार्थे “भिन्नचिह्नचतुष्पादं विषमं
परिकीर्त्तितम्” छन्दोम० ।

चतुस्तन स्त्री चत्वारः स्तना अस्याः वा न ङीष् । सुरभौ

गवि । “तस्यै स्तनानुन्नयति । ऊधसस्तत् स्तनानुन्नयति
सा चतुस्तना भवति चतुस्तना हि गौः” शत० व्रा० ६ ।
५ । २ । १८ । २ । महिष्यादौ च षक्षे ङीषि चतुस्तनीत्यपि ।

चतुस्त्रिंशत् स्त्री चतुरधिका त्रिंशत् । (चौतिश) १ चतुर-

धिकत्रिंशत्संख्यायां २ तत्संख्येये च । पूरणे डट् ।
चतुस्त्रिंश तत्संख्यापूरणे त्रि० स्त्रियां ङीप् ।

चतुस्त्रिंशज्जातक पु० बुद्धभेदे हेमच० ।

चतुस्सन पु० ब० व० चतुर्ण्णां धर्म्मार्थकाममोक्षाणां सनः

दाता सन--दाने अच् ६ त० चत्वारः सनेतिशब्दा नाम्नि
येषां वा । १ सनकसनत्कुमारसनन्दसनातनेतिनामकेषु
चतुर्षु ब्रह्मपुत्रेषु ऋषिषु तन्नाम्नां सनादित्वेन तथात्वम् ।
२ तदवतारधारिणि चतुर्वगदातरि वा २ विष्णौ पु०
“तप्तं तपो विविधलोकसिसृक्षया मे आदौ सनात्-
स्वतपसः स चतुःसनोऽभूत्” भाग० २ । ७ । ६ ।

चतुस्स्रक्ति पु० चतस्रः स्रक्तयः कोणादिग्रूपा अस्य ।

चतुर्दिगवच्छिन्ने । “चतुःस्रक्तिर्नाभिरृतस्य” यजु० ३८ । २० ।
“चतस्रः स्रक्तयः कोणा दिग्रूपायस्य सः” वेददी० ।
“चतुःस्रक्तिरेष कूपो भवति” शत० व्रा० ६ । ३ । ३ । २६ ।

चतूराजी स्त्री चतुर्ण्णां राज्ञां समाहारः टच् सम० । चतुरङ्ग

क्रीडायां क्रीडाभेदे चतुरङ्गशब्दे २८६३ पृ० दृश्यम् ।
पृष्ठ २८८२

चतूरात्र न० चतुसृणां रात्रीणां समाहारः चतुसृभिः रात्रि-

भिर्निर्वृत्तः अण् तस्य लुक् वा अच् सुमा० “संख्यापूर्ब्बं
रात्रमिति” पा० क्लीवत्वम् । १ चतुसृषु रात्रिषु २ तत्साध्ये
क्रतुभेदे च । “चतूरात्रम्” कात्या० श्रौ० १९ । १ । १४ । “अयं
क्रतुर्भवतोति शेषः” कर्कः । चतूरात्रादिष्वधिकम्” कात्या-
श्रौ० २३ । १ । ७ । “सहस्रमधिकं दक्षिणा” कर्कः ।

चत्वर न० चत--ष्वरच् । १ स्थण्डिले होमाथ कृतसंस्कृत

भूभागे २ गृहाद्बहिरङ्गने (उठान) (चाताल) इति च
ख्याते ३ स्थाने अमरः “गृह्यन्तां गृहवास्तूनि कार्य्यन्तां
त्रिकचत्वराः” हरि० ११६ अ० । ४ नानाजनस्थानानां
वासस्थाने “सहि श्रेष्ठिचत्वरे प्रतिवसति” मृच्छ० ।
“न चत्वरे निशि तिष्ठेत् निगूढः” भा० उ० ३६ अ० ।
(चोतारा) ५ ख्याते स्थाने “चत्वरान् राजमार्गांश्च
समानन्तःपुराणि वः” हरिवं० ११६ अ० । ६ चतृसृणां
रथ्यानां सङ्गमे शब्दार्थचि० । “अनुरथ्यासु सर्वासु चत्व-
रेषु च कौरव!” भा० व० १५ अ० ।

चत्वरवासिनी स्त्री चत्वरे वस्तुं शीलमस्याः वस--णिनि

ङीप् । कुमारानुचरमातृभेदे । “ऋक्षाम्बिका निम्बुटिका
रामा चत्वरवासिनी” भा० ४७ अ० ।

चत्वारिंशत् स्त्री चतस्रोदशतयः परिमाणमस्याः । “पङ्क्ति-

विंशतित्रिंशच्चत्वारिंशत्” इत्यादि” पा० नि० । (चाल्लिश)
१ संख्यायां २ तत्संख्येये च । ततः पूरणे तमप् । चत्वा-
रिंशत्तम तत्संख्यापूरणे त्रि० स्त्रियां ङीप् ।

चत्वाल पु० चत--वालञ् संज्ञापूर्व्वकत्वेन वृद्धेरनित्यत्वात् न

वृद्धिः । चात्वाले १ होमकुण्डे ३ दर्भे च मेदि० ।

चद याचने भ्वा० द्विक० उभ० सेट् । चदति ते एदित्

अचदीत् अचदिष्टाम् । चचाद चेदतुः चेदे ।

चद आह्लादे दीप्तौ च भ्वा० अक० प० सेट् इदित् । चन्दति

अचन्दीत् चचन्द चचन्दतुः । चन्द्रः ।

चदिर पुंस्त्री चद--किरच् । १ हस्तिनि २ भुजगे च स्त्रियां

जातित्वात् ङीष् । ३ चन्द्रे ४ कर्पूरे च पु० संक्षिप्तसा० ।

चन हिंमे भ्वा० प० सक० सेट् । चनति अचनीत्--अचा-

नीत् चचान चेनतुः । मित् णिचि चनयति ते ।

चन शब्दे तु० प्र० अक० सेट् । चनति अचा (च) नीत्

चचान चेनतुः । णिचि चानयति ।

चन अव्य० चन--शब्दे अच् । असाकल्ये “असाकल्ये तु

चिच्चन” इत्यमरः । समुच्चायार्थकचशब्देन नञः समास
इत्यन्ये “युवोरिदापश्चन प्र मिणन्ति व्रतं वाम्” ऋ० २ । २४ ।
१२ । “चनेत्येतत्पदद्वयसमुदायः । ऐकपद्यं त्वध्यापक
भाम्प्रदायिकम् । २ नेत्यर्थे “पूर्वीश्चन प्रसितयस्तरन्ति”
ऋ० ७ । ३२ । १३ । “चनेति समुदायो नेत्यर्थे” भा० ।
३ अप्यर्थे “स्वप्नश्चनेदनृतस्य प्रयोता” ऋ० ७ । ८६ । ६ ।
“स्वप्नश्चन स्वप्नोऽपि” भा० । “महिम्न एषां पितरश्चने-
शिरे” ऋ० १० । ५६ । ४ । पितरश्चन पितरोऽपि” यत्तु
मुग्धवो० “किमःक्त्यन्ताच्चिच्चनौ” विभक्त्यन्तात् किमः
चिच्चनप्रत्ययौ विहितौ तच्चिन्त्यम् अप्यर्थकेन असाकल्या-
र्थेन वा चनशब्देन गतार्थत्वात् कदाचन कथञ्चने-
त्यादौ कदापि कथप्रपीत्यर्थलाभात् न प्रत्ययान्तरकल्प-
नम् । प्रागुक्तप्रयोगे किमोऽभावेऽपि प्रयोगदर्शनात् किम
इत्यस्य प्रार्यिकत्वकल्पनेऽपि चनप्रत्यये परे पूर्ब्बसुपः
लोपापत्तेश्च । तन्मते चित्त्वेन प्रत्ययस्याव्ययसज्ञकत्वात्
तयोश्चित्त्वाभावेनानव्ययत्वापत्तेः स्वरबैलक्षण्यानुपपत्तेश्च

चनस् न० चाय् पूजादौ “चायतेरन्ने ह्रस्वश्च” उणा० असुन्

चात् नुट् । १ भक्ते उज्ज्व० । “चनो धाः सहसो
यहो” ऋ० १ । २ । ६ । १० । “चनोदधिष्व पचतोत सोमम्”
निरुक्तधृतश्रुतिः ।

चनसित न० च न शब्दे अच् चनः सित अवसानमस्य ।

ब्राह्मणस्याप्रत्यक्षनामभेदे । “नाध्यक्षनाम्नाऽऽचक्षीत
चनसितेत्यर्हता सह । सम्भाषमाणो व्रूयाद्विचक्षणे-
तीतरैरिति” कर्कधृतमनुवाक्यम् ।
“जागर्त्त्येतां रात्रिं क्रीते राजनि द्वितीयां श्वः सुत्यायां
तृतीयां चनसितं विचक्षणमिति” नामधेयान्तेषु दधाति
चनसितेति व्राह्मणं, विचक्षणेति राजन्यवैश्यौ” “विच-
क्षणचनसितवतीं वाचम्” कात्या० श्रौ० ७ । ५ । ७ ।
“विचक्षणशब्दवतीं चनसितशब्दवतीं च वाच ब्राह्मणा-
दिनामधेयभूतां वाणीं वदेत्” कर्कः ।

चनस्य चनोऽन्नमिच्छति क्यच् नामधातुः अन्नेच्छायां पर०

अक० सेट् चनस्यति अचनस्यीत् । “पुरुभुजा चनस्य-
तम्” ऋ० १ । ३ । १ ।

चनिष्ठ त्रि० चनोन्नम् उपचारात् तद्वान् ततः अतिशये इष्ठन्

डिद्वद्भावे टिलोपः । अन्नवत्तमे “अस्मे वो अस्तु
सुमतिश्चनिष्ठा” ऋ० ७ । ५७ । ४ । “चनिष्ठा अन्नवत्तमा” भा० ।

चन्द पु० चदि अह्लादने ण्यन्तात् अच् । १ चन्द्रे २ कर्षूरे च

शब्दार्थर० ।

चन्द(न्द्र)क पु० चन्द(न्द्र)इव कायति शुभ्रत्वात् कै--क ।

(चाँदा) मत्स्यभेदे “चन्द(न्द्र)कोरुचिकृत् वल्यश्चानभि-
ष्यन्दकृदपि” राजवल्लभः ।
पृष्ठ २८८३

चन्दन पु० न० चदि--ण्यन्तात् ल्यु । स्वतामख्याते मलयाच-

लजे वृक्षविशेषे तद्भेदगुणादिकं भावप्र० उक्ते यथा
श्रीखण्डं चन्दनं न स्त्री भद्रश्रीस्तैलपर्णिकः । गन्ध-
सारो मलयजस्तथा चन्द्रद्युतिश्च सः । स्वादे तिक्तं
कषे पीतं छेदे रक्तं तनौ सितम् । ग्रन्थिकोटरसंयुक्तं
चन्दनं श्रेष्ठमुच्यते । चन्दनं शोतलं रूक्षं तिक्तमाह्ला-
दनं लघु । श्रमशोषविषश्लेष्मवृष्णापित्तास्रदाहनुत् ।
अथ पीतचन्दनम् (कलम्यक) । “कालीयकन्तु
कालीयं षीताभं हरिचन्दनम् । हरिप्रियं कालसारं
तथा कालानुसार्यपि । कालीयकं रक्तगुणं विशेषा-
तङ्गनाशनम्” । अथ रक्तचन्दनम् “रक्तचन्दन
माख्यातं रक्ताङ्गं क्षुद्रचन्दनम् । तिलपूर्णं रक्तसारं
तत्प्रवालफलं स्मृतम् । रक्तं शीतं गुरु स्वादु छर्दितृष्णा
म्लपित्तहृत् । तिक्तं नेत्रहितं वृष्यं ज्वरव्रणविषापहम् ।
तत्र पुंसि “सत्वसंश्रयसुखोऽपि दूष्यते कृष्णसर्पशि-
शुनेव चन्दनः” शकु० । क्लीवे “विना मलयमन्यत्र
चन्दनं न विवर्द्धते” पञ्चत० । “ततः कृत ह्निकाः सर्व्वे
दिव्यचन्दनभूषिताः” भा० स० ५७ अ० । “चन्द्रचन्दन-
रोलम्बरुताद्युद्दीपनं मतम्” सा० द० तस्य शृङ्गारोद्दीप-
कत्वमुक्तम् । २ रक्तचन्दने न० मेदि० ३ वानरभेदे पु०
हेम० । ४ शारिवोषधौ स्त्री राजनि० । (मधुखाली)
नगरीसमीपस्थे ५ नदीभेदे च स्त्री ।

चन्दनगिरि पु० चन्दनस्योत्पत्तिस्थानं गिरिः । मलयाचले

चन्दनगोपी स्त्री चन्दनमपि गोपायति गुप--अण् । शारि-

वाभेदे राजनि० ।

चन्दनधेनु स्त्री पतिपुत्रवत्या मृताया नार्य्या उद्देशेन पुत्रदात-

व्यायां चन्द्रनाङ्कितधेनौ । तद्विधिमाह रत्नाकरे देवलः
“जीवद्भर्त्री तु या नारी पुत्रिणी म्रियते यदि । सवत्-
सामङ्कितां धेनुमाचार्य्याय प्रदापयेत् । पतिपुत्रवती नारी
म्रियते याग्रतस्तयोः । वृषं नचोत् सृजेत् पुत्रः पिता
यावच्च जीवति” । तथा कर्मोपदेशिन्यां ब्राह्मणसर्वस्ने
चाहलायुधधृतानि वचनानि स्मृतिः “पतिपुत्रबती
नारी म्रियते भर्त्तुरग्रतः । चन्दनेनाङ्कितां “धेनुं
तस्याःस्वर्गाय कल्पयेत्” । तथा जातूकर्णः घेनुं चन्द-
नमालिप्य यो दद्यान्मातृहेतवे । यदि पापणतैर्युक्ता
तथापि स्वर्गमाप्नुयात्” । तथा वशिष्ठः “न युक्तश्च
वृषोत्सर्गः पिता यावत् तु जीवति । चन्दनेनाङ्कितां
धेनुमाचार्य्याय प्रदापयेत्” । “चतुर्हस्तो भवेद्पूपो यज्ञ-
वृक्षसमुद्भवः । वर्त्तुलः शोभनः स्थूनः कर्त्तव्यो घेनु-
मौलिकः । विल्वस्य बकुलस्यैव कलौ यूपः प्रशस्यते ।
अभावे वारुणेनापि यूपं कुर्य्याद्विधानतः” । “तरुणीरूप
सम्पन्नः सुशीला च पयस्विनी । न्यायार्ज्जिता गृहे
जाता देया सा श्रोत्रियाय गौः । नदीतीरे वने गोष्ठे
देवतायतनेषु च । व्रीहिक्षेत्रे कुशक्षत्रे राजद्वारे
चतुष्पथे” । एषु वचनेषु वृषोत्सर्गनिषेधचन्दनधेनूत्
सर्गविध्योर्युगपदुपसंहारदर्शनात् वृषोत्सर्गस्थाने
प्रधानतया चन्दनधेनूत्सर्गः प्रतीयते अतोऽस्य
वृषोत्सर्गकार्य्यकारित्वात् तत्कलहेतुत्वं लभ्यते ।
“एकोद्दिष्टं न कुर्व्वीत न्यासिनाञ्चैव सर्वदा । अहन्ये-
कादशे प्राप्ते पार्वणं तु विधीयते” इति श्राद्धविवेकधृतो-
शनोवचने त्रिदण्डसन्न्यासिनाम् एकोद्दिष्टनिषेधपार्वण
विध्योर्युगपदुपसंहारात् एकोद्दिष्टस्थाने पार्वणमिव ।
यद्वा पतिपुत्रवतीरूपप्रेतविशेषाधिकृतवृषं न चोत्
सृजेदिति निषेधचन्दनधेनूत्सर्गविधिभ्यां प्रेत
मात्राधिकृतसामान्यवृषोत्सर्गविध्यवगतफलभावनाकरणी-
भूतवृषकर्मकत्यागमनूद्य तत्कर्मीभूतवृषमपहाय तत्स्थाने
धेनुमात्रगुणविधिर्लाथयादवगम्यते । पशुयागे सामा-
न्यविध्यवगतापःप्रणयणीयाधिकरणचमसस्थाने
“गोदोहेनापः प्रणवेदिति” विशेषविधिना गोदोहगुण
विधिवत् । “नालाभेऽपि प्रवेशिनीम् । उपोष्य
द्वादशीं तत्र त्रयोदश्यान्तु पारणम्” इत्यत्र
एकादशीरूपनिमित्तस्थाने द्वादशीमात्रगुणविधिवच्च ।
अन्यथा धेनूत्सर्गस्य पृथक्कर्मत्वे फलभावनातत्
करणनियोज्यानां पृथक्कल्पने गोरवं स्यात् । उक्त-
विधिनिषेधयोरुपसंहारवैयर्थ्यञ्च स्यात् । ततश्च
कारणैक्यात् फलैक्यमिति । चन्दनधेनूत्सर्गेऽपि प्रेन्तत्व
विमुक्तिपूर्वकस्वर्गप्राप्तिः फलम् । एवं किपिलोक्तमन्त्रस्थ
पापव्यपगमस्वर्गप्रार्थनायाअपि तथैव तात्पर्य्यम् ।
तथा जातूकर्णवचनस्थपापस्वर्गपदयोरपि तथैव तात्-
पर्य्यं वोध्यम् । भूतार्थानां विधिशेषिणामेव जैमिन्युक्त
प्रामाण्येन प्रकृते सिद्धे विधिशेषित्वे लाघवात् “पापि-
ष्ठमपि शुद्धेन शुद्धं पापकृत्यापि वेति” कात्यायनवचनस्य
पापपदस्य प्रेतत्व एव तात्पर्य्यदर्शगाच्च । अत्र यद्यपि
पतिपुत्रवतीत्यत्र पतिपुत्रवत्त्वस्य विशेष्यीभूतकर्त्रन्वयि
मरणानन्वयित्वेन न विशेषणत्वं किन्तूपलक्षणत्वमेव ततश्च
काकवन्तो देवदत्तस्य गृहा इतिवत् कादाचित्कतद्वत्ता-
मादायापि पतिपुत्रवतीति प्रयोग उपपद्यते । तथापि
पृष्ठ २८८४
“अग्रतस्तयोः” “भर्त्तुरग्रतः” इत्याभ्यां मरणकालिकी पति
पुत्रसत्ताऽवगम्यते गवां गोष्ठे इतिवत् । अथ वा
परार्द्धान्वयेन धेनूत्सर्गकालिकीति । नच “अपुष्पिता
मृता काचित् तस्याधेनु र्विगर्हिता” इति कपिलवचने
अपुष्पितायाः पुत्रकर्त्तृकधेनूत्सर्गनिषेघस्याप्रसक्त-
तया सपत्नीपुत्रकर्त्तृकधेनूत्सर्गनिषेधप्राप्तौ तद्दृष्ट्या
पतिपुत्रवतीत्यस्य सपत्नीपुत्रवतीपरत्वम् अवश्यं
वाच्यम् । तदेकवाक्यतया पुत्रिणीत्यादावपि तथात्व
मिति वाच्यम् । अपुष्पितेति कपिलार्द्धस्य प्रसक्ति
पर्वकतार्थं पतिपत्रवद्निवृत्त रजस्काया धेनूत्सर्ग
निषेधार्थत्वात् गत्यां सत्यां लक्षणाया वीजाभावात् ।
पतिवोगिवत् ध्वंसप्रागभावयोरपि अत्थन्ताभावविरो-
वित्वमते तु अजातपुष्पस्त्रीपरत्वं वा भवतु तथात्वेऽपि
“तस्या धेनुर्विगर्हितेति” अप्रसक्तार्थाप्रि अपुष्पिता
धेनुदाननिन्दा स्तुतिपरा । यथा हरेरुत्थाने “पौष्ण
शेप्रेण किन्तेन प्रतिपद्यथ योनिशि” इत्यप्रसक्तापि निन्दा
एकादश्यादिपौर्णमास्यन्तपञ्चके रेवत्यन्तपादयोनविधि
स्तुतिपरा यथा वा वेदगाने “यो गिरा गिरेति ब्रूयात्
स आत्मानमपि गिरेत्” इत्यप्रसक्तनिन्दा “ऐरं कृत्वा
अवगिरेदिति विधेः स्तुतिपरा । अतएव उक्तंशा-
वरमाष्ये “न हि निन्दा निन्द्यं निन्दितुं प्रवर्त्तते
अपि तर्द्वीवरत् स्तोतुमिति” । स्तुतौ हि अप्रसिद्ध
गुणदोषारोपो न दोषाय । नचात्र काम्यस्यैव कार्त्ति
वचादिवृषोत्सर्गस्य स्थाने धेनुदानं विधीयते इति
वाच्यम् । तन्मात्रपरत्वे मानामावात् । प्रत्युत
म्रियत इति वर्त्तमानार्थकविभक्त्या वर्त्तमानसामीप्ये-
नाचिरप्रमीतोपस्थितेश्च । ये तु “बह्वीनामेकपत्नीना
मेका चत् पुत्रिणी भवेत् । सर्वास्तास्तेन पुत्रैण प्राह
पुत्रवतीर्मनुरिति” मनुना पुत्रववीत्वामियावादेव
पतिपुत्रवतीत्यत्र सपत्नीपुत्रवती प्रतीयते इति ब्रुवते
तेऽतीव भ्रान्ताः । पुत्रवतीतिषदस्याखण्डतया मतुपा
पतिपदस्यान्वये तटस्थत्वापत्तेः । गनु वृषतुल्यवयो
वर्णोवृषः स्याद्दक्षिणा द्विजाः । वृषोत्सर्भे तता
पुंसां स्त्रीणां स्त्रीगोर्विशिष्यते” इति भविष्यसंवा-
दाद्धेनुदानमिदं पतिपुत्रवत्या वृषोत्सर्गे दक्षिणादा
नस्य विशेषरूपम्, न तुप्रधानकर्म्मान्तरं गौरवात् ।
न च दक्षिणाया अङ्गत्वेन फलासङ्गतिः । “यस्म पर्ण-
सयी जुहूभवति न स पापश्लोक शृणोतीति” वत्तदुप-
पत्तेरिति चेत् न वृषोत्सर्गदक्षिणातश्चन्दनाङ्कित
धेनुदानस्य प्रकरणान्तराम्नायन प्रकरणान्तरन्यायतः
प्रधानत्वसिद्धेः वृषोत्सर्गस्थानीयत्वेनानुवर्त्तमान
शिष्टाचारात् । धेनुदानयुगनद्धवृषोत्सर्गनिषेधाना-
मसङ्गतेः कपिलपञ्चरात्रे चन्दनधेनुदानस्यापीति
कर्त्तव्यतायां वृषरूपदक्षिणादागविधानाच्च । यथा
कपिल उवाच “अतःपरं प्रवक्ष्मामि धेनुदानमनु-
त्तमम् । पतिपुत्रवती नारी म्रियते भर्त्तुरग्रतः ।
चन्दनेनाङ्कितां धेनुमाचार्य्याय निवेदयेत्” ।
तथा“जीवद्भत्रीतु या नारी पुत्रिणी त्रियते यदि । सवत्सा-
मङ्कितां धेनुमाचार्य्याय निवेदयेत् । साध्वी पतिव्रता नारी
म्रियते याग्रतस्तयोः । वृषं नैवोत्सृजेत् पुत्रः पिता
यावत् तु जीवाति । मृतपुत्रा च या नारी संगृहीता तु
या भवेत् । तस्या धेनुर्न दातव्या वृषोत्सर्गो विधीयते ।
“अपुष्पिता मृता काचित्तस्या धेनुर्विगर्हिता । दद्याद्धेनुं
सुतो ज्येष्ठः कनिष्ठो वृषमुत्सृजेत् । द्वयोः सोदरयोरेको
भवेत् ज्येष्ठः प्रधानतः । त्रयाणां द्वा सुतौ ज्येष्ठौ,
चतुर्णाञ्च त्रयः स्मृताः । पञ्चानां सोदराणाञ्च त्रयोज्येष्ठाः
प्रकीर्त्तिताः । ज्येष्ठेनैव तु कर्त्तव्यं धेनुदानं विधा-
नतः । हेमशृङ्गींस्मुरै रूप्यैः सुशीलां वस्त्रसंयताम् ।
कांस्योदरीं ताम्रपृष्ठां घण्टाचामरभूषिताम् । प्रबाल
षालिकां दद्यात् कर्णयोरुभयोरपि । चन्दनेनाङ्कितां
धेनुमाचार्य्याय निवेदयेत् । मवां लोकमवाप्नोति
दिवि देवैश्च मोदते । चन्दनेनाङ्कितां धेनुं दत्त्वा-
गच्छेत् सुरालयम् । तावत्तिष्ठति स्वर्लोके यावदाहूल
संप्लवम् । नचोत्सर्गो वृषस्यात्र वत्सतर्य्यत्वितस्य
च । वृषोत्सर्ग विधानेन कर्त्तव्यं सर्वकर्म च । मानं
स्तोकेति मन्त्रेण दक्षे वषोऽज्यसीति च । धेनोश्च
सक्थिदेशे तु त्रिशूलाङ्कं समालिखेत् । वामभागे विशेषो
ऽयं दक्षे चक्रं समालिखेत् । तत्रान्यद्वर्जयेद्विद्वानाचा-
र्य्यस्तु विधानवित् । ततो वैसंलिखेच्चकं पञ्चाङ्गुल
प्रमाणकम् । शूलं षड़ङ्गुलं कार्य्यं दक्षे वामे यथाविधि ।
पूर्वाशाभिमुखीं धेनुं यजमानोत्तरामुखः । मस्तकादि
क्रमेणैव प्रतिमन्त्रः प्रपूजयेत्” ।
“एवंविशिष्टां तां धेनुं दत्त्वा तपणमारभेत् । पुच्छं
गृहीत्वा पित्रादीन् वर्षोत्सर्गविधानतः । ऐशान्यां
चालयेत् किञ्चित् आचार्य्याय च दक्षिणाम् । वृषभञ्च
ततो दद्यादाचार्य्याय गुणान्वितम् । पूजयेत् ब्राह्मणांश्चैव
पृष्ठ २८८५
वस्त्रमाल्यादिभिस्ततः । कांस्यपात्रं वस्त्रयुग्मं सुवर्णञ्च
विशेषतः । आचार्य्याय प्रदातव्यं ब्रह्मणे कनकन्तथा ।
आगतान् पूजयेद्भक्त्या यथाशक्ति विधानतः । दीनार्त्त-
कृपणादींश्च अन्नाद्यैः परिपोषयेत्” । पुस्तकान्तरे
पाठाधिक्यं यथा
“एकादशाहे प्रेतायाः षण्मासे चाविदके तथा । त्रिपक्षे
मासिके वापि दद्याद् गां चन्द्रनाङ्किताम्” तथा वराह-
पुराणम् “अयने विषुवेऽष्टम्यां युगाद्यापूर्णिमासु च । दर्शे
मन्वन्तरे चैव धेनुं दद्यात् सुपूजिताम्” । नर्नु आद्यश्राद्धे
त्रिपक्षे बा” इत्यादिना आद्यश्राद्धकर्त्तव्यनित्यवृषोत्सर्ग
कालस्य परपरकालो गौणः । न वा सर्वे मुख्याः
कालाःस्युः । तत्र नाद्यः त्रिपक्षादौ शिष्टाचारविरोधात् ।
नापि द्वितोयः त्रिपक्षादौ नित्यत्वबोधकाभावात् । वस्तुतः
आद्यश्राद्धे वृषोत्सर्गस्व नित्यत्वं त्रिपक्षादौ काम्यत्वम् ।
आद्यश्राद्धपदम् अशौचान्तद्वितीयदिनपरम् “अशौ-
चान्तात् द्वितीयेऽह्नीत्याद्येकवाक्यत्वात् । अत्र च आद्य
श्राद्धस्य विघ्नपतितत्वेन एकादश्यादौ क्रियमाणत्वे
वृषोत्सर्गमपि न कुर्य्यात् । आद्यश्राद्धदिने वृषोत्सर्गा-
करणे त्रिपक्षाद्यान्यतमकालेऽपि वृषोत्सर्गस्यावश्यप्रेतत्य
करीहारकत्वेन तस्य पुनः संवत्सरसाध्यसकृत्कृतस्य
नित्यत्वं कल्प्यम् । एवं धेनुदानस्यापि । अतएव पूर्ण
संवत्सरे मलमासपातेऽपि प्रागकृतश्चेत् कार्य्यएव इति
नवीनाजगुः । एककर्त्तृकानेकवृषोत्सर्गोऽपि शिष्टा-
चारादेकदिनेऽपि । तथा हि स्वर्गलोकगमनफलश्रुतेः
काम्यत्वेन “यो भूय आरभते तस्मिन् फले विशेषः” इति
न्यायादविरोधः । ननु नैमित्तिकत्वात् कथमावृत्तिः
“सकृत् कृते कृतः शास्त्रार्थः” इति न्यायात् नचैकत्र
क्रियाद्वयमिति वचनाच्च । अत्रायं विशेषः काम्य-
नैमित्तिकं फलविशेषार्थं भूयः कार्य्यं, नैमित्तिकमात्रं तु
सकृदेव । किञ्च । संक्रान्त्यादिनिमित्तकश्राद्धमपि
पुनः पुनः स्यात् । मैवं तत्र पितृतृप्तिरूपप्रधानफलस्य
सत्त्वेन चरितार्थत्वात् । अत्रोक्तानि सर्वाण्येतानि
वचनानि निर्य्यगधिकरणन्यायमूकानि तथा हि
तिर्य्यगधिकरणे तिर्य्यक्पङ्गुत्र्यार्षेयदेवतानामनघिकार
इति यागमात्रे उक्तम् । तत्र हेतवः तिरश्चां विशि-
ष्टान्तःकरणविरहात् त्र्यार्षेयाणाम् अन्धवधिरमूका-
नामवेक्षणश्रवणोच्चारणविरहात् साङ्गयागासामर्थ्ये
तेषां यथा यागानधिकारस्तद्वदत्र “स्वपितुः पितृकृत्येषु


