पृष्ठ ३८९६

धूक पु० धुनोति वृक्षादीन् धु--कन् दीर्घश्च । १ वायौ

उज्जलद० । २ धूर्त्ते ३ काले संक्षिप्तसा० ।

धूत त्रि० धू--क्त । १ त्यक्ते २ कम्पिते ३ भर्त्सिते मेदि० । ४ तर्किते

धरणिः “पवनश्च धूतनवनीपवनः” माघः । “पादानतः
कोपनयाऽवधूतः” कुमा० ।

धूतपाप त्रि० धूतं त्यक्तं पापं येन । १ त्यक्तपापे २ वेदशिरसो

मुनेः शुचिनामाप्सरोजातायां कन्यायां स्त्री तस्या एव
धर्मशापेन चन्द्रशिलात्मकतया नदीरूपेण प्रादुर्भावात्
तद्रूपायां काशीस्थायां ३ नद्याञ्च स्त्री तत्कथा ।
काशीखण्ड ५१ अ० यथा
“पुरा वेदशिरा नाम मुनिरासीन्महातपाः । भृगुवंश-
समुत्पन्नो मूर्त्तो वेद इवापरः । तपस्यतस्तस्य मुनेः पुरो-
दृग्गोचरं गता । शुचिरप्सरसां श्रेष्ठा रूपलावण्य-
शालिनी । तस्यादर्शनमात्रेण परिक्षुब्धं मुनेर्मनः ।
चस्कन्द स मुनिस्तूर्णं साथ भीता वराप्सराः” इत्युपक्रमे
“इदानीं शृणु कल्याणि! कर्त्तव्यं यत् त्वया शुचे ।
अमोघवीजा हि वयं तद्वीजमुररीकुरु । एतस्मिन्
रक्षिते वीर्य्ये परिस्कन्ने त्वदीक्षणात् । त्वमावह
भवित्र्यत्र कन्यारत्नं महाशुचे! । इत्युक्त्वा तेन मुनिना
पुनर्जातेव साप्सराः । महाप्रसाद इत्युक्त्वा मुनेः शुक्र-
मजीगिलत् । अथ कालेन दिव्यस्त्री कन्यारत्नमजीजनत् ।
अतीव नयनानन्दि निधानं रूपजेयसाम् । शुचिरप्स-
रसां श्रेष्ठा जगाम त्रिदशालयम् । ताञ्च वेदशिराः
कन्यां स्नेहेन समवर्द्धयत् । क्षीरेण, स्वाश्रमस्थाया
हरिण्या हरिणीक्षणाम् । मुनिर्नाम ददौ तस्यै
धूतपापेति चार्थवत्” । ततः पितुरुपदेशेन तपश्चरणे
तस्या ब्रह्मतो वरप्राप्तिः धर्मशापेन नदीभावप्राप्तिरित्यादि
कथा तत्रैवाध्याये यथा
“धूतपापोवाच । पितामह! वरो मह्यं यदि देयो
वरप्रद! । सर्वेभ्यः पावनेभ्योऽपि कुरु मामतिपावनीम् ।
स्रष्टा तदिष्टमाकर्ण्य नितरां तुष्टमानसः । प्रत्युवाच च
तां बालां विमलां विमलैषिणीम् । ब्रह्मोवाच धूयपापे!
पवित्रासि यानि सन्त्यत्र सर्वतः । तेभ्यः परित्रमतुलं
त्वमाध वरतो मम । तिस्रः काट्यर्द्धकोटी च सन्ति-
तीर्थान्यनेकशः । दिवि भुव्यन्तरीक्षे च पावनान्युत्तरो-
त्तरम् । तानि सर्वाणि तीर्थानि” त्वत्तनौ प्रतिलोम वै ।
वसन्तु मम वाक्येन भव सर्वातिपावनी । इत्युक्त्वान्त-
र्द्धधे वेधाः सापि निर्धूतकल्मषा । धूतपापोटजं प्राप्ता-
ऽथोवेदशिरसः पितुः । कदाचित्तां समालोक्य
खेलन्तीमुटजाजिरे । धर्मस्तत्तपसा हृष्टः प्रार्थयामास कन्य-
काम् । धर्म उवाच । पृथुश्रोणि! विशालाक्षि! क्षामो-
दरि! शुभानने! । क्रीतः स्वरूपसम्पत्त्या त्वयाहं देहि
मे रतिम् । नितरां बाधते कामस्त्वत्कृते मां सुलोचने! ।
इत्थं सुसाम्ना सा तेन प्रार्थितेत्यसकृद्रहः । उवाच सा
पिता दाता तं प्रार्थय सुदुर्मते! । पितृप्रदेया यत् कन्या
श्रुतिरेषा सनातनी । निशम्येति वचो धर्मो भाविनो-
ऽर्थस्य गौरवात् । पुनर्निर्बन्धयाञ्चक्रेऽपधृतिर्धृतिशा-
लिनीम् । धर्म उवाच । न प्रार्थयेऽहं सुभगे! पितरं
तवसुन्दरि! । गान्धर्वेण विवाहेन कुरु मे त्वं समीहितम् ।
इति निर्बन्धवद्वाक्यं सा निशम्य कुमारिका । पितुः
कन्या फलं दित्सुः पुनराहेति तं द्विजम् । अरे जडमते!
मा त्वं पुनर्व्रूहीति याह्यतः । इत्युक्तोऽपि कुमार्य्या-
स नातिष्ठन्मदनातुरः । ततः शशाप तं बाला प्रबला
तपसोबलात् । जड़ोऽस्यतितरां यस्माज्जलाधारो नदो भव ।
इति शप्तस्तया सोऽथ तां शशाप क्रुधान्वितः । कठोर-
हृदये! त्वं तु शिला भव सुदुर्मते! स्कन्द उवाच ।
इत्यन्योऽन्यस्य शापेन मुने! धर्मनदोऽभवत् । अवि०
मुक्ते महाक्षेत्रे ख्यातो धर्मनदो महान् । साप्याह
पितरं त्रस्ता स्वशिलात्वस्य कारणम् । ध्यानेन धर्मं
विज्ञाय मुनिः कन्यामथाब्रवीत् । मा भैः पुत्रि! करिष्यामि
तव सर्वं शुभोदयम् । तच्छापो नान्यथा भूयाच्चन्द्रकान्त०
शिला भव । चन्द्रोदयमनुप्राप्य द्रवीभूता तनुस्तव । नदी०
भव सुते! साध्वि! धूतपापेति विश्रुता । स च धर्मो नदः
कन्ये! तव भर्त्ता सुशोभनः । तैर्गुणैः परिपूर्णाङ्गो ये
गुणाः प्रार्थितास्त्वया । अन्यच्च शृणु सद्वुद्धे! ममापि
तपसोबलात् । द्वैरूप्यं भवतोर्भावि प्राकृतञ्च द्रवञ्चरम् ।
इत्याश्वास्य पिता तां तु धूतपापां परन्तपः । चन्द्रका-
न्तशिलाभूतामनुजग्राह बुद्धिमान् । तदारभ्य मुने!
काश्यां ख्यातो धर्मनदो ह्रदः । धर्मोद्रवस्वरूपेण
महापातकनाशनः । धुनी च धूतपापा सा सर्वतीर्थमयी
शुभा” । “किरणा धूतपापा च तस्मिन् धर्मनदे शुभे ।
अवन्त्यौ पापसंहर्त्र्यौ वाराणस्यां शुभद्रवे । ततो
भागीरथी प्राप्ता तेन दैलीपिना सह । भागीरथ्या
सहायाता यमुना च सरस्वती । किरणा धूतपापा च
पूर्ण्यतीर्थे सरस्वती । गङ्गा च यमुना चैव पञ्च नद्यः
प्रकीर्त्तिताः” । “करीषिणीं चित्रवहां चित्रसेनाञ्च
निम्नगाम् । गोमतीं धूतपापाञ्च गण्डकीञ्च महानदीम्”
भा० भी० ९ अ० ।
पृष्ठ ३८९७

धूति स्त्री धू--क्तिन् १ विधूनने ३ हटयोगाङ्गभेदे हठयोगशब्दे दृश्यम् ।

धून त्रि० धू--क्त ल्वादि० तस्य नः । कम्पिते

धूनक पु० धूनयति संधुक्षयति वह्निम् चु० धू--ण्वुल् नुगा-

गमः । (धुना) ख्याते यक्षधूपे त्रिका० २ चालके त्रि० ।

धूनन न० धू--णिच् भावे ल्युट् । चालने विधूनने ।

धूनि स्त्री धू--भावे क्तिन् ल्वादि० तस्य नः । कम्पने ।

धूप दीप्तौ चुरा० उभ० अक० दीपने सक० सेट् । धूपयति--ते

अदूधुपत्--त । धूपयाम् बभूव आस चकार । धूपितः ।
“वसवस्त्वा धूपयन्ति” यजु० ११ । ६ धूपशब्दे उदा०

धूप तापे अक० तापने सक० भ्वा० पर० सेट् । धूपायति

अधूपायीत् अधूपीत् । धूपायाम् बभूव आस चकार
दुधूप । धूपायितः धूपितः । “धूपायतीव पटलैर्नवनीर-
दानाम्” माघः ।

धूप पु० धूपयति रोगान् दोषान् वा धूप--अच् । १ गुग्गुलुप्रभृति

सुगन्धद्रव्योत्थे धूमे, २ तत्साधनदुव्ये च तन्निरुक्तिर्यथा
“धूताशेषमहादोषपूतिगन्धः प्रभावतः । परमानन्दजन-
नाद्धूप इत्यभिधीयते” धूपद्रव्यभेदः प्रपञ्चसारे “गुग्गुल्व-
गुरुकोशीरसिताज्यमधुचन्दनैः । साराङ्गारे विनिक्षिप्तै-
र्मन्त्री पीठैः प्रधूपयेत्” । योगिनीतन्त्रे “कृष्णागुरु
सकर्पूरं चन्दनं सिह्लकं तथा । भगवत्यै नरो यस्तु इदं
दत्त्वा महेश्वरः । इह काममवाप्नोति दुर्गालोके
महीयते” । आह्नि० त० वामनपुराणे
“रुहिकाख्यं कनं दारु सिह्लकं साशुरुं सितम् । शङ्खो
जातीफलं श्रीशे धूपानि स्युः प्रियाणि वै । रुहिका
मांसी कनो महिषाख्यगुग्गुलुः सितं कर्पूरं सितेति
पाठे सिता शर्करा । शङ्खो नखी । श्रीशे विष्णौ ।
विष्णुधर्मोत्तरे “धूपदः सर्वमाप्नोति धूपदः सर्वमश्नुते”
वामनपुराणेऽस्य क्लीवतार्षी ।
तन्त्रसारे विशेषः शारदायां “गुग्ल्वगुरुकोशीरशर्करा
मधुचन्दनैः । धूपयेदाज्यसंमिश्रैर्नीचैर्देवस्य देशिकः” ।
विशेषस्तु तन्त्रान्तरे “सिताज्यमधुसंमिश्रं गुग्गुल्वगुरु-
चन्दनम् । षड़ङ्गं धूपमेतत्तु सर्वदेवप्रियं सदा” । तथा
“गुग्गुलुं सरलं दारु पत्रं मलयसम्भवम् । ह्रीवेरमगुरुं
कुष्ठं गुडं सर्जरसं घनम् । हरीतकीं नखीं लाक्षां
जटामांसीञ्च शैलजम् । षोड़शाङ्गं विदुर्धूपं दैवे पैत्रे
च कर्मणि” । “मधु मुस्तं घृतं गन्धो गुग्ल्वगुरुशैलजम् ।
सरलं सिह्ल सिद्धार्थं दशाङ्गो धूप इष्यते” । रोग १ रोग
हर २ रोगद ३ केशाः ४ दारु ५ जातु ६ लघु ७ पत्रविशेषाः ८
वक्रविवर्जित ९ वारिजमुद्रा १० धूपवर्त्तिरिह सुन्दरिः भद्रा”
अस्यार्थः कुड़ १ हरीतकी २ गुड़ ३ जटामांसी ४ देवदारु ५
लाक्षा ६ अगुरु ७ तेजपत्र ८ सरल ९ नखी १०”
“यथा गन्धं तथा देवि धूपं दद्याद्विचक्षणः । मध्य-
मानामिकाभ्यान्तु मध्य पर्वणि देशिकः अङ्गुष्ठाग्रेण देवे-
शि! धृत्वा धूपं निवेदयेत् । तथा समर्पयेद्धूपं घण्टावा-
द्यजयस्वनैः” । तथा “धूपभाजनमस्त्रेण(फट्)प्रोक्ष्याभ्यर्च्य
हृदाणुना(नमः) । अस्त्रेण पूजितां घण्ठां वादयन् गुग्गुलु”
दहेत् । श्यामादौ तु भुवनेश्वरी वीजं पूर्वं दत्त्वा इमं
मन्त्रं पठित्वार्पयेत् । “तथा जयध्वनिमन्त्रमातः! स्वाहे-
त्युदीर्य्य च । अभ्यर्च्य वादयेद् घण्टां सुधूपैर्धूपयेत्ततः” ।
तन्त्रान्तरे “धूपस्थानं समभ्यर्च्य तर्जन्या वामया स्पृशन् ।
धूपभाजनमस्त्रेण प्रोक्ष्याभ्यर्च्य हृदाणुना । एवं
दीपदानेऽपि घण्टावादनमिति । तथाच गौतमीये “उत्तार्य-
दृष्टिपर्य्यन्तं घण्टां वामदिशि स्थिताम् । वादयन्
वामहस्तेन दक्षहस्तेन चार्चयेत्” । यामले “निवेदयेत् पुरोभागे
गन्धं पुष्पं च भूषणम् । दीपं दक्षिणतो दद्यात् पुरतो
वा न वामतः । वामतस्तु तथा धूपमग्रे वा न तु
दक्षिणे । नैवेद्यं दक्षिणे भागे पुरतो वा न पृष्ठतः” ।
वामदक्षिणभागस्तु देवताया एव न तु साधकस्य ।
“धूपदीपौ सुभोज्यञ्च देवताग्रे निवेदयेदिति” दर्शनात्
तिथितत्त्वे स्मृतिः “मधु मुस्तं घृतं गन्धो गुग्गुल्वगुरु
शैलजम् । सरलं सिह्लसिद्धार्थौ दशाङ्गो धूप इष्यते ।
दशाङ्गो दशघटितः शैलजं स्वनामख्यातं
सिद्धार्थः श्वेतसर्षपः । “तुरुष्कं ग्रन्थिकर्पूरनागरागुरु
कुङ्कुमैः । मुरामांसीसितामिश्रं धूपं दद्यान् मधु
प्लुतम्” । तुरुष्कं सिह्लकं” ग्रन्थिः (गाँठीयालीति)
ख्याता । सिता शर्करा नागरः शुण्ठी । भविष्ये
“जलहीने तु दुर्भिक्षं गन्धहीने त्वभाग्यताम् ।
धूपहीने तथोद्वेगं वस्त्रहीने धनक्षयम्” प्राप्नुयादिति शेषः
कालिकापुराणे ६८ अ० यथा “एवं वां कथितो दीपो
धूपञ्च शृणुतं सुतौ! । नासाक्षिरन्ध्रसुखदः सुगन्धो-
ऽतिमनोहरः । दह्यमानस्य काष्ठस्य प्रयतस्येतरस्य
वा । परागस्याथ वा धूमो निस्तापो यस्य जायते ।
म धूप इति विज्ञेयो देवानां तुष्टिदायकः । राशी-
कृतैर्न चैकत्र तैर्द्रव्यैः परिधूपयेत् । तथाग्निवत्तथा
पृष्ठ ३८९८
कृत्वा न तत् फलमवाप्नुयात् । श्रीचन्दनञ्च सरलः
सालः कालागुरुस्तथा । उदयः सुरथः कन्दो रक्त
विद्रुम एव च । पीतसालः परिमलो विमर्दीकाऽसन-
स्तथा । नमेरुर्देवदारुश्च विल्वसारोऽथ खादिरः ।
सन्तानः पारिजातश्च हरिचन्दनवल्लभौ । वृक्षेषु
धूपाः सर्वेषां प्रीतिदाः परिकीर्तिताः । अरालः सह
सूत्रेण श्रीवासः पटवासकः । कर्पूरः श्रीकरश्चैव
प्ररागः श्रीहरामलौ । सर्वौषधिरजोजातो वाराह-
श्चूर्ण उत्कलः । जातीकोषस्य चूर्णञ्च गन्धः कस्तूरिका
तथा । क्षोदे वृत्ते च गदिता धूपा एते उदाहृताः ।
यक्षधूपो वृकधूपः श्रीपिष्टोऽगुरु झर्झरः । पत्रिवाहः
पिण्डधूपः सुगोलकण्ठ एव च । अन्योन्ययोग
निर्यासा धृपा एते प्रकीर्तिताः । एतैर्विधूपयेद्देवान्
धूमिभिः कृष्णवर्त्मना । येषां धूपोद्भभैर्घ्राणैस्तुष्टिं
गच्छन्ति जन्तवः । निर्य्यासश्च परागश्च काष्ठं गन्ध-
स्तथैव च । कृत्रिमश्चेति पञ्चैते धूपाः प्रीतिकरा मताः ।
न यक्षधूपं वितरेत् माधवाय कदाचन । न रक्तविद्रुमं
मह्यं सुरथः स्कन्दिने तथा । यक्षधूपः पत्रिबाहः पिण्ड-
धूपः सुगोलकः । कृष्णागुरुः सकर्पूरो महामाया-
प्रियः स्मृतः । यक्षधूपेन वा देवीं महामायां प्रपूजयेत् ।
मेदोमज्जासमायुक्तान् न धूपान् विनिवेदयेत् ।
परकीयांस्तथा घ्रातान् स्तेनीकृत्याभिमर्दितान् । पुष्पं
धूपञ्च गन्धञ्च उपचारांस्तथा परान् । घ्रातान्निवेद्य देवेभ्यो
नरो नरकमाप्नुयात् । न भूमौ वितरेत् धूपं नासने
न घटे तथा । यथातथाधारगतं कृत्वा तद्विनिवेदयेत् ।
रक्तविद्रुमसालौ च सुरथः सरलस्तथा । सन्तानको
नमेरुश्च कालागुरुसमन्वितः । जातीकीषाद्यसंयुक्तो
धूपः कामेश्वरीप्रियः । त्रिपुरायास्तथैवायं मातॄणा-
मपि नित्यशः । सर्वेषां पीठदेवानां कान्त्यादीनाञ्च
पुत्रकौ । एष वां कथितो धूपः शृणु तं नेत्ररञ्जनम्”
केशवार्चायां षोड़शाङ्गादिधूपा यथा
“मुस्तकं गुगगुलुः कुष्ठं कर्पूरं मलयोद्भवम् । देवदारु
जटामांसी जातीकोषञ्च बालकम् । मुरा मांसी ह्यगुरुकं
त्वगुशीरञ्च केशरम् । एला तथा तेजपत्रं सर्वमेतद्
घृताक्तकम् । धूपोऽयं षोड़शाङ्गः स्याद्गोविन्दप्रीति-
कारकः” ।
द्वादशाङ्गो यथा “गुग्गुलुञ्चन्दनं पत्रं कुष्ठञ्चागुरु
कुङ्कुमम् । जातीकोषञ्च कर्पूरं जटामांसी च बाल-
कम् । त्वगुशीरञ्च धूपोऽसौ द्वादशाङ्गः प्रकीर्त्तितः ।
दशाङ्गो यथा “कर्पूरं कुष्ठमगुरु गुग्गुलुर्मलयोद्भवम् ।
केशरं बालकं पत्रं त्वग्जातीकोषमुत्तमम् । सर्वमेतद्
घृताभ्यक्तं दशाङ्गो धूप ईरितः” ।
अष्टाङ्गो यथा “गुग्गुल्वगुरुकं तेजपत्रं मलयसम्भवम् ।
कर्पूरं बालकं कुष्ठं नूतनं कुङ्कुमं तथा । अष्टाङ्गः
कथितो धूपो गोविन्दप्रीतिदः शुभः” ।
पञ्चाङ्गो यथा “चन्दनं कुङ्क मं नूत्नं कर्पूरं गुग्गुलोऽ-
गुरु । धूपोऽयं वृतसंयुक्तः पञ्चाङ्गः समुदाहृतः” ।
विष्णुधूपे वर्जनीयद्रव्यम् यथा “ऐक्षवं सालनिर्यासं पद्मकं
सरलं जतु । वचा मधुरिका तैलं गन्धकाष्ठं कलम्बकम् ।
गन्धकं टङ्कणं तालं हिङ्गुलञ्च मनःशिला । कक्कोलमूषरं
दार्वी गन्धमांद्री रसाञ्जनम् । अष्टवर्गः शठी मेथी
शिलाजिद् गन्धचन्दनम् । कुन्दूरु रेणुकं रास्नाऽजमोदा
शतपुष्पिका । हरिद्रा जीरकं वृक्षक्षीरञ्च रक्तचन्दनम् ।
कर्चूरकं मरुवकं यवानी ग्रन्थिका तथा । शैलजं
धातकीपुष्पं नखी मोचरसादिकम् । मुकुन्दधूपे देवर्षे!
सर्वमेतद्विवर्जयेत्” पाद्मोत्तरखण्डे
श्राद्धदेयो धूपो यथा ब्राह्मे “चन्दनागुरुणी चोभे तथैवो-
शीरपद्मकम् । तुरुष्कं गुग्गुलुञ्चैव घृताक्तं युगपद् दहेत्” ।
“उशीरं वीरणमूलं तुरुष्कं सिह्लकम्” श्राद्ध० त० विष्णुधर्मे
“धूपस्तु गुग्गुलुर्देयस्तथा चन्दनसारजः । अगुरुश्च
सकर्पूरन्तुरुष्कस्त्वक् तथैव च । विष्णुः “घृतमधुयुक्तं
गुग्गुलुं श्रीखण्ड देवदारु सरलादि दद्यादिति” । देवलः
“ये हि प्राण्यङ्गजाधूपा हस्तवाताहताश्च ये । न ते
श्राद्धे नियोक्तव्या ये च के चोग्रगन्धयः । घृतं न
केबलं दद्याद्दुष्टं वा तृणगुग्गुलुम्” निर्णयसि० ।
“अदत्त्वा गन्धमाल्यानि यो मे धूपं प्रयच्छति । कुणपो
जायते भूमे! यातुधानो न संशयः । वर्षाणि
चैकविशानि नमस्कारनिरासकः । तिष्ठतेऽत्र महाभागे!
एवमेतत् न संशयः” वराहपुराणम् ।
विषघ्नधूपो यथा” सक्तुः सार्जरसोपेतः सर्षपा एलवालुकैः ।
सुवर्णातस्करतरोः कुसुमैरर्जुनस्य तु । धूपो वासगृहे
हन्ति विषं स्थावरजङ्गमम् । न तत्र कीटा न
विषं न दर्दुरसरीसृपाः । न कृत्याकर्मणस्तत्र धूपो
ऽयं यत्र दह्यते” मत्स्यपु० ।
धूपान्तरं तत्रैव “कार्पासास्थि भुजङ्गस्य तथा निर्मो-
चनं भवेत् । सर्पनिर्मोचनो धूपः प्रशस्तः सततं गृहे”
पृष्ठ ३८९९


रोगनाशकधूपो यथा “कूर्ममत्स्याखुमहिषगोशृगा-
लाश्ववानराः । विड़ालबर्हिकाकाश्च वराहोलूककुक्कुटाः ।
हंस एषाञ्च विण्मूत्रं मांसं वा रोमशोणितम् । धूपं
दद्याज्जरार्त्तस्य उन्मत्तेभ्यश्च शान्तये । एतान्यौषध-
जातानि धूपितानि महेश्वर! । निघ्नन्ति रोगजातानि
वृक्षमिन्द्राशनिर्यथा” गारुड़पु० ।
“धूपोष्मणा त्यजितमार्द्रभावम्” कुमा० “दोहदधूपिनि
द्रुमे” नैष० ३ सन्तापके त्रि० “मुमुचुः खधूपान्” भट्टिः

धूपन पु० धूप--ल्यु । १ यक्षधूपे (धुना) शब्दमाला २ धूपे च

“धूपनाङ्गैश्च धूपयेत्” सुश्रु० भावे ल्युट् । २ सन्तापने
३ धूपकरणे च “परीक्षिताः स्त्रियश्चैनं व्यजनोदक
धूपनैः” मनुः ।

धूपपात्र न० ६ त० । (धुनची) ख्याते धूपाधारे पात्रभेदे

धूपभाजनादयोऽप्यत्र । “धूपभाजनमस्त्रेण प्रोक्ष्याभ्यच्य
हृदाणुना” तन्त्रसारः ।

धूपमुद्रा स्त्री धूपप्रदानार्थं मुद्रा । देवपूजाङ्गे धूपदा-

नार्थं दर्शनीये मुद्राभेदे स च धूपशब्दोक्ते “मध्यमाना-
मिकाभ्यान्तु” इत्यादि तन्त्रवाक्ये दर्शितः ।

धूपवास पु० धूपेन वासः सुगन्धिकरणम् । स्नानोत्तरं

धूपोष्मणा आद्रीभाबमोचनेन सुगन्धीकरणे “स्नाना-
र्द्रयुक्तेष्वनुधूपवासम्” रघुः ।

धूपवृक्ष पु० धूपसाधनं वृक्षः शा० त० । सरलवृक्षे त्रिका०

स्वार्थे क । धूपवृक्षक तत्रार्थे शब्दर० ।

धूपागुरु न० धूपाय तदर्थं दाह्यम् अगुरु शा० त० । दाह्ये

अगुरुभेदे राजनि० ।

धूपाङ्ग पु० धूपसाधनमङ्गमस्य । १ सरलवृक्षे राजनि० । ६ त० । २ धूपस्याङ्गे न० ।

धूपार्ह न० धूपाय अर्ह्यते पूज्यते अर्ह--कर्मणि घञ् ।

१ कृष्णागुरुणि राजनि० । धूपमर्हति अर्ह--अण् ।
उप० स० । धूपदानयोग्ये त्रि० ।

धूपित त्रि० धूप--आयाभावपक्षे क्त । १ सन्तप्ते २ अध्वादि-

श्रान्ते अमरः । “यवादिना दोहदधूपितो द्रुमः”
वृक्षायुर्वेदः । आयपक्षे धूपायित तत्रार्थे । “प्रदीप
परिदीपिते विविधधूपधूपायिते” तन्त्रम् । धूप +
तार० । इतच् । ३ दत्तधूपे वृक्षादौ त्रि० ।

धूम पु० धूनीते धू--कम्पे मक् । सार्द्रेन्धनवह्निजाते मेघा-

ञ्जनयोर्जनके (धूँया) ख्याते पदार्थे “सहजमलिनवक्र-
भावभाजां भवति भवः प्रभवात्मनाशहेतुः । जलधर
पदवीमवाप्य धूमोज्वलनविनाशमनु प्रयाति नाशम्” प्रबो०


“सधूमदीप्ताग्निरुचीनि रेजुः” भट्टिः “धूमज्योतिः-
सलिलमरुतां सन्निपातः क्व मेघः” मेघ० “पुनानं पवना-
द्धुतैर्धूमैराहुतिगन्धिभिः” रघुः । भीमो भीमसेनवत्
धूमकेतुशब्दस्योत्तरपदलोपः । २ धूमकेतौ ३ उल्कापाते च
“त्रिदिनं धूमे पञ्च दिनानि गर्गः” । ४ अग्निमान्द्यसूचके
वायुभेदे (चोओंया ढेकुर) “धूमोद्गारे तथा वान्ते क्षुर-
कर्मणि मैथुने” आह्निकत० । जाठराग्नेर्मान्द्ये हि अन्न-
पाकस्यासम्भवात् जठरानलस्य दीप्त्यभावेन ततो धूम
इवोद्गीर्यते इति लोकप्रसिद्धिः । सुश्रुतोक्ते ५ धूमपाने
च धूमपानशब्दे दृश्यम् । ६ ऋषिभेदे ततः गर्गा० गोत्रे
यञ् । धौम्य धूमर्षिगोत्रापत्रे पुंस्त्री । स च युधि-
ष्ठिरस्य पुरोहितः धौम्यशब्दे दृश्यम् । अश्वा० फञ् ।
धोमायन तद्गोत्रापत्ये पुंस्त्री० । ७ देशभेदे । देशबाचिन-
स्ततः धूमा० भवार्थे वुञ् । धौमक तत्र भवे त्रि० ।

धूमकेतन पु० धूमः केतनं लिङ्गमस्यानुमाने । १ वह्नौ वह्ने

र्धूमलिङ्गेनानुमानात् तथात्वम् । २ धूमकेतौ च मेदि०
“निष्प्रभश्च रिपुरास भूभृतां धूमशेष इव धूमकेतनः” रघुः

