पृष्ठ ३४७२

दरिद्रा दुर्गतौ अदा० स्वपा० पर० अक० सेट् ।

दरिद्राति जक्षा० दरिद्रति अदरिद्रीत्--अदरिद्रासीत् । दरि-
द्रामास बभूव चकार ददरिद्र ददरिद्रौ इत्येके ।
दरिद्रिता दरिद्र्यात् । दरिद्रिष्यति । दरिद्राणः ।
सनि । दिदरिद्रिषति दिदरिद्रासति ।

दरिन् त्रि० दॄ--भये विदारे वा इनि । १ भीरौ २ विदारणशीले च ।

दरोदर पु० दुरोदर + पृषो० । पाशके “आश्रित्य दुर्गं

गिरिकन्दरोदरं क्रीड़न्त्यमुष्मिन् सततं दरोदरम्”
“यमकात् दरोदरो निरुकारः इति गोवर्द्धनः” उज्ज्वलद०

दर्त्तृ त्रि० दॄ--विदारे वेदे इड़भावः । दारयितरि “स

व्रजं दर्त्ता पार्ये अध द्योः” ऋ० ६ । ६६ । ८ । “दर्त्ता
दारयिता” भा० । लोके तु दरी(रि)ता इत्येव ।

दर्त्नु पु० दॄ--विदारे बा० त्नु इड़भावश्छान्दसः । दारके ।

“यत् पुरां दर्त्नुमारत्” ऋ० ६ । २० । ३ । “दर्त्नुं दारकम्” भा०

दर्दर पु० दॄ--यङ् अच् पृषो० । १ पर्वते । २ ईषद्भग्नभाजने

च मेदि० ।

दर्दरार्द्र न० व्यञ्जनभेदे शब्दच० ।

दर्दरीक न० दॄ--विदारे फर्फरीका० नि० । १ वाद्यभेदे ।

दर्दुर न० दृणाति कर्णौ शब्देन उरच् नि० । १ भेके २ मेघे

३ वाद्यभेदे ४ पर्वतभेदे “शैलस्य दर्दुरपुटानिव वादयन्तः”
माघः “कौषेयं तित्तिरिर्हृत्वा क्षौमं हृत्वा तु दर्दुरः”
मनुः “स्तनाविव दिशस्तस्याः शैलौ मलयदर्दुरौ” रघुः ।
“हिमवान् पारिपात्रश्च विन्ध्यकैलासमन्दराः । मलयो
दर्दूरश्चैव महेन्द्रो गन्धमादनः” भा० स० १० अ० ।
“निर्याय तस्मादुद्देशात् पश्यामो लवणाम्भसः । समीपे
सह्यमलयौ दर्दुरञ्च महागिरिम्” भा० व० २८१ अ० ।
“मलयात् दर्दुराच्चैव चन्दनागुरुसञ्चयान्” ५१ अ० ।
दर्दुरः पर्वतः सन्निकृष्टतयास्त्यस्य अच् । ५ तत्सन्निकृष्टे
देशभेदे च । स च देशः “अथ दक्षिणेन लङ्का” इत्यु-
पक्रमे “गिरिनगरवनादर्दुरमहेन्द्रमालिच्चमरुकच्छाः”
वृ० स० १४० अ० दक्षिणस्यामुक्तः । ६ राक्षसमेदे संक्षिप्त-
सारः । ७ चण्डिकायां स्त्री मेदि० ।

दर्दुरकं पु० दर्दुराय कायति दर्दुर इव कायति शब्दायते वा

कै--क । १ वाद्यभेदे शब्देन मेघसूचके २ भेके । स्वार्थे
क । ३ दर्दुरशब्दार्थे ।

दर्दुरच्छदा स्त्री दर्दुर इव छदो यस्याः । ब्राह्म्यां पारस्करनिघण्टुः ।

दर्द्रु(र्द्रू) पु० दरिद्रा--दरिद्रातेर्यालोपश्च उणा० ऊ उवा

इकाराकारयोर्लोप” उज्ज्वलदत्तः । १ दद्रुरोगे भोजदेवशब्दा-
नुशासने तु “दरिद्रातेर्यालोपश्चेति तिपानिर्देशात्
रिश्च आश्चेति संहितापाटेर्याशब्दलोपे दद्रुरित्यपि
साधितम् । तथा रश्च इश्च आश्चेत्यन्त्यसदेशद्वितीयरेक-
लोपेन दर्दुरित्यपि साधितम् । एवञ्च रूपचतुष्टयमिति ।
सि० कौ० ।

दर्द्रु(र्द्रू)घ्न पु० दद्रुं(र्द्रूं) हन्ति हन--ठक् । चक्रमर्द्दकेशब्दर० ।

दर्द्रु(र्द्रू)नाशिनी स्त्री दद्रुं(द्रूं)नाशयति नश--णिच् णिनि

ङीप् । तैलिनीवृक्षे राजनि० ।

दर्प पु० दृप--भावे घञ् कर्त्तरि अच् वा । १ अहङ्कारे पराव-

धीरणाहेतौ गुरुनृपाद्यतिक्रामके २ चित्तवृत्तिभेदे । गर्व०
भेदे ३ हर्षजन्यगर्वे ४ मृगमदे मेदि० । ५ ऊष्मणि त्रिका० ।
६ उच्छृङ्खलत्वे ७ धर्म्म मर्य्यादातिक्रमे नीलकण्ठः दर्पलक्ष
णविषयभेदादिकं ब्रह्मवैव० जन्मस्य० उक्तं यथा
“अहङ्कारश्च सर्वेषां पापवीजममङ्गलम् । ब्रह्मा-
ण्डेषु च सुर्वेषां सर्वपर्य्यन्तमुन्नतिः । वेषां येषां भवेद्दर्पो
ब्रह्माण्डेषु परात्परे । विज्ञाय सर्वं सर्वात्मा तेषां
शान्ताहमेव च । क्षुद्राणां महताञ्चैव येषां गर्वो भवेत्
प्रिये! । एवंविधमहं तेषां चूर्णीभूतं करोमि च ।
चकार दर्पभङ्गञ्च महाविष्णोः पुरा विभुः । ब्रह्मणश्च
तथा विष्णोः शेषस्य च शिवस्य च । धर्मस्य च यमस्यापि
शाम्बस्य चन्द्रसूर्य्ययोः । गरुड़स्य च वह्नेश्च गुरोर्दुर्वासस-
स्तथा । दौवारिकस्य भक्तस्य जयस्य विजयस्य च ।
सुराणामसुराणाञ्च भवतः कामशक्रयोः । लक्ष्मणस्या-
र्जुनस्यापि वाणस्य च भृगोस्तथा । सुमेरोश्च समुद्राणां
वायोश्च वरुणस्य च । सरस्वत्याश्च दुर्गायाः पद्मायाश्च
भुवस्तथा । सावित्र्याश्चैव गङ्गाया मनसायास्तथैव
च । प्राणाधिष्ठातृदेव्याश्च प्रियायाः प्राणतोऽपि च ।
प्राणाधिकाया राधाया अन्येषामपि का कथा । हत्वा
दर्पञ्च सर्वेषां प्रसादञ्च चकार सः” ।
८ उत्साहे मल्लिना० “तेजो विहीनं विजहाति दर्पः”
किरा० “दर्प उत्साहः” मल्लि० ।

दर्पक पु० दर्पयति दृप--हर्षमोहनयोः णिच्--ण्वुल् । मोहका-

रके १ कन्दर्पे अमरः । २ अहङ्कारमोहयोः कारके त्रि० ।

दर्पण पु० चु० दृप--सन्दीपने ल्यु । १ आदर्शे (आयना) ।

मुकुरे अमरः २ नेत्रे न० जटा० ३ पर्वतभेदे ४ नदभेदे च ।
“ततः पूर्वं महाराज! दर्पणो नाम पर्वतः । कुवेरो-
यत्र वसति धनपालैः समं सदेति । यस्मिन्नास्ते मध्य-
भागे रोहिणो रोहिताकृतिः । यस्मिन् लोहादिव
स्पृष्टं स्वर्णतां याति तत्क्षणात् । तन्नातिदूरे स्नवति
दर्पणो नाम वै नदः । हिमाद्रिप्रभवो नित्यं लौहित्य
पृष्ठ ३४७३
मदृशः फले । समुत्पन्नं हि लौहित्यं सर्वैर्देवगणै-
र्हरिः । सर्वतीर्थोदकैः सम्यक् स्नापयामास तं सुतम् ।
तस्य स्नानसमुद्भूतः पापदर्पस्य पाटनः । तेनायं दर्पणो
नाम पुरा देवगणैः कृतः । अस्मिन् स्नात्वा नदवरे
योऽर्चपेद् दर्पणाचले । कुवेरं प्रतिपत्तिथ्यां कार्त्तिके
शुक्लपक्षतः । स याति ब्रह्मसदनमिह भूतिशतैर्युतः”
इति कालि० पु० ८१ अ० । “दर्पणनिर्मलासु पतिते
वनतिमिरमुषि” माघः ।
“भूयो बभौ दर्पणमादधाना” कुमा० । “लोच-
नाभ्यां विहीनस्य दर्पणः किं करिष्यति” चाण० ।
दर्पणस्य विम्बस्य स्वगतत्वव्यत्यस्तमुखत्वादिमोहजनक-
त्वात् दर्पणत्वम् ।

दर्पद त्रि० दर्पं ददाति दा--क । १ गर्वदायकपदार्थे । २ विष्णौ

पु० “दर्पहा दर्पदः दृप्तः” विष्णुसह० “धर्मवर्त्मनि
वर्त्तमानानां दर्पं ददाति दर्पदः” भा० ।

दर्पहन् त्रि० दर्पं हन्ति हन--क्विप् । १ गर्वहारके २ विष्णौ

पु० । दर्पदशब्दे दृश्यम् ।

दर्भ पु० दृभ--घञ् अच् वा । कुशभेदे तल्लक्षणादिकं कुशशब्दे २१४३ पृ० उक्तम् ।

दर्भट न० दृभ--संदर्भे बा० अट्न् । निभृतगृहे त्रिका० ।

दर्भपत्र पु० दर्भस्येव पत्रमस्य । काशे राजनि० ।

दर्भपुष्प पु० सर्पभेदे अहिशब्दे सुश्रुतवाक्यं दृश्यम् ।

दर्भमय त्रि० दर्भात्मकः शरा० मयट् । कुशनिर्म्मिते ब्राह्मणादौ

दर्भमूला स्त्री दर्भस्येव मूलमस्याः पाककर्णेति ङीष् ।

औषधीभेदे ।

दर्भर त्रि० दर्भस्य सन्निकृष्टदेशादि दर्भ + अश्मा० रः । दर्भादूरदेशादौ ।

दर्भानूप पु० दर्भप्रचुरोऽनूपः संज्ञात्वेऽपि क्षुम्नादिपाठात्

पक्षे पूर्वपदात् न णत्वम् । दर्भप्रचुरेऽनूपे देशभेदे ।

दर्भाह्वय पु० दर्भमाह्वयते सादृश्यात् आ + ह्वे--श । मुञ्जे

तृणभेदे राजनि० ।

दर्भि पु० ऋषिभेदे अर्द्धकीलाख्यं तीर्थं तेन निर्म्मितं यथाह भा० व० ८३ अ० ।

“अर्द्धकीलञ्च तत्रैव तीर्थं कुरुकुलोद्वह” । “विप्रा-
णामनुकम्पार्थं दर्भिणा निर्मितं पुरा । व्रतोपनयनाभ्या-
ञ्चाप्युपवासेन चाप्युतं । क्रियामन्त्रैश्च संयुक्तो ब्राह्मणः
स्थान्न संशयः । क्रियामन्त्रविहीनोऽपि तत्र स्रात्वा
नरर्षभ! । चीर्णव्रतो भवेद्विद्वान् दृष्टमेतत् पुरातनैः ।
समुद्राश्चापि चत्वारः समानीताश्च दर्भिणा । तेषु स्नात्वा
नरश्रेष्ठ न दुर्गतिमवाप्नुयात् । फलानि गोसहस्राणां
चतुर्णां विन्दते तु सः ।

दर्म्म त्रि० दॄ--विदारे वा० म । दारके । “पुरां दर्मो

अपामजः” ऋ० ३ । ४५ । २ । मनि दर्म्मन् तत्रार्थे “दर्मा
दर्षीष्ट विश्वतः” ऋ० १ । १३२ । ६ ।

दर्य्य त्रि० दरस्य हितम् गवा० यत् । दरहिते भयसाधने ।

दर्व पुंस्त्री दॄ--व । १ राक्षसे उज्ज्वलद० । स्त्रियां ङीष् ।

२ उशीनरपत्नीभेदे स्त्री “उशीनरस्य पत्न्यस्तु पञ्च राजर्षि-
वंशजाः । सृगा कृमिर्नवा दर्वा पञ्चमी च दृशद्वती”
“नवायास्तु नवः पुत्रो दर्वायाः सुव्रतोऽभवत्” हरिवं०
३१ अ० । ३ हिंस्रे त्रि० । घञ् । ४ हिंसायां पु०

दर्वट पु० दर्वाय हिंसायै अटति अट--अच् शक० । दण्डवा-

दिनि हारा० ।

दर्वरीक पु० दॄ--विदारे फर्फरीकादि० नि० । १ इन्द्रे २ वाते ३ वाद्यभेदे संक्षिप्तसा० ।

दर्वि(र्वी) स्त्री दॄ--विन् वा ङीप् । व्यञ्जनदारके (हाता)

ख्याते पदार्थे खजाकायाम् ।
“इध्मजातीयमिध्मार्द्धप्रमाणं मेक्षणं भवेत् । वृत्तं
चाङ्गुष्ठपृथ्वग्रमवदानक्रियाक्षमम् । एषैव दर्वी यस्तत्र
विशेषस्तमहं ब्रुवे । दर्वी द्व्यङ्गलपृथ्वग्रा तुरीयोनन्तु
मेक्षणम्” कात्या० स० । “मासर्तुदर्वीपरिघट्टनेन”
भा० व० यक्षप्रश्ने । २ अहिफणायां शब्दरत्ना-
दर्वीकरः ।

दर्विका स्त्री स्वार्थे क । दर्व्यां रायमुकुटः । दर्मक पु० तत्रार्थे द्विरूपकोषः ।

दर्वि(र्वी)होम पु० ६ त० । दर्वीमाधने होमभेदे “दर्वीहोमानु-

पादाय सर्वान् यः प्राप्नुते क्रतून्” भा० स० १२ अ० ।

दर्वीकर पु० दर्वी फणा कर इवास्य । सर्पे अहिशब्दे दृश्यम् ।

दर्वीसंक्रमण न० तीर्थभेदे । “दर्वीसंक्रमणं प्राप्य तीर्थं

त्रैलोक्यपूजितम् । अश्वमेधमवाप्नोति स्वर्गलोकञ्च
गच्छति” भा० व० ८४ अ० ।

दर्श पु० दृश्येते शास्त्रदृष्ट्या सूर्य्यचन्द्रौ एकत्र स्थितौ यत्र ।

दृश--आधारे घञ् । १ सूर्य्येन्दुसङ्गमकाले अमावास्या-
तिथौ “एकत्रस्थौ चन्द्रसूर्य्यो दर्शनात् दर्श उच्यते”
मत्स्यपु० कुहूशब्देऽस्य विवृतिः । स निमित्ततया-
ऽस्त्यस्य अच् । २ दर्शकालकर्त्तव्ये यागभेदे । आग्नेया-
ष्टापालैन्द्रदध्यैन्द्रपयोरूपयागत्रयात्मकोदर्शयागः । काती-
यशब्दे तदितिकर्त्तव्यता दृश्या । “सर्वेभ्यो दर्शपौर्ण-
मासौ” श्रुतिः भावे घञ् । दर्शने ३ चाक्षुषज्ञाने ।

दर्शक त्रि० पश्यति दृश--ण्वुल् दर्शयति दृश--णिच् ण्वुल्

वा । १ द्रष्टरि २ प्रधाने ३ निपुणे मेदि० । ४ द्वारपाले
पु० अमरः स हि द्वारदेशे समागतान् निवेद्य राजानं
पृष्ठ ३४७४
दर्शयतीति तस्य तथात्वम् ५ दर्शयितरि च । “कर्ण्णधार
इवापारे भगवान् पारदर्शकः” भाग० १ । १३ । ३८ । तुमर्थे
ण्वुल् । ६ द्रष्टुमित्यर्थे । अनिमन्त्रितोन गच्छेत यज्ञं गच्छेत
दर्शकः” भा० अनु० १०४ अ० । दर्शकः द्रष्टुमित्यर्थः
एतद्योगेन कर्म्मणि न षष्ठीत्यतः यज्ञमित्यत्र द्वितीया ।

दर्शत पु० दृश्यतेऽसौ दिवि दृश--कर्म्मणि अतच् । १ सूर्य्ये

२ चन्द्रे च सि० कौ० । ३ दर्शनीये त्रि० । “स दर्शतश्रीर-
तिथिर्गृहे गृहे” ऋ० १० । ९१ । २ । “दर्शतश्रीः दर्शनीयवि-
भूतिः” भा० ।

दर्शन न० दृश--भावकरणादौ ल्युट् । १ नेत्रे २ स्वप्ने ३ बुद्धौ

४ धर्मे ५ दर्पणे ६ शास्त्रे मेदिनि० ७ इज्यायाम् अजयपा०
८ वर्णे त्रिकाण्ड० ९ निभालने जटाध० । दृश्यते यथार्थतया
ज्ञायते पदार्थोनेन करणे ल्युट् । अध्यात्मावेदके १० शास्त्र-
भेदे तानि च नास्तिकवौद्धजैनवैष्णवास्तिकादिमत-
भेदेन नानाविधानि । तानि च सर्वदर्शनसंग्रहे तत्तन्मत-
प्रदर्शनावसरे दर्शितानि । तत्रास्तिकदर्शनानि षट् तत्र
गौतमेन न्यायदर्शनं, कणादेन वैशेषिकं, कपिलेन साङ्ख्यं,
पतञ्जलिना योगदर्शनं, जैमिनिना पूर्वमीमांसाव्यासेन वेदा-
न्तदर्शनम् प्रणीतम् । तच्च वेदान्तदर्शनं व्यासप्रणीतमेकमपि
बहुभिर्विद्वद्भिः द्वैताद्वैतविशिष्टाद्वैतशुद्धाद्वैतप्रभेदेन
नानाविधं यथा बुद्धस्यैकस्योपदेशकत्वेऽपि विनेयानां बुद्धि-
वैचित्र्यात् स्वस्वबुद्ध्यनुमारिपदार्थकल्पनया योगाचारमा
ध्यमिकादिभेदा उपज ताः । एवं वेदान्तस्यापि “षड्दर्श-
नानि मेऽङ्गानि पादौ कुक्षिः करौ शिरः । तेषु भेदन्तु
यः कुर्यान्मदङ्गच्छेदको हि सः । एतान्येव कुलस्यापि षड़
ङ्गानि भवन्ति हि । तस्मान्मदात्मकं कौलमहं कौलात्मकः
पिये!” तन्त्रशास्त्रम् । पदार्थभेददर्शने फलभेदो यथा
“नन्द उवाच । “येषाञ्च दर्शने! पुण्यं पापञ्च यस्य दर्शने ।
तत्सर्वं वद सर्वेश! श्रेतुं कौतूहलं हि मे । श्री भगवान्
उवाच । सुब्राह्मणानां तीर्थानां वैष्णवानाञ्च दर्शने ।
देवताप्रतिमादर्शात् तीर्थस्वायी भवेन्नरः । सूर्य्यस्य
दर्शने भक्त्या सतीनां दर्शने तथा । सन्न्यासिनां यती
नाञ्च तथैव ब्रह्मचारिणाम् । भक्त्या गवाञ्च वह्नीनां
गुरूणाञ्च विशेषतः । गजेन्द्राणाञ्च सिंहानां श्वेता-
श्वानां तथैव च । शूकानाञ्च पिकानाञ्च खञ्जनानां
तथैत्र च । हंसानाञ्च मयूराणां चासानां शङ्खपक्षिणाम् ।
वत्सप्रयुक्तधेनूनामश्वत्थानां तथैव च । पतिपुत्रवती-
माञ्च नराणां तीर्थयायिनाम् । प्रदीपानां सुवर्णानां
मणीनाञ्च विशेषतः । मुक्तानां हीरकाणाञ्च माणि-
क्यानां महाशय! । तुलसीशुक्लपुष्पाणां दर्शनं
पापनाशनम् । फलानि शुक्लधान्यानि घृतं दधि मधूनि च ।
पूर्णकुम्भञ्च लाजांश्च राजेन्द्रं दर्पणं जलम् ।
मालाञ्च शुक्लपुष्पाणां दृष्ट्वा पुण्यं लभेन्नरः । गोरो-
चनाञ्च कर्पूरं रजतञ्च सरोवरम् । पुष्पोद्यानं पुष्पि-
तञ्च दृष्ट्वा पुण्यं लभेन्नरः । देवाश्रितं देवधटं सुगन्धि-
पवनं तथा । शङ्खञ्च दुन्दुभिं दृष्ट्वा सद्यः पुण्यं लभेन्नरः ।
शुक्लपक्षस्य चन्द्रस्य पीयूषं चन्दनं तथा । कस्तूरीं
कुङ्कुमं दृष्ट्वा नन्द । पुण्यं लभेन्नरः । पताकामक्षयवट
तरुं देवोत्थितं शुभम् । देवालयं देवखातं दृष्ट्वा पुण्यं
लभेन्नरः । शुक्तिं प्रबालं रजतं स्फाटिकं कुशम्लकभ् ।
गङ्गामृदं कुशं ताम्रं दृष्ट्वा पुण्यं लभेन्नरः । पुराण
पुस्तकं शुद्धं सवीजं विष्णुयन्त्रकम् । स्निग्धदूर्वाक्षतं
रत्नं दृष्ट्वा पुण्यं लभेन्नरः । तपस्विनं सिद्धमन्त्रं
समुद्रं कृष्णमारकम् । यज्ञं महोत्सवं दृष्ट्वा सुपुण्यं
लभते नरः । गोभूत्रं गेमयं दुग्धं गोधूलिं गोष्ठ
गोस्पदम् । पक्वशस्यान्वितं क्षेत्रं दृष्ट्वा पुण्यं लभेन्नरः ।
रुचिरां पद्मिनीं श्यामां न्यग्रोवपरिमण्डलाम् ।
सुवेशिकां सुवसनां दिव्यभूषणभूषिताम् । वेश्यां क्षेमङ्करीं
गन्धं सदूर्वाक्षततण्डुलम् । सिद्धान्नं परमान्नञ्च
दृष्ट्वा पुण्यं लभेद्ध्रुवम् । कार्त्तिक्यां पूर्णिमायाञ्च
णधिकाप्रतिमां शुभाम् । संपूज्य दृष्ट्वा नत्वा च करोति
जन्मखण्डनम् । हिङ्गुलायां तथाष्टम्यामिषे मासि सिते
शुभे । श्रीदुर्गाप्र तमां दृष्ट्वा करोति जन्मखण्डनम् ।
शिवरात्रौ च काश्याञ्च विश्वनाथस्य दर्शनम् । कृत्वो-
पवासं पूजाञ्च करोति जन्मखण्डनम् । जन्माष्टमी-
दिने भक्तो दृष्ट्वा मां विन्ध्यमाधयम् । प्रणम्य पूजां कृत्वा
च करोति जन्मखण्डनम् उपोव्य व्रजभूमौ । च
भाण्डीरे मालतीवने । संपूज्य राधां मां चैव करोति
जन्मखण्डनम् । पौषे मासि शुक्लरात्रौ यत्र तत्र स्थले
नरः । पद्मायाः प्रतिमां दृष्ट्वा करोति जन्मखण्डनम् ।
सप्तजन्म भवेत्तस्य पुत्रः पौत्रो धनेश्वरः । उपोष्यैकादशीं
स्रात्वा प्रभाते द्वादशीदिने । द्वष्ट्वा काश्यामन्नपूर्णा-
करोति जन्मखण्डनम् । दत्त्वा विष्णुपदे पिण्डं विष्णुं
यश्च विलोकयेत् । पितॄणां स्वात्मनश्चैव करोति जन्म-
खण्डनम् । प्रयागे मुण्डनं कृत्वा यश्च पितॄन् प्रतर्वयेत् ।
उपोव्य नैमिपारण्ये करोति जन्मखण्डनम् । ष्टपोषप्र
पृष्ठ ३४७५
पुष्करे स्नात्वा किं वा वदरिकाश्रमे । संपूज्य दृष्ट्वा
मामेव करोति जन्मखण्डनम् । सिद्धां कृत्वा च वदरीं
भुङ्क्ते वदरिकाश्रमे । दृष्ट्वा मत्प्रतिषां नन्द! करोति
जन्मखण्डनम् । दोलायमानं गोविन्दं दृष्ट्वा वृन्दावने
च माम् । दृष्ट्वा सपूज्य नत्वा च करोति जन्मखण्डनम् ।
भाद्रे दृष्ट्वा च मञ्चस्थं मामेव मधुसूदनम् । संपूज्य
नत्वा भक्तश्च करोति जन्मखण्डनम् । रथस्थञ्च
जगन्नाथं यो द्रक्ष्यति कलौ नरः । संपूज्य भक्त्या नत्वा
च करोति जन्मखण्डनम् । उत्तरायणसंक्रान्त्यां प्रयागे
स्नानमाचरेत् । संपूज्य दृष्ट्वा मामेव करोति जन्म-
खण्डनम् । कार्त्तिक्यां पूर्णिमायाञ्च दृष्ट्वा मत्प्रतिमां
शुभाम् । उपोष्य पूजां कृत्वा च करोति जन्मखण्ड-
नम् । चन्द्रभागासमीपे च माध्याञ्च मां नमेत् शनैः ।
राधया सह मां दृष्ट्वा करोति जन्मनः क्षयम् । रामे-
श्वरं सेतुबन्धे आषाढ़पूर्णिमादिने । उपोष्य दृष्ट्वा
संपूज्य करोति जन्मनः क्षयम् । दीननाथं दिनकरं
लोलार्के चोत्तरायणे । उपोष्य दृष्ट्वा मंपूज्य करोति
जन्मनः क्षयम् । ऋषिकोष्ठे सुवसने कलविङ्के
सुगह्वरे । विस्यन्दके राजकोष्ठे नन्दके पुष्पभद्रके ।
पार्वतीप्रतिमां दृष्ट्वा कार्त्तिकेयं गणेश्वरम् । नन्दिनं
शङ्करं दृष्ट्वा करोति जन्मनः क्षयम् । त्रिकूटे
मणिभद्रे च पश्चिमोदधिसन्निधौ । समुपोष्य दधि प्राश्य
मां दृष्ट्वा मुक्तिमाप्नुयात्” ब्रह्म० वे० जन्म० ख० । शकुन-
भेददर्शने फलभेदः शकुनशब्दे दृश्यम् ।

दर्शनप्रतिभू पु० दर्शनाय प्रतिभूः । प्रतिभूभेदे “दर्शने प्राति-

माव्ये च विधिः स्यात् पूर्वचोदितः” “यो यस्य प्रतिभूस्तिष्ठेत्
दर्शनायेह मानवः । अदर्शयन् स तं तस्य प्रयच्छेत् स्वध-
नादृणम्” मनुः । वीरमि० विस्तरेण तद्विधिरुक्तो यथा
“अथ प्रतिभूः तत्र प्रातिभाव्यं नाम विश्वासार्थं
पुरुषान्तरेण सह समयः । तद्भेदानाह वृहस्पतिः
“दर्शने प्रत्यये दाने ऋणिद्रव्यार्पणे तथा । चतुःप्रकारः
प्रतिभूः शास्त्रे दृष्टो मनीषिभिः” । प्रत्ययो
विश्वासः दानम् ऋणापाकरणार्थमर्थार्पणम् । ऋणिद्रव्या-
र्पणम् ऋणिनो यद्द्रव्यं गृहोपकरणादि तदर्पणम् ।
चतुःप्रकाराणां प्रतिभुवां प्रातिभाव्याङ्गीकारप्रकारं
दर्शयति स एव “आहैको दर्शयामीति साधुरित्यपरो-
ऽब्रवीत् । दाताहमेतद्द्रविणमर्पयाम्यपरोऽब्रवीत्” ।
एको दर्शनप्रतिभरहमेनं मकायमप्रवृनं दर्शयि-
व्यामीत्याह । अपरः प्रत्ययप्रतिभूरेषः साधुर्न त्वां प्रता-
रयिष्यति यतोऽयं श्रेत्रियपुत्रोऽस्य सर्वशस्यसम्पन्नो
ग्रामोऽस्ति मत्प्रत्ययेनास्य द्रव्यं देहीति ब्रवीति ।
दानप्रतिभूर्यद्ययं न ददाति तदा सवृद्धिकमृणमह
दातेति । अपरः ऋणिद्रव्यार्पणप्रतिभूयद्ययं न ददाति
तदाहमेतदीयगृहोपकरणादिकमर्षयिष्यामीति
कथयतीत्यर्थः । दर्शनप्रतिभुवा यदा धनिकस्य धारणिकदर्शना-
पेक्षा तदैव स दर्शनीयः इत्याह कात्यायनः “दर्शनप्रति-
भूर्यस्तु देशे काले च दर्शयेत्” । यस्मिन् देशे काले
च धनिकस्तद्दर्शनमपेक्षते तत्रैव दर्शयेत् अधमर्णमिति
शेषः । दर्शिते च तस्मिन् धनिकेन प्रातिमाव्यात् स मो
क्तव्य इत्युत्तरार्द्धेनाह स एव । “यद्यसौ दर्शयेत्
तत्र मोक्तव्यः प्रतिभूर्भवेत्” । एवं प्रत्ययादिप्रतिभुवोऽपि
तदविसंवादे मोक्तव्याः, अन्यथा धारणिकन्देयं धनं
दाप्या इत्याहतुः कात्यायनवृहस्पती “यो यस्य प्रतिभू-
स्तिष्ठेद्दर्शनायेह मानवः । अदर्शयन् स तन्तस्मै प्रयच्छेत्
स्वधनादृणम् । आद्यौ तु वितथे दाप्यौ तत्कालावेदि-
तं धनम् । उत्तरौ तु विसंवादे तौ विना तत्सुतौ
तथा” । यत्तु योगीश्वरेण प्रतिभुवान्त्रैविध्यमेवोक्तम ।
“दर्शने प्रत्यये दाने प्रातिभाव्यं विधीयते” तद्दानार्पण-
योरनतिभेदाभिप्रायेण । “आद्यौ तु वितथे दाप्या
वितरस्य सुता अपि” । वितथे दर्शनप्रत्यये
विसंवादे इतरस्य सुता न दाप्याः । सुता इत्यभिधानान्न
पौत्रा इत्युक्तम्भवति दानं स्वधनार्पणं धनिकाय । अर्प-
णन्तु धारणिकधनमानीय तस्य अर्पणं धनिकस्य
स्वधनलाभे उभयतो न विशेषः अतएव सूक्ष्मभेदविवक्षया
पञ्चप्रकारा अपि प्रतिभुवो हारीतेनोक्ताः । “अमये
प्रत्यये दाने उपस्थाने प्रदर्शने । पञ्चस्वेषु प्रकारेषु
ग्राह्यो हि प्रतिभूर्वुधैः” अभयमुपद्रववारणम् ।
उपस्थानमत्र धारणिकधनस्य धनिकायानीयार्पणं न दर्शन
तस्य पृथङ्निर्देशात् पञ्चस्वित्यनन्वयाच्च । व्यासस्त
सप्तभिर्विषयैः सप्तप्रकारं प्रतिभुवमाह । “लेख्ये कृते
च दिव्ये वा दानप्रत्ययदर्शने । गृहीतबन्धोपस्थाने
ऋणिद्रव्यार्पणे तथा” । प्रतिभूर्ग्राह्य इत्यत्र प्रकृतम् ।
कात्यायनोऽपि “दानोपस्थानवादेषु विश्वासशपथाय च ।
लग्नकङ्कारयेदेवं यथायोग्यं विपर्यये” । वादोविवादस्तत्र
प्रतिभूग्रहणम् । “उभयोः प्रतिभूर्ग्राह्यः समर्थः कार्य-
निर्णय” इति । योगीश्वरेणाप्युक्तन्तच्च प्रागेव व्याख्या-
पृष्ठ ३४७६
तम् । दर्शनप्रत्ययदानेषु यथायथं सर्वेषामन्तर्भावसम्भव
इति परमार्थः । दर्शनप्रतिभुवे नष्टधारणिकान्वेषणाय
कालावधिर्देय इत्याह । वृहस्पतिः “नष्टस्यान्वेषणे
कालं दद्यात् प्रतिभुवे धनी । देशानुरूपतः पक्षं मासं
ञ्चार्द्धमथापि वा” । सार्द्धमासमिति परमावधिः । तथा
च कात्यायनः “नष्टस्मान्वेषणार्थन्तु देयं पक्षत्रयं परम् ।
यद्यश्चो दर्शयेत्तत्र मोक्तव्यः प्रतिभूर्भवेत् । काले प्रतीते
प्रतिभूर्यदि तं नैव दर्शयेत् । स तमर्थं प्रदाप्यः स्यात्
प्रेते चैष विधिः स्मृतः” । परं परमावधिभूतम् ।
प्रतीतेऽन्वेषणाय परिकल्पिते, प्रेते क्षैष विधिरिति
धारणिके मृते प्रतिभूस्तमर्थं प्रदाप्य इति विधिः
कालावधिविधेस्तत्रान्ययवाधात् । एतदपि दैवराज-
कृतप्रतिबन्धाभावे बोध्यम् । अतएव कात्यायनः “दर्श-
नप्रतिभूर्यत्र देशे काले न दर्शयेत् । निबन्धमाबहेत्तत्र
दैवराजकृतादृते” । निबन्धमृणम् । दैवकृतो दीर्घरोग-
मरणादिरूप ऋणदानप्रतिबन्धः । राजकृतो बन्धनासेध-
दण्डादिरूपः । प्रतिभूभेदेन स्पष्टमाह नारदः “ऋणि-
ष्वप्रतिकुर्वत्सु प्रत्यये वाथ हापिते । प्रतिभूस्तदृणं दद्या-
दनुपस्थापयंस्तथेति” । ऋणिष्यधर्मर्णेष्वप्रतिकुर्वत्स्वसाध्येषु
निर्डनत्वादिना ऋणमप्रत्यर्पयत्स्विति दानप्रतिभूविष-
यम् । पत्यये विश्वासे हापिते विसंवादिते इति
प्रत्ययप्रतिभूविषयम् । अनुपस्थापयन्नृणिनमदर्शयन्नृ-
णिनः सकाशादाधिमृणं पर्याप्तं तद्धनं वोत्तमर्णायान-
र्पयन्निति दर्शनद्रव्यार्पणप्रतिभूविषयमिति विवेकः” ।

दर्शनीय त्रि० दृश--कर्म्मणि अर्हादौ वा अनीयर । १ मनोहरे,

२ दर्शनयोग्ये च धरणिः । “दर्शनीयतमो नृणामिदं
वचनमब्रवीत्” भा० स० ७५ अ० ।

दर्शप पु० दर्शेन दर्शनेन पिबन्ति पा--क । दर्शन-

मात्रेण पातृषु देवेषु “न वै देवा अश्रति पिवन्ति
एतदेवामृतं दृष्ट्वा तृष्यन्ति” छा० उ० दर्शनमात्रेण तेषां
तृप्तिहेतुपानसम्भवस्योक्तेस्तथात्वम् । “शुद्धाश्च
निर्म्माणरताख्यदेवाः स्पर्शाशना दर्शपा आज्यपाश्च” भा०
अनु० १६ अ० ।

दर्शयामिनी स्त्री दर्शस्येव यामिनी । अन्धकारयुक्तायां रात्रौ हेमच० ।

दर्शयितृ त्रि० दृश--णिच्--तृच् । १ दर्शनकारके दर्शके “पथः

श्रुतेर्दर्शयितारः ईश्वराः” रघुः २ प्रतीहारे द्वारपाले पु०

दर्शविपद पु० दर्शे अमावास्यायां विपद् नाशोऽदर्शनमस्य ।

चन्द्रे त्रिका० ।

दर्शित त्रि० दृश--णिच्--क्त । १ प्रकटिते २ प्रकाशिते ३ प्रतिपादिते च हेमच० ।

दर्शिन् त्रि० दृश--णिनि । १ द्रष्टरि २ विवेचके ३

साक्षात्कारके च । “तद्दर्शिनमुदासीनं त्वामेव पुरुषं विदुः”
कुमा० । “तस्यै मुनिर्दोहदलिङ्गदर्शी” रघुः । मन्त्र-
दर्शिभिरुच्यते” मनुः । स्त्रियां ङीप् । प्रतीपदर्शिनी ।

दर्शिवन् त्रि० दृश--“अन्येऽपि दृश्यन्ते” इति पा० इवनिप् ।

द्रष्टरि । “कुरूणां पाण्डवानां च भवान् प्रत्यक्षदर्शिवान्”
भा० आ० ६ अ० । “अन्यो न त्वामृते छेत्ता विद्यते
सर्वदर्शिवम्” सू० सि० । “अत्र दर्शिवस्” इति
शब्दकल्पनमतीव प्रामादिकम् ।

दल भेदे भ्वा--पर० अक० भेदने सक० सेट् । दलति अदालीत्

णिचि वा घटा० दलयति दालयति । ददाल देलतुः दलितः ।
दला “ददाल भूर्नभोरक्तं गोष्पदप्रं बवर्ष च” “ददाल
भूः पुपूरे द्यौः कपीनामपि निखनैः” “अदालिषुः
शिलादेहे चूर्ण्यभूवन् महाद्रुमाः” भट्टिः “दलति
शतधा यन्न हृदयम्” अमरु० ।

