- थ
थ थकारः तवर्गीयद्वितीयवर्ण्णो व्यञ्जनवर्णविशेषः अस्यो-
- च्चारणस्थानम् दन्तमूलं तस्वीच्चारणे दन्तमूलेन सह
- जिह्वाग्रस्यस्पर्शः आभ्यन्तरप्रयत्नः, अतएवास्य स्पर्शवर्णता ।
- बाह्यप्रयत्नास्तु विवारश्वासाघीषामहाप्राणश्च । अस्य
- वाचकशब्दा वर्णाभिधाने उक्ता यथा
- थस्त्रिवासी महाग्रन्थिर्ग्रन्थिग्राहो भयानकः ।
- शिली शिरसिजो दन्ती भद्रकाली शिलोच्चयः । कृष्णो
- बुद्धिर्विकर्णा च दक्षिणाशाधिपोऽमरः । वरदा भोगदा
- केशो वामजङ्घाऽलसोऽनलः । नोज्जयिनी पृथुर्गुह्यः
- शरच्चन्द्रो विदारकः” । मातृकान्यासे अस्य वामजङ्घायां
- न्यासः । अस्याधिष्ठातृदेवीध्ये यरूपं यथा “नीलवर्णां
- त्रिनयनां षड्भुजां वरदां पराम् । पीतवस्त्रपरीधानां
- सदा सिद्धिप्रदायिनीम् । एवं ध्यात्वा थकारन्तु तन्मन्त्र
- दशधा जपेत् । पञ्चदेवमयं वर्णं पञ्चप्राणमयं सदा ।
- तरुणादित्यशङ्काशं थकारं प्रणमाम्यहम्” अस्य
- स्वरूपं यथा “थकारं चञ्चलापाङ्गि! कुण्डली मोक्ष-
- रूपिणी । त्रिशक्तिसहितं वर्णं त्रिविन्दुसहितं सदा ।
- पञ्चदेवमयं वर्णं पञ्चप्राणात्मकं सदा । तरुणादित्य-
- शङ्काशं जकारं प्रणमाम्यहम्” कामधेनुतन्त्रम् ।
- काव्यादौ अस्यं प्राक्प्रयोगे युद्धं फलम् “थस्तु युद्धम्”
- वृ० र० टीको क्तेः ।
|
थ पु० थुड़--थुर्व वा ड । १ पर्वते २ भयत्रायके त्रि० ३ मङ्गले
- ४ भये रक्षणे न० मेदि० ।
थकार पु० थ + स्वरूपे कार! थस्वरूपे वर्णे “थकारं चञ्चलापाङ्गिं!” कासधेनुत० ।
थर्व्व चरणे भ्वा० पर० सर्क सेट् । थर्वति अथर्वीत् ।
- तथर्व “अङ्गीरसो नः पितरो नवग्वा अथर्वाणो भृगवः
- सौम्यामः” निघण्टुधृता श्रुतिः “अथर्वाणोऽचरन्तस्तर्व-
- तिश्चरतिकर्मा तत्प्रतिषेधः” निरु० ११ । ८ । लोकेऽपि
- गतिशून्ये (अथर्व इति) प्रसिद्धिः ।
थुड संवृतौ तु० कु० पर० सक० सेट् । थुड़ति अथुड़ीत् ।
- तुथोड़ ।
थुत्कार पु० थुत् इत्यव्यक्तशब्दस्य कारः । निष्ठीवनत्याषानुकरणे शब्दभेदे ।
थुथूकृ थुथु इत्यव्यक्त शब्दात् निष्ठीवनत्यागानुकरणशब्दात्
- च्वि--कृञोनुप्रयोगः । थुथूकरोति । “थुथूकृत्य वमद्भि-
- रध्वगजनैः” सूक्तिकर्णामृतम् ।
थुथूकृत् स्त्री थुथु इत्यव्यक्तशब्दं करोत्यस्याम् कृ--बा०
- आधारे क्विप् । होलाकायां पारस्करनिघ० ।
|