पृष्ठ ३९५८

नदीदोह पु० नदीतरणार्थं दोहः शाक० त० । नदीतरणाय

आतररूपेण देये दोहे दोहकर्मणि दुग्धे ।

नदीधर पु० नदीं धरति धृ--अच् ६ त० । गङ्गाधरे शिवे ।

नदीन पु० ६ त० । १ समुद्रे त्रिका० “कवित्वामृतनदी

नदीनः पर्यन्ते परमपदलीनः प्रभवति” कर्पूरस्तव ।
२ वरुणे च नशब्देन “सह सुपा” पा० स० । ३ दीनभिन्ने
त्रि० “रत्नैरलङ्करणभावमितैर्नदीनः” उभयार्थे नैषधम् ।

नदीनिष्पाव पु० नद्यां तत्समीपे जातः निष्पावः । नदीजे

निष्पावरूपे धान्यभेदे राजनि० ।

नदीपति पु० ६ त० । १ समुद्रे २ वरुणे च अप्पतिशब्दे दृश्यम्

“अथ नदीपतिं गृह्णाति अपां पतिरसीति” शत० ब्रा०
५ । ३ । ४ । १० समुद्रोदकग्रहणोक्तौ “प्लवो मद्गुर्मत्स्यस्ते
नदीपतये” यजु० २४ । ३४ अश्वमेधे षोडशावकाशे
आलभ्यपशुदेवोक्तौ । नदीशनदीनाथादयोऽप्यत्र

नदीभव न० नद्यां भवति भू--अच् ७ त० । १ सैन्धवे लवणभेदे

हेमच० । २ नजीजातमात्रे त्रि० ।

नदीमातृक त्रि० नदी मातेव पोषिकाऽस्य । नदीजलस-

म्पन्नव्रीहिपालिते देशे अमरः ।

नदीमुख न० नदी मुखमिव निःसरणमार्गः । १ नदीरूपे

समुद्रस्य वृद्धजलनिःसरणमार्गे “वृद्धौ नदीमुखेनैव प्रस्थानं
लवणाम्भसः” रघुः । २ नदीनां जलनिर्गमद्वारे (वाहा)
ख्याते पदार्थे च “इन्द्रकृष्टैर्वर्त्तयन्ति धान्यैर्ये तु
नदीमुखैः” भा० स० ५० अ० ।

नदीवङ्क पु० ६ त० । नद्या वक्रभावे (वाँक) ख्याते पदार्थे शब्दमाला ।

नदीवट पु० नद्यां तत्समीपे जातो वटः । वटीवृक्षे राजनि०

नदीष्ण त्रि० नद्यां स्नातुं जानन्ति स्ना--क “निनदीभ्यां

स्नातेः कौशले” पा० षत्वम् । नदीस्नानकुशले यस्यां
यस्यां नद्यां यथावतरणीयं तज्ज्ञानयुक्ते पुरुषोत्तमः ।
“ततो नदीष्णान् पथिकान् गिरिज्ञान्” भट्टिः “आना-
यिनस्तद्विचये नदीष्णान्” रघुः ।

नदीसर्ज पु० नद्या सृज्यतेऽसौ सृज--कर्मणि अप् । अर्ज्जुनवृक्षे अमरः ।

नद्ध त्रि० नह--बन्धने कर्मणि क्त । बद्धे “खर्जूरीस्कन्ध-

नद्धानाम्” रघुः ।

नद्ध्री स्त्री नह्यतेऽनया नह--करणे ष्ट्रन् ङीप् । चर्मनिर्मितरज्ज्वाम् अमरः ।

नद्यादि पु० जाताद्यर्थे ढक्प्रत्ययनिमित्ते शब्दगणे स च

गणः पा० ग० सू० उक्तो यथा
“नदी मही वाराणसी श्रावस्ती कौशाम्बी वनकोशाम्बी
काशपरी काशफरी खादिरी पूर्वनगरी पाठा माया
शाल्वा दार्वा सेतकी (वडवाया वृषे)” । “नद्यादिभ्योढक्
पा० नादेयः इत्यादि ।

नद्याम्र पु० नद्या आम्र इव । समष्टिलावृक्षे राजनि० ।

नद्या(न्द्या)वर्त्तक पु० ज्योतिषोक्ते यात्रायोगभेदे

“स्वराशिगे बुधे लग्ने सिते वा सुरवन्दिते । नद्या (न्द्या)
वर्त्तकयोगोऽयं यातुरिष्टार्थसिद्धिदः” । अन्योऽपि “भूसुते
स्वोच्चगे लाभे मृगकुम्भगते यमे । नद्या(न्द्या)बर्त्तक-
योगोऽयं रणे रिपुतृणानलः” । ज्योतिषम्

नद्युत्सृष्ट त्रि० नद्या उत्सृष्टं स्थानम् । (चडा) इति

ख्याते नदीजलत्यक्तभूभागे । तत्र स्वामित्वं निरूपितं
विवादचिन्तामणिरत्नकरादौ यथा
“नद्युत्सृष्टा राजदत्ता यस्य तस्यैव सा मही । अन्यथा
न भवेल्लाभो नराणां राजदविकः । क्षयोदयौ जीवनञ्च
दैवराजवशान्नृणाम् । तस्मात् सर्वेषु कार्येषु तत्कृतं
न विचालयेत्” तेन यस्य भूमिसन्निकृष्टं तस्यैव तत्र
स्वामित्वं नान्यस्येति बोध्यम् ।

ननन्द स्त्री न नन्दति कृतायामपि सेवायां न तुष्यति

नन्द--ऋन् “सह सुपा” पा० स० । भर्त्तृभगिन्याम् (ननद)
“पिता माता ननन्दा ना सव्येष्ठृभ्रातृयातरः ।
जामाता दुहिता देवा न तृणन्ताइमे दश” इत्युक्तेः
अस्य सर्वनामस्थाने परे तृणन्ततुल्यत्वाभावात् न वृद्धिः
किन्तु गुणः । तेन ननन्दरौ ननन्दर इत्यादि । पृषो०
दीर्घे ननान्दाप्यत्रार्थे “सम्राज्ञी श्वशुरे भव सम्राज्ञी श्वश्वां
भव । ननान्दरि सम्राज्ञी भव सम्राज्ञी अधिदेवेषु”
ऋ० १० । ८५ । ४६

नना स्त्री न नमति नम--ड “सह सुपा” पा० स० । १ वाक्ये

निघण्टुः । नम--बा० ड्यु । २ मातरि ३ दुहितरि च स्त्री
“उपल प्रक्षिणी नना” ऋ० ९ । ११२ । ३ “नना माता
दुहिता वा नमनक्रियायोग्यत्वात् । माता खल्वपत्यं
प्रति स्तनपानादिना नमनशीला भवति । दुहिता वा
शुश्रूषार्थम्” भा० ।

ननु अव्य० नुद--डु । १ प्रश्ने २ अवधारणे ३ अनुज्ञायाम् ४ विनये

५ आमन्त्रणे च अमरः । ६ अनुनये विश्वः । ७ विनिग्रहे
८ परकृतौ ९ अधिकारे १० सम्भ्रमे च मेदि० । ११ आक्षेपे
प्रत्युक्तौ १२ वाक्यारम्भे च हेमच० । तत्र प्रश्ने “ननु
गमिष्ये इत्यादि । अवधारणे “उपपन्नं ननु शिवम्” रघुः
उपपन्नमेव । “त्वया नियम्या ननु दिव्यचक्षुषा” रघुः
“आमन्त्रणे (सम्योधने) ननु मां प्रापय पत्युरन्तिकम्”
पृष्ठ ३९५९
कुमा० (ननु हे वसन्त!) आक्षेपे “ननु प्रात्यहिकभोज-
नस्य कुञ्जरशौचवत् दुःखानिवर्त्तकत्वे कथं तत्र प्रवृत्तिस्त-
त्राह” सा० प्र० भा० ।

ननुच अध्य० ननु + च + समा० द्व० । विरोधोक्तौ अमरः ।

नन्त्व त्रि० नम--बा० कर्मणि त्व । नमनीये “यो नन्त्वान्यनम-

न्न्योजसोत” ऋ० २ । २४ । २ “ननवानि नमनयीनि” भा०

नन्द पु० नन्द--भावे घञ् । १ हर्षे आनन्दे २ तदात्मके परमे-

श्वरे च “आनन्दो नन्दनो नन्दः” विष्णुसं० । “सर्वाभि-
रुपपत्तिभिः समृद्धो नन्दः” भा० । नन्दति मेघवर्षणात्
नन्द--अच् । ३ भेके शब्दरत्ना० । ४ क्षत्रियभेदे “नव नन्दा
भविष्यन्ति चाणक्यो यान् हनिष्यति” स्कन्दपु० ।
“महानन्दिसुतो राजन्! शूद्रागर्भोद्भवो बली ।
महापद्मपतिः कश्चित् नन्दः क्षत्रविनाशकृत् । ततो नृपा
भविष्यन्ति शूद्रप्राया ह्यधार्मिकाः । स एकच्छत्रां पृथिवी-
मनुल्लङ्घितशासनः । शासिष्यति महापद्मो द्वितीय इव
भार्गवः । तस्य चाष्टौ भविष्यन्ति सुमाल्यप्रमुखाः
सुताः । य इमां भोक्ष्यन्ति महीं राजानश्च शतं
समाः । नव नन्दान् द्विजः कश्चित् प्रपन्नानुद्धरिष्यति ।
तेषामभावे जगतीं मौर्य्या भोक्ष्यन्ति वै कलौ । स एव
चन्द्रगुप्तं वै द्विजो राज्येऽमिषेक्ष्यति” भाग० १२ । १ । ४
“नव नन्दान् नन्दं तत्पुत्रांश्चाष्टौ इत्येवं नव, प्रपन्नान्
विश्वस्तान् विख्यातान् वा द्विजः कौटिल्यवात्स्यायनादि-
पर्य्यायः चाणक्य उद्धरिष्यति उन्मूलयिष्यति” श्रीधरस्वामी
विस्तरेण तत्कथा वृहत्कथायां दृश्या । तेषां सपुत्राणां
नवसंख्यत्वेन तत्तुल्यसंख्याके ५ नवसंख्यायुक्ते च “नन्द
त्रिषड्लग्नभवर्क्षपुत्रव्यया इनाद्धर्षपदं स्वभोच्चम्” नी० ता०
६ कुमारातुचरभेदे “वृषो मेषप्रवाहश्च तथा नन्दो-
पनन्दकौ” भा० श० ४६ अ० । ७ मृदङ्गभेदे “मृदङ्गौ
चात्र विपुलौ दिव्यौ नन्दोपनन्दकौ” भा० द्रो० २३ अ० ।
८ धृतराष्ट्रपुत्रभेदे “ऊर्णनाभः पद्मनाभस्तथा नन्दोप-
नन्दकौ” भा० आ० ६७ अ० । ९ वसुदेवस्य मदिरायां
जाते पुत्रभेदे “पौरषी रोहिणी भद्रा मदिरा रोचना
इला । देवकीप्रमुखाश्चासन् पत्न्य आनकदुन्दुभेः ।
“वसुदेवस्तु रोहिण्यां कृतादीनुदपादयत् । सुभद्रो
वहुवाहुश्च दुर्मदो भद्र एव च । पौरव्यास्तनया ह्येते
भूताद्या द्वादशाभवन् । नन्दोपनन्दकृतकशूराद्या
मदिरात्मजाः” भाग० ९ । २४ । २४ । १० क्रौञ्चद्वीपस्थ वर्षपर्वतभेदे
“तेषां वर्षगिरयः सप्त सप्तैव नद्यश्चाभिख्याताः । शुक्लो
वर्द्धमानो भोजन उपवर्हणो नन्दो नन्दनः सर्वतो
भद्र इति” भाग० ५ । २० । १५ । तद्वर्षवर्णने ११ वेणुभेदे सङ्गीत-
दामोदरः यथा “महानन्दस्तथा नन्दो विजयोऽथ
जयस्तथा । चत्वार उत्तमा वंशा मातङ्गमुनिसम्मताः ।
दशाङ्गुलो महानन्दो नन्द एकादशाङ्गुलः” । वसुनामक
द्रोणावतारे ब्रजस्थिते १२ गोपभेदे “द्रोणो वसूनां प्रवरो
धरया सह भार्य्यया । करिष्यमाण आदेशान् ब्रह्मण-
स्तमुवाच ह । जातयोर्नौ महादेवे भुवि विश्वेश्वरे
हरौ । भक्तिः स्यात् परमा लोके ययाञ्जोदुस्तरं तरेत् ।
अस्त्वित्युक्तः स एवेह व्रजे द्रोणो महायशाः । जज्ञे
नन्द इति ख्यातो यशोदा सा धरा भवत्” भाग० १० । ८ अ०
१३ यज्ञेश्वरानुचरभेदे “दक्षो गृहीतार्हणसादनोत्तमं यज्ञे-
श्वरं विश्वसृजां परं गुरुम् । सुनन्दनन्दाद्यनुगैर्वृतं मुदा
गृणन् प्रपेदे प्रयतः कृताञ्जलिः” भाग० ४ । ७ । २२ ।

नन्दक पु० नन्दयति नन्द--ण्वुल् । १ विद्यामये विष्णोः खङ्गे

अमरः “नाम्नापि तस्यैव स नन्दकोऽभूत्” माघः । ३ भेके
त्रिका० । ४ सन्तोषकारके ५ कुलपालके च त्रि० स्वार्थे
क । ६ नन्दगोपे पु० ७ नागभेदे “आर्य्यको नन्दकश्चैव
तथा कलसपोतकौ” भा० उ० १०२ अ० । नागोक्तौ
८ असिमात्रे च “गान्धर्वमस्त्रं दयितमसिरत्नं च नन्द-
कम्” हरिवं० २३४ अ० । १० कुमारानुचभेदे “रणो-
त्कटः प्रहासश्च श्वेतसिद्धश्च नन्दकः” भा० स० ४६ अ० ।
११ धार्त्तराष्ट्रपुत्रभेदे “नन्दको वाहुशाली च तुहुण्डो
विकटस्तथा” भा० आ० १८६ अ० तत्पुत्रोक्तौ ।

नन्दकि नन्द--इन् बा० कुक् । पिप्पल्यां शब्दच० ।

नन्दकिन् पु० नन्दको विद्यामयोऽसिरस्त्यस्य इनि । विष्णौ

“शङ्खभृत् नन्दकी चक्री शार्ङ्गधन्वा गदाधरः” विष्णुसं०
“विद्यामयो नन्दकाख्योऽसिरस्त्यस्य” भा० ।

नन्दगोपिता स्त्री नन्दाय हर्षाय गोपिता । रास्नायां शब्दच० ।

नन्दथु पु० नन्ध--अथुच् । आनन्दे अमरः । “यस्यासौ तस्य

नन्दथुः” भट्टिः ।

नन्दन पु० नन्दयति नन्दि--ल्यु । १ सुते २ दुहितरि स्त्री

३ भेके पुंस्त्री शब्दरत्ना० । ४ इन्द्रस्योद्याने न० “अमिज्ञा-
श्छदपातानां क्रियन्ते नन्दनद्रुमाः” कुमा० । ५ हर्षके
त्रि० । ६ विष्णौ पु० “आनन्दोनन्दनोनन्दः” विष्णुसं० ।
“एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्तीति”
श्रुतेस्तस्य नन्दहेतुत्वान्नन्दनत्वम् “शिवतुरगैस्तु नन्दनमिदं
गजौ भलौ रद्वयम्” वृ० टी० उक्ते ७ अष्टादशाक्षरपादके
पृष्ठ ३९६०
छन्दोभेदे । “बभूव भावेषु दिलीपनन्दनः” रघुः रघुनन्दनः
यदुनन्दन इत्यादि “पुरीमवस्कन्द लुनीहि नन्दनम्” माघः
८ महादेवे “नन्दीश्वरश्च नन्दी च नन्दनो नन्दिबर्द्धनः”
भा० अनु० १७ अ० शिवसहस्रनामोक्तौ । ९ कुमारानुचरभेदे
“बर्द्धनं नन्दनञ्चैव सर्वविद्याविशारदौ । स्कन्दाय ददतुः
प्रीतावाश्विनौ भिजजां वरौ” भा० व० ४५ अ० । १० पर्वत-
भेदे “तीरे तु चन्द्रकुण्डस्य नन्दनो नाम वै गिरिः ।
तस्मिन् वसति शक्रस्तु कामाख्यासेवने रतः । न्यञ्चभावं
समापेदे सर्वदैवेश्वरो हरिः । सेवितुं त्रिदशेशानीं
सततं वर्तते नतः । चन्द्रकूटस्य तु गिरेर्नन्दनस्य
तथा गिरेः । प्रतिदर्शं तथा चन्द्रं प्रदक्षिणयति
त्रिधा । चन्द्रकुण्डजले स्नात्वा समारुह्य च नन्दनम् ।
आराध्य शक्रं लोकेशं महाफलमवाप्नुयात्” कालिकापु०
८१ अ० । ११ षष्टिवर्षमध्ये षङ्विंशतिमे वत्सरे । “सुभिक्षं
क्षेममारोग्यं शस्यं भवति शोभनम् । बहुक्षीरास्तथा
गावो नन्दन्ते नन्दने प्रिये!” भविष्यपु० ।

नन्दनज न० नन्दनवने जायते जन--ड । १ हरिचन्दने

राजनि० । २ हर्षजातमात्रे त्रि० ३ श्रीकृष्णे पु० ।

नन्दनन्दन पु० नन्दस्य नन्दनः आनन्दजनकः । श्रीकृष्णे

वासुदेवे तस्य वासुदेवत्वेऽपि कंसभीत्या नन्दसुतां
योगमायामानीय तत्स्थले रात्रौ निगूढतया कृष्णस्य स्थाप-
नेन तस्य तत्पुत्राभिमानात् तन्नन्दनत्वम् । तत्कथा भाम०
१० । ३ अ० यथा “ततश्च शौरिर्भगवत्प्रचोदितः सुतं
समदाय स सूतिकागृहात् । यदा बहिर्गन्तुमियेष तर्ह्यजा
या योगमायाऽजनि नन्दजायया । तया हृतप्रत्ययसवै-
वर्त्तिषु द्वाःस्थेषु पौरेषु च शायितेष्वथ । द्वारश्च सर्वाः
पिहिता दुरत्यया वृहत्कवाटायसकीलशृङ्खलैः । कृष्ण
वाहे वसुदेव आगते स्वयं व्यशीर्य्यन्त यथा तमो रवेः ।
ववर्ष पर्जन्य उपांशुगर्जितः शेषोऽन्वगाद्वारि निवारयन्
फणैः । मवोनि वर्षत्यसकृद् यमानुजा गम्भीरतोयौघज
वोर्मिफेनिला । भयानकावर्त्तशताकुला नदी मार्गं
ददौ सिन्धुरिव श्रियः पतेः । नन्दव्रजं शौरिरुपेत्य तत्र
तान् गोपान् प्रसुप्तानुपलभ्य निद्रया । शिशुं यशोदा-
शयने निधाय तत्--सुतां समादाय पुनर्गृहानगात् ।
देवक्याः शयने न्यस्य वसुदेवोऽथ दारिकाम् । प्रतिमुच्य
पदोर्लोहमास्ते पूर्ववदावृतः । यशोदा नन्दपत्नी च जातं
पुत्रमबुध्यत । न तल्लिङ्गं परिश्रान्ता निद्रयापगतस्मृतिः”
नन्दपुत्रनन्दसुतादयोऽप्यत्र । २ योगमायायां स्त्री ।

नन्दनन्दिनी स्त्री ६ त० । दुर्गायां योगमायायां तस्यास्ततः

उत्पत्तकथा हरिवं० ५८ अ० “ताञ्चोवाच ततो निद्रां विष्णुः
सत्यपराक्रमः । गच्छ निद्रे! मयोत्सृष्टा देवकीभवनान्ति-
कम् । इमान् प्राणेश्वरान् गृह्य षड्गर्भान्नाम देहिनः ।
षट्सु गर्भेषु देवक्या योजयस्व यथाक्रमम् । जातेष्वेतेषु
गर्भेषु नीतेषु च यमक्षयम् । कंसस्य विफले यत्ने देवक्याः
सफले क्रमे । प्रसादं ते करिष्यामि मत्पभावसमं
भुवि । येन सर्वस्य लोकस्य देवि! देवी भविष्यसि ।
सप्तमो देवकीगर्भो योऽंशः सौम्यो ममाग्रजः । स
संक्रामयितव्यस्ते सप्तमे मासि रोहिणीम् । सङ्कर्षणात्तु
गर्भस्य स तु सङ्कर्षणो युवा । भविष्यत्यग्रजो भ्राता
मम शीतांशुदर्शनः । पतितो देवकीगर्भः सप्तमोऽयं
भयादिति । अष्टमे मयि गर्भस्थे कंसो यत्नं करिष्यति ।
या तु सा नन्दगोपस्य वसुदेवानुगस्य वै । यशोदा नाम
भद्रन्ते भार्य्या गोपकुलोद्वहा । तस्यास्त्वं नवमो गर्भः
कुलेऽस्माकं भविष्यसि । नवम्यामेव संजाता कृष्णपक्षस्य
बै तिथौ । अहन्त्वभिजिते योगे निशाया यौवने स्थिते ।
अर्द्धरात्रे करिष्यामि गर्भमोक्षं यथासुखम् । अष्टमस्य
तु मासस्य जातावावां ततः समम् । प्राप्स्यावो गर्भ-
व्यत्यासं प्राप्ते कंसस्य शासने । अहं यशोदां यास्यामि
त्वं देवि! भज देवकीम् । आवयोर्गर्भव्यत्यसात् कंसो
गच्छतु मूढताम् । ततस्त्वां गृह्य चरणे शिलायां निर
सिष्यति । निरस्यमाना गगने स्थानं प्राप्स्यसि
शाश्वतम्” ।

नन्दनमाला स्त्री नित्यकर्म० । मालाभेदे “भूप! नन्दनमा-

लान्तु कुरुते कृष्णवेश्मनि । देवकन्यावृतैर्लक्षैः सेव्यते
सुरनायकैः” ।

नन्दन्त पु० नन्दत्यनेन नन्द--झच् । पुत्रे उज्वलद० ।

नन्दपाल पु० नन्दं हर्षं पालयति पालि--अण् उपस० ।

वरुणे शब्दरत्ना० ।

नन्दयन्त पु० नन्दि--झच् णिलोप्रे अन्तपर्युदासान्न णिलोपः । पुत्रे उणा० ।

नन्दा स्त्री नन्दयति नन्दि--अच् । १ दुर्गामूर्त्तिभेदे “यथाग-

तास्तथा जग्मुर्देवीं स्थाप्य हिमे गिरौ । संस्थात्य
नन्दिता यस्मात्तस्मान्नन्दा तु या भवेत्” वराहपु० “नन्दते
सुरलोकेषु नन्दने वसतेऽथ वा । हिमाचले महापुण्यो
नन्दा देवी ततः स्मृता” देवीपु० । २ अलिञ्जरे (नाँदा)
ख्याते पदार्थे पक्षयोः प्रतिपदेकादशीषष्ठीरूपे ३ तिथिभेदे
च मेदि० । “नन्दा भद्रा जया रिक्ता पुर्णा च प्रतिपत्
पृष्ठ ३९६१
क्रमात्” ज्यो० त० “नन्दामन्दमहीजकाव्यदिवसे” ज्यो० त०
नवान्ने कालवर्जने । “आदित्यभौमयोर्नन्दा” ज्यो० त०
पापयोगोक्तौ । ४ ननान्दरि शब्दर० । ५ सम्पदि शब्दार्थचि०
६ संक्रान्तिभेदे “स्थिरे जीववारे तु नन्देति संज्ञा तदा
विप्रवर्गः सुखी मासमेकम्” मु० चि० । रोहिण्युत्तरात्रयं
स्थिरं तस्य गुरुवारयोगे रविसंक्रान्तिः सा विप्राणां
सुखाय । अत्र वारनक्षत्रोभययोगे घोरादिसंक्रान्तीनां
फलं सम्पूर्णं केवलवारवशेन केवलनक्षत्रवशेनापि घोरा
दिसंज्ञाः सिद्ध्यन्ति तत्र फलं न सम्पूर्णम् । उक्तञ्च
निर्णयामृते रत्नमालायाञ्च “घोरा रवौ ध्वाङ्क्ष्यमृत-
द्युतौ च संक्रान्तिरारे च महोदरी स्यात् । मन्दाकिनी
ज्ञे च गुरौ च नन्दा मिश्रा कवौ राक्षसिकाऽर्कपुत्रे”
“उग्रक्षिप्रचरैर्मैत्र ध्रुवमिश्रर्क्षदारुणैः । ऋक्षैः संक्रा-
न्तिरर्कस्य घोराद्याः क्रमशो मता” इति ।
७ नन्दाश्रमतीर्थे धर्मपुत्रहर्षस्य च पत्न्याञ्च “नन्दा तु
भार्य्या हर्षस्य यासु लोकाः प्रतिष्ठिताः” भा० आ०
६६ अ० ।

नन्दात्मज पु० ६ त० । १ श्रीकृष्णे वासुदेवे यशोदागर्भजातायां २ योगमायायां स्त्री ।

नन्दापुराण नन्दां देवीमधिकृत्य पुराणम् । नान्दे उपपुरा-

णभेदे “तृतीयं नान्दमुद्दिष्टं कुमारेण तु भाषितम्”
कूर्मपु० उपपुराणोक्तौ । नन्दामधिकृत्य कृतो ग्रन्थः ।
अण् । नान्दम् “नन्दाया यत्र माहात्म्यं कार्त्तिकेन तु
भाषितम् । नन्दापुराणं तक्लोके नन्दाख्यमिति कीर्त्त्यते”
मत्स्यपु० ।

नन्दाश्रम न० न० ६ त० । तीर्थभेदे “नन्दाश्रमे महाराज! तथोलूकाश्रमे शुभे” भा० उ० १८७ अ० ।

नन्दि पु० नन्द--इन् । १ विष्णौ परभेश्वरे “स्वक्षः स्वाङ्गः

शतानन्दो नन्दिर्ज्योतिर्गणेश्वरः” विष्णुसं० परमानन्द विग्रह-
त्वात्तस्य नन्दित्वम् भाष्ये स्थितम् । २ नन्दिकेश्वरे
महादेवपार्श्वचरे च । ३ द्यूताङ्गे पु० न० भेदि० । ४ गन्धर्वभेदे
“युगपस्तृणपः कार्ष्णिर्नन्दिश्चित्ररथस्तथा” भा० आ० १२३
अ० गन्धर्वोक्तौ । ५ महादेवे “नन्दिर्नन्दिचरो हरः” भा०
अनु० १७ अ० शिवसहस्रनामोक्तौ । भावे इन् । ६ आनन्दे
“कौशल्यानन्दिवर्द्धनो रामः” महानाटकम् । आनन्दे
स्त्रीत्वमपि । “अतो मे भूयसी नन्दिर्यदेवमनुपश्यसि”
भा० उ० १३४ अ० । तत्र वा ङीप् । नन्दीवृक्षः

नन्दिक पु० नन्दो हेतुतयाऽस्त्यस्य ठन् । १ नन्दीवृक्षे शब्दर०

नन्दि + स्वार्थे क । २ आनन्दे । ३ इन्द्रक्रीडास्थाने
४ अलिञ्जरे च (नाँदा) शब्दर० नन्दा + स्वार्थे क अत
इत्त्वम् । प्रतिपदादिनन्दातिथौ स्त्री “कन्यासिंस्थे रवौ
शक्र शुल्काभारभ्य नन्दिकाम्” ति० त०

नन्दिकावर्त्त पु० मणिभेदे । “कुरुवकवृद्ध्या वज्रं वैदूर्य्यं

नन्दिकावर्त्तै” वृ० सं०२९ अ० सहार्थे तृतीया ।

नन्दिकुण्ड न० नन्दिकृतं कुण्डम् । तीर्थभेदे “कालोदकं

नन्दिकुण्डं तथा चोत्तरमानसम् । अभ्येत्य योजनशताद्
भ्रुणहा विप्रमुच्यते” भा० अनु० २५ अ० ।

नन्दिकेश्वर पु० नन्दि + स्वार्थे क नन्दिक ईश्वर इव । १

शिवपार्श्वचरे नन्दिनि २ तेन प्रोक्ते शिवधर्माख्ये उपपुराणभेदे
“चतुर्थं शिवधर्माख्यं साक्षान्नन्दीशभाषितम्” कूर्मपु० ।
उपपुराणोक्तौ “नन्दिकेश्वरयुग्मञ्च नन्दिकेश्वरभाषितम्”
इति तत्र पाटान्तरम् ।

नन्दिग्राम पु० ग्रामभेदे रामस्य वनवासे यत्र भरतेन

तत्पादुके गृहीत्वा राज्यं कृतं यथाह भा० व० २७६ अ०
“विसर्जित सः (भरतः) रामेण पितुर्वचनकारिणा ।
नन्दिग्रामेऽकरोद्राज्यं पुरःकृत्यास्य पादुके” स च इदानीं
(दौलतावाद) इति प्रसिद्धः । “नन्दिग्रामगतस्तस्य राज्यं
न्यासमिवाभुनक्” रघुः ।

नन्दिघोष पु० नन्दिः हर्षजनको घोषोऽस्य । १ अर्जुनरथे

कर्म० । २ आनन्दयुक्तघोषे च मेदि० । बहु० । ३ हर्षजनक-
घोषयुक्तमात्रे त्रि० । “अष्टादशे यो दिवसे प्राश्नी-
यादेकभोजनम् । सदा द्वादश मासान् वै सप्त लोकान्
स पश्यति । रथैः स नन्दिघोषैश्च पृष्ठतः सोऽनुगम्यते”
भा० अनु० १०७ अ० ।

नन्दितरु पु० नित्यक० । धववृक्षे भावप्र० ।

नन्दितूर्य्य न० नन्दिप्रियं तूर्य्यम् । वाद्यभेदे “नन्दितूर्य्या-

ण्यवाद्यन्त तुष्टुवुश्च जनार्दनम्” हरिवं० ९० अ० ।

नन्दिन् त्रि० नन्दते नन्द--णिनि । १ हर्षयुक्ते २ शालङ्कायने

शिलादिपुत्रे च शिवद्वारपाले पु० ३ मुनिभेदे नन्दीश्वरशब्दे
दृश्यम् । स च शालङ्कायनमुनिपुत्रः यथा “अन्यच्च ते
प्रवक्ष्यामि परं गुह्यं वसुन्धरे! । तप्यतस्तस्य तु मुने-
रीश्वरेण सभं सुतम् । तं प्राप्स्यामि परं भावं ज्ञात्वा
देवो महेश्वरः । सुन्दरन्तु परं रूपं धृत्वा दृष्टिसुखा-
वहम् । शालङ्कायनपुत्रत्वं योगमायामुपाश्रितः ।
प्राप्तोऽपि तं न जानाति दक्षिणं पार्श्वमास्थितम् । माया-
योगबलोपेतस्त्र्यक्षो वै शूलपाणिधृक् । रूपवान्
गुणवांश्चैव वपुषादित्यसन्निभः । सत्वं न ज्ञायते जातं
तस्यैवाराधने स्थितः । अथ नन्दी प्रहस्याह महादेवा-
पृष्ठ ३९६२
ज्ञया मनिम् । उत्तिष्ठ मुनिशार्दूल! सफलस्ते मनोरथः ।
त्वद्दक्षिणाङ्गाज्जातोऽस्मि पुत्रस्ते शाधि म प्रभो! ।
त्वया तपः समारब्धमीश्वरेण समं सुतम् प्राप्स्या-
मीति ततो मह्यं सदृशोऽन्यो न कश्चन । विचार्य्येति
तवाहं वै जातोऽस्मि स्वयमेव हि” वराहपु० । स एव
कल्पान्तरे शिवांशजः शिलादमुनेः पुत्रः । यथा
“जजाप रुद्रमनिशं यत्र नन्दी महागणः । प्रीतस्तस्य
महादेवो देव्या सह पिनाकधृक् । दत्त्वा चात्मसमानत्वं
मृत्युबञ्चनमेव च । अभूदृषिः स धर्मात्मा शिलादो नाम
धर्मवित् । आराधयन् महादेवं पुत्रार्थं धृषभध्वजम् ।
तस्य वर्षसहस्रान्ते तप्यमानस्य विश्वकृत् । शर्वः
सोमोऽघ विधृतो वरदोऽस्मीत्यभाषत । स वब्रे वरमीशानं
वरेण्यं गिरिजापतिम् । अयोनिजं मृत्युहीनं त्वया
चैवोमया समम् । तथास्त्वित्याह भगवान् देव्या सह
महेश्वरः । पश्यतस्तस्य विप्रर्षेरन्तर्धानं गतो विभुः ।
ततो यियक्षुः स्वां भूमिं शिलादो घर्मवित्तमः । चकर्ष
लाङ्गलेनोर्वीं भित्त्वाऽदृश्यत शोभनः । संवर्त्तकानल-
प्रख्यः कुमारः प्रहसन्निव । रूपलावण्यसम्पन्नस्तेजसा
भासयन् दिशम् । कुमारतुल्योऽप्रतिमो मेघगम्भीरया
गिरा । शिलादं तात तातेति प्राह नन्दी पुनःपुनः ।
तं दृष्ट्वा नन्दिनं जातं शिलादः परिषस्वजे । मुनिभ्यो
दर्शयामास ये तदाश्रमवासिनः” कूर्मपु० ४० अ० । “लता-
गृहद्वारगतोऽथ नन्दी” कुमा० । ३ शिवगणविशेषे ।
स च त्रिविधः यथा “आद्यः कनकनन्दी च गिरिकाख्यो
द्वितीयकः । सोमनन्दी तृतीयस्तु विज्ञेया नन्द्रिनस्त्रयः”
वह्निपु० । ४ गर्दभाण्डवृक्षे ५ धववृक्षे च मेदि० । ६ विष्णौ
च “भगवान् भगहा नन्दी वनमाली हलायुधः”
विष्णुस० आनन्दीति पाठान्तरम् ।

नन्दिनी स्त्री नन्द--णिनि ङीप् । १ दुर्गायां २ गङ्गायां

३ नन्ददरि ४ वसिष्ठधेन्याञ्च मेदि० । ५ रेणुकागन्धद्रव्ये राजनि० ।
६ कन्यायां च “नन्दगोपस्य नन्दिनी” हरिवं० वसिष्ठ-
धेनुश्च सुरभिकन्या । “सुनां तदीयां सुरभेः कृत्वा
प्रतिनिधिं शुचिः । आराधय सपत्रीकः प्रीता
कामदुघा हि सा । इति वादिन एवास्य होतुराहुति-
साधनम् । अनिन्द्या नन्दिनी नाम धेनुरावृते वनात्”
रघुः । “इह नन्दिनीसजसैर्गुरुयुक्तैः” वृ० र० टी० उक्ते
७ त्रयोदशाक्षरपादके वर्णवृत्तभेदे
वसिष्टधेन्वा प्रभावो रामा० बालका० उक्तो यथा
“युक्तःपरमहर्षेण बशिष्ठमिदमब्रवीत् । गवां शतसहस्रेण
दीयतां शबला मम । एवमुक्तस्तु भगवान् वशिष्ठो मुनि-
सत्तमः । विश्वामित्रेण धर्मात्मा प्रत्युवाच महीपतिम् ।
कारणैर्बहुभीराजन्न दास्ये नन्दिनीं तव । कामधेनुं
बशिष्ठोऽसौ न तत्याज यदा मुनिः । ततोऽस्य शबलां
राजा विश्वामित्रस्तदाहरत् । तस्याहम्बारवाज्जाताः
काम्वोजा रविसन्निभाः । जधसश्चाभिसंजाताः पह्नवाः
शस्त्रपाणयः । योनिदेशाच्च यवनाः शकृद्देशाच्छका-
स्तथा । रोमकूपेषु च म्लेच्छास्तथा राम! किरातकाः ।
तैस्तन्निसूदितं सैन्यं विश्वामित्रस्य तत्क्षणात्” ।
८ व्याडिमातरि च ।