दल भेदने चुरा० उभ० सक० सेट् । दालयति--ते अदीदलत् त ।

“मुष्टिनाऽदालयत्तस्य” “दालयत्यष्टौ कुलक्ष्माभृतः”
अनर्घरा० । भेदश्चेह द्विधाकरणं विकमनञ्च तत्रविकसने।
“दरविदलितमल्लीवल्लिचञ्चत्परागे” गीतगो० ।

दल न० दल--अच् १ उत्सेधे २ खण्डे ३ पत्रे च्छदे मेदि० । ४ घने

शब्दर० ५ तमालपत्रे राजनि० ६ अर्द्धे लीलावतो
“प्राप्तापराधास्ताड्याः स्यूरज्वा वेणुदलेन वा” मनुः
“ताम्बूलीनां दलैस्तत्र रचितापानभूमयः” रघुः
“वापीष्वन्तलीनमहानोलदलासु” माघः । “अङ्घ्रिः स्वत्र्यंश-
युक्तः सनिजदलयुतः कीदृशः कीदृशोऽसौ” लीला० ।

दलकोष पु० दलान्थेव कोषो यस्य । कुन्दपुष्पवृक्षे शब्दमा० ।

तस्य पुष्पे कोषान्तराभावात् तथात्वम्

दलतृ त्रि० दल--बा अतृन् । द्विधाकारके । तेन निर्वृत्त

अरी० वुञ् । दालितृक तन्निर्वृत्तादौ त्रि० ।

दलनिर्मोक पु० दलतीति दलं वल्कलं निर्मोक इव यस्य

भूर्ज्जपत्रवृक्षे शब्दमाला । तस्य हि वल्कलस्य निर्मोक
कारत्वात्तथात्वम् ।

दलन न० दल--करणे ल्युट् । १ दलनकारणे (डेला) २ लोष्ट्रे

स्त्री० ङीप् रत्नावली । तथाभूतस्त्रियां स्त्री “प्रति
पक्षपक्षदलनी” विद्वन्मनो० ।

दलप न० दल--कपन् । १ प्रहरणे उज्ज्वलद० । २ विदारक-

मात्रे त्रि० ३ स्वर्णे उणादि० । दलं पाति पा--क । ४ दलपतो
दलाधिपदलपत्यादयोऽप्यत्र पु० ।
पृष्ठ ३४७७

दलपुष्पा स्त्री दल इव पुष्पमस्याः । केतक्याम् राजनि० । सा हि दलाकार पुष्पा”

दल(मा)शाली स्त्री दलेन मलति सम्बध्नाति मल--णिनि

शलते शल--णिनि वा । कञ्चुकशाके पारस्करनि० ।

दलसारिणी स्त्री दले पत्रे सारोऽस्त्यस्या इनि । केमुके रत्नमा०

दलसूचि(ची) स्त्री दलस्य सूचिरिव । कण्टके हारा० ।

दलस्नसा स्त्री ६ त० । पत्नसिरायाम् हेमत्न० ।

दलाढ़क पु० दलेनाढ़क इव । १ स्वयंजाततिलवृक्षे, २ पृश्न्याम्,

३ गैरिके ४ फेने, ५ खातके, ६ नागकेशरे, ७ महत्तरे, मेदि०
८ कुन्दे, ९ करिकर्णे, १० शिरीषे, ११ वात्यायाञ्च हेमच० ।

दलाढ्य पु० दलेन द्वैधेनाढ्यः । पङ्ककर्वटे (दलदलिया) कर्द-

मभेदे त्रिका० ।

दलामल न० दलेनामलम् । १ मरुवके मेदि० । २ मदनवृक्षे ३ दमनवृक्षे च पु० शब्दर० ।

दलाम्ल न० दलेनाम्लम् । चुक्रे (चुकापालङ्ग) राजनि० ।

दलि स्त्री दल--इन् । १ लोष्ट्रे उज्ज्वल० तत्रार्थे पुंस्त्री

रन्तिदेवः । संज्ञायां कन् । दलिक ३ काष्ठे हेमच० ।

दलित त्रि० दल--क्त । १ विकशिते । २ खण्डिते ३ अर्द्धीकृते ।

“व्येका दलिता विभाजितेष्टेन” “दलिता बाधे तयोः
स्याताम्” लीला० ।

दलिन् त्रि० दल--सुखा० मत्वर्थे इनि । दलयुक्ते स्त्रियां ङीप् ।

दलेगन्धि पु० दले गग्धो यस्याः इत् समा० सप्तम्या अलुक् ।

सप्तच्छदवृक्षे (छातिम गाछ) त्रिका० ।

दलोद्भव त्रि० दलादुद्भवति उद् + भू--अच् ५ त० । दलजाते

२ मधुभेदे न० । “छर्द्दिमेहप्रशमनं मधु रूक्षं दलोद्भवम्”
सुश्रु० ।

दल्भ पु० दल--भ । १ ऋषिभेदे २ चक्रे च उज्ज्वल० ततो० गर्गा०

अपत्ये घञ् । दाल्भ्य तदपत्ये पुंस्त्री । “तेन तं ह वको
दाल्भ्यो विदाञ्चकार” छान्दो० ।

दल्मि पु० दल--मि । १ इन्द्रे २ वज्रे उज्ज्वलद० । ततो

मत्वर्थे मतुप् यवादि० मोपकत्वेऽपि न मस्य वः । दल्मि-
मत् वज्रयुक्ते इन्द्रे ।

दल्य त्रि० दलस्यादूरदेशादि दल + चतुरर्थ्यां बला० य । दलस्यादूरदेशादौ ।

दव गतौ भ्वा० पर० सक० सेट् इदित् । दन्वति अदन्वीत् ।

ददन्व । क्विपि दन् ।

दव पु० दुनोति दु--अच् । १ वने, २ वनानले च अमरः । भावे

अप् । ३ उपतापे । “अतिमात्रं दववद्दहन्नमि” माघः ।

दवथु पु० दु--उपतापे भावे अथुच् । उपतापे । “स दवथु

वपुर्वचोविषम्” माघः “केचिद्वेपथुमासेदुरल्यो दवथु-
मुत्तमम्” भट्टिः ।

दवदग्धक न० दवेन दग्धं सत् कायति प्रकाशते कै--क । रोहिषतृणे राजनि० ।

दवदहन पु० दवजातो वनजातो दहनः । दावानले ।

“सरःसव्येऽसव्ये दवदहनदाहव्यतिकरः” उद्भटः ।
“किञ्चात्मजविश्लेषज्वरदवदहनशिखाभिः” भाग० ५ । ८ । २७ श्लो-
“दवाग्निप्रभृतयोऽप्यत्र “शशाम वृष्ट्यापि विना दवाग्निः
रघुः ।

दवि दूरीकरोति दूर + णिच्--स्थूलदूरेत्यादिना दवादेशः

नामधातुः दूरीकरणे सक० सेट् । दवयति अदी(द)दवत् ।
“दवयदतिरयेण प्राप्तमुर्वीविभागम्” भट्टिः ।

दविष्ठ त्रि० इदमेषामतिशयेन दूरम् इष्ठन् दवादेशः ।

दूरतमे । ईयसुन् दवीयस् तत्रार्थे त्रि० “तेजस्विमध्ये
तेजस्वी दवीयानपि गण्यते” माघः स्त्रियां ङीप् । “नैव
मुक्तिरपि दवीयसी” किरा० ।

दश दीप्तौ चु० उभ० अक० सेट् इदित् । दंशयति--ते अददंशत्--त ।

दश दंशने चुरा० आत्म० सक० सेट् इदित् । दंशयते अददंशत

दशक न० दश परिमाणमस्य कन् । दशति, दशसङ्ख्याम् ।

“धृतिः क्षमा दमोऽस्तेयं शौचमिन्द्रियनिग्रहः ।
धीर्विद्या सत्यमक्रोधो दशकं धर्मलक्षणम्” । “मृगया
ऽक्षो दिवास्वप्नः परीवादः स्त्रियो मदः । तौर्य्यत्रिकं
वृथाट्या च कामजो दशको गणः” मनुः ।

दशकण्ठ पु० दश कण्टा यस्य । १ रावणे हेमच० ।

दशकण्ठजित् पु० दशकण्ठं जयति जि--क्विप् । १ रामे

त्रिका० । दशकण्ठारिप्रभृतयोऽप्यत्र “दशकण्ठारिगुरु
विदुर्बुधाः” रघुः ।

दशकन्धर पु० दश कन्धरा यस्य । रावणे हेमच० । पृषो०

रलोपे दशकन्धोऽप्यत्र “दशकन्धराजसून्योस्तथा युद्ध
मभून्महत्” भा० व० २८९ अ० ।

दशकन्धरजित् पु० दशकन्धरं जयति जि--क्विप् । रामे चिका० ।

दशकर्म्मन् न० दशविधम् कर्म्म । गर्भाधानादिश्मशानान्ते

दशविधे संस्कारकर्म्मणि । दशकर्म्मपद्धत्यादौ तद्विवृति-
र्दृश्या ।

दशकुलवृक्ष पु० दशगुणितः कुलवृक्षः संज्ञात्वात् कर्मधा०

वा व० ब० । तन्त्रोक्ते कुलवृक्षदशके कुलवृक्षदशकं च
तन्त्रसारोक्तं यथा “श्लेष्मातकः करञ्जश्च विल्वाश्वत्य-
कदम्बकाः । निम्बो वटोदुम्बरौ च धात्री चिञ्चा
दश स्मृताः” “साधकः प्रातरुत्थाय कुलवृक्षं प्रणम्य च” ।
पृष्ठ ३४७८

दशक्षीर व० दशविधं क्षीरम् । नृगीगर्द्दभीक्षीरसहिते

“गव्यनाजं तथा चौष्ट्रप्ताविकं माहिषञ्च यत् । अश्वा-
याश्चैव नार्य्याश्च करेणूनां तथैव च” इत्युक्ताष्टविध-
क्षीररूपे क्षीरदशके “पुनः पचेत् दशक्षीरं सिता-
मधुकचन्दनौं सुश्रुतः ।

दशग्रामपति पु० दशानां ग्रामाणां पतिः उत्तरपदद्विगुः ।

दशग्रामाध्यक्षे । तन्नियोगादि मनुनोक्तं यथा
“ग्रामस्याधिपतिं कुर्य्यात् दशग्रामपतिं तथा । विंश-
तीशं शतेशञ्च सहस्रपतिमेव च । ग्रामे दोषान् समुत्-
पन्नान् ग्रामिकः शनकैः स्वयम् । शंसेद्ग्रामदशेशाय
दशेशो विंशतीशिनम् । विंशतीशस्तु तत्सर्वं शतेशाय
निवेदयेत् । शंसेद्ग्रामशतेशस्तु सहस्रपतये स्वयम् ।
यानि रजिप्रदेयानि प्रत्यहं ग्रामवासिभिः । अन्नपाने-
न्धनादीनि ग्रामिकस्तान्यवाप्नुयात् । दशी कुलन्तु भुञ्जीत
विंशी पञ्चकुलानि च । ग्रामं ग्रामशताध्यक्षः सहस्रा-
धिपतिः पुरम् । तेषां ग्राम्याणि कार्य्याणि पृथक्
कार्य्याणि चैव हि । राज्ञोऽन्यः सचिवः स्निग्धस्तानि
पश्येदतन्द्रितः” ।

दशग्रामिक त्रि० दश ग्रामा अधिकृतत्थेन सन्त्यस्य ठन् ।

तस्यादूरदेशादि कच्छ्वा० चतुरर्थ्यां ष्ठच् वा । १ दशग्रामाधिपे
२ तस्यादूरदेशादौ । स्त्रियां ङीष् चतुरर्थान् काश्या०
ठञ् ञिठो वा । दाशग्रामिक तस्यादूरदेशादौ
त्रि० ठञि स्त्रियां ङीप् ञिठे टाप् इति भेदः ।

दशग्रामिन् पु० दश ग्रामा अधिकृतत्वेन सन्त्यस्य इनि ।

दशग्रामाधिपतौ । “स्वसीम्नि दद्यात् ग्रामस्तु पदं
वा यत्र गच्छति । पञ्चग्रामी बहिः कोशात् दशग्राम्यथ
वा पुनः” याज्ञ० ।

दशग्रीव पु० दश ग्रीवा अस । १ रावणे ।

“पुष्पोत्कटायां जज्ञाते द्वौ पुत्रौ राक्षसेश्वरौ । कुम्भ-
कर्णदशग्रीवौ बलेनाप्रतिमौ भुवि” । “दशग्रीवस्तु सर्वेषां
श्रेष्ठो राक्षसपुङ्गवः । महोत्साहो महावीर्य्यो
महासत्त्वपराक्रमः” भा० व० २७४ अ० । २ असुरविशेषे
“दशग्रीवश्च वाली च मेघवासा दशारवः । टिट्टिभो
विटभूतश्च संह्रादश्चेन्द्रतापनः” भा० व० ९ अ० । ३ दमघोषस्य
पुत्रभेदे । “शिशुपालो दशग्रीवो रैभ्योऽथोपदिशो बली ।
सर्वास्त्रकुशला वीरा वीर्य्यवन्तो महाबलाः” हरिवं० ११७
अ० । ४ एकादशमन्वन्तरीयेन्द्रशत्रुभेदे तदुपक्रमे गरु०
पु० ८७ अ० “एकैकस्त्रिंशकस्तेषां गणाश्चेन्द्रश्च वै वृथः ।
दशग्रीवो रिपस्तस्य स्त्रोकपी घातयिष्यति” ।

दशज्योति(स्) पु० सुभ्राजः पुत्रभेदे । “सुभ्राजस्तु त्रयः पुत्राः

प्रजावन्तो बहुश्रुताः । दशज्योतिः शतज्यीतिः सहस्व-
ज्योतिरेव च । दशपुत्रसहस्नाणि दशज्योतेर्महात्मनः”
भा० आ० १ अ० ।

दशत् स्त्री दश परिमाणमस्य अति । दशानां वर्गे--दशके

दशसङ्ख्यायाम् । “स वै दक्षिणा नयन् । । अन्यूना
दशतो नयेद्यस्मा एकां दास्यन्त स्याद्दशभ्यस्तेभ्यो
दशतमुपावर्त्तयेद्यस्मै द्वे दास्यन्त स्यात् पञ्चभ्यस्तेभ्यो दशतमु-
पावर्त्तयेद्यस्मै तिस्रो दास्यन्त स्यात्त्रिभ्यस्तेभ्यो दशतमु-
पावर्त्तयेद्यस्मै पञ्च दास्यन्त स्याद्द्वाभ्यो तभ्यां दशतमुपार्त्तये
देवमा शतात्तथो हास्यैषान्यूना विराडमुष्मिं लोके
कामदुघा भवति” शतब्रा० ४ । ५ । ८ । १६ । “या प्रथमा दशदयं स
लोको या द्वितीयान्तरिक्षं तद्या तृतीया द्यौः सेममेव
लोकं प्रथमया दशतारोहन्नन्तरिक्षं द्वितीयया दिवं
तृतीयया तथैवैतद्यजमान इममेव लोक प्रथमया दशता
रोहत्यन्तरिक्षं द्वितीयया दिवं तृतीयया” ८ । ५ । २ । १५ ।
“एकादश दशत आलभते । एकादशाक्षरा वै वीर्य्यं
त्रिष्टुबिन्द्रियस्यैव वीर्य्यस्यावरुद्ध्या एकादश दशत
आलभते दश वै पशोः प्राणा आत्मैकादशः प्राणैरेव
पशून्त्समर्द्धयति” शत० ब्रा० १३ । २ । ५ । ४ ।

दशतय त्रि० दशावयवा यस्य दशानामवयवा वा संख्यायाः

अवयवे तयप् । १ दशसंख्यायां २ तत्संख्यान्विते त्रि० स्त्रियां
ङीप् । “अथास्य संस्तविका देवा इन्द्रः सोमो वरुणः
पर्जन्य ऋतव आग्नावैष्णवं हविर्न त्वक्संस्तविकी
दशतयीषु विद्यते” निरु० ७ । ८ । “तदेकमेव जातवेदसं
गायत्रं तृचं दशतयीषु विद्यते” २० ।

दशति स्त्री दशावृत्ता दश नि० । दशावृत्तदशके शतसंख्यायां

“कालेन महता कद्रुरण्डानां दशतीर्दश । जनया-
मास विप्रेन्द्र!” भा० आ० १६ अ० । यथा “दशावृत्ता
नव नवतिः तथा दशावृत्ता दश दशतिः शतमित्यर्थः ।
दश दशतीर्दशशतानीत्यर्थः नीलक० । तत्संख्यायाञ्च
“ओङ्कारस्याथ जायन्ते सृतयो दशतिर्दश” भा० उ० १०७ अ०

दशदशिन् त्रि० दशावृत्ता दश परिमाणमस्य डिनि ।

शतगुणिते स्त्रियां ङीप् ।

दशधर्म्म पु० दशविधो घर्मः । सर्ववर्णसाधारणे मनूक्ते धर्मभेदे दशकशब्दे दृश्यम् ।

दशधा अव्य० दशानां प्रकारः धाच् । दशप्रकारे “गायत्रीं

दशधप जप्त्वा ततः सन्ध्यां समाचरेत्” मल० त० । “मृते
षर्वं रिक्तजातं दशधा परिकल्प्य च” मनुः ।
पृष्ठ ३४७९

दशन् त्रि० दत्श बा०--कनिन् । संख्याविशेषे १ द्विगुणितपञ्चके

२ तत्संख्यान्विते च । तत्संख्यावाचकाश्च एकादिशब्दे
उक्ताः “दिशा दशोक्ताः पुरुषस्य लोके सहस्रमाहुर्दशपूर्णं
शतानि । दशैव मासान् विभ्रति गर्भवत्यो दशैरेका
दश दाशा दशार्हाः” भा० व० १३४ अ० । आसमन्तादी
रयन्ति उपदिशन्ति एरका उपदेष्टारः दशोप-
निषदां प्राधान्येन दशत्वात् तत्प्रतिपाद्योपदेशकत्बेन
तेषां दशत्वम् ।

दशन न० दश्यतेऽनेन वा दन्श--भाषे करणादौ वा ल्युट् नि०

नलोपः । १ कवचे वर्मणि २ शिखरे पु० मेदि० । ३ दन्ते पुंन०
अमरः । “वभौ सदशनज्योत्स्ना सा विभोर्वदनीद्भवा”
रघुः । “तनुलोमकेशदशनां मृद्वङ्गीमुद्वहेत् स्त्रियम्” मनुः ।
“ताम्बूलाक्तं दशनमसकृत् दर्शयन्तीह चेटी” सा० द० ।

दशनच्छद पु० दशनान् दन्तान् छादयति छादि--घञ् ह्रस्वः ।

ओष्ठे “दशन्तो दशनच्छदान्” भा० आ० १०२ अ० ।

दशनपद न० दशनस्य दशनक्षतस्य पदम् । दशनक्षतस्थाने तदङ्के

“दशनपदं भवदधरगतं मम जनयति चेतसि खेदम्” गीतगो०

दशनवासस् न० दशनस्य वास इवाच्छादकत्वात् । ओष्ठ-

मात्रे अमरः ।

दशनवीज पु० दशन इव वीजमस्य । दाड़िमीवृक्षे पारस्करनि०

दशनाङ्क पु० ६ त० । दशनक्षते ।

दशनाढ्या स्त्री दशन आढ्यी यस्याः सेवनात् । चुक्रिकायां (चुकापालङ) शब्दच० ।

दशनोच्छिष्ट न० दशनेनोच्छिष्टं यत्र । अधरादिचुम्बने

“रेवतीदशनोच्छिष्टपरिपूतपुटे दृशौ” माघः । २ निश्वासे
पु० ६ त० । ३ दन्तोच्छिष्टे त्रि० मेदि० ।

दशप पु० दश ग्रामान् पाति रक्षति पा--क । दशग्रामी

रक्षके राजनियुक्ते पुरुषभेदे । तन्नियोगादिकं भा० शा०
८७ अ० उक्तं यथा
“ग्रामस्याधिपतिः कार्य्यो दशग्राम्यास्तथाऽपरः । द्वि-
गुणायाः शतस्यैवं सहस्रस्य च कारयेत् । ग्रामेयान्
ग्रामदोषांश्च ग्रामिकः प्रतिभावयेत् । तान् ब्रूयाद्दशपा-
यासौ स तु विंशतिपाय वै । सोऽपि विंशत्यधिपतिर्वृत्तं
जानपदे जने । ग्रामाणां शतपालाय सर्वमेव निवेदयेत् ।
यानि ग्राम्याणि भोज्यानि ग्रामिकस्तान्युपाश्नीयात् ।
दशपस्तेन भर्त्तव्यस्तेनापि द्विगुणाधिपः । ग्र मं ग्राम-
शताध्यक्षो भोक्तुमर्हति सत्कृतः । महान्तं भातश्रेष्ठ!
सुस्फीतं जनसङ्कुलम् । तत्र ह्यनेकपायत्तं राज्ञो मवति
भारत! । शाखानगरमर्हस्तु सहस्रपतिरुत्तम । धान्यं
हिरण्यं भोगेन भोक्तुं राष्ट्रीयसङ्गतः । तेषां संग्राम-
कृत्यं स्याद् ग्रामकृत्यञ्च तेषु यत् । षर्भज्ञः सचिवः कश्चित्-
तत् प्रपश्येदतन्द्रितः” ।

दशपञ्चतपस् पु० दशसु इन्द्रियेषु पञ्चसु वह्निषु च तपो

यस्य । इन्द्रियजयपूर्वकपञ्चाग्नितपश्चारिणि । “अब्भक्षो
वायुभक्षश्च दन्तोलूखनिकस्तथा । अश्मकुट्टो निरशनः
दशपञ्चतपाश्च यः” हरिवं० ४५ अ० ।

दशपारमिताध्वर पु० दशभिर्बलैः पारमितोऽध्वरो येन । बुद्धे । हेमच०

दशपुर न० दश दिशः पिपर्त्ति पॄ--क । १ कैवर्त्तीमुस्तके अमरः ।

दश पुरो यत्र अच् समा० । २ मालवदेशैकखण्डे मेदि०
स च देशः वृ० सं० १४ अ० अथ दक्षिणेन लङ्केत्युपक्रमे
“दशपुरगोनर्द्धकोलकाः” दक्षिणस्यामुक्तः । “पात्रीकुर्वद्
दशपुरवधूनेत्रकौतूहलानाम्” माघः

दशपुरुष पु० दशगुणितः पुरुषः । स्वजनकावधिपुरुषदशके ।

“यो मातृतः पितृतश्च दशपुरुषं समनुष्ठिता विद्यातपोभ्यां
पुण्यैश्च कर्मभिर्येपामुभयतो नाब्राह्मण्यं निनयेयुः”
आश्व० श्रौ० ९ । ३ । २० । “येषां मातृतः पितृतश्चोभयतो ये
दशपूर्वाः पुरुषाः ते विद्यया तपसा पुण्यैः प्रति-
षिद्धवर्जितैश्च युक्ताः सम्यगनुष्ठितवन्तो वैदिकं पन्था-
नम्, अपि च अव्राह्मण्यं न निनयेयुः निश्चयेना
ब्राह्मण्यं न गमयेयुः । अब्राह्मण्यगमनं नाम शूद्राया-
मपत्योत्पादनमित्युच्यते । विद्या नाम षड़ङ्गो वेदः,
तदर्थज्ञानश्च । तपो नाम श्रौतस्मार्त्तकर्मानुष्ठानम् । पुण्य-
कर्म नाम प्रतिषिद्धवर्जनम् । तानेवंविधान् पुरुषाननुप्रस-
र्पयेयुः, एतदुक्तं भवति मातृतः पितृतश्चोभयतः पूर्वं
दश ये पुरुषाः ते षड़ङ्गवेदाध्ययनेन तदर्थज्ञानेन च
श्रौतस्मार्त्तकर्मानुष्ठानेन च प्रतिषिद्धवर्जितेन च युक्ताः
शूद्रायामपत्योत्पादनं चाकृतवन्तो ये पुरुषा तानेवं-
विधान् पुरुषाननुप्रसर्पयेयुः । दशपुरुषमिति दशपुरुषा
इत्यर्थः । नारा० । “मातापित्रोर्यश्च वश्यः श्रोत्रियो
दशपूरुषः” भा० अनु० ९० अ० “दशपुरुषविख्यात-
श्रोत्रियाणां महाकुलम्” स्मृतिः ।

दशपूर न० दश दिशः पूरयति पूर--अण् । कैवर्त्तीमुस्तके

अमरे पाठान्तरम् ।

दशपेय पु० दशभिः पुरुषैश्चमसंपेयमत्र । यागभेदे । “संसृपे-

ष्टिभिश्चरित्वा दशपेयेन यजेत” आश्व० श्रौ० ९ । २ । १७ ।
“संसृपेष्टयो नाम सप्तेष्टयः आग्नेयादयः ताभिः
सप्ताहं चरित्वा दशपेयेन यजेत । दशपेयो नाम यज्ञ-
पृष्ठ ३४८०
क्रतुः” नारा० । “तत्र दश दशैकैकं चमसं भक्षयेयुः”
१८ “तत्र दशपेये एकैकं चमसं दशपुरुषा भक्षयन्ति”
नारा० ।

दशबल पु० दश बलानि यस्य । वुद्धदेवे अमरः तानि च

बलानि “दानशीलक्षमावीर्य्यष्यानप्रज्ञाबलानि च ।
उपायः प्रणिधिर्ज्ञानं दश बुद्धबलानि वै” ।

दशबाहु स्त्री दश बाहवोऽस्याः । दशभुजायां दुर्गायाम् । दशबाहुयुक्ते त्रि०

दशभुजा स्त्री दश भुजा अस्याः । दुर्गायां “इतिवृत्तं पुरा

कल्पे मनोः स्वायम्भुवेऽन्तरे । आविर्भूता दशभुजा देवी
देवहिताय वै” कालिकापु० ५९ अ० ।

दशभूमिग पु० दशसु भूमिषु दानादिबलेषु गच्छति गम--ड ।

बुद्धे हेमच० ।

दशभूमीश पु० दशानां दानादीनां भूमीनामीशः । बुद्धे त्रिका० ।

दशम त्रि० दशानां पूरणे डटि नान्तत्वात् मट् । दशसं-

ख्यायाः पूरणे । “दशमस्त्वमसि” वेदान्तपरिभाषा । “नवमे
दशमे मासि प्रबलैः सूतिमारुतैः” याज्ञ० । “आददी-
ताथ षड़्भागं प्रनष्टाधियतान्नृपः । दशमं द्वादशं वापि
सतां धर्ममनुस्मरन्” । यद्यपि स्यात्तु सत्पुत्रोऽप्यपु-
त्रोऽपि वा भवेत् । नाधिकं दशमाद्दद्याच्छूद्रापुत्राय
धर्मतः” मनुः । स्त्रियां ङीप् । सा च “शतायुर्वे पुरुषः”
इति श्रुतेः पुरुषस्यायुःकालस्य शतमंख्यकतया तस्य
दशभिर्विभागे नवतेरूर्द्धं दशवर्षावच्छिन्ने २ काले पुरुषाव-
स्थादौ स्त्री । “यत्र स्युः सोऽत्र मानार्हः शूद्रोऽपि
दशमीं गतः” । “चक्रिणो दशमीस्थस्य रोगिणो भारिणः
स्त्रियाः । स्नातकस्य च राज्ञश्च पन्था देयो वरस्य च” मनुः ।
चन्द्रस्य दशमकलाक्रियारूपे तदुपलक्षिते वा काकभेद-
रूपे ३ तिथिभेदे स्त्री । सा च शुक्ला एकादश्या, कृष्णा तु
नवम्या युता ग्राह्या । “सम्पूर्णा दशमी कार्य्या पूर्वया
परयाथ वा । युक्ता न दूषिता यस्मादिति सा सर्वतो
मुखी” । यथा सम्पूर्णा दोषरहिता तथा विद्धापीति
विकल्पे व्यवस्थापयति विष्णुधर्मोत्तरीयम् । “शुक्लपक्षे
तिथिर्ग्राह्या यस्यामभ्युदितोरविः । कृष्णपक्षे तिथिर्ग्राह्या
थस्यामस्तमितो रविः” । “आरभ्य तस्यां दशमीञ्च यावत्”
तिथित० । “कृष्णपक्षे दशम्यादि वर्जयित्वा चतुर्दशीम्” मनुः ।

दशमभाव पु० कर्म० जन्मवर्षादिलग्नांशविशेषानीतेषु तन्वादि-

द्वादशभावेषु दशमे भावे । तदानयनप्रकारो यथा ।
“पूर्वं नतं स्याद्दिनरात्रिखण्डं दिवानिशोरिष्टघटीविही-
नम् । दिवानिशोरिष्टघटीषु शुद्धं द्युरात्रिखण्डं त्व-
परं नतं स्यात् । तत्काले सायनार्कस्य भुक्तभोग्यांशसं-
गुणात् । स्वोदयात् खाग्निलब्धं यत् भुक्तं भोग्यं
रवेस्त्यजेत् । इष्टनाड़ीपलेभ्यश्च गतगम्यान्निजोदयात् । शेषं
खत्र्याहतं भुक्तमशुद्धेन लवादिकम् । अशुद्धं शुद्धभे
हीनयुक् तनुर्व्ययनांशकम् । एवं लङ्कोदयैर्भुक्तभोग्यं
शोध्यं पलीकृतात् । पूर्वपश्चान्नतादन्यत् प्राग्वत्तद्दशमं
भवेत्” । जातकोपयोपयोगितद्भावे शुभाशुभं सर्वार्थचि०
उक्तं यथा
“दशमात् प्रवृत्तिमाज्ञां कीर्त्तिं वृष्टिं प्रवासपूर्त्तादीन् ।
मानं कर्माजीवं जानुस्थानं च निर्दिशेद्धीमान् । कर्मा-
धिपे हीनबले सपापे कर्मादिवैकल्यमुशन्ति तज्ज्ञाः ।
कर्मेशवागीशशशाङ्कपुत्रावीर्यान्विता यज्ञकरा भवन्ति ।
शुभग्रहैर्दृष्टिसमन्वितास्ते वीर्य्यान्विता यज्ञविशेषमाहुः ।
दुःस्थाः शशाङ्कात्मजजीवशुक्राः पापेक्षिताः कर्मविनाश-
माहुः । नाशस्थितास्तत्र तदंशनाथास्तद्युक्तराशेरधिपाश्च
नाशम् । राहौ च माने यदि वा दिनेशे भागीरथी
स्नानमुशन्ति तज्जाः । माने च मीने यदि वा ससौम्ये
भौमान्विते वा भविता च मुक्तिः । जलर्क्षगे पूर्णशशाङ्कजीवे
ग्रानस्थिते गाङ्गजलादिपूतः । माने गुरौ शुक्रयुते च
केन्द्रे खोच्चस्थिते तादृशतोयपूतः । माने धने शुक्रयुते
सजीवे केन्द्रोच्चगे तादृशतोयपूतः । बुधे व्यये वा यदि वा
तदीशे स्वोच्चान्विते तादृशपुष्पभाक् स्यात् । चन्द्रे तृतीये
जलराशियुक्ते सौम्यान्विते तादृशपुष्पभाक् स्यात् । शुभे-
श्वरे केन्द्रयुते जलर्क्षे सौम्येक्षिते तादृशतोयपूतः । बुधे
सजीवे यदि वा सभौमे प्राकारकृन्मण्डपगोपुरादीन् ।
मानस्थिते तद्गृहनाथयुक्ते करोति जीर्णोद्धरणादि
तत्र । करोति कूपादितटागभूमिं कर्मेश्वरे गोपुरभागयुक्ते ।
मृद्वंशके वा शुभदृष्टियुक्तभाग्येश्वरेणापि निरीक्षिते वा ।
चन्द्रात्मजे कर्मगते तदीशे भाग्यस्थिते पापविवर्जिते-
ऽस्मिन् । सौम्येक्षिते शोभनभावयुक्ते यज्ञस्य कर्त्ता स
भवेत् तदानीम् । कर्माधिपेऽस्मिन् यदि सोमपुत्रे स्वोच्च-
स्थिते वा यदि धर्मराशौ । विवर्जितः स्याच्छिखिराहु-
पापैर्यज्ञस्य कर्त्ता स भवेत्तदानीम् । कर्माधिपे स्वोच्चगते
सपापे नीचांशगे नाशगतेऽपि तस्मिन् । विघ्नो भवत्येव
मखस्य तस्य क्रूरादिषष्ठांशगतेऽपि चैवम् । तुङ्गस्थिते
सोमसुते तदीशे स्वोच्चान्विते सोमसुतेन दृष्टे । शुभे-
क्षिते वा सबुधे स्वराशौ यज्ञस्य कर्त्ता स भवेत्तदानीम् ।
आज्ञास्थानाधिपे सौम्ये शुभदृष्टियुतेऽपि वा । शोभनांश-
पृष्ठ ३४८१
गते वापि जातस्त्वाज्ञाधिपो भवेत् । आज्ञास्थानगते सूर्ये
भूमिपुत्रेऽथ वा युते । केन्द्रान्विते तदीशेऽपि क्रूरामाज्ञां
करोति सः । आज्ञाधिपे मन्दयुते रन्ध्रनाथेन संयुते ।
क्रूरांशे केन्द्रराशौ वा क्रूरामाज्ञां करोति सः । माना-
धिपे केन्द्रयुते शुभयुक्तेक्षितेऽपि वा । क्रूरषष्ठांश-
संयुक्ते सौम्यामाज्ञां करोति सः । राहुमन्दयुते माने
रन्ध्रे राहौ ध्वजेऽपि वा । नीचस्थे धर्मभावेशे क्रूरा-
माज्ञां करोति सः । शशाङ्के कर्किसंयुक्ते गुरुशुक्रनिरी-
क्षिते । पारावतादिभागस्थे सत्कीर्त्तिसहितो भवेत् ।
तदीशे शुभसंयुक्ते शुभमध्यगतेऽपि वा । शुभग्रहाणा-
संशे वा सत्कीर्त्तिरहितो भवेत् । कान्तिस्थानाधिपे
सौम्ये स्वोच्चमित्रस्ववर्गगे । सौम्यषष्ठांशके वापि
सत्कीर्त्तिसहितो भवेत् । तदीशे देवलोकस्थे सिंहांशे
शुभनायके । बलपूर्णे विलग्नेशे सत्कीर्त्तिसहितो भवेत् ।
पापग्रहाणां सम्बन्धे माननाथे बलक्षये । क्रूरषष्ठां-
शसंयुक्ते सत्कीर्त्तिसहितो भवेत् । अपकीर्त्तियुतो जातः
कर्मस्थे च रवौ शनौ । पापांशके पापदृष्टे पापमध्य-
गतेऽपि तत् । शुभग्रहाणां सम्बन्धे मानतन्नायकेऽपि
वा । स्वोच्चे वा स्वगृहे वापि जातो मानी दृढ़व्रतः ।
इङ्गितज्ञोऽपि मानी स्यान्माने जीवेऽथ वा शुभे । तदीशे
शुभसम्बद्धे शुभमध्यगतेऽपि वा । पापे माने पापदृष्टे
तदीशे नीचराशिगे । पापराश्यंशके वापि मानहीनो
भवेन्नरः । मानाधिपे चरांशस्थे सञ्चारसहितो भवेत् ।
स्थिरांशस्थैर्य्यमुद्दिष्टं मृगयात्र द्विदेहगे । षष्ठेशे कर्म-
राशिस्थे कर्मेशे मन्दसंयुते । केन्द्रत्रिकोणगे वापि दासी
दासान् विनिर्दिशेत् । कर्माधिपस्थांशपतौ शनिसम्बन्ध-
संयुते । षष्ठाधिपस्य सम्बन्धे बहुदासान् विनिर्दिशेत् ।
शुभग्रहेण संदृष्टे कर्मराशौ तदीश्वरे । भानुपुत्रेण वा
युक्ते बहुदामान् विनिर्दिशेत् । कर्मनाथेन वा भुक्ति-
प्रश्ने पूर्तिं विनिर्दिशेत् । तत्र पापसमायोगे जानुदौर्व-
ल्यमादिशेत्” ।
वर्षलग्नात् दशमभावफलादिकं नील० ता० उक्तं यथा
“सबलेऽव्दपतौ खस्थे राज्यार्थसुखकीर्त्तयः । स्था-
नान्तराप्तिरन्यस्मिन् केन्द्रे गृहसुखाप्तयः । इत्थं
वली रविः खस्थः पूर्वार्जितपदाप्तिकृत् । एकादशेऽस्मिन्
सख्यं स्यान्नृपामात्यगुणोत्तमैः । रविस्थानेन्थिहा लग्ने
स्वे वा राज्याप्तिसौख्यदा । नीचेऽर्के पापसंयुक्ते भूपा-
द्बन्धवध दिशेत् । सिंहे रविर्बली खस्थः स्थानलाभनृपा-
श्रय० । स्थानान्तराधिकाराप्तिः इन्दुः सारपदे बली ।
खेशलग्नेशवर्षेशेत्थशालो राज्यदायकः । वर्षेशे राज्य-
सहमेऽर्केत्थणाले महान्नृपः । शनिस्थाने कुजः पश्यन्
मुथहां पापकृन्मतः । नृपभीतिं वित्तनाशं दद्याद्दशमगो
यदि । ईदृशे त्रिनवस्थेऽस्मिन् दग्धे नष्टेऽघसञ्चयः ।
मन्दोऽव्दपोऽधिकारी त्रिधर्मगे धर्मवृद्धिदः । तस्मिन्
दग्धेऽपि नष्टे च पापकृद्धर्मनिन्दकः । ईदृशीदृक्फलं
सूर्य्ये गुरावित्थं नयार्थभाक् । तत्रस्था सुस्थहा पुण्या-
गमपापं खलाश्रयात् । सूतौ खेशे रवौ खस्थे वर्षे-
मुथशिलं यदि । लग्नाधिपेन राज्याप्तिरुक्ता वीर्य्यानुमा-
नतः । घर्मकर्माधिपौ दग्धौ धर्मराज्यक्षयावहौ” ।