धूमकेतु पु० धूमः केतुर्लिङ्गमस्य । १ वह्नौ अमरः २ धूमाभ-

तारकाभेदे उत्पातविशेषे केतुशब्दे दृश्यम् । “उपप्लवाय
लोकानां धूमकेतुरिवोत्थितः” कुमा० । ३ ग्रहभेदे विश्वः
केतुशब्दे २२३० पृष्ठादौ दृश्यम् । “केतुना धूमकेतोस्तु
नक्षत्राणि त्रयोदश । भरण्यादीनि भिन्नानि नानुयान्ति
निशाकरम्” हरिवं० ८० अ० ।

धूमगन्धि न० धूमस्येव गन्धोऽस्य इत् समा० । १ रोहिषतृणे

धूमेन गन्ध्यते गम्यतेऽसौ गन्ध--इन् ३ त० । २ धूमेनानु
मीयमाने वह्नौ “माग्निर्ध्वनयीद्धूमगन्धिः” ऋ० ११६२ । १५

धूमज पु० धूमाज्जायते जन--ड । १ मेधे २ मुस्तके च ।

धूमजाङ्गज न० धूमजस्य मेघस्य अङ्गात् अङ्गरूपात् वज्रात्

जायते जन--ड । वज्रक्षारे राजनि० ।

धूमदर्शिन् त्रि० धूमं धूमाकृतिं पश्यति दृश--णिनि । सुश्रु-

तोक्ते पित्तेन कफेन च विदग्धदर्शने मानवे । “तथा नरः
पित्तविदग्धदृष्टिः कफेन चान्यस्त्यथ धूमदर्शी”

धूमध्वज पु० धूमः ध्वज इव यस्य । वह्नौ हेमच० ।

धूमप त्रि० धूमं धूममात्रं पिबति पा--क । तपस्यार्थं

धूममात्रपायिनि तपस्विभेदे “पृष्टनामान्वयो राज्ञा
स किलाचष्ट धूमपः” रघुः । “पिबन्ति मुनयो यत्र
हविर्धूमस्य धूमपा” भा० उ०१०७ अ० “ऊष्मपाः सोमपाश्चैव
धूमपा आज्यवास्तया” भा० शा० २८ अ०
पृष्ठ ३९००

धूमपथ पु० धूमोपलक्षितः पन्थाः अ समा० । १ पितृयाने

कर्मप्राप्यमार्गे “जगर्ह सामर्षविपन्नया गिरा शिवद्विषं
धूमपथश्रमस्मयम् (दक्षम्)” भाग० ४ । ४ । ११ । पितृयान-
शब्दे दृश्यम् । धूममार्गादयोऽप्यत्र । २ धूमप्रचारमार्गे
गवाक्षादौ च ।

धूमपान न० ६ त० । सुश्रुतोक्ते नेत्रव्रणादिरोगहरे

धूमविशेषस्य पाने तद्विधिस्तत्रोक्तो यथा
“अथातो धूमनस्यकवलग्रहचिकित्सितं व्याख्यास्यामः ।
धूमः पञ्चविधो भवति । तद्यथा प्रायोगिकः स्नेहनो
वैरेचनः कासघ्नो वामनीयश्चेति । तत्रैलादिना कुष्ठ-
तगरवर्ज्येण श्लक्ष्णपिष्टेन द्वादशाङ्गुलं शरकाण्डं
क्षौमेणाष्टाङ्गुलं वेष्टयित्वा लेपयेदेषा वर्त्तिः प्रायोगिके ।
स्नेहफलसारमधूच्छिष्टसर्जरसगुग्गुलुप्रभृतिभिः स्नेह-
मिश्रैः स्नेहने । सिराविरेचनद्रव्यैर्वैरेचने । वृहती
कण्टकारिकात्रिकटुककासमर्द्दहिंग्विङ्गुदीत्वङ्मनःशिला-
च्छिन्नरुहाकर्कटशृङ्गीप्रभृतिभिः कासहरैश्च कासघ्ने ।
स्नायुचर्मखुरशृङ्गकर्कटकास्थिशुष्कमत्स्यवल्लूरकृमिप्रभृति-
भिर्वामनीयैश्च वामनीये । तत्र वस्तिनेत्रद्रव्यैर्धूम-
नेत्रद्रव्याणि व्याख्यातानि भवन्ति । धूमनेत्रन्तु
कनिष्ठिकापरिणाहमग्रे कलायमात्रं स्रोतोमूलेऽङ्गुष्ठपरि-
णाहं धूमवर्त्तिप्रवेशस्रोतोऽङ्गुलान्यष्टचत्वारिंशत् प्रायो-
निके । द्वात्रिंशत् स्नेहने । चतुर्विंशतिर्वैरेचने । षोड़-
शाङ्गुलं कासघ्ने वामनीये च । एते अपि कोलास्थि-
मात्रच्छिद्रे भवतः । व्रणनेत्रमष्टाङ्गुलं व्रणधूपनार्मं
कलायपरिमण्डलं कुलत्थवाहिस्रोत इति । अथ
सुखोपविष्टः सुमना ऋज्वधोदृष्टिरतन्द्रितः स्नेहाक्तां प्रदीप्तां
वर्तिं (प्रदीप्य) नेत्रस्रोतसि धूमं पिबेत् । मुखेन तं
पिबेत्पूर्वं नासिकाभ्यां ततः पिबेत् । मुखपीतं मुखे-
नैव वमेत्पीतञ्च नासया । मुखेन धूममादाय नासि-
काभ्यां न निर्हरेत् । तेन हि प्रतिलोमेन दृष्टिस्तत्र
विहन्यते । विशेषतस्तु प्रायोगिकं घ्राणेनाददीतृ स्नेहनं
मुखनासाभ्यां नासिकया वैरेचनं, मुखैनैवेतरे । तत्र प्रायो-
गिके वर्त्तिं व्यपगतशरकाण्डां निवातातपशुष्कामङ्गारे-
ष्ववदीप्य नेत्रमूलस्रोतसि प्रयुज्य धूममाहरेति ब्रूयात् ।
एवं स्नेहनं वैरेचनिकञ्च कुर्य्यादिति । इतरयोर्व्यपेत
धूमाङ्गारस्थिरे समाहिते शरावे पक्षिप्य वर्त्तिं
मूलच्छिद्रणान्येन शरावेण पिधाय तन्मिन् छिद्रे नेत्रमूलं
संयोज्य धूममासेवत । प्रशान्ते धूमे वार्त्तमवशिष्टां
प्रक्षिप्य पुनरपि धूमं पाययेदादोषविशुद्धेरेष
धूमपानोपायविधिः । तत्र शोकश्रमभयामर्षौष्ण्यबिषरक्त-
पित्तमदमूर्च्छादाहपिपासापाण्डुरोगतालुशोषच्छर्द्दिशिरो-
ऽभिघातोद्गारापतर्पिततिमिरप्रमेहोदराध्मानोर्द्ध्ववातार्त्ता
बालवृद्धदुर्बलविरिक्तास्थापितजागरितगर्भिणीरूक्षक्षीणक्ष-
तोरस्कमधुघृतदधिदुग्धमत्स्यमद्ययवागूपीताल्पकफाश्च न
धूममासेवेरन् । अकालपीतः कुरुते भ्रममूर्च्छाशिरो-
रुजः । घ्राणश्रोत्राक्षिजिह्वानामुपधातञ्च दारुणम् ।
आद्यास्तु त्रयो धूमा द्वादशसु कालेषूपादेयाः ।
तद्यथा क्षतदन्तप्रक्षालननस्यस्नानभोजनदिवास्वप्नमैथु-
नच्छर्दिमूत्रोच्चाररुषितशस्त्रकर्मान्तेष्विति । तत्र मूत्रो-
च्चारक्षवथुरुषितमैथुनान्तेषु स्नैहिकः स्नानच्छर्दन-
दिवास्वप्नान्तेषु वैरेचनः । दन्तप्रक्षालननस्यस्नानभोजन-
शस्त्रकर्मान्तेषु प्रायोगिक इति । तत्र स्नेहनो वातं
शमयति स्नेहादुपलेपाच्च वैरेचनः श्लेष्माणमुत्क्लेश्याप-
कर्षति रौक्ष्यात्तैक्ष्ण्यादौष्ण्याद्वैशद्याच्च । प्रायोगिकः
श्लेष्माणमुत्क्लेशयत्युत्क्लिष्टं चापकर्षति साधारणत्वात्-
पूर्वाभ्यामिति । भवति चात्र नरो धूमोपयोगाच्च प्रस-
न्नेन्द्रियवाङ्मनाः । दृढ़केशद्विजश्मश्रुसुगन्धिविशदाननः ।
कासश्वासारोचकास्योपलेपस्यरभेदमुखास्राववमथुतन्द्रानि-
द्राहनुमन्यास्तम्भपीनसशिरोरोगकर्णाक्षिशूलवातकफनि-
मित्ताश्चास्य मुखरोगा न भवन्ति । तस्य योगातियोगौ
विज्ञातव्यौ तत्र योगो रोगप्रशमनोऽतियोगो रोगा-
प्रशमनस्तालुगलशोषपरिदाहपिपासामूर्च्छाभ्रममदकर्णा-
क्षिदृष्टिनासारोगदौर्बल्यानीत्यतियोगो जनयति ।
प्रायोगिकं त्रींस्त्रीनुच्छ्वासानाददीत । मुखनासिकाभ्याञ्च
पर्य्यायांस्त्रींश्चतुरो वेति । स्नैहिकं यावदश्रुप्रवृत्तिः ।
वैरेचनिकमादोषदर्शनात् । तिलतण्डुलयवागूपीतेन
पातव्यो वामनीयः । ग्रासान्तरेषु कासघ्न इति । व्रण-
धूमं शरावसम्पुटोपनीतेन नेत्रेण व्रणमानयेत्
धूमनाद्वेदनोपशमो व्रणवैशद्यमास्रावोपशमश्च भवति” ।
“शोफद्रावरुजायुक्तान् धूमपानैर्विशोधयेत्” सुश्रुतः ।

धूमप्रभा पुंस्त्री धूमस्य प्रभेव प्रभा यस्याः । धूमान्धकार-

युक्तायां नरकभेदभूमौ हेमच० । “धनोदधिमल
वाततनुवातनभःस्थिताः । रत्नशर्कराबालुकापङ्कधूम-
तमःप्रभाः । महातमःप्रभा वेत्यधोधोन नरकभूमयः”
हेमच० । २ धूमवर्णे त्रि० ।
पृष्ठ ३९०१

धूमप्राश त्रि० धूमं प्राश्नोति प्र + अश--अण् । धूममक्षके

तपस्विभेदे । “धूमप्राशैरूष्मपैः क्षीरपैश्च सञ्जुष्टञ्च
ब्राह्मणेन्द्रैः समन्तात्” भा० अनु० १४ अ० ।

धूममहिषी स्त्री धूमस्य महिषीव । कुज्झटिकायाम् त्रिका०

धूमयोनि पु० धूमो योनिरुत्पत्तिस्थानं यस्य । १ मेघे २

मुस्तके च तत्र धूमविशेषजमेघफलं पुराणान्तरे उक्तं यथा
“यज्ञधूमोद्भवं त्वभ्रं द्विजानाञ्च हितं सदा । दावाग्नि-
धूमसम्भूतमभ्रं धनहितं स्मृतम् । मृतधूमोद्भवं त्वभ्र-
मशुभाय भविष्यति । अभिचाराग्निधूमोत्थं भूतनाशाय
वै द्विजाः!” ।

धूमल पु० धूमं धूमवद्वर्णं लाति ला--क । १ कृष्णलोहितभे वर्णे २ तद्वति त्रि० अमरः ।

धूमसी स्त्री निस्तुषमाषाणां चूर्णे “माषाणां दालय

स्तोये स्थापितास्त्यक्तकञ्चुकाः । आतपे शोषिताः पात्रे
पिष्टास्ता धूमसी स्मृता । धूमसी रचिता सैव प्रोक्ता
भुर्भुरिका बुधैः । भुर्भुरी कफपित्तघ्नी किञ्चिद्वातकरी
स्मृता” भावप्र० ।

धूमाक्ष पु० धूम इव अक्षि अस्य षच् समा० । धूमतुल्यनेत्र-

युक्ते त्रि० स्त्रियां षित्त्वात् ङीष् । “धूमाक्षी संपततु
कर्णा च क्रोशतु” अथ० ११ । १० । ७

धूमाङ्ग पु० धूम इवाङ्गमस्य । १ शिंशपावृक्षे नैघण्टुपार० ।

२ धूमतुल्याङ्गयुक्ते त्रि० स्त्रियां ङीष् ।

धूमाग्नि पु० धूमशेषोऽग्निः शाक० त० । “विज्वालो यो

धूमशिखो धूमाग्निः स उदाहृतः” इत्युक्ते वह्निभेदे

धूमादि “धूमादिभ्यश्च” पा० वुञ् प्रत्ययनिमित्तेपा० ग० सूत्रोक्ते

देशवाचकशब्दगणे स च गणः “धूम षडण्ड शशादन
अर्जुनाव माहकस्थली आनकस्थली माहिषस्थली
मानस्थली अट्टस्थली मद्रुकस्थली समुद्रस्थली दाण्डा-
यनस्थली राजस्थली विदेह राजगृह सात्रासाह शष्प
मित्रवर्द्ध भक्षाली मद्रकुल आजीकूल द्व्याहाव त्र्या-
हाव संस्फीय वर्वर वर्ज्य गर्त्त आनर्त्त माठर पाथेय
घोष पल्लीआराज्ञी धार्त्तराज्ञी आवय तीर्थ (कूलात्सौ-
वीरेषु) (समुद्रान्नावि मनुष्ये च) । कुक्षि अन्तरीय द्वीप
अरुण उज्जयनी पट्टार दक्षिणापथ साकेत” । धौमकः

धूमाभ पु० धूम इव आभाति आ + भा--क । १ धूमवर्णे शब्द-

माला २ तद्वति त्रि० ।

धूमाय अधूमो धूमो भवति भृशा० च्व्यर्थे क्यङ्

नामधातुः आत्म० अक० सेट् । धूमायते “अकस्मात् नगरो-
पान्ते कथं धूमायते चिता” हास्यार्णवः । ल्युट् । धूमा-
यनम् “उषाचोपपरिदाहभूमायनानि पित्तस्य” सुश्रुतः ।
अत्र धूमशब्दः अग्निमान्द्यसूचकबायुभेदः तद्भवन
धमायनम् । (चोॐया डेकुर)

धूमावती धूम इव वर्णोऽस्त्यस्याः मतुप् मस्य वः

शरापूर्वपददीर्घः संज्ञायाम् । दशमहाविद्यान्तर्गते देवीभेदे
महाविद्याशब्दे दृश्यम् । “विद्या धूमावती तथा”
तन्त्रसारः । तद्ध्यानं यथा “विवर्णा चञ्चला दुष्टा दीर्घा
च मलिनाम्बरा । विमुक्तकुन्तला रूक्षा विधवा विरल-
द्विजा । काकध्वजरथारूढा विलम्बितपयोधरा । सूर्प-
हस्तातिरूक्षाक्षी धूतहस्ता वरान्विता । प्रवृद्धघोणा
तु भृशं कुटिला कुटिलेक्षणा । क्षुत्पिपासार्दिता नित्यं
भयदा कलहास्पदा । जपेत् कृष्णचतुर्दश्यां पुरश्चरण-
सिद्धये” तन्त्रसारः । तन्मन्त्रादिकं तन्त्रसारे दृश्यम् ।

धूमिका स्त्री धूमोऽस्त्यस्याः ठन् । कुज्झटिकायां त्रिका० ।

धूमित त्रि० धूम--जातोऽस्य तार० इतच् । १ संजातधूमे

“अविषह्यव्यसनेन धूमिताम्” कुमा० २ दीक्षणीयमन्त्रभेदे
पु० “षडक्षरोजीवहीनः सार्द्धसप्ताक्षरो मनुः । सार्द्धद्वा-
दशवर्णो वा धूमितः स तु निन्दितः” तन्त्रसा० ३ सूर्यगम्य
दिग्भेदे स्त्री प्रधूमितशब्दे दृश्यम् ।

धूमिन् त्रि० धूमोऽस्त्यस्य बाहुल्येन “नैकाक्षरात् कृतो

जातेः सप्तम्याञ्च न तौ स्मृतौ” इत्युक्तेः इनिठनोर्जाति
वाचकात् निषेधेऽपि भूम्नि तस्यानिषेवात् इनि ।
१ वाहुल्येन धूमवति अबाहुल्ये तु मतुवेव धूमवान्
इत्येव । स्त्रियां ङीप् । सा च अजमीढस्य २ पत्नीभेदे
“अजमीढस्य पत्न्यस्तु तिस्रो वै यशसान्विताः । नीली
च केशिनी चैव धूमिनी च वराङ्गनाः” हरिवं० ३२ अ० ।
३ वह्नेर्जिह्वाभेदे स्त्री धूम्रवर्णशब्दे दृश्यम् ।

धूमोत्थ न० धूमादुत्तिष्ठति परम्परया उद्--स्था--क । १ वज्र-

क्षारे राजनि० तस्य धूमयोनिमेधाज्जातवज्रात्
उत्पन्नत्वात् परम्परया तज्जातत्वम् । २ धूमजातमात्रे त्रि० ।

धूमोद्गार पु० ६ त० । १ धूमनिर्गमे “धूमोद्गारानुकृति

निपुणा जर्ज्जरानिष्पतन्ति” मेघ० । २ धूमस्य जाठराग्नि-
मान्द्यसूचकपदार्थस्य उद्गारे (चोॐयाडेकुर) “धूमो-
द्गारे तथा वान्ते क्षुरकर्मणि मैथुने” आह्नि० त०

धूमोपहत पु० ३ त० । सुश्रुतोक्ते धूमकृतोपद्रवरूपरोग-

भेदे तल्लक्षणादि तत्रोक्तं यथा “अत ऊर्द्ध्वं प्रवक्ष्यामि
धूमोपहतलक्षणम् । श्वसिति क्षौति चात्यथमत्याधम-
ति कासते । चक्षुषोः परिदाहश्च रागश्चैवोपजायते
सधूमकं निःश्वसिति घ्रेयसन्यन्नवेत्ति च । तथैवच
पृष्ठ ३९०२
रसान् सर्वान् श्रुतिश्चास्योपहम्यते । तृष्णादाहज्वर-
युतः सीदत्यथ च मूर्च्छति । धूमोपहत इत्येवं शृणु-
तस्य चिकित्सितम्” ।

धूमोर्णा स्त्री यमपत्न्याम् त्रिका० । “शक्रः शचीपतिर्देवो

यमो धूमोर्णया सह । वरुणः सह गौर्य्या च सहर्द्ध्या
च धनेश्वरः” भा० अनु० १६५ अ० । २ मार्कण्डेयपत्न्याञ्च
“मार्कण्डेयस्य धूमोर्णा ऋद्धिर्वैश्रवणस्य च” १४५ अ०
अत्र मार्त्तण्डेयस्येत्येव युक्तः पाठः । मार्त्तण्डपत्न्या
अपत्यम् ढक् । मार्त्तण्डेयो यमः पूर्बोक्तैकवाक्यात् ।

धूमोर्णापति पु० ६ त० । यमे हारा० ।

धूम्या स्त्री धूमानां समूहः पाशादि० य । १ धूमसमूहे धूमाय

हितं यत् । २ धूमसाधने त्रि०

धूम्याट पु० धूम्या इव अटति अट--अच् । (फिङ्गा) पक्षि-

मेदे अमरः स्त्रियां जातित्वात् ङीष् । धूम्राट इति
पाठान्तरं तत्रार्थे

धूम्र पु० धूमं तद्वर्णं राति रा--कपृषो० । १ सिह्लके खरलो-

मवर्णाभे २ कृष्णलोहिते वर्णे च ३ तद्वति त्रि० “धूमधूम्रो
वसागन्धिर्ज्वालाबभ्रुशिरोरुहः” रघुः । कृष्णलोहितश्च
कृष्णवर्णमिश्रो लोहितर्णः “धूम्रा बभ्रुनीकाशाः पितॄ-
णाम्” यजु० २४ । १८ “धूम्राः कृष्णवर्णमिश्रा लोहित-
वर्णाः” वेददी० “भूरेणवो नभसि नद्धपयोदचक्राश्चक्री-
वदङ्गरुहधूम्ररुचो विसस्रुः” माघः । ५ शिवे “विलो-
हितस्य धूम्रस्य नीलग्रीवाय वै नमः” भा० शा० २८६ अ०
६ मेषे “अजो धूम्रो न गोधूमैः” यजु० २१ । २९
“धूम्रः मेषः” वेददी० ७ कुमारानुचरभेदे “धूम्रः श्वेतः
कलिन्दश्च सिद्धार्थो वरदस्तथा” भा० श० ४६ अ० तदनु-
चरोक्तौ । ८ बलिराजसेनाधिपासुरभेदे “समुद्रो
रभसश्चण्डो धूम्रश्चैव प्रियङ्करः” हरिवं २४० अ० बलिसेनाधि-
प्रोक्तौ । एतेषां धूम्रवर्णत्वात् तथात्वम् । मुहूर्तचि० उक्ते
आनन्दादिषु रव्यादिवारे ९ नक्षत्रविशेषेण योगभेदे यमा
“आनन्दाख्यः १ कालदण्डश्च २ धूम्रो ३ धाता ४ सौम्यो ५
ध्वाङ्क्ष ६ केतू ७ क्रमेण । श्रीवत्साख्यो ८ वज्रकं ९ मुद्ग-
रश्च १० छत्रं ११ मित्रं १३ मानसं १३ पद्म १४ लुम्बौ १५ ।
उत्पाट १६ मृत्यू १७ किल काण १८ सिद्धी १९ शुभो २०
ऽमृताख्यो २१ मुषलं २२ गदश्च २३ । मातङ्ग २४ रक्ष २५
पर २६ सुस्थिराख्य २७ प्रवर्द्धमानाः २८ फलदाः स्वनाम्ना ।
टाम्रादर्के, मृगादिन्दौ, सार्पाद्भौमे, कराद्बुधे । मैत्रात्
गुरौ, मृगौ वैश्वाद्गण्या मन्दे च वारुणात्” अस्यार्थः साभि-
जित्कैः अष्टाविंशतिनक्षत्रैरष्टाविंशतिर्योगाः इष्टनक्षत्रं
रविवारे अश्वनीतो गणने यत्संख्यकं ततमीयोगोभवति
एवं सोमे रोहिणीतोयतमसं ख्यमृक्षं ततमोयोग इति
एवमन्यत्राप्युह्यम् । तत्र वर्ज्यनाडीः तत्रैवाह । “ध्वाङ्क्षे वज्रे
मुद्गरे चेषु ५ नाड्यो, वर्ज्या, वेदाः ४ पद्मलुम्बे, गदेऽश्वाः ७ ।
धूम्रे काणे मौषले भू १ र्द्वयं, द्वे, रक्षोमृत्यूत्पाटकालाश्च
सर्वे” । १० ध्रुवनामकवसोर्मातरि स्त्री “धूम्रायाश्च धरापुत्रो
ब्रह्मविद्यो ध्रुवस्तथा” भा० आ० ६६ अ० वसवंशोक्तौ ।
शार० उक्ते आदित्यस्य द्वादशकलामध्ये ११ कलाभेदे
स्त्री “तपिनी १ तापिनी २ धूम्रा ३ मरीचि ४ र्ज्वलिनी ५
रुचिः ६ । सुषुम्णा ७ भोगदा ८ विश्वा ९ वोधिनी १०
धारिणी ११ क्षमा १२” । १२ शशाण्डुल्यां स्त्री राजनि० ।

धूम्रक पु० धूम्र इव कायति कै--क । उष्ट्रे जटाधरः

स्त्रियां ङीष् ।

धूम्रकेतु पु० भरतनृपस्यात्मजभेदे “भरतस्तु महाभागवतो

यदा भगवताऽबनितलपरिपालनाय संचिन्तितः तदनु-
शासनपरः पञ्चजनीं विश्वरूपदुहितरमुपयेमे । तस्या-
मुहात्मजान् कार्स्न्येनानुरूपानात्मनः पञ्चजनयामास
भूतादिरिव भूतसूक्ष्माणि । सुमतिं राष्ट्रभृतं सुदर्शनमा-
वरणं धूम्रकेतुमिति” भाग० ५ । ७ । ३ । २ २ तृणविन्दोः
पुत्रभेदे “विशालाः शसविन्दुश्च धूम्रकेतुश्च तत्सुताः”
भा० ९ । २ । २ तत्सुताः तृणविन्दोः सुताः । ३ धूम्रवर्ण-
ध्वजयुक्ते त्रि० ।

धूम्रकेश पु० पृथुराजस्य पुत्रभेदे “वैन्यस्तु धुर्य्योजगतामित्युप-

क्रमे “पुत्रानुत्पादयामास पञ्चार्चिष्यात्मसंशितान् ।
विजिताश्वं हर्य्यक्षं धूम्रकेशं द्रविणंवृकम्” भाग० ४ । २२
५० “विजिताश्वोधिराजासीत् पृथुपुत्रः पृथुश्रवाः ।
यवीयोभ्योऽददात् काष्ठा भ्रातृभ्यो म्रातृवत्सलः । हर्य्य-
क्षायादिशत् प्राचीं धूम्रकेशाय दक्षिणाम् । प्रतीचीं
दृकसंज्ञाय तुर्य्यां द्रविणसे विभुः” २४ । ३ । २ कृशाश्वस्या-
र्चिपि भार्य्यायां जातपुत्रे च । “कृशाश्वोऽर्चिषि भार्य्यायां
धूम्रकेशमजीजनत्” भाग० ६ । ६ । १८ । ४ ३ धूम्रवर्णकेशयुक्ते
त्रि० स्वाङ्गत्वात् वा स्त्रियां ङीष् ।

धूम्रपत्रा स्त्री धूम्रं पत्रमस्याः जातित्वेऽपि अजादेराकृति

गणत्वात् टाप् । स्वयम्भुवायां क्षुपभेदे राजनि० १ धूम्र-
वर्णपत्रयुक्ते त्रि० ।

धूम्रमूलिका स्त्री धूम्रं मूलं यस्याः कप् अत इत्त्वम् । शूलीतृणे राजनि० ।

धूम्ररोहित पु० “वर्णो वर्णेन” पा० कर्म० । १ धूम्रवर्ण-

मिश्रितरक्तवर्णे तद्वति त्रि० । “रोहितो धूम्रो
रोहितः कर्कन्धुरोहितस्ते सौम्याः” यजु० २४ । २ ।
पृष्ठ ३९०३

धूम्रलोचन त्रि० धूम्रं लोचनमस्य । १ धूम्रनेत्रयुक्ते स्त्रियां

स्वाङ्गत्वेऽपि बह्वच्कत्वात् टाप् । २ शुम्भासुरसेनापति-
भेदे पु० । “हे धूम्रलोचनाशु त्वं स्वसैन्यपरिवारितः ।
तामानय बलाद्दुष्टां केशाकर्षणविह्वलाम्” देवीमा० ।

धूम्रलोहित पु० “वर्णो वर्णेन” पा० कर्म० । १ कृष्णवर्ण-

मिश्रितरक्तवर्णे २ तद्वति त्रि० ३ शिवे पु० । “गौरः श्याम-
स्तथा कृष्णः पाण्डुरो धूम्रलोहितः” भा० अनु० १४ अ०
शिवनामोक्तौ ।

धूम्रवर्ण पु० कर्म० । १ कृष्णलोहितवर्णे २ तद्वति त्रि० । ३ तुरुष्के

सिह्लके न० राजनि० । ४ अग्नेः सप्तजिह्वान्तर्गतजि-
ह्वाभेदे स्त्री जटा० शा० ति० ५ पटले “विन्यसेदात्मनो देहे
मन्त्रैर्जिह्वा हविर्भुजः” इत्युपक्रमे “जिह्वास्तास्त्रिविधाः
प्रोक्ता गुणभेदेन कर्मसु । हिरण्या १ गगना २ रक्ता ३
कृष्णा ४ ऽन्या सुप्रभा ५ मता । बहुरूपा ६ ऽतिरक्ता च
सात्विक्यो यागककर्मसु” । “पद्मरागा १ सुवर्णाऽ २ न्वा
तृतीया भद्रलोहिता ३ । लोहिता ४ ऽनन्वरं श्वेता ५
धूमिनी ६ च करालिनी ७ । राजस्यो रसना ८ वह्ने-
र्विहिता काम्यकर्मसु” । “विश्वमूर्त्ति १ स्फुलिङ्गिन्यौ २
धूम्रवर्णा ३ मनोजवा ४ । लोहिन्य ५ न्या करालाख्या ६
काली ७ तामस्य ईरिताः” जिह्वाशब्दे ३१२१ पृ० दर्शिते काली
करालीकेत्यादिश्रुतिवाक्ये सामान्यतोऽग्निजिह्वाभिहितेति
इति बोध्यम् । ६ धूमिन्यां जाते अजमीढ़स्य ४ पुत्रभेदे
पु० “धूमिन्या स तया देव्या अजमीढ़ः समीयिवान् ।
ऋक्षं संजनयामास धूम्रवर्णं सुदर्शनम्” हरिवं० ३२ अ० ।