नन्दिनीतनय पु० ६ त० । व्याड़िमुनौ हेमा० । व्याड़िश्च

उपवर्षमुनेः शिष्यभेदः तत्कथा वृहत्कथयां दृश्या । ततो
दिङ्मात्रमत्र प्रदर्श्यते । “नन्दराजराज्यकाले
उपवर्ष पण्डितस्य कात्यायनापरपर्य्यायो वररुचिर्व्याड़िः
पाणिनिश्चेति त्रयो मुख्याश्छात्रा बभूवुः । तेषु पाणिनि-
रल्पबुद्धितया सब्रह्मचारिभिर्वादे पराजितो निर्वेदमा-
पन्नो महादेवमाराध्य तत्सकाशादधीत्य च कृतविद्यस्तत्
प्रसादात् सूत्रपाठगणपाठधातुपाठलिङ्गानुशासनात्मकं
चतुर्धा विभक्तं व्याकरणागमम् विदधे । अथ तद्ग्रन्थ-
कौशतमुपलभ्य वररुचिना तदवशिष्टांशपरिपूरणेन
संक्षेपार्थषिवरणरूपं वार्त्तिकं चक्रे । व्याड़िना च तत्त-
दुक्तार्थेषु न्यायप्रदर्शनार्थं लक्षश्लोकात्मकः संग्रहाभिधो-
ग्रन्थो निरमायि” । स च कोषविशेषकर्त्ता । नन्दिनीसु-
तादयोऽप्यत्र ।

नन्दिपुराण न० नन्दिना प्रोक्त पुराणम् । उपपुराणभेदे

नन्दिकेश्वरशब्दे दृश्यम् ।

नन्दि(न्दी)मुख पुंस्त्री पक्षिभेदे स्त्रियां ङीष् । तल्लक्षणं

“स्थूला कठोरा वृत्ता च यस्याश्चञ्चूपरि स्थिता । गुटिका
चञ्चुसदृशी ज्ञेया नन्दि(न्दी)मुखीति सा” पुंसोऽपि
तथा लक्षणम् । “नन्दिमुखमुखानि मसुराकृतिभिः
कीलैरवबद्धानि” सुश्रुतः । नन्द्याम् आनन्दे मुखमस्याः
ङीष् दीर्घमध्यः । २ तन्त्रायां हेमच० ३ महादेवे पु०
“नन्दीमुखः भीममुखः सुमुखो दुर्मुखोऽमुखः” भा० शा०
२८६ अ० ।

नन्दिवर्द्धन पु० नन्दिमानन्दं वर्द्धयति वृध--णिच--ल्यु ।

१ शिवे पु० २ पक्षान्ते च मेदि० । ३ मित्रे शब्दर० ।
आनन्दवर्द्धकमात्रे पुत्रादौ त्रि० ।
पृष्ठ ३९६३

नन्दिवारलक पुंस्त्री सामुद्रे मत्स्यभेदे स्त्रियां ङीष् ।

“तिमितिमिङ्गिलकुलिशपाकमत्स्यनिवारक नन्दिवारल-
कमकरगर्गरकचन्द्रकमहामीनराजीवप्रभृतयः सामुद्राः”
सुश्रुतः ।

नन्दि(न्दी)वृक्ष पु० ६ त० । सन्तोषहेतौ कोङ्कणदेशप्रसिद्धे

सुगन्धिवृक्षभेदे । “नन्दीवृक्षो लघुः स्वादुस्तिक्तस्तुवर
उष्णकः । कटुपाकरसो ग्राही विषपित्तकफास्रनुत्”
राजनि० । २ अश्वत्थाकारे क्षीरयुक्ते (तुँद)ख्याते वृक्षभेदे
३ गान्धीराख्यतृणे शब्दार्थ० । ४ मेषशृङ्गीवृक्षे रत्नमा०
५ स्थालीवृक्षे भावप्र०

नन्दिवेग पु० कलियुगीये पुरुषाधमनृपभेदे “समश्च नन्दि-

वेगानामित्येते कुलपांसनाः । युगान्ते कृष्ण! संभूताः
कुलेषु पुरुषाधमाः” भा० उ० ७३ अ० ।

नन्दिषेण पु० ब्रह्मदत्ते कुमारानुचरभेदे । “तस्मै ब्रह्मा

ददौ प्रीतो बलिनो वातवंहसः । कामवीर्य्यधरान्
सिद्धान् महापारिषदान् प्रभुः । नन्दिषेणं लोहिताक्षं
घण्टाकर्णञ्च सम्मतम् । चतुर्थमस्यानुचरं ख्यातं
कुमुदमालिनम्” भा० श० ४६ अ० ।

नन्दीश पु० ६ त० । १ शिवे हेमच० । नन्दी ईशि इव । २

शिवपार्श्वचराधिपभेदे । ३ तालभेदे स च “सिंहनन्दन-
नन्दीशचन्द्रविम्बद्वितीयकाः” इत्युद्दिश्य सङ्गीत० लक्षितो
यथा “गोलघुर्गोलघुः प्लुतस्ताले नन्दीश्वरे मताः” ।

नन्दीश्वर पु० ६ त० । १ शिवे २ तालभेदे सङ्गीतदा० । ३ शिवग-

णाधिपभेदे पु० तस्य तथात्वकथा च वराहपु० उक्ता यथा
“ततस्त्रेतायुगे काले नन्दी नाम महामुनिः ।
आरिराधयिषुः शर्वं तपस्तेपे सुदारुणम् । ततस्तु भगवान्
प्रीतस्तस्मै विप्राय शङ्करः । उवाच च वचः साक्षा-
त्तमृषिं वरदः प्रभुः । वरान् वृणीष्व विप्रेन्द्र! यानि-
च्छसि महामुने! । तांस्ते सर्वान् प्रयच्छामि दुर्लभानपि
मारिष! । इत्युक्तोऽसौ भगवता शर्वेण मुनिषुङ्गवः ।
प्रोवाच वरदं देवं प्रहृष्टेनान्तरात्मना । यदि प्रीतोऽसि
भगवन्! अनुक्रोशतया मम । अनुग्राह्यो ह्यहं देव!
त्वयावश्यं सुराधिप! । यथाऽनन्या भवेद्भक्तिस्त्वयि नित्यं
महेश्वर! । तथाहं भक्तिमिच्यामि सर्वभूताशये त्वयि ।
एतत्तु वचनं श्रुत्वा नन्दिनः स महेश्वरः । प्रहस्योवाच
तं प्रीत्या तती मधुरया गिरा । मद्रूपधारी मन्तेजा
स्त्र्यक्षः सर्वगुणोत्तमः । भविष्यसि न सन्देहो देवदान-
वपूजितः । अनेनेव शरीरेण जरामरणवर्जितः । दुष्प्रा-
प्यैवमवाप्या ते देवैर्गाणेश्वरी गतिः । पार्श्वदानां
वरिष्ठश्च मामकानां द्विजोत्तम! । नन्दीश्वर इति ख्यातो
भविष्यसि न संशयः । अद्य प्रभृति देवाग्र्य! देवकार्य्येषु
सर्वतः । त्वं प्रभुर्भविता लोके मत्प्रसादान्मुनीश्वर! ।
त्वामेवाभ्यर्च्चयिष्यन्ति सर्वभूतानि सर्वतः । मत्तः
समभिवाञ्छन्तः प्रसादं पार्श्वदाधिप! । यस्त्वां द्वेष्टि स
मां द्वेष्टि यस्त्वामनु स मामनु । नावयोरन्तरं किञ्चिद-
म्बरानिलयोरिव । द्वारे तु दक्षिणे नित्यं त्वया स्थेयं
गणाधिप! । वामेन विभुना चापि महाकालेन सर्वदा”
वराहपु० ।

नन्दीसरस् न० इन्द्रसरोवरे शब्दमा० ।

नन्द्य नन्द आनन्दे कण्ड्वादेराकृतिगणत्वात् यक् भ्वा० पर०

सेट् । नन्द्यति अनन्द्यी(न्दी)त् ।

नन्द्यादि पु० ल्युप्रत्ययान्ततया पा० ग० सू० पठिते शब्दगणे यथा

“नन्दनः वाशनः मदनः दूषणः साधनः वर्द्धनः शोभनः
रोचनः (सहितपिदमः संज्ञायाम्) । सहनः तपनः
दमनः जल्पनः रमणः दर्पणः संक्रन्दनः सङ्कर्षणः
संहर्षणः जनार्दनः यवनः मधुसूदनः विभीषणः लवणः
चित्तविलासनः कुलदमनः शत्रुदमनः ।

नन्द्यावर्त्त पु० नन्दी आवर्त्तो यत्र । “नन्द्यावर्त्तमलिन्दैः

शालाकुड्यां प्रदक्षिणान्तगतैः । द्वारं पश्चिममस्मिन्
विहाय शेषाणि कार्य्याणि” वृ० सं० ५३ अ० उक्ते १ गृहभेदे
भरतधृतसाञ्जवाक्ये तु तस्यान्यथा लक्षणमुक्तं यथा
“दक्षिणानुगतालिन्दत्रयं यत् पश्चिमामुखम् । पूजनीयो-
त्तरोच्छायं नन्द्यावर्त्तं वदन्ति तत्” । तेन पश्चिमद्वारशून्य-
त्वे विकल्पः । २ तगरवृक्षे विश्वः । ३ मत्स्यभेदे राजव-
ल्लभः । ३ यात्रायोगभेदे नद्यावर्त्तकशब्दे दृश्यम् । “स्वस्ति-
कान् वर्द्धमानांश्च नन्द्यावर्त्तांश्च काञ्चनान्” भा० द्रो० ८२ अ०
हस्तिदन्दस्य ५ तदाकारच्छेदे च “दन्तस्य मूलपरिधिं
द्विरायतं प्रोज्झ्य कल्पयेच्छेषम्” इत्युपक्रमे “श्रीवत्सव-
र्द्धमानच्छत्रध्वजचामरानुरूपेषु । छेदे दृष्टेष्वारोग्यविजय
धनवृद्धिसौख्यानि । प्रहरणसदृशेषु जयो नन्द्यावर्त्ते
प्रनष्टदेशाप्तिः” वृ० सं० ९४ अ०

नपराजित् पु० न पराजीयते परा + जि--कर्मणि क्विप्

नशब्देन “सह सुपा” पा० स० । महादेवे “विलोहिताय
धूम्राय व्याध्याय नपराजिते” भा० द्रो० ८० अ० ।
पृष्ठ ३९६४

नपात् त्रि० न । पाति पा--रक्षणे शतृ नभ्राडित्यादिना पा०

नजः प्रकृतिभावः । १ अरक्षके “नपातो दुर्बहस्य मे”
ऋ०८ । ६५ । १२ “नपातो अरक्षकस्य” भा० । नपात् शत्रन्तः
इति सि० कौ० तेन स्वादौ नपान् नपान्तौ इत्यादि
रूपम् । न पातयति पाति--क्विप् । २ अपातके च अस्य
नपात् नपातौ नपातः इति भेदः । तनूनपात् तनूर-
क्षकः । ३ पुत्रे अपत्ये निरु० । तस्य पुन्नामनरकनिरा-
सकत्वेन पातनाभावहेतुत्वात् तथात्वम् । “मनोर्नपातो
अपसो दधन्विरे” ऋ० ३ । ६० । ३ “मनोः नपातः पुत्राः”
माधवः “ऋषीणां नपादवृणीतायं यजमानः” यजु०
२१ । ६१ “हे ऋषीणां नपात् पुत्रः” वेददी० ।

नपात पु० नास्ति पातो यत्र । देवयाने पथि “अवित्सि

नपातं विक्रमणं च विष्णोः” यजु० १९ । ५६ “वेवेष्टि
विष्णुः तस्य विष्णोः व्यापनशीलस्य यज्ञस्य “यज्ञो वै
विष्णुरिति” श्रुतेः तस्य नपातं विक्रमणं च अवित्सि वेद्मि ।
नास्ति पातो यत्र स नपातो देवयानपथः यत्र गतानां
पातो नास्ति, विविधं क्रमणं गमनागमनं यत्र स विक्रमणः
पितृयानपथः यत्र गतानां पुनर्भोगान्ते पतनम् । यज्ञस-
म्बन्धिनौ देवयानपितृयानौ पन्थानौ वेत्सीत्यर्थः” वेददी०

नपुंसक पु० न० न स्त्रीपुंसौ नभ्राडित्यादि पा० स्त्रीपुं-

सयोः पुंसकभावः नि० नञः प्रकृतिभावश्च । क्लीवे क्लीव-
शब्दे २३४५ पृ० दृश्यम् । “नपुंसको भवतीति”
महाभाष्यप्रयोगात् अस्य पुंस्त्वमपि । लिङ्गस्य शब्दगत-
त्वेऽपि शब्दार्थे तद्व्यवहारस्तु अभेदारोपात् तदेतत्
शब्दार्थरत्नेऽस्माभिः समर्थितं यथा
“लिङ्गत्वञ्च प्राकृतगुणगतावस्थात्मकोधर्म एव तद्विशेषश्च
पुंनपुंसकत्वादिः । तथा हि सर्वेषां त्रिगुणप्रकृतिकार्य-
तया शब्दानामपि तथात्वेन गुणगतविशेषाच्छब्देषु
विशेष इति कल्प्यते । स च विशेषः शास्त्रे इत्थमभ्यधायि ।
विकृतसत्वादीनां तुल्यरूपेणावस्थानात् नपुंसकत्वं, सत्व-
स्याधिक्ये पुंस्त्वम्, रज आधिक्ये स्त्रीत्वमिति । एवञ्च
लिङ्गस्य शब्दधर्मत्वेऽपि शब्देन सहार्थाभेदारोपात्
असति बाधके अर्थेऽपि साक्षात् तत्पारतन्त्र्येण वा सर्वत्र
तस्य विशेषणत्वम् शाब्दबोधे शब्दभानस्येष्टत्वाच्च शब्दस्य
नामार्थतावत् तद्गतलिङ्गस्यापि नामार्थतौचित्यात् “न
सोऽस्ति प्रत्ययोलोके यः शब्दानुगमादृते” इति हर्य्युक्तेः
“शब्दोऽपि यदि भेदेन विवक्षा स्यात्तदा तथा । नोचेत्
श्रोत्रादिभिः सिद्धोऽप्यसावर्थऽवभासते” इति हर्य्युक्तेश्च
शब्दानां तदर्थतावगतेः । तथा प्रातिपदिकार्थः ।
अभेदविबक्षायां तु श्रोत्रादिभिरेव सिद्धः ज्ञातः सन् अर्थे
प्रकारतया भासते इति तदर्थः । युक्तञ्चैतत् पुंलिङ्गः
शब्द इति व्यवहारात् “स्वमोर्नपुंसकादिति” पा० सूत्रे
शब्दस्यैव नपुंसकत्वव्यपदेशात् दारानित्यादौ पुंस्त्वान्वयवा-
धाच्च लिङ्गस्य शब्दधर्मत्वमन्यथैतेषु लिङ्गानन्वयापत्तेर्व्य-
वहारसूत्रनिर्देशासङ्गत्यापत्तेश्च । तथा अर्थभेदाच्छब्दभे-
दवत् लिङ्गभेदादपि शब्दभेद इति कल्प्यते प्रागुक्तधर्म-
विशेषरूपभेदकसद्भावात् । उक्तञ्च भाष्ये “एकार्थे शब्दा-
न्यत्वाद्दृष्टं लिङ्गान्यत्वमिति” । एवञ्च तटादिशब्दानाम-
नेकलिङ्गत्वव्यवहारः समानापूर्वीकत्वेनैव । वस्तुतस्तेषां
भिन्नानामेव भिन्नलिङ्गत्वमिति दिक् । अर्थरूपनंपुस-
कस्योत्पत्तौ कारणं शा० ति० उक्तं यथा “विन्दुरेको विशेद्
गर्भमुभयात्मा क्रमादसौ । रजोऽधिको भवेन्नारी भवेद्रे-
तोऽधिकः पुमान् । उभयोः समतायां तु नपुंसकमिति
स्मृतम्” । “सुडनपुंसकस्य” पा० “नपुंसकमनपुंसकेने-
त्यादि” पा० । तत्र पुंसि “नैव स्त्री न पुमानेष न चैवायं
नपुंसकः” श्वेताश्व० । क्लीवे “न वामनाः कुब्जकुणा न
खञ्जाः नान्धो जडः स्त्री न नपुंसकञ्च” भा० शा० ८३ अ० ।

नपुमस् पु० न पुमान् आर्षे न नपुंसकभावः । क्लीबे “हता-

स्म्यहं कुनाथेन नपुंसा वीरमानिना” भाग० ९ । १४ । २०

नप्तृ न० न पतत्यनेन न + पत--तृच् नेष्ट्रित्यादि० पा० नि० ।

१ पौत्रे २ दौहित्रे च (नाति) हेमच० । “पुत्रेण लोकान्
जयति पौत्रेणानन्त्यमश्नुते” इति “दौहित्रोऽपि ह्यमु-
त्रैनं सन्तारयति पौत्रवत्” मनूक्तेश्च तयोः उद्धारकत्वात्
नप्तृत्वम् । “यदि नात्मनि पुत्रेषु न चेत् पुत्रेषु नप्तृषु ।
नत्वेव तु कृतोऽधर्मः कर्त्तुर्भवति निष्कलः” मनुः ।
३ कन्यापुत्रयोः कन्यायां स्त्री अमरः ङीप् ।

नप्तृका स्त्री नप्तृ--संज्ञायां कन् । विष्किरे घुङ्कारकारि-

णीति प्रसिद्धे पक्षिभेदे “लावतित्तिरिकपिञ्जलवर्त्तीरव-
र्त्तिकावर्त्तकनप्तृकावातीक” इत्याद्युपक्रमे विष्किरा
लघवः शीतमधुराः कषाया दोषशमनाश्च” सुश्रु० ।

नभ हिंसायां निघण्टुः भ्वा० आत्म० सक० सेट् । नमते

अनभिष्ट नेभे । णभ हिंसे इत्यस्य णोपदेशत्वात्
सतिनिमित्ते णत्वम् नास्येति भेदः । तत्र धातौ आर्षस्तङ्
इत्यशुद्धम् तस्य अनुदात्तेत्त्वेन आत्मनेपदित्वात् ।

नभ त्रि० नभ--हिंसायां पचा० अच् । १ हिंसके २ श्रावणे मासि

पु० शब्दर० । तस्य वृष्ट्या कीटादिहिंसकत्वात् तथात्वम् ।
३ आकाशे न० नभौकसशब्दे दृश्यम् । हिंसितसर्वप्राणिनां
तेनैव गमनात्तस्य तथात्वम् । चाक्षुषमन्वन्तरे ४ सप्तर्षिभेदे
पृष्ठ ३९६५
“भृगुर्नभो विबस्वांश्च” हरिवं० ७ अ० चाक्षुषमन्वतरोक्तौ ।
स्वारोचिषमनोः ५ पुत्रभेदे “प्रथितश्च नभस्यश्च नभ
ऊर्जस्तथैव च” हरिवं० ७ अ० स्वारोचिषमन्वन्तरोक्तौ ।
रामवंश्ये राजभेदे “निषधस्य नलः पुत्री ननः पुत्री
नलस्यतु” हरिवं० रामवंश्योक्तौ ।

नभःक्रान्तिन् पु० नभः क्रान्तमनेन इनि । सिंहे शब्दमा०

नभःप्राण पु० नभसः प्राण इव । पवने त्रिका० ।

नभःसद् पु० नभसि सीदति सद्--क्विप् ७ त० । १ देवे

२ खगादौ च । वा विसर्गस्य सत्वे नभस्सदुभयप्यत्र ।

नभःसरित् स्त्री ६ त० । गङ्गायां त्रिका० वा विसर्गस्य सत्वे

नभस्सरिदप्यत्र ।

नभःस्थल पु० नभःस्थलमिव यस्य । महादेवे “ऊर्द्ध्वरेता ऊर्द्ध्व

लिङ्ग ऊर्द्धशायी नभःस्थलः” भा० अनु० १७ अ० शिवना-
मोक्तौ । शर्परे खरि वा विसर्गलोपे नभस्थलोऽप्यत्र ।

नभःस्थित त्रि० ७ त० । १ गगनस्थिते ताराग्रहादौ २ नरकभेदे

हेमच० । वा विसर्गलोपे नभस्थितोऽप्यत्र ।

नभःस्पृश् त्रि० नभः स्पृशति स्पृश--क्विन् । गगनस्पर्शिनि ।

वा विसर्गलोपे नभस्पृगप्यत्रार्थे । क्विन्नन्तत्वात् पदत्वे
कुत्वम् । नभःस्पृक् । “भवन्ति ज्वलिता लक्ष्म्यः कीर्त्तयश्च
नभस्पृशः” कामन्द० । क । नभःस्पृशोऽप्यत्र । “नभः-
स्पृशैर्महाघोरैः परिक्षिप्तं महावनम्” भा० द्रो० ५ अ०

नभग पु० वैवस्वतमनोः १ पुत्रभेदे “इक्ष्वाकोर्नभगश्चैव धृष्टः

गर्यातिरेव च” भा० ८ । १५२ वैवस्वतवंशोक्तौ । २ गगनगे त्रि०
नास्तिभगो यस्य । ३ भाग्यहीने त्रि० ।

नभनु त्रि० नभ--हिंसायां बा० अनु । १ हिंसके वेदे स्त्रियामूङ्

“नभनू प्राग्रुवो नभन्वः” ऋ० ४ । १९ । ३ । नभन्वः हिंसिकाः
भन--बा० अनु पृषो० । २ शब्दकारके उदके पु० निघण्टुः
“पर्वतस्य नभनूँरचुच्यवुः” ऋ० ६ । ५९ । ७ “नभनून् भणते
शब्दकर्मणः नभ्राडितिवत् नभनवः उदकानि” भा०
दीर्घान्तः २ नद्यां स्त्री निघण्ठुः नभन्वा इति तत्र पाठा-
न्तरं “प्राग्रुवो नभन्वः” ऋ० ४ । १९ । ७ बहुवचनान्तः ।

नभन्य त्रि० नभ--हिंसायां कनिन् नभ्नि हिंसायां साधु यत्,

नभसि हितो वा यत् पृषो० । १ आकाशभवे २ हिंसके च ।
“गायत् साम नभन्यं यथा वेरर्चाम तद्वावृधानं
स्वर्वत्” ऋ० १ । १७३ । १ “हे इन्द्र! नभन्यं नभस्यं नभसि
भवं नभोव्यापिनं हिंसकं वा राक्षसादिकस्य । नभति-
र्बधकर्मा “नभति अर्दर्तीति बधकर्मसु गणनात्” भा० ।

नभश्चक्षुस् न० नभसश्चक्षुरिव प्रकाशकत्वात् । सूर्ये शब्दमा० ।

नभश्चमस पु० नभसश्चमस इव । १ चन्द्रे २ चित्रापूपे ३ इन्द्र

जाले च मेदि० ।

नभश्चर त्रि० नभसि चरति चर--ट । गगनचारिणि १

खगे२ देव गन्धर्वग्रहादौ । ३ नभःस्थायिमात्रे च “निकाम-
तप्ता द्विविधेन वह्निना नभश्चरेणेन्धनसंभृतेन च” कुमा०
“नभश्चरैर्गीतयशाः स लेभे” व्ययेऽष्टमे वा सुतभे विलग्ने
चैकोऽपि पापश्च नभश्चराणाम्” ज्योतिषम् ।

नभस् न० नह्यते मेघैः नह--बन्धने “नहेर्भश्च” उणा० असुन्

भश्चान्तादेशः । १ गगने “औमित्युक्तवतोऽथ शार्ङ्गिण
इति व्याहृत्य वाचं नभस्तस्मिन्नुत्पतिते” माघः । २ श्रावणे
मासि पु० अमरः । बाहुल्येन मेघसम्बन्धात्तस्य
तथात्वम् । “नभोनभस्यत्वमलम्भितद्दृशौ” नैष० “नभाश्च
नभस्यश्च वार्षिकावृतू” यजु० १४ । १५ । “नभोनभस्ययो-
र्वृष्टिमवग्रैवान्तरे” रघुः । ३ मेघे अमरः नभस्यशब्दे
दृश्यम् । ४ उदके निघण्टुः । ५ घ्राणे ६ वर्षे ७ पतद्ग्रहे
पु० मेदि० ८ पलितशीर्षे शब्दर० ९ लग्नतोदशमस्थाने ज्यो०

नभस पु० नभ--शब्दे असच् । १ शब्दाश्रये गगने । दशममन्व-

न्तरीये २ सप्तर्षिभेदे “अङ्गिरा नभसः सत्यः सप्तैव
परमर्षयः” हरिवं० ७ अ० दशमभन्वतरोक्तौ ।

नभसङ्गम पुंस्त्री नभसं गगनं गच्छति गम--खच् मुम् च ।

खगे अमरः । स्त्रियां जातित्वात् ङीष् ।

नभस्मय पु० नभो मयते मय--गतौ अच् वेदे अयस्मयादि०

न पदत्वम् । आदित्ये “कृतोपस्तरणं नभस्मयम्” ऋ० ९ ।
६९ । ५ “नभस्मयमादित्यम्” भा० । लोके तु नभोमय
इत्येव नभोगे त्रि० ।

नभस्य पु० नभसे मेघाय उदकाय वा साधु यत् । १ भाद्रप-

दमासे नभःशब्दे उदा० । “प्रथमा च द्वितीया च नभस्ये
मासि निग्दिता” वसिष्ठः । “अथ नभस्य इव त्रिद-
शायुषम्” रघुः । २ स्वारोचिषमनोः पुत्रभेदे “प्रथितश्च
नभस्यश्च नभ ऊर्जस्तथैव च” हरिवं० ७ अ० तत्पुत्रोक्तौ
नभसि गगने भवः यत् । ३ गगनभवे त्रि० ।

नभस्वत् पु० नभः साधनत्वेनास्त्यस्य मतुप् मस्य वा । पवने

अमरः । “आकाशाद्वायुः” इति श्रुतेः वायोराकाशहेतु-
कत्वात् तथात्वम् । “मिलन्निमीलं विदधुर्विलोकिता
नभस्वतस्तं कुसुमेषु केलयः” नैष० “नभस्वानिव दक्षिणः”
रघुः । २ अन्तर्द्धानस्य पत्न्यां स्त्री ङीप् । “अन्तर्द्धानो
नभस्वत्यां हविर्द्धानमविन्दत” भाग० ४ । २४ । ६

नभाक पु० न० भाति भा--पिनाका० आक । १ तमसि उज्ज्व-

लद० । २ राहौ च तस्यच्छायारूपत्वेन तथात्वम् । ततः
शिबा० अपत्ये अण् । नाभाक तदपत्ये पुंस्त्री० ।
पृष्ठ ३९६६

नभीग त्रि० नभोगच्छति गम--ड । १ नभश्चरे खगदेवग्रहादौ

२ लग्नतोदशमगे ३ दशममन्वन्तरीये सप्तर्षिभेदे नभसशब्दे
दृश्यम् ।

नभोगज पु० नभसि गज इव । मेघे त्रिका० ।

नभोगति स्त्री ७ त० । १ गगनगतौ नभसि गतिरस्य ।

२ खगादौ त्रि० ।

नभोद पु० विश्वदेवभेदे “उष्णीनाभो नभोदश्च” हरिवं० ७ अ० तद्गणोक्तौ ।

नभोदुह पु० नभसि दुहति दुह--क । १ मेघे शब्दमाला ।

तस्य नभसि पयोनिःसारकत्वेन तथात्वम् ।

नभोद्वीप पु० नभसि द्वीप इव । मेघे शब्दमा० ।

नभोधूम पु० नभसि धूम इव । मेघे शब्दमाला ।

नभोनदी स्त्री ६ त० । स्वर्गगङ्गायाम् ।

नभोमणि पु० नभसि मणिरिव प्रकाशकत्वात् । द्युमणौ सूर्ये हेयच० ।

नभोमण्डल न० नभोमण्डलमिव । गगनमण्डले “नैतन्नभो

मण्डलमम्बुराशेः” सा० द० “अथ च यावन्नभोमण्डलं
सहद्यावापृथिव्योर्मण्डलाभ्यां कात्र्स्न्येन सह भुञ्जीतम्”
भाग० ५ । २२ । ९

नभोमण्डलदीप पु० नभोमण्डले दीप इव रात्रौ प्रका-

शकत्वात् । चन्द्रे “नभोमण्डलदीपाय शिरोरत्राय
धूर्जटेः । कलाभिर्बर्द्धमानाय नमश्चन्द्राय चारवे” ति० त०

नभोऽम्बुप पुंस्त्री नभसि अम्बु पिवति पा--क । चातक-

खगे हेमच० । स्त्रियां जातित्वात् ङीष् ।

नभोरजस् न० नभसि रज इव दृष्ठ्यावरकत्वात् । अन्धकारे

नभोरूप त्रि० नभसो रूपमारोपितं रूपमिव रूपमस्य ।

नीलवर्णयुक्ते पश्वादौ “अप्रत्यक्षेऽपि ह्याकाशे बालास्तल-
जलिनताद्यध्यस्यन्ति” शा० भा० “स्वनीखनीलिमा” नैष०
उक्तेः गगनस्यारोपितरूपवत्त्वेन तत्तुल्यरूपत्वात् श्याम-
मालिन्यवर्णयुक्तस्य तथात्वम् । “नभोरूपाः पार्जन्याः”
यजु० २४ । ६० । “नभोवर्णा नीलवर्णाः” वेददी० ।

नभोरेणु स्त्री नभसि रेणुरिव आवरकत्वात् । कुज्झटिकायां त्रिका०

नभोलय पु० नभसि लोयते ली--अच् ७ त० । १ धूमे शब्दरत्ना०

२ गगनलीनमात्रे त्रि० ।

नभोवीथी स्त्री नभसि वीथीव । आकाशस्थे वीथीरूपे

पथि । “अथ च यावतार्द्धेन नभोवीथ्याः प्रथरति तं
कालमयनभाचक्षते” भाग० ५ । २२ । ८ ।

नभौकस् त्रि० नभ आकाशम् ओकः स्थानमस्य । जन्तरिक्षचरे

खगादौ “अन्ये च विविधा जीवा जलस्थलनभौकसः ।
ग्रहर्क्षकेतवस्तारास्तडितःस्तनयित्रवः” भाग० २ । ६ । १५

नभ्य त्रि० नाभये रथचक्रावयवभेदायहितम् तामर्हति वा

गवादि० यत् “नाभिर्नभञ्च” पा० ग० नभादेशः ।
रथादिचक्रावयवहिते १ तैलादौ २ तदर्हे च “तदेतन्नभ्यं
यदयमात्मा” शत० ब्रा० १४ । ४ । ३ । २३ “तदेव रथचक्र-
दृष्टान्तेन स्पष्टयति नाभिश्चक्रापण्डिका नाभ्यै हितं
नाभिमर्हतीति वा नभ्यम् तदेतल्लोके प्रसिद्धं चक्रपि-
ण्डिकास्थानीयम्, किं तत् यदयमात्मा योऽयं
शरीरम्” भा० । ३ अक्षे ४ रथचक्रानुगुणे अञ्जने च ।
“नभ्योऽक्षः नभ्यमञ्जनं रथचक्रनाभावेवेदम्” सि० कौ० ।
“नभ्योऽक्ष इति सच्छिद्रो रथाङ्गावयवो नाभिस्तदनुप्र-
विष्टः काष्ठविशेषोऽक्षः स च तदनुगुणत्वात् नाभये
हितः । अञ्जनं तैलाभ्यङ्गः तदपि स्नेहमयत्वात् नाभये
हितम्” मनो० । शब्दकल्पद्रुमे नभ्यशब्दस्य नभःप्रकृति-
कत्वेन साधनमन्यार्थपरत्वकथनञ्च निर्मूलम् । “पश्चादु-
त्तरवेदेस्त्रिषु प्रक्रमेषु मत्या वा मग्यस्थे अभिमन्त्रयतेऽत्र
रमेथामिति” कात्या० श्रौ० ८ । ४ । ५ “नध्यमं चक्रस्य फलकं
नभ्यम् “नाभिर्नभं चेति” प्रत्ययसंनियोगेन नाभेर्नभभावः
नभ्ये तिष्ठतो नभ्यस्थे मध्यमे च फलके स्थापयेदि-
त्यर्थः” कर्कः ।

नभ्राज् पु० न भ्राजति भ्राज--क्विप् नभ्राड्नपात्” इत्या-

दिना पा० नञः प्रकृतिभावः । मेघ हेमच० पदत्वे षत्वडत्वे

नमत त्रि० नम--अतच् । प्रह्वे १ नम्रे २ नटे च ३ धूमे

उणा० । कर्मणि अतच् । ४ प्रभौ उणादिकोषः ।

नमयिष्णु त्रि० नम--स्वार्थे णिच वा० इष्णुच् । नमनशीले

“स्थिरा चिन्नमयिष्णवः” ऋ० ८ । २० । १ “नमयिष्णवः
नमनशीलाः” भा० ।

नमस् अव्य० नम--भावे असुन् स्वरादि० । नमने १ स्वापकर्ष-

बोधकव्यापारे २ त्यागे स्वस्वत्वध्वंसानुकूलव्यापारभेदे । पुष्पं
विष्णवे नम इत्यादौ विष्णूद्देश्यकमन्त्रकरणकत्यागविषयः
पुष्पमित्येवं बोधः यथाह शब्दशक्तिप्रकाशिकायाम्
“पुष्पमिदं विष्णवे नम इत्यस्य विष्णूद्देश्यक मन्त्रक-
रणत्यागस्य कर्मेदं पुष्पमित्यर्थस्तथ चतुर्थ्या प्रीत्युद्देश्य-
कत्वं तदिच्छाधीनत्वरूपं नमःपदार्थे मन्त्रकरणत्यागे
बोध्यते प्रकृत्यर्थस्य च विष्ण्वादेः प्रीतौ तदिच्छायां वान्वयः ।
व्राह्मणाद्युद्देश्यकस्य गवातित्वागस्य मन्त्रकरणत्वे
प्रमाणाभावात् गौर्ब्राह्मणाय नम इत्यादिकोन प्रयोगः ।
पृष्ठ ३९६७
व्राह्मणेभ्यो नमोनित्यमित्यादौ तु नमःपदार्थो
नतिरेवेति तत्र विषयत्वं चतुर्थ्या बोध्यते । पुष्पमिदं
परमात्मने नम इत्यादी परमात्मनः प्रीत्यसत्त्वेऽपि तत्प्री-
तित्वप्रकारकेच्छासम्भवान्न तत्प्रीत्युद्देश्यकत्वाप्रसिद्धिः” ।
नम्यते कर्मणि असुन् ३ अन्ने ४ वज्रे च निघण्टुः
नमोवृध्शब्दे दृश्यम् । साक्षादा० उप० स० । नमस्करोति
नमस्कृत्य । अत्र कृधातोरेव नमनार्थता नमश्शब्दस्तु
तदर्थद्योतकः तेन नारायणं नमस्कृत्येत्यादौ द्वितीया
उपपदविभक्तेः कारकविभक्तिर्गरीयसी” इति न्यायात्
नमसोवाचकत्वे नमस्कृत्य व्राह्मणेभ्य इत्यादौ
नमःशब्दयोगे चतुर्थी । “नमः स्वस्तीत्यादि” पा० सूत्रे
त्यागार्थकनमनार्थकयोरुभयोर्ग्रहणम् । ५ यज्ञे च न०
“यज्ञो वै नमः” इति श्रुतेः ।