दशमहाविद्या स्त्री दशावृत्ता महाविद्या । “कालो तारा

महाविद्या षोड़शी भुवनेश्वरी । भैरवी छिन्नमस्ता च
विद्या धूमावती तथा । वगला सिद्धविद्या च मातङ्गी
कमलात्मिका । एता दश महाविद्याः सिद्धविद्याः प्रकी-
र्त्तिताः” इति तन्त्रोक्तेषु दशसु देवीमूर्त्तिभेदेषु ।

दशमालिक पु० १ देशभेदे २ तन्नृपे ३ तद्वासिजने च ब० व० ।

“तथैव रमणाश्चीनास्तथैव दशमालिकाः” भा० भी० ९ अ० ।

दशमास्य पु० दश मासान् गर्भे स्थितः यत् । दशमासान्

व्याप्य गर्भे स्थिते बाले । तथाभूतस्य गर्भात् सुखनिर्गमाय
पाठ्यमृक्त्रयं ऋ० दर्शितं यथा ।
“यथा वातः पुष्करिर्णी समिङ्गयति सर्वतः । एवा
ते गर्भ एजतु निरैतु दशमास्यः” ऋ० ५ । ७८ । ७ । “यथा
वातो यथा वनं यथा समुद्र एजति । एवा त्वं दशमास्यः
सहावेहि जरायुणा” ८ । “दश मासाञ्छयानः
कुमारो अधिमातरि । निरैतु जीवो अक्षतो जीवो
जीवन्त्या अधि” ९ । “एतदाद्यृक्त्रयं गर्भस्राविण्युपनि-
षत् । “एतदाद्यृक्त्रयेणासौ सप्तवध्रिः स्वयोषितः । गर्भिण्याः
प्रसवायाशु स्तुतवानश्विनावृषिः” । “यथा वातः पुष्करिणों
सर आदिकं सर्वतः समिङ्गगयति सम्यक् चालयति
एवैवं तव गर्भ एजतु कम्पताम् । इतस्ततः सञ्चरतु ।
दशमास्यो दश मासान् गर्भे स्थितो निरैतु” । निर्गच्छतु
“वातो यथा कम्पमानो वनं कम्पयति स्वयम् । यथा
समुद्रश्चलति चाल्यते वाथ वायुना । स्थित्वा दशैव मासांस्त्वं
गर्भोल्वेन सुवेष्टितः । निर्गच्छ जठरान्मातुर्जरायुज-
स्ततः पतेत् । दशमासानुषित्वासौ जननीजठरे सुखम् ।
निर्गच्छतु सुखं जीवो जननी चापि जीवतु” भा० ।

दशमिन् त्रि० तवतेरुर्द्धं दशमी साऽवस्थाभेदाऽस्त्यस्य

पूरणार्थात् इनि । नवत्यूर्द्धवयस्के अतिवृद्धे अमरः ।
पृष्ठ ३४८२

दशमीस्थ त्रि० दशम्यामवस्थायां तिष्ठति स्था--क ।

१ अतिवृद्धे दशमशब्दे उदा० । २ स्मरकृतानां कामिनां
दशानां मध्ये नाशरूपां दशां प्राप्ते च दशाशब्दे दृश्यम् ।

दशमुख पु० दश मुखान्यस्य । १ रावणे “गत्वा चोर्द्ध्वं

दशमुखभुजोच्छ्वासितप्रस्थसन्धेः” मेघ० । २ महाकालीरूपे-
देवीभेदे स्त्रो “नीलाश्मद्युतिमास्यपाददशकां सेवे
महाकालिकाम्” महाकालीध्यानम् । तस्या दशास्यवत्त्वा-
त्तथात्वम् । दशवदनादयोऽप्यत्र ।

दशमुखरिपु पु० ६ त० । रामे “सीतां हित्वा दशमुखरिपु-

र्नोपयेमे यदन्याम्” रघुः ।

दशमूत्रक न० दशानां मूत्राणां समाहारा । दशानां

प्राणिनां गोमहिषाजाविहयगजखरोष्ट्रमानुषमानु-
षीणां मूत्रे । प्राणिभेदे तद्गुणाः सुश्रुते उक्ता यथा
“गोमूत्रं कटुतीक्ष्णोष्णं सक्षारत्वान्न वातलम् । लघ्व-
ग्निदीपनं मेध्यं पित्तलं कफवातजित् । शूलगुल्मोदरा-
नाहविरेकास्थापनादिषु । मूत्रप्रयोगसाध्ये च १ गव्यं मूत्रं
प्रयोजयेत् । दुर्नामोदरशूलेषु कुष्ठमेहाविशुद्धिषु ।
आनाहशोफयुल्मेषु पाण्डुरोगे च माहिषंम् २ । कासश्वासा-
पहं शोषकामलापाण्डुरोगनुत् । कटुतिक्तान्वितं छाग ३
मीषन्मारुतकोपनम् । कासप्लीहोदरश्वासशोषवर्चोग्रहे
हितम् । सक्षारन्तिक्तकटुकमुष्णं वातघ्नमाविकम् ४ । दीपनं
कटुतीक्ष्णोष्णं वातचेतोविकारनुत् । आश्वं ५ कफहरं
मूत्रं कृमिददुषु शस्यते । सतिक्तं लवणं भेदि वातघ्नं
पित्तकोपनम् । तीक्ष्णं क्षारे किलासे च नागं ६ मूत्रं
प्रयोजयेत् । गरचेतोविकारघ्नं तीक्ष्णं ग्रहणिरोगनुत् ।
दीपनं गार्दभं ७ मूत्रं कृमिवातकफापहम् । शोफकुष्ठो-
दरोन्मादमारुतक्रिमिनाशनम् । अर्शोघ्नं कारभं ८ मूत्रं
भानुषन्तु ९ १० विषापहम्” ।

दशमूल न० दशसंख्यकानां मूलानां समाहारः पात्रा० न वा

ङीत् । चक्रदत्तोक्ते पाचनभेदे “विल्वश्यीनाकगाम्भारी
पाटलागणिकारिकाः । दीपनं कफवातघ्नं पञ्चमूलमिदं
महत् । शालपर्णीपृश्निपर्णीवृहतीद्वयगोक्षुरम् ।
वातपितहरं वृष्यं कनीयः पञ्चमूलकम् । उभयं दशमूलन्तु
सन्निपातज्वरापहम् । कासे श्वासे च तन्द्रायां पार्श्व-
शूले च शस्यते । पिप्पलीचूर्णसंयुक्तं कण्ठहृद्ग्रहनाश-
नम्” । अत्र वा ङीप् । दशमूलीरसे सर्पिः” चक्रद० ।

दशमूलघृत न० चक्रदत्तोक्ते ज्वरध्ने घृतभेदे ।

“दशमूलीरसे सर्पिः सक्षीरे पञ्चकोलकैः । सक्षारै-
र्हन्ति तत्पूर्वं ज्वरकासाग्निनन्दताः । वातपित्तकफ-
व्याधीन् प्लीहानं चापि पाण्डुताम्” । २ तत्रोक्ते
कासघ्ने घृतभेदे च । “दशमूलीकषायेण भार्गीकल्कं पचेत्
घृतम् । दक्षतित्तिरिनिर्यूहे तत्परं वातकासनुत्” ।

दशमूलतैल न० चव्रदत्तोक्ते बाधिर्य्यनाशके तैलभेदे ।

“दशमूलीकषायेण तैलप्रस्थं विपाचयेत् । एतत्कल्कं
प्रदायैव बाधिर्य्ये परमौषधम्” ।

दशमूलषट्पलघृत न० चक्रदत्तोक्ते कासादिघ्ने घृतभेदे ।

“दशमूलाचतुःप्रस्थे रसे प्रस्थोन्मितं हविः । सक्षारै
पञ्चकोलैस्तु कल्कितं साधु साधितम् । कासहृत्पार्शशू-
लघ्नं हिक्काश्वासनिवर्हणम् । कल्कं षट्पलमेवात्र ग्राह-
यन्ति भिषग्वराः” ।

दशमूलाद्यघृत न० चक्रदत्तोक्ते कासनाशके घृतभेदे

“दशमूलाढ़के प्रस्थं घृतस्याक्षसमैः पचेत् । पुष्कराह्व-
शटीविल्वसुरसव्योषहिङ्गुभिः । पेयानुपानं तत् देयं कासे
वातकफाधिके । श्वासरोगेषु सर्वेषु कफवातात्मकेषु च”

दशयोग पु० दशानामङ्गानां योगः । विवाहादौ वर्ज्ये

दोषभेदे तत्स्वरूपप्रतिप्रसवादिकम् उपयमशब्दे १२६८
पृ० दृश्यम् । अयं दशयोगभङ्ग इत्यन्ये । २ दशहराशब्दे
वक्ष्यमाणे ज्यैष्ठमासशुक्लपक्षादिदशके च ।

दशरथ पु० सूर्य्यवंश्ये अजनृपात्मजे रामचन्द्रपितरि नृपभेदे

मेदि० “अयोध्यायां महाराजो रघुरासीन् महाबलः ।
अजस्तु रघुतो जज्ञे अजाद्दशरथोऽभवत्” हरिवं० १५ अ० ।

दशरथसुत पु० ६ त० । रामे दशरथात्मजादयोप्यत्र ।

दशरश्मिशत पु० दश रश्मिशतान्यस्य । सहस्रकिरणे सूर्य्ये

“दशरश्मिशतोपमद्युतिम् । यशसा दिक्षुदशस्वपि श्रुतम् ।
दर्शपूर्वरथं यमाख्यया दशकण्ठारिगुरुं विदुर्बुधाः” रघुः ।

दशरात्र पु० दशभिः रात्रिभिर्निर्वृत्तः ठञ् तस्य लुकि

तद्धितार्थद्वि० अच् समा० । १ दशरात्रसाध्ये यागभेदे
स च यागः कात्या० २५ । ११ । १७ श्रौ० उक्तः । दशानां
रात्रीणां समाहारः । २ रात्रिदशके न० । अस्य रात्रान्त-
त्वेऽपि संख्यावाचकपूर्वकत्वात् क्लीवता । “प्रतिषेधैः
समं तत्र दशरात्रमशुध्यति । यच्छेषं दशरात्रस्य
तावदेवाशुचिर्भवेत्” मनुः । “अथ चेद्दशरात्रं सन्निपतेत्
आद्यं दशरात्रम्” शु० त० ।

दशरूपक न० दश रूपकाणि दृश्यकाव्यानि प्रतिपाद्य-

त्वेन सन्त्यत्र अच् । नाटकादिलक्षणप्रतिपादकग्रन्थभेदे ।
पृष्ठ ३४८३

दशरूपभृत् पु० दश मत्स्यादीनि रूपाणि बिभर्त्ति

भृक्विप् । मत्स्यादिदशाकृतिधारके विष्णौ शब्दार्थक० ।
दशावतारशब्दे तद्रूपाणि दृश्यानि ।

दशलक्षणक पु० दश लक्षणान्यस्य कप् । धर्म्मे “दश लक्षण-

को धर्मः सेवितव्यः प्रयत्नतः” इत्युपक्रमे “धृतिः क्षमा
दमोऽस्तेयं शौचमिन्द्रियनिग्रहः । धीर्विद्या सत्यम-
क्रोधो दशकं धर्म्मलक्षणम्” मनुः ।

दशवाजिन् पु० दश वाजिनो रथेऽस्य । १ चन्द्रे हेमच० ।

“दशाश्वं श्वेतपद्मस्थं विचिन्त्योमाधिदैवतम्” चन्द्रध्या० ।

दशवार्षिक त्रि० दशसु वर्षेषु भवः ठञ् उत्तरपदवृद्धिः ।

दशवर्षभवे स्त्रियां ङीप् । “पश्यतोऽब्रुवतो हानिर्भू-
मेर्विंशतिवार्षिकी । परेण भुज्यमानाया धनस्य
दशवर्षिकी” याज्ञ० ।

दशविध त्रि० दश विधा प्रकारा यस्य । दशप्रकारे “भेदस्त-

मसोऽष्टविधो दशविधो महामोहः” सा० का० ।
दशविधसंस्कारः ।

दशवीर न० दश वीरा यत्र । सत्रभेदे । “तदेतच्छाक्त्यानां

दशवीरमेषां दश वीरा जायन्ते य एतदुपयन्ति” ता० ब्रा०
२५ । ७ । ४ । “तदेतदुक्तं सत्रं शक्त्यानां दशरीरं वीरयन्त्य-
मित्रानिति वीराः पुत्रास्तेषां दशसंख्यानां साधकम् अतो
ये दीक्षिता एतदुपयन्ति तेषामपि दश वीराः पुत्रा ।
जायन्ते” भा० ।

दशव्रज पु० ऋषिभेदे । “याभिः कण्व मेधातिथिं यज्ञं याभिर्वशं दशव्रजम्” ऋ० ८ । ८ । २०

दशशत न० दशगुणितं शतम् । १ सहस्रसंख्यायां २ तत्सं-

ख्येये च । “गवां दशशतं धनम्” भा० व० ६८ अ० ।

दशशतरश्मि पु० दशशतं सहस्रं रश्मयोऽस्य । सूर्य्ये हेमच० ।

दशशताङ्घ्रि स्त्री दश शतमङ्घ्रयोऽस्य । १ शतमूल्यां २ शता

वर्य्याम् पारस्करनि० ।

दशसप्ता स्त्री दश च सप्त चास्यां विष्टुतौ । साम्नो

विन्यासभेदेन विष्टुतिभेदे तत्प्रकारादिकं ता० ब्रा०
भाष्ये दर्शितं यथा ।
“अथ सप्तदशस्तोमस्य दशसप्ताख्या विष्टुतिः । सा
द्विःप्रकारा । सप्तास्थितेत्यपरा सा च द्विःप्रकारा ।
ततंः पञ्चभ्यस्तिसृभ्यो नवभ्यश्चेत्येकः । तत उद्यती
ततो भस्त्रेति दशसप्तसप्तास्थितयोर्मेदेन सहेत्येवं सप्त
विष्टुतयः । तद्याद्यां दशसप्ताख्यां विष्टुतिं दर्शयति” भा० ।
“पञ्चभ्यो हिङ्करोति स तिसृभिः स एकया स एकया,
पञ्चभ्यो हिङ्करोति स एकया स तिसृभिः स एकवा,
सप्तभ्यो हिङ्करोति स एकया स तिसृभिः स तिसृभि-
र्दशसप्ता सप्तदशस्य विष्टुतिः” ता० ब्रा० २ । ७ । १ । “स्पष्टार्थः ।
आदितो द्वाभ्यां पञ्चर्च्चाभ्यां हिङ्करोति पर्य्यायाभ्यां दश ।
उत्तरे सप्तेति दश च सप्त चास्यां विष्टुताविति दशसप्तेयं
सप्तदशस्तोमस्य विष्णुतिः” । तदुत्तरत्र खण्डादौ
उद्यतो सप्तास्थिताभस्त्राणां प्रकारो वर्णितस्तत्रैव दृश्यः

दशसाहस्र न० दश गुणितं सहस्रं परिमाणमस्य अण्

उत्तरपदवृद्धिः । १ दशगुणितसहस्रमिते अयुते २
तत्संख्येये च “भूतानां दशसाहस्रं परिघेण समाहतम्”
हरिवं० २५२ अ० ।

दशसाहस्रिक त्रि० दश सहस्राणा प्रमाणमण्ठञ् उत्तरपद-

वृद्धिः । अयुतमितभागादौ । “दशसाहस्रिकी भागस्तेषां
धात्रा प्रकल्पितः” हरिवं० ११३ अ० ।

दशस्य त्रि० दशं दानमिच्छति यक् सुक् च नामधातुः दाने-

च्छायां प० अक० सेट् दशस्यति अदशस्यीत् । “एवा नो
अग्ने विक्ष्वा दशस्य” ऋ० ७ । ४३ । ५ । “इरावती धेनुमती
हि भूतं “सूयवसिनी मनुषे दशस्या” ७ । ९९ । ३ ।

दशहरा स्त्री दश पापानि हरति हृ--ट । गङ्गाजन्मदिने

ज्यैष्ठशुक्लदशम्याम् ।
“ज्यैष्ठे मासि क्षितिसुतदिने शुक्लपक्षे दशम्यां हस्ते
शैलान्निरगमदियं जाह्नवी मर्त्यलोकम् । पापान्यस्यां
हरति च तिथौ सा दशेत्याहुरार्य्याः पुण्यं दद्यादपि
शतगुणं वाजिमेधायुतस्येति” शङ्खः । अपि च “अदत्ता-
नामुपादानं हिंसा चैव विधानतः । परदारोपसेवा च
कायिकं त्रिविधं स्मृतम् । पारुष्यमनृतं चैव पैशुन्य-
ञ्चापि सर्वशः । असम्बद्धप्रलापश्च वाङ्मयं स्यात्
चतुर्विधम् । परद्रव्येष्वभिध्यानं मनसानिष्टचिन्तनम् ।
वितथाभिनिवेशश्च मानसं त्रिविधं स्मृतम् । एतानि
दशपापानि हर त्वं मम जाह्नवि! । दशपापहरा यस्मात्
तस्माद्दशहरा स्मृता । “ज्येष्ठे मासि सिते पक्षे दशम्यां
बुधहस्तयोः । गरानन्दे व्यतीपाते कन्याचन्द्रे वृषे
रवौ । दशयोगे नरः स्नात्वा सर्वपापैः प्रमुच्यते” इति
स्कन्दपुराणे काशीखण्डे । अत्र कुजबुधयोः कल्पभेदेन
व्यवस्था ज्ञेया । ३ सेतुबन्धरामेश्वरयोः प्रतिष्ठादिने
यथोक्तं स्कान्दे सेतुमाहात्म्ये “ज्यैष्ठे मासि सिते
पक्षे दशम्यां बुधहस्तयोः । गरानन्दे व्यतीपाते कन्या-
चन्द्रे वृषे रवौ । दशयोगे सेतुमध्ये लिङ्गरूपधरं हरम् ।
रामो वै स्थापयामास शिवलिङ्गमनुत्तमम् । अता-
पृष्ठ ३४८४
ऽस्यां तु विशेषेण पूजा कार्य्या हितार्थिभिः” । अत्र
स्नानाङ्कसङ्कल्प उक्तः गारुड़े २१५ अ० यथा । “अद्य
हस्ते तु नक्षत्रे दशम्यां ज्यैष्ठके सिते । दशपापहरा-
याञ्च अदत्तादानकल्मषम् । विरुद्धाचरणं हिंसा
परदारोपसेवनम् । पारुष्याहृतपैशुन्यमसम्बद्धं प्रभाषणम् ।
परद्रव्याभिध्यानञ्च मनसानिष्टचिन्तनम् । एतद्दशाघघा-
ताय गङ्गास्नानंनं करोम्यहमिति” ।

