पृष्ठ ४२१२

पताका स्त्री पत्यते ज्ञायते योधोऽनया पत--नि० आक ।

त्रिकोणाकारे १ पटादिनिर्मिते वस्त्रखण्डभेदे । मण्डपे
देयपताकालक्षणं हेमा० दा० गरुड़पु० उक्तं यथा “सप्त-
हस्ताः पताकाः स्युर्विंशत्यङ्गुलविस्तृताः । दशहस्ताः
पताकानां दण्डाः पञ्चांशवेशिताः । सिन्दूरा कर्वूरा धूम्रा
घूसरा मेघसन्निभा । हरिता पाण्डुवर्णा च शुभ्रा
पूर्वादितः क्रमात् । एवं वर्णाः शुभाः कार्य्याः षताकाः
पाकशासन!” । “लोकेशवर्णास्त्रयुताः पताकाः शैलेन्दुर्दर्घ्या-
यतिकाश्च मध्ये । चित्रं ध्वजं दिक्करदैर्घ्यवंशं त्रिदी-
स्ततप्रान्तगकिङ्किणीकम् । श्वेताञ्च नवमीं पूर्वेशान-
योर्मध्यती बुधः । विन्यसेत्तु पताकाञ्च ध्वाजांस्ता अपि
पूर्वतः” कुण्डोद्घोतः । “लोकेशानां लोकपालानां ये
वर्णाः पीतादयः पूर्वश्लोकोक्ताः, गैरिकादिलिखतवज्रश-
क्तिदण्डखड्गपाशाङ्कुशगदात्रिशूलानि (तेषामस्त्राणि)
तैर्युताः सप्तहस्तदीर्घा एकहस्तविस्तृताः पताका
दशहस्तवंशशीर्षगाः चित्रं ध्वजं त्रिहस्तविस्तृतं प्रान्ते
वर्त्तमानकिङ्किणीकं शीर्षे सचामरं दशहस्तदैर्घ्यवंशञ्च
तादृशं तं मध्ये विन्यसेत् पूर्वादितः पताकाश्च विन्यसेदि-
त्युत्तरश्लोकेनान्वयः नवमीं पताकां पूर्वेशानयोर्मध्ये
श्वेतां तादृशीमेवाचार्यकुण्डे विन्यसेत् ध्वजांस्ता अपि
पताकाश्च पूर्वादिक्रमेण भूमौ पञ्चांशरोपणेन विन्यसे-
दिति” । अस्याः “त्रिकोणा वै पताकाः स्युश्चतुष्कोणा-
ध्वजाः स्मृताः” विधा० उक्तेः त्रिकोणाकारता वीध्या ।
२ सौभाग्ये ३ नाटकाङ्गभेदे पताकास्थानकशब्दे दृश्यम्
पिङ्गलोक्ते वक्ष्यमाणमेरुपङ्क्तिस्थतत्तत्कोष्ठस्थाङ्क-
निर्धारितस्वरूपभेदानां प्रथमत्वद्वितीयत्वादिना ४ प्राति-
स्विकरूपनिर्द्धारणे ५ निर्द्धारणाङ्कसमूहे वा यथोक्तं
पिङ्गलतट्टीकयोः
“अमुकवर्णमात्रापस्तारयोरेतावद्गुरुलघुयुक्तो भेद
एतावत्संख्याक इति मेरुपङ्क्तिवर्त्तितत्तत्कोष्ठस्थाङ्क-
निर्द्धारितस्वरूपसंख्यानां भेदानां प्रथमत्वद्वितीयत्वादि-
प्रातिस्विकरूपस्य निर्द्धारणं निर्द्धारकाङ्कसमूहो वा
पताका सा च द्विधा वर्णमात्राभेदात् । तत्र प्रथमं
वर्णपताकानिर्माणप्रकारमाह उद्दिट्टेति” टी० । “उद्दिट्टा
सरि अङ्का दिज्जसु पुब्बङ्के प्रर भरण कविज्जसु ।
पाओण अङ्क पड़िहल पत्थरसक्ख प्रताआ करिज्जसु”
पि० मू० “उद्दिष्टसद्बशानङ्कान् देहि पूर्वाङ्कस्य परस्मिन्
भरणं कुरुष्व । प्रथमप्राप्तमङ्कं परित्यज प्रस्तारसंख्यं पताकां
कुर्विति” संस्कृतम् । “उद्दिष्टाङ्कसदृशानङ्कान् देहीत्यर्थः षू०
र्वमेकमङ्कं दत्त्वा उत्तरोत्तरं द्विगुणितान् द्विचतुरष्टादि-
कानङ्कान् यथाप्रस्तारसख्यं स्थापयेत्यर्थः । ततः
पूर्वाङ्कस्य परस्मिन्युत्तरवर्त्तिन्यङ्के प्रस्तारसंख्यं प्रस्तारस्य
संख्या यस्यां क्रियायां तद्यथा स्यात्तथा भरणं योजनं
कुरुष्वेत्यर्थः । प्रस्तारसंख्यमित्यस्य योजनकरणविशेषण-
त्वेन यदि कुत्रचित् पूर्वाङ्कस्य पराङ्कयोजने प्रस्तार-
संख्यातोऽधिका संख्या भवेत् तत्र तन्न ग्राह्यमित्याया-
तम् । एवं कृते प्रथमप्राप्तमङ्कं परित्यज तेन यत्र प्रथम-
प्राप्ताङ्क एव कुत्रचित् पूर्वाङ्कस्य योजननिष्पन्नाङ्कस्तत्र स
न ग्राह्य इत्यप्यायातम् । एवं प्रकारेण वर्णानां पताकां
कुरुष्वेत्यर्थः । अत्र यः पूर्वाङ्कः यत्र पराङ्के प्रथमं
योज्यते तेन योजननिष्पन्ना अङ्काः तत्पराङ्कादयीऽधोधः-
स्थाप्या इति नियमो गुरूपदेशतो बोध्यः । पूर्वपरश-
ब्दादेरपेक्षाबोधजनकत्वात् क्रमशोऽपेक्षाकृतं पूर्वापरस्त्रं
भवतीत्यपि । एतद्दर्शनं वक्ष्यमाणमेरुप्रस्तारे चतुर-
क्षरवृत्तस्य प्रथमकोष्ठस्यितिकाङ्कसूचितः चतुर्गुरुक
एको भेदो द्वितीयकोष्ठस्थितचतुरङ्कसूचितः त्रिगुरु-
काश्चत्वारो भेदास्तृतीयकोष्ठस्थषडङ्कसूचिता द्विगुरुकाः
षड्भेदाश्चतुर्थकोष्ठस्थचतुरङ्कसूचिता एकगुरुकाश्चत्वारो
भेदाः पञ्चमकोष्ठस्थाकाङ्कसूचितः सर्वलघुक एको
भेदः । पञ्चकोष्ठस्थाङ्कयोजननिष्पन्नाङ्को वृत्तसंख्या
इति । तत्र तत्तत्संख्यपुरुलघुकाः भेदा यथानिर्दि-
ष्टप्रस्तारकरणे कतमे कतमे इति प्रश्ने प्रथमम् एर्क
कोष्ठं कर्त्तव्यं ततस्तत्संलग्नमेकं कोष्ठं कृत्वा तदधः-
कोष्ठत्रयं कार्य्यं ततो द्वितीयपङ्क्तिवत् तृतीयप-
ङ्क्तौ कोष्ठचतुष्टयं कृत्वा तदधः कोष्ठद्वयं ततस्तृतीय-
पङ्क्तिस्थितकोष्ठषट्कमध्यादुत्सारितकोष्ठचतुष्टयसंलग्नं
कोष्ठचतुष्टयं कार्य्यं ततः चतुर्थपङ्क्तिस्थितकोष्ठ-
चतुष्टयमध्योपरितनैकसंलग्नमेकं कोष्ठं कार्य्यमेवं
षोड़श कोष्ठानि सम्पद्यन्ते चतुरक्षरवृत्ते तेषामेवापेक्ष-
णात् ननु कथमेतैनैव क्रमेण कर्त्तव्यम् अन्यक्रमस्यापि
सम्भवादिति चेन्न मेरुस्थितानां चतुरक्षरवृत्ते पञ्चानां
कोष्ठानां कीष्ठस्थाङ्कसूचितानाम् एकचतुःषट् चतुरेकको-
ष्ठानां क्रमशः पङ्क्तिरूपेण विहित्वेन तथास्थापनौ
चित्यात् ततः प्रथमकोष्ठादिक्रसेण एकद्विचतुरष्ट-
षोड़शाङ्कान् स्थापयेत् । ततः प्रथमकोष्ठस्यैकाङ्कस्य
सर्वेभ्यः पूर्ववर्त्तित्वात् तेन सह तदुत्तरवर्त्तिद्व्यङ्के-
पृष्ठ ४२१३
न योजितस्त्र्यङ्को द्व्यङ्कस्याधः स्थाप्यः ततः तेन सह
चतुरष्टाङ्कयोजननिष्पन्नपञ्चाङ्कनवाङ्कौ त्र्यङ्कादधोऽधः-
स्थाप्यौ । तेन सह षोड़शाङ्कस्य योजने प्रस्तारसंख्या-
धिक्यान्न तत्कर्त्तव्यम् । तथा च तेन सह कस्यचित्
पराङ्कस्य योजने प्रथमप्राप्ताङ्क एवायातीति प्रथम-
कोष्ठस्थमङ्कं त्यक्त्वा द्वितीयकोष्ठस्थं द्व्यङ्कं तदानीं सर्वेभ्यः
पूर्वत्वेन गृह्णीयात् । तथाच तेन पूर्वाङ्केन द्व्यङ्केन
तदुत्तरवर्त्तितृतीयकोष्ठस्थचतुरङ्कस्य योजननिष्पन्नषडङ्क-
श्चतुरङ्कादधो बिन्यास्यः ततो द्वितीयकोष्ठपङ्क्तिस्थद्व्य-
ङ्काधःस्थितत्र्यङ्केन पूर्वेण चतुरङ्कस्य योजननिष्पन्नः
सप्ताङ्कः तृतीयकोष्ठस्थषडङ्कादधः स्थाप्यस्ततः द्वितीय-
पङ्क्तितृतीयकोष्ठस्थपञ्चाङ्केन सह चतुरङ्कस्य योजने
पूर्वप्राप्रनवाङ्कलाभात् तत्परित्यागेन तदधोनिष्ठनवाङ्केन
चतुरङ्कस्य योजननिष्पन्नस्त्रयोदशाङ्कस्तृतीयपङ्क्तारधः-
कोष्ठे स्थाप्यः । ततो द्वितीयपङ्क्तिस्थकोष्ठचतुष्टयस्थ-
द्व्यादिनवान्तचतुरङ्कानामन्यतमेन सह चतुरङ्कस्य योजने
कृते पूर्वप्राप्ताङ्कलाभापत्तेस्तत्त्यागः । ततः तृतीयपङ्क्तित
उत्तरवर्त्तिचतुर्थपङ्क्तिप्रथमकोष्ठस्थाष्टाङ्कस्य योजन-
निष्पन्नो दशाङ्कः तृतीयपङ्क्तौ पञ्चमकोष्ठे स्थाप्यः द्विती-
यपङ्क्तिद्वितीयकोष्ठस्थत्र्यङ्केनाष्टाङ्कस्य योजननिष्पन्नैका-
दशाङ्कस्तृतीयपङ्क्तौ षष्ठकोष्ठे स्थाप्यः । प्रथमप्राप्ताङ्क-
लाभापत्त्या द्वितीयपङ्क्तित्यागः । ततस्तृतीयपङ्क्तिस्थ
चतुःषट् सप्ताङ्कैरुत्तरवर्त्त्यष्टाङ्कस्य क्रमशः योजननि-
ष्पन्नद्वादशचतुर्दशपञ्चदशाङ्काः क्रमशश्चतुर्थपङ्क्तिद्वि-
तीयादिकोष्ठेष्वधोऽधोलेख्याः” ।
चतुरक्षरप्रस्तारे अस्याः स्वरूपदर्शनम् ।
चतुर्गुरुः १३ गुरुः ४२ गुरुः ६१ गुरुः ४ चतुर्लघुः १
१ २ ४ ८ १ ६ तत्रत्य प्रस्तारः
३ ६ १ २ऽऽऽऽ १ मः
५ ७ १ ४ । ऽऽऽ २ यः
९ १ ३ १ ५ ऽ । ऽऽ ३ यः
१० । । ऽऽ ४ र्थ
११ ऽऽ । ऽ ५ मः
अत्रत्याङ्कास्तत्सूचित । ऽ । ऽ ६ ष्ठः
संख्यापुरणार्थाः ऽ । । ऽ ७ मः
अस्याश्च पताकाकारत्वात् । । । ऽ ८ मः
पताकासंज्ञकत्वमेवं मात्रा ऽऽऽ । ९ मः
पताकाया अपि । । ऽऽ । १० मः
ऽ । ऽ । ११ शः।
। ऽ । १२ शः
ऽ ऽ । । १३ शः।
ऽ । । १४ शः
ऽ । । । १५ शः।
। । । १६ शः
मात्रापताका तु तत्रैवोक्ता यथा “वक्ष्यमाणमात्रामेरुस्य-
तत्तत्संख्याकभेदानां प्रथमत्वद्वितीयत्वादिनिर्णयाय
मात्रापताकानिर्माणमाह उद्दिट्टेति” टी० । “उद्दिट्ट सरि
अङ्का ठापअ वामाबत्तेण परहु णैअ लोपहु ।
एकलोपे एकगुरु जाणह दुइतिणलोपे दुइतिणगुरु
जाणह । मत्तापताआं पिङ्गलो गाअदि जो पडमं
पापै स परं बोधऐ” मू० “उद्दिष्टसदृशानङ्कान् स्थापय
वामावर्त्तेन परस्मिन्नीत्वा लोपय । एकलोपे एकगुरुंजा-
नीत द्वित्रिलोषे द्वित्रान् गुरून् जानीत” । “मात्रापताकां
पिङ्गलो गायति यः प्रथमं प्राप्नोति स परं बोधयतीति”
सस्क० । “उद्दिष्टाङ्कसदृशान् उक्तषकारोद्दिष्टपूर्वाङ्कयुगल-
युतपराङ्कान् प्रस्तारसंख्यं तत्सदृशान् एकद्वित्रिपञ्चाष्ट-
त्रयोदशैकविंशचतुस्त्रिंशदित्येवंरूपान् स्थापय उत्तरो-
त्तरमिति शेषः । वामावर्त्तेन प्रतिलोमविधिना सर्वा-
न्तिमाङ्काव्यवहितपूर्वाङ्कमारभ्येति यावत् नीत्वा गृहीत्वा
परस्मिन् सर्वान्तिमाङ्के लोपय तन्यूनतां नयत सर्वान्ति-
माङ्के तदव्यहितपूर्वाङ्कमारभ्य पूर्वपूर्वाङ्काः क्रमेण लोप्या
इत्यर्थः । एकलोपे एकाङ्कलोपे एकगुरुं जानीत द्वि-
त्रिलोपे द्वित्रान् गुरून् जानीत । एकैकपूर्वाङ्कलोपे येऽङ्का
अवशिष्यन्ते ते एकगुरुयुक्तभेदज्ञापकाः पूर्वाङ्कद्वयलोपे
येऽवशिष्यन्ते ते गुरुद्वययुक्तभेदज्ञापकाः पूर्वाङ्कत्रयलोपे
येऽवशिष्यन्ते ते गुरुत्रययुक्तभेदज्ञापका इत्यर्थः । एवंप्रका-
रेण मात्रापताकां पिङ्गलो गायति कथयति यः प्रथमं
प्राप्नोति गुरूपदेशाज्जानाति स परं बोधयतीत्यर्थः । अत्र
च एकत्वद्वित्वसंख्याविशिष्टः प्रथमं सर्वान्तिमे लोप्यते
तदव्यवहितपूर्वाङ्कमारभ्यावशिष्टाङ्काःक्रमेणाधोधः स्थाप्या
इति यदङ्कद्वयलोपे शून्यमवशिष्यते पूर्वप्राप्ताङ्को वा लभ्यते
तदङ्कटयलोपो न कार्य्य इति नियमत्रयं गुरू-
पदेशाद्बोध्यम् । अथ तन्निर्माणं षट्कलपताकास्वरूपम्
वामदक्षिणयोरङ्गुलपञ्चकपरिमाणमूर्द्ध्वाधोरेखाद्वयमृजु
अर्द्धाङ्गुलान्तरितं कर्त्तव्यं तत ऋजुरेखया पार्श्वयोर्मेलन”
विधेयमेवमेकं दीर्घकोष्ठं तत्रैकाङ्गुलपरिमितमन्तरं
पृष्ठ ४२१४
त्थक्त्वोर्द्धरेखामारभ्याऽन्यरेस्यापर्य्यन्तं ऋजुरेखाः क्रमेण
दत्त्वा कोष्ठषट्कमुत्तरोत्तरपरस्परसंश्लिष्टं विधेयं तत्रो-
द्दिष्टाङ्कसदृशाः षट्कलप्रस्तारे एकद्वित्रिपञ्चाष्टत्रयोदशेति
पूर्वोक्ताः पूर्वयुगलैक्यक्रियानिष्पन्नोत्तरोत्तराः षडङ्काः
क्रमेण स्याप्यास्तदधः षट्कलमेरुस्थितकोष्ठचतुष्टयमु-
त्तरोत्तरसंश्लिष्टं कार्य्यं ततो मेरुद्वितीयकोष्ठस्थित
षड़ङ्कसूचितष्ड्मेदानां द्वितीयकोष्ठमेकं तदघ ऊर्द्ध्वाधः
संश्लिष्टं कोष्ठपञ्चकमिति कोष्ठषट्कमेवं मेरुतृतीय-
कोष्ठे पञ्चाङ्कसत्वात् तृतीयकोष्ठमेकं तदधः ऊर्द्धाधः
संश्लिष्टकोष्ठचतुष्टयमितिकोष्ठपञ्चकमवशिष्टकोष्ठद्वयस्याधो
मेरौ एकाङ्कसद्भावात् न कोष्ठान्तरं कार्य्यम् ।
ततः सर्वान्तिमस्यीद्दिष्टशेषाङ्कस्यान्तिमकोष्ठे स्यापनं
ततः सर्वान्तिमत्रयोदशाङ्कमध्ये तदव्यवहिताष्टाङ्कलोपे
उर्वरितं पञ्चाङ्कं वामावर्त्तेनोपान्तिमोपरिकोष्ठे स्थापयेत्
ततोऽष्टाङ्कलोपे पूर्वप्राप्ताङ्कलाभापातान्न लोपः कार्य्यः ।
किन्तु अष्टाङ्कपूर्वस्थितपञ्चाङ्कस्य त्रयोदशाङ्के लोपं कृत्वा
उपान्तिमकोष्ठोपरितनकोष्ठाधःकोष्ठे उर्वरितमष्टाङ्कं
स्थापयेत् ततस्त्र्यङ्कस्य त्रयोदशाङ्के लोपं कृत्वा उर्वरितं
दशाङ्कं तदधःकोष्ठे स्थापयेत् ततो द्व्यङ्कलोपे उर्वरित-
मेकादशाङ्कं तदधःकोष्ठे संस्थाप्य एकाङ्कलोपे उर्वरित
द्वादशाङ्कं तदधःस्थापयेत् ततस्त्रयोदशाङ्के लोपकरणे
पूर्वाङ्कलाभापातात् न तत् कार्य्यम् । ततः अष्ट-
पञ्चेत्यङ्कद्वयलोपे शून्यावशेयात् न तत्कार्य्यम् । अष्ट
त्रीत्यङ्कद्वयलोपे उर्परितं द्व्यङ्कं द्वितीयकोष्ठोपरितन-
कोष्ठे स्थापयेत् ततो द्व्यष्टेत्यङ्कद्वयलोमे उर्वरितत्र्यङ्क-
स्तदधःस्थाप्यस्तत एकाष्टेत्यङ्कद्वयलोपे उर्वरितचतुरङ्क-
स्तदधःकोष्ठे स्थाप्यः । ततः अष्टाङ्कघटितद्व्यङ्कलोपास-
म्भवात् पञ्चाङ्कधटितद्व्यङ्कलोपः कार्य्यस्तत्र पञ्चत्रीत्यङ्क-
द्वयलोपे पूर्वप्राप्तपञ्चाङ्क एवोर्वरितः स्यात् अतः द्विपञ्चेति
द्व्यङ्कलोपे उर्वरित षड़ङ्ल तदधःकोष्ठे स्थापयेत् ।
एकपञ्चेत्यङ्कद्वयलोपे उर्वरित सप्ताङ्कस्तदधःकोष्ठे स्थाप्य-
स्ततः पञ्चाङ्कघटितद्व्यङ्कलोपे पूर्वप्राप्ताङ्कापातात् न
तत्कार्य्यं किन्तु त्रिघटिमाङ्कद्वयलोपस्तत्र त्रिद्वीति द्व्यङ्क
लोपे पूर्वप्राप्ताङ्कापातात् न तत्कार्य्यं तत एकत्रीत्यङ्क
द्वयलोपे उर्वरितनवाङ्कं तदधःकोष्ठे स्थापयेत् । ततः
कोष्ठाभावात् एकद्वीत्यङ्कद्वयलोपे उर्वरितदशाङ्कस्व प्राप्त-
त्वाच्च न द्व्यङ्कलोपः । तत एकत्र्यष्टेत्यङ्कत्रयलोपे उर्व-
रितमेकाङ्कं प्रथमे कोष्ठे स्थापयेदिति । तत्र मेरु-
प्रथमकोष्ठस्यैकाङ्कसृचितषट् कलसर्वगुरुकभेदस्यात्रत्यप्रथम-
कोष्ठस्यैकाङ्के न प्रथमत्वं सूचितं त्र्यङ्कलोपे त्रिगुरुक-
त्वाभिधानात् । एवं मेरुद्वितीयकोष्ठस्थषड़ङ्कसूचितानां
षट्कक्षप्रस्तारस्य द्विगुरुकभेदानां षणां द्वितीयतृतीय-
त्वादिनिर्णयपताकाद्वितीयकोष्ठस्थाङ्कषकेन सूचित-
द्व्यङ्कलोपे द्विगुरुकत्वामिधानात् । एवं मेरुपञ्चाङ्खसूचि-
तानां पञ्चानां षट् कलैकगुरुकभेदानां पताकांतृतीय-
कोष्ठस्थाङ्कपञ्चकेन पञ्चमत्वाष्टमत्वेत्थादि निर्णीतम्
एकाङ्कलोपे एकगुरुकत्वाभिधानात् । सर्वान्तिमे त्रयोद-
शाङ्के अङ्कलोपपूर्वकयोजनासम्भवात् मेरुशेषकोस्थैका-
ङ्कसूचितषट् कलस्यैकस्य सर्वसथुकभेदस्य पताकान्त्यसप्तम-
कोष्ठस्थत्रयोदशाङ्केन त्रयोदशत्वं निर्णीतमेवमन्यत्रापि ।
षट्कलप्रस्तारे तत्स्वरूपदर्शनम् ।
१ २ ३ ५ ८ १३ षट्कलप्रस्तारः
त्रिगुरुः १ द्विगुरुः ६ एकगुरुः ५ सर्वलघुः १ऽऽऽ१ मः
१ २ ५ १३ ॥ ऽऽ २ यः
३ ८ । ऽ । ऽ ३ यः
४ १० ऽ । । ऽ ४ र्थः
६ ११ । । । । ऽ ५ मः
७ १३ । ऽऽ । ६ ष्ठः
९ ऽ । ऽ । ७ मः
अत्रत्याङ्कास्तत्सूचित । । । ऽ । ८ मः
संख्यापूरणार्थाः । ऽऽ । । ९ मः।
। ऽ । । १० मः।
ऽ । । । ११ शः
ऽ । । । । १२ शः।
। । । । । १२ शः

पताकास्थानक न० सा० द० उक्ते वाटकाश्चभेदे तल्लक्षण-

भेदादिकं तत्रोक्तं यथा
“यत्रार्थे चिन्तितेऽन्यस्मिन् तल्लिङ्गोऽन्यः प्रयुज्यते ।
आनन्तुकेन भावेन पताकास्यानकन्तु तत्” तद्भेदानाह
सहसैवार्थसम्पत्तिर्गुणवत्युपचारतः । पताकास्थानक-
मिदं प्र थमं परिकीर्त्तितम्” यथा रत्नावल्वां “वासव
दत्तेयमिति” राजा यदा तत्कण्ठषाशं मोचयति तदा
तदुक्त्या “सागरिकेयमिति” प्रत्यभिज्ञाय “कथं पिया
मे सागरिका णलमकमतिमात्रमित्यादि । फलरूपार्थ-
सम्पत्तिः पूर्वापेक्षया उपचारातिशयादु गुणवती
उत्कृष्टा । “वचः सातिशयश्लिष्टं मामाबन्धसमाश्रयम् ।
पृष्ठ ४२१५
पताकास्थानकसिदं द्वितीयं परिकीर्तितम्” । यथा वेण्यां
मीमः । “रक्तप्रसाधितमुवः क्षतविग्रहाश्च सुस्था भवन्तु
कुरुराजसुताः सभृत्याः” । अत्र रक्तादीनां रुधिर-
शरीरार्थहेतुकश्लेषवशेन वीजार्थप्रतिपादनात् नेतुरमङ्ग-
सप्रतिपत्तौ सत्यां द्वितीयं पताकास्थानकम् । “अर्थोप-
क्षेपकं यत्तुलीनं सविनयं भवेत् । श्लिष्टप्रत्थुत्तरोपेतं
तृतीयमिदमुच्यते” । लीनमव्यक्तार्थं श्लिष्टेन सम्बन्ध-
योग्येनाभिप्रायान्तरप्रयुक्तेन प्रत्युत्तरेणोपेतं सविनयं
विशेषनिश्चयप्राप्त्या सहितं सम्पद्यते यत् तत् तृतीयं
पताकास्थानकम् । यथा वेण्यां द्वितीयेऽङ्के । कञ्चुकी ।
देव! भग्नं भग्नम् । राजा । केन । कञ्चु । भीमेन ।
राजा । कस्य । कञ्चु । भवतः । राजा । आः किं
प्रलपसि । कञ्चु । सभयं देव! ननु व्रवीमि भग्नं
भोमेन भवतः । राजा । धिक् वृद्धापसद! कोऽयमद्य
ते व्यामोहः । कञ्चु । देव न व्यामोहः सत्यमेव ।
“मग्नं भीमेन भवतो मरुता रथकेतनम् । पातितं
किङ्किणीजालबद्धाक्रन्दमिव क्षितौ” । अत्र दुर्य्योधनो-
रुभङ्करूपप्रस्तुतसंक्रान्तमर्थोपक्षेपणम् । “द्व्यर्थो
वचनविन्यासः सुश्लिष्टः काव्ययोजितः । प्रधानार्थान्तराक्षेपी
पताकास्थानकं परम्” । यथा रत्नावल्याम् “उद्दामोत्-
कलिकां विपाण्डुररुचिं प्रारब्धजृम्भां क्षणादायामं श्वस-
नोद्यमैरविरलैरातन्वतीमात्मनः । अद्योद्यानलतामिमां
समदनां नारीमिवान्यां घ्रुवं षश्यन् कोपविपाटलद्युति-
मुखं देव्याः करिव्याम्यहम्” । अत्र भाव्यर्थः सूचितः ।
एतानि चत्वारि पताकास्थानकानि क्वचिन्मङ्गसार्थं
कचिदमङ्गलार्थमपि सर्वसन्धिषु भवन्ति । काव्यकर्तु-
रिच्छावशाद् भूयोऽपि भवन्ति” ।