धूम्रशूक पुंस्त्री धूम्रः शूक इव रोमास्य । उष्ट्रे हारा० ।

स्त्रियां जातित्वात् ङीष् ।

धूम्राक्ष त्रि० धूम्रमक्षि यस्य धच्समा० । १ धूम्रवर्णनेत्रयुक्ते

स्त्रियां षित्त्वात् ङीष् । २ तृणविन्दुवंश्ये हेमचन्द्रनृप-
सुते पु० । “हेमचन्द्रः सुतस्तस्य धूम्राक्षस्तस्य चात्मजः”
भाग० ९ । २ । २२ । ३ रावणसैन्यान्तर्गते राक्षसभेदे ।
“तं दृष्ट्वा निहतं सङ्ख्ये प्रहस्तं क्षणदाचरम् ।
अभिदुद्राव धूम्राक्षो वेगेन महता कपीत्” “ततस्तमतिको-
पेन साश्वं सरथसारथिम् । धूम्राक्षमबधीत् क्रुद्धो
हनूमान् मारुतात्मजः” भा० व० २८५ अ० ।

धूम्रानीक पु० शाकद्वीपाधिपमेधातिथेः १ पुत्रभेदे तन्नामके

२ तत्रत्येवर्षे च । चित्ररेफशब्दे धाग० ५ । २० । १९ वाक्यं
दृश्यम् तच्छब्दे ५ । १ भाग० वाक्ये भागवताङ्कस्त्वशुद्धः ।

धूम्रायण पु० गोत्रप्रवरषिभेदे प्रवराध्यायः

धूम्रार्चिस् स्त्री शा० ति० उक्ते वह्नेर्दशकलान्तर्गते कलाभेदे

“धूम्रार्चि १ रूष्मा २ ज्वलिनी ३ ज्वालिनी ४ विस्फुलि-
ङ्गिनी ५ । सुश्रीः ६ सुरूपा ७ कपिला ८ हव्यकव्यवहे
(९ । १०) अपि । यादीनां दशवर्णानां कला धर्मप्रदा इमाः ।

धूम्राह्वा स्त्री धूम्रं वर्णमाह्वयते स्पर्द्धते आ + ह्वे--क” ।

धूम्रपत्रायां स्वयम्भुवायां क्षुपभेदे राजनि० ।

धूर बधे गतौ च दि० आ० सक० पेट् । धूर्य्यते अधूरिष्ट ।

दुधूरे । ईदित् धूर्त्तः ।

धूर्जटि पु० जट--संघाते इन् धुरस्त्रैलोक्यचिन्ताया जटिः

सङ्घातोऽत्र । शिवे अमरः भा० द्रो० २०३ ऋ० तु अन्यथा
तन्निरुक्तिर्यथा “धूम्ररूपञ्च यत्तस्य धूर्जटिस्तेन चोच्यते”
अस्मिन् पक्षे धूम्रवर्णस्य जटिः सङ्घातोऽत्र पृषो० ।

धूर्त्त पु० धूर्व--धूर--वा क्त उणा० तन् वा । १ धूस्तूरवृक्षे

(धूतुरा) अमरः २ चोरकवृक्षे राजनि० । ३ लौहकिट्टे न०
हेमच० । ४ विड्लबणे न० राजनि० भावे क्त । ५ हिंसने
तदस्यास्ति अर्श० अच् उणा० तन् वा । ६ वञ्चके ७ माया-
विनि ८ द्यूतकरे त्रि० हेमच० । ८ शठनायके शठशब्दे तल्ल-
क्षणं दृश्यम् “सार्द्धं मनोरथशतैस्तव धूर्त्त! कान्ता सैव
स्थिता मनसि कृत्रिमहावरम्या” । “दृष्ट्वेकासनसंस्थिते
प्रियतमे पश्चादुपेत्यादराद् एकस्या नयने पिधाय विहित-
क्रीडानुबन्धच्छलः । ईषद्वक्रितकन्धरः सपुलकः प्रेम्णो-
ल्लसन्मानसाम् अन्वर्हासलसत्कपोलफलकां धूर्त्तोऽपरां
चुम्बति” सा० तत्र द्यूतकरे “प्राप्ते नृपतिना भागे प्रसिद्धे
धूर्त्तमण्डले” गृह्णीयाद्धूर्त्तकितवादितराद्दशकं शतम्”
याज्ञ० । वञ्चके “नराणां नापितो धूर्त्तः पक्षिणां चैव
वायसः । दंष्ट्रिणां च शृगालस्तु श्वेतभिक्षुस्तपस्विनाम्”
पञ्चत० “स्वर्णकारः स्वर्णबणिक् कायस्थश्च व्रजेश्वर! ।
नरेषु मध्ये ते धूर्त्ताः कृपाहीना महीतले । हृदयं
क्षुरधाराभं तेषां च नास्ति सादरम् । शतेषु सज्जनः
कोऽपि कायस्थो नेतरौ च तौ । सुबुद्धिः शिवभक्तश्च
शास्त्रज्ञो धर्ममानसः । न विश्वसेत् तेषु तात । खात्म-
कल्याणहेतवे” ब्रह्मवैवर्त्त जन्मख० ८५ अ० । “प्रियाश्च
धूर्त्ता मम सेविनः सदा” भा० वि० ७ अ० । धूर्त्तशब्देन
जातिवाचकस्य समासे पीटायुवतीत्यादि पा० परनिपाते
वकधूर्त्त शृगालधूर्त्त कठधूर्त्त इत्यादि शौण्डादि० ७ त० ।
अक्षधूर्त्तः । धुर्व कर्मणि क्त । ९ हिंसिते त्रि० ।
पृष्ठ ३९०४

धूर्त्तक पु० धूर्त्त इव वञ्चक इव इवार्थे कन् । १ शृगाले

शब्दर० स्त्रियां जातित्वात् ङीष् । कौरव्यकुलजे
२ नागमेदे । तदुपक्रमे “बाहुकः शृङ्गवेरश्च धूर्त्तक प्रति
वातकौ” भा० आ० ७ अ० । स्वार्थे क । धूर्त्तशब्दार्थे । “स्त्री-
धूर्त्ते कितवे भीरौ चण्डे पुरुषमानिनि । चौरे कृतघ्ने
विश्वासो न कार्य्यो न च नास्तिके” भा० उ० ३८ अ० ।

धूर्त्तकृत् पु० धुर्व--भावे क्त धूर्त्तं हिंसनं करोति कृ +

क्विप् ६ त० । १ धूस्तूरे शब्दमा० २ हिंसके त्रि० ।

धूर्त्तचरित न० धूर्त्तस्य चरितं वर्ण्यत्वेनास्त्यत्र अच् ।

सङ्कीर्णाख्ये १ नाटकग्रन्थभेदे सा० द० । ६ त० । २ धूर्त्तानां
चरिते च ।

धूर्त्तजन्तु पु० नित्यक० । मानुषे शब्दच० तज्जन्तोर्धूर्त्ततायाः लोकसिद्धत्वात् ।

धूर्त्तमानुषा स्त्री धूर्त्तो हिंसितोमानुषो यया । १ रास्नायां

शब्दच० २ हिंसितमानुषके त्रि० ।

धूर्त्ति पु० धुर्वी हिंसायां क्तिच् । १ हिंसके “मीनः सं देव

अररुषो धूर्त्तिः” ऋ० १ । १८ । ३ “धूर्तिर्हिंसकः” भा० भावे
क्तिन् । २ हिंसायां स्त्री

धूर्द्धर त्रि० धुरोधरः । धुरन्धरे रथादौ रमानाथः

धूर्वह त्रि० धुरं वहति वह--अच् । धुरन्धरशब्दार्थे

धूर्वी स्त्री धुरमजति अज--क्विप् अजोवीभावः रथाग्र-

भागे हेमच० ।

धूलक न० धू--बा० लक धूलिराकारतयाऽस्त्यस्य अच्

संज्ञायां कन् वा । विषे शब्दच० ।

धूलि स्त्री धू--लिक् वा ङीप् । धू--सं० क्विप् धुवा लीयते

ली--कि लादेशे आल्लोपः । १ रजसि परागे अमरः ।
रेणूनां पवनचालनेन लीयमानत्वात्तथात्वम् । “गोपैर्यष्ट्या
हतानां खुरपुटदलिता या तु धूलिर्दिनान्ते” वृ० सं०
१०३ अ० । गोधूलिशब्दे दृश्यम् । “अनीत्वा पङ्कतां धूली-
मुदकं नावतिष्ठते” “बधूरिव धूलीमुदक्षिपत्” माघः
“धूलिः परगृहादपि” नीतिसारः “धूलीपटले
धूमत्वभ्रमात् तत्रासता धूमत्वेनेत्यादि” अनुमानदीधितिः ।
२ व्याकुलीभावे अव्य० उर्य्या० उप० स० । “धूलीकृत्य व्याकु-
लीकृत्य” गणरत्र० टी० ।

धूलिका स्त्री धूलिरिव कायति कै--क । कुञ्झटिकायाम् शब्दर० ।

धूलिकुट्टिम न० धूलीनां कुट्टिममिव । केदारे जष्टक्षेत्रे

शब्दार्थकल्प० । तस्य कर्षणादिजातधूलिमत्त्वात्तथात्वम्

धूलिकेदार पु० धूलिप्रधानः केदारः शा० त० । कृष्टक्षेत्रे

केदारे त्रिका० तस्य कर्षणजातधूलिमत्त्वात्तथात्वम् ।

धूलिगुच्छक पु० धूलीनां गच्छ इव इवार्थे कन् । फल्गु-

चूर्णे (फाग) त्रिका० ।

धूलिध्वज पु० धूलिरेव ध्वजोऽस्य । बायौ त्रिका०

धूलिपुष्पी स्त्री धूलिप्रचुरं पुष्पमस्या ङीप् । केतक्याम् ।

स्वार्थे क ह्रस्वः । धूलिपुष्पिका तत्रार्थे राजनि० ।

धूलीकदम्ब पु० धूलीनां कदम्बं यत्र । १ कदम्बवृक्षे २ वरुण-

वृक्षे ३ तिनिशवृक्षे च मेदि० । ६ त० । ४ धूलीसमूहे न०

धूश(ष)(स) शोभने चुरा० उभ० सक० सेट् । धूश(ष)(स)यति

ते अद्रधुश(ष)(स)त् त ।

धूसर पुंस्त्री धू--सर किच्च न षत्वम् । १ गर्दभे २ उष्ट्रे ३ कपोते

राजनि० स्त्रियां ङीष् । ४ तैलकारे पु० हेम० धूस--रक् ।
५ ईषत्पाण्डुवर्णे कृष्णश्वेतवर्णे शुक्लपीतवर्णे च पु० ६ तद्वति
त्रि० अमरः । “क्लान्तं रजोधूसरकेतुसैन्यम्” उत्क्रान्त-
वर्णक्रमधूसराणाम्” रघुः । “किरणपरिक्षयधूसरप्रदो-
प्राम्” । “ललाटिकाचन्दनधूसरालका” कुमा० । ७
पाण्डुरफलीक्षुपे स्त्री राजनिः टाप् । ८ किन्नरीभेदे स्त्री
मेदि० गौरा० ङीष् ।

धूसरच्छदा स्त्री धूसरः छदो यस्याः । श्वेतवुह्नायां रत्नमा०

धूसरपत्रिका स्त्री धूसरं पत्रमस्याः कप् कापि अत

इत्त्वम् । हस्तिशुण्डीक्षुपे (हातशुँडा) राजनि० ।

धूसी अव्य० धूस--बा० इ । विस्तारे गणरत्नम् । ऊर्य्यादि० ।

धूसीकृत्व विस्तार्य्येत्यर्थः ।

धूस्तरा(मा) स्त्री अतिशयेन धूः तरप् तमप् व । “ह्रस्वा-

त्तादौ तद्धिते” पा० ह्रस्वादेव षत्वविधानात् न षत्वम् ।
अतिशयभारे ।

धूस्तुर पु० धूस--क्विप् तुतोर्त्ति तुर--तुरणे क कर्म० । (धूतरा) ख्याते वृक्षे अमरः ।

धूस्तूर पु० धूस--क्विप् तूरी गतिहिंसयोः क कर्म-

धायः स० । (धूतरा) ख्याते वृक्षे अमरे पाठान्तरम् ।
“धूस्तूर । धूर्त्त! तरुणेन्दुनिवासयोम्यस्थाने पिशाचप-
तिना विनिवाशतोऽसि । किं कैरवाणि विकसन्ति तमः
प्रयाति कि बार्द्धिरुल्लसति किं दृषदः स्रवन्ति” उद्भटः ।
“धूस्तूरो मदवर्णाग्निवातकृज्ज्वरकुष्ठनुत् । कषायो
मधुरस्तिक्तो यूकालिक्षाविनाशकः । उष्णो गुरुर्व्रण-
श्लेष्मकण्डूकृमिविषापहः” भावप्र० ।

धृ स्थितौ अक० धृतौ सक० उभ० भ्वा० अनिट् । धरति ते अधार्षीत्

अधृत । दधार दध्रे । धृतः धृतिः । “ततो दधार सा देवी
गर्भम्” भा० उ० ७३९९ श्लो० धर्त्ता धरिष्यति ते

धृ पतने भ्वा० आत्म० अत० अनिट् । धरते अधृत । दध्रे धर्मा धरिष्यते ।

पृष्ठ ३९०५

धृ स्थितौ अक० धारणे सक० तुदा० आत्म० अनिट् । ध्रियते

अधृत । दध्रे धर्त्ता करिष्यते । स्थितौ “ध्रियते
यावदेकोऽपि रिपुस्तावत् कुतः सुखम्” माघः “प्राणेषूत्-
क्रान्तेषु शरीरं श्वयितुमध्रियत” वृ० उप० धारणे “ध्रियते
कुसुमप्रसाधनम्” कुमा० “पाण्डुरेणातपत्रेण ध्रियमाणेन
मूर्द्धनि” भा० उ० १८९ अ० ।
उद् + उत्तोल्य धारणे “चरणं त्विदमुद्धृतम्” वेणीस० ।
“पदमुद्धृतमुद्वहन्ती” कुमा० । “प्रसभोद्धृतारि” रघुः ।

धृ धारणे चुरा० उभ० सक० सेट् । धारयति ते अदीधरत्-

त । धारयाम् बभूव आस चकार । “वैणवीं धारयेद्यष्टिं
सोदकं च कमण्डलुम्” मनुः “समकायशिरोग्रीवं धारय-
न्नचलः स्थिरः” गीता । सर्वेषां धार्य्यः पूर्वेषां ण्यत् एतस्य
अचो यत् इति भेदः धार्य्यशब्दे उदा० “धारेरुत्तमर्णः” पा०
एतद्योगे उत्तसर्णस्य सम्प्रदानता । चैत्रस्य शतं धारयति ।

धृज गतौ भ्वा० पर० सक० सेट् इदित् । धृञ्जति अधृञ्जीत् ।

दधृञ्ज इदित् धृञ्ज्यते । अस्य अनिदित्त्वमपि इच्छति ।
धर्जति अधर्जीत् दधर्ज । “हरो महेश्वरश्चैव शूलपाणिः
पिणाकधृग्” शिवपूजायां तन्नामविशेषोक्तौ ।

धृत न० धृ--स्थितौ पतने च भावे क्त । १ पतने २ स्थितौ

च । धृ--धारणे कर्मणि क्त । कृतधारणे ३ गृहीते
त्रि० भावे क्त । ४ धारणे ग्रहणे न० । “धृतरुद्राक्ष-
मधुव्रतं खगः” “रूपमदर्शि धृतोऽसि यदर्थम्” नैष० ।
५ त्रयोदशमनोःपुत्रभेदे पु० । “त्रयोदशस्य पुत्रास्ते
विज्ञेयास्तु रुचेः सुताः । चित्रसेनो विचित्रश्च नयो
धर्मभृतो धृतः” हरिवं० ७ अ० । ६ द्रुह्युवंश्ये धर्मसुते
राजभेदे “द्रुह्योश्च तनयो बभ्रुः सेतुस्तस्यात्मजस्ततः ।
आरब्धस्तस्य गान्धारस्तस्य धर्मस्ततो धृतः” भा० ९ । २३ । ४
अत्र घृत इति पाठान्तरम् ।

धृतदेवा स्त्री “चत्वारो देवकात्मजाः । देववानुपदेवश्च सुदेवो-

देववर्द्धनः । तेषां खसारः सप्तासन् धृतदेवादयो नृप!”
भाग० ९ । २४ । १३ उक्ते देवकात्मजाभेदे “त्रिपृष्ठो धृतदे-
वायामेक आनकदुन्दुभेः” २५ श्लो० ।

धृतराजन् पु० धृतो राजा प्राशस्त्येन येन । सुराज्ञि देशे

तत्र भवः अण् उपधालोपः । धार्त्तराज्ञ तत्र भवे त्रि०

धृतराष्ट्र पु० धृतं राष्ट्रं सुपाल्यतया यत्र । १ सुराज्ञि देशे

२ नागभेदे च मेदि० । २ कौरवो धृतराष्ट्रश्च शङ्कपिण्डश्च
वीर्य्यवान्” भा० आ० ३५ अ० । बागनामोक्तौ “धृत-
राष्ट्रकूले जातान् शृणु नामान् यथातथम्” ५७ अ० ।
३ गन्धर्वराजभैदे “गन्धर्वराजो यो धीमान् धृतराष्ट्र इति
श्रुतः । स सव मानुषो लोके धृतराष्ट्रः पतिस्तव” भा०
आश्व० ११ अ० । विचित्रवीर्य्यक्षेत्रे सत्यवत्या नियोगेन
व्यासेनोत्पादिते स्वनामख्याते कौरवे ४ नृपभेदे
“शान्तनुः खलु गङ्गां भागीरथीमुपयेमे तस्यामस्य जज्ञे
देवव्रतो नाम यमाहुभीँष्ममिति । भीष्मः खलु पितुः
प्रियचिकीर्षया सत्यवतीं मातरमुदवाहयत् यामाहुर्गन्ध-
कालीमिति । तस्यां पूर्वं कानीनो गर्भः पराशराद्द्वै-
पायनोऽभवत् । तस्यामेव शान्तनोरन्यौ द्वौ पुत्रौ
बभूवतुः । विचित्रवीर्य्यश्चित्राङ्गदश्च तयोरप्राप्तयौवन एव
चित्राङ्गदो गन्धर्वेण हतः विचित्रवीर्य्यस्तु राजासीत् ।
विचित्रवीर्य्यः खलु कौशल्यात्मजे अम्बिकाम्बालिके
काशिराजदुहितरावुपयेमे । विचित्रवीर्य्यस्त्वनपत्य एव
विदेहत्वं प्राप्तः । ततः सत्यवत्यचिन्तयन्मा दौष्यन्तो वंश
उच्छेदं व्रजेदिति । सा द्वैपायनमृषिं मनसा चिन्तया-
मास । स तस्याः पुरतः स्थितः किङ्करवाणीति । सा
तामुपवाच भ्राता तवानपत्य एव स्वर्यातो विचित्रवीर्य्यः
साध्वपत्यं तस्योत्पादयेति । स तथेत्युक्त्वा त्रीन् पुत्रा-
मुत्पादयामास । धृतराष्ट्रं पाण्डुं विदुरञ्चेति” भा०
आ० ९५ अ० । अस्य अन्धत्वादिकथा भा० आ० ११ अ०
दृश्या । ५ पक्षिभेदे हंसे पुंस्त्री हेमच० तस्य धृतराष्ट्री-
जातत्वात् तथात्वम् स्त्रियां ङीप् । सा च कश्यपस्य
ताम्रायां पत्न्यां जाते ६ कन्याभेदे
“काकीं श्येनीं तथा भासीं धृतराष्ट्रिं तथा शुकीम् ।
ताम्रा तु सुषुवे देवी पञ्चैता लोकविश्रुताः” “धृतराष्ट्री
तु हंसांश्च कलहंसांश्च सर्वशः” भा० आ० ६६ अ० ।
ताम्रा तु दक्षकन्या कश्यपपत्नी ताम्रशब्दानुक्तेः अत्रोच्यते
“सुरभिर्विनता चैव ताम्रा क्रोधवशा इरा । कद्रुर्मुनिश्च
राजेन्द्र! तास्वपत्यानि मे शृणु” हरिवं० ३ अ० ।

धृतवर्म्मन् पु० घृतं वर्म येन । १ गृहीतकवचे २ भारतप्रसिद्धे

त्रिगर्तराजकेतुवर्म्मानुजे नृपभेदे “केतुधर्मा तु तेजखी
तस्यैवावरजो युवा । युयुधे भ्रातुरर्थाय पाण्डवेन
यशस्विना । तमापतन्तं सम्प्रेक्ष्य केतुधर्मा महाहवे ।
अभ्यर्दन्निशितैर्वाणैर्वीभत्सुः परवीरहा । केतुधर्मण्यभि-
हते धृतवर्मा महारथः । रथेनाशु समुत्पत्य
शरैर्जिष्णुमवाकिरत्” भा० आ० ७४ अ० ।

धृतव्रत त्रि० धृतं व्रतं येन । १ गृहीतव्रते “संवर्त्तश्च धृतव्रतः”

भा० आ० ६६ अ० । २ पुरुवंश्ये जयद्रथपुत्रविजयनृप-
पौत्रे नृपभेदे । “विजयस्य धृतिः पुत्रस्तस्य पुत्रो
धृतव्रतः” हरिवं० ३१ अ० । धृतिशब्दे दृश्यम् ।
पृष्ठ ३९०६

धृतात्मन् त्रि० धृत आत्मा येन । १ धैर्य्यान्वितचित्ते २ विष्णौ

पु० । “धृतात्मा नियमो यमः” विष्णुस० । एकरूपेण
स्तन्मादिरहिततया स्थित आत्मास्येति” भा० ।

धृति स्त्री धृ--क्तिन् । १ धारणे २ तुष्टौ ३ धैर्य्ये “धृतिर-

स्तमिता रतिश्च्युता” रघुः “धृतिर्धैर्यं प्रीतिर्वा”
मल्लि० । विष्कम्भादिमध्ये ४ अष्टमे योगभेदे
मेदि० । “अतिगण्डः सुकर्मा च धृतिः शूलं तथैव”
ज्यो० । ५ सुखे हेमच० । गौर्य्यादिषोड़शमातृमध्ये
६ मातृकाभेदे । मातृकाशब्दे दृश्यम् । अष्टाद-
शाक्षरपादकछन्दोमात्रे उक्तात्युक्तेत्युपक्रमे धृति-
श्चातिधृतिश्चैव कृतिः प्रकृतिराकृतिः” वृ० र० ।
७ मानसधारणाभेदे “धृतिरधृतिर्ह्रीर्वीर्भीरित्येतत् सर्वं
मनएव” श्रुतिः । सा च सात्विकादिभेदेन त्रिधा
यथाह गीतायाम् “धृत्या यया धारयते मनःप्राणे-
न्द्रियक्रियाः । योगेनाव्यभिचारिण्या धृतिः सा पार्थ ।
सात्विकी । यया तु धर्मकामार्थान् धृत्या धारय-
तेऽर्जुन! । प्रसङ्गेन फलाकाङ्क्षी धृतिः सा पार्थ!
राजसी । यथा स्वप्नं भयं शोकं विषादं मदमेव च ।
न विमुञ्चति दुर्मेधा घृतिः सा पार्थ! तामसी” ।
८ दक्षसुतारूपधर्मपत्नीभेदे “ददौ स दश धर्माय” इत्युपक्रमे
धर्मपत्नीशब्दे उक्त वाक्ये ३८५७ पृ० दृश्यम् । ९ जयद्रथ-
नृपस्य पौत्रे पु० जयद्रथस्तु राजेन्द्र! यशोदेव्याम् व्यजा-
यत । ब्रह्मक्षत्रोत्तरः सत्यां विजयो नाम विश्रुतः ।
विजयस्य धृतिः पुत्रः” हरिवं० ३१ अ० । १० मैथिले
राजभेदे पु० तदुपक्रमे “शुनकस्तत्सुतो जज्ञे वीति-
हव्यो धृतिस्ततः” भाग० ९ । १३ । १६ । ११ विश्वदेवभेदे
पु० तन्नामोपक्रमे “बलं धृतिर्विपाप्मा च पुण्यकृत्
थाबनस्तथा” भा० अनु० ९१ अ० । सा० द० उक्ते १२ व्यभिचारि
भावभेदे । सा च “सधृतिचपलनाग्लानिचिन्तावितर्काः”
इत्युद्दिश्य तत्र लक्षिता यथा “ज्ञानाभीष्टागमाद्यैस्तु
संपूर्णस्पृहता धृतिः । सौहित्यवचनोल्लाससहास
प्रतिभादिकृत्” उदाहृतं च “कृत्वा दीननिपीडनां
निजजने वद्ध्वा वचोविग्रहम् नैवालोच्य गरीयसी-
रपि चिरादामुष्मिकीर्यातनाः । द्रव्यौघाः परिसञ्चिताः
खलु मया यस्याः कृते साम्प्रतं नीवाराञ्जलिनापि
केवलमहो मेयं कृतार्था तनुः” भा० द० । “ता धृति-
रस्ति गतास्मि सम्प्रतीयम्” माघः । “स्थिता कर्थं
शैलजनाशुगे धृतिः” किरा० “अम्बरान्तधृतेः” शा० सू०
१४ गुरुत्ववतां पतनाभावे हरिदासः “कार्य्यायोजन
धृत्यादेः पदात् प्रत्ययतः श्रुतेः । वाक्यात् सङ्ख्याविशेषच्च
साध्यो विश्वविदव्ययः कुसुमा० । धृतीति ब्रह्माण्डादि
पतनप्रतिबन्धकी भूतप्रयत्नवदधिष्टितं धृतिमन्त्वात्
वियति विहङ्गमधृतकाष्ठवत् धृतिश्च गुरुत्ववतां पतना-
भावः” हरिदासः । मनसो भूतपञ्चकारब्धत्वात्
क्षित्यंशधारणवत्त्वात् धृतिमत्त्वं बोध्यम् । धृते-
र्भूमिगुणत्वञ्च भा० शा० २५५ अ० उक्तं यथा
“भूमेः स्थैर्य्यं गुरुत्वं च काठिन्यं प्रसवार्धता ।
गन्धोगुरुत्वं शक्तिश्च संथातः स्थापना धृतिः” ।
“स्थैर्य्यमचाञ्चल्यं गुरुत्वं पतनप्रतियोगी गुणः प्रसवो
धान्याद्युत्पत्तिस्तदर्थता, गुरुत्वं प्रथिमा पिण्डपुष्टिः
शक्तिर्गन्धग्रहणसामर्थ्यं सङ्घातः श्लिष्टावयवत्वम् स्था-
पना मनुष्याद्याश्रयत्वं धृतिः पाञ्चभौतिके मनसि यो
धृत्यंशः स पार्थिवः स्थैर्य्यशब्देनैवीपात्त इति धृतिशब्दे-
मात्र भूतान्तरप्रवेशस्थानत्वमुच्यते” नीलकण्ठव्याख्या ।
तच्छन्दसोऽष्टादशसंख्यकत्वात्तत्तुल्यसंख्यायुते अष्टादश-
संख्यायुक्ते च । १६ विपुलाख्य विष्कुम्भपर्वतस्थे वनभेदे
विष्कुम्भपर्वतोपक्रमे “वनं तथा चैत्तरथं विचित्रं
तेष्वप्सरो नन्दननन्दनञ्च । धृत्याह्वयं यद् धृतिकृत् सुराणां
भ्राजिष्णु वैभ्राजमिति प्रसिद्धम्” सि० शि० । “विपुलशैल-
मस्तके केतुवृक्षो वटो धृतिर्वनं महाह्रदः सरः” प्रमिता० ।

धृतिमत् त्रि० धृतिरस्त्यस्य मतुप् । धैर्य्यान्विते “कृतज्ञं

धृतिमन्तञ्च कृच्छ्रमाहुररिं बुधाः” मनुः स्त्रियां
ङीप् । “प्रत्युद्धृतां धृतिमतीं भरतो ववन्दे” “धृति-
मतीरुपकान्तमपि स्त्रियः” पञ्चममनीः २ रैवतस्य पुत्र-
भेदे पु० “अथ पुत्रानिमांस्तस्य निबोध गदतो मम ।
धृतिमानव्ययो युक्तस्तत्त्वदर्शी निरुत्सुकः” हरिवं०
७ अ० । अजमीढनृपस्य पौत्रे ३ नृपभेदे पु० “अजमीढस्य
दायादो विद्वान् राजा जवी नरः । धृतिमांस्तस्य पुत्रस्तु,
हरिवं० २० अ० । ४ कुशद्वीपस्थे वर्षभेदे न० कुशद्वीपोपक्रमे
“धृतिमत् पञ्चमं वर्षं षष्ठं वर्षं प्रभाकरम्” भा० भी०
१२० अ० । ५ अग्निभेदे पु० “विष्णुर्नामेह योऽग्निस्तु
धृतिमान् नाम सोऽङ्गिराः” भा० व० २२० अ० स च अग्नि-
र्धृतिहोमाङ्गम् धृतिहोमशब्दे दृश्यम् ।
६ त्रयोदशमन्वन्तरे सप्तर्षिमध्ये अङ्गिरोऽपत्यभेदे । “त्रयो-
दशे तु पर्य्याये भाव्ये मन्वन्तरे मनोः । अङ्गिराश्चैव
धृतिमान् पौलहो व्यापकस्तथा” ।
पृष्ठ ३९०७