दशा स्त्री दन्श--अङ नि० नलोपः । १ अवस्थायां २ दीपव-

र्त्याम्, मेदि० “अपेक्षन्ते न च स्नेहं न पात्रं न दशान्त-
रम् । परोपकारनिरता मणिदीपा इवोत्तमाः” इत्युद्भटः ।
३ चित्ते, अजयपालः । ४ कालकृतविशेषरूपायां ५ गर्भवास-
जन्मादिवाल्ययौ वनादिरूपायामवस्थायाञ्च । ताश्च “गर्भ-
वासः १ जन्म २ वाल्यं ३ कौमारं ४ पौगण्डम् ५ यौवनं ६ स्था-
विरता ७ जरा ८ प्राणरोधः ९ नाश १०” नीलकण्ठेनोक्ताः
दश वेद्याः । ५ कामकृते विरहिणां नेत्ररागाद्यवस्थादशके,
ज्योतिषोक्ते नक्षत्रानुसारेण सूर्य्यादिग्रहाणां स्वामित्वेन
६ भोग्यकाले च । तत्र स्मरकृतदशाश्च “नयनप्रीतिः प्रथमं
चित्तासङ्गस्ततोऽथ सङ्कल्पः । निन्द्राच्छेदस्तनुता विषयनि
वृत्तिस्त्रपानाशः । उन्मादो मूर्च्छा मृतिरित्येताः स्मरद-
शादशैव स्युः” । ग्रहाणां स्वस्वसूचितफलविपाककाल-
भेदरूपा दशा च नानाविधा तत्र “कलौ नाक्षत्रिकी-
दशा” इत्युक्तेः नक्षत्रसूचितैव दशा ग्राह्या साऽपि
नानाविधा षट्त्रिंशद्वर्षीया मङ्गलादियोगिनीदशा, अष्टो-
त्तरीयवर्षात्मिका रव्याद्यष्टग्रहाणां दशा । विंशोत्तरी-
यवर्षात्मिकासूर्य्यादिनवग्रहैर्विपच्यमानफलात्मिका च तत्र
योगिनीदशा तु “गुणं संयोज्य जन्मर्क्षे वसुभिर्भागमाह-
रेत् । मङ्गलाद्यास्त्रिरावृत्ता ह्यष्टौ ज्ञेया महादशाः” ।
“मङ्गला पिङ्गला धन्या भ्रामरी भद्रिका तथा ।
उल्का सिद्धा सङ्गटा च एकोत्तरमिताः क्रमात्”
इत्युक्त्यनुसारेण ज्ञेया । तदानयनञ्चान्यत्र “आर्द्रा
दिभिस्त्रिरावृत्त्या ह्यष्टौ ज्ञेयाः क्रमादमूः । मङ्गला
पिङ्गला धन्या भ्रामरी भद्रिका तथा । उल्का
सिद्धां सङ्कटा च एकैकोत्तरवत्सरा । अश्विन्यादित्रयं
तत्र भ्रामर्य्यादित्रयेऽधिकम् । सिद्धायां रोहिणी शेषे
सङ्कटायां मृगः परः । मङ्गलायाः पतिश्चन्द्रः पिङ्ग-
लाया रविस्तथा । धन्यायास्तु बुधः स्वामी भ्रामर्य्या
धरणीसुतः । भद्रिकाया पतिर्जीव उल्काया
रविनन्दनः । सिद्धायाः भार्गवः स्वासी सङ्कटायास्तु दानवः”
इत्येवं क्रमात् दशाज्ञेया । तासां सुखेन ज्ञानाय
योगिनीदशाचक्रम् ।
  • दशानाम म पि ध भ्रा भ उ सि सं०
  • तदीशाः च र बु कु जी श शु रा
  • मानवर्षाः १ २ ३ ४ ५ ६ ७ ८
  • जन्मनक्ष- ६ ७ ८ ९ १० ११ १२ १३
  • त्रानुसारेण १४ १५ १६ १७ १८ १९ २० २१
  • तासां प्रवेश- २२ २३ २४ २५ २६ २७ ४ ५
  • नक्षत्राणि । १ २ ३
त्रैराशिकेन नक्षत्रभुक्तकालमपहाय प्रकृतदशाका-
लात् गतभोग्यकालानुसारेण दशाकालाः कल्प्याः एवं
सर्वत्र ।
विंशोत्तरीयदशा तु “रविश्चन्द्रस्तथा भौमो
बुधजीवौ शनैश्चरः । बुधः केतुः भृगुश्चेति कृत्तिकादौ
त्रिधा भ्रमेत्” । दशावर्षाश्च “षट् सूर्य्यस्य दशा वर्षाः
दिङ्मिता रजनीपतेः । कुजस्य सप्त वर्षाः स्युः राहोरष्टा-
दशैव तु । गुरोः षोड़श विज्ञेयाः शनेरेकोनविंशतिः ।
विदः सप्तदश ज्ञेया केतूनां सप्त कीर्त्तिताः । भृगोर्विंश-
तिरुद्दिष्टा सूर्य्यादीनां महादशाः” ।
विंशोत्तरीयदशाचक्रम् ।
  • दशेशाः र च म रा जी श बु के शु
  • वर्षमानम् ६ १० ७ १८ १६ १९ १७ ७ २०
  • जन्मनक्षत्रा- ३ ४ ५ ६ ७ ८ ९ १० ११
  • नुसारेण १२ १३ १४ १५ १६ १७ १८ १९ २०
  • प्रवेशनक्षत्राणि २१ २२ २३ २४ २५ २६ २७ १ २
त्रैराशिकेन प्राग्वद्भुक्तभोग्यक्रालानुसारेण दशाकल्पनम् ।
एतद्दशफलानि सर्वार्थचिन्तामणावुक्तानि यथा
“दशानुरोधेन फलं वदन्ति मुनीश्वरा जातशुभाशुभं
तत् । सारं समुद्धृत्य तदेव वक्ष्ये भेदं यथा विस्तरतो
दशानाम् । दीप्तः १ स्वस्थ २ स्तु मुदितः ३ शान्तो ४ हीनो
५ऽतिदुःखितः ६ । विकलश्च ७ खलः ८ कोपी ९ नबधा खेचरो
भवेत् । उच्चस्थः खचरो दीप्तः १ स्वस्थः २ स्वक्षेत्रगो मतः ।
मुदितो ३, मित्रभे ४ शान्तः समगोहीनको ५ ऽधरः । शत्रुभे
दुःखसंयुक्तो ६ विकलः ७ पापसंयुतः । खलः ८ पराजितो
ज्ञेयः कोपी ९ स्यादर्कसयुतः । पृथक् पृथक् फलं तेषां दशा
काले विशेषतः । तत्र नामानुरोधेन परिपाके वदन्ति
हि । पाके प्रदीप्तस्य धराधिपत्यमुत्साह शौर्य्यं धनवाह-
नञ्च । स्त्रीपुत्रलाभं सुखबन्धुपूजां क्षितोश्वरान्मानमुपैति
पृष्ठ ३४८५
विद्याम् १ । स्वस्थस्य खेटस्य दशाविपाके स्वस्थो नृपा-
ल्लब्धधनादिसौख्यम् । विद्यायशःप्रीतिमहत्त्वताश्च
दारार्थभूम्यात्मजधर्ममेति २ । मुदान्वितस्यापि दशाविपाके
वस्त्रादिभूगन्धसुतार्थधैर्यम् । पुराणधर्मश्रवणादिगान-
दानादियानाम्बरभूषणाप्तिम् ३ । दशाविपाके सुखधैर्यमेति
शान्तस्य ४ भूपुत्रकलत्रयानम् । विद्याविनोदान्वितधर्म-
शास्त्रं बह्वर्थदेशाधिपपूज्यताञ्च । स्थानच्युतिर्बन्धुवि-
रोधिता च हीनस्य ५ खेटस्य दशाविपाके । जीवत्यसौ-
कुत्सितहीनवृत्त्या त्यक्तीजनै रोगनिपीड़ितः स्यात् ।
दुःखान्द्वितस्यापि ६ दशाविपाके नानाविधं दुःखमुपैति
नित्यम् । विदेशगो बन्धुजनैर्विहीनश्चौरादिभूपैर्भयमाप्र-
पन्नः । वैकल्यखेटस्य ७ दशाविपाके वैकल्यतां याति
मनोविकारम् । पित्रादिकानां मरणं विशेषात् स्त्रीपु-
त्रयानाम्बरचोरपीड़ाम् । दशाविपाके कलहं वियोगं
खलस्य ८ खेटस्य पितुर्वियोगम् । शत्रुञ्जनानान्धनभूमि-
नाशमुपैति नित्यं स्वजनैश्च निन्द्यः । कोपान्वितस्यापि ९
दशाविपाके पापं समायाति बहुप्रकारैः । विद्यायशः
स्त्रीधनभूमिनाशं राज्ञाञ्च वित्तं हरतेऽत्र रोगी” ।
अथ परमोच्चादिगरविदशाफलानि । भानोर्दशायां परमो
च्चगस्य भूम्यर्थदारात्मजकीर्त्तिशौर्यम् । संमाननं भूमिपतेः
सकाशादुपैति सञ्चारविनोदगोष्ठीम् । उच्चान्वितस्यापि
रवेर्दशायां गोवृद्धिधान्यार्थपरिभ्रमञ्च । संसारयुग्बन्धुजनैर्वि-
रोधं देशाद्विदेशञ्च रतिप्रकोपात् । प्रचण्डवेश्यागमनं क्षि-
तीशादुपैति वृहिं रतिकेलिमानम् । मृदङ्गभेरीरवयुक्तया-
नमन्योन्यवैरं लभते मनुष्यः । आरोहिणी वासरनाय-
कस्य दशा महत्त्वं कुरुतेऽतिसौख्यम् । परोपकारं सुतदा-
रभूमिगोवाजिमातङ्गकृषिक्रियादीन् । दशावरोहा
दिननायकस्य कृषिक्रियावित्तगृहेष्टनाशम् । चोराग्निपीड़ां
कलहं विरोधं नरेशकोपं कुरुते विदेशम् । नीचस्थित-
स्यापि रवेर्विपाके मानार्थनाशं क्षितिपालकोपात् ।
स्वबन्धुनाशं सुतमित्रदारैः पित्रादिकानामपकीर्त्ति-
मेति । अत्यन्तनीचान्वितसूर्यदाये विपत्तिमाप्नोति
मृहच्युतिञ्च । विदेशयानं मरणं गुरूणां स्त्रीपुत्रगोभूमि-
कृषेर्विनाशम् । मूलत्रिकोणस्थरवेर्विपाके क्षेत्रार्थदारात्मज-
बन्धुसौख्यम् । राजाश्रयं गोधनमित्रलाभं स्वस्थानया-
नादिकमेति राज्यम् । स्वक्षेत्रगस्यापि रवेर्दशायां
स्वबन्धुसौख्यं कृषिवित्तकीर्तिम् । विद्यायशःप्रार्थित
राजपूजां स्वभूमिलाभं समुपैति विद्याम् । दशाविपाके
ह्यधिशत्रुगस्य रवेः प्रनष्टार्थकलत्रपुत्रः । गोमित्रपित्रा-
दिशरीरकष्टं शत्रुत्वमायाति जनैः समन्तात् । सपत्न-
राशिस्थितसूर्यदाये दुःखी परिभ्रष्टसुतार्थदारः । नृपाग्नि
चोरैर्विपदं विषादं पित्रोर्विरोधञ्च दशान्तमेति । स्वमि-
त्रराशिस्थितसूर्यदाये स्वभृत्यमित्रात्मजराजपूजाम् । स्वगे-
हवासं स्वजनस्य सङ्गाद् यानादिभूषाम्बरताम्रलाभम् ।
अत्यन्तमित्रर्क्षगतस्य भानोर्दशाविपाके ह्यतिसौख्यमेति ।
स्त्रीपुत्रधान्यार्थमनोविलासतटागयानाम्बरभूषणानि ।
समर्क्षगस्यापि रवेर्दशायां समञ्जनैः स्यात् कृषिभूमिधान्यम् ।
गोवाजियानाम्बरदेहसौख्यं स्त्रीपुत्रदोषं रणपीड़ितः
स्यात् । नीचान्वितस्यापि रवेर्दशायां नीचानुवृत्त्या
कुनखी कुशीलः । स्त्रीपुत्रधान्यार्थपशुक्रियादिमनोविकारं
समुपैति हेयम् । उच्चान्वितस्यापि रवेर्दशायां मनोविलासं
लभते स्ववृत्त्या । तीर्थाभिषेकं हरिकीर्त्तनञ्च प्राकार-
कूपादिपुराणशास्त्रम् । पापान्वितस्य द्युमणेर्विपाके नित्यं
मनः क्लिश्यति हेयबुद्ध्या । कुभोजनं कुत्सितवस्त्रपानं
कुशीलवृत्त्या त्वधनं कृशत्वम् । दिनाधिनाथस्य शुभान्वि-
तस्य पाके सुखं भूमिधनादिवस्त्रम् । इष्टैर्विलासं
स्वजनैः समाजं कल्याणवाग्जालविनोदगोष्ठीम् ।
पापेक्षितस्वापि सहस्रभानोर्दशाविपाके परमन्तु
दुःखम् । पित्रोर्विनाशं सुतदारकष्टं चोराग्निभूपालकृतं
कृशत्वम् । करोति भानुः शुभवीक्षितश्चेत् विद्यायशस्त्री
सुतवाग्विलासम् । कान्तिप्रतापं रतिकेलिसौख्यं
पित्रोः सुखं भूपतिमाननां च । केन्द्रान्वितस्यापि
दिवाकरस्य दशाविपाके नृपदण्डदुःखम् । स्थानच्यु-
तिम्बन्धुवियोगमेति भङ्गः कृषेर्वित्तपरिभ्रमञ्च । त्रिकोण-
संयुक्तरवेर्विपाके बुद्धिभ्रमं राजविमाननञ्च । सौख्या-
दिहानिं निधनं पितुश्च कर्म्मादिवैकल्यमुपैति काले ।
उच्चांशकस्य च दशा विदधाति वृत्तिं नित्यं प्रतापजनितां
महतीं श्रियञ्च । नानाविनोदललितं रतिकेलिसौख्यं
स्त्रीवस्त्रलाभमनिशं पितृवर्गनाशम् । नीचांशयुक्तस्य
रवेर्दशायां भार्यार्थभूपुत्रविदेशयानम् । त्यक्तोजनैर्बन्धुं-
विकुत्सितस्तु मनोविकारं ज्वरमेहरोगम् । आदौ सूर्य-
दशायां दुःखं पितृरोगकृतक्षयश्चाधिः । मध्ये पशुधन-
हानिश्चान्ते विद्यामहत्त्वञ्च । दशाविपाके धनहानि-
मेति षष्ठस्थभानोरतिदुःखजालम् । गुल्मक्षयोद्भूत-
पवित्ररोगं मूत्रादिकृच्छ्रं त्वथवा प्रमेहम् । रन्ध्रस्थभानो-
रपि वा दशायां देहस्य कष्टं त्वथवाग्निचिह्नम् ।
पृष्ठ ३४८६
चातुर्थिकं नेत्रविकारकासं ज्वरातिसारं स्वपदच्यु-
तिञ्च । भानोर्द्वादशगस्य चेद्यदि दशा क्लेशार्थहानिं कृशं
स्त्रीबन्ध्वात्मजभूमिनाशमथ वा पित्रोर्विनाशं कलिम् ।
स्थानात् स्थानपरिभ्रमं विषकृतं राज्ञोभयं पातरुक्
विद्यावादविनोदगोष्ठिकलहं गोवाजिसंपीड़नम् ।
पुत्रोत्पत्तिविपत्तिमत्र कुरुते भानोर्धनस्थस्य वा क्लेश-
म्बन्धुवियोग दुःखकलहं वागदूषणं क्रोधनम् । स्त्री-
नाशं धननाशनं नृपभयं भूपुत्रयानाम्बरं सर्बं
नाशमुपैति तत्र शुभयुक् वाच्यं न चैतत्फलम् । भानोर्वि-
क्रमयुक्तस्य दशा धैर्य्यं महत् सुखम् । नृपमाननम-
र्थाप्तिं भ्रातृवैरं विपत्तथा । सुखस्थितस्यापि रवेर्दशायां
भोगार्थभूभृत्यकलत्रहानिम् । क्षेत्रादिनाशं स्वपदच्युतिं
वा यानच्युतं चोरविषाग्निशस्त्रैः । दारान्वितस्यापि
रवेर्दशायां कलत्ररोगस्त्वथ वा मृतिर्वा । कुभोजनं कुत्-
सितपाकजातं क्षीरादिदध्याज्यविहीनमन्नम् । कर्मस्थि-
तस्यापि रवेर्दशायां राज्यार्थलाभं समुपैति धैर्य्यम् ।
उद्योगसिद्धिं यशसा समेतं जयं विवादे नृपमाननं च ।
आयिस्थितस्यापि दशा विपाके भानोर्धनाप्तिं शुभकर्म-
लाभम् । उद्योगसिद्धिं सुतदारसौख्यं यानादिभूषा-
म्वरदेहसौख्यम् । संज्ञाध्याये यस्य यद्द्रव्यमुक्तं कर्मा
जीवे यस्य यच्चोपदिष्टम् । भावस्थानालोकयोगोद्भवं च
तत्तत्सर्वं तस्य योज्यं दशायाम् । सूर्य्ये स्थानबलाधिके
कृषिधनं गोभूमियानाम्बरं सौख्यं राजसु माननं
परधनैः संयुज्यते कान्तिमान् । तत्पाके शयनाम्बरादि लभते
सर्वोपकारं महाकीर्त्तिं भूषणमिष्टबन्धुसहितं तीर्थाभि-
षेकं महत् । रविर्यदा स्थानबलेन हीनस्तत्पाककाले
बलमर्थनाशम् । स्थानच्युतिं बन्धुविरोधतापं देशाद्विदेशं
समुपैति दुःखम् । दिग्वीर्य्ययुक्ते दिवसेश्वरे तु दिगन्त-
राक्रान्तिधनादिसौख्यम् । तत्तद्दिशः प्राप्तयशोऽर्थभूमिर्नो
चेत्तथा तादृशमत्र नास्ति । तत्कालभानात्तनुते बलिष्ठे
रवौ विपाके कृषिभूमिवित्ते । उद्योगसिद्धिं नृपमाननाञ्च
हीने रवौ कालबलेम नाशम् । निसर्गतः सर्वमुपैति
कालरवौ तु नैसर्गिकवीर्य्ययुक्ते । यानार्थभूषाम्बरदेह-
सौख्यं हीने रवौ चोरनृपाग्निभीतिम् । ० रवौ तु चेष्टा-
धिकवीर्य्ययुक्ते स्वचेष्टितार्थागममेति सौख्यम् । नृपस्य
मानं सुतदारसौख्यं कृष्यादियानाम्बरमत्र हीने ।
रवौ खगानां बलदृष्टियुक्ते त्वचिन्तयित्वा सकलं च
सौख्यम् । तज्जायते तत्परिपाककाले तेनैव हीने
सकलं विनाशम् । क्रूरादिषष्ठांशरिवेर्दशायां स्थान-
च्युतिं वा नृपचोरभीतिम् । कोपाधिकं तत्र शिरोरुजं
च पित्रादिनाशं त्वथवा तदीयम् । मृद्वंशषष्ठांशरवे-
र्दशायां मृद्वंशपानाम्बरभूषणाप्तिम् । नामद्वयं राजसु
पूजितञ्च वेदान्तशास्त्रागमधर्मशास्त्रम् । पारावताद्यंश-
युतस्य भानोर्दशाविपाके महतीञ्च कीर्त्तिम् । बन्ध्वर्थ-
देशाधिपमाननं च पुत्रादिसंमित्रकलत्रलाभम् । स्वोच्चा-
दिजन्यं फलमाहुरादौ पश्चात् फलं खेचरदृष्टिजन्यम् ।
मध्ये फलं स्थानभवं तथैव पापग्रहाणामिह
योजयन्ति । भुजङ्गमत्र्यंशयुतस्य भानोर्दशाविपाकेऽहिभयं
विषाद्वा । नृपाग्निपातित्यमनेकदुःखं पाशादिभृत्त्र्यंश-
युतस्य चैवम् । स्वोच्चस्थोऽपि दिनेशो नीचांशे चेत्कलत्र-
धनहानिः । स्वकुलजबन्धुविरोधः पित्रादीनां तथैव
मुनिवाक्यम् । उच्चांशकयुतो भानुर्नीचस्थीऽपि महत्-
सुखम् । करोति राज्यभारं च दशान्ते विपदं कृशाम्” ।
अथोच्चादिगचन्द्रदशाफलानि “अत्युच्चगस्यापि निशाक-
रस्य दशाविपाके कुसुमाम्बरञ्च । महत्त्वतामेति कलत्र-
लाभं धनायतिं पुत्रमनोविलासम् । उच्चस्थितस्यापि
निशाकरस्य प्राप्तौ दशायां सुतदारवित्तम् । मिष्टान्न-
पानाम्बरभूषणाप्तिं विदेशयानं स्वजनैर्विरोधम् ।
आरोहिणी चन्द्रदशा प्रपन्ना स्त्रीपुत्रवित्ताम्बरसौख्यकीर्त्तिम् ।
करोति राज्यं सुखभोजनञ्च देवार्च्चनं भूसुरतर्पणञ्च ।
निशाकरस्याप्यवरोहकाले स्त्रीपुत्रमित्राम्बरसौख्यहा-
निम् । मनोविकारं स्वजनैर्विरोधं चोराग्मिभपैः पतनं
तटाके । नीचांशगस्यापि निशाकरस्य प्राप्तौ दशायां
विविधार्थहानिम् । कुभोजनं कुत्सितराजसेवा मनोवि-
कारं समुपैति निद्राम् । मूलत्रिकोणस्थितचन्द्रदाये
नृपाद्धनं भूमिसुतार्थदारान् । प्राप्नोति भूषाम्बरमान-
लाभं सुखं जनन्या रतिकेलिलोलम् । स्वक्षेत्रगस्यापि
निशाकरस्य नृपाद्धनप्राप्तिमुपैति सौख्यम् । प्रचण्डवेश्या-
गमनं क्षितीशात् संमाननं स्त्रीसुतबन्धुमौख्यम् । निशा-
करस्याप्यतिशत्रुराशि गतस्य दाये कलहोऽर्थनाशम् ।
कुवस्त्रतां कुत्सितभोजनञ्च क्षेत्रार्थदारात्मजतापयानम् ।
यानाम्बरालङ्करणादिहानिं विदेशयानं परिचारकत्वम् ।
देशान्तरे भ्राम्यति वन्धु हीनो दुःखी परिक्लिश्यति शत्रु-
गेठे । मिंत्रर्क्षगस्यापि निशाकरस्य पाकेऽर्थलाभं क्षिति-
पालमैत्रीम् । उद्योगसिद्धिं जलवस्तलाभं चित्राम्बरा-
भूषणवाग्विलासम् । सुधाकरस्याप्यतिमित्रराशिं गतस्य
पृष्ठ ३४८७
दाये त्वतिसौख्यमेति । विद्याविनोदाङ्कितराजपूजां
क्षेत्रात्मदारात्मजकामलाभम् । दशाविपाके समराशिगस्य
कलानिधः काञ्चनभूमिलाभम् । किञ्चित्सुखं बान्धवरोग-
पीड़ां विदेशयानं लभते मनुष्यः । नीचस्थितस्य हि दशा
विपदं महार्त्तिं क्लेशार्थदुःखवनवासमुपैति काले ।
कारागृहं निगड़पादकृशान्नहीनश्चौराग्निभूपतिभयं
सुतदारशेषम् । क्षीणेन्दुपाके सकल विहीनं राज्यार्थ-
भूपुत्रकलत्रमित्रम् । उन्मादचित्त स्वजनौर्वरोधमृणित्व-
मायाति कुशीलवृत्त्या । पूर्णेन्दुपाके परिपूर्णमेति विद्या
विनोदाङ्कितराजपूजाम् । स्त्रीपुत्रभृ यार्थमनोविलासं
विशेषतः शोभनकर्मलाभम् । केनापि स्वोच्चस्थवियच्चरेण
युक्तस्य चन्द्रस्यं दशाविपाके । मनःप्रसादं मदनाभिरामं
स्त्रीपुत्रभृत्यादिविनोदगोष्ठीम् । पापान्वितस्यापि नि०
शाकरस्य पाकेऽग्निचोरक्षितिपालकोपैः । दुःखं सुतस्त्री-
सुतबन्धुहानिं विदेशयानं त्वशुभादिकर्म । चन्द्रस्य सौम्य
ग्रहसंयुतस्य प्राप्तौ दशायां शुभकर्मलाभम् । गोभूहिर-
ण्याम्बरभूषणानि तीर्थाभिषेकं परदारसौख्यम् । पापे-
क्षितस्यापि निशाकरस्य दशाविपाके विफलं सुकर्म ।
कोपाधिकं कुत्सितभोजनञ्च मातुर्वियोगं त्वथवा
तदीयम् । निशाकरस्यापि शुभेक्षितस्य परोपकारं महतीं
च कीर्त्तिम् । इष्टार्थवन्ध्वागमभूपमानं जलाक्रयावस्त्रमनो
विलासम् । भूलत्रिकोणगेन्दोर्दशां प्रपन्नो नरः सुबहु-
कोशः । बहुपुत्रवान् विनीतो बन्धुविरोधं प्रघानतां
याति । सुखस्थितस्यापि निशाकरस्य मातुर्वियोगं
सुखयानभमिम् । कृषेर्वनाप्तिं गृहकर्मलाभकीर्त्तिं स्वना-
माङ्कितपद्यजालम् । दारान्वितस्यापि निशाकरस्य पाके
कलत्राप्तिमुदाहरन्ति । सुपुत्रसौख्यं शयनाम्बरञ्च प्रमे-
हम्त्रादिकृशं मनोरुक् । कर्मस्थितस्यापि दशा प्रपन्ना
चन्द्रस्यं कीर्ति “लभते सुविद्याम् । यज्ञादिकर्माप्तिमनेक-
सौख्यं भूपुत्रयानाम्बरबन्धुपूजाम् । नीचांशगस्यापि दशा
ददाति रोगं महत्तरं चेन्दोः । पादाक्षिरोगपीड़ां बुद्धषु
पराजयं गतोत्साहम् । उच्चांशगस्यापि दशा ददाति
सौख्यं महत्तरं चेन्दोः । नानाविधधनलाभं भूपति-
सम्मानदेहपुष्टिं च । चन्द्रदशायामादौ नरपतिमम्मानन-
कीर्त्तिसौख्यं च । मध्ये स्त्रीमतनाश गृहधनसौख्याम्बरं
चान्ते । षष्ठस्य चन्द्रस्य दशा प्रपन्ना करोति दुःखं कलहं
वियोगम् । चोराग्निभूपालभयं जलेन मूत्रादिकृच्छ्रं
धननाशमाहुः । रन्ध्रास्थतस्यापि दशा प्रपन्ना देहस्य
कार्श्यं जलभीतिदुःखम् । विदेशयानं सकलैर्विरोधं
कुभोजनं मातृजनेषु नाशम् । रिप्फगचन्द्रदशाया प्राप्तो
भृतिनाशनं कुरुते । राज्ञोऽनृतधनभाग्यं स्थानविनाशं
महत्पर दुःखम् । चन्द्रस्य वित्तस्थितिपाककाले वित्तात्मज-
स्त्रोसुखभोगभाग्यम् । मिष्टान्नपान रतिकेलिसौख्यं
धनागमं पुण्यजलाभिषेकम् । तृतीयराशिस्थनिशाकरस्य
दशा महत्सौख्यमनेकवित्तम् । मनो दृढ़ं भ्रातृजनादि-
सौख्यं कृष्यन्नयानाम्बरभूषणाप्तिम् । लाभस्थितस्यापि
निशाकरस्य प्राप्तौ दशायां विविधार्थलाभम् । मृद्वन्न-
पानाम्बरकेलिलोलं स्त्रीपुत्रलाभं तु मनोविलासम् ।
दिनेश्वरेणाहतचन्द्रदाये प्राप्नोति दुःखं स्वजनैर्विरोधम् ।
भार्याक्षयं भूपनृपाग्निचोरैर्मातुर्वियोगं कृषिधान्यनाशम् ।
चन्द्रे स्थानबलाधिके धनसुखं कीर्त्तिञ्च विद्यागमं
देवब्राह्मणतर्पणं नृपधनान्याप्नोति भूमिं धनम् । स्त्रीरत्ना-
म्बरभूषणं कृषिधनं गोविक्रियासेवनं मिष्टान्नादिरसायनं
फलयुतं दध्याज्यमाल्याम्बरम् । निशाकरे स्थानबलैर्विं-
हीने स्थानार्थनाशं स्वपदच्युतिञ्च । स्वबन्धुनाशं त्वथ
वा वियोगं कृषेर्विनाशं समुपैति काले । निशाकरे दिग्-
बलसंयुतेऽस्मिन् दिगन्तरादागतवस्तु चित्रम् । विद्यागमं
भूपतिमित्रताञ्च स्वबन्धुपुतां गजवाजिभूमिम् ।
चन्द्रे तथा कालबलान्वितेऽस्मिन् तुरङ्गयानं कृषिगो-
महीश्च । विद्यादिघोषं नखकेशदन्तचर्माम्बरालङ्कृतवा-
हनञ्च । निसर्गवीर्यान्वितचन्द्रदाये निसर्गतश्चापि करोति
सौख्यम् । अयत्नतो वाहनदेशलाभं नृपालपजां
बहुवाहनञ्च । चन्द्रे यदा दिग्बलवीर्य्ययुक्ते कृषाकटाक्षेण
नरेश्वरस्य । समस्तभाग्यं समुपैति सौख्यं परोपकारं च
मनोऽभिलाषम् । क्रूरादिषष्ठांशसमन्वितस्य दाये
शशाङ्कस्य बहुत्वदुःखम् । स्त्रीपुत्रनाशं क्षितिपालकोपं
विद्याविवादं कलहं जनैश्च । मृद्वंशषष्ठांशसमन्वितस्य
चन्द्रस्य दाये बहुपुत्रलाभम् । भृत्थार्थलाभं विजयं
सुखं च कीर्त्तिञ्च विद्यां लभते विशेषात् । पारावताद्यं-
शसमन्वितस्य चन्द्रस्य दाये महतीं च कीर्त्तिम् । विद्या-
विनोदं लभते च सौख्यं देवार्चनं पुण्यजलाभिषेकम् ।
क्रूरद्रेष्काणसंयुक्तश्चन्द्रो दिशति रोगिताम् । कार्य्यं
पापसमायुक्तं गोव्राह्मणनिपीड़नम् । आदौ
भावफलं प्रोक्तं स्थानजन्यं ततः फलम् । अंशोद्भवं फलं
पश्चाद्ग्रहजातफलं तथा” ।
अथोच्चादिगभौमदशाफलम् । “अत्युच्चभूनन्दनदाय-
पृष्ठ ३४८८
काले क्षेत्रार्थलाभं समरे जयञ्च । आ धक्यमन्वेति नरेश-
मानसहोदरस्त्रोसुतवाग्विलासम् । उच्चङ्गतस्य हि दशा
धरणीसुतस्य प्राप्नोति राज्यमथवा क्षितिपाच्च वित्तम् ।
भूमेध्यदारसुतबन्धुसमागमं च यानादिरोहणविशेषविदे-
शयानम् । आरोहिणी भूमसुतस्य सौख्यं दशा तनोत्यन्न-
नरेन्द्रपूजाम् । प्रधानतान्धैर्यमगोऽभिलाषं भाग्योत्तरं
गोगजवाजिसङ्घम् । धरासुतस्याप्यवरोहकाले स्थानार्थ-
नाशं कलिकापदुःखम् । विदेशवासं स्वजनैर्विरोधं
चोराग्निभपैर्गयमेति कष्टम् । नीचस्थितस्यापि धरासुतस्य
दाय कुवृत्त्या स्वजनादिरक्षाम् । कुभोजनं गोगजवाजि-
नाशं स्वबन्धुनाशं नृपवह्निचोरैः । मूलत्रिकोणस्थित-
भौमदाये मिष्टान्नपानाम्बरभूषणाप्तिम् । पुराणधर्म-
श्रवणं मनोज्ञं भ्र त्रादिसौख्यं कृषिलाभमेति । स्वक्षेत्र-
गस्यापि धरासुतस्य दशाविपाके लभतेऽर्थभूमिम् । स्था-
नाधिपत्यं सुखवाहनञ्च नामद्वयं भ्रावसुस्रं सुखा-
प्तिम् । धरासुतस्याप्यतिशत्रुराशिं गतस्य दाये कलहा-
दिदुःखम् । नरेशकोपं स्वजनैर्विरोधं भूम्यर्थदारात्मज-
मित्ररोगम् । भूनन्दनस्याप्यरिराशिगस्य दशाविपाके
समरे च पीड़ाम् । शोकाग्निभूपालविषैः प्रमादं
पीड़ातिकृच्छ्रादिगुदाक्षिणोगम् । मित्रर्क्षगस्यापि कुजस्य
दाये मित्रत्वमायाति सपत्नसङ्घैः । चोराग्निमान्द्याक्षि-
विपादभूमिं कृषेर्विनाशं कलिकोपदुःखम् । कुजस्य
दाये त्वतिमित्रराशिं गतस्य भूपालकृतार्थभूमिम् ।
वस्त्रादियज्ञादिविवाहदीक्षामुपैति देशान्तरलब्धभाम्यम् ।
धरासुतस्यापि समर्क्षमस्य गृहोपकार्य्यं स्वधनप्रमाणात् ।
स्त्रीपुत्रभृत्यात्मसहोदराणां शत्रुत्वमाप्नोति नृपाग्नि
पीड़ाम् । नीचग्रहेणापि समन्वितस्य धरासुतस्याति-
मनोविकारम् । प्रेष्यत्ववृत्तिं परकीयमन्नं स्त्रीपुत्रनाशं
नृपवह्निचीरैः । किञ्चित् सुखं भोजनवस्त्रपानं कृच्छ्रेण
वृत्तिं नृपपूजनञ्च । उच्चान्वितेनापि समन्वितस्य भौमस्य
दाये सुतदारपीड़ाम् । पापान्वितस्यापि कुजस्य दाये
पापानि कर्माणि करोति नित्यम् । देवद्विजानां पशुदे-
वतानां सहोदराणाञ्च कुमार्गवृत्त्या । शुभान्वितस्याषि
कुजस्य दाये केचित् सुख देहकृशाङ्गरोगम् । भूपैर्विवादं
समरे जयं च विद्याविवादं परदेशवासम् । शुभेक्षित-
धरासूनोर्दाये भूम्यर्थनाशनम् । तस्मिन् गोचरसंयुक्ते
त्वत्यन्तं शोभनं भवेत् । आरस्य पापग्रहवीक्षितस्य प्राप्तौ
दशायां बहुदुःखकष्टम् । जनैः परित्यक्तकलत्रमित्रो देशा-
न्तरस्थः क्षितिपालकोपात् । केन्द्रगतभौमदाये चोरविषा-
भ्यामुपैति दुःखानि । कलहो वासविरोधं लभते देशान्तर
याति । चतुर्थराशिस्थितभौमदाये स्थानच्युतिं बन्धुविरोधि-
ताञ्च । चोराग्निपीड़ां नृपतेः सकाशात् भीतिं परे दुर्गप्रदे
प्रयाति । कलत्रयुक्तस्य कुजस्य दाये कलत्रहानिर्गुदमूत्र-
कृच्छ्रम् । अगोचरस्थस्य च तादृशं फलं तदन्यथा चेत्
फलमन्यथैव । कर्मस्थितस्वापि कुजस्य पाके कर्मादिवैक-
ल्यमुपैति दुःखम् । उद्योगभङ्गं त्वपकीर्त्तिमेति विद्या
सुतंस्त्रीधनमानहानिः । अर्कगभौमदशायां दधाति शोकं
स्त्रिया विरोधं च । राज्याच्च्युतिं विपक्षाद्देशाद्देशान्तरं
याति । वित्तगभौमदशायां संप्राप्तौ तस्य वृद्धिमुपयाति ।
स्वकुलाढ्यत्वं लभते नृपहृतवित्तं मुखाक्षिरोनञ्च । भ्रा-
तृस्थानगतश्च सौख्यफलदो भूनन्दनोऽरातिहा धैर्ये
वित्तसुतार्थदारसहजैः सङ्गं नृपात् पूज्यताम् । पुत्रस्थान-
गतस्य पुत्रमरणं बुद्धिभ्रमं जाड्यतां शत्रुक्षेत्रगतस्य भूमि-
सहजैर्दुःखं महारोगभाक् । पञ्चमस्थधरासूनोर्दाये
कीर्त्तिं विवेकिताम् । नेत्ररोगं त्वर्थनाशं दद्यात् कलहमेव
वा । मरणपदस्थो भौमः करोति दुःखं महद्भयं पाके
स्फोटकमन्यविरोधं स्थानविनाशं विदेशयानञ्च ।
भवमस्थधरासूनोर्दशापाके षदच्युतिम् । गुरूणां च
तथा कष्टं तपाविघ्नं महद्भयम् । आयस्थभौमदाये
करोति राज्यार्थभूषसम्मानम् । समरे जयपतापं
वागुपकारं मनोजवं कीर्त्तिम् । व्ययगतभौमदशायां प्राप्तौ
धनहृति नृपाद्भीतिम् । स्थानसुतदारनाशं भ्रातॄणां
विदेशवासञ्च । उच्चांशसंयुक्तधराजकाले मनोभिलाषं
विजयं सुखञ्च । प्रचण्डदासीगमनं नृपस्य प्रधानतां
याति सुगन्धपद्यम् । नीचांशमौमदाये नीचयुतेऽत्यन्त-
कर्मवैकल्पम् । धनहांनिभूपदण्डः शिश्नोदरपरायणो-
ऽशीलः । भौमदशायामादौ लभते विविधार्थमान-
हानिं च । मध्येऽग्निभूपचौरैर्भीतं तत्र विनि-
र्दिशेन्मतिमान् । अन्ते भ्रातृवियोगं सुतधनदाराग्नि-
गुल्ममूत्रादिम् । भौमेऽप्येवं न भवेद्रोचरयुक्ते विशेषतः
कथयेत् । भौमस्य संस्थानबलान्वितस्य दशाविपाकेऽर्थ-
कलत्रसौख्यम् । स्थानादिलाभं सुखकीर्त्तिशौर्य-
मुद्योगसिद्धिं त्वनयादुपैति । स्थानवीर्यविहीनस्तु कुरुते
स्वपदच्युतिम् । कुजः कुसीदवृत्त्या च जीवनं भवति
ध्रुवम् । दिग्वीर्ययुक्तस्य कुजस्य दाये नृपात् सुलब्धार्थ-
रणप्रतापम् । गोभूमिकृष्यम्बरयानलाभं दिगन्तरा
पृष्ठ ३४८९
क्रान्तयशःप्रतापम् । कालवीर्ययुतभौमदशायां काम्य-
लब्धिरिति सौख्यमुपैति । पट्टपस्त्रमणिभौक्तिकलाभं
चित्रवस्त्रकृ षगेगजलाभम् । निसर्गवीर्या न्वतभौमदाये
कृवाकटाक्षेण महीपतीनाम् । समस्तभाग्यात्मजमित्र-
षन्धुगोभूमिभूषाम्बरदेहसौख्यम् । निसर्गतः स्थान-
धनाक्षिनाशं पित्ताधिकं कुत्सतभोजनञ्च । कुजस्य
दाये कुनखी षि{??}घ्नः सहोदराणामपि देहपीड़ा ।
वक्रान्वितस्य भौमस्य दशाकाले महद्भंयम् । चीराग्न-
मर्पपीडां च वनवासं पदच्युतिम् । दृग्वीर्ययुक्तस्य
कुजस्य दाये कृपाकटाक्षेण महीपतीनाम् । समस्त-
भाग्यात्मजमित्रवन्धगोभूमिभूषाम्बरदेहसौख्यम् । क्रूर-
षष्ठांशसंयुक्तभौमदायेऽतिपीड़नम् । कारागृहप्रवेशञ्च
ममस्तविभवक्षयम् । सौम्यषष्ठांशसंयुक्तभौमदाये शुभं
भवेत् । विवाहदीक्षायज्ञं च सर्वेषामुपकारकम् ।
पारावतादिसंयुक्तभौमदाये महत् सुखम् । भूम्यर्थदार-
सम्पत्तिधनवाहनभोजनम् । क्रूरद्रेक्काणसंयुक्तकुज-
दाये मनोव्यथा । निगड़ं विषभीतिं च पाशबन्धनमेव
च । उच्चस्थोऽपि धरासूनुर्नीचांशकसमन्वितः ।
तत्पाके भ्रातृमरणं नृपवह्निविषाद्भयम् । भूमिपुत्रोऽपि
नीचस्थः स्वोच्चभागसमन्वितः । तत्पाके भूमिदारार्थ-
पुत्रमित्रविवर्द्धनम्” कुजदशा ।
अथ बुधदशा । “अत्युच्चसोमात्मजदायकाले धनान्वितः
ख्यातिनुपैति सौख्यम् । ज्ञानञ्च कीर्त्तिं जननायकत्वं
स्त्रीपुत्रभूम्यर्थमहोत्सवञ्च । उच्चस्थितस्यापि शशाङ्क-
सूनोदेशा महत्त्वं कुरुतेऽर्थसौख्यम् । देहस्य पुष्टि-
र्धनधान्यपुत्र गोवाजिमत्तेभमृदङ्गनादम् । आरोहिणी
सौम्यदशा प्रपन्ना यज्ञोत्सवं गोवृषवाजिसङ्घम् । मृद्वन्न-
भषाम्बरयानलाभं बाणिज्यभूम्यर्थपरोपकारम् ।
शशाङ्कसूनोस्त्ववरोहिणी या दशा महत्कष्टतरञ्च ।
दुःखम । विज्ञानहीनं परदारसङ्गं नृपाग्निचीरैर्भय-
मत्र कष्टम् । नीचस्थचन्द्रात्मजदायकाले ज्ञानेन
हीनं स्वजनैर्वियुक्तम् । पदच्युतिं बन्धुविरोधितां च
विदेशयानं वनवासदुःखम् । मूलत्रिकोणान्वितसौम्य
दाये राज्यं महत्सौख्यकरं च कीर्त्तिम् । विद्याविलासं
निगमार्थशीलं पुराणधर्मश्रवणादिपूतः । स्वक्षेत्रग-
स्यापि शशाङ्कसूनोः प्राप्तौ दशायां धनधान्यसम्पत् ।
वाणिज्यगोभूमिसूतार्थदारमृद्वन्नपानाम्बरभूषणाप्तिः ।
शशाङ्कसूनोस्त्वरिराशिगस्य शत्रोर्भयं भूपतिकोप-
जातम् । विद्याविहीनं कुलहीनसेबां कुभोजनं
दारसुतार्थनाशनम् । शशाङ्कसूनोरतिशत्रुराशिं गतम्य
पाके विपदं च दुःखम् । उद्योगभङ्गं स्वजनैर्विरोधं
यज्ञादिविघ्नं शुभकर्भनाशम् । मित्रक्षेत्रदशायां शशाङ्क-
सूनोर्धनायतिः सौख्यम् । नामद्वयसंप्राप्तिः स्वनामा-
ङ्कितगद्यपद्यानि । अतिमित्रराशिगस्य दशा प्रपन्ना
महत्वतां याति । भूपतिमैत्रं सौख्यं धनसुतदाराश्च
बन्धुसम्मानम् । समर्क्षगस्यापि शशाङ्कसूनोर्दशा सुखं
धान्यसुताम्बराणि । करोति राज्यच्युतिमत्रविध्रं
विज्ञानहीनं पिटकादिरोगम् । नीचखेचरसंयुक्त सौम्य-
दावेऽतिकष्टताम् । पदभ्रंसं बन्धुनाशं कर्मनाशं
मनोरुजम् । उच्चखेचरसंयुक्तसौम्यदाये महत् सुखम् ।
भाग्योत्तरं सुविद्यां च बाणिज्यं गोकृषिक्रियाः ।
विदः पापान्वितस्यापि दाये पापमुपैति च । क्षेत्रार्थ-
दारपुत्रादिकृषिगांभूमिनाशनम् । विदः सौम्ययुत-
स्यापि परिपाके महत् सुखम् । राज्ययोगं सुखं कीर्त्ति
दारपुत्रनृपात् सुखम् । सौम्येक्षितस्यापि शशाङ्कसूनो-
र्दंशाविपाके महतीं च कीर्त्तिम् । विद्याविलासोद्भव
राजपजां कान्तिप्रतापं यशसा समेतम् । पापेक्षित-
स्यापि शशाङ्कसूनोर्धान्यक्षयं बन्धुजनैर्वियुक्तम । विदेश-
यानं स्वपदच्युतिं च प्रेष्यानुवृत्त्या कलहाऽतिकृच्छ्रम् ।
केन्द्रोपगस्य हिं दशा शशिनन्दनस्य भूथालमित्रधन-
धान्यकलत्रपुत्राम् । यज्ञादि कर्मनृपमानयशःप्र-
लब्धिं नृद्वन्नपानशयनाम्बरभूषणानि । लग्नं गतस्य
हि दशा शशिनन्दनस्य भूपालमानं कृषिलब्धभाव्यम ।
भेरीरवादि परिघोषितयानमार्गं तीर्थाभिषेकमथवा
जगति प्रसिद्धम् । वित्तगसौम्यदशायां विद्याप्राप्तिं
महत्त्वकीर्त्तिञ्च । भूपतिभाग्यसमानो राज्यस्थाने प्रधनतां
याति । तृतीयराशिस्थितचन्द्रसूनोर्दशाविपाके जड़तां
सगेति । उद्गानमाजीवनगुलमरोगमन्नार्त्तियोगे
नृपमाननञ्च । शशाङ्कसूनोर्हिवुकस्थितस्य दशा प्रपन्ना
गृहधान्यनाशम् । सौख्यादिहीनं हिवुकेशमृत्यु-
मुद्योगभङ्गं च पदच्युतिं वा पञ्चमस्थशशिनन्दनस्य
या क्रूरबुद्धिरतिकष्टता भवेत् । हीनवृत्तिरपि
राजमेवया कृच्छ्रलब्धधनमेति सम्पदम् षष्ठाष्टमान्त्यस्थित
सौम्यदाये त्वग्दोषजातं बहुरोगमेति । विचर्चिका
पैत्तिकपाण्डुरोगं नृपाग्निचौरैर्मरणं कृशत्वम् ।
देहाङ्गवैकल्यकलत्रबन्धुविद्वेषणं भूपतिदत्तकोषम् । आक-
पृष्ठ ३४९०
स्मिकं मृत्युभयं प्रमादं रिप्फस्थितस्यापि शशाङ्क-
सूनोः । दारस्थितस्यापि शशाङ्कसूनोर्दशा विपाके
सुतदारवित्तम् । विद्याविनोदं विमलाम्बर च
नामद्वयं भूपतिमित्रताञ्च । भाग्यस्थितस्यापि शशाङ्क-
सूनोर्भाग्योत्तरं दारसुतार्थलाभम् । तीर्थाभिषेकं
जपहोमदान यज्ञादिकर्माणि लभेन्मनुष्यः । कर्मस्थितस्यापि
शशाङ्कसूनोर्दशाविपाके नृपतौल्यमेतिः । सौख्यं स्वना-
माङ्कितगद्यपद्यं नामद्वयं दारसुतार्थलाभम् । प्रपूजनं
देवमहीरुहाणां साम्राज्यलाभं जननायकत्वम् । कवित्व-
मार्गं समुपैति काले यज्ञादिदीक्षां स्वजनैर्विशेषात् ।
उपान्त्यरोशिस्थितसौम्यदाये त्वनेकधा वित्तमुपैति काले ।
दानेन वा भूपतिमाननाद्वा कृषेश्च बाणिज्यविचारतो वा ।
उच्चांशसंयुक्तशशाङ्कसूनोर्दशाविपाके सुतभूषणाप्तिः । मनो
विलासं नयनाभिराममुत्साहधैर्य्यं च जलाभिषेकम् ।
नीचांशकयुतः सौम्यो नीचवृत्त्यानुजीवनम् । प्रेष्यत्वं
परिहारं च दशायाञ्च करोति तत् । सौम्यदशायामादौ लभते
धनधान्यसम्पदं पुरुषः । अन्त्ये स्वजनविरीधं मध्ये दाये
नरेशसम्मानम् । अर्कगसौम्यदशायां लभते विविधापदं
मनोदुःखम् । खकुलजनृपविरोधं निन्दामयं वाक्षिकर्ण-
रोगञ्च । स्थानवीर्य्ययुते सौम्ये तत्पाके कीर्त्तिराज्य-
दम् । मनोधैर्यं मनोत्साहं यज्ञदीक्षाशुभप्रदम् ।
तद्विहीनबुधे स्थानदारपुत्रमहद्भयम् । विदेशवासं दुःखं
च नानापरिभवक्रियाः । दिग्वीर्यसहिते सौम्ये
दिगन्ताद्धनिकः सुधीः । सामन्तराजमित्रत्वं गन्ध-
माल्यस्य लेपनम् । कालवीर्य्य युतसौम्यदशायां देहसौख्य
कलहादिवियोगम् । दारपुत्रनृपमाननमेति गाङ्गतोय-
परिपूततनुः स्यात् । निसर्गवीर्यान्वितसौम्यदाये निसर्गत-
श्चापि शुभादि कर्म । विद्याविवादं स्वजनैर्विरोधं मातु-
र्वियोगं त्वथवा तदीयम् । वक्रचेष्टान्विते सौम्ये भाग्य
दारसुतार्थभाक् । तथा पुराणदानादिसमुद्रस्नानमाचरेत् ।
दृग्बलेन युते सौम्ये सर्वभूतेषु सौम्यताम् । करोति रति
केलिञ्च राज्यभाग्यसमन्वितम् । क्रूरषष्ठांशसौम्यस्य
दशापाके महद्भयम् । चोराग्निभूपैर्भीतिः स्याच्छुभदृग-
योगवर्जिते । मृद्वंशादियुते सौम्ये राज्यलाभं महत्
सुखम् । मार्दवं सर्वभूतेषु कृषिपुत्रार्थसम्पदम् । सौम्ये
वैशेषिकाशस्थे विशेषाद्राजपूज्यताम् । सुगन्धाम्बरमाल्यं
च विद्यागोष्ठीरहस्यताम् । क्र रद्रेष्काणसंयुक्तश्चन्द्र-
सूनुर्यदा तदा । चोराग्निभूपतिभयं स्थाननाश मह-
द्भयम् । उच्चराशिगतः सौम्यो नीचभागगतो यदि ।
राज्यं सुख महत्कीर्तिम् विनाशयति तत्क्षणात् ।
चन्द्रात्मजोऽपि नीचस्थः स्वोच्चभागसमन्वितः । अशुभ
फलमादौ तु शुभमन्त्ये प्रयच्छति” ।
अथ गुरुदशा “गुदोर्दशायां परमोच्चगस्य राज्यं
महत्सौख्यमुपैति कीर्त्तिम् । मनोविलासं गजवाजिसङ्घं
नृपाभिषेकं स्वकुलाधिपत्यम् । कुलीरगस्यापि गुरोर्द-
शायां भाग्यात्तरं भूपतिमाननाद्वा । विदेशयानं
महदाधिपत्यं दुःखैः परिक्लिन्नतनुर्मनुष्यः । आरोहिणी
देवगुरोर्महत्त्वं दशा प्रपन्ना कुरुतेऽर्थभूमिम् । गानक्रिया
स्त्रासुतराजपूजां स्ववीर्यतः प्राप्तयशःप्रतापभ् । जीवदशा-
यामारोहिण्यामीशो मण्डलादिनाथो वा । द्विजभूपाल-
लब्धधनो मेधावी कान्तिमान् विनीतज्ञः । देवेन्द्रपूज्यस्य
दशावरो हा करोति सौख्यं सकृदेव नाशः । सकृद्यशः
कान्तिविशेषजालं नरेश्वरत्वं सकृदेव याति । अतिनीच-
भागभाजो गुरोर्दशायां प्रभग्नगृहपुञ्जः । अन्योन्यहृद-
यवैरं कृषिनाशं याति परभृत्यः । मूलत्रिकोणनिलयस्य
गुरोर्दशायां राज्यार्थभूमिसुतदारविशेषसौख्यम् । याना-
धिरोहणमपि स्वबलाप्तवित्तं यज्ञादिकर्मजनपूजितपाद-
पीठम् । गुरोर्दशायां स्वगृहं गतस्य राज्ञोऽर्थभूधान्य-
सुखाम्बरञ्च । मिष्टान्नगोपाजिमनोविलासं काव्यादि-
पुण्यागमवेदशास्त्रम् । गुरोर्दशायामतिशत्रुराशिं गतस्य
दुःखं समुपैति शोकम् । विषादभूम्यर्थकलत्रनाशं नृपा-
ग्निचोरैर्बहुदुःखपीड़ाम् । गुरोर्दशायामरिराशिगस्य
क्षेत्रादिवित्तं शयनाम्बरञ्च । नरेशसम्मानमुपैति नित्यं
स्त्रीपुत्रभृत्यात्मसहोदरार्त्तिम् । प्राप्तौ दशायामतिमित्र-
राशिं गतस्य जीवस्य नरेन्द्रपूज्यम् । मृदङ्गभेरारव-
यानघोषं दिगन्तराक्रान्तसमस्तभाग्यम् । मित्रर्क्षगस्यापि
गुरोर्दशायां नरेशमैत्रीं समुपैति कीर्त्तिम् । विद्याविवादे
जयमन्नसौख्यसुगन्धमृद्वस्त्रपरोपकारम् । समर्क्षमस्यापि
गुरोर्दशायां सामान्यतो भूपतिदत्तभाग्यम् । कृष्यर्थगो-
भूमिमनोविलास मित्राम्बरालङ्कृतिभूषणाप्तिम् ।
नीचखेचरसंयुक्तजीवदाये मनोरुजम् । परप्रेष्यापवादञ्च
पुत्राणाञ्च विरोधिताम् । उच्चखेचरसंयुक्तगुरुदाये महत्-
सुखम् । अनेकगोपुरादीनां निर्माणं नृपपूज्यताम् ।
पापान्वितस्यापि गुरोर्दशायां करोति पापं हृदयान्तर-
स्थम् । गूढ़ं बहिः पुण्यफलं विशेषात् भूम्यर्थदारा-
त्मजसौख्यमेति । शुभान्वितस्यापि गुरोर्दशायां नरेशयानं
पृष्ठ ३४९१
मृदुलाम्बरं च । दानेन वित्तं नृपमाननाद्वा यज्ञादिसंमा-
र्गविशेषलाभम् । पापेक्षितस्यापि गुरोर्दशाया प्राप्त सुखं
किञ्चिदुपैति धैर्यम् । क्वचिद् यशः कुत्रचिदाप्तसौख्यं
क्वचिद्धनं नाशमुपैति चान्ते । शुभेक्षितस्यापि गुरो-
र्दशायां देशान्तरे वित्तमुपैति भूपात् । देवार्चनं भूसुर-
तर्पणञ्च तीर्थाभिषेकं गुरुपूज्यताञ्च । केन्द्रगतजीवदार्य
राज्यं भूदारराजसम्मानम् । विविधसुखानन्दकरं