पताकिक त्रि० पताका अस्त्यस्य ब्रीह्या० वा ठन् ।

पताकायुक्ते ।

पताकिन् त्रि० पताका + अस्त्यर्थे ब्रीह्यानं वा इनि ।

पताकायुक्ते जन्मलग्ने ग्रहविशेषवेथवशात् तदीयदण्डप-
लादिजन्मतः फलविशेषसूचके चक्रभेदे तत्स्वरूपादिकं
ज्यो० त० उक्तं यथा
“तिर्य्यगूर्द्ध्वगता रेखास्तिस्रोदेयाः पताकया । युताः
कार्य्या वेधविदा सर्वसङ्गतरेखया । दक्षस्थोद्गतरेखातो
वामं मेषादिराशयः । पञ्चाष्टयुग्मविंशाश्च षड़्दशेन्द्राग्नि-
सागराः । कर्कटान्नीनपर्य्यन्तमङ्का देया यथाक्रमम् ।
वाकस्य जन्मकासीनग्रहलग्नमजादिषु । विन्यस्य चिन्तयेत्
प्राज्ञः शुभाशुभं यथाक्रभम् । शुभदण्डयोगवेधैर्लग्नाद्-
यालस्य शोभनम् । पापदण्डयोगवेधैराश्यङ्काद्रिष्टिकाल-
वित् । बलाधिके दिनं, मध्ये मासो, हीने च
हायनम् । कर्कोमीनधनुर्भ्याञ्च हरिः कीटघटेन च ।
स्त्रियास्तौलिमृगाभ्याञ्च घटे मीनेन कन्थया । धनुषो
मृगकर्किभ्यां मकरे धनुषा स्त्रिया । मीने कर्कितुला-
मृद्भ्यां मीनस्त्रीधनुधा त्वजे । तुलाकर्किमृगैर्द्वन्द्वे
कीटकुम्भवृषेषु च । सिंहवद्बेध एतेषु वामदक्षिणसम्मुखे ।
राहुकेत्वर्कसौरारैः पापैर्बिद्धो युतोऽशुभः । तदन्यै-
र्युतविद्धस्तु लग्नराशिः शुभप्रदः । एकोनविंशतिः कर्के
सिंहे सप्तदशैव तु । षट् त्रिंशदबलायाञ्च षड्विंशति-
स्तुलाधरे । वृश्चिके सिंहवज्ज्ञेयमूनत्रिंशच्छरासने ।
षड्विंशं मकरे ज्ञेयं, कुम्भे सप्तदश स्मृताः । नवयुन्मे
तथा मीने मेषे षड़्दशभिस्तथा । वृषभे च यथा सिंहे
युम्मेऽङ्कहरलोचने । त्रिनयाङ्कादियं संख्या
दिनमासाव्दनिर्णये । एकाङ्कात् द्विगृहाङ्काद्वा क्वचि-
द्रिष्टेश्च सम्मवः । वारेशादर्द्धयामेषु रात्र्यह्नोः पञ्च-
षट्क्रमात् । अधिपाः स्युर्ग्रहास्तत्र यथार्काहे भवन्ति
हि । रवीज्येन्दुभृगुक्ष्माजशनिज्ञरवयो निशि ।
रविशुक्रज्ञरात्रीशशनीज्यकुजभास्कराः । दिने, तूह्याः
परेष्वेवं तथा रात्रावपि ग्रहाः । पापदण्डे भवेदिष्टिः
शुभदण्डे शुभं मवेत् । शुभग्रहस्य दण्डे तु कर्मारम्भा-
च्छुभं भवेत् । आरम्भात् पापदण्डे तु कर्म निष्कलतां
व्रर्जत् । यस्यार्द्धयामस्तस्यैव प्राग्दण्डः समुदाहृतः ।
षट्षटपरीत्य दण्डाश्च त्रयो रात्रौ मतास्तथा । आदित्ये
मृगुजो बुधोऽपि च शशी, सोमे शनीज्यौ कुजो, भौमे-
ऽर्कः सितसोमभजौ, च शशिज्रे सोमः शनिर्वाक्पतिः ।
जीवेऽङ्गाररवी भृगुर्भृगुसुते सौम्येन्दुमार्त्तण्डजाः ।
काले जीवमहीजतिग्मकिरणा रात्रौ च दण्डाधिपाः ।
यामार्द्धाघिपसंख्यातो द्वितीयस्तु तदर्द्धतः । तदर्द्धात् तु
तृतीयः स्यात्तदर्द्धात् तु तुरीयकः । अङ्काभावे तु राहुः
स्यात्तदङ्को वसुसंख्यकः । भग्नाङ्कस्य परित्यागाद्दिवा
दण्डाधिपा यथा । रविदनुजबुधग्लौश्चन्द्रसूरासुरज्ञाः
कुजरविदनुजज्ञाः ज्ञेन्दुसूराञ्चुराश्च । गुरुशशिरविदैत्याः
शुक्रभौमार्कदैत्याः शनिकुजरविदैत्या दण्डपाह्यर्द्धयामे” ।
दनुजो राहुः । अर्द्धयामे दिनार्द्धप्रहरे ।
शुभदण्डमाह । “शेषावर्कस्य दण्डौ सततशुभकरावादिशेषौ
तथेन्दोः, शेषो दण्डः कुजस्याप्यथ गुरुबुधयोराद्यमाद्यं
पृष्ठ ४२१६
प्रशस्तम् । आदिर्दण्डस्तथैको भृगुकुलनृपतेः सर्वकार्य्ये
हि शस्तो दण्डाश्चत्वार एव क्वचिदपि समये नैव सौरेः
प्रशस्ताः । प्रतिदण्डं पलान्येषां ज्ञात्वा वाच्यं क्वचि-
च्छुभम् । रवौ च वेदा, वसवः सुधांशौ, कुजे च बाणाः
शशिजे तथाङ्काः । शनावृतु, र्दिक् च वृहस्पतौ स्या-
द्राहौ तुरङ्गा भृगुजे च रुद्राः । अशुभे दण्डसंयोगे
सर्वत्र पुण्यवर्जिते । बालस्य मरणं शीघ्रं यदि पापैः
समन्वितम् । अशुभग्रहदण्डे तु सर्वत्र पापवर्जिते ।
बालस्य कुशलं सर्वं शुभैर्यदि समन्वितम् । अशुभो
दण्डनाथो हि वेधश्चेत्तेन लभ्यते । मरणं तत्र वक्तव्यं
वालस्य नान्यथा भवेत् । पापस्य दण्डमात्रे तु तद्योग-
वेधवर्जिते । वालस्य कशलं तत्र शुभैर्यदि समन्वितम्” ।
वर्षपताकी तु केतुपताकाशब्दे २२३६ पृ० उक्तः तत्र दृश्यः

पतापत त्रि० पत--यङ्लुक्--अच् नि० । अतिशयपतनयुक्ते

पति पु० पा--डति । १ भर्त्तरि ३ स्वामिनि च तत्स्त्रियां

“पत्युर्नो यज्ञसम्बन्घे” पा० न ङीप् च पत्नी । पतिकृतयज्ञ-
फलभागिन्याम् स्त्रियां “विभाषा सपूर्वस्य” पा० गृहस्य
पतिः गृहपतिः गृहपत्नी वा । बहुब्रीहावपि शूद्रः
पतिर्यस्याः शूद्रपत्नी शूद्रपतिः । पतिशब्दस्य समास एव
घिसंज्ञा श्रीपतये श्रीपतेः इत्यादि असमासे तु न घिसंज्ञा
पत्या पत्ये इत्यादि आर्षे क्वचित् असमासेऽपि घित्वम्
“क्लीवे वा पतीते पतौ” पराशरः “सीतायाः पतये
नमः” इत्यादि पतिसेवनप्रकारादिकं यथा
“व्यर्थं व्रतादिकं तस्या या भर्त्तुश्चापकारिणी ।
तपश्चानशनञ्चैब व्रतं दानादिकञ्च यत् । भर्तुरपियकारिण्याः
सर्वं मवति निष्फलम् । यया प्रियः पूजितश्च श्रीकृष्णः
पूजितस्तया । पतिव्रताव्रतार्थञ्च पतिरूपी हरिः
स्वयम् । सर्वदानं सर्वयज्ञः सर्वतीर्थनिषेवणम् । सर्वं
व्रत तपः सर्वमुपवासादिकञ्च यत् । सर्वधर्मश्च सत्यञ्च
सर्वदेवप्रपूजनम् । तत्सर्वं स्वामिसेवायाः कलां नार्हन्ति
षोडशीम् । सुपुण्ये भारते वर्षे पतिसेवां करोति या ।
वैकुण्ठं स्वामिना स्वार्द्धं सा याति ब्रह्मणः शतम् ।
विप्रियं कुरुते मर्त्तुर्विप्रियं वदति प्रियम् । असत्कुल
प्रयाता या तत्फलं श्रूयतां सति! । कुम्भीपाकं व्रजेत्
सा च यावच्चन्द्रदिवाकरौ । ततो भवति चाण्डाली
पतिपुत्रविवर्जिता” ब्रह्म० वै० प्र० ४३ अ० । पतिसेवा-
प्रकारस्तु भा० व० २३२ अ० द्रौपद्या सत्यभामां प्रति
उक्तस्तत्र दृश्यः । अघिकम् उक्तं पतिव्रताशब्देदृश्यम् ।

पतिंवरा स्त्री पतिं वृणोति वृ--खच् मुम् । १ स्वय पतिवस-

णकारिकायां कन्यायाम् स्वयंवरायाम् । २ कृष्णजीरके
शब्दच ० ।

पतिघातिनी स्त्री पतिं हन्ति हन--णिनि ६ त० ।

पतिनाशिकायां स्त्रियां तत्सूचकयोगश्च कर्कटे लग्ने कर्कटे
चन्द्रे वा सौरत्रिंशांशजन्मेति वृ० जा० उक्तं यथा
“स्वच्छन्दा पतिघातिनी वहुगुणा शिल्पिन्यसाध्वीन्दुभे”
मू० “इन्दुभे कर्कटे लग्ने तद्गते वा चन्द्रे भौमत्रिंशांश-
कजाता स्वच्छन्दा स्वैरिणी यटेष्टव्यवहारिणी भवति
सौरत्रिंशांशकजाता पतिघातिनी भवति” भट्टोत्पलः ।

पतिघ्न त्रि० पतिं हन्ति हन--“लक्षणे जायापत्योष्टक्” पा०

टक् । पतिनाशसूचके लक्षणभेदे स्त्रियां ङीप् । पतिघ्नी
पाणिरेस्खा । विवाहात् प्राक् क्षेत्रादिमृत्पिण्डाष्ट-
कस्य कुमार्य्यै परीक्षार्थं दाने श्मशानजातमृत्पिण्डस्य
कुमार्य्या ग्रहणे तस्याः पतिहननफलमुक्तम् आश्व० गृ०
१ । ५ । ६ “अष्टौ पिण्डान् कृत्वा पिण्डानभिमन्त्र्य
कुमारीं ब्रूयादेषामेकं गृहाणेति” इति नियोजिता
कुमारी यदि श्मशानादाहृतां मृदं गृह्णाति तदा
पतिघ्नीति विद्यात् तदुक्तं तत्रैव ६ क० “श्मशानात्
पतिघ्नीति” ।

पतित त्रि० पत--गत्यर्थत्वात् कर्त्तरि क्त सनि वेट्कत्वे-

ऽपि पतेः पृथग्ग्रहणात् इट् प्रतधातौ पित्सती-
त्येकरूपलिखनं प्रमादात् पणे पिपतिषतीति रूपा-
न्तरं भवतीति बोध्यम् । १ पतनकर्त्तरि २ नरकगमन-
सूचककर्मविशेषकारके स च कर्मविशेषः पतितलक्ष-
णविघया प्रा० वि० निर्णीतो यथा
गोतमः “व्रह्महा सुरापः गुरुतल्पगः मातृपितृयोनि-
सम्बद्धागस्तेननास्तिकनिन्दितकर्माभ्यासी पतितात्याम्य-
पतितत्यागिनश्च पतिताः पातकसंयोजकाश्च तैश्चाव्दं
समाचरन्निति” । पातकसंयोजकाः सुरापानादौ परान्
प्तयोजयन्ति । इत्युपक्रमे सामान्यशक्तस्यापि विशेषशक्ति
र्भ्रविष्यति मृपादिपदस्येव पशौ, हारीतेन विशेषगणने
पाठात् । तथा च्यवनः “अथ पातकोपपातकमहापा-
तकानि व्याख्यास्यामः इति । तथा च पठन्ति “महापा-
तकतुल्यानि पापान्युक्तानि यानि च । तानि पातक-
संज्ञानि तदूनमुपपातकम्” । अतो महापातकतुल्यपाप-
विशेषेऽप्यस्य शक्तिः । पतनशब्दार्थमाह गोतमः “द्वि-
जातिकर्मभ्यो हानिः पतनं परत्र चासिद्धिस्तमेके नर-
पृष्ठ ४२१७
कम्” । द्विजातिकर्म श्रौतमग्निहोत्रादि स्मार्त्तमष्टकादि
प्रायश्चित्ततदङ्गजपादिव्यतिरिक्तं तेभ्यो हानिरनधि-
कारः इति द्विजातिग्रहणं प्राधान्यार्थं शूद्रस्यापि
वाक्यान्तरेण पातित्याभिधानात् । इह लोके तावत्
पातित्यलक्षणमनिष्टं परलोके चासिद्धिः पातककर्म-
पतिबन्धात् उपात्तसुकृतफलानिष्पत्तिः नरकं वा
सूतकादिव्यावृत्त्यर्थमिदम् । द्विजातिकर्मानधिकारश्च
महापातके श्रूयते यथा देवलः “पञ्चैतानि महापात-
कानि कृत्वा ब्राह्मणः सद्भिर्नानुभाष्यो नानुग्राह्योऽ-
भिशस्तः सर्वकर्मवर्जितः पतिततमो भवति” ।
महापाबक्यधिकारे मनुः “असम्भाष्याह्यसंभोज्या
अविवाह्या ह्यपाठिनः । धरेयुः पृथिवीं दीनाः सर्वधर्म-
वहिष्कृताः” । अतो महापातकेषु द्विजातिकर्मान-
धिकारः तद्विहितद्वादशवार्षिकप्रायश्चित्तापनेयत्वादति-
पातकानुषातकयीरपि । अतो द्वादशवार्षिकप्रायश्चित्ता-
पनेयार्हं ग्रापं पतनम् । अर्हता च सामान्यबोधितत्वं
तच्च स्त्रीत्वा दिनाऽसम्पूर्णानुष्ठानेऽप्यस्त्येव कृष्णले
इवावघातस्य । अथ वा द्विजातिकर्मानधिकारापादकं
पाग्रं पतनम् अनधिकारश्च महापातके श्रुतएव अनुपा-
तकेऽपि तत्समत्वात् उपपातकादौ च क्वचित् पततीति
श्रुतेः अतिपातके ततो गुरुत्वात् लभ्यते । यद्वा महापा-
तकानपकृष्टं पापं पतनम् अनुपातकस्य तत्समत्वात्
उपपातकादेः कचित् पततीत्यभिधानात् अनपकर्षएव,
अस्वजनब्राह्मणीगमने पतनपाताद्युत्पत्तिश्रवणादनप-
कर्षएव । अतएव “सद्यः पतति मांसेनेति” शूद्रावेदी
पतत्यत्रे” रित्यादिमनुवचनं निन्दार्थम् ।
३ स्वधर्मच्युते “स्वधर्मं यः परित्यज्य परधर्मं समाश्रयेत् ।
अनापदि स विद्वद्भिः पतितः परिकीर्त्तितः” मार्क० पु०
चाण्डालान्त्यादिस्त्रीगमनादिकमभ्यासकृतं पातित्य-
कारणम् “चाण्डालान्त्यस्त्रियो गत्वा भक्त्वा च प्रतिगृह्य
च । पतत्यज्ञानतो विंप्रो ज्ञानात्साम्यं तु गच्छति”
मत्स्यपु० । अन्यान्यपि कतिचित् कर्माणि पतितानामिव
दाहनिषेधप्रयीजकान्युक्तानि शु० त० ब्रह्मपु० “गरा-
ग्निविषदात्तैव पाषण्डाः क्रूरबुद्धयः । क्रोधात् प्रायं
विषं वह्निं शस्त्रमुद्बन्धनं जलम् । गिरिवृक्ष
प्रपातञ्च ये कुर्वन्ति नराधमाः कुशिल्पजीविनश्चैव
सूनालङ्कारकारिणः” तथा “ब्रह्मदण्डहता ये च ये च
वै ब्राह्मणैर्हताः । महापातकिनो ये च पतितास्ते प्रकी
र्त्तिताः । पतितानां न दाहः । स्यान्नान्त्येष्टिर्नास्थिस०
ञ्चयः । न चाश्रुपातः पिण्डो वा कार्य्यं श्राद्धादिकं
न्नचित्” शु० त० ब्रह्मपु० । तेषां संसर्गनिषेधो यथा
“आसनाच्छशयनाच्चैकभोजनात् कथनादिषु । संवत्सरेण
पतति पतितेन सहाचरन्” वराहपु० “पतितैः संप्र-
युक्तानामिमां शृणुत निष्कृतिम् । संवत्सरेण पतति
पतितेन सहाचरन् । याजनाध्यापनाद्यौनाद्यान
पानाशनासनात । यो येन पतितेनैव संसर्गं याति
मानवः । स तस्यैव व्रतं कुर्य्यात् संसर्गस्य विशुद्धये”
तत्र पादोनं प्रायश्चित्तमिति तत्र स्थितम् । “पतितस्योदकं
कार्य्यं सपिण्डैर्ब्राह्मणैः सह । निन्दितेऽहनि सायाह्ने
ज्ञातिभिर्गुरुसन्निधौ । दासी घटमपां पूर्णं पर्य्यस्येत्
प्रेतवत् सदा । अहोरात्रमुपासीनं नाशौचं ब्राह्मणैः
सह । निवर्त्तयेरंस्तस्मात्तु सम्भाषणसहासनम्” मात्स्ये
२०१ अ० । “पतिता गुरवस्ताज्या न तु माता कदाचन ।
गर्भधारणपोषाभ्यां तेन माता गरीयसी” मत्स्यपु० ।

पतित्वन न० यौवने ऋ० १० । ४०९ भाष्ये दृश्यम् ।

पतिदेबता स्त्री पतिरेव देवता यस्याः । पतिव्रतायाम्

पतिदैवताऽप्यत्र ।

पतिद्विष् स्त्री पत्ये द्वेष्टि द्विष--क्विप् ४ त० । पत्ये द्वेषकारिण्याम् ।

पतिमती स्त्री पति + अस्त्यर्थे मतुप् ङीप् । स्वामियुक्तायां

भूम्यादौ ।

पतिलोक पु० पतिभोग्यो लोकः स्वर्गादिः शा० त० । पत्या०

सहघर्माचरणेन प्राप्ये स्वर्गादिलोके मनुः ५ १५६

पतिवत्नी स्त्री पति + अस्त्यर्थे मतुप् नि० सधवायां मस्य वः

नुक् च । सभर्तृकायां स्त्रियाम् अमरः । तद्भिन्नायान्तु
पतिमतीत्येव सि० कौ० ।

पतिवेदन पु० पतिं वेदयति विद--लाभे णिच्--ल्यु ।

पतिप्रापके महादेवे “त्र्यम्बकं यजामहे सुगन्धिं पतिवेद-
नम्” यजु० ३ । ६०

पतिव्रता स्त्री पतिर्व्रतमिव नियतोपास्यत्वात् यस्याः ।

साध्व्यां स्त्रियाम् अमरः तद्धर्माश्च काशी० ख० ४ अ०
उक्ता यथा
“पतिब्रतेयं कल्याणी लोपामुद्रा सधर्मिणी ।
तवाङ्गच्छायया तुल्या यत्कथा पुण्यकारिणी । पतिव्रता-
स्वरुन्धत्या सावित्र्याप्यनुसूयया । शाण्डिल्यया च
सत्या च लक्ष्म्या च शतरूपया । मेनया च सुनीत्या
च मंज्ञया स्वाहया तथा । तथैमा वर्ण्यते श्रेष्ठा न
पृष्ठ ४२१८
तथान्येति निश्चितम् । भुङ्क्ते भुक्ते त्वयि मुने!
तिष्ठति त्वयि तिष्ठति । विनिद्रिते च निद्राति प्रथमं
प्रतिबुध्यते । अनलङ्कृतमात्मानं तव नो दर्शयेत्
कचित् । कार्य्यार्थं प्रोषिते क्वापि सर्वमण्डनवर्जिता ।
न च ते नाम गृह्णीयात्तवायुष्यविवृद्धये । पुरुषान्तर-
नामापि न गृह्णाति कदाचन । आक्रुष्टाषि
नचाक्रोशेत् ताड़िताषि प्रसीदति । इदं कुरु कृतं स्वामिन्!
मन्यतामिति वक्ति च । आहूता गृहकर्मणि त्यक्त्वा
गच्छति सत्वरम् । किमर्थं व्याहृता नाथ! सप्रसादो-
ऽभिधोयताम् । न चिरं तिष्ठते द्वारि न द्वारमुप-
सेवते । अदापितं त्वया किञ्चित् कस्मैचिन्न ददात्यपि ।
पूजोपकरणं सर्वमनुक्ता साधयेत् स्वयम् । नियमोदक-
बर्हींषि पत्रपुष्याक्षतादिकम् । प्रतीणामाणावसरं
यथाकालोचितं हि यत् । तदुपस्थापयेत् सर्वमनुद्विग्नाति
हृष्टवत् । सेवते भर्तुरुच्छिष्टमिष्टमन्नकलादिकम् ।
महाप्रसाद इत्युक्त्वा पतिदत्तं प्रतीच्छति । अविभज्य न
चाश्रीयात् देवपित्रतिथिष्वपि । परिचारकवर्गेषु
नोषु भिक्षुकुलेषु च । संयतोपस्करा दक्षा हृष्टा
व्ययपराङ्मुखी । कुर्य्यात् त्वयाऽननुज्ञाता नीषवास
व्रतादिकम् । दूरतो वर्जयेदेषा ममाजोत्सवदर्शनम् ।
न गच्छेत् तोर्थयात्रादिविवाहप्रेक्षणादिषु । सुखसुप्तं
सुखासीनं वसन्तञ्च यदृच्छया । आन्तरेष्वपि कार्य्येषु
पतिं नोत्थापयेत् क्वचित् । स्त्रीधर्मिणी त्रिरानन्तु
स्वमुखं नैव दर्शयेत् । स्ववाक्यं श्रावयेन्नापि यावत्
स्नाता न शुध्यति । सुस्नाता भर्तृवदनमीक्षतेऽन्यख
न क्वचित् । अथ वा मनसि ध्यात्वा पतिं भानुं विलो-
कयेत् । हरिद्रां कुङ्कुमञ्चैव सिन्दूरं कज्जलं तथा ।
कूर्पासकञ्च ताम्बूलं माङ्गल्याभरणं तथा । केशसंस्कार
कवरीकरकर्णविभूषणम् । भर्तुरायुष्यमिच्छन्ती दूरयेन्न
पतिव्रता । न रजक्या न हैतुक्या तथा श्रमणया न च ।
न च दुर्भगया क्वापि सणित्वं कुरुते सती । भर्तृवि-
द्वेषिणीं नारीं नैषा सम्भाषते क्वचित् । नैकाकिनी
क्वचिद्भूयान्न लग्ना स्न्याति च क्वचित् । नोदूखले न
नुषले न वर्द्धन्यां दृषद्यपि । न यन्त्रके न देहल्यां
सती चीपविशेत् क्वचित् । विना व्यवायसमयं प्राग-
ल्भ्यं न क्वचिच्चरेत् । यत्र यत्र रुचिर्भर्तुस्तत्र प्रेम-
बती सदा । इदमेव व्रतं स्त्रीणामयमेको वृषः परः ।
इयमेका देवपूजा भर्तुर्वाक्यं न लङ्वयेत् । क्लीवं वा
दुरवस्थं वा व्याधितं वृद्धमेव वा । सुस्थितं दुस्थितं
वापि पतिमेकं न लङ्घयेत् । हृष्टा हृष्टे विषण्णास्या
विषण्णास्ये प्रिये सदा । एकरूपा भवेत् पुण्या सम्पत्सु
च विपत्सु च । सर्पिर्लवणतैलादिक्षयेऽपि च
पतिब्रता । पतिं नास्तीति न ब्रूयादायासेषू न योजयेत् ।
तीर्थस्नानार्थिनी नारी पतिपादोदकं पिवेत् । शङ्करा-
दपि विष्णोर्वा पतिरेकोऽधिकः स्त्रियाः । व्रतोपवास-
नियमं पतिमुल्लङ्य नाचरेत् । आयुष्यं हरते भर्तुर्मृता
निरयमृच्छति । भर्तुः प्रत्युत्तरं दद्यान्नारी या क्रोध-
तत्परा । कुक्कुरी जायते ग्रामे शृगालो निर्जने
वने । स्त्रीणां हि परमश्चैको नियमः समुदाहृतः ।
कभ्यर्च्य चरणौ भर्तुर्भोक्तव्यं कृतनिश्चयम् । उच्चा-
सनं न सेवेत न ब्रजेत् परवेश्मसु । न त्रपाकरवाक्यानि
वक्तव्यानि कदाचन । अपवादो न वक्तव्यः कलहं दूरत-
स्त्यजेत् । गुरूणां सन्निधौ चापि नोच्चैर्ब्रूयान्न वा
हसेत् । या भर्त्तारं परित्यज्य रहञ्चरति दुर्मतिः ।
उलूकी जायते क्रूरा वृक्षकोटरशायिवी । ताड़िता
ताड़ितुं येच्छेत् सा नारी वृषदंशिका । कटाक्षयति
याऽन्यंवै केकराक्षी तु सा भवेत् । या भर्त्तारं परित्यज्य
मिष्टमश्नाति केवलम् । ग्रामे सा शूकरी भूयाद्बहि-
र्वा तुषविड्भुजा । बा हुङ्कृत्य प्रियं ब्रूते सा मूका
जायते खलु । या सपत्नीं सदेर्ष्येत दुर्भगा सा पुनः
पुनः । वृष्टिं विलुप्य भर्त्तुर्या कञ्चिदम्यं समीक्षते ।
काणा वा विमुखी वावि कुरूपापि च जायते । वाह्या-
दायान्तमालोक्य त्वरिता च जलासनैः । ताम्बूलैर्व्यज-
नैश्चैव पादमंवाहनादिभिः । तथैव चाटुवचनैः
खेदसंनोदनैः परैः । या पियं प्रीणयेत् प्रीता त्रिलोकी
प्रीणिता तया । मितं ददाति हि पिता मितं भ्राता
मितं सुनः । अमितस्य हि दातारं मर्तारं षूजयेत्
सदा । भर्त्ता देवो गुरुर्भर्त्ता धर्मतीर्थव्रतानि च ।
तस्मात् सर्वं परित्यज्य पतिमेकं समर्च्चयेत् । जीवहीनो
यथा देहः क्षणादशुचितां व्रजेत् । गर्तृहीना तथा
योषा सुस्नाताप्यशुचिः सदा । अमङ्गलेभ्यः सर्वेभ्यो
बिधवाह्यत्यमङ्गला । विधवादर्शनात् सिद्धिर्जातु यातुर्न
जायते । विहाय मातरं चैकां सर्वामङ्गलवर्जिताम् ।
तदाशिषमपि प्राज्ञस्त्यजेदाशीविषोपमाम् । कन्यां विवा-
हसमये वाचयेयुरिति द्विजाः । पत्युः सहचरी भूया
जीवतोऽजीवतः सदा । भर्त्ता सदानुयातव्यो देहवत्
पृष्ठ ४२१९
छायया स्त्रिया । चन्द्रमा ज्योत्स्नया यद्वद्विद्युत्वान्
विद्युता यथा । अनुव्रजन्ती भर्त्तारं गृहात् पितृवनं
मुदा । पदे पदेऽश्वमेधस्य फलं प्राप्नोत्यसंशयम् । व्याल-
ग्राही यथा व्यालं बलादुद्धरते बिलात् । एवमुत्क्रम्य
दूतेभ्यः पतिं स्वर्गं नयेत् सती । यमदूताः पलायन्ते
सतीमालोक्य दूरतः । अपि दुष्कृतकर्माणं समुत्सृज्य
च तत्पतिम् । न तथा विभिमो वह्नेर्न तथा विद्युतो
यथा । आपतन्तीं समालोक्य वयं दूताः पतिव्रताम् ।
तपनस्तप्यतेऽत्यन्तं दहनोऽपि च दह्यते । कम्पन्ते सर्व-
तेजांसि दृष्ट्वा पातिव्रतं महः । यावत् स्वलोमसंख्यास्ति
तावत् कोट्ययुतानि च । भर्ता स्वर्गसुखं भुङ्क्ते
रममाणा पतिव्रता । धन्या सा जननी लोके धन्योऽसौ
जनकः पुनः । धन्यः स च पतिः श्रीमान् येषां गेहे
पतिव्रता । पितृवंश्या मातृबंश्याः पतिवंश्यास्त्रयस्त्रयः ।
पतिव्रतायाः पुण्येन स्वर्गसौख्यानि भुञ्जते ।
शीलभङ्गेन दुर्वृत्ताः पातयन्ति कुलत्रयम् । पितुर्मातुस्तथा
पत्युरिहामुत्र च दुःखिता । पतिव्रतायाश्चरणी यत्र
यत्र स्पृशेद् भुवम् । तत्रेति भूमिर्मन्येत नात्र भारोऽस्ति
पावनी । बिभ्यत् पतिब्रतास्पर्शं कुरुते भानुमानपि ।
सोमो गन्धवहश्चापि स्वपवित्राय नान्यथा । आपः
पतिव्रतास्पशंमभिलिप्सन्ति सर्वदा । अद्य जाड्यविनाशो
नो जातास्त्वद्यापि पावनाः । गृहे गृहे न किं नार्य्यो
रूपलाबण्यगर्विताः । परं विश्वेशभक्त्यैव लभ्यते
स्त्री पतिव्रता । भार्य्या मूलं गृहस्यस्य भार्य्या मूलं
सुखस्य च । भार्य्या धर्मफलावाप्त्यै भार्य्या सन्तान-
वृद्धये । परलोकस्त्वयं लोको जीयते भार्य्यया द्वयम् ।
देवपित्रतिथीज्यादि नाभार्य्यः कर्म चार्हति । गृहस्थः
स हि विज्ञेयो यस्य गेहे पतिव्रता । ग्रस्यतेऽन्यः
पतिपदं राक्षस्या जरयाऽथ वा । यथा गङ्गावगाहेन शरीरं
पावनं भवेत् । तथा पतिव्रतादृष्ट्या शुभया पायनं
मवेत्” । “आर्त्तार्त्ते मुदिते हृष्टा प्रोषिते मलिना कृशा ।
मृते म्रियेत या पत्यौ साध्वी ज्ञेया पतिव्रता” शु० त० ।