धृतिहोम पु० धृत्याद्यष्टकोद्देशेको होमः । विवाहाङ्गे

होमभेदे “उत्थाप्य कुमारं ध्रुवा आज्याहुतीर्जुहोति”
गोभिलः “अष्टाविह धृतिहोमाः ध्रुवा आवश्यकाः ।
कथञ्चिद् भर्तृगृहगमनाभावेऽपि श्वशुरगृहे निवा-
सेऽपि अवश्यं होतव्याः इति । अत्र “इह धृतिः
स्वाहा” इत्यादिप्रयोगः । न तु स्वाहायोगे
चतुर्थी “धृतिहोमे न प्रयुञ्ज्यात् गोनामसु
तथाष्टसु । चतुर्थीमघ्र्य इत्येतद्गोनामसु हि हूयते” इति
छन्दोगपरिशिष्टात् । धृतिहोमे धृत्यष्टकहोमे” स० स्का०
त० रघु० । स च तत्पद्धतौ भवदेवोक्तो यथा “ततः पतिः
कुमारमुत्थाप्य पूर्ववत् कुशण्डिकोक्तविधाने धृतिनामा-
नमग्निं संस्थाप्य समित्प्रक्षेपान्तं व्यस्तसमस्तम-
हाव्याहृतिहोमं कृत्वा अष्टाहुतीर्जुहुयात् । अष्टानां
मन्त्राणाम् ऋष्यादयः साधारणाः । प्रजापति रृषि-
र्वृहती छन्दो वधूर्देवता धृतिहोमे विनियोगः । ॐ
इह धृतिः स्वाहा १ । ॐ इह स्वधृतिः स्वाहा २ । ॐ
इह रतिः स्वाहा ३ । ॐ इह रमस्व स्वाहा ४ । ॐ
मयि धृतिः स्वाहा ५ । ॐ मयि स्वधृतिः स्वाहा ६ ।
ॐ मयि रतिः स्वाहा ७ । ॐ मयि रमस्व स्वाहा ८” ।

धृत्वन् पु० धृ--क्वनिप् तुक् । १ विष्णौ उज्ज्वल० । २ धर्मे

३ गगने ४ समुद्रे ५ मेधाविनि ६ विप्रे संक्षिप्तसारे
उणा० । ७ धारके त्रि० स्त्रियां “वनो र च” ङीप्
रश्चान्तदेशः । धृत्वरी सा च ८ भूमौ संक्षिप्तसारे उणा० ।

धृष संहतौ अक० हिंसे सक० भ्वा० पर० सेट् । धर्षति

अधर्षीत् । दधर्ष उदित् धर्षित्वा धृष्ट्वा । “धृषशसी
वैयात्ये” पा० वैयात्ये एव अनिटोविधनात् क्त्वो
वेट्कत्वेऽपि संहत्यर्थे बधार्थे च नित्यमिट् । धर्षितः

धृष प्रागल्भ्ये स्वा० पर० अक० सेट् । धृष्णोति अधर्षीत् ।

दधर्ष । “धृषशसी वैयात्ये” पा० निष्ठायामनिट् । धृष्टः
अस्या आत्त्वं चिन्त्यप्रयोजनमिति स्म । भावादि कर्म-
णोर्वैयात्ये धृषिर्नास्ति अतएव नियमार्थमिदं सूत्रमिती-
त्याह वृत्तिकारः” “विभाषा भावकर्मणोरिति विकल्पे
प्राप्ते सूत्रमिदं नित्यतार्थमित्याशङ्क्याह धृषिर्नास्तीति”
तदर्थः” तत्त्व० । “आलोकयत् स काकुत्स्थमधृष्णोत्
घोरअध्वनत्” भट्टिः । “तान् दृष्ट्वातिदृढान् धृष्टान् प्राप्तान्
परिवृढाज्ञया” भट्टिः ।

धृष सामर्थ्यबन्धने चुरा० आत्म० अक० सेट् । धर्षयते

अदीधृषत अदधर्षत । धर्षयाम् बभूव आस चक्रे “कस्त्वा
धर्षयितुं शक्तः” हरिवं० ३१५३ श्लो० ।

धृष क्रोधे अभिभवे च वा चु० उभ० पक्षे भ्वा० प० सक० सेट् ।

धर्षयति ते धर्षति अदीधृषत् त अदधर्षत् त अधर्षीत् ।
धर्षयाम् भूव आस चकार दधर्ष । “प्रहस्तस्य पुरोऽ-
मात्यान् जिहिंसुर्दधृषुस्तथा” मट्टिः । दधृषुरभिभूतवन्तः ।

धृषज् त्रि० धृष--अभिभवे बा० कजिन् । १ धर्षके २ अभिभवे

च । “ता अस्य संधृषजो न तिग्माः” ऋ० ५ । १९ । ५

धृषद् त्रि० धृष--अभिभवे बा० कर्तरि अदिक् । धर्षके “धृषद्वर्णं

दिवे दिवे” ऋ० १० । ८७ । २ “धृषद्वर्णं धर्षकरूपम्” भा०
“स्वभूत्योजा अयसि धृषन्मनः” ऋ० १ । १५२ । ५२ धृषन्मनः
धर्षकमनाः” भा० । भावे अदिक् । २ धर्षणायाम् “ते यामन्ना
धृषद्विनः” ऋ० ५ । ५२ । २ “धृषद्विनः धर्षणावन्तः” भाष्यम्

धृषु त्रि० धृष--कु । १ प्रगल्भे २ दक्षे ३ सङ्घाते पु० संक्षिप्त-

सारोणा० ।

धृष्ट त्रि० धृष--वैयात्ये क्त । १ निर्लज्जे २ प्रगलभे ३ निर्दये च ।

४ नायकभेदे पु० तल्लक्षणोदाहरणे सा० द० उक्ते यथा
“कृतागा अपि निःशङ्कस्तर्जितोऽपि न लज्जितः । दृष्ट-
दोषोऽपि मिथ्यावाक् कथितो धृष्टनायकः” “शोणं
वीक्ष्य मुखं विचुम्बितुमहं यातः समीपं ततः पादेन
प्रहृतं तया सपदि तं धृत्वा सहासे मयि । किञ्चित्
तत्र विधातुमक्षमतया वाष्पं त्यजन्त्याः सखे! भ्रातश्चे-
तसि कौतुकं वितनुते कोपोऽपि वामभ्रुवः” । “भूयोनिः-
शङ्कः कृतदोषोऽपि भूयोनिवारितोऽपि प्रश्नयपरा-
यणः” रसमञ्जर्य्यां तल्लक्षणमुक्तम् । विदर्भराजसुतकुन्तेः
५ पुत्रभेदे पु० “भीमो विदर्भस्य सुतः कुन्तिस्तस्यात्मजोऽ-
भवत् । कुन्तेर्धृष्टः सुतो जज्ञे” हरिवं० ३७ अ० ।
६ वन्दक्याम् असत्यां स्त्री शब्दरत्ना० । तस्य भावः तल्
धृष्टता स्त्री त्व धृष्टत्व न० ष्यञ् धार्ष्ट्य न० । निर्लज्जत्वे
प्रागल्भ्ये च “गुरुस्तवैवागमएव धृष्टताम्” माघः ।

धृष्टकेतु पु० सन्नतिराजवंश्ये सुकुमारस्य १ पुत्रभेदे “सुकुमारस्य

दायादो धृष्टकेतुः सुधार्मिकः” हरिवं० २९ अ० । नवम
मनोः रोहितस्य २ पुत्रभेदे च “दक्षपुत्रस्य पुत्रास्ते
रोहितस्य प्रजापतेः । मनोः पुत्रो धृष्टकेतुः पञ्चहोत्रो-
निराकृतिः” हरिवं०७ अ० । ३ जनकवंश्ये धृतिसुते पु० ।
सुधृतेर्धृष्टकेतुर्वै हर्य्यश्वोऽथ मरुस्ततः” भाग० ९ । १३ । १२
४ कैकये नृपभेदे च “कैकयो धृष्टकेतुश्च श्रुतकीर्त्तिम-
पृष्ठ ३९०८
विन्दत” भाग० ९ । २४ । २१ । काश्ये ५ सत्यकेतुसुते “धर्मकेतुः
सुतस्तस्मात् सत्यकेतुरजायत । धृष्टकेतुः सुतस्तस्मात्”
भाग० ९ । १७ । धृष्टद्युम्नस्य ६ पुत्रभेदे च “धृष्टद्युम्नःसुतस्तस्य
(द्रुपदस्य) धृष्टकेतुश्च तत्सुतः” हरिवं० २३ अ० “धृष्ट
केतुश्चेकितानः काशिराजश्च बीर्यवान्” गीता ।

धृष्टद्युम्न पु० द्रुपदनृपस्य पुत्रमेदे तदुत्पत्तिकथा “तथैव धृष्ट-

द्युम्नोऽपि साक्षादग्निसमद्युतिः । वैताने कर्मणि तात!
पावकात् समजायत । वीरो द्रोणविनाशाय धनुरादाय
वीर्य्यवान्” भा० आ० ६३ अ० । “द्रोणान्तकमहं पुत्रं लभेयं
युधि दुर्जयम् । तत्कर्म कुरु मे याज! वितराम्यर्बुद-
ङ्गवासु । तथेत्युक्त्वा तु तं याजो याज्यार्थमुपकल्पयन् ।
गुर्वर्थ इति चाकाममुपयाजमचोदयत् । याजो द्रोण
विनाशाय प्रतिजज्ञे तथा च सः । ततस्तस्य नरेन्द्रस्य
उपयाजी महातपाः । आचख्यौ कर्म वैतानं तदा
पुत्रफलाय वै । स च पुत्रो महावीर्य्यो महातेजा
महाबलः । इष्यते यद्विधो राजन्! भविता ते
तथाविधः । भरद्वाजस्य हन्तारं सोऽभिसन्धाय भूपतिः ।
आजह्रे तत्तथा सर्वं द्रुपदः कर्मसिद्धये । याजस्तु
हवनस्यान्ते देवीमाज्ञापयत्तदा । प्रैहि मां राज्ञि! पृषति!
मिथुनं त्वामुपस्थितम् । राज्ञ्युवाच । अबलिप्तं मुखं
ब्रह्मन्! दिव्यान् गन्धान् बिभर्मि च । सुतार्थेनोपलब्धाऽस्मि
तिष्ठ याज! मलप्रिय! । याज उवाच । याजेन श्रपितं
हव्यमुपयाजाभिसन्त्रितम् । कथं कामं न सन्दध्यात्सा
त्वं विप्रैहि तिष्ठ वा । ब्राह्मण उवाच । एवमुक्त्वा तु
याजेन हुते हविषि सत्कृते । उत्तस्थौ पावकात्
तस्मात् कुमारो देवसन्निभः । ज्वालावर्णो घोररूपः
किरीटी वर्म चोत्तमम् । बिभ्रत् सखड्गः सशरो
धनुष्मान्विनदन्मुहुः । तथेत्युवाच तं याजो राज्ञः
प्रियचिकीर्षया । तयोश्च नामनी चक्रुर्द्विजाः
संपूर्णमानसाः । धृष्टत्वादतिधृष्णुत्वाद्द्युम्नाद्युत्सम्भवा-
दपि । धृष्टद्युम्नः कुमारीऽयं द्रुपदस्य भवत्विति”

धृष्टरथ पु० नृपभेदे “च्यवनो जनकश्चैव तथा धृष्टरथो नृपः”

भा० अनु० १६५ अ० नानानृपोक्तौ ।

धृष्टि पु० धृष--क्तिच् । हिरण्यकशियोर्ज्येष्ठस्य हिरण्या-

क्षासुरस्य पुत्रभेदे “हिरण्यकशिपुर्भ्रातुः संपरेतस्य
दुःखितः । कृत्वा कटोदकादीनि भ्रातृपुत्रानसान्त्वयत् ।
शकुनिं शंवरं धृष्टिं भूतसन्तापनं वृकम्” भा० ७ । २ । १६
२ प्रगल्भे त्रि० । “धृष्टिरसि” यजु० १ । १७ “हे उपवेष! त्वं
धृष्टिरसि प्रगल्भोऽसि । तीव्राङ्गाराणामितस्ततश्चालन
प्रापकत्वादस्य प्रागल्भ्यम्” वेददी० ३ यज्ञिये उपवेषरूपे पात्र-
भेदे पु० उपवेषशब्दे १६३० पृष्ठे दृश्यम् । यज्ञपात्रोपक्रमे
“धृष्टी शतमाने” कात्या० श्रौ० २६ । २ । १० “धृष्टी
उपवेषौ औदम्बरौ तत्र एकं रजतशतमानं द्वितीयं सुवर्ण-
शतमानमिति” कर्कः “धृष्टिरसीमुपवेषमादाय” कात्या०
श्रौ० २ । ४ । २६ “पलाशशाखायाः मूलदेशे च्छिन्नः काष्ठभाग
उपवेषः” कर्कः । पलाशशाखाया इति यज्ञविशेषे
“सामान्यतस्तु औदम्बर इति पूर्वापरमीमांसा । धृष्टि-
रसीति मन्त्रेणोपादीयमानत्वात् उपवेषस्य धृष्टित्वमि-
त्याशयेन “धृष्टी शतमाने” इत्युक्तम् । “धृष्टिभ्यां भष्मना
परिकीर्य्याङ्गारैश्च” कात्या० श्रौ० २६ । ३ । ९

धृष्ण पु० सात्वतवंश्ये भजमानपुत्रभेदे क्रथनशब्दे २३०४ पृ० दृश्यम् ।

धृष्णज् त्रि० धृष--नजिज् । १ धृष्टे २ प्रगल्भे ३ निर्लज्जे अमरः ।

धृष्णि पु० धृष--वा० नि। किरणे अमरः ।

धृष्णु त्रि० धृष--क्नु । १ धृष्टे २ प्रगल्भे त्रिका० ३ कञ्चुकायां पु०

शब्दच० । ४ रुद्रभेदे पु० “नमस्त आयुधायानातताय
धृष्णये” यजु० १६ । १४ “धृष्णये धर्षणशीलरिपुं हन्तुं
प्रगल्भाय” वेददी० । सावर्णिमनोः ५ पुत्रभेदे पु०
“सावर्णस्य मनोः पुत्राः” इत्युपक्रमे “चरिष्णुरार्यो
धृष्णुश्च राजन्! सुमतिरेव च” हरिवं० ७ अ० । वैवस्वत
मनोः ६ पुत्रभेदे पु० तद्वंशोपक्रमे “इक्ष्वाकुश्चैव नाभागो
धृष्णुः शर्यातिरेव च” हरिवं० १० अ० । सात्वत-
वंश्यकुकुरसुते ७ नृपभेदे “कुकुरस्य सुतो धृष्णुर्धृष्णोस्तु
तनयस्तथा” हरिवं० ३८ अ० । ८ पितामहपुत्रकवि-
सुतभेदे “पितामहस्त्वपत्यं वै कविं जग्राह तत्त्ववित् ।
तदा स वारुणः ख्यातो भृगुः प्रसवकर्मकृत् । ब्रह्मणस्तु
कवेः पुत्रा वारुणास्ते उदाहृताः । अष्टौ प्रसवजै-
र्युक्ता गुणैर्ब्रह्मविदः शुभाः । कविः काव्यश्च
धृष्णुश्च बुद्धिमानुशनास्तथा । भृगुश्च विरजाश्चैव काशी
चोग्रश्च धर्मवित् । अष्टौ कविसुताह्येते सर्वमेभिर्जग-
त्ततम्” भा० आनु० ८५ अ० । वेदे सुपां स्थाने याच्
“प्रधृष्णुया नमति वस्यो अच्छ” ऋ० ४ । २१ । ४ “धृष्णुया
धृष्णुः” भा० “भ्राजन्त्यौ यन्ति धृष्णुया” ऋ० ५ । १० । ५ ।
“धृष्णुया धृष्णवः” भा० ।

धृष्णुक पु० वैवस्वतमनुवंश्ये नृपभेदे “धृष्णुकश्चाम्बरीयश्च

दण्डकश्चेति ते त्रयः” हरिव० १ अ० तद्वंशोक्तौ
पृष्ठ ३९०९

धृष्ण्वोजस् पु० कार्तवीर्यनृपपुत्रभेदे “शूरसेनश्च शूरश्च धृष्ण्वोजाः

कृष्ण एव च । जयध्वजञ्च नाम्नामीदावन्त्यो नृपतिर्म-
हान् । कार्तवीर्यस्य तनया वीर्यवन्तो महाबलाः”
हरिवं० ३४ अ० ।

धृष्य त्रि० धृष--कर्मणि ऋदुपषत्वात् क्यप् । धर्षणीये

“भूतानामिह यो वै त्वां मया विनिहितां सतीम् । उपा
हन्यात् स मे धृष्यः” भा० शा० २२५ अ० “पश्यन्नदूरात्
मनसाप्यधृष्यम्” कुमा० ।

धे पाने भ्वा० प० सक० अनिट् टित् । धयति अदधत्

अधासीत् । दधौ धास्यति । खच् स्तनन्धयः स्त्रियां
टित्त्वात् खचि ङीप् हरदत्तीक्तेः खच्येव ङीप् ।
स्तनन्धयी अन्यत्र टाप् ।

धेन पु० धयन्ति धे--नन् इच्च । १ समुद्रे २ नदे च ३ नद्यां स्त्री

टष्टित्त्वेऽपि खच्येव ङीप् इति हरदत्तोक्तेः न ङीप् ।
४ वाचि स्त्री निघण्टु “वायो भव प्रपृञ्चती धेनाजिगाति-
दाशुषे” ऋ० १ । २ । ३ “धेना वाक्” भा० । ५ धन्याके स्त्री
गौरा० ङीष् । स्वार्थे क तत्रार्थे भावप्र० ।

धेनु स्त्री धयति सुतान्, धीयते पीयते वत्सैवां धेट्--नु

इच्च । १ गोमात्रे वत्सस्य धयनात् तस्यास्तथात्वम् । २
नवसूतिकायाम् सवत्सायां गवि स्त्री अमरः वत्सैः
पीयमानक्षीरत्वात् तस्यास्तथात्वम् ।
गोमात्रभेदाः दशविधा यथा वृह० पु० उत्तरखण्डे १५० अ०
“गवां जातीस्तु वक्ष्यामि शृणुष्वैकमना द्विज! । प्रथमा-
गौरकपिला द्वितीया गौरपिङ्गला । तृतीया रक्तकपिला
चतुर्थी नीलपिङ्गला । पञ्चमी शुक्लपिङ्गाक्षी षष्ठी तु
शुक्लपिङ्गला । सप्तमी चित्रपिङ्गाक्षी अष्टमी बभ्रुरो-
हिणी । नवमी श्वेतपिङ्गाक्षी दशमी श्वेतपिङ्गला ।
तादृशास्तेऽप्यनड्वाहः कपिलास्तु प्रकीर्त्तिताः” । ३ दाना-
र्थकल्पिते धेन्वाकारे गुड़ादिपदार्थे यथाह हेमा० दा०
“अत्र यद्यपि धेनुशब्देन स्वरूपतो गौरेवा०
भिधीयते तथापि धेनुशब्दसाधारण्यादिह प्रकरणे
गुड़धेन्वादीनामपि सन्निवेशो युक्तः तासु च क्रमेण
निरूप्यमाणासु “दशमी स्यात् स्वरूपतः” इति स्वरूप-
धेनोरन्ते स्थितत्वात् गुड़धेन्वादय एव प्रथमतो निरू-
ष्यन्ते । तदुक्तं मत्स्यपुराणे “यास्तु पापविनाशिन्यः
पठ्यन्ते दश धेनवः । तासां स्वरूपं वक्ष्यामि नामानि
च नराधिप! । प्रथमा गुड़घेनुः १ स्यात् घृतधेनु
२ रथापि च । तिलधेनु ३ स्तृतीया च चतुर्थी ४ जलसं-
ज्ञिका । क्षीरधेनु ५ श्च विख्याता मधुधेनु ६ रथापि च ।
सप्तमी शर्कराधेनु ७ र्दधिधेनु ८ रथाष्टमी । रसधेनु ९ श्च
नवमी दशमी स्यात् स्वरूपतः” । “कुम्भाः स्युर्द्रवधेनूना-
मितरासान्तु राशयः” । “सुवर्णधेनुमप्यत्र केचिदिच्छन्ति-
मानवाः” तत्तच्छब्दे दृश्यम् । यशोधनोधेनुमृषेर्मुमोच ।
“अनिन्द्या नन्दिनी नाम धेनुराववृते वनात्” रघुः ।

धेनुक पु० धेनुरिव “इये प्रतिकृतौ” पा० कन् । १ असुरभेदे

“खर इत्युच्यते दैत्यो धेनुकः सोऽसुरोत्तमः” हरिवं०
५५ अ० । “दारुणो धेनुको नाम दैत्यो गर्दभरूपवान् ।
खरयूथेन महतावृतो बलवतां वरः । स तु तालवनं
घोरं गर्दभः परिरक्षति । नृपक्षिश्वापदगणांस्त्रास-
यन्नतिदर्पितः” हरिवं० ७० अ० । २ रतिबन्धभेदे तल्लक्षणं
रतिमञ्जर्य्यामुक्तं यथा “न्यस्तहस्तयुगला निजे पदे
योषिदेति कटिरूढ़वल्लभा । अग्रतो यदि शनैरधोमुखी
धेनुकं वृषवदुन्नते प्रिये! ।” “सुप्तां स्त्रियं
समासिङ्ग्य स्वयं सुप्तोरमेत् पुनः । लघु लिङ्गं चालयेद्यो
बन्धोऽयं धेनुकः स्मृतः” । ३ हस्त्रिन्यां स्त्री । संज्ञायां
कन् । ४ धन्याके स्त्री मेदि० ।

धेनुकसूदन पु० धेनुकमनुपदोक्तमसुरं सूदयति सूदि-

ल्यु । वलभद्रे तन्निसूदनकथा हरिवं० ७० अ० यथा
“रौहिणेयं खरो दुष्टः सोऽदशद्दशनायुधः । पद्भ्या-
मुभाभ्याञ्च पुनः पश्चिमाभ्यां पराङ्मुखः । जघानो-
रसि दैत्योऽसौ रौहिणेयं निरायुधम् । ताभ्यामेव स
जग्राह पद्भ्यां तं दैत्यगर्दभम् । आवर्जितखुरस्कन्धं
प्रेरयंस्तालमूर्द्धनि । स भग्नोरुकटीग्रीवो भग्नपृष्ठोद-
राकृतिः । खरस्तालफलैः सार्द्धं पपात धरणीतले ।
तं गतासुं गतश्रीकं पतितं वीक्ष्य गर्दभम् । ज्ञातीं-
स्ततोऽपरांस्तस्य तृणराजनि सोऽक्षिपत्” हरिवं० ७० अ०
“पूतनाधेनुकारिष्टकेशिचानूरसूदनः” त्रिकाण्डशेषे
विष्णुनामपर्य्याये धेनुसूदनोक्तिः रामस्य विष्ण्वंशावतार-
त्वात् इति बोध्यम् रामद्वारा तस्य हननात् तस्य
तथात्वम् । भाग० १०१५ अ० अपि वलरामेणैव तस्य
हननकथान्ते “नैतच्चित्रं भगवति ह्यनन्ते जगदीश्वरे”
इत्यनेन परमेश्वरकर्तृकस्य तद्धननस्य न चित्रत्वमित्युक्तम् ।
वलरामेण तद्धननेऽपि तस्य तद्द्वारा तद्धन्तृत्वमस्त्येवेति
बोध्यम् धेनुकारिप्रभृतयोऽपि बलरामे ।

धेनुदुग्ध न० धेनोर्दुग्धमिव स्वादु फलमस्य । १ चिर्भट्टे

राजनि० ६ त० । २ धेन्वाः क्षीरे च ।
पृष्ठ ३९१०

धेनुदुग्धकर पु० धेनोर्दुग्धमिव किरति क--अच् धेनी दुग्धं

करोति वर्द्धयति कृ--अच् वा । गर्जरे (गाँजर) राजनि० ।
तत्पाने धेनोर्दुग्धस्य वर्द्धनात्तस्य तथात्वम् ।

धेनुमत् त्रि० धेनुरस्त्यस्य मतुप् । १ धेनुस्वामिनि स्त्रियां

ङीप् । सा च भरतवंश्यदेवद्युम्नस्य २ भार्य्यायाम्
“देवद्युम्नस्ततो धेनुमत्यां सुतः परमेष्ठी” भाग० ५ । १५ । ३

धेनुमूल्य न० ६ त० । प्रायश्चित्तरूपधेनुदानस्य निष्क्रय-

रूपे मूल्यभेदे तच्च प्रायश्चित्ततत्त्वे व्यवस्थापितं यथा
“अथ धेनुमूल्यव्यवस्था । संवर्त्तः “प्राजापत्य-
व्रताशक्तौ धेनुं दद्यात् पयस्विनीम् । धेनोरभावे
दातव्यं तुल्यं मूल्यं न संशयः” । पयस्विनीमिति
विशेषणं दुग्धोपयोगाय सा च वत्सं विना न सम्भवति ।
अतः सवत्साया एव दानं मुख्यं तदभावे यथोचितं
तन्मूल्यं तदभावे पुराणत्रयम् । “द्वात्रिंशत्पणिका
गावोवत्सः पौराणिको भवेत्” कात्यायनवचनात् ।
षटुत्रिंशन्मतमिति कृत्वा पठन्ति “धेनुः पञ्चभिराद्यानां
मध्यानां त्रिपुराणिकी । कार्षापणैकमूल्या हि
दरिद्राणां प्रकीर्त्तिता” । अत्र पुराणत्रयलभ्यं गोतमीक्तं
हिरण्यादिकमेव देयं तद् यथा “हिरण्यं गौर्वासो-
ऽश्वोभूमिस्तिला घृतषन्नमिति देयानि” । एतान्येवा-
नादेशे विकल्पेन क्रियेरन्निति अन्यथा इदमनर्थकं
स्यात् इति” प्रायश्चित्तविवेकः । तच्चिन्त्यं हिरण्यं
गौरित्यादिना गोर्विकल्पकत्वेन हिरण्यादिकमुक्तं न
तु गोमूल्यत्वेन ततश्च । “द्वात्रिंशत्पणिका गावः” इत्यादि-
वचनात् कार्षापणत्रयदानमेव युक्तम् । तत्र “ताम्रिकः
कार्षिकः पणः” इति याज्ञवल्क्यवचनेन “गुञ्जाः पञ्चा-
द्यमाषकः । ते षोड़शाक्षः कर्षोऽस्त्री पलं कर्षचतु-
ष्टयं” इत्यमरसिंहोक्तेन अशीतिरत्तिकापरिमितताम्रे
पणशब्दः सङ्केतितः । स च तावत्संख्यकवराटकैर्लभ्यत
इति वराटकेष्वपि तथा व्यवहारः । एतन्मूलकं
भविष्यमत्स्यसूक्तयोर्वचनम् । “अशीतिभिर्वराटकैः पण इत्य-
भिवीयते । पुराणं ते षोड़शभिः रजतं सप्तभिस्तु
नैः” । गोतमोक्तपरिगणनीयनियमस्तु अनादिष्टे
प्राथमिककल्पाय आदिष्टे तत्तद्रव्यप्राधान्यं हिरण्यादे
रानुकल्पिकत्वमिति विशेषः । अतएव यमेन सामान्यतो
दानमुक्तं यथा “शोषणेन शरीरस्य तपसाऽध्ययनेन
च । पापकृन्मुच्यते पापात् दानेन च दमनन च” ।
अतः कार्षापणत्रयलभ्यं रजतादि दीयते । यत्तु मिता-
क्षरायाम् “गवासभावे निष्कः स्याचदर्द्धं पादएव
च” इति स्मरणान्निष्कादिकमुक्तं तच्छक्ततमाद्यपेक्षया
तत्रापि “चतुःसौवर्णिको निष्क्रः” इति मनूक्तनिष्कस्य
न ग्रहणम् अत्यन्तविसदृशमूल्यत्वात् साष्टशतसुवर्णनिष्क-
वत् । किन्तु दीनारनिष्कस्य ग्रहणं तथा चामरः ।
“साष्टे शते सुवर्णानां हेम्न्युरोभूषणे पले” दीना-
रेऽपि च निष्कोऽस्त्री” इति । दीनार उक्तो विष्णु-
गुप्तेन “दीनारोरोपकैरष्टाविंशत्या परिकीर्त्तितः ।
सुवर्णसप्ततितमो भागोरोपक उच्यते” । सुवर्णस्त्वशी-
तिरत्तिकापरिमितं हेम । तथा च मनुः । “पञ्चकृष्ण-
लकोमाषस्ते सुवर्णस्तु षोड़श” इति अत्र काञ्चनं व्यक्त-
माहामरसिंहः । “सुवर्णविस्तौ हेम्नोऽक्षः” इति ।
एवञ्च सप्तमांशाधिकहेमरत्तिका रोपकः तदष्टाविंशत्या
द्वात्रिंशद्रत्तिकापरिमितोदीनारो निष्कः” प्रा० त० रघु० ।