नमस त्रि० नम--असच् । अनुकूले उज्ज्वद० ।

नमसान त्रि० नामधा० नमस्य--बा० आनच् अल्लोपयलोपौ ।

नमस्करणशीले “यशस्विनं नमसाना विधेम” अथ० ६ । ३९ । २

नमसि(स्यि)त नामधा० नमस्य--कर्मणि क वा यलोपः ।

कृतनमस्कारे अमरः ।

नमस्कार पु० नमस् + कृ--घञ् । १ स्वापकर्षबोधकव्यापारे

करशिरःसंयोगादौ २ विषभेदे शब्दच० । नमस्कारे अधिका-
रिविशेषादिकं नानास्थानात् प्रदर्श्यते । अभिवादयेदि-
त्यनुवृत्तौ शङ्खः “नाप्रयतायाप्रयतश्च” इति शु० त० ।
“स्त्रियो नमस्या वृद्धाश्च वयसा पत्युरेव ताः” इति स्मृत्यर्थ
सारः । “देवं विप्रं गुरुं दृष्ट्वा न नमेद्यस्तु सम्भ्रमात् ।
स कालसूत्रं व्रजति यावच्चन्द्रदिवाकरौ । ब्राह्मणञ्च
गुरुं दृष्ट्वा न नमेद्यो नराधमः । यावज्जीवनपर्य्य-
न्तमशुचिर्यवनो भवेत्” इति ब्रह्मवै० जन्मस्य० “देव-
तायतनं दृष्ट्वा दृष्ट्वा तु दण्डिनन्तथा । नमस्कारं न
कुर्य्याद्यः प्रायश्चित्ती भवेन्नरः । सभायां यज्ञशालायां
देवतायतनेषु च । प्रत्येकन्तु नमस्कारो हन्ति पुण्यं
पुराकृतम् । उपविश्य नमेत् शूद्रो दीर्घायुर्ब्राह्मणो
वदेत् । स शूद्रो नरकं याति ब्राह्मणो यात्यधोगतिम् ।
दूरस्थं जलमध्यस्थं धावन्तं मदगर्वितम् । क्रोधवन्तं
विजानीयात् नमस्कारञ्च वर्जयेत् । पुष्पहस्तो वारिहस्त-
स्तैलाभ्यङ्गी जलस्थितः । आशीःकर्त्ता नमस्कर्त्ता
उभयोर्नरकं भवेत्” कर्मलोचनम् । “मातुः पितुः
कनीयांसं न नमेद्वयसाधिकः । नमस्कुर्य्याद् गुरोः
पत्नीं भ्रातृजायां विमातरम्” यमः । “अभिवादयतः
पूर्वमाशिषं न प्रयच्छति । यद्दुष्कृतं भवेत्तस्य तस्माद्भागं
प्रपद्यते । स्वस्तीति ब्राह्मणे ब्रूयात् आयुष्मानिति
राजनि । वर्द्धतामिति वैश्येषु शूद्रे त्वारोग्यमेव च” म० त०
“गुरुपत्नी तु युवती नाभिवाद्येह पादयोः । पूर्णषोड़श-
वर्षेण गुणदोषौ विजानता” मनुः । “कुर्वीत बन्दनं भूयो
भगोवोहमिति ब्रुवन् । विप्रोष्य पादग्रहणमन्वहञ्चाभि-
वादनम् । गुरुदारेषु कुर्वीत सतां धर्ममनुस्मरन् । अभिवा-
दनशीलः स्यान्नित्यं वृद्धेषु धर्मतः । असावहम्भो नामेति
सम्यक् प्रणतिपूर्वकम् । आयुरारोग्यसिद्ध्यर्थं तन्द्रादि
परिवर्जितः । आयुष्मान् भव सौम्येति वाच्यो विप्रोऽभि-
वादने । अकारश्चास्य नाम्नोऽन्ते वाच्यः पूर्वाक्षरप्लुतः ।
यो न वेत्त्यभिवादस्य द्विजः प्रत्यभिवादनम् । नाभि-
वाद्यः स विदुषा यथा शूद्रस्तथैव सः । व्यत्यस्तपाणिना
कार्यमुप्रसंग्रहणं गुरोः । सव्येन सव्यः स्प्रष्टव्यो दक्षिणेन
तु दक्षिणः । लौकिकं वैदिकञ्चापि तथाध्यात्मिकमेव
वा । आददीत यतो ज्ञानं तं पूर्वमभिवादयेत् । ब्राह्म-
णान् कुशलं पृच्छेत् क्षत्रबन्धूननामयम् । वैश्यं क्षेमं
समागम्य शूद्रमारोग्यमेव तु” मनुः । अभिवादनीयाश्च
“उपाध्यायः पिता ज्येष्ठो भ्राता चैव महीपतिः ।
मातुलः श्वशुरस्त्राता मातामहपितामहौ । बन्धु
ज्येष्ठः पितृव्यश्च पुंस्येते गुरवः स्मृताः । माता माता-
मही गुर्वी पितुर्मातुश्च सोदरा । श्वश्रूः पितामही
ज्येष्ठा धात्री च गुरवः स्त्रियाम् । इत्युक्तो गुरुवर्गोऽयं
पितृतो मातृतो द्विजाः । अनुवर्त्तनमेतेषां मनोवाक्-
कायकर्मभिः । गुरून् दृष्ट्वा समुत्तिष्ठेदभिवाद्य कृता-
ञ्जलिः” इति कूर्मपु० ११ अ० । अधिकं नतिशब्दे दृश्यम् ।
“अयमेव नमस्कारो भूम्यादिप्रतिपत्तिभिः । प्रणाम इति
विज्ञेयः स पूर्वं प्रतिपादितः” कालिकापु० ७० अ० । रात्रौ-
तन्निषेधो यथा “रात्रौ नैव नमस्कुर्य्यात्तेनाशीरभिचा-
रिका । अतः प्रातः पदं दत्त्वा प्रयोक्तव्ये च ते उभे”
महाभारते ।

नमस्कारी स्त्री नमस्कारः तदङ्गाञ्जलिरिव पत्रम् अस्त्यस्याः

अच् गौरा० ङीष् । लज्जालुवृक्षे अमरः । तस्याः
नमस्काराङ्गाञ्जलिरूपपत्रकत्वात् तथात्वम् ।

नमस्य नामधा० नमस्करोति “नमस्तपोबरिवः” इत्यादि क्यच्

पूजायाम् भ्वा० पर० सक० सेट् । नमस्यति अनमसी-
(स्यी)त् । कर्मणि नमस्यते “द्विजैः क्वच्चिन्नमस्यसे”
“तेऽनमस्यँश्च शङ्करम्” “नो नमस्यन्ति ते बन्धून्” भट्टिः ।
पृष्ठ ३९६८

नमस्य त्रि० नामधातुः नमस्य--कर्मणि यत् अल्लोपयल्लोपौ ।

पूज्ये । “ब्रह्मन्नतिथिर्नमस्यः” कठीप० ।

नमस्या स्त्री नमस्य--भावे अ । पूजायाम्

नमस्यु त्रि० क्यजन्तनमस्य--“क्याच्छन्दसि” पा० उ । १

नमस्करण शीले “स इद्वने नमस्युभिर्वचस्यते” ऋ० १ । ५५ । ४ ।
पुरवंश्ये २ नृपभेदे “जनमेजयोऽभूत् पूरीः प्रचिन्वां-
स्तत्सुतस्ततः । प्रवीरोऽथ” नमस्युर्वै भाग० ९ । २० । ३ तत्र
नभस्युरिति पाठान्तरं हरिवंशे ३१ अ० “प्रचिन्वतः प्रवी
रोऽभून्नभस्युस्तस्य चात्मजः” इत्युक्तेः ।

नमित त्रि० नम--णिच् क्त वा ह्रस्वः । नामिते नतीकृते

“सुधीः को वा कौपीरपि नमितमूर्द्ध्वा न पिबति”
विदग्धमाधवः ।

नमी पु० नम--बा० ई वातप्रमीवत् । ऋषिभेदे “प्रह्वन्नमीं

साय्यं ससन्तम्” ऋ० ६ । २० “नमीं तत्संज्ञकमृषिम्” भा०
“प्र मे नमीं साय्यम् इषे भुजे” ऋ० १० । ४८ । ९ “एतेन वै
नमी साय्योबैदेहो राजाञ्जसा स्वर्गं लोकमैत्” पञ्चभी
ब्रा० २५ । १० । १७

नमुचि पु० न मुञ्चति मुच--इन् नभ्राडित्या पा० नञः प्रकृति

भावः । १ कन्दर्पे दनोः पुत्रे २ असुरभेदे मेदि० । चत्वा-
रिंशद्दनोः पुत्रा इत्युपक्रमे “शंवरी नमुचिश्चैव पुलीमा
चेति विश्रुतः” भा० आ० ६० अ० । “कश्यपस्य दनुर्नाम
भार्य्यासीद्द्विजसत्तम! । तस्यान्तु द्वौ सुतावास्तां सहस्रा-
क्षाद् बलाधिकौ । ज्येष्ठः शुम्भः इति ख्यातो निशुम्भ-
श्चापरीऽसुरः । तृतीयो नमुचिर्नाम महाबलससन्वितः”
वामनपु० ५२ अ० ।

नमुचिद्विष् पु० नमुचिं द्विष्टवान् द्विष--भूते क्विप् ६ त० । इन्द्रे

नमुचिसूदनशब्दे दृश्यम् । “विगृह्य चक्रे नमुचिद्विषा
बली” माघः ।

नमुचिसूदन पु० नमुचिं सूदयति हिनस्ति सूदि--ल्यु ।

इन्द्रे अमरः । तेन तस्य सूदनकथा भा० श० ४७ अ० ।
“नमुचिर्वासवाद्भीतः सूर्यरश्मिं समाविशत् । तेनेन्द्रः
सख्यमकरोत् समयञ्चेदमब्रवीत् । न चार्द्रेण च
शुष्क्रेण न रात्रौ नापि चाहनि । वधिष्याम्यसुरश्रेष्ठ!
सखे! सत्येन ते शपे । एवं म कृत्वा समयं दृष्ट्वा नीहा-
रमोश्वरः । चिच्छेदास्य शिरो राजन्नपां फेनेन वासवः ।
तच्छिरो नमुचेश्छिन्नं पृष्ठतः शक्रमन्वियात् । भो मित्र
हन! पापेति ब्रुवाणं शक्रमन्तिकात्” नमुचिशत्र
नमुचिहन् प्रभृतयोऽत्र ।

नमुर पु० नम--बा० उर । नमुचौ असुरे “भूयान्निन्द्रो

नमुरात् भूयानिन्द्रासि मृत्युभ्यः” अथ० १३ । ४ । ४६

नमेरु पु० नम--बा० एरु । १ सुरपुन्नागे विश्वः २ रुद्राक्षे इति

केचित् “गणा नमेरुप्रसवावतंसाः” “प्रान्तेषु संसक्त-
नमेरुशास्वम्” कुमा० “विशश्रमुर्नमेरूणां छायास्वध्यास्य
सैनिकाः” रघुः ।

नमोगुरु पु० नमः नमस्कारविषये गुरुः । ब्राह्मणे शब्दर० ।

ब्राह्मणानां सर्ववर्णनमस्यतया गुरुत्वात् तथात्वम् ।

नमोवाक पु० वच--भावे घञ् ६ त० नमस्काराय उच्यते

कर्मणि घञ् वा । २ नमोवचने नमस्कारार्थं कथनीये
त्रि० “इदं कबिभ्यो पूर्वेभ्यो नमोवाकं प्रशास्महे” उत्त-
रच० । “नमोवाके प्रस्थिते अध्वरे” ऋ० ८ । ३५ । २३
“नमस्काराय प्रोच्यते स नमोवाकः तस्मिन्नध्वरे” भा०

नमोवृध् पु० वृध--भावे सम्प० क्विप नमसोऽन्नस्य वृत्

वर्द्धनं यस्मात् ५ त० । यज्ञे “अग्नौ प्रास्ताहुतिः सम्य-
गादित्यमुपतिष्ठते । आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः
प्रजाः” गीतायां यज्ञस्यान्नहेत्वस्योक्तेस्तस्य तथात्वम् ।
“आनो यज्ञं नमोदृधम्” ऋ० ३ । ४३ । ३ “नमोवृधस्
नमसोऽन्नस्य वर्द्धकं यज्ञम्”

नम्ब गतौ भ्वा० पर० सक० सेट् । नम्यति अनम्बीत् ननम्ब

अणीपदेशत्वात् सति निमित्ते न णत्वम् । प्रनम्यति ।

नम्य त्रि० नम--पवर्गान्तत्वात् कर्मणि यत् न ण्यत् । नमनीये

नम्र त्रि० नम--र । १ नते निम्रताप्राप्ते २ विनयान्विते च

शब्दार्थचि० । “स्तोकनम्रा स्तनाभ्याम्” मेघ० । “अभूच्च
नम्रः प्रणिपातशिद्धया” रघुः ।

नम्रक पु० नम्र इव कायति कै--क । १ वेतसवृक्षे भावप्र० ।

स्वार्थे क । २ नमनकर्त्तरि त्रि० स्त्रियां कापि अत इत्त्वम्

नय गतौ भ्वा० आत्म० सक० सेट् । नयते अनयिष्ट । नेये

नय पु० नी--भावे अच् । १ नीतौ अमरः । “विषमोऽपि

विगाह्यते नयः कृततीर्थः पयसामिवाशयः” किरा० । २ द्यूत-
भेदे मेदि० । ३ नैगमादौ हेमच० । नयति संसारपारं भक्तम्
नी--कर्त्तरि अच् । ४ विष्णौ “रामोविरामोविरजा मार्गो
नेयो नयोऽनयः” विष्णुसं० । नैगमादिश्च सिद्धान्तादिः
“एवं न्यायनयज्ञैस्तृतीयमुक्तं निमित्तहेतुत्वम्” “तत्रापि
परमाणौ स्यात् पाको वैशेषिचे नये” भाषा० । ५ न्याय्ये
६ नेतरि च त्रि० शब्दच० ततः आकर्षा० कुशलाद्यर्थे
वुन् । नयक नीतिकुशले त्रि० ।
पृष्ठ ३९६९

नयन न० नीयते बुद्धिवृत्तिः स्वसंयुक्तविषयान् अनेन नी--करणे

ल्युट् । १ नेत्रे अमरः । तस्य बुद्धिवृत्तेः स्वसंयोगिविषय-
प्रापकत्वात् तथात्वम् । “सेविष्यन्ते नयनसुभगं खे भवन्तं
बलाकाः” मेघ० । “अथ नयनससुत्थं ज्योतिरत्रेरिव
द्यौः” रघुः अस्य स्वाङ्गत्वेऽपि बह्वच्कत्वात् उपसर्ज-
नत्वे स्त्रियां न ङीष् । “दयिता दयिताननाम्बुजं
दरमीलन्नयना निरीक्षते” रसगङ्गा० भावे ल्युत् । २ प्रापणे
३ यापने च “नयनं पारिजातस्य द्वारकां मम रोचते”
हरिवं० १२९ “कालस्य नयने युक्ताः सोमपत्न्यः शुचि-
व्रताः” भा० आ० ६६ अ० “कालस्य नयने युक्ता यमस्य
पुरुषाश्च ये” भा० स० ८ अ० ।

नयनाभिघात पु० ६ त० । सुश्रुतोक्ते नयनाभिहननरूपे

रोगभेदे यथोक्तम् “अथातो नयनाभिधातप्रतिषेधं व्या-
ख्यास्यामः । अभ्याहते तु नयने बहुधा नराणां
संरम्भरागतुमुलासु रुजासु धीमान् । नस्यप्रलेपपरि-
षेचनतर्पणाद्यमुक्तं पुनः क्षतजपित्तजशूलपथ्यम् ।
दृष्टिप्रसादजननं विधिमाशु कुर्य्यात्स्निग्धैर्हिमैश्च मधुरैश्च
तथा प्रयोगैः । स्वेदाग्निधूमभयशोकरुजाभिघातैरभ्या-
हतावपि तथैव भिषक् चिकित्सेत् । सद्योहते नयन
एष विधिस्तदूर्द्ध्वं स्यन्देरितो भवति दोषमवेक्ष्य कार्यः ।
अभ्याहतं नयनमीषदथास्य वाष्पसंस्वेदितं भवति तन्न-
रुजं क्षणेन । साध्यं क्षतं पटलमेकमुभे तु कृच्छ्रे त्रीणि
क्षतानि पटलानि विवर्जयेत्तु । स्यात्पिच्चिटञ्च नयनं
ह्यति चावसन्नं स्रस्तं च्युतञ्च हतदृक्च भवेत्तु याप्यम् ।
विस्तीर्णदृष्टितनुरागमसत्प्रदर्शि साध्यं यथास्थितमनाबि-
लदर्शनञ्च । प्राणोपरोधवननक्षवकण्ठरोधैरुन्नम्यमाशु
नयनं यदतिप्रविष्टम् । नेत्रे विलम्बिनि विधिर्विहितः
पुरस्तादुच्छिंहनं शिरसि वार्य्यवसेचनञ्च । षट्सप्तति-
र्नयनजा य इमे प्रदिष्टा रोगा भवन्त्यमहतां महताञ्च
तेभ्यः । स्तन्यप्रकोपकफमारुतपित्तरक्तैर्बालाक्षिवर्त्मभव
एव कुकूणकोऽन्यः । मृद्नाति नेत्रमतिकण्डुमथाक्षिकूट-
नासाललाटमपि तेन शिशुः स नित्यम् । सूर्यप्रभां न
सहते स्रवति प्रवृद्धं तस्याहरेद्रुधिरमाशु विनिर्लिखेच्च ।
क्षौद्रायुतैश्च कटुभिः प्रतिसारयेत्तु नातुः शिशोरभिहि-
तञ्च विधिं विदध्यात्” ।

नयनाभिराम पु० नयनमभिरमयति अभि + रम--णिच्-

अण् नयनयोरभिरामो यस्मात् वा । १ चन्द्रे “आयुः
क्षयञ्च कुरुते नयनाभिरामः” वैवाहिकलग्नफलोक्तौ
ज्योतिर्वसिष्ठः । २ नेत्रानुरागकारके प्रियमात्रे त्रि० ।

नयनी स्त्री नी--करणे ल्युट् ङीप् । नेत्रकनिकायां शब्दचि०

नयनोत्सव पु० नयनयोरुत्सवो यस्मात् । १ दीपे शब्दर० ।

तस्यालोकेन हि नेत्रस्य दर्शनयोग्यत्वम् “गृह्णाति
चक्षुःसम्बन्धादालोकोद्भूतरूपयोः” भाषा० आलोकसम्ब-
न्धेन नयनस्य विषयग्राहित्वोक्तेः । २ नेत्रोत्सवकारि-
मात्रे त्रि० ।

नयनोपान्त पु० ६ त० । अपाङ्गे राजनि० ।

नयनौषध न० ६ त० । पुष्पकासीसे हेमच० ।

नयपीठी स्त्री नयस्य पीठीव । (छक्) द्यूताङ्गे अष्टकोष्ठे त्रिका० ।

नयवर्त्म ६ त० । नीतेर्मार्गे षाड्गुण्यप्रयोगे षट् गुणाश्च

“सन्धिविग्रहयानानि संस्थाप्यथ दमस्तथा । द्वैधीभावश्च
विज्ञेयाः षड्गुणा नीतिवेदिनाम्” नीतिसा० ।

नयविशारद त्रि० ७ त० । नीतिशास्त्रानुसारेण षाड्गुण्य-

प्रयोगाभिज्ञे “षाड्गुण्यविधितत्त्वज्ञो देशभाषाविशा-
रदः । सान्धिविग्रहिकः कार्य्यो राज्ञा नयविशारदः”
मात्स्ये ८९ अ० ।

नर पुंस्त्री० नॄ--नये अच् । १ मनुष्ये जातित्वात् स्त्रियां नारी-

त्येव “पुत्रे यशसि तोये च नराणां पुण्यलक्षणम्” ।
“नराणाञ्च नराधिपः” गीता “नरतीति नरः प्रोक्तः
परमात्मा सनातनः” व्यासोक्तेः २ परमात्मनि “नरा-
ज्जातानि तत्त्वानि नाराणीति विदुर्बुधाः” वेदमन्त्रम्
“आपो नारा इति प्रोक्ता आपो वै नरसूनवः” मनुः ।
“जह्नुर्नारायणो नरः” विष्णुसं० । ३ पुंसि राजनि० ।
४ देवभेदे “ततस्तदमृतं देवो विष्णुरादाय वीर्य्यवान् ।
जहार दानवेन्द्रेभ्यो नरेण सहितः प्रभुः । एवं सुतुमुले
युद्धे वर्त्तमाने महाभये । नरनारायणो देवौ
समाजग्मतुराहवम्” भा० आ० १९ अ० स्वारोहिहारके ५ अश्वे
निघण्ठुः ६ नरदेवस्यावतारे अर्जुने मिदि० ।
“नरनारायणौ यौ तौ पुराणावृषिसत्तमौ । ताविमा-
वनुजानीहि हृषीकेशधनञ्जयौ । विख्यातौ त्रिषु
लोकेषु नरनारायणावृषी । कार्य्याथमवतर्णौ तौ पृथ्वीं
पुण्यप्रतिश्रयाम् । यन्न शक्यं सुरैर्द्रष्टुमृषिभिर्वा
महात्मभिः । तदाश्रमपदं पुण्यं वदरीनाम विश्रुतम् । स
निवासोऽभवद्विप्र! बिष्णोर्जिष्णोस्तथैव च । यतः प्रबवृते
गङ्गा सिद्धचारणसेविता । तौ मन्नियोगाद्ब्रह्मर्षे!
क्षितौ जातौ महाद्युती । भूमेर्भारावतरणं महावीर्य्यौ
करिष्यतः” भा० व० ४७ अ० “तेषां मनश्च तेजश्चाप्याददाना
विवौजसा । पूर्वदेवौ व्यतिक्रान्तौ नरनारायणावृषी ।
पृष्ठ ३९७०
वृहस्पतिस्तु पप्रच्छ ब्रह्माणं काविमाविति । भवन्तं
नीपतिष्ठेते तौ नः शंस पितामह!” ब्रह्मोवाच “यावेतौ
पृथिवीं द्याञ्च भासयन्तौ तपस्विनौ । ज्वलन्वौ रोचमानौ
च व्याप्यातीतौ महाबलौ । नरनारायणावेतौ लोका-
ल्लोकं समास्थितौ । ऊर्जितौ स्वेन तपसा महासत्व
पराक्रमौ । एतौ हि कर्मणा लोकं नन्दयामासतु-
र्ध्रुवम् । द्विधा भूतौ महाप्राज्ञौ विद्धि ब्रह्मन् परन्तपौ ।
असुराणां विनाशाय देवगन्धर्वपूजितौ” वैशम्पायन
उवाच “जगाम शक्रस्तच्छ्रुत्वा यत्र तौ तेपतुस्तपः ।
सार्द्धं देवगणैः सर्वैर्वृहस्पतिपुरोगमैः । तदा देवासुरे
युद्धे भये जाते दिवौकसाम् । अयाचत नहात्मानौ
नरनारायणौ वरम् । तावब्रूतां वृणीष्वेति तदा
भरतसत्तम! । अथ तावब्रवीच्छ्रक्रः सह्यं नः क्रियता-
मिति । ततस्तौ शक्रमब्रूतां करिष्यावो यदिच्छसि ।
ताभ्याञ्च सहितः शक्रो विजिग्ये दैत्यदानबान् । नर
इन्द्रस्य संग्रामे हत्वा शत्रून् परन्तपः । पौलोमान्
कालकञ्जांश्च सहस्राणि शतानि च । एवमेतौ
महावीर्य्यौ तौ पश्यत समागतौ । वासुदेवार्जुनौ वीरौ
समवेतौ महारथौ । नरनारायणौ देवौ पूर्वदेवाविति
श्रुतिः । अजेयौ मानुषे लोके सेन्द्रैरपि सुरासुरैः ।
एष नारायणः कृष्णः फाल्गुनश्च नरः स्मृतः । नारा-
यणो नरश्चैव सत्वमेकं द्विधा कृतम् । एतौ हि कर्मणा
लोकानश्नुतोह्यऽक्षयान् ध्रुवान्” भा० उ० ४८ अ० । ७
धान्यकर्पूरतृणे मेदि० । ८ शङ्कौ छायाव्यवहारोपयोगिकील-
कभेदे “छायाहृते तु नरदीपतलान्तरघ्ने शङ्कौ भवेन्नरयुते
खलु दीपकोच्च्यम्” लीला० । छायाव्यवहारशब्दे दृश्यम्
लीला० उक्ते रत्नमिश्रव्यवहारे ९ रत्नमिश्रणकारिनर-
सङ्ख्यायाञ्च “नरघ्नदानोनितरत्नशेषैरिष्टे हृते स्युः खलु
मौल्यसङ्ख्याः” लीला० । नरत्वस्य दुर्लभता विष्णुपु० उक्ता
नरकभोगोत्तरं तत्तद्योनिभ्रमणानन्तरं सप्रपञ्चं पुरा-
णस० दर्शिता यथा
“पापेन हि ध्रुवं यान्ति नरकेषु नराः स्वयम् । यः
करोति नरः पापं तस्यात्मा ध्रुवमप्रियः । पापस्य हि
फलं दुःखं तद्भोक्तव्यमिहात्मना । कर्थं ते पापनिरता
नरा रात्रिषु शेरते । मरणान्तरिते येषां नरके तीव्र-
यातनाः । एवं क्लिष्टा विशुद्धाश्च सावशेषेण कर्मणा ।
ततः क्षितिं समासाद्य पुनर्जायन्ति देहिनः । स्थावरा
विविधाकारास्तृणगुल्मादिभेदतः । तत्रानुभूय दुः-
खानि जायन्ते कीटयोनिषु । निष्क्रान्ताः कीटयोनिभ्य-
स्ततो जायन्ति पक्षिणः । संक्षिप्ता, पक्षिभावेन भवन्ति
तृणजातिषु । मार्गदुःखमतिक्रम्य जायन्ते पशुयोनिषु ।
क्रमाद् गोयोनिमासाद्य पुनर्जायन्ति मानुषाः । एवं
योनिषु सर्वासु परिभ्रम्य क्रमेण तु । कालान्तरवशा-
यान्ति मानुष्यमतिदुर्लभम् । व्युत्क्रमेणापि मानुष्यं
प्राप्यते पुण्यगौरवात् । विचित्रा गतयः प्रोक्ताः कर्मणां
गुरुलाघवात् । मानुष्यं यः समासाद्य स्वर्गमोक्षप्रसा-
धकम् । द्वयोर्न साधयत्येकं स मृतस्तप्यते चिरम् ।
देवासुराणां सर्वेषां मानुष्यमतिदुर्लभम् । तत् संप्राप्य
तथा कुर्य्यात् न गच्छेन्नरकं यथा । स्वर्गापवर्गलाभाय
यदि नास्ति समुद्यमः । सर्वस्य मूलं मानुष्यं तद्यत्ना-
दनुपालय । धर्ममूलेन मानुष्यं लब्ध्वा सर्वार्थसाधकम् ।
मानुषत्वे च विप्रत्वं यदि प्राप्नोति दुर्लभम् । न
करोत्यात्मनः श्रेयः कोऽन्योऽस्मादस्त्यचेतनः” ।
“नरत्वं दुर्लभं लोके विद्या तत्र सुदुर्लभा” सा० द० अग्निपु०

नरक पु० नरति नयति पापिलोकं पापानुरूपभोगायात्र

नॄ--नये आधारे बा० वुन् । पापभोगस्थाने तस्य तथात्वञ्च
विस्तरेण विष्णुपु० शिवधर्मोत्तरे च वर्णितं तदेव पुराणस०
प्रदर्शितं तच्च कर्मविपाकशब्दे १७४५ पृष्ठादौ दर्शितम् ।
पापभेदेन नरकभेदप्राप्तिश्च पाद्मे उत्त० ख० ४८ अ० यथा
“कूटसाक्षी तथाऽसम्यक् पक्षपातेन यो वदेत् । यश्चान्य-
दनृतं वक्ति स नरो याति रौरवम् । भ्रूणहा
पुरहर्त्ता च गोघ्नश्च मुनिसत्तमः! । यान्ति ते नरके रोधे
यश्चोच्छ्वासनिरोधकः । सुरापो ब्रह्महा हर्त्ता सुवर्णस्य च
शूकरे । प्रयाति नरके यश्च तैः संसर्गमुपैति वै । राजन्य
वैश्यहा । तात! तथैव गुरुतल्पगः । तप्तकुम्भे स्वसृगामी
हन्ति राजमटांश्च यः । माध्वीविक्रयकृद्बध्यपालः
केशरिविक्रयी । तप्तलौहे तु पच्यन्ते यश्च भक्तं परित्य-
जेत्” । (केशरी अश्वः) “स्नुषां सुताञ्चापि गत्वा
महाज्वाले निपात्यते । अवमन्ता गुरूणां यो यश्चाक्रोष्टा
नराधमः । वेददूषयिता यश्च वेदविक्रायकश्च यः ।
अगम्यागामी यश्च स्यात्ते यान्त्यसिवनं द्विज । चौरो
विमोहे पतति मर्य्यादादूषकस्तथा । देवद्विजपितॄन् द्वेष्टा
रत्नदूषयिता च यः । स याति कृमिमक्षे वै कृमीशे
च दुरिष्टकृत् । पितृदेवातिथीन् यस्तु पर्य्यश्नाति
नराधमः । लालाभक्षे स यात्युग्रे शरकर्त्ता च रोधके ।
(पर्य्यश्नाति परित्यज्य आदौ भुङ्क्ते) “करोति कर्णिनो
पृष्ठ ३९७१
यस्तु यस्तु खङ्गादिकृन्नरः । प्रयान्ति ते विशसने नरके
भृशदारुणे । असत्प्रतिग्रहीतारो नरके यान्त्यधोमुखे ।
अयाज्ययाजकस्तत्र तथा नक्षत्रसूचकः । वेगी पूयवह-
ञ्चैकोको याति मिष्टान्नभुङ्नरः । (वेगी साहसकारी)
(पुत्रादीन् वर्जयित्वा एक एव मिष्टान्नभुक) “लाक्षामांस
रसानाञ्च तिलानां लवणस्य च । विक्रेता व्राह्मणो
याति तमेव नरकं द्विज! । मार्जारकुक्कुटच्छागान् श्वव-
राहविहङ्गमान् । पालयन्नरकं याति तमेव द्विज-
सत्तम! । रङ्गोएजीवो कैवर्त्तः कुण्डाशी गरदस्तथा ।
सूची भाहिषिकश्चैव पर्वकारी च यो द्विजः” । (पत्यौ
जीवति जाराज्जातः कुण्डः तदन्नभोजी कुण्डाशी
माहिषिको महिषोपजीवी “यद्वा महिषीत्युच्यते
भार्य्या भगेनीपार्जितं धनम् । उपजीवति यस्तस्याः स वै
माहिषिकः स्मृतः” इति स्मृतिः । पर्वकारी धनादिलोभेन
पर्वसु अमावस्यादिक्रियाप्रवर्त्तकः) “अगारदाही मित्रघ्नः
शाकुनिर्ग्रामयाजकः । रुधिरार्द्रे पतत्येते सोभं विक्रीणते
च ये । मधुहा ग्रामहन्ता च याति वैतरणीं नरः ।
रेतःपानादिकर्त्तारो मर्य्यादाभेदिनश्च ये । ते कृष्णे
यान्त्यशौचाश्च कुहकाजीविनश्च ये । असिपत्रवणं
याति वनच्छेदी वृथैव यः । औरभ्रिको मृगव्याधो
वह्निज्वाले पतन्ति वै । यान्त्येते द्विज! तत्रैव यश्चापा-
केषु वह्निदः । व्रतेषु लोपको यश्च स्वाश्रमाद्विच्युतश्च
थः । सन्दंशयातनामध्ये पततस्तावुभावपि । दिवा-
स्वप्नुषु स्कन्दन्ति ये नरा ब्रह्मचारिणः । पुत्रैरध्यापिता
ये च ते प्रतन्ति श्वभोजने । एते चान्ये च नरकाः
शतशोऽथ सहस्रशः । येषु दुष्कृतकर्माणः पच्यन्ते
यातनागताः । यथैव पापान्येतानि तथान्यानि
सहस्रशः । मुज्यन्ते यानि पुरुषैर्नरकान्तरगोचरैः । वर्णा-
श्रमविरुद्धञ्च कर्म कुर्वन्ति ये नराः । कर्मणा मनसा
बाचा निरयेषु पतन्ति ते । अधःशिरोभिर्दृश्यन्ते
नारकैर्दिवि देवताः । देवाश्चाधोमुखान् सर्वानधः पश्यन्ति
नारकान् । स्थावराः कृमयोऽब्जाश्च पक्षिणः पशवो नराः ।
धार्मिकास्त्रिदशास्तद्वन्मोक्षिणश्च यथाक्रमम् । सहस्र-
भागप्रथमा द्वितीयानुक्रमास्तथा । सर्वे ह्येते महाभाग!
यावन्मुक्तिसमाश्रयाः । यावन्तो जन्तवः स्वर्गे तावन्तो
नरकौकसः । पापकृद्याति नरकं प्रायश्चित्तपराङ्-
मुखः” इति विष्णु पु० द्वितीयांशे ६ अ० । तत्रैव
“कथयामि विचित्राणां कर्मणां विविधा गतीः । ताः शृणुष्व
महाराज! याः श्रुत्वा मोक्षमाप्नुयात् । परवित्तं
परापत्यं कलत्रं पारकञ्च यः । हरते बुद्धिमोहेन सोऽन्ते
मृत्युवशङ्गतः । कालपाशेन सम्बद्धो यसदूतैर्महाबलैः ।
तामिस्रे पात्यते तावत् यावत् वर्षसहस्रकम् । तत्र
ताडनमुद्वृत्ताः कुर्वन्ति यमकिङ्कराः । पापभोगेन सम्मुक्त-
स्ततो योनिन्तु शौकरीम् । तत्र भुक्त्वा महादुःखं मानु-
षत्वं गमिष्यति । रोगादिचिह्नितं तत्र दुर्यशोज्ञापकं
स्वकम् । भूतद्रोहं विधायैवं केवलं स्वकुटुम्बकम् ।
पुष्णाति पापनिरतः सोऽन्धतामिस्रके पतेत् । ये नरा
इह जन्तूनां बधं कुर्वन्तिवै मृषा । ते रौरवे निपात्यन्ते
खाद्यन्ते रुरुभिर्यतः । यः स्वोदरार्थं भूतानां बधमा-
चरति स्फुटम् । महारौरवसंज्ञे तु पात्यते स
यमाज्ञया । यो वै निजन्तु जनकं ब्राह्मणं द्वेष्टि पापकृत् ।
कालसूत्रे महादुष्टे योजबायतविस्तृते । यावन्ति
पशुरोमाणि गवां द्वेषं करोति यः । तावद्वर्षसह-
स्राणि पच्यते यमकिङ्करैः । यो भूमौ भूपतिर्भूत्वा
दण्डायोग्यन्तु दण्डयेत् । करोति ब्राह्मणस्यापि देहदण्डं
विलोलुपः । स शूकरमुखैर्दुष्टैः पीड्यते यमकिङ्करैः ।
पश्चाद्दुष्टासु योनीषु जायते पापभुक्तये । व्राह्मणानां
गवां ये तु द्रव्यं वित्तं तथाल्पकम् । वृत्तिं वा गृह्लते
मोहाल्लुम्पन्ति स्ववलान्नराः । ते परत्रान्धकूपे च
पात्यन्ते च महार्द्दिताः । योऽर्थं स्वयमुपाहृत्य मधुकञ्चात्ति
कीलुपः । न देवाय न सुहृदे ददाति रसनातुरः ।
स पतत्येव नरके कृमिभोजनसंज्ञके । अनापदि नरो
यस्तु हिरण्यादीनपाहरेत् । ब्रह्मस्वं बा महादुष्टः
सन्दंशे नरके पचेत् । यः स्वदेहं प्रपुष्णाति नान्यं जानाति
मूढधीः । मनसा कल्पितं द्रव्यं विदुषे यो ददाति न ।
स पुमान्नरकं याति यावदिन्द्राश्चतुर्दश । पश्चाद्दुष्टासु
योनीषु जायते बर्णसङ्करः । दानानि बाडवे दत्त्वा पुनः
शुद्धो भविष्यति । वचोदत्तं मनोदत्तमिति साहं वदेत्
यदि । कल्पन्ते पितरस्तस्य नरकाय समुत्सुकाः ।
वचोदत्तं मनोदत्तं दत्तं पाणिकुशोदकम् । एतद्दत्त-
मदत्तं चेत् जिह्वामुत्पाटयेद् यमः । स यात्यते
तैलतप्ते कुम्भीपाकेऽतिदारुणे । ये नगम्यां स्त्रियं मोहाद्-
योषिद्भावाच्च कामयेत् । तं तया किङ्कराः शूर्म्याः
परिबद्धञ्च कुर्वते । ये बलाद्वेदमर्य्यादां लुम्पन्ति स्वबलोद्धताः ।
ते वैतरण्यां पतिता मांसशोणितभक्षकाः । वृषलीं
यः स्त्रियं कृत्वा तया गार्हस्थ्यमाचरेत् । पूयोदे निप-
पृष्ठ ३९७२
तत्येव महादुःखसमन्वितः । ये दम्भानाश्रयन्ते वै
धूर्त्ता लोकस्य वञ्चने । वैशसे नरके मूढाः पतन्ति
यमताडिताः । ये सवर्णां स्त्रियं मूढाः पाययन्ति स्वरे-
तसम् । रेतःकुल्यासु ते यात्या रेतःपानेषु तत्पराः ।
ये चौरा वह्निदा दुष्टा गरदा ग्रामलुण्ठकाः । सारमे-
यादने ते वै यात्यन्ते पातकान्विताः । कूटसाक्ष्यं
वदत्यद्धा पुरुषः पापसम्भृतः । परकीयन्तु द्रव्यं यो
हरति प्रसभं बली । सोऽवीचिनरके पापे ह्यवाग्वक्त्रः
पतत्यधः । तत्र दुःखं महद्भुक्त्वा पापिष्ठां योनिमाव्र-
जेत् । यो नरो रसनास्वादात् सुरां पिबति मूढधीः ।
तम्पाययन्ति लोहस्य रसं धर्मस्य किङ्कराः । यो गुरू-
नवमन्येत स्वविद्याचारदर्पितः । स मृतः पात्यते क्षार
संज्ञकेऽधोमुखः पुमान् । विश्वासघातं कुर्वन्ति ये नरा
धर्मनिष्कृताः । शूलप्रोते तु नरके पात्यन्ते बहुयातनाः ।
यैर्न श्रुता रामकथा न परोपकृतिः कृता । तेषां सर्वाणि
दुःखानि भवन्ति नरकान्तरे । अग्रे यस्य सुखं भूयस्तस्य
स्वर्ग इतीर्य्यते । ये दुःखिनो रोगयुता नरकादागतास्तु ते”
२ असुरभेदे पु० स च वराहेण रजस्वलायां पृथ्व्यामुत्पा-
दितः सएव च वसिष्ठशापेन द्वापरयुगे स्वपित्रंशेनैव
कृष्णेन निसूदितः । कालिकापुराणे ३६ अध्यायावधि
४१ अध्याये तत्कथा विस्तरेण दृश्या । कालिकापुराणशब्दे
०२०१५ पृ० संक्षेपतस्तत्कथा दर्शिता ।