पतिष्ठ त्रि० अतिशयेन पतिता इष्ठन् तृणो लोषः अतिश-

शयेन पतितरि ऋ० १० । १६५ । ५ उदा० । ईयसन् पतीयस्
तत्रार्थे त्रि० पञ्चमीष्म ब्रा० ५ । १ । १२ उदा० स्त्रियां ङीप् ।

पतेर पुंस्त्री पत--एर । १ खगे उज्ज्वल० स्त्रियां जातित्वात्

ङीष् । २ गन्तरि त्रि० ३ आढके ४ गर्त्ते च पु० संक्षिप्तसा०

पत्काषिन् त्रि० पादेन कषति गच्छति कष--णिनि षदादेशः

३ त० । पादेन गन्तरि । मट्टिः ३ । ४ उदाहरणं द्रष्टव्यम् ।

पत्तङ्ग न० पत्राङ्ग + पृषो० । रक्तचन्दने (वकम) वृक्षभेदे

शब्दर० । “पत्तङ्गं मधुरं शीतं पित्तश्लेष्मव्रणास्रनुत् ।
हरिचन्दनवज्ज्ञेयं विशेषाद्दाहनाशनम्” मावप्र० ।

पत्त पु० पतत्यनेन पत--बा० करणे तक् नेट् । पादे “निशी-

र्षतो निपत्ततः” अथ० ६ । १३१ । १

पत्तन न० पतत्यत्र बा० आघारे तन । १ नगरे महापु-

र्य्याम् अमरः २ मृदङ्गे हारा० ।

पत्तनाधिपति पु० ६ त० । राजभेदे भा० अ० १८६ अ० ।

पत्तरङ्ग पु० पट्टरङ्ग + पृषो० । (वकम्) वृक्षे

पत्ति पु० पद--तिन् । १ सेनायाम् । २ वीरे विश्वः क्तिन् । ३ गतौ

(१ रथः २ गजः ३ अश्वाः ५ सेनाः) एतत् संख्यान्विते
४ सेनाभेदे च स्त्री । “एको रथो गजश्चैको नराः पञ्च
पदातयः । त्रयश्च तुरशास्तज्ज्ञैः पत्तिरित्यभिधीयते”
भा० आ० १ अ० । ५ पञ्चपञ्चाशदात्मकनरसैन्ये “नराणां
पञ्चपञ्चाशदेषा पत्तिर्विधीयते” भा० उ० १५४ अ० ।

पत्तिगणक त्रि० पत्तिं गणयति गण--अक अकान्तत्वेऽपि

याज्रका० ६ त० स० । पत्तीनां गणयितरि । ततः उद्गात्रा०
भावे अञ् । पात्तिगणक तद्भावे ।

पत्तिन् त्रि० पद्भ्यां तेलति तिल--गतौ वा० डिन् । पद्भ्या

गन्तरि । “पत्रिनो भुवि चैकस्य गोपस्याल्पबलीयसः”
हरिवं० १०० अ० ।

पत्तिसंहति स्त्री ६ त० । पादाते सेनावृन्दे अमरः ।

पत्तूर पु० पत--बा० ऊर वल्लूरा० निपा० । १ शालिञ्चशाके

त्रिका० २ पत्तङ्गे रक्तचन्दने न० शब्दच० ।

पत्त्र(त्र) न० पत--ष्ट्रन् “झरोझरि सवर्णे” पा० वा तलोपः ।

१ वाहनमात्रे २ पर्णे ३ पक्षिणां पक्षे अमरः । ४ लेखना-
धारे(पात्) इति ख्याते पदार्थे ५ धातुमयपत्त्राकारे द्रव्ये
च “सुवर्णपत्राभरणा च कार्य्या सुलोहपार्श्वद्वयशृङ्ख-
लाभिः” ६ लिप्यां स्त्री ङीप् । ७ तेजपत्रे राजनि०
“पत्रकं मधुरं किञ्चित्तीक्ष्णोष्णं पिच्छिलं लघु ।
निहन्ति कफवातार्शोहृल्लासारुचिपीनसान्” भावप्र० । तत्र
लिखनाधारपत्रे “षाण्मासिके तु सम्प्राप्ते भ्रान्तिः
संजायते यतः । वात्राक्षराणि सूष्टानि पत्रारूढान्यतः
पुरा” ज्यो० त० । तस्य रञ्जनं यथा “सुवर्णरूप्यरङ्गाद्यै
रञ्जयेत् पत्रमुत्तमम् । सामान्योत्तममध्यानां पत्ररञ्जन-
मीरितम्” तत्प्रमाणम् “षड़ङ्गलाधिकं हस्त” पत्र-
मुत्तममीरितम् । मध्यम हस्तमात्रं स्यात् सामान्यं
पृष्ठ ४२२०
मुष्टिहस्तकम्” पत्रभङ्गप्रकारः “पत्रन्तु त्रिगुणीकृत्य
ऊर्द्ध्वे तु द्विगुणं त्यजेत् । शेषभागे लिखेद्वर्णान् गद्य
पद्यादिसंयुतान्” पत्रस्य रचनाक्रमः “राजलेखक
माहूय नृपो ब्रूयात् प्रयत्नतः । पत्रं कुरु यथायोग्यं
गद्यपद्यादिसंयुतम् । पण्डितद्वयमानीय लेखको
रहसि स्थितः । यथायोग्यानुसारेण पत्रं कुर्य्यान्मनो-
रमम् । दिनद्वयं त्रयं वापि विचार्य्य पण्डितेन वै ।
स्वभ्रान्तेर्दूषणं ज्ञात्वा विलिखेत् पत्रपुस्तके । सामान्य-
पत्रे संलिख्य रहसि श्रावयेन्नृपम् । नृपाज्ञया शुभे
पत्रे विलिखेद्राजलेखकः” लेखनप्रकारः “अङ्कुशं प्रथमं
दद्यान्मङ्गलार्थं विचक्षणः । मध्ये विन्दु समायुक्तमधः
सप्ताङ्कसंयुतम् । तदधः स्वस्ति विन्यस्य ततो गद्यं
सुशोभनम् । ततः श्रीशब्दरूपाणि पदन्यासक्रमं लिखेत् ।
भाषया संस्कृतेनापि कुशलं विलिखेत् सुधीः । ततः
शुभाशुभां वार्त्तां संस्कृतैः प्राकृतैस्तथा । ततः प्रमाण-
सन्देशं ततो वार्त्तां नियोजयेत् । कीर्त्तिप्रोतियुतं पद्यं
ततः किमधिकादिकम् । पत्रपेषणश्लोकञ्च अव्दमासादि-
संयुतम् । सर्वेषामेव पत्रेषु लिखनं चैवमीरितम् ।
सर्वेषामेब पत्राणां विधिं ज्ञात्वा लिखेत्तु यः । स्वदेशे
कीर्त्तिमाप्नोति तथा देशान्तरेष्वपि । एवं शास्त्रक्रमं
ज्ञात्वा यो लिखेद्राजपत्रकम् । स राजमन्त्रिभिः सार्द्धं
यशः प्राप्नोत्यनुत्तमम् । शास्त्रसन्दर्भमज्ञात्वा यो लिखे-
द्राजपत्रकम् । स राजमन्त्रिभिः सार्द्धं दुर्यशो
महदाप्नुयात्” । पत्रनयनक्रमः । “राजपत्रं नयेन्मूर्द्ध्रि
ललाटे पात्रमन्त्रिणाम् । गुरुपत्रं नयेन्मूर्ध्नि ब्रा-
ह्मणानां तथैव च । यतिसन्न्यासिनाञ्चैव स्वामिनश्च
तथैव च । सादरेणैव यत्नेन तथा मूर्द्धनि धारयेत् ।
मार्य्यापुत्रस्य मित्रस्य हृदये धारयेत् सुधीः । प्रवोराणां
कण्ठदेशे पत्रधारणमीरितम् । एतेषाञ्चैव पत्राणामुक्त-
धारणलक्षणम् । अन्येषामपि षत्राणां नियमो नात्र
दर्शितः” । पत्रपठनप्रकारः “पत्रं घृत्वा नमस्कृत्य
पूर्वाग्रं स्याप्रयेत् सुधी । दक्षिणाग्रं तु सदसि नृपाग्रे
राजलेखकः । पत्रं वितत्य सदसि द्विवारं मनसा पठेत् ।
स्फुटं पश्चात् प्रवक्तव्यमक्षीभी राजलेखकः । रहसि
श्रावयेत् पत्रं शुभं वा यदि वाऽशुभम् । पत्रं श्रुत्वा
विदित्वार्थं सभायां श्रावयेत्ततः । रहस्यपत्रं रहसि
नृपाग्रे श्रावयेद्द्विजः । अशुभं नैव सदसि शुभं पत्रं
नृपाज्ञया । एवं क्रमेण पत्रार्थं श्रावयित्वा द्विजो-
त्तमः । नृपतेः सन्निधौ स्थित्वा नृपाज्ञामनुवर्त्तते” ।
पत्रचिह्नानि “ऊर्द्ध्वे षड़ङ्गुलं त्यक्त्वा वर्तुलं चन्द्र-
विम्बवत् । कस्तूरीकुङ्कुमैः कुर्य्याद्राजपत्रं सुचिह्नितम् ।
मन्त्रिणां कुङ्कुमेनैव पण्डितस्यैव चन्दनैः । गुरूणां
चन्दनेनैव सिन्दूरेणैव स्वामिनः । भार्य्यायाश्चाप्यलक्तेन
चन्दनैः पितृपुत्रयोः । सन्न्यासिनां चन्दनेन यतीनां
कुङ्कुगेन च । रक्तचन्दनपङ्केन भृत्यस्य समुदीरितम् ।
शोणितेनैव शत्रूणां पत्रचिह्नं प्रकल्पयेत् । एतेषाञ्चैव
सर्वेषां यथायोग्यानुसारतः । पत्रस्योर्द्ध्वे तु मतिमान्
कुर्य्यात् चिह्नं सुवर्तुलम्” । राजपत्रस्य
कोणच्छेदनप्रकारः “दक्षिणे पत्रकोणस्य अधस्तात् छेदयेत्
सुधीः । एकाङ्गुलप्रमाणेन राजपत्रस्य चैव हि” ।
राजपत्रादेः पदन्यासः “महाराजाधिराजञ्च
दानशौण्डं तथैव च । तथा सच्चरितं योज्यं कल्पवृक्षादिकं
न्यसेत् । यथायोग्यानुसारेण तथैव गुणभेदतः ।
राजपत्रेषु सर्वेषु पदन्यासक्रमं विदुः” । मन्त्रिपत्रस्य
“प्रवरं गुणभेदेन तथा सच्चरितादिकम् । विन्यस्य विलि-
खेत् प्राज्ञो मन्त्रिपत्रे पदक्रमम्” । पण्डितस्य
“संख्यावद्वन्दितपदं शास्त्रार्थनिपुणादिकम् । पण्डिता-
नाञ्च पत्रेषु विलिखेद्वै पदक्रमम्” । गुरुपत्रस्य
“सांख्यसिद्धान्तनिपुणं सनमस्कारकं पदम् । विन्यस्य
विलिखेत् प्राज्ञो गुरुपत्रे पदक्रमम्” । स्वामि-
पत्रस्य “प्रवर्य्यं सनमस्कारं प्राणप्रियादिकं पदम् ।
विन्यस्य विलिखेद्धीमान् स्वामिपत्रे पदक्रमम्” ।
मार्य्यायाः “प्राणप्रियापदं साध्वीपदं सच्चरिता-
दिकम् । भार्य्यापत्रे लिखेद्विद्वान् पदक्रममनुत्तमम्” ।
पुत्रस्य “प्राणतुल्यपदं तद्वत्तथा सच्चरितादिकम् ।
आशीर्वचनसंयुक्तं पुत्रपत्रे पदक्रमम्” । पितृ-
पत्रस्य “प्रभुवर्य्यं नमस्कारं तथा सच्चरितादिकम् ।
विन्यस्य विलिखेत् पुत्रः पितृपत्रे पदक्रमम्” ।
सन्न्यासिपत्रस्य “सर्बवाञ्छाविनिर्मुक्तं सर्वशास्त्रार्थ-
पारगम् । सन्न्यासियतिपत्रेषु विलिखेच्च पदक्रमम्” ।
सामान्यस्य “सामान्यभृत्यशत्रूणां विनियोज्यामुकं
प्रंति । शस्त्रावशेषितपदं छागतुल्यादिकं तथा । एतेषा-
मेव पत्रेषु यथायोम्यानुसारतः । विन्यस्यः विलिखेत्
प्राज्ञः पदक्रममनुत्तमम्” । श्रीशब्दविन्याससंख्या यथा
“षड्गुरोः स्वामिनः पञ्च द्वे भृत्ये चतुरो रिपौ ।
श्रीशब्दानां तयं मिले एकैकं पुत्रमार्य्ययोः” पत्रकौ० ।
पृष्ठ ४२२१
देवभेदे दलरूपपत्रविशेषाणां प्रीतिकरत्वमुक्तं यथा
“पत्राण्यपि सपुष्पाणि हरेः प्रीतिकराणि च । प्रव-
क्ष्यामि नृपश्नेष्ठ! शृणुष्व गदतो मम । अपामार्गकं
प्रथमं तस्माद् भृङ्गारकं परम् । तस्मात्तु खादिरं श्रेष्ठं
ततश्च शमीपत्रकम् । दुर्वापत्रं ततः श्रेष्ठं ततोऽपि
कुशपत्रकम् । पत्रं तस्माद्दमनकं ततो विल्वस्य पत्रकम् ।
विल्वपत्रादपि हरेस्तुलसीपत्रमुत्तमम् । एतेषां च यथा
लब्धैः पत्रैर्वा योऽर्च्चयेद्धरिम् । सर्वपापविनिर्मुक्तो
विष्णुलोके महीयते” नरसिंहपु० ५३ अ० । देवीप्री-
तिकरपत्राणि यथा “अपामार्गस्य पत्रन्तु ततो भृङ्गा-
रपत्रकम् । ततोऽपि गन्धिनीपत्रं वलाहकमतः परम् ।
तस्मात् खदिरपत्रं तु वञ्जुलस्तवकस्तथा । आम्रन्तु
वकगुच्छस्तु जम्बूपत्नं ततः परम् । वीजपूरस्य पत्रं तु
ततोऽपि कुशपत्रकम् । दूर्वाङ्कुरं ततः प्रोक्तं
शमीधत्रमतः परम् । पत्रमामलकं तस्माद्दामपत्रमतःपरम् ।
सर्वतो विल्वपत्रन्तु देव्याः प्रीतिकरं मतम्” कालिकापु० ।

पत्त्रक न० पत्त्र + स्वार्थे क तदिव कायति कै--क वा ।

१ वृक्षस्य पर्णे २ पत्रावल्यां शब्दर० । ३ तेजपत्रे राजनि०
४ शालिञ्चशाके पु० रत्नमाला । ५ पत्त्रभङ्गे न० शब्दच० ।

पत्त्रकाहला स्त्री १ पिञ्जलायां २ पत्त्रशब्दे च हारा० ।

पत्त्रगुप्त पु० पत्त्रं गुप्तमस्य परनि० । (तेकाटा सिजु)

त्रिकण्टे शब्दच० ।

पत्त्रघना ६ त० ३ त० । सातलावृक्षे राजनि० ।

पत्त्रङ्ग न० पत्त्रमज्यते अनेन अन्ज--करणे घञ् शक० ।

रक्तचन्दनाकारे (वकम) पृक्षे शब्दच० ।

पत्त्रझङ्कार पु० पत्त्रे झङ्कारोऽस्य । पुरोटिवृक्षे (रायभटी) त्रिका० ।

पत्त्रणा स्त्री पत्त्रं नम्यतेऽत्र नम--बा० ड संज्ञात्वात्

णत्वम् । पत्ररचनायाम् हारा० ।

पत्त्रतण्डुली स्त्री पत्त्रे तण्डुलाः सन्त्यस्याः अच् गौरा०

ङीष् । यवतिक्तायाम् राजनि० ।

पत्त्रतरु पु० पत्त्रप्रधानस्तरुः शा० त० । दुष्खदिरे राजनि०

पत्त्रदारक पु० पत्त्रमिव दारयति दारि--ण्वुल् । क्रकचे

(करात) त्रिका० ।

पत्त्रनाडिका स्त्री ६ त० । पर्णसिरायाम् जटा० ।

पत्त्रपरशु पु० पत्त्रे धातुमयपत्त्रे परशुरिव । (छेनी) ख्याते

स्वर्णकारयन्त्रभेदे । पत्त्रपर्शुरप्यत्र शब्दर० ।

पत्त्रपाल पुं असिसुतायां छुरिकायां हेमच० ।

पत्त्रपाली स्त्री पत्राकारा पालिरग्रं यस्याः वा ङीप् ।

(काँचि) कर्त्तर्य्यां हलायु० तस्याः पर्णतुल्याग्रत्वात्तथात्वम् ।

पत्त्रपाश्या स्त्री पत्रमिव पाश्या । स्वर्णादिरचितललाटा-

लङ्कारभेदे (टीका) अमरः ।

पत्त्रपिशाचिका स्त्री पत्त्रेण पिशाचीव इवार्थे कन् ।

जलवारणसाधने यन्त्रभेदे (टीका) त्रिका० ।

पत्त्रपुष्प पु० पत्त्रं पुष्पमिवास्य । १ रक्ततुलस्यां शब्द०

२ तुलस्यां स्त्री टाप् शब्दमाला । क्षुद्रपत्त्रतुलस्याम् स्त्री
रत्नमाला ङीप् । कप् । पत्त्रपुष्पक भुर्जपत्रे शब्दमा० ।

पत्त्रबन्ध पु० पत्त्राकारः बन्धः । पुष्परचनाभेदे शब्दरत्ना० ।

पत्त्रभङ्ग पु० पत्राकारः भङ्गः रचना । स्तनकपोलादौ

कस्तूरकादिरचितपत्रश्रेण्यां तिलकभेदे हेम० पत्रभङ्गि,
पत्त्रभङ्गीत्यपि तत्र स्त्री शब्दर० ।

पत्त्रमञ्जरी स्त्री ६ त० । १ पर्णस्याग्रभागे २ पत्राकारमञ्जरी-

युते तिलकभेदे हेमच० ।

पत्त्रमाल पु० पत्त्राणां माला यत्र । १ वेतमे नैघण्टु० ६ त० । २ तत्समुदाये स्त्री ।

पत्त्रमूल पु० ६ त० । पर्णस्य मूले ततः प्रकारे स्थूला० कन् ।

पत्रमूलक तत्प्रकारे न० । तत्र गणे पत्रमूलेति व्यस्तं
समस्तञ्च तेन पत्रक मूलक तत्तत्प्रकारे न०

पत्त्रयौवन न० पत्रस्य यौवनमत्र । नवपल्लवे जटाध०

पत्त्ररथ स्त्री पत्त्रं पक्षो रथ इव यस्य । खगे अमरः

जातित्वात् स्त्रियां ङीष् ।

पत्त्र(रे)लेखा स्त्री पत्त्राकारा(रे)लेखा । पत्त्रभङ्गे तिललभेदे हेमच० ।

पत्त्रल न० पत्त्रमिवाकारोऽस्त्यस्य सिध्मा० लच् । द्रप्से

(पातालादै) हेमच० ।

पत्त्रलता स्त्री पत्त्राकारा लता यत्र । पत्त्राकारे १ तिलक-

भेदे हेमच० शा० त० । २ पत्त्रप्रधानलतायाम् ।

पत्त्रलबण न० पत्रविशेषेण पक्वं लबणम् शा० त० । सुश्रु-

तोक्ते लबणभेदे “गन्धर्वहस्तकमुष्ककनक्तमालाटरूष-
कपूतीकारग्बधचित्रकादीनां पत्राण्यार्द्राणि लवर्णेन
सहोद्रखलेऽवक्षुद्य स्नेहघटे प्रक्षिप्यावलिप्य गोशकृद्भिर्द्दा-
हयेदेतत् पत्रलबणमुपदिशन्ति वातरोगेषु” ।

पत्त्रवल्लरी स्त्री पत्त्रयुक्ता वल्लरीव । तिलकभेदे पत्त्रमङ्गे

हेमच० पत्त्रवल्लीत्यप्यत्र ।

पत्त्रवाह पु० पत्त्रं पक्षं लिपिं वा वहति वह--अण् उप०

स० । १ पक्षवाहे खगे २ शरे जटा० ३ लिपिवाहके त्रि० ।

पत्त्रविशेषक न० पत्त्रमिव विशेषो यत्र कप् । तिलकभेदे

पत्त्रवृश्चिक पु० पत्त्रमिव वृश्चिकः । पत्त्राकारे वृपिकभेदे

सुश्रु० कीटशब्दे दृश्यम् ।
पृष्ठ ४२२२

पत्त्रवेष्ट पु० पत्त्रमिव वेष्ट्यते वेष्ट--कर्मणि घञ् । ताड़ङ्के

रघुः १६ । १७ श्लो० ।

पत्त्रशाक पत्त्रात्मकं शाकम् । “पत्रं पुष्पं फलं नालं कन्दं

संस्वेदजं तथा । शाकं षड्विधमुद्दिष्टं गुरु विद्याद्यथोत्त-
रम्” भावप्र० उक्ते शाकवर्गमध्ये पत्रात्मकशाके । पत्रशा-
कानि च वास्तूकादीनि शर्षपान्तानि, पुष्पशाके कदली-
पुष्पशाल्मलीपुष्पे, फलशाकानि कुष्माण्डादिकण्टकारी-
फलान्तानि, नालशाकं सर्षपनालम् । कन्दशाकानि
सूरणादिशालूकान्तानि, संस्वेदजशाकं शिलीन्ध्रादि”
तत्र दृश्यम् ।

पत्त्र(शि)सिरा स्त्री ६ त० । १ पत्त्रनाड्यां २ पत्त्रभङ्गे हारा०

पत्त्रशृङ्गी स्त्री पत्त्रं शृङ्गमिवास्याः ङीष् । द्रवन्तीलतायाम्

राजनि० ।

पत्त्रश्रेणी स्त्री पत्त्राणां श्रेणीव । १ द्रवन्तीलतायां

राजनि० ६ त० । २ पर्णानां पङ्क्तौ च ।

पत्त्रश्रेष्ठ पु० पत्त्रं श्रेष्ठं यस्य । विल्ववृक्षे राजनि० ।

पत्त्रसुन्दर पु० पत्त्रं सुन्दरमस्य । स्वनामख्याते वृक्षभेदे

मेदि० ।

पत्त्रसूचि स्त्री न० पत्त्राणां सूचिरिव । कण्टके त्रिका० वा ङीप् ।

पत्त्रहिम न० पत्त्रेषु हिमं यतः । हिमदुर्द्दिने त्रिका०

पत्त्राख्य न० पत्त्रेति आख्या यत्र । १ तेजशत्रे शब्दच०

२ तालीशपत्रे राजनि० ।

पत्त्राङ्ग न० पत्त्रमिबाङ्गमस्य । १ रक्तचन्द्रनाकारे काष्ठभेदे

(वकम) अमर । २ भूर्जपत्रवृक्षे ३ पद्मके च मेदि० ।

पत्त्राङ्गुलि स्त्री पत्रमिवाङ्गुलयो यत्र । पत्त्रभङ्गे तिलकभेदे

अमरः ।

पत्त्राञ्जन न० पत्त्रमज्यतेऽनेन अन्ज--करणे ल्युट् । मस्याम् । शब्दर० ।

पत्त्राढ्य त्रि० पत्त्रैराढ्यम् । १ बहुपत्त्रयुक्ते २ पिष्पली-

मूले ३ पर्वततृणे च न० राजनि० ।

पत्त्रान्य न० पत्राङ्ग + पृषो० । (वकम) काष्ठभेदे राजनि० ।

पत्त्राम्ला स्त्री पत्त्रेणाम्ला । (चुकोपालङ्ग) शाकभेदे नैधण्टु०

पत्त्रालु पु० पत्त्र + अस्त्यर्थे आलु । १ कासालौ २ इक्षुदर्भे

च राजनि० ।

पत्त्रावलि न० पत्त्राणामावलयो यस्मात् । १ गैरिके शब्दाच० ६ त० । २ पत्त्रपङ्क्तौ च ।