धेनुम्भव्या स्त्री भव्या धेनुः “धेनोर्भव्यायाम्” गणसूत्र-

निर्देशात् परनिपातः मुम् च । भवष्यन्त्यां धेन्वाम्

धेनुष्टरी स्त्री अतिशयेन धेनुः तरप् ङीप् पारस्करादेरा-

कृतिगणत्वात् सुट् षत्वञ्च । प्रशस्तधेन्वाम् । “सारस्वतीं
धेनुष्टरीमालभेत” कठशाखाश्रुतिः ।

धेनुष्या स्त्री धेनु--संज्ञायां यत् सुक् च । ऋणशोधनार्थमु-

त्तमर्णाय बन्धकत्वेन दीयमानायां धेनौ अमरः ।
“गौर्महिषी वा या दुग्धबन्धके स्थिता सा धेनुष्येति”
वृद्धाः । सा संजातास्य तार०इतच् । धेनुष्यित उत्तमर्णे

धेय त्रि० धा--कर्मणि यत् १ धार्य्ये २ पोष्ये च । स आदिः

स मध्यः स चान्तः प्रजानां स धाता स धेयः स कर्त्ता
स कार्यम्” भा० शा० ३४२ अ० ईश्वरस्यैव सर्वरूपत्वात्
तथात्वम् । धे--यत् । ३ पेये त्रि० । भावे यत् । ४ धारणे
५ पोषणे ६ पाने च ।

धेष्ठ त्रि० अतिशयेन धाता इष्ठन् तृणो लोपे गुणः । धारक

तमे “मित्राणां मित्रपते धेष्ठः” ऋ० १ । १७० । ५ “धेष्ठः
अतिशयेन धारकः” भा० । नामधेयादौ स्वार्थे धेयप्रत्ययः ।

धैनव पुंस्त्री धेनोरपत्यम् उत्सा० विदा० वा अञ् ।

धेन्वपत्रे स्त्रियां ङीप् ।

धैनुक न० धेनूनां समूहः “अचित्तहस्तिधेनोष्ठक्” वा०

टक् “इसुसुक्तान्तात् कः” पा० ठस्य कः । १ धेनुसमुदाये
स्त्रीणां २ करणभेदे च मेदि० ।

धैर्य्य न० धीरस्य भावः कर्म वा ष्यञ् । १ धृतौ “स्थिरा

चित्तोन्नतिर्या तु तद्धैर्य्यमिति संज्ञितमिति” भूपालकोषः ।
२ अप्रमादे ३ अत्याकुलत्वे ४ विघ्नाद्युपस्थितावपि प्रारब्धा-
पृष्ठ ३९११
परित्यागहेतावन्तःकरणवृत्तिविशेषे । ५ निर्विकारचि-
त्तत्वे । “मनसो निर्विकारत्वं धैर्य्यं सत्स्वपि हेतुषु”
एतदभिप्रायेण “विकारहेतौ सति विक्रियन्ते येषां न
चेतांसि तएव धीराः” इति कुमा० उक्तम् । “कुर्य्यां
हरस्यापि पिनाकपाणेर्वैर्य्यच्युतिं के मम धन्विनोऽन्ये”
कुमा० । “अवधीर्य धैर्यकलिता दयितम्” माघः । ६
नायकयोर्गुणभेदे धीरताशब्दे दृश्यम् । ७ पुरुषगुणभेदे
यथा “शोभा विलासो माधुर्य्यं गाम्भीर्य्यं धैर्य्य
तेजसी । ललितौदार्य्यमित्यष्टौ सत्वजाः पौरुषा गुणाः”
इत्युद्दिश्य “व्यवसायादचलनं धैर्य्यं विघ्ने महत्यपि”
सा० द० लक्षितम् उदाहृतञ्च “श्रुताप्सरोगीतिरपि
क्षणेऽणिन् हरः प्रसंख्यानपरो बभूव । आत्मेश्वराणां न
हि जातु विघ्नाः समाधिभेदप्रभवो भवन्ति” । स्वार्थे
घ्यञ् । पुरुषमेधयज्ञे ८ हौम्यदेवभेदे पु० । तदुपक्रमे
“मेधायै रथकारं धैर्य्याय तक्षाणम्” यजु० ३० । ७

धैवत पु० धीमतामयम् अण् पृषो० । तन्त्रीकण्ठोत्थित

सप्तस्वरेषु षष्ठे स्वरे तल्लक्षणं यथा “गत्वा नाभेरधोभागं
वस्तिं प्राप्योर्द्धगः पुनः । धावन्निव च यो याति
कण्ठं देशं स धैवतः” सङ्गीतदामो “अश्वस्तु धैवतं रौति”
सङ्गीतशास्त्रीक्तेरस्याश्वस्वरतुल्यत्वम् । अस्य च वायुभव-
त्वेऽपि आकाशगुणत्वम् भा० शा० १८४ अ० उक्तं यथा
“तत्रैकगुणमाकाशं शब्द इत्येव तत् स्मृतम् । तस्य
शब्दस्य वक्ष्यामि विस्तरं विविधात्मकम् । षड्ज-
ऋषभगान्धारौ मध्यमो धैवतस्तथा । पञ्चमश्चापि
विज्ञेयस्तथा चापि निषादवान् । एष सप्तविधः प्रोक्तो
गुण आकाशसम्भवः । ऐश्वर्य्येण तु सर्वत्र स्थितोऽपि
पटहादिषु । मृदङ्गभेरीशङ्खानां स्तनयित्नोरथस्य च ।
यः कश्चिच्छ्रूयते शब्दः प्राणिनोऽप्राणिनोऽपि वा ।
एतेषामेव सर्वेषां विषये संप्रकीर्त्तितः । एवं
बहुविधाकारः शब्द आकाशसम्भवः । आकाशजं शब्द-
माहुरेभिर्वायुगुणैः सह । अव्याहतैश्चेतयते न वेत्ति
विषमस्थितैः” ।

धैवत्य न० धीव्नोभावः ष्यञ् दाण्डिनायनेत्यादि० नि० नस्य तः । धीव्नोभावे ।

धैवर पुंस्त्री धीवरस्यापत्यं वा० अत इञ बाधित्वा वेदे

अण् । धीवरापत्ये “सरोभ्यो धैवरम्” यजु० ३० । १६
लोके तु इञ् धैवरिरित्येव ।

धोयी पु० कविभेदे “धोयी कविः क्ष्मापतिः” गीतगो०

धोड पुंस्त्री धुर--बधे अच रस्य लस्तस्य डः । (ढ्ॐड़ा)

सर्पभेदे डुण्डुभे शब्दर० स्त्रियां जातित्वात् ङीष् ।

धोर गतौ सक०चातुर्य्ये अक० भ्वा० पर० सेट । धोरति

अधोरीत् । दुधोर ऋदित् णिच् चङि अदुधोरत् त ।

धोरण न० धोर--गतौ करणे ल्युट् । १ यानमात्रे हस्त्यश्व-

रथादौ त्रिका० । भावे ल्युट् । २ गतौ ।

धोरणि(णी) स्त्री धोर--अनि वा ङीप् । परम्परयाम्

जटाधरः । “यैर्माकन्दवने मनोज्ञपवने सद्यःस्खलन्माधु-
रीधाराधोरणिधौतधामनि धराधीशत्वमालम्ब्यते ।
तेषां नित्यविनोदिनां सुकृतिनां माध्वीकपानां पुनः कालः
किन्न करोति केतकि! यतस्त्वञ्चापि केलीस्थली” उद्भटः ।

धोरित न० धुर--धोर--वा भावे क्त । १ बधे २ गतौ ३ अश्व-

गतिभेदे हेमच० । स्वार्थे क । तत्रार्थे अमरः ।

धौत त्रि० धाव--क्त ऊठ् । १ प्रक्षालिते २ मार्जिते ३ शोधिते

हेम० “ईषद्धौतं स्त्रिया धौतं यद्धौतं रजकेन च ।
अधौतं तत् विजानीयात् दशा दक्षिणपश्चिमे” कर्मलो-
चनम् । “धौतोत्तरीयप्रतिमच्छवीनि” “परितश्च
धौतमुखरुक्मविलसदहिमांशुमण्डलाः” माघः । ४ रौप्ये
न० राजनि० । भावे क्त । ५ प्रक्षालने न० ।

धौतकट पु० नित्यकर्म० । सूत्रनिर्मितपात्रभेदे (धोकडा) जटा०

धौतकोषज न० धौतं प्रक्षालितं कोषजं नित्यक० । कृमिकोष-

जाते वस्त्रभेदे शब्दर० ।

धौतकौषेय न० नित्यकर्म० । प्रक्षालिते कृषिकोषजाते वस्त्रे अमरः ।

धौतबली स्त्री धौताञ्जन्यां त्र्यङ्कटे शिक्यभेदे हारा० ।

धौतमूलक पु० १ चीनराजभेदे “अर्कजश्च बलीहानां चीनानां

धौतमूलकः” भा० उ० ७३ अ० । धौतं मूलं यस्य कप् ।
२ प्रक्षालितमूलयुक्ते त्रि० ।

धौतय न० धौतमिव वर्णं याति या--क । सैन्धवे नैघण्टुप्रका०

धौतरि त्रि० धूतमेव धौतं कम्पनमृच्छति ऋ--कि । कम्पन

कारके स्त्रियां ङीप् । “स सवान्त्स्तौलाभिर्धौतरीभिः”
ऋ० ६ । ४४ । ७ “धौतरीभिः कम्पनकारीभिः” भा० ।

धौतशिल न० धौता शिला यस्य । स्फटिके त्रिका० ।

धौताञ्जनी स्त्री त्र्यङ्कटे शिक्यभेदे मेदि० ।

धौती स्त्री धू--कर्तरि क्तिच् स्वार्थे अण् ङीप् ।

चलनकर्तरि “योधौतीनामहिहन्नारिणक् पथः” ऋ० २ । १३ । ५
“धौतीनां कम्पन्तीनाम्” भा० । धूति--स्वार्थे अण्
ङिप् । २ हठयोगाङ्गभेदे हठयोगशब्दे दृश्यम् ।

धौन्धुमार न० धुन्धुमारमधिकृत्य कृतो ग्रन्थः अण् । भारत

वनपर्वान्तर्गतोपाख्यानभेदे “ऐन्द्रद्युम्नमुपाख्यानं धौन्धु-
मारं तथैव च” भा० आ० १ अ० । तच्च वनपर्वणि २०० अध्या-
यावधौ २०३ अध्यायान्ते दृश्यम् ।
पृष्ठ ३९१२

धौमक पु० धूमे तत्प्रधानदेशे भवः धूमा० वुञ् । धूमप्रधानदेशभवे ।

धौमतायन पु० राजभेदे । तेन निर्वृत्तादि अरीहणादि०

चतुरर्थ्यां वुञ् । धौमतायनक तन्निर्वृत्ते नगरादौ

धौमायनक त्रि० धौमायनेन निर्वृत्तादि अरीहणादि०

चतुरर्थ्यां वुञ् । धौमायननिर्वृत्तादौ ।

धौमीय त्रि० धूमेन निर्वृत्तादि० चतुरर्थ्याम् कुशाश्वा० छण् ।

धूमनिर्वृत्तादौ ।

धौम्य त्रि० धूमस्यापत्यं गर्गा० यञ् । १ धूमर्षेरपत्ये स च

युधिष्ठिरपुरोहितः यथा
“गन्धर्व उवाच यवीयान् देवलस्यैष वने भ्राता
तपस्यति । धौम्य उत्कोचके तीर्थे तं वृणुध्वं यदीच्छथ” ।
“तत उत्कोचकं तीर्थं गत्वा धौम्याश्रमन्तु ते । तं वव्रुः
पाण्डवा धौम्यं पौरोहित्याय भारत! । तान् धौम्यः
प्रतिजग्राह सर्ववेदविदांवरः । वन्येन फलमूलेन
पौरहित्येन चैव ह” भा० आ० १८३ अ० । व्याघ्रपादस्यर्षेः
पुत्रभेदे २ उपमन्योरनुजे च ।
“पुरा कृतयुगे तात! ऋषिरासीनमहातपाः व्याघ्र-
पाद इति ख्यातो वेदवेदाङ्गपारगः । तस्याहमभवं
पुत्रो धौम्यश्चापि ममानुजः । कस्यचित्त्वथ कालस्य
धौम्येन सह माधवः” भा० आनु० १४ अ० । पश्चिमदिगाश्रिते
३ ऋषिभेदे च “उषङ्गुः कवषो धौम्यः परिव्याधश्च वीर्य-
वान् । एकतश्च द्वितश्चैव त्रितश्चैव महर्षयः । अत्रेः
पुत्रश्च भगवांस्तथा सारस्वतः प्रभुः । एते चैव महात्मानः
पश्चिमामाश्रिता दिशम्” भा० शा० २०८ अ०

धौम्र पु० धूम्रएव स्वार्थे अण् । ऋषिभेदे “धौम्यो विभाण्डो

माण्डव्यो धौम्रः कृष्णानुभौतिकः” भा० शा० ४७ अ० ।
स्वार्थे अण् । २ धूम्रवर्णे ३ तद्वति त्रि० भावे अण् ।
४ धूम्रवर्णत्वे धूम्रोदेवताऽस्य अण् । ५ वास्तुस्थानभेदे पु०

धौम्रायण पुंस्त्री० धूम्रस्य गोत्रापत्यं अश्वा० फञ् । धूम्रर्षेः

गोत्रापत्ये ।

धौरादित्य पु० तीर्थभेदे शिवपु० ।

धौरित न० धीरितमेव अण् । “धोरितं गतिमात्रं यद्यो-

जितं वल्गितं पुनः । अग्रकायसमुल्लासात् कुञ्चितास्यं
नतत्रिकम्” इत्युक्ते अश्वगतिभेदे । स्वार्थे क धौरितक
तत्रार्थे अमरः ।

धौरेय त्रि० धुर वहति “धुरो यड्दकौ” पा० ढक् । १ धूर्वहे अमरः । २ धुर्ये वृषे पु० राजनि० ।

धौर्त्तक न० धूर्त्तस्य भावः मनोज्ञा० वुञ् । धूर्त्तत्वे शाठ्ये

धौर्त्तेय पुंस्त्री धूर्त्ताया अपत्यं “स्त्रीभ्यो ढक्” पा० ढक् ।

धूर्त्ताया अपत्ये बहुवचने योधेयादि० ततः प्रत्य-
यस्य न लुक् ।

धौर्त्त्य न० धूर्त्तस्य भावः कर्म वा ब्राह्मणा० ष्यञ् । १ धूर्त्तत्वे

२ धूर्त्तकर्मणि च । “लेट लोट धौर्त्त्ये पूर्वभावे” कण्ड्वा-
दिगणसूत्रम् ।

धौर्य्य न० धीर--धुर--वा ण्यत् । १ अश्वगतिभेदे धोरणे हेम० ।

धौवकि पुंस्त्री धुवकाया अपत्यं स्त्रीभ्यो ढकं बाधित्वा

बाह्वादि० इञ् । धुवकाया अपत्ये ।

ध्मा अग्निसंयुतौ दीर्घश्वासहेतुके शब्दभेदे अक० तादृशशब्देन

वादने सक०भ्वा० पर० अनिट् । धमति अध्मासीत् । दध्मौ
ध्मातः । ध्मापयति “मुखेनैव धमेदग्निं मुखादग्निः
प्रजायते” सस्कारतत्त्वम् “शङ्खान् दध्मुः पृथक् पृथक्”
गीता । ध्मायते । अध्मायि । “दह्यन्ते ध्मायमानानां
धातूनां हि यथा मलाः” मनुः । “वाष्वग्निभ्यां यथा
लौहं ध्मातं त्यजति वै मलम्” भाग० ३ । २८ । ४० ।
आ--स्फीततायाम् आध्मानशब्दे दृश्यम् ।

ध्माकार पु० ध्मा--इत्यव्यक्रशब्दस्य कारः । १ (ध्मा) इति शब्द

करणे । कृ--कर्त्तरि अण् । २ लोहकारके पु० नैघण्टुप्र०

ध्मा(ध्वा)क्ष आकाङ्क्षे सक० धोररवे अक० भ्वा० पर० सेट्

इदित् । ध्मा(ध्वा)ङ्क्षति । अध्मा(ध्वा)ङ्क्षीत् । दध्मा-
(ध्वा)ङ्क्ष । पा० मते वोपधः ।