“कारो न विद्यते” इति छन्दोगपरिशिष्टे अग्नि-
ष्वात्ताद्यन्तर्गणानुक्त्वा “जीवत्पितृकश्चैतानन्याश्चेतर”
इति कात्यायनसूत्रे च जीवत्पितृकस्य पितृतर्पण
निषेधात् वृषोत्सर्गे तदङ्गभूततद्पुच्छगलितोदक
तर्पणविरहात् साङ्गकरणासामर्थ्ये वृषोत्सर्गेऽनघि-
कारः । अतएव द्वैतनिर्णयेऽपि स्त्रियाः “किर-
णीभूतऋग्वाधेन यागवद्वृषोत् सर्गस्य वाघ उक्तो
वाचस्पतिमिश्रेण । धेनुदानाङ्गतर्पणे तु प्रधानापिकार
श्रुतेः जीवत्पितृकाधिकृतविशेषविघानाच्चाधिकार
एवाभ्युदयिकश्राद्धवत् जन्ममास्यु पनयनाङ्गमशिखवपनवच्च ।
अयन्तु सामान्यशास्त्रोपजीवित्वेन निपेधः पर्य्युदास
एव । स यदि पतिपुत्रवतोभिन्नाया वृषोत्मर्गं कुर्य्यात् इत्ये-
वंमात्रस्तदा पूर्व्वभागवैयर्थ्यं स्यात् । यदि पतिपुत्रवत्या
जीवत्पितृकपुत्रभिन्नो वृषोत्सर्गं कुर्य्यादिति विशिष्ट-
रूपस्तथापि पतिपुत्रवत्यास्तदुभयरहितायाश्च जीवत्-
पिवृकपौत्रादिना वृषोत्सर्गः स्यात् । चायुक्तएव
प्रागुक्तवचनन्यायविरोधात् । तस्मात् ममुदायवचनसा-
र्थक्याय पतिपुत्रवतीभिन्नाया वृषोत्सर्गं कुर्य्यात् । तथा
जीवतपिवृकमिन्नो वृषोत्सर्गं कुर्य्यात् इति वचनन्याय
संवादाद्वाक्यद्वयमेवं सिद्ध्यति प्रमाणद्वौरवस्य
मर्वैरङ्गीकृतत्वात् दर्शपौर्णमासयोः षट्प्राधानापूर्व्व-
वत् । अय वोक्तदेवलादिवचने “ज्येष्ठेनैव तु कर्त्तव्य
धेनुदानं विधानतः” इत्यन्तकापिलादिसकलवचनपर्य्यालोच-
नया कनिष्ठपुत्रवतीभिन्नपतिपुत्रवतीतरजनस्य कापिलपति
प्रसूतकनिष्ठपुत्रभिन्नजोवत्पितृकादन्यो जनो वृषोत्मग
कुर्य्यात् इति सामान्यत एव वृषोत्सर्गविधिः । तथा
पतिपुत्रवत्या ज्येष्ठपुत्रएव चन्दनाङ्गितघेनुमुत्सृजेदिति
विधिश्च सिद्ध्यति । ततश्च पतिपुत्रवत्याः कनिष्ठपुत्रसत्त्व-
एव तदन्यमृतपितृकेण वा वृषोत्सर्गः कार्य्यः । कनिष्ठ-
त्राभावे तु न केनापि । एवं पत्यादिना न चन्दनधेनु
दानामिति । प्रतिप्रसूतकनिष्ठान्यजोवत्पितकेण
न कस्यापि वृषोत्सर्गः कार्य्य इत्यपि च पर्य्यवस्तितम् । वस्तु-
तस्तु पतिपुत्रवत्या वृषोत्सर्गनिषेधे तत्पुत्रस्य जीवत्पित-
कत्वेनानधिकार एव हेतुः न तु स्त्रियाः पतिसत्त्वं
पुत्रसत्त्वं वा मृतपुत्रेत्यादिपागुक्तकापिलवचने
पतिसत्त्वे कनिष्ठपुत्रसत्त्व च वृषोत्सर्गावगतेः
तत्पुत्रस्य पितुः सत्त्व एवानघिकारोक्त्या तन्मरणे वृषोत्
सर्गावगमाच्च । न वा तदुभयसुत्त्व भिलितम् उक्त-
पृष्ठ २८८६
न्यायावगतस्य तत्पुत्रस्य जीवत्पितृकत्वहेतोरेव तादृश
निषेधप्राप्तेः पतिपुत्रसत्त्वयोर्निर्वीजहेतुत्वकल्पना
नौचित्यात् तयोर्वाचनिकहेतुत्वे तु अदृष्टकल्पनाया
अनाय्यत्वात् सिद्धजीवत्पितृकनिषेधप्रपञ्चतया
पतिपुत्रवत्या निषेधोपपत्तौ अधिकनिषेधकल्पने
गौरवाच्च । यस्तु जीवत्पितृकवर्षोत्सर्गनिषेधे
पतिपुत्रवत्याः पृथमुपसंहारः सोऽपि तस्याः पुत्रानधिकार-
मात्रप्रयुक्तसिद्धवृषोत्सर्गाभावभागित्वानुवादः पूर्व-
वाक्यावगतधेनुदानस्य वृषोत्सर्गस्थानीयत्वज्ञापनार्थ
एवेति प्रागपि निरूपितम् । ततश्चोक्तवचने तिर्य्य-
गधिकरणन्यायप्राप्तं जीवत्पितृकस्य वृषोत्सर्गकर्तृ-
त्वाभावमन्द्य सपतिकाया वृषोत्सर्गस्थाने चन्दना-
ङ्कितधेनूत्सर्ग एव विधीयते एतेन वृषोत्सर्गकर्त्तरि
कपिलप्रतिप्रसूतसपतिकावृषोत्सर्गकृतिमत्कनिष्ठपुत्रान्य-
जीवत्पितृकेतरत्वविशेषणं सपतिकाया वृषोत्-
सर्गस्थाने ज्येष्ठपुत्रस्यैव चन्दनाङ्कितधेनूत्सर्गमात्रश्च
लभ्यते । अतोजीवत्पितृकेण काम्यवृषोत्सर्गः पतिते
प्रव्रजिते वा पितरि जीवति पितामहादिवृषोत्सर्गश्च
न क्तार्य्यः । एवं सपतिकाया अपि पुत्रस्य कर्मायो-
ग्यत्वे असत्त्वे वा पत्या कन्यादिना वा वृषोत्सर्गः
कार्य्य एवेति स्थितम् । इदन्तु रत्नाकरहलायुधा
चार्य्यचूड़ामणिविद्याभूषणशुभङ्करमहादेवभट्टाचार्य्य प्रभृ-
तीनामपि सम्मतं तेषां पृथक् पृथक् पद्धतिरपि
प्रसिद्धास्ति । कृचिद्देशे स्मार्त्तभट्टाचार्य्यस्यापि समूल
पद्धतिर्दृश्यते । अत एवात्र विशेषादर्शिनामनाचारो-
ऽनाचार एव । अत्र भविष्योक्तप्रकारस्तु वैकल्पिकएव
“स्मृतिशास्त्रे विकल्पो हि आकाङ्क्षापूरणे सतीति” जैमि-
न्युक्तेः । तत्रत्यपूजाहोमाद्यङ्गेषु विशेषमन्त्रोक्तेः ।
कपिलकल्पेन वृषोत्सर्गधर्म्मातिदेशेन विशेषोक्त-
निरासाच्च” नव्यवाचस्पतिमतम् । रघुनन्दनमते तु चन्द-
नधेनोः काम्यत्वमात्रत्वात् वृषोत्सर्गं व्रिहाय केबल चन्द-
नधेनुदानं न शास्त्रसिद्धं काम्येन नित्यबाधायोगात् सति
सामर्थ्ये उभयकर्त्तव्यतार्थं वृषोत्सर्गनिन्दा चन्दनधेनु
दानस्तुतिपरा । रघुनन्दनकृततत्पद्धतिसत्त्वेऽपि तस्य
काम्यस्यैव विधानार्थत्वम् इति साम्प्रदायिकाः

चन्दनपुष्प न० चन्दननिव सुगन्धि पुष्पमस्य । लवङ्गे राजनि०

चन्दनमय त्रि० चन्दनात्मकः मयद । चन्दनवृक्षनिर्म्मिते

पर्य्यङ्कादौ “यः सर्वः श्रीपर्ण्याः पर्य्यङ्को निर्म्मितः स फल-
दाता” इत्युपक्रमे चन्दनमयोरिपुघ्नो धर्म्मयशोदीर्घ
जीवितकृत्” वृ० स० ७९ अ० तन्मयपर्य्यङ्कस्य फलमुक्तम् ।

चन्दनशारिवा स्त्री चन्दनैव सुगन्धिः शारिवा । शारिवा

भेदे राजनि० ।

चन्दनसार पु० चन्दस्येव सारोऽस्य । १ वज्रक्षारे राजनि० ६ त० । २ घृष्टचन्दनसारे च ।

चन्दनाचल पु० चन्दनस्याकरोऽचलः । मलयाचले राजनि० ।

चन्दनाद्रिप्रभृतयोऽप्यत्र ।

चन्दनादि पु० “चन्दनञ्च तथोशीरं कर्पूरोगन्धवाकुची ।

एलाकर्चूरगोहूलाः सप्तैते चन्दनादयः” इति वैदाकोक्ते
पित्तोपशमने द्रव्यसप्तके ।

चन्दनाद्य न० “चन्दनाद्यं नखं वाप्यं यष्टिशैलेयपद्मकम् ।

मञ्जिष्ठा सरलं दारु शठ्येलापूतिकेशरम् । पत्रं तैलं
सुरा मांसी कक्कोलं वनिताम्बुदम् । हरिद्रे शारिवे
तिक्ता लवङ्गागुरुकुङ्कुमम् । त्वग्रेणुनलिकटुमिस्तैलं मस्तु
चतुर्गुणम् । लाक्षारससमं सिद्धं ग्रहघ्नं बलवर्ण्ण-
कृत् । अपस्मारज्वरोन्मादकृत्याऽलक्ष्मीविवाशनम् ।
आयुःपुष्टिकरं चैव वशीकरणमुत्तमम्” चक्रदत्तोक्ते
तैलभेदे ।

चन्दनीया स्त्री चन्द्यतेऽनया बा० करणे अनीयर् । गोरो-

चनयाम् राजनि० ।

चन्दिर पुंस्त्री० चदि--किरच् । १ गजे स्त्रियां ङीष् । २ चन्द्रे पु० मेदि० ।

चन्द्र पु० चदि--आह्लादे णिच्--रक् । व्योमस्थे जलमये

मण्डलाकारे (चाँद) ख्याते पदार्थे । तन्मण्डलमानादि
इन्दुशब्दे ९५५ । ५६ पृ० उक्तम् । स च ग्रहभेदः तदधि-
ष्ठावृदेवादि ग्रहयज्ञशब्दे २७५७ पृ० दर्शितम् ।
अधिकमिन्दुशब्दे ९३० पृष्ठादौ दृश्यम् । तस्योत्पत्तिः
अत्रिजशब्दे १११ पृ० उक्तम् । तद्वंशादि हरिवंशे
भागवते च दृश्यम् । चन्द्रस्य दिग्वलवर्ण्णादिज्ञानाय सर्वग्रहा-
णां दिग्बलाद्युच्यते तत्र ज्यो० त०
“रक्तश्यामोभास्करोगौरैन्दुर्नात्युच्चाङ्गोरक्तगौरोमही-
जः । दूर्वाश्यामोज्ञोगुरुर्गौरगात्रः श्यामः शुक्रोभा-
स्करिः कृष्णदेहः” । “सूर्य्यः शुक्रः क्षमापुत्रः सैंहि-
केयः शनिः शशी । सौम्यस्त्रिदशमन्त्री च प्राच्यादि-
दिगधीश्वराः” । “प्राच्यां सौम्यसुराचार्य्यौ याम्या
भास्करभूमिजौ । प्रत्यक् सौरिरुदीच्यान्तु सितेन्दू
दिग्वलान्वितौ” । “भौमार्कजीवाः पुरुषाः क्लीवौ
सोमजभानुजौ । स्त्र्याख्यौ भार्गवचन्द्रौ द्वौ तत्पतित्वा-
त्तथोच्यते” । “चन्द्रार्कजीवाज्ञसितौ कूजाकीं यथाक्रम”
पृष्ठ २८८७
सत्वरजस्तमांसि” । “कटुलवणतिक्तमिश्रितमधुराम्लौ च
कषायकोऽर्कतः” । “ब्राह्मणे शुक्रवागोशौ क्षत्रिये
भौमभास्करौ । चन्द्रोवैश्ये बुधः शूद्रे पतिर्मन्दोऽन्त्यजे
जने” । “ऋग्वेदाधिपतिर्जीवोयजुर्येदाधिपः सितः ।
सामवेदाधिपोभौमः शशिजोऽथर्ववेदराट्” । “मधु-
पिङ्गरादृक्चतुरश्रतनुः पित्तप्रकृतिः सविताल्पकचः ।
तनुवृत्ततनुर्बहुवातकफःप्राज्ञशशी मृदुवाक् शुभदृक् ।
भूमिजस्तरुणभूर्त्तिरुदारः पैत्तिकः सुचपलः कृशमध्यः ।
श्लिष्टाक् सततहास्यरुचिर्ज्ञः पित्तमारुतकफप्रकृतिश्च ।
वृहत्तनुः पिङ्गलमूर्द्धजेक्षणोवृहस्पतिः श्रेष्ठमतिः
कफात्मकः । भृगुः सुखी कान्तवपुः सुलोचनः कफानिला-
त्माऽसितवक्रमूर्द्धजः । मन्दोऽलसः कषिलदृक् कृशदीर्घ-
गात्रः स्थूलोऽङ्घ्रिजः परुषलोमकचोऽनिलात्मा”
“मित्राणि सूर्य्यच्छिशिभौमजीवाः सूर्य्येन्दुजौ सूर्य्य-
शशाङ्कजीवाः । आदित्यशुक्रौ रविचन्द्रभौमा बुधार्कजौ
चन्द्रजभार्गवौ च । “सितासितौ चन्द्रमसो न कश्चित्
बुधः शशी सौम्यसितौ रवीन्दू । रवीन्दुभौमा रवित-
स्त्वमित्रा मित्राविशेषस्तु समः प्रदिष्टः । बुधः कुजेज्या-
स्फुजिदर्कपुत्राः, शुक्रार्कजौ, भौमसुरेज्यमन्दाः । शनिः,
कुजेज्यौ सुरराजमन्त्री रव्यादितोऽमी समसंज्ञिताः स्युः” ।
तच्चारफलादिकम् वृ० स० उक्तम् तच्च इन्दुशब्दे ९३१ । ३२
पृ० दृश्यम् “अर्द्धादूनः शशी पापः” समयामृतम् ।
अद्रिजातसोमस्य चन्द्रलोकप्राप्तिकथा काशीख० १४ अ० ।
“पिता सोमस्य भो विप्र! जज्ञेऽत्रिर्भगवानृषिः । ब्रह्म-
णोमानसात् पूर्वं प्रजासर्गं विधित्सतः । अनुत्तरं
नाम तपो येन तप्तं हि तत् पुरा । त्रीणि वर्षसहस्राणि
दिव्यानीति हि नौ श्रुतम् । ऊर्द्धमाचक्रमे तस्य रेतः
सोमत्वमीयिवः । नेत्राभ्यां तच्च सुस्नाव दशधा द्योतयत्-
दिशः । तं गर्भविधिना हृष्टा दश देव्यो दधुस्ततः । समेत्य
धारयामासुर्नैव ताः समशक्नुवन् । यदा न धारणे
शक्तास्तस्य गर्भस्य ता दिश । ततस्ताभिः सजूः सोमोनि-
ष्पपात वसुन्धराम् । पतितं सोममालोक्य ब्रह्मा
लोकपितामहः । रथमारोपयामास लोकानां हितकाम्यया ।
स तेन रथमुख्येन सागरान्तां वसुन्धराम् । द्विः सप्तकृत्वे
द्रुहिणश्चकाराये प्रदक्षिणम् । तस्य यत् प्लावितन्तेजः
पृथिवीमन्वपद्यत । तेनौषध्यः समुद्भूता याभिः सन्धार्य्यते
जगत् । स लब्धतेजा भगवान् ब्रह्मणा वर्द्धितः स्वयम् ।
तपस्तेपे सहाभाग! पद्मानां दशतीर्दश । अविमुक्तं
समासाद्य क्षेत्रं परमपावनम् । संस्थाप्य लिङ्गममृत
चन्द्रेशाख्यं खनामतः । वीजोषधीनां तोयानां राजाऽ
भूच्च द्विजन्मनाम् । प्रसादाद्देवदेवस्य विश्वेशस्य पिना-
किनः । तत्र कुण्डं विधायैकममृतोदमिति स्मृतम् । यस्या-
म्बुपानस्रानाभ्यां नरोऽज्ञानात् प्रमुच्यते । तुष्टेन
देवदेवेन स्वमौलौ योधृतः सदा । आदाय तत्कलामेकां
जगत्सञ्जीवनीं पराम् । पश्चाद्दक्षेण शप्तोऽपि मासान्ते
क्षयमाप्य च । आप्याय्यतेऽसौ कलया पुनरेघ तया शशी ।
स तत् प्राप्य महद्राज्यं सोमः सोमवतां वरः । राजसूयं
समाजह्रे सहस्रशतदक्षिणम् । दक्षिणामददत् सोम
स्त्रिलोकानिति नौ श्रुतम् । तेभ्यो ब्रह्मर्षिमुख्येभ्यः
सदस्येभ्यश्च भोद्विज! । हिरण्यगर्भो ब्रह्मात्रिर्भृगुर्यत्रर्त्विजोऽ-
भवन् । सदस्योऽभूद्धरिस्तत्र बहुभिर्मुनिभिर्वृतः । तं
सिनी च कुहूश्चैव द्युतिः पुष्टिः प्रभा वसुः । कीर्त्तिर्धृतिश्च
लक्ष्मीश्च नव देव्यः सिषेविर । उमया सहितं रुद्रं
सन्तर्प्याध्वरकर्मणा । प्राप सोमैति ख्यातिं दत्तां
सोमेन शम्भुना । तत्रैव तप्तवान् सोमस्तपः परमदुष्क-
रम् । तत्रैव राजसूयञ्च चक्रे चन्द्रेश्वराग्रतः । तत्रैव
ब्राह्मणैः प्रीतैरित्युक्तोऽसौ कलानिधिः । सोमोऽस्नाकं
ब्राह्मणानां राजा त्रैलोक्यदक्षिणः । तत्रैव देवदेवस्य
विलोचनपदङ्गतः । शम्भुना प्रोतमनसा त्रैलोक्याह्ला-
दहेतवे । त्वं ममापि परा मूर्त्तिरित्युक्तस्तत्तपीबलात्!
जगत्तवोदयं प्राप्य भविष्यति सुखोदयम् । त्वत्पीयूष
मयैर्हस्तैः स्पृष्टमेतच्चराचरम्! भानुतापपरीतञ्च परां
ग्नानिं विहास्यति” ।
“इति दत्त्वा वरान् शम्भुस्तस्मै चन्द्रमसे द्विज! ।
अन्तर्हितो महेशानस्तस्मिन् वैश्वेश्वरे पुरे । तदारभ्य च
लोकेऽस्मिन् द्विजराजाऽधिपोऽभवत्” । तस्य मासमध्ये
दक्षशापात् क्षयवृद्धी पाद्मे स्वर्गखण्डे उक्ते यथा
“अश्विन्याद्यास्तु दक्षस्य उपयेमे सुता विधुः । रोहिण्या
मेव सततं बद्धप्रेमा रराम ह । दृष्ट्वा तदितरास्तानु
तप्ताः पितरमब्रुवन् । अस्माकं कामदस्तात । जामाता
तव रोहिणीम् । रमयत्येव सततं तेन तप्ता वयं पितः! ।
तत् श्रुत्वा चाप्रियं दक्षः सोममाह भजस्व भोः ।
प्रेम्णा समेन सर्व्वास्त्वं दुहितॄर्मम मानद! । जगृहे त
द्वचोनैव सोमः सप्रेम रोहिणीम् । तथैव रमयामास श्रुत्वा
दक्षश्चुकोप ह । शशाप तेन भविताऽपक्षीणोऽस्मद्वचा-
तिगः । यक्ष्मणा च परिग्रस्तो भव त्वं क्षीणरेतकः ।
पृष्ठ २८८८
अय क्षयमिते तस्मिन् सर्व्वास्ताः सहिताः स्त्रियः ।
पितरं शरणं प्राप्ताः क्षीयते नः पतिः पितः! । न वयं
तेन वर्त्तामो विना सुखनिराकृताः । उवाच दक्ष
स्ताः सर्व्वा शापो मे नान्यथा भवेत् । मासमध्ये पक्ष-
मेकं वर्द्धतां स क्रमेण वै । क्षयं क्रमेण प्राप्नोतु पक्षमेकं
व्यवस्थया । एवं शापं वरञ्चैव लेभे तस्य व्यवस्थया ।
तथैव राजते व्योम्नि क्षयवृद्धी दधद्विधुः” । ज्योति-
षोक्ततत्कारणन्तु इन्दुशब्दे ९३३ पृ० दर्शितम् ।
२ आह्लादजनकद्रव्यमात्रे त्रिका० । ३ कर्पूरे ४ स्वर्णे ५ जले
६ काम्पिल्ले पु० मेदि० । ७ द्वीप्रभेदे शब्दमा० । ८ विसर्गवर्णे
तन्त्रसंकेतः चदि--दीप्तौ रक् । ९ कमनीये त्रि० १० मयूर
पिच्छे मेचके हेमच० । ११ शोणमुक्ताफले व्याडिः ।
अन्त्यपदलोपे १२ चन्द्रगुप्ते नृपे च । “क्रूरग्रहः सकेतुः
चन्द्रमसंपूर्ण्णमण्डलमिदानीम्” मुद्रारा० । “चन्द्रं गता
पद्मगुणान्न भुङ्क्ते” कुमा० । “बधूजनश्चन्द्रमधश्चकार”
नाघः । “चन्द्रचन्दनरोलम्बरुताद्युद्दीपनं मतम्” सा०
द० तस्य शृङ्गाररसोद्दीपकत्वमुक्तम् । स्वर्णे “चन्द्ररथः
“होता मन्द्रः शृणुवच्चन्द्ररथः” ऋ० १ । १४१ । १२ । १३ हीरके ।
चन्द्राघिष्ठातृके १४ मृगशिरोनक्षत्रे १५ एकाङ्के च ।

चन्द्रक पु० चन्द्र इव काथति कै--क । मयूरपुच्छस्थे चन्द्रा-

कारे १ पदार्थे अमरः । २ नखे शब्दच० ३ मत्स्यमेदे
(चाँटा) राजनि० । “चन्द्रकस्त्वनभिष्यन्दी मधुरो
बलवर्द्धनः” राजनि० तद्गुणाउक्ताः । स्वार्थे क । ४ चन्द्रशब्दाथ
जले पतितस्नेहांशस्य चन्द्राकारे ५ मण्डले च “यां चन्द्रकै-
मेदजलस्य महानदीनाम्” माघः । ६ सितमरिचे न०
राजनि० ७ शिग्रुवीजे न० शब्दार्थचि० चन्द्रकोजातो-
ऽप्य तारका० इतच् । चन्द्रकित जातचन्द्रके त्रि० ।

चन्द्रकला स्त्री ६ त० । चन्द्रमण्डलस्य षोडशभागैकभागे

तासां नामानि कलाशब्दे १७८४ पृ० दर्शितानि तिथिभेदे
स्त्रीणां देहांशभेदे स्थितानां तासां नामभेदाश्च काम
शान्त्रे उक्ता यथा
“पुषा यशा सुमनसा रतिः प्राप्तिस्तथा धृतिः । ऋद्धिः
मौम्या मरीचिश्च तथा चैवांशुमालिनी । अङ्गिरा
शशिनी चेति छाया सम्प्रूर्ण्णमण्डली । तुष्टिश्चैवामृत ।
चेत्रि कलाः सोमस्य पोड़श” ।

चन्द्रकवत् पुंस्त्री चन्दकोऽस्त्यस्य मतुप् मस्य वः । मयूरे

“प्राद्दुवत् सपदि चन्द्रकवान् द्रुमाग्रात्” माघः ।
त्रियां ङीप् ।

चन्द्रकाटुकि पु० प्रवरभेदे हेमा० व्र० ख० मूलं वृश्यम् ।

चन्द्रकान्त पु० चन्द्रः कान्तोऽभीष्टो यस्य । स्वनामख्याते

१ मणिभेदे तद्दर्शने हि तस्य जलस्रावात् तत्कान्तत्वम् ।
२ कैरवे, ३ श्रीखण्डचन्दने च न० । ४ रात्रौ, ५ ज्योत्स्नायां,
स्त्री मेदि० ६ चन्द्रघोषायां, चन्द्रपत्न्थाञ्च स्त्री हेमच० ।
“चन्द्रकान्तोद्भवं वारि पित्तघ्नं विमलं स्मृतम्” मुश्रु० ।
“सायं शशाङ्ककिरणाहतचन्द्रकान्तः” “दृष्ट्वा तस्यामल
वपुरिदं चन्द्रकान्तानुसारि” अमरुश० । “चन्द्रकान्ता-
भिधा रौ तौ विरामः स्वराष्टौ” वृ० र० टी० उक्ते
पञ्चदशाक्षरपादके ७ छन्दोभेदे स्त्री । “८ लक्ष्मणात्मज
चन्द्रकेतुराजधान्यां स्त्री चन्द्रकेतुशब्दे दृश्यम् ।