बहुजनरक्षां प्रधानतां याति । लग्नङ्गतस्य हि
दशापुरुषं करोति जीवस्य सौख्यममलाम्बरभूषणाप्तिम् ।
यानाधिरोहणमृदङ्गगणारवैश्च मत्तेभवाजिभटसङ्घयुतं
करोति । चतुर्थकेन्द्रस्थितजीवदाये यानत्रयं भूपतिमित्र-
भावम् । भूपालयोगो यदि भूपतित्वं नी चेत्तदा तत्सदृशं
करोति । कलत्रराशिस्थितजीवदाये दारार्थपुत्रार्थसुखं
प्रयाति । विदेशयानं समरे जयञ्च धान्यं परब्रह्मणि
पुण्यकर्म । कर्मस्थितस्यापि गुरोर्विपाके राज्याप्तिमाहु-
र्मुनयस्तदानीम् । भूपालयोगे त्वथ वार्थपुत्रकलत्रसत्कर्मसु
राजयोगम् । पञ्चमस्थगुरोर्दाये मन्त्रोपास्तिर्महत्सुखम् ।
सुताप्तिं राजपूजाञ्च वेदान्तश्रवणादिकम् । त्रिकोणसं-
स्थस्य गुरोर्दशायां स्त्रीपुत्रधान्यार्थविवेकबुद्धिम् । मृद्वन्न-
पानाम्बरपट्टवस्त्रयानादिलाभं नवमे तु सौख्यम् । उच्चां-
शसंयुक्तगुरोर्दशायां भाग्योत्तरं राजसमानमेति ।
प्रवालमुक्तामणिरत्नलाभं सर्वेषु सख्यं समुपैति सौख्यम् ।
नीचांशसंयुक्तगुरोर्विपाके भूपाद्भयं गुल्मविचर्चि-
कादीन् । स्थानच्युतिं बन्धुविरोधिताञ्च नृपाग्निचोरैः
स्वकुलोद्भवैश्च । अर्कगजीवदशायां सहसा ज्वरपीड़ितो
भवेत् क्षीणः । ऊर्द्ध्वाङ्गरोगतप्तो दुःशीलत्वप्रभग्नसंसारः ।
आदौ गुरुदशाकाले नृपपूजां महत्सुखम् । मध्ये
स्त्रीपुत्रलाभादि चान्ते कष्टं विनिर्दिशेत् । धनस्थित-
स्यापि गुरोर्विपाके धनायतिं भूपतिमाननञ्च । विद्या
विवादाङ्कितराजगोष्ठीं सर्वोपकारं विजयं सुखञ्च ।
नृपकृतबहुमानं भ्रातृभिर्भूमिलाभं परयुतविजनैर्वा
दत्तगोभूमिवित्तम् । अशनवसनभूषागन्धमाल्याम्बराणि
परकृतमुपकारं शुद्धतामेति शौर्यम् । तृतीयस्थगुरो-
र्दाये भ्रातॄणां च सुखं धनम् । नृपदत्तं धनं सौख्यं
गन्धमाल्याम्बरादिकम् । नीरोगतां पुत्रकलत्रलाभं
लग्नाद्रिपुस्थस्य गुरोर्दशायाम् । आदौ भवेदेवमथान्त्य
पाके दारार्थचोरादिभयं सरोगम । जीवोमरण-
पदस्थः करोति सौख्यं स्ववन्धुजनहानिम् । स्यान-
च्युति विदेशं प्रान्ते स्त्रीराजपुत्रसम्मानम् । लाभ
गजीवदशाया सप्राप्तौ राज्यलाभमुपयाति । बह्वर्थ-
दारपुत्राद्भूपविरोधं स्वबन्धुविद्वेषम् । व्ययगतजीव-
दशायां प्राप्ती वाहनादि समुपयाति । लभते विदेशयानं
नानाक्लेशैश्च परिभूतः । पाके स्थानबलान्वितस्य च
गुरोः क्षेत्राथदारात्मजान् संप्राप्नोति गजाश्ववस्त्रकनक
चित्राम्बर भूषणम् । दिग्वीर्यान्वितदेवनायकगुरौ
लोके प्रसिद्धं तथा जीवे कालबलाधिके नृपबधूसम्मामि
तां याति सः । निसर्गवीर्यान्वितजीवदाये निसर्गत-
श्चातिसुखं महत्त्वम् । विद्याविलासं रतिकेलिसौख्यं
भागीरथीतोयकृताभिषेकम् । वक्रं गतस्यापि गुरोर्दशायां
महार्थतां याति सुतार्थदारान् । युद्धे जथ भूपति-
मित्रतां च सुगन्धजाताम्बरवाग्विलासम् । दिग्वीर्य-
युक्तस्य गुरोर्विपाके कृपाकटाक्षेण महीपतीनाम् ।
समस्तभाग्यं समुपैति नित्यं देशान्तरे भ्राम्यति किञ्चि-
देव । क्रूरषष्ठांशसंयुक्तगुरोर्दायेऽतिकष्टताम् ।
राजकोपावमानादीन् लभते नात्र संशयः । सौम्यषष्टांश-
संयुक्तगुरोर्दायेऽतिसौख्यताम् । वाहनं बन्धुसम्मानं
यज्ञवैवाहिकं शुभम् । पारावतांशयुक्तस्य गुरोः पाके
महत् सुखम् । मृद्वन्नपट्टवस्त्रञ्च हेमविक्रियभूषणम् ।
पापद्रेक्काणयुक्तस्य गुरोर्दाये च बन्धनम् । कारागृह-
प्रवेशञ्च निगड़ं दारविग्रहम् । उच्चस्थोऽपि गुरुर्नीच-
राश्यंशकसमन्वितः । महाभाग्यं तु संप्राप्तं तत्क्षणा-
देव नश्यति । नीचस्थो देवपूज्योऽपि स्वोच्चांशकसम-
न्वितः । भाग्यक्षये तु संप्राप्ते भाग्यं याति तदा नरः” ।
अथ शुक्रदशा । “अत्युच्चभृगुदशायां मत्तविलास-
प्रियार्थभोगी स्यात् । माल्याच्छादनभोजनशयनस्त्री-
पुत्रधनयुक्तः । स्वीच्चस्थितस्यापि भृगोर्दशायां स्त्रीसङ्गन-
ष्टार्थविरुद्धधर्मम् । पित्रोर्विनाशं समुपैति दुःखं शिरो-
रुजं भूपतिमाननञ्च । आरोहिणी शुक्रदशा प्रपन्ना
धान्यं वरालङ्कृतिकान्तिपूजाम् । प्रवृत्तिसिद्धिं स्वजनै-
र्विरोधं मात्रादिनाशं परदारसङ्गम् । भृगोः सुतस्याप्य-
वरोहकाले प्रचण्डवेश्यागमनं धनाप्तिम् । स्त्रीपुत्रबन्ध्वा-
र्त्तिमनोविकारं हृच्छूलरोगं मदनार्त्तिमेति । उद्वेगरो-
गतप्तः कर्मसु विफलेषु सर्वदाभिरतः । अतिनीचग-
तस्य दाये शुक्रस्यात्मार्थदारपुत्रार्त्तिम् । मूलत्रिकोण-
भाजो भृगोर्दशायां महाधिपत्यं स्यात् । क्रयविक्रयकुश-
लधनवान् कीर्त्त्यन्वितो विधिज्ञश्च । स्वर्क्षगशुक्रदशायां
पृष्ठ ३४९२
लभते स्त्रीपुत्रमित्रधनशौर्य्यम् । नित्योत्साहं द्वेषं परोप-
कारं महत्त्वञ्च । भृगोर्दशायामतिशत्रुराशिं गतस्य
पुत्रार्थकलत्रहानिम् । प्रभग्नसंसारविशीर्णदेहं गुल्मा-
क्षिरोगं ग्रहणीप्रकोपम् । शत्रुक्षेत्रदशायां भूगोरप-
त्यार्थदारहानिः स्यात् । भूपतिरोपं कुरुते मत्तविलासा-
र्थपापकर्माणि । मित्रक्षेत्न दशायां परोपकारी कलावि-
धिज्ञश्च । पूगारामकृषिः स्याद्देवमनुष्येश्वरोद्धृतार्थश्च
अतिमित्रशुक्रदाये भूपतिसम्मानसौख्यं च । गीधन-
वाजिसमेतं गजवरसङ्घैः निरस्तदोषैश्च । समर्क्षगस्यापि
भृगोर्विपाके प्रमेहगुल्माक्षिगुदप्ररोगः । किञ्चित् सुखं
भूपतिवह्निचोरैः भयं स्वनामाङ्कितगद्यपद्यम् । नीचखे-
चरसंयुक्तभृगोर्दाये महद्भयम् । अषवादकृतं दोषं लभते
पापकर्मभिः । स्वोच्चस्थितेन सहितस्य भृगोर्विपाके
राज्यं महत्त्वसमराधिपतित्वमेव । हेमाम्बरादिमणि-
भूषणयानलाभं भेरीमृदङ्गपणवानकवाद्यघोषैः । पापा-
न्वितेस्यापि भृगोदशायां स्थानच्युतिं वन्धुजनैर्विरोधम्
आचारहीनं कलहप्रियत्वं कृष्यर्थभूम्यात्मजदारनाशम्
शुभान्वितस्यापि भृगोर्दशायां सौभाग्यमित्रात्मजधान्य-
लाभम् । नरेशपूजां गजवाजिसङ्घं प्रवालमुक्तामणि-
यनिलाभम् । पापेक्षितस्यापि भृगोर्दशायां मानार्थहानिं
समुपैति दुःखम् । स्त्रिया विरोधं स्वपदच्युतिं च
विदेशवासं निजकर्महीनम् । शुभेक्षितस्यापि भृगोर्विपाके
धनाम्बरं भूपतिपूजनञ्च । जनाधिपत्यं स्वशरीरकान्तिं
कलत्रमित्रात्मजसौख्यमेति । केन्द्रं गतस्य हि दशा
भृपुनन्दनस्य यानाम्बरादिमणिभूषितदेहकान्तिम् ।
राज्यार्थभूमिकृषिवाहनवस्त्रशस्त्रदुर्गादियानवनवासजलाभि-
षेकम् । लग्नगशुक्रदशायां संप्राप्तं राजमाननं लभते
मणिगोधनकृषिलाभं परापवादं महोत्साहम् । चतुर्थ-
राशिस्थितशुक्रदाये राज्यं महत्सौख्यमुपैति यानम् ।
कृषिक्रियावित्तपशुप्रजानां वृद्धिं प्रतापान्वितकीर्त्तिजा-
लम् । कलत्रराशिस्थितशुक्रदावे कलत्रनाशं त्वथवा
विदेशम प्रमेहगुलनादिशरीररोगं प्रभग्नवित्तात्मजबन्धु-
राज्यम् । कर्भस्थशुक्रस्य दशाविपाके विद्याधनप्राप्तिनश-
पूजे । भाग्योत्तरं पालितदेहकान्ति दिगन्तरप्राप्तयशः
प्रतापम् । त्रिकोणसंयुक्तभृगोर्विपाके विद्याधनप्राप्ति-
नरेशपूजाम् । प्रबालमुक्तामणिशङ्खशुक्तिगोभूमियानाम्व-
वस्त्रलाभम् । पञ्चमस्थभृगोर्दाये पुत्रावाप्तिं विंनिर्दिशेत् ।
कीर्त्तिञ्च राजपूजाञ्च सर्वेषामुपकारकम् । त्रिकोणस्थ-
गतः शुक्रः करोति नृपपूज्यताम् । यज्ञकर्मादिलाभञ्च
गुरुपित्रोः सुखं यशः । वित्तगशुक्रदशायां धनहानिमा-
हुर्धनायतिं चापि । अन्नसुखं वाग्विलासं परोपकारं
नरेशसम्मानम् । तृतीयराशिस्थितशुक्रदाये धैर्य्यं महोत्साह-
मदीनसत्त्वम् । चित्राम्बरालङ्कृतिवाहनाप्तिं सहोदराणां
बहुभाग्यलाभम् । भृगोर्विपाकेऽरिगतस्य नाशं धान्या-
र्थबह्वात्मजसोदराणाम् । रोगं महाकार्यविनाशनं च
शत्रोर्भयं भूपतिवह्निचौरैः । रन्ध्रस्थितस्यापि भृगोर्वि-
पाके शस्त्राग्निचोरक्षतमित्रविघ्नम् । क्वचित् सुखं
किञ्चिदुपैति वित्तं क्कचिन्नरेशाप्तयशः प्रतापम् । लाभस्थित-
स्यापि भृगोर्विपाके सुगन्धमाल्याम्बरराज्यपूजाम् ।
पुत्रार्थसौख्यं कृषिविक्रयञ्चदानं स्वनामाङ्कितपद्यजालम् ।
व्ययगतशुक्रदशायां लभते धान्यार्थराजसम्मानम् । स्थान-
च्युतिं प्रवासं मातृवियोगं मनोविलासञ्च । जीवर्क्षगतस्य
भृगोः स्त्रीपुत्रमहीनाशनं कुरुते । कर्मसु नित्यो विघ्नो
जननीक्लेशान्वितो मनोदुःखी । अर्झगशुक्रदशायां
जीर्णगृहवासः शुभावरोधश्च । लभते दारविनाशं भ्रातृ-
वियोगञ्च कलहञ्च । सिंहगशुक्रदशायां लभते विविधा-
पदं मनोदुःखम् । उद्योगरोभतप्तः कर्मसु विफले तु संर्व-
दाभिरितः । शुक्रे स्थानबलाधिके नरपतेः सम्माननं भूषणं
विद्यावादविवादगोष्टिरसिकं लामद्वयं संभ्रमम् । तस्मिन्
दिक्प्रबलान्विते बहुयशःपुत्रार्थदाराम्बरं शुक्रे कालब-
लान्विते सुखधनं कीर्त्तिः स्वनामाङ्किता । निसर्गवीर्य्य-
युक्तस्य भृगोर्दाये महत् सुखम् । कृषिगोभूमितित्तादि
भ्रातृमातृसुखं भवेत् । वक्रं गतस्यापि भृगोः सुतस्य
दशाविपाके त्वतिराजपूजाम् । मृदङ्गभेरीरवयुक्तयामं
विचित्रवस्त्राभरणानि राज्यम् । दिग्वीर्य्ययुक्तस्य भृगो-
र्विपाके यज्ञादिकर्माणि करोति काले । विद्याविलासं
शयनाम्बरञ्च नृपाभिषेकं कलहं विरोधम् । क्रूरषष्ठां-
शयुक्तस्य भृगोर्दाये विपद्भयम् । चोराग्निराजभीतिः
स्यात् कृषिगोभूमिनाशनम् । सौम्यषष्ठांशयुक्तस्य भृगो-
र्दाये महत् सुखम् । कूपारामतटागानां निर्माणं
देवपूजनम् । वैशेषिकांशसंयुक्तभृगीर्दाये महत् सुखम् ।
वाहनं भूपसम्मानं भ्रातृस्त्रीधनसम्पदः । क्रू रद्रेष्काण-
संयुक्तभृगोर्दायेऽरिभीतिदम् । कारागृहमहत्कष्टमनलं
चोरपीडनम् । उच्चक्षेत्रेऽपि नीचांशयुक्तः शुक्रोऽति-
कष्टदः । करोति राज्यनाशञ्च स्थाननाशमथापि वा ।
उच्चांशयुक्तशुक्रीऽपि नीचराशिसमन्वितः । कृषिगोभूमि-
पृष्ठ ३४९३
वाणिज्यं धनधान्यविवर्द्धनम्” शुक्रमहादशाफलम् ।
अथ शनिदशा । “मन्दात्युच्चदशायां ग्रामसभा-
मण्डलाधिपत्यं स्यात् । लभते विनीदशीलं पितृनाशं
बन्धुकलहं च । स्वोच्चदशायां कुरुते देशभ्रंशं मनोरुजं
दुःखम् । बाणिज्यहानिसत्वं कृषिहानिं नृपविरोधञ्च ।
आरोहिणी वासरनाथसूनोर्दशा विपाके नृपलब्धभा-
ग्यम् । वाणिज्यलाभं कृषिभूमिलाभं गोवाजियानं
सुतदारलाभम् । दिनेशसूनोस्त्ववरोहकाले राज्यच्युतिं
दारसुतार्थनाशम् । भाग्यक्षयं भूपतिकोपयुक्तं प्रेष्यत्व-
मायाति गुदाक्षिरोगम् । नीचस्थितस्यापि दिनेशसूनो-
र्दाये कलत्रात्मजसोदराणाम् । नाशं महाकष्टतरां कृषिं
च नीचानुवृत्त्या समुपैति वृत्तिम् । मूलत्रिकोणनिल-
यस्य शनेर्दशायां देशान्तरादिवनवासमुपैति काले ।
नामद्वयं यदि सभानगराधिपत्यं विद्वेषणं सुतकलत्रजनादि-
भिर्वा । स्वक्षेत्रगस्य च दशा दिवसेशसूनोर्द्वेषं करोति
बलपौरुषकीर्त्तिजालम् । राजाश्रयं कनकभूषणभूमि-
लाभं धैर्य्यं स्वनामसदृशानुगुणं च सौख्यम् ।
शनेर्दशायामतिशत्रुगस्य स्थानच्युतिं वन्धुविरोधिताञ्च ।
चोरादिभूपैर्भयमत्र विघ्नं भृत्यार्थदारात्मजकोपमेति ।
दिनेशसूनोस्त्वरिराशिगस्य वैश्याद्धनं प्राप्य तु भूमिना-
शम् । कृषेर्विनाशं स्वपदच्युतिञ्च वैरं समायाति
शरीरकृच्छ्रम् । मित्रक्षेत्रदशायां मन्दस्य तु शिल्पकर्म-
वेत्ता । ज्ञानबलं प्रतापं ददाति दुःखं महत्त्वञ्च ।
अधिमित्रमन्ददाये ददाति सौख्यं नरेशसम्मानम् । सुतधन-
दारविशेषात् पशुकृषिमहिषादिबाणिज्यम् । समर्क्ष-
गस्यापि शनेर्दशायां समानबुद्धिः सुतदारमित्रे । भृत्या-
पदं बन्धुजनेषु वैरं देहस्य कष्टं क्षयवातपित्तैः ।
नीचखेचरसंयुक्तशनेर्दाये महद्भयम् । विप्रलम्भोपवासश्च
नीचवृत्त्यानुजीवनम् । स्वोच्चखेचरसंयुक्तशनेर्दाये महत्
सुखम् । किंञ्चिद्राज्यं कृषेर्लाभं भृत्यवर्गार्थनाशनम् ।
पापान्वितस्यापि शनेर्दशायां पापानि गूढ़ानि करोति
काले । नीचस्त्रिया सङ्गमनं विशेषाच्चोरादिनीचैः कलहं
विदारम् । शुभान्वितस्यापि शनेर्दशायां विशेषतो ज्ञान-
मुपैति काले । परोपकारं नृपलब्धभाग्यं कृष्णानि
धान्यान्ययसाञ्च लाभम् । पापेक्षितस्यापि शनेर्दशायां भृत्या-
र्थदारात्मजसोदराणाम् । नाशं समायाति परापवादं
कुभोजनं कुत्सिगन्धमाल्यम् । शुभेक्षितस्यापि शंनेर्द-
शायां स्त्रीपुत्रभृत्यार्थमुपैति काले । पश्चादुपैत्यत्र मह-
त्त्वकष्टं गोभूमिबाणिज्यकृषेर्बिनाशम् । केन्द्रान्वितशने-
र्दाये कलहायासपीड़नम् । पुत्रमित्रार्थदारादिबन्धूनां
मरणं घ्रुवम् । लग्नगतशनेर्दाये देहकृच्छ्रमुपैति च ।
स्थानच्युतिं प्रवासञ्च राजकोपं शिरोरुजम् । चतुर्थस्थ-
शनेर्दाये मातृतद्वर्गनाशनम् । गृहदाहं पदभ्रंशं
चोरार्त्तिं नृपपीड़नम् । दारराशिगतस्यापि शनेर्दायेऽरि-
पीड़नम् । मूत्रकृच्छ्रं महाद्वेषं स्त्रीहेतोर्मरणन्तु वा ।
दशमस्थशनेर्दाये कर्म्मनाशमुपैति च । देशान्तरं पदभ्रंश
निगड़ं राजपीड़नम् । द्वितीयस्थशनेर्दाये वित्तनाशमथाक्षि
रुक् । राजकोपं मनस्तापमन्नशेषं मनोरुजम् । तृतीय-
स्थशनेर्दाये कृषिगोधनसम्पदः । मनोजाड्यमनुत्साहं
भ्रातृतद्वर्गनाशनम् । पञ्चमस्थशनेर्दाये पुत्रनाशं मनो
रुजम् । राजकोपं भृत्यनाशं बन्धुस्त्रीवित्तविभ्रमम् ।
षष्ठस्थरविसूनोस्तु दशाकालेऽरिपीड़नम् । व्याधिचोर-
विषैर्बाधां ग्रहक्षेत्रविनाशनम् । मरणपदस्थी मन्दः
करोति नित्यं सुतार्थदाराणाम् । नाशं भृत्यजनानां
गोमहिषभूमिदारनाशं च । नवमगतमन्ददाये पित्रोर्नाशं
गुरोस्तथैवापि । लभते विदेशयानं स्वकुलजातैर्विनाश-
मुपयाति । लाभगमन्ददशायां लभते विविधार्थसौख्य-
सम्मानम् । सुतदारभृत्यसौख्यं मनोविलासं कृषेश्च
लब्धधनम् । व्ययगतमन्ददशायां भीतिं चोराग्निभूपस-
ङ्घैश्च । किविधापदं च दुःखं विदेशयानं खबन्धुनाशञ्च ।
अर्कगमन्ददशायां स्वजनद्वेषं परस्त्रियं लभते । भृत्या-
पत्यविरोधं महोद्योगं दोषपरिभूतम् । नीचांशिमन्ददाये
नीचाचारेण जीवनं लभते । सर्वेषां प्रेष्यत्वं
धनसुतदारैश्च विग्रहं दुःखम् । उच्चांशिमन्ददाये विविध-
सुखानन्दभोगभाग्यादीन् । कुरुते विदेशयानं ग्रामसभा-
मण्डलाधिपत्यं वा । आदौ मन्ददशायामतिदुःखं मातृ-
नाशनं कुरुते । मध्ये विदेशयानं परगृहवासं परान्नभुक
चान्ते । स्थानवीर्य्ययुतमन्ददशायां दारपुत्रधनकीर्त्तिमु-
पैति । चोरशत्रुनृपवह्निभयं वा बन्धुनाशमथवाक्षिगुदा-
र्त्तिम् । मन्दस्य दिग्वीर्य्ययुतस्य दाये दिगन्तरादाप्त
खार्थकीर्तिम् । भूम्यर्थदारात्मजसोदराणां विनाशनं बन्धु-
जनैर्विरोधम् । कालवीर्य्ययुतमन्ददशायां कालकूटविष-
भीतिमुपैति । दारपुत्रनृपचोरभयं वा धान्यभूमिकृषि-
वाहनलाभम् । वक्रचारयुतो मन्दः करोति विफलां
क्रियाम् । उद्योगभङ्गदुःखञ्च सोदराणाञ्च नाशनम् ।
क्रूरषष्ठांशसंयुक्तशनिदाये महद्भयम् । नृपकोपं
पृष्ठ ३४९४
पदभ्रंशं कारागृहनिवेशनम् । सौम्यषष्ठाशसंयुक्त-
शनिदाये महत्सुखम् । दारपुत्रार्थसंपत्तिं लभते बन्धु-
विग्रहम् । वैषेषिकांशसंयुक्तः शनिःसौख्यं करोति
च । विशेषाद्राजसम्मानं विचित्राम्बरभूषणम् । क्रूर-
द्रेष्काणसंयुक्तशनिदाये महद्भयम् । उद्बन्धनं विषा-
द्भीतिं नृपचोराग्निजम्भयम् । नीचराशिगतो मन्दः
स्वोच्चांशकसमन्वितः । दशादौ दुःखमापाद्य दशान्ते
कष्टदो भवेत् । उच्चराशिगतो मन्दो नीचांशकसम-
न्वितः । दशादौ सुखमापाद्य दशान्ते कष्टदो भवेत् ।”
अथं राहुदशा । “राहोर्वृषोऽत्र केतीस्तु
वृश्चिकस्तुङ्गसंज्ञितः । मूलत्रिकोणं कुम्भश्च क्रियो
मित्रभमुच्यते । एतत्सप्तमराशिन्तु केतोर्मूलत्रिकोण-
भम् । षष्ठाष्टरिप्फगो राहुस्तद्दाये कष्टदो भवेत् ।
उच्चस्थः सैहिकेयस्तु तत्पाके सुखदो भवेत् । राज्यं
करोति मित्राप्तिं धनधान्याभिवर्धनम् । राहुर्नीच-
स्थितोदाये चोराग्निनृपभीतिदः । उद्बन्धनं विषा-
द्भीतिं कुरुते सिंहिकासुतः । राहोर्दशायाः संप्राप्तौ
नृपचोराग्निपीड़नम् । विदेशयानं दुःखार्तिं वनवासा-
द्भयं ध्रुवम् । लग्नगतराहुदाये बुद्धिविहीनं विषाग्नि-
शस्त्राद्यैः । बन्धुविनाशं लभते दुःखार्तिञ्च पराजयं
समरे । राहोर्दशायां धनराशिगस्य राज्यञ्च चित्तं
हरते विशेषात् । कुभाजनं कुत्सितराजसेवा मनो
विकारं त्वनृतं प्रकोपम् । तृतीयराशिस्थितराहुकाले
पुत्रार्थदारात्मजसोदराणाम् । सुखं कृषेर्बन्धनमाधिपत्यं
विदेशयानं नरपालपूजाम् । चतुर्थराशिस्थितराहुकाले
मातुर्विनाशन्त्वथवा तदीयम् । क्षेत्रार्थनाशं नृपतेः
प्रकोपं भार्यादिपातित्यमनेकदुःखम् । चोराग्निबन्धार्ति
मनोविकारं दारात्मजानामपि रोगपीड़ा । चतुर्थ-
राशिस्थितराहुकाले प्रभग्नसंसारकलत्रपुत्रम् । बुद्धि-
भ्रमं भोजनसौख्यनाशं विद्याविवार्द कलहञ्च दुःखम् ।
कोपं नरेन्द्रस्य सुतस्य नाशं राहोः सुतस्थस्य
दशाविपाके । दशाविपाके त्यरिराशिगस्य चोराग्निभूपै-
र्भयमाप्तनाशम् । प्रमेहगुल्मक्षयपित्तरोगं त्वगदोषरोगं
त्वथवा मृतिञ्च । कलत्रराशिस्थितराहुदाये कलत्रनाशं
समुपैति शीघ्रम् । विदेशयानं कृषिभाग्यहानिं सर्पा-
द्भयं मृत्युसुतार्थनाशम् । राहोर्दशायां निधनस्थितस्य
यमालयं याति सुतार्थनाशम् । चोराग्निभूपैः स्वकुलो-
द्भवैश्च भयं मृगैर्वा वनवासदुःखम् । राहोर्दशायां
नवमस्थितस्य पित्रोर्विनाशं लभते मनुष्यः । विदेशयानं
गुरुबन्धुनाशं स्नानं समुद्रस्य सुतार्थनाशम् ।
मानस्थितस्यापि दशाविपाके राहोः प्रवृत्तिं लभते मनुष्यः ।
पुराणधर्मश्रवणादिभिश्च गाङ्गेयतोयैरपि शुद्धदेहः ।
सौम्यर्क्षगश्चेत्फलमेवमेव पापक्षैगश्चेन्न तथा भवेद्धि ।
प्रोक्तं फलं यत्सकलं तदेव सौम्यर्क्षगश्चेत्फलमन्यथान्यत् ।
पापक्षेत्रगतो राहुः कर्मस्थः पापसयुतः । आभशस्त-
स्तदाकाले पुत्रदाराग्निषीड़नम् । आयराशिगतो राहु-
स्तत्पाके नृपमाननम् । धनाप्तिः दारलाभञ्च
गृहक्षेत्रादिसम्पदः । व्ययगतराहुदशायां देशभ्रशं
मनोरुजं कुरुते । विच्छिन्नदारपत्रं कषिपशुधनं धान्य-
सम्पदां नाशम् । कुलीरगोमेषयुतस्य राहोर्दशोविपाके
धनलाभमेति । विद्याविनोदं नृपमाननञ्च कलत्रभृत्या-
त्मसुखं प्रयाति । पाथोजमीनाश्वयुतस्य राहोर्दशाविपाके
सुतदारलाभम् । देशाधिपत्यं नरवाहनञ्च दशावसाने
सकलं विनाशम् । पापर्क्षसंयुक्तफणीन्द्रदाये देहस्य
कार्श्यं स्वकुलस्य नाशम् । भूपाद्भयं वञ्चनतोऽरिभीतिः
प्रमेहकासक्षयमूत्रकृच्छ्रम् । शुभदृष्टियुतो राहुः करोति
सफलक्रियाम् । राजमाननमर्थाप्तिं बन्धूनां मरणं
ध्रुवम् । पापदृष्टियुतो राहुः कर्मनाशं करोति च ।
उद्योगभङ्गं देहार्तिं चोराग्निनृपपीड़नम् । डच्चगेह-
युतो राहू राज्यलाभं करोति च । स्त्रीपुत्रधनसम्पत्तिं
वस्त्राभरणलेपनम् । नीचग्रहयुतो राहुर्नीचवृत्त्यानु-
जीवनम् । कुभोजनं कुदारञ्च कुपुत्रं लभते तदा ।
दशादौ दुःखमाप्नोति दशामध्ये सुखं यशः । दशान्ते
स्थाननाशञ्च गुरुपुत्रादिनाशनम् ।”
अथ केतुदशाफलम् । “भार्यापुत्रविनाशनं नरपते-
र्भ्रान्तिर्महाकष्टतां विद्याबन्धुधनाप्तिमित्ररहितं रोगा-
ग्निमित्रैर्भयम् । यानारोहणपातनं विषजलैः शस्त्रा-
दिभिर्वा भयं देशाद्देशविवासनं कलिरुचिं वह्न्यादि-
भिर्वा भयम् । केतोर्दशायां संप्राप्तौ दारपुत्रविनाशनम् ।
राजकोपं मनस्तापं चोराग्निकृषिनाशनम् । केन्द्रस्थस्य
दशा केतोः करोति विफलक्रियाम् । राजार्थसुत-
दाराणां नाशनं विपदं तथा । लग्नकेन्द्रगतस्यापि
केतोर्दाये महद्भयम् । ज्वरातिसारमेहञ्च स्थासकादि
विषूचिकाः । धनराशिगतस्यापि केतोर्दाये धनक्षयम् ।
वाक्पारुष्यं मनोदुःखं कुत्सितान्नं मनोरुजम् । तृतीय-
राशिगस्यापि केतोर्दाये महत्सुखम् । मनोवैकल्य-
पृष्ठ ३४९५
माथाति भ्रातृभिर्द्वेषणं परम् । चतुर्थराशिगस्यापि
केतोर्दाये सुखक्षयम् । प्रभग्नदारपुत्रादिगृहे धान्य
प्रहर्षितः । पञ्चमस्थस्य केतोस्तु दशाकाले सुतक्षयम् ।
बुद्धिभ्रमं विशेषेण राजकोपं धनक्षयम् । केतोस्त्वरि-
गतस्यापि दशाकाले महद्भयम् । चोराग्निविषमीतिः
स्याद्देशाप्तिं समुपैति च । कलत्रराशिसंयुक्तकेतोर्दाये
महद्भयम् । दारपुत्रार्थनाशञ्च मूत्रकृच्छ्रं मनोरुजम् ।
केतोरष्टमयुक्तस्य दशाकाले महद्भयम् । पितृमृत्युश्वास-
कासग्रहण्यादिक्षयान्वितः । नवमस्थस्य केतोस्तु
दशापाके पितुर्विपत् । गुरार्वा विपदं दुःखं शुभकर्म्म-
विनाशनम् । कर्म्मस्थ केतोः संप्राप्तौ दशायां सुखमेति
च । मानहानिं मनोजाड्यमपकीर्तिं मनोरुजम् ।
लाभस्थकेतोः संप्राप्तौ दाये सौख्यं करोति च । भ्रातृ-
वर्गादिसौख्यञ्च यज्ञदारादिवर्धनम् । रिःफस्थकेतोः
संप्राप्तौ दाये कष्टतरं भवेत् । स्थानच्युतिं प्रवासञ्च
राजपीड़ाक्षिनाशनम् । दशादौ सुखमाप्नोति दशामध्ये
महद्भयम् । दशान्ते राजभीतिञ्च देहजाड्यमथापि
वा । शुभवीक्षणसंयुक्तः केतुः सौख्यं करोति च ।
राज्यार्थं गृहशान्तिञ्च राजपूजां महत्तराम् । पापे-
क्षितयुतो वापि केतुर्दुःखं करोति च । ज्वरातिसारमे-
हांश्च त्वग्दोषं राजपीड़नम् ।” इयं हरगौरीदशेत्युच्यते ।
अष्टोत्तरीयदशा ज्वो० त० उक्ता यथा ।
“षट् सूर्य्यस्य दशा ज्ञेया शशिनोदश पञ्च च ।
अष्टावङ्गारके प्रोक्ता बुधे सप्तदश स्मृताः । शनैश्चरे दश
प्रोक्ता गुरोरेकोनविंशतिः । राहोर्द्वादश वर्षाणि भृगो-
रप्येकविंशतिः । दिक्षु त्रयं त्रयं ज्ञेयं विदिक्षु च
चतुष्टयम् । कृत्तिकादि प्रदातव्यं दिगम्बरमता दशा ।
कृत्तिकादित्रये सूर्य्यः सोमो रौद्रचतुष्टये । मघादित्रितये
भौमोबुधोहस्तचतुष्टये । अनुराधात्रये सौरिर्गुरुः
पूर्वाचतुष्टये । धनिष्ठात्रितये राहुः शेषे शुक्रः प्रकी-
र्त्तितः । सूर्य्योपप्लवभौमार्किदशातिकष्टदा नृणाम् ।
गुरुज्ञचन्द्रशुक्राणां यथेप्सितफलप्रदा” । वराहः
“स्वशाकहीनशाकाव्दात् प्रत्यव्दं पञ्च वासरान् ।
तिथींश्च चन्द्रशिखिनौ क्ष्मागुणौ च कृताश्विनौ । दण्ड-
पलविपलान्यनुपलानि च सावने । वर्द्धयित्वा ऋक्षशेष-
भोग्यात्तु गणनक्रमात्” । अन्तर्दशाज्ञानमाह । “स्व-
दशाभिर्दशां हत्वा नवभिर्भागमाहरेत् । लब्धा मासास्तु
तच्छेषं पूरयित्वा तु त्रिंशता । अङ्कैर्हृत्वा दिनं
लभ्यं तच्छेषे षष्टिपूरिते । नवभिश्च हृते लब्धा ज्ञेया
दण्डास्तदन्तरे । रवेः षड्वर्षमध्ये तु वेदा ४ मासा
रवेर्निजाः । चन्द्रस्य दश मासाश्च दिक्दिनं पञ्च मासकाः ।
कुजस्य, ज्ञस्य रुद्रास्तु मासा दिकदिवसाः शनेः ।
ऋतुमासाद्युविंशच्च गुरोर्वर्षा द्युविंशतिः । राहोर्मासाष्टका
ज्ञेया भृगोर्वर्षस्तु मासकौ । एवं ग्रहाणामन्येषामूह्या-
श्चैवान्तरोदयाः । यद्ग्रहस्यान्तरे यस्तु यत्संख्यं
कालमाप्तवान् । तत्संख्यै स्वान्तरे तस्मै स दद्यादिति
निश्चयाः । स्वान्तरग्रहणे स्वांशं स्वांशेन पूरयेत् सदा” ।
दशाफलन्तु । “उद्विग्नचित्तपरिखेदितवित्तनाशक्लेश-
प्रवासगदपीड़ितपक्षघातैः । संक्षोभितस्वजनबन्धुवि-
योगदुःखैर्भानोर्दशा भवति कष्टकरी नराणाम्” । र ।
“सौख्यं विभर्त्ति वरवाहनयानरत्नकीर्त्तिप्रतापवलवीर्य्य-
शुभान्वितञ्च । मिष्टान्नपानशयनासनभाजनानि चान्द्री
ददाति धनकाञ्चनभूमिशङ्खम्” । च । “शस्त्राभिघात-
बधवन्धनरेन्द्रपीड़ाचिन्ताज्वरं विकलताञ्च गृहे करोति ।
चौराग्निदाहभयभङ्गविपत्तिरोगकीर्त्ति प्रतापधनहा च
दशा कुजस्य” । म । “दिव्याङ्गनावदनपङ्कजषट्पदत्वं
लीलाविलासशयनासनभोजनञ्च । नानाप्रकारविभवा-
गमकोषवृद्धिः क्षिप्रं भवेद्बुधदशासु हितार्थसिद्धिः” ।
बु । “मिथ्यापवादबधवन्धनकार्य्यहानिर्मात्सर्थ्ययुक्-
प्रियसुखद्रविणैर्विहीनः । मित्रेषु वैरमभिवाञ्छति
वैरयुक्तः कष्टासु पापददशासु शनैश्चरस्य” । श । “रम्यं
गृहं विनयसञ्चयमानदृद्धिं प्राप्नोति सौख्यधनधान्यवि-
भूतियोगम् । धर्मार्थकामसुखभोगवहूपयुक्तं यावत्
वृहस्पतिदशा पुरुषोहि तावत्” । वृ । “बुद्ध्या
विहीनमतिनाशवियोगदुःखं नष्टार्थसिद्धिभयभङ्गविषार्त्ति-
रोगस् । सन्तापशोकपरदेशगतिं करोति राहोर्दशा
भवति जीवनसंशयाय” । रा । मन्त्रप्रभावनिपुणः प्रम-
दाविलासः श्वेतातपत्रनृपपूजितदेशलाभः । हस्त्यश्व-
लाभधनपूर्णमनोरथः स्यात् शौक्रो दशा भवति निश्चल-
राजलक्ष्मीः” । शु । अन्तर्दशाफलं तु विस्तरभयान्नोक्तम् ।
“सत्ये लग्नदशा प्रोक्ता त्रेतायां योगिनी मता
द्वापरे हरगौरी तु कलौ नाक्षत्रिकी दशा” अग्निपुराण-
नाम्ना पठित्वा गौड़ा अष्टोत्तरीयदशामेव नाक्षत्रिकी
दशेत्याहुः । वराहेण तु नाक्षत्रिकीं दशामनादृत्यैव
वृहज्जातके बलिष्ठलग्नकेन्द्रस्थादिदशा प्रतिपादिता यथा
“उदयरविशशाङ्कप्राणिकेन्द्रादिसंस्थाः प्रथमवयसि
पृष्ठ ३४९६
मध्येऽन्त्ये च दद्युः फलानि । न हि न फलविपाकः
केन्द्रसंस्थाद्यभावे भवति हि फलपक्तिः पूर्वमापोक्लिमे-
ऽपि १ । आयुः कृतं येन हि यत्तदेव कल्प्या दशा सा
प्रबलस्य पूर्वम् । साम्ये बहूनां बहुवर्षदस्य तेषां च
साम्ये प्रथमोदितस्य २ । एकर्क्षगोऽर्द्धमपहृत्य ददाति तु
स्वन्त्र्यंशं त्रिकोणगृहगः स्मरगः स्वरांशम् । पादं फलस्य
चतुरस्रगतः स होरास्त्वेवं परस्परगताः परिपाचयन्ति ३ ।
स्थानान्यथैतानि सवर्णयित्वा सर्वाण्यधश्चेह विवर्जि-
तानि । दशाव्दपिण्डे गुणका यथांशं छेदस्तदैक्येन
दशाप्रमेदः” ४ मू० ।
“उदयो लग्नं रविरात्मा शशाङ्कश्चन्द्रो मनः
एषामुदयरविशशाङ्कानां मध्याद् यः प्राणी बलवान् तद्बलवशा
त्तस्व सम्बन्धिनी प्रथमा दशा भवति प्राणिनां देहवताम् ।
तथा च यवनेश्वरः “निशाकरादित्यविलग्नभानां तत्काल-
योगादधिकं बलं यः । विभर्ति तस्यादिदशेष्यते सा शेषा-
स्ततः शेषबलक्रमेणेति” उदयश्च रविश्च शशाङ्कश्चोदय
रविशशाङ्काः उदयरविशशाङ्कानां प्राणी उदयरवि-
शशाङ्कप्रणी च केन्द्रादिसंस्थाश्चोदयरविशशाङ्कप्राणि-
केन्द्रादिसंस्थाः एवमेषां मध्याद्येन प्रथमा दशा दत्ता
तस्यैव केन्द्रादिसंस्थाः केन्द्रपणफरापोक्लिमेषु स्थिता
ग्रहाः वीर्योपचयक्रमेण दशां दद्युः एवं लग्नार्कशशा-
ङ्कानां मध्यादेकस्य बलवतो दशा आदौ परिकल्प्या
ततस्तस्य ये केन्द्रस्थाः तेषां दशाः परिकल्प्याः तैः केन्द्रस्थैः
प्रथमे वयसि फलं दत्तं भवति ततः प्रथमदशापतेरेव
ये पणफरस्थास्तेषां दशाः परिकल्प्याः तैः मध्ये वयसि
फलं दत्तं भवति । ततः प्रथमदशापतेरेवापोक्लिम
स्थानां दशाः परिकल्प्याः तैरन्त्ये वयसि फलं दत्तं
मवति यदुक्तम् प्रथमवयसि मध्येऽन्त्ये च दद्युः
फलानि तथा च यवनेश्वरः “पूर्वं तु केन्द्रोपगताः
फलन्ति मध्ये वयः पाणफरे निविष्टाः । आपोक्लिमस्थाः
फलदावयोऽन्त्ये यथाबलं स्वं समुपैति पूर्वम्” । अथ
यदि केन्द्रस्थाः ग्रहाः न भवन्ति तदा कः प्रथमे वयसि
फलं प्रयच्छति इत्याह न हि न फलविपाक इत्यादि
केन्द्रस्थाद्यभावे केन्द्रस्थानां ग्रहाणामभावे असम्भवे
सति प्रथमे वयसि यः फलविपाकः स न हि न यतो
द्वौ नञौ प्रकृत्यर्थं गमयतः पणफरस्थानासप्यभावे
मध्ये वयसि फलविपाको न हि न एतदुक्त भवति
यदा केन्द्रस्था ग्रहा न भवन्ति तदा पणफरस्थाः पूर्वं
फलं प्रयच्छन्ति ततः आपोक्लिमस्थाः अथ केन्द्रस्थान
भवन्ति पणफरस्थाश्च न मवन्ति । तदा सर्वस्मिन्नेव
वयसि आपोक्लिमस्थाः फलं प्रयच्छन्ति । यत उक्तं
भवति हि फलपक्तिः पूर्वमापोक्लिमेऽपि इति एवमापो
क्लिमस्थानामभावे प्रथमं केन्द्रस्थाः फलं प्रयच्छन्ति ततः
पणफरस्थाः । आपोक्लिमस्था न भवन्ति न च पणफरस्था-
स्तदा सर्वस्मिन्नेव वयसि केन्द्रस्थाः फलं प्रयच्छन्ति ।
एतदुक्तं भवति । लग्नार्कशशाङ्कातां मध्ये यो बलवांस्तस्य
प्रथमां दशां कल्पयित्वा ततस्तत्केन्द्रगानां सर्वेषां
कल्पनीया तेषां परिकल्प्य पणफरस्थानां ततः परिक-
ल्पनीयास्ततः परमापोक्लिमस्थानाम् केन्द्रस्थानामभावे प्रथमं
दशापतेरनन्तरं पणफरस्थानां कल्पनीयास्ततः
आपोक्लिमस्थानाम् केन्द्रस्थानामभावे पणफरस्थानामप्यभावे
आपोक्लिमस्थानामेव कल्पनीयाः । अथ केन्द्रस्थाः
पणकरस्थाश्च भवन्ति । आपोक्लिमस्था न भवन्ति तदा केन्द्र-
स्थानां परिकल्प्य पणफरस्थानामेव परिकल्पनीयाः अथ
केन्द्रस्था भवन्ति पणफरस्था न भवन्ति आपोक्लिमस्थाश्च
भवन्ति तदा केन्द्रस्थानां कल्पयित्वा आषोक्लिमगाना-
मेव कल्पनीयाः । अथ केन्द्रगा एव केवलं भवन्ति तदा
तेषामेव कल्पनीयाः । अथ पणफरगा एव भवन्ति तदा
षणफरगानामेव कल्पनीयाः । अथाऽपोक्लिमगा एव भवन्ति
तदा तेषामेव कल्पनीयाः । तथा च स्वल्पजातके उक्तम् ।
लग्नार्कशशाङ्कानां यो बलवांस्तद्दशा भवेत् प्रथमा ।
तत्केन्द्रपणफरापोक्लिमोपगानां बलाच्छेषाः” १ ।
अथ दशाकालप्रमाणं केन्द्रगानामपि दशाक्रमज्ञानमि-
न्द्रवज्रयाह “आयुः कृतमिति शोध्यक्षेपविशुद्धमायुर्याव-
द्वर्षप्रमाणं येन ग्रहेण दत्तं तस्य ग्रहस्य सम्बन्धिनी
दशा कल्प्या परिकल्पनीया तत्र “लग्नर्कशशाङ्काना
यो बलवान् तद्दशा भवेत्प्रथमेति न्यायेन तद्दशां प्रथम
कल्पयित्वा ततस्तत्केन्द्रगानां परिकल्पनीया यत्रैषां च
केन्द्रगानां मध्यात् सा च दशा प्रवलस्यातिबलस्य पूर्वं
प्रथमं कलप्या अनन्तरं तस्मादूनबलस्य एवं क्रमेण यथा
यथा ऊनबला भवन्ति तथा तथा पश्चात्तदीयदशाः
कल्पनीयाः । एवं केन्द्रगानां दशाः परिकल्प्य ततः
पणफरगानाम् अनेनैव क्रमेण परिकल्प्याः ततः
आपोक्लिमगानाम् अनेनैव क्रमेणेति । साम्ये वहूनामिति
केन्द्रगानां बहूनां ग्रहाणां बलसाम्ये सति बहुवर्षदस्य
बहूनि वर्षाणि येन दत्तानि तस्य प्रथमं दशा परि-
पृष्ठ ३४९७
कल्प्या । नन्वत्र कथं ग्रहाणां वलसाम्यं मवति यदि
द्वावपि स्वसुहृत्त्रिकोणोच्चगतौ भवतस्तदा नैसर्गिकेण
वलेन योऽधिकः स एव वली स्यात् किन्तु स्थानदिक्
चेष्टाकालबलग्रहदर्शनादिबलानि यावद्गणितविधिनैकी
क्रियन्ते तावद्वलसाम्यं भवति ग्रहाणां यथा
सामान्येनोदाहरणम् । यदि शनैश्चरो बलत्रयेण संयुक्तो
भवति भौमो बलद्वयेन तदा तत्र भौमस्य निर्सर्गबल-
बत्वाद्बलसाम्यं भवत्येवं सर्वेषामपि ज्ञेयम् । तेषाञ्च
साम्ये प्रथमोदितस्येति तेषां वर्षाणां साम्येऽपि वर्षतु-
ल्यत्वेऽपि प्रथमोदितस्य दशा परिकल्प्या प्रथममादावर्कम-
ण्डलाद्य उदित उद्गतस्तस्य । यदा बलसाम्यं न भवति
तदा बहुवर्षदेऽपि ग्रहे स्थिते तदा प्रथमोदितेऽपि स्थिते
बलाधिकस्यैव पूर्वं परिकल्प्येति तेषाञ्च बलसाम्ये
प्रथमोदितस्येत्यत्न द्विविध उदयः प्रत्यहं चक्रभ्रम-
वशादेकः, आदित्यविप्रकर्षेणापरः । तत्रेहादित्यविप्रक-
र्षेण उदयो गणितस्कन्धोक्तकालांशकवशाज्ज्ञेयः अत्र
च भगवान् गार्गः “बली लग्नेन्दुसूर्य्याणां दशामाद्यां
प्रयच्छति । तस्मात्ततः प्रयच्छन्तिकेन्द्रादिस्थाः क्रमेणतु ।
तत्रापि बलिनः पूर्वं तत्साम्ये वहुदायकाः । तत्साम्ये-
ऽपि प्रयच्छन्ति वे पूर्वं रविविच्युताः” २ भट्टो० ।
“एवं दशाव्यवस्थायां जातायामन्तर्दशायाञ्च ग्रहज्ञानं
वसन्ततिलकेनाह एकर्क्षगोऽर्द्धमिति दशापतिना सहैक-
र्क्षगोग्रहः एकस्मिन् राशौ गतः दशापतिदत्ता-
न्तर्दशाकालस्य यदर्द्धं तदर्द्धमपहृत्य स्वैरात्मीयैः
दशागुणैः परिपाचयति । त्र्यंशं त्रिकोणगृहगः दशापतेस्त्रि-
कोणगृहगो नवपञ्चमे स्थाने स्थितो दशापतिदत्तान्तर्दशा-
कालातू त्र्यंशं तृतीयभागमपहृत्य खैरात्मीयैः दशागुणैः
परिपाचयति । स्मरगः स्मरांशमिति दशापतेः स्मरगः
सप्तमस्थानगः दशापतिदत्तान्तर्दशाकालात् स्वरांशं सप्त-
मभागमप्रहृत्य स्वैः दशागुणैः परिपाचयति । पादं फलस्य
चतुरस्रगतः दशापतेः चतुरस्रगोऽष्टमचतुर्थस्थानस्थो
दशापतिदत्तान्तर्दशाकालात्पादं चतुर्थभागमपहृत्य स्वै-
र्दशागुणैः परिपाचयति । सहोराः होरा लग्नं तया
त्सहिताः परस्परमन्थोन्यमनेकप्रकारेण व्यवस्थिताः स्वैः
स्वः गुणैः परिपाचयति । एतदुक्तं भवति । यथा दशापतेः
सकाशादेकर्क्षादिगो ग्रहो यथास्वं पठितमंशं परिपाचयति-
तथा लग्नमपि पाचयति । अथ दशापतेः प्रथममंशपरिक-
ल्पनां कृत्वा पश्चादेकक्षो दिगतानां कर्त्तव्याः यस्माद्दणापतेर्यो
भाग आगच्छति तदनुसारेणार्द्धादयो भागाः । परिशेषाणां
भवन्ति । अथैकस्मिन् स्थाने यदा बहवो ग्रहा भवन्ति
तदा तेषां मध्याद् यो बलवान् स एवैकः परिपाचयति
नान्ये । कथमेतद्गम्यते उच्यते । एकवचननिर्देशात् एकर्क्ष-
गोऽर्द्धमपहृत्य ददाति तु स्वमित्याद्येकवचनात् न केवलं
मिहिराचार्येणैकवचननिर्देशः कृतो यावत् स्वल्प-
जातकेऽपि तथा चोक्तम् “एकर्क्षेऽर्द्धं त्र्यंशं त्रिको-
णयोः सप्तमे तु सप्तांशं चतुरस्रयोस्तु पादं पाचयति
गतो ग्रहः स्वगुणैरिति” गर्गादीनामप्येकवचननिर्देशो-
ऽस्ति तथा च भगवान् गर्गः “एकर्क्षे संगतश्चार्द
त्रिभागन्तु त्रिकोणगः सप्तमस्थः स्वरांशन्तु पादन्तु
चतुरस्रगः । लग्नेन सहिताः सर्वे ह्यन्योन्यं
फलदायकाः” यवनेश्वरश्चाप्येवम् “कालोऽर्द्धभागैकग्रहा-
श्रितस्य तदर्द्धभागं लभते चतुर्थे । त्रिभागभागी च त्रि-
कोणसंस्थात्तदर्द्धभाक् स्याच्च पृथक् त्रिकोणे । स्यात् सप्तमे
सप्तमभागभागी स्थितो ग्रहश्चारवशात् ग्रहस्य” । एवं सर्व-
त्रैकवचननिर्देशः । तस्मादेवं ज्ञायते यथैक एवांशहारो
भवति न सर्व इति तथा च सत्यः “अर्द्धं तृतीयमर्द्धं
तथार्द्धं स्वोच्चसप्तमं भागम् । एकर्क्षे नवपञ्चमचतुर्थनिध-
नास्तसंस्थानम् । दद्युर्ग्रहा ग्रहाणां स्वदशास्वन्तर्दशा-
ख्यानाम् । फलकालान्मित्रविधिक्रमेण भेदाश्च तेऽप्ये-
वम् । एकर्क्षगेषु बलवान् भागहारो मित्रतो रिपोर्वापि
मित्रञ्च” । पुष्कलफलं तस्मिन् काले रिपोर्नैवं तथा च
मयः “एकर्क्षोपगतानां यो भवति बलाधिको विशेषेण ।
एकः स एव हर्त्ता नान्ये तत्र श्रिता विहगाः” । इति
लग्नेऽपि यत्रांशापहारित्वं प्राप्तस्तत्र च लग्ने यदा
ग्रहः स्थितो भवति तदा लग्नग्रहयोर्यो बलवान् स
एवैकः पठितमंशमपहरति अन्ये सर्वेषामेकादिराशिगा-
नामन्तर्दशाभागमिच्छन्ति । अन्ये पुनः एकमेव भागं
गृहीत्वा तं भागमेकर्क्षगानां भागीकृत्य तद्भागांश-
मिच्छन्ति” ३ भट्टो० ।
“अथ दशांशपरिकल्पनाज्ञानमिन्द्रवज्रयाह स्थाना-
नीति अर्द्धादिका भागाः स्थानशब्देनोच्यन्ते तेषां
चार्द्धादिकानां भागानां सवर्णना कार्या सवर्णना सदृशच्छे-
दता ततः सवर्णयित्वा छेदसावृश्यमुत्पाद्य ततस्तानि
सर्वाणि स्थानानि अधः स्वैः छेदैः विवर्जितानि कार्याणि
छेदा अपास्या इत्यर्थः । उपरिगताराशयो यथांशं
प्रत्यंशं गुणना कार्या भवन्ति छेदः तदैक्येन संक्षेपेण
पृष्ठ ३४९८
छेदो भागहारो भवति । कस्मिन् गुणके को भागहार
इत्याह दशाव्दपिण्डे दशावर्षसमूहे । तेनैतदुक्तं भवति
दशाव्दान् पृथक् पृथक् संगुणकारैः संगुण्य छेदेन
विभज्यावाप्तं वर्षाद्यमन्तर्दशा भवन्ति” ४ भट्टो० ।
“सम्यगबलिनः स्वतुङ्गभागे संपूर्णा बलवर्जितस्य
रिक्ता । नीचांशगतस्य शत्रुभागे ज्ञेयानिष्टफला दशा
प्रसूतौ” ५ मू० ।
“एवं दशान्तर्दशाविभागे ज्ञाते कस्य सम्बन्धिनी