पत्त्रावली स्त्री पत्त्राणामावलीव । १ पत्त्रभङ्गे तिसकभेदे

शब्दच० ६ त० । २ पत्त्रश्रेणौ च

पत्त्रिका स्त्री पत्री + स्वार्थे क कापि ह्रस्वः । १ लिप्याम् ।

पत्रं विद्यतेऽस्याः ठन् । २ प्रशस्तपत्रयुक्तासु नवसु कदल्या-
दिषु विपत्रिकाशब्दे ३९९० पृ० उदा० दृश्यम् । ३ पत्त्रि-
काख्ये क्र्पूरभेदे (पातकपुर) त्रिकाण्डशेषः ।

पत्त्रिकाख्य पत्त्रिका आख्या यस्य । कर्पूरभेदे राजनि० ।

पत्त्रिन् त्रि० पत्त्र + अस्त्यर्थे इनि । १ पर्णयुक्ते २ शरे पु०

३ खगे अमरः ४ श्येनखगे ५ वृक्षे च पु० राजनि० ५ पर्वते
पु० मेदि० ६ ताले ७ श्वेतकिणिहीवृक्षे ८ गङ्गपत्त्र्यां
९ पाठायाञ्च राजनि० १० पल्लवे स्त्री शब्दच० ङीप् ।

पत्त्री स्त्री पत--ष्ट्रन् ङीष् । लिपौ

पत्त्रोपस्कर पु० पत्त्रेणोपस्करोऽस्य । कासमर्दे हारा०

पत्त्योर्ण न० पत्त्रजाता ऊर्णा साधनत्वेनास्त्यस्य अच् ।

धौतकौषेये पट्टसूत्रमयवस्त्रे अमरः वदरादिपर्णजातकृ-
मिजातीर्णाजातत्वात्तस्य तथात्वम् ।

पत्त्र्य त्रि० पत्त्रस्य हितं यत् । श्योनाके वृक्षे पु० अमरः

पत्नी स्त्री पति + “पत्युर्नो यज्ञसम्बन्धे” पा० नः, ङीप् च ।

१ पतिकृतयज्ञफलभोक्त्र्यां विवाहितायां स्त्रियाम् अमरः
“पत्नीमूलं गृहं पुंसां यदि छन्दोऽनुवर्त्तिनी । गृहाश्रम
समं नास्ति यदि भार्य्या वशानुगा । तया धर्मार्थकामानां
त्रिवर्गफलमश्नुते । प्राकाम्ये वर्त्तमाना तु स्नेहान्न तु
निवारिता । अवश्या सा भवेत् पश्चाद् यथा व्याघि-
रुपेक्षितः । अनुकूला न वाग्दष्टा दक्षा साध्वी प्रियं-
वदा । आत्मगुप्ता स्वामिभक्ता देवता सा न मानुषी ।
अनुकूलकलत्रो यस्यस्य स्वर्ब इहैव हि । प्रतिकूत्र
कलत्रस्य नरको नात्र संशयः । स्वर्गोऽपि दुर्लभं ह्येत-
दनुरागः परस्परम् । रक्त एको विरक्तोऽन्यस्तस्मात्
कष्टतरं नु किम्? । गृहवासः सुखार्थाय पत्नीमूलं गृहे
सुखम् । सा पत्नी या विनीता स्याच्चितज्ञा वशवर्त्तिनी ।
दुःखदाऽन्या सदा खिन्ना चित्तभेदात् परस्परम् । प्रति
कूलकलत्रस्य द्विदारस्य विशेषतः । योषित् सर्वा
जलौकेव भूषणाच्छादनाशनैः । सुभूत्यापि कृता नित्यं पुरुषं
ह्यपकर्षति । जलौका रक्तमादत्ते केवलं सा तपस्विनी ।
इतरा तु धनं वित्तं मांसं वीर्य्यं बलं सुखम् ।
सशङ्का बालभावे तु यौवने विसुखी भवेत् । तृणवन्मन्थते
पश्चाद्वृद्धभावे स्वकं पतिम् । अनुकूला न श्राग्दुष्टा
दक्षा साध्वी पतिव्रता । एभिरेव गुणैर्युक्ता श्रीरेव
स्त्री न संशयः । या हृष्टमनसा नित्यं स्थानमान
विचक्षणा । भर्तुः प्रीतिकरी नित्यं सा भार्य्या हीतरा
ज्वरा” दक्षसं० ।

पत्नीशाला(ल) न० स्त्री ६ त० वा क्लीवत्वम् । पत्न्यधिष्ठितशालायाम् ।

पत्नीसंनहन न० ६ त० । मेखलया योक्त्रेणं व्रा प्रतिप्रस्थातृ-

यज्ञदीक्षार्थे यजमानपत्न्या बन्धनभेदे कात्या० श्रौ०
७ । ४ । ६ सू० ८ । १ । ७ सूत्रे च दृश्यम् ।
पृष्ठ ४२२३

पत्नीसंयाज पु० वैदिके कर्मभेदे स च कात्या० श्रौ० ३ । ७ । ७

सूत्रादौ उक्तस्तत्रैव दृश्यः । पत्नीसंयाजनमप्यत्र न० ।
“जाथन्या पत्नीसंयाजनम्” कात्या० श्रौ० ६ । ९ । १४

पत्न्याट पु० पत्नी अटत्यत्र अट--आधारे घञ् । पत्न्य-

गारे त्रिका० ।

पत्मन् पु० पत--भावे मनिन् । १ पतने करणे मनिन् ।

२ पतनसाधने यजु० ८ ४८ ऋ० ५ । ७ । ७

पत्वन् पु० पतत्यत्र + पत--आधारे वनिप् । मार्गे यजु० २२ । २९

उज्ज्वलदत्तेन उणादिसूत्रे पदीति पठित्वा पद्वन्
इत्युदाहृतम् वेददीपकारस्तु तत्र पतिं मत्वा तन्मन्त्रव्या-
ख्याने पतेः वनिपमाह ।

पत्सल पु० पतत्यत्र पत--आधारे सरन् रस्य लश्च । मार्गे उज्ज्वद० ।

पथ गतौ भ्वा० पर० सक० सेट् । पथति एदित् अपथीत् ।

ज्वला० पथः पाथः प(पा)थयति । पपाथ पेथतुः ।

पथ गतौ वा चु० उभ० पक्षे भ्वा० पर० सक० सेट् इदित् । पन्थ-

यति ते पन्थति । अपपन्थत् त । अपन्थीत् इदित् पन्थ्यते

पथ पु० पथत्यत्र पथ--घञर्ये आधारे क । मार्गे त्रिका० ।

पथक त्रि० पथे कुशवः कन् । १ मार्गकुशले २ कपिलद्राक्षायां स्त्री

पथिक त्रि० पन्थानं गच्छति पथिन् + कन् । देशान्तरयानाय

गृहान्निःसृत्य पथिगन्तरि राजनि० ।

पथिकसंहति पु० ६ त० । पान्थसमूहे हारा० । पथिकसंघातादयोऽप्यत्र ।

पथिकार त्रि० पन्थानं करीति कृ--अण् उप० स० । मार्ग-

कारके, ततः कुर्वा० ण्य । पाथिकार्य्य तदपत्ये पुंस्त्री० ।

पथिदेय न० पथि नार्गे देयम् अलुक्स० । राज्ञे देये करभेदे

हारा० ।

पथिद्रुम पु० पथ--इन् कर्म्म० । १ खदिरवृक्षे जटाध० २ श्वेतखदिरे राजनि० ।

पथिन् पु० पथ--आधारे इनि । १ मार्गे तद्भेदलक्षणादिकं यथा

“त्रि शद्धनूंषि विस्तीर्णो देशमार्गस्तु तैः कृतः ।
विंशद्धनुर्ग्राममार्गः सीमामार्गो दशैव तु । धनूंषि
दशविस्तीर्णः श्रीमान् राजपथः स्मृतः । नृवाजिरथनागा-
नामसम्बाधः सुसञ्चरः । धनूंषि चैव चत्वारि शाखा
रथ्यास्तु निर्मिताः । त्रिकराश्चोपरथ्यास्तु द्विकराप्युप-
रथ्यिका । जङ्घापथश्चतुष्पादस्त्रिपादस्तु गृहान्तरम् ।
वृतीपादस्त्वर्द्वपादः प्राग्वंशः पादकः स्मृतः । अवकरः
परीवाहः पादमात्रः समन्ततः” देवीपु० । पथिगमनगुणाः
“अध्वा मेदःकफस्थौल्यसौकुमार्य्यादिनाशनः । यत्तु
चंक्रमणं नातिदेहपोड़ाकरं भवेत् । तदायुर्बलमेधा-
ग्निप्रदमिन्द्रियशोधनम्” राजवल्लभः । ३ धर्माचारे च
“महाजनोयेन गतः स पन्थाः” मा० व० यक्षप्रश्ने ।

पथिरक्षस् पु० पन्थानं रक्षति रक्ष--असुन् ६ त० । १ रुद्रभेवृ

यजु० १६८६ २ मार्गरक्षके त्रि० । णिनि । पथिरक्षिन्
तत्रार्थे ऋ० १० । १४ । ११ ।

पथिल पु० पथे--गतौ इलच् । पथिके उज्ज्वल० ।

पथिवाहक त्रि० पन्थानं वाहयति प्रापयति वाहि--ण्वुल् ।

१ मार्गवाहके २ शाकुनिके ३ निष्ठुरे च शन्दमाला ।

पथीन नामधातुः पन्था इवाचरति पथिन्--क्विप् दीर्पः

मार्गस्येवाचरणे अक० सेट् । पथीनति अपथीनीत् ।
एवं सथीन ऋभुक्षीण नामधातुः तत्तत्तुल्याचरणे ।

पथेष्ठा त्रि० पथे मार्गे तिष्ठति स्था--क्विप् अलुक्स० वेदे षत्वस् ।

मार्गे वर्त्तमाने ऋ० ५ । ५० । ३ । लोके तु पथस्थ इत्येक ।

पथ्य त्रि० पथि साधु दिगा० यत् इनो लोपः । १ मार्गसाघौ

पथोऽनपेतः यत् । २ हिते चिकित्सादौ ३ हितकारका-
रकभोज्यद्रव्यभेदे । पथ्यञ्च अपय्यशब्दे २६६ पृ० सुश्रु-
तोक्त हिताहितीध्याये दर्शितम् । रोगभेदे पथ्यापश्ह्यङ्ग
वैद्यके प्रसिद्धं विस्तरभयान्नोक्तम् । ४ हरितकीवृक्षे पु०
शब्दमाला अमरे स्त्री । ५ मृगेर्वारौ ६ चिर्भिटायां
७ बन्द्याकर्कट्याञ्च स्त्री राजनि० । ८ मात्रावृत्तभेदे स्त्री
“त्रिष्वंशकेषु दलयोराद्येषु दृश्यते यस्याः । पथ्येति
नाम तस्याः प्रकीर्त्तितं नागराजेन” वृ० र० ।

पथ्यशाक पु० पथ्यं शाकमस्य । तण्डुलीयशाके राजनि० ।

पथ्यादिगुग्गुलु पु० औषधिविशेषे यथा “पथ्या विभीता-

मलकीफलानां शतं क्रमेण द्विगुणाभिवृद्धम् । प्रस्थेन
युक्तञ्च पलंक्रमेण द्रोणे जले संस्थितमेकरात्रम् ।
अर्द्धावशेषं क्वथितं कषायं भाण्डे पचेत्तत् पुतरेव लोहे ।
अमूनि वह्नेरवतार्य्य दद्यात् द्रव्याणि संचूर्ण्य
पलार्द्धकानि । विड़ङ्गदन्तीत्रिफलागुडूचीकृष्णात्रिवृन्नाग-
रकोषणानि । यथेष्टचेष्टस्य नरस्य शीघ्रं हिमाष्व-
पानानि च गोजनानि । निषेव्यमाणी विनिहन्ति
रोगान् सगृध्रसीं नूतनखञ्जताञ्च । प्लीहानमुग्रं
जौरार्त्तिगुल्मं पाण्डुत्वकण्डुत्वविवातरक्तम् । पथ्यादिको
गुग्गुलुरेष नाम्ना ख्यातः क्षितावप्रमितप्रमावः । बलेन
नागेन समं मनुष्यं जवेन कुर्य्यात्तुरगेण तुल्यम् । आयुः-
प्रकर्षं विदधाति चक्षुर्बलं तथापुष्टिकरो विषघ्नः । क्षतम्य
सन्धानकरो विशेषाद्रोगेषु शस्तः सकलेवु तजज्ञैः” मावप्र० ।
पृष्ठ ४२२४

पथ्यावक्त्र न० “युजोर्जेन सरिद्भर्त्तः पथ्यावक्त्रं प्रकीर्त्तितम्”

वृ० र० उक्तलक्षणे मात्रावृत्तभेदे ।

पद स्थैर्ये भ्वा० पर० सक० सेट् । पदति अपादीत् अपदीत् अपादीत् । पपाद पेदतुः ।

पद गतौ दि० आ० सक० अनिट् । पद्यते अपादि पेदे पन्नः

आ + विपत्तौ आपत्तौ च णिच् आपादन व्यापकाभावेन
व्याप्याभावकल्पने प्राप्तौ च ।
  • उद् + उत्पत्तौ उद्भवे जनने अक० ।
  • प्रति + उद् झटित्युद्भवे अक० ।
  • वि + उद्--शब्दस्यावयवार्थबोधने व्युत्पत्तिः ।
  • उप + युक्तियोगे उपपद्यते उपपत्तिः ।
  • अभि + उपसान्त्वने । कुमा० ४ श्लोकः
  • निस् + निष्पत्तौ अवस्थान्तरप्राप्तौ अक० ।
  • प्र + प्राप्तौ सक० । प्रपन्नः
  • प्रति + खीकारे अङ्गीकारे सक० प्रतिपत्तिः प्रतिपन्नः ।
  • वि + प्रति + संशये सक० विप्रतिपन्नः ।
  • वि + मरने नाशे अक० । विपद्यते विपन्नः विपद् ।
सम् + सम्यग् वृद्धौ अक० सम्पद्यते सम्पद् ।

पद गतौ अद० चु० आत्म० सक० सेट् । पदयते अपपदत ।

पद पु० पद्यते गच्छत्यनेन करणे क्विप् । पादे “पदादयः पृथक्

शब्दा इत्येके “पदङ्घ्रिश्चरणोऽस्त्रियाम्” अमरः ।

पद न० पद--अच् । १ व्यवसाये २ त्राणे ३ स्थाने ४ चिह्ने

५ पादे ६ वस्तुनि च अमरः । ७ विभक्त्यन्तशब्दभेदे
“सुप्तिङन्तं पदम्” पा० । ८ वाक्यैकदेशे च “वर्णाः
पदं प्रयोगार्हानन्वितैकार्थबोधकाः” सा० द० । ९ श्लोस-
चरणे १० किरणे पु० मेदि० ११ अर्थबोधकशक्तिविशिष्टे
नैयायिकाः “वृत्तिमत्त्वं पदत्वमिति” तल्लक्षणात् ।

पदक त्रि० पदं वेत्ति क्रमा० वुन् । १ वेदमन्त्रपदविभाजकग्र-

न्थस्याध्येतरि २ तद्वेत्तरि च ३ गोत्रप्रवर्त्तकर्षिभेदे पु० ततः
अपत्ये इञ् पादकि तदपत्ये पुंस्त्री० । यस्का० बहुत्वे
लुक् । पदकास्तद्गोत्रापत्येषु ।

पदकार पु० पदं पदविभागं करोति कृ--अण् उप० स० ।

वेदानां मन्त्वपदविभाजकग्रन्थकर्त्तरि

पदक्रम पु० ६ त० । वेदमन्त्राणां पदविभाजकक्रमे । तमधीते

वेत्ति वा उक्था० ठक् । पादक्रमिक तद्ग्रन्थाध्येतरि
तद्वेत्तरि च त्रि० ।

पदक्रमक न० पदं क्रमश्च तौ वेत्त्यधीते वा वुन् । १ पदक्र-

मयोर्वेत्तरि २ तद्ग्रन्थाध्येतरि च ।

पदग त्रि० पादेन गच्छति गम--ड पादस्य पद इत्यादेशः । पदातिके अमरः ।

पदगोत्र न० ६ त० । “भारद्वाजमाख्यातं भार्गवं नाम, वासिष्ठ

उपसर्गः, निपातः काश्यपः” इत्येषु यजु० प्रातिशाख्यो-
क्तेषु भारद्वाजादिषु पदानां गोत्रेषु । “चत्वायिपदजा-
तानि आख्यातगामनिपातोसर्गाः” इति निरुक्तोक्तानां च
तेषाम् चतुर्णां भारद्वाजादिगोत्रत्वम् ।

पदजात न० ६ त० । आख्यातनामनिपातोपसंसर्गरूपे शब्दसमूहे निरुक्त० ।

पदञ्जल पु० ऋषिभेदे ततः उपका० गोत्रप्रत्ययस्य बहुत्वेलुक् ।

पददेवता स्त्री पदानां आख्यातादीनां देवता । आख्या-

दीनां सोमादिषु देवतासु “सौम्यमाख्यातं नाम
वायव्यमाग्नेय उपसर्गः निपातोवारुणः” वाजपोयिप्रतिशा-
ख्यम् । ६ । ६१

पदनिधन न० पदमधिकृत्य निधनम् । सामभेदे लाद्यायनश्रौ सू० ६ । १ १ । १

पदन्यास पु० ६ त० । १ चरणार्पणे । पदस्येव न्यासोऽऽत्र ।

२ गोक्षुरवृक्षे शब्दच० तन्त्रोक्ते अन्नपूर्णामन्त्रस्थ पदानां
तत्तद्दङ्गेषु ३ न्यासे च यथाह तन्त्रसा० ज्ञानार्णवे “एकमेकं
पुनश्चैकं पुनरेकं द्वयं ततः । चतुश्चतुस्तथा द्वाभ्यां
पदान्येतानि पार्वति! । पदान्येतानि देवेशि । नवद्वारेषु
विन्यसेत् । मूर्द्धादिगुह्यपर्य्यन्तं पुनस्तेषु वरानने! ।
गुह्यादिषह्मरन्ध्रान्तं पदानां नवकं न्यसेत्” । तदुक्तं
तत्रैव “ब्रह्मरन्ध्रास्यहृदयमूलाधारेष्वनुक्रमात् । चतुर्वी-
जानि विम्यस्य परेष्वन्यांश्च विन्यसेत् । भ्र्मध्यनासिका
कण्ठनाभिलिङ्गेषु पञ्चसु । पूर्ववत् क्रमतो देवि!
नमःप्रभृतिकं न्यसेत्” ।

पदपाठ पु० ६ त० । वेदपदविभाजकग्रन्थभेदे “उद्गीथरम्य पाठवताञ्च साम्नाम्” देवीमा० ।

पदभञ्जन न० पदानि भज्यन्त्येऽनेन भन्ज--करणे ल्युट् ।

१ निरुक्तरूपे ग्रन्थे ३ गूढ़ार्थव्याख्याने च

पदभञ्जिका स्त्री पदानि भञ्जति भन्ज--ण्वुल् । टीप्पन्याम् हेमच० ।

पदमञ्जरी स्त्री पदानां मञ्जरीव । न्यासापरनामके

हरदत्तप्रणीते व्याकरणग्रन्थभेदे ।

पदमाला स्त्री ६ त० । १ पदश्रेणौ २ मोहननामविद्यायाम् देवीपु० ९ अ० ।

पदवि(वी) स्त्री पद--अवि वा ङीप् । १ पथि । अमरः

२ धर्माचारे च ।

पदविग्रह पु० पदेन विग्रहो यत्र । समासे हरिवं २०३ अ० ।

पदव्याख्यान न० ६ त० । वेदमन्त्रस्य विभाजकग्रन्थभेदे

तस्य व्याख्यानो ग्रन्थः तत्र भवो वा ऋगयना० अण् ।
पादव्याख्यान तस्य व्याख्याने तत्रभवे च त्रि० ।

पदष्ठीव न० पादौ च अष्ठीवन्तौ च द्वन्द्वस० नि० ।

पादजानुनोः समाहारे ।
पृष्ठ ४२२५

पदस्तोभ पु० पदस्थितः स्तोभः । पदमध्यपठिते निरर्थके

शब्दभेदे गानशब्दे २५७२ पृ० दृश्यम् ।

पदाङ्गी स्त्री पदं हंसपदमिवाङ्गं यस्याः ङीष् । हंसपदीलितायां राजनि० ।

पदाजि पु० पादेन अजति गच्छति अज--इण् । “पादस्य

पदाज्यतीति” निर्देशात् व्यभावः पादस्य पद इत्यादेशः ।
पादेन गन्तरि पदातौ अमरः ।

पदात त्रि० पादेनातति अत--अच् । पदातौ शब्दरत्ना० ।

पदाति पु० पादेन अतति गच्छति उपपदि अत--इण्

पदादेशः । पादेन ग तरि (पेयादा) अमरः । स्वार्थे क ।
पदातिक तत्रार्थे शब्दर० ।

पदाद्यविद् पु० पदादिं न वेत्ति विद--क्विप् ६ त० । पदाद्यु-

च्चारणानभिज्ञे छात्रगण्डे अपकृष्टवछात्रे हारा० ।

पदानुशासन न० पदान्यनुशिष्यन्तेऽनेन अनु + शस--करणे

ल्युट् । शब्दानुशासने व्याकरणे मेदि० ।

पदानुस्वार पु० सामभदे लाट्यायन० ६९३

पदान्त पु० ६ त० । पदावसाने

पदान्तर न० अन्यत् पदम् मयू० स० । एकपदभिन्ने

अन्यस्मिन् । १ पदे २ स्थानान्तरे च ।

पदार पु० पदात् ऋच्छति ऋ--अच् ५ त० । १ पादधूलौ २ पदालिकेच मेदि० ।

पदार्थ पु० ६ त० । शब्दाभिधेये द्रव्यादौ । पदार्थाश्च दर्शन-

भेदेन नानाविधाः तत्तद्दर्शनमतप्रदर्शने उक्ता यथा
वैशेषिकाणां द्रव्यादयः षट्, सप्त वा, नैयायिकमते प्रमा-
णादयः षोडश, सांख्यानां प्रकृत्यादयः पञ्चविंशतिः,
पातञ्जलानां सेश्वराः प्रकृत्यादयः षडविंशतिः । वेदा-
न्तिनाम् चिदचिटात्मकौ द्वावित्येवं वोध्यम् ।

पदालिक पु० पदस्य चरणस्यालिकसिव । चरणोपरिभागे

पदासन ६ त० । पादपीठे हेमच० ।

पदि पु० पद्यते पद--कर्मणि इन् । गन्तव्ये निरु० “पदिर्गन्तु-

र्भवति यत् पद्यते” निरु० ५ १८ “पदिमुत्सिनाति”
ऋ० १ १२५ २ ।

पदिक त्रि० पादेन चरति पर्पा० ष्ठन् पदादेशश्च । पादचारिणि स्त्रियां षित्त्वात् ङीप् ।

पदिन्याय पु० जैमि० १ । १ । १८ सूत्रोक्ते न्यायभेदे ।

पदिहोम पु० पदि पादस्थाने होमः अलुक्स० । पदि जुहोति

वर्त्मनि जुहोतीतिश्रुतिविहितहोमभेदे तत्र पादश्च
हस्तिनएव ग्राह्यः “सर्वे पदो हस्तिपदे निमग्नाः
इत्युक्तेः ।

पदोपहत त्रि० पादेन उपहतः पादस्य पद इत्यादेशः । पादेनोपहते ।

पद्ग त्रि० पद्भ्यां गच्छति गम--ड ३ त० । पद्भ्यां गन्तरि पदातौ

अमरः । पादशब्देन समासे तु अदन्तपदादेशेपदग इत्येव ।

पद्घोष पु० ६ त० वा पदादेशः । पादशब्दे । एवं शब्दमिश्र-

योरपि वा पदादेशे पच्छब्दपन्मिश्रशब्दौ पादशब्दाद्यर्थे
पक्षे पादघोष पादशब्द पादमिश्र तत्तदर्थे ।

पद्धति(ती) स्त्री पादेन हन्यते गम्यते हन--गतौ आधारे

क्तिन् पदादेशः वा ङीप् । १ पथि २ पङ्क्तौ च मेदि० ।
३ ग्रन्थस्य निष्कृष्टार्थबोधके ग्रन्थभेदे हेमच० । ४ उपनाम-
भेदे स च शूद्रस्य यसुघोषादिः । “शूद्राणां नामकरणे
वसुथोषमित्रादिरूपपद्धतियुक्तनामत्वम्” उद्वा० रघु० ।

पद्धिम न० पादस्य हिमं पदादेशः । पादशीतस्पर्शे ।

पद्म न० पद--मन् । १ कमले २ गजमुखादिस्थे विन्दसमुदाये

कमलाकारेण सैन्यादेरभिनिवेशनरूपे ३ व्यूहभेदे ४
निधिभेदे “अर्वुदमब्ज” मिति पद्मपर्य्यायाब्जनाम्नोक्तायां
५ दशार्वुदसंख्यायां ६ तत्संख्यातेषु ७ पुष्करमूले ८ सीसके
धातौ ९ शरोरस्थे नाडीचक्रभेदे च मेदि० १० पद्मका-
ष्ठोषधौ धरणिः । देहस्थपद्मानि च चक्रत्वेन प्रसिद्धानि
तानि च चक्रशब्दे २८०८ पृ० दर्शितानि । कमले पु० न०
अमरे स्थितं तत्रास्य पुंस्त्वमप्रयुक्तदोषयुक्तमित्यालङ्का-
रिकाः । ११ दाशरथौ १२नागभेदे पु० धरणिः । १३
जिनचक्रवर्त्तिभेदे पु० हेम० १४ रतिवन्धभेदे पु० “हस्ताभ्याञ्च
समालिङ्ग्य नारी पद्मासनोपरि । रमेदुगाढं समाकृष्य
बन्धोऽयं पद्मसंज्ञकः” रतिम० ।

पद्मक न० पद्ममिव कायति कै--क । १ गजमुखादिस्थे पुष्पा-

कारे विन्दुसमूहे अमरः । २ पद्मकाष्ठे मेदि० । ३ कुष्ठो-
षधौ राजनि० स्वार्थे क । ४ पद्मशब्दार्थ च पद्मकाष्ठ-
गुणाः भावप्र० उक्ता यथा “पद्मकं तुवरं तिक्तं शीतलं
बातलं लघु । वीसर्पदाहविस्फोटकुष्ठश्लेष्मास्रपित्तहृत् ।
गर्भसंस्थपिनं रुच्यं वमिब्रणवृषाप्रणुत्”

पद्मकर पु० पद्मं करेऽस्य । पद्महस्ते विष्णो पद्महस्तादयोऽप्यत्र ।

पद्मकन्द पु० ६ त० । कमलकन्दे शालूके “शालुकं शीतलं

वृष्यं षित्तदाहास्रनुद् गुरु । दुर्जरं स्वादुपाकञ्च स्तन्या-
निलकफप्रदम् । संग्राहि मधुरं रूक्षं गिष्माण्डमपि
तद्गुणम्” भावप्र० ।

पद्मकाद्यघृत न० “पद्मकामृतनिम्बानां धान्यचन्दनयोः

पचेत् । कल्के क्वाथे च हविषः प्रस्थं छर्दिनिवार-
णम् । तृष्णारुचि शमनं दाहज्वरहरं परम्” चक्र-
दत्तीक्ते पक्वघृतगेदे