चन्द्रकान्ति न० चन्द्रस्येव कान्तिरस्य शुभ्रत्वात् । १ रजते

रूप्ये, ६ त० । तद्गुणादि भावप्र० उक्तं यथा
“त्रिपुरस्य बघार्थाय निर्न्निमिषैर्विलोचनैः ।
निरीक्षयामास शिवः क्रोधेन परिपूरितः । अग्निस्तत्-
कालमपतत्तस्यैकस्माद्विलोचनात् । ततोरुद्रः समभव-
द्वैश्रानर इव ज्वलन् । द्वितीयादपतन्नेत्रादश्रुविन्दुस्तु
वामकात् । तस्माद्रजतमुत्पन्नमुक्तवर्म्मसु योजयेत् ।
कृत्रिमञ्च भवेत्तद्धि वङ्गादिरसवोगतः । रूप्यन्तु
रजतं तारञ्चन्द्रकान्ति सितप्रयम् । गुरुस्निग्धं मृदु-
श्वेतं दाहे छेदे घनक्षयम् । वर्णाढ्यं चन्द्रवत् स्वच्छं
रूप्यं नवगुणं शुभम् । कठिनं कृत्रिमं रूक्षं रक्तं पीतं
दलं लघु । दाहच्छेदघनैर्नष्टं रूक्षं दुष्टं प्रकीर्त्ति-
तम् । रूप्यं शीतं कषायाम्लं स्वादु पाकरसं सरम् ।
वयसः स्थापनं स्निग्धं लेखनं वातपित्तजित् । प्रमे-
हादिकरोगांश्च नाशयत्यचिराद्ध्रुवम् । तारं शरी
रस्य करोति तापं विद्धं वनं वलं यच्छति शुक्रनाशम् ।
वीर्य्यं बलं हन्ति तनोश्च पुष्टिं महागदान् शोषयति
ह्यशुद्धम्” । चन्द्रस्य २ दीप्तौ

चन्द्रकिन् पु० स्त्री चन्द्रकोऽस्त्यस्य इनि । मवूरे त्रिका० स्त्रियां ङीप् ।

चन्द्रकुण्ड पुंन० ६ त० । कामरूपस्थे चन्द्रकृते कुण्डभेदे

चन्द्रकूटशब्दे दृश्यम् ।

चन्द्रकूट पु० कामरूपस्थे पर्व्वतभेदे तत्वाघा कालिका० ८१ अ०

“पूर्व्वं वायुगिरेः शैलश्चन्द्रकूट इति स्मृतः । त्रिकोण-
स्ताम्रसङ्काशस्तदूर्द्धे चन्द्रमण्डलम् । द्वितीयवर्गस्या-
द्यन्तु विन्द्विन्दुभ्यामलङ्कृतम् । चन्द्रवीजमिति प्रोक्तं
तेन चन्द्रं प्रपूजयत् । अद्यापि प्रतिदर्शे तु पर्व्वतं तं
निशापतिः । अदक्षिणीकरोत्येव दशभीरश्मिभि-
पृष्ठ २८८९
र्युतः । तस्यैव पूर्व्वभागे तु सोमकुण्डाह्वयं सरः ।
तत्र स्नात्वा च पीत्वा च नरः कैवल्यमश्नुते । स्वर्गा-
दवभृतश्चन्द्रः कामाख्यासेवने यदा । तदा तद्रश्मिसंघात
निःसृतास्तोयराशयः । तैस्तोयैर्व्वासवः कुण्डमक-
रोदिन्द्रचन्द्रयोः । मध्ये पुण्यतमस्थने स्वयं ब्रह्म
शिलोपरि । चन्द्ररश्मिसमुद्भूत! चन्द्रकुण्डमहोदधेः ।
सुधास्रवण! साह्लाद! त्वं चन्द्र! कलुषं हर । इत्यनेन
तु मन्त्रेण सुस्नातश्च चन्द्रपाथसि । चन्द्रकूटं समारुह्य
पूजयेद्यस्तु तं नरः । अविच्छिन्ना सन्ततिस्तु सुकान्ता
तस्य जायते । परत्र चन्द्रभवनं भित्त्वा याति परं
पदम् । तीरे तु चन्द्रकूटस्य नन्दनो नाम वै गिरिः ।
तस्मिन् वसति शक्रस्तु कामाख्यासेवने रतः । न्यञ्चभावं
समासाद्य सर्व्वदेवेश्वरो हरिः । सेवितुं त्रिदशेशानीं
सततं वर्त्तते नरः । चन्द्रकूटस्य तु गिरेर्नन्दनस्य
तथागिरेः । प्रतिदर्शं तथा चन्द्रः प्रदक्षिणयति त्रिधा ।
चन्द्रकुण्डजले स्नात्वा समारुह्याथ नन्दनम् । आराध्य
शक्रं लोकेशं महाफलमवाप्नुयात्” ।

चन्द्रकूप पु० चन्द्रकृतः कूप काशीस्थे कूपभेदे । “चन्द्र-

कूपजले स्नात्वा जग्राह नियमं व्रती” काशीख० १० अ० ।

चन्द्रकेतु पु० भारतप्रशिद्धे १ सौबलानुचरे सैन्यभेदे “शत्रञ्जयं

चन्द्रकेतु” महामेघ सुवर्च्चसम् । सूर्य्यभासञ्च पञ्चैतान्
हत्वा विव्याध सौबलम्” भा० द्रो० ४८ अ० । २ लक्ष्मणात्मज-
भेदे । तस्व देशभेदे राज्याभिषेककथा रागा० उ० १०३ स०
“इमौ कुमारौ सौमित्रे! तव धर्म्मविशारदौ । अङ्गद-
श्चन्द्रकेतुश्च राज्यार्थे दृढ़विक्रमौ । इमौ राज्येऽभि-
षेक्ष्यामि देशः साधु विचीयताम् । रमणीयोह्यसंताधो-
रमेतां यत्र धन्विनौ । न राज्ञा यत्र पीड़ा स्यान्नाश्र-
माणां विनाशनम् । स देशो दृश्यतां सौम्य नापराध्या-
महे यथा । तथाक्तवति रामे तु भरतः प्रत्युवाच ह ।
अयं कारुपथो देशो रमणीयो निरामयः । निवेश्यतां
तत्र पुरमङ्गदस्य महात्मनः । चन्द्रकेतोः सुरुचिरं
चन्द्रकान्तं निरामयम् । तद्वाक्यं भरतेनोक्तं प्रतिज-
ग्राह राघवः । तञ्च कृत्वा वशे देशमङ्गदस्य न्यवेशयत् ।
अङ्गदीया पुरी रम्याप्यङ्गदस्य निवेशिता । रमणीया
सुगुप्ता च रामेणाक्लिष्टकर्म्मणा । चन्द्रकेतोश्च मल्लस्य
मल्लभूम्यां निवेशिता । चन्द्रकान्तेति विख्याता दिव्या
स्वर्गपुरी यथा । ततोरामः परां प्रीतिं लक्ष्मणो
भरतस्तथा । ययुर्युद्धे दुराधर्षाअभिषेकञ्च चक्रिरे ।
अभिषिच्य कुमारौ द्वौ प्रस्थाप्य सुसमाहितौ । अङ्गदं
पश्चिमां भूमिं चन्द्रकेतुमुदङ्मुखम् । अङ्गदञ्चापि सौमि-
त्रिर्लक्षणोनुजगाम ह । चन्द्रकेतोस्तु भरतः पार्ष्णि
ग्राहो वभूव ह” ।

चन्द्रक्षय पु० क्षीयतेऽस्मिन् क्षि--आधारे अच् । ६ त० । अमावास्यायाम् मेदि० ।

चन्द्रगिरि पु० चन्द्रकूटाख्ये पर्व्यतभेदे

चन्द्रगुप्त पु० मौर्य्यवंश्ये राजभेदे तद्राज्याभिषेककथा

वृहत्कथायां विस्तरतो दृश्या । “नव नन्दान् द्विज
कश्चित् प्रपन्नानुद्धरिष्यति । तेषामभावे जगतीं मौर्य्या
भोक्ष्यन्ति वै कलौ । सएव चन्द्रगुप्तं वै द्विजो राज्येऽभि
षेक्ष्यति” भाग० १२ । १ । ७ । श्लो० । “द्विजः कश्चित्
चाणक्यः” श्रीधर० “ततोऽपि द्विसहस्रेषु दशाधिकशत-
त्रये । भविष्यं नन्दराज्यञ्च चाणक्योयान् हनिष्यतीति”
स्कन्दपुराणेकवाक्यत्वात् तत्रार्थता ।

चन्द्रगृह न० ६ त० । कर्कराशौ । चन्द्रमन्दिरादयोऽप्यत्र

चन्द्रगोल पु० चन्द्रएव गोलः । गोलाकारे चन्द्रमण्डले

चन्द्रगोलस्थ पु० ब० व० । चन्द्रगोले तिष्ठन्ति स्था--क ।

चन्द्रलोकस्थेषु स्वधाभोजिषु पितृलोकेषु त्रिका० ।
“विधूर्द्ध्वभागे पितरोवसन्ति” सू० सि० उक्ते स्तेषां तथात्वम् ।

चन्द्रगोलिका स्त्री चन्द्रगोलः साधनत्वेनास्त्यस्य ठन् ।

ज्योत्स्नायां हेम० ।

चन्द्रचञ्चल पु० चन्द्र इव चञ्चलः । (खलिसा) १ मत्स्यभेदे

जटा । (चाँदा) २ मत्स्ये स्त्री शब्दर० ।

चन्द्रचार पु० चन्द्रस्य चारः गतिभेदः । चन्द्रमण्डलस्य

राशिविशेषे गतौ तत्फलम् इन्दुशब्दे ९३१ पृ० उक्तम्

चन्द्रचूड़ पु० चन्द्रः चूडास्याम् यस्य । चन्द्रशेखरे शिवे ।

चन्द्रज पु० चन्द्राज्जायते जन--ड । बुघे चन्द्रजातादयोऽ-

प्वत्र । इन्दुजशब्दे ९३४ पृ० दृश्यम् । “रौद्रादीनि
मघान्तान्युपाश्रिते चन्द्रजे प्रक्षापीड़ा” वृ० स० ७ । ३ ।

चन्द्रतापन पु० दानवभेदे । “श्वेतशीर्षश्चन्द्रहनुश्चन्द्रहा ।

चन्द्रतापनः” हरिवं० २४० अ० दानवोक्तौ

चन्द्रदार पु० ब० व० ६ त० । अश्विन्यादिषु १ दक्षकन्यासु

चन्द्रकलत्रेषु २ तन्नामनक्षत्रेषु च ।

चन्द्रदेव पु० भारतप्रसिद्धे कुरुदलस्थे नृपभेदे “प्रत्युद्ययु-

स्त्रिगर्त्तास्तम् (अर्जुनम्) इत्युपक्रमे” “सत्यसेनश्चन्द्रदेवो-
मित्रदेवः सुतञ्जयः” “शत्रुञ्जयञ्च विंशत्या चन्द्रदेव
तथाष्टमिः” इति च भा० क० २७ अ० ।

चन्द्रद्युति पु० चन्द्रस्य द्युतिरिव द्युतिरस्य । चन्दने

मावप्र० चन्दनशब्दे दृश्यम् ६ त० । २ चन्द्रस्य प्रकाशे स्त्री
पृष्ठ २८९०

चन्द्रनाभ पु० चन्द्रोनाभौ यस्य संज्ञायाम् अच् । भारत-

प्रसिद्धे दानवभेदे । “सूर्य्यनाभश्च विक्रान्तश्चन्द्रनाभश्च
भारत!” हरिवं० ३२४ अ० दानवोक्तौ ।

चन्द्रनामन् पु० चन्द्रस्य नामान्येव नामान्यस्य । कर्पूरे

शब्दार्थचि० । चन्द्रसंज्ञचन्द्राह्वयादयोऽप्यत्र

चन्द्रपाद पु० ६ त० । चन्द्रकिरणे । “नियमितपरिखेदा

तच्छिरश्चन्द्रपादैः” कुमा० । चन्द्रचरणादयोऽप्यत्र ।

चन्द्रपुत्र पु० ६ त० । बुधे चन्द्रनन्दनादयोऽप्यत्र ।

चन्द्रपुष्पा स्त्री चन्द्र इव श्वेतं पुष्पमस्याः । श्वेतकण्टका-

र्य्याम् राजनि० ।

चन्द्रप्रभ पु० चन्द्रस्य प्रभेव प्रभाऽस्य । १ जैनभेदे हेम० ।

“कृमिरिपुदहनव्योषत्रिफलामरदारुचव्यभूनिम्बम् ।
मागधिमूलं मुस्तं सशटिवचामाक्षिकञ्चैव । लवणक्षार
निशायुगकुस्तुम्बुरुगजकरणातिविषाः । कर्षांश-
कान्येव समानि कुर्य्यात् पलाष्टकञ्चाश्मजतोर्विदध्यात् ।
निष्पत्रशुद्धस्य पुरस्य धीमान् पलद्वयं लौहरजस्तथैव ।
सिताचतुष्कं पलमत्र वंश्यानिकुम्भकुम्भत्रिसुन्धि-
युक्तम् । चन्द्रप्रभेयं गुटिका प्रयोज्या चार्शांसि निर्या-
तयते षडेव । भगन्दरं पाण्डुरकामलाञ्च निर्नष्ट
वह्नेः कुरुते च दीप्तिम् । हन्त्यामयान् पित्तकफानि-
लोत्यान् नाडीगते मर्म्मगतव्रणे च । ग्रन्थ्यर्बुदे विद्र-
धिराजयक्ष्मणोर्मेहे भगाख्ये प्रबले च योज्या । शुक्र-
क्षये चाश्मरिमूत्रकृच्छ्रे शुक्रुप्रवाहेऽप्युदरामये च ।
भक्तस्य पूर्ब्बं सततं प्रयोज्या तक्रानुपानं त्वथा मस्तु-
पानम् । आजोरसो जाङ्गलजो रसो वा पयोऽथ वा
शीतजलानुपानम् । बलेन नागस्तुरगोजवेन दृष्ट्या
सुपर्णः श्रवणे वराहः । बलीपलितनिर्मुक्तो वृद्धोऽपि
तरुणायते । न पानभोज्ये परिहार्य्यमस्ति न
शीतवातातपमैथुनेषू । शम्भुं समभ्यर्च्य कृतप्रसादेनाप्ता
वटी चन्द्रमसः प्रासादादिति” मुखबोधोक्ते गुटिका-
भेदे स्त्री चक्रदत्तोक्ते ३ वर्त्तिर्भेदे स्त्री तत्प्रकारो यथा
“त्रिफलाकुक्कुटाण्डत्वक्कासीसमयसोरजः । नीलोत्पलं
विडङ्गानि फेनञ्च सरितां पतेः । आजेन पयसा पिष्ट्वा
भावयेत्ताम्रभाजने । सप्तरात्रं स्थितं भूयः पिष्ट्वा क्षीरेण
वत्त येत् । एषा दृष्टिप्रदा वर्त्तिरन्धस्याभिन्नचक्षुषः ।
चन्दनत्रिफलापूगपलाशतरुशोणितैः । जलपिष्टैस्त्वियं
वर्त्तिरशेपतिमिरापहा । निशाद्वयाभयामांसीकुष्ठतृष्णा-
विचूर्णिता । सर्वनेत्रामयान् हन्यादेतत् सौगतमञ्जनम् ।
व्योषोत्पलाभयाकुष्ठतार्क्ष्यैवर्त्तिः कृता हरेत् ॥ अर्बुदं
पटलं काचं तिमिरार्म्माश्रुनिस्रुतिम् । त्र्यूषणं त्रिफ-
लावक्रसैन्धवालमनःशिलाः । क्लेदोपदेहकण्डूथ्नी वर्त्तिः
शस्ता कफापहा । एकगुणा मागधिका द्विगुणा च
हरीतकी । सलिलापिष्टा वर्त्तिरियं नयनसुखार्म्म-
तिमिरपटलकाचाश्रुहरी । अञ्जनं श्वेतमरिचं पिप्यली
मधुयष्टिका । विभीतकस्य मध्यन्तु शङ्खनाभिर्मनःशिला ।
एतानि समभागानि अजाक्षीरेण पेषयेत् । छायाशुष्कां
कृतां वर्त्तिं नेत्रेषु च प्रयोजयेत् । अर्बुदं षटलं काचं
तिमिरं रक्तराजिकाम् । अधिमांसं मलञ्चैव यश्च रात्रौ
न पश्यति । वर्त्तिश्चन्द्रप्रभा नाम जातान्ध्यमपि
शोधयेत् ।”

चन्द्रबाला स्त्री चन्द्रस्य कर्पूरस्य बालेव तुल्यगन्घित्वात् ।

१ स्थूलैलायाम् राजनि० । अन्त्यस्थबमध्य इत्यन्ये ।
२ औषधभेदे ६ त० । ३ ज्योत्स्नायां ४ चन्द्रपत्न्थाञ्च ।

चन्द्रभस्मन् न० चन्द्र इव शुभ्रं भस्म । कर्पूरे शब्दार्थचि० ।

चन्द्रभाग पु० चन्द्रस्य भागोऽत्र । १ पर्व्वतभेदे तत्र जातायां

२ नद्यां स्त्री । तयोः कथा कालि० पु० २० । २२ अ० यथा
“ऋषय ऊचुः । “चन्द्रभागा कथं सिन्धुस्त-
त्रोत्पन्ना महागिरौ । कीदृक्सरस्तद्विप्रेन्द्र!
वृहल्लोहितसंज्ञकम् । कथं स पर्व्वतश्रेष्ठश्चन्द्रभागा-
ह्रयोऽभवत् । चन्द्रभागाह्वया कस्वान्नदी जाता
वृषोदका । एतन्नः श्रोष्यमाणानां जायते कौतुकं
महत् । माहात्म्यं चन्द्रभागायाः कासारस्य गिरे-
स्तदा । मार्कण्डेय उवाच । श्रूयतां चन्द्रभागाया
उत्पत्तिर्द्विज सत्तमाः! । युष्माभिश्चन्द्रभागस्य महात्म्य
नाम कारणम् । हिमवद्गिरिसंसक्तशतयोजनवि-
स्तृतः । योजनत्रिंशतोच्छ्रायः कुन्देन्दुधवलोगिरिः ।
तस्मिन् गिरौ पुरा वेधाश्चन्द्रं शुद्धं सुधानिधिम् ।
विभज्य कल्पयामास देवार्थं स पितामहः ।
पित्रथञ्च तथा तस्य तिथिवृद्धिक्षयात्मकम् । कल्पयामास
जगतां हिताय कमलासनः । विभक्तश्चन्द्रमा यस्मात्
तस्मित् पर्व्वतसत्तमे । अतो देवाश्चन्द्रभागं नाम्ना-
चक्रुः पुरा गिरिम्” कालि० पु० २० । २२ अ० ।
“मार्कण्डेय उवाच । “यत्र देवसमा भूता सानौ तस्य
महागिरेः । तत्र जाता देवनदी सीताख्या वचनाद्विधेः ।
स्नाप्रयित्वा यदा चन्द्रं सौतातोयैर्मनोहरैः । चन्द्रं
पृष्ठ २८९१
घपुर्व्रह्मवाक्यात् सर्व्वे ते त्रिदिवौकसः । तदा सीता-
जलं चन्द्रस्नानयोगाच्च सामृतम् । भूत्वा निपतितं
तस्मिन् वृहल्लोहितसंज्ञके । तद्विवृद्धं तदा तोयम्
तस्मिन् सरसि निर्मलम् । तद्ददर्श स्वयं ब्रह्मा विवृद्धं
साधु तज्जलम् । तद्दर्शनाज्जलात्तस्मादुत्थिता कन्यको-
त्तमा । चन्द्रभागेति तन्नाम विधिश्चक्रे स्वयं ततः ।
भार्य्यार्थे सागरस्तान्तु जग्राह ब्रह्मसम्मते । तत्रैवा-
धिष्ठितं तोयं गदाग्रेण निशापतिः । निर्भिद्य पश्चिमे
पार्श्वे गिरिं तत्तु प्रवाहते । तत्सामृतजलं भित्त्वा
वृहल्लोहितसंज्ञकम् । कासारं सागरं जात चन्द्र-
भागा नदी तु सा । सागरोऽपि तदा भार्य्यां चन्द्र-
भागां महानदीम् । तेन तोयप्रवाहेण निनाय भवनं
स्वकम् । एवं तस्मिन् समुत्पन्ना चन्द्रभागाह्वया नदी ।
चन्द्रभागे महाशैले गुणैर्गङ्गासमा सदा” ।

चन्द्रभूति न० चन्द्रस्येव भूतिः कान्तिरस्य । रजते राजनि०

तस्य चन्द्रतुल्यकान्तिमत्त्वात् तथा त्वम् ।

चन्द्रमणि पु० चन्द्रप्रियोमणिः शाक० त० । चन्द्रकान्तमणौ हेमच० ।

चन्द्रमण्डल न० ६ त० । गोलाकारे विम्बे चन्द्रस्य तन्मा-

नादि इन्दुशब्दे ९३२ पृ० दृस्यम् ।

चन्द्रमल्ली स्त्री चन्द्र इव मल्ली । अष्टापद्यां शब्दचि० ।

चन्द्रमस् पु० चन्द्रमाह्लादं मिमीते मि--असुन् मादेशः चन्द्रं

कर्पूरं माति तुलयति मा--असुन् वा । १ चन्द्रे २ कर्पूरे
च अमरः । “सितासितौ चन्द्रमसोन कश्चित्” ज्यो० त० ।
“राहुर्वै हस्ती भूत्वा चन्द्रमसं गृह्णाति” श्रुतिः । “क्रूर-
ग्रहः सकेतुश्चन्द्रमसं पूर्ण्णमण्डलमिदानीम्” मुद्रारा० ।
तस्येदमित्यण् चान्द्रमस तत्सम्बन्धिनि “तिथिश्चान्द्रमसं
दिनम्” सू० सि० । स्त्रियां ङीप् । “पद्माश्रिता
चान्द्रमसीमभिख्याम्” कुमा० ।

चन्द्रमा स्त्री चन्द्रेण मीयते मा--घञर्थे क । नदीभेदे ।

“कौशिकी मिश्रपा शोणं बाहुदामथ चन्द्रमाम्” भा०
भी० ९ अ० भारतवर्ष नदीकथने ।

चन्द्रमौलि पु० चन्द्रो मौलावस्य । महादेवे इन्दुमौलि

शब्दे ९३६ पृ० दृश्यम् । “चन्द्रमौलिः सदाशिवः”
विष्णुधर्म्मो० ।

चन्द्ररसा स्त्री चन्द्र इवाह्लादको रसोऽस्याः । भारतवर्षस्थे

नदीभेदे । “चन्द्ररसा ताम्रपर्ण्णीत्यादि” भाग० ५ । १८ । १८ ।
नद्युक्तौ “तत्रचन्द्ररसा ताम्रपर्ण्यादयः” भाग० ४ । २ । ३१ ।

चन्द्ररेखा स्त्री ६ त० । चन्द्रस्य मण्डलसूचकरेखाभेदे

२ अपसरोभेदे च “चन्द्ररेखा तिलोत्तमा” काशीख० ८ अ० ।
३ वाकुचोलतायाम् राजनि० । ४ चन्द्रशेखरसहजायां
चन्द्रशेखरशब्दे दृश्यम् । “नसरयुगलैश्चन्द्ररेखर्त्तु-
लोकैः” वृ० र० टी० उक्ते ५ छन्दोभेदे च

चन्द्ररेणु पु० चन्द्रआह्लादकोरेणुरत्र । काव्यचौरे त्रिका० ।

चन्द्रला स्त्री कर्ण्णाटदेशख्याते १ देवीभेदे २ तत्स्थाने च शब्दार्थचि

चन्द्रलेखा स्त्री चन्द्रं तत्कान्तिं लिखति लिख--अण्

उप० स० । (हाकुच्) ख्याते १ लताभेदे राजनि० । ६ त० ।
२ चन्द्ररेखायाम् । “म्रौमोयौ चेद्भवेतां सप्ताष्टकैश्चन्द्र-
लेखा” छन्दोम० उक्ते पञ्चदशाक्षरपादके ३ छन्दोभेदे च ।

चन्द्रलोहक चन्द्र इव शुभ्रं लोहकं धातुद्रव्यम् ।

रजतधातौ राजनि० ।

चन्द्रवश पु० ६ त० । चन्दस्य सन्तानादिपरम्परायां स च

हरिवं २५ अध्यायादौ उक्तः । तत्र भवः यत् । चन्द्रवंश्य
तद्वंशोद्भवे त्रि० ।

चन्द्रवर्त्मन् न० चन्द्रवर्त्म निदगदन्ति वनभसैः वृ० र० उक्ते द्वादशाक्षरपादके छन्दोभेदे ।

चन्द्रवल्लरी स्त्री ६ त० । सोमलतायाम् भरतः ।

चन्द्रवल्ली स्त्री चन्द्र इव वल्ली सुधातुल्यमधुस्रावित्वात् ।

१ माधवीलतायाम् राजनि० । २ सोमलतायां च ।

चन्द्रविन्दु पु० चन्द्रः अर्द्धचन्द्रयुक्तोविन्दः । अर्द्धचन्द्रा-

कारोपरिगतविन्दुरूपसन्निवेशरूपे वर्ण्णभेदे ।

चन्द्रविहङ्गम पुंस्त्री चन्द्र इव अर्द्धाङ्गे शुभ्रः विहङ्गमः ।

(शङ्खचिल) शङ्खिनि खगे त्रिका० । स्त्रियां जातित्वात् ङीष्

चन्द्रव्रत न० चन्द्रस्य चन्द्रलोकप्राप्तये व्रतम् नियमः ।

चान्द्रायणसंज्ञके व्रते । चान्द्रायणशब्दे दृश्यम् ।

चन्द्रशाला स्त्री चन्द्रः शालेवाधारो यस्याः । १ ज्योत्स्ना-

याम् त्रिका० । चन्द्र इव शाला उच्चस्थितत्वात् ।
२ प्रासादोपरिस्थे गृहे (चिलेघर) हारा० । “वियद्गतः
पुष्पकचन्द्रशालाः” रघुः । “गृहराजः षोडशकस्त्रि-
चन्द्रशाला भवेद्वलभी” “बहुरुचिरचन्द्रशाला षड्विंशः
पञ्चभौमश्च” वृ० स० ५६ अ० । ततः स्वार्थे क । चन्द्र-
शालिका १ वटभ्यां त्रिका० ।

चन्द्रशिला स्त्री चन्द्रप्रिया शिला शाक० मध्यपद० स० । चन्द्र-

कान्ते प्रस्तरभेदे । “प्रह्लादिता चन्द्रशिलेव तूर्णम्” भट्टिः ।

चन्द्रशू(सू)र पु० चन्द्रे तज्जेश्लैष्मिके रोगे शू(सू)र इव ।

चादसूर) (हालौ) इति च ख्याते वृक्षभेदे तत्फले
न०” भावप्र० । “चन्द्रशू(सू)रं हितं हिक्वावात-
श्लेष्मातिसारिणाम्” । तद्गुणा उक्ताः
पृष्ठ २८९२