दशान्तर्दशा वा शुभफला भवति कस्याशुभफलेत्येतन्न
ज्ञायते तदर्थं दशासु फलानुरूपाः संज्ञा वैतालीयेनाह
सम्यग्वलिम इति प्रसूतौ पुरुषस्य जन्मकाले यो ग्रहः
सम्यग्बलवान् भवति पूर्वोक्तैः बलैः सर्वैः युक्तो भवति
तत्सम्बन्धिनी संपूर्णनाम्नी दशा भवति न केवलं यावत्
स्वतुङ्गभागेऽवस्थितस्य परमोच्चभागगतस्यैव संपूर्णा नाम्नी
भवति सम्यग्वलिनैत्युक्त्वा पुनः स्वतुङ्गभाग इत्यने-
नैतज्ज्ञापयति यदि परमोच्चगतो ग्रहोऽन्यैः बलकारणैः
युक्तो न भवति तथापि तस्य सम्बन्धिनी संपूर्णैव
संपूर्णायां दशायामन्तर्दशायाञ्च काले शरीरारोग्यधनवृ-
द्धिभिः पुरुषोऽभिवर्द्धते । अथ समस्तबलैः युक्तो न मवति
किञ्चिदूनबलस्य भागे यो ग्रहो गतः भवति यश्च
शत्रुभागे शत्रुनवांशे च गतस्तस्य दशानिष्ठकला
ज्ञेया ज्ञातव्या । अथानिष्टफलदशान्तर्दशाकाले
धनहानिमनारोग्यञ्च प्राप्नोति अत्र च भगवान् गार्गिः
“सर्वैर्बलैरुपेतस्य परमोच्चगतस्य च । संपूर्णाख्या दशा
ज्ञेया धनारोग्यविवर्द्धिनी । गर्वैर्बलैर्विहीनस्य
नीचराशिगतस्य वा । रिक्ता नाम दशा ज्ञेया धनारोग्यवि-
नाशिनी । स्वोच्चराशिगतस्याथ किञ्चिद्बलगतस्य च ।
पर्णा नाम दशा ज्ञेया धनदृद्धिकरी शुभा । यः स्यात्
परमनीचस्थस्तथाचारिनवांशके । तस्यानिष्टफला नाम
व्याध्यनर्थविवर्द्धिनी” ५ भट्टो० ।
“भ्रष्टस्य तुङ्गादवरोहिसंज्ञा मध्या भवेत् सा सुहृदुच्च-
भाग । आरोहिणी निम्नपरिच्युतस्य नीचारिभागेष्वध-
मा भवेत् सा” ६ मू० ।
“अथ दशान्तर्दशासंज्ञाः पुनरपीन्द्रवज्रयाह भ्रष्टस्येति
तुङ्गात्परमोच्चाद्भ्रष्टस्य च्युतस्यावरोहिसंज्ञा दशा
परमोच्चभागान्तादारभ्य यावत् परमनीचभागादि तत्रान्तरे
यद्राशिषट्कं तत्रावस्थितेन ग्रहेण या दत्ता दशान्तर्दशा-
वा सावरोहिणीसंज्ञा भवति यस्मात्परमोच्चाद्भ्रष्टः प्रत्य-
हमधोऽवतरतीति ग्रहः कल्प्यते यावत्परमनीचमिति
अवरोहिसंज्ञा दशाऽधमफला भवति । यस्माद्वक्ष्यति
“संज्ञानुरूपाणि फलान्यथैषामिति” । मध्या भवेत् सा
सुहृदुच्चभाग इति सैवारोहिणी यत्र तत्र राशौ व्यव-
स्थितेन सुहृद्भागेन मित्रांशकस्थेन दत्ता दशा मध्या-
नाम्न्येव भवति एवं यत्र तत्र राशौ अर्थादेव स्वांशक-
स्थेन दशा मध्यैव । एवं यत्र तत्र राशौ खोच्चनवांशक-
स्थेन दशा मध्यैव । आरोहिणीति । निम्नान्नीचात्
परिच्युतस्य चलितस्य ग्रहस्यारोहिणीनाम्नी दशा
भवति परमनीचान्तभागादारभ्य यावत् परमोच्चभागादि
तत्रान्तरे यद्राशिषट्कं तत्रावस्थितेन ग्रहेण या दत्ता
दशान्तर्द्दशा वा सारोहिणीनाम्नी दशा भवति यस्मात्
परमनीचादभ्रष्टः प्रत्यहं तावदारोहतीति ग्रहः
परिकल्प्यते यावत् परमोच्चमिति । आरोहिणी च श्रेष्ठ-
फला भवति । नीचारिभांश इति सैवारोहिणी यत्र तत्र
राशौ स्वनीचराश्यंशोपगतेन दत्ताऽधमानाम्नी दशा
भवति एवं यत्र तत्र राशावरिभांशकस्थेन शत्रुनवां-
शकगेन दत्ताऽधमैव दशा भवति । पूर्वं शत्रुनवांश-
कगेन दत्तानिष्टफलेत्युक्तमधुना सैवाधमेति तत्
किमेतदित्यत्रोच्यते अवरोहिणीशत्रुनवांशकस्थेन दत्तापि
अनिष्टफला ज्ञेया आरोहिण्यधमा अनयोः कः
फलभेदः अत्रोच्यते अनिष्टफलाफलमशुभं प्रयच्छति
अधमाशुभमेवाल्पमिति एवमवरोहिणीसंज्ञा यदाधमसंज्ञा
भवति तदा सैवानिष्टफलसंज्ञां लभते आरोहिणी यदा
मध्यसंज्ञा भवति तदा सैव पूर्णेति संज्ञा ज्ञेया अत्राह,
भगवान् गार्गिः “उच्चनीचान्तरस्थस्य दशा स्यादवरो-
हिणी । तस्यामल्पमवाप्नोति फलं क्लेशाच्छुभं नरः ।
मित्रोच्चस्वांशकस्थस्य मध्या मध्य फला तु सा । नीचोच्च-
मध्यगस्योक्ता श्रेष्ठा चारोहिणी दशा । सैवाधमाख्या
भवति नीचराश्यंशगस्य तु । अवरोहिणी चेदधमा
भवेत् कष्टफला तदा । आरोहिणी मध्यफला संपूर्णा
परिकीर्त्तितेति” ६ भट्टो० ।
“नीचारिभांशे समवस्थितस्य शस्ते गृहे मिश्रफला
प्रदिष्टा । संज्ञानुरूपाणि फलान्यथैषां दशासु वक्ष्यामि
यथोपयोगम्” ७ मू० ।
“अथ दशान्तर्दशासंज्ञाः पुनरप्युपजातिकयाह नीचा
रीति शस्तानि गृहाणि स्वोच्चमूलत्रिकोणात्मक्षेत्रमित्र-
क्षेत्राणि तेष्ववस्थितेन नीचराश्यं शकेऽरिभांशे शत्रु-
पृष्ठ ३४९९
नवांशके समवस्थितेन वा ग्रहेण दत्ता या दशान्तर्दशा
वासा मिश्रफलानाम्न्येव मिश्रफला शुभमशुभञ्च फलं प्रय-
च्छति व्याधिसमेतमर्थागममेवमादिशेत् अर्थादेवाशस्त-
राशिगतेन, अशस्ताः शत्रुनीचराशयः तद्गेन स्वोच्च-
मित्रमूलत्रिकोणात्मवर्गोत्तमनवांशकगेनापि दत्ता मिश्र-
फलैव भवति संज्ञारूपाणि नामसदृशानि फलानि
दशास्वन्तर्दशासु च ज्ञेयानि । तद्यथा संपूर्णाऽत्यन्त-
श्रेष्ठफलप्रदा । पूर्णा श्रेष्ठफला । अधमाऽशुभफलदा
अल्पफलदा रिक्ता अर्थापहारिणी अनिष्टफलदात्यन्त-
मशुभफलकारी । मिश्रफला शुभमशुभञ्च फलं प्रय-
च्छति । अथैषां दशास्विति अथशब्दः आनन्तर्य्ये
एषामादित्यपूर्वाणां ग्रहाणां दशासु यथोपयोगम्
उत्तरत्र वक्ष्यामि यथा येन प्रकारेणैव युज्यते तथा
तत्कथयिष्यामि कस्यान्तर्दशायां किं फलमुपयुज्यत” ७ भट्टो०
“उभयेऽधममध्यमपूजिता द्रेष्काणैश्चरभेषु चोत्-
क्रमात् । अशुभेष्टसमाः स्थिरे क्रमाद्धोरायाः परिकल्पिता
दशा” ८ मू० ।
“अथ लग्नदशायां शुभाशुभज्ञानं वैतालीयेनाह उभये
इति । उभये द्विस्वभावे राशौ लग्नगते द्रेष्काणक्रमे-
णाधममध्यमपूजिता दशा ज्ञेयाः प्रथमद्रेष्काणे
जातस्याधमाऽशोभनाऽनिष्टफला द्वितीये द्रेष्काणे मध्यमा-
मिश्रफला तृतीये द्रेष्काणे पूजिता श्रेष्ठफला । चरभेषु
चरराशिषु उत्क्रमेण वैपरीत्येन तेन प्रथमद्रेष्काणे
जातस्य पूजिता द्वितीये मध्यमा तृतीयेऽधमानिष्टफला
अशुभेष्टसमाः स्थिरे क्रमादिति स्थिरे स्थिरराशौ प्रथम-
द्रेष्काणेऽशुभा द्वितीये द्रेष्काणे इष्टा श्रेष्ठा तृतीये
द्रेष्काणे समा मध्यफला एवं होरायाः लग्नस्य दशाः
परिकल्पिता उक्ता इति” ८ भट्टो० ।
“एकं द्वौ नवविंशतिर्घृतिकृती पञ्चाशदेषां क्रमाच्च-
न्द्रारेन्दुजशुक्रजीवदिनकृद्दैवाकरणीणां समाः । स्वैः
स्वैः पुष्टफला निसर्गजनितैः पक्तिर्दशायाः क्रमादन्ते
लग्नदशा शुभेति यवनानेच्छन्ति केचित्तथा” ९ मू० ।
“अथ नैसर्गिकदशाकालं ग्रहाणां शार्दूलविक्री-
ड़ितेनाह एकमिति । एकाद्याः समाः एकादीनि
वर्षाणि चन्द्रादीनां यथाभिहितानि नैसर्गिकाणि तद्यथा
जन्मसमयादारभ्यैकं संवत्सरः एकश्चन्द्रस्य ततः
परं द्वावारस्याङ्गारकस्य एवं त्रयः ततः परं नवेन्दुजस्य
बुधस्य एवं द्वादश । ततः परं विंशतिः शुक्रस्य एवं द्वा-
त्रि शत् । ततः परं धृतयः अष्टादश जीवस्य गुरोः एवं
पञ्चाशत् ततः परं कृतिसंख्या विंशतिः दिनकृतः सूर्य्यस्य
एवं सप्ततिः । ततः पर पञ्चाशत् दैवाकरेः सौरेः, एवं
विंशत्यधिकं वर्षशतम् १२० । एतेषु निसर्गदशाधिपेषु ग्रहेषु
बलवत्सूपचयशब्दितेषु च तद्दशासु शोभनानि
दशाफलानि भवन्ति हीनबलेष्वनुपचयस्थेष्वशोभनानि । एतच्च
सर्वथा चिन्त्यम् । यतो निसर्गदशास्वविसंवाद इति तथां
च यवनेश्वरः “स्तनोपभोगः शशिनो वयः खम् भौमस्य
विद्याद्दर्शनानुजन्म । बौधन्तु शिक्षापदकालमाहुरमैथुनेच्छा-
ललितप्रवृत्तिम् । शौक्रं युवत्वं विधुपूर्वदृष्टमामध्यमाद्देव-
गुरोर्वदन्ति । रवेर्वयोऽर्द्धात्परमन्यमस्मात् सौरेर्जरा दुर्भग-
कालमाहुरिति” नैसर्गिकस्थदशाकालस्य प्रयोजनमाह
स्वैः स्वैरिति तत्र यस्य ग्रहस्य सम्बन्धिनी पूर्वविधिना
कृता दशान्तर्द्दशा वा सा यदि नैसर्गिकसमाभिः निसर्ग-
कथितवर्षैः स्वैः स्वैः आत्मीयैः युज्यते स्वदशा-
कालेन समकालं भवति तदा यावत्कालं तस्य दशाद्वय-
स्यैक्यं भवति तावत्कालं तस्य दशान्तर्दशा वा यदि
भवति तस्थाः पुष्टा परिपूर्णा फलपक्तिः पाको भवति
क्रमात् प्रतिपद्य यावद्वर्त्तते तावच्छुभफलेत्यर्थः । अत्र
केचिद्वदन्ति “यथा पूर्वविधिना ज्ञाता शुभा तदा
शुभफलमत्यर्थं प्रयच्छत्यथाशुभा तदाऽशुभमत्यर्थमिति”
एतच्चायुक्तम् यस्माद्यबनेश्वरः “स्वेष्टा दशा स्वे वयसि
ग्रहस्येति” तथा च सत्यः “एकाव्दिकः शशी त्र्यव्दिकः
कुजो द्वादशावदिकः सौम्यः द्वात्रिंशद्भृगुपुत्रो गुरुस्तु
कथितः शतस्यार्द्धं ५० । सप्तत्यव्दः सूर्य्यो विंशत्यधिकः
शनैश्चरोऽवदशतः । वयसोऽन्तराणि चैषां स्वदशा नैसर्गिकः
कालः । स्वं वयसः सदृशं ग्रहाः समासाद्य देहिनां कालम् ।
भक्षणपोषणचेष्टास्वभावदाः स्युर्यथासंख्यम्” । अथ लग्न-
दशानैसर्गिककालं पुराणयवनमतेनाह अन्ते लग्नदशा इति
विंशत्यधिकाद्वर्षशतादूर्ध्वं यदि कस्यचिदायुषः कालो
भवति तदा स कालः सर्व एव लग्नस्य नैसर्गिकी दशा ।
कालो भवति तस्मिन् काले पुराणयवनानां मतेन
लग्नदशा शोभना भवति । विंशत्यधिकाद्वर्षशतादूर्ध्व-
मित्येतत् कुतोऽवगम्यते उच्यते तदर्वाक्कालस्यान्यग्रहपरि-
गृहीतत्वात् लग्नस्थानावकाशादेव । अथ वान्यः कश्चिदाह
यथा ननु विंशत्यधिकात् शतादधिकं यस्यायुर्नास्ति
किं तस्य लग्ननैसर्गिको दशाकालो नास्ति । उच्यते
नास्त्येव न केवलं यावद्वर्षसप्ततेरभ्यधिकं नास्ति यस्यायु
पृष्ठ ३५००
र्नास्ति तस्य शनैश्चरसम्बन्ध नैसर्गिको दशाकालो
नास्ति यस्य पञ्चाशतोऽधिकं नास्ति तस्यादित्यस्यापि नास्ति
एवमन्येषामपि योज्यम् ननु विंशत्यधिक वर्षशतं
परमायुरत ऊर्ध्वं जीविताभावात्को लग्नस्य नैसर्गिको
दशाकालः उच्यते पूर्वमेव व्याख्यातं यथा विंशत्यधिकं
वर्षशतं परमायुः त्रैराशिकार्थमश्वादीनामायुर्ज्ञानार्थं
प्रदर्शितं यतः तावत्प्रमाणादायुषः परं सम्भवतीति
तथा च यदा मीनलग्ने बलवति मीनांशकान्ते च
कश्चिज्जातो भवति सर्वेच ग्रहाः यत्र तत्र राशौ
मिनांशकावस्थिता भवन्ति केचिदुच्चगताः केचिच्च वक्रि-
ताग्तदा मीनलग्नो द्वादशवर्षाणि ददाति स एव बलयुत-
स्तदान्यानि द्वादशवर्षाणि ग्रहश्चैको मीनांशकान्तं गत्वा-
द्वादशवर्षाणि ददाति तानि च वक्रोच्चगत्वात् त्रिगुणानि
षट्त्रिंशद्भवन्ति आदित्यवर्जम् आदित्यस्य मेषे धन्वंशके
गतस्य सप्तविंशतिवर्षाणि भवन्ति एवं चन्द्रादीनां
षण्णां शतद्वयं षोड़शाधिकं भवति आदित्यस्य सप्त-
विंशतिः लग्नस्य चतुर्विंशतिः । एवमेकीकृतं शतद्वयं
सप्तषष्ट्यधिकं भवति । नन्वेतावत्, प्रमाणं कालं कश्चि-
ज्जीवमानो न दृश्यते योगस्यातिदुर्लभत्वात् उच्यते कश्चित्
दृश्यत एव जन्त्वादिकः नेच्छन्ति केचित्तथा तां लग्न-
दशामन्ते केचिदाचार्याः श्रुतिकीर्त्तिप्रभृतयः तथा तेनैव
प्रकारेण शुभेति नेच्छन्ति नो वाञ्छन्तीत्यर्थः यस्माद-
बलत्वे लग्नस्य वयोऽन्ते तद्दशा भवति सा शुभा ।
आचार्य्येण लग्नदशायां शुभाशुभत्वं बलवशान्नोक्तं द्रे-
ष्काणवशादुक्तम् उभयेऽधममध्यपूजिता इति यस्माद्-
वलहीनस्यापि लग्नस्य वयोऽन्ते दशाद्रेष्काणवशाच्छुभा
भवति तस्माद्ये आचार्या अन्ते लग्नदशां नेच्छन्ति ते
निष्कारणमेव नेच्छन्ति । ननु किमागमग्रन्थानां कारणेन
उच्यते य एवाचार्य्याः अन्ते लग्नदशां नेच्छन्ति त
एवागमान् त्यक्त्वा यथादर्शितकारणम् उपन्यस्य नेच्छन्ति तेन
कारणेन दोष उक्तः तथा च श्रुतिकीर्त्तिः “अन्ते लग्न-
दशा शुभेति” यवनानैतद्वहूनां मतं तस्मिन् हीनवले
यतोऽन्त्यसमये साम्यादतो नेष्यते एतच्छ्रुतकीर्त्तिना
कारणमुपन्यस्तं तच्च दुष्टमतो नैसर्गिके लग्नदशाकाले-
ऽलर्दशा शुभेत्यवगन्तव्यम्” भट्टो० ।
“पाकस्वामिनि लग्नगे सुहृदि वा वर्गस्थसौम्येऽपि
वा प्रारब्धा शुभदा दशा त्रिदशषड्लाभेषु वा पाकके ।
मित्रोच्चोपचयत्रिकोणमदने पाकेश्वरस्य स्थितश्चन्द्रः सत्-
फलबोधनानि कुरुते पापानि चातोऽन्यथा” १० मू० ।
“अथ दशान्तर्दशाशुभाशुभज्ञानं शार्दूलविक्रीड़िते-
नाह पाकस्वामिनीति । सौरसावनचान्द्रनाक्षत्राणि
चत्वारि मानानि तत्र सौस्मानं रविभगणभोगः । यावता
कालेनार्कोभमेकं भुङ्क्ते स सौरी मासदिनं यावता
कालेन राशिद्वादशकं भुङ्क्ते तत्सौरंवर्षं तच्च पञ्चषष्ट्य-
धिकैस्त्रिभिः शतैः दिनानां घटिकापञ्चदशकेन सार्द्धेन
भवति । सावनमुदयादुदयः । अर्कोदयात् पुनरेवार्कोदयः
सावनमहोरात्रं तच्च षष्टिघटिकमहोरात्रं अहोरात्र
त्रिंशन्मासः मासा द्वादश वर्षम् । एवं षष्ट्यधिकैस्त्रिभिः शतैः
दिनानां सावनं वर्षम् । चान्द्रं तिथिभोगः तच्च स्वमानेन
षष्ट्यधिकं शतत्रयं भवति सावनेनेदं मानं शतत्र यं चतुः-
पञ्चाशदधिकं दिनानां तच्चान्द्रं वर्षं भवति । एवं
सौरसावनचान्द्राणि त्रीणि मानानि प्रत्येकं स्वस्वमानेन षष्ट्य-
धिकं शतत्रयं भवति । नाक्षत्रं चन्द्रनक्षत्रभोगः तच्च
दिनानां सप्तविंशत्या मासो भवति तत्र शतत्रयेण
चतुर्विंशत्यधिकेन दिनानां वर्षमुक्तञ्च “रव्यंशगोऽहो
रात्रः सौरश्चान्द्रमसस्तिथिः । चन्द्रनक्षत्रभोगस्तु नाक्षत्रः
परिकीर्त्तितः । स सावनो ग्रहर्क्षाणामुदयादुदयावधि ।
नाक्षत्रमाने मासः स्यात् सप्तविंशतिवासरः । शेषमाषु
निर्दिष्टो मासस्त्रिंशद्दिनात्मकः” इति तस्मात् सावनमानेना-
युर्दायगणना कार्य्या यस्माच्छोष्यक्षेपविशुद्धमायुः कर्तव्य
तच्च सावनमानं सौरमानेन संक्रान्त्यवधिको मासः
सावनस्त्रिंद्रात्रः चान्द्रोऽमास्यान्तिकः, नाक्षत्रो रेवत्य-
न्तिकः । सौरमधिमासकयुतं चान्द्रं भवति चान्द्रमवम-
रात्रोनं सावनं भवति चान्द्रं साव्दनाक्षत्रम् उक्तञ्च “युग-
वर्षमासपिण्डं रविमानं साधिमासकं चान्द्रम् ।
अवमविहीनं सावनमैन्दवमव्दान्वितं वर्षमिति । एवं शोध्यक्षे-
पविशुद्धं सावनमानेनायुर्दाविधिः तथा च मयूरचित्रक
गगवान् गार्गिः “आयुर्दायविभागश्च प्रायश्चित्तक्रिया-
स्तथा । सावनेनैव कर्त्तव्या सत्राणामप्युपासनम्” ।
नन्वर्कोदयादारभ्यार्कोदयावधिं यावदहोरात्रं तत् पुलि-
शतन्त्रे सौरमहोरात्रं पठ्यते । “अष्टाक्षिवसुसप्तमरूप-
नवमुनिनगतिथयः शतगुणाश्च सौरेणेति” एतच्च पुलिश
एव जानाति यस्मात् पुलिशतन्त्रं वर्ज्जयित्वा सर्व-
सिद्धान्तेषु तन्त्रेषु सौरमानेन रविभगणभोगः
सौरमानमधिमासयुक्त चान्द्रमवमरात्रोनं सावनं भवति एवं
शोध्यक्षेपविशुद्धं चान्द्रं भवति । सावनमानं सावसंहितासु
पृष्ठ ३५०१
चार्कोदयादारभ्यार्कोदयं यावद्यदहोरात्रं तत्सावनमहो-
रात्रमिति संज्ञा तथा च भगवान् पराशरः गार्गिश्च
“सावनेन स्मृतो मासस्त्रिंशदुष्णकरोदयः” तथा
श्रीभट्टब्रह्मगुप्तः “सावनमुदयादुदयमिति” एवं पुरुषस्य
जन्मसमये सावनमहर्गणं कृत्वा तस्मात्तिथिनक्षत्रपरि-
च्छेदस्तात्कालिकाग्रहाः सलग्ना यथा कृतास्तथा
दशान्तर्द्दशावसाने कर्त्तव्याः तत आगामिदशाफलं वक्त-
व्यम् । कथमुच्यते । प्रथमं जन्मनि अहोरात्रात् तात्का-
लिकं कृत्वा ततस्तत्रान्तर्दशाकालं वर्षादिकं दिनीकृत्य
योजयेद्वर्षाणि द्वादशभिः संगुण्य तेषु मासान् संयोज्य
त्रिंशता पुनः संगुण्य तेषु दिनानि क्षिपेत् । एवं कृते
दशाकाली दिनरूपो भवति तच्च तात्कालिके जन्मा-
हर्गणे सविकले सविकलं संयोज्याहर्गणो भवति तत्राद्यो
यद्घटिकादिः कालो भवति तस्यातीतार्द्धरात्रात्परतो
गणना कार्य्या तस्मादिष्टदिनमानमानयेदनेनाचार्य्यसूर्य्येण
द्युगणोऽधोभवगुणितो द्विनवरसाप्तावधिकश्चान्द्रः
चान्द्रोऽधरर्तुवेदानागाप्तः अधिमासदिनैर्हीनः इति अथ
वसुगुणत्रिरात् मुनिगुणितः द्विनवखरसाप्तः पृथग्रसख-
दिग्मिः लब्धं खरामगुणितं शुद्धाप्तात् सैककोरविद्युगणः
एतत् खण्डनाद्यकरणेनैव भवति । कोऽसौ रविद्युगण
इत्याह शाकोऽगवसुशरीनोऽर्कगुणः चैत्रादिमासमुक्तः
त्रिंशद्गुणस्तिथियुत इति । अ{??} षष्ट्यधिकेन शतत्रयेण
भागमपहृत्यावाप्तं करणाव्दाः शेषास्त्रिंशद्भक्ताश्चैत्रसि-
ताद्या मासाः शेषा वर्त्तमानमासे सिताद्यास्तिथयः
करणाव्देष्वगवसुशरान् संयोज्यातीतशककालो भवति तस्मिन्
शाके तस्मिन्मासे तस्मिन् दिने सोऽहर्गण इति तत्रैव
दशाप्रवेशः पुनरप्यन्यमन्तर्दशाकालं दिनीकृत्य तस्मिन्
योजयेत् एवं यावत्योऽन्तर्दशा भवन्ति तावत्योऽनेनैव
प्रकारेण योजनीयाः । एवं ततो ग्रहान् लग्नञ्च गणयेत्
अथ वानेन प्रकारेण कालानयनम् “आदित्ये क्रियमाणे
यावन्तो गतभगणा भवन्ति तावन्तः करणप्रारम्भादारभ्य
गताव्दाः । तेषु करणप्रणीतं शककालं संयोज्येष्टशक-
कालो भवति वर्त्तमाने वर्षे यावन्तो राशयः स्फुटार्का
भवन्ति तावन्तो मासाः सूर्य्यभगणानीतात् शुक्ल-
पक्षं कृष्णपक्षं वा तिथिनक्षत्रं चन्द्रार्काभ्यां ज्ञायते
एव । पाकस्वामिनीत्यादि यस्य ग्रहस्यान्तर्द्दशाप्रवेशः
स पाकस्वामी तावच्चासौ पाकस्वामी यावत् तस्यान्त-
र्दशामेव । स च पाकस्वाम्यन्तर्दशाप्रवेशे लग्नगो यदि
भवति तदा तस्य सम्बन्धिन्यन्तर्दशा प्रारब्धा शुभद
शोभनफलदा भवति अथ वा तात्कालिकं पाकस्वा-
मिनो यत् सुहृन्मित्रं तस्मिन्नपि दशा प्रवेशकाले लग्नगे
शोभना दशा वक्तव्या । अथ वास्य दशापतेः पूर्वव्याख्यातो
यो वर्गः तस्मिन्नपि लग्नगे शोभना । अथवान्यस्मिन्
सौम्ये शुभग्रहे तत्काललग्नगे दशा प्रारब्धा शोभनैव ।
अथवा पाकपे दशाधिपतौ ग्रहे तात्कालिकलग्नात्त्रिदश-
षड्लाभेषु तृतीयषट्दशमैकादशस्थानानामन्यतमस्थे
शोभनैव दशा वक्तव्या । यद्यप्यत्र सामान्येनोक्तं प्रारब्धा
शुभदा दशा तथापि “अधिशत्रुदशां शत्रोः प्राप्तो
ऽनिष्टफलप्रदः । अधिमित्रोऽपि मित्रस्य दशां प्राप्तो-
ऽतिशोभनः । समः समदशामेत्य यथोक्तफलदो हि सः” ।
एतदपि चिन्तनीयम् अनेन प्रकारेण यदि शुभफला-
न्तर्दशा भवति तदा शुभैव अन्यथाऽशुभैव । अथ
शुभफलायामन्तर्दशायां किमप्यनवरतमेव सर्वकालं
शुभफलवाप्तिर्भवति किं वा कस्मिंश्चिद्दिवसे एवमशुभाया-
मन्तर्दशायामशुभफलावाप्तिरित्युभयत्र सन्देहव्युदासार्थ-
माह भित्रोच्चोपचयेत्यादि पाकेश्वरस्य दशापतेः
पतिराशौ सञ्चरतः तत्काले यो ग्रहो मित्रं तत्क्षेत्रस्थित-
श्चन्द्रमा यदा भवति तदा सत्फलबोधनानि कुरुते न
केवलं यावत् पाकपतेरुपचयस्थानगतोऽपि त्रिषड़ेका-
दशदशमस्थानानामन्यतमस्थानस्थस्त्रिकोणगोऽपि नवपञ्च-
मस्थानगतोऽपि तथा मदनस्थः सप्तमे च स्थितः एतेषु
निर्दिष्टस्थानेष्वन्यतमस्थानगश्चन्द्रभाः शुभफलायां दशायां
सत्फलबोधनानि कुरुते । ज्ञायते तेषां फलानामित्य-
त्रोच्चोपचयत्रिकोणमदने यस्मिन् स्थाने पाकेश्वरस्य
चन्द्रमाः स्थितः स राशिः जन्मनि योभाव आसीत्तदु-
द्भूतं सत्फलं बोधयति विशेषेण तथा दशा पठित-
मिति अतोऽस्मादुक्तप्रकारादन्यथा पाकपतेस्तत्कालं शत्रु
गृहे नीचराशौ वा दशापतिना सहैकराशौ द्वितीय-
चतुर्थाष्टमद्वादशस्थानानाभन्यतमस्थानस्थो भवति तदा
शुभफलायां दशायां पापानि फलानि प्रकटीकरोति
स च राशिर्यो भाव आसीत्तदुद्भूतं फलं बोधयति विशे-
षेण दशापठितमपि अनिष्टमप्यष्टकवर्गोद्भूतं च
मिश्रदशायां मित्रोच्चोपचयादिषु सत्फलबोधनानि कुरुते
शत्रुनीचादिषु अशुभफलानामिति तथा च भगवान्
गार्गिः “यद्राशिसंस्थः शीतांशुः शुभकृत् परिकीर्त्तितः ।
सराशिर्जन्मकाले तु यो भावस्तत् कृतञ्च तत्” । शरीरादि-
पृष्ठ ३५०२
कृतं सौख्यं वक्तव्यं बलयोगतः अनिष्टराशिसंस्थं तु
तद्भावानामशोभन इति” १० भट्टो० ।
“दशासु शस्तासु शुभानि कुर्वन्त्यनिष्टसज्ञास्वशुभानि
चैवम् । मिश्रासु मिश्राणि दशाफलानि होराफलं लग्न-
पतेः समानम्” १९ मू० ।
“अथैकस्मिन् वृत्ते दशासु शुभान्यशुभानि च
फलान्युक्तानि तेषां विषयविभागं लग्नदशाफलं चोपजाति-
कयाह दशासु इति शुभाशुभं व्यामिश्रत्वं दशासु पूर्व-
मेवोक्तं तथा जन्मकाले उपचयराशिस्थानिर्मलमूर्त्तयः
स्पष्टगतयश्च ये ग्रहास्तेषामपि दशाः शुभाः ये चोप
चयस्था हता रूक्षाः स्वल्पमूर्त्तयस्तेषामपि दशा
अशुभाः तथा च यवनेश्वरः “निशाकरादित्यविलग्नभानां
तत्कालयोगादधिकं वलं यः । बिभर्त्ति तस्यादिदशेष्यते
सा शेषास्त्वतः शेषबलक्रमेण । वयोऽधिको यः प्रथमा-
द्गतो वा ग्रहः स पूर्वं पठितो दशेशः । बलाधिक-
श्चेद्यदि केन्द्रसंस्थः पूर्वं स शेषासु यथा प्रदिष्टः ।
श्रेष्ठा दशा स्वे वयसि ग्रहस्य स्वोच्चश्रितात्कालबला-
श्रिताच्चेत् । मूलत्रिकोणात् स्वगृहाच्च मध्या मित्रा-
श्रिताज्जन्मगृहाश्रिताद्वा । नीचारिभांशोपगताज्जिता-
द्वा गृहात् परिध्वस्तविवर्णरूक्षा । जन्मेशशत्रोर्नि-
धनारिभेशाद् या वाप्यते सा बहुदोषदा स्यात्” । एवं
शस्तासु शोभनासु दशासु ग्रहाः शुभान्येव फलानि
कुर्वन्ति दशाफलवृत्ते यानि शुभान्यभिहितानि तान्येव
भवन्ति नेतराणि, अनिष्टसंज्ञास्वशुभदशासु अशुभान्य
निष्टानि एव भवन्ति मिश्रासु दशासु मिश्राण्येव
दशाफलानि भवन्ति एतच्च प्रतिसूत्रमस्माभिश्च व्या-
ख्यातं तथा च सत्यः “जन्मन्युपचयभवनेषु संस्थिताः
सव्यगाः सुमूर्त्तिधराः, श्रेष्ठं फलं विदध्युर्ग्रहाः
क्रमात् स्वां दर्शां प्राप्य अन्यैर्निहता रूक्षाल्पमूर्त्तयो
ह्युपचयर्क्षसंस्थाश्च स्वदशाभिहतं नेष्टं ग्रहाः प्रय-
च्छन्ति लोकेषु होराफलं लग्नपतेः समानमिति”
होरायाः लग्नस्यान्तर्दशाफलं लग्नपतेः लग्नाधिपस्य
समानं तुल्यम् वक्तव्यं यथा मेषलग्नजातस्य भौमदशा-
फलं वृषलग्नजातस्य शुक्रदशाफलं एवमन्येष्वपि वक्तव्यं
किन्तु द्रेष्काणवशाच्छुभायां लग्नदशायां शुभफलमशुभा-
यामशुमम् मिश्रायामुभयमपि । अथ ये पूर्वं दशारिष्टा
उक्तास्तेषामिमे भङ्गाः प्रोक्ताः तथा च सारावल्याम्
“प्रवेशे बलवान् खेटः शुभैर्वा संनिरीक्षितः । सौम्याधि-
मित्रवर्गस्थो मृत्युकृत् न भवेत् तदा । अन्तर्दशाधि-
नाथस्य विबलस्य दशा यदा । वलिनः स्यात् तदा भङ्गो
न बाध्या तस्य च ध्रुवम् । युद्धे च विजयी तस्मिन्
ग्रहयोगे शुभो यदि । दशायां न भवेत् कष्टं स्वो-
च्चादिषु च संश्रिते इति” १९ भट्टो० ।
“संज्ञाध्याये यस्य यद्द्रव्यमुक्तं कर्माजीवो यश्च यस्यो-
पदिष्टः । भावस्थानालोकयोगोद्भवञ्च तत्तत्सर्वं तस्य
योज्यं दशायाम्” २० मू० ।
“अथान्येपामपि फलानां दशास्वतिदेशं मालिन्याह
संज्ञाध्याये इति । यस्य ग्रहस्यं संज्ञाध्याये यद्द्रव्यम् “ताम्रं
स्यान्मणिहेमेत्यादिना, ग्रन्थेनोक्तं कथितं तस्य तद्द्रव्यस्य
शुभदशायां प्राप्तिः योज्या अशुभदशायां हानिः । यश्च
कर्माजीवो यस्य ग्रहोपदिष्टो जातकेऽभिहितः “अर्थाप्तिः
पितृपत्नीत्यादि तस्य ग्रहदत्तस्य कर्माजीवस्य तदन्त-
र्दशायामेवाप्तिर्भविष्यति । भावफलं वक्ष्यति “शूरस्तब्ध”
इत्यादि स्थानफलं राशिफलं “प्रथितश्चतुरोऽटन” इत्यादि
तथा “मेषे सस्वस्तिमिरनयन” इत्यादि । आलोकनफलं
दृष्टिफलम् “चन्द्रे भूपबुधौ” इत्यादि योगोद्भवं नाभस-
योगानुक्त्वा “सर्वयोगेषु योगकर्तृभ्यो ग्रहेभ्यो मध्याद् यो
बलीयान् स स्वदशायामेव फलं ददाति” नाभसयोगाः
सकलदशास्वपि फलप्रदाः वक्ष्यति च “इति निगदिता
योगाः सार्द्धं फलैरिह नाभसाः नियतफलदाश्चिन्त्या
ह्येते समस्तदशास्वपीति” । एवमादि यद् यदुक्तं तत्सर्वं
निरवशेषं तस्य ग्रहस्य दशायां योज्यमिति” २० भट्टो० ।
“छायां महाभूतकृताञ्च सर्वेऽभिव्यञ्जयन्ति स्वदशा-
मवाप्य । क्वम्ब्वग्निवाय्वम्बरजान् गुणांश्च नासास्यदृक्
त्वक्श्रवणानुमेयान्” २१ मू० ।
“अथ यस्य जातकमपि न गणितं तस्य शरीरच्छायां
दृष्ट्वा ग्रहदशाज्ञानमिन्द्रवज्रयाह छायां महाभूतकृता-
मिति पूर्वमुक्तम् “शिखिभूखपयोमरुद्गणानां वशिनो
भूमिसुतादयः क्रमेणेति” तत्रादित्यचन्द्रौ वह्न्यम्बु-
प्रसिद्धावेव यः कश्चिद्गहः स्वदशामात्मीयदशामवाप्य
महाभूतकृतां छायां अभिव्यञ्जयति प्रकटीकरोति छाया-
शब्देन शरीरशोभाभिधीयते शरीरकान्तिरित्यर्थः तथा
च सच्छायोऽयं विच्छायोऽयं वर्त्तत इत्यभिधीयते एवमा-
त्मीयदशायां पृथिव्यादिमहाभूतकृतां शरीरच्छायां
व्यञ्जयति प्रकटीकरोति सा च क्वम्बुग्निवाय्वम्बरजान्
गुणान् कुः पृथिवी अम्बुर्वरुणः अग्निः हुताशनः
पृष्ठ ३५०३
वायुः अनिलः अम्बरम् आकाशम् एभ्यो जातोत्पन्ना सा
छाया तद्गुणान् करोति तांश्च यथासंख्यं नासास्य
दृक्त्वक्श्रवणानुमेयान् । पार्थिवी पार्थिवं गुणं गन्धमभि-
व्यञ्जयति नासानुमेयं घ्राणेनोपलभ्यते आप्या आप्यं गुणं
रसमभिव्यञ्जयति तच्चास्यानुमेयम् आस्यंशब्देनेह जिह्वा
ज्ञेया तया रसस्योपलब्धेः आस्यग्रहणं चात्र वृत्तानु-
रोधात् कृतम्, आग्नेयी आग्नेयं गुणं रूपमभिव्यञ्जयति
दृष्ठ्यनुमेयं, वायवी वायव्यं स्पर्शं गुणमभिव्यञ्जयति
त्वगनुमेयं स्पर्शेनोपलभ्यते नाभसी नाभसं गुणं शब्दभभि-
व्यञ्जयति श्रवणानुमेयं कर्णोपलभ्यम् । एतदुक्तं भवति
यदा शुभगन्धः पुरुषो भवति तदास्य बुधकृता पार्थवी-
च्छायाज्ञेया । यदा मिष्टरसभोजी भवति तदास्य चन्द्रशु-
क्रकृताप्या छाया ज्ञेया । यदातीवरूपवान् सुकान्तः पुरुषो
भवति तदा सूर्यभौमकृता आग्नेयी छाया ज्ञेया । यदा
स्पर्शेन मृदुर्भवति तदा शनैश्चरकृता वायवी छाया ज्ञेया ।
यदास्य वचनं कर्णयोः सुखकरं भवति तदा जीवकृता
नाभसी छाया ज्ञेया । छायाविशेषलक्षणमाचार्य्येण
संहितायामभिहितम् तथा च “छाया शुभाशुभफलानि
निवेदयन्ती लक्ष्या मनुष्यपशुपक्षिषु लक्षणज्ञैः । तेजो
गुणान् बहिरपि प्रविकाशयन्ती दीपप्रभा स्फटिकरत्नघट-
स्थितेव । स्निग्धद्विजत्वङ्नखरोमकेशा छाया सुगग्धा च
महीसमुत्था । तुष्ट्यर्थलाभाव्युदयान् करोति धर्मस्य
चाहन्यहनि प्रवृत्तिम् । स्निग्धा सिता च हरिता
नयनाभिरामा सौभाग्यमार्दवसुखाभ्युदयान् करोति । सर्वा-
र्थसिद्धिजननी जननीव चाप्या छायाफलं तनुभृतां
शुभमाददाति । चण्डा धृष्या पद्महेमाग्निवर्णा युक्तं तेजो
विक्रमैः सप्रतापैः । आग्नेयीति प्राणिनां स्याज्जया-
य क्षिप्रं सिद्धिं वाञ्छितार्थस्य धत्ते । मलिनपरुषकृष्णा
पापगन्धानिलोत्था जनयति बधबन्धं व्याध्यनर्थार्थनाशम् ।
स्फटिकसदृशरूपा भाग्ययुक्तात्युदारा निधिरिव गगनोत्था
श्रेयसां स्वच्छवर्णा” २१ भट्टो० ।
“शुभफलददशायां तादृगेवान्तरात्मा(ख्या) बहु जनयति
पुंसां सौख्यमर्थागमं च । कथितफलविपाकैस्तर्कयेद्वर्त्त-
मानां परिणमति फलाप्तिः स्वप्नचिन्तास्ववीर्य्यैः” २२ मू०
“अत्र च वायवीं छायां वर्जयित्वा सर्वास्वेव
छायासु अशुभं शुभं च फलं तत्कथम् शुभफलेयमशुभ-
फलेयमिति तद्दशा ज्ञायते तत्संज्ञानमन्तरात्मनः
स्वरूप मालिन्याह शुभफलदेति शुभं फलं ददाति यः
स शुभफलदः शुभफलदस्य ग्रहस्य या दशा तस्याम्
अन्तरात्मा स्वदेहस्थः परमात्मा चित्स्वरूपः तादृगेव
शुभो भवति । तस्य च पुरुषस्य छायादर्शितग्रहदशाकाले
बहुविधमनेकप्रकारं सौख्यं सुखभावमर्थागमं धनलाभं
च जनयत्युत्पादयति अर्थादेवाशुभदशायां पुरुषस्यान्तरा-
त्माप्यशुभो भवति तत्र दर्शितग्रहछाया सूचिता
तादृगेव फलदा सा चासौख्यमनर्थागमञ्च बहुप्रकारं
जनयति मिश्रायां मिश्रा च । यात्राथाञ्च वक्ष्यति “निमि-
त्तानुचरं सूक्ष्मं देहेन्द्रियमहत्तरम् । तेजो ह्येतच्छरीरस्थं
त्रिकालफलवन्नॄणाम् । प्रीतये न मनो नार्थेनासिद्धा-
वभिनन्दति । तस्मात् सर्वात्मना यातुरनुमेयं यथा मनः ।
शुभाशुभानि सर्वाणि निमित्तानि स्युरेकतः । एकतश्च
मनःशुद्धिस्तद्विशुद्धिर्जयावहा” इति कथितफलविपाकै-
रिति ग्रहाणां दशासु यानि फलानि शुभान्यशुभानि
कथितान्युक्तानि तानि यः पुरुषो भुङ्क्ते तस्य पुरुरुषस्य
तद्ग्रहदशा वर्त्तते इति ज्ञेयम् एतदुक्तं भवति यादृशं
फलं शुभमशुभं वा पुरुषस्योपलभ्यते तच्च यस्य ग्रहस्य
दशायां पठितं सा तस्य दशा नरस्य वर्त्तत इति ज्ञेयम् ।
एवं वर्त्तमानां दशान्तर्कयेल्लक्षयेदित्यर्थः । एवं छायाव-
शेनान्तरात्मवशेन फलपक्तिवशेन वा गणितस्य
जातकस्य वर्त्तमानां दशां वदेत् । यथा सौरदशायामशुभायां
व्यङ्गत्वमुक्तं न च शुभायामथ नैकध्यं व्यङ्गत्वं दृष्टम् ।
शुक्रदशायां शुभायां निधिप्राप्तिरुक्ता न च सापि दृष्टा ।
तदर्थमाह परिणमति फलाप्तिरिति अवीर्य्यैः बलहीनैः
ग्रहैः फलानि यानि शुभान्थशुभानि वा दत्तानि
तत्फलाप्तिः फलप्राप्तिः स्वप्ने स्वप्नावस्थायां परिणमत्यनु-
भूयते चिन्तायां मनोरथेन वेति । केचित्तु “शुभफल-
ददशायां तादृगेवान्तराख्येति पठित्वैवं व्याचक्षते
यथा शुभायां दशायामन्तराख्यान्तर्दशा शुभापि
भवति तदा पुंसां बहु जनयति सौख्यमर्थागममिति
अर्थादेवाशुभायां दशायामशुभान्तर्दशा असौख्यमनर्थाग-
मञ्च बहु जनयतीति” अनेन व्याख्यानेन शुभायामशुभायाञ्च
शुभाशुभानि भवन्ति मिश्रफलं प्रयच्छन्ति । न चैतदि-
ष्यते यस्मादुक्तम् “एकर्क्षगोऽर्द्धमपहृत्य ददाति तु स्वमिति”
अत्र दशापतेः फलमपहृत्यान्तर्दशापतिरेव स्वं फलं
ददातीति ज्ञेयम् अन्यथापहृत्येति निरर्थकं स्यादिति
तस्मात् पूर्वपाठः श्रेयान् द्वितीयः प्रमादपाठः । पनाहृ-
पाठेन विना छायां दृष्टाया दशायाः शुभाशुभत्वमानेतुं
पृष्ठ ३५०४
न शक्यत इति” २२ भट्टोत्पलकृतं तद्व्याख्यानम् ।
“एकग्रहस्य सदृशे फलयोर्विरोधे नाशं वदेद् यदधिकं
परिपच्यते तत् । नान्यो ग्रहः सदृशमन्यफलं हिनस्ति
स्वां स्वा दशामुपगताः स्वफलप्रदाः स्युः” २३ मू० ।
“अथैकग्रहदत्तयोः फलयोः सदृशयोर्नाशो भवति
भिन्नदत्तानां बहूनामपि पक्तिरेव भवतीत्येतद्वसन्तति-
लकेनाह एकग्रहस्येति सर्वाण्येव फलानि नाभसवर्जं
स्वदशायां ग्रहः प्रयच्छतीत्युक्तम् तत्रैकेन ग्रहेण यदा
सदृशं विरुद्धं फलद्वयं दत्तं भवति तस्मिन् सदृशे तुल्ये
द्वयोः फलयोर्विरोधे सति नाशो भवतीति तस्य फलद्वयस्य
वदेद्व्रूयात् कीदृशं तद्विरुद्धमित्यत्रोच्यते यथा कश्चिद्-
ग्रहः कयापि युक्त्या दशाफलादिना सुवर्णदो भवति
स एवान्यया युक्त्या अष्टवर्गफलयोगफलदृष्टिफलभाव-
फलानामन्यतमेन सुवर्णापहारी भवति तदा फलद्वयेऽपि
सुवर्णसम्बन्धोऽस्ति इति सादृश्यं स्वर्णदानापहारेणे-
ति विरोधः । एवमेकस्य ग्रहस्य सदृशे फलयोः विरो-
धे नाशं वदेत् न सुवर्णलाभो न चापहानिरिति
यदधिकं परिपच्यते तत एकेनापि ग्रहेण फलद्वयं दत्तमन्य-
रूपं तयोः मध्याद्यदधिकं तत्परिपच्यते । यथा
कश्चिद्ग्रहो निर्दिष्टप्रकारद्वयेन सुवर्णदः स एव प्रकारेणैकेन
सुवर्णापहारी तदा द्वयोरधिकत्वात्तद्दानस्य सुवर्णं
ददात्येव नापहरति । अथ वा प्रकारद्वयेन सुवर्णापहारी-
प्रकारेणैकेन सुवर्णदस्तदापहरणस्याधिकत्वादपहरत्येव ।
अथवा सुवर्णापहारी रूप्यदश्च तथापि द्वे असदृशे
असदृशत्वादधिकं परिपच्यते सुवर्णापहारी रूप्यदश्च भवति
इति कश्चित् नान्यो ग्रह इति अन्येन ग्रहेण दत्तं
सदृशं विरोध्यपि फलं नान्यो ग्रहोऽपि हिनस्त्यपहरति
यथा कश्चिद्ग्रहः सुवर्णदो भवत्यन्यश्च सुवर्णापहारी
तदा तत्र सुवर्णदः स्वदशायां सुवर्णं ददाति स्वदशायां
सुवर्णापहारी चापहरति अनेनैतदुक्तं भवति । यथैक-
ग्रहस्य सदृशफलयोः विरोवे समग्रजन्मान्तरेऽपि
फलनाशं वदेत् अन्यत्र विरुद्धयोरपि फलयोः नाशं न वदेत्
यतः सुवर्णदो ग्रहः स्वामात्मीयां दशामुपगतः प्राप्तः
सुवर्णलाभं करोति सुवर्णापहारी स्वदशामुपगतः प्राप्तः
सुवर्णमपहरति एतदष्टकवर्गफलं विनाशयतस्तत्रैकस्य
ग्रहस्य फलसदृशयोरपि तुल्यसंख्ययोः फलयोर्नाशी
भविष्यति यथा च भविष्यति तथा तत्रैव प्रतिपादपि
ष्यामः इति” २३ भट्टो०
ताजकीक्तवर्षदशा हीनांशदशाख्या तु नील० उक्ता यथा
अथ दशाक्रमः “स्पष्टान् सलग्नान् खचरान्
विधाय राशीन् विनाऽत्यल्पलवं तु पूर्वम् । निवेश्य तस्मा-
दधिकाधिकांशं क्रमादयं स्यात् तु दशाक्रभोऽव्दे । ऊनं
विशोध्याधिकतः क्रमेणांशाद्यं विशुद्धांशकशेषकैक्यम् ।
सर्वाधिकांशोन्मितमेव तत् स्यादनेन वर्षस्य मितिस्तु
भाज्या । शुद्धांशकांस्तान् गुणयेदनेन लब्धं ध्रुवाङ्केन
भवेद्दशायाः । मानं दिनाद्यं खलु तद्ग्रहस्य फलान्यथै
षां निगदेत्तु शास्त्रात् । शुद्धांशसाम्ये बलिनो दशाद्या
बलस्य साम्येऽल्पगतेऽस्तु पूर्वा । साग्ये विलग्नस्य बलेन
चिन्त्यं बलादिकं लग्नपतेर्विचिन्त्यम्” ।
तत्फलादिकं “दशा रवेः पूर्णबलस्य दत्ते” इत्यादिना
तत्रोक्तं दृश्यम् । पाश्चात्त्यैः वर्षकाले मुद्दा
दशा व्यवह्रियते सा तु “वर्षोन्मितिर्जन्मभसंयुताङ्कहृता
क्रमेण रवितो दिनानि । विंशोत्तरीयानुसृतेस्तु वर्षाः
वर्षप्रवेशात् त्रिगुणा दशाः स्युः” यथा रवेः षड्वर्षाः
त्रिगुणिताः १८ दिनानि । एवं विषोः १० वर्षा वर्षे ३०
दिनानि । कुजस्य ७ वर्षा वर्षे २१ दिनानि । राहोः १८
वर्षा वर्षे ५४ दिनानि । गुरोः १६ वर्षा वर्षे ४८
दिनानि । शनेः १९ वर्षा वर्षे ५७ दिनानि । बुधस्य १७ षर्षा
वर्षे ५१ दिनानि । केतोः ७ वर्षा वर्षे २१ दिनानि ।
शुक्रस्य २० वर्षा वर्षे ६० दिनानि । एवं ३६०
दिनानीति बोध्यम् । जातकरत्ने तु दशविधा दशा
उक्ता १ योगिनी २ वार्षिकी ३ नाक्षत्रिकी ४ साग्निकी
५ मुद्दा ६ विंशोत्तरा ७ त्रिंशोत्तरा ८ पताकी ९ हंरगौरी
१० दैनिकीति । तत्रैव तद्विशेषो बोध्यो विस्तरभयादिह
तदानयनादिकं नोक्तम् ।
“सत्ये लग्नदशा चैव त्रेतायां हरगौरिका । द्वापरे
योगिनी चैव कलौ नाक्षत्रिकी दशा” इति समयामृतम्
वराहस्तु वृहज्जातके एतदनादुत्यैव कलौ लाग्निकी दशा
दर्शितेति बोध्यम् । अन्तर्दशाशब्दे विंशोत्तरीयदशान्तर्दशा
नयने “स्वदशाभिर्दशां हत्वा दशभिर्भागमाहरेदित्येव
पाठः । तत्र बसुभिरित्यप पाठो बोध्यः ।
पृष्ठ ३५०५
विंशोत्तरीयान्तर्दशाचक्रम् ।
  • महादशावर्षाः र ६ च ७ म १०
स्व० । ३१८ स्व० १० । ० स्व० ४ । २७
च० ६ । म० ७ । ० रा १ । ० १८
म० ४ । ६ रा १ । ६ । ० जी० । ११ । ६
रा० १० । २४ जी १ । ४ । ० श १ । १ । ९
जी० ९ । १८ श १ । ७ । ० बु० ११ । २७
श० ११ । १२ बु १ । ५ । ० के ४ । २७
बु० १० । ६ के० । ७ । ० शु १ । २
के० ४ । ६ शु १ । ८ । ० र० ४ । ६
शु१ । ० । ० र० । ६० च० । ७ ।
  • समष्टिवर्षाः ६ १० ७
महादशावर्षाः रा १८ जी १६ श १९
स्व २ । ८ । १२ स्व २ । १ । १८ स्व ३० । ३
जी २ । ४ । २४ श २ । ६ । १२ बु २ । ८ । ९
श २ । १० । ६ बु २ । ३ । ६ के १ । १ । ९
बु२ । ६ । १८ के० ११ । ६ शु ३ । २ । ०
कॆ । ०१८ शु २ । ८ । र० ११ । १२
शु ३ । ० । ० र० । ९ । १८ च १ । ७ । ०
र० १० । ० च १ । ४ । म १ । १ । ९
च १ । ६ । ० म० । ११ । ६ रा २ । १० । ६
व१ । ० १८ रा २ । ४ । २४ जी २ । ६ । १२
समष्टिवर्षाः १८ १६ १९
महादशावर्षाः बु १७ के ७ शु २०
स्व० २ । ४ । २७ स्व० । ४ । २७ स्व३ । ४ ।
के०११ । २७ शु १ । २ । र १ । ० । ०
शु २ । १० । ० र० । ४ । ६ च १ । ८ ।
र० १०६ च १ । ५ । ० म १ । २ ।
च१ । ५ । ० म० । ४ । २७ रा ३ । ० । ०
म० ११ । २७ रा १ । ० । १८ जी २ । ८ । ०
रा२ । ६ । १८ जी० । ११ । ६ श ३ । २ ।
जी २ । ३ । ६ श १ । १९ । ९ बु २ । १० । ०
श २ । ८ । ९ बु ११ । २७ के १ । २
समष्टिवर्षाः १७ ७ २०
अष्टोत्तरीयान्तर्दशामानं ज्योतिस्तत्त्वेऽस्तीति नात्र प्रदर्शितम् ।