पद्मकाष्ठ न० पद्ममिव सुगन्धि काष्ठमस्य । ओषधिभेदे राजनि०

पृष्ठ ४२२६

पद्मकिन् पु० पद्मकं विन्दुजालमस्त्यस्य त्वचि इनि । १ भूर्ज-

वृक्षे शब्दमा० । २ हस्तिनि

पद्मकीट पु० पद्ममिव कीटः । कीटभेदे सुश्रुतः कीटशब्दे २०५८ पृ० दृश्यम् ।

पद्मकेतन पु० १ गरुडात्मजभेदे भा० उ० १०० अ० । ६ त० ३ पद्म-

निवासे न०

पद्मकेशर पु० न० ६ त० । किञ्जल्के राजनि० ।

पद्मगन्ध(न्धि) त्रि० पद्मस्येव गन्धीऽस्य वा इत् समा० । १ पद्म-

तुल्यगन्धयुक्ते । इदन्तः । २ पद्मकाष्ठे न० भावप्र० ।

पद्मगर्भ पु० पद्मं विष्णुनाभिकमलं गर्म इव उत्पत्तिस्थान-

मस्य । चतुरानने व्रह्मणि शब्दर० तस्य तथोत्पत्तिर्यथा
“परावरेषां भूतानामात्मा यः पुरुषः परः । स एवासी-
दिदं विश्वं कल्पान्तेऽन्यन्न किञ्चन । तस्य नाभेः
समभवत् पद्मकोशो हिरण्मयः । तस्मिन्नब्जे महाराज!
स्ययम्भूश्चतुराननः” भाग० ९ । १ । ३ । पद्मस्य हृदयपुण्डरीकस्य
गर्भोमध्य उपासनास्थानतयाऽस्य । २ परमेश्वरे “पद्मनाभो-
ऽरविन्दाक्षः पद्मगर्भः शरीरभृत्” विष्णुस० । ६ त० ।
३ कमलमध्ये च ।

पद्मगुणा स्त्री पद्मं गुणयति आसनत्वेन गुण--क । १ लक्ष्म्या भा० आ० ६६ अ० । २ लवङ्गे च

पद्मचारिणी स्त्री पद्ममिव चरति चर--णिनि । उत्तरा-

पथप्रसिद्धे स्वनामख्याते लताभेदे अमरः ।

पद्मज पु० पद्मात् विष्णुनाभिकमलात् जायते जन--ड ।

ब्रह्मणि चतुर्मुखे पद्मगर्भशब्दे दृश्यम् । पद्मजाता-
दयोऽप्यत्र ।

पद्मतन्तु पु० ६ त० । मृणाले राजनि० ।

पद्मदर्शन त्रि० पद्मस्येव दर्शनमस्व । १ पद्मतुल्यदर्शने (नोवा)

इति ख्याते २ वृक्षे पु० शब्दच० ।

पद्मनाभ पु० पद्मं नाभौ यस्य संज्ञायाम् अच्स० । १ विष्णौ ।

“पद्मनाभोऽरविन्दाक्षः” विष्णुसं० भाष्ये तु पद्मस्य
नामौ स्थित इत्येवं उक्तम् । तत्र अर्श आद्यच्
इतिमेदः । २ धृतराष्ट्रपुत्रमेदे भा० आ० ६७ अ० । ३ नागभेदे
पु० शा० ३५७ अ० ।

पद्मनाभि पु० संज्ञात्वेऽपि समासान्तविधेरनित्यत्वात् न अच् समा० । विष्णौ द्विरूपकोषः ।

पद्मनाल न० स्त्री ६ त० । मृणाले

पद्मनेत्र त्रि० पद्ममिव नेत्रमस्य । १ पद्मतुल्यनेत्रयुक्ते २ बुद्धभेदे पु० हेम० ।

पद्मपत्र न० पद्मस्य पत्रमिव । १ पुष्करमूले अमरः ६ त० ।

२ कमलदले च पद्मपर्णादयोऽप्यत्र न० ।

पद्मपाणि पु० पद्मं पाणौ यस्य । व्रह्मणि १ चतुर्मुखे २ वुद्धे

त्रिका० । ३ कमलहस्तके त्रि० ।

पद्मपुराण न० व्यासप्रणीते महापुराणभेदे तत्प्रतिपाद्यादि

नारदीयपु० उक्तं यथा
प्रथमे सृष्टिखण्डे “पुलस्त्येन तु भीष्माय सृष्ट्यादि-
क्रमतो द्विज! । नानाख्यानेतिहासाद्यैर्यत्रोक्तो धर्मवि-
स्तरः । पुष्करस्य च माहात्म्यं विस्तरेण प्रकीर्त्तितम् ।
ब्रह्मयज्ञविधानञ्च वेदपाठादिलक्षणम् । दानानां कीर्त्तनं
यत्र वृत्तानाञ्च पृथक् पृथक् । विवाहः शैलजायाश्च
तारकाख्यानकं महत् । माहात्म्यञ्च गवादीनां कीर्त्तितं
सर्वपुण्यदम् । कालकेयादिदैत्यानां बधो यत्र पृथक्
पृथक् । ग्रहाणामर्च्चनं दानं यत्र प्रोक्तं द्विजोत्तम! ।
तत् सूष्टिखण्डमुद्दिष्टं व्यासेन सुमहात्मना” द्वितीये भूमि-
खण्डे “पितृमात्रादिपूज्यत्वे शिवशर्मकथा पुरः ।
सुव्रतस्य कथा पश्चात् वृत्रस्य च बधस्तथा । पृथीर्वेणस्य
चाख्यानं धर्माख्यानं ततः परम् । पितृशुश्रूषणा-
ख्यानं नहुषस्य कथा ततः । ययाति--चरितञ्चैव गुरु-
तीर्थनिरूपणम् । राज्ञा जैमिनिसंवादो बह्वाश्चर्य्यकथा-
युतः । कथा ह्यशोकसुन्दर्य्या हुण्डदैत्यबधाचिता ।
कामोदाख्यानकं तत्र विहुण्डबवसंयुतम् । कुः, लस्य
च सवादश्च्यवनेन महात्मना । सिद्धाख्यान ततः
प्रोक्तं ण्ढण्डस्यास्य फलोहनम् । सूतशौनकसंवादं भूमि-
खण्डमिद स्मृतम्” । तृतीये स्वर्गखण्डे “ब्रह्माण्डोत्-
पत्तिरुदिता यत्रर्षिभ्यश्च सौतिना । सभूमिलोक-
संस्थानं तीर्थाख्यानं ततः परम् । नर्मदोत्पत्तिकथनं
तत्तीर्थानां कथा पृथक् । कुरुक्षेत्रादितीर्थानां कथाः
पुण्याः प्रकीर्त्तिताः । कालिन्दीपुण्यकथनं काशी-
माहात्म्यवर्णनम् । गयायाश्चैव माहात्म्य प्रयागस्य
च पुण्यकम् । वर्णाश्रमानुरोधेन कर्मयोगनिरूपणम् ।
व्यासजैमिनिसंवादः पुण्यकर्मकथाचितः । समुद्रमथना-
ख्यानं व्रताख्यानं ततः परम् । ऊर्ज्जपञ्चाह
माहात्म्यं स्तोत्रं सर्वापराधनुत् । एतत् स्वर्गाभिधं
विप्र! सर्वपातकनाशनम्” । चतुर्थे पातालखण्डे
“रामाश्वमेधे प्रथमं रामराज्याभिषेचनम् । अगस्त्या-
द्यागमश्चैव पौलस्त्यान्वयकीर्त्तनम् । अश्वमेघोप-
देशश्च हयचर्य्या ततःपरम् । नाना राजकथाः पुण्या
जगन्नाथानुवर्णनम् । वृन्दावनस्य माहात्म्यं सर्वपाप-
प्रणाशनम् । नित्यलीलानुकथनं यत्र कृष्णावतारिणः ।
माधवस्नानमाहात्म्ये स्नानदानार्च्चने फलम् ।
धरावराहसंवादो यमब्राह्मणयोः कथा । संवादो राज-
पृष्ठ ४२२७
दूतानां कृष्णस्तोत्रनिरूपणम् । शिवशम्भुसमायोगो
दधीच्याख्यानकन्ततः । भस्ममाहात्म्यमतुलं शिवमा-
हात्म्यमुत्तमम् । देवरातसुताख्यानं पुराणाञ्च प्रशं-
सनम् । गौतमाख्यानकञ्चैव शिवगीता ततः स्मृता ।
कल्पान्तरी रामकथा भारद्वाजाश्रमस्थितौ । पाताल-
खण्डमेतद्धि शृण्वतां ज्ञानिनां सदा । सर्वपापप्रशमनं
सर्वाभीष्टफलप्रदम्” । पञ्चमे उत्तरखण्डे “पर्वताख्यानकं
पूर्वंगौर्य्यै प्रोक्तं शिवेन वै । जालन्धरकथा पश्चात् श्री-
शैलाद्यनुकीर्त्तनम् । सागरस्य कथा पुण्या ततःपरमुदी-
रिता । गङ्गाप्रयागकाशीनां गयायाश्चाधिपुण्यकम् ।
आम्रादिदानमाहात्म्यं तन्महाद्वादशीव्रतम् ।
चतुर्विंशैकादशीनां माहात्म्यं पृथगीरितम् । विष्णुधर्भ-
समाख्यानं विष्णुनामसहस्रकम् । कार्त्तिकव्रत-
माहात्म्यं माघस्नानफलन्ततः । जम्बुद्वीपस्य तीर्थानां
माहात्म्यं पापनाशनम् । साधुमत्याश्च माहात्म्यं
नृसिंहोत्पत्तिवर्णनम् । देवशर्मादिकाख्यानं गीता-
माहात्म्यवर्णने । भक्त्याख्यानञ्च माहात्म्यं श्रीम-
द्भागवतस्य ह । इन्द्रप्रस्थस्य माहात्म्यं बहुतीर्थकथा-
चितम् । मन्त्ररत्नाभिधानञ्च त्रिपाद्भूत्यनुवर्णनम् ।
अवतारकथा पुण्या मत्स्यादीनामतःपरम् । रामनाम-
शतं दिष्यं तन्माहात्म्यञ्च बाड़व! । परीक्षणञ्च भृगुणा
श्रीविष्ण्योर्वैभवस्य च । इत्येतदुतरं खण्डं पञ्चमं
सर्वपुण्यदम्” तत्फलश्रुतिः “पञ्चखण्डयुतं पाद्मं
यः शृणोति नरोत्तमः । स लभेद्वैष्णवं धाम भुक्त्वा
भोभानिहेप्सितान् । एतद्वै पञ्चपञ्चाशत्सहस्रं पद्म-
संज्ञकम् । पुराणं लेखयित्वा वै ज्यैष्ठ्यां स्वर्णाज्य-
संबुतम् । यः प्रदद्यात् सुमतये पुराणज्ञाय मानदः ।
स याति वैष्णवं धाम सर्वदेवनमस्कृतः । पद्मानुक्रमणी-
मेतां यः पठेत् शृणुयात् तथा । सोऽपि पद्मपुराणस्य
लभेत् श्रवणजं फलम्” ।

पद्मपुष्प पु० पद्ममिव पुष्प मस्य । १ कर्णिकारवृक्षे २ पिकाङ्ग-

पक्षिभेदे पुंस्त्री० शब्दच० स्त्रियां ङीष् ।

पद्मप्रभ त्रि० पद्मस्येव प्रभा यस्य । १ कमलसदृशप्रभान्विते

२ जैनभेदे पु० हेमच० ।

पद्मप्रिया स्त्री पद्मं प्रियं यस्याः । जरुत्कारुमुनिपत्न्यां मनसादेव्यां शब्द च० ।

पद्मबन्ध पु० चित्तालङ्कारभेदे अलङ्कारशब्दे २९० पृ० दृश्यम् ।

पद्मबन्धु पु० ६ त० । १ सूर्य्ये शब्दरत्ना० २ अर्कवृक्षे च ३ भ्र

मरे शब्दच० ।

पद्मभू पु० पद्मात् विष्णुनाभिकमलात् भवति भू--क्विप् ।

चतुर्मुखे ब्रह्मणि हला० । पद्मगर्भशब्दे दृश्यम् ।

पद्ममुख त्रि० पद्ममिव मुखमस्य । १ कमलसदृशमुखयुते

स्त्रियां वा ङीष् । सा च २ दूर्वालतायां शब्दच० ।

पद्ममुद्रा स्त्री “हस्तौ तु सम्मुखौ कृत्वा तदधःप्रोथिता-

ङ्गुली । तलान्तर्मिलिताङ्कुष्ठौ कृत्वैषा पद्ममुद्रिका”
तन्त्रसारोक्ते मुद्राभेदे

पद्मयोनि पु० पद्म विष्णुनाभिकमलं योनिरस्य । ब्रह्मणि चतुर्मुखे अमरः ।

पद्मराग न० पद्मस्येव रागोऽस्य । रक्तवर्णमणिभेदे तल्लक्ष-

णादि वृ० सं० ४० उक्तं यथा
“सौगन्धिककुरुविन्दस्फटिकेभ्यः पद्मरागसम्भूतिः ।
सौगन्धिकजा भ्रमराञ्जनाब्जजम्बुरसद्युतयः । कुरु-
विन्दुभवाः शबला मन्दद्युतयश्च धातुभिर्विद्धाः । स्फटिक-
भवा द्युतिमन्तो नानावर्णा विशुद्धाश्च । स्निग्धः प्रभा-
नुलेपी स्वच्छोऽर्चिष्मान् गुरुः सुसंस्थानः । अन्तःप्रभाऽ-
तिरागा मणिरत्नगुणाः समस्तानाम् । कलुषा मन्द-
द्युतयो लेखाकीर्णाः सधातवः खण्डाः । दुर्विद्धा न
मनोज्ञाः सशर्कराश्चेति मणिदोषाः । भ्रमरशिखिक-
ण्टवर्णो दीपशिखासमप्रभो भुजङ्गानाम् । भवति मणिः
किल मूर्धनि योऽनर्घो वै स विज्ञेयः । यस्तं बिभर्त्ति
मनुजाधिपतिर्न तस्य दोषा भवन्ति विषरोगकृताः
कदाचित् । राष्ट्रे च नित्यमभिवर्षति तस्य देवः शत्रूंश्च
नाशयति तस्य मणेः प्रभावात् । षड़्विंशतिः सहस्रा-
ण्येकस्य मणेः पलप्रभाणस्य । कर्षत्रयस्य विंशतिरुप-
दिष्टा पद्मरागस्य । अर्द्वपलस्य द्वादश कर्षस्यैकस्य षट्
सहस्राणि । यच्चाष्टमाषैतं तस्य स हस्त्रत्रयं मूल्यम् ।
माषकचतुष्टयं दशशतक्रयं द्वौ तु पञ्चशतमूल्यौ ।
परिकल्प्यमन्तराले मूल्यं हीनाधिकगुणानाम् । वर्णमूल-
स्यार्धं तेजोहीनस्य मूल्यमष्टांशः । अल्पगुणो बहुदोषो
मूल्यात् । प्राप्नोति विंशांशम् । आधूम्रं व्रणवहुलं
स्वल्पगुणं चाप्नुयादुद्विंशभागम् । इति पद्मरागभूल्यं
पूर्वाचार्य्यैः समुद्दिष्टम्” । युक्तिकल्पतरौ चात्रविशेषो यथा
“सिंहले तु भवेद्रक्तं पद्मरागमनुत्तमम् । पीतं काण
पुरोद्भूतं कुरुविन्दमिति स्मृतम् । अशोकपल्लवच्छाय-
ममुं सौगन्धिकं विदुः । तुम्बुरे छायया नीलं
नीलगन्धि प्रकीर्त्तितम् । उत्तमं सिंहलोद्भूतं निकृष्टं
तुम्बुरोद्भवम् । मध्यमं मध्यजं ज्ञेयं माणिक्यं क्षेत्रभे-
दतः” तथा “बन्धूकगुञ्जाशकलेन्द्रगापजवासनासृक्
पृष्ठ ४२२८
समवर्णशोभाः । भ्राजिष्णवो दाड़िमवीजवर्णास्तथा परे
किंशुकपुष्पभासः । सिन्दूरपद्मोत्पलकुङ्कुमानां
लाक्षारसस्यापि समानवर्णाः । सान्द्रेऽतिरागे प्रभया
स्वयैव भान्ति स्वलक्ष्या स्पुटमध्यशोभाः । भानोश्च भासा
मनुवेधयोगमासाद्य रश्मिप्रकरेण दूरम् । पार्श्वानि
सर्वाण्यनुरम्लयन्ति गुणोपपन्नाः स्फटिकप्रसूताः । कुसु-
म्भनीलीव्यतिमिश्ररागप्रत्यग्ररक्ताम्बरतुल्यभासः । तथा
परेऽरुष्करकण्टकारीपुष्पत्विषो हिङ्गुलकत्विषोऽन्ये ।
चकोरपुंस्कोकिलसारसानां नेत्रावभासश्च भवन्ति केचित् ।
अन्ये पुनर्नातिविपुष्पितानां तुल्यत्विषः कोकनदोदरा-
णाम् । प्रभावकाठिन्यगुरुत्वयोगैः प्रायः समानाः
स्फटिकोद्भदानाम् । आनीलरक्तोत्पलचारुभासः
सौगन्धिकाख्या मणयो मवन्ति । यो मन्दराभः कुरुविन्द-
जेषु स एव जातः स्फटिकोद्भवेषु । निरर्चिषोऽन्तर्बहु-
लीभवन्ति प्रभाववन्तीऽषि न तत्समानाः । ये तु रावण
गङ्गायां जायन्ते कुरुविन्दकाः । पद्मरागा घनं रागं
बिभ्राणाः स्वस्फुटार्च्चिषः । वर्णानुयायिनस्तेषामन्ध्रदेशे
तथाऽपरे । न जायन्ते तु ते केचित् मूल्यलेशमवाप्नुयुः ।
तथैव स्फटिकोत्थानां देशे तुम्बुरसंज्ञके । सधर्माणः
प्रजायन्ते स्वल्पमूल्या हि ते स्मृताः” । जात्यादि
“माणिक्यस्य प्रवक्ष्यामि यथा जातिचतुष्टयम् । व्रह्मक्ष-
त्रियवैश्याश्च शूद्रश्चाथ यथाक्रमम् । रक्तश्वेतो भवेद्वि-
प्रस्त्वतिरक्तस्तु क्षत्रियः । रक्तपीती भवेद्वैश्यो रक्तनी-
लस्तथाऽन्त्यजः । पद्मरागो भवेद्विप्रः कुरुविन्दस्तु
बाहुजः । सौगन्धिको भवेद्वैश्यो मांसखण्डस्तथान्त्यजः ।
शोणपद्मसमाकारः खदिराङ्गारसप्रभः । पद्मरागो
द्विजः प्रोक्तश्छायाभेदेन सर्वदा । गुञ्जासिन्दूरबन्धूक-
नागरङ्गसमप्रभः । दाड़िमीकुसुमाभासः कुरुविन्दस्तु
बाहुजः । हिङ्गुलाभाशोकपुष्पाभमोषत्पीतलोहितम् ।
जवालाक्षारसप्रायं वैश्यं सौगन्धिकं विदुः । आरक्तः
कान्तिहीनश्च चिक्वणश्च विशेषतः” । मांसखण्डसमा-
भासो ह्यन्त्वजः पापनाशनः” । तद्दोषादि “माणिक्यस्य
समाख्याता अष्टौ दोषा मुनीश्वरेः । द्विच्छायञ्च द्विरूपञ्च
सम्भेदः कर्करन्तथा । अशोभनं कोकिलञ्च जलं धूम्राभि-
घञ्च वै । गुणाश्चत्वार आख्याताश्छायाः षोड़श
कीर्त्तिताः” । छायास्तु पूर्वोक्ता एव “छाया द्वितयसम्बन्धाद्
द्विच्छायं बन्धुनाशनम् । द्विरूपं द्विपदं तेन माणिक्येन
पराभवः । सम्भेदी भिन्नमित्युक्तः शस्त्रवातविधाथकः ।
कर्करं कर्करायुक्तं पशुबन्धु विनाशकृत् । दुग्धेनेव
समालिप्तं मणेः पुटकमुच्यते । अशोभनं समुद्दिष्टं माणिक्यं
बहुदुःखकृत् । मधुविन्दुसमच्छायं कोकिलं परिकीर्त्ति-
तम् । आयुर्लक्ष्मीर्यशो हन्ति सदोषं तन्न धारयेत् ।
रागहीनं जलं प्रोक्तं धनधान्यापवादकृत् । धूम्रं धूमस-
माकारं वैद्युतं भयमावहेत्” । तथा “शोभाद्वितयवन्तो
ये मणयः क्षतिकारकाः । उभयत्र पदं येषां तेन च
स्वात् पराभवः । भिन्नेन युद्धे मृत्युः स्यात् कर्करं
धननाशकृत् । दुग्धेनेव समालिप्तः पुटके यस्तु सम्भवेत् ।
दुःखकृत् स समाख्यातो न नृपैरक्षणीयकः ।
मधुविन्दुसमा शोभा कोकिलानां प्रकीर्त्तिता । तेषां च
बहुभेदाः स्युर्न ते धार्य्या कदाचन” । अथ गुणाः “गुरु
त्वं स्निग्धता चैव वैमल्यमतिरक्तता । वर्णाधिकं
गुरुत्वञ्च स्निग्धता समताऽच्छता । अर्चिष्मत्ता महत्ता च
मणीनां गुणसंग्रहः” । फलम् “ये कर्कराश्छिद्रमलोप-
दिग्धाः प्रभाविमुक्ताः परुषा विवर्णाः । न ते प्रशस्ता-
मणयो भवन्ति समानतो जातिगुणैः समस्तैः । दोषोप-
सृष्टं मणिमप्रबोधाद्विभर्त्ति यः कश्चन कञ्चिदेकम् ।
तं बन्धुदुःखायसबन्धवित्तनाशादयो दोषगुणाः
भजन्ते । सपत्नमध्येऽपि कृताधिवासं प्रमादवृत्तावपि
वर्त्तमानम् । न पद्मरागस्य महागुणस्य भर्त्तारमापत्
समुपैति काचित् । दोषोपसर्गप्रभवाश्च ये ते नोपद्रवास्तं
समभिद्रवन्ति । गुणैः स मुख्यैः सकलैरुपेतो यः पद्मरागं
प्रयतो बिभर्त्ति” । परीक्षा यथा “बालार्ककरसंस्पर्शात्
यः शिखां लोहितां वमेत् । रञ्जयेदाश्रयं वापि स
महागुण उच्यते । दुग्धे शतगुणे क्षिप्तो रञ्जयेद्यः
समन्ततः । वमेच्छिखां लोहितां वा पद्मरागः स उत्तमः ।
अन्धकारे महाघोरे यो न्यस्तः सन्महामणिः । प्रका-
शयति सूर्य्याभः सु ग्नेष्ठः पद्मरागकः । पद्मकोषे तु
यन्न्यस्तं विकाशयति तत्क्षणात् । पद्मरागवरो ह्येष
देवानामपि दुर्लभः । सर्वारिष्टप्रशमनाः सर्वसम्पत्ति-
दायकाः । चत्वारस्तु मयोद्दिष्टा गुणिनश्च यथोत्तरम् ।
यो मणिर्दृश्यते दूराज्ज्वलदग्निसमच्छविः । वंशकान्वितः
स विज्ञेयः सर्वसम्पत्तिकारकः । पञ्चसप्तनवविंशतिरागः
क्षिप्त एव सकलः खलु वस्त्रे । वर्जयेद्वमति वा
करजालमुत्तरोत्तरमहागुणिनस्ते । नीलं रसं दुग्धरसं
जलं वा ये रञ्जयन्ति द्विशतप्रमाणम् । ते ते यथापूर्व-
सतिप्रशस्ताः सौभाम्यसम्पत्तिविधानदाश्च” । परि-
पृष्ठ ४२२९
माणम् “गुञ्जाफलप्रमाणस्तु दशसप्तत्रिगुञ्जकान् ।
पद्मरागस्तुलयति यथापूर्वं महागुणः । क्रोष्टुकोल
फलाकारो द्वादशाष्टाब्धिगुञ्जकान् । पद्मरागस्तुलयति
यथापूर्वं महागुणः । यदरीफलतुल्यो यः स्वरदिग्-
वसुमाषकः । तथा धात्रीफलत्रिंशद्विंशतिद्व्यष्टमा-
षकः । तथाक्षफलतुल्यो यो वह्निपक्षैकमाषकः ।
ताम्बूलफलमानो यश्चतुस्त्रिद्विकतोलकः । विम्बीफल-
समाकारो बसुषड्दशतोलकः । अतःपरं प्रमाणेन
मानेन च न लभ्यते । यदि लभ्येत पुण्येन तदा सिद्धि-
मवाप्नुयात् । केचिच्चारुतराः सन्ति जातीनां प्रति-
रूपकाः । विजातयः प्रयत्नेन विद्वांस्तानुपलक्षयेत् ।
कलसपुरोद्भवसिंहलतुम्बुरुदेशोत्थमुक्तमालीयाः । श्री-
पर्णिकायाः सदृशा विजातयः पद्मरागाणाम् । तुषोप-
सर्गात् कलसाभिधानमाताम्रभावादपि तुम्बुरोत्थम् ।
कार्ष्ण्यात्तथा सिंहलदेशजातं मुक्तामिधानं नभसः स्वभा-
वात् । श्रीपर्णकं दीप्तिनिराकृतित्वाद्विजातिलिङ्गा-
श्रय एष भेदः” । तथा “स्नेहप्रदेहो मृदुता लघुत्वं
विजातिलिङ्गं खलु सर्वजन्यम् । यः श्यामिकां पुष्यति
पद्मरागो यो वा तुषाणाभिव चूर्णमध्यः । स्नेहपदिग्धो
न च यो विभाति यो वा प्रमृष्टः प्रजहाति दीप्तिम् ।
आक्रान्वमूर्द्धा च तथाङ्गुलिभ्यां यः कालिकां पार्श्वगतां
बिभर्त्ति । सम्प्राप्य चोत्क्षेपपथानुवृत्तिं विभर्त्ति यः
सर्वगुणानतीव । तुल्यप्रमाणस्य च तुल्यजाते यो वा
गुरुत्वेन भवेन्न तुल्यः । प्राप्यापि रत्नाकरजां स्वजातिं
लक्षेत् गुरुत्वेन गुणेन विद्वान् । अप्रणश्यति सन्देहे
शिलायां परिथर्षयेत् । घृष्टो योऽत्यन्तशोभावान्
परिमाणं न मुञ्चति । स ज्ञेयः शुद्धजातिस्तु ज्ञेयाश्चान्ये
विजातयः । स्वजातकसमुत्थेन विलिखेद्वा परस्परम् ।
वज्रं वा कुरुविन्दं वा विमुच्यान्योन्यकेन चेत् । न शक्यं
सेखनं कर्तुं पद्मरागेन्द्रनीलयोः । जात्यस्य सर्वेऽपि
मणेर्न जातु विजातयः कान्तिसमानवर्णाः । तथापि
नानाकरणार्थमेवं भेदप्रकारः परयोः प्रदिष्टः । गुणोप-
यन्नेन सहावबद्धो मणिस्तु धार्य्यो विगुणेन जात्यः । न
कौस्तुभेनापि सहावबद्धं विद्वान् विजातिं बिभृयात्
कदाचित् । चण्डाल एकोऽपि यथा द्विजातीन् समेत्य
भूरीनपहन्त्ययत्नात् । तथा गणीन् भूरिगुणोपपन्नान्
शक्नोति विद्रावयितुं विजातः” । तस्य मूल्यम् “वाला-
र्कामिमुखं कृत्वा दर्पणे धारयेन्मणिम् । तत्र कान्ति-
विभागेन छायाभागं विनिर्दिशेत् । वन्रस्य यत्तण्डुल-
संख्ययोक्तं मूल्यं समुन्मेपितगौरवस्य । तत् पद्मरागस्य
गुणान्वितस्य स्यान्माषकाख्यातुलितस्य मूल्यम् । यन्मूल्यं
पद्मरागस्य सगुणस्य प्रकीर्त्तितम् । तावन्मूल्यं तथा
शुद्धे कुरुविन्दे विधीयते । सगुणे कुरुविन्दे च
याबन्मूल्यं प्रकीर्त्तितम् । तावन्मूल्यं चतुर्थांशहीनं स्याद्वै
सुगन्धिके । यावन्मूल्यं समाख्यातं वैश्यवर्णे च सूरिभिः ।
तावन्मूल्यं चतुर्थांशात् हीयते शूद्रजन्मनि । पद्मरागः
पलं यस्तु धत्ते लाक्षारसप्रभः । कार्षापणसहस्राणि
त्रिंशन्मूल्यं लभेत सः । इन्द्रतीलकसङ्काशः कर्षत्रय
धृतो मणिः । द्वाविंशतिसहस्रार्णा तस्य मूल्यं विनि-
र्दिशेत् । एको नोनूयते यस्तु जवाकुसुमसन्निभः ।
कार्षापणसहस्राणि तस्य मूल्यं चतुर्दश । बालादित्य
द्युतिनिभः कर्षं यस्तु प्रतुल्यते । कार्षापणशतानान्तु
मूल्यं सद्भिः प्रकीर्त्तितम् । यस्तु दाड़िमपुष्पाभः कर्षा-
र्द्धेन तु सम्मितः । कार्मापणशतानान्तु विंशतिं मूल्य-
मादिशेत् । चत्बारो माषका यस्तु रक्तोत्पलदलप्रभः ।
मूल्यं तस्य विधातव्यं सूरिभिः शतपञ्चकम् । द्विमाषको
यस्तु गुणैः सर्वैरेव समन्वितः । तस्य मूल्यं विधातव्यं
द्विशतं तत्त्ववेदिभिः । माषकैकमितो यस्तु पद्मरागो
गुणान्वितः । शतकसम्मितं वाच्यं मूल्यं रत्मविचक्षणैः ।
अतो न्यूनप्रमाणास्तु पद्मरागा गुणोत्तराः स्वर्ण-
द्विगुणमूल्येन मूल्यं तैषां प्रकल्पयेत् । कार्षापणः
समाख्यातः पुराणद्वयसम्प्रितः । अन्ये कुसुम्भपानीयमञ्जि-
ष्ठोदकसन्निभाः । कार्षाया इति विख्याताः स्फटिक-
प्रभवाश्च ते । तेषां दोषान् गुणान् वापि पद्मराग-
वदादिशेत् । मूल्यमल्पन्तु विज्ञेयं धारणेऽल्पफलं तथा ।
ब्रह्मक्षत्रियवैश्यान्त्याश्चतुर्धा ये प्रकीर्त्तिताः । चतुर्विधै-
र्नृपतिभिर्धार्य्या सम्पत्तिहेतवे । अतोऽन्यथा धृतः
कुर्य्याद्रोगशोकभयक्षयम्” अत्र तस्य क्लीवत्वमप्युक्तम् ।