चन्द्रशेखर पु० चन्द्रः चन्द्रकला शेखरेऽस्य । १ महादेवे

इन्दुभृच्छब्दे ९३५ पृ० दृश्यम् । “रहस्युपालभ्यत
चन्द्रशेखरः” कुमा० । चन्द्रयुक्तः शेखरोऽस्य । २ पर्व्वत-
भेदे । ३ पौष्यनृपपुत्रे करवीरपुराधीशे नृपभेदे
कालिका पु० ४६ अ० तत्कथा यथा
“ततः पुत्रार्थिनं भूर्प प्रसन्नो वृषभध्वजः । ब्रह्मदत्तफलं
हस्ते कृत्वेदं तमुवाह ह । ईश्वर उवाच । इदं फलं
व्रह्मदत्तं विभज्य नृपते! त्रिधा । भोजयैताः स्वजाया
स्त्वं प्रहृष्टः सुस्थमानसः । ततः प्रवृत्ते भवत एतासु
ऋतुसङ्गने ॥ आथास्यन्ति च गर्भांस्तु भार्य्यास्ते
युगपन्नृप! । काले प्राप्ते च युगपत् प्रसवो योषितां तव ।
भविष्यति नृपश्रेष्ठ! तदेवं त्वं करिष्यसि । एकस्या
जठरे शीर्षं भार्य्यायास्ते भविष्यति । अपरस्यास्तथा
कुक्षौ मध्यमागो भविष्यति । अधोनाभ्यास्तु यो भागः
सोऽपरस्यां भविष्यति । ततः खण्डत्रयं भूप! यथास्थानं
पृथक पृथक् । योजयिष्यसि पश्चात्ते पुत्र एको
मविष्यति । तस्य शीर्षे चन्द्ररेखा सहजा संभविष्यति ।
तेनैव नाम्ना सा ख्यातिं गमिष्यति च भूपते! ।” इत्यु-
पक्रमे “इत्युक्त्वा स महादेवस्तासां गर्भात् खयं तदा ।
संस्कर्त्तुं जाह्नवीतोयमात्मनः शिरसो न्यधात् । ततःफले
स्वयं देवः प्रविवेश वृषध्वजः । तत्क्षणात् तत्फलं भूतं
त्रिभाग स्वयमेव ह । पौष्यस्तत्फलमादाय मुदितः
सह भार्य्यया । प्रययौ मन्दिरं हृष्टोह्यनुज्ञाप्य
वृषध्वजम् । ततः समुचिते काले प्राप्ते ताभिस्तु भक्षितम् ।
तत् फलं नृपशार्द्दूलात् गर्भाश्चाप्याहिताःशुभाः । सम्पूर्णे
गर्भकाले तु गर्भेभ्यः समजायत । खण्डत्रयं पृथक्
राजा यथा भर्गेण भाषितम् । तच्च खण्डत्रयं पौष्यो
यथास्थानं नियोज्य चं । एकं पिण्डं चकाराशु तत्र
पुत्रो व्यजायत । तस्य शीर्षे तदा राजन् सहजेन्दुकला
शुभा । विरराज यथा स्वच्छा शरत्काले कला विधोः ।
तं सर्वलक्षणोपेतं पीनोरस्कं सुनासिकम् । सिंह-
ग्रीवं विशालाक्षं दीर्घायतभुजं तदा । दृष्ट्वा पौष्यो
ऽथ भार्य्याभिस्तिसृभिः सह संमुदम् । लेभे दरिद्रः
सत्कोषं प्राप्येव विपुलं ततः । तस्य ढामाकरोद्राजा
ब्राह्मणैः स्वैः पुरोहितैः । चन्द्रशेखर इत्येवं कान्त्या
चन्द्रम सा समः । ववृधे स महामागः प्रत्यहं चात्य-
राच । कलाभिरिव तेजस्वी शरदीव निशाकरः ।
एवं तिसृणामम्बानां गर्भे जातो यतोहरः । अतस्त्र्य-
म्बकनामाऽभूत् प्रथितो लोकदेवयोः” इत्युपक्रमे
“सर्व्वां क्षितिं वशे चक्रेऽमात्यैः स चन्द्रशेखरः ।
सार्वभौमो नृपोभूत्वा राजभिः परिषेवितः । अमरै
रिव देवेन्द्रो विजहार श्रिया युतः । एवं पौष्यसुतो
भूत्वा त्र्यम्बकः प्राप्य निर्वृतिम् । ब्रह्मावर्त्ताह्वये रम्ये
करवीराह्वये पुरे । दृशद्वतीनदीतीरे राजा भूत्वा मुमोद
ह” । “ऊनविंशतिवर्ण्णाङ्घ्रिः सिद्धिदश्चन्द्रशेखरः । कथितः
केन्दुके ताले भवेत् शृङ्गारवीरयोः” संगी० दा० उक्ते
४ ध्रुवकभेदे । ५ चट्टलदेशस्थमहापीठे ६ तत्रस्थे भैरवभेदे
“चट्टले दक्षबाहुर्मे भैरवश्चन्द्रशेखरः । व्यक्तरूपा भगवती
भवानी तत्र देवता” । “विशेषतः कलियुगे वसामि
चन्द्रशेखरे” तन्त्रचूडामणिः ।

चन्द्रसम्भव पु० चन्द्रः सम्भवोऽस्य । १ बुधे । २ क्षुद्रैलायाम् स्त्री शब्दच० ।

चन्द्रसेन पु० चन्द्रा आह्लादिका सेनाऽस्य । भारतप्रसिद्धे

समुद्रमेनपुत्रे राजभेदे “समुद्रसेनपुत्रश्च चन्द्रसेनः प्रतप-
पबान्” भा० आ० १८६ अ० । “जघान स (द्रोणिः)
पृषद्रुञ्च चन्द्रसेनञ्च मानिवम्” भा० द्रो० १५६ अ० ।
“समुद्रसेनं निर्ज्जित्य चन्द्रसेनञ्च पार्थिवम्” भा० स०
२९ अ० । भीमप्राचीविजये ।

चन्द्रहन् पु० चन्द्रं हतवान् हन--क्विफ् । १ दानवभेदे राहौ

“एकाक्षश्चन्द्रहा राहुः संहारो मृदुलस्वनः” हरिवं०
४२ अ० । श्वेतशीर्षश्चन्द्रहनुश्चन्द्रहा चन्द्रतापनः २४० अ० ।

चन्द्रहनु पु० चन्द्र इव हनुरस्य । दानवभेदे चन्द्रहन् शब्दे

उदा० ।

चन्द्रहन्तृ पु० चन्द्रं हन्ति हन--तृच् ६ त० । असुरभेदे

भारतयुद्धकाले सएव शुनकनृपरूपेण प्रादुर्भूतः । यथाह
भा० आ० सम्भ० ६७ अ० । “चन्द्रहन्तेति यस्तेषां
कीर्त्तितः प्रवरोऽसुरः । शुनकोनाम राजर्षिः स बभूव
नराधिपः” “चन्द्रहन्ता क्रोघहन्ता क्रोधवर्द्धन एव च”
हरिवं० ४२ अ० । दानवकथने

चन्द्रहाम पु० चन्द्रस्येव हासः प्रभाऽस्य, चन्द्रंहसति

सितत्वात् हस--अण् वा । १ खड्ग २ रावणखडगे च
मेदि० । ३ रौप्ये न० राजनि० । ४ गुडूच्यां स्त्री राजनि० ।

चन्द्रा स्त्री चदि--आह्लादे रक् । १ एलायां २ विताने चन्द्रा-

तपे च शब्दरत्ना० ३ गुडूच्यां शब्दार्थचि०

चन्द्रांशु पु० चन्द्रस्यांशुरिवाह्लादकोऽंशुरस्य । १ विष्णौ

परमेश्वरे “ऋद्धः स्पष्टाक्षरोमन्त्रश्चन्द्रांशुर्भास्करद्युतिः”
विष्णु स० । “संसारतापतिग्मांशुतापतापितत्तेतसां च-
न्द्रांशुरिवाह्लादकत्वात्” भा० । ६ त० । २ चन्द्रस्य कि
रणे च ।
पृष्ठ २८९३

चन्द्रातप पु० चन्द्रस्य आतो गमनं ततः पाति पा--क ।

(चादींया) १ विताने चन्द्रस्य आतप इव किरणः ।
२ ज्योत्स्नायाम् हेम० । “चन्द्रातपमिव रसतामुपे-
तम्” काद० ।

चन्द्रात्मज पु० ६ त० । बुधे इन्दुजशब्दे दृश्यम् । चन्द्रतनयादयोऽप्यत्र ।

चन्द्रानन पु० चन्द्र इवाननमस्य । कार्त्तिकेये “अमोघस्त्वन

घो रौद्रः शिवश्चन्द्राननस्तथा” भा० व० २३१ अ० ।
कार्त्तिकेयनामोक्तौ । २ चन्द्रतुल्यवदने त्रि० ।

चन्द्रार्द्ध पु० ६ त० । चन्द्रस्य कलारूपे भागे तुल्यभागार्द्ध

परत्वे अर्द्धचन्द्र इत्येव स्यात् । “भुजासक्तेन शुशुभे
गजदन्तेन केशवः । चन्द्रार्द्धविम्बसंसक्तो यथैकशिखरो-
गिरिः” हरिवं० ८७ अ० ८७ अ० । “मोहयन्नम्बुजाक्षीवृन्दं
चन्दार्द्धचूडे! प्रभवति स महाघोरवाणावतंसे!”
श्यामास्तवः ।

चन्द्रालोक पु० पीयूषवर्षकविकृते अलङ्कारप्रबन्धभेदे ।

“चन्दालोकममुं स्वयं वितनुते पीयूषवर्धः कविः” इति
इति तदारम्भपद्यम् ।

चन्द्रावली स्त्री वृन्दावनस्थे मोपीभेदे । “राधाचन्द्रावली-

मुख्याः प्रोक्ता नित्यं प्रिया व्रजे । कृष्णवन्नित्यसौन्दर्य्य
वैदग्ध्यादिगुणाश्रयाः” उज्ज्वलमणिः ।

चन्द्रास्पदा स्त्री चन्द्र आस्पदं यस्याः । कर्कटशृङ्ग्याम् । राजनि० ।

चन्द्रिका स्त्री चन्द्रोऽस्त्यस्याः आश्रयत्वेन ठन् चदि--दीप्तौ

रक् ततः स्वार्थे क वा । १ ज्योत्स्नायाम् अमरः । २ स्थू-
लैलायां (चाँदा) । ३ मत्स्यभेदे ४ चन्द्रभागानद्याञ्च शब्दर० ।
५ कर्ण्णस्कोटालतायां ६ मल्लिकाया० । ७ श्वेतकण्टकार्य्यां
८ मेथिकायां ९ स्थूलैलायां राजनि० । १० चन्द्रसूरे भावप्र० ।
“मेधमुक्तविशदां स चनिद्रकाम्” रघुः । “नवचनिद्रका-
कुसुमकीर्ण्णतमः” माघः । “न कस्य कुरुते चित्तभ्रमं
चनिद्रका” सा० द० । चन्द्रि चन्द्रयुक्तं कं शिरोऽस्य
११ शिवे पु० । “चन्द्रिकानुप्रभावेन कृता दत्तकचनिद्रका”
१२ ज्योत्स्नाया इव आह्लादिकायां स्त्रियां स्त्री स्मृति-
चन्द्रिका अलङ्कारचन्द्रिका इत्यादि ।

चन्द्रिकाद्राव पु० चन्द्रिकया द्रावोनिष्यन्दो यस्य । चन्द्र-

कान्तमणौ राजनि० ।

चन्द्रिकापायिन् पुंस्त्री चन्द्रिकां पिबति पा--णिनि ।

चकोरपक्षिणि शब्दार्थचि० स्त्रियां ङीप् ।

चन्द्रिकाम्बुज न० चन्द्रिकेव शुभ्रमम्बुजम् । सितोत्पले

राजनि० ।

चन्द्रिन् त्रि० चन्द्रोऽस्त्यस्य इनि । १ चन्द्रयुक्ते “चन्द्रि-

कानुप्रभावेण कृता दत्तकचन्द्रिका” २ सुवर्ण्णयुक्ते च
“चन्द्री यजति प्रचेताः” यजु० २० । ३७ । “चन्द्री”
सुवर्ण्णमयः” वेददीपः ।

चन्द्रिल पु० चन्द्र + वा० अस्त्यर्थे इलच् । १ शिवे । २ नापिते ३ वास्तूके च मेदि० ।

चन्द्री स्त्री चदि--रक् गौरा० ङीष् । वाकुच्याम् राजनि० ।

चन्द्रेश्वर पु० चन्द्रसेविते काशीस्थे शिवमूर्त्तिभेदे चन्द्रशब्दे

दृश्यम् । चन्द्रेशोऽप्यत्र लिङ्गपरत्वे न०

चन्द्रेष्टा स्त्री चन्द्र इष्टोयस्याः निष्ठायाः वा परनिपातः ।

उत्पलिन्याम् राजनि० ।

चन्द्रोदकुण्ड पु० चन्द्रकृतमुदकं यत्र वा उदादेशः कर्म्म० ।

काशीस्थे कुण्डरूपे तीर्थभेदे “तथा चन्द्रोदकुण्डे च
श्राद्धात्तृप्यन्ति पूर्खजाः” काशीख० १४ अ० ।

चन्द्रोदय पु० चन्द्रस्योदयः । विधोः प्राथमिकदर्शनयोग्य-

स्थानेषु १ प्रकाशे दिनेषु तिथिखण्डभेदस्थित्या तन्निरूपणं
हरिभक्तिविलासे १६ वि० यथा
“प्रतिपद्यापराह्णिकत्रिमुहूर्त्तव्यापिन्यां द्वितीयायां चन्द्र
दर्शनं सम्भाव्यते । तदुक्तमग्न्याधानविषये वृद्ध-
शातातपेन । “द्बितीया त्रिमुहूर्त्ता चेत् प्रतिपद्यापरा-
ह्णिकी । अग्न्याधानं चतुर्दश्यां परतः सोमदर्शनादिति
अपराह्णश्च पञ्चधा विभक्तस्याह्नश्चतुर्थोभागः । ततश्च
यत्र प्रतिपदि अपराह्णे त्रिमुहूर्त्तव्यापिनी द्वितीया तत्र
चन्द्रदर्शनसम्भावनमिति”
सुखबोधोक्ते २ औषधभेदे तत्पाकप्रकारो यथा सुखबोधे
“पलं मृदुस्वर्णदलं रसेन्द्रं पलाष्टकं षोड़श गन्धकस्य ।
शोणैः सुकार्पासभवैः प्रसूनैः सर्वं विमर्द्याथ कुमारि-
काद्भिः । तत्काचकुम्भे निहितं सुगाढ़े मृत्कर्पटै
स्तद्दिवसत्रयञ्च । पचेत् क्रमाग्नौ सिकताख्ययन्त्रे त
तोरजः पल्लवरागरम्यम् । निगृह्य चैतस्य पलं पलानि
चत्वारि कर्पूररजस्तथैव । जातीफलं सोषष्णमिन्दु
पुष्पं कस्मूरिकाया इह शाण एकः । चन्द्रोदयोऽयं
कथितस्तु माषो भुक्तोऽहिवल्लीदलमध्यवर्त्ती । मदोन्म-
दानां प्रमदाशतानां गर्वाधिकत्वं श्लथयत्यकाण्डे ।
घृतं घनीभूतमतीव दुग्धं मृदूनि मांसानि समस्तकानि ।
माषान्नपिष्टानि भवन्ति पथ्यान्यानन्ददायीन्यपराणि
चात्र । वलीपलितनाशनस्तनुभृतां वयःस्तम्भनः समस्त-
पृष्ठ २८९४
गदखण्डनः प्रचुररोगपञ्चाननः । गृहेषु रसराड़यं
भवति यस्य चन्द्रोदयः सपञ्चशरदर्पितो मृगदृशां
भवेद्दुर्लभः” । ३ चक्रदत्तोक्ते वर्त्तिभेदे स्त्री तत्प्रकारो यथा
“हरीतकी वचाकुष्ठं पिप्पली मरिचानि च । बिभीत-
कस्य मज्जा च शङ्खनाभिर्मनःशिला । सर्वमेतत् समं
कृत्वा छागीक्षीरेण पेषयेत् । नाशयेत्तिमिरं कण्डूं
पटलान्यर्बुदानि च । अधिकानि च मांसानि यश्च
रात्रौ न पश्यति । अपि द्विवार्षिकं पुष्पं माषेणैकेण
साधयेत् । वर्त्तिश्चन्द्रोदया नाम नृणां दृष्टिप्रसादनी” ।

चन्द्रोपल पु० चन्द्रप्रियः उपलः । चन्द्रकान्तमणौ हेमच०

इन्द्रकिरणसंपर्कात् तस्य क्षरणात् तत्प्रियत्वम् ।

चन्द्रौरस पु० ६ त० । १ बुधे “म्भौ न्यौ ल्गौ चेदिह भवति च

चन्दौरसः” वृ० र० टीकोक्ते चतुर्द्दशाक्षरपादके
२ वर्णवृत्तभेदे च

चप चूर्णीकरणे चु० उभ० सक० सेट् घटा० । चपययि--ते

अचीचपत्--त । चिधातोरेव स्वार्थे णिचि तद्रूपमित्यन्ये ।

चप सान्त्वने भ्वा० पर० सक० सेट् । चपति अचापीत--अच-

पीत् । णिचि चापयति ।

चप गतौ पु० उभ० सक० सेट् । इदित् । अम्पयति ते अचचम्पत् त

चपट पु० चपेट + पृषो० (चड) चपेटे अमरटीका ।

चपल न० चुप--मन्दायां गतौ कल उपधोकारस्याकारः ।

१ शीघ्रे मेदि० २ क्षणिके त्रि० हेमच० । ३ पारदे ४ मत्स्ये
५ चातके ६ प्रस्तरभेदे च पु० मेदि० । ७ क्षये पु० राजनि० ।
८ तरले चञ्चले च त्रि० मेदि० । ९ दोषमनिश्चित्य कर्मका-
रिणि त्रि० अम० । १० विकले त्रि० शब्दर० । ११ लक्ष्म्यां स्त्री
“निलयः श्रियः सततमेतदिति प्रथितं यदेव जलजन्म-
तया । दिवसात्ययात्तदपि मुक्तमहो चपलाजनम् प्रति
न चोद्यमदःः” माघः । १२ विद्युति १३ पुंश्चल्यां १४ पिप्प-
ल्याञ्च स्त्री मेदि० । १५ जिह्वायां स्त्री शब्दच० । १६
विजयायां १७ मादरायां स्त्री राजनि० । “नीचि नियतमिह
यच्चपलो नियतः स्फुटं नभास निम्नगासुतः” माघः
“शैशवाच्चपलमप्यशोभत” रघुः । “न पाणिपादचपलो न
नेत्रचपलोऽगुजुः” मनुः । शौण्डा० ७ त० । नेत्रचपलः ।
पादचपलः । चेण्या० कृतादिभिः अभूततद्भावार्थे समासः ।
चपलकृतःचपलभूतः । विस्पष्टा० गुणवचनशब्दे परे
तत्पुरुषे अस्य प्रकृतिस्वरत्वात् अन्तोदात्तता । चपलकटुकम् ।
प्रियादि० तस्मिन् परे पूर्वस्य न पुंवत् । प्रकाशमाना चपला
विद्युत् यत्र प्रकाशमानाचपल इत्यादि । चपलस्य
भावः अण् चापल न० ष्यञ् चापल्य न० त्व
चपलत्व न० अनवस्थितत्वे “सहजचापलदोषसमुद्धतः”
माघः । “मा चापलायेति गणान् न्यषेधीत्” कुमा० ।
“उभयार्द्धयोर्जकारो द्वितीयतुर्य्यौगमध्यगौ यस्याः ।
चपलेतिनाम तस्याः प्रकीर्त्तितं नागराजेन” वृ० र० उक्ते
आर्य्याविशेषे १८ मात्रावृत्तभेदे स्त्री । स्वार्थेक । चञ्चले त्रि० ।
भृशा० अभूततद्भावार्थे क्यङ् । चपलायते अचपलायिष्ट

चपलता स्त्री चपल--तल् । चाञ्चल्ये सा० द० उक्ते २ व्यभि-

चारिगुणभेदे । “सधृतिचपलताग्लानिचिन्तावितर्काः”
व्यभिचारिण उद्दिश्य “मात्सर्य्यद्वेषरागादेश्चापल्य-
मनवस्थितिः । तत्र भर्त्सनपारुष्यस्वच्छन्दाचरणादयः”
इति लक्षित्वा “अन्यासु तावदुपभोगसहासु भृङ्ग!
लोलं विनोदय मनः सुमनोलतासु । मुग्धामजातरजसं
कालिकामकाले व्यर्थं कदर्षयसि किं नवमालिकायाः”
सा० द० उदाहृतम् ।

चपलाङ्ग पु० चपलमङ्गमस्य । शिशुमारे जलजन्तुभेदे ।

हारा० ।

चपलावक्त्र न० “चपलावक्त्रमयुजोर्नकारश्चेत् पयोराशेः” वृ० र० उक्ते छन्दोभेदे ।

चपेट पु० चप--वञर्थे क चपाय सान्त्वनाय एटति गच्छति

इट--क । विस्तृताङ्गुलिके हस्ते (चापड़) स्त्रीत्वमीष्यते
“खण्डिकोपाध्यायः शिष्याय चपेटां ददातीति” भाष्य-
प्रयोगात् । स्वार्थे क । अत्रैवार्थे अमरः ।

चपेटी स्त्री भाद्रशुक्लषष्ठ्याम् । “प्रसूत्या द्वादशे मासि

सम्पूज्यापत्यवृद्धये । सुते जाते अथा षष्ठ्यां षष्ठीद्वादश
रूपिणी । वैशाखे चान्दनी षष्ठी ज्यैष्ठे चारण्यसंज्ञिता ।
आषाढ़े कार्द्दमी ज्ञेया श्रावणे लुण्ठनी मता । भाद्रे
चपेटी विख्याता दुर्गाख्याश्वयुजे तथा । नाड्याख्या
कार्त्तिके मासि मार्गे मूलकरूपिणी । पौषे मास्यन्नरूपा
च शीतला तपसि स्मृता । गोरूपिणी फाल्गुने च
चैत्रेऽशोका प्रकीर्त्तिता” स्कन्द० पु०

चप्य त्रि० चप--पवर्गान्तत्वात् कर्म्मणि यत् । अदनीये ।

“चप्यं भवत्यन्नाद्यस्यावरुद्ध्यै” शत० व्रा० १२७ । २ । १३ ।
“चप्यं न पायुर्भिषमस्य” यजु० १९ । ८८ ।

चम अदने भ्वा० प० सक० सेट् । चमति आचामति ।

विचमति । आचमीत् चचाम चेमतुः । उदित् चमित्वा
चान्त्वा । आचान्तः । आचमनम् आचमनीयम् ।
“आचान्तः पुनराचामेत्” स्मृतिः । “मनाग् मग्नोऽपि
नाचामसि” प्रवोधच० । “चचाम मधु माध्वीकम्”
भट्टिः । णिचि चामयति । “इमां किमाचामयसे न
चक्षुषी” नैष० ।
पृष्ठ २८९५

चम भक्षे स्वादि० वैदिकः प० सक० सेट् । चम्नोति उदित्

चमित्वा चान्त्वा । कविकल्पद्रुमे “कुस्मित्यां गमॢ गत्यां
चम् न्रचम् जम् जिमु झम” इति वाक्ये “परोऽनुबन्धः
पूर्व्वेषाम्” इति तत्रोक्तेः सर्व्वेषामुदित्त्वं तेन शब्द-
कल्पद्रुमे स्वादिगणीयस्य उदित्त्वानुक्तिः प्रामादिकी

चमत्कार पु० चमदित्यव्यक्तं क्रियते कृ--भावे घञ् । लोका-

तीतंवस्तु दृष्ट्या चित्तस्य आनन्दहेतौ १ प्रकाशे विस्मये,
“लीकोत्तरचमत्कारप्राणदश्च प्रमातृभिः” । “चमत्कारश्च
चित्तविस्ताररूपो विस्मयापरपर्य्याय” सा० द० । “रसे
सारश्चमत्कारः सर्वत्राप्यनुभूयते” तद्धृतधर्म्मदत्तवाक्यम् ।
“चमत्कारश्च लोकातीतार्थाकलनेन किमेतदितिज्ञान
धाराजननेन चित्तवृत्तेः दीर्घविस्तारः । दृष्टहेतुभ्योऽ
सम्भावितत्वज्ञानेन हेत्वन्तरानुसन्धानाय मनसो-
व्यापारभेद एव चित्तविस्तार इत्यन्ये । सुखविशेष एव
चमत्कार इत्यपरे । चमत्कारत्वञ्च आह्लादगतो जाति-
विशेषः यथाह रसगङ्गाधरे “रमणीयार्थप्रतिपादकः
शब्दः काव्यं रमणोयता च लोकोत्तराह्लादजनकज्ञान-
गोचरता लोकोत्तरत्वञ्च आह्लादगतश्चमत्कारत्वापरपर्य्या-
योऽनुभवसाक्षिकोजातिविशेषः” इति । “इत्थं च चमत्-
कारजनकभावनाविषयार्थप्रतिपादक शब्दत्वं यत्प्रतिपा-
द्यार्थविषयकभावनात्व चमत्कार जनकतावच्छेदकं तत्त्वं,
स्वविशिष्टजनकतावच्छेदकार्थ प्रतिपादकतासंसर्गेण
चमत्कारत्ववत्त्वमेव वा काव्यत्वमिति फलितम्” इति च ।
कर्त्तरि अण् । २ अपामार्गे त्रिका० ।

चमर पुंस्त्री चम--अरच् । १ महिषाकृतौ मृगभेदे, यस्य

पुच्छेन चामराख्यं व्यजनं भवति, स्त्रियां जातित्वात् ङीष् ।
“कुर्व्वन्ति बालव्यजनैश्चमर्य्यः” “बालप्रियत्व शिथिलं
चमर्य्यः” कुमा० । “स्फुरति चानुवनं चमरीचयः”
माघः । २ दैत्यभेदे पु० । ३ चमरबालजाते चामरे न० ।

चमरपुच्छ पुंस्त्री चमरस्य पुच्छमिव पुच्छमस्य । (केकड़े)