ध्मा(ध्वा)ङ्क्ष पुंस्त्री ध्मा(ध्वा)क्षि--अच् । १ काके २ मत्स्यभक्षके

पक्षिभेदे अमरः । ३ भिक्षुके ४ तक्षके च मेदि० ५ कक्कोलि-
कायां स्त्री गौ० ङीष् ।

ध्मा(ध्वा)ङ्क्षजङ्घा ध्मा(ध्वा)ङ्क्षस्येव जङ्घा अस्याः । काकज-

ङ्घायाम् राजनि० ।

ध्मा(ध्वा)ङ्क्षजम्बु स्त्री ध्मा(ध्वा)ङ्क्षप्रिया जम्बुः । काकजम्ब्वां राजनि० ।

ध्मा(ध्वा)ङ्क्षतुण्डी ध्मा(ध्वा)ङ्क्षस्येव तुण्डमस्याः ङीष् ।

काकनासालतायां राजनि० ।

ध्मा(ध्वा)ङ्क्षदन्ती स्त्री ध्मा(ध्वा)ङ्क्षस्येव दन्ता अवयवोऽस्याः

ङीष् । काकतुण्डीलतायां राजनि० ।

ध्मा(ध्वा)ङ्क्षनखी स्त्री ध्मा(ध्वा)ङ्क्षस्येव नखा अस्या ङीष् ।

काकतुण्ड्यां राजनि० ।

ध्मा(ध्वा)ङ्क्षनाम्नी स्त्री ध्मा(ध्वा)ङ्क्षं नामयति प्रियत्वात्

नामि बा० मति । काकोदम्बरिकायां राजनि० ।

ध्मा(ध्वा)ङ्क्षनाशिनी स्त्री ६ त० । हपुषायां भावप्र०

पृष्ठ ३९१३

ध्मा(ध्वा)ङ्क्षनासा स्त्री ध्मा(ध्वा)ङ्क्षस्येव नासा यस्याः ।

काकनासिकायाम् राजनि० । वा कप् अत इत्त्वम् ध्मा(ध्वा)
ङ्क्षनासिकाऽपि तत्रार्थे ।

ध्मा(ध्वा)ङ्क्षपुष्ट त्रि० ३ त० । कोकिले हारा० स्त्रियां जातित्वात् ङीष् ।

ध्मा(ध्वा)ङ्क्षमाची ध्मा(ध्वा)ङ्क्षमचते मच--अण् काकमा-

चीवत् साध्यम् । काकमाच्यां राजनि० ।

ध्मा(ध्वा)ङ्क्षवल्ली स्त्री तन्नामा वल्ली । काकनासायाम् राजनि० ।

ध्मा(ध्वा)ङ्क्षादनी स्त्री काकादनीवत् साध्यम् । काकतुण्ड्यां

राजनि० ।

ध्मा(ध्वा)ङ्क्षाराति पु० ६ त० । पेचके हारा० । तदरिप्रभृतयोऽपि तत्रार्थे ।

ध्मा(ध्वा)ङ्क्षी स्त्री जातौ ङीष् । १ काक्यां २ काकोलिकायां

च मेदि० ।

ध्मा(ध्वा)ङ्क्षोली स्त्री काकोलीवत् साध्यम् । काकोल्यां राजनि० ।

ध्मात त्रि० ध्मा--क्त । १ संधुक्षिते श्वासभूयिष्ठतया दीर्घभावेन

२ लक्ष्यमाणे वर्णे च । ३ शब्दिते ४ वादिते च ।

ध्मापन न० ध्मा--णिच् भावे ल्युट् । वृंहणे शब्दार्थचि० ।

ध्मापित त्रि० धमापि--क्त । वृंहिते बहुलीकृते शब्दार्थचि० ।

ध्यात त्रि० ध्यै--क्त । चिन्तिते ध्यानविषयीभूते “तदात्मना

ध्यातधवा रते च का” नैष० ।

ध्यान न० ध्यै--भावे ल्युट् । १ चिन्तने २ अद्वितीयवस्तुनि

विच्छिद्यविच्छिद्यान्तरिन्द्रियवृत्तिप्रवाहे । “शास्त्रोक्तदेव-
ताद्यालम्बनेष्वचलो भिन्नजातीयैरनन्तरितः प्रत्यय-
सन्तान एकाग्रतेति यमाहुरिति” भाष्योक्तेः ३ ध्येय-
प्रत्ययैकतानत्वे । एकत्रधृतस्य चित्तस्य भगवदीकार
वृत्तिप्रवाहोत्तरोत्तराऽन्याकारप्रत्ययाव्यवहिते ४ निदिध्या-
सनसंज्ञे चित्तस्यात्माकाराद्वयावृत्तौ । “ब्रह्मैवास्मीति
सद्वृत्त्या निरालम्बतया स्थितिः । ध्यानशब्देन विख्याता
परमानन्ददायिनी” इत्युक्तेः ५ परमात्मचिन्तने । धारणा
निरुद्धस्य त्रिनेत्रपञ्चबक्त्राद्याकारविषयायां ६ चिन्तायाम् ।
“चिन्ता तद्विषया ध्यान” मित्युक्तेः । “तत्र प्रत्ययैकतान-
ता ध्यानम्” पा० सू० तत्र तस्मिन् देशे यत्र चित्तं धृतं तत्र
प्रत्ययस्य ज्ञानस्य यैकतानता विसदृशपरिणामपरिहारेण
यदेव धारणयावलम्बनीकृतम् तदालम्बनतयैव निरन्तर-
मुत्पत्तिः सा ध्यानमुच्यते । ध्यानपदनिरुक्त्यादिकमुक्तं
महानिर्वाणतन्त्रे यथा “ध्यैचिन्तायां स्मृतो धातुः चिन्ता
तत्त्वेन निश्चला । एतद् ध्यानमिह प्रोक्तं सगुणं निर्गुणं
द्विधा । सगुणं मन्त्रभेदेन निर्गुणं केवलं मतम्” इति । अपि
च “ध्यानं तु द्विविधं प्रोक्तं सरूपारूपभेदतः । अरूपं
तत्र यद् ध्यानमबाङ्मनसगोचरम् । अव्यक्तं सर्वतो व्याप्त-
मिदमित्थविवर्जितम् । अगम्यं योगिभिर्गम्यं कृच्छ्रैर्बहु-
समाधिभिः । मनसो धारणार्थाय शीघ्रं स्वाभीष्टसिद्धये ।
सूक्ष्मध्यानप्रबोधाय स्थूलध्यानं वदामि ते । अरूपायाः
कालिकायाः कालमातुर्महाद्युतेः । गुणक्रियानुसारेण
क्रियते रूपकल्पना” ब्रह्मचिन्तायां यथा
“व्रह्मात्मचिन्ता ध्यानं स्यात् धारणा मनसो धृतिः ।
अहं ब्रह्मेत्यवस्थानं समाधिर्ब्रह्मणः स्थितिः” इति
गारुड़े ४९ अ० । तत्कालभेदश्च “प्राणायामैर्द्वादशभिर्यावत्
कालं हृतो भवेत् । यस्तावत्कालपर्यन्तं भनो ब्रह्मणि
धारयेत् । तस्यैव ब्रह्मणा प्रोक्तं ध्यानं द्वादश धारणाः ।
द्वादशध्यानपर्यन्तं मनो ब्रह्मणि यो नरः । तिष्ठेत
स यतो मुक्तः समाधिः सोऽभिधीयते । ध्येयान्न चलते
यस्य मनोऽभिध्यायतो भृशम् । प्राप्यावधिकृतं कालं
यावत् सा धारणा स्मृता । ध्येयसक्तं मनो यस्य ध्येय-
मेवानुपश्यति । नान्यं पदार्थं जानाति ध्यानमेतत्
प्रकीर्तितम् । ध्येये मनो निश्चलतां याति ध्येयं
विचिन्तयन् । यत्तद्ध्यानं परं प्रोक्तं मुनिभिर्ध्यानचिन्तकैः ।
ध्येयमेव हि सर्वत्र ध्याता तल्लयतां गतः । पश्यति
द्वैतरहितं समाधिः सोऽभिधीयते” इति गारुड़े २४० अ०
अग्निपुराणे च तन्निरुक्त्यादिकमुक्तं यथा
“अग्निरुवाच । ध्यै चिन्तायां स्मृतो धातुर्विष्णुचिन्ता
मुहुर्मुहुः । अनाक्षिप्तेन मनसा ध्यानमित्यभिधीयते ।
आत्मनः समनस्कस्य मुक्ताशेषोपधस्य च । ब्रह्मचिन्ता
समासक्तिर्ध्यानं नाम तदुच्यते । ध्येयालम्बनसंस्थस्य
सदृशप्रत्ययस्य च । प्रत्ययान्तरनिर्मुक्तः प्रत्ययो ध्यान-
मुच्यते । ध्येयावस्थितचित्तस्य प्रदेशे यत्र कुत्रचित् ।
ध्यानभेतत्समुद्दिष्टं प्रत्ययस्यैकतानता । एवं ध्यानसमा-
युक्तः स्वदेहं यः परित्यजेत् । कुलं स्वजनमित्राणि
समुद्धृत्य हरिर्भवेत् । एवं मुहूर्त्तमर्धं वा ध्यायेद् यः
श्रद्धया हरिम् । सोऽपि यां गतिमाप्नोति न तां सर्वै-
र्महामखैः । ध्याता ध्यानं तथा ध्येयं यच्च ध्यान-
प्रयोजनम् । एतच्चतुष्टयं ज्ञात्वा योगं युञ्जीत तत्त्व-
वित् । योगाभ्यासाद्भवेन्मुक्तिरैश्वर्य्यञ्चाष्टधा महत् । ज्ञान-
वैराग्यसम्पन्नः श्रद्दधानः क्षमान्वितः । विष्णुभक्तः
सदोत्साही ध्यातेत्थं पुरुषः स्मृतः । मूर्तामूर्तं परं
ब्रह्म हरेर्ध्यानं हि चिन्तनम् । सकलो निष्कलो ज्ञेयः
सर्वज्ञः परमो हरिः । अणिमादिगुणैश्वर्य्यं मुक्ति-
पृष्ठ ३९१४
र्ध्यानप्रयोजनम् । फलेन योजको विष्णुरतो ध्यायेत्
परेश्वरम् । गच्छंस्तिष्ठन् स्वपन् जाग्रदुन्मिषन् निमिष-
न्नपि । शुचिर्वाप्यशुचिर्वापि ध्यायेत् सततमीश्वरम् ।
स्वदेहायतनस्यान्ते मनसि स्थाप्य केशवम् । हृत्पद्मपी-
ठिकामध्ये ध्यानयोगेन पूजयेत् । ध्यानयज्ञः परः
शुद्ध्वः सर्वदोषविवर्जितः । तेनेष्ट्वा मुक्तिमाप्नोति बाह्या-
शुद्धैश्च नाध्वरैः । हिंसादोषविमुक्तित्वाद्विशुद्धिश्चित्त-
साधनः । ध्यानयज्ञः परस्तस्मादपवर्गफलप्रदः । तस्मा-
दशुद्धं सन्त्यज्य ह्यनित्यं बाह्यसाधनम् । यज्ञाद्यं कर्म
सन्त्यज्य योगमत्यर्थमभ्यसेत् । विकारमुक्तमव्यक्तं भोग्य-
भोगसमन्वितम् । चिन्तयेद्धृदये पूर्वं क्रमादादौ
गुणत्रयम् । तमः प्रच्छाद्य रजसा सत्वेन छादयेद्रजः ।
ध्यायेत्त्रिमण्डलं पूर्वं कृष्णं रक्तं सितं क्रमात् । सत्वो-
पाधिगुणातीतः पुरुषः पञ्चविंशकः । ध्येयमेतदशुद्धञ्च
त्यक्त्वा शुद्धं विचिन्तयेत् । ऐश्वर्य्यं पङ्कजं दिव्यं पुरुषो-
परि संस्थितम् । द्वादशाङ्गुलविस्तीर्णं शुद्धं विकशितं
सितम् नालमष्टाङ्गुलं तस्य नाभिकन्दसमुद्भवम् ।
पद्मपत्राष्टकं ज्ञेयमणिमादिगुणाष्टकम् । कर्णिकाकेसरं
नालं ज्ञानवैराग्यमुत्तमम् । विष्णुधर्मश्च तत्कन्दमिति
पद्मं विचिन्तयेत् । तद्धर्मज्ञानवैराग्यं शिवैश्वर्य्यमयं
परम् । ज्ञात्वा पद्मासनं सर्वं सर्वदुःखान्तमाप्नुयात् ।
तत् पद्मकर्णिकामध्ये शुद्धदीपशिखाकृतिम् । अङ्गुष्ठ-
मात्रममलं ध्यायेदोङ्कारमीश्वरम् । कदम्बगोलकाकारं
तारं रूपमिव स्थितम् । ध्यायेद्वा रश्मिजालेन दीप्य-
मानं समन्ततः । प्रधानं पुरुषातीतं स्थितं पद्मस्थमीश्व-
रम् । ध्यायेज्जपेच्च सततमोङ्कारं परमक्षरम् ।
मनःस्थित्यर्थमिच्छन्ति स्थूलध्यानमनुक्रमात् । तद्भूतं
निश्चलीभूतं लभेत् सूक्ष्मेऽपि संस्थितिम् । नाभिकन्दे स्थितं
नालं दशाङ्गुलसमायतम् । नालेनाष्टदलं पद्मं द्वादशा-
ङ्गुलविस्तृतम् । सकर्णिके केसराले सूर्य्यसोमाग्निमण्ड-
लम् । अग्निमण्डलमध्यस्थः शङ्खचक्रगदाधरः । पद्मी
चतुर्भुजो विष्णुरथ वाष्टभुजो हरिः । शार्ङ्गाक्षवलय-
धरः पाशाङ्कुशधरः परः । स्वर्णवर्णः श्वेतवर्णः सश्रीवत्सः
सकौस्तुभः । वनमाली स्वर्णहारी स्फुरन्मकरकुण्डलः ।
रत्नीज्ज्वलकिरीटश्च पीताम्बरधरो महान् । सर्वाभरण-
मूषाढ़्यो वितस्तिर्वा यथेच्छया । अहं ब्रह्म ज्योतिरात्मा
वासुदेवो विमुक्त ओम् । ध्यानाच्छ्रान्तो जपेन्मन्त्रं
जपाच्छ्रान्तश्च चिन्तयेत् । जपध्यानादियुक्तस्य विष्णुः
शीघ्रं प्रसीदति । जपयज्ञस्य वै यज्ञाः कलां नार्हन्ति
षोड़शीम् । जपिनं नोपसर्पन्ति व्याधयश्चाधयो ग्रहाः ।
भुक्तिर्मुक्तिर्मृत्युजयो जपेन प्राप्नुयात् फलम्” ३७३ अ० ।
ध्यानप्रकारादिकमुक्तं मिताक्षरायां यथा
“ऊरुस्थोत्तानचरणः सव्ये न्यस्येतरं करम् । उत्तानं
किञ्चिदुन्नाम्य मुखं विष्टभ्य चोरसा । निमीलिताक्षः
सत्वस्थो दन्तैर्दन्तानसंस्पृशन् । तालुस्थाचलजिह्वश्च
संवृतास्यः सुनिश्चलः । संनिरुद्धेन्द्रियग्रामं नातिनी
चोच्छ्रितासनः । द्विगुणं त्रिगुणं वापि प्राणायाममुप-
क्रमेत् । ततो ध्येयः स्थितो योऽसौ हृदये दीपवत् प्रभुः ।
धारयेत्तत्र चात्मानं धारणां धारयन् बुधः” याज्ञ० । “ऊरु-
स्थावुत्तानचरणौ यस्य स तथोक्तो बद्धपद्मासनः ।
तथोत्ताने सव्यकरे दक्षिणमुत्तानं न्यस्य मुखञ्च किञ्चिदुन्नाम्यो
रसा च विष्टभ्यं स्तम्भयित्वा तथा निमीलिताक्षः सत्वस्थः
कामक्रोधादिरहितो दन्तैर्दन्तानसंस्पर्शयन् । तथा
तालुनि स्थिता अचला जिह्वा यस्य स तथोक्तः संवृता-
स्यः पिहिताननः सुनिश्चलो निष्प्रकम्पस्तथा सम्यगि-
न्द्रियसमूहं विषयेभ्यः प्रत्याहृत्य नातिनीचासनो नात्यु-
च्छ्रितासनो यथा चित्तविक्षेपो न भवति तथोपविष्टः
सन् द्विगुणं त्रिगुणं वा प्राणायामाभ्यासमुपक्रमेत् ।
ततो वशीकृतपवनेन योगिना योऽसौ हृदये दीपवद-
प्रकम्पः प्रभुः स्थितोऽसौ ध्यातव्यः तत्र च हृद्यात्मानं
मनोगोचरतया धारयेत् । तथा धारणाञ्च धारयेत् ।
धारणास्वरूपञ्च जान्वग्रभ्रमणेन छोटिकादानकालो
मात्रा । ताभिः पञ्चदशमात्राभिरधमः प्राणायामस्त्रिंश-
द्भिर्मध्यमः । पञ्चचत्वारिंशद्भिरुत्तम इत्येवं प्राणायामत्र-
यात्मिकैका धारणा । तास्तिस्रो योगशब्दवाच्यास्तांश्च
धारयेत् । यथीक्तमन्यत्र “संभ्राम्य छोटिकां दद्यात्
कराग्रञ्जानुमण्डले । मात्राभिः पञ्चदशभिः प्राणायामी-
ऽधमः स्मृतः । मध्यमो द्विगुणः श्रेष्ठस्त्रिगुणो धारणा
तथा । त्रिभिस्त्रिभिः स्मृतैकैका ताभिर्योगस्तथैव चेति”
मिता० । “हृदयस्थस्य योगेन देवदेवस्य दर्शनम् । ध्यानं
प्रोक्तं प्रवक्ष्यामि सर्वस्मात् योगतः शुभम्” हृदिस्था देवताः
सर्वा हृदि प्राणाः प्रतिष्ठिताः । हृदि ज्योतींषि मूयश्च
हृदि सर्वं प्रतिष्ठितम् । स्वदेहमरणिं कृत्वा प्रणवञ्चो-
त्तरारणिम् । ध्याननिर्मथनाभ्यान्तु विष्णुं पश्येद्धृदि
स्थितम् । हृद्यन्तश्चन्द्रमाः सूर्य्यः सोममध्ये हुता-
शनः । तेजोमध्ये स्थितं तत्त्वं तत्त्वमध्ये स्थितो-
पृष्ठ ३९१५
ऽच्युतः । अणोरणीयान् महतो महीयानात्मास्य जन्तो-
र्निहितो गुहायाम् । तेजोमयं पश्यति वीतशोको
धातुः प्रसादान्महिमानमात्मनः” शङ्खः । “प्राणायाम-
द्विषट्केन प्रत्याहार उदाहृतः । प्रत्याहारैर्द्वादश-
भिर्द्धारणा परिकीर्त्तिता । भवेदीश्वरसङ्गत्यै ध्यानं
द्वादशधारणम्” काशीख० ४१ अ० । “समाहितेन मनसा
चैतन्यान्तरवर्त्तिना । आत्मनोऽभीष्टदेवानां ध्यानं ध्यान-
मिहोच्यते” शा० ति० । ध्यायतेऽनेन ध्यै--करणे ल्युट् ।
देवानां ७ ध्येयरूपभेदे “ध्यानमस्याः प्रवक्ष्यामि यथा
ध्यात्वार्चयेदिमाम्” तन्त्रसारः । “तस्य (वटुकस्य) ध्यानं
त्रिथा प्रोक्तं सात्विकादिप्रभेदतः” तत्र सात्विकं यथा
“बन्दे बालं स्फटिकसदृशं कुन्तलोद्भासिवक्त्रं दिव्याकल्पै-
र्नवमणिमयैः किङ्किणीनूपुराद्यैः । दीप्ताकारं विशदवसनं
“सुप्रसन्नं त्रिनेत्रं हस्ताब्जाभ्यां वटुकमनिशं शूलदण्डौ
दधानम्” । राजसं यथा “उद्यद्भास्करसन्निभं त्रिनयनं
रक्ताङ्गरागस्रजम् स्मेरास्यं वरदं कपालमभयं शूलं
दधानं करैः । नीलग्रीवमुदारभूषणशतं शीतांशुचूड़ो-
ज्ज्वलं बभ्रूकारुणवाससं मयहरं देवं सदा भावये”
तन्त्रसा० तामसध्यानं तु तामसशब्दे पृ० उक्तम्
देवानां स्वरूपभेदेनैव ध्येयत्वात् स्वरूपस्य ध्यानत्वम् ।
देवताप्रतिमाशब्दे च ३६८५ पृ० येषां मूर्त्तिभेदा यथा
दर्शिताः तथैव तेषां ध्येयता । अन्यदेवताध्यानं तु तन्त्रसार
कालिकापुराणादौ दृश्यम् विस्तरभयात् न लिखितम् ।
“ज्ञानात् ध्यानं विशिष्यते । ध्यानात् कर्मफलत्यागः
गीता । “आगमेनानुमानेन ध्यानाभ्यासरसेन च ।
त्रिधा प्रकल्पयेत् प्रज्ञां लभते योगमुत्तमम्” श्रुतिः ।
“इति विज्ञापितो राज्ञा ध्यानस्तिमितलोचनः” रघुः
“सर्वदेवाः प्राकृतिका यावन्तो मूर्तिधारिणः ।
अहमात्मा नित्यदेहो भक्तध्यानानुरूपतः” ब्रह्मवै० जन्मख० ।
८ उपनिषद्भेदे उपनिषच्छब्दे १२२२ पृ० दृश्यम् ।

ध्यानजप्य पु० विश्वामित्रवंश्ये ऋषिभेदे “पाणिनो बभ्रव-

श्चैव ध्यानजप्यास्तथैव च” हरिवं० २७ अ० विश्वामित्र-
वंश्यर्षिकथने ।

ध्यानयोग पु० ध्यानमेव योगः । ध्यानरूपे योगे योगाङ्ग-

भेदे “ते ध्यानयोगानुगता अपश्यन्” श्वेताश्वतरोप० “ध्यानं
नाम चित्तैकाग्र्यं तदेव योगो युज्यतेऽनेन इति ध्या-
तव्यस्वीकारोपायस्तमनुगताः समाहिता अपश्यन्” भा०
“ध्यानयोगेन संपश्येत् गतिमस्यान्तरात्मनः” मनुः ।

ध्यानाभ्यास पु० ध्यानानामभ्यासः । समाधौ “ध्यानद्वाद-

शकेनैव समाधिरभिधीयते” काशीख० ४३ अ० उक्तेः
समाधेर्ध्यानाभ्यासरूपत्वम् । “आगमेनानुमानेन ध्याना-
म्यासरसेन च । त्रिधा प्रकल्पयेत् प्रज्ञां लभते
योगमुत्तमम्” श्रुतिः ।

ध्यानिक त्रि० ध्यानेन निर्वृत्तं ठक् । ध्यानसाध्ये “ध्या-

निकं सर्वमेवैतत् यदेतदभिशब्दितम्” मनुः ।

ध्याम न० ध्यायते पशुभिः ध्यै--कर्मणि मन् । १ गन्धतृणे २

मदनवृक्षे च संज्ञायां कन् । ध्यामक । रोहिषतृणे राजनि० ।

ध्यामन् पु० ध्यै--मनिन् । १ परिमाणे २ तेजसि च उज्ज्वलद०

भावे मनिन् । चिन्तायां न० उणादिकोषः ।

ध्येय त्रि० ध्यै--कर्मणि यत् । ध्यातव्ये “ध्येयः सदा

सवितृमण्डलमध्यवर्त्ती” विष्णुध्यानम् “वेद्यश्च वेदिता चासि
ध्याता ध्येयञ्च यत्परम्” कुमा० ध्यानशब्दे उदा० ।

ध्यै चिन्तने भ्वा० पर० सक० अनिट् । ध्यायति अध्यासीत् ।

दध्यौ “ध्यायतीव लेलायतीव” श्रुतिः । ध्यानशब्दे
उदा० । “ध्यायेत् नित्यं महेशम्” शिवध्यानम् ।

ध्र त्रि० कस्मिंश्चिदुपपदे धृ--मूलविभुजा० क । धारके महीध्रः

कुध्र इत्यादि ।

ध्रज गतौ भ्वा० पर० सक० सेट् । ध्रजति अध्राजीत् अध्र-

जीत् अयमिदिच्च ध्रञ्जति अध्रञ्जीत् । दध्राज दध्रञ्ज ।
ध्रज्यते ध्रञ्ज्यते । “उपध्रजन्तमद्रयो विधन्नित्” ऋ० १ ।
१४९ । १ “घृणा न यो ध्रजसा पत्मना” ऋ० ६ । ३ । ७ ध्रज-
असुन् । “ध्रजसा गतिशीलेन” भा० ।

ध्रजि त्रि० ध्रज--गतौ इन् । गतौ ततः अस्त्यर्थे मतुप् ध्रजिमत्

गतियुक्ते त्रि० । “धुनिर्वात इव ध्रजीमान्” ऋ० १ । ७९ । १
दीर्घश्छा सः । अस्य यवादिगणे पाठश्चिन्त्यप्रयोजनः
माद्युपधत्वाभावेनवस्याप्रसक्तेः ।

ध्रण ध्वाने भ्वा० पर० अक० सेट् । ध्रणति अध्रणीत् अध्राणीत् दध्राण ।

ध्रस कणश आदाने क्य्रा० पर० सक० सेट् । ध्रस्नाति अध्र-

सीत् अध्रासीत् दध्रास । उदित् ध्रसित्वा ध्रस्त्वा । ध्रस्तः ।

ध्र(ध्रा) गतौ निघण्टुः । भ्वा० पर० सक० सेट् ध्रा अनिट् ।

ध्रति ध्राति अध्रीत् अध्रासीत् । दध्र दध्रौ “ध्रयति
ध्रायति” इति तत्र निर्देशात् ध्रे ध्रै इत्यपि धातू गतौ
भ्वा० पर० अनिटौ । तत्र ध्रे ध्रयति ध्रै ध्रायति इति
आर्द्धधातुके ध्रावत् ।

ध्राक्ष काङ्क्षे घोररवे च भ्वा० पर० सक० सेट् इदित् ।

ध्राङ्क्षति अध्राङ्क्षीत् । दध्राङ्क्ष इदित् ध्राङ्क्ष्यते ।
पृष्ठ ३९१६

ध्राक्षा स्त्री ध्राङ्क्ष भावे अङ् यवादिगणसूत्रे ध्राक्षेति

निर्देशात् उपधालोपः । १ गतौ ततोऽस्त्यर्थे मतुप
यबा० न मस्य वः । ध्राक्षामत् गतियुक्ते त्रि० स्त्रियां ङीप्

ध्राख शोधने अलमर्थे च भ्वा० पर० सक० सेट् । ध्राखति

अध्राखीत् दध्राख । ऋदित् चङि अदध्राखत् त ।
अलमर्थः पर्याप्तिश्चेत् तत्र अक० ।

ध्राघ शक्तौ भ्वा० आत्म० अक० सेट् । द्राघते अद्राघिष्ट ।

दध्राघे । ऋदित् चङि अदध्राघत् त ।

ध्राजि त्रि० ध्रज--गतौ बा० भावे इण् । गतौ “ध्राजिरेकस्य

ददशे न रूपम्” ऋ० १ । ६४ । ४४ “ध्राजिर्गतिः” भा०
णिच् कर्त्तरि इन् । १ तृणादेर्वक्रगतिकारके २ वातभेदे
(घुरणा वातास) उणादिकोषः ।

ध्राड विभेदे भ्वा० आत्म० सक० सेट् । ध्राड़ते अध्राडिष्ट ।

दध्राडे । ऋदित् चङि अदध्राडत् त ।

ध्राडि पु० ध्राड--इन् । पुष्पचये उणादिकोषः ।

ध्रिज गतौ भ्वा० पर० सक० सेट् । ध्रेजति अध्रेजीत् दिध्रेज

ध्रु स्थैर्य्यै अक० सर्पणे सक० तु० कु० पर० अनिट् । ध्रुवति

अध्रुवीत् दुध्राव । अयं ञीत् ध्रुतो वर्त्तते । “बुद्धिपूर्वं
ध्रुवन्न त्वा राजकृत्वा पिता खडम्” भट्टिः गतौ “तुतोद-
गदया चारिं तं दुध्रावाद्रिणा कपिः” भट्टिः “न स स्वो
दक्षो वरुण! ध्रुतिः” ऋ० ७ । ८६ । ६ “ध्रुतिः दैवगतिः” भा०

ध्रु गतौ भ्वा० प० अनिट् निघण्टुः । ध्रुवति अध्रौषीत्

दुध्नाव ।

ध्रुव त्रि० कु० ध्रु--अच् । १ स्थिरे २ निश्चिते हेमच० ३ सन्तते

४ शाश्वते ५ तर्के न० मेदि० । ६ गगने न० हेम० । ७ शङ्कौ
८ विष्णौ ९ हरे १० वटे ११ उत्तानपादनृपसुतभेदे पु० मेदि०
१२ वसुभेदे विष्कुम्भादिषु १३ द्वादशे योगे पु० मेदि० ।
१४ स्थाणौ पु० अमरः १५ शरारिखगे पुंस्त्री० त्रिका० ।
१६ ध्रुवके (धुया)ख्याते पदार्थे पु० संगीतदा० । १७
आकाशस्थिते ताराद्वये च पु० । ते च सर्वेषां नक्षत्रादीना-
माधारभूते उत्तरदक्षिणयोः स्थिते सू० सि० उक्ते यथा
“मेरोरुभयतो मध्ये ध्रुवतारे नमःस्थिते । निरक्षदेशसं-
स्थानामुभये क्षितिजाश्रये” मू० । “मेरोरुभयतो दक्षिणो-
त्तराग्रयोराकाशस्थिते ध्रुवतारे दक्षिणोत्तरे क्रमेण मध्य-
आकाशमध्ये भवतः । निरक्षदेशसंस्थानां प्रागुक्तनगर-
स्थितमनुष्याणामुभये दक्षिणोत्तरे ध्रुवतारे क्षितिजाश्रये
तद्भूगर्भक्षितिजवृत्तस्ये भवत इत्यर्थः ।” रङ्गना० । अतएव
तेष्यक्षांगाभावलम्बांशपरमत्वमिति वदन् मेरावक्षांशपर-
मत्वमित्याह “अतो नाक्षोच्छ्रयस्तासु ध्रुवयोः क्षितिज
स्थयोः । नवतिर्लम्बकांशास्तु मेरावक्षांशकास्तथा” मू० ।
“तासूक्तनगरीषु । अत उभये क्षितिजाश्रये इति
कारणात् अक्षोच्छ्रयो ध्रुवौच्च्यं न । तथाच क्षिति-
जाद्ध्रुवौच्च्यमक्षांशा इति तदभावात् तदभाव इति
भावः । तुकारात् तन्नगरीषु ध्रुवयीः क्षितिजस्थयोः
सतीर्लम्बांशा नवतिः शून्याक्षांशोननवतेर्लम्बांशत्वात् ।
खमव्याद्ध्रुवयोः क्षितिजस्य लम्बांशस्वरूपत्वाच्च मेराव-
क्षांशास्तथा नवतिः, ध्रुवस्य परमोच्चत्वात् । यथा
निरक्षदेशेऽक्षांशाभावाल्लम्बांशाः परमास्तथा मेरावक्षां-
शपरमत्वाल्लब्धांशाभाब इत्यर्थसिद्धम् ।” रङ्गनाथः ।
“निरक्षदेशक्षितिमण्डलोपगौ ध्रुवौ नरः पश्यति दक्षि-
णोत्तरौ । तदाश्रितं खे जलवन्त्रवत् तथा भ्रमद्भचक्रं
निजमस्तकोपरि । उदग्दिशं याति यथा यथा नरस्तथा
तथा स्यान्नतमृक्षमण्डलम् । उदग् ध्रुवं पश्यति चोन्नतं
क्षितेस्तदन्तरे योजनजाः पलांशकाः । योजनसंख्याभां-
शैर्गुणिता स्वपरिधिहृता भवन्त्यंशाः । भूमौ कक्षायां
वा भागेभ्यो योजनानि च व्यस्तम् । सौम्यं ध्रुवं मेरु-
गताः खमध्ये याम्यं च दैत्या निजमस्तकोर्द्ध्वे । सष्या-
पसव्यं भ्रमदृक्षचक्रं विलोकयन्ति क्षितिजप्रसक्तम्”
सि० शि० । विष्णुवरेण उत्तानपादनृपपुत्रस्यैव तदधिष्ठा-
तृत्वं तथाभूतपदलाभकथा च काशीख०
“विष्णुरुवाच “अयि! बाल! विशालाक्ष! ध्रुव! ध्रुवमते!ऽ-
नघ! । परिज्ञातो मया सम्यक् तव हृत्स्थो मनोरथः ।
अन्नाद् भवन्ति भूतानि वृष्टेरन्नसमुद्भषः । तद्वृष्टेः
कारणं सूर्यः सूर्य्याधारो ध्रुवो विभो! । ज्योतिश्चक्रस्य
सर्वस्य ग्रहर्क्षादेः समन्ततः । गगने भ्रमगो नित्यं
त्वमाधारो भविष्यसि । मेधीभूतः स वै सर्वान् वायुपाशै-
र्नियन्त्रितान् । आकल्पं तत्पदे तिष्ठन् भ्वामयन् ज्यो-
तिषाङ्गणान् । आराध्य श्रीमहादेवं पुरा पदमिदं
मया । आसादि यत्तदेतत्ते तपसा प्रतिपादितम् । केचि-
च्चतुर्युगं यावत् केचिन्मन्वन्तरं ध्रुव! । तिष्ठति त्वन्तु-
वै कल्पं पदमेतत् प्रशास्यसि । मनुनापि न यत् प्रापि
किमन्यैर्मानवैर्ध्रुव! । तत्पदं विहितं वत्स! शक्राद्यै-
रपि दुर्लमम् । अन्यान् वरान् प्रयच्छामि स्तवेनानेन
तोषितः । सुनीतिरपि ते माता त्वत्समीपे भविष्यति”
भाग० ५ । २३ अ० शनिलोकपर्यन्तवर्णनान्ते
“अथ तस्मात् परतस्त्रयोदश लक्षयोजनान्तरतोयत्तद्विष्णोः
पृष्ठ ३९१७
परमं पदमभिवन्दन्ति । यत्र महाभागवतो ध्रुव
औत्तानपादिरग्निनेत्रेण प्रजापतिना कश्यपेन धर्मेण च
समकालयुग्भिः । सहबहुमानं दक्षिणतः क्रियमाण
इदानीमपि कल्पजीविनामाजीव्य उपास्ते तस्य महानु-
भाव उपवर्णितः । स हि सर्वेषां ज्योतिर्गणानां ग्रह-
नक्षत्रादीनाम् अनिमिषेणाव्यक्तरंहसा भगवता कालेन
भ्राम्यमाणानां स्थाणुरिवावष्टम्भ ईश्वरेण विहितः शश्व-
दवभासते । यथा मेधीस्तम्भ आक्रमणपशवः संयोजिता
स्त्रिभिः सवनैर्यथा स्थानमण्डलानि चरन्ति । एवं
भगणा ग्रहादय एतस्मिन्नन्तर्बहिर्योगेन कालचक्र
आयोजिता ध्रुवमेवालम्ब्य वायुनोदीर्य्यमाणा आकल्पान्तं
परितः क्रामन्ति । नभसि यथा मेघाः श्येनादयो वायु-
वशाः कर्मसारथयः परिवर्त्तन्ते । एवं ज्योतिर्गणाः
प्रकृतिपुरुषसंयोगानुगृहीताः कर्मनिर्मितगतयो भुवि न
पतन्ति ।” “सर्वे ध्रुवे निबद्धास्ते निबद्धा वातरश्मिभिः ।
एते वै भ्राम्यमाणास्ते यथायोगं वहन्ति वै । वायव्या-
भिरदृश्याभिः प्रबद्धा वातरश्मिभिः । परिभ्रमन्ति
तद्बद्धाश्चन्द्रसूर्यग्रहादिवि । यावत्तमनुपर्येति ध्रुवं वै ज्यो-
तिषाङ्गणः । यथा नद्युदके नौस्तु उदकेन सहोह्यते ।
तथा देव गृहाणि स्युरुह्यन्ते वातरंहसा । तस्माद्यानि
प्रगृह्यन्ते व्योम्नि देवग्रहा इति । यावन्त्यश्चैव ताराः
स्युस्तावन्त्योऽस्य मरीचयः । सर्वा ध्रुवनिबद्धास्ता भ्रमन्त्यो
भ्रामयन्ति च । तैलपीड़ं यथा चक्रं भ्राम्यते भ्राम-
यन्ति वै । तथा भ्रमन्ति ज्योतींषि वातबद्धानि सर्वशः ।
अलातचक्रवद्यान्ति वातचक्रेरितानि तु । यस्मात्
प्रवहते तानि प्रवहस्तेन स स्मृतः । एवं ध्रुवे नियु-
क्तोऽसौ भ्रमते ज्योतिषाङ्गणः । एष तारामयः प्रोक्तः
शिशुमारे ध्रुवो दिवि” मत्स्यपु० १२६ अ०
वसुभेदश्च “धरो ध्रुवश्च सोमश्च अहश्चैवानिलोऽनलः ।
प्रत्यूषश्च प्रभासश्च वसवोऽष्टाविति स्मृताः” भा० आ०
६६ अ० । औत्तानपादिकथा “प्रियव्रतोत्तानपादौ मनोः
स्वायम्भुवस्य तु । द्वौ पुत्रौ सुमहावीर्य्यौ धर्मज्ञौ
कथितौ तव । तयोरुत्तानपादस्य सुरुच्यामुत्तमः सुतः ।
अभीष्टायामभूद्व्रह्मन्! पितुरत्यन्तवल्लमः । सुनीतिर्नाम
या राज्ञस्तस्यामून्महिषी द्विज! । स नृपीऽप्रीतिमां-
स्तस्यां तस्याश्चाभूद्ध्रुवः सुतः” विष्णुपु० ११ अ० ।
गानाङ्गे “ध्रुवाहि नाट्यस्य प्राणाः” तच्छास्त्रम् ।
१८ रोमावर्त्तभेदे “आवर्त्तसाम्यादावर्त्तो रोमसंस्थानमङ्गि-
नाम्” ते च दशधा “द्वावुरस्यौ शिरस्यौ द्वौ द्वौ च रन्ध्रो
परन्ध्रयोः । एको भाले ललाटे च दशावर्त्ता ध्रुवाः
स्मृताः” शब्दार्थचि० “उग्रः पूर्वमथान्तको ध्रुवगणस्त्रीण्यु-
त्तराणि स्वभूः ज्यो० उक्ते १९ उत्तरात्रयरोहिणीषु
नक्षत्रेषु “मित्र ध्रुवक्षिप्रभे” मु० चि० । “ध्रुवगुरुकर-
मूलापौष्णभान्यर्कवारे” ज्यो० त० । २० नासाग्रभागे
“अरुन्धती भवेज्जिह्वा ध्रुवो नासाग्रमुच्यते । विष्णोः
पदानि भ्रूमध्यं नेत्रयोर्मातृमण्डलम्” काशीख० ४१ अ०
“अरुन्धतीं ध्रुवञ्चैव विष्णोस्त्रीणि पदानि च । आसन्न-
मृत्युर्नोपश्येत् चतुर्थं मातृमण्डलम्” तत्रैव । तत्र
वितर्क उत्प्रेक्षा तत्र “ध्रुवं स नीलोत्पलपत्र धारया
शमीलतां छेत्तुमृषिर्व्यवस्यति” शकु० । स्थिरे “ध्रुवमपाये”
पा० । “अपाये यदुदासीनं चलं वा यदि वाऽचलम् ।
ध्रुवमेवातदावेशात्” हरिका० निश्चिते “यो ध्रुवाणि
परित्यज्य अध्रुवाणि विचिन्तयेत् । ध्रुवाणि तस्य
नश्यन्ति अध्रुवं नष्टमेव च” हितो० । विष्णौ “व्यवसायो
व्यवस्थानः संस्थानः स्थानदो ध्रुवः” विष्णुस० ।
२१ यज्ञिये ग्रहपात्रभेदे पु० । “ततो ग्रहग्रहणमाध्रुवात्”
कात्या० श्रौ० ७ । ५ । १७ “आध्रुवग्रहग्रहणात्” कर्कः ।
२२ ग्रहनक्षत्राद्यानयनोपयोगिनि अङ्कभेदे तत्र नक्षत्रध्रुवः
सू० सि० उक्तः खगोलशब्दे २४२३ पृ० दर्शितः । संक्षेप-
तस्तु सि० शि० प्रमिताक्षरोक्तः २४२५ पृ० दर्शितः ।
ग्रहध्रुवानयनन्तु “कल्पजचक्रहतास्तु गताव्दाः
कल्पसमाविहृता भगणाद्याः । स्युध्रुर्वका दिनकृद्भगणान्ते
पानमृदूच्चचलोच्चखगानाम्” सू० सि० । अत्र स्वार्थे क ।
ध्रुवनक्षत्रे “हुत्वोत्थायोपनिष्क्रम्य ध्रुवं दर्शयति” गो० सू०
“ध्रुवं नक्षत्रविशेषं दर्शयति पतिः” सं० त० रघु० । “शरत्प्रस-
सन्नैर्ज्योतिर्भिः विभावर्य इव ध्रुवम्” रघुः । “स्फुटतर-
मुपरिष्टादल्पमूर्त्तेर्ध्रुवस्य स्फुरति सुरमुनीनां मण्डलं
व्यस्तमेतत्” माघः । २३ आवश्यके धृतिहोमशब्दे दर्शित
गोभिलवाक्ये “ध्रुवा आहुतीर्जुहोति” । “अष्टका-
माघ्यभ्युदयास्तीर्थपात्रोपत्तयः । पितॄणामतिरेकोऽयं
मासिकान्नात् ध्रुवः स्मृतः” देवीपु० “मासिकान्नात्
अमावस्याश्राद्धादतिरेकः अष्टकादिश्राद्धगणो ध्रुव
आवश्यकः” श्रा० त० रघु० । आवश्यकत्वञ्च अवश्यकर्तव्यत्वं
तेनाकरणे प्रत्यवायजनकत्वात् नित्यत्वमिति फलितम् ।
सन्तते निश्चिते “जातस्य हि ध्रुबोमृत्युर्ध्रुवं जन्म मृतस्य
च” गीता “यदावगच्छेदायत्यामाधिक्यं ध्रुवमात्मनः” मनुः
पृष्ठ ३९१८
स्थिरे “ध्रुवोऽसि पृथिवीं दृंह ध्रुवक्षिदसि” यजु० ५ ।
१३ “ध्रुवे स्थिरे यज्ञे क्षीयति निवसति इति ध्रुवक्षित्”
वेददी० २४ सोमभेदे “उपयामगृहीतोऽसि ध्रुवोऽसि
ध्रुवक्षितिर्ध्रुवाणां ध्रुवतमोऽच्युतानामच्युतक्षित्तमः”
यजु० ७ । २५ “हे सोम! त्वमुपयामेन पात्रेण गृही-
तोऽसि ध्रुवनामकोऽसि कीदृशस्त्वम् ध्रुवा स्थिरा क्षि-
तिर्निवासो यस्य स ध्रुवक्षितिः” वेददी० । २५ शकुन्यादि
करश्चतुष्के न० “ध्रुवाणि शकुनिर्नागं तृतीयं च चतुष्वदम् ।
किंस्तुघ्नं च चतुर्द्दश्याः कृष्णायाश्चापरार्द्धतः” सू० सि० ।