नरककुण्ड न० यातनास्थानभेदे “यन उवाच नरका-

णाञ्च कुण्डानि सन्ति नानाविधानि च । नानापुराण-
भेदेन नामभेदानि तानि च । भयङ्कराणि घोराणि
हे वत्स! कुत्सितानि च । षड़शीतिश्च कुण्डानि संयम-
न्याञ्च सन्ति च । निबोध तेषां नामानि प्रसिद्धानि श्रुतौ
स्मृतौ” इति ब्रह्मवैवर्त्ते प्रकृतिख० २७ । २८ अ० ।
  • नरकभेदकुण्डानि पापभेदात् तत्र गामिनः
  • १ वह्निकुण्डम्--कटुबाचा बान्धबोत्पीड्कः ।
  • २ तप्तकुण्डम्--ब्राह्मणातिथिभोजनाप्रदायी ।
  • ३ क्षारकुण्डम्--निषिद्धदिने वस्त्रे क्षारसंयोजकः ।
  • ४ विट्कुण्डम्--ब्रह्मवृत्त्यपहारकः ।
  • ५ मूत्रकण्डम्--परतड़ागं स्वनित्वोत्सर्जकः ।
  • ६ श्लेष्मकुण्डम्--एकाकी मिष्टभोजी ।
  • ७ गरकुण्डम्--पितृमातृगुरुभार्य्याद्यपोषकः ।
  • ८ दूषिकाकुण्डम्--अतिथिं दृष्ट्वा वक्रचक्षुःकारी ।
  • ९ वसाकुण्डम्--विप्राय प्रतिश्रुत्य तद्द्रव्यमन्यस्मै दाता ।
  • १० शुक्रकुण्डम्--परस्त्रीगामी ना परपुंगामिनी च स्त्री ।
  • ११ असृक्कुण्डम्--गुर्वादिताड़कस्तद्रक्तस्रावकश्च ।
  • १२ अश्रुकुण्डम्--हरिसङ्गीतैरुदद्गायद्गद्गदभक्तोपहासकृत् ।
  • १३ गात्रमलकुण्डम्--शश्वदशुद्धचित्तः खलताकारी च ।
  • १४ कर्णविट्कुण्डम्--बधिरोपहासकृत् ।
  • १५ मज्जकुण्डम्--लोभात् स्वभोजनार्थं जीवहन्ता ।
  • १६ मांसकुण्डम्--अर्थलोभात् कन्याविक्रेता ।
  • १७ नखकुण्डम्--श्राद्धोपबासादिषु संयमत्यागी ।
  • १८ लोमकुण्डम्--श्राद्धोपबासादिषु संयमत्यागी ।
  • १९ केशकुण्डम्--सकेशपार्थिवशिवलिङ्गार्चकः ।
  • २० अस्थिकुण्डम्--विष्णुपदे पितृपिण्डादायो ।
  • २१ ताम्रकुण्डम्--गुर्विणीगामी ।
  • २२ लौहकुण्डम्--ऋतुस्नाताऽवीरयोरन्नभोजी ।
  • २३ तीक्ष्णकण्टककुण्डम्--कटुवाचा स्वामितर्जिका स्त्री ।
  • २४ विषकुण्डम्--विषेण जीवहन्ता ।
  • २५ घर्मकुण्डम्--सघर्भहस्तेन देवद्रव्यस्पर्शी ।
  • २६ तप्तसुराकुण्डम्--शूद्रानुज्ञातः शूद्रान्नभोजी ।
  • २७ प्रतप्ततैलकुण्डम्--दण्डेन वृषताड़कः ।
  • २८ कुन्तकुण्डम्--कुन्तलौहवड़िशैर्जीवहन्ता ।
  • २९ कृमिकुण्डम्--वृथामांसमत्स्यभुग्विप्रो हरेरनैवेद्यभुक् च ।
  • ३० पूयकुण्डम्--शूद्रयाजी तस्य श्राद्धभुक् तच्छवदाही च ।
  • ३१ सर्पकुण्डम्--श्रीकृष्णपदचिह्नमस्तक्स्य सर्पस्य हन्ता ।
  • ३२ ग्रशककुण्डम्--विधिं हित्वा क्षुद्रजन्तुहन्ता ।
  • ३३ दंशकुण्डम्--विधिं हित्वा जीवहन्ता ।
  • ३४ गरलकुण्डम्--मक्षिकां हत्वा मधुग्राही ।
  • ३५ वज्रदंष्ट्रकुण्डम्--अदण्ड्यविप्रयोर्दण्डकृत् नृपः ।
  • ३६ वृश्चिककुण्डम्--अर्थलोभात् प्रजादण्डकृत् नृपः ।
  • ३७ शरकुण्डम्--शस्त्रधारी धावकः सन्ध्याहरिभक्ति-
हीनश्च ब्राह्मणः ।
  • ३८ शूलकुण्डम्--शस्त्रधारी धावकः सन्ध्याहरिभक्ति-
हीनश्च ब्राह्मणः ।
  • ३९ खङ्गकुण्डम्--शस्त्रधारी धावकः सन्ध्याहरिभक्ति-
हीनश्च ब्राह्मणः ।
  • ४० गोलकुण्डम्--अल्पदोषेण कारायां प्रजाबन्धनकृत् नृपा ।
  • ४१ नक्रकुण्डम्--जलादुत्थितनक्रादिहन्ता ।
  • ४२ काककुण्डम्--कामेन परस्त्रीवक्षःश्रोण्यास्यद्रष्टा ।
  • ४३ सञ्चालकुण्डम्--स्वर्णचौरः ।
  • ४४ वाजकुण्डम्--ताम्रलौहचौरः ।
  • ४५ वज्रकुण्डम्--भूदेवदेवद्रव्ययोश्चौरः ।
  • ४६ तप्तपाषाणकुण्डम्--देवद्विजयोरौप्यगोवस्त्राणां चौरः ।
  • ४७ तीक्ष्णपाषाणकुण्डम्--देवद्विजयोःपित्तलकांस्यपात्रचौरः ।
पृष्ठ ३९७३
  • ४८ लालाकुण्डम्--वेश्यान्नभुक् तद्वृत्तिजीवी च ।
  • ४९ मसीकुण्डम्--म्लेच्छसेवी मसीजीवी च व्राह्मणः ।
  • ५० चूर्णकुण्डम्--देवद्विजयोः शस्यताम्बूलासनचौरः ।
  • ५१ चक्रकुण्डम्--विप्रद्रव्यं हृत्वा चक्रकारो ।
  • ५२ वक्रकुण्डम्--विप्रबान्धवयोर्वक्रताचारी ।
  • ५३ कूर्मकुण्डम्--हरिशयने कूर्ममांसभुक् ब्राह्मणः ।
  • ५४ ज्वालाकुण्डम्--देवद्विजयोर्घृततैलादिहृत् ।
  • ५५ भस्मकुण्डम्--देवद्विजयोर्घृततैलादिहृत् ।
  • ५६ दण्डकुण्डम्--देवद्विजयोर्द्धात्रीगन्धतैलद्रव्याणामपहर्त्ता
  • ५७ तप्तशूर्म्मीकुण्डम्--बलखलत्वादिना परभूमिहरः ।
  • ५८ असिपत्रकुण्डम्--अर्थलोभात् स्वड्गेन नरथाती ।
  • ५९ क्षुरधारकुण्डम्--ग्रामनगरादिदाहकारी ।
  • ६० सूचीमुखकुण्डम्--परकर्णे मुखं दत्त्वा परनिन्दकः
परदोषोद्द्वोषी वेदब्राह्मणनिन्दकश्च ।
  • ६१ गोधामुखकुण्डम्--गृहं भित्त्वा वस्तुगोच्छागमेषचौरः ।
  • ६२ नक्रमुखकुण्डम्--सामान्यद्रव्यचौरः ।
  • ६३ गजदंशकुण्डम्--गजतुरगनरचौरः ।
  • ६४ गोमुखकुण्डम्--गोर्जलपानवारकः ।
  • कुम्भीपाककुण्डम्--गोस्त्रीभिक्षुभ्रूणब्रह्महाऽगम्यागामी
दीक्षासन्ध्याहीनस्तीर्थप्रतिग्राही ग्रामयाजी देवलः शूद्र-
सूपकारी वृषलीपतिश्च ।
  • ६६ कालसूत्रकुण्डम्--नेश्यान्नभुक् तत्संसर्गी च ।
  • ६७ अवटोदकुण्डम्--कुलटादिषड्वेश्यागामी द्विजः ।
  • ६८ अरुन्तुदकुण्डम्--चन्द्रसूर्यग्रहणे निषिद्धकाले भोजी ।
  • ६९ पांशुभोजकुण्डम्--एकस्मै वाक्प्रदत्तकन्याया दोषं विना
अन्यस्मै दाता ।
  • ७० पाशवेष्टकुण्डम्--दत्तापहारी ।
  • ७१ शूलप्रोतकुण्डम्--अभक्त्या शिवलिङ्गपूजकः ।
  • ७२ प्रकम्पनकुण्डम्--विप्रदण्डकृत् तत्कम्पकृद्भयदायी च ।
  • ७३ उल्कामुखकुण्डम्--सकोपवदना स्वामिनि कतुवादिनी ।
  • ७४ अकूपकुण्डम्--शूद्रभोग्या व्राह्मणी ।
  • ७५ वेदनकुण्डम्--पञ्चषट्पुङ्गमनात् वेश्या ।
  • ७६ दण्डताडनकुण्डम्--सप्ताष्टपुंगमनात् रण्डा ।
  • ७७ जालबद्धकुण्डम्--अष्टाधिकपुंगमनात् महावेश्या ।
  • ७८ देहचूर्णकुण्डम्--पुंद्वयगमनात् कुलटा ।
  • ७९ दलमकुण्डम्--चतुःपुंगमनात् स्वैरिणी वृषली च ।
  • ८० शोषणकुण्डम्--त्रिपुंगमनात् धृष्टा पुंश्चली ।
  • ८१ कषकुण्डम्--सवर्णपरटारगामी ।
  • ८२ सूर्पकुण्डम्--व्राह्मणीगमनकारको क्षत्रियोवैश्यश्च ।
  • ८३ ज्वालामुखकुण्डम्--करे तुलसीगङ्गाजलदेवशिलाश्च धृत्वा
प्रतिज्ञाकृत्तदपालको मिथ्याशषथी मित्रद्रोही विश्वा-
सघाती मिथ्यासाक्ष्यदश्च ।
  • ८४ जिक्ष्मंकुण्डम्--नित्यक्रियाहीनो देवयजनेऽनास्थिकोम-
न्दोपहासी च ।
  • ८५ धूमान्धकुण्डम्--देवविप्रयोर्धनहारी ।
  • ८६ नागवेष्टनकुण्डम्--वैद्यदैवज्ञवृत्तिहारी लाक्षालोहव्या-
पारी रसादिविक्रयी च ब्राह्मणः” ।

नरकजित् पु० नरकम् असुरभेदं जयति स्म जि--भूते क्विप् ६ त० ।

वासुदेवे श्रीकृष्णे “नैरृतो नरको नाम ब्रह्मणो
वरदर्पितः । अदित्याः कुण्डले मोहाज्जहार दितिनन्दनः ।
देवानां विप्रिये नित्यमृषीणाञ्च स वर्त्तते । तव चैवान्त-
रप्रेक्षी जहि तं षापपूरुषम् । अयं त्वां गरुडस्तत्र
प्रापयिष्यति कामगः । कामवीर्य्योऽतितेजस्वी वैनतेयो
ऽन्वरीक्षगः । अबध्यः सर्वभूतानां भौमः स नरकोऽ-
सुरः । निसूदयित्वा तं पापं क्षिप्रमागन्तुमर्हसि । इत्युक्तः
पुण्डरीकाक्षो देवराजेन केशवः । प्रतिजज्ञे महाबाहु-
र्नरकस्य निवर्हणम्” इत्युपक्रमे तयोर्युद्धवर्णनानन्तरम्
“मुहूर्त्तं योधयामास नरकं मधुसूदनः । अथोग्रचक्रश्चक्रेख
प्रदीप्तेनाकरोद्द्विधा । चक्रद्विधाकृतं तस्य शरीरमपत-
द्भुवि । विभक्तं क्रकचेनेव गिरेः शृङ्गं द्विधाकृतम् ।
कृष्णमासाद्य देवेशं जगामास्तमिवांशुमान् । चक्रोत्क्षिप्त-
निकृत्ताङ्गमुत्तमं पतितं रणे । वज्रेणेव विनिर्भिन्नं यथा
गैरिकपर्वतम् । भूमिस्तु पतितं पुत्रं निरीक्ष्यादाय
कुण्डले । उपातिष्ठत गोविन्दं वचनञ्चेदमब्रवीत् । दत्त-
स्त्वयैव गोविन्द! त्वयैव विनिपातितः । यथेच्छसि तथा
क्रीड़ बालक्रीड़नकैरिव । इमे ते कुण्डले देव! प्रजां
तस्यानुपालय” हरिवं० १२२ अ० तद्बधकथा

नरकदेवता स्त्री नरकस्याधिष्ठात्री देवता । निरृतौ शब्दर०

नरकपाल न० ६ त० । मृतनरस्य शीर्षस्थे अस्थिभेदे “नरक-

पालं शुचि प्राण्यङ्गत्वात् शङ्खवत् तस्य शुचित्वानुमानं
बलवदागमविरोधात् अप्रमाणम् इति” मथुरानाथः । स
च आगमः “मलमूत्रं पूंरीषास्थि निर्गतं ह्यशुचि स्मृतम् ।
नारं स्पृष्ट्वा तु सस्नेहं सचेलोजलमाविशेत्” मनुवचनम्

नरकभूमि स्त्री नरकस्य दुःखभेदस्य भोगयोग्या भूमिः ।

यमालयस्थायां दुष्कर्मणां दुःखभोगार्थं भूमौ । ताश्च
हेमच० अधोधोवर्त्तमानाः दर्शिताः “घनोदधिधनवात
तनुवातनभःस्थिताः । रत्नशर्करावालुकापङ्कधूमतमः
प्रभाः । महातमःप्रभा वेत्यधोधोनरकभूमयः” ।
पृष्ठ ३९७४

नरकमुक्त पु० नरकान्मुक्तः । नरकान्मुक्ते “कपूयचरणाः

कपूयां योनिमापद्येरन्” श्रुतिः अनुशयशब्दे १८८ पृ०
दृश्यम् । गारुड़े २२९ अ० ततो मुक्तानां पापविशेषात्
योनिभेदप्राप्तिरुक्ता यथा
“नरकात् प्रतिमुक्तस्तु पापयोनिषु जायते । पतितात्
प्रतिगृह्याथ खरयोनिं व्रजेद्बुधः । नरकात् प्रतिमुक्तस्तु
कृमिर्भवति पातकी । उपाध्याये व्यलीकन्तु कृत्वा श्वा
भवति द्विजः । तज्जायां मनसा वाञ्छंस्तद्द्रव्यं वाप्यसं-
शयम् । गर्दभो जायते जन्तुर्मित्रस्यैबापमानकृत् । शत्रो-
वितरमाक्रुश्य शारिका संप्रजायते । पितरौ पीडयित्वा तु
कच्छपत्वञ्च जायते । भर्त्तुः पिण्डमुपाश्नन् यो हित्वा
ऽन्यानि च सेवयेत् । सोऽपि मोहसमापन्नो जायते
बानरो मृतः । न्यासापहर्त्ता नरकात् विमुक्तो जायते
कृमिः । असूयकश्च नरकान्मुक्तो भवति राक्षसः । विश्वा-
सहर्त्ता च नरो मीनयोनौ प्रजायते । यवधान्यानि
हृत्वा तु जायते मूषिको मृतः । परदारामिमर्षात्तु वृको
षोरोऽभिजायते । भ्रातृभार्य्याप्रसङ्गत्वे कोकिलो जायते
नरः । गुर्वादिभार्थ्यागमनाच्छूकरो जायते नरः । यज्ञ-
दानविवाहानां विघ्नकर्त्ता भवेत् कृमिः । देवतापितृ-
विप्राणामदत्त्वा योऽन्नमश्नुते । प्रमुक्तो नरकाद्वापि
वायसः स प्रजायते । ज्येष्ठभ्रात्रवमानाच्च क्रौञ्चयोनौ
प्रजायते । शूद्रश्च ब्राह्मणीं गत्वा कृभियोनौ प्रजायते ।
तस्यामपत्यमुत्पाद्य काष्ठान्तः कीटको भवेत् । कृतघ्नः
कृमिकः कीटः पतङ्गो वृश्चिकस्तथा । अशस्त्रं पुरुषं
हत्वा नरः संजायते खरः । कृमिः स्त्रीषधकर्त्ता च
बालहन्ता प्रजायते । भोजनं चोरयित्वा तु मक्षिका
जायते नरः । हृत्वान्नञ्चैव मार्ज्जारस्तिलहृच्चैव
मूषिकः । घृतं हृत्वा च नकुलः काको मद्गुरमामिषम् ।
मधु हृत्वा नरो दंशः पूपं हृत्वा पिपीलकः । अपो
हृत्वा तु पापात्मा वायसः संप्रजायते । हृते कांस्ये च
हारीतः कपोतो वा प्रजायते । हृत्वा तु काञ्चनं भाण्डं
हमियोनौ प्रजायते । कार्पासिके हृते क्रौञ्चो वह्नि-
हर्त्ता वकस्तथा । मयूरो वर्णकं हृत्वा शाकं पत्रञ्च
जायते । जीवञ्जीवकतां याति रक्तवस्त्रापहृन्नरः ।
छुच्छुन्दुरिः शुभान् गन्धान् वंशं हृत्वा शशो भवेत् ।
षण्डः कलापहरणे काष्ठहृत् काष्ठकीटकः । पुष्पाप-
हृद्दरिद्रस्तु पङ्गुर्यवापहृन्नरः । शाकहर्त्ता च हारीत-
स्तोयहर्त्ता च चातकः । गृहह्णत् नरकान् गत्वा
रौरवादीन् सुदारुणान् । तृणगुल्मलतावलीत्वकसार
तरुतां व्रजेत् । एष एव क्रमो दृष्टो गोसुवर्णादि-
हारिणाम् । विद्यापहारी मूकश्च गत्वा च नरकान्
बहून् । असमिद्धेऽग्नौ च हुते मन्दाग्निः संप्रजायते ।
परनिन्दाकृतघ्नत्वं परमर्मावघातनम् । नैष्ठुर्य्यं निर्घृण-
त्वञ्च परदारोपसेवनम् । परस्वहरणाऽशौचं देवता-
नाञ्च कुत्सनम् । निकृत्या वञ्चनं नॄणां कार्पण्यञ्च नृणां
बुधः । उपलक्षणाद्विजानीयात् मुक्तानां नकरादनु”
प्रसङ्गात् स्वर्गादागतलक्षणं तत्रैव यथा “दयाभूतेषु संवादः
परलोकं प्रति क्रिया । सत्यं भूतहिता चोक्तिर्वेदप्रामाण्य
दर्शनम् । गुरुदेवर्षिपूजा च केवलं साधुसङ्गमः ।
सत्क्रियाभ्यसनं मैत्री स्वर्गिणां लक्षणं विदुः । अष्टाङ्ग-
योगविज्ञानात् प्राप्नोत्यात्यन्तिकं लयम्” । अधिकं कर्म-
विपाक शब्दे १७४२ पृ० दृश्यम् ।

नरकस्थ त्रि० नरके तद्भूमौ तिष्ठति स्था--क ७ त० । १

नरकभूमौ स्थिते २ वैतरणीनद्यां स्त्री हेमच० ।

नरकान्तक पु० ६ त० । विष्णौ नरकजिच्छब्दे दृश्यम् ।

नरकामय पु० नरक आमय इव यस्य । १ प्रेते शब्दरत्ना० ।

नरक आमय इव कर्म० । २ नरकरूपे रोगे च ।

नरकीलक पु० नरेषु कीलक इव गर्हितत्वात् । गुरुघ्ने हेमच०

नरकेशरिन् पु० नर एव केशरी । १ नरसिंहे नरसिंहशब्दे

दृश्यम् । नरः केशरीव शूरत्वात् २ मानवश्रेष्ठे च ।

नरगण पु० १ नक्षत्रभेदे उपयमशब्दे १२५० पृ० दृश्यम् । ६ त०

२ नरसमूहे च ।

नरङ्ग पु० नॄ--अङ्गच् । वरण्डे (नारङ्गा) प्रसिद्धे १ ब्रणभेदे २ मेद्रे न० उणादि० ।

नरद न० नलद + लस्यरः । नलदे ततः किशरा० तदस्य पण्य-

मित्यर्थे ष्ठन् । नरदिक तद्विक्रेतरि त्रि० ।

नरदेव पु० नरो देव इव । नृपे । “ददर्श देवं नरदेव

सम्भवः” रघुः । “भूमिदेवनरदेवसङ्गमे” माघः ।

नरद्विष् पु० नरान् द्वेष्टि द्विष्--क्विप् । राक्षसे “व्रह्मास्त्रं

तेन मूर्द्धानमदध्वंसन्नरद्विषः” भट्टिः ।

नरनगर न० नरप्रधानं नगरम् पूर्वपदात् संज्ञायां णत्वे

प्राप्ते क्षुम्नादि० न णत्वम् । नगरभेदे

नरनारायणौ द्वि० व० । नरश्च नारायणश्च । ऋषिभेदयोः

तयोः सम्भवकथा “तदा दंष्ट्राग्रघातेन नरसिंहं महाव-
लम् । सरभो भगवान् भर्गो द्बिधा मध्ये चकार ह ।
पृष्ठ ३९७५
नरसिंहे द्विधा भूते नरभागेण तस्य तु । नर एव समुत्-
पन्नो दिव्यरूपी महानृषिः । तस्य पञ्चास्यभागेन नारा-
यण इति श्रुतः । अभवत् स महातेजा मुनिरूपी
जनार्दनः । नरो नारायणश्चोभौ सृष्टिहेतू महामती ।
ययोः प्रभावो दुर्द्धर्षः शास्त्रे वेदतपःसु च” कालिकापु०
३९ अ० ।
एतच्च वाराहकल्पे । अन्यकल्पे तु तौ घर्मस्य पुत्रौ
यथोक्तं भाग० २ । ६ अ० “धर्मस्य दक्षदुहितर्य्यजनिष्ट सूत्यां
नारायणो नर इति स्वतपःप्रभावौ” । स्वायम्भुवे
मन्वन्तरे धर्मस्य चतुर्षु पुत्रेषु तौ च द्वौ यथा “नारायणो
हि विश्वात्मा चतुर्मूर्त्तिः सनातनः । धर्मात्मजः सम्ब-
भूव पितैवं मेऽभ्यभाषत । कृते युगे महाराज! पुरा
स्वायम्भवेऽन्तरे । नरो १ नारायण २ श्चैव हरिः ३ कृष्णः ४
स्वयम्भुवः । तेषां नारायणनरौ तपस्तेपतुरव्ययौ ।
वदर्य्याश्रममासाद्य शकटे कनकामये” भा० शा० ३३६ अ० ।

नरन्धि पु० नरो धीयन्ते आरोप्यन्ते अस्मिन् धा--आधारे कि

उपस० पृषो० मुम् । संसारे महीधरः नरन्धिषशब्दे
दृश्यम् ।

नरन्धिष पु० विष्णौ “विष्णुर्नरन्धिषः प्रोह्यमानः” यजु० ८ । ५५

“विष्णुर्नरन्धिषो भवति नरो धीयन्ते आरोप्यन्ते
यस्मिन् स नरन्धिः संसारः तं स्यति नाशयति नरन्धिषः
संसारसंहर्त्ता विष्णुः यद्वा रघ--हिंसायाम् रध्यति
हिनस्ति रन्धिषः हन्ता नरन्धिषो जगत्पालकः”
महीधरः । उभयत्र पृषो० ।

नरपति पु० ६ त० । नृपे शब्दर० । “नरपतिकुलभूत्यै गर्भ-

माधत्त राज्ञी” रघुः । नरेश्वरनरनाथनरनायकनरेशाद-
योऽप्यत्र । “नरनाथ! न जानीमस्त्वत्प्रिया यद्व्यवस्यति”
भाग० ४ । २६ । १५ ।

नरपतिजयचर्य्या स्त्री नरपतीनां राज्ञां जयस्य चर्य्या ।

स्वरोदयमूलके ग्रन्धभेदे चक्रशब्दे तद्वाक्यं भूरि दर्शितम् ।

नरपशु पु० नरः पशुरिव उपमितस० । १ मानवाधमे २ पुंरूपे पशौ

च “विषयदृशोनरपशवोय उपासते विभूतीर्न परं त्वाम् ।
तेषामाशिष ईश! तदनु विनश्यन्ति यथा राजकुलम्”
भाग० ६ । १६ । ३६ नृपश्वादयोऽप्युभयत्र । “याश्च स्त्रियो
नृपशून् खादन्ति” भाग० ५ । २६ । ३९

नरपाल पु० नरान् पालयति पालि--ण्वुल् । मानवरक्षके नृपे ।

नरपुङ्गव पु० नरः पुङ्गवो वृष इव शूरत्वात् । नरश्रेष्ठे

“शैव्यश्च नरपुङ्गवः” गीता ।

नरप्रिय त्रि० ६ त० । १ मनुष्यहृद्ये वस्तुमात्रे २ नीलवृक्षे पु०

राजनि० ।

नरभू स्त्री ६ त० । १ भारतवर्षे २ नराणामुत्पत्तौ च । नरभूमिरप्युभयत्र शब्दर० ।

नरमानिनी स्त्री नरं मन्यते मन--णिनि ङीप् । श्मश्रुयुक्त

मुख्यां नार्य्यां त्रिका० ण्वुल् । नरमानिका तत्रार्थे शब्दर०

नरमाला स्त्री नराणां तन्मुण्डानां माला । नरमुण्डरचित

मालायां “विचित्रखष्ट्वाङ्गधरा नरमालाविभूषणा” देवीमा०

नरमालिनी स्त्री नरस्येव माला केशमाला मुखेऽस्त्यस्याः

इनि ङीप् । श्मश्रुयुक्तवदनायां १ नार्य्यात् हेमच० । २
नरमुण्डमालावत्यां स्त्रियां च ।

नरमेध पु० नरा मिध्यन्ते हिंस्यन्ते यत्र मिघ--आधारे

घञ् ६ त० । पुरुषमेधाख्ये यज्ञभेदे स च यज्ञः यजु०
३० । ३१ अध्याययोर्दर्शितः तत्राधिकार्यादिकम् ३० अध्याये
वेददीपे उक्तं यथा “ब्राह्मणराजन्ययोरतिष्ठाकामयोः
पुरुषमेधसंज्ञको यज्ञो भवति । सर्वभूतान्यतिक्रम्य-
स्थानमतिष्ठा । चैत्रशुक्लदशम्यामारम्भः । अत्र त्रयो-
विंशतिर्दीक्षा भवन्ति द्वादशोपसुदः पञ्चसुत्या इति चत्वा-
रिंशद्दिनैः सिध्यति । अत्र यूपैकादशिनी भवति
एकादशाग्नीषोमीयाः पशवो भवन्ति तेषां च प्रतियूप”
मध्यमे वा यूपे यथेच्छं नियोजनम् । आज्येन सकृद्-
गृहीतेन देव सवितिरिति प्रत्यृचं तिस्र आहुतीराहव-
नीये जुहोति” । देवताभेदेन तत्रालभ्यपशुभेदास्तत्र
“ब्रह्मणे ब्राह्मणमित्यादिना” अध्यायसमाप्तिपर्यन्ते-
नोक्ताः अष्टाचत्वारिंशत्सङ्ख्यकाश्च ब्राह्मणादयो ब्रह्मा-
द्यष्टाचत्वारिंशद्देवदेवत्याः पशवः “स एतं पुरुषमेघं
पञ्चरात्रं यज्ञक्रतुमदृश्यत्तमाहरत्तेनायजत तेनेष्ट्वात्य-
तिष्ठत् सर्वाणि भूतानीदं सर्वमभवदतितिष्ठति सर्वाणि
भूतानीदं सर्वं भवति य एवं विद्वान् पुरुषमेधेन
यजते यो वैतदेवं वेद । तस्य त्रयोविंशतिर्दीक्षाः । द्वाद-
शोपसदः पञ्चसुत्याः स एष चत्वारिंशद्रात्रः सदीक्षोप-
सत्कः” शत० ब्रा० १३ । ६ । १ । २ । अत्र पञ्चरात्रत्वोक्तिः
पञ्चसुत्याभिप्रायेणेति न विरोधः । “त्रिंशदग्नीनहं ब्रह्म-
न्नयजं यच्च नित्यदा । अष्टाभिः सर्वमेधैश्च नरमेधैश्चस-
प्तिभिः” भा० अनु० १०३ अ० “राजसूयाश्वमेधौ च सर्वमेधञ्च
भारत! । नरमेधञ्च नृपते! त्वमाहर युधिष्ठिर ।”
भा० आश्र० ३ अ० । १८०३ पृ० कलिशब्दे दर्शितेन
वृहन्नारदीयवचनेन नरमेधस्य कलौ “दीर्घकालं ब्रह्मचर्य्य
नरमेघाश्वमेधकावित्यनेन” निषेधेऽपि कलियुगोत्पन्न
पृष्ठ ३९७६
युधिष्ठिरं प्रति नरमेधाहरणे नियोजनं तु न विरुध्यते
हरेःस्वर्गारोहानन्तरमेव कलेः प्रकर्षेण प्रवृत्त्यवगमात्
ततः प्राक्काले यथाविधानं सर्वे धर्मा व्यवस्थिता इत्य-
वगमाच्च तदूर्द्ध्वमेव कलेः प्रबलत्वात् वृहन्नारदीयाद्यु-
क्तकलिवर्ज्यस्यावकाश इत्यवधेयम् । भूमौ श्रीकृष्ण-
स्थितिपर्यन्तं कलेः प्रादुर्भावाभावश्च भागवते उक्तः
तच्च वाक्यं कलिशब्दे १७९५ पृ० दर्शितम् । अतो युधि-
ष्ठिरादीनां नरमेधाश्वमेधमहाप्रस्थानादिकं न विरुध्यते

नरम्मन्य पु० आत्मानं नरं मन्यते नृ + मन--खश् मुम्

एकाचोऽमन्तवत् कार्यम् । आत्मानं नृतया मन्यमाने ।

नरयन्त्र न० छायाद्वारा कालसाधके द्वादशाङ्गुलकीलरूप शङ्कु-

यन्त्रे “नरयन्त्रं तथा साधु दिने च विमले रवौ । छाया-
संसाधनैः प्रोक्तं कालसाधकमुत्तमम्” सू० सि० “विसले
मेघादिव्यबधानरूपमलेन रहिते सूर्ये एतद्रूपे दिने ।
चकार एवकारार्थस्तेन साभ्रदिनव्यवच्छेदः । नरयन्त्रं
द्वादशाङ्गुलशङ्कुयन्त्रं तथा घटीयन्त्रवत् कालसाधकं साधु
सूक्ष्मं रात्रौ नेत्यर्थसिद्धम् । ननु शङ्कोश्च्छायासाधकत्वं
न कालसाधकत्वं तेन तस्य कथं यन्त्रत्वं कालसाधकवस्तुनो
यन्त्रत्वप्रतिपादनादित्यत आह । छायासंसाधनैरिति ।
इदं शङ्कुरूपनरयन्त्रं छायायाः सम्यक्सूक्ष्मत्वेन
साधनैरवगमैः कृत्वा कालसाधनं दिनगतादिकालस्य
कारणमुत्तमम् । अन्ययन्त्रेभ्योऽस्मान्निरन्तरतयातिश्रेष्ठम् ।
तथा च छायासाधकत्वेनैव छायाद्वारा शङ्कोः
कालसाधकत्वमिति न यन्त्रत्वव्याघातः । अतएव साभ्रदिने
रात्रौ चेदमनुप्रयुक्तम् । नरस्य छायायन्त्रोपलक्षणत्वात्
यष्टिधनुश्चक्राण्यपि तथेति बोध्यम्” रङ्ग० । “समतलम-
स्तकपरिधिर्भ्रमसिद्धोदन्तिदन्तजः शङ्कुः । तच्छायातः
प्रोक्तं ज्ञानं दिग्देशकालानाम्” सि० शि० । शङ्कोः
कालज्ञानसाधनत्वमुम् ।

नरयान न० नरवाह्यं यानम् (सओयारि) प्रभृतौ

यानभेदे “नरयानेन तु ज्येष्ठः पिता पार्थस्य भारत! ।
अग्रतो धर्मराजस्य गान्धारीसहितो यथौ” भा० शा०
३७ अ० । नरवाहन नररथादयोऽप्यत्र ।

नरलोक पु० नराधिष्ठितो लोकः भुवनम् । १ पृथिवीलोके

नर एव लोकः । २ मानवरूपे जने च “आकृष्टलीलान्
नरलोकपालान्” रघुः “तथा तवामी नरलोकवीरा
विशन्ति वक्त्राण्यभितो ज्वलन्ति” गीता ।

नरवाहन पु० नरो वाहनं यस्य । १ कुवेरे २ नरयानबाह्ये त्रि०

“घनरवा नरवाहनसम्पदः” रघुः “मणिश्यामोत्तम वपुः
कुवेरो नरवाहनः” हरिवं० ४५ अ० । ३ नरवाह्ये याने न० ।

नरविष्वण त्रि० नरं विष्वणति हिनस्ति वि + स्वन--अच्

षत्वम् । १ नरहिंसके २ राक्षसे पुंस्त्रीत्रिका० । स्त्रियां ङीष् ।

नरव्याघ्र पु० नरो व्याघ्र इव उपमितस० । श्रेष्ठमानवे ।

नरशृङ्ग न० ६ त० । अलीके पदार्थे शशशृङ्गदिवत् शृङ्गे

शशीयत्वस्येव नरीयत्वस्याप्यभावादयोग्यत्वेन अस्यालो-
कार्थत्वम् योग्यताभ्रमादेवात्र शाब्दबोध इति बोध्यम् ।