बिलेशये १ पशुभेदे । राजनि० । ६ त० । २ चामरे न०

चमरिक पु० चमरमिव केशरोऽस्त्यस्य ठन् । कोविदारवृक्षे

रक्तकाञ्चनारे वृक्षे अमरः

चमरी स्त्री चमरजातिस्त्री ङीष् चमरमिवाकारोऽस्त्यस्या

अच् गौरा० ङीष् वा । १ चमरजातिस्त्रियां चमरशब्दे
उदा० । २ मञ्जर्य्यां मेदि० ।

चमस पुंन० अर्द्धर्चादि० चमत्यस्मिन् चम--असच् ।

१ पलाशादिकाष्ठजाते यज्ञियपात्रभेदे तल्लक्षणभेदादिकं
यज्ञपार्श्वे उक्तं यथा
“चमसानां तु वक्ष्यामि दण्डाः स्युश्चतुरङ्गुलाः । त्र्यङ्गु-
लस्तु भवेत्स्कन्धो विस्तारश्चतुरङ्गुलः । विकङ्कतमयाः
श्लक्ष्णार्वाग्बिलाश्चंमसाः स्मृताः । अन्येभ्यो वापि वा
कार्य्यास्तेषां दण्डेषु लक्षणम् । होतुर्मण्डल एव स्या-
द्व्रह्मणश्चतुरश्रकः । उद्गातृणां च त्र्यश्रिः स्याद्याजमानः
पृथुः स्मृतः । प्रशास्तुरवतष्टः स्यादुत्तष्टो ब्रह्मश सिनः ।
पोतुरग्रे विशाखी स्यान्नेष्टुः स्याद्विगृहीतकः । अच्छा-
वाकस्य रास्नाव आग्नीध्रस्य मयूखकः । इत्येते चमसाः
प्रोक्ता ऋत्विजां यज्ञकर्म्मणि । पलाशाद्वा वटाद्वा-
न्यवृक्षाद्वा चमसाः स्मृताः” कात्या० श्रौ० १ । ३ । ३६ ।
सूत्रभाष्ये कर्कः “स च चमसश्चतुरश्रो द्वादशाङ्गुल
दीर्घश्चतुरङ्गुलखातः सवृन्तश्च भवति परिशिष्टात्
सूत्रकारप्रस्थानाच्च । चमसवत्स्रुवेणेति स्रुवस्य
चतुरश्रतां विधातुं चमसवदित्येव चमसस्य सिद्धां
चतुरश्रतामाह” कात्या० श्रौ० २ । ३ । १ । “चमसवदविशेषात्”
शारी० सू० । “अर्वाग्बिलश्चमस” इति तद्भाष्यधृतश्रुतिः ।
स्त्रीत्वमपि मेदि० । २ सोमपानपात्रभेदे च । कर्म्मणि
अच् । ३ पर्पटे पिष्टकभेदे ४ लड्डुके च पु० “चूर्ण्णं
यच्छुष्कमाषाणां चमसी साऽभिधीयते” भावप्र० उक्ते
(धूमसी) ख्याते ५ माषचूर्णे च स्त्री गौरा० ङीष् ।

चमसिन् पु० चमस + अस्त्यर्थे इनि । चमसयुक्ते स्त्रियां ङीप्

ततः नडा० अपत्ये फक् । चामसायन तदपत्ये पुंस्त्री०

चमसोद्भेद पु० भारतप्रसिद्धे प्रभासान्तिकस्थे तीर्थभेदे ।

“ततस्तु चमसोद्भेदमच्युतस्त्वगमद्बली । चमसोद्भेद
इत्येवं यं जनाः कथयन्त्युत” भा० शल्य० ३६ अ० । “एष
वै चमसोद्भेदो यत्रादृश्या सरस्वती । यत्रैनामभ्यवर्त्तन्त
सर्व्वाः पुण्याः समुद्रगाः” भा० व० १३० अ० । चमसोदन-
मप्यत्र न० “आश्रमान् सरितश्चैव सरांसि च नराधिप! ।
चमसोद्भेदनं विप्रास्तत्रापि कथयन्त्युत” ८८ अ० ।
“स्नात्वा तु चमसोद्भेदे अग्निष्टोमफलं लभेत्” ८२ अ० ।

चमीकर पु० कृतस्वराभिधे स्वर्णस्योत्पत्तिस्थाने शब्दार्थचि०

यद्योगात् स्वर्णं चामीकरमित्युच्यते ।

चमू स्त्री चम--ऊ । सेनामात्रे (गजाः ७२९, रथाः ७२९

अश्वाः २१८७, पदातयः ३६४५), एतत्संख्याभेदान्विते
सैन्यभेदे च अमरः । “अक्षौहिणीशब्दे ४६ पृ० दृश्यम् ।
पृष्ठ २८९६
“रक्षाहेतोर्नवशशिभृता वासवीनां चमूनाम्” मेघ० ।
आधारे ऊ । ३ चमसे स्त्री “द्रप्सा मधश्चमूषदः” ऋ० १ ।
१४ । ४ । “चमूषदः चमसादिपात्रेषु अवस्थिताः” भा० ।
४ द्यावापृथिव्योः द्वि० व० निघ०

चमूचर पु० चमुषु चरति चर--ट । २ सैनिके शब्दार्थचि० ।

चमूनाथ पु० ६ त० । सैन्याध्यक्षे “युवतिचमूनाथभोज्य-

वस्त्राणाम्” वृ० सं० १६ अ० । चमूपत्यादयोऽप्यत्र ।

चमूरु पुंस्त्री चम--खर्जूरा० ऊर पृषो० अत ऊत्त्वम् ।

मृगभेदे । “चकाशतं चारुचमूरुचर्म्मणा” माघः ।
“इदमूरुयुगं न चमूरुदृशः” प्रसन्नरा० ।

चमूहर पु० चमुं दैत्यसैन्यं हरति हृ--अच् । महादेवे

“चमूहरः सुरेशश्च व्योमारिः शङ्गरोभवः” भा० आनु०
९१ अ० शिवनामोक्तौ ।

चम्प पु० तु० चपि--अच् । १ कोविदारवृक्षे शब्दमाला २ तत्पुष्पादौ न० ।

चम्पक पु० चपि--ण्वुल् । (चाँपा) प्रसिद्धपुष्पप्रधाने

१ वृक्षभेदे अमरः । “चम्पकः कटुकस्तिक्तः कषायो
मधुरोहिमः । विषकृमिहरः कृच्छ्रकफवाता म्लपित्तहृत्”
भावप्र० तद्गुणा उक्ताः । २ तत्पुष्पादौ न० “व्यालोकयच्च-
म्पककोरकाबलीः” नैष० । “उन्निद्रपुष्पचनचम्पकपिङ्ग-
भासा” माषा । ३ पनसफलैकभागभेदे (चाँपी) ख्याते
पदार्थे (चाँपाकला) प्रसिद्धे ४ कदलीभेदे पु० तत्फले न०
राजनि० । “चम्पकं वातपित्तघ्नं गुरु वीर्य्यकरं तथा ।
अतिशीतं रसे पाके मधुरं कथितं बुधेः” भावप्र० तद्गुणा
उक्ताः । ५ साङ्ख्यमतसिद्धे सिद्धिभेदे “न्यायेन स्वयं
परीक्षितमप्यर्थं तावन्न श्रद्दवते यावद्गुरुशिष्यसब्रह्म-
चारिभिः सह न संवाद्यते अतः सुहृदां गुरुशिष्य-
सब्रह्मचारिणां संवादकानां प्राप्तिः सुहृत्प्राप्तिः सा
सिद्धिश्चतुर्थी चम्पकमुच्यते इति” सांख्यशास्त्रम् ।

चम्पकचतुर्द्दशी स्त्री ज्यैष्ठशुक्लचतुर्द्दश्याम् ज्यैष्ठमासे

इत्युपक्रमे “चतुर्द्दश्यां च शुक्लायां चम्पकैः पूजयेत्
शिवम् । अयुतैर्वा सहस्रैर्बा शतैर्वा परमेश्वरि! । पायसञ्च
बलिं दद्यात् ततो नक्तं चरेद्व्रती । वृषस्थेऽर्के विशेषेण
न भूयो जायते भुवि । त्रिमध्वक्तैश्चम्पकैश्च सहस्रं
जुहुयान्निशि । क्षयपष्टिं ज्वरान् हन्ति कृत्वा द्रोहाणि
यानि च । चम्पकचतुर्द्दशि ख्याता पूजयेद्वै सदाशिवम् ।
दशजन्मकृतं पापमर्च्चनादेव नश्यति” मत्स्यसू० ४५ प०

चम्पकमाला स्त्री चम्पकपुष्पनिर्मिता माला ६ त० । १ चम्पक

पुष्पमालायाम् । २ चम्पकपुष्पाकारे स्त्रीणां कण्ठाभरण-
भेदे । (चापकलि) शब्दार्थ० । “भ्मौ सगयुक्तौ चम्पक
माला” वृ० र० उक्ते दशाक्षरपादके ३ वर्णवृत्तभेदे चम्पक
मालेत्यत्र “रुक्मवतीयम्” इत्यपि पाठः ।

चम्पकरम्भा स्त्री चम्पकोपपदा रम्भा शा० त० । (चाँपा-

कला) कदलीभेदे राजनि० ।

चम्पकारण्य न० चम्पकप्रधानमरण्यम् । भारतप्रसिद्धे

तीर्थभेदे “ततो गच्छेत राजेन्द्र! चम्पकारण्यमुत्तमम् ।
तत्रोष्य रजनीमेकां गोसहस्रफलं लभेत्” भा० व०
८४ अ० ।

चम्पकालु पु० चम्पकेन पनसावयवभेदेन अलति अलौण् । पनसे (काँटाल) शब्दार्थचि०

चम्पकावती पु० चम्पक + अस्त्यर्थे मतुप् मस्यवः संज्ञायां

दीर्घः । चम्प्रापुर्य्यां कर्णराजधान्याम् (भागलपुर)
ख्याते पुरीभेदे शब्दरत्ना० ।

चम्पकुन्द पु० चम्पैव कुन्दते कुदि--अच् । (चाँदकुँड़ा)

मत्स्यभेदे राजनि० ।

चम्पकोष पु० चम्पकैरुष्यते अत्र वस--घञर्थे आधारे क ६ त० । पनस त्रिका० ।

चम्पा स्त्री चम्प--अच् । कर्णपुर्य्यासङ्गदेशस्थे १ पुरीभेदे ।

(चाँपाइ) ख्याते तन्निटस्थे २ नदीभेदे ३ पनसावयवभेदे ।
(चाँपि) शब्दार्थचि०

चम्पाधिप पु० ६ त० । कर्णे तस्य तद्राज्यकथा अङ्गाघिपशब्दे ७८ पृ० दृश्यम् ।

चम्पापुरी स्त्री चम्पानामिका पुरी । अङ्कदेशस्थे कर्णराज

धान्याम । चम्पानगर्य्यादयोऽप्यत्र ।

चम्पालु पु० चम्पया अलति अल--उण् । पनसे शब्दरत्ना० ।

चम्पावती स्त्री चम्पा अङ्गदेशस्थः नदीभेदः अस्त्यस्याः मतुप्

मस्य वः । चम्पापुर्य्यां शब्दरत्ना० ।

चम्पू स्त्री चपि--ऊ । “गद्यपद्यमयी वाणी चम्पूरित्यभि-

धीयते” इत्युक्ते काव्यभेदे जटा० ।

चम्पेश पु० ६ त० । कणे त्रिका० ।

चम्पोपलक्षित पु० ३ त० । १ अङ्गदेशे हेमच० २ तद्देशवासिषु ब०व०

चम्ब गतौ भ्वा० पर० सक० सेट् । चम्बति अचम्बोत् । चचम्ब

चम्रिष् त्रि० चमूषु चमसेषु इष्यति गच्छति इष--क्विप् वेदे

नि० वस्य रः । चमसस्थे । “तस्य चम्रिषोऽत्यो न” ऋ०
१ । ५६ । १ । “चमूषु चमसेषु इषः वर्त्तमानाः” भा० पृषो०
दीर्घः चम्राष इत्यप्यत्रार्थे । “चम्बीषो न शरदा
पाञ्चजन्यः” ऋ० १ । १०० । १२ ।

चय गतौ भ्वा० आ० सक० सेट् । चयते अचयिष्ट चेये ।

पृष्ठ २८९७

चय पु० चि--भावकर्म्मादौ अच् । १ समूहे । २ वप्रे ३ प्राकार

मूलबन्धने । यदुपरि प्राकारो निरूप्यते प्राकारमूलस्थित
वैदिकेति यावत् । तथा चार्थशास्त्रम् । “खातमुद्धृत
मृदा वप्रं कारयेद् तस्यीपरि प्राकारमिति” पगार
इति गौड़भाषा । ४ परिखोद्धृतमृत्स्तूपे । तत्र-
समूहे “स्फुरति चानुबनं चमरीचयः” । “निल-
येषु नक्तमसिताश्मनाञ्चयैः” “चयस्त्विषामित्यवधा-
रितं पुरः” इति च माघः । वप्रे “चयाट्टालकशोभिना”
भा० व० १६ ० अ० । ५ अग्न्यादेश्चयने संस्कारभेदे । “यज्ञांश्च
सचयानलान्” हरिवं० ४१ अ० । ६ पुष्पादेः समाहरणे
७ पीठे मेदि० । चये कुशलः आकर्षा० कन् । चयक
चयनकुशले त्रि० ।

चयन न० चि--भावे ल्युट् । १ पुष्पादेः समाहरणे २ अग्न्यादेः

संस्कारभेदे च । चयनप्रकारः कातीयादौ दृश्यः “स
यथा कामयेत तथा कुर्य्यादिति अचयनस्य तथाचयन-
स्येति” शत० व्रा० ९ । ५ । २ । ११ । चीयतेऽनेन करणे ल्युट् ।
थंस्कारसाधने ३ यूपादौ च । “येन भागीरथी गङ्गा
चयनैः काञ्चनैश्चिता” भा० द्रो० ५१ अ० ।

चर गतौ भ्वा० पर० सक० सेट् । चरति अचारीत् ।

चचार चेरतुः । “दिवा चरेयुः कार्य्यार्थं चिह्निताराज
शासनैः” मनुः । “चेरतुः खरदूषणौ” भट्टिः “हंसं तनौ
सन्निहितं चरन्तम्” नैष० । चरः चारः चरणम्
चरितं चरित्रम् । चरन् चंचूर्य्यते “ततश्चंचूर्य्यमाणा-
सौ” भट्टिः । यङ्लुकि चंचुरीति चंचूर्त्ति ।
  • अति + अतिक्रंम्य गमने “अतिचेरुर्वक्रगत्या युयुधुश्च
परस्परम्” भाग० ३ । १७ । १४ । “अयोगतश्चात्यचरत् योगं
दिवि निशाकरः” हरिवं० २३६ अ० । “पुत्राः पितॄनत्य-
चरन्नार्य्यश्चात्यचरन् पतीन्” भा० शा० ८३८७ श्लो० ।
अतिचारशब्दोक्तेऽर्थे अतिचारशब्दे ९९ पृ० दृश्यम् ।
  • वि + अति व्यतिक्रमे “त्वामहं न व्यतिचरे मनसाऽपि
कदाचन” रामा० ल० १०१ ।
  • अधि + आधिक्येन चरणे । “यामुपरिष्टादधिचरसि” शत० १ । ९ । १ । ८ ।
  • अनु + अनुगमने पश्चाद्गमने सादृश्यकरणे । अनुचरः ।
  • अप + अपकारे अनिष्टसम्पादने । “योयस्तेषामपचरेत् त
माचक्षीत वै द्विजः” भा० शा० ९५८६ । “पितृदेवर्षि-
भृत्याश्च न चापचरिता मया” मार्क० पु० ।
  • अभि + आभिमुख्येन चरणे अतिक्रमे व्यभिचारे च “पतिं
या नाभिचरति मनोवाग्देहसंयता” मनुः “यथैवाहं
नाभिचरे कदाचित” भा० वि० ४५७ अ० । अनिष्ट
सम्पादने “श्येनेनाभिचरन् यजेत” श्रुतिः । अभिचारश्च
मारणोच्चाटनादीनि षट्कर्म्माणि “प्रति तमभि-
चर योऽस्मान् द्वेष्टि” अथ० २ । ११ । ३ । अभिचारशब्दे
दृश्यम् ।
  • वि + अभि + विशेषेण अतिक्रमे । यस्य यथात्वमुचितं तस्य
तदतिक्रमे । “उम्राणां व्यभिचरतीव सप्तसप्तौ” किरा० ।
“व्यभिचचार न तापकरोऽनलः” नैष० । हेतोः साध्या-
भाववद्वृत्तित्वं, साध्यस्य च हेतुसमानाधिकरणाभाब
प्रतियोगित्वं व्यभिचारः । “न तावदव्यभिचरितत्वं
तद्धि न साध्याभाववदवृत्तित्वम्” अनुमानचिन्ता० । स्त्री-
णाञ्च पतिमतिक्रम अन्यपुंसि गमनं व्यभिचारः ।
  • अव + समन्तात् चरणे । “कषायं अवचारितम्” ।
“कफवातज्वरं हन्याच्छीघ्रं कालेऽवचारितम्” “प्रमार्जनं
धावनञ्च वीक्ष्य वीक्ष्यावचारयेत्” “दूर्व्वां पुनर्णवाञ्चैव
लेपे साध्ववचारयेत्” इति च सुश्रु० ।
  • आ + अनुष्ठने । “प्रस्थितायां प्रतिष्ठेथा स्थितायां स्थिति-
माचरेः” रघुः । “यद्यदाचरति श्रेष्ठः” गीता । प्रति-
पाल्यत्वादिना सदृशीकरणे च “संप्राप्ते षोड़शे वर्षे
पुत्रं मित्रवदाचरेत्” चाण० ।
  • अधि + आ + आधिक्येनाचरणे “शय्यासनेऽध्याचरिते श्रेयसा
न समाविशेत्” मनुः ।
  • अनु + आ + अनुगमने तुल्यरूपानुष्ठाने “कोनु तत्कर्म्म
राजर्षेर्नाभेरन्वाचरेत् पुमान्” भाग० ४ । ५ । ७ ।
  • सम्--उद् + आ सम्यगाचरणे । “बालानपि च मार्गस्थान्
सान्त्रेन समुदाचरेत्” भा० शा० ३३ अ० ।
  • उप + आ + उपासने । “उपाचरति तत्रस्म धनानामीश्वरम्
प्रभुम्” भा० स० १० अ० ।
  • सम् + आ + सम्यगाचारे । “त्वया पापानि घोराणि
समाचीर्णानि पाण्डुषु” भा० क० ३१ अ० । उपधातैत्त्वम् ।
“उच्छिष्टान्ननिषेकञ्च दूरादेव समाचरेत्” मनुः ।
  • उद् + उल्लङ्घ्य गतौ सक० आत्म० । धर्म्ममुच्चरते “धर्म्म-
मुल्लङ्घ्य गच्छतीति” सि० कौ० । उपरिष्टाद्गतौ अक०
प० । वाष्प उच्चरति “उपरिष्टाद्गच्छति” सि० कौ० ।
“सौदामनीमुच्चरन्तीं यथैव” भा० व० ११३ क० । “क्षीवा-
वृन्दैरुदचरत्” भट्टिः “दिव्यस्तूर्य्यध्वनिरुदचरत् व्यश्नु-
वानोदिगन्तान्” रघुः । कण्ठताल्वाद्यभिघातेन उत्पा-
दने “सकृतच्चरितः शब्दः सकृदर्थं गमयतीति न्यायः ।
“अन्यदा जगति राम इत्ययं शब्द उच्चरित एव
मामगात्” रघुः ।
पृष्ठ २८९८
  • वि + उद् + विशेषेण उत्थितौ । “यथाऽग्नेः क्षुद्राविस्फुलिङ्गा
व्युच्चरन्ति” शत० व्रा० ४ । ५ । १ । २३ ।
  • सम् + उद् + सम्यगुत्थितौ । “समुच्चरन्त्यस्मादापः” निरु० ६ । ११
  • उप + उपासने “गिरिशमुपचचार प्रत्यहं सा सुकेशी” कुमा० ।
अन्यथास्थितस्य वस्तुनोऽन्यथात्वप्रतिपादनरूपे शब्दादि-
व्यापारभेदे उपचारश्च लक्षणा छलं वा । “यथा लोके
स्वशक्तिषु योधेषु वर्तमानौ जयपराजथौ राज्ञि
उपचर्य्येते” सा० द० । “तेनोपचर्य्यते राहुः” । “याम्यो-
त्तरा शशिगतिर्गणितेऽप्यु पचर्य्यते तेन” वृ० स० ५ । १५ ।
  • दुस् + दुष्टाचरणे । “कामवक्तव्यहृदया भर्त्तारं दुश्चरन्ति याः”
रामा० आर० २ । २५ ।
  • निस् + निर्गमने “इतश्चेतश्च निश्चेरुर्हृष्टाः सर्वे युयुत्सवः”
हरिव० २२ अ० । “यतोयतोनिश्चरति मनश्चञ्चलमस्थि-
रम्” गीता ।
  • परि + परितोगमने “कङ्का श्येनास्तथा गृध्रा नीचैः
परिचरन्ति च” रामा० ल० १६ । ११ । परितः सेवने “गात्र-
संवाहनैश्चैव श्रमापनयनैस्तथा । शक्रः सर्वेषु कालेषु
दितिं परिचचार ह” रामा० बा० ४६ अ० ११ ।
“आम्रं छित्त्वा कुठारेण निम्बं परिचरेत्तु यः” रा०
अयो० ३५ । १४ । परिचर्य्या परिचारकः ।
  • प्र + प्रकाशेन गतौ । “प्राणः प्रालीयत ततः पुनश्च प्रचचार
ह” भा० आश्व०२३ अ० । प्रकर्षेण चरणे च । “यैः कर्ममिः
प्रचरितैः शुश्रूष्यन्ते द्विजातयः” मनुः । प्रचारः ।
  • सम् + प्र + सम्यग् प्रकाशके । “अद्य प्रभृति चैवेह लोके संप्र-
चरिष्यति” भा० आनु० ९६ अ० ।
  • वि + विशेषण गतौ “विचरन्ति महीपाला यात्रार्थं विजि-
गीषवः” रामा० आर० २२ । ७ । “ततोद्रौणिर्महावीर्य्यः
पार्थस्य विचरिष्यतः” भा० वि० ५९ अ० । “रात्रौ न
विचरेयुस्ते ग्रामेषु नगरेषु च” “इन्द्रियाणां
विचरतां विषयेष्वपहारिषु” मनुः । वि + चु० चर
पर्य्यालोचनया निर्णये । “आयतिं सर्वकार्य्याणां
तदात्वञ्च विचारयेत्” मनुः । “मित्रामित्रं विचारयेत्”
भा० पा० ३८२६ । “विचारदृक्चारदृगप्यवर्त्तत”
“भविता न विचारचारु चेत्” नैष० ।
  • सम् + सम्यग्गतौ “नैव वाताः प्रतायन्ते न मेघाः सञ्चरन्ति
च” हरिव० १०७५८ । “आमेखलं सञ्चरतां
घनानाम्” कुमा० “सञ्चारोरतिमन्दिवावधि” रतिमञ्जरी
करणविभक्तिसहकारे आत्म० । “रथेन सञ्चरते” सि०
कौ० । “पद्भ्यां नृपः सञ्चरमाण एव” नैष० ।