पूर्वमनुक्तत्वात् योगिन्यामन्तर्दशाचक्रमत्र प्रदर्श्यते

योगिन्यन्तर्दशाचक्रम् ।
  • महादशावर्षाः म १ । पि २ । ध ३ । भ्रा ४ । भ ५ । उ ६ । सि ७ । स ८ ।
  • अन्तर्दशामानम् । म १० । पि १ । १० ध ३ । भ्रा ५ । १० भ ८ । १० उ १ । ३ सि १ । ४ । १० स १ । ९ । १०
पि २० ध २ । ० भ्रा ४ । भ ६ । २० उ १० । सि १ । २ स १ । ६ । २० म । २ । २०
ध १ । ० भ्रा २ । २० भ ५ उ ८ । सि ११ । २० स १ । ४ म० २ । १० पि । ५ । १०
भ्रा १ । १० भ ३ । १० उ ६ सि ९ । १० स १ । १ । १० म । २ । पि० ४ । २० ध । ८ । ०
म १ । २० उ ४ । सि ७ स १० । २० म । १ । २० पि । ४ । ध । ७ । भ्रा । १० । २०
उ २ । सि ४ । २० स ८ म १ । १० पि । ३ । १० ध । ६ । भ्रा ९ । १० भ १ । १ । १०
सि २ । १० स ५ । १० म १ । पि २ । २० ध । ५ । भ्रा । ८ । भ ११ । २० उ १ । ४०
स २ । २० म । २० पि २ । ध ४ भ्रा । ६ । २ भ । १० । ७१ । २ । सि १ । ६ । २०
समष्टिवर्षाः १ । २ । ३ । ४ । ५ । ६ । ७ । ८ ।

दशाकर्ष पु० दशया तैलादिकमाकर्षति आ + कृष--अण् ।

१ प्रदीपे २ वस्त्राञ्चले पु० स्त्री० पुंस्त्वे व० व० । हारा० ।
णिनि दशाकर्षिन् प्रदीपे हारा० ।

दशाक्षर न० दश अक्षराणि पादेऽत्र । १ पङ्क्तिनामके

छन्दोभेदे । “वरुणो दशाक्षरेण विराजमुदजयत्” यजु०
९ । ३६ । २ दशाक्षरयुक्ते मन्त्रभेदे त्रि० । स्त्रियां टाप् ।
“दशाक्षरा वै विराट्” श० ब्रा० १ । १ । १ । २२ । ३ तन्त्रोक्ते
स्त्रीदेवतामन्त्रे स्त्री तत्र अर्श आद्यचि गौरा० ङीष् ।
“एषा दशाक्षरी विद्या सर्वसम्पत्प्रदायिनी” तन्त्रसा- ।

दशाङ्गधूप पु० त्रिदीषघ्ने अवग्रहपिशाचादिनाशके

धूपविशेषे यथा “वासयेद्वा दशाङ्गेन त्रिदोषघ्नेन चार्भकम् ।
नश्यन्ति यस्य धूपेन अवग्रहपिशाचकाः । पञ्चांशा
गन्धपाषाणात् तावन्महिषगुग्गुलुः । चतुरंशं चन्दनञ्च
जटामांसी च तावती । त्रिभागः सर्जकः सारस्ताव-
देव हि रालकम् । उशीरन्तु द्विभागं स्यात् घृते भृष्टं
नखं समम् । कर्पूरी मृगनाभिश्च एकभागौ प्रकीर्त्तितौ ।
पृष्ठ ३५०६
एष दशाङ्गधूपस्तु रूद्रस्यापि मनोहरेदिति” शब्दार्थचि०
धृतवाक्यम् । पुष्पदानोत्तरं देवाय दीयमाने ३ धूपविशेषे यथा
“मधु मुस्तं घृतं गन्धो गुग्गुल्वगुरुशैलजम् । सरलं सिह्ल-
सिद्धार्थं दशाङ्गधूप उच्यते इति” । अन्यश्च । कर्पूरं
कुष्ठमगुरु गुग्गुलुर्मलयोङ्भवम् । केशरं वालकं पत्रं
त्वक् जातीकोषमुत्तमम् । सर्वमेतद्घृतयुतं दशाङ्गधूप
ईरित” इति ।