पद्मरेखा स्त्री पद्माकारा रेखा शा० त० । हस्तस्थितपद्मा-

काररेखायाम् ।

पद्मलाञ्छन पु० द्मं विष्णुकमलं वा लाञ्छनमस्य । १

व्रह्मणि २ सूर्य्ये ३ कुवेरे ४ नृपे च मेदि० ५ तारायां
६ लक्ष्म्यां ७ सरस्वत्यां च स्त्री मेदि० ८ पद्मरेखायुक्ते त्रि० ।

पद्मवर्णक त्रि० पद्मस्ये व वर्णेऽस्य कप् । १ कमलतुल्यवर्ण-

युक्ते । पद्मं वर्णो वर्ण्यं यस्य कप् । २ पुष्करमूले जटा० ।

पद्मवासा स्त्री पद्मं वासोऽस्याः । १ पद्मालयायां २ लक्ष्म्यां

हेमच० पद्मस्य वासः सौरभम् ६ त० । ३ कमलसौरभे पु० ।
पृष्ठ ४२३०

पद्मवृक्ष पु० पद्मतुल्यो वृक्षः । पद्मकाष्ठे राजनि० ।

पद्म(बी)वीज न० ६ त० । कमलवी(बी)जे पद्माक्षे राजनि०

“पद्म(बी)वीजं हिमं स्वादु कषायं तिक्तकं गुरु ।
विष्टम्भि वृष्यं रूक्षञ्च गर्भसंस्थापकं परम्” भावप्र० ।

पद्मवी(बी)जाभ न० पद्मवी(बी)जमिवाभाति आ + भा--क ।

(माखना) ख्याते मखान्ने राजनि० ।

पद्मा स्त्री पद्मनाधारत्वेनास्त्यस्याः अच् । १ लक्ष्म्यां

२ लवङ्गे ३ पद्मचारिण्यां लतायां च अमरः । ४ मनसादेव्यां
पन्नग्यां ५ फञ्जिकावृक्षे च मेदि० ६ अर्हन्मातृभेदे हेमच०
७ कुमुम्भपुष्पे रत्नमाला । वृहद्रथराजदुहितरि ८ कल्
किदेवपत्न्याञ्च कल्किपु० ।

पद्माकर पु० ६ त० । १ जलाशयमात्रे अमरः सपद्मेऽगाधज-

लाशये २ तद्योग्ये निष्पद्मेतदर्थे जलाशयोत्सर्गशब्द-
दर्शिते ३ तडागरूपे जलाधारे च ।

पद्माक्ष न० पद्मस्याक्षीव षच्समा० । १ पद्मवी(बी)जे हारा०

“पद्माक्षैर्निर्मिता माला शत्रूणां नाणिनी मता” तन्त्र-
सारः । पद्ममिवाक्षि यस्य षच्सम० । २ पद्मतुल्यनेत्रे
त्रि० स्त्रियां षित्त्वात् ङीष् ।

पद्माट पु० पद्ममिवाटति अट--अच् । चक्रमर्दवृक्षे (दादमर्दन)

राजनि० ।

पद्मालया स्त्री पद्ममालयो यस्याः । १ लक्ष्म्यां

२ लवङ्गे च अमरः ६ त० । ३ पद्मानां स्थाने पु० ।

पद्मावती पु० पद्म + अस्त्यर्थे मतुप् मस्य वः संज्ञायां दीर्घश्च ।

(पद्मा) १ नदीभेदे २ मनसादेव्यां शब्दच० ३ पद्मचारिणी-
लतायां जटाध० । ४ कुमारानुचरमातृभेदे भा० ग० ४७ अ० ।
५ शृगालनृपमहिषीभेदे हरिवं० १०१ अ० । असंज्ञायां तु
न दीर्घः । पद्मवत् पद्मयुक्ते त्रि० स्त्रियां ङीप् ।

पद्मावतीप्रिय पु० ६ त० । १ जरत्कारुमुनौ २ कल्किदेवे

३ शृगालनृपे च त्रि०

पद्मासन “ऊरुमूले वामपादं पुनस्तु दक्षिणं पदम् ।

वामोरौ स्थापयित्वा तु पद्मासनमिति स्मृतम्”
जामलोक्ते आसनमेदे अस्यैव प्रकारभेदः तन्त्रसारे योगा-
ङ्गतया उक्तः तच्च ८८६ पृ० दर्शितम् एवमन्यदपि तल्ल-
क्षणं योगाङ्गतया ध्येयं बद्बपद्मासनमहापद्मसनेति
च तस्यैव प्रकारभेदः । देवपूजार्थे पद्माकारे ३ आसनभेदे
पद्ममासनं यस्य । ३ कमलासने ब्रह्मणि पु० ।

पद्माह्वा स्त्री पद्म तदुगन्धमाह्वयते स्पर्द्धते स्वगन्धेन अ +

ह्व--क । १ पद्मचाचिण्यां लतायां राजनि० २ लवङ्घे न०

पद्मिनी स्त्री पद्मं विद्यतेऽस्याः पुष्करा० इनि अभिधानात्

स्त्रीत्वम् । १ पद्मयुक्तदेशे २ पद्मधारिणि विष्णौ पु० “पद्मी
पद्मनिभेक्षणः” विष्णुसं० तस्य शङ्खचक्रगदापद्मधारित्वात्
तथात्वम् । ३ पद्मधारिमात्रे त्रि० स्त्रियां ङीप् । ४ हस्तिनि
पु० अमरः पद्मानां समूहः इनि । ६ पद्मसमूहे ७ पद्म-
लतायाञ्च अमरः “सूननालदलोत्फुल्लफलैः सा लतिका
पुनः । पद्मिनीत्युच्यते प्राज्ञैर्विसिन्यादिश्च सा स्मृता ।
पद्मिनी मधुरा तिक्ता कषाया शिशिरा सरा । पित्त-
कृमिशोषवान्तिभ्रान्तिसन्तापदोषहृत्” राजनि० “भवति
कमलनेत्रा नासिकाक्षुद्ररन्ध्रा अविरलकुचयुग्मा दीर्घ-
केशी कृशाङ्गी । मृदुचरणसुशीला गीतनृत्यानुरक्ता
सकलतनुसुवेशा पद्मिनी पद्मगन्धा” रतिमञ्जर्य्युक्तलक्षणयुक्ते
९ स्त्रीभेदे “पद्मिती शशके तुष्टा” इति च तन्त्रोक्तम् ।
१० सरोवरे ११ पद्मे च विश्वः १२ मृणाले शब्द माला ।

पद्मिनीकण्टक पु० कमलिन्याः कण्टकाकारे सुश्रुतोक्ते

क्षुद्ररोगगेदे २३८२ पृ० दृश्यम् ।

पद्मिनीकान्त पु० ६ त० । १ सूर्य्ये जटाघ० । २ अर्कवृक्षे च

पद्मिनीवल्लभादयोऽप्यत्र ।

पद्मेशय पु० पद्मे शेते शी--अच् अलुक्स० । विष्णौ हेमच० । मा० शा० २४० अ० उदा० ।

पद्मोत्तर पु० पद्मादुत्तरः उत्कृष्टो वर्णेन । कुसुम्भे राजनि० ।

पद्मोत्तरात्मज पु० जिनचक्रवर्त्तिभेदे हेमच०

पद्मोद्भव पु० पद्मसुद्भवोऽस्य । कमलयोनौ १ ब्रह्मणि २ मनसादेव्यां स्त्री

पद्य न० पदं चरणमर्हति पद + यत् । कविकृते चतुश्चरणा-

त्मके “पद्यं चतुष्पदी तच्च वृत्तं जातिरिति द्विधा” इत्युक्ते
१ वाक्यभेदे २ पदव्यां स्त्री । पद्भ्यां जातः यत् । ४ शूद्रे
पु० “पद्भ्यां शूद्रो अजायत” यजु० ३१ । ११ पदं विध्यति यत् ।
५ शर्करायां स्त्री । पदमस्मिन् दृश्यते यत् । ५ नातिशुष्के
कर्दमे सि० कौ० । ६ स्तुतौ विश्वः ७ पथि स्त्री अमरः ।

पद्र पु० पद्यत् गच्छत्यत्र पद--आधारे रक् । ग्रामे उज्ज्वल०

पद्रथ पु० पद् रथ इव यस्य । पद्गामिनि भाग० ३ । १८ । १२

पद्व पु० पद--स्थैर्य्ये आधारे करणे वा वन् । १ भूलोके २ रथे

च संक्षिप्तसारः ।

पद्वन् पु० पद--करणे वनिप् । पथि उज्ज्वलद० ।

पन स्तुतौ भ्वा० आत्म० सक० सेट स्वार्थे आय वा तत्र आत्म० ।

पनायते पनायति आर्द्धधातुके वा आय । अपनायीते
अपनायिष्ट अपनिष्ट । पनायां--बमूय आस चक्रे पेने
इत्यादि ।
पृष्ठ ४२३१

पनस पु० पन्यते स्तूयतेऽसौ वृक्षेषु उत्तमफलत्वात् वृहत्फ

लत्वाद्वा पन--कर्मणि असच् । (वाँटाल) वृक्षभेदे फलादौ न०
“पनसं शीतलं पक्वं स्निग्धं पित्तानिलापहम् । तर्पणं
वृंहणं स्वादु मांसलं श्लेष्मलं भृशम् । बल्यं शुक्रपदं हन्ति
रक्तपित्तक्षतक्षयान् । आमन्तदेव विष्टम्भि वातलं तुवरं
गुरु । दाहकृन्मधुरं बल्यं कफमेदोविमर्दनम् । पनसो-
द्भूतवीजानि वृष्याणि मधुराणि च । गुरूणि बद्धवर्चांसि
सृष्टमूत्राणि संवदेत्” अन्यच्च “मज्जा पनसजो वृष्यो
वातपित्तकफापहः । विशेषात् पनसं वर्ज्यं गुल्मि-
भिर्मन्दवह्निभिः । अलं पनसपाकाय फलं कदलसम्भ-
वम्” भावप्र० “कण्टाफलं सुमधुरं वृंहणं स्निग्ध-
शीतलम् । दुर्जरं वातपित्तध्नं श्लेष्मशुक्रवलप्रदम् ।
तदेव सर्पिषा युक्तं स्निग्धं हृद्यं बलप्रदम् । छर्दिघ्नं न
च चक्षुष्यं वृष्यञ्च वातपित्तनुत् । कण्टाफलमपक्वन्तु
कषायं स्वादु वातलम् । रक्तपित्तहरं स्वादु तत्फला-
स्थ्यापि तद्गुणम्” राजवल्लभः ।

पनसतालिका स्त्री पनसं स्तुत्यं तालं तत्तुल्यफलं विद्यते

ऽस्याः टन् । पनसे शब्दमा० पनतालिकेति तत्र
पाठान्तरं तत्रार्थे ।

पनसिका स्त्री पनसः तदाकारोऽस्त्यस्याः ठन् । सुश्रुतोक्ते

क्षुद्ररोगरोगभेदे २३८२ पृ० दृश्यम् ।

पनस्य नामथा० षनं स्तुतिमिच्छति क्यच् सुगागमः स्तोत्रे-

च्छायां पर० अक० सेट् । पनस्यति अपनस्यीत् ऋ० १ । ५५ । २
उदा० तत्र तङ् आर्षः । निघण्टो तु पनस्यधातुः
अर्चतिकर्मसु पठितः तेन पूजायामपि ।

पनस्यु त्रि० पनस्य नामधातुः उ । आत्मनः स्तोत्रेच्छौ ऋ० १ । ३८ । ५

पनिष्टम त्रि० पन--कर्मणि इसुन् अतिशयेन पगिः तमप् ।

स्तुत्यतमे साम० १ ३२ । ४

पनिष्ठ त्रि० अतिशयेन पनिता इष्टन् तृणोलोपः । स्तोवृ-

तमे ऋ० ६ । ५९ । २ ईयसुन् । पनीयस् तत्रार्थे स्त्रियां ङीप्

पनिस्पद त्रि० स्पन्द--यङ्लुक् अच् अभ्यासे निगागमः ।

भृशं स्पन्दमाने अथ० ५ ३० १६

पनु स्त्री पन--उ । स्तुंतौ ऋ० १ । ६५ । २

पन्थक त्रि० पथि जातः “पथः पन्थ ध” पा० कन् । पथिजाते सि० कौ० ।

पन्न त्रि० पद--क्त । १ च्युते २ गलिते च अमरः । ३ गते

पद--तन् । ४ नीचगमने न० उज्ज्वल० ।

पन्नग पु० पन्नगथोमुखं यथा तथा गच्छति, पद्भ्यां न गच्छति

वा गम + ड । १ सर्पे अमरः जातौ ङीप् सर्फाम् ।
२ पद्मकाष्ठे मेदि० ३ सीसके ग०

पन्नगकेशर पु० पन्नग इव केशरोऽस्य । गागकेतरे राजनि०

तस्य सर्पफणातुल्यकेशरत्वात् तथात्वम् ।

पन्नगारि पु० ६ त० । गरुड़े

पन्नगाशन पु० पन्नगः अशनमस्य । गरुड़े अमरः षन्नगभो-

जनादवोऽप्यत्र । तस्य तद्भोक्तृत्वकथा भा० आ०
अमृताहरणप० दृश्यम् ।

पन्नद्धा स्त्री पदि नद्धा । चर्मपादुकायां हेमच० ।

पन्नद्ध्री स्त्री पदः नद्ध्रीव नह--ष्ट्रन्--ङीष् वा ६ त० । चर्ममय-

पादुकायां त्रिका० ।

पन्नागार प्राच्ये गोत्रप्रवर्त्तकर्षिभेदे तस्यापत्यम् इञ् ।

पान्नागारि तदपत्ये पुंस्त्री० । बहुत्वे इञोलुक् । पन्ना-
गारा इत्येव ।

पन्निष्क पुंन० पांदो निष्कस्य एकदेशिस० वा पदादेशः ।

निष्कस्य चतुर्थभागे पदादेशाभावे पादनिष्कोऽप्यत्र ।

पन्य त्रि० पन--स्तुतौ अघ्न्यादि० यत् । स्तुत्ये ऋ० ३ । ३६ । ३

पन्यस् त्रि० पन--असुन् युगागमः । १ स्तोतरि ऋव्०

९ ९ २ उदा० । २ स्तुत्ये च ६ १८ ९ उदा० ।

पपि पु० पा--कि द्वित्वम् । १ चन्द्रे २ पानकर्त्तरि च त्रि० ।

पपी पु० पा--ईक् द्वित्वम् । १ चन्द्रे २ सूर्य्ये च उज्ज्वल० ।

पपु त्रि० पा--कु द्वित्वम् । पालके उज्ज्वल० ।

पपुरि त्रि० पॄ--कि द्वित्वम् । प्रीणनशीले । ऋ० १ । १५ । ४

पपुक्षेण्य त्रि० सम्पर्कार्हे । ऋ० । ५ । ३३ । ६ भाष्ये स्थितम् ।

पप्रि त्रि० प्रा० पूरणे कि द्वित्वम् । पूरणशीले यजु० १८ ।

पफक पु० गोत्रर्षिभेदे ततः तिका० गोत्रे फिञ् ।

पाफकायनि तद्गोत्रापत्ये । बहुत्रे निरवकेन सह फिञो-
लुक् । कफकनिरवका इत्येव

पमरा स्त्री (सल्लकी) ख्याते गन्धद्रव्यभेदे राजवल्लभः ।

पम्पस् दुःखे कृच्छ्रीभावे कण्ड्वा० प० अक० सेट् । पम्पस्यति

अपम्पस्यीत् ।

पम्पा स्त्री १ दक्षिणस्थनदीभेदे भा० अनु० १ । ६ । ऋष्यमूकशैल-

समीपस्थे २ सरोभेदे च “एषा पम्पा शिवजला बहुतोया
तड़ागिनी” भा० व० २७६ अ० । ततः वरणादि० चातु-
रर्थिकस्य लुक् । पम्पानामटूरभवं नगरं पम्पा इत्येव ।

पम्ब गतौ भ्वा० प० सक० सेट् । पम्बति अपम्बीत् पपम्ब ।

पय गतौ भ्वा० आत्म० सक० सेट् । पयते अपयिष्ठ ।

पयःकन्दा स्त्री पयः दुग्धमिव स्वादुत्वात् कन्दोऽस्याः ।

क्षीरविदार्य्याम् राजनि० ।

पयःपयोष्णी स्त्री पयःप्रचुरा पवोष्णी शा० त० । नदीभेदे भा० व० १२० अ० ।

पृष्ठ ४२३२

पयःफेनी स्त्री पयः दुग्धमिव फेनमस्याः गौरा० ङीप् ।

दुग्धफेन्यां राजनि० ।

पयश्चय पु० ६ त० जलपूरे जटा० ।

पयस् न० पा--पाने कर्मणि असुन् इकारश्चान्तादेशः । १ दुग्धे

२ जले च मेदि० ३ अन्ने ४ रात्रौ च निघण्टुः ।

पयस्य प्रसृतौ (परिमाणविशेषे) कण्ड्वा० अक० सेट् । पयस्यति

अपयस्यीत् ।

पयस्य त्रि० पयसो दुग्धस्य विकारः तत्र हितं वा यत् ।

१ दुग्धविकारे दध्यादौ अमरः । २ दुग्धहिते त्रि० ३ विड़ाले
पु० शब्दच० । ४ दुग्धिकायां ५ क्षीरकाकोल्यां ६ स्वर्ण-
क्षीरिकायां च स्त्री मेदि० । ७ अर्कपुष्पिकायां रत्नमाला
८ कुटुम्बिनीक्षुपे राजनि० । ९ आमिक्षायाम् हेमच० ।

पयस्वत् त्रि० पयस् + अस्त्यर्थे मतुप् मस्य वः सान्तत्वान् न

पदकार्य्यम् । १ जलविशिष्टे स्त्रियां ङीप् । २ नद्यां स्त्री
ब० व० निचण्ठुः ।

पयस्वल त्रि० पयोऽस्त्यस्य वलच् सान्तत्वात् न पदकार्यम् ।

१ जलयुक्ते । २ छागे पुंस्त्री राजनि० स्त्रियां जाति-
त्वात् ङीष् ।

पयस्विन् त्रि० पयोऽस्त्यस्य विनि न पदकार्यम् । १ पयोवि-

शिष्टेस्त्रियां ङीप् । २ नद्यां ३ धेन्वां ४ रात्रौ च मेदि० ।
५ काकोल्यां ६ क्षीरकाकोल्यां ७ दुग्धफेन्यां ८ क्षीरवि-
दार्य्यां ९ छाग्यां रालनि० । १० जीवन्यां भावप्र० ।

पयाय आत्मनः पय इच्छति क्यङ् नामधातुः आ० अक० सेट्

वा सलोपः । पयायते पयस्यते ।

पयोगल पु० पयो यलति यस्मात् गल--अपादाने क ।

१ चनोपले (करका) २ द्वीपे च शब्दमा० ।

पयोग्रह पु० पयसो दुग्धस्व ग्रहः ग्रह आधारे अच् ।

यज्ञिये पात्रमेदे । कात्या० श्रौ० १० । २ । १३ ।

पयोघन पु० पयसा घनो निविड़ः । वर्षोपले हारा० ।

पयोजन्मन् पु० पयश्ची जन्म यस्मात् । १ मेघे शब्दमा० ।

२ सुस्तके च ।

पयोद पु० पयो ददाति दा--क । १ जलदे मेघे २ सुस्तके च

३ बदुनृपपुत्रभेदे हरिवं० ३० अ० ४ कुमारानुचरमातृभेदे
स्त्री भा० श० ४७ अ० ।

पयोधर पु० पयो दुग्धं जलं वा धरति घृ--अण् ६ त० । १ मेघे

२ स्तने अमरः ३ सुस्तके च ४ कोषकारे ५ नारिकेले ६
कशेरुके च मेदि० ।

पयोधस् पु० पयो दधाति धा--असुन् । १ ससुद्रे २ जजाघारे त्रि० उणा० ।

पयोधारा स्त्री ६ त० । १ जसानां धारायाम् । पयसां धारां

यत्र । ३ नदीभेदे हरिवं० २३३ अ० ।

पयोधि पु० पयो धीयतेऽसिन् धा--आधारे कि उप० स० ।

समुद्रे राजनि० ।

पयोधिक न० पयधौ तदुपरि कायति कै--क । समुद्रफेने राजनि० ।

पयोनिधि पु० पयांसि निधीयन्ते यत्र नि + धा--आधारे कि

उप० स० । समुद्रे ।

पयोमुच् पु० पयोमुञ्चति मुच--क्विप् । १ जलमुचि मेघे २ मुस्तके च ।

पयोर पु० पयोजलं सेवने मुखनिस्रवजलं राति रा--क ।

१ स्वदिरे शब्दार्ण० । २ जलदायिनि त्रि० ।

पयोलता स्त्री पयःप्रधाना लता । क्षीरविदार्य्यां राजनि०

पयोवाह पु० पयो जलं वहति वह--अण् उप० स० । १ मेषे

२ मुस्तके च ।

पयोव्रत न० पयः तत्पानमात्रं व्रतम् । १ दुग्धपानमात्रे

व्रतभेदे तच्च त्रिरात्रादिसाध्यं मत्स्यपु० उक्तं यथा
“पुण्यां तिथिं समासाद्य युगमन्तरादिकम् ।
पयोव्रतस्त्रिरात्रं स्यादेकरात्रमथापि वा” ५२ अ० तद्द्विविघं
प्रायश्चित्तात्मकं काम्यञ्च मनुः ११ । १४४ । द्वादशाहसाध्यं त
विष्णुव्रतभेदः माग० ८ । १६ । पयस्तत्पानं व्रतमस्य । २ यज्ञ
दीक्षितव्रतभेदे शत० ब्रा० ९ । ५ । १ । १

पयोष्णिजाता स्त्री । पयोष्णी जाता यस्याः पृषो० ।

सरस्वत्यां नद्यां राजनि० ।

पयोष्णी स्त्री विन्ध्याचलदक्षिणस्थे नदीभेदे “पयोष्णी

सलिलं रुच्यं पवित्रं पापनाशनम् । सर्वामवहरं
सौख्यबलक्रान्तिप्रदं लघुं राजनि० । “एष विन्ध्यो
महाशैलः पयोष्णीयं समुद्रमा । आश्नमाश्च महर्षीणां
बहुमूलफलान्विताः । एष पन्था विदर्भाणामसौ
ण्च्छति कोसलाम् । अतः परश्च देशोऽयं दक्षिणे दक्षि-
ष्णापथः” भा० व० ६१ अ० ।

पर त्रि० पॄ--भावे अप्, कर्त्तरि अच् वा । १ अन्यस्मिन्

भिन्ने २ उत्तरे ३ दूरे ४ सीमापरिच्छिन्ने ५ श्लेष्ठे च
६ मोक्षे ७ केवले ब्रह्मणि च न “द्वे ब्रह्मणी वेदितव्ये
परञ्चापरमिति” श्रुतिः । ८ शत्रौ पु० । अस्य व्यवस्थायां
सर्वनामता ङिङस्योर्जसि च वा परस्मात् परात् । षरे
पराः वा । शत्रुपरत्वेऽपि व्यवस्थाबोधनात् सर्वनामता ।
९ ब्रह्मरप आयुःकाले च पु० “कालश्चख्यां समासेन पूर्वा-
“द्वयकल्पिताम् । सएव स्यात् परः कालदन्ते परिपू-
र्य्यते । निजेन तस्थ मागेन चायर्वर्षशतं स्मृतम् ।
पृष्ठ ४२३३
तत्पराख्यं तदर्द्धञ्च परार्द्धमभिधीयते” । “त्रीणि
कल्पशतानि स्युस्तथा षष्टिर्द्वि जोत्तमाः । व्रह्मणः
कथितं वर्षं पराख्यं तच्च यत्पदम्” कौर्मे ५ अ० ।
न्यायमते १० व्याषकसामान्धे “सामान्यं द्विविधं प्रोक्तं
परञ्चापरमेव च” भाषा० ११ तथाजातौ स्त्री “व्यापक-
त्वात् गराषि स्यात् व्याप्यत्वादपराऽपि च” । ववस्था च
दिम्देशकालैरवधिनियमभेदरूपा । १२ वक्ष्यमाणदैशि-
ककालिकपरत्वरूपगुणाश्रये त्रि० । तस्य दिशि दृष्टत्वेन
तद्योगे पञ्चमी । अयमस्मात् पर इत्यादिप्रयोगात् ।
परस्येदम् गहा० छ कुकच् । परकीय परसम्बन्धिनि त्रि० ।
सर्वनामत्बादस्य वृत्तौ पुंवत् । परस्याः धनं परधनम्
परस्यामित्यर्थे परत्र इत्यादि । १ ३ बोधेच्छवा उच्चरिते
“यत्परः शब्दः स शब्दार्थ इति न्यायः तात्पर्य्यम् ।