चर संशये असंशये च चुरा० उभ० सक० सेट् । चारयतिते

अचीचरत् त विचारयति विचारणा विचारितः

चर पु० चर--अच् । स्वपरराष्ट्रवृत्तान्तज्ञानार्थं राजनियोगेन

इतस्ततो भ्रमणकर्त्तरि चारे १ प्रणिधौ, अमरः २
कपर्द्दके, राजनि० । ज्योतिषोक्तेषु ३ मेषकर्कटतुलामकर-
राशिषु ४ स्वातिपुनर्वसुश्रवणादित्रिकरूपे नक्षत्रभेदे
५ भौमवारे ६ अक्षद्यूतभेदे । ७ चले अनवस्थिते त्रि० मेदि० ।
८ खञ्जनखगे पुंस्त्री शब्दमा० । चरलक्षणादिकमुक्तं
युक्तिकल्पतरौ “विवस्वानिव तेजोभिर्नभस्वानिव वेगतः ।
राजा चरैर्ज्जगत् सर्वं प्राप्नुयाल्लोकसन्मतैः । तर्केङ्गितज्ञः
स्मृतिमान् स्वीयभावप्रकाशकः । क्लोशायाससहो दक्षः
सर्वत्र भयबर्जितः । सुभक्तो राजसु तथा कार्य्याणां
प्रतिपत्तिमान् । नृपोनिहन्याच्चारेण परराष्ट्रं
विचक्षणः । कालज्ञो मन्त्रकुशलान् सांवत्सरचिकित्सकान् ।
तथान्यानपि युञ्जीत समर्थान् शुद्धचेतसः । अक्रुद्धांश्च
तथाऽलुब्धान् दृष्टार्थान् तथ्यभाषिणः । पाषण्डिन
स्तापसादीन् परराष्ट्रे नियोजयेत् । स्वदेशपरदेश
ज्ञान् सुशीलान् सुविचक्षणान् । वार्त्ताहर्य्याण् बहूंश्चैव
चराणां विनियोजयेत् । नैकस्य वचने राजा चारस्य
प्रत्ययं वहेत् । द्वयोः संवादमाज्ञाय यद्युक्तं कार्य्यमार-
भेत् । तस्माद्राजा प्रयुञ्जीत चरान् वहुमुखान बहून् ।
नीरेतोवामनाः कुब्जास्तद्विधा ये च कारवः । भिक्षुक्य
श्चारणा दास्यो मालाकार्य्यः कलाविदः । अन्तःपुरगतां
वार्त्तां निर्हरेयुरलक्षिताम् । प्रकाशश्चाप्रकाशश्च चरस्तु
द्विविधो मतः । अप्रकाशोऽयमुद्दिष्टः प्रकाशो दूतसंज्ञकः” ।
“शत्रुप्रजाभृत्यवृत्तं विज्ञातुं कुशलाश्च ये । ते गुह्यचाराः
कर्त्तव्याः यथार्थश्रुतबोधकाः” शुक्रखिलनीतिशा० ।
“चरस्थिरद्व्यात्मकनामधेयामेषादयोऽमी क्रमशस्त्रिधा स्युः”
ज्यो० त० । “वातादित्यहरित्रयं चरगणः” ज्यो० त०
१५ । १३ । २२ । २३ । २४ संख्यकनक्षत्राणि चराणि । “येऽनेन
लङ्कोदयकालिकास्ते देशान्तरेण स्वपुरोदये स्युः । देशा-
न्तरं प्रागपरं तथान्यद् याम्योत्तरं तच्चरसंज्ञमुक्तम्”
सि० शि० “यौदयान्तरकर्मणा लङ्कायामौदयिका ग्रहा
जातास्ते देशान्तरकर्मणा स्वपुरौदयिकाः स्युः । तच्च
देशान्तरं द्विविधम् । एकं पूर्वापरमन्यद्याम्योत्तरम् ।
तच्चरसंज्ञसुक्तम्” प्रमि० उक्ते याम्योत्तरादौ देशान्तरे ।
चरानयनप्रकारादि सू० सि० र नारथाभ्यां दर्शितं यथा ।
पृष्ठ २८९९
“अथ दिनरात्रिमानज्ञानार्थं चरानयनं विवक्षुः प्रथमं
तदुपयुक्तां स्पष्टक्रान्तिमाह” र० ना०
“विक्षेपापक्रमैकत्वे क्रान्तिर्विक्षेपसंयुता । दिग्भेदे वियुता
स्पष्टा भास्करस्य यथाऽऽगता” सू०
“यस्य ग्रहस्य स्पष्टक्रान्तिरभीष्टा तस्य ग्रहस्यायनांशसंस्कृ-
तस्य भुजज्यातः परमापक्रमज्येत्यादिना क्रान्तिरयनांशसं-
स्कृतग्रहगोलदिक्वा ज्ञेया । तस्य विक्षेपोऽपि पूर्वोक्तप्रकारेण
पातोनगोलदिक्को ज्ञेयः । गोलस्तु मेषादिषट्कमुत्तर-
स्तुलादिषट्कं दक्षिणः । अथ शरक्रान्त्योरेकदिक्त्वेन
क्रान्तिः कलाद्या कलात्मकविक्षेपेण युता तयोर्दिगन्यत्वे
क्रान्तिर्व्विक्षेपेण वियुतान्तरिता शेषदिक्वा स्पष्टा क्रान्तिः
स्यात् । ननु सूर्य्यस्य विक्षेपाभावात् कथं स्पष्टा क्रान्ति-
र्ज्ञेयेत्यत आह भास्करस्येति । सूर्य्यस्य यथागता
पूर्वागता क्रान्तिरेव स्पष्टा क्रान्तिः । अत्रोपपत्तिः ।
विषुवद्वृत्ताद्ग्रहविम्बकेन्द्रपर्य्यन्तं याम्यमुत्तरं वान्तरं
स्पष्टक्रान्तिरिति तयोरेकदिक्त्वे तद्योगतुल्यमन्तरं, भिन्न-
दिक्त्वे तदन्तरमितमन्तरमिति । अत्र शरस्य क्रान्ति-
संस्कारयोग्यत्वसम्पादिका क्रिया लोकश्रमभयात् स्वल्पा-
न्तरत्वाच्चोपेक्षिता भगवता कृपावता । अन्यथा शरस्य
ध्रुवाभिमुखत्वे मगवदुक्तमायनदृक्वर्म्म कथमव्याहतं स्या-
दित्यलम् । अथ दिनरात्रिमानज्ञानार्थमहोरात्रासून्
साधयति” र० ना० ।
“ग्रहोदयप्राणहता खखाष्ट कोद्धृता गतिः । चक्रासवो
लब्धयुताः स्राहोरात्रासवः स्मृताः” सू० ।
“ग्रहस्य येऽयनांशसंस्कृतराशेर्वक्ष्यमाणनिरक्षोदयासव-
स्तैर्गुणिता निजस्फुटगतिः कलाद्यष्टादशशतभक्ता फलेन
युताश्चक्रासवः षष्टिघटिकानामसवः षट्शतयुतैकविंशति-
सहस्रमिताः स्वस्वग्रहस्याहोरात्रासवः कालतत्त्वज्ञैः
कथिताः । अत्रोपपत्तिः । ग्रहः पूर्व्वगत्या लम्बितः
प्रवहेण गतिभोगकालेन भचक्रपरिवर्तानन्तरमुदेत्यतो
भचक्रपरिवर्तकालः षष्टिघटिकासुमितो ग्रहगतिकलास-
म्बद्धास्वात्मककालेनाधिको ग्रहाहोरात्रमस्वात्मकं नाक्षत्र-
प्रमाणेन भवति । तत्रैकराशिकलाभिर्यदि ग्रहसम्बद्ध-
राश्युदयप्राणास्तदा गतिकलाभिः क इत्यनुपातेन गत्यसव
इत्युपपन्नं ग्रहोदयेत्यादि । अनेनैव श्लोकेन ग्रहाणा-
मुदयान्तरकर्म्मापीत्युक्तं भगवता । तथाहि ।
अनुपातानीतमध्यग्रहाणां नियताहोरात्रमानान्तरकाले
ग्रहाणां सिद्धिः रविमध्यगत्यसूनां प्रतिराशौ भिन्न-
त्वेन मध्यमसूर्य्याहोरात्रमानस्य नियतत्वाभावादतस्त्रे-
राशिकावगतग्रहा अनियतमध्यार्काहोरात्रकालान्तरेणार्ध०
रात्रे यत्संस्कारेण भवन्ति तदेवोदयान्तरं तत्साधनं
भगवता स्रल्पान्तरत्वादुपेक्षितम् । कथमन्यथा गति
कलासूनां समत्वमुपेक्ष्य गतिकलानामसवो भगवदुक्ताः
सङ्गच्छन्ते उदयान्तरस्य गतिकलासुभेदोत्पन्नत्वात् ।
अथ चरोपयुक्तां क्रान्तिज्यां द्युज्यां चाह” र० ना० ।
“क्रान्तेः क्रमोत्क्रमज्ये द्वे कृत्या तत्रोत्क्रमज्यया ।
हीना त्रिज्या दिनव्यासदलं तद्दक्षिणोत्तरम्” सू० ।
“स्पष्टक्रान्तेः क्रमोत्क्रमज्ये क्रमज्योत्क्रमज्ये द्वे अपि
प्रसाध्य तत्र तन्मध्ये क्रान्त्युत्क्रमज्यया त्रिज्या हीना
दिनव्यासदलमहोरात्रवृत्तस्य व्यासार्धं द्युज्येत्यर्थः ।
तद्दिनव्यासार्धं दक्षिणोत्तरं दक्षिणगोल उत्तरगोले च
स्यात् क्रान्तेर्गोलद्वयेऽपि सत्त्वात् । अपरा क्रान्ति-
ज्यैव । अत्रोपपत्तिः । क्रान्त्यंशानां क्रमज्या क्रान्ति-
ज्या भुजो विषुवद्वृत्तानुकाराण्यहोरात्रवृत्तान्युभय-
गोले तदुभयतस्तद्व्यासार्धं द्युज्या कोटिस्त्रिज्या कर्ण
इति गोले प्रत्यक्षम् । त्रिज्यावृत्त उन्मण्डले याम्योत्तरवृत्ते
बा प्रत्यक्षम् । तत्र भुजकर्णयोर्वर्गान्तरपदं कोटिरिति
क्रान्तिज्यावर्गोनात्त्रिज्यावर्गान्मूलं द्युज्या । तत्रापि
मुजोत्क्रमज्यया हीना त्रिज्या कोटिक्रमज्या स्यादिति
वृत्ते प्रत्यक्षदर्शनात् क्रान्त्युत्क्रमज्ययोना त्रिज्या द्युज्या
स्यादिति लाघवेन वर्गमूलनिरासेनोक्तं भगवता क्रान्ते-
रित्यादि । अथ चरानयनपूर्वकदिनरात्रिमानसाधनं
श्लोकत्रयेणाह” र० ना०
“क्रान्तिज्या विषुवद्भाघ्री क्षितिज्या द्वादशोद्धृता ।
त्रिज्यागुणाहोरात्रार्धकर्णाप्ता चरजासवः ।
तत्कार्मुकमुदक्क्रान्तौ धनहानी पृथक्स्थिते । स्वाहो-
रात्रचतुर्भागे दिनरात्रिदले स्मृते ।
याम्यक्रान्तौ विपर्यस्ते द्विगुणे तु दिनक्षपे । विक्षेपयुक्तो-
नितया क्रान्त्या भानामपि स्वके” सू० ।
“क्रान्तिज्या विषुवद्गिनीयमध्याह्ने द्वादशाङ्गुलशङ्कोश्छा-
यथा गुण्या द्वादशभक्ता फलं कुज्या स्यात् । सा त्रि-
ज्यया गुणिताहोरात्रार्धकर्णाप्नाहोरात्रवृत्तस्यार्धकर्णेन
व्यासदलेन द्युज्यया भक्ता फलं चरजा ज्या चरज्ये-
त्यर्थः । अस्याश्चरज्याया धनुरसवश्चरासवो भवन्ति ।
स्वाहोरात्रचतुर्भागे स्वस्य चरसम्बन्धिनो ग्रहस्य प्रागुक्ता-
होरात्रासवस्तेषां चतुर्थांशे पृथक्स्थिते स्थानद्वयस्थे सत्व-
पृष्ठ २९००
रक्रान्तौ सत्यां चरासू धनहानी युतहीनौ कार्यौ तौ
क्रमेण दिनरात्रिदले दिनार्धरात्र्यर्धे कालविद्भिरुक्ते ।
दक्षिणक्रान्तौ सत्यां विपर्यस्ते दिनरात्रिदले यत्र हीनं
तद्दिनार्धं, यत्र युतं तद्रात्र्यर्धमित्यर्थः । तुकारात् ते
दिनरात्र्यर्धे द्विगुणे दिनक्षपे दिनमानरात्रिमाने ग्रहस्य
स्वः । उक्तरीत्या नक्षत्राणामपि दिनरात्रिमाने साध्ये
इत्याह । विक्षेपेत्यादि । नक्षत्रध्रुवाणामानीतया
क्रान्त्या नक्षत्रविक्षेपेणैकभिन्नदिक्क्रमेण युक्तयान्तरित-
योक्तप्रकारेण सिद्धया स्वके नक्षत्रदिनरात्रिमाने साध्ये
इत्यर्थः । अत्रोपपत्तिः । द्वादशाङ्गुलशङ्कुः कोटिः
फलभा भुजोऽक्षकर्णः कर्णः, क्रान्तिज्या कोटिः, कुज्या
भुजोऽग्रा कर्ण इत्यक्षक्षेत्रद्वयं प्रसिद्धम् । तत्र यदि द्वादश-
कोटौ फलभा भुजः, तदाक्रान्तिज्याकोटौ को भुज
इत्यनुपातेन कुज्या । तत्स्वरूपं तु निरक्षदेशक्षितिजस्वदेश-
क्षितिजान्तरालस्थिताहोरात्रवृत्तप्रदेशस्य द्युज्याप्रमाणेन
ज्येति त्रिज्याप्रमाणेन तज्ज्या चरज्येति द्युज्याप्रमा-
णेन कुज्या त्रिज्याप्रमाणेन केत्यनुपातेन चरज्या तद्ध-
नुश्चरासवोऽहोरात्रवृत्तखण्डप्रदेशे निरक्षस्वक्षितिजान्त-
राल उत्तरगोले स्वक्षितिजस्य निरक्षक्षितिजादधःस्थत्वा-
न्निरक्षक्षितिजयाम्योत्तरवृत्तान्तरालेऽहोरात्रवृत्तचतुर्थांश-
त्वादहोरात्रासुचतुर्थांशे चरासवो युता दिनार्धं हीना
रात्र्यर्धं दक्षिणगोले स्वक्षितिजस्य निरक्षक्षितिजादूर्ध्व-
स्थत्वाद्धीना दिनार्धं, युता रात्र्यर्द्धमित्युपपन्नं सर्वं
क्रान्तिज्येत्यादि” ।
तत्र प्रणिधौ । “राजन्यकान्युपायज्ञैरेकार्थानि चरैस्तव”
माघः । “तेषां वृत्तं परिणयेत् सम्यग्राष्ट्रेषु तच्चरैः”
मनुः । चले “तस्य सर्वाणि भूतानि स्थावराणि चराणि च
“देवेभ्यश्च जगत्सर्वं चरं स्थाण्वनुपूर्वशः” मनुः । सुपि
कर्म्मण्युप्रपदे “चरेष्टः” पा० ट चरणकर्त्तरि त्रि० । भूचरः
खचरः । “शठोमिथ्याविनीतश्च वकव्रतचरोद्विजः”
मनुः । मेषादौ “चरलग्ने चरांशे वा स्थापनं च
विसर्ज्जनम्” ति० त० । स्वार्थे अण् । चार प्रणिधौ

चरक पु० चरएव स्वार्थे क संज्ञायां कन् वा । १ चरे

दूतभेदे । २ आयुर्वेदकारकमुनिभेदे पु० । “देवाकर्ण्णय सुश्रु-
तेन चरकस्योक्तेन जानेऽखिलं स्यादस्या नलदं विना
न दलने तापस्य कोऽपि क्षमः” नैष० । मन्त्रियैद्योयोरेक-
रूपोक्तौ । चरकनामनिरुक्तिः आयुर्वेदशब्दे ७८० पृ०
दुर्शिता । ३ तत्कृते ग्रन्थे च भाबप्रका० तत्र च
ग्रन्थे सूत्रस्थानं निदानस्थानं विमानस्थानं शारीर-
स्थानम् इन्द्रियस्थानं चिकित्सितस्थानं कल्पस्थान
सिद्धिस्थानम् इत्यष्टौ स्थानानि । ४ पर्पटे राजनि० ।
५ चक्रकरे ६ भिक्षौ शब्दार्थचि० ।

चरकाल पु० “निरक्षदेशक्षितिजाख्यवृत्तमुन्मण्डलं तज्ज-

गुरन्यदेशे । स्वे स्वे कुजेऽर्कस्य समुद्गमोऽस्माच्चरार्धम-
र्कोदययोस्तु मध्ये” सि० शि० । “आदौ स्वदेशेऽथ
निरक्षदेशे सूर्योदयोह्यस्तमयोऽन्यथातः । ऋणं ग्रहोऽ-
णादुदये स्वमस्ते फलं चरोत्थं रविसौम्यगोले । याम्ये
विलोमं खलु तत्र यस्मादुन्मण्डलं स्वक्षितिजादधस्वात् ।
नात्याह्वयादुत्तरयाम्यभागौ गोलस्य तावुत्तरयाम्यगोलौ”
सि० शि० उक्ते दिनमानज्ञानोपाये कालभेदे ।

चरगृह न० चररूपं गृहम् । मेषकर्कतुलामकररूपेषु

राशिषु । चरगेहादयोऽप्यत्र ।

चरट पुंस्त्री चर--बा० अटच् । खञ्जनखगे शब्दमा० स्त्रियां जातित्वात् ङीष् ।

चरण पु० चर--करणे ल्युट् । १ देहावयवभेदे पादे “सुतेन

धातोश्चरणौ भुवस्तले” माघः “द्वितीये हस्तचरणौ तृतीये
बधमर्हति” मनुः । २ वेदैकदेशे शाखापरपर्याये “गोत्रं
च चरणैः सह” महाभाष्यका० । चरणव्यूहः ।
३ अर्कादेः किरणे । ४ श्लोकानां चतुर्थभागे पादे च । “प्रथ-
माङ्घ्रिसमोयस्य तृतीयश्चरणोभवेत्” छन्दोम० । “५ चतुर्थ-
भागमात्रे । “पश्यन्ति खेटाश्चरणाभिवृद्धितः” ज्योति० ।
६ एक देशमात्रे “ज्योतिश्चरणाभिधानात्” शा सू० ।
भावे ल्युट् । ७ अनुष्ठाने “अकृत्वा भैक्ष्यचरणम्”
“तपञ्चश्चरणैश्चोग्रैः” मनुः । “रमणोयचरणा अभ्यासोह
रमणीयां योनिमापद्येरन्” श्रुतिः चरणशब्दस्य
आचारार्थकत्वेऽपि कर्म्ममात्रपरत्वमुक्तं शा० सू० भा०
तच्चानुशयशब्दे १८६ पृ० उक्तम् चरण + चतुरर्थ्यां तृणा-
स । चरणस तन्निर्वृत्तादौ त्रि०

चरणग्रन्थि पु० ६ त० । गुल्फे हेमच० ।

चरणपर्व्वन् न० ६ त० । गुल्फे त्रिका० ।

चरणव्यूह पु० चरणानां वेदशाखानां व्यूहोऽत्र ।

वेदशाखाविभाजके ग्रन्थभेदे ।

चरणायुध पुंस्त्री० चरण आयुधं यस्य । कुक्कुटे अमरः

“आकर्ण्य सम्प्रति रुतं चरणायुधानाम्” सा० द० ।
स्त्रियां जातित्वात् ङीष् ।

चरणि पु० चर--अनि । मनुष्ये “सुविद्वांसं च कृत्यं

चरणीनाम्” ऋ०८ २४ २३ । “चरणीनां मनुष्याणाम्” मा० ।
पृष्ठ २९०१

चरणिल त्रि० चरणेन निर्वृत्तादि काशादि० चतुरर्थ्याम्

इल । चरणनिर्वृत्तादौ

चरण्टि स्त्री चिरण्टि + पृषो० । चिरिण्ट्यां सुवासिन्यां हेमच० ।

चरण्य पु० चरण इब शाखा० यत् । चरणतुल्ये पा० ।

चरण्य चरण--गतौ कण्ड्वा० सक० पर० सेट् । चरण्यति

अचरण्यीत् । वरणगतौ इति पाठान्तरम्

चरण्यु त्रि० क० चरण्य--उण् “चरणशीले “चक्षुर्नग्रन्थिनी

चरण्युः” ऋ० १० । ९५ । ६ “चरण्युश्चरणशीला” भा० ।

चरथ त्रि० चर--गतौ अथ । जङ्गमे । “स्थातुश्चरथमक्तून-

व्यूर्ण्णोत्” ऋ० १ । ६८ । १ । “चरथं जङ्गमम्” भा० ।

चरभ न० कर्म्म० । मेषकर्कट तुलामकरराशिषु चरराशिषु

चरलग्नादयोऽप्यत्र ।

चरम त्रि० चर--अमच् । १ अन्त्ये २ पश्चिमे ३ शेषभवे “अब्र-

वीत् क्रियतामेषा सूतानां चरमा क्रिया” भा० वि०
२४ अ० । चरमक्ष्माभृत् । जसि सर्वनामत्वात् वा जसः
शीभावः चरमे चरमाः । ४ अन्ते न० । “उत्तिष्ठेत्
प्रथमं चैव चरमं चैव संविशेत्” मनुः ।

चरमक्ष्माभृत् पु० कर्म्म० । अस्ताचले पश्चिमस्थे अचले ।

अमरः चरमाचलचरमगिर्य्यादयोऽप्यत्र ।

चरव्य त्रि० चरवे हितः उदन्तत्वात् यत् । चरुहिते तण्डु-

लादौ सि० कौ० ।

चराचर त्रि० चर--अच् नि० । १ जङ्गमे । २ आकाशे

धरणिः । चरश्चाचरश्च समाहारद्व० । ३ स्थावर-
जङ्गमरूपे जगति न० मेदि० । “त्वया विसृज्यते
विश्वं जगदेतच्चराचरम्” देवीमा० । “एवं स जाग्रत्
स्वप्नाभ्यामिदं विश्वं चराचरम्” मनुः । इतरेतरद्व० ।
४ चरे अचरे च त्रि० । “सर्वे भावाश्चराचराः” रामा०
कि० ४३ । ४४ श्लो०

चरि पु० चर इन् । पशौ उणादिकोषः ।

चरित त्रि० चर--कर्म्मणि क्त । १ अनुष्ठिते । भावे क्त । २ च

रित्रे ३ स्वभावे । “सर्वं खलस्य चरितं मशकः करीति”
हितो० “उत्तरं रामचरितं तत्प्रणीतं प्रयोक्ष्यते” ।
उत्तररामच० । वीरचरितम् । चण्डीशब्दे प्रथमादिचरि-
तादि बहुकृत्वः उदा० । “वाग्देवताचरितचित्रितचि
त्तसद्मा” गीत्तगो० कर्म्मणि क्त । ४ गते ५ प्राप्ते ६ ज्ञाते च ।

चरितार्थ त्रि० चरितः कृतः प्राप्तोऽर्थः प्रयोजनं येन ।

१ कृतार्थे कृतप्रयोजने २ प्राप्तफले सफले ।
“बभुव कृतसंस्कारा चरितार्थेव भारती” “रामरायुणयो-
र्युद्धं चरितार्थमिवाभवत्” इति च रघुः “प्रवृत्तिरासी
च्छब्दानां चरितार्था चतुष्टयी” “आश्वासयत् सुचरि-
तार्थपदैर्वचोमिः” इति च कुमा० “अन्योन्याभावतो-
नास्य चरितार्थत्वमुच्यते” भाषा० ।

चरित्र न० चर--इत्र । १ अनुष्ठाने २ व्रतकर्म्माद्यनुष्ठाने

३ स्वभावे ४ चेष्टिते ५ लीलादौ च शब्दरत्ना० । ६ तिन्ति-
डीवृक्षे स्त्री शब्दर० ।
“एतद्देशप्रसूतानां सकाशादग्रजन्मनाम् । स्वं स्वं
चरित्रं शिक्षेरन् पृथिव्यां सर्वमानवाः” “स्वां प्रसूतिं
चरित्रं च कुलमात्मानमेव” मनुः । “चरित्रबन्धक-
कृतम्” याज्ञ० । स्वार्थे अण् । चारितं तत्रार्थे न०”
पृषो० दीर्घः चरीत्रमप्यत्र न० शब्दरत्ना० ।

चरिष्णु त्रि० चर--इष्णुच् । चरणशीले “यदाणुमात्रिको

भूत्वा वीजं स्थास्नु चरिष्णु च” मनुः ।

चरु पु० चरति होमादिकमस्मात् भीमा० अपादाने

चरउन् । हव्यान्ने होमार्थं पाच्यान्ने “अनवस्रावितानन्त-
रूष्मपाकओदनश्चरुरिति याज्ञिकाः । चरन्त्यापोऽत्र
आधारे उन् । २ मेधे निघ० । ३ चरुपाकपात्रे भाण्डे
विश्वः चरुलक्षणमुक्तं कर्म्मप्रदीपे
“स्वशाखोक्तः प्रसुस्विन्नी ह्यदग्धोऽकठिनः शुभः । न
चातिशिथिलः पाच्यो स चरुःस्यान्न चारसः” चरुपाक०
प्रकारः कातीये ४ । १ । ५ । सूत्रभाष्ययोर्दर्शितो यथा
“अपरेण गार्हपत्यं चरुमपूर्णं स्रुचं वा तुष्णीं
गृहीत्वोत्तरेण दक्षिणाग्निमवहन्ति तिष्ठन्” ५ सू० ।
“गार्हपत्यादपरस्यां दिशि अपूर्णं चरुं
चरुस्थालीम् तूष्णीं मन्त्रस्याविधानाल्लौकिकवागुच्चारण
वर्जम् व्रीहीन्न्युब्जेन मुष्णिना प्राचीनावीती दक्षिणा-
मुखोऽध्वर्युर्गृह्णीयात् अथ वा अपूर्णं स्रुचम् एवं
गृहीत्वा दक्षिणाग्नेरुत्तरतो गार्हपत्यस्य पुरस्ताद्दक्षि-
णाभिमुखस्तिष्ठन्नवहन्ति अत्र शाखान्तराद्दक्षिणाग्ने-
रुत्तरत उदग्ग्रीवं कृष्णाजिनमास्तीर्य्य तत्रोलूखलं
निधाय तस्मिन् व्रीहीणां प्रक्षेपं कृत्वा मुसलमादाय
दक्षिणाभिमुखस्तिष्ठन्नवहननं कण्डनं व्रीहीणां करोति
ततः शूर्पमादायोलूखलाद्व्रीहीन् निष्काश्य निष्पवनेन
तुषान्निष्काशयेन्” कर्कः “सकृत् फलीकरोति” ६ सू० “लोके
तस्य पुनःपुनः क्रियमाणत्रात् सकृदित्युच्यते, कर्कः
“सारतण्डुलमपूर्णं श्रपयित्वाभिघार्य्योद्धास्य मेक्षणेः
जुहोत्यग्नय इति सोमायेति च” ७ सू० “इममेव चरु
पृष्ठ २९०२
सारतण्डुलमीषत्स्विन्नतण्डुलम् अपूर्णं यथा शृतन
चरुणा स्थाल्याः पूरणं न भवति तथा श्रपयित्वा
आसादितेनाज्येनाभिघार्य्य दक्षिणत उद्वास्य दक्षिणाग्नेः
पूर्वमार्गेणापदक्षिणमुत्तरत आनीय सव्यं कृत्वा तिष्ठं
स्तिस्रः समिध आधायोपविश्य प्राङ्मुखो मेक्षणेन
चरुं जुहोति” कर्कः ।
शाखान्तरे चरुपाकप्रकारो भवदेवपद्धत्यादौ ज्ञेयः ।
“यवमयश्चरुर्भवति” श्रुतिः । “श्यामकगावेधुकनैवारयव-
मयः” तै० स० “चरुर्वै देवानामन्नमोदनो हि चरुः”
शत० व्रा० ४ । ४ । २ । १ । “ये पूष्णो चरुंकुर्व्वन्ति प्रपि-
ष्टानामेव कुर्ब्बन्ति यथा दन्तकायैवम्” १ । ७ । ४ । ७ ।
“यद्यप्यदन्तकः पूषा पैष्टमत्ति सदा चरुम् । अग्नीन्द्रे-
श्वरसाधर्म्म्यात्तण्डुलोऽत्र विधीयते” छन्दो० ।
“हेमपात्रगतं दोर्भ्याम् आदधानः पयश्चरुम्” “स तेजो
वैष्णवं पत्न्योः विभेजे चरुसंज्ञितम्” “चरोरर्द्धार्द्धभा-
गाभ्यां तामयोजयतामुभे” इति च रघुः ।

चरुचेलिन् चरुश्चेलमिवास्त्यस्य इनि । महादेवे । “चरु-

चेली मिलीमिली” भा० श० २८६ अ० शिवनामोक्तौ

चरुव्रण पु० चरोर्व्रण इव । चित्रापूपे (चिताइपिटा)

त्रिका० ।

चरुस्थाली स्त्री ६ त० । चरुपाकार्थस्थाल्यां “तिर्य्यगूर्द्ध

समिन्मात्रा दृढा नातिवृहन्मुखी । मृण्मय्यौडम्बरी
वापि चरुस्थाली प्रशस्यते” कर्म्मप्रदीपे तल्लक्षणमुक्तम् ।

चर्च अध्ययने चुरा० उभ० सक० सेट् । चर्चयति--ते

अचचर्चत्--त् । चर्चितः चर्चा ।

चर्च उक्तौ भर्त्सने च तु० पर० सक० सेट् । चर्चति अचर्च्चीत् ।

उक्तिरत्र विचारार्थपरिभाषणम् ।

चर्चरी स्त्री चर्च--बा० अरन् गौरा० ङीष् । १ गीतिभेदे ।

२ अनृजुकेशे ३ करध्वनौ च । “चर्चरी गीतिभेदे च
केशभित्करशब्दयोः” रुद्रः । ४ हर्षक्रीड़ायां सुभूतिः ।
५ कार्पटिकानां सादरवचने ६ तौर्यत्रिके ७ वसन्तसमय-
क्रीड़ायाम् ८ चर्मट्याम् । ९ साटोपवाक्ये शब्दार्थचि०
१० वर्णवृत्तविशेषे । यथा हारयुक्तसुवर्णकङ्कणपाणिशङ्ख-
विराजिता पादनूपूरसङ्गता सुपयोधरद्वयभूषिता ।
शोभिता वलयेन पिङ्गलपन्नगाधिपवर्णिता चर्चरी तरुणीव
चेतसि चाकशीति सुसङ्गता” “अनन्तरे चर्चरी”
“जलहर! संहर एह कोबमै आणत्तओ, अविरल
धारा साराक्वन्तदिसामुहओ । ए! मञि पुहनि भमन्ते
जै पिअ पेक्खिहिमि, तवेव जं जु करीहिसि तंतु
सहीहिमि” “अनन्तरे चर्चरी “गन्धम्माइअ--महुअर-
गीएहिं वज्जन्तेहिं परहु अदूरोहिम् । पसरिअ-
पवणुवेवल्लिअ--पल्लव--णिअरू सुललिअ--बिविहपआरेहिं
णच्चै कप्पअरू” इति च विक्रमोर्व० ।
स्वार्थे क अत इत्त्वम् । चर्चरिकाप्यत्रार्थे

चर्चरीक पु० चर्च--ईकन् फर्फरी० नि० । १ महाकालभैरवे

२ केशविन्यासे ३ शाके च मेदि० ।

चर्चस् पु० चर्च--असुन् । १ निधिभेदे त्रिका० निधिशब्दे दृश्यम्

चर्चा स्त्री चर्च--अच् । १ दुर्गायाम् । चु० चर्च--भावे अङ् ।

२ विचारणायां ३ चिन्तायां ४ चार्चिक्ये चन्दनादिना
देहलेपने च मेदि० । स्वार्थे क । चर्चिका तेष्वर्थेषु चर्चां
वेत्ति तत्परं ग्रन्थं वाऽधीते उक्था० ठक् । चार्चिक
विचारणाभिज्ञे तत्परग्रन्थाध्योतरि च त्रि०

चर्चि स्त्री चर्च--भावे इन् । विचारणायाम् “द्वे चर्चावति-

रिच्येते एकया गौरतिरिक्तः एकयायुरूनः” तै० व्रा०
१२२२ ।

चर्चिक्य न० चार्चिक्य पृषो० ह्रस्वः । चार्चिक्ये हेम०

चर्चित त्रि० चर्च--कर्म्मणि क्त । १ चन्दनादिना कृतलेपे

देहादौ । “पयोधराश्चन्दनपङ्कचर्चिताः” ऋतुस० ।
“भुजं चन्दनचर्चितम्” भा० स० २३७३ श्लो० । भावे क्त
२ तथालेपने न० ।