नरसिंह पु० नरएव सिंहः नरश्च सिंहश्चाकारेऽस्त्यस्य अच्

वा । अर्द्धनराकारे अर्द्धसिंहाकारे १ भगवच्छरीरभेदे
तादृशशरीरग्रहणे कारणञ्च हरिवं० २३१ अ० उक्तं यथा
“हिरण्यकशिपुरुवाच “न देवासुरगन्धर्वा न यक्षो-
रगराक्षसाः । न मानुषाः पिशाचा वा निहन्युर्मां
कथञ्च न । ऋषयोनैव मां क्रुद्धाः सर्वलोकपिता-
मह! । शपेयुस्तपसा युक्ता वर एष वृतो मया । न
शस्त्रेण न चास्त्रेण गिरिणा पादपेन वा । न शुष्केण
व चार्द्रेण स्यान्न चान्येन मे बधः । न स्वर्गेऽप्यथ
पाताले नाकाशे नावनिस्थले । न चाभ्यन्तररात्र्यह्नोर्न
चाप्यन्यत्र मे वधः । पाणिप्रहारेणैकेन सुमृत्यबल-
वाहनम् । यो मां नाशयितुं शक्तः स मे मृत्युर्भवि-
ष्यति” तथा वरप्राप्तौ हिरण्यकशिपुना जगतां निष्पीडने
कृते तद्बधाय दैवैः प्रार्थितो भगवान् नरसिंहरूपेणाव-
ततार यथाह तत्रैवाध्याये
“एवमुक्ता स भगवान् विसृज्य त्रिदिवौकसः । बधं
संकल्पयामास हिरण्यकशिपोः प्रभुः । सोऽचिरेणैव
कालेन हिमवत्पार्श्वमागतः । किं नु रूपं समास्थाय
निहन्म्येनं महासुरम् । यत् सिद्धिकरमाशु स्याद्बधस्य विबु-
धद्विषः । अनुत्पन्नस्ततश्चक्रे सोत्पन्नो रूपमीवृशम् ।
नारसिंहमनाधृष्यं दैत्यदानवरक्षसाम् । सहायन्तु
महाबाहुर्जग्राहोङ्कारमेव च । अथोङ्कारसहायो वै
भगवान् विष्णुरच्युतः । हिरण्यकशिपोः स्थानं जगाम
प्रभुरीश्वरः । तेजसा भास्कराकारः कान्त्या चन्द्र
इवापरः । नरस्य कृत्वाऽर्द्धननुं सिंहस्यार्द्धतनुं तथा ।
नारसिंहेन वपुषा पाणिं संस्पृश्य पाणिना । ततोऽप-
श्यत विस्तीर्णां दिव्यां रम्यां मनोरमाम्” । ततस्तद्बकथा
“यदि दास्यस्यभिमतान् वरान् हे वरदोत्तम! । भूतेभ्य-
स्त्वद्विसृष्टेभ्यो मृत्युर्मा भून्मम प्रभो! । नान्तर्बहिर्दिबा
नक्तमन्यस्मादपि चायुधैः । न भूमौ नाम्बरे मृत्युर्न
पृष्ठ ३९७७
नरैर्न मृगैरपि । व्यसुभिर्वाऽसुमद्भिर्वा सुरासुरमहोरगैः ।
अप्रतिद्वन्द्वतां युद्धे ऐक्यपत्यञ्च देहिनाम्” भाग० ७ । ३ । ३४
एवं प्रार्थितवरप्राप्तौ स्वभ्रातृहिरण्याक्षहन्तरि विष्णौ
द्वेषात् तद्भक्तेऽपि प्रह्लादेऽतीव द्वेषेण तेन विरुद्धमाचरि-
तम् । अनन्तरं च तेनोक्तः प्रह्लादः सर्वत्र विष्णोः स्थायित्वं
प्रतिजज्ञे तेन स्तम्भेऽपि तत्सत्त्वमुक्तवान् । तच्छ्रुत्वा तेन
स्तम्भताडने कृते तत्र प्रह्लादकथां सत्यां चिकीर्षुः
भगवान् नरसिंहरूपेण प्रादुर्वभूव यथाह
“सत्यं विधातुं निजभृत्यभाषितं व्याप्तिञ्च
भूतेष्वखिलेषु चात्मनः । अदृश्यतात्यद्भुतरूपमुद्वहन्
स्तम्भे सभायां न मृगं न मानुषम् । स सत्वमेवं
परितोविपश्यत् स्तम्भस्य मध्यादनुनिर्जिहासनम् । नायं
मृगो नापि नरोविचित्रमहो किमेतन्नृ मृगेन्द्ररूपम् ।
मीमांसमानस्य समुत्थितोऽग्रतो नृसिंहरूपं तदलं
भयानकम् । प्रतप्तचामीकरचण्डलोचनं स्फुरत्सटाके-
शरजृम्भिताननम् । करालदंष्ट्रं करबालचञ्चलक्षुरान्त
जिह्वं भृकुटीमुखोल्वणम् । स्तब्धोर्द्धकर्णं गिरिकन्दरा-
द्भुतव्यात्तास्यनासं हनुभेदभीषणम् । दिविस्पृशत्काय-
तदीर्घपीवरग्रीवोरुवक्षःस्थलमल्पमध्यमम् । चन्द्रांशुगोरै-
म्छुरितं तनुरुहैर्विष्वग्भुजानीकशतं नखायुधम्” तं श्येन
येगं शतचन्द्रवर्म्मभिश्चरन्तमच्छिद्रमुपर्य्यधोहरिः ।
कृत्वाट्टहासं खरमुत्स्वनोल्वणं निमीलिताक्षं जगृहे
महाजवः । विष्वक् स्फुरन्तं ग्रहणातुरं हरिर्व्यालो
यथाखुं कुलिशक्षतत्वचम् । द्वार्य्यूरुमापात्य ददार लील
या नखैर्यथाहिं गरुड़ो महाविषम्” भाग० ७ । ८ अ० ।
“द्वारि सभायां नान्तर्न बहिः” ऊरुं ऊरौ निपात्य न भूमौ
नचाम्बरे । नस्वैर्नच व्यसुभिरसुमद्भिर्वा । एवं दिवानक्तं
परिहाराय सायमिति द्रष्टव्यम्” श्रीधरस्वामी । नरसिं-
हत्वं च तदीयदेहवृत्तिजातिभेदः यथोक्तं सि० मु०
“अथवा चेष्टावदन्त्यावयविमात्रवृत्तिद्रव्यत्वव्याप्यव्याप्यजा-
तिमत्त्वं तत् (शरीरत्वम्) मानुषत्वचैत्रत्वजातिमादाय
लक्षणसमन्वयः । न च नृसिंहशरीरे कथं लक्षणसम-
न्वयः तत्र नृसिंहत्वस्यैकव्यक्तिवृत्तितया देवत्वस्वंव
जातित्वाभावात् जलीयतैजसशरीरवृत्तितया देवत्वस्य
जातित्वाभावादिति वाच्यं कल्पभेदेन नृसिंहशरीरस्य
नानात्वेन नृसिंहत्वजात्या लक्षणसमन्वयात्” । नरः
सिंह इव । २ मानवश्रेष्ठे नरहरिनृसिंहादयोऽप्यत्र ।

नरसिंहपुराणम न० नरसिंहोप्रवर्णनात्मकं पुराणम् ।

उपपुराणभेदे “पाद्मे पुराणे यत्प्रोक्तं नरसिंहोपवर्ण-
नम् । तच्चाष्टादशसाहस्रं नारसिंहमिहोच्यते” मत्स्यपु०
नरसिंहमधिकृत्य कृतो ग्रन्थः अण् नारसिंहमित्यर्थः ।
“आद्यं सनत्कुमारोक्तं नारसिंहमतःपरम्” कूर्मपुरा०
उपपुराणोक्तौ ।

नरसिंहमूर्त्तिदान न० ६ त० । कालिकापुराणोक्ते स्वर्णा-

दिरचिततन्मूर्त्तिदाने तद्विधानं हेमा० दा० कालिपु० यथा
“नृसिंहं चाथ रौक्मन्तु कृत्वा चतुर्भुजं विभुम् । ताम्र
पात्रे प्रतिष्ठाप्य रौप्यदंष्ट्रे प्रकल्पयेत् । चक्षुषी पद्मरा-
गेण नखानां विद्रुमास्तथा । पुष्परागं भ्रुवोर्देशे कर्ण-
योर्हीरकाबुभौ” नृसिंहरूपन्तु विष्णुधर्मोत्तरे
“कार्य्यस्तु भगवान् विष्णुर्नरसिंहवपुर्द्धरः । पीनस्कन्ध
कटिग्रीवकृशमध्यः कृशोदरः । सिंहासनो (सिंहास्यः)
नृदेहश्च नीलवासाः प्रभान्वितः । आलीढस्थानसंस्थानः
सर्वाभरणभूषणः । ज्वालमालाकुलमुखोज्वलत्केशरम-
ण्डलः । हिरण्यकशिपोर्वक्षःपाटयन्नखरैः खरैः ।
देवजानुगतः कार्य्यो हिरण्यकशिपुस्तथा । देवश्च शङ्खच-
क्राभ्यां भूषितोर्द्ध्वकरद्वयः” इति । “राजवर्त्म च वैदूर्यं
इन्द्रनीलं सुमस्तके । कृत्वा रूपमिदं रम्यं तत्पात्रं मधुना
बुधः । पूरयेत् खण्डमिश्रेण तत्र देवं पुनर्नमेत् । वस्त्र-
युग्मेन संछन्नं आसने विनिवेशयेत् । नैवेद्यं कल्पयेदग्र्यं
भक्ष्यैर्नानाविधैर्बुधः । वितानोपरिसंयुक्तं पुष्पदामभिर-
र्चयेत् । गन्धपुष्पैस्तथा धूपैर्जागरं चार्च्च्य कारयेत् ।
कृत्वा समस्तमेतत्तु हरये पूर्ववद्ददेत् । यत्किञ्चित् प्राग्-
विनिर्दष्टं कुर्य्यात् सर्वमिहापि तत्” । प्राग्विनिर्दिष्ट-
मिति वैष्णवमन्त्रेण पूजनं मूलमन्त्रेण अष्टोत्तरशतं
तिलाज्यहोमः द्वादशभ्यो ब्राह्मणेभ्यः सदक्षिणमन्नदान-
मिति । “कार्त्तिक्यां वाथ वैशाख्यामाश्रित्य द्वादशीमथ ।
कृत्वा विधिमिमं सम्यक् नूनं तत्पदमश्नुते । अरण्ये वाथ
संग्रामे तस्करैदंष्ट्रिभिर्वृते । न भयं जायते तस्य सकृद्-
यस्त्वेतदाचरेत् । विदार्य्य चापदोघोराः धनमायुः
प्रयच्छति । सन्ततिं चैव रूपञ्च सौभाग्यञ्च मनोरथान् ।
एवं भवति यत्पुण्यं नृसिंहाकृतिदानतः । तेन विष्णोः
पदं प्राप्य तत्र क्रोडन्ति देहिनः । एतत् श्रुत्वा महत्
पुण्यं सर्वपापैः प्रमुच्यते । धनमायुर्विवर्द्धेत श्रावकस्य
विशेषतः । श्रावके दक्षिणां दद्याद्भक्त्या चात्मविभूतये”

नरस्कन्ध पु० नर + समूहे स्कन्ध । नरसमूहे एवं मनुष्यस्कन्धा-

दयोऽप्यत्रार्थे ।
पृष्ठ ३९७८

नराङ्ग पु० नरमङ्गयति चु० अङ्ग--अण् । १ मेट्रे २ वरण्डे

(नारङ्गा) व्रणभेदे मेदि० ।

नराची स्त्री नरमिवाचिनोति रोमभिरिव कण्टकैः आ +

चि--ड गौरा० ङीष् । १ अमूलायां कण्टकिन्यां (फणी-
मनसा) वृक्षभेदे “यां ते चक्रुरमूलायां वलगं वा
नराच्याम्” अथ० ५ । ३१ । ४ । ततः शर्करा० स्वार्थे अण् । नाराच
तत्रार्थे । २ शौरेर्भाय्याभेदे च “सुतनूश्च नराची च शौरे
रास्तां परिग्रहौ । पौण्ड्रश्च कपिलश्चैव वसुदेवस्य
तौ सुतौ । नराच्यां कपिलो जज्ञे पौण्ड्रश्च सुतनूसुतः ।
तयोर्नृपोऽभवत् पौण्ड्रः कपिलश्च वनं ययौ” हरिवं०
१६२ अ० ।

नरा(च)ज पु० षोडशाक्षरपादके वृत्तभेदे “भुजङ्गराजभाषितं

प्रकीर्णशास्त्रसागरे लधौ गुरौ निरन्तरे सतीह
षोडशाक्षरे । प्रतापतापनिर्जितप्रभाकरप्रकाश! हे प्रवृत्त-
वृत्तराजकं नराज(च)मेव मन्महे” ।

नराधम पु० नरेषु अधमः । विवेकादिशून्यतयापकृष्टे मानवे

“अज्ञानोपहितो बाल्ये यौवने वनिताहतः । शेषे
कलत्रचिन्तार्त्तः किं करोति नराधमः” ।

नराधिप पु० ६ त० । नृपे “नराणाञ्च नराधिपः” गीता ।

नराधिपत्यादयोऽप्यत्र ।

नरान्तक पु० अन्तयन्ति अन्ति--ण्वुल् ६ त० । मानुषनाशके

रावणात्मजे १ राक्षसभेदे “रक्षःपतिस्तदवलोक्य निकु-
म्भकुम्भधूम्राक्षदुर्मुखसुरान्तनरान्तकादीन्” भाग० ९ । १० ।
१८ । २ नरनाशकमात्रे त्रि० ।

नरायण पु० नरा अयनमस्य । विष्णौ “नराणामयनं यस्मात्

तेन नरायणः स्मृतः” व्रह्मवै० पु० । नरस्य परमात्मनोऽपत्यं
नडा० फक् संज्ञापूर्वकविधेरनित्यत्वान्न वृद्धिः । तत्रार्थे

नराश पु० नरमश्नाति अश--भोजने अण् उप० स० । राक्षसे

“यावन्नराशैर्न रिपुः शवाशान्” भट्टिः ।

नराशंस पु० १ यज्ञे २ अग्नौ च । “नराशंस महिमानमि-

त्यृचमधिकृत्य निरु० ८ । ३ उक्तं यथा “नरांशसो यज्ञ
इति कात्यकः । नरा अस्मिन्नासीनाः शंसन्ति, अग्निरिति
शाकपूणिर्नरैः प्रशस्यो भवति” । तेनोभयनिरुक्तेः उभयार्थता
“देव इन्द्रो नराशंसस्त्रिवरूथः” यजु० २१ । ५५ “नरा-
शंसो देवोऽनुयाजरूपी यज्ञः” वेददी० “नराशंसो अग्ने”
यजु० २७ । १३ “नराशंसः नरैरृत्विग्भिराशंस्यते स्तूयते
नराशंसः अग्निः” वेददी० ।
आ + शन्स--भावे घञ् ६ त० । ३ नराणाभाशंसने पु० “जुष्टां
नराशंसाय प्रजा वै नराः” शत० ब्रा० १ । ५ । १ । २० “यथा सर्वे-
ऽपि नराः शंसन्ति तथाविधशंसनाय प्रियामिति” भाष्यम्
अस्य वनस्पत्या० युगपत् उभयपदे प्रकृतिस्वरः ।

नरासन नराकारे आसनभेदे तल्लणभेदादिकं रुद्रयामलोक्तं

यथा “अथ नरासनं वक्ष्ये षोडशादिप्रकारकम् । येन
साधनमात्रेण योगी भवति साधकः । प्रकाराः षोडश
प्रोक्ताः सत्कुलज्ञैर्महीतले । एकमासात् भवेत् कल्पो
द्विमासे द्रुतकल्पकम् । त्रिमासे योगकल्पः स्यात् चतुर्मासे
स्थिराशयः । पञ्चमासे सूक्ष्मकल्पः षष्ठमासे विवेकधीः ।
सप्तमासे ज्ञानयुक्तो भावको भवति ध्रुवम् । अष्टमे मन्त्र-
संयुक्तो जितेन्द्रियकलेबरः । नवमे सिद्धिमिलनो दशमे
चक्रभेदवान् । एकादशे महावीरो द्वादशे खेचरी
भवेत् । इति योगासन द्वन्द्वे योगी भवति साधकः ।
नरासनं यः करोति स सिद्धो नात्र संशयः । अधोमुखं
महादेव! नरासनस्य साधने । करणीयं साधकाग्र्यैः
योगशास्त्रार्थसम्मतैः” रुद्रजा० ।

नरिष्ठा स्त्री पुरुषमेधे भयङ्करपशूपालम्भनोद्देश्ये देवताभेदे

“नरिष्ठायै भीमलम्” यजु० ३० । ६

नरिष्यन्त पु० वैवस्वतमनोः पुत्रभेदे “वेनं धृष्णुं नरिष्यन्त

नाभागेक्ष्वाकुमेव च” भा० आ० ७५ अ० । “इक्ष्वाकुर्नभग-
श्चैव धृष्णुः शर्य्यातिरेव च । नरिष्यन्तोऽथ नाभागः
सप्तमोऽरिष्ट उच्यते” भाग० ८ । १३ । १

नरी स्त्री नरस्य पत्नी ङीष् । मानवपत्न्यां जटा० । तज्जाति

स्त्रियां तु नारीत्येव ।

नरेन्द्र पु० नर इन्द्र इव । १ नृपे २ विषवैद्ये च मेदि० । “नरे-

न्द्रकन्यास्तमवाप्य सत्पतिम्” रघुः “सुनिग्रहा नरेन्द्रेण
फणीन्द्रा इव शत्रवः” माघः ३ ग्रहादिनिबारकवैद्यभेदे “तेषु
कश्चिन्नरेन्द्राभिमानी मां निवर्ण्य मुद्रातन्त्रमन्त्रध्याना-
दिभिश्चोपक्रम्याकृतार्थः” दशकुमा० । “सा च द्वारिका
यक्षेण केनचिदधिष्ठिता न तिष्ठत्यग्रे नरान्तरस्य
आयास्यति च नरेन्द्रसार्थसंग्रहणेन तन्निराकरिष्यन्नरेन्द्रो
नचास्ति सिद्धिरिति” दशकुमा० । ४ एकविंशत्यक्षरपादके
वृत्तभेदे “चामररत्नरज्ज्वुवरपरिगतविप्रगणाहित-
शोभः पाणिविराजिपुष्पयुगविरचितकङ्कणसङ्गतगन्धः ।
चारु सुवर्णकुण्डलयुगलकृतिरोचिरलङ्कृतवर्णः पिङ्ग-
लपन्नगेश इति निगदति राजति वृत्तनरेन्द्रः” । नरेश-
नरेश्वरादयोऽपि नृपे ।

नरेन्द्राभ पु० नरेन्द्र इवाभाति काष्ठेषु आ + भा--क । काष्ठा गुरुणि नैघण्टुप्रकाशिका ।

पृष्ठ ३९७९

नरोत्तम पु० नरेषूत्तमः । १ पुरुषोत्तमे नारायणे २ नरश्रेष्ठे

च “सभाक्षो भङ्गकारात्तु नागेयश्च नरोत्तमौ । जज्ञाते
गुणसम्पन्नौ विश्रुतौ रूपसम्पदा” हरिवं० ३९ अ०
२ कृतकृत्ये ज्ञाततत्त्वे पुरुषे यथा “यः स्वकात् परतो
वेह जातनिर्वेद आत्मवान् । हृदि कृत्वा हरिं गेहात्
प्रव्रजेत् स नरोत्तमः” । स्वकात् स्वतएव, परतः
परोपदेशाज्जातवैराग्यः” शब्दार्थचि० ।

नर्कुटक पु० नरस्य कुटकमिव पृषो० । नासायां हेमच० ।

नर्त्त त्रि० नृत्यति नृत--पचा० अच् । १ नृत्यकर्त्तरि “नृत्य-

प्रियो नित्यनर्त्तो नर्त्तकः सर्वलालसः” भा० अनु० ३७ अ० ।
नृत--भावे घञ् । २ नर्त्तने पु० ततः छेदा० नित्यार्हार्थे
ठञ् । नार्त्तिक अभीक्ष्णनर्त्तनार्हे त्रि० ।

नर्त्तक त्रि० नृत्यति नृत--गात्रविक्षेपे “शिल्पिनि ष्वुन्” पा०

कर्त्तरिष्वुन् । जीविकार्थं गात्रविक्षेपभेदनृत्यकारके “भ्रु-
कुंसश्च भ्रूकुंसश्च भ्रकुंसश्चेति नर्त्तकः” अमरः । स्त्रियां
वित्त्वात् ङीष् । “रङ्गाय दर्शयित्वा निवर्त्तते नर्त्तकी यथा
नृथात्” सा० का० “नर्त्तकीवत् प्रवृत्तस्य निवृत्तिश्चारिता-
र्थ्यात्” सा० सू० । २ शिवे पु० नर्त्तशब्दे दृश्यम् । ३ सङ्कीर्ण
जातिमात्रे पुंस्त्री० “वेश्यायां रञ्जकाज्जातो नर्त्तको
गायको भवेत्” उशनाः । नर्त्तयति नृत--णिच् ण्वुल् ।
४ अङ्गुल्यादेश्चालके । “तर्कोविचारः सन्देहात् भ्रूशिरो-
ऽङ्गुलिनर्त्तकः” सा० द० । नृत--पचा० अच् संज्ञायां कन् ।
५ नलतृणे पोटगले ६ चारणे ७ केलके च शब्दरत्ना०
८ गजे ९ नृपे हेम० । १० करेणौ हस्तिन्यां स्त्री मेदि०
११ नलिकानामगन्धद्रव्ये स्त्री राजनि० । नृत्यकर्त्तुर्लक्षणं
सङ्गीतशास्त्रोक्तं यथा “यादृशं नृत्यपात्रं स्याद्गीतं
योज्यञ्च तादृशम् । नृत्यस्य धारणात् पात्रं नर्त्तकः
परिकीर्त्तितः” “असम्बद्धप्रलापी च सदा भ्रुकुटित-
त्परः । हासप्रहासचतुरो वाचालो नृत्यकोविदः” ।

नर्त्तन न० नृत--भावे ल्युट् । १ अङ्गविक्षेपभेदे नृत्ये पूर्वप-

दस्थे निमित्ते सति उत्तरपदस्थस्यास्य क्षुम्ना० न णत्वम्
परिनर्त्तनम् । वर्जयेदित्यनुवृत्तौ “कामं क्रोधञ्च लोभञ्च
नर्त्तनं गीतिवादनम्” स्नातकव्रतोक्तौ मनुः । णिच्-
भावे ल्युट् । २ अङ्गुल्यादेश्चालने च

नर्त्तनप्रिय पु० नर्त्तनं प्रिवमस्य । १ शिवे २ नृत्यप्रियमात्रे त्रि०

नर्त्तनशाला स्त्री ६ त० । (नाचघर) नृत्यगृहे “यैषा नर्त्त-

नशालेह मत्स्यराजाय कारिता” भा० वि० २२ अ० नर्त्तन
गृहादयोऽप्यत्र ।

नर्त्तित त्रि० नृत--णिच् कर्मणि क्त । कृतताण्डवे चालिते

“सललितनर्त्तितवामपादपद्मा” माघः ।

नर्त्तु पु० नृत--उण् । खड्गधारायां स्थित्वा नर्त्तके त्रिका०

नर्द्द शब्दे अक० गतौ सक० भ्वा० पर० सेट् । नर्द्दति

अनर्द्दीत् ननर्द । “उदपानाश्च नंर्दन्ति यथा गोवृषभास्तथा”
भा० उ० १४२ अ० । “ते नर्दमाना इव कालमेघाः” भा०
आ० १९३ अ० ताच्छील्ये चानश् । “अनर्दिषुः कपि
व्याघ्राः” । “विदाञ्चकार धौताक्षः स रिपुं खे ननर्द्द
च” भट्टिः प्राद्युपसर्गपूर्वकस्तु तत्तदुपसर्गोद्यत्यार्थयुक्ते
शब्दे अणोपदेशत्वात् सति निमित्ते न णत्वम् प्रनर्दति ।

नर्द्दटक न० “यदि भवतो नजौ भजजलागुरुर्नर्द्दटकम्”

छन्दोम० उक्तलक्षणे सप्तदशाक्षरपादके छन्दोभेदे ।

नर्द्दन न० नर्द--भावे ल्युट् । शब्दे “नर्दनं मृगपक्षिणाम्”

वृ० सं० ४६ अ० ।

नर्द्दिन् त्रि० नर्दति शब्दायते नर्द--णिनि । १ शब्दकारके

विकत्थके । पात्रेसमिता० सप्तम्यान लुक गेहेनर्दी ।

नर्ब गतौ भ्वा० पर० सक० सेट् । नर्बति अनर्वीत् ननर्ब ।

अणोपदेशत्वात् सति निमित्ते न णत्वम् । प्रनर्बति ।

नर्म्म पु० नॄ--मन् । पुरुषमेधीयालभ्यपशूद्देश्ये देवभेदे “नर्माय

रेभम्” यजु० ३० । ६ “नर्माय पुंश्चलूम्” ३० । २

नर्म्मकील पु० नर्मणः परिहासस्य कील इव बन्धनस्थान-

त्वात् । पत्यौ भर्त्तरि त्रिका० ।

नर्म्मट पु० नर्न--अटन् पृषो० । १ स्वर्परे २ सूर्ये च हारा० ।

नर्म्मठ पु० नर्भणि कुशलः नर्मन् + अठन् । १ नर्मकुशले २ षिड्गे

जारे ३ परिहासके शब्दर० ४ चिबुके चुचूके च शब्दार्थ०

नर्म्मद त्रि० नर्भ ददाति दा--क ६ त० । १ केलिसचिवे मेदि० ।

२ पृक्वायां हेमच० । ३ नदीभेदे स्त्री मेदि० । सा च नदी
कलिङ्गदेशस्य पश्चाद्देशे स्थिता अमरकण्टकपर्वतसन्निकृष्टा
यथाह मत्स्यपु० १८५ अध्यायावधि १९० अ० पर्यन्ते
तत्कथा दिङ्मात्रमत्र दर्श्यते ।
“मार्कण्डेय उवाच नर्मदा सरितां श्रेष्ठा सर्वपापप्रणा-
शिनी । तारयेत् सर्वभूतानि स्थावराणि चराणि च ।
नर्मदायास्तु माहात्म्यं पुराणे यन्मया श्रुतम् ।
तदेतद्धि महाराज! तत्सर्वं कथयामि ते । पुण्या कनखले
गङ्गा कुरुक्षेत्रे सरस्वती । ग्रामे वा यदि वाऽरण्ये
पुण्या सर्वत्र नर्मदा । त्रिभिः सारस्वतं तोयं सप्ताहेन
तु यामुनम् । सद्यः पुनाति गाङ्गेयं दर्शनादेव नार्म-
दम् । कलिङ्गदेशे पश्चार्द्धे पर्वतेऽमरकण्टके । पुण्ये
पृष्ठ ३९८०
च त्रिषु लोकेषु रमणीया मनोरमा । सदेवासुरगन्धर्वा
ऋषयश्च तपोधनाः । तपस्तप्त्वा महाराज! सिद्धिञ्च
परमाङ्गताः । तत्र स्नात्वा नरो राजन्नियमस्थो जिते-
न्द्रियः । उपोष्य रजनीमेकां कुलानां तारयेच्छतम् ।
जलेश्वरे नरः स्नात्वा पिण्डं दत्त्वा यथाविधि । पितर-
स्तस्य तृप्यन्ति यावदाभूतसंप्लवम् । पर्वतस्य समन्तात्तु
रुद्रकोटिः प्रतिष्ठिता । स्नात्वा यः कुरुते चार्चां गन्ध-
माल्यानुलेपनैः । प्रीतस्तस्य भवेच्छर्वो रुद्रकोटिर्न
संशयः । पश्चिमे पर्वतस्यान्ते स्वयं देवी महेश्वरः । तत्र
स्नात्वा शुचिर्भूत्वा ब्रह्मचारी जितेन्द्रियः । पितृकार्यञ्च
कुर्वीत विधिवन्नियतेन्द्रियः । तिलोदकेन तत्रैव तर्पयेत्
पितृदेवताः । आसप्तमं कुलं तस्य स्वर्गे मोदेत पाण्डव! ।
षष्टिर्वर्षसहस्राणि स्वर्गलोके महीयते । अप्सरोगण-
संकीर्णे सिद्धचारणसेविते । दिव्यगन्धानुलिप्तश्च दिव्या-
लङ्कारभूषितः । ततः स्वर्गात्परिभ्रष्टो जायते विपुले
कुले । धनवान् दानशीलश्च धार्मिकश्चैव जायते । पुनः
णरति तत्तीर्थं गमनं तत्र रोचते । कुलानि तारयेत्
सप्त रुद्रलोकं स गच्छति । योजनानां शतं साग्रं श्रू-
यते सरिदुत्तमा । विस्तारेख तु राजेन्द्र! योजनद्वय-
मायता । षष्टिस्तीर्घसहस्राणि षधिः कोञ्चस्तथैव च ।
सर्वं तस्य समन्तात्तु तिष्ठतेऽमरकण्टके” ।