परःकृष्ण त्रि० परः कृष्णात् पारस्करा० सुट् । कृष्णात् परे

छान्दोम्यो० १ । ६ । ५ उदा० ।

परःपुमस् पु० परः सन्यः पुंसः पारस्करा० सुट् । स्वपुरु-

षादन्यस्मिन् पुरुषे “यत् परपुंसा वा पत्नी स्यात्”
शत० ब्रा० १ । ३ । १ । ३१

परःशत न० परे शातात् पारस्करा० सुट् । १ यताधिकसं-

ख्यायां २ तत्सङ्ख्यातेषु च अमरः ।

परःश्वस् अव्य० श्वः परं दिनं नि० पारस्करा० सुट् ।

आगामिपरदिवसात् परस्मिन् दिने अमरः पृषो० । परश्व
इत्यप्यत्र ।

परःषष्टि स्त्री परःषष्टेः निपा० सुट् । १ षष्टेरघिकसङ्ख्यायां

२ तत्संख्यातेषु च शत० ब्रा० १० । २ । ६ । ८

परःसहस्र न० सहस्नात् परे नि० सुट् । १ सहसाधिकसं-

ख्यायां २ तत्संख्यान्वितेषु च अमरः ।

परउर्वी स्त्री परौर्व्याः नि० पारस्करा० सुट् । १ उपसद्भेदे

“उपर्य्युपरि एकद्रव्यादिवृद्ध्या ब्रतवृद्धिर्यास्वस्ति ताः
परौर्व्यीरुपसदस्ताः केचनानुतिष्ठन्ति” शत० ब्रा० २ । ४ । ४
२६ भाष्यम् ।

परकीय त्रि० परसेदम् गहादि० छ “कुक जनस्य परस्य च”

बार्त्ति० कुक् । १ परसम्बन्धिनि । २ नाविकाभेदे स्त्री
रसनञ्जर्य्यां तद्भेदादिकसुक्त्रं यथा
“अप्रकटितपरपुरुषानुरागा परकीया । सा च द्विविधा
परोढा कन्यका चेति कन्घायाः पित्राद्यधीनत्वात्
परकीयत्वम् । अस्या गुप्ता एव सर्वाः चेष्टाः । गुप्ता (रक्षिता)
विदग्धाकुकटानुशयानासुदिताप्रभृतीनां वरकीयायामे-
बान्तर्भावः । विदग्मा द्विविधा वान्तिदग्धा क्रियावि-
दग्धा । अनुशयाना वृत्त्रस्थागविघटनेन भाविस्थाना-
भावशङ्कया स्वानधिष्ठितसङ्कतस्थाने भर्त्तुर्गमनानुमानेन
चानुशयाना भवति” । एतदुदाहरणानि तत्र द्वश्यानि ।

परक्रान्तिज्या स्त्री सू० सि० उक्तायां “परमापक्रमज्या तु

सप्तरन्ध्रगुणेन्दवः” १३९७ योजनात्मिकायां ज्यायाम् ।
“क्रान्त्योर्ज्ये त्रिज्ययाभ्यस्ता परक्रान्तिज्ययोद्धृते” सू०
सि० । “त्र्यूनं चतुर्दशशतं परमक्रान्तिज्येति रङ्गनाथः” ।

परक्षेत्र न० ६ त० । परकीये क्षेत्रे १ कलत्रे २ मूम्यादौ च ।

“अपुत्रेण परक्षेत्रे नियोगोत्पादितः सुतः” ।
“आददानः परक्षेत्रान्न दण्डं दातुमर्हति” इति च मनुः ।

परगामिन् त्रि० परं वाच्यं गच्छति लिङ्गेन समत्वात् ।

वाच्यलिङ्गे शब्दे “गुणद्रव्यक्रियायोगोपाधिभिः
परगामिनः” अमरः ।

परग्रन्थि पु० परेण ग्रन्थिरत्र । अङ्गुलिपर्वणि हारा० ।

परचक्र न० परस्य शत्रोश्चक्रम् । १ शत्रोः राष्ट्रादौ भा० आ०

१६ अ० । वृ० सं० ३ अ० । २ तज्जे ईतिभेदे

परच्छन्द त्रि० परस्य छन्दो यत्र । १ पराधीने ६ त० । २ पराभिलाषे च ।

परच्छिद्र न० ६ त० । परस्य दोषादिच्छिद्रे

परजात त्रि० परेण जातः । औदासीन्ये न परैघिते १

परपुष्टे अमरः । २ अन्येनोत्पन्ने कृण्डगोलकादौ
जनड । परजादयोऽप्यत्र ।

परजित त्रि० परेण जितः । १ परपुष्टे असरः २ पराजिते त्रि०

परञ्ज न० परञ्जयति जि--बा० ड सुस् च । १ तैलयन्त्रे

२ छुरिकाफले च मेदि० ।

परञ्जन पु० परां पश्चिमां दिशं जनयति स्वामित्वात्

जनअच् सर्वनाम्नो वृत्तौ पुंवत् सुस् । वरुणे हेमच० ।

परञ्जय पु० परां पश्चिमां दिशं जयति स्वामित्वात् जि--बा०

अश् सुम् पुंवद्भावः । १ वरुणे त्रिका० २ शत्रुजेतरि त्रि०

परतङ्गण पु० देशभेदे भा० स० ५१ अ० ।

परतन्त्र त्रि० परस्य तन्त्रमधीनता यत्र । पराधीने अमरः ।

परतर्कुक त्रि० परः शत्रुस्तर्कुरिवास्य कप् । शत्रुभययुते

“कुनस्वविवर्णैः परतर्कुकाश्च ताम्रैश्च पुरुषभूपतयः”
वृ० सं० ६१ अ० नरलक्षणोक्तौ ।

परतस् अव्य० पर + विभक्त्यर्थे तसिल् । १ परस्पादित्याद्यर्थे

२ पराधीने च । ततोभावेत्वपरतस्त्व पराधीनत्वे परतो-
ग्राह्यशब्दे दृश्यम् ।

परतापन न० गरुत्वतः १ पुत्रभेदे हरिवं० २०३ अ० । २ परतापके च ।

पृष्ठ ४२३४

परतोग्राह्म अव्य० परस्यात् ग्राह्मः । स्वभिल्लसामग्रीतो बोर्ध्ये

प्रमाणस्याप्रमाणत्वादौ तयोः कस्य स्वतोग्राह्यता कस्य वा
परतो ग्राह्यता तदेतन्मतभेदेन सर्वदर्शनसंग्रहे दर्शितम्
“प्रमाणत्वाप्रमाणत्वे स्वतः साङ्ख्याः समाश्रिताः ।
नैयायिकास्ते परतः, सौगताश्चरमं स्वतः । प्रथमं परतः
प्राहुः प्रमाण्यं, वेदवादिनः । प्रमाणत्वं स्वतः प्राहुः,
परतश्चाप्रमाणताम्” इति । “वादिविवाददर्शनात्
कखङ्कारं वेदानां धर्मे स्वतःप्रामाण्यमिति सिद्धवत्कृत्य स्वीक्रि-
यते । किञ्च किमिदं स्वतः प्रामाण्यं नाम? किं स्वत
एव प्रामाण्यस्य जन्म? आहोस्वित् स्वाश्रयज्ञागजन्य-
त्वम्? किमुत स्वाश्रयज्ञानसामग्रीजन्यत्वम्? उताहो
ज्ञानसामग्रीजन्यज्ञानविशेषाश्रितत्वम्? किं वा ज्ञानसा-
मग्रीमात्रजन्यज्ञानविशेषाश्रितत्वम्? तत्राद्यः सावद्यः-
कार्प्यकारणभावस्य भेटसमानाधिकरणत्वेनैकस्मिन्नस-
म्भवात्, नापि द्वितीयः गुणस्य सुतो ज्ञानस्य प्रामाण्यं
प्रति समवायिकारणतया द्रव्यत्वापातात् । नापि तृवीयः
प्रामाण्यस्योवाधित्वे जातित्वे वा जन्मायोगात्, स्मृति-
त्वानधिकरणस्यज्ञानस्य बाधात्यन्ताभावः प्रामाण्यीपाधिः
न च तस्वोत्पत्तिसम्भवः अत्यन्ताभावस्य नित्यत्वाभ्युप-
गमादत एव न जातेरपि जनिर्युज्यते । नापि चतुर्थः
ज्ञानविशेषो ह्यप्रमा विशेषसामग्र्याञ्च सामान्यसामग्री
अनुपविशति शंशपासामग्र्यामिव वृक्षसामग्री, अपरथा
तस्याकस्मिकत्वं पसजेत् तस्मात् परतस्त्वेन स्वीकृतं
पामाण्यं विज्ञानसामग्रीजन्याश्रितमित्यतिव्याप्तिरापद्येत ।
पञ्चमविकल्पं विकल्पयामः किं दोषाभावसहकृतज्ञान-
श्चामपीजन्यत्वमेव ज्ञानसामग्रीमात्रजन्यत्वं, किं दोषा-
भावासहकृतज्ञानसामग्रीजन्यत्वं, नाद्यः दोषाभावसह-
कृतज्ञानसामग्रीजन्यत्वमेव परतः प्रामाण्यमिति परतः
पामाण्यवादि भरुररीकरणात् नापि द्वितीयः, दोषा-
भावमहकृतत्वेन सामग्र्यां सहकृतत्वे सिद्धे अनन्यथा-
सिद्धान्वयव्यतिरेकसिद्धतया दोषाभावस्य कारणताया
वज्रलेपायमानत्वात् । अभावः कारणमेव न भवतीति चेत्
तदा वक्तव्यम् अभावत्वे कार्य्यत्वमस्ति न वा यदि नास्ति
तदा पटप्रध्वंसानुपपत्त्या नित्यताप्रसङ्गः । अथास्ति
किग्रपराद्धं कारणत्वेनेति सेयमुभयतःपाशा रज्ज्वुः ।
तदुदितमुदयनेन “भावो यथा तथाऽभावः कारणं कार्य्य
वन्मतम्” इति । तथाच प्रयोगः विमता प्रमा ज्ञान-
हेत्वतिरिक्तहेत्वधीना कार्य्यत्वे सति तद्विशेषत्वात्
अप्रमावत् प्रामाण्यं च परतो ज्ञायते अनभ्यासदशायां
सांशयिकत्वात् अप्रामाण्यवत् । तस्मादुत्पत्तौ ज्ञप्तौ च
परतस्त्वे प्रमाणसम्भवात् स्वतः सिद्धं प्रामाण्यमित्येतत्
पूतिकुष्माण्डायत इति चेत् तदेतदाकाशमुष्टिहननायते ।
विज्ञानसामग्रीजन्यत्वे सति तदतिरिक्तहेत्वजन्यत्वं
प्रमायाः स्वतस्त्वमिति निरुक्तिसम्भवात् अस्ति चात्रानु-
मानं विमता प्रमा विज्ञानसामग्रीजन्यत्वे सति तदति-
रिक्तजन्या न भवति अप्रमात्वानधिकरणत्वात् थटादि-
वत् न चौदयनमनुमानं परतस्त्वसाधकमिति शङ्कनीयं
प्रमा दोषव्यतिरिक्तज्ञानहेत्वतिरिक्तजन्या न भयति ज्ञान-
त्वादप्रमावदिति प्रतिसाधनग्रहग्रस्तत्वात् ज्ञानसामग्री-
मात्रादेव प्रमोत्पत्तिसम्भवे तदतिरिक्तस्य गुणस्य दोषा-
भावस्य वा कारणत्वकल्पनायां कल्पनागौ रवप्रसङ्गाच्च ।
ननु दोषस्याप्रमाहेतुत्वेन तदभावस्य प्रमां प्रति हेतुत्व
दुर्निवारमिति चेत् न दोषाभावस्याप्रमाप्रतिबन्धकत्वेना-
न्यथासिद्धत्वात् । “तस्माद्गुणेभ्यो दोषाणामभाव-
स्तदभावतः । अप्रमाण्यद्वयासत्त्वं तेनोत्सर्गो
नयोदितः” इति । तथा प्रमाज्ञप्तिरपि ज्ञानज्ञापकसामग्रीत
एव जायते । न च संशयानुदयप्रसङ्गो बाधक इति युक्तं
वक्तुं सत्य प प्रतिभासपुष्कलकारणे प्रतिबन्धकदोषादि-
समवधानात् तदुपपत्तेः । किञ्च तावकमनुमानं स्वतः
प्रमाणं न वा आद्ये अनैकान्तिकता द्वितीये तस्यापि
परतः प्रामाण्यमेवं तस्य तस्यापीत्यनवस्था दुरवस्था
स्यात् । यदत्र कुसुमाञ्जलावुदयनेन झटिति प्रचुर-
प्रवृत्तेः प्रामाण्यनिश्चयाधीनत्वाभावमापादयता प्रण्य-
यादि प्रवृत्तिर्हीश्चामपेक्षते तत्प्राचुर्य्ये चेच्छाप्राचुर्य्यम्
इच्छा चेष्टसाधनताज्ञानं तच्चेष्टजातीयत्वलिङ्गानुभवं
सोऽपीन्द्रियार्थसन्निकर्षं प्रामाण्यग्रहस्तु न क्वचिदुप-
युज्यत इति तदपि तस्करस्य पुरस्तात् कक्षे सुवर्णमुपेत्य
सर्वाङ्गोद्घाटनमिव पतिभाति । अतः समीहितसाधनज्ञा-
नमेव प्रमाणतयावगम्यमानमिच्छां जनयतीत्यत्रैव स्फुट
एव प्रामाण्यग्रहणस्योपयोगः । किञ्च क्वचिदपि चेन्नि-
र्विचिकित्सा प्रवृत्तिः संशयादुपपद्येत तर्हि सर्वत्र तथामा-
वसम्भवात् प्रामाण्यनिश्चयो निरर्थकः स्यात् । अनिश्चितस्य
सत्त्वमेव दुर्लभमिति प्रामाण्यं दत्तजलाञ्जलिकं भवेत्” ।

परत्र अव्य० परस्मिन् काले पर + त्रल् । पस्काले स्वर्पादिलोके ।

परत्रभीरु त्रि० परलोकभीरौ धर्सिष्ठे कात्या० स्मृतिः ।

पृष्ठ ४२३५

परत्व न० परस्य भावः । वैशेषिकोक्तौ दव्याश्रिते गुणभेदे

तच्च द्विविधं दैशिकं कालिकञ्च तदेतत् कणादसूत्रोप-
स्करवृत्त्योर्निर्णीतं यथा “एकदिक्काभ्यामेककालाभ्यां
सन्निकृष्टविप्रकृष्टाभ्यां परमपरञ्च” सू० ।
“इदानीमुद्देशक्रमप्राप्ते परत्वापरत्वे परस्परानुबद्धव्य-
वहारकारणतया शिष्यबुद्धिवैशद्यार्थं संक्षेपार्थञ्चैकग्रन्थे-
नाह परमपरञ्चेति भावप्रधानो निर्देशः, उत्पद्यत
इति शेषः, यद्वा परमपरञ्चेति व्यवहार इति शेषः,
इतिरध्याहार्यः । एका दिग् ययोस्तावेकदिकौ ताभ्या-
मेकदिक्काभ्यां पिण्डाभ्यामित्यर्थः तुल्यदेशावप्येकदिक्कौ
भवतः न तु ताभ्यां परत्वापरत्वे उत्पद्येते व्यवह्रियेते
वेत्यत उक्तं सन्निकृष्टविप्रकृष्टाभ्यामिति, सन्निकर्षः
संयुक्तसंयोगाल्पत्वम्, विप्रकर्षस्तद्भूयस्त्वं, तद्वद्भ्यामित्यर्थः ।
एतेन समवायिकारणमुक्तं, दिक्पिण्डसंयोगस्त्वसमवायि-
कारणं, तथा हि प्राङ्मुखस्य पुरुषस्य प्राच्यवस्थितयोः
पिण्डयोरेकस्मिन् संयुक्तसंयोगभूयस्त्वमपरस्मिन् संयुक्त-
संयोगाल्पतरत्वञ्चापेक्ष्य परत्वमपरत्वञ्चोत्षद्यते,
असमवायिकारणमुक्तम्, सन्निकृष्टविप्रकृष्टाभ्यामिति विषयेण
विषयिणं प्रत्ययमुपलक्षयति तथा चापेक्षाबुद्धेर्निमित्त-
कारणत्वमुक्तम्, एकदिगवस्थितयोरेव परत्वापरत्वे
उत्पद्येते इति न सर्वत्रोत्पत्तिः, एकस्यैव द्रष्टुरपेक्षावुद्धिः
समुत्पद्यते इति न सर्वथोत्पत्तिः, अपेक्षाबुद्धिनियमान्न
सर्वदोत्पत्तिः कारणशक्तेरुत्पन्नयोः प्रत्यक्षसिद्धत्वान्न
परस्पराश्रयत्वम्, अन्यथा हि नोत्पद्येयातां न वा प्रतीये-
यातां परस्परापेक्षायां हि द्वयोरनुत्पत्तिरप्रतीतिश्च स्यात्
प्रतीयेते च परत्वापरत्वे, प्रतीतिश्च तयोर्नोत्पत्तिमन्तरे-
णेति । एककालाभ्यामिति कालिकपरत्वापरत्वे अभिप्रेत्य
तत्रैककालाभ्यामिति एको वर्त्तमानः कालोययीर्युवस्थ-
विरपिण्डयोः तावेककालौ ताभ्यामेककालाभ्यामित्यर्थः ।
सम्निकर्षोऽल्पतरतपनपरिस्पन्दान्तरितजन्मत्वं, विप्रकर्षश्च
बहुतरतपनपरिस्पन्दान्तरितजन्मत्वम्, अत्रापि विषयेण
विषयिणीं बुद्धिमुपलक्षयति तेन युवस्थविरपिण्डौ
समवायिकारणे, कालविण्डसंयोगश्चासमवायिकारणम्, अल्प-
तरतपनपरिस्पन्दान्तरितजन्मत्वबुद्धिरपरत्वे बहुतरतप-
नपरिस्पन्दान्तरितजन्मत्वबुद्धिः परत्वे निमित्तकारणम् ।
एते च परत्वापरत्वे अनियतदिग्देशयोरपि पिण्डयी-
रुत्पद्येते, तत्र दैशिकपरत्वापरत्वयोः सप्तधा विनाशः
उत्पादस्तु युगपदेव द्वयोरन्यथाऽन्योन्याश्रयः स्यात्,
अपेक्षाबुद्धिनाशात्, १ संयोगस्यासमवायिकारणस्य
नाशात्, २ द्रव्यस्य च समवायिकारणस्य नाशात्, ३ निमि-
त्तसमवायिकारणयोर्नाशात्, ४ समवाय्यसमवायिकारण-
योर्नाशात्५ निमित्तासमवायिकारणयीर्नाशात्, ६
निमित्तनाशासमवायिकारणनाशसमवायिकारणनाशेभ्यः ७ ।
तत्रापेक्षाबुद्धिनाशात् १ तावत्, परत्वोत्पत्तिः परत्वसा-
मान्यज्ञानं ततोऽपेक्षाबुद्धिविनाशस्तद्विनाशात् परत्व-
विशिष्टद्रव्यज्ञानकाले परत्वनाशः, द्वित्वनाशवदेव सर्व-
मूहनीयम् । असमवायिकारणनाशादपि ३ तद्यथा
यदैवापेक्षाबुद्धिस्तदैव परत्वाधारे पिण्डे कर्म्म ततो यदैव
परत्वोत्पत्तिस्तदैव दिक्पिण्डविभागस्ततो यदा परत्वसा-
मान्यज्ञानं तदा दिक्पिण्डसंयोगनाशः ततः सामान्य-
ज्ञानादपेक्षाबुद्धिनाशस्तदैव दिक्पिण्डसंयोगनाशत्
परत्वापरत्वयोर्नाशः, तत्र चापेक्षाबुद्धिनाशस्य परत्वनाशसम-
कालत्वान्न तन्नाशकत्वम् । नन्वसमवायिकारणनाशादपि
गुणनाशे आत्ममनःसंयोगनाशादपि संस्कारादृष्टादोनां
विनाशे बहु व्याकुलं स्यादिति चेन्न विप्रकृष्टत्वेन
परत्वस्य व्यापनात् परत्वाधारस्यान्यत्र गमने विप्रकर्षाभावात्
परत्वनिवृत्तिरावश्यकी न च तदा नाशकान्तरनस्तीत्य-
न्यथाऽनुपपत्त्या संयोगनाश एव नाशकः कल्प्यते,
संस्कारादृष्टादेः कार्य्यस्य स्मृतिसुखादेश्चिरेणापि दर्शनान्न
तन्नाशकल्पना । उपलक्षणञ्चैतत् अवधेर्द्रष्टुश्च तत्तद्देशसं-
योगनाशादपि परत्वापरत्वे विनश्यतः युक्तेस्तुल्यत्वात् ।
समवायिकारणनाशादपि क्वचित् परत्वनाशः ३ तथा हि
यदा पिण्डावयवे समुत्पन्नेन कर्मणाऽवयवान्तराद्विभाग-
स्तदैवापेक्षाबुद्धिः, विभागात् पिण्डारम्भकसंयोगनाशः
परत्वोत्पत्तिः, अग्रिमक्षणे संयोगनाशाद्द्रव्यनाशः
परत्वसामान्यज्ञानं, द्रव्यनाशात् परत्वनाशीऽपेक्षाबुद्धिनाशश्च
सामान्यज्ञानात्, तथाच यौगपद्यान्नापेक्षाबुद्धिनाशात्
परत्वनाश इति, क्वचिद्द्रव्यनाशापेक्षाबुद्धिवाशाभ्यां
परत्वनाशः ४ तद्यथा पिण्डावयवे कर्मापेक्षाबुद्धेरुत्पाद-
स्ततोऽवयवान्तरविभागः परत्वोत्पत्तिः तत आरम्भक-
संयोगनाशसामाम्यज्ञाने ततो द्रव्यनाशापेक्षाबुद्धिनाशौ
ततश्च परत्वनाशः । क्वचिद्द्रव्यस्य संयोगस्य च नाशाभ्यां
परत्वनाशः ५ तद्यथा यदा द्रव्यावयवविभागस्तदैव पिण्ड-
कर्मापेक्षाबुद्ध्योरुत्पादस्तदनन्तरमवयवसंयोगवाशदिक्पिण्ड
विभागपरत्वोत्पत्तयः ततो द्रव्यनाशदिक्पिण्डसंयोगवाश-
परत्वसामान्यबुद्धयः ततो द्रव्यनाशदिकपिण्डसंयोगना-
शाभ्यां परत्वनाशः सामान्यबुद्धेरपेक्षाबुद्धिनाश इति ।
क्वचित् संयोगनाशापेक्षाबुद्धिनाशाभ्यां परत्वनाश ६ तदु
पृष्ठ ४२३६
यथा परत्वोत्पत्तिपिण्डकर्मणी सामान्यज्ञानविमागौ
अपेक्षाबुद्धिनाशदिक्पिण्डसंयोगनाशौ ततः परत्वनाशः ।
कचित् समवाय्यसमवायिनिमित्तनाशेभ्यः ७ तद्यथा
परत्वोत्पत्तिपिण्डावयवविभागपिण्डकर्माणि युगपत्,
तदनन्तरं परत्वसामान्यज्ञानावयवसंयोगनाशदिक्पिण्डवि-
मागाः तदनन्तरसपेक्षाबुद्धिनाशद्रव्यनाशदिक्पिण्डसंयोग-
नाशेभ्यो युगपदुत्पन्नेभ्यः परत्वस्यापरत्वस्य वा दैशिकस्य
नाशः । कालकृतयोस्तु परत्वापरत्वयोरसमवायिकारण-
नाशाधीनो नाशो नास्ति दैशिकयोर्दिक्पिण्डसंयोगनाशे
सन्निकर्षविप्रकर्षनाशो यथा न तथा कालिकयोरिति तयोः
समवायिकारणनाशात्१ अपेक्षाबुद्धिनाशात्२ द्वाभ्या-
ञ्चेति ३ त्रयः पक्षाः पूर्ववदूहनीयाः” ।

परदार पु० ब० व० ६ त० । परस्त्रियां मनुः ३ । १७४

“परदाररताश्चैव परद्रव्यहरा च ये । अधीधो नरकं यान्ति
पीड्यन्ते यमकिङ्करैः” कर्मलोचनम् । परयोषिदादयो-
ऽप्यत्र “ब्राह्मणैः क्षत्रियो वैश्यो यो रतः परयोषिति”
मनुः परदारान् गच्छति ठक् । पारदारिक तद्गन्तरि ।

परदेश पु० कर्म० । स्वाधिष्ठितदेशात् भिन्नदेशे वृ० सं० ३ । १ ३

परद्वेषिन् त्रि० परेभ्यः द्वेष्टि द्विष--णिनि । परदूषके खले

शब्दमाला ।

परधर्म्म पु० ६ त० । स्वोचितवर्णाश्रमादिधर्मभिन्ने धर्मे गीता

२ अ० मनुः १० । ९७ । कर्म० । उत्कृष्टधर्मे च

परध्यान कर्म० । ध्यानभेदे “ध्येये मनोनिश्चलतां याति

ध्येयं विचिन्तयत् । यत्तत् ध्यानं परं प्रोक्तं मुनिभि-
र्ध्यानचिन्तकैः” गरुड़पु० ।

परनिपात पु० परत्र निपातः उच्चाचरणम् । योग्यतया

विग्रहवाक्ये पूर्वश्रुतस्यापि शब्दस्य समासे परत्रोच्चारणे
यथा राजदन्तादिषु दन्तानां राजा इति विग्रहवाक्ये
पूर्वश्रुतस्यापि दन्तशब्दस्य परत्रोच्चारणम् । एवं पूर्वं
भूत इति वाक्ये भूतपूर्व इत्यादौ ।

परन्तप त्रि० परान् शत्रून् तापयति “द्विषत्परयोस्तापेः”

पा० खच् “खचि ह्रस्वः” पा० ह्रस्वः मुस् । १ शत्रुतापके
तामसमनोः २ पुत्रमेदे हरिवं ७ अ० ।

परपद न० कर्म० । १ उत्कृष्टस्थाने “तद्विष्णोः परं पदम्”

ऋ० वैष्णवीगायत्री । २ मोक्षे च ६ त० । ३ परस्य स्थाने च

परपाकनिवृत्त पु० परार्थात् पाकान्निवृत्तः । परोद्देश्यक

पाकान्निवृत्ते पद्घयज्ञानतष्ठातरि “गृहीत्वाग्निं समारोप्य
यञ्चयज्ञाम्न निर्वपेत् । परपान्नमिवृत्तोऽसौ सगिभिः परि-
कीर्त्तितः” मिता० स्मृतिः । तदन्नभोजननिषेधः पतपा-
करतशब्दे दृश्यः ।