दशाङ्गुल न० दश अङ्गुलय इव फलत्वगुपरि सन्त्यस्य अच् ।

१ खर्बुजे फलभेदे भावप्र० तस्य फलोपरि अङ्गुलाकारदश-
सिरासत्त्वात् तथात्वम् । तद्गुणाः खर्वुजशब्दे २४६९
पृ० उक्ताः । दश अङ्गुलयः प्रमाणमस्य तद्धितार्थद्विगोः
ठञ् तस्य लुक् अच्समा० । २ दशाङ्गुलिप्रमाणयुक्ते
त्रि० । “निःक्षेप्योऽयोमयः शङ्कुर्ज्वलन्नास्ये दशाङ्गुलः”
मनुः । सहस्रशोर्षेत्यादि “अत्यतिष्ठद्दशाङ्गुलम्” ऋ०
१० । ९० । १ “दशाङ्गुलं दशाङ्गुलिपरिमितं देशमत्यतिष्ठत्
अतिक्रम्य व्यवस्थितः” भा० ।

दशाधिपति पु० ६ त० ज्योतिषोक्ते १ दशापतौ रव्यादिग्रहे

दशानां पदातीनामधिपतिः । दशपदात्यध्यक्षे राजनियुक्ते
२ सैन्यभेदे च (जमादार) “समानाशनपानास्ते कार्य्या
द्विगुणवेतनाः । दशाधिपतयः कार्य्याः शताधिपतयस्तथा ।
ततः सहस्राधिपतिं कुर्य्याच्छूरमतन्द्रितम्” भा० शा० १०० अ० ।

दशानन पु० दश आननान्यस्य । रावणे शब्दर० । “दशानन

किरीष्टेभ्यस्तत्क्षणं राक्षसश्रियः” रघुः । “ध्वंसितोद्धत
दशाननाम्” (लङ्काम्) माघः । दशास्यादयोऽप्यत्र ।

दशानिक पु० आने जीवने हितः आनिकः दशाभेदे

आनिकः । दन्तीवृक्षे शब्दच०

दशान्त पु० ६ त० । १ वार्द्धके २ वर्त्तिकान्ते च । “निर्विष्ट-

विषयस्नेहः स दशान्तमुपेयिवान् । आसीदासन्ननि-
र्वाणः प्रदीपार्चिरिवोषसि” रघुः ।

दशामय पु० दशामया यस्मात् । रुद्रे हेमच० ।

दशापवित्र न० दशा वस्त्राञ्चलं पवित्रमिव । श्राद्धादिदेये

वासःखण्डे । “दशापवित्रनामको यो वस्त्रखण्डस्तेनो-
द्गतो द्रोणकलशमूलमध्ये विलभागान् मन्त्रगतैस्त्रिभिः
शोधयेत्” “दशापवित्रस्य मध्ये शुक्लां पूर्णां स्रुवं सोम
धारास्रावणार्थं यजमान आबघ्नाति, सा नाभिरित्युच्यते ।
उदीचीनदशमवाचीननाभि च दशापवित्रं कृत्वा
द्रोणकलशस्योपरिष्टादुद्गात्रादयस्ततो वितनुयुः । वितन्य
च दशापवित्रस्य कोणान् धारयेयुः” ता० ब्रा० १ । २ भा० ।
“अथ दशापवित्रमुपस्पृश्य हङ्करोति” शत० ब्रा०
४ । २ । २ । ११

दशारुहा स्त्री दशसु दिक्षु आरोहति आ + रुह--क ।

कैवर्त्तीमुस्तके राजनि० ।

दशार्ण पु० दश ऋणानि दुग्संणि भूमयो जलाधारा वा

यत्र “प्रवत्सेत्यादिना” पा० वृद्धिः । १ देशभेदे स च
देशः वृ० सं० कूर्म्मविभागे १४ अ० आग्नेय्यामुक्तो यथा
“आग्नेय्यां दिशि कोसलाः” इत्युपक्रमे “निषादराष्ट्राणि
पुरिकदाशार्णाः” । स्वार्थे अण् । “तुलाधरेऽवन्त्यपरान्त्य
साधून् बणिग्दशार्णान् भरुकच्छपांश्च” ५ अ० । “सप्त-
व्याधा दशार्णेषु” श्राद्धे पाठ्यपितृगाथा । तद्वावकशब्दो
यत्रानुवाकेऽध्याये अस्ति विमुक्ता० अण् । दाशार्ण दशार्ण-
शब्दयुक्ते अनुवाके अध्याये च । सोऽभिजनोऽस्य तस्य
राजा वा अण् । दाशार्ण पित्रादिक्रमेण तद्देशवासिनि
तन्नृपे च “तत्र दाशार्णको राजा सुधर्म्मा लोमहर्षणम् ।
कृतवान् भीमसेनेन महद्युद्धंनिरायुधम्” भा० स० २८ अ० ।
भीमप्राचीजये । अत्र स्वार्थे क । बहुषु अणो लुक् ।
“पूर्वमागस्कृतो जित्वा दशार्णाः समरे जिताः” भा० आ०
११३ अ० । “विजित्याल्पेन कालेन दशार्णानजयत् प्रभुः ।
प्रतीचीस्थोऽपि तन्नामा देशोऽस्ति “तान् दशार्णान्
स जित्वा च प्रतस्थे पाण्डुनन्दनः” भां० स० ३१ अ० ।
नकुलप्रतीचीजये । अतएव भा० भी० ९ अ० “अतऊर्द्धं
जनपदान्निबोध गदतोमम” इत्यु पक्रमे “उत्तमाश्च
दशार्णाश्च मेकलाश्चोत्कलैः सह” इत्यत्र उत्तमत्वेन पूर्वं
पूर्वदक्षिणस्याम् दशार्णानुक्त्वा “जठराः कुक्कुराश्चैव
सदशार्णाश्च भारत! । पुनरन्यो निर्विशेषणो दशार्णदेश
उक्तः । परस्ताच्च “वातायना दशार्णाश्च रोमाणः कुशवि-
न्दवः इत्यत्र वातायनत्वेनविशेषणात् तादृशोऽपि देशभे-
दोऽस्तीति गम्यते । “सम्पत्स्यन्ते कतिपयदिनस्थ्यायि
हंसा दशार्णाः” मेघ० ।

दशार्णेयु पु० पौरवरौद्राश्वनृपस्य पुत्रभेदे “दशार्णेयुर्जले-

युश्च स्थलेयुश्च महावलः” हरिवं० ३१ अ० ।

दशार्द्ध न० दशानामर्द्धम् । १ पञ्चसंख्यायां २ तत्संख्येये च

“अण्व्योमात्रा विनाशिन्यो दशार्द्धानान्तु याः स्मृताः”
मनुः । “छिद्रेण यन्त्रस्य समर्पयध्वं शरैः शितैर्व्योमच-
रैर्दशार्द्धैः” भा० आ० १८५ अ० । दश बलानि ऋधोति
ऋध--अण् । ३ दशबले बुद्धे त्रिका० दशवलशब्दे दृश्यम् ।
पृष्ठ ३५०७

दशार्ह पु० क्रोष्टृवंश्यधृष्टनृपस्य पुत्रभेदे “धृष्टस्य जज्ञिरे पुत्रात्रयः

परमधार्मिकाः । आवन्त्यश्च दशार्हश्च बली विषहरश्च यः”
हरिव० ३७ अ० क्रोष्टुवंश्योक्तौ । भाग० ९ । २४ । ३ उक्ते
२ वृष्णिनृपपौत्रे च । “क्रथस्य कुन्तिः पुत्रोऽभूद् वृष्णि
स्तस्याथ निर्वृतिः । ततो दशार्हो नाम्नाभूत् तस्य व्योमः
सुतस्ततः” । उपचारात् ३ तद्वंश्ये नृपे ४ तदधिकृतदेशे च
“धौम्यञ्च भीमश्च युधिष्टिरञ्च यमौ च कृष्णाञ्च दशार्ह
सिहः । उवाच दिष्ट्या भवतां शिवेन प्राप्तः किरीटी
मुदितः कृतास्त्रः । प्रोवाच कृष्णामपि याज्ञसेनीं दशार्ह-
भर्त्ता सहितःसुहृद्भिः” भा० व० १८३ अ० । ५ विष्णौ पु० “विज-
योजयः सत्यसन्धो दशार्हः स्वात्वतां पतिः” विष्णु० स० ।
शङ्करभाष्ये तु दाशार्ह इति पठित्वा दाशोदानं तमर्हति
दाशार्हः दशार्हस्य कुले उत्पन्नत्वाद्वा” व्याख्यातम् ।
दशार्हस्य गोत्रापत्यम् शिवा० अण् । दाशार्ह यदुवंश्यमात्रे
कृष्णादौ त्रि० स्त्रियां ङीप् । दशार्हस्तद्वाचकशब्दीऽस्त्यत्र
अध्याये अनुवाके वा विमुक्ता० अण् । दाशार्ह दशार्ह-
शब्दयुक्ते अनुवाके अध्याये च । ६ आयुधजीविसंघभेदे च ।
ततः स्वार्थे पर्श्वा० अण् । दाशार्ह आयुधजीविसंघभेदे ।
प्रज्ञा० स्वार्थे अण् । दाशार्ह यदुवंश्ये नृपमात्रे च ।

दशावतार पु० दश अवतारा अस्य । विष्णौ दश अवताराश्च

अवतारशब्दे दृश्या अन्येऽपि दशावताराः मत्स्यपु० उक्ता
यथा “धर्मान्नारायणस्यांशः संमूतश्चाक्षुषेऽन्तरे । यज्ञञ्च
वर्त्तयामासुर्देवा वैवस्वतेऽन्तरे । प्रादुर्भावे ततस्तस्य ब्रह्मा
ह्यासीत् पुरोहितः । युगाख्यायाञ्चतुर्थ्यान्तु आपन्नेषु
सुरेषु वै । संभूतः स समुद्रान्ते हिरण्यकशिपोर्बधे ।
द्वितीये नरसिंहाख्ये रुद्रो ह्यासीत् पुरोहितः ।
वलिसंस्थेषु लोकेषु त्रेतायां सप्तमं प्रति । तृतीये वामनस्यार्थे
धर्मेण तु पुरोधसा । एतास्तिस्रः स्मृतास्तस्य दिव्याः
संभूतयो द्विजाः । मानुष्याः सप्त येऽन्ये तु शापजा-
स्तान्निबोधत । त्रेतायुगे तु प्रथमे दत्तात्रेयो बभूव ह ।
नष्टे धर्मे चतुर्थांशे मार्कण्डेयपुरःसरः । पञ्चमः
पञ्चदश्यान्तु त्रेतायां सम्बभूव ह । मान्धाता चक्रवर्त्ती
तु तस्यौतथ्यपुरःसरः । एकोनविंश्यां त्रेतायां
सर्वक्षत्रान्तकृद्विभुः । जामदग्न्यस्तथा षष्ठो विश्वामित्र
पुरःसरः । चतुर्विंशे युगे रामो वशिष्ठेन पुरोधसा ।
सप्तमो रावणस्यार्थे जज्ञे दशरथात्मजः । अष्टमे द्वापरे
विष्णुरष्टाविंशे पराशरात् । वेदव्यासस्तथा जज्ञे
जातूकर्णपुरःसरः । कर्त्तुं धर्मव्यवस्थानमसुराणां
प्रणाशनम् । तिष्ये नवमके जज्ञे तपसा पुष्करेक्षणः ।
देवक्यां वसुदेवेन द्वैपायनपुरःसरः । तस्मिन्नेव युगे
क्षीणे सन्ध्याशिष्टे भविष्यति । कल्की विष्णुयशा
नाम पाराशर्य्यपुरःसरः । दशमो भाव्यसंभूतो याज्ञ-
वल्क्यपुरःसरः ।”

दशाश्व पु० दश अश्वा रथेऽस्य । चन्द्रे शब्दर० ।

“रथस्त्रिचक्रः सोमस्य कुन्दाभास्तस्य वाजिनः । वामदक्षिणतो
युक्ता दश तेन चरत्यसौ । वीथ्याश्रयाणि शृक्षाणि
ध्रुवाधारेण वेगिना । ह्रासवृद्धिक्रमस्तस्य राशीनां
सवितुर्यथा । अर्कस्येव स्थितस्याश्वाः सकृद्युक्ता वहन्ति
ते । कल्पंमेकं मुनिश्रेष्ठ! वारिगर्भसमुद्भवाः” पुराण
सर्वस्वे विष्णु० पु० ।

दशाश्वमेध(धिक) न० काशीस्थतीर्थभेदे तनमहात्म्या-

दिकथा काशी० ख० ५२ अ० उक्ता यथा
“साहाय्यं प्राप्य राजर्षेर्दिवोदासस्य पद्मभूः ।
इयाज दशभिः काश्यामश्वमेधैर्महामखैः । अद्यापि
होमधूमोघैर्य्यद्व्याप्तं गगनान्तरम् । तदा प्रभृति
नैवेह नीलिमानं जहात्यदः । तीर्थं दशाश्वमेधाख्यं
प्रथितं जगतीतले । तदा प्रभृति तत्रासीद्वाराणस्यां
शुभपदम् । पुरा रुद्रसरो नाम तत्तीर्थं कलसोद्भव! ।
दशाश्वमेधिकं पश्चाज्जातं विधिपरिग्रहात् । स्वर्द्धुन्यथ
ततः प्राप्ता भगीरथसमागमात् । अतीव पुण्यवज्जात
मतस्तीर्थमनुत्तमम् । विधिर्दशाश्वमेधेशं लिङ्गं संस्थाप्य
तत्र वै । स्थितवान् न गतोऽद्यापि क्वापि काशीं
विहाय तु । राज्ञो धर्मरतेस्तस्य छिद्रं नाप च
किञ्चन । अतः पुरारेः पुरतो विदित्वा किं वदेद्विधिः ।
क्षेत्रप्रभावं विज्ञाय ध्यायन् विश्वेश्वरं विभुम् । ब्रह्मेश्वरं
च संस्थाप्य विधिस्तत्रैव संस्थितः । परा तनुरियं
काशी विश्वेशस्येति निश्चितम् । अस्याः संसेवना-
च्छम्भुर्न कुप्यति पुरा मयि । कः प्राप्य काशीं दुर्मेधाः
पुनस्त्यक्तुमिहेहते । अनेकजन्मजनितकर्म्मनिर्मूल-
लक्षणाम् । विश्वसन्तापसंहर्तुः स्थाने विश्वपतेस्तनुः ।
सन्ताप्यते परं काश्याविश्लेषजमहाग्निना । प्राप्य
काशीं त्यजेद्यस्तु समस्ताघौघनाशनीम् । नृपशुः
स परिज्ञेयो महासौख्यपराङमुखः । निर्वाणलक्ष्मीं
यः काङ्क्षेद्भञ्जन् संसारदुर्गतिम् । तेन काशी न
सन्त्याज्या यद्याप्तैशादनुग्रहात् । यः काशीं संपरि-
त्यज्य गच्छेदन्थत्र दुर्मतिः । तस्य हस्तलाद्गच्छेच्चतु
र्वर्गफलोदयः । निवर्हणीमघौघस्य सुपुण्यपरिवृंहि-
पृष्ठ ३५०८
णीम् । कः प्राप्य काशीं दुर्मेधास्त्यजेन्मोक्षसुखप्रदाम् ।
सत्यलोके कृतं सौख्यं क्व सौख्यं वैष्णवे पदे । यत्
सौख्यं लभ्यते काश्यां निमेषार्द्धनिषेवणात् । वारा-
णसीगुणगणान्निर्णीय द्रुहिणस्त्विति । व्यावृत्य
मन्दरगिरिं न पुनः प्रत्यगान्मुने! । स्कन्द उवाच ।
मित्रावरुणयोः पुत्र । महिमानं ब्रवीमि ते । काश्यां
दशाश्वमेधस्य सर्वतीर्थशिरोमणेः । दशाश्वमेधिकं प्राप्य
सर्वतीर्थोत्तमोत्तमम् । यत् किञ्चित् क्रियते कर्म
तदक्षयमिहेरितम् । स्नानं दानं तपो होमः स्वाध्यायो
देवतार्चनम् । सन्ध्योपास्तिस्तर्पणञ्च श्राद्धं पितृसम-
र्च्चनम् । दशाश्वमेधिके तीर्थे सकृत् स्नात्वा नरोत्तमः ।
दृष्ट्वा दशाश्वमेधेशं सर्वपापैः प्रमुच्यते । ज्यैष्ठे मासि
सिते पक्षे प्राप्य प्रतिपदं तिथिम् । दशाश्वमेधिके
स्नात्वा मुव्यते जन्मपातकात् । ज्यैष्ठशुक्लद्वितीयायां
स्नात्वा रुद्रसरोवरे । जन्मद्वयकृतं पापं तत्क्षणादेव
मुञ्चति । एवं सर्वासु तिथिषु क्रमात् स्नायान्नरोत्तमः ।
आ शुक्लदशमीं यावद्दशजन्माघमुत्सृजेत् । तिथिं
दशहरां प्राप्य दशजन्माघहारिणीम् । दशाश्चमेधिके
स्नातीयामीं पश्येन्न यातनाम् । लिङ्गं दशाश्वमेधेशं
दृष्ट्वा दशहरातिथौ । दशजन्मार्जितैः पापैस्त्यज्यते
नात्र संशयः । स्नातो दशहारायां यः पूजयेल्लिङ्ग-
सुत्तमम् । भक्त्या दशाश्वमेधेशं न त गर्भदशा स्पृशेत् ।
ज्यैष्ठे मासि सिते पक्षे पक्षं रुद्रसरे नरः । कुर्वन्वै
वार्षिकीं यात्रां न विघ्नैरभिभूयते । दशाश्वमेधावभृथैर्यत्
फलं सम्यगाप्यते । दशाश्वमेधे तन्नूनं स्नात्वा दशहरा-
तिथौ । स्वर्द्धुन्याः पश्चिमे तीरे नत्वा दशहरेश्वरम् ।
न दुर्द्दशामवाप्नोति पुमान् पुण्यतमः क्वचित् । यत्
काश्यां दक्षिणद्वारमन्तर्गेहस्य कीर्त्त्यते । तत्र ब्रह्मेश्वरं
दृष्ट्वा ब्रह्मलोके महीयते । इति ब्राह्मणवेशेन वारा-
णस्यां महाधिया । द्रुहिणेन स्थितं तावद्यावद्विश्वेरा-
गमः । दिवोदासीऽपि राजेन्द्रो वृद्धब्राह्मणरूपिणे ।
ब्रह्मणे कृतयज्ञाय ब्रह्मशालामकारयत् । ब्रहेम्श्वर
समीपे तु ब्रह्मशाला मनोहरा । ब्रह्मा तत्रावसद्ध्योम
ब्रह्मथीषैर्निनादयन् ।”

दशाह पु० दशानामह्रां समाहारः टच समा० समाहारत्वात्

नाह्रादेशः “अह्रान्ताः पुंसि” पा० पुंस्त्वम् । दशदिन-
ममुदाये । “दशाहं शावमाशौचं सपिण्डेशु विधीयते”
“अतिक्रान्तेदशाहे तु त्रिरात्र मशुचिर्भवेत्” मनुः ।

दशिन् त्रि० ब० व० दश संख्याः सन्ति वेषाम् डिनि ।

१ दशसंख्यायुक्ते । दशसंख्या ग्रामाः अधिकृतत्वेन सन्त्यस्य
डिनि । २ राज्ञा नियुक्ते दशग्रामाघिकृते च “दशी कुलन्तु
भुञ्जीत विंशी पञ्चं कुलानि च” मनुः । दश संख्याः
प्रमाणं येषाम् डिनि । ३ दशसंख्याप्रमाणके त्रि० । “तां
दशिभिः प्रायुङ्क्त” शत० ब्रा० १३ । १४ । २ । दशा वर्त्तिका
वस्त्राञ्चलं वा अस्त्यस्य इनि । ४ दशायुक्ते दीपे ५ सदशे
वस्त्रे च त्रि०

दशीविदर्भ पु० दक्षिणस्थे देशभेदे “अथापरे जनपदा

इत्युपक्रमे “दशीविदर्भाः कान्तीकास्तङ्गनाः परतङ्गनाः”
भा० भी० ९ अ० ।

दशेन्धन पु० दशा वर्त्तिकैव इन्धनं यस्य । प्रदीपे त्रिका० ।

दशेर त्रि० दश्श--एरक् । हिंस्रे त्रिका० ।

दशेरक पु० दशेर + संज्ञायां कन् । १ मध्यदेशे सोऽभिजनोऽस्य

तस्य राजा वा अण् । दाशेरक पित्रादिक्रमेण तद्देश-
वासिनि तन्नृपे च । बहुषु अणी लुक् । २ दशेरक
तत्रार्थे व० व० । हेमचन्द्रे दशेरुक इति पाठान्तरम् ।

दशेश पु० दशानामीशः । दशापतौ १ रव्यादिग्रहे । दशानां

ग्रामाणामीशः । २ राज्ञा नियुक्ते दशग्रामाधिकृते च ।
“शंसेद् ग्रामो दशेशाय दशेशो विंशतीशिनम्” मनुः ।

दशैकाशिक त्रि० एकादशार्थत्वादेकादश वस्ततो दश ये

दत्ता दश एकादश भविष्यन्ति ते दशैकादशाः निपात-
नात् समासान्तोऽकारः । “प्रयच्छति गर्ह्यम्” पा०
दशैकादशान् प्रयच्छतीत्यर्थे “कुसीददशैकादशात् ष्ठन्ष्ठचा
विति पा० ष्ठच् । शतं प्रति दशकरूपां वृद्धिं ग्रहोतरि
वार्द्धुषिकभेदे स्त्रियां षित्त्वात् ङीष् ।

दशोणि पु० दश बहवः उणयोऽस्य । बहुहबिष्के “दशोणये

कवये तर्कसातौ” ऋ० ६ । २० । ४ “दशोणये बहुहविष्कात् कवये
मेधाविनः पञ्चम्यर्थे चतुर्थी” भा० ।

दशौषधकाल पु० दशविध औषधकालः शा० क० । दशविधे

औषधकाले स च सुश्रुते उत्तरतन्त्रे उक्तो यथा
“अत ऊर्द्ध्वं दशौषधकालान्वक्ष्यामः । तत्र “निर्भक्तं
प्राग्भक्तमधोभक्तं मध्येभक्तभन्तराभक्तं सभक्तं सा
मुद्गं मुहुर्मुहुर्ग्रासं ग्रासान्तरञ्चेति दशौषधकालाः ।
तत्र निर्भक्तं १ केवलमेवौषधमुपयुज्यतॆ । बीर्य्याधिकं
भवति भेषजमन्नहीनं हन्यात्तथामयमसंशयमाशु चैव ।
तद्बालवृद्धयुवतीमृदवोऽथ पीत्वा ग्लानिं परां सभुप-
यान्ति बलक्षयञ्च । प्राग्भक्तं २ नाम् यन्मु प्राग्भक्त-
पृष्ठ ३५०९
स्योपयुज्यते । शीघ्रं विपाकमुपयाति बलं न हिंस्या
दन्नावृतं न च मुहुर्वदनान्निरेति । प्राग्भक्तसेवनमथो
वलमादंधाति दद्याच्च वृद्धशिशुभीरुवराङ्गनाभ्यः । अधो
भक्तं ३ नाम यद्भुक्तान्ते पीयते । पीतं यदन्नमुपयुज्य
तदूर्द्ध्वकाले हन्याद्गदान् वहुविधांश्च बलं दधाति ।
मध्येभक्तं ४ नाम यन्मध्ये भक्तस्य पीयते । मध्ये तु
पीतमुपहन्त्यविसारिभावाद्ये मध्यदेहमभिभूय भवन्ति
रोगाः । अन्तराभक्तं ६ नाम यदन्तरा पीयते पूर्बापर-
योर्भक्तयोः । हृद्यं मनोबलकरन्त्वथ दीपनीयं पथ्यञ्च
सम्भवति चान्तरभक्तमेतत् । सभक्तं ७ नामौषधेषु
यत्साध्यते भक्तम् । पथ्यंसभक्तमबलाबलयोर्हि नित्यं तद्द्वे-
षिणामपि तथां शिशुवृद्धयोश्च । सामुद्गं ८ नाम यद्भक्त-
स्यादावन्ते च पीयते । दोषे द्विधा प्रतिसृते तु समुद्ग
संज्ञमाद्यन्तयोर्यदशनस्य निषेव्यते तु । मुहुर्मुहुर्न्नाम ८
सभक्तमभक्तं वा यदौषधं मुहुर्मुहुरुपयुज्यते । श्वासे
मुहुर्मुहुरतिपसृते च कासे हिक्कावमीषु च वदन्त्युप्र-
योज्यमेतत् । ग्रामं ९ नामकबलनम् (फलमस्य मुद्रितपुस्तके
पतितम्) ग्रासान्तरं १० नाम यत्पिण्डव्यामिश्रम् । ग्रासा-
न्तरेषु वितरेद्वमनीयधूमान् श्वासादिषु प्रथितदृष्टगुणांश्च
लेहान् । एवमेते दशौषधकालाः” ।

दस उत्क्षेपे उपक्षपे च अपक्षये अक० दि० पर० सक० सेट् ।

दस्यति । इरित् अदसत् अदासीत्--अदसीत् । उदित् ।
दसित्वा दस्त्वा । “तेषां दिशोऽदस्यन्” तै० स० १ । ६ । १
१ । ३ “त्वां त्सारी दसमानो भगमीट्टे तक्ववीये” ऋ० १ ।
१३४ ५ । आर्षस्तङ् गणव्यत्ययश्च “मा ते प्राण
उपदसन्” अथ० ५ । ३० । १५ “अब्रह्मताविदसाम” यजु० १० । २२

दस दर्शने दंशने च चु० आ० सक० सेट् इदित् ।

दंसयते अददंसत दंसशब्दे दृश्यम् ।

दस पु० दस उपलपे वेदे भावे अच् । उपक्षेपे “मनुं चक्रु-

रुपरं दसाय” ऋ० ६ । २१ । २१ । दसाय शत्रूणामुपक्षेपाय”
भा० लोके तु घञ् दास इत्येव तत्रार्थे उत्क्षेपे च ।

दसेरक पु० दशेरकशब्दार्थे मरुदेशे “दसेरकाः केकयाः

सकैकेयाः वृ० स० ४ अ० । सोऽभिजनोस्थस्य तस्य राजा
वा अण् । दासेरक पित्रादिक्रमेण तत्र वासिनि तन्नृपे
च बहुषु अणो लुक् । तत्रार्थे “आवन्त्यान् दाक्षिणा-
त्यांश्च पार्वतीयान् दसेरकान्” भा० द्रो० ११ अ० । दासेरक
पृषो० । २ गर्द्धभे पुंस्त्री० । “यास्त्रिष्ठन्त्यः प्रमेहन्ति यथैवोष्ट्र
दसेरंकाः” भा० क० १० अ० । अयं तालव्यमध्यश्च त्रिका० ।

दस्म त्रि० दस उपक्षेपे मक् १ उपक्षेपके “पुरूणि दस्मो निरि-

णाति व्यजस्रैः ऋ० १ । १४८ । ४ । “दस्म उपक्षपयिता” भा०
दस दर्शने कर्मणि मक् । २ दर्शनीये “राजेव दस्म!
निषदोऽधिवर्हिषि” ऋ० १० । ४३ । २ । “हे दस्म! दर्शनीयेन्द्र!”
भा० । “दस्मत् कृणोष्यध्वरम्” १ । ७४ । ४ । दस्मत्
दसु दंशनदर्शनयोः इषियुधीन्धीत्यादिना मक् । “दस्म-
मित्यत्र मकारस्य वर्णव्यत्ययेन तकारः” भा० “एतेनास्य
तान्तत्वकल्पनम् प्रामादिकम् । “जुजोषदिन्द्रोदस्म-
वर्च्चाः ऋ० १ । १७३ । ४ “दस्मवर्चाः दर्शनीयतेजाः” भा०
३ यजमाने ४ चौरे ५ हुताशने च मेदि० । खार्थे यत्
दस्म्य दर्शनीये त्रि० । “द्व्युक्षाय दस्म्यं वचः” ऋ० ८ ।
२४ । २० ।

दस्यु पु० दस--युच् अनुनासिकत्वात् नानादेशः । १ महासाहसिके

(डाकाइत्) २ खले च शब्दार्थचि० “श्वभिर्हतस्य यन्मांसं
शुचि तन्मनुरब्रवीत् । क्रव्याद्भिश्च हतस्यान्यैश्चण्डालाद्यैश्च
दस्युभिः” मनुः । “मुखबाहूरुपज्जानां या लोके
जातयो बहिः । म्लेच्छवाचश्चार्य्यवाचः सर्वे ते दस्यवः
स्मृताः” मनूक्ते ब्राह्मणादिचतुर्वर्णभिन्ने ३ जातिभेदे
च । “प्रमाधनीपचारज्ञमदासं दासजीवनम् । सैरिन्ध्रं
वागुरावृत्तिं सूते दस्युरयोगये” मनुः । ४ कर्मवर्जिते च ।
“गर्द्धते दस्युजूताय स्तवान्” ऋ० । ६ । २४ । ८ ।
“दंस्युजूताय कर्म्मवर्ज्जितैः प्रेरिताय” भा० ५ उपक्ष-
पके त्रि० ६ असुरे पु० “चेतन्ते दस्युतर्हणा” ऋ० ९ । ४७ । २
“दस्यूनामसुराणां तर्हणा” भा० “स वज्रभृद्दस्यु
हा भीम उग्रः” ऋ० १ । १०० । १२ दस्युहा “दस्यूनामुपक्षप-
यितृणामसुराणां वहन्ता” भा० ।

दस्युसात् अव्य० दस्युनामधीनं भवति करोति सम्पद्यते वा

साति । तस्कराधीने भूतादौ “अन्ताश्चाकाल एव
स्युर्लोकोऽयं दस्युसाद्भवेत् । पतेयुर्नरकं घोरं यदि
राजा न पालयेत्” भा० शा० ६८ अ० ।

दस्र पुंस्त्री० दस्यति पांसून् दस उत्क्षपे रक् । १ गर्द्धभे

स्त्रियां जातित्वात् ङीष् । दस्यति रीगान् क्षिपति दस
उपक्षेपे । २ अश्विनीकुमारयोर्द्वयोः द्वि० व० । तत्तुल्य-
संख्यत्वात् ३ द्वित्वसंख्यायां ४ तत्संख्येये च तदधिष्ठातृ-
कत्वात् ५ अश्विनीनक्षत्रे च मेदि० । “अनुसस्रतु-
स्तमथ दस्रयोः सुतौ” माघः । तयोर्मध्ये विशेष
वाचित्वे एकवचनान्तोऽयं “नासत्यश्चैव दस्रश्च स्मृतौ
द्वावश्विनामपि । मार्त्तण्डस्यात्मजावेतावष्टमस्य महा-
पृष्ठ ३५१०
त्मनः” भा० शा० २०८ । “देवौ तस्यामजायेतामश्विनौ
भिषजां वरौ । नासत्यश्चैव दस्रश्च स्मृतौ द्वावश्विनाविति”
हरिव० ९ अ० । नासत्यदस्रयोर्द्वन्वचारित्वात् द्विवच-
नान्तता ६ हिंस्रे त्रि० । ७ शिशिरे न० संक्षिप्तसारः ।

दस्रदेवता स्त्री० दस्रौ देवता अस्य । अश्विनीतारायां हेम० ।

अश्वियमदहनेत्यादिवाक्ये तस्या दस्रदैवत्यमनुसन्धेयम् ।

दस्रसू स्त्री० दस्रौ सूते सू-क्विप् । सूर्य्यपत्न्यां त्वष्टृकन्यायां

संज्ञायाम् त्रिका० अश्विनीकुमारशब्दे दृश्यम्

दह दीप्तौ अक० दाहे सक० चु० उभ० सेट् इदित् । दंहयति

ते अददंहत् त ।

दह दाहे भस्मीकरश्चे सक० भ्वा० प० अनिट् । दहति अधाक्षीत्

ददाह देहतुः । दग्धा दह्यात् धक्ष्यति । दग्धः
दग्धिः दग्ध्वा दग्धव्यः दहनीयः दाह्यः । दाहः
दहनम् । दाहयति अददीहत् दिधक्षति
“उष्णो दहति चाङ्गारः शीतः कृष्णायते करम्”
हितो० “क्रुद्धं कुलं धक्ष्यति विप्रबह्निः” भट्टिः वृक्षान-
ङ्गारकारीव मैनान् धाक्षीः समूलकान्” भा० स० । ६० अ०
“दृशा दग्धं मनसिजं जीवयन्ति दृशैव याः” सा० द० “देहं
धारणयाग्नेय्या दग्ध्वा धामाविशत् स्वकम्” भाग०
“दग्धव्योऽसौ कटाग्निना” सनुः । “कर्म्मणि दह्यते
अदाहि देहे । “दह्यते च कुलं सर्वम्” चाणक्यः । “देहे
लङ्का मतेश्वरा” भट्टिः दंदह्यते । “दंदह्यमानां शोकेन”
भट्टिः ।

दहदहा स्त्री कुमारानुचरमातृभेदे “ख्याता दहदहा चैव

तथा धमधमेति च” भा० श० ४७ अ० दह दहेति बक्ति
मयूरव्य० कर्त्तारं चाभिदधातीति कर्त्तरि अयं साधुः
एवं धमधगेत्यत्रापि बोध्यम् ।

दहन पु० दह-ल्यु । १ अग्नौ, “दवदहनस्तुहिनदीधि-

तिस्तस्य” सा० द० “दह दहन! तदैतत् पापमङ्गं मदीयम्”
सीतोक्तिः । २ चित्रकवृक्षे, ३ भल्लातके, ४ दुष्टचेतसि च ।
५ कपोते पुंस्त्री० राजनि० स्त्रियां जातित्वात् ङीष् । ६
दाहकमात्रे त्रि० । लोकदहन! मनो दहन इत्यादि । ७ रुद्र-
भेदे पु० । “एकादश सुताः स्थाणोः ख्याताः परमतेजसः ।
मृगव्याधथ सर्पश्च निरृतिश्च महायशाः, । अजैकपा-
दहिर्बुध्न्यः पिनाकी च परन्तपः । दहनोऽथेश्वरश्चैव
कपाली च महाद्युतिः, स्थाणुर्भगश्च भगवान् रुद्रा
एकादश स्मृताः” भा० आ० ६६ अ० । उपचारात्
८ कृत्तिकानक्षत्रे “दहनविधिशताख्यामैत्रभं सौम्यवारे”
ज्यो० त० । भावे ल्युट् । ९ दाहे न० । “अपरो दहने
स्वकर्म्मणां ववृते ज्ञानमयेन वह्निना” रघुः ।

दहनकेतन पु० न० दहनस्य केतन इव । धूमे हेमच० ।

दहनप्लुष्ट त्रि० दहनादिव प्लुष्टं प्लोषणं यस्मात् । वैद्यकप्रसिद्धे

(वेलेस्तारा) पदार्थे अग्निप्लुष्टादयोऽप्यत्र । तत्पदाने
हि देहे वह्नेरिव प्लोषणं (फोस्का) भवतीति प्रसिद्धिः ।

दहनप्रिया स्त्री ६ त० । स्वाहायामग्निभार्य्यायाम् त्रिका०

दहनर्क्ष न० ६ त० । कृत्तिकानक्षत्रे “यदा विशाखासु महेन्द्र-

मन्त्री सुतश्च भानोर्दहनर्क्षयातः” वृ० स० १० अ० ।
दहनभादयोऽप्यत्र ।

दहनसारथि पु० ६ त० । वायौ । “दक्षिणदहनसारथिरयाह-

तचञ्चलचूतकलिके” दशकु । दहनसहचरादयोऽप्यत्र ।

दहनागुरु न० दहनस्य दाहाय अगुरु । दाहागुरुणि राजनि०

दहनाराति पु० ६ त० । जले राजनि० । तस्य वह्रिनाश-

कत्वात् तथात्वम् दहनरिपुप्रभृतयोऽप्यत्र ।

दहनोपल पु० दहनाय वह्रये हितः उपलः (आतसी)

सूर्य्यकान्तमणौ हेम० । सूर्य्यकिरणसम्पर्केण हि ततो
वह्नेः प्रादुर्भावात् तस्य तथात्वम् ।

दहनोल्का ६० । विस्फुलिङ्गरूपायामुल्कायाम् त्रिका०

दहर पु० दह--अर । १ मूषिकायां २ स्वल्पे ३ भ्रातरि ४ बालके

च मेदि० । ५ अतिसूक्ष्मे ६ दुर्वोधे च “अथ यदिदं दहरं
पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तराकाशस्तस्मिन् यदन्त-
स्तदन्वेष्टव्यं तद्वाव विजिज्ञासितव्यम्” छा० उ० ।
तत्र स्वल्पे “नेष्टा पत्नीमानेष्यन् कौशं वासः परिधाप-
यति चण्डातकं दहरं वा” कात्या० श्रौ० १४ । ५ । ३
“परिधापयतीति कारितत्वादध्येषणात्र भवति चण्डा-
तकं चलनक उच्यते एवं ह्यभियुक्तोपदेशः अर्द्धोरुकं
विलासिन्या वासश्चण्डातकं विद्ः” दहरं तु कौपोनम्
दहरशब्दस्याल्पवाचकत्वात्” कर्कः । २ नरके ३ वरुणे च
उणादि० ।

दहराकाश पु० कर्म्म० । चिदाकाशे ईश्वरे ।

दह्न पु० दहन्रक् । १ दावाग्नौ २ जठरे च । “सोऽन्यजन्मनि

दह्राग्निर्विश्रवाश्च महातपाः” भाग० ४ । १ । ३० “दह्राग्निः
जठराग्निः” श्रीधरःस्वल्पार्थस्यैवात्र कर्मधारयः जठरस्थ-
स्याग्नेः स्वल्पत्वात् इत्यन्ये ।
"https://sa.wikisource.org/w/index.php?title=वाचस्पत्यम्/दरिद्रा&oldid=57771" इत्यस्माद् प्रतिप्राप्तम्