नर्मदासम्भव न० नर्मदायां सम्भवति सम्--भू--अच् । द्यार्मदे

वाणलिङ्गभेदे तल्लणादिकन्तु याज्ञवल्क्यसंहितायां देवीं
प्रति शिववाक्ये “प्रशस्तं नार्मदं लिङ्गं पकजम्बु फलाकृति ।
मधुवर्णं तथा शुक्लं नीलं मरकतप्रभम् । हंसडिम्बाकृति
पुनः स्थापनायां प्रशस्यते । स्वयं संस्रवते लिङ्गं गिरितो
नर्मदाजले । पुरा वाणासुरेणाहं प्रार्थितो नर्मदातटे ।
अध्यवात्सं गिरौ तत्र लिङ्गरूपी महेश्वरः । वाणलिङ्ग-
मपि ख्यातमतोऽर्थाज्जगतीतले । अन्येषां कोटिलि-
ङ्गानां पूजने यत् फलं लभेत् । तत् फलं लभते मर्त्त्यो
वाद्यलिङ्गैकपूजनात्” । तथा “ताम्री वा स्फाटिकी
स्वार्णी पाषाणी राजती तथा । वेदिका च प्रकर्त्तव्या तत्र
सस्थाप्य पूजयेत् । प्रत्यहं योऽर्चयेल्लिङ्गं नार्मदं भक्ति
भावतः । ऐहिकं किं फलं तस्य मुक्तिस्तस्य करे स्थिता”
नर्भदेशशब्दे तत्तीरस्थपाषाणमात्रस्य शिवलिङ्गरूपित्वं
वक्ष्यते । प्रसङ्गात्तस्य लक्षणपरीक्षाद्रिकमुच्यते वीरमित्रो-
द्रवधृतकालोत्तरे “वाणलिङ्गं तथा ज्ञेयं भुक्तिमुक्तिप्रदा-
यकम् । उत्पत्तिं वाणलिङ्गस्य लक्षण नदतः शृणु ।
नर्मदादेविकयोश्च गङ्गायमुनयोस्तथा । सन्ति पुण्यन-
दीनाञ्च वाणलिङ्गानि षण्मुख! । इन्द्रादिपूजितान्यत्र
तच्चिह्नैर्विहितानि च । सदा सन्निहितस्तत्र शिवः सर्वार्थदा-
यकः । इन्द्रलिङ्गानि तान्याहुः साम्राज्यार्थप्रदानि च”
आग्नेयं तच्छक्तिनिभमथवा शक्तिलाञ्छितम् । इदं
लिङ्गवरं स्थाप्य तेजसाधिपतिर्भवेत्” “दण्डाकारं भवेद्
याम्यमथवा रसनाकृति । यद्युक्तं सह तेनैव निर्णिक्तं
ज्ञायते तदा । निषिक्तं निधनन्तेन क्रियते स्थापितेन
तु” “राक्षसं खड्गसदृशं ज्ञानयोगफलप्रदम् । कर्क-
रादिप्रलिप्तन्तु कुण्टकुक्षियुतं तथा । राक्षसं निरृते-
र्लिङ्गं गार्हस्थ्ये न सुखप्रदम्” “वारुणं वर्त्तुलाकारं
प्राशाङ्कं चालिवर्चसम् । वृद्धिःसुखादेः स्वत्वस्य संभोगा-
प्तन्तु मध्यगे” “कृष्णं धूम्रं च वायव्यं ध्वजगं ध्वजभू-
षणम् । मस्तकेस्थापितं तस्य न्यूनन्यूनमितस्ततः”
“चतुर्वर्णमयं वापि वैष्णवं ज्ञायतेऽग्रतः ।
वैष्णवं शङ्खचक्राङ्कगदाब्जादिविभूषितम् । श्रीवत्सं
कास्तुभाङ्कञ्च सर्वसिंहासनाङ्कितम् । वैनतेयसमाङ्कं वा
तथा विष्णुपदाङ्कितम् । वैष्णवं नाम तत्प्रोक्तं सर्वैश्व-
र्य्यफलप्रदम्” “शालग्रामादिसंस्थन्तु शशाङ्कं श्रीवि-
वर्द्धनम् । पद्माङ्कं स्वस्तिकाङ्कं वा श्रीवत्साङ्कं विभूतये”
हेमाद्रिधृतलक्षणकाण्डे नारद उवाच “अथ वक्ष्यामि
ते विप्र चिह्नमेकादशं (पूर्वोक्तदशापेक्षया एकादशम्)
परम् । श्रवणाद्यस्य पापानि नाशमायान्ति तत्
क्षणात् । मधुपिङ्गलवर्णाभं कृष्णकुण्डलिकायुतम् ।
स्वयम्भु १ लिङ्गमाख्यातं सर्वसिद्धैर्निषेवितम् । नाना-
वर्णसमाकीर्णं जटाशूलसमन्वितम् । मृत्युञ्जयाह्वयं २
लिङ्गं सुरासुरनमस्कृतम् । दीर्घाकारं” शूभ्रवर्णं
कृष्णविन्दुसमन्वितम् । नीलकण्ठं ३ समाख्यातं लिङ्गं
पूज्यं सुरामरैः । शुक्लाभं शुक्लकेशञ्च नेत्रत्रयसमन्वितम् ।
त्रिलोचनं ४ महादेवं सर्वपापप्रमोदनम् । ज्वलल्लिङ्गं
जटाजूटं कृष्णाभं स्थूलविग्रहम् । कालाग्निरुद्र ५ माख्यातं
सर्वसत्वैर्निषेवितम् । मधुपिङ्गलवर्णाभं श्वेतयज्ञोपवी-
तिनम् । श्वेतपद्मसमासीनं चन्द्ररेखाविभूषिगम् । प्रल-
यास्त्रसमायुक्तं त्रिपुरारि ६ समाह्वयम् । शूभ्राभं पिङ्ग-
लङ्गटं मुण्डमालाधरं परम् । त्रिशूलधरमीशानं ७ लिङ्गं
सर्वार्थसाधनम् । त्रिशूलडमरुधरं शूभ्ररक्तार्द्धभागतः ।
अर्द्धनारीश्वराङ्खानं ८ सर्वदेवैरभीष्टदम् । ईषद्रक्तमयं कान्तं
स्थूलदीर्षं समुज्ज्वलम् । सहाकालं ९ समाख्यातं
पृष्ठ ३९८१
धर्मकामार्थमोक्षदम् । एतत्तु कथितं तुभ्यं लिङ्गचिह्न
णहेशितुः । एकेनैव कृतार्थः स्यात् बहुभिः किमु
सुव्रत!” वीरसित्रोदयधृतकालोत्तरे “उक्ताङ्कं श्रेयसे
योज्यं शीर्षमन्त्रं विवर्जयेत् । यमवर्णन्तु यल्लिङ्गं यमाङ्कं
वा कमण्डलुम् । दण्डाङ्कं सूत्रचिह्नं वा ब्रह्मज्ञानान्वितं
मतम् । शशिवर्णं महाकालं नन्दीशं पद्मरागवत् ।
पद्मरागनिभं सर्वं महाभं सिद्धिपूजितम् । मौक्तिकाभं
नीलनिभं रुद्रादित्यैः प्रपूजितम् । वसुदैः सेन्द्रयक्षेशं
गुह्यकैर्यातुधानकैः । नानावर्णमयं नीलं शशाङ्कमण्ड-
लप्रभम्” “इत्येतल्लक्षणं प्रोक्तं परीक्षा तत्त्वकोविदैः ।
त्रिःसप्तपञ्चवारं वा तुलासाम्यं न जायते । तदा
वाणं समाख्यातं शेषं पाषाणसम्भवम्” । तुलाकरणन्तु
तण्डुलेन अपरतुलादिषु तण्डुला यद्यधिकाः स्युस्तदा
तल्लिङ्गं गृहिणां पूज्यम् लिङ्गञ्चेदधिकं तदोदा-
सीनैः पूज्यमिति किंवदन्ती । हेमाद्रिधृतलक्षणकाण्डे
सूतसंहितायान्तु “सप्तकृत्वस्तुलारूढं वृद्धिमेति न
हीयते । बाणलिङ्गमिति ख्यातं शेषं नार्मदमुच्यते । त्रिपञ्च
वारं यस्यैव तुलासाम्यं न जायते । तदा वाणं
समाख्यातं शेषं पाषाणसम्भवम्” । वीरमित्रोदये “नद्यां वा
प्रक्षिपेद्भूयो यदा तदुपलभ्यते । वाणलिङ्गं तदा विद्धि
न्यूनं सुखविवर्द्धनम्” । वाणशब्दव्युत्पत्तिरपि तत्रैव
“अथ वाणं समाख्यातं यथा वक्ष्ये तथादितः । बाणः
सदा शिवो देवो वाणोवाणासुरोऽपि च । तेन यस्मात्
कृतं तस्माद्वाणलिङ्गमुदाहृतम् । सदा सन्निहितस्तत्र
शिवः सर्वार्थदायकः । कृतप्रतिष्ठं तल्लिङ्गं वाणाख्येन
शिवेन च । पङ्कजस्य फलाकारं कुण्डलस्य समाकृति”
पङ्कजफलं पद्मवीजम् “पक्वजम्बुफलाकारं कुक्कुटाण्ड-
समाकृति” इति हेमाद्रिधृतलक्षणकाण्डे पाटः । “भुक्ति-
मुक्तिप्रदञ्चैव वाणलिङ्गमुदाहृतम्” ।
सूतसंहितायान् “संस्थाप्य श्रीबाणलिङ्गं रत्नकोटि
गुणं भवेत् । रसलिङ्गे ततो वाणात् फलं कोटिगुणं
स्मृतम् । गुणांस्तु रसलिङ्गस्य वक्तुं शक्नोति शङ्करी ।
सिद्धयो रसलिङ्गे स्युरणिमाद्याः सुसंस्थिताः” । केदा-
रखण्डे “रत्नधातुमयान्येव लिङ्गानि कथितान्यपि ।
पवित्राण्येव पूज्यानि सर्वकामप्रदानि च । एतेषामपि
सर्वेषां काश्मीरं हि विशिष्यते । काश्मीरादपि लिङ्गाच्च
बाणलिङ्गं विशिष्यते । बाणलिङ्गात् परं नान्यत्
पबित्रमिह दृश्यते । ऐहिकामुष्मिकं सर्वं पूजाकर्त्तुः प्रय-
च्छति” । निन्द्यलिङ्गमाह तत्रैव “कर्कशे वाणलिङ्गे
तु पुत्रदारक्षयो भवेत् । चिपिटे पूजिते तस्मिन्
गृहभङ्गो भवेद्ध्रुवम् । एकपार्श्वस्थिते धेनुपुत्रदारध-
नक्षयः । शिरसि स्फुटिते वाणे व्याधिर्मरणमेव च ।
छिद्रलिङ्गेऽर्चिते वाणे विदेशगमनं भवेत् । लिङ्गे च
कर्णिकां दृष्ट्वा व्याधिमान् जायते पुमान् । अत्युन्नतवि-
लाग्रे तु गोधनानां क्षयो भवेत्” । हेमाद्रिधृतम्
“तीक्ष्णाग्रं वक्रशीर्षञ्च त्र्यस्रलिङ्गं विवर्जयेत् । अतिस्थूलं
चातिकृशं स्वल्पं वा भूषणान्वितम् । गृही विवर्जये-
त्तादृक् तद्धि मोक्षार्थमीहितम्” वीरमित्रोदये “अर्थदं
कपिलं लिङ्गं घनाभं मोक्षकाङ्क्षिणाम् । मधुवत् कपिलं
स्थूलं गृही नैवार्चयेत् क्वचित् । पूजितव्यं गृहस्थेन
वर्णेन भ्रमरोपमम् । तत्सपीठमपीठं वा मन्त्रसंस्कार-
वर्जितम् । सिद्धिमुक्तिप्रदं लिङ्गं सर्वप्रसादपीठगम्”
सूतसंहितायां भैरववाक्यम् “वाणासुरः पुरा भद्रे!
शिवस्यातीव वल्लभः । जितक्रोधोऽनुरक्तश्च शिवपूजा-
विधौ रतः । विधिज्ञो निपुणश्चैव शिल्पज्ञो लक्षणा-
न्वितः । दिने दिने स्वयं कृत्वा लिङ्गं स्थाप्याप्य-
पूजयत् । एवं वर्षशतं देवि! दिव्यमानेनापूजयत् ।
तदा तद्भक्तिसुलभः प्रत्यक्षः शङ्करोऽभवत्” शङ्कर उवाच
तुष्टोऽहं तव हे वाण! वरं व्रूहि किमिच्छसि । शङ्करस्य
वचः श्रुत्वा वाणोवचनमब्रवीत् । यदि तुष्टोऽसि हे नाथ!
मह्यं त्वं मन्दभागिने । क्लिष्टोऽहं तव देवेश! लिङ्गं
कृत्वा दिने दिने । तत्तल्लक्षणसंसिद्धलक्षणं शास्त्रनि-
र्मितम् । शास्त्रार्थो दुर्लभो देव! सिद्धश्चार्थश्च दुर्लभः ।
तस्मात्त्वं यदि मे तुष्टो लिङ्गं देहि सुलक्षणम् । सर्व-
कामकृतार्थञ्च सर्वसत्वानुकम्पनम् । सर्वेषाञ्च हितार्थाय
प्रसादं कुरु शङ्कर! । इत्येवं वचनं तस्य शिवः
परमकारणम् । श्रुत्वा कैलासमूर्द्धभ्यः शङ्करेण विनिर्निताः ।
लिङ्गानां कोटिसंख्याश्च तथा चैव चतुर्दश । सिद्धलिङ्गं
तदा तत्तत्सर्वं सदोदयं स्वयम् । आयोज्यैवं सुसम्पूर्णं
वाणस्य च सपर्पितम् । अक्षयफलदं बाणः स्थाप्यमानञ्च
नित्यशः । संपूज्य बाणः सद्भावं कृत्वा प्रणयनन्तदा ।
तद्भावं सपुरं नीत्वा नूनं चिन्तयते शुतिः । अक्षयां
यदि संसिद्धिं स्थाप्यमानं दिने दिने । सत्वानां सिद्विहे-
त्वर्थं वाणस्थाने सुसंस्तवे । लिङ्गानां कालिकागर्त्ते
सञ्चितास्तु त्रिकोटयः । श्रीशैले कोटयस्तिस्रः कीट्येका
कन्थकाश्रमे । माहेश्वरे च कोटिस्तु कन्दातीर्थे तु को-
पृष्ठ ३९८२
टिका । माहेन्द्रे चैव नेपाले एकैका कीटिरेव च ।
वाणाच्चार्थं कृतं लिङ्गं वाणलिङ्गमतः स्मृतम् । वाणो वा
शिव इत्युक्तस्तत्कृतं वाणमुच्यते । तस्मात्तेषु प्रदेशेषु
पुण्यस्थानेषु तेषु वा । स्थितं तच्छिवसद्भावं शिवस्याकृति
विग्रहे” । हेमाद्रौ तदाकृतिलक्षणसमुच्चयेऽपि “स्ययम्भु-
लिङ्गवत् बाणलिङ्गं भुक्त्यैस्वमुक्तये “सहस्रफलमन्यस्माद्
यथास्थापनपूजने । श्रीशैले कालिकागर्त्ते लिङ्गाद्रौ
कन्यकाश्रमे । कन्यातीर्थे वने शैले माहेन्द्रे वा सुरेश्वरे ।
स्थितानि वाणलिङ्गानि शिवेनैव कृतानि तु” सिद्धान्त-
शेखरे वाणलिङ्गान्यधिकृत्य “तदानेकप्रकारं स्यादभ्यवर्ण-
मपीठकम् । लक्ष्ममूर्त्तिविहीनञ्च वाणं तत् पृथुलाग्र-
कम्” वाणलिङ्गेष्वावाहनादि न कर्त्तव्यं तदुक्तं
भविष्ये “वाणलिङ्गानि राजेन्द्र! स्थितानि भुवनत्रये ।
न प्रतिष्ठा न संस्कारस्तेषाभावाहनं न चेति” । रौद्र-
लिङ्गलक्षणं वीरमित्रोदयधृते “नदीसमुद्भवं रौद्रमन्यो-
न्यस्य विघर्षणात् । नदीवेगात् समं स्निग्धं सञ्जातं रौद्र-
मुच्यते” लक्षणसमुच्चयेऽपि “सरित्प्रवाहसंस्थानं वाणलिङ्ग
समाकृति । तदन्यदपि बोद्धव्यं रौद्रलिङ्गं सुखावहम् ।
नदीसारनर्मदाया वाणलिङ्गसमाकृति । तदन्यदपि
बोद्धव्यं लिङ्गं रौद्रं भविष्यति” । रौद्रलिङ्गं तथा ख्यातं
वाणलिङ्गसमाकृति । श्वेतं रक्तं तथा पीतं कृष्णं विप्रा-
दिपूजितम् । स्वभावात् कृष्णवर्णं वा सर्वजातिषु सिद्धि-
दम् । नर्मदासम्भवं रौद्रं वाणलिङ्गवदीरितमिति” ।
अधिकं नर्मदेशशब्दे दृश्यम् ।

नर्मदेश न० नर्मदया स्थापित इशो यत्र । काशीस्थे

शिवलिङ्गभेदे तदाविर्भवकथा काशीख० ९२ अ० यथा
“निशम्येति विधेर्वाक्यं नर्मदा सरिदुत्तमा । धातुर्वरं
परित्यज्य प्राप्ता वाराणसीं पुरीम् । सर्वेभ्योऽपि हि
पुण्येभ्यः काश्यां लिङ्गे प्रतिष्ठिते । अपरा न तृनुद्दिष्टा
कैश्चित् श्रेयस्करी क्रिया । अथ सा नर्मदा पुण्या
विधिपूर्वं प्रतिष्ठितिम् । व्यधात् पिलिम्पिलातीर्थे त्रिपि-
ष्टपसमीपतः । ततः शम्भुः प्रसन्नोऽभूत् तस्यै नद्यै
शुभात्मने । वरं वृणीष्व सुभगे! यत्तुभ्यं रोचतेऽनघे! ।
सरिद्वरा निशम्येति रेवा प्राह महेश्वरम् । किं वरेणेह
देवेश! भृशं तुच्छेन धूर्जटे! । निर्द्वन्द्वा त्वत्पदद्वन्द्वे
भक्तिरस्तु ममेश्वर! । श्रुत्वेति नितरान्तुष्टो रेवागिरस-
नुत्तमाम् । प्रोवाच च सरित्श्रेष्ठे! त्वयोक्तं यत्तथास्तु
तत् । गृहाण पुण्यनिलये वितरामि वरान्तरम् । या-
वत्योदृशदः सन्ति तव रोधसि नर्मदे । तावत्यो लिङ्ग-
रूपिण्यो भविष्यन्ति वरान्मम । अन्यञ्च ते वरं दद्यां
तमप्याकर्णयोत्तमम् । दुष्प्राप्यं यच्च तपसां राशिभिः
परमार्थतः । सद्यः पापहरा गङ्गा सप्ताहेन
कलिन्दजा । त्र्यह्वा सरस्वती रेवे! त्वन्तु दर्शनमात्रतः ।
अपरं च वरं दद्यां नर्मदे! दर्शनाघहे । भवत्या स्थापितं
लिङ्गं नर्मदेश्वरसंज्ञितम् । एतल्लिङ्गं महापुण्यं मुक्तिं
दास्यति शाश्वतीम् । अस्य लिङ्गस्य ये भक्तास्तान् दृष्ट्वा
सूर्यनन्दनः । प्रणमिष्यति यत्नेन महाश्रेयोभिवृद्धये ।
सन्ति लिङ्गान्यनेकानि काश्यां देवि! पदेपदे । परं हि
नर्मदेशस्य महिमा कोऽपि चाद्भुतः । इत्युक्त्वा देवदेवेश
स्तस्मिन् लिङ्गे लयं ययौ । नर्मदापि प्रहृष्टाऽऽसीत्
पावित्र्यं प्राप्य चाद्भुतम् । स्वदेशं च परिप्राप्ता दृष्टि-
मात्राथहारिणी” ।

नर्मन् न० नॄ--मनिन् । परिहासे अमरः । “न नर्मयुक्तं

वचनं हिनस्ति” भा० आ० १८२ अ० “नर्मपूर्वमनुपृष्ठ
संस्थितः” रघुः । “सुहृत्प्रयुक्ता इव नर्मवादाः” काम०
“त्रिदिनमिह न भिन्द्याद्ब्रह्मचर्यं न चास्या । हृदय-
मननुरुध्य स्वेच्छया नर्म कुर्य्यात्” मल्लिनाथधृतकामशा-
स्त्रम् “माधुर्यं नर्मविज्ञानं वाग्मिता चेति तद्गुणाः”
द्वतीलक्षणे सा० द० ।

नर्मरा स्त्री नर्मन् + अस्त्यर्थे रः । १ दर्य्यां २ भस्त्रायां ३

सरलायां ४ निष्कलाख्यायाञ्च मेदि० ।

नर्मवत् त्रि० नर्म अस्त्यस्य मतुप् मस्य वः । नर्मयुक्ते स्त्रियां

ङीप् । सा च १ नायिकाभेदे तदाख्यायिकारूपे ३ रासक
नाटकभेदे सा० द० “तत्र सन्धिद्वयवती यथा नर्मवती” ।

नर्मसचिव पु० नर्मसु सचिवः । परीहाससहाये “न नर्म-

सचिवैः सार्द्धं किञ्चिदप्यप्रियं वदेत्” कामन्दक० “न
नर्मसाचिव्यमकारि नेन्दुना” माघः ।

नर्य्य त्रि० नृभ्योहितं यत् । १ मनुष्यहिते “नॄणां नर्य्यो

नृतमः क्षपावान्” ऋ० १० । २९ । १ “नर्य्यो नृभ्यो हितः”
भा० “चतुष्पदे नर्य्याय द्विपदे” ऋ० १ । १२१ । ३ नरस्यापत्यम्
वा० यत् । २ मनुष्यमात्रे च “अपो नर्य्यः सुजातः”
निरु० ११ । ३६ धृतामृचमधित्योक्तं “मनुष्यः नृभ्योहितो
नर्य्यः” “होतौ यक्षत् सुरेतसमृषभं नर्य्यापसम्” यजु०
२१ । ३८ “नर्य्यं नरहितमपः कर्म यस्येति” वेददी० ।
पृष्ठ ३९८३

नल पु० नल--बन्धे अच् । १ तृणभेदे पोटगले अमरः ।

“नलस्तु मधुरस्तिक्तः कषायः कफरक्तजित् । उष्णो
हृद्वस्तियोन्यर्त्तिदाहपित्तविसर्पजित्” भावप्र० तद्गुणाः ।
“जरठच्छेदा नलग्रन्थयः” सा० द० । २ सूर्यवंश्ये
नृपभेदे “रामस्य तनयो जज्ञे कुश इत्यभिविश्रुतः”
इत्युपक्रमे “निषध्रस्य नलः पुत्रो नभः पुत्रो नलस्य
तु” इति “सुधन्वनः सुतश्चैव ततो जज्ञे नलो
नृपः । उक्थो नाम स धर्मात्मा नलपुत्रो बभूव
तु” । “नलौ द्वावेव विख्यातौ पुराणे भरतर्षभ! ।
वीरसेनात्मजश्चैकः यश्चेक्ष्वाकुकुलोद्भवः” हरिवं० १५ अ०
“नलौ द्वावेव विख्यातौ वंशे कश्यपसम्मवे । वीरसेन
सुतस्तद्वन्नैषधश्च नराधिपः । एते वैवस्वते वंशे राजानी
भूरिदक्षिणाः” मत्स्यपु० १२ अ० । एवं वीरसेनस्य सूर्यवं-
श्यत्वे स्थितेऽपि नैषधचरिते “हिंमाशुवंशस्य करीर-
मेव मामिति” उक्तेः चन्द्रवंश्यत्वम् तेन “आसीद्राजा
नलोनाम वीरसेनसुतो नृप!” इति भा० व० ५२ अ० उक्तो
वीरसेनः सूर्यवंश्यात् भिन्नएव भा० व० ६० अ० तत्पुत्र
नलस्य इन्द्रसेनाख्य पुत्र इत्युक्तं सूर्यवंश्ययोर्नलयोस्तु
पुत्रनामनी भिन्ने हरिवं० १५ अ० इति नास्य सूर्यवंश्यता
भा० व० ५२ अध्यावधि ७९ अ० पर्यन्ते नलोपाख्यानं
दृश्यम् । तत० संक्षिप्य दिङ्मात्रमत्र तच्चरितं प्रद-
र्श्यते । पुरा किल वीरसेनसुतः निषधदेशाधिपो
नलनामा आसीत् । स च कुण्डिनेश्वरभीमनृपसुतां
दमयन्तीं स्वयंवरविधिना उब्धामुपयेमे तस्य इन्द्रसेनः पुत्रो
बभूव । स च कलिप्रवेशात् पाशाक्षदुर्व्यसनितया पुष्क-
रेण भ्रात्रा सह द्यूतदेवनात् सर्वस्वमहारयत् । अथ
स हृतराज्यो दमयन्त्या सह वनं जगाम । तत्र महाक-
ष्टमनुभवन् दयमन्तीं व्यसनासहिष्णुं मन्यमानश्च रात्रौ
सुप्तां तां व्यरित्यज्य पलायाञ्चक्रे । दमयन्ती तु प्रबुध्य
बहु विलप्य पथिकसार्थेन सह मातृस्वसृगृहं गताऽपि
लुप्तचिह्नतया मातृस्वस्राऽप्रत्यभिज्ञातेव तत्सदनमुवास ।
अथ भीमादेशेन तदन्वेषणाय प्रेरिता द्वताश्चिह्नभेदेन तां
दमयन्तीं ज्ञात्वा भीमाय न्यवेदयन् । ततस्तां ततः
स्वगृहमानाथ्य भीमो नलान्वेषणाय द्वतान् प्रजिघाय ।
नलोऽपि तत्समये अरण्ये सङ्कटापन्नं कर्कोटनागं
सङ्कटादुज्जहार । अथ प्रत्युपकाराशया नागस्तद्देहस्थं
कलिं तापयितुं तस्य पदे ददंश तेन तस्य विषज्वालया
तद्देहस्थः कसिरेव नितान्तमुत्तापितः । नलस्तुं तेन
रूपान्तरमात्रमाप । स्वेच्छया पुनः स्वदेहप्राप्तिर्भविष्यतीति
नागेन तस्यै वरे दत्ते तदुपदेशेन ऋतुपर्णस्य नृपस्य
बाहुकतया प्रसिद्ध आश्वसारथ्यं चकार । अथ भैमीद्वतेन
तस्य वचनविशेषेण नलत्वं सम्भाष्य दमयन्तीं प्रति
निवेदिते सा तेन स्वस्य पुनः स्वयंवरमिषेण दूतेन
ऋतुपर्णमाजुवाव । तस्याश्वचालननैपुण्यं पथि दृष्ट्वा तन्नैपुण्यं
शिक्षितुमिच्छुः तस्मै स्वकीयाक्षहृदयज्ञानदानविनिमयं
चक्रे । अथ नमस्य तस्मादक्षज्ञानमात्रादेव देहात्
कर्कोटकविषदग्धः कलिनिर्जगाम । अथ कुण्डिनपुरे
आगते दमयन्ती परिवर्त्तितरूपमपि नलं पाकादिकौ-
शलेन तं नलं निश्चिकाय । अथ तेन रूपान्तरपरिव-
र्त्तनेन स्वरूपे गृहीते भैम्याः सह मेलने जाते नितान्तं
भीमस्तुतोष नलं च प्रेषयामास निषधदेशम् । स च
स्वदेशमागत्य स्वभ्रातारं पुष्करं देवनायाजुहाव ।
विदिताक्षज्ञानतया तं जिगाय च । इत्थं द्यूतहारि-
तराज्योऽपि पुनर्लब्धराज्योऽभूदिति । “नलः सितच्छ-
त्त्रितकीर्त्तिमण्डलः” “तृणेऽपि तन्व्या नलनामनि श्रुते”
नैष० “कर्कोटस्य नागस्य दमयन्त्या नलस्य च । ऋतुपर्णस्य
राज्ञश्च कीर्त्तनं कलिनाशनम्” भा० व० नलोपाख्याने ।
“पुण्यश्लोको नलोराजा पुण्यश्लोको युधिष्ठिरः” प्रातः-
स्परणीयकीर्त्तने । ३ पितृदेवभेदे कव्यवालशब्दे १८३४ पृ०
दृश्यम् । विश्वकर्मणः पुत्रे रामायणप्रसिद्धे ४ वानरभेदे
“रामस्य वरदानाच्च शिवः पन्था बभूव ह । तस्मिन्
दत्ते तदा कुक्षौ समुद्रः सरितां पतिः । राथवं सर्वशास्त्र-
ज्ञमिदं वचनमब्रवीत् । अयं सोम्य! नलोनाम तनयो
विश्वकर्मणः । पित्रा दत्तवरः श्रीमान् प्रीतिमान् विश्व-
कर्मणः । एष सेतुं महोत्साही करोतु मयि वानरः ।
तमहं धारयिष्यामि यथा ह्येष पिता तथा । एवमुक्त्वो
दधिर्नष्टः समुत्थाय नलस्ततः । अब्रवीद्वानरश्रेष्ठो वाक्यं
रामो महाबलम् । अहं सेतुं करिष्यामि विस्तीर्णं
मकरालये । पितुः सामर्थ्यमासाद्य तत्त्वमाह
महोदधिः” । “मम मातुर्वरो दत्तो मन्दरे विश्वकर्मणा ।
मया तु सदृशः पुत्रस्तव देवि! भविष्यति ।
औरसस्तस्य पुत्रोऽहं सदृशो विश्वकर्मणा । न चाप्यहमनु-
क्तोवः प्रव्रूयामात्मनो गुणान् । समर्थश्चाप्यहं सेतुं
कर्त्तुं वै बरुणालये । तस्मादद्यैव बध्नन्तु सेतुं वानरपु-
ङ्गवाः” रामा० लङ्का० २२ अ० । नलसेतुशब्देऽधिकं दृश्यम् ।
५ पद्मे न० राजनि० ।

नलक न० नल इव कायति कै--क । शाखास्थ्नि नडकशब्दार्थे हेमच० ।

नलकानन पु० नडप्रधानं काननमत्र । १ देशभेदे “झि-

ल्लिकाः कुन्तलाश्चैव सौहदाः नलकाननाः” मा० भी०
९ अ० जनपदोक्तौ । ६ त० । नलानां २ वने च न० ।
पृष्ठ ३९८४

नलकिनी स्त्री नलकं नलाकारमस्थि विद्यतेऽत्र इनि ङीप् ।

जङ्घायां हेमच० ।

नलकील पु० नल एव कीलोऽत्र । जानुनि हेमच० ।

नलकूवर पु० कुवेरपुत्रे “यक्षराज्ञा कुवेरेण वरा लब्धाश्च

पुष्कलाः । धनाधिपत्यं सख्यञ्च रुद्रेणामिततेजसा ।
सुरत्वं लोकपालत्वं पुत्रञ्च नलकूवरम्” भा० श० ४८ अ० ।
स च नारदशापेन व्रजे स्थावरतां प्राप्तः कृष्णेन
पुनर्देवत्वमासादितः । तत्कथा भाग० १० स्कन्धे यथा
“कृष्णस्तु गृहकृत्येषु व्यग्रायां मातरि प्रभुः । अद्रा-
क्षीदर्जुनौ पूर्वं गुह्यकौ धनदात्मजौ” । “पुरानारदशापेन
वृक्षतां प्रापितौ मदात् । नलकूवरमणिग्रीवाविति
ख्यातौ श्रियान्वितौ” ९ अ० “रुद्रस्यानुचरौ भूत्वा
सुदृप्तौ धनदात्मजौ । कैलासोपवने रम्ये मन्दाकिन्यां
मदोत्कटौ । वारुणीं मदिरां पीत्वा मदाघूर्णितलो-
चनौ । स्त्रीजनैरनुगायद्भिश्चेरतुः पुष्पिते वने । अन्तः
प्रविश्य गङ्गायामम्भोजवनराजिषु । चिक्रीडतुर्युवति-
भिर्गजाविव करेणुभिः । यदृच्छया च देवर्षिर्भगवांस्तत्र
कौरव! । अपश्यन्नारदो देवौ क्षीवाणौ समबुद्ध्यत ।
तं दृष्ट्वा व्रीडिता देव्यो विवस्त्रा शापशङ्किताः । वासांसि
पर्य्यधुः शीघ्रं विवस्त्रौ नैव गुह्यकौ” “यदिमौ लोकपा-
लस्य सुतौ भूत्वा तमःप्लुतौ । न विवाससमात्मानं
विजानीतः सुदुर्मदौ । अत इतः स्थावरतां स्यातां नैवं
यथा पुनः । स्मृतिः स्यात् मत्प्रसादेन तत्रापि मदनु-
ग्रहात् । वासुदेवस्य सान्निध्यं लब्ध्वा दिव्यशरच्छते ।
वृत्ते स्वर्ल्लोकतां भूयो लब्धभक्ती भविष्यतः” १० अ०

नलद न० नलं तृषाबन्धं द्यति दो--खण्डने क । १ उशीरे

(वेणारमूल) उशीरशब्दे १३७६ पृ० तद्गुणा दृश्याः
२ पुष्परसे ३ जटामांस्याञ्च मेदि० “करिणां मुदे सनलदा-
ऽनलदा” किरा० “नलदेनानुलिम्पन्ति” “नलदमालां
प्रतिमुञ्चन्ति” आश्व० श्रौ० ६ । १० । ३ । ४ । तत्पण्यमस्य किशरा०
ष्ठन् । ४ नलदिक तद्विक्रेतरि त्रि० स्त्रियां ङीष् ।
नलं ददाति दा--क । ५ नलदातरि त्रि० “स्यादस्या
नलदं विना न दलने तापस्य कोऽपि क्षमः” नैषध० ।
रुद्राश्वनृपस्य घृताच्यां जाते ६ कन्याभेदे स्त्री “खलदा
चैव राजेन्द्र! नलदा सुरसाऽपि च” हरिवं० ३१ अ०
तत्वन्योक्तौ ।

नलपट्टिका स्त्री नलनिर्मिता पट्टिकेव । (दरमा) ख्याते

पदार्थे हारा० ।

नलमीन पु० नलः नलाश्रयः मीनः । (चिङ्गुडी) मत्स्यभेदे अमरः ।

नलसेतु पु० नलवानरकृतः सेतुः शा० त० । समुद्रोपरि

नलवानरकृते सेतौ “अस्ति तत्र नलोनाम वानरः शिल्पि-
सम्मतः । त्वष्टुर्देवस्य तनयो बलवान् विश्वकर्मणः । स
यत् काष्ठं तृणं वापि शिलां वा क्षेप्स्यते मयि । सर्वं
तद्धारयिष्यामि स ते सेतुर्भविष्यति । इत्युक्त्वान्तर्हिते
तस्मिन् रामो नलमुवाच ह । कुरु सेतुं समुद्रे त्वं
शक्तोह्यसि मतो मम । तेनोपायेन काकुत्स्थः सेतुबन्ध-
मकारयत् । दशयोजनविस्तारमायतं शतयोजनम् ।
नलसेतुरिति ख्यातो योऽद्यापि प्रथितो भुबि” भा० व०
३८३ अ० ।

नलिका स्त्री नलः तद्रूपाकारोऽस्त्यस्याः ठन् । १ नाड्यां (नली)

इति ख्याते सुगन्धिद्रव्यभेदे उत्तरपथप्रसिद्धे (पँठारी)
प्रसिद्धे प्रबालाकृतौ २ वृक्षभेदे च “नलिका विद्रुमलता-
कपोतचरणा नटी । धमन्यङ्गतकेशी च निर्मध्या
शुषिरा नली । नलिका शीतला लघ्वी चक्षुष्या
कफपित्तहृत् । कृच्छ्राश्मरीवाततृष्णास्रकुष्ठकण्डुज्वरापहा”
भावप्र० । “काशाः कुशा वा नलिका नलो वा” वृ० सं०
५४ अ० । दकार्गलशब्दे दृश्यम् । तन्तवायानां वयनसाधने
३ द्रव्यभेदे (नली) ४ तदाकारे अस्त्रे च ।

नलित पु० नल--क्त । (नालता) शाकभेदे द्रव्यगुणाभिधानम् ।

“मधुरो नलितः पित्तनाशकः शुक्रवर्द्धकः” तद्गुणोक्तिः

नलिन न० नल--बन्धे इनन् । १ पद्मे २ जले ३ नीलिकायां

हेमच० ४ सारसखगे पुंस्त्री० अमरः । ४ कृष्णपाकफले प्राची-
नामलके (पानि आमला) पु० शब्दच० “नलिनं मलिनं
विवृण्वती स्पृशतीमस्पृशती तदीक्षणे” नैष० “नलिना-
भवक्त्रः” रघुः ।

नलिनी स्त्री नडाः (नालाः) सन्त्यत्र पुष्करा० इनि ङीप्

डस्य लः । १ पद्मिन्यां “व्याकोशकोकणदतां दधते
नलिन्यः” माघः । २ पद्मयुक्तदेशे ३ कमलाकरे ४ नदीमात्रे
मेदि० । नलानां नलयुक्तानां समूहः खला० इनि ।
पद्मसमूहे ५ नलिकायां राजनि० ६ नारिकेले त्रिका०
“नलिनीवाम्बुसम्पत्त्या बुद्ध्या श्रीः परिपाल्यते” कामन्द०
“ततोऽविदूरे नलिनीं प्रभूतकमलोत्पलाम् । सीताह-
रणद्युखार्त्तः पामां रामः समासदत्” भा० व० २७९ अ० ।
“एषा सा दृश्यते पष्मा नलिनी चित्रकानना” रामा०
पृष्ठ ३९८५
६ । १०८ अ० “प्रयाता नन्दनस्येव नलिनी सरितां वरा”
हरिवं० ६५ अ० “नलिनी क्षतसेतुबन्धना” कुमा० । ७ व्योम-
नद्याम् सा च “ब्रह्मलोकादपक्रान्ता सप्तधा प्रतिपद्यते ।
वस्वोकसारा नलिनी पावनी च सरस्वती । जम्बूनदी
च सीता च गङ्गा सिन्धुश्च सप्तमी” भा० भी० ६ अ०
उक्ता पञ्चदशाक्षरपादके ८ छन्दोभेदे “सगणैः शिवव-
क्त्र ५ मितैर्गदिता नलिनी” वृ० र० टी० तल्लक्षणमुक्तम् ।

नलिनीखण्ड न० नलिनीनां समूहः कमला० समूहे

खण्डच । पद्मिनीसमूहे ।

नलिनीनन्दन न० नलिन्या नन्दयति नन्दि--ल्यु ३ त० ।

देवोद्यानभेदे “वनं चैत्ररथं दिव्यं नलिनीनन्दनं वनम् ।
यो विनाशितवान् क्रोधात् देवोद्यानानि वीर्यवान्” रामा०
आरण्य० ३६

नलिनीरुह न० नलिन्यां रोहति रुह--क । मृणाले राजनि०

नलिनेशय पु० नलिने व्रह्मनाभिकमले शेते--शी--अच्

अलुक्स० । विष्णौ ।

नली स्त्री नल--अच् गौरा० ङीष् । १ मनःशिलायां विश्वः

२ नलिकायां भावप्र० ।

नलेश्वर पु० न० नलेन स्थापित ईश्वरो यत्र । नलनृपस्यापिते शिवलिङ्गभेदे शिवपु० ।

नलोत्तम पु० नलेषु उत्तमः । देवनले राजनि० ।

नलोदय पु० कालिदासकृते काव्यभेदे

नलोपाख्यान न० नलस्योपाख्यानं यत्र । भारतवनपर्वान्त-

र्गते अवान्तरपर्वभेदे “नलोपाख्यानमत्रैव” भा० आ० १ अ० ।
तच्च नलशब्दे दृश्यम् ।

नल्य त्रि० नलस्यादूरदेशादि० बला० य । नलस्यादूरदेशादौ

नल्व पु० नल--बा० व । चतुःशतहस्तसिते अमरः शतहस्तमिते

कात्यः “रावणस्य शरीरन्तु पञ्चनल्वानुविस्तृतम्”
रामा० लङ्का० ९२ । ६२ श्लो० “नल्वमात्रपरीणाहो
घनच्छायो वनस्पतिः” भा० शा० १६४ अ० ।

नल्ववर्त्मगा स्त्री नल्वमितं वर्त्म गच्छति गम--ड । १

काकाक्षीलतायां शब्दच० २ तन्मितपथगामिनि त्रि० ।

नव पु० नु--स्तवे भावे अप । १ स्तवे मेदि० कर्मणि अप् । २ नूतने

त्रि० अमरः ३ रक्तपुनर्नवायाम् पु० राजनि० “नवाम्बुभि-
र्भूरिविलम्बिभिर्घनाः” शकु० “नवं नवं प्रीतिरहो
क्लरोति” “नवानघोधोवृहतः पयोधरान्” माघः
४ उशीनरनृपस्य पुत्रभेदे पु० ५ तत्पत्न्यां स्त्री “उशीनरस्य
पत्न्यस्तु पञ्च राजर्षिवंशजाः । नृगा कृमिर्नवा दर्वा पञ्चमी
च दृशद्वती । उशीनरस्य पुत्रास्तु पञ्च तासु कुलो-
द्वहाः । तपसा चैव महता जाता वृद्धस्य चात्मजाः ।
नृगायास्तु नृगः पुत्रः कृम्या कृमिरजायत । नवायास्तु
नवः पुत्री दर्वायाः सुव्रतोऽभवत् । दृशद्वृत्यास्तु संजज्ञे
शिविरौशीनरो नृपः” हरिवं० ३१ अ० ।