ध्रुवक पु० ध्रुव--क्वुन् स्वार्थे को वा । १ ध्रुवशब्दार्थे

२ गीताङ्गविशेषे स चोक्तः सङ्गीतदामोदरे “उत्तमः
षट्पदः प्रोक्तो मध्यमः पञ्चमः स्मृतः । कनिष्ठश्च
चतुर्भिः स्याद् ध्रुवकोऽयं मयोदितः । उक्तं द्विखण्डमुद्-
ग्राहे द्विखण्डे ध्रुवके मतम् । ततो द्विखण्डमाभोगे
तालमानरसैः सहः । आभोगे कविनाम स्यात् तथा
नायकनाम च । उद्ग्राहं प्रथमं गीत्वा ध्रुवं गायेत्
ततःपरम् । ततोऽन्तरा ध्रुवस्तस्मादाभोगध्रुवकौ ततः ।
उद्ग्राहः प्रथमः पादः कथितः पूर्वसूरिभिः । गीत्वा
पूर्वपदं न्यासो यत्र स ध्रुवको मतः । यत्रैव कविनाम
स्यात् स आभोग इतीरितः । ध्नुवकादिषु सर्वेषु
भवेदेवं विधिः क्रमः” । स तु षोड़शधा यथा “जयन्तो
शेखरोत्साहौ मधुरो निर्मलस्तथा । कुन्तलः
कमलश्चैव सानन्दश्चन्द्रशेखरः । सुखदः कुमुदो जायी
कन्दर्पो जयमण्डलः । तिलकोललितश्चेति ध्रुवकाः
षोड़श स्मृताः । एकादशाक्षरपदादेकैकाक्षरवर्द्धितैः ।
खण्डैर्ध्रुवाः षोड़श स्युः षड्विंशत्यक्षरावधि । द्विगु-
णैरंक्षरैरेव पदमेकमिहेष्यते । उद्ग्राहध्रुवकामो-
गैरित्थं षट्पदनिर्णयः । पञ्चपादे तु ध्रुवके पदेनैकेन
तद्ध्रुवः । चतुष्पादे तु ध्रुवके पृथङ् नास्त्येव
तद्ध्रुवः” इति सङ्गीतदा० । ध्रुवशब्दार्थे ध्रुवशब्ददर्शिते
ग्रहाणां स्पष्टतोपयोगिनि ३ अङ्कभेदे खगोलशब्दे २४२३ ।
२५ पृ० दृश्यम् ध्रुवशब्दे सू० सि० वाक्यमुक्तम् । स्त्रियां
क्षिपका० कापि न अत इत्त्वम् । ततः पिच्छा० अस्त्यर्थे
इलच् । ध्रुवकिल तद्युक्ते त्रि० । ततोऽपत्यादौ स्त्रीभ्यो-
टकं वाधित्वा बाह्वा० इञ् । ध्रौवकि ध्रुवकापत्ये पुंस्त्री
ततः चतुरर्य्यां प्रेक्ष्या० इनि । ध्रुवकिन् ध्रुवकानिर्वृत्तादौ
त्रि० ।

ध्रुवकेतु पु० केतुभेदे केतुशब्दे दृश्यम्

“ध्रुवकेतुर्नियतगति प्रमाणाकृतिर्भवति विष्वक्” वृ० वं० ११ अ० ।

ध्रुवरत्ना स्त्री कुमारानुचरमातृभेदे “जयावती भालतिका

ध्रुवरत्ना भयङ्करी” भा० श० ४७ अ० कुमारानुचरमातृ-
कोक्तौ ।

ध्रुवलोक पु० ध्रुवाधिष्ठितोलोकः । सत्यलोकान्तर्गते ध्रुवस्थानभेदे ।

ध्रुवसन्धि पु० कुशवंश्ये हिरण्यनाभस्य पौत्रे “पुष्यो

हिरण्यनाभस्य ध्रुवसन्धिस्ततोऽभवत्” भाम० ९ । १२ । ५

ध्रुवस् त्रि० कु० ध्रु--असुन् । ध्रुवनिवासे “यत्सेदथु ध्रु-

वसे न योनिम्” ऋ० ७ । ७० । १ “ध्रुवसे ध्रुवाय निवा-
वाय” भा० ।

ध्रुवा स्त्री कु० ध्रु--अच् । १ यज्ञपात्रभेदे “साधारण्यान्न

ध्रुवायां स्यात्” जै० ३ । ५ । ६ सू० । “उपांशुयाजार्थं
जुहूतो यत् ध्रुवायां शिष्टं तच्छेषभूतम्” भा०
“अवत्तत्वाच्च जुह्वां तस्य च होमसंयोगात्” ७ जै० “ध्रुवायां
तस्य नास्ति शेषः” भाष्यम् । ध्रुवा च जुहूतो
भिन्ना “तस्येयमेव जुहूरियमुपभृदात्मैव ध्रुवा आत्मन
एवेमानि सर्वाण्यङ्गानि प्रभवन्ति तस्मादु ध्रुवाया
एव सर्वो यज्ञः प्रभवति । प्राण एव स्रुवः । सोऽयं
प्राणः सर्वाण्यङ्गान्यनुसञ्चरति तस्मादुस्रवः सर्वा अनु
स्रुचः सञ्चरति । तस्यासावेव द्यौर्जुहूः । अयेदमन्त-
रिक्षमुपभृदियमेव ध्रुवा तद्वा अस्या एवेमे सर्वे लोकाः
प्रभवन्ति तस्मादु ध्रुवाया एव सर्वो यज्ञः प्रभवति”
शत० ब्रा० १ । ३ । २ । २ “अथ जुहूपभृद्ध्रुवास्वेतस्याज्यस्य
स्रुवेण ग्रहणं विधित्सुस्तत्समुदायस्य पुरुषावयवकल्प-
नया स्तुत्यर्थं तत्साध्यस्य यज्ञस्य पुरुषतादात्म्यमाह
तादृगवयवकॢप्तिमभिनयेन दर्शयति । या जुहूः सेयमर्य
दक्षिणो बाहुः योपभृत् सेयं वामबाहुः ध्रुःवा आत्मा
देहमध्वः । तस्मादु ध्रुवास्यस्याज्यस्य सर्वयागसाधा-
रण्यम्” मा० । अत्र जुहूतो ध्रुवाया भिन्नत्वं स्पष्ट-
मवगम्यते “ध्रुवालक्षणमाह आपस्तम्बः “स्वादिरः
स्रुवः पर्णमयी जुहूराश्वत्थ्युपभृछैकङ्कती ध्रुवा” मानवे
“खादिरं स्फ्यस्रुवं पालाशी जुहूराश्वत्थ्युपभृद्वैकङ्कती
ध्रुवा” । काठके अरत्निमात्री स्रुगग्निहोत्रहवणी
पालाशी सामान्यतया निर्वपणमितरासाम् बाहुमात्राः
स्रुग्दण्डाः प्रहस्तमात्राणि प्रसवनान्यर्थपरिमाणानि
पात्राणि पालाशी जुहूराश्वत्थ्युपभृद्वैकङ्कती ध्रुवा
शमीभूर्जमथ्यो वा त्वक्तोबिला हंसमुख्यो भवन्तीति”
कान्या० श्रौ० १ । ३ । ३५ कर्कस्तु “ध्रुवा तु वैकङ्कती भवति
वैकङ्कतानि पत्राणीत्यनेनैव अपवादाभावात् होमसा-
पृष्ठ ३९१९
वनत्वाच्च तया हि समिष्टयजुर्हूयते “तिष्ठन् ध्रुवया
समिष्टयजुर्जुहोतीति” शाखान्तरश्रुतेः अवएव मैत्र-
कठापस्तम्बसूत्रेषु “वैकङ्कती ध्रुवेति” पठ्यते तेषां हि
वैकङ्कतानि पत्राणीति सामान्यवचनं नास्ति” कर्क० ।
अतः कोषान्तरे अस्य जुह्वर्थकताकथनं प्रामादिकमेव ।
३ मूर्वायां ४ आढ्यां ५ शालपर्ण्यां (धुया) ख्याते ६
गीतिभेदे च मेदि० । ७ साध्व्यां स्त्रियां शब्दर० ।

ध्रुवावर्त्त पु० ध्रुव संज्ञक आवर्त्तः रोमसंस्थानभेदः । ध्रुवश-

ब्दोक्तः । अश्वानां रोमसंस्थानभेदे तस्य स्थानविशेषेण
फलं वृ० सं० ६६ अ० उक्तं यथा
“अश्रुपात हनुगण्डहृद्गल प्रोथ शङ्खकटिवस्ति जानुनि ।
मुष्कनाभिककुदे तथा गुदे सव्यकुक्षिचरणेषु चाशुभाः ।
ये प्रपाणगलकर्णसंस्थिताः पृष्ठमध्यनयनोपरिस्थिताः ।
ओष्ठसक्थिभुजकुक्षिपार्श्वगास्ते ललाटसहिताः सुशो-
भनाः । तेषां प्रपाण एको ललाटकेशेषु च ध्रुवावर्त्तः ।
रन्ध्रोपरन्ध्रमूर्धनि वक्षसि चेति स्मृतौ द्वौ द्वौ” ।

ध्रुवाश्व पु० वृहदश्वभेदे मत्स्यपु० ।

ध्रुवि त्रि० कु० ध्रु--इन् । १ ध्रुवेस्थिरे “शं नः पर्वताः ध्रुवयो भवन्तु” ऋ० । ३५ । ८

ध्रेक उत्साहे शब्दे च भ्वा० आत्म० अक० सेट् । ध्रेकते अध्रे-

किष्ट । दिध्रेके ऋदित् चङि अदिध्रेकत् त ।

ध्रै तृप्तौ भ्वा० पर० अक० अनिट् । ध्रायति अध्रासीत् । दध्रौ

गतौ तु ध्रधातौ दृश्यः ।

ध्रौव त्रि० ध्रुवायां गृहीतम् अण् । ध्रुवाया गृहीते आज्यादौ

“तस्मात् साधारणं धौवमाज्यमिति “यज्ञाय गृह्यते
यत् ध्रुवायामाज्यम्” श्रुतेः जै० ३ । ५ । ६ सू० भाष्यम् ।
“क्व भूतलं क्व च ध्रौवं स्थानं यत् प्राप्तवान् ध्रुवः”
मार्क० पु० । ०२ आह्वायाम् ३ ध्रुवकायां स्त्री शब्दार्थचि० ।

ध्रौव्य न० ध्रुवस्य मावः ष्यञ् । १ स्थिरत्वे “ध्रौव्यगत्यर्थेत्यादि”

मुग्ध० । “तत्कारणयोरविद्याकामयोश्चलत्वात् कृतक्षय-
ध्रौव्योपपत्तिः” वृ० उ० भा० । स्वार्थे व्राह्म० ष्यञ् । २ स्थिरे
त्रि० “ध्रौव्ये दशरात्रावरार्द्धे” सांख्यश्रौ० २ । १६ । १ ।
ध्रुवाय हितम् ष्यञ् । ३ ध्रुवस्थानप्रापके त्रि० “स्वर्ग्यं
ध्रौव्यं सौमनस्यं प्रशस्यमघमर्षणम् । श्रुत्वैतत् (ध्रुव-
चरितम्) प्रयतोऽभीक्ष्णमच्युतप्रियचेष्टितम्” भा०
४ । १२ । ३७ ।

ध्वंस पु० ध्वन्स--भावे घञ् । विनाशे अभावभेदे । “जन्याभावत्वं

ध्वंसत्वमिति” मुक्तावली । जन्यत्वस्य प्रायण दुर्ज्ञेयत्वात्
अभावत्वव्याप्यः अखण्डोपाधिरिति नव्यनैयायिकाः ।
सत्कार्य्यवादिमते तिरोभाव एव ध्वंस इति भेदः । “ध्रुवं
ध्वंसो भावी जलनिधिमहीशैलसरिताम्” “तन्तूनां
पक्ष्मणां लोम्नां स्याद् ध्वंसश्च विनाश्रयात्” कामन्दकी०

ध्वंसकला अव्य० ध्वंसं कलयति कलि--डा ऊर्य्या० ।

हिंसायां गणर० टी० । ध्वंसकलाकृत्य हिंसित्वेत्यर्थः ।

ध्वंसन न० ध्वन्स--भावे ल्युट् । १ नाशे ध्वन्स--णिच्--ल्यु ।

२ ध्वंसकारके त्रि० “माहेन्द्रमिव शत्रूणां ध्वंसनं शरवृ-
ष्टिभिः” भा० उ० १५६ भावे ल्युट् । ३ ध्वंसकरणे
“कंसध्वंसनधूमकेतुरवतु त्वां देवकीनन्दनः” गीतगो० ।
ध्वन्स--भावे ल्युट् । ४ भ्रंसे ५ अधःपतने च ।

ध्वंसिन् त्रि० ध्वन्स--णिनि । नाशप्रतियोगिनि “जालान्तरगते

सूर्य्यकरे ध्वंसी विलोक्यते । त्रसरेणुश्च स ज्ञेयः” वैद्य-
कप० ध्वंसीति त्रसरेणुविशेषणम् अतः शब्दकल्प० अस्य
त्रसरेणुपरिमाणार्थतोक्तिः प्रामादिकी । ध्वन्स--णिच्-
णिनि । नाशकारके त्रि० । “क्रतुध्वंसी वृषध्वजः” अमरः ।

ध्वज गतौ भ्वा० पर० सक० सेट् । ध्वजति अध्वजीत् अध्वाजीत्

दध्वाज अयमिदिदपि । धञ्जति अध्वञ्जीत् दध्वञ्ज
ध्वञ्ज्यते ।

ध्वज पु० ध्वज--अच् । १ शौण्डिके (शुण्डिकोपकरणभेदे)

२ मेढ्रे ३ चिह्ने ४ खट्वाङ्गे मेदि० । ५ गर्वे ६ दर्पे च
शब्दर० । ७ पूर्वदिक्स्थे गृहे हेमच० । ८ चतुष्कोणकारे
वंशदण्डोपरिस्थे वस्त्रखण्डभेदे च विधानपा० ९
पताकायां पु० न० अमरः । उक्तोभयवस्त्रयुक्ते १० दण्डभेदे च
सामान्यतोऽस्य निर्माणप्रकारः युक्तिकल्पतरावुक्तो यथा
“सेनाचिह्नं क्षितीशानां दण्डो ध्वज इति स्मृतः ।
सपताको निष्पताकः स ज्ञेयो द्विबिधो बुधैः । पताका
सार्द्धदैर्घ्येण लम्बा तु पृथिवीभुजाम् । सपताकध्वज-
स्याग्रे तदा हस्तं परिन्यसेत् । जयहस्तोध्वजोनाम नैनं
सामान्यमर्हति । वंशोऽथ जाङ्गलः शालः पालाशश्चा-
म्पकस्तथा । नैपो नैम्बोऽथ वा दण्डस्तथा वैराजवारणः ।
अबद्धादिकसंज्ञानां वर्णरूपप्रकाशितः । सर्षेपाञ्चैव
वंशस्तु दण्डः सम्पत्तिकारकः । अ क च ट त प
यशाः । प्रतापाय पताकास्तु अष्टावेव प्रकाशिताः ।
पञ्चहस्तायता हस्तपरिणाहा जयाभिधाः । जया ५
च विजया ६ भीमा ७ चपला ८ वैजयन्तिका ९ । दीर्घा १०
विशाला ११ लीला १२ च ज्ञेया हस्तैकवृद्धितः ।
परिणाहे पादवृद्धिरथ वर्णस्य निर्णयः । रक्तः श्वेतोऽरुणः
तीतश्चित्रोनीलोऽथ कर्तुरः । कृष्णश्चेति पताकानां वर्णरूपः
पृष्ठ ३९२०
प्रकाशितः । अबद्धादिकसंज्ञानामष्टानामष्टकत्रयम् ।
कलसोदर्पणश्चन्द्रः पद्मं कोषो यथाक्रमम् । ब्रह्मक्षत्रिय
विटशूद्रजातीनां संप्रकाशितः । गजादियुक्ता मा
प्रोक्ता जयन्ती सर्वमङ्गला । गजो हंसादिसंयुक्तो राज्ञां
सैवाष्टमङ्गला । हंसः केकी शुकश्चाषो व्रह्मादीनां
यथाक्रमम् । चामरादिसमायुक्ता सा ज्ञेया सर्वबु-
द्धिदा । चामरश्चाषपक्ष्माणि चित्रवस्त्रं तथा सितम् ।
चतुर्णां वेदनयनपक्षेन्दुगणितक्रमात् । तदग्रे यदि
विन्यस्तं पताका द्वितीया भवेत् । इयं हि सर्वभोगदा
षताका चक्रवर्त्तिनः । तद्वर्णः पूर्ववज्ज्ञेयः प्रमाणं
विधिबोधितम् । कनकं रजतं ताम्रं नानाधातुमयं
क्रमात् । कुम्भादिकं प्रशंसन्ति पताकाग्रे महीभुजाम् ।
तत्रापि रत्नविन्यासो विधेयो राजतक्रमः । चतुर्भि-
र्मकरास्याद्यैर्युक्ता चेत् सर्वसिद्धिदा । तदा श्रेयस्करी-
नाम सा पताका विजायते । भकरोऽथ गजः सिंहो
व्याघ्रो वाजी मृगः शुकः । शुकश्चेति समुद्दिष्टमादि-
त्यादिदशाभुजाम् । इति प्रोक्तः पताकानां निर्णयः
पृथिवीभुजाम्” ।
देवादिप्रतिष्ठाङ्गमण्डपान्तर्गतध्वजमहाध्वजयोर्ल-
क्षणादिकं कुण्डार्के उक्तं यथा “ध्वजान् द्विहस्ताय-
तिकांश्च पञ्चहस्तान् सपीतारुणकृष्णनीलान् । श्वेतासि-
तश्वेतसितान् दिगीशवाहान् वहेत् दिक्करवंशशीर्षे”
सू० । “ध्वजान् द्विहस्तमितायामान् पञ्चहस्तदीर्घान्
पीतारुणकृष्णनीलश्वेतकृणश्वेतश्वेतान् गैरिकादिलिखि-
तदिक्प्रालवाहनान् दशहस्तवंशमस्तके योजितान् “हस्त-
द्वयनिखातांश्च ध्वजांस्ता अपि पूर्वतः” इति वक्ष्य-
माणत्वात् । प्राच्यादितः वहेद्धारयेदिति” व्याख्या ।
प्रतिष्ठासारसंग्रहे “पोतरक्तादिवर्णाश्च पञ्चहस्ताध्वजाः
स्मृताः । द्विपञ्चहर्स्तर्दण्डस्ते वंशजैः संयुता मताः”
दति । क्रियासारे “मातङ्गवस्तमहिषान् सिंहमत्स्यैण
वाजिनः । वृषमं च यथान्याय ध्वजमध्ये क्रमाल्लिखेत्”
पञ्चमांशं निखनेदिति । अकरणे दोषः पञ्चरात्रे
“चिन्तयन्त्यसुरश्रेष्ठा ध्वजहीनं सुरालयम् । ध्वजेन रहितं
व्रह्ममण्डपं तु वृथा भवेत् । पूजाय गादिकं सर्वं
जपाद्य यत्कृतं बुधैरिति” ध्वजारोपणफलं तत्रैव
“यं कृत्वा पुरुषः सम्यक् समस्तफलमाप्नुयादिति” । अथ
पताकानिवेशनं महाध्वजानिवेशनं च नवमकुण्डपताका
निवेशन तत्रीक्तं यथा लोकेशवर्णस्त्रयुताः पताकाः
शैलेन्दुदैर्घ्यायतिकाश्च मध्ये । चित्रं ध्वजं दिक्करदैर्घ्य-
वंशत्रिदोस्ततं प्रान्तगकिङ्किणीकम् । श्वेतां च नवमी
पूर्वेशानयोर्मध्यतो बुधः । विन्यसेत्तु पताकां च ध्वजांस्ता
अपि पूर्वतः” सू० “लोकेशानां लोकपालानां ये वर्णाः
पीतादयः पूर्वश्लोकोक्ताः गैरिकादिलिखितवज्रशक्ति-
दण्डखडगपाशाङ्कुशगदात्रिशूलानि तैर्युताः सप्तहस्त-
दीर्घा एकहस्तविस्तृताः पताका दशहस्तवंशशीर्षगाः ।
चित्रं ध्वजं त्रिहस्तविस्तृतं प्रान्ते वर्त्तमानकिङ्किणी-
कं शीर्षे सचामरं दशहस्तदैर्घ्य वंशञ्च तादृशं तं
मध्ये विन्यसेत् । पूर्वादितः पताकाश्च विन्यसेदित्युत्तर-
श्लोकेनान्वयः । नवमीं पताकां पूर्वशानयोर्मध्ये श्वेतां
तादृशीमेवाचार्य्यकुण्डे विन्यमेत् ध्वजांस्ता अपि
पताकाश्च पूर्वादिक्रमेण भूमौ पञ्चांशरोपणेन विन्यसेदिति” ।
“हयशीर्षपञ्चरात्रम् । “ध्वजवंशः प्रकर्त्तव्यो निर्व्रणः
सगुणो दृढ़ः । तदूर्द्ध्वं तान्त्रजं चक्रं सूक्ष्मं कुर्य्याद्-
द्विजोत्तमः । प्रासादस्य च विस्तारो मानं दण्डस्य
कीर्त्तितम् । ध्वजयष्टिर्देवगृहे ऐशान्यां दिशि देशिकैः ।
स्थापनीयाथ वायव्ये साम्प्रतं ध्वजमुच्यते । पट्टकार्पास-
क्षौमाद्यैर्ध्वजं कुर्य्यात् सुशोभनम् । एकवर्णं विचित्रं
वा घण्टाचामरभूषितम् । किङ्किणीजालकोपेतं
बर्हिपत्रविभूषितम् । शुक्लादिवर्णैर्विप्रादिक्रमाद्वा
कारयेत् ध्वजम् । दण्डाग्राद्धरणीं यावत् हस्तैकं
विस्तरेण तु । महाध्वजन्तु विख्यातं सर्वकामप्रदं
शुभम् । ध्वतेन रहितो विप्र! प्रासादस्तु वृथा भवेत् ।
पूजाहोमादिकं सर्वं जपाद्यं यत् कृतं नरैः” ।
शिवसर्वस्वे “देवेभ्यश्च गृहं दद्याद्वाहनैरुपशोभितम् ।
तुरङ्गमेण सूर्य्यस्य, हरस्य वृषचिह्नितम् । विष्णवे
गरुड़ाङ्कन्तु, दुर्गायै सिंहचिह्नितम् । कार्य्यं ध्वजपताकाश्च
अन्यथा न कथञ्चन” । वह्नि० पु० ५९ अ० । “प्रासादस्य
तु विस्तारो मानं दण्डस्य कीर्त्तितम् । शिखरार्द्धेन वा
कुर्य्यात् तृतीयार्द्धेन वा पुनः । द्वारशाखाद्विगुणितं
दण्डम् वा परिकल्पयेत् । ध्वजयष्टिर्देवगृहे ऐशान्यां
वायबेऽथवा । नानावर्णं ध्वजं कुर्य्याद्विचित्रं चैकवर्ण-
कम् । घण्टाचामरकिङ्किण्या मूषितं पापनाशनम् ।
दण्डाग्राद्धरणीं यावत् हस्तैकं विस्तरेण तु” । इन्द्र-
ध्वजशबदे तल्लक्षणं दृश्यम् । हेमचन्द्रे पूर्वदिग्गृहे
इत्यर्थोक्तिः ध्वजसंज्ञकस्यायस्य पर्वदिकस्थितत्वाभिप्रा-
येण” गृहशब्दे २६३५ पृ० “ध्वजी थमो हरिः श्व
पृष्ठ ३९२१
गौः खरेभौ वायसोऽष्टमः । पूर्वादीनान्तु काष्ठानां
ध्वजादीनामवस्थितिः इत्युक्तेः ध्वजरूपायस्य पूर्व-
दिक् स्थत्वस्य कीर्त्तनात् । वस्तुतः ध्वजशब्द आयविशेषार्थे
एव परिभाषितो न तु पूर्वदिग्गृहे । तत्र शुण्डिकोप-
करणे “दशशूनासमं चक्रं दशचक्रसमो ध्वजः” मनुः ।
“शूनादिशब्दैस्तद्वानुपलक्ष्यते दशशूनावत्सु यावान्
दोषस्तावानेकस्मिन् चक्रवति तैलिके । यावान् दशसु तैलिकेषु
दोषः तावानेकध्वजवति शौण्डिके” कुल्लू० । चिह्ने
“तं बव्रे वाहनं विष्णुर्गरुत्त्वन्तं महाबलम् । ध्वजं
चक्रे च भगवानुपरि स्थास्यतीति तम्” भा० आ० ३३ अ० ।
“श्येनो वज्रं मृगश्छागो नन्द्यावर्तो घटोऽपि च ।
कूर्मो नीलोत्पलं शङ्खःफणी सिंहोऽर्हता ध्वजाः” हेमच० ।
“शरेण शक्रस्य महाशनिध्वजम्” रघुः “ब्रह्महा द्वा-
दशसमाः कुटीं कृत्वा वने वसेत् । भैक्षाश्यात्मविशु-
द्ध्यर्थं कृत्वा शवशिरो ध्वजम्” मनुः । वृषध्वजः
मकरध्वजः धूमध्वज इत्यादि ततो वाह्वा० इञ् । ध्वाजि
तत्सम्बन्धिनि त्रि० ।