परपाकरत त्रि० परस्य पाके रतः । परपाकरुचौ “पञ्च

यज्ञान् खयं कृत्वा परान्नमुपजीवति । सततं प्रातरुत्थाय
परपाकरतस्तु सः” मिता० स्मृतिः । “परपाकनिवृत्तस्य
परपाकरतस्य च । अपचस्य च मुक्त्वान्नं द्विजश्चान्द्रा-
यणं चरेत्” मिता० स्मृतिः ।

परपिण्डाद परस्य पिण्डमन्नमत्ति अद--अण् उप० स० ।

परान्नोपजीविनि अमरः ।

परपुरुष पु० कर्म० । १ उत्कृष्टपुरुषे पुरुषोत्तमे विष्णौ त्रिका०

पुरुषोत्तमशब्दे दृश्यम् स्वभर्तृभिन्ने पुरुषे २ उपनायके च ।

परपुष्ट पु० परया काक्या पुष्टः सुष--क्त सर्बनाम्नः पुर्वत् ।

१ कोकिले । कोकिलया हि डिम्बस्फोटनादक्षया काकनी०
ड़स्थं काकडिम्बमपसार्य्य स्वडिम्बे तत्र स्थापिते काक्या
स्वडिम्बबुद्ध्याऽसौ पुव्यते इति लोकप्रसिद्धिः । परभृताद-
योऽप्यत्र माघे १२ । ११६ । २ अन्यपालिते त्रि० । ३ वेश्या-
याम् स्त्री मेदि० ।

परपुष्टमहोत्सव पु० षरपुष्टानां महोत्सवो यत्र । आम्रे

तस्य स्वपुष्पोद्गमद्वारा कोकिलानां महोत्सवजननात्त-
थात्वम् ।

परपूर्वा स्त्री पर इतरः पूर्वो यस्याः । “पतिं हित्वापकृष्टं

खसुत्कृष्टं या निषेवते । निन्द्यैव सा भवेल्लोके
परपूर्वेति चोच्यते” मनूक्तायां पुनर्भुवि स्त्रियाम् । तद्भेदश्च
नारदेव दर्शितः “परपूर्वाः स्त्रियस्त्वन्याः सप्त प्रोक्ता
यथाक्रमम् । पुनर्भूस्त्रिविधा तासां स्वैरिणी च
चतुर्विधा” अन्यपूर्वाशब्दे २१५ पृ० विवृतिः ।

परपौरवतन्तव पु० विश्वामित्रपुत्रभेदे भा० अनु० ४ अ० ।

परप्रतिनप्तृ पु० प्रतिनप्तुः परः अनन्तरः बा० परनि० ।

वृद्धप्रपौत्रे हेमच० ।

परप्रपौत्र पु० प्रपौत्रात् परः अनन्तरः वा० परनिपातः । वृद्गप्रपौत्रे हेमच० ।

परप्रेष्य स्त्री ६ त० । १ दासे २ दास्यां स्त्री काशीख० ३७ अ० ।

परब्रह्मन् न० कर्म० । निर्गुणे निरुपाधिके १ ब्रह्मणि तत्प्र-

तिपादके २ उपनिषद्भेदे च ।

परभाग पु० परस्य उत्कृष्टस्य भागः भावः । १ गुणोत्कर्षे

कर्म० । २ पश्चिमभागे च हेमच० । उभयत्र माघः १० । ८६
श्लोके उदा० । ३ सुसम्पादि त्रिका० ६ त० । ४ अन्यस्यांशे

परभाषा स्त्री कर्म० । संस्कतमिन्नायां भाषायामपशब्दे हारा०

पृष्ठ ४२३७

परभुक्त त्रि० २ त० । १ अन्येन भुक्ते ३ परभोगयुक्तायां स्त्रियां

स्त्री “परभुक्तां च कान्तां च यो भुङ्क्ते स नराधमः ।
स पच्यते कालसूत्रे यावच्चन्द्रदिवाकरौ” इत्यादिना
तत्स्त्रीगमने दोषाः ब्रह्मवै० पु० जन्मख० १८ अ० उक्ताः ।

परभृत् पु० परं स्वपुत्रबुद्ध्या कोकिलपुत्रं बिभर्त्ति भृ--क्विप्

६ त० । १ काके अमरः २ स्वेतरषोषकमात्रे त्रि० ।

परभृत पुंस्त्री० परेण खजनकभिन्नेन काकेन भृतः ।

१ कोकिले अमरः स्त्रियां जातित्वात् ङीष् । २ अन्यपुष्ट-
मात्रे त्रि० ।

परम् अव्य० पृ--अमि । १ नियोगे २ क्षेपे ३ केबले च मेदि० । ४ पश्चादर्थे च ।

परम त्रि० परं परत्वं माति--क । १ उत्कृष्टे २ प्रधाने ३ आद्ये

मेदिनिः ४ प्रणवे च विश्वः ।

परमक्रान्ति स्त्री सू० सि० उक्तायां सूर्य्यस्य शेषक्रान्तौ ।

परमक्रोधिन् पु० १ विश्वदेवभेदे मा० अनु० ९१ अ० । २ अत्यन्त०

क्रोधान्विते त्रि० ।

परमपु(पू)रुष पु० कर्म० । पुरुषोत्तमे विष्णौ

परमम् अव्य० पर + मा डमि । १ अनुज्ञायाम् २ स्वीकारे च मेदिनिः ।

परममहत् त्रि० परमं सर्वोत्कृष्टं महत् । सर्वापेक्षया

उत्कृष्टमहत्त्वगुणयुक्ते आकाशादौ “कालखात्मदिशां
सर्व गतत्वं परमं महत्” भाषा० । भावप्रधानः निर्देशः
परममहत्त्वमित्यर्थः । तस्य भावः परममहत्त्व सर्वोत्कृ-
ष्टमहत्त्वे “परमाणुषरममहत्त्वान्तोऽस्य वशीकारः”
पात० सू० “सूक्ष्मे निविशमानस्य परमाण्वन्तं स्थितिपदं
लभत इति स्थूले निविशमानस्य परममहत्वान्तं स्थि-
तिपदं चित्तस्य एवं तामुभयीं कोटिमनुधावतो
योऽस्याप्रतिघातः स परो वशीकारः तद्वशीकारात् परिपूर्णं
योगिनश्चित्तं न पुनरभ्यासकृतं परिकर्मापेक्षते” भा० ।

परमर्षि पु० कर्म० । वेदव्यासादिषु ऋषिषु तन्नामविरुक्तिः

मत्स्यपु० १२० अ० यथा
“ऋषिर्हिंसागतौ धातुर्विद्यासत्यतपश्रुतैः । एष सन्नि-
चयो यस्मात् ब्राह्मणश्च ततस्त्वृषिः । विवृत्तिसमका-
लन्त बुद्ध्या व्यक्तिमृषिस्त्वयम् । ऋषते परमं यस्मात
परमर्षिस्ततः स्मृतः । गत्यर्थादृषतेर्धातोर्नामानि वृत्ति-
कारणम् । यस्मादेष स्वयंभूतस्तस्माच्च ऋषिता मता” ।

परमहंस परमः हंस आत्मा यस्य सन्न्यासिभेदे “कुटीचको

बहूदकः हेसश्चैव तृत्रीवकः । चतर्थः परमो हंसो योय
पश्चात् स उत्तमः” हारीतः । परहंसोऽप्यत्र “परहंस
स्त्रिदण्डं च रज्वुं, गोबालनिर्मिताम । शिखां यज्ञोप-
वीतं च नित्यं कर्मं परित्यजेत्” स्कन्दपु० । “सशिखं
वपनं कुर्य्यात् हंसश्च परहंसकः । पौर्णमास्यामृतुष्वेषां
वपनं परिकीर्त्तितम्” पुराणसमुच्चये तद्धर्माः स्थिताः ।
दण्डधारणञ्चाविदुष एव विदूषस्तु तन्नास्ति “न दण्डं
न शिखां नाच्छादनं न भैक्षं चरति परमहंसः” महोप-
निषदुक्तेः “ज्ञानमेवास्य दण्डः” इति तत्रत्यवाक्यशेषाच्च ।
अन्येऽपि तद्धर्मा मिता० नि० सि० च उक्ता दृश्याः ।
कर्म० । २ परमात्मनि ३ तत्प्रतिपादके उपनिषद्भेदे ।

परमाणु पु० कर्म० । सर्वापकृष्टे परिमाणयुक्ते वैशेषिकमत-

प्रसिद्धे क्षित्यप्तेजोमरुतां १ सूक्ष्मांशभेदे तस्य च
नित्यत्वं तैरङ्गीकृतम् तन्नाशकाभावात् । ततो महाभूता-
रम्भप्रकारस्तु उत्पत्तिशब्दे ११ १५ पृ० कणादभाष्यन्याय-
कन्दल्योरुक्तो दर्शितः । “दोधूयमानास्तिष्ठन्ति प्रलये
पवमाणवः” इत्युक्तिस्तु सर्जनोन्मुखवायुपरमाणुवि
षया उत्पत्तिशब्ददर्शिते कणादभाष्यवाक्ये वायवीयपर-
माणूनां प्रथमं क्रियोत्पत्त्यैव दोधूयमानत्वोक्तेः
अन्येषां च तत्प्रेरणेनैव ततः परं क्रियोत्पत्तेः सम्भवात् ।
अन्यथा वायवीयपरमाणौ दोधूयमानत्वविशेषणासम्भव
इति विवेच्यम् । २ परमाण्ववच्छिन्ने कालभेदे “स कालः
परमाणुर्वै यो भुङ्क्ते षरमाणुताम् । सतो विशेष-
भुग्यस्तु कालः स परमो महान्” भाग० ३ । ११ । ५
“सतः प्रपञ्चस्य परमाणुतां परमाण्ववस्थां यो भुङ्क्ते
स कालः परमाणुः तस्यैव विशेषं साकल्यं यो भुङ्क्ते
स परमोमहान् । अयमर्थः “ग्रहर्क्षताराचक्रस्थ”
इत्यादिना यत् सूर्य्यपर्य्यटनं वक्ष्यति तत्र सूर्य्यो
यावता परमाणुदेशमतिक्रामति तावान् कालः परमाणुः ।
यावता च द्वादशराश्यात्मकं सर्वं भुवनकोषमतिक्रामति
स परमो महान् संवत्सरात्मकः तस्यैवावृत्त्या
युगमन्वन्तरादिक्रमेण द्विपरार्द्धान्तत्वमिति” श्रीधरस्वामी ।

परमाण्वङ्गक पु० परमाणुरङ्गं यस्य । १ ईश्वरे विष्णौ शब्द-

माला । कत्तुः शरीरावश्यकत्वाङ्गीकारे सर्वकर्त्तु-
रीश्वरस्य परमाणूनां तस्याङ्गत्वेनाङ्गीकारेण सामञ्ज-
स्यमिति न्यायमते स्थितम् ।

परमात्मन् पु० कर्म० । परमेश्वरे “स्वर्गापवर्गयोर्मार्गमाम-

नन्ति मनीषिणः । यदपास्तिमसावत्र षरमात्मा निरू-
प्यते” कुसुमा० । “परमात्मा परं ब्रह्म निर्गुणं प्रकृतेः
परः । कारणं कारणानाञ्च श्रीकृष्णो भगवान् खयम्”
ब्रह्मवे० पु० प्रकृति० २३ अ० गोता १५ अ० ।

परमाद्वैत पु० परसमद्वैतं यत्र । सर्वभेदरहिते परमात्मबि विष्णौ

पृष्ठ ४२३८

परमानन्द पु० परमः सर्वोत्कृष्ट आनन्दः । सकलानन्दोत्-

कृष्टानन्दात्मके परमात्मनि “परमानन्दमाधवम्” श्रीधरः ।
“एतस्यैव मात्रामुपजीवन्ति” इति श्रुतेः तैत्ति० उ०
ब्रह्मानन्दवल्ल्यां ८ अनुवाके “सैषानन्दस्य मीमांसा” इत्यु-
पक्रमे मानुषानन्दादिभ्यः प्रजापत्यानन्दान्तेभ्य ब्रह्मणः
शतगुणानन्दत्वोक्तेश्च तथात्वम् । आनन्दशब्दे ७१८ पृ०
तद्वाक्यान्युक्तानि । २ तथानन्दयुक्ते परमात्मनि इति
नैयायिकाः । तत्रानन्दशब्दस्य दुःखाभावपरत्वम् । इदन्त्वत्र
बोध्यम् “स एको ब्रह्मण आनन्द इत्यत्र अभेदे षष्ठी
भेदषष्ठीग्रहणे आनन्दशब्दस्य दुःखाभावपरत्वकल्पने च
अभावस्य निर्विशेषत्वात् श्रुत्युक्तस्य प्रजापत्यानन्दापेक्षया
शतगुणत्वस्यासम्भवात् ब्रह्मण आनन्दे प्रजापतिशतगु-
णत्वोक्तिर्विरुध्यते ।

परमान्न न० कर्म० । पायसे दुग्धपक्वेऽन्ने अमरः देवपितृ-

प्रियत्वात् परमत्वमस्य । कृतान्नशब्दे २१८१५ तत्पाक-
प्रकारगुणाद्युक्तं दृश्यम् ।

परमापक्रमज्या स्त्री सू० सि० उक्तायां परमक्रान्तिज्यायां

परक्रान्तिशब्दे दृश्यम् ।

परमापूर्व न० कर्म्म० । कलिकापूर्वजन्ये स्वर्गादिफलसाधने

अपूर्वभेदे कलिकापूर्वशब्दे १८०८ पृ० दृश्यम् ।

परमामुद्रा स्त्री त्रिपुरायाः पूजाङ्गे मुद्राभेदे “मध्यमे

कुटिले कृत्वा तर्जन्युपरिसंस्थिते । अनामिके मध्यगते
तथैव हि कनिष्ठिके । सर्वा एकत्र संयोज्य अङ्गुष्ठपरि-
पीड़िताः । एषा तु परमामुद्रा योनिमुद्रेयमीरिता ।
एतामुद्रा महेशानि । त्रिपुराया मयोदिताः । पूजाकाले
प्रयोक्तव्या यथानुक्रमयोगतः” तन्त्रसारः ।

परमायुष पु० परममार्युर्यस्य पृषो० बा० अच्स० । असनवृक्षे

शब्दच० ।

परमायुस् न० कर्म० । यस्य यावत्कालं जीवनकालः

शास्त्रोक्तः तस्य तत्कालपर्य्यन्तजीवनकाले आयुर्दायशब्दे
७ ७३ पृ० तदानयनाद्युक्त दृश्यम् । शब्दमालायां
प्राणिभेदे परमजीवनकालभेदाश्च उक्ता यथा
“शतं वर्षाणि विंशत्या निशाभिः पञ्चभिः सह ।
परमायुरिदं प्रोक्तं नराणां करिणामिह । अव्दा
द्वात्रिंशदश्वानां शुनां द्वादश वत्सराः । पञ्चविंशतिवर्षाणि
खरस्य करभस्य च । चतुर्विंशतिरव्दानां वृषस्य
महिषस्य च । मृगशूकरवस्तादिपशूनां षड्दशान्विताः”
अधिकमायुस्शब्दे ७८५ पृ० दृश्यम् ।

परमार्थ पु० कर्म० । १ उत्कृष्टवस्तुनि २ यथार्थे च माण्डुक्य

वार्त्तिकं तत्र अर्थस्य अबाधितत्वात् परमत्वम् ।

परमार्हत पु० परम अर्हन् उपास्यतया अस्त्यस्य अच्, अर्हन्

देवताऽस्य अण् कर्म० वा । जैनराजर्षिभेदे हेमचन्द्रः ।

परमीकरणमुद्रा स्त्री देवताह्वानाङ्गे मुद्राभेदे “अन्योन्य-

ग्रथिताङ्गुष्ठप्रसारितकराङ्गुली । महामुद्रेयसुदिता
परमीकरणे बुधैः । प्रयोजयेदिमा मुद्रा देवाताह्वानकर्मणि”
तन्त्रसा० । इमाः आवाहन्यादिपरमीकरणान्ता इत्यर्थः ।
परमीकरणञ्च अस्या मुद्राया देवदर्शनपथे भ्रामणम् ।

परमृत्यु पु० परस्मात् मृत्युरस्य । काके त्रिका० तस्य

रोगादिना स्वती मृत्योरभावेन परहेतुकमृत्युत्वात्तथात्वम् ।

परमेश पु० कर्म० । परमेश्वरे

परमेश्वर पु० कर्म० । जगत्सृष्ट्यादिकारके सगुणे त्रिमू-

र्त्तिके १ ब्रह्मणि २ चक्रवर्त्तिनि नृपे च । ३ शिवे हला०
४ विष्णौ च ।

परमेष्ठ पु० परमे चिदाकाशे सत्यलोके वा तिष्ठति स्था--क

अलुक्समा० अम्बाम्बेति षत्वम् । चतुर्मुखे ब्रह्मणि ।
क्विप् । परमेष्ठा अप्यत्र यजु० १ ४ । ३१ तत्र “स्थास्थिन्
स्थूणामिति” षत्वम् ।

परमेष्ठिन् पु० परमे व्योमनि चिदाकाशे ब्रह्मणि सत्यलोके

वा तिष्ठति “परमे किच्च” उणा० इनि अलुक्स० “स्थास्थि-
न्स्थूणाम्” षत्वम् । चतुर्मुखे ब्रह्मणि अमरः २ आजमीढ
नृपपुत्रभेदे भा० आ० ९४ अ० । ३ जिने पु० हेमच० ४
महादेवे भा० व० ३७ अ० ४ शालग्राममूर्त्तिभेदे “परमेष्ठी च
शुक्लस्तु पद्मचक्रसमन्वितः । चित्राकृतिस्तथा पृष्ठे शुषिरं
चातिपुष्कलम्” पुराणसमुच्चये । ६ गुरुभेदे “मन्त्रदाता
गुरुः प्रोक्तो मन्त्रस्तु परमो गुरुः । परात्परो गुरुस्त्वं
हि परमेष्ठी गुरुस्त्वहम्” तन्त्रम् परापरेति पाठान्तरम् ।
७ व्राह्म्यां (वामनहाटि) स्त्री राजनि० ङीप् तस्येदं
यत् टिलोपे । पारमेष्ट्य तत्सम्बन्धिनि त्रि० ।

परम्परा स्त्री परम् अतिशयेन पृणाति पिपूर्त्ति वा

पृपॄ--वा अच् । १ वंशे २ सन्ततौ अविच्छिन्नधारायाम्
हेमच० “एवं परम्पराप्राप्तो योगः प्रोक्तोमयाऽनघ!” गीता
३ बधे ४ अनुक्रमे च ५ मृगभेदे मेदि० प्रपौत्रादौ ६ अन्वते
७ प्रपौत्रसुते पु० शब्दच० ।

परम्पराक न० परम् अतिशयेन परा श्रेष्ठा परम्प्ररा तया

धारया आकोहिंसनं यत्र अक--कुटिलगतौ घञ् प्रशस्ता
परम्परा हिंसा अनिष्टाजनकत्वात् कन् बा, अषुसकत्यं
पृष्ठ ४२३९
कोपात् । १ यज्ञार्थे पशुहनने अमरः “या वेदविहिता
हिंसा नियतास्मिंश्चराचरे । अहिंसामेव तां विद्यात्”
इति मनूक्तेस्तस्या अहिंसात्वेन हि प्राशस्त्यम् ।

परम्परीण त्रि० परम्परया धारया आगतः ख । अविच्छे-

दसन्तत्यागते भट्टिः ५ सर्गः ।

परयुग न० कर्म० । उत्तरवर्त्तियुगे तत्र साधुः खञ् । पारयुगीन तत्र साधौ त्रि० ।

पररु पु० पृ--बा० अरु । केशराजे त्रिका० ।

पररूप त्रि० परस्य रूपमिव रूपमस्य । स्वोत्तरवर्त्तिपरस्येव

रूपवति “एङि पररूपम्” पा० ।

परलोक पु० कर्म० । लोकान्तरे स्वर्गादौ । तत्र स्थितादि ठञ्

अनुशतिका० द्विपदवृद्धिः । पारलौकिक तत्र स्थितादौ त्रि०

परलोकगम पु० परलोकं लोकान्तरं गमयति गम--णिच्-

अच् । मृत्यौ हेमच० ।

परवत् त्रि० परः नियोजकतयाऽस्त्यस्य मतुप् मस्य वः ।

पराधीने हेमच० स्त्रियां ङीप् ।

परवश त्रि० परस्य वश आयत्तता यत्र । पराधीने हेमच० ।

परवाणि पु० परं वाणयति वण--णिच्--इन् । १ धर्मा-

ध्यक्षे २ वत्सरे मेदि० । ३ कुमारवाहने मयूरे शब्दमा० ।

परवाद पु० ६ त० । १ परस्यापवादे कर्म० । २ उत्तरवादे च ।

परवादिन् पु० कर्म० । प्रत्यर्थिनि उत्तरवादिनि स्त्रियां ङीप् ।

परव्रत पु० परं व्रतमस्य । धृतराष्ट्रे शब्दमाला ।

परश पु० स्पर्श + पृषो० । स्पर्शमणौ यस्य स्पर्शात् इतरस्य

धातोः स्वर्णता तादृशे रत्नभेदे ब्रह्मवै० जन्मख० ४ अ० ।

परशव्य त्रि० परशौ हितं यत् । परशुहिते

परशु पु० परं शृणाति शृ--कु डिच्च । १ परश्वधे (टाङ्गी)

अस्त्रभेदे । स्पृश--अशुन् पृ आदेशः । पर्शुरप्यत्र
२ अस्त्रमात्रे च । परशुलक्षणञ्च हेमा० औशनसनीतिशा-
स्त्रोक्तं कुठारशब्दे २०७ ४ पृ० दर्शितम् ।

परशुराम पु० परशुधारी रामः शा० त० । जमदग्निजे

भगवदवतारभेदे येन परशुना त्रिःसप्तकृत्वो भूमिर्निःक्षत्रिया
कृता । अस्योत्पत्त्यादिकं यथा “अथ काले व्यतीते तु
धमदग्निर्महातपाः । विदर्भराजस्य सुतां प्रयत्रेन जितां
स्तयम् । भार्य्यार्थे प्रतिजग्राह रेणुकां लक्षणान्विताम् ।
सा तत्वात् सुसुवे पुत्रान् चतुरो वेदसम्मतान् ।
रुषस्त्वन्तं सुषेणञ्च विश्वं विश्वावसुन्तथा । पश्चात्तस्यां स्वयं
जज्ञे भगवान् मधुसूदनः । कार्त्तवीर्य्यबधायाशु
शक्राद्यः सकलैः सुरैः । याचितः पञ्चमः सोऽमूत्तेषां
रामाहयस्तु यः । भारावतरणार्शाब लाता परशुना
सह । सहजः परशुस्तस्य तं जहाति कदाच न
अयं निजपितामह्याश्चरुभुक्तिविपर्य्ययात् । ब्राह्मणः
क्षत्रियाचारो रामोऽभूत् क्रूरकर्मकृत् । स वेदानखि-
लान् ज्ञात्वा धनुर्वेदांश्च सर्वशः । स्वतातात् कृत
कृत्योऽभूद्वेदविद्याविशारदः” कालिकापु० ८५ अ० ।

परशुधर पु० परशुं धरति धृ--अच् । १ गणेशे हलाय० ।

२ परश्वधधारिमात्रे त्रि० ३ जामदग्न्ये परशुरामे पु० ।

परशुमुद्रा स्त्री मुद्राभेदे “तर्जनीमध्यमानामाकनिष्ठाङ्गु-

ष्ठमुष्टिका । अधोमुखी दीर्घरूपा मध्यमा विघमुद्रिका ।
परशुमुद्रा कथिता सिद्धिदा लड्डुमुद्रिका” तन्त्रसारः ।

परशुवन न० परशुवत्पत्रयुक्तं वनम् शा० त० । नरकभेदे

भा० व० ३ २ ३ अ० ।

परश्व(स्व)ध पु० श्वि--ड श्वो वृद्धिः परस्य श्वं धयति, परस्य

स्वं काष्ठं धयति वा धै--क । कुठारे अस्त्रभेदे अमरः ।

परश्वस् अव्य० परःश्वस् + पृषो० । आगामिदिनात् परदिने

अमरटीका ।

परस् अव्य० परस्मात् परस्मिन् परो वा पर + पञ्चम्याद्यर्थे

बा० असि । पञ्चम्याद्यर्थवृत्तौ परशब्दार्थे यजु० ५ । ४ २

परसंज्ञक पु० परः संज्ञाऽस्य कप् । देहादिभ्यः परस्मिन्

आत्मनि शब्दच० ।

परसवर्ण पु० समानवर्णः सवर्णः ३ त० । परेण उत्तर-

वर्त्तिना वर्णेन समानवर्णे पा० ८४ भा० ।

परस्तर त्रि० तरस्तरणीयः परः सातिशयमुत्कृष्टं तरः

पारस्करा० । अतिशयेन तरणीये ऋ० १० १५५ ३

परस्तात् अव्य० पर + पञ्चम्याद्यर्थे अस्ताति । पञ्चम्याद्य-

र्थवृत्तौ परशब्दार्थे परस्तात् ग्रामः ग्रामात् ग्रामे वा ।

परस्त्री स्त्री ६ त० । परकीयायां स्त्रियां तत्र भवादि अण्

ननागमः अनुशतिका० द्विपदवृद्धिः । पारस्त्रैण परस्त्रियां
भवादौ त्रि०

परस्पर त्रि० “सर्वनाम्नो द्वे वाच्ये समासवच्च बहुलम्”

वार्त्ति० “समासवद्भावे पूर्वपदस्य सुर्वक्तव्यः” वार्त्ति०
सुः । इतरेतरशब्दार्थे अत्र स्त्रीक्लीवयोस्तु “स्त्रीनपुं-
सकयोरुत्तरपदस्थाया विभक्तेराम्भावो वक्तव्यः” वार्त्ति०
आम् परस्परामित्येव । भट्टिः २ सर्गे उदा० ।

परस्मैपद न० परस्मै परोद्देशार्थफलकं पदम “वैयाकर-

णाख्यायां चतुर्थ्याः” अलुक्समा० । पाणिनिपरिभा-
षितेषु लकारादेशानामष्टानां मध्ये प्रथमेषु तिप्तस्झी-
त्यादिषु नवसु । “शेषात् कर्त्तरि परस्मैपदम्” पा०
पृष्ठ ४२४०
“आत्मनेपदनिमित्तहीनात् धातोः परस्मैपदं स्यात्”
सि० कौ० आत्मनेपदनिमित्तं च “कर्त्त्रभिप्राये क्रिया-
फले” इत्युक्तं कर्तृगामिक्रियाफलत्वं तच्छून्यत्वेन
परगामिक्रियाफलबोधयोग्यत्वादस्य परस्मैपदत्वसंज्ञेति
बोध्यम् । एवं परस्मैभाषाऽप्यत्र ।

परा अव्य० पृ--आ । १ प्रातिलोम्ये २ प्राधान्ये ३ घर्षणे

४ आभिमुख्ये ५ त्याने ६ विक्रमे ७ भृशार्थे ८ गतौ ९ भङ्गे
१० अनादरे ११ तिरस्कारे १२ प्रत्यावृत्तौ च मेदि० “परा
बधगतिदर्शनविक्रमाभिमुखभृशाधीनमोक्षणप्रातिलोम्येषु”
गणरत्नटीकोक्तार्थभेदे क्रमादुदाहृतं यथा पराहतः
परागतः परादृष्टः पराक्रान्तः परावृत्तः पराजितः