नवक न० नवानामवयवः सङ्ख्यायाः कन् । १ नवसंख्यायाम्

नवपरिमाणमस्य । २ नवसंख्यान्विते त्रि० नवनवकशब्दे
वक्ष्यमाणदक्षोक्तानीव नवनवकान्युक्त्वा काशी० ख० ४० अ०
दशमं नवकमुक्तं यथा
“एतन्नवानान्नवकं ज्ञात्वा श्रियमवाप्नुयात् । अन्यच्च
नवकं वचिम सर्वेषां स्वर्गमार्गदम् । सत्यं शौचमहिंसा
च क्षान्तिर्ज्ञानं दया दमः । अस्तेय इन्द्रियाक्षोभः सर्वेषां
धर्मसाधनम् । अभ्यस्य नवतिं ह्येतां स्वर्गमार्गप्रदीपि-
काम् । सतामभिमतां पुण्यां गृहस्थो नावसीदति” ।
“इति वीराष्टकः प्रोक्तः खन्धमातृगणोद्भवः ।
छागवक्त्रेण सहितो नवकः परिकीर्त्त्यते” भा० व० २२७ अ०
कानिचित् नवकानि सा० ति० उक्तानि यथा
“गुणिता नवधा नित्या सूते मन्त्रं नवार्णकम् । नवकं
शक्तितत्त्वानां तत्त्वरूपा महेश्वरी । नवकं पीठशक्तीनां
शृङ्गारादीन् रसानपि । माणिक्यादीनि रत्नानि
नववर्गयुतानि च । नवकं प्राणदूतीनां मण्डलं नवकं
शुभम् । यद्यन्नवात्मकं लोके सर्वमस्या उदञ्चति” । तत्र
शक्तितत्त्वनवकं तत्रैव प्रथमपटले “सच्चिदानन्दविभ-
वात् सकलात् परमेश्वरात् । आसीच्छक्तिस्ततो नादी
नादाद्विन्दुसमुद्भवः । परशक्तिमयः साक्षात् त्रिधासौ
भिद्यते पुनः” नादविन्दूनां प्रत्येकं त्रिधाभेदात् नवसंख्या ।
तेषां भेदाश्च तत्रैवोक्ता यथा “विन्दुर्नादो वीजमिति तस्य
भेदाः समीरिताः । विन्दुः शिवात्मको वीजं शक्तिर्ना-
दस्तयोर्मिथः । समवायः समाख्यातः सर्वागमविशारदैः ।
रौद्रो विन्दोस्तती नादात् ज्येष्ठा वीजादजायत ।
वामा ताभ्यः समुत्पन्ना रुद्रब्रह्मरमाधिपाः । विज्ञाने-
च्छाक्रियात्मानो वह्नीन्द्वर्कस्वरूपिणः । भिद्यमानात्
पराद्विन्दोरव्यक्तात्मा रवोऽभवत्” । पीठशक्तीनां नवकं
तत्तन्मन्त्रभेदे तत्तत्प्रकरणे तत्रोक्तम् । शृङ्गारादिरस
नवकमलङ्कारे प्रसिद्धं नवरसशब्दे दृश्यम् । रत्ननवकं
नवरत्नशब्दे दृश्यम् तच्च ६ पटले तत्रैवोक्तम् । वर्गाणां
नवकम् अकचट तप यशहानां नवकं ७ पटले तत्रोक्तम् ।
मण्डलनवकं तत्रैव ८ पटले “चतुरस्नां भुवं भित्त्वा
कोष्ठानां नवकं लिखेत् । पूर्वकोष्ठादिषु लिखेत् सप्तवर्गा
पृष्ठ ३९८६
ननुक्रमात् । लक्षमीशे मध्यकोष्ठे स्वरयुम्मक्रमाल्लिखेत्”
इत्युक्तम् । प्राणदूतीनां नवकं २३ पटले तत्रोक्तं दृश्यम् ।

नवकारिका स्त्री नवं करोति कृ--ण्वुल् । १ नवोढायां

स्त्रियां शब्दमा० कर्म० । २ नूतनायां कारिकायां च ।
कारिका क्रिया कर्म० । ३ नूतनत्वे च ।

नवकालिका स्त्री नवकं नूतनमलति अल--भूषणे ण्वुल् ।

नवीने हारा० अभिधानात् स्त्रीत्वम् ।

नवग्रह पु० कर्म० संज्ञात्वात् न द्विगुः । “सूर्यचन्द्रौ मङ्गलश्च

बुधश्चापि वृहस्पतिः । शुक्रः शनैश्चरो राहुः केतवश्च
नव ग्रहा” इत्युक्तेषु नवसु १ ग्रहेषु खगोलशब्दे तत्कक्षा-
दिमानमुक्तं तद्रथादिमानमत्रोच्यते ।
  • रवेः “योजनानां सहस्राणि भास्करस्य रयो नव ।
ईषादण्डस्तथैवास्य द्विगुणो मुनिसत्तम! । सार्द्धकोटिस्तथा
सप्त नियुतान्यधिकानि वै । योजनानान्तु तस्याक्षश्चक्रं
यत्र प्रतिष्ठितम् । चत्वारिंशत् सहस्राणि द्वितीयोऽक्षो
व्यवस्थितः । पञ्चान्यानि तु सार्द्धानि स्यन्दनस्य
महामते! । अक्षप्रमाणमुभयोः प्रमाणं तद्युगार्द्धयोः ।
ह्रस्वोऽक्षस्तद्युगार्द्धेन ध्रुवाधारो रथस्य वै । द्वितीयेऽक्षे
तु तच्चक्रं संस्थितं मानसाचले । हयाश्च सप्त छन्दांसि
तेषां नामानि मे शृणु । गायत्री च वृहत्युष्णिग्जगती
त्रिष्टुबेव च । अनुष्टुप् पङ्क्तिरित्युक्ताश्छन्दांसि हरयो
रवेः । स रथोऽधिष्ठितो देवैरादित्यैरृषिभिस्तथा ।
गन्धर्वैरप्सरोभिश्च ग्रामणीसर्पराक्षसैः । स्तुवन्ति
मुनयः सूर्य्यं गन्धर्वैर्गीयते पुरः । नृत्यन्त्योऽप्सरसो
यान्ति सूर्य्यस्यानु निशाचराः । वहन्ति पन्नगाः यक्षैः
क्रियतेऽभीषुसंग्रहः । वालखिल्यास्तथैवैनं परिवार्य्य
समासते । सोऽयं सप्तगणः सूर्य्यमण्डले मुनिसत्तम ।
हिमोष्णवारिवृष्टीनां हेतुत्वं समुपागतः” ।
  • इन्दीः “रथस्त्रिचक्रः सोमस्य कुन्दाभास्तस्य वाजिनः ।
वामदक्षिणतो युक्ताः दश तेन चरत्यसौ” ।
  • बुधस्य “वाय्वग्निद्रव्यसम्भूती रथश्चन्द्रसुतस्य च । पिशङ्गै-
स्तुरगैर्युक्तः सोऽष्टाभिर्वायुवेगिभिः । सत्ररूथः सानु-
कर्षो युक्तोऽभूसम्भवैर्हयैः” ।
  • शुक्रस्य “सोपासङ्गपताकस्तु शुक्रस्यापि रथो महान् ।
अष्टाश्वः काञ्चनः श्रीमान्” ।
  • कुजस्य “भौमस्यापि रथो महान् । पद्मरागारुणैरश्वैः संयुक्तो वह्निसम्भवैः” ।
  • गुरोः “अष्टाभिः काञ्चननिभैर्वाजिभिः काञ्चने रथे । तिष्ठं-
श्चरति वै वर्षं राशौ राशौ वृहस्पतिः” ।
  • शनेः “आकाशसम्भवैरश्वैः शवलैः स्यन्दनं युतम् । समारुह्य
शनैर्याति मन्दगामी शनैश्चरः” ।
  • राहोः “स्वर्मानोस्तुरगाह्यष्टौ भृङ्गाभा धूसरं रथम् । सकृद्-
युक्तास्तु मैत्रेय! वहन्त्यविरतं सदा । आदित्यान्निःसृतो
राहुः सोमं गच्छति पर्वसु । आदित्यमेति सोमाच्च
पुनः सौरेषु पर्वसु” ।
  • केतोः “तथा केतुरथस्याश्वा अष्टौ ते वातरंहसः । पलाल-
धूमवर्णाभा लाक्षारसनिभारुणाः । एते मया ग्रहाणां
वै तवाख्याता रथा नव” विष्णुपु० ।
सुश्रुतोक्ते नवविधे स्कन्धाद्यभिधे २ नवग्रहभेदे ग्रह-
शब्दे २७४५ पृ० दृश्यम् । तेषामुत्पत्यादिकं उत्तर-
तन्त्रे तत्रोक्तं यथा
“अथातो ग्रहोत्पत्तिमध्यायं व्याख्यास्यामः । नव
स्कन्दादयः प्रोक्ता बालानां य इमे ग्रहाः । श्रीमन्तो
दिव्यवपुषो नारीपुरुषविग्रहाः । एते गुहस्य रक्षार्थां
कृत्तिकोमाग्निशूलिभिः । सृष्टाः शरवणस्थस्य रक्षित-
स्यात्मतेजसा । स्त्रीविग्रहा ग्रहा ये तु नानारूपा
मयेरिताः । गङ्गोमाकृत्तिकानाञ्च ते भागा राजसा
मताः । नैगमेयस्तु पार्वत्या सृष्टो मेषाननो ग्रहः ।
कुमारधारी देवस्य गुहस्यात्मसमः सखा । स्कन्दाप-
स्मारसंज्ञो यः सोऽग्निनाग्निसमद्युतिः । स च स्कन्द-
सखो नाम विशाख इति चोच्यते । स्कन्दः सृष्टो
भगवता देवेन त्रिपुरारिणा । बिभर्त्ति चापरां संज्ञां
कुमार इति स ग्रहः । बाललीलाधरो योऽयं देवो
रुद्राग्निसम्भवः । मिथ्याचारेषु भगवान् स्वयं मैत्र
प्रवर्त्तते । कुमारः स्कन्दसामान्यादत्र केचिदपण्डिताः ।
गृह्णन्तीत्यल्पविज्ञाना ब्रुवते देहचिन्तकाः । ततो
भगवति स्कन्दे सुरसेनापतौ कृते । उपतस्थुर्ग्रहाः सर्वे
दीप्तशक्तिधरं गुहम् । ऊचुः प्राञ्जलयश्चैनं वृत्तिं नः
संविधत्स्व वै । तेषामर्थे ततः स्कन्दः शिवं देवमचो-
दयत् । ततो ग्रहांस्तानुवाच भगवान् भगनेत्रहृत् ।
तिर्य्यग्योनिं मानुषञ्च दैवञ्च त्रितयं जगत् । परस्प-
रोपकारेण वर्त्तते धार्य्यतेऽपि च । देवा मनुष्यान्
प्रीणन्ति तैर्य्यग्योनींस्तथैव च । वर्त्तमानैर्यथाकालं
शीतवर्षोष्णमारुतैः । इज्याञ्जलिनमस्कारजपहोमव्रता-
दिभिः । नराः सम्यक् प्रयुक्तैश्च प्रीणन्ति त्रिदिवेश्वरान् ।
भागधेयं विभक्तञ्च शेषं किञ्चिन्न विद्यते । तद्युष्मार्कं
शुभा वृत्तिर्बालेष्वेव भविष्यति । कुलेषु येषु नेज्यन्तो
पृष्ठ ३९८७
देवाः पितर एव च । ब्राह्मणाः साधवश्चैव गुरवोऽति-
थयस्तथा । निवृत्ताचारशौचेषु परपाकोपभोजिषु ।
उच्छन्नबलिभिक्षेषु भिन्नकांस्योपभोजिषु । गृहेषु तेषु ये
बालास्तान् गृह्णीध्वमशङ्किताः । तत्र वो विपुला वृत्तिः
पूजा चैव भविष्यति । एवं ग्रहाः समुत्पन्ना बालान्
गृह्णन्ति चाप्यतः । ग्रहोपसृष्टा बालास्तु दुश्चिकित्स्य-
तमा मताः । वैकल्यं मरणं चाशु ध्रुवं स्कन्दग्रहे
मतम् । स्कन्दग्रहोऽत्युग्रतमः सर्वेष्वेव यतः स्मृतः ।
अन्यो वा सर्वरूपस्तु न साध्यो ग्रह उच्यते” ।
अथ सूर्य्यादिग्रहाणां स्वरूपादि वृहज्जातकोक्तं प्रदर्श्यते
“कालात्मा दिनकृन्मनस्तुहिनगुः सत्वं कुजौ ज्ञो वचो
जीवो ज्ञानसुखे सितश्च मदनो दुःखं दिनेशात्मजः ।
राजानौ रविशीतगू क्षितिसुतो नेता कुमारो बुधः सूरि-
र्दानवपूजितश्च सचियी प्रेष्यः सहस्रांशुजः” वृहज्जा० ।
“कालस्यात्मा कालात्मा दिनकृत् सूर्यः । अस्यैव तुहिनगु-
श्चन्द्रोमनः तुहिनेन हिमेन सदृशाः शीतलागावोरश्मयो
यस्य स तुहिनगुः । सत्वं कुजो भौमः सत्वस्य लक्षणं
“अधिकारकरं सत्वं व्यसनाभ्युदयागमे” सत्वशब्दोऽत्र
शौर्यपर्य्यायः तच्च सिंहादीनामस्ति तथा च एकाकिनि
बनवासिन्यराजलक्ष्मण्यतीतशास्त्रज्ञे । सत्वस्थिते
मृगपतौ राजेति गिरः परिणमन्ति । उत्कृष्टतरस्वभाव
इत्यर्थः ज्ञो बुधो वचो गीः जीवो वृहस्पतिः ज्ञान-
सुखे ज्ञानञ्च सुखञ्च ज्ञानसुखे । सितः शुक्रो मदनः
कामः । दिनस्येशो दिनेशः सूर्यः तस्यात्मजः पुत्रः
शनैश्चरो दुःखम् । अत्र कालग्रहणं कालस्य सर्वगतस्य प्रदर्श-
नार्थम् । अत्र न केवलं कालपुरुषस्य मेषाद्याराशयः शिरः
प्रमृत्यङ्गविभागेन स्थिताः यावदादित्यादयश्चास्य विभा-
गेन सर्वस्य त्नगतः स्थिताः । प्रयोजनम् पीडितैर्ग्रहै-
र्देहवतोऽपि तदङ्गभवात्मगुणपीडनं कर्तव्यम् पुष्टैः पुष्टि-
रिति । न केवलं यावत् जन्मनि बलवद्भिर्ग्रहैरेत एव भावा
आत्मादयः शुमा भवन्ति दुर्बलैर्दुर्बलाः किन्तु सौरस्य
विपरीतम् तथा च सारावल्पाम “आत्मादयो गगनगैर्ब-
लिभिर्बलवत्तराः । दुर्बलैर्दुर्बला ज्ञेया विपरीतं शनेः
स्मृतमिति” राजानातित्यादि रविरादित्यः शीतगुश्चन्द्रः
एतौ राजानौ नृपौ । क्षितिर्भूमिरस्याः सुतः पुत्रोऽङ्गा-
रकः स नेता सेनापतिः । बुधः कुमारो युबराजः
राजपुत्र इति केचित् । स्ररिर्वृहस्पतिः दानवपूजितः
शुक्रः च एती सचिवौ मन्त्रिणौ । सहस्रांशुः सूर्यस्त-
स्माज्जातः शनैश्चरः स प्रेष्यो दासः । ननु जगत्पालन-
करणे शनैश्चरः प्रेष्यः किमत्रोच्यते प्रेष्योऽपि स्वकर्मणां
पालक एव । प्रयोजनम् जन्मनि प्रश्नकाले बलवानु-
पचयस्थो ग्रहो भवति तदुक्तो राजादिकस्तस्य कार्यसाध-
नको भवति अन्यथा हानिकरः” “रक्तश्यामो भास्करो
गौर इन्दुर्नात्युच्चाङ्गोरक्तगौरश्च वक्रः । दूर्वाश्यामोज्ञो
गुरुर्गौरगात्रः श्यामः शुक्रो भास्करिः कृष्णदेहः ।
वर्णास्ताम्रसिताऽतिरक्तहरीतव्यापीतचित्रासितावह्न्यम्बु-
ग्निजकेशवेन्द्रशचिकाः सूर्यादिनाथाः क्रमात् । प्रागा-
द्यारविशुक्रलोहिततमः सौरेन्दुवित्सूरयः क्षीणेन्द्वर्क-
महीसुतार्कतनयाःपापा बुधस्तैर्युतः । बुधसूर्यसुतौ
नपुंसकाख्यौ शशिशुक्रौ युवती नराश्च शेषाः” शिखि-
मूखपयोमरुद्गणानां वशिनो मूमिसुतादयः क्रमेणः”

नवग्व त्रि० नवभिर्मासैगच्छति गम--उणा० ड्व । नवभिर्मा-

सैरवाप्तफलतया उत्थिते । “सेनामयातयन्त क्षितयो
नवग्वाः” ऋ० १ । ३३ । ६ “सत्रमासीनानां मध्ये ये
नवभिर्मासैरवाप्तफला उत्थितास्तेषां नवग्वां इति संज्ञा” भा०
२ नवीनगतियुते च “अङ्गिरसो न पितरो नबन्धाः”
इमामृचमधिकृत्य निरु० ११ । १९ । उक्तं “नवग्वा नवीन
गतयः” ।

नवचत्वारिंशत् स्त्री नवाधिका चत्वारिंशत् । १ ऊनपञ्चा-

शत्संख्यायां २ तदन्विते च । ततःपूरणे डट् । नवचत्वा-
रिंश तत्पूरणे त्रि० । स्त्रियां ङीप् । तदर्थे तमप ।
नवचत्वारिंशत्तम तत्पूरणे त्रि० ।

नवच्छात्र पु० कर्म० । प्रथमाध्ययनप्रवृत्ते त्रिका० ।

नवच्छिद्र न० नव छिद्राणि यत्र । देहे देहस्य नवद्वार-

वत्त्वात् तथात्वम् । नवद्वारशब्दे दृश्यम् ।

नवज्वर पु० कर्म० । तरुणज्वरे “तरुणं तु ज्वरं पूर्वं लङ्घ-

नेन क्षयं नयेत् । आमदोषमलिङ्गाद्वा लङ्घयेत्तु यथा
विधि” भावप्र० ।

नवत पु० नू--अतच् । १ कुथे करिभूषणार्थे कम्बले हेमच० ।

२ नवतिसङ्ख्यापूरणे त्रि० नवतिशब्दे दृश्यम्

नवतन्तु पु० कर्म० । १ नवीने तन्तौ । बहु० । २ तद्युक्ते पटे च

३ विश्वामित्रपुत्रभेदे “नवतन्तुर्वकनकः समनोयतिरेव च”
मा० आनु० ४ अ० तत्पुत्रोक्तौ ।

नवति(ती) स्त्री नव दशतः परिमाणमस्य “पङ्क्तिविंशती-

त्यादिना” पा० नि० वा ङीप् । (नव्वुइ) १ संख्यायां
२ तत्सङ्ख्यान्विते च “इत्यं क्षितीशो नवतिं नवाधिकाम्”
रघुः “वीक्ष्यान्धो नवतेः काणः षष्टेः श्चित्री शतस्य तु”
पृष्ठ ३९८८
मनुः । ततः पूरणे डट् । नवत तत्ङ्ख्यापूरणे त्रि० स्त्रियां
ङीप् । पूरणे तमप् । नवतितम तत्सङ्ख्यापूरणे त्रि० ।

नवतिका स्त्री नवाय नूतनत्वाय तेकति तिक--गतौ क ।

१ तूलिकायां हारा० । स्वार्थे क । २ नवतिसंख्यायाञ्च ।

नवदण्डक न० नवो दण्डोऽत्र कप् । राज्ञां छत्रभेदे “मनो-

हरं च कनकदण्डं च नवदण्डकम् । छत्रं तु त्रिविधं
ज्ञेयं त्रिविधानां महीभुजाम्” युक्तिकल्पतरुः ।

नवदश पु० नव च दश च संख्याऽस्य डट् । उनविंशतिसं-

ख्यायुक्ते “प्रतूर्तिरष्टादशस्तषो नवदशः” यजु० १४ । २३
“तपोरूपो नवदशः स्तीमः यद्वा संवत्सरस्तपः शीतोष्ण-
वर्षैस्तपतीति स नवदशः द्वादश मासाः षडृतवः
संवत्सर इति तद्रूपोऽसि” वेददी० । “य एव नवदशस्तोमस्तं
तदुपदधात्यथो संवत्सरोवाव तपो नवदशस्तस्य द्वादश
मासाःषडृतवः संवत्सर एव तपो नवदशस्तद्यत्तमाह
तपति तदेव तद्रूपम्” शत० ब्रा० ८ । ४ । १ । १४

नवदशन् त्रि० नवाधिका दश । (उनिश) १ संख्यायां २

तत्संख्यायुक्ते च ।

नवदल न० कर्म० । १ नवीने पत्रे पद्मकेशरान्तिकस्थे २ पत्रे च अमरः ।

नवदीधिति पु० नव दीधितयोऽस्य । मङ्गलग्रहे जटा० ।

नवदुर्गा स्त्री नवगुणिता दुर्गा कर्म० संज्ञात्वात् न द्विगुः ।

देवीनवके “प्रथमं शैलपुत्री च द्वितीयं ब्रह्मचारिणी ।
तृतीयं चन्द्रघण्टेति कुष्माण्डीति चतुर्थकम् । पञ्चमं
स्कन्दमातेति षष्ठं कात्यायनीति च । सप्तमं
कालरात्रिश्च महागौरीति चाष्टमम् । नवमं सिद्धिदा प्रोक्ता
नव दुर्गाः प्रकीर्त्तिताः । उक्तान्येताति नामानि ब्रह्मणैव
महात्मना” व्रह्मवै० पु० । “नवदुर्गे सुरार्च्चिते” दुर्गोत्सव-
पद्धतिः । “पत्रिके नवदुर्गे त्वं महादेवि! मनोरमे!”
नन्दिकेश्वरपुरा० ।

नवदोला स्त्री कर्म० । नवीनदोलायाम् । प्रथमं तदारोहण

दिनादि समयप्रदीपे उक्तं यथा “उग्रेन्दुमूलाहिशि-
वाग्निवजं शस्तेन्दुतारातिथिलग्नयोगे । विष्टिक्षमापुत्र
यमाहवर्जं दोलादिकारोहणमाद्यमिष्टम्” ।

नवद्वार न० नव द्वाराणीव चित्तवृत्त्यादेर्बहिर्गमनसाध-

नत्वात् यत्र । देहे तत्र नवभिर्द्वारैश्चित्तादेर्बहिर्गमनात्तस्य
तथात्वम् । तथा हि द्वे श्रोत्रे द्वे चक्षुषी द्वे नासिके
च मुखमेकमिति शीर्षस्थानि सप्त, द्वे पायूपस्थे
अथःस्थे इति नवच्छिद्ररूपाणि द्वाराणि देहे सन्ति ।
“तवद्वारे पुरे देही हंसी लेलायते बहिः” श्वेताश्वो०
३ । १८ । “नवद्वारे शिरसि सप्त द्वाराणि द्वे अवाची यत्र
तत्र पुरे देही विज्ञानात्मा भूत्वा कार्यकारणोपाधिः
सन् हंसः परमात्मा हन्त्यविद्यात्मकं कार्यमिति । लेला-
यते चलति बहिर्विषयग्रहणाय” भा० । देहरन्ध्राणां
बवसंख्यकत्वात् रन्ध्रशब्दस्य लक्षितलक्षणया नवसंख्या-
बोधकत्वम् ।

नवधा अव्य० नवन् + प्रकारे धाच् । नवप्रकारे “तुष्टिर्नवधाऽष्टधा

सिद्धिः” सा० का० । “नवधा गुणिता नित्या” शा० त्रि०

नवधातु पु० नवगुणिता धातवः । नवप्रकारे धातुभेदे

“हेमतारारनागाश्च ताम्ररङ्गे च तीक्ष्णकम् । कांस्यकं
कान्तलोहञ्च धातवो नव कीर्त्तिताः” शब्दार्थचि० ।

नवन् त्रि० ब० व० । नृ--कनिन् बा० गुणः । १ संख्याभेदे

(नय) संख्यायां २ तद्युक्ते च ।

नवनवक न० नवगुणितं नवकम् । दक्षसंहितोक्ते ज्ञातव्ये

एकाशीतिपदार्थे
“सुधा नव गृहस्थस्येषद्देयानि नवैव तु । तथैव
नवकर्माणि विकर्माणि तथा नव । प्रच्छन्नानि नवान्यानि
प्रकाश्यानि तथा नव । सफलानि नवान्यानि निष्फलानि
नवैव तु । अदेयानि नवान्यानि वस्तुजातानि सर्वदा ।
नवका नव निर्दिष्टा गृहस्थोन्नतिकारकाः । सुधा वस्तूनि
वक्ष्यामि विशिष्टे गृहमागते । मनश्चक्षुर्मुखं वाचं
सौम्यं दद्याच्चतुष्टयम् । अभ्युत्थानमिहागच्छ पृच्छा-
लापप्रियान्वितः । उपासनमनुव्रज्या कार्य्याण्येतानि
यत्नतः । ईषद्दानानि चान्यानि भूमिरापस्तृणानि च ।
पादशौचं तथाभ्यङ्ग आश्रयः शयनन्वथा । किञ्चिच्चान्नं
यथाशक्ति नास्यानश्नन् गृहे वसेत् । मृज्जलं चार्थिने
देयमेतान्यपि सदा गृहे । सन्ध्या स्नानं जपो होमः
स्वाध्यायो देवतार्चनम् । वैश्वदेवं तथातिथ्यमुद्धृतञ्चापि
शक्तितः । पितृदेवमनुष्याणां दीनानाथतपस्विनाम् ।
मातापितृगुरूणाञ्च संविभागो यथार्हतः । एतानि
नव कर्माणि विकर्माणि तथा पुनः । अनृतं पारदार्य्यञ्च
तथाऽभक्ष्यस्य भक्षणम् । अगम्यागमनापेयपानं स्तेयञ्च
हिंसनम् । अश्रौतकर्माचरणं स्मार्त्तधर्मबहिष्कृतम् ।
नवैतानि विकर्माणि तानि सर्वाणि वर्जयेत् । आयुर्वित्तं
गृहच्छिद्रं मन्त्रमैथुनभेषजम् । तपोदानावमानौ च
नव गोप्यानि यत्नतः । प्रायोग्यमृणशुद्धिश्च दानाध्ययन-
विक्रयाः । कन्यादानं वृषोत्सर्गोरहःपापमकुत्सनम् ।
प्रकाश्यानि नवैतानि गृहस्थाश्रमिणस्तधा । माता-
पृष्ठ ३९८९
पित्रोर्गुरौ मित्रे विनीते चोपकारिणि । दीनानार्थ-
विशिष्टेभ्यो दत्तन्तु सफलं भवेत् । धूर्त्ते वन्दिनि मन्दे
च कुवैद्ये कितवे शठे । चाटुचारणचौरेभ्यो दत्तं
भवति निष्फलम् । सामान्यं याचितं न्यास
आधिर्दाराश्च तद्धनम् । क्रमायातञ्च निक्षेपः सर्वस्वञ्चान्वये
सति । आपत्स्वपि न देयानि नव वस्तूनि सर्वदा । यो
ददाति स मूढ़ात्मा प्रायश्चित्तीयते नरः । नवनवक-
येत्तारमनुष्ठानपरं नरम् । इह लोके परे च श्रीः
स्वर्गस्थञ्च न मुञ्चति” ।

नवनवति स्त्री नवाधिका नवतिः । १ एकोनशतसंख्यायां

३ तद्युते च ।

नवनाडीचक्र न० २८१६ पृ० चक्रशब्दोक्ते चक्रभेदे ।

नवनी स्त्री नवं नीयते नी--ड गौरा० ङीष् । नवनीते

“हैयङ्गयीनानां नवनीनां परतरं मुदा । लड्डुकानां शर्क-
राणां स्वस्तिकानाञ्च यत्नतः” ब्रह्मवै० जन्मख० ६५ अ० ।

नवनीत न० नवं नीयते स्म नी--क्त । (माखन) पयःसार

भेदे तद्भेदगुणादि सुश्रुते “नवनीतं पुनः सद्यस्कं लघु
सुकुमारं मधुरं कषायमीषदम्लं शीतलं मेध्यं दीपनं
हृद्यं संग्राहि पित्तानिलहरं वृष्यमविदाहि क्षयकास-
श्वासव्रणार्शोऽर्दितापहं गुरुकफमेदीविवर्द्धनं वलकरं
वृंहणं शीषघ्रं विशेषतो बालानां प्रशस्यते । क्षीरोत्थं
पुनर्नवनीतमुत्कृष्टस्नेहं माधुर्ययुक्तमतिशीतं सौकुमार्यकरं
चक्षुष्यं संग्राहि रक्तपित्तनेत्ररोगहरं प्रसादनञ्च” ।
तत्र नवनीतस्य नामानि गुणाश्च भावप्र० उक्ता यथा
“म्रक्षणं सरजं हैयङ्गवीनं नवनीतकम् । नवनीतं हितं
गव्यं वृष्पं वर्णवलाग्निकृत् । संग्राहि वातपित्तासृक्क्ष-
यार्शोऽर्दितकासहृत् । तद्धितं बालके वृद्धे विशेषादमृतं
शिशोः । माहिषस्य मुणाः “नबनीतं महिष्यास्तु
वातश्लेष्मकरं गुरु । दाहपित्तश्रसहरं मेदःशुक्रविवर्द्धनम्” ।
पयसो नवनीतस्य गुणाः “दुग्धोत्थं नवनीतं तु चक्षुष्यं
रक्तपित्तनुत् । वृष्यं बल्यमतिस्निग्धं मधुरं ग्राहि
शीतलम्” । सद्यः समुद्धृतनबनीतगुणाः “नवनीतन्तु
सद्यस्कं स्वाटु ग्राहि हिमं लघु । मेध्यं किञ्चित्
कषायाम्लमीषत्तक्रांशसंक्रमात्” । चिरन्तननवनीतगुणाः
“सक्षारकटुकाम्लत्वाच्छर्द्यर्शःकुष्ठकारकम् । श्लेष्मलं गुरु-
मेदस्यं नवनीत चिरन्तनम्” ।
राजनि० छाग्यादिनवनीतगुणा उक्ता यथा
“छागन्तु नव्रनीतं स्यात् क्षयकासाक्षिरोगहृत् । कफ-
नाशि च बल्यञ्च दीपनं परिकीर्त्तितम् । आविकं
नवनीतन्तु हिमं लघु समीरितम् । योनिशूले कफे वाते
गुदशूले हितञ्च तत् । ऐडकं नवनीतन्तु क्लिष्टगन्धं
सुशीतलम् । पुष्टिस्थौल्यकरं मेधाविनाशि गुरु सम्मतम् ।
सन्दाग्भिदीपनं तत्तु भिषग्भिः परिकीर्त्तितम्” ।
हस्तिनीनवनीतन्तु कषायं शीतलं लघु । तिक्तं विष्टम्भि
तत् हन्ति जन्तुपित्तकफकृमीन् । घोटकीनवनीतन्तु
कषायं कफवातहृत् । चक्षुष्यमुष्णकटुकमीषद्वातापहार-
कर्म् । गर्दभीनवनीतञ्च कषायं कफवातहृत् । पाके
लघु दीपनञ्च वल्यं मूत्रस्य दोषहृत् । औष्ट्रं तु नवनीतं
च पाके शीतं प्रकीर्त्तितम् । व्रणकृमिकफार्त्तीनां वातस्य
च विनाशनम् । मानबीनवनीतञ्च पाके लघुरुचिप्रदम् ।
चक्षुष्यं दीपनं ज्ञेयं सर्वरोगविनाशनम्” । “शीतं रुच्य
नवोद्धृतं सुमधुरं कृष्णञ्च वातापहं कासघ्नं कृमिनाशन”
कफहरं संग्राहि शूलापहम् । बल्यं पुष्टिकरं तृषा-
र्त्तिशमनं सन्तापविच्छेदनम् चक्षुष्यं श्रमहारितर्पण-
करं दध्युद्भवं पित्तजित्” ।

नवनीतक न० नवनीतात् जायते बा० वुन् । १ घृते राजनि०

स्वार्थे क । २ नवनीते नवनीतशब्दे उदा० दृश्यम् ।

नवनीतधेनु स्त्री दानार्थकल्पितायां नवनीतमय्यां धेन्वां

तद्दानविधिः वराहपु० उक्तो यथा
“नवनीतमयीं धेनुं शृणु राजन् प्रयत्नतः । यां श्रुत्वा
सर्वपापेभ्यो मुच्यते नात्र संशयः । गोमयेनानुलिप्तायां
भूमौ गोचर्ममात्रतः । कृष्णचर्म मृगस्यैव तस्योपरि च
धारयेत् । कुम्भन्तु नवनीतस्य प्रस्थमात्रस्य धारयेत् ।
वत्सं चतुर्थमागस्य तस्या उत्तरतो न्यसेत् । कृत्वा विधा
नेन च राजसिंह! सुवर्णशृङ्गी सुसुखी च कार्य्या ।
नेत्रे च तस्या मणिमौक्तिकैस्तु कृत्वा तथान्थच्च गुड़ेन
जिह्वाम् । ओष्ठौ च पुष्पैश्च फलैश्च दन्ताः प्रकल्प्य
सास्नाञ्च सितैश्च सूत्रैः । नवनीतस्तनीं राजन्निक्षुपादां
प्रकल्पयेत् । ताम्रपृष्ठीं कांस्यदोहां दर्भरोमकृतच्छवीम् ।
स्वर्णशृङ्गीं रौप्यखुरां पञ्चरत्नसमन्विताम् । चतुर्भिस्तिल-
पात्रैस्तु संयुतां सर्वतोदिशम् । आच्छाद्य वस्त्रयुग्मेन
गन्धपुष्पैरलंकृताम् । दिक्षु दीपांश्च प्रज्वाल्य व्राह्मणाय
निवेदयेत् । वेदवेदाङ्गविदुषे आहिताग्निजितात्मने ।
मन्त्रास्त एव जप्तव्याः सर्वधेनुषु ये स्मृताः । पुरा देवा-
सुरैः सर्वैः सागरस्य तु मन्थने । उत्पन्नं दिव्यमगृतं
नवनीतमिदं शुभम् । आप्यायनञ्च मूतानां नवनीत!
पृष्ठ ३९९०
नमोस्तु ते । एवमुच्चार्य्य तां दद्याद्ब्राह्मणाय स्मुटुम्बिने ।
धेनुञ्च दत्त्वा सुमुदा सोपधानां नयेद्गृहम् विप्रवर्य्यस्य
भूयः । हविष्यमेवं सरसञ्चोषभुक्त्वा तिष्ठेत्त्र्यहं धेनुद-
स्तत्र विप्रः । यः प्रपश्यति तां धेनुं दीयमानां
नरोत्तम! । सर्वपापविनिर्मुक्तः शिवसायुज्यतां व्रजेत् ।
पितृभिः पूर्वजैः सार्द्धं भविष्यद्भिश्च मानवः । विष्णु-
लोकं व्रजत्याशु यावदाहूतसंप्लवम् । य इदं शृणु
याद्भक्त्या श्रावयेद्वापि मानवः । सर्वपापविशुद्धात्मा
विष्णुलोके महीयते” ।

नवपञ्चम पु० नव च नवमं च पञ्चमञ्च यत्र योगे ।

वरकन्ययोः विवाहाङ्गे राशिकूटभेदे । वरराशेः कन्याराश्य-
पेक्षया कन्याराशेश्च वरराश्यपेक्षया नवमत्वे पञ्चमत्वेवा-
ऽयं योगः । उपयमशब्दे १२५१ पृ० दृश्यम् । “पाणिग्र-
होयदि भवेन्नवपञ्चमर्क्षे सन्तानहानिमतुलां मुनयो
वदन्ति” ज्योति० त० ।

नवपत्रिका स्त्री नवमिता पत्रिका । नवसु कदल्यादिषु

“कदली दाडिमी धान्यं हरिद्रा मानकं कचुः ।
विल्वाशोकौ जयन्ती च विज्ञेया नवपत्रिकाः” दुर्गोत्-
सवपूजापद्धतिः । तत्प्रवेशः ति० त० निर्णीतो यथा
ज्योतिषे “पूर्वाह्णे नवपत्रिका शुभकरी सर्वार्थसिद्धिप्रदा
आरोग्यं धनदा करोति विजयं चण्डी प्रवेशे शुभा ।
मध्याह्ने जनपीड़नक्षयकरी संग्रामघोरावहा
सायाह्ने बधबन्धनादिकलहं सर्पक्षतं सर्वदा । सप्तम्यामस्त-
गायां यदि विशति गृहं पत्रिका श्रीफलाढ्या राज्ञः
सप्ताङ्गराज्यं जनसुखमखिलं हन्ति मूलानुरोधात् ।
तस्मात् सूर्य्योदयस्थां नरपतिशुभदां सप्तमीं प्राप्य
देवीम् भूपालो वेशयेत्तां सकलजनहितां राक्षसर्क्षं
विहाय” । राक्षसर्क्षं मूला । “पत्रीप्रवेशनं रात्रौ
विसर्गं वा करोति यः । तस्य राज्यविनाशः स्याद्रा-
जाऽयविकलो भवेत्” ।

नवपद न० मात्रावृत्तवृत्तभेदे “प्रथममुपनयरामकलत्रितय

महिगणेन सह दण्डमिति पदानि विषमाणि सञ्चिनु ।
समपदे च षट्पञ्चसप्तषष्टिकलमेतदातनु एवं पञ्चपदानि
कुरुदोहामग्रे देहि । भुजगराजपिङ्गलभणित नवपद-
मेतदवेहि” ।