ध्वजगृह पु० ध्वजाययुक्तं गृहं शा० त० । ध्वजरूपाययुक्ते गृहे

“ययौ स्वमेव भवनं यत्र ध्वजगृहं महत्” हरिवं० १७५ अ०

ध्वजग्रीव पु० ध्वज इव ग्रीवास्य । राक्षसभेदे रामा० सु० १२३ स०

ध्वजद्रुम पुः ध्वज इव दीर्घकाण्डो द्रुमः । तालवृक्षे राजनि०

ध्वजवृक्षादयोऽप्यत्र ।

ध्वजप्रहरण पु० ध्वजं प्रहरति प्र + हृ--र्ल्यु । वायौ शब्दर०

ध्वजभङ्ग पु० ध्वजस्य मेढ्रस्य भङ्गः । चरकोक्ते क्लीवताप्रयों

जके रोगभेदे यथा “अत्यम्ललबणक्षारविरुद्धाशन-
भोजनात् । तथाम्बुपानाद्विषमात् पिष्ठान्नगुरुभोज-
नात् । दधिक्षीरानूपमांससेवनाद्व्याधिकर्षणात् ।
कल्याणीगमनाच्चापि वियोनिगमनादपि । दीर्घरोम्णीं
चिरोत्सृष्टां तथैव च परिस्रुताम् । ईदृशीं प्रमदां
मोहात् यदि गच्छति मानवः । चतुःपदाभिगमना-
च्छेफसश्चाभिघाततः । अधावनाच्च मेढ्रस्य शस्त्रदन्त-
नखक्षतात् । कष्ठप्रहारनिष्पेषशूकानाञ्च निषे-
वणात् । रेतसश्च प्रतीघातान् ध्वजभङ्गः प्रवर्त्तते ।
चरकः । तस्य चिह्नं यथा “शुक्रेऽचिरात् प्रसिच्येत
शुक्रं शोणितमेव वा । तोदोऽत्यर्थं वृषणयोर्मेढ्रं धूपा-
यतीव च” इति वाभटः ।

ध्वजवत् त्रि० ध्वजश्चिह्नमस्त्यस्य मतुप् मस्य वः । चिह्न-

युक्ते “शिरःकपाली ध्वजवान् भिक्षाशी कर्म वेदयन्”
“कृत्वा शवशिरो ध्वजमिति” मनूक्तेः “हतब्राह्मणकपा-
लरूपचिह्नवान् इत्यर्थः” मिता० । स्त्रियां ङीप् । सा च
२ रुचिमेधसः कन्यायाम् “अत्र ध्वजवती नाम कुमारी
रुचिमेधसः” मा० उ० १०९ अ० । ध्वजः शुण्डिकोपकरण-
भेदः अस्त्यस्य भतुप् मस्य वः । २ शौण्डिके “शूनावतां
ध्वजवतां वेशेनैव च जीवताम्” मनुः

ध्वजारोपण न० ६ त० । ध्वजस्य देवप्रासादादौ आरोपणे

तद्विधिः अग्निपु० १०३ अ० यथा
“चूलके ध्वजदण्डे च ध्वजे देवकूले तथा । प्रतिष्ठा च
यथोद्दिष्टा तथा स्कन्द! वदामि ते । तडागार्द्धप्रवेशाद्वा
यद्वा सर्वार्द्धवेशनात् । ऐष्टके दारुजः शूलः शैलजे धाम्नि
शैलजः । वैष्णवादौ च चक्राढ्यः कुम्भः स्यान्मूर्त्तिमानवः ।
स च त्रिशूलयुक्तस्तु अग्रचूलाभिधो मतः । ईशशूलः
समाख्यातो मूर्ध्नि लिङ्गसमन्वितः । वीजपूरकयुक्तो
वा शिवशास्त्रेषु तद्बिधः । चित्रो ध्वजश्च जङ्घातो
यथा जङ्गार्द्धतो भवेत् । भवेद्वा दण्डमानस्तु यदि वा
तद्यदृच्छया । महाध्वजः समाख्यातो यस्तु पीठस्य वै
वृकः । शक्रै १४ र्ग्रहै ९ रसै ६ र्वापि हस्तैर्दण्डस्तु सम्पितः ।
उत्तमादिक्रमेणैव विज्ञेयः सूरिभिस्ततः । वंशजः
शालजादिर्वा स दण्डः सर्वकामदः” इत्युपक्रमे तत्र दर्शितः

ध्वजाहृत पु० ध्वजेन तदुपलक्षितसंग्रामेणाहृतः ।

दासभेदे “ध्वजाहृतो भक्तदासो गृहजः क्रीतदत्त्रिनौ ।
पैतृकोदण्डदासश्च सप्तैते दासयोनयः” मनुः । “ध्व-
जाहृतः ध्वजे संग्रामे स्वामिसकाशात् जितः” कुल्लू०
२ अविभाज्यधनभेदे न० “संग्रामादाहृतं यत्तु विजित्य
द्विषतां कुलम् । स्वाम्यर्थं जीवितं त्यक्त्वा तद् ध्वजाहृत-
मुच्यते” दायभा० कात्यायनः । “ध्वजाहृतं भवेद्यत्तु-
विभाज्यं नैव तद्भवेत्” स्मृतिः ।

ध्वजिन् त्रि० ध्वजोऽस्त्यस्य इनि । १ ध्वजयुक्ते “सुरापाना

पनुत्त्यर्थं बालवासा जटी ध्वजी” मनुः “उलूकपक्षि
ध्वजिभिर्देवतायनैर्वृतम्” भा० शा० १४१ अ० स्त्रियां ङीप्
सा च २ सेनायाम् अमरः । “मुखैः प्रवृद्धध्वजिनी
रजांसिः” रघुः । ३ पर्वते ४ रथे ५ सर्पे ६ अश्वे ७ व्राह्मणै
पु० मेदि० । ८ मयूरे राजनि० । १० शुण्डिके हेमच० ।
“प्रतिग्रहे शूनी चक्री ध्वजी वेश्या नराधिपः” मनुः ।

ध्वजोत्थान न० इन्द्रध्वजस्य उत्थानम् । १ शक्रध्वजोत्थाने

तदुपलक्षिते २ उत्सवे च त्रिका० । इन्द्रध्वजशब्दे ९४७ पृ०
दृश्यम् ।
पृष्ठ ३९२२

ध्वण ध्वाने भ्वा० अक० पर० सेट् । ध्वणति अध्वाणीत्

अध्वणीत् दध्वाण ।

ध्वन रवे भ्वा० पर० अक० सेट् । ध्वनति अध्वानीत् अध्व-

नीत् दध्वान । मित् वा घटादि ध्वनयति ध्वानयति ।

ध्वन शब्दे अद० चु० उभ० सक० सेट् । ध्वनयति अदिध्वनत्

अध्वनयीत् । शब्द इह अव्यक्तध्वनिरूपः । मृदङ्गः ध्वन-
यति” इत्यादि ।

ध्वन पु० चु० “ध्वन” पा० एरच् भावे अच् । अव्यक्तशब्दे

ध्वनन न० ध्वन्यते व्यज्यतेऽर्थोऽनेन घटा० ध्वनि--करणे ल्युट् ।

१ अलङ्कारोक्ते वाच्यलक्ष्यभिन्नार्थस्य बोधनात्मके व्यञ्जना-
वृत्तिरूपे शब्दनिष्ठे व्यापारभेदे “विरतास्वभिधाद्यासु
ययार्थो बोध्यतेऽपरः । सा वृत्तिर्व्यञ्जना नाम शब्द-
स्यार्थादिकस्य च” । “वृत्तिर्व्यञ्जनध्वननगमनप्रत्यायनादि
व्यपदेशविषया व्यञ्जना नाम” सा० द० । भावे ल्युट् ।
२ अव्यक्तशब्दकरणे “पापकं गन्धमाध्रायाक्षिस्पन्दने कर्ण
ध्वनने च” आश्र० श्रौ० ३ । ६ । ८

ध्वनमोदिन् पु० ध्वनेन ध्वानेन मोदयति मुद--णिच्-

णिनि । १ भ्रमरे शब्दरत्ना० । २ मधुकर्य्यां स्त्री ङीप्

ध्वनि पु० ध्यन--इन् । १ मृदङ्गादिशब्दे “शब्दो ध्वनिश्च

वर्णश्च मृदङ्गादिभबो ध्वनिः । कण्ठसंयोगजन्मानो
वर्णाद्याः कादयो मताः” माषा० । शब्दविशेषस्य ध्वन्या-
त्मकता शब्दार्थरत्नेऽस्माभिर्व्यवस्थापिता यथा “स च
शब्दः द्विविधः बुद्धिहेतुरबुद्धिहेतुश्च । तत्राबुद्धिहेतु-
र्म्मेथादिशब्दः बुद्धिहेतुश्च द्विविधः । स्वाभाविकः काल्प-
निकश्च उभयत्रापि ध्वनेवरुपकारकत्वात् ध्वन्यात्मकता ।
तत्र स्वाभाविको वर्णविशेषानभिव्यञ्जको हसितरुदिता-
दिरूपः प्राणिमात्रसाधारणः । काल्पनिकोऽपि त्रिविधः
वाद्यादिशब्दः गीतिरूपः वर्णात्मकश्च । तत्र भेरीशब्दा-
दिरूपोवाद्यरूपः माधवादिरागाभिव्यञ्जकनिषादादि-
स्वररूपो गीतिरूपः ध्वनिविशेषसहकृतकण्ठताल्वाद्यभि-
घातजन्यश्च वर्णात्मकः । “ध्वनिर्नाम यो दूरादाकर्णवतो
वर्णविशेषमनधिगच्छतः कर्णपथमवतरति प्रत्यासीदतश्च
तारत्वादिविशेषमवगमयतीति” शारीरकभाष्योक्तेस्तारत्वा-
दिधीहेतुर्ध्वनिरित्यवसेयम् । जिह्वाया ईषदन्तरपाते
वर्णानामनुत्पत्तेर्ध्वन्युपलम्भात् हसितरुदितादौ वर्णोत्-
पत्तिमन्तरेणैव तत्प्रतीतेश्च सर्वशब्दजनकता ध्वनेरव-
सीयते ।”
तद्भेदस्वरूपादिकं तत्रैव स्थानान्तरेऽस्याभिर्निर्णीतं यथा


“तस्य स्फोटस्याभिव्यक्तौ प्राकृतस्य ध्वनेः कारणत्वं
चिरचिरतरस्थितौ तु प्राकृतध्वनिजातवैकृतध्वनेरिति
बिवेकः । तथा च वाक्यपदीये “स्फोटस्य ग्रहणे हेतुः
प्राकृतो ध्वनिरिष्यते” इति । “स्थितिभेदे निमित्तत्वं
वैकृतः प्रतिपद्यते” इति च । स्थितिभेदे चिरचिरतरका-
लस्थितौ ध्वनिस्तु पूर्वलक्षितः । तस्य च स्फोटस्य नित्य
तया ध्वनिगतह्रस्वदीर्घादिकालस्य तत्रोपचारः । प्रति-
पादितञ्च तथैव वाक्यपदीये “स्फोटस्याभिन्नकालस्य
ध्वनिकालानुपातिनः । स्वभावतस्तु नित्यत्वात् ह्रस्वदीर्घ-
प्लुतादिषु । प्राकृतस्य ध्वनेः कालः शब्दस्येत्युपचर्य्यते” ।
शब्दस्य स्फोटस्य नित्यतया अभिन्नकालस्य ह्रस्वदीर्घा-
दिषु प्राकृतध्वनेः कालः तारत्वादिधीहेतुरुपचर्य्यते
इति तदर्थः । एवञ्च विलम्बितोच्चारणस्थले तचद्व-
र्णानां तद्वोथजनितसंस्काराणां वा बहुक्षणपर्य्यन्त
स्थायित्वकल्पनामपेक्ष्य एकस्यैव शब्दस्यामिव्यक्त्यनन्तरं
जायमानेन वैकृतेन ध्वनिना बहुकालस्थितिकल्पने
लाधवमित्यपि द्रष्टव्यम् । भेरीशब्दादौ च ध्वन्यभिव्यक्त्य-
नन्तरं जायमानप्राकृतध्वनेर्बहुकालस्थायित्वदर्शनेन
अत्रापि तथाकल्पनौचित्यात् । अतएव महाभाष्ये “एवं
तर्हि स्फोटः शब्दोध्वनिः शब्दगुणैत्यादिना” ऽभिव्यक्त्यु-
पकारकत्वेन ध्वनेः स्फोटरूपशब्दगुणत्वमभिहितमभि-
हितञ्च ध्वनेर्ह्रस्वदीर्थत्वेनापि भानम् । यथा “ध्वनिः
स्फोटश्च शब्दानां ध्वनिस्तु खलु लक्ष्यते । ह्रस्वोमहांश्च
केषाञ्चित् स्वयं नैव स्वभावत” इति । न स्वभावतस्तद्रूपेण
स्फोटोलक्ष्यतैत्यर्थः । ध्वनिविकारे च वायुसंयोगवि-
शेषस्य हेतुत्वं तस्य बहुकालस्थायित्वे विलम्बितत्वम्
अल्पकालस्थायित्वे द्रुतत्वमिति विवेकः ।
३ उत्तमकाव्ये “इदमुत्तममतिशयिनि व्यङ्ग्ये वाच्याद्
ध्वनिर्बुधैः कथितः” काव्यप्रका०
“इदं काव्यं बुधैर्वैयाकरणैः प्रथानभूतस्फोटरूपव्यङ्ग्य-
व्यञ्जकस्य शब्दस्य ध्वनिरिति व्यवहारः कृतः
ततस्तन्मतानुसारिभिरन्यैरपि न्यम्भावितवाच्यव्यङ्ग्यव्यञ्जन-
क्षमस्य शब्दार्थयुगलस्य” वृत्तिः । “इदमिति वाच्यादति-
शयिनि वाच्यादधिकास्वाद्ये व्यङ्ग्ये सति इदं काव्य
मुत्तमं तदेव च बुधैर्ध्वनिः कथित इत्यर्थः । ननु ध्वनि
परिमाषा क्वापि केनापि न कृता तत्कथमलङ्कार
शास्त्रे सा कृतेति आकाङ्क्षायां वैयाकरणरूपबुधसंवादं
दर्शयन् व्याचष्टे बुधैः वैयाकरणैरिति एवञ्च सेयं
पृष्ठ ३९२३
कारिकास्थबुधपदव्याख्येत्यबधेयम् । अत्रायमर्थः अनेक-
वर्णात्मकस्य कलसादिपदस्य प्रत्यक्षं न सम्भवति
आशुविनाशिनां क्रमिकाणां वर्णानां मेलकाभावेन तन्मे-
लात्मनः पदस्य ग्रहीतुमशक्यत्वात् । न च प्रत्येक-
वर्णानुभवजन्यसंस्कारैः सकलवर्णात्मनः पदस्य समूहा-
लम्बनस्मृतिरेव नैयामिकमतसिद्धास्त्विति वाच्यं वर्णप-
दयोरेकदेशैकदेशिभावेन भिन्नत्वात् वर्णविषयसंस्कारैः
पदस्मरणजननस्याशक्यत्वादित्यभिप्रायवद्भिर्वैयाकरणैः
पूर्वपूर्ववर्णानुभवजनितसंस्कारसहितेनानुभूयमानचरमव-
र्णेन श्रोत्रे व्यञ्जनाख्योघ्यापारोजन्यते तेनैव व्यापा-
रेण नष्टवर्णघटितमपि पदं स्फीटपरिभाषितं श्रोत्रेण
साक्षात् क्रियते इत्युच्यते । तदाह बुधैः वैयाकरणै-
रिति अर्थप्रत्यायकत्वादेकदेशित्वाच्च पदं वर्णापेक्षया
प्रधानभूतं स्फोटसंज्ञकञ्च । तद्रूपव्यङ्ग्यव्यञ्जकस्य शब्दस्य
चान्त्यवर्णात्मन इत्यर्थः । अतस्तन्मतेऽपि चरमवर्णात्मनि
शब्दे तेषां ध्वनिव्यवहारः आलङ्कारिकाणामपि
काव्यात्मनि शब्दे ध्वनिव्यवहार इति शब्दे व्यवहार-
साम्यान्मतानुसरणम्” महेश्वरः ।
ध्वनिभेदाश्च काव्यशब्दे २० २४ । २५ पृ० दृश्याः ।
शब्दभेदध्वन्याद्युत्पत्तिप्रकारादिकं सारदाति० उक्तं यथा
“सा प्रसूते कुण्डलिनी शब्दब्रह्ममयी विभुः । शक्तिं
ततो ध्वनिस्तस्मान्नादस्तस्मान्निरोधिका । ततोऽर्द्धेन्दुस्ततो
विन्दुस्तस्मादासीत् परा ततः । पश्यन्ती मध्यमा वाचां
वैखरी ज्ञानजन्मभूः” । सा कुण्डलिनी शक्तिं प्रसूते ।
ततः शक्तेर्ध्वनिरासीत् ततस्तस्माद्ध्वनेर्नाद इत्यादि ज्ञे-
यम् । सत्वप्रविष्टा चित् शक्तिशब्दवाच्या परमाकाशावस्था
सैव सत्वप्रविष्टा रजोऽनुविद्धा सती ध्वनिशब्दवाच्या
अक्षरावस्था, सैव तमोऽनुविद्धा नादशब्दवाच्या अव्यक्ता-
वस्था सैव तमःप्राचुर्य्यात् निरोधिकाशब्दवाच्या सैव
सत्वप्राचुर्य्यात् अर्द्धेन्दुशब्दवाच्या तदुभयसंयोगाद्विन्दु-
शब्दवाच्यः सएव विन्दुः स्थानान्तरगतः पराख्यो भवति ।
तत्र परा मूलाधारे, पश्यन्ती स्वाधिष्ठाने, मध्यमा
हृदये, वैखरी मुखे । तदुक्तं “सूक्ष्मा कुण्डलिनी
मध्ये ज्योतिर्मात्रस्वरूपिणी । स्वयंप्रकाशा पश्यन्ती
सुषुम्णामाश्रिता भवेत् । अश्रोत्रविषया तस्मादुद्गच्छ-
त्यूर्द्ध्वगामिनी । ततः संकल्पमात्रात् स्याद्देवि! तत्रोर्द्ध्व-
गामिनी । सैव हृत्पङ्कजं प्राप्य मध्यमा नादरूपिणी ।
सैवोरःकण्ठतालुस्था शिरोध्राणरदादिगा । जिह्वा-
मूलोष्ठनिष्णाता सैव वर्णपरिग्रहा । शब्दप्रपञ्चजननी
श्रोत्रग्राह्या तु वैखरी” पदार्था० राघवभट्टः ।
“ध्वनिभृता निभृताक्षरमुज्जगे” माघः ।

ध्वनिकाव्य न० कर्म० । उत्तमकाव्ये काव्यशब्दे २०२४ पृ० दृश्यम्

ध्वनिकृत् पु० ध्वनिं तत्प्रतिपादकं ग्रन्थं करोति कृ--क्विप्

तुक् ६ त० । अलङ्कारग्रन्थभेदकारके पण्डितभेदे
“तदुक्तं ध्वनिकृता” सा० द० ।

ध्वनिग्रह पु० ध्वनिं ध्वन्यात्मकं शब्दं गृह्णात्यनेन ग्रह-

करणे अप् । कर्णे श्रोत्रियेन्द्रिये त्रिका० ।

ध्वनिनाला स्त्री ध्वनेः ध्वन्यात्मकशब्दस्य नालेव । वेणौ

१ वंशीमेदे २ काहलवाद्ये च मेदि० ।

ध्वनिबोधक पु० ध्वनिं बोधयति बुध--णिच्--ण्वुल् ।

रोहिषतृणे नैघण्टुप्रकाशिका ।

ध्वनिविकार पु० ६ त० । शोकभयादिना ध्वनेरन्यथाभावे

१ काकौ हेमच० । २ विकृतध्वनौ च ।

ध्वन्य त्रि० घटादि० ध्वन--कर्मणि यत् । १ ध्वननीये व्यङ्ग्यार्थे

ऋग्वेदप्रसिद्धे २ लक्ष्मणनृपस्यात्मजे पु० “उतत्ये मा
ध्वन्यस्य जुष्टा लक्ष्मण्यस्य सुरुचोयतानाः” ऋ० ५ । ३३ । १०
“ध्वन्यस्य तन्नामकस्य लक्ष्मण्यस्य लक्ष्मणनृपपुत्रस्य” भा०

ध्वन्स गतौ सक० भ्रंशे नाशे अधःपतने च अक० भ्वा० आत्म०

सेट् । ध्वसंते दध्वसे--दध्वंसे । ऌदत् अध्वसत् ।
उदित् ध्वंसित्वा ध्वस्त्वा । ध्वस्तः । ध्व सस्यातीतत्वाऽभा-
वेऽपि तदुत्पत्त्यनुकूलव्यापारस्यं कारणविशेषसंयोगस्य
अतीतत्वात् तथा व्यवहारः । वैयाकरणमते सर्वत्र
“फलव्यापारयोर्धातुः” हर्य्युक्तेः फलव्यापारयोर्धात्वर्थ-
त्वात् तयोश्च सामानाधिकरण्ये धातोरकर्मकत्वम् नाशस्य
प्रतियोगितया कारणसमवधानस्य एकत्र घटादौ सत्त्वा-
दकर्मकत्वम् “फलव्यापारयोरेकनिष्ठतायामकर्मकः” इति
एतन्मते “आश्रये तु तिङः स्मृताः” हर्य्युक्तेः आश्रय
रूपार्थस्य कर्त्तृत्वं तच्च निरुक्तव्यापाराश्रयत्वेन घटादा-
वव्याहतमेव तिङर्थवर्त्तमानत्वादेः कारणसमवधानरूप-
व्यापारेऽन्वयसम्भवान्न काचिदनुपपत्तिः । नैयामिकमते
नाशमात्रस्यैव धात्वर्थत्वेऽपि तदुत्पत्तौ लक्षणा उत्पत्तिश्च
आद्यक्षणसम्बन्धस्तस्य चातीतत्वादिनैव ध्वस्तः ध्वंसते
इत्यादि प्रयोगः । अस्य कर्त्तृत्वं प्रतियोगित्वं त
नाशान्वयि तथा च वर्त्तमानाद्युत्पत्तिकनाशप्रतियोगी
घटादिरिति बोधः । व्युत्पत्तिवैचित्र्याच्च उत्पत्ते
र्नाश एवान्वयः न प्रतियोगिनि इति बोध्यम् । सां-
पृष्ठ ३९२४
ख्यादिसत्कार्यवादे नाशः तिरोहितावस्थेति भेदः ।
“तदप्यध्वसदासाद्य माहेन्द्रं लक्ष्मणेरितम्” प्राणा
दध्वंसिरे गात्रं तस्तम्भे च प्रिये हते” भट्टिः । आर्षे
क्वचित् प० “भूतो देवानामब्रीदुग्ररूपो ध्वंसेत्युच्चै
स्त्रिःप्लुतेन स्वरेण” भा० आ० ७९ अ० । मालिन्यादिभावे
च “कृशा विवर्णा मलिना पांशुध्वस्तशिरोरुहा” भा०
व० ६४ अ० “रविजेन बुधे ध्वस्ते” वृ० सं० १७ अ०

ध्वसन् त्रि० अन्तर्भूतण्यर्थे ध्वन्स--कनिन् । ध्वंसकारके ।

“तेन हैतेन ध्वसा द्वैतवनईजे” शत० व्रा० १३ । ५ । ४ । ९
“ध्वसा पापध्वंसनः” मा०

ध्वसन न० ध्वंसतेऽत्र धन्स बा० आधारे क्यु । ध्वंसनस्थाने

“मायुं ध्वसनावधिश्रिताः” ऋ० १ । १६४ । २९

ध्वसन्ति पु० ध्वन्स--झिच् किच्च । ऋग्वेदप्रसिद्धे ऋषिभेदे

“याभिर्ध्वसन्तिं पुरुषन्तिमारतम्” ऋ० १ । १२३ । १६ “ध्वस-
न्ति मेतत्संज्ञं पुरुषन्तिमेतन्नामानं च ऋषिमारतम्” भा०

ध्वसिर त्रि० ध्वन्स--किरच् । नाशप्रतियोगिनि “सं

भूम्या अन्ता ध्वसिरा अदृक्षत” ऋ० ७ । ८३ । ३ “ध्वसिराः
सैनिकैर्ध्वस्ताः” भा० ।

ध्वस्त त्रि० ध्वन्स--कर्त्तरि क्त । १ नाशप्रतियोगिनि

अधः२ पतिते ३ च्युते गलिते च अमरः । “येन ध्वस्तमनो
भुवा” सा० द० । ध्वन्सधातौ उदा० ।

ध्वस्ति स्त्री ध्वन्स--भावे क्तिन् । ध्वंसे नाशे । कर्माणि

ध्वंसन्तेऽत्र आधारे क्तिन् । कर्मक्षयाधारे विद्याभेदे ।
“कर्मणां शुभदुष्टानां जायते फलसंक्षयः । ध्वंसोऽपक्वक-
षायत्वं यत्र सा ध्वस्तिरुच्यते” मार्कण्डेयपु०

ध्वस्मन त्रि० अन्तर्भूतण्यर्थे ध्वन्स--बा० मनिन् किच्च । ध्वंसके

“न ध्वस्मानस्तन्वी रेप आधुः” ऋ० ४ । ६ । ६ “ध्वस्मानो
ध्वंसकाः” भा० भावे मनिन् कित् । २ ध्वंसे ध्वस्मन्वत् ।

ध्वस्मन्वत् त्रि० ध्वस्मा ध्वंसोऽस्त्यस्य मतुप् । १ ध्वंसवति

“स त्वा ध्वस्मन्वदभ्येतु” ऋ० ७ । ४ । ९ । २ उदके निघ० ।

ध्वस्र त्रि० ध्वन्स--रक् । १ नष्टे अन्तर्भूतण्यर्थे ध्वन्स--रक् ।

ध्वंसके “कस्य ध्वस्रा भवयः कस्य बा नराः” ऋ० १० । ४०
३ । “ध्वस्रा ध्वंसकौ भवयः” भा० औस्थाने आच् ।
“ध्वस्रा अपिण्वन् युवतीरृतज्ञाः” ऋ० ४ । १९ । ७ “ध्वस्राः
कुलध्वंसिका युवतीः” भा० । ३ राजभेदे पु० “ध्वस्रयोः
पुरुमन्त्यो वा सहस्राणि” ऋ० ९ । ५८ । ३ “ध्वस्रः
कश्चिद्राजा पुरुमन्तिश्च क्वश्चित्, तयोः । अत्रेतरेतयोगविव
क्षया द्विवचनम्” भा० ।

ध्वान पु० ध्वन--भावे घञ् । १ शब्दे अमरः । “ध्वानेन वोपांशु

वा पत्नीः संयाजयन्ति” आपस्तम्बसू० । पत्नीसंयाज
प्रकारश्च कात्या० श्रौ० ३ । ७ । १ कण्डिकादौ दृश्यः ।

ध्वानायन पुंस्त्री ध्वनस्यर्षेर्गोत्रापत्यम् अश्वा० फञ् ।

ध्वनर्षिगोत्रापत्ये स्त्रियां ङीप् ।

ध्वान्त न० ध्वन--क्त । क्षुब्धस्वान्तेत्यादिना पा० अन्धकारे नि० ।

१ तमसि अमरः । अन्यत्र ध्वनित इत्येव शब्दयुक्ते ।
ध्वान्तमस्त्यस्य अच् । २ तमःप्रधाने नरकभेदे च शब्दार्थचि०
३ मरुद्भेदे धुनिशब्दे यजु० वाक्यं दृश्यम् “ध्वान्तारिं सर्व-
पापघ्नं प्रणतोऽस्मि दिवाकरम्” सूर्यनतिः ।

ध्वान्तवित्त पु० ध्वान्ते वित्तः प्रथितः । खद्योते शब्दरत्ना०

ध्वान्तशात्रव पु० ध्वान्तस्यान्धकारस्य शात्रवः । १ सूर्ये शब्दार्ण०

२ अग्नौ ३ चन्द्रे च शब्दार्थचि० । तद्रूपवर्णे ४ श्वेतवर्णे
पु० शब्दच० । ध्वान्तारातिप्रभृतयोऽपि सूर्य्यादौ ।
“ध्वान्तारिं सर्वपापघ्नम्” सूर्यनतिः ।

ध्वान्तोन्मेष पु० ध्वान्ते उन्मिषति उद्--मिष अच् । स्वद्योते हारा० ।

ध्वृ कौटिन्ये भ्वा० पर० अक० अनिट् । ध्वरति अध्वार्षीत् दध्वार

दध्वर्थ । “ध्वृषीष्ठा युधि मायाभिः” भट्टिः “कुटिली-
करणे सक० “भ्रातृव्यमेवैतया ध्वरति” तैत्ति० स० २ । ५ । ६

ध्व्रण शब्दे ध्रणवत् सर्वम् ।

इति श्रीतारानाथतर्कवाचस्पतिभट्टाचार्य्य सङ्कलिते वाचस्पत्ये
धकारादिशब्दार्थसङ्कलनम ।
"https://sa.wikisource.org/w/index.php?title=वाचस्पत्यम्/धूक&oldid=57786" इत्यस्माद् प्रतिप्राप्तम्