चर्त्त्य त्रि० चृत--कर्म्मणि यत् । हननीये ।

चर्पट पु० सौ० चृप--दीप्तौ अटन् । १ स्फारे २ विपुले ३ चपेटे

४ पर्पटे च मेदि० । ५ भाद्रशुक्लषष्ठ्यां चपेट्याम् स्त्री
शब्दार्थचि० । ६ पिष्टकभेदे पौल्यां स्त्री गौरा० ङीष् ।
त्रिका० ।

चर्ब गतौ भक्षणे च भ्वा० पर० सक० सेट् । चर्बति अचर्बीत् । चचर्ब ।

चर्भट पु० चर--क्विप् भट--अच् कर्म्मधा० । १ इर्वारौ

कर्कट्यां हला० गौरा० ङीष् २ हर्षक्रीड़ायां ३ साटोप-
वाक्ये ४ चर्चायाञ्च हेम० ।

चर्म्म न० चर्म्म साधनतया अस्त्यस्य अच् टिलोपः । चर्म्म-

निर्म्मिते फलके(ढाल) भरतः ।

चर्म्मकषा(सा) स्त्री चर्म्म कष(स)ति कष--अच् । पश्चिम-

देशप्रसिद्धे गन्धद्रव्यभेदे(चामरकषा) २ सप्तलालतायां
चर्म्मकसाप्यत्र भरतः
पृष्ठ २९०३

चर्म्मकार त्रि० चर्म्म तन्निर्म्मितं पादुकादि करोति कृ--अण्

उप० स० । १ पादुकादिकारके “चाण्डाल्यां तीव-
राज्जातश्चर्म्मकार इति स्मतः” पराशरोक्ते, २ सङ्कीर्ण्ण-
जातिभेदे पुंस्त्री स्त्रियां जातित्वात् ङीष् । “चर्म्म-
कारस्य द्वौ पुत्रौ गणकोवाद्यपूरकः” । “मनुना तु वैदेह्यां
निषादाज्जातस्य कारावराख्यचर्म्मकारसंज्ञोक्ता यथा
“कारावरो निषादात्तु चर्म्मकारः प्रसूयते” उत्तरत्र
वैदेह्यामेवेत्युक्तेः अत्रापि तस्यामेवेत्यन्वयः ।
उशनसा तु “सूताद्विप्रप्रसूतायां सूतोवेणुक उच्यते ।
नृपायामेव तस्यैव जातोयश्चर्म्मकारकः” इत्युक्तम् ।
एवञ्च मुनित्रयप्रामाण्यात् त्रिविधैव चर्मकारजातिः ।
“धिग्वर्ण्णानां चर्म्म कार्य्यम्” मनुना तेषां वृत्तिरुक्ता ।
चर्म्मकरोति क्विप् चर्म्मकृदप्यत्र । ण्वुल् चर्म्मकारक
तत्रार्थे

चर्म्मकारी स्त्री चर्म्म किरति कॄ--अण् । १ चर्म्मकषायामोषधौ मेदि० २ चर्म्मकारजातिस्त्रियां च

चर्म्मकील पु० चर्म्मणि कील इव । गुह्यजाते रोगभेदे

(हारिश) ख्याते रोगे “व्यानो गृहीत्वा श्लेष्माणम् ।
करोत्यर्शस्त्वचो बहिः । कीलोपसंस्थिरखरं चर्म्म-
कीलन्तु तद्विदुः । वातेन तोदपारुष्यं पित्तादसित-
रक्तता । श्लेष्मणा स्निग्धता तस्य ग्रथितत्वमवर्णता”
माघवक० तन्निदानाद्युक्तम् । “चर्मकीलं जतुमणिं
मसकान् तिलकालकान् । उत्कृत्य शस्त्रेण दहेत्
क्षाराग्निभ्यामशेषतः” भावप्र० ।

चर्म्मचटका स्त्री चर्मणा चटकेव । (चामचिका) अजिन पत्रायां हेमच०

चर्म्मचटी स्त्री चर्म्म चटति भिनत्ति चट--भेदे अच् गौरा०

ङीष् । (चामचिका) अजिनपत्रायां शब्दरत्ना० ।
स्वार्थे क । चर्म्मचटिकाप्यत्र ।

चर्म्मचित्रक न० चर्म्म चित्रयति चित्र--ण्वुल् । श्वेतकुष्ठरोगे राजनि० ।

चर्म्मज न० चर्म्मणि जायते जन--ड । १ रोमणि । २ रुधिरे

च राजनि० ।

चर्म्मण्य त्रि० चर्म्मणि भवः शरीरावयवत्वात् यत् । चर्म-

भवे । “श्लेष्मणा चर्म्मण्यं वान्यद्वा विश्लिष्टं संश्लेष-
येत्” ऐत० व्रा० ५ । ३२ ।

चर्म्मण्वती स्त्री चर्म्मन् + अस्त्यर्थे मतुप् मस्य वः संज्ञायां

आसन्दीवदित्यादिना नि० । नदीभेदे । सा च रन्ति
देवस्य यज्ञोपकल्पितगोराशिचर्म्मत उत्पन्ना यथाह
“महानदी चर्म्मराशेरुत्क्लेदात् सुसुवे यतः । ततश्च
र्मण्वतीत्येषं विख्याता सा महानदी” भा० शा० २९ अ० ।
“रन्तिदेवस्य यज्ञे ताः पशुत्वेनोपकल्पिताः । अतश्चर्म-
ण्वती राजन्! गोचर्मभ्यः प्रवर्त्तिता” भा० अनु० ६६ अ०
नर्मदाफलं दक्षिणसिन्धुफलञ्चोक्त्वा भा० व० ८२ अ०
तन्माहात्म्यं यथा “चर्म्मण्वतीं समासाद्य
नियतो नियताशनः । रन्तिदेवाभ्यनुज्ञातो अग्नि-
ष्टोमफलं लभेत्” । अतस्तस्या दक्षिणदेशस्थत्वम् ।
असंज्ञायां तु चर्म्मवत् इत्येव । चर्म्मयुक्ते त्रि० स्त्रियां
ङीप् ।

चर्म्मतरङ्ग पु० चर्म्मणि तरङ्ग इव । जरया पलिते बलौ । राजनि० ।

चर्म्मतिल त्रि० चर्म्मणि तिला अस्य । चर्म्मोपरिजात

कृष्णतिलके(तिल) युक्तदेहादौ

चर्म्मदण्ड पु० चर्म्मणा कृतोदण्डः । कषायाम् (कोड़ा) हेम० ।

चर्म्मदल न० चर्म्मदलयति दल--अण् । स्वल्पकुष्ठभेदे ।

“स्युर्य्येन कण्डूव्यथनौघचोषास्तलेषु तच्चर्म्मदलं वदन्ति”
सुश्रुतः । “चर्म्मदलाजगल्लीमशकाधिष्ठाना” सुश्रुतः ।

चर्म्मदूषिका स्वी चर्म्म दूषति दूषि--ण्वुल् । कोठरोगे

राजनि० ।

चर्म्मद्रुम पु० चर्म्म चर्म्माकारवल्कलं तत्प्रधानोद्रुमः । मूर्ज-

वृक्षे राजनि० । तस्य चर्म्माकारवल्कलत्वात् तथात्वम् ।

चर्म्मन् न० चर--मनिन् । १ देहावरिकायां त्वचि, २ इन्द्रियभेदे

येन स्पर्श उपलभ्यते तस्मिन् ३ फलके (ढाल) च ।
“त्वगिन्द्रियन्तु वायवीयं यथाह “देहव्यापि त्वगिन्द्रियम्”
भाषा० । तस्य तथात्वं सि० मु० समर्थितं यथा “शरीर
व्यापकं स्पर्शग्राहकमिन्द्रियं तच्च वायवीयं रूपादिषु
मव्ये स्पर्शस्यैव व्यञ्जकत्वात् अङ्गसङ्गिसलिलशैत्यव्यञ्जक
व्यजनवातवत्” । मनसा त्वग्योगोज्ञानसामान्ये कारणं
यथाह तत्रैव “त्वचोयोगो मनसा ज्ञानकारणम्”
“त्वङ्मनःसंयोगो ज्ञानसामान्ये कारणमित्यर्थः किं तत्र
प्रमाणे सुषुप्तिकाले त्वचं त्यक्त्वा पुरीतति वर्त्तमानेन
मनसा ज्ञानाजननमिति । ननु सुषुप्तिकाले किं ज्ञानं
भविष्यति अनुभवरूपं स्मरणरूपं वा । नाद्यः अनुभव-
सामग्र्यभावात्तथाहि चाक्षुषादिप्रत्यक्षे चक्षुरादिना
सह मनःसंयोगस्य हेतुत्वात् तदमावादेव न चाक्षुषादि-
प्रत्यक्ष, ज्ञानादेरभावादेव न मानसप्रत्यक्षं, ज्ञानाद्यभावे
च नात्मनोऽपि प्रत्यक्षमिति । व्याप्तिज्ञानाभावात् नानु-
मितिः, सादृश्यज्ञानाभावात् नोपमितिः, पदज्ञानाभावात्
न शाब्दबोधः, इत्यनुभवसामग्र्यभावात्, नानुभवः ।
उद्बोधकाभावाच्च न स्मरणम् । मैवं सुषुप्तिप्राक्कालोत्-
पन्नेच्छादिव्यक्तेस्तत्सम्बन्धेनात्मनश्च प्रत्यक्षप्रसङ्गात् तदती-
न्दियत्वे मानामावात् सुषुप्तिप्राक्काले निर्विकल्पमेव जायत
पृष्ठ २९०४
इत्यत्रापि प्रमाणाभावात् । अथ ज्ञानमात्रे त्वङ्मनः
संयोगस्य यदि कारणत्वं तदा रासनचाक्षुषादिप्रत्यक्ष-
काले स्पार्शनप्रत्यक्षं स्यात् विषयेन्द्रियसंयोगस्य
विषयत्वक्संयोगस्थ च तदा सत्त्वात् परस्परप्रतिबन्धा-
देकमपि वा न स्यादिति । अत्र केचित् पूर्व्वोक्तयुक्त्या
त्वङ्मनोयोगस्य हेतुत्वे सिद्धे चाक्षुषादिसामग्र्याः
स्पार्शनादिप्रतिबन्धकत्वमनुभवानुरोधात् कल्प्यते इति ।
अन्ये तु सुषुप्त्यनुरोधात् चर्म्ममनःसंयोगस्य ज्ञान-
हेतुत्वं कल्प्यं चाक्षुषादिप्रत्यक्षकाले त्वचि
मनःसंयोगाभावान्न स्पार्शनप्रत्यक्षमिति वदन्ति” । चर्म्मत्व-
चोर्भेद इति तु रहस्यम् । त्वचश्च सप्तविधा यथाह सुश्रुतः
“तस्य ख्यल्वेवस्प्रवृत्तस्य शुक्रशोणितस्याभिपच्यमानस्य
क्षीरस्येव सान्तानिकाः सप्त त्वचो भवन्ति । तासां प्रथमा-
ऽवभासिनी नाम या सर्व्ववर्णानवभासयति पञ्चविधाञ्च
छायां प्रकाशयति सा व्रीहेरष्टादशभागप्रमाणा सिध्मपद्म-
कण्टकाधिष्ठाना, द्वितीया लोहिता नाम षोद्धशभाग-
प्रमाणा तिलकालकन्यच्छव्यङ्गाधिष्ठाना, तृतीया श्वेता
नाम द्वादशभागप्रमाणा चर्म्मदलाजगल्लीमशकाधिष्ठाना,
चतुर्थी ताम्रा नामाष्टभागप्रमाणा विविधकिलासकुष्ठाधि
ष्ठाना, पञ्चमी वेदिनी नाम ब्रीहिपञ्चभागप्रमाणा
कुष्ठविसर्पाधिष्ठाना, षष्ठी रोहिणी नाम व्रीहिप्रमाणा
ग्रन्थ्यपच्यर्वुदश्लीपद गलगण्डाधिष्ठाना, सप्तमी मांसधरा
नाम व्रीहिद्वयप्रमाणा भगन्दरविद्रध्यर्शोऽधिष्ठाना”
यदेतत्प्रमाणं निर्दिष्टं तन्मांसलेष्ववकाशेषु न ललाटसूक्ष्मा-
ङ्गाङ्घ्रादिषु । यतो वक्ष्यत्युदरेषु व्रीहिमुखेनाङ्गुष्ठो
दरप्रमाणमवगाढं विध्येदिति” ।
फलकविवृत्तियु क्तिकल्पतरौ यथा
“शरीरावरकं शस्त्रं चर्म्म इत्यभिधीयते । तत्पुन-
र्द्विविधं काष्ठचर्म्मसम्भवभेदतः । शरीरावरकत्वञ्च
लघुता दृढता तथा । दुर्भेद्यतेति कथितश्चर्मणां
गुणसंग्रहः । सितोरक्तस्तथा पीतः कृष्ण इत्यभिशब्दितः ।
ब्रह्मादिजातिभेदेन चर्म्मणां वर्ण निर्णयः । चित्रवर्णस्तु
सर्वेषां सर्व्वदैवोपपद्यते” इति भोजदेवः ।

चर्म्मनालिका स्त्री चर्म्मनिर्म्मिता नालिकेव । कषायां

ताडन्यां (कोड़ा) शब्दार्थचि० ।

चर्म्मपट्टिका स्त्री चर्म्मनिर्म्मिता पट्टिका । (चामाटी) चर्म्म-

मयपट्टिकायाम् शब्दार्थचि० ।

चर्म्मपत्रा स्त्री चर्म्मेव पत्रं पक्षोऽस्याः । (चामचिका) अजिनपत्रायां जटा० ।

चर्म्मपादुका स्त्री चर्ममयी पादुका । चर्मकृतपात्राणे ।

“ततो ब्रह्मचारी अनेन मन्त्रेण चर्मपादुके पादयोर्निद-
ध्यात्” भवदेवः ।

चर्म्मपुट(क) पु० चर्ममयं पुटमत्र वा कप् । दृतिसंज्ञके चर्ममयपात्रभेदे(कुपा) मेदि० ।

चर्म्मप्रभेदिका स्त्री चर्म्म प्रभिनत्ति प्र + भिद--ण्वुल् टापि

अत इत्त्वम् ६ त० । चर्मवेधनेऽस्त्रभेदे अमरः

चर्म्मप्रसेविका स्त्री चर्मणा प्रसीव्यते प्र + सिव--वा० कर्म्मणि-

वुन् टापि अत इत्त्वम् । भस्त्रायाम् अग्निसन्दीप-
नार्थे चर्ममये यन्त्रभेदे अमरः ।

चर्म्ममण्डल पु० ब० व० । देशभेदे “अपरान्ताः परान्ताश्च

पह्नवाश्चर्ममण्डलाः” भा० भी० ९ अ० देशोक्तौ ।

चर्म्ममय त्रि० चर्मणोविकारः मयट् । चर्मनिर्मिते पात्रादौ

स्त्रियां ङीप् । “द्वीपिचर्मावनद्धैश्च व्याघ्रचर्ममयैरपि”
भा० भी० ४६ अ० । “यथा काष्ठमयो हस्ती यथा
चर्समयो मृगः” मनुः ।

चर्म्ममुण्डा स्त्री चामुण्डा + पृषो० । दुर्गायां हेमच० ।

चर्म्ममुद्रा स्त्री “वामहस्तं तथा तिर्य्यक् कृत्वा चैव प्रसार्य्य

च । आकुञ्चिताङ्गुलीः कुर्य्यात् चर्ममुद्रेयमीरिता”
तन्त्रसारोक्ते देवपूजाङ्गे मुद्राभेदे ।

चर्म्मम्ना त्रि० चर्ममये कवचादौ मनति अभ्यस्यति म्ना--क ।

चर्ममयकवचादौ कृताभ्यासे । “कृष्टयश्चर्मम्ना अभितो-
जनाः” ऋ० ८ । ५ । ३८ । “साध्येभ्यश्चर्मम्नम्” यज० ३० ।
१५ । पुरुषमेधे देवभेदोद्देनालभ्यपुरुषभेदोक्तौ ।

चर्म्मयष्टि स्त्री चर्ममयी यष्टिरिव । अश्वादेस्ताड़न्यां

(कोड़ा) । शब्दार्थचि० ।

चर्म्मरङ्गा स्त्री चर्भणे रङ्गोऽस्याः । १ आवर्त्तकीलतायां

विभाण्ड्याम् राजनि० । २ देशभेदे पु० स चदेशः वृ० स०
कूर्मविभागे १४ अ० पश्चिमोत्तरदिशि उक्तः । “दिशि पश्चि-
मोत्तरस्याम्” इत्युपक्रमे “गुरुहामरुकच्छचर्मरङ्गाख्याः” ।

चर्म्मरी स्त्री चर्म--राति रा--क गौरां० ङीष् । स्थावर-

विषान्तर्गते फलविषे लताभेदे । “कुमुद्वतीरेणुकाकरम्भ
कर्कोटकरेणुकखद्योतकचर्मरीत्युपक्रमे फलविषाः” सुश्रु० ।

चर्म्मरु पु० चर्म्म--राति रा--वा० कु । चर्म्मकारे त्रिका० ।

चर्म्मवत् त्रि० चर्म्मन् + अस्त्यर्थे मतुप् मस्य वः असंज्ञात्वात्

न नि० । १ चर्म्मयुक्ते स्त्रियां ङीप् । “लोहचर्म्मवती
चापि साग्निः सगुडगृष्टिका” भा० व० १५ अ० ।
२ सुबलात्मजभेदे पु० । “गजोगयाक्षो वृषभश्चर्मवानार्जवः
शुकः । षड़ेते बलसम्पन्ना निर्ययुर्नहतो बलात्” इत्युक्त-
क्रमे “अमृष्यमाणास्ते सर्वे सुबलस्यात्मजारणे” भा०
भी० ९१ अ० इत्युक्तम् ।
पृष्ठ २९०५

चर्म्मवसन पु० चर्म गजासुरचर्म वसनमस्य । कृत्तिवाससि

शिवे कृत्तिवासस्शब्दे २१८८ पृ० दृश्यम् ।

चर्म्मवृक्ष पु० चर्मप्रधानः चर्मतुल्यवल्कप्रधानोवृक्षः ।

भूर्जवृक्षे । “खर्जूरा नारिकेलाश्च चर्मवृक्षो हरितकी”
हरिवं० । ३१ अ० ।

चर्म्मसम्भवा स्त्री चर्मणि त्वचि सम्भवति सम् + भू--अच् ।

स्थूलैलायां हारा० । तत्फलस्य त्वङ्मध्ये सम्भवात्तस्या-
स्तथात्वम् ।

चर्म्मसार पु० चर्मणः सारः । रसं राजनि० । भुक्तान्नादेः

रसस्य त्वग्सध्ये जायमानत्वात् तस्य तथात्वम् ।

चर्म्माम्भस् पु० चर्मणोऽम्भः । चर्म्मान्तरस्थे रसे राजनि० ।

भुक्तान्नादिरसस्य चर्माभ्यन्तरस्थत्वात्तस्य तथात्वम् ।

चर्म्मार पु० चर्म शिल्पसाधनतया ऋच्छति ऋ--अण् । उप०

स० । चर्मकारे जटा० ।

चर्म्मावकर्त्तिन् पु० चर्म अवकृन्तन्ति स्वशिल्पनिर्वाहाय

अव + कृती च्छेदे णिनि । चर्मकारे । तदन्नभक्षणं मनुना
निषिद्धं यथा “आयुः सुवर्णकाराणां यशश्चर्माकवर्त्तिनाम्”।

चर्म्मिक त्रि० चर्मं चर्ममयं फलकं (ढाल) । युद्धसाधनतयाऽ-

स्त्यस्य व्रीह्या० वा ठन् । चर्ममयफलकेन योद्धरि(ढाली)
तस्य भावः कर्म वा पुरोहिता० यक् । चार्मिक्य
तद्भावे न० ।

चर्म्मिन् त्रि० चर्म देहावरकं(ढाल)फलकं वा अस्त्यस्य वा

इनि टिलोपः । चर्मयुक्ते (ढालि) ख्याते चर्मिके ।
“नागे नागे दश रथा शतमश्वा रथे रथे । अश्वेऽश्वे दश
धानुष्का धानुष्के दश चर्मिणः” भा० भी० २० अ० ।
चर्माणि बल्कलान्यस्यां सन्ति वा इनि । २ भूर्जवृक्षे
अमरः । ३ कदल्यां ४ भृङ्गरीटे च पु० शब्दर० ।

चर्य्या स्त्री चर--“परिचय्यापरिसर्य्येत्यादि” पा० परीत्यस्या-

विवक्षातः भावे क्यप् । १ आचारमात्रे “वनवासस्य शूरस्य
मम चर्य्या हि रीचते” रामा० अ० २९ १५ । २ गतौ
“चर्य्यायां हयमुत्सृष्टम्” भा० आ० ६३७ श्लो० ।
२ ईर्य्यापथस्थितौ परित्राजकादीनां व्रतानुष्ठाने नियमा
परित्यामे । “गदमदचरेत्यादि” पा० कर्मणि यत् ।
४ अनुष्ठेये आचरणीये त्रि० “षट्त्रिंशदाब्दिकं चर्य्यं गुरौ
यवादिकं व्रतम्” मनुः भावे यत् । ५ अवश्यचरणे न० ।

चर्व भक्षणे दन्तैश्चूर्णने (चिवान) या चुरा० उभ० पक्षे भ्वा०

पर० सक० सेट् । चर्वयति--ते चर्वति अचचर्वत्--त
अचर्वीत् चर्वयां बभूव आस चक्रे चचर्व । चर्वणं चर्वणा
चर्वितः । रसास्वादव्यापारे चर्वणशब्दे दृश्यम् ।

चर्व्वण न० चर्व--भावे ल्युट् । १ दन्तैश्चूर्ण्णने (चिवान) २

रसास्वादव्यापारभेदे च सा० द० । युच् चर्वणाप्यत्र स्त्री ।
“प्रमाणं चर्वणैवात्र स्वाभिन्ने विदुषां मतम्” चर्वणाऽऽ-
स्वादनम् । तच्च “स्वादः काव्यार्थसम्भेदादात्मानन्दसमुद्भवः ।
“निष्पत्त्या चर्वणस्यास्य निष्पत्तिरुपचारतः” “यद्यपि
रसाभिन्नतया चर्वणस्यापि न कार्य्यत्वं तथापि तस्य
कादाचित्कतया उपचरितेन कार्य्यत्वेन कार्य्यत्वमुपचर्य्यते”
इति च सा० द० ।

चर्व्वा स्त्री चर्व--अङ् । १ चर्वणे २ तलप्रहारे शब्दार्थचि० ।

चर्व्वित त्रि० चर्व--कर्मणि क्त । १ भक्षिते दन्तैश्चूर्णीकृते

२ आस्वादिते च ।

चर्व्वितपात्र न० ६ त० । चर्वितस्य ताम्बूलादेस्त्यानार्थम्

पात्रम् (पिकदानी) ख्याते पतद्ग्रहे । “ताम्बूलं दर्पणं
पानपात्रं चर्वितपात्रकम्” पद्मपु० पा० ख० ।

चर्व्य त्रि० चर्व--कर्मणि ण्यत् यत् वा । दन्तैश्चूर्णनीये भक्ष्यभेदे

आहारशब्दे ८९९ पृ० भावप्रका० वाक्यम् यथा “भोज्यं
भक्ष्यं तथा चर्व्यं गुरु विद्यात् यथोत्तरम् । चर्व्यं च
चिपिटकचणकादि” । “षट्कोटिं ब्राह्मणानाञ्च भोजया-
मास नित्यशः । च्यूष्यपेयलेह्यचर्व्यैरतितृप्तिं दिने दिने”
व्र० यै० पु० ।

चर्षणि पु० कृष--अनि “आदेश्च चः” उणा० । मनुष्ये निध० ।

“यएकश्चर्षणीनां वसूनाम्” ऋ० १ । ७ । ९ “अर्य्यम्णो
मातृका पत्नी तयोश्चर्षणयः सुताः । यत्र वै मानुषी जाति
र्ब्रह्मणा चोपकल्पिता” भाग० ६ । ६ । ३१ श्लोकः, तद्व्या-
ख्यायां चर्षणयः कृताकृतज्ञानवन्तः” श्रीधरः । विचर्षणि
विश्वचर्षणीत्यादिना निघण्टौ चर्षतेः पश्यतिकर्मसू-
क्तत्वेन तथार्थत्वम् । अस्यायमभिप्रायः “कृषेरादेश्च चः”
उणा० २ । १०३ । सूत्रे उज्ज्वलदत्तेन “आदेश्च घः” इति
प्रठित्वा धर्षणिः बधकीत्युदाहृतम् । अतश्चर्षणिनिष्प-
त्तिर्निघण्टुप्रोक्तचर्षधातोरेव । सि० कौ० तु “आदेश्च चः”
इति प्राठात् कृषधातोरेव तच्छब्दनिष्पत्तिरिति भेदः ।
तयोर्युक्तायुक्तत्वे सुधीभिर्भाव्ये । कृदिकारान्तत्वात् स्त्रियां
वा ङीप् । २ पुंश्चल्यां स्त्री “सचर्षणीनामुदगाछुचो-
गृजन्” भाग० १० । २९ । ३ । वाक्यस्य चर्षणीनां पुंश्चलीनाम्
पृष्ठ २९०६
इत्यर्थपरत्वं युक्तम् । मनुष्यजातिपरत्वे स्त्रिया वा
ङीप् । “इदनुक्ता चर्षणीधृता” ऋ० ८ । ९० । ५ । चर्षण्णी-
धृताऽसुरहननद्वारेण मनुष्यजातिधारकवज्रेण” भा०

चल गतौ भ्वा० पर० सक० सेट् । चलति अचालीत् । चचाल ।

चेलतुः । चलन् चलितः ज्वलादि० चालः पचा० चलः ।
“कृष्णेन निहते चैद्ये चचाल च वसुन्धरा” भा० सा०
४४ अ० । “चलत्येकेन पादेन तिष्ठत्येकेन बुद्धिमान्”
चाण० । “तिलमात्रमपि चलितुं न शक्नोति” पञ्चत० ।
आर्षे आत्म० । “न धर्माच्चलते वुद्धिर्धर्मराजस्य धीमतः”
भा० स० ७८ अ० । णिचि । चलयति चालयति । “चाल-
यन् वसुवां चेमां बलेन चतुरङ्गिणा” भा० आ० ९४ अ०
कम्पने अक० मिच्च । चलयति ते । अचीचलत् “चलयन्
भृङ्गरुचस्तवालकान्” रघुः “तां प्राविशत् कपिव्याघ्र-
स्तरूनचलयन् शनैः” भट्टिः । “यूनां मनश्चलयति प्रसभं
नभस्वान्” ऋ० स० गत्यर्थस्य न मित्त्वम् “मिच्चले” इति
कविकल्पद्रुमे कम्पार्थएव तस्य मित्त्वोक्तेः “आचालयेयुः
शैलांस्ते क्रुद्धाभिन्द्युर्महीतले” हरिव० ५४ अ० ।
पर्वतानाञ्च शिखराण्याचालयति वेगवान्” भा० शा०
१५४ अ० ।
  • उद् + ऊर्द्ध्वगमने उत्कम्य गतौ “पुष्पोच्चलितषट्पदम्” रघुः
उत्थाय गतौ च । “उच्चलितः प्रयाताम्” रघुः ।
  • वि + विशेषेण चलने । “व्यचालीदम्भसां पतिः” भट्टिः ।