नवपाठक पु० पूर्वकालैकेति पा० कर्म० उभयोरपि विशेष-

णत्वेऽपि एकस्य विशेष्यत्वे प्राप्ते पाठकस्यैव विशेष्यत्वनि-
यमेन परनिपातः । नवीनाध्यापके सि० कौ० ।

नवप्राशन न० नवस्य नवान्नस्य प्राशनम् । नवान्नभोजने

पारस्करगृह्यम् नवान्नशब्दे दृश्यम् ।

नवफलिका स्त्री नबं फलं यस्याः कप् कापि अत इत्त्वम् ।

१ दृष्टरजस्कायां नार्य्यां २ नव्यमात्रे च मेदि० ।

नवव(ब)धू स्त्री कर्म० । नूतनपरिणीतायां स्त्रियां तस्याः

पितृगृहात् भर्त्तृगृहगमनं नघवध्वागमनं तत्र विहित
नक्षत्रादि ज्यो० त० उक्तं यथा
दीपिकायां “स्त्रीशुद्ध्यालिघटाजसंयुगरवौ काले
विशुद्धे भृगुं संत्यज्य प्रतिलोमगं शुभदिने यात्राप्रवेशो-
चिते । त्यक्त्वाहस्तु निरंशकं नववधूयात्राप्रवेशौ
पतिः कुर्य्यादेकपुरादिषु प्रतिभृगोर्नेच्छन्ति दोषं बुधाः ।
पैत्रागारे कुचकुसुमयोः सम्भवो वा यदि स्यात् कालः
शुद्धो न भवति यदा सम्मुखो बापि शुक्रः । मेषे कुम्भे
ऽलिनि च न भवेत् भास्करश्चेत्तथापि स्वामी भद्रेऽहनि
नववधूं वेशयेन्मन्दिरं स्वम् । भर्त्तुर्गोचरशोभने दिनपतौ
नास्तंगते भार्गवे सूर्ये कीटघटाजगे शुभदिने पक्षे च
कृष्णेतरे । हित्वा च प्रतिलोमगौ बुधसितौ जीवस्य शुद्धौ
तथा चानीता गुणशालिनी नववधूर्नित्योत्सवा मोदते ।
एकग्रामे चतुःशाले दुर्भिक्षे राष्ट्रविप्लवे । पतिना नीयमा-
नायाः पुरः शुक्रो न दुष्यति” । तथा “काश्यपेषु
वशिष्ठेषु भृग्वादित्याङ्गिरःसुच । भरद्वाजेषु वात्स्येषु प्रति-
शुक्रो न दोष माक्” । द्विरागमनशब्देऽधिकं दृश्यम् ।
अत्र विशेषः मुहू० पी० धा० उक्तो यथा
“समाद्रिपञ्चाङ्कदिने विवाहाद्वधूप्रवेशोऽष्टिदिनान्तराले ।
शुमः परस्ताद्विषमाब्दमासदिनेऽक्ष ५ वर्षात्परतो यथेष्टम्” ।
“ध्रुवक्षिप्रमृदुश्रोत्रवसुमूलमघानिले । वधूपवेशः सन्नेष्टो
रिक्तारार्के बुधे परैः” मु० चि० ।
“तत्र बधूप्रवेशोनाम नूतनपरिणीतायाः कन्यायाः प्रथ-
मतः करिप्यमाणो भर्तृगृहप्रवेशो वधूप्रवेशशब्दवाच्यः ।
समाद्रीति विवाहाद्विवाहदिवसादारभ्याष्टिदिनानि
षोड़शदिनानि तेषामन्तराले समाद्रिपञ्चाङ्कदिने समदि-
नानि द्वितीयचतुर्थषष्ठाष्टमदशमद्वादशचतुर्दशषोड़शसंख्य-
कानि विषममध्ये सप्तमपञ्चमनवमदिनानि तेषु वधूप्रवेशः
बध्वा नूतनपरिणीतायाः कन्याया भर्तृगृहप्रवेशः शुभः
शुभफलप्रदः । यदाह नारदः “आरभ्योद्वाहदिवगात् षष्ठे
वाप्यष्टमे दिने । वधूप्रवेशः सम्पत्त्यै दशमेऽथ समे दिने” ।
षष्ठादीनां समत्वादेव ग्रहणे पुनस्तदुक्तिरतिप्राशस्त्यसूच-
नार्थम् । ज्योतिर्निबन्धे तु विशेषः “वधूप्रवेशनं कार्म्यं
पृष्ठ ३९९१
पञ्चमे सप्तमे दिने । नवमे च शुभे वारे सुलग्ने
शशिनोवले” इति । परस्तात् प्रतिबन्धकवशात् षोड़शदिना-
भ्यन्तरे यदि वधूप्रवेशी न जातस्तदा तदनन्तरं विषमाव्द-
मासदिने विषमवर्षे प्रथमतृतीयपञ्चमवर्षे विषम-
मासे विवाहमासात् प्रथमतृतीयपञ्चमसप्तमनवमैकादश-
मासेषु विषमदिनानि सप्तदशादीनि तेषु वधूप्रवेशः शुभः ।
तत्रापि यदि प्रतिबन्धकवशात्कालातिक्रमः पञ्चवर्षात्मको
जातस्तदा पञ्चवर्षादनन्तरं यथेष्टं वर्षादिनियमो नास्ति
किन्तु दोषरहिते काले वधूप्रवेशो विधेयः । तदुक्तं
संग्रहे “विवाहमारभ्य वधूप्रवेशो युग्मे दिने षोड़श-
वासरान्तः । ऊर्द्ध्वं ततोऽवदेऽयुजि पञ्चमान्तं पुनः
परस्तान्नियमो न चास्ति” । अत्राव्देऽयुजीति पदच्छेदो
द्रष्टव्यः । तदुक्तं विवाहपटले “वधूप्रवेशः प्रथमेऽत्र वर्षे
तथा तृतीयेऽप्यथ पञ्चमे वा । सूर्य्येन्दुदेवेज्यबलेन
कुर्य्यात् पुंसो मुनिर्गौतम आह सत्यमिति” । समवर्षे
दोषस्मरणाच्च यदाह धर्मशास्त्रे नारदः “समे वर्षे समे
मासे यदि नारीगृहं व्रजेत् । आयुष्यं हरते भर्तुः
सा नारी मरणं व्रजेदिति” । युग्मवत्सरनिषेधः पञ्च-
वर्षात् प्राग्ज्ञेयो न पश्चात्तद्वाक्यस्य प्रागभिधानात् ।
अथ वधूप्रवेशे नक्षत्रादि ध्रुवेति । ध्रुवाणि रोहिण्युत्तरा-
त्रयं च क्षिप्राणि अश्विनीपुष्यहस्ताः मृदूनि चित्रा-
नुराधारेवती मृगः । श्रोत्रं श्रवणः वसुर्धनिष्ठा मूलं
प्रसिद्धम् । अनिलः स्वाती एषु भेषु वधूप्रवेशः सन्
शुभफलदः । रिक्तादिषु नेष्टः न शुभः अर्थात् रिक्ता-
न्यासु तिथिषु अर्काराभ्यामन्यवारेषु च वधूप्रवेशः
प्रशस्त इत्यर्थः । उक्तञ्च त्यवहारतत्त्वे “पौष्णात्
कभाच्च श्रवणाच्च युग्मे हस्तत्रये मूलमघोत्तरासु ।
पुष्ये च मैत्रे च वधूप्रवेशो रिक्तेतरे व्यर्ककुजे च शस्तः”
इति । कभं रोहिणी । बुधे परैरिति अन्यैः शिष्टै-
र्बुधवारे वधूप्रवेशो नेष्यते । कस्मिंश्चिद्देशे शिष्टाचारो
यद्बुधवारे वधूप्रवेशो न विथीयते इति । केचिदत्र हेतु-
मपि वर्णयन्ति यद्बुधो नपुंसक इति तच्चिन्त्यं शनेरषि
नपुंसकत्वात्तस्यापि निषेधो वाच्यः स्यात्” पी० धा० ।
विवाहानन्तरं केषु चिन्मासेषु प्रथमं भर्त्त्रादिगृहे निवासे
फलम् तत्रैवोक्तं यथा
“ज्यैष्ठे पतिज्येष्ठमथाधिके पतिं हन्त्यादिमे भर्तृगृहे
बधूः शुचौ । श्वश्रूं सहस्ये श्वशुरं क्षये तनुं तातं
मधौतातगृहे विवाहतः” मु० चि० ।
“विवाहतो विवाहादनन्तरं भर्तृगृहे स्थिता आदिमे
प्रथमे ज्यैष्ठे मासि तिष्ठन्ती बधूः पतिज्येष्ठं भर्तृ-
ज्येष्ठभ्रातरं हन्ति । एवमादिमेऽधिके मासि स्थिता
वधूः पतिं भर्त्तारं हन्ति । आदिमे शुचावाषाढ़े श्वश्रू
भर्तुः जननीं हन्ति । आदिमे पौषे श्वशुरं भर्तृः
पितरं हन्ति आदिमे क्षये क्षयमासे भर्तृगृहे तिष्ठन्ती
तनुं निजशरीरं हन्ति म्रियग इत्यर्थः । तथादिमे मधौ
चैत्रे तातगृहे पितृगृहे तिष्ठन्ती तातं पितरं हन्ती
त्यर्थः । यदि कन्यायाः पित्राद्यभावस्तदा तत्तन्मासे
तत्तद्गेहावस्थितौ सत्यामपि न कोपि दोष इत्यर्थः ।
उक्तञ्च मुहूर्त्तमार्त्तण्डे “उद्वाहात् प्रथमे शुचौ यदि
वसेत् भर्तुर्गृहे कन्थका हन्यात्तज्जननीं क्षये निजतनुं
ज्यैष्ठे पतिज्येष्ठकम् । पौषे च श्वशुरं पतिं च मलिभे
चैत्रे स्वपित्रालये तिष्ठन्ती पितरं निहन्ति न भयं तेषा-
नभावे भवेदिति” । भलिनेऽधिकमासे तस्मान्नवबध्या विवा-
हानन्तरं ज्यैष्ठाषाढ़पौषाधिकमासक्षयमासेषु भर्त्तृगृहे
न स्थातव्यम् । चैत्रे मासि पितुगृहे न स्थातव्यं किन्तु
भर्तृगृहे एव स्थातव्यमिति फलितोऽर्थः । तदुक्तं
ज्योतिर्निबन्धे “विवाहात् प्रथमे पौषे आषाढ़े नाधि-
मासके । न सा भर्तृगृहे तिष्ठेच्चैत्रे पितृगृहे तथा” ।
आषाढो ज्यैष्ठोपलक्षकः । अधिमासः क्षयमासोपलक्षकः
अत्र प्रमाणं प्रागुक्तमिति” पी० धा० ।

नवभाग पु० राशेर्नवमो भागः । १ त्रिशांशकात्मकस्य राशो

नवमे भागे ३ । २० विंशतिकलाधिकभागत्रयरूपे भागे
नवांशशब्दे विवृतिः । २ वनमे भागमात्रे च ।

नवम त्रि० नवानां पूरणः नान्तत्वात् डटि मः । नवसङ्ख्या-

पूरणे । १ लग्नावधिनवमराशौ २ तद्भावे च तड्वावश्च
तन्वादिद्वादशभावोक्तदिशावसेयः । स्त्रियां ङीष् । “नवमी
तुहिनप्रभा” पताकासन्निवेशे कुण्डोद्यातः । “अर्यम्णो
नवमी” “पुष्णो नवमी” यजु० २५ । ४ । ५ नवमी पक्ष-
तिरर्यमदेवत्या पूषदेवत्या च तदर्थः । चन्द्रस्य स्वस्मिन्
सूर्यकिरणप्रवेशयोग्यायां नवमकलाक्रियारूपायां तदुपल-
क्षितकालरूपायां वा ४ तिधौ । उभयदिने तत्प्राप्तौ कस्याः
कर्मयोग्यतेति सन्देहे तन्निर्णय उक्तः कालमा० यथा
“अथ नवमी निर्णीयते । सा च विधिनिषेधरूपाभ्याम-
न्वयव्यतिरेकाभ्यां पूर्वविद्धैव ग्राह्या । तत्र विधिश्च युग्मा-
दिशास्त्रे “वसुरन्ध्रयोरिति” पव्यते । पद्मपुराणेऽपि
“अष्टम्या नवमी विद्धा नवम्या चाष्टमी युता । अर्द्ध-
पृष्ठ ३९९२
नारीश्वरप्राया उमामाहेश्वरी तिथिः” । भविष्यत्-
पुराणे द्वादशीकल्पेऽपि “नवम्या सह कार्य्या स्यादष्टमी
नवमी तयेति” । निषेधस्तु पद्मपुराणेऽभिहितः “न
कार्य्या नवमी तात! दशम्या तु कदाचनेति” । सेयं
नवमी भविष्यत्पुराणोक्तव्रतादौ द्रष्टव्या । “ननु
कृष्णनवम्याः पूर्वविद्धत्वऽपि शुक्लनवमी परविद्धाऽस्तु ।
“शुक्लपक्षे तिथिर्ग्राह्या यस्यामभ्युदितो रविरिति”
वचनात् मैवम् पूर्वोक्तेषु वचनेषु दशमीविद्धायाः साक्षान्नि-
षेधात् । ननु तस्य निषेधस्य सामान्यरूपत्वात् कृष्णपक्षे
सङ्कोचोऽस्त्विति चेत् न सङ्कोचहेतोर्भवतोदाहृतस्थापि
समान्यरूपत्वात् । पक्षयोरुभयोरपि पूर्वविद्वैव ग्राह्या ।
रामनवमी तु “चैत्रशुद्धा तु नवमी पुनर्वसुयुता यदि ।
सैव मध्याह्नयोगेन महापुण्यतमा भवेत् । नवमी
चाष्टमीविद्धा त्याज्या विष्णुपरायणैः । उपोषणं नवम्यां
वै दशम्यां पारणं भवेदिति” वचनादष्टमीविद्धा सनक्ष-
त्रापि नोपोष्या” इति भेदः । “सा आष्टमीयुता ग्राह्या
युस्मात् । भविष्ये “मासैश्चतुर्भिर्यत् पुण्यं विथिनाऽऽपूज्य
चण्डिकाम् । तत्फलं लभते वीर! नवम्यां कार्त्तिकस्य
च । तथा “नवम्यां नव वर्षाणि राजन् पिष्टाशनो भवेत् ।
तस्य तुष्टा भवेद्गौरी सर्वकामप्रदा शुभा” “भावे भासि
तु या शुक्ला नवमी लोकपूजिता । महानन्देति सा
प्रोक्ता सदानन्दकरी नृणाम् । स्नानं दानं तपो होमो
देवार्चनमुपोषणम् । सर्वं तदक्षयं याति यदस्यां क्रियते
नरैः” ति० त० ।

नवमल्लिका स्त्री नवा स्तत्या मल्लिका कर्म० । नवमालिका-

याम् पुष्पप्रधाने वृक्षभेदे (नोआलि) शब्दरत्ना० तस्याः
पुष्पेऽपि “पुष्पे जातिप्रभृतयः स्वलिङ्गाः” इत्युक्तेः स्त्री-
त्वम् । “उपययौ विदघन्नवमल्लिकाः” माघः नवमल्लीत्यप्यत्र

नवमालिका स्त्री नवा स्तुत्या मालिका । (नोयालि)

ख्याते १ नवमल्लिकावृक्षे अमरः । “वासन्ती” नेवारी इति
लोके तन्नाम । तद्गुणाः “नेपाली कथिता तज्ज्ञैः सप्तला
नवमालिका । वासन्ती शीतला लघ्वी तिक्ता दोषत्रया-
स्रजित्” मावप्र० । २ द्वादशाक्षरपादके छन्दोभेदे च
“इह नवमालिका नजमयैः स्यात्” वृ० र० ।

नवयज्ञ पु० नवधान्यनिमित्तो यज्ञः । नवान्ननिमित्ते यज्ञे

आग्रायणशब्दे ६२२ पृ० दृश्यम् “शरद्वसन्तयोः केचि-
न्नवयज्ञं प्रचक्षते । धान्यपाकवशादन्ये श्यामाको वनिनः
स्मृतः” कर्मप्रदीपे काव्या० । वनिचः वानप्रस्यस्य ।

नवयोनिन्यास पु० तन्त्रसारे निबन्धोक्ते न्यासभेदे

“नवयोन्यात्मक न्यासं कुर्य्याद्वीजैस्त्रिभिः क्रमात् । कर्ण-
योश्चिवुके भूयो गण्डयोर्वदने पुनः । नेत्रयोर्नसि
विनस्येदंसयोकठरे पुनः । ततः कूर्परयोः कुक्षौ जानुनो-
र्द्ध्वजमूर्द्धनि । पादयोर्गुह्यदेशे च पार्श्वयोर्हृदयाम्बुजे ।
स्तनयोः कण्ठदेशे च त्रीणि वीजानि विन्यसेत्” ।

नवयौवन न० नवं यौवनम् । २ अभिनवे यौवने “नवयौ-

वनसम्प्रन्नां सर्वामरणभूषिताम्” दुर्गाध्यानम् । नवं
यौवनंयस्याः । २ अभिनवयौवनवत्यां स्त्रियां स्त्री हारा०

नवरत्न न० नवगुणितं रत्नम् । नवविधे माणिक्यादिरत्ने

तानि च कर्मभेदे भिन्नानि यथा
“मुक्तामाणिक्यवैदूर्य्यगोमेदान् वज्रविद्रुमौ । पद्मरागं
मरकतं नीलञ्चेति यथाक्रमम्” इति तन्त्रसारः । नवग्र-
हदोषशान्त्यै धार्य्याणि नव रत्नानि यथा “वैदुर्यं चारयेत्
सूर्ये स्फटिकं मृगलाञ्छने । आवनेयेऽपि माणिक्यं
पद्मरागं शशाङ्कजे । गुरौ मुक्तां भृगौ वज्रं शनौ नीलं
विदुर्बुधाः । राहौ गोमेदकं धार्यं केतौ मरकतन्तधा ।”
दीपिका । २ विक्रमादित्यराजसभाक्य्हनवसंख्यकपण्डिते
च यथा “धन्वन्तरिक्षपणकामरसिंहशङ्कु वेतालभट्टघट-
कर्परकालिदासाः । ख्यातो वराहमिहिरो नृपतेः
सभायां रत्नानि वै वररुचिर्नव विक्रमस्य” ज्योतिर्विदा०

नवरस पु० नवगुणितो रसः । अलङ्कारोक्ते शृङ्गारादिके

रत्यादिस्थायिनवभावके नवविधे रसे “रतिर्हासश्च
शीकश्च क्रोषोत्साहौ भयं तथा । जुगुप्सा विस्वयश्चैवमष्टौ
प्रोक्ताः शकोऽपि च” स्थायिभावानुक्त्वा
“शृङ्गारहास्यकरुणरौद्रवीरमयानकाः । बीभत्सोऽद्भुत
इत्यष्टौ रसाः शान्तस्तथा मतः” सा० द० । पृथक्करणम्
“अष्टौ नाट्ये रसाः स्मृताः” इत्युक्तेः नाट्ये अष्टविध-
त्वम् “निर्वेदस्थायिभावोऽपि शान्तोऽपि नवमोरसः” इत्युक्तेः
काव्ये नवविधत्वमिति सूचनाय । प्रबोधचन्द्रोदयनाटके
शान्तरसवर्णनं भारतादिशास्त्रविरुद्धम् । “नवरस-
रुचिरा भारती कवेर्जयति” काद्यप० ।

नवरात्र त्रि० नवभिः रात्रिभिर्निर्वृत्तं तद्धितार्थे द्विगुः

“द्विगोर्लुगनपत्ये” तद्धितस्य ठको लुक् अच्समा० । नवमी
रात्रिभिस्तदुपलक्षितैर्दिनैर्वा निर्वृत्ते यागादौ “नवरात्रा-
श्चत्वारः” कात्या० श्रौ० ४ । ३ । १४ “नवरात्रे त्रिक्कुत्काः”
कात्या० श्रौ० ३५ । १३ । नवरात्रसाध्ये २ व्रतभेदे तद्वि-
धानकालनिर्णयादि नि० सि० उक्त यथा
पृष्ठ ३९९३
“अथाश्विनशुक्लप्रतिपदि नवरात्रारम्भः । तन्निर्णयः
भार्गवार्चनदीपिकायां देवीपुराणे सुमेधा उवाच
“शृणु राजन्! प्रवक्ष्यामि चण्डिकापूजनक्रमम् ।
आश्विनस्य सिते पक्षे प्रतिपत्सुशुभे दिने” इत्युपक्रम्यो-
क्तम् । “शुद्धे तिथौ प्रकर्त्तव्यं प्रतिपच्चोर्ध्वगामिनी ।
आद्यास्तु नाडिकास्त्यक्त्वा षोडश द्वादशापि वा ।
अपराह्णे च कर्त्तव्यं शुद्धसन्ततिकाङ्क्षिभिः” । इदं
चापराह्णयोगिन्याः प्राशख्यं द्वितीयदिने प्रतिपदोऽभावे
ज्ञेयम् । तथा च तत्रैव देवीपुराणे डामरतन्त्रे च देवी
वचः “अमायुक्ता न कर्त्तव्या प्रतिपत् पूजने मम ।
मुहूर्तमात्रा कर्तव्या द्वितीयादिगुणान्विता । आद्याः
षोड़श नाङीस्तु लब्ध्वा यः कुरुते नरः ।
कलशस्थापने तत्र ह्यरिष्टं जायते ध्रुवम्” । मार्कण्डेय
देवीपुराणयोः “पूर्वविद्धा तु या शुक्ला भवेत् प्रतिपदा-
श्विनी । नवरात्रव्रतं तस्यां न कार्यं शुभमिच्छता ।
देशभङ्गो भवेत्तत्र दुर्भिक्षं चोपजायते । नन्दायां दर्श-
युक्तायां यत्र स्यान्मम पूजनमिति” । स्कान्देऽपि “प्रति-
पद्याश्विमे मासि सा शुद्धा शुभदा भवेत् । भाद्रपञ्च-
दशीकृष्णा तया युक्ता न शस्यते । विरुद्धफलदा सा हि
पुत्रदारभयावहेति” । तथा “वर्जनीया प्रयत्नेन
अमायुक्ता तु पार्थिव! । द्वितीयादिगुणैर्युक्ता प्रतिपत् सर्व-
कामदा” । तथा देवीपुराणे “यो मां पूजयते नित्यं
द्वितीयादिगुणान्विताम् । प्रतिपच्छारदीं ज्ञात्वा सोऽश्नुते
सुखमव्ययम् । क्रियते चेदमायुक्ता प्रतिपत् स्थापने
मम । तस्य शापायुतं दत्त्वा भस्मशेषं करोम्यहम् ।
अग्रहात् कुरुते यस्तु कलशख्यापनं मम । तस्य सम्प-
द्विनाशः स्याज्ज्येष्ठः पुत्रो विनश्यति । अमायुक्ता न
कर्त्तव्या प्रतिपच्चण्डिकार्चने । धनार्थिभिर्विशेषेण
वंशहानिश्च जायते । न दर्शवलया युक्ता प्रतिपच्चण्डि-
र्चने । उदये द्विमुहूर्त्तापि ग्राह्या सोदयगामिनी” इति
देवीपुराणे “या चाश्वयुजि मासे स्यात् प्रपितद्भद्रयान्विता ।
शुद्धा ममार्चनं तस्यां शतयज्ञफलप्रदम्” । रुद्रयामले
“अमायुक्ता सदा चैव प्रतिपन्निन्दिता मता । तत्र चेत्
स्थापयेत्कुम्भं दुर्भिक्षं जायते ध्रुवम् । प्रतिपत्
सद्वितीया तु कुम्मारोपणकर्मणि” इति । यद्यपि रुद्र-
यामलं डामरं च निर्मूलं तथाप्यविरोधात् प्रचाराच्च
तद्वचनानि लिख्यन्ते । तिथितत्त्वे देवीपुराणेऽपि “प्रात-
रावाहवेद्देवीं प्रातरेव प्रवेशयेत् । प्रातःप्रातश्च संपूज्य
प्रातरेब विसर्जयेत्” । तत्रैव “शरत्काले महापूजा
क्रियते या च वार्षिकी । सा कार्य्योदयनामिन्यां न तत्र
तिथियुग्मता” । तथा “कुहूकाष्ठोपसंयुक्तां वर्जयेत् प्रति-
पत्तिथिम् । राज्यनाशाय सा प्रोक्ता निन्दिता चाश्व-
पूजन” इति । एषु वचनेषु कलशस्थापनग्रहणात् तदेव
प्रथमदिने निषिद्धं न तूपवासादि तस्य “प्रतिपदाप्य-
भावास्येति युग्मवाक्यात् । “शुक्ला स्यात् प्रतिपत्तिथिः
प्रथमतः” इति दीपिकोक्तेः “शुक्लपक्षे दर्शविद्धेति”
माधवोक्तेश्च पूर्वदिने प्राप्तस्य बाधे मानाभावादिति केचित् ।
वस्तुतस्तु पूर्वोक्तवाक्येषु चण्डिकार्चनपूजाग्रहणादुप-
वासादेश्चाङ्गत्वात् प्रधानदेवीपूजादावपि परेति युक्तम् ।
कलशस्थापनग्रहणं तूपलक्षणम् । अतएव देवलः “व्रतो-
पवासनियमे घटिकैकापि या भवेत् । सा तिथिस्तद्दिने
पूज्या विपरीता तु पैतृक” इति । अत्र घटिका मुहूर्त्त
इति गौडाः । यदा तु पूर्वदिभे सम्भूर्णा शुद्धा च भूत्वा
परदिने वर्द्धते तदा सम्पूर्णत्वादमायोगाभावाच्च पूर्वैव
यानि च द्वितीयायोगनिषेधकानि वचनानि केचित्
पठन्ति तान्यपि शुद्धाधिकनिषेधपराणि परदिने प्रति-
पदोऽत्यन्तासत्त्वे तु दर्शयुतापि पूर्बैव ग्राह्या तदाह
लल्लः “तिथिः शरीरं तिथिरेव कारणं तिथिः प्रमाणं
तिथिरेव साधनमिति” यानि त्वमायुक्ता प्रकर्त्तव्येत्या-
दीनि नृसिंहप्रसादे वचनानि तानि समूलत्वे सत्ये-
तद्विषयाणि । अत्रेदं तत्त्वम् । पूर्वोक्तवाक्यानां सर्वेषां
हेमाद्र्याद्यलिखितत्वेन निर्मूलत्वात्तैश्चान्यनिर्णयस्यानुक्तेः
सामान्यनिर्णयात् पूर्ववत्प्राप्तावपि गौडनिबन्धेषु विशे-
षेण निर्णयादौदयिकी ग्राह्या तत्रापि घटिकैकेत्यस्य
द्विमुहूर्त्तस्तुतित्वोक्तेर्द्विमुहूर्त्ता ग्राह्या “उदिते दैवतं
भाना” वित्यत्र “द्विमुहूर्त्ता त्रिरह्नश्चेति” औदयिक्या द्विमु-
हूर्त्तत्वनियमात् तेन उदये द्विमुहूर्त्तापीत्याद्यनुसारोऽपि
“मुहूर्त्तमात्रा कर्त्तव्येति” द्विमुहूर्त्तस्तुतिः । अन्यथा
द्विमुहूर्त्तविधिवैयर्थ्यात् । केचित्तु मुहूर्त्तमात्रेति
वचनात्ततो न्यूनत्वे परा नेत्याहुः गौडा अप्येवम् ।
अत्र देवीपूजैव प्रधानम् उपबासादि त्वङ्गम् “अष्टम्यां
च नवम्यां च जगन्मातरमम्यिकाम् । पूजयित्वाश्विने
मासि विशोको जायते नरः” इति हेमाद्रौ भविष्ये
तस्या एव फलसम्बन्धात् “नवमीतिथिपर्य्यन्तं वृद्ध्या
पूजाजपादिकमिति” तत्रैव देवीपुराणात् । “शरत्काले
महापूजा क्रियते या च वार्षिकी” इति मार्कण्डेयपुरा-
पृष्ठ ३९९४
णाञ्च पूर्ववचनादष्टमीपूजैव प्रधानमन्यत् सर्वमङ्गमिति
गौडाः। एकाहपक्षोऽपि कालिकापुराणे “यस्त्वेकस्या-
मथाष्टम्यां नवम्यामथ साधकः । पूजयेद्वरदां देवीं
महाविभवविस्तरैः" इति । तत्त्वं तु राजसूवेऽन्ययागैः
सभप्रधानायाः सहिताया अप्येवेष्टेरेतयान्नाद्यकामं
याजयेदित्येकत्वान्मध्ये विधानाच्च यथा फलार्थोबर्हिः प्रयोग-
स्तथा नवरात्रमध्यस्याया अष्टम्या नवम्या वा फलार्थः
पृथक्प्रयोगः । रूपनारायणधृतदेवीपुराणे “महानवम्यां
पूजेयं सर्वकामप्रदायिका । सर्वेषु सर्ववर्णेषु तव
भक्त्या प्रकीर्त्तिता । कृत्वाप्नोति यशो राज्य पुत्रायुर्द्ध
नसम्पदः” सा च काम्या नित्या च “एवमन्यैरपि तथा
देब्धाः कार्यं पपूजनम् । विभूतिमतुलां लब्धुं चतुर्वर्ग-
प्रदायकम्” इति “यो मोहादय वाऽऽलस्याद्देवीं दुर्गां
महीत्सवैः । न पूजयति दम्भाद्वा द्वेमाद्वाप्यत्र भैरव! । क्रुद्धा
भगवती तस्य काभानिष्टान्निहन्ति वै” इति कालिका-
पुराणेऽकरणे निन्दाश्रुतेः “वर्षे वर्षे विधातव्यं स्यापनञ्च
विसर्जनम्” इति तिथितत्त्वे देवीपुराणाच्च । अत्रोपवा-
सादिकमुक्तं हेमाद्रौ मविष्ये “एवं च विन्ध्यवासिन्या
नवरात्रोपवामतः । एकभक्तेन नक्तेन तथैवाया
चितेन च । पूजनीया जनैर्देवी स्थाने स्थाने पुरे पुरे ।
गृहे गृहे शक्तिपरैर्ग्रामेग्रामे नवे नवे । स्नातैः प्रमुदितै-
र्हृष्टैर्ब्राह्मणैःक्षत्रियैर्नृपैः । वैश्यैः शूद्रैर्भक्तियुक्तैर्म्ले-
च्छैरन्यैश्च मानवैः” इति यत्तु रूपनारायणीये भविष्ये
“एवं नानाम्लेच्छगणैः पूज्यते सर्वदस्युभिरिति” तत्तामस-
पूजापरम् । “विना मन्त्रैस्तामसी स्यात् किरातानान्तु
सम्मतेति” तत्रैवोक्तेः । मदनरत्ने देवीपुराणेऽपि “कन्या-
संस्थे रवौ शक्र! शुक्लामारभ्य नन्दिकाम् । अयाची द्व्यथ
वैकाशी नक्ताशी वाथ वायुभुक् । भूमौ शयीत चामन्त्र्य
कुमारी र्भोजयेन्मुदा । वस्त्रालङ्कारदानैश्च सन्तोष्याः
प्रतिवासरम् । यलिञ्च प्रत्यहं दद्यादोदनं मांसमाषवत् ।
त्रिकालं पूजयेद्देवीं जपस्तोत्रपरायणः” इति नन्दिका
प्रतिपत्तिथिरिति मैथिलाः । षष्ठीति गौड़ाः । तच्च पूजनं
रात्रौ कार्य्यम् “आश्विने मासि मेघान्ते महिषासुरम-
र्दिनीम् । निशासु पूजयेद्भक्त्या सोपवासादिकः क्रमात्”
इति देवीपुराणात् संग्रहेऽपि “आश्विने मासि मेषान्ते
प्रतिपद्या तिथिर्भवेत् । तस्यां नक्तं प्रकुर्वीत रात्री देवीं
च पूजयेत् । रात्रिरूपा यतो देवी दिवारूपो महेश्वरः ।
रात्रिव्रतमिदं देवि! सर्वपापप्रणाशनम् । सर्वकामप्रदं
नॄणां सर्वशत्रुनिवर्हणम् । रात्रिव्रतमिदं तस्य रात्रौ
कर्त्तव्यतेष्यते । नक्तव्रतमिदं यस्मादन्यथा नरके गतिः”
इत्यादिवचनाच्च रात्रिव्रतत्वमेवाभिप्रेत्य माधवेनोक्तम् तस्य
नक्तव्रतत्वादिति । न तु रात्रिभोजनात् । “ननु मासि
चाश्वयुजे शुक्ले नवरात्रे विशेषवत् । संपूज्य नवदुर्गाञ्च नक्तं
कुर्य्यात् समाहितः । नवरात्राभिधं कर्म नक्तव्रतमिदं
स्मृतम्” । आरम्भे नवरात्रस्येत्यादि स्कान्दात् माधवो-
क्तेश्च नक्तमेव प्रधानमिति चेत् नवरात्रोपवासत इत्या-
देरनुपपत्तेः तेन पाक्षिकनक्तानुवादोऽयं नित्यानित्य-
संयोगविरोधात् नह्यग्निहोत्रे दध्नं पक्षे प्राप्तस्य दध्ना-
जुहोतीत्यस्येन्द्रियकामहोमेऽनुवादो घटते नित्यवदनु-
वादायोगादित्युक्तं वार्त्तिके, तथात्राऽपि । तेनात्र
तद्वदेव गुणात् फलमिति ज्ञेयम् । ननु रात्रेः कर्म-
कालत्वे तद्व्यापिनी पूर्वैव प्रतिपत् प्राप्नुयात् मैवम्
न्यायतः प्राप्तावपि पूर्वोक्तवचनैर्वाधात् यथा पूर्वेद्युः
कमेकालव्यापिनीमपि त्यक्त्वा स्वल्पापि परैव रामनव-
मीति प्रागुक्तम् यथा वा निशीथे सतीमपि पूर्वां
जन्माष्टमीं त्यक्त्वा रोहिणीयुक्ता परैवेति माधवेनोक्तम्
तथात्रापि । वस्तुतस्तु रात्रेः कर्मकालत्ववचसां
हेमाद्र्याद्यलिखनात् समूलत्वं विमृश्यमेव त्रिकालं
पूजयेदित्यादिपूर्वविरोधाच्च । माधवोक्तिस्तु पाक्षिकन-
क्तानुवाद इत्युक्तम् । तस्मात् सर्वपक्षेषु परैव प्रतिपदिति
सिद्धम् । अत्र केचिन्नवरात्रशब्दो नवाहोरात्रपरः
“वृद्धौ समाप्तिरष्टम्याम्” ह्रासेन प्रतिपन्निशि । प्रारम्भो
नवचण्ड्यास्तु नवरात्रमतोऽर्थवत्” इति देवीपुराणादि-
त्याहुः । तन्न ह्रासवृद्ध्योर्न्यूनाधिकत्वापत्तेः अत्र
मूलाभावाच्च तेन तिथिवाच्येवायं तदुक्तम् “तिथिवृद्धौ
तिथिह्रासे नवरात्रमपार्थकम् । अष्टरात्रे न दोषोऽयं
नवरात्रं तिथिक्षये” इति । स च नवरात्रशब्दः क्वचिल्ल-
क्षणया कर्मवाची यथा । प्रारम्भो नवरात्रस्येत्यत्रेति दिक्”

नवराष्ट्र न० औशीनरनृपस्य देशभेदे “नवस्य नवराष्ट्रन्तु

कृमेस्तु कृमिला पुरी” हरिवं० ३१ अ० । तच्च दक्षिण-
दिक्स्थं “नवराष्ट्रञ्च निर्जित्य कुन्तिभोजमुपाद्रवत्” भा० स०
३० अ० सहदेवदक्षिणदिग्विजये ।

नवर्च न० नव + ऋचो यत्र अच् समा० । नवभिरृग्भिर्युते

सूक्तभेदे । नव च ता ऋचश्चेति अच् समा० । नवसु
ऋग्भेदेषु “नवर्चेभ्यः स्वाहा” अथ० १९ । २३६
"https://sa.wikisource.org/w/index.php?title=वाचस्पत्यम्/नदीदोह&oldid=57788" इत्यस्माद् प्रतिप्राप्तम्