चल विलासे तु० प० अ० सेट् । चलति अचालीत् चचाल ।

चल मृतौ पोषणे चु० सक० उभ० सेट् । चालयति ते

अचिचलत् ।

चल त्रि० चल वा पचा० अच् । १ तरले, चञ्चले, २ कम्ब-

युक्ते अमरः । ३ परमेश्वरे पु० । “धूताशीरचलश्चलः”
विष्णु स० । “न स्वरूपान्न सामर्थ्यात् नच ज्ञानादि-
कात् गुणात् । चलनं विद्यते यस्मादचलः कीर्त्तितो-
ऽच्युतः” स्मृतेः । वायुरूपेण चलतीति चलः” भा० ।
कम्पार्थकचलतेः स्वार्थे णिचि भावे अच् । ४ कम्पने
मेदि० । “मिच्चले” कविकल्प० । चलनं च रजसः कार्य्यं
यथाह सा० का० “सत्वं लघु प्रकाशकमिष्टमुपष्टम्मकं
चलञ्च रजः” ।
“सत्वतमसी स्वयमक्रियतया खखकार्य्यप्रवृत्तिं प्रत्यवसी-
दन्ती रजसोपष्टभ्येते अवसादात् प्रच्याव्य स्यकार्य्ये ते
उत्साहं प्रयत्नं कार्य्येते । तदिदमुक्तमुपष्टम्भकम्
इति । कस्मादित्यत उक्तं चलमिति । तदनेन रजसः
प्रवृत्त्यर्थत्वं दर्शितम् । रजस्तु चलत् परितस्त्रैगुण्यै
चालयद्गुरुणाऽऽवृण्वता च तमसा तत्र तत्र प्रवृत्ति-
प्रतिबन्धेन क्वचिदेव प्रवर्त्त्यते” । सा० त० कौ० ।
“म्भौन्जौ भ्रौ चेच्चलमिदमुदितं युगैर्मुनिभिः स्वरैः”
वृ० र० उक्ते अष्टादशाक्षरपादके ५ वर्णवृत्तभेदे न०
“स वृत्तचूलश्चलकाकपक्षकैः” रघुः । “यथाम्भसा प्रच-
लता तरवोऽपि चला इव” भाग० ७ । १ । २३ । “न खलु
प्रेम चलं सुहृज्जने” “प्रायश्चलं गौरवमाश्रितेषु” कुमा०

चलकेतु पु० कर्म्म० । केतुभेदे स च “अपरस्यां चलकेतुः

शिखया याम्याग्रयाङ्गुलोच्छ्रितया । गच्छेत् यथा यथोदक्
तथा तथा दैर्घ्यमायाति” वृ० स० ११ अ० । उक्तः

चलचञ्चु पुंस्त्री चला चञ्चुरस्य । चकोरखगे हेम० ।

चलत्पूर्ण्णिमा स्त्री चलन्ती पूर्ण्णिमा तदुपलक्षितः चन्द्र

इव । (चाँदा) चन्द्रकमीने त्रिका० ।

चलदङ्ग पुंस्त्री चलन्ति अङ्गान्यस्य । (चेङ्चा) मत्स्यभेदे

राजनि० । वा कप् । चलदङ्गक तत्रार्थे जटा० ।

चलदल पु० चलानि चञ्चलानि दलान्यस्य । अश्वत्थवृक्षे

अमरः । चलपत्रादयोऽप्यत्र । “अङ्गेन (स्त्रीचिह्न-
भेदेन) केनापि विजेतुमस्या गवेष्यते किं? चलपत्र-
पत्रम् । न चेद्विशेषादितरच्छदेभ्यस्तस्यास्तु कम्पस्तु
कुतोभयेन” नैष० । तस्य कम्पयुक्तपत्रता वर्ण्णिता ।

चलन न० चल--भावे ल्युट् । १ कम्पे २ गतौ च । कर्त्तरि ल्यु ।

३ कम्पयुक्ते त्रि० मेदि० । ४ हरिणे पुंस्त्री जटा० जाति
त्वात् स्त्रियां ङीष् । करणे ल्युट् । ५ चरणे हेमच० ।

चलनक न० चलन + संज्ञायां कन् । चण्डातके हेमच० ।

चलनी स्त्री चलत्यत्र चल--आधारे ल्युट् ङीप् । १

गजबन्धन्यां वार्य्याम् २ घर्घव्याञ्च (घाघरा) वस्त्रभेदे
हेमच० ।

चलसंक्रान्ति स्त्री कर्म्म० । अयनांशचलनभेदात् तत्त-

द्राशिविशेषांशे रव्यादेः प्रभामुञ्जसञ्चारे अयन संक्रान्ति-
शब्दे ३२८ पृ० विवृतिः ।

चला स्त्री चल--अच् । १ लक्ष्म्यां मेदि० २ सिह्लके गन्धद्रव्यभेदे च रत्नमा० ।

चलाचल त्रि० चल--अच् नि० । १ चञ्चले अमरः २ काके

पुंस्त्री राजनि० स्त्रियां जातित्वात् ङीष् । “चलाचलै-
रनुपदमाहताः खुरैः” माघः । “जान्मनोऽस्य स्थितिं
विद्वान् लक्ष्मीमिव चलाचलाम्” किरा० ।

चलातङ्ख पु० चलस्य चलगस्यातङ्गोभयमस्मात् । वातामय

भेदे राजनि० ।
पृष्ठ २९०७

चलित त्रि० चल--कर्त्तरि क्त । १ कम्पिते अमरः । २ गते

“चलितवर्वलपक्षपरिग्रहः” “चलितः पुरः पतिमुपे-
तमात्मजम्” माघः । २ प्राप्ते ३ ज्ञाते च त्रि० । भावे क्त ।
४ चलने ५ गतौ” च न० ।

चलु पु० चल--उन् । गण्डूषे हेमच० ।

चलुक पु० चलुना मीयते कन् । १ प्रसृतौ २ भाण्डभेदे च मेदि० ।

चलेषु पु० चलो लक्ष्यमप्राप्त इषुर्यस्य । लक्ष्यमप्राप्तवाणके

मन्दधानुष्के । अत्र “उदराश्वेषु क्षेपे” पा० इषु
शब्देपरे क्षेपे पूर्व्वपूर्व्वपदस्यान्तोदात्तताविघानात्
पूर्व्वपद्रमन्तोदात्तम् ।

चवर्ग पु० च + प्रातिशाख्योक्तः वर्गप्रत्ययः ६ त० वा । तालु-

स्थानोच्चरितानां स्पर्शवर्णानां वर्गे (च छ ज झ ञ)
वर्णेषु । ततः “वर्गान्ताच्छः” पा० छ । चवर्गीय तद्वर्ग-
भवे त्रि० ।

चवल पु० चर्व--बा० अलच् पृषो० । राजमाषे कलायभेदे

शब्दार्थचि० ।

चवि स्त्री चर्व--इन् पृषो० । चव्ये(चै)शब्दर० । वा ङीप् । तत्रार्थे शबर०

चविका स्त्री चवि + स्वार्थे क । चव्ये अस्य क्लीवत्वमाह

रुद्रः “कटूष्णा चविका लघ्वी रोचनी दीपनी मता ।
जन्तूद्रेकश्वासकासशूलरोगविमर्द्दिनी” राजनि० ।
“भेदिनी कफनाशिनी” इत्यधिकं राजबल्लेभेनोक्तम् ।

चव्य न० चर्व--कर्म्मणि ण्यत् पृषो० । १ चविकायाम् तस्य

स्त्रीत्वमप्याह भरतः । स्वार्थे क चव्यिका तत्रार्थे
राजनि० । सा च २ वचायां मेदि० ।

चव्यजा स्त्री चव्यमिव जायते जन--ड । गजपिप्पल्याम् राजनि० ।

चव्यफल न० चव्यमिव फलति फल--अच् । गजपिप्पल्याम्

राजनि० ।

चव्यादि न० “चव्यं त्रिकटुकं पाठा क्षीरं कुस्तुम्बुरूणि

च । यमानी पिप्पलीमूलमुभे च विड़सैन्धवे । चित्रकं
विम्बमभयां पिष्ट्वा सर्पिर्विपाचयेत् । शकृद्वातानुलौ-
म्यार्थं जाते दध्नि चतुर्गुणे । प्रवाहिकां गुदभ्रंशं मूत्र-
कृच्छ्रं परिस्रवम् । गुदवङ्क्षणशूलञ्च वृतमेतद्व्यपो-
हति” चक्रदत्तोक्ते घृतभेदे ।

चष भक्षे भ्वा० उभ० सक० सेट् । चषति ते अचषीत्

अचाषीत् अचषिष्ट चचाष चेषतुः चेषे ।

चष बधे भ्वा० प० सक० सेट् । चषति अच--(चा)षीत् ।

चषक पु० न० चष--करणे क्वुन् अर्द्धर्चादि । १ मद्यपानपात्रे

अमरः । तल्लक्षणादिकं युक्तिकल्यतरावुक्तम् यथा
“यत् पानपात्रं भूपानां तज्ज्ञेयं चषकं बुधेः । कानकं
राजतं चैव स्फाटिकं काचमेव च । वृत्तं स्वराष्टदिक्वं
च चतुर्णां पृथिवीभुजाम् । इत्यन्यसम्मतं तेषां निर्णयः
पाठसम्मतः । स्वमुष्टिसम्मितं रत्नैश्चतुर्वर्णैः
समन्वितम् । मार्त्तिकं वाथ फालं वा सर्वेषामुपयुज्यते ।
काष्ठजं धातुजं शैलं जाङ्गलादिमहीभुजाम् ।
यदन्यत्तोयपानादिपात्रं पृय्वीभुजां भवेत् । एवं तत्रापि
नियम इति भोजस्य सम्मतः” “आननैः परिहृतं
चषकान्तः” माघः । कर्मणि क्वुन् । २ मधुनि, ३ मद्यभेदे
च न० मेदि०

चषति पु० चष--भक्षे बधे वा भावे अति । १ भक्षे २ बधे च सि० कौ० ।

चषाल पु० न० चष--आलच् अर्द्धर्च्चादि । यूपकटके यज्ञिय-

पशुबन्धनार्थे यूपमध्येदेये बलयाकारे काष्ठमये
लौहमये वा पदार्थे अमरः । तल्लक्षणादिकमुक्तं का० श्रौ०
६ । १ । २८ । सूत्रादौ
“अग्राच्चषालं पृथमात्रमष्टाश्रि मध्यसंगृहीतम्” २८ सू०
“यूप परिवासनानन्तरं यदवशिष्टं पृथक्कृतमग्रम् ततश्चषा-
लं कर्त्तव्यम् प्रसारिताङ्गुलिः पाणिरामणिवन्धनान् पृथक्
इत्युच्यते चषालमिति संज्ञा सं व्यवहारार्था “आ चषाले-
क्षणात्” इत्यादौ । अष्टाश्रि अष्टकोणम् तदपि तक्षणेनाष्ट-
कोणं कुर्य्यात् तक्षैव । उलूखलवन्मध्ये संकुचितम्” कर्कः ।
“ऊर्द्धमग्रे प्रतिमुञ्चति” २९ सू० “तच्चषालं यूपस्याग्रे ऊर्द्ध्वं
प्रतिमुञ्चति अतएवोर्द्धप्रतिमोकविधानाच्चषालस्य तथा
बेधः कार्यः । प्रतिमुञ्चतीति वचनाच्च चूड़ाग्रो यूपः
चषालं च ससुषिरमिति गम्यत इति हरिस्वामिनः
तथा चाहापस्तम्बः “मूलतोऽतष्टमुपरम् अष्टाश्रिरनु
पूर्वोऽग्रतोऽणीयान् प्रज्ञाताष्टाश्रिरिति” कर्क०
“द्व्यङ्गुलं त्र्यङ्गुलं वां तर्द्मातिक्रान्तं यूपस्य” ३० सू०
“यूपस्य यूपाग्रस्य द्व्यङ्गुलं त्र्यङ्गुलं वा चषालं तर्द्माति-
क्रान्तं चषालच्छिद्राग्रवेधादतिक्रान्तं भवति अतिक्रम्योर्द्ध्वं
निःसृतं भवति तथा चषालस्योर्द्धं प्रवयणं कर्त्तव्यम्
यथा चषालो यूपाग्रादधो द्व्यङ्गुले त्र्यङ्गुले वा तिष्ठ-
तीत्यर्थः” कर्कः “भूश्चषालतुलिताङ्गुलीयकम्” माघः

चह कल्के (प्रतारणे) भ्वा० पर० सक० सेट् । चहति

अचहीत् । चचाह चेहतुः ।

चह कल्के (प्रतारणे) अद० चुरा० उभ० सक० शेट् ।

चहयति--ते अचुचहत् त । चहयां, बभूव आस--चकार
चक्रे ।
पृष्ठ २९०८

चह कल्के प्रतारणे चुरा० उभ० सक० सेट् घटा० चहयति

ते अचीचहत्--त ।

चाकचक्य न० चक--अच् चकः प्रकारे द्वित्वं चकचकस्तस्य

भावः ष्यञ् । उज्ज्वलतायाम् । “नहि लोकसिद्धसामग्री
पातिभासिकरजतोत्पादिका किन्तु विलक्षणैव ।
तथाहि । काचादिदोषदूषितलोचनस्य पुरोवर्त्तिद्रव्य-
संयोगादिदमाकारा चाकचक्याकारा च काचिदन्तः-
करणवृत्तिरुदेतीति” “चाकचक्यसंदर्शनसमुद्बुद्धरजत-
त्वसंस्कारसध्रीचीना” इति च वेदान्त० प० । पृषो० ।
चाकचिक्यमप्यत्र शब्दार्थचि० ।

चाकचिच्चा स्त्री चक--घञ् चाकं दीप्तिं चिनोति

चिक्विप् तथासती चीयते चि--बा० ड । श्वेतबुह्नायां
रत्नमा० ।

चाक्र त्रि० चक्रेण निर्वृत्तम् अण् । चक्रनिर्वृत्ते “चाक्र

मौषलमित्येवं संग्रामं रणवृत्तयः” हरिवं० १०० अ० ।

चाक्रवर्म्मण पु० चक्रवर्म्मणोऽपत्यम् अण् न टिलोपः ।

चक्रवर्म्मणोऽपत्ये व्याकरणाचार्य्यभेदे । “कपश्चा-
क्रवर्मणस्य” उणा० ३ । १ । ३ सू० । “इ ३ चाक्रवर्मणस्य”
पा० ६ । १ । ३ सू० ।

चाक्रवाकेय त्रि० चक्रवाकस्यादूरदेशादि चतुरर्थ्यां सख्या० ढञ् । चक्रवाकसमीपादौ ।

चाक्रायण पु० चक्रस्यर्षेर्गोत्रापत्यम् अश्वादि० फञ् । चक्र-

स्यर्षे गोत्रापत्ये उषस्तौ “मटचीहतेषु कुरुषृ
उषस्तिर्ह चाक्रयण इभ्यग्रामे प्रद्राण आस” छा० उ० ।

चाक्रिक त्रि० चक्रेण समूहेन यन्त्रभेदेन चक्रयुक्तशकटेन

वा चरति ठक् । संधीभूय मिलित्वा स्तुतिपाठके
१ वाण्टिके अमरः “पिशुनानृतिनां चैव तथा
चाक्रिकवन्दिनाम्” याज्ञ० । “चाक्रिको घोषयामास
पुरुषो मृष्टकुण्डलः” हरिव० १५९ अ० । २ तैलकारे
हेमच० ३ शाकटिके (गाडओयान) ख्याते च शब्दार्थचि०
“भिक्षुकांश्चाक्रिकांश्चैव क्लीवोन्मत्तान् कुशीलवान् ।
बाह्यान् कुर्य्यान्नरश्रेष्ठो दोषाय ते स्युरन्यथा” भा०
शा० ६९ अ० ।

चाक्रेय त्रि० चक्रेण निर्वृत्तादि चक्र + सख्या० चतुरर्थ्यां ढञ् । चक्रनिर्वृत्तादौ ।

चाक्षुष न० चक्षुषा गृह्यते चक्षुस् + शैषिकोऽण् । चक्षु-

र्ग्राह्ये १ रूपादौ २ तद्वति त्रि० । तद्ग्राह्यविषयाश्च
चक्षुर्विषयशब्दे २८४२ पृ० दृश्याः । चक्षुषा निर्वृत्तः
अण् । ३ प्रत्यक्षे न० । तज्ज्ञाने चक्षुषः करणत्वेऽपि
विषयभेदेन तस्य व्यापारभेदा भाषा० उक्ता यथा
“द्रव्यग्रहस्तु संयोगात् संयुक्तसमवायतः । द्रव्येषु
समवेतानां तथा तत्समवायतः । तत्रापि समवेतानां शब्दस्य
समवायतः । तद्वृत्तीनां समवेतसमवायेन तु ग्रहः” ।
द्रव्यचाक्षुषं प्रति चक्षुःसंयोगोव्यापारः । द्रव्यसमवेत-
चाक्षुषं प्रति चक्षुःसंयुक्तसमवायः । द्रव्यसमवेतसमवेत-
चाक्षषं प्रति चक्षुःसंयुक्तसमवेतसमवायः” । चक्षुषोऽ-
पत्यम् । चक्षुर्नामकस्य रिपुञ्जयनृपस्य पुत्रे षष्ठे मनुभेदे
तत्कथा यथा “चक्षुषा ब्रह्मदौहित्र्यां वीरिण्यां स रिपु-
ञ्जयः । वीरणस्यात्मजायान्तु चक्षुर्मनुमजीजनत् । मनुर्वै
राजकन्यायां नड्वलायां स चाक्षुषः । जनयामास
तनयान्दश शूरानकल्मषान् । ऊरुः पूरुः शतद्युम्न
स्तपस्वी सत्यवाक् हविः । अग्निष्टुदतिरात्रश्च
सुद्युम्नश्चापराजितः । अभिमन्युस्तु दशमो नड्वला
यामजायत” मत्स्यपु० ४ अ० । “षष्ठं ते सम्प्र
वक्ष्यामि तन्निवोध नराधिप! । भृगुर्न्नभो विवस्वांश्च
सुधामा विरजास्तथा । अतिनामा सहिष्णुश्च सप्तैते
तु महर्षयः । चाक्षुषस्यान्तरे तात! मनोर्द्देवा
निमान् शृणु । आप्याः प्रभूता ऋभवः पृथुकाश्च
दिवौकसः । लेखा नाम महाराज! पञ्च देवगणाः-
स्मृताः । ऋषेरङ्गिरसः पुत्रा महात्मानो महौजसः ।
नाड्वलेया महाराज! दश पुत्रास्तु विश्रुताः ।
ऊरुप्रभृतयो राजन्! षष्ठं मन्वन्तरं स्मृतम्” हरि० ७ अ०

चाक्ष्म त्रि० चक्ष--बा० म पृषो० । द्रष्ट्ररि “चाक्ष्मो

यद्वाचं भरते मती” ऋ० २ । २४ । ९ । “चाक्ष्मः सर्व्वस्य
द्रष्टा” भा० ।

चाङ्ग पु० चीयते चि--ड चमङ्गमस्य । १ चाङ्गेर्य्यां रायमु० ।

चमङ्गं तदवयवो दन्तोऽस्मात् । दन्तपटुत्वे शब्दार्थचि० ।

चाङ्गेरी स्त्री चाङ्गं दन्तपटुत्वमीरयति ईर--अण्

उपस० गौरा० ङीष् । अम्ललोणिकायाम् (अमरुल) अमरः ।
“चाङ्गेरी दीपनी रुच्या लघूष्णा कफवातनुत् । पित्त-
लाम्ला ग्रहण्यर्शःकुष्ठातीसारनाशिनी” भावप्र० ।

चाङ्गेरीघृत न० चक्रदत्तोक्ते चाङ्गेरीपक्वे घृतभेदे

तत्पाकविधिर्यथा “नागरं पिप्पलीमूलं चित्रकं हस्तिपि-
प्पली । श्वदंष्ट्रा पिप्पली धान्यं विल्वं पाठा यमानिका ।
चाङ्गेरीसरसे सर्पिः कल्कैरेतैर्विपाचितम् । चतुर्गु-
णेन दध्ना च तद्घृतं कफवातनुत् । अर्शांसि ग्रह-
णीदोषं मूत्रकृच्छ्रं प्रवाहिकाम् । गुदभ्रंशार्त्तिमानाहं
घृतमेतद् व्यपोहति” चक्रदत्तः
पृष्ठ २९०९

चाट पु० चु० चट--भेदे अच् । आदौ विश्वासमुत्पाद्य

पश्चात् धनापहर्त्तरि चौरे “चाटचारणदासेषु दत्तं
भवति निष्फलम्” स्मृतिः । “चाटतस्करदुर्वृत्तमहा-
साहसिकादिभिः । पीड्यमानाः प्रजारक्षात् कायस्थैश्च
विशेवतः” याज्ञ० । “चाटाः प्रतारकाः विश्वास्थ ये
परधनमपहरन्ति” मिताक्षरा

चाटपुट पु० “गुरुर्लघु प्लुतश्चैव भवेच्चाटपुटामिधः” सङ्गी-

तदामीदरोक्ते तालभेदे ।

चाटु पु० न० चट--ञुण् । १ प्रियवाक्ये २ मिथ्याप्रियवाक्ये

(खोसामुदेरकथा) च । “कुर्वन् चाटुसहस्राणि अव्यक्तक-
लया गिरा” हरिवं० २० । “नो चाटुश्रवणं कृतं न
च दृशा हारोऽन्तिके वीक्षितः” सा० द० । स्वार्थे क ।
अत्रैवार्थे “विश्रब्धचाटुकशतानि रतान्तरेषु” सा० द०

चाटुकार त्रि० चाटुं करोति । हेत्वादौ प्राप्तस्य टस्याप-

वादेन “न शब्दश्लोकेत्यादिना” पा० अण् । सतत चाटु-
वाक्यकर्त्तरि । “चाटुकारमपि प्राणनाथं रोषादपास्य
या” सा० द० ।

चाटुपटु पु० ७ त० । भण्डे (भाँड़) हारा० ।

चाटु(टूल्लो)लोल त्रि० चाटुषु लोलः (उल्लोलः) । (खोसा-

मुदे) चाटुकारे हारा० ।

चाटुवटु पु० ७ त० । विदूषके क्रीड़ासहचरे भण्डे ।

चाटूक्ति स्त्री ६ त० । प्रियकथने । चाटुवाक्यस्योक्तिर्यत्र ।

२ सेवायाम् हारा० ।

चाणक पुंस्त्री चाणक्यस्य छात्रः अण् यलोपः । चाणक्यछात्रे ।

चाणकीन न० चणकस्य भवनं क्षेत्रं ख । चणकोत्पत्ति

योग्यक्षेत्रे ।

चाणक्य पु० चणकस्य मुनेर्गोत्रापत्यम् गर्गा० यञ् । १ वात्-

स्यायने चन्द्रगुप्तमन्त्रिणि कौटिल्ये “नव नन्दा भविष्यन्ति
चाणक्योयान् हनिष्यति” विष्णु पु० । चन्द्रगुप्तशब्दे दृश्यम्
सहि नन्दवंशोत्खातेन मौर्य्यं चन्द्रगुप्तं राज्येऽ-
भिषिक्तवान् । वृहत् कथायां तद्विवृतिः । चाणक्येन
प्रोक्तम् अण् । तत्कृतग्रन्थे २ नीतिशास्त्रभेदे च ।
“चाणक्यं सारसंग्रहम्” चाणक्यम् । चणक + स्वार्थे
ष्यञ् । ३ चणकशब्दार्थे ।

चाणक्यमूलक न० चणक एव चाणक्यम् तदिव मूलमस्य ।

(चणकमूली) ख्याते मूलकभेदे । शब्दार्थचि०

चाणू(नू)र पु० कंसानुचरे मल्लयुद्धाभिज्ञेऽसुरभेदे । “नागं

कुवलयापीड़ं चाणू(नू)रं मुष्टिकं तथा” हरिव० ४२ अ० ।
“वराहश्च किशोरश्च मतौ दानवसत्तमौ । मल्लौ रङ्ग-
गतौ तत्र यातौ चाणू(नू)रमुष्टिकौ” हरिवं ०५५ अ० ।
अस्य दन्त्यनकामध्यतेति केचित् ।

चाणू(नू)रसूदन पु० चाणू(नू)रं सूदयति सूदि--ल्यु ।

वासुदेवे कृष्णे तद्बधकथा हरिवं० ८७ अ० ।
“ततः क्रोधाभिताम्राक्षः कंसः परमकोपनः । चाणू(नू)-
रमादिशद्युद्धे कृष्णस्य सुमहावलम्” इत्युपक्रमे “दोर्भ्या-
मानम्य कृष्णस्तु चाणू(नू)रं पूर्णजीविनम् । प्राहरन्मु-
ष्टिना मूर्द्ध्रि वक्षस्याहत्य जानुना । निःसृते साश्रु-
रुधिरे तस्य नेत्रे सबन्धने । तापनीये यथा घण्टे
कक्षोपरि विलम्बिते । पपात स तुरङ्गस्य मध्ये
निःसृतलोचनः । चाणू(नू)रो विगतप्राणो जीवितान्ते
महीतले” । चाणू(नू)रुमर्दनादयोऽप्यत्र ।

चाण्ड पुंस्त्री चण्डस्यापत्यं शिवा० अण् । १ चण्डस्यापत्ये ।

चण्डस्य भावो युवा० अण् । २ चण्डतायाम् न० ।

चाण्डाल पुंस्त्री चण्डाल एव स्वार्थे अण् । चण्डाल

शब्दार्थे अमरः । स्त्रियां जातित्वात् ङीष् ।

चाण्डालकि पु० स्त्री चाण्डलस्यापत्यम् इञ् “व्यासवरुड-

निषादचाण्डालेत्यादि” पा० अकङ् । चण्डालापत्ये ।

चाण्डालिका स्त्री चण्डालेन निर्वृत्ता ठक् । वीणाभेदे

अमरः । चण्डालेन कृता कुला० अण् । २ चण्डालकृत-
वस्तुमात्रे त्रि०

चाण्डालिकाश्रम न० भारतप्रसिद्धे तीर्थभेदे “कोकामुखे

विगाह्याथ गत्वा चाण्डालिकाश्रमे” भा० आनु० २५ अ० ।

चाण्डाली स्त्री चाण्डमालाति आ + ला--क गौरा० ङीष् ।

१ लिङ्गिनीलतायां राजनि० जातौ ङीष् । २ चाण्डा-
लजाति स्त्रियाञ्च ।

चातक पुंस्त्री चत--याचने कर्त्तरि ण्वुल् । सारङ्गे स्वनाम

ख्याते खगभेदे स्त्रियां जातित्वात् ङीष् । अयञ्च पक्षी
त्र्याहणेषु सुश्रुते पठितः । “त्र्याहणा विकिराश्चेत्युक्त्वा
“मघुराः कषाया दोषशमनाश्चेति” सामान्यतस्तद्गु-
णास्तत्रोक्ताः । “स्थगयन्त्यमूः शमितचातकार्त्तस्वराः”
माघः । “किं चातकः फलमपेक्ष्य सवज्रपाताम्” उद्भटः ।

चातकानन्दन पु० चातकमानन्दयति आ + नन्द--णिच्--ल्यु ।

१ वर्षाकाले राजनि० । २ मेघे । वृष्टिजलपानस्य चातक
ब्रतत्वेन मेघस्य तथात्वम् ।

चातकाष्टक न० काव्यभेदे काव्यसंग्रहे दृश्यम् ।

चातन न० चत--णिच् ल्युट् । १ अर्द्दने २ पीड़ने च ।

"https://sa.wikisource.org/w/index.php?title=वाचस्पत्यम्/चतुर्भाव&oldid=57747" इत्यस्माद् प्रतिप्राप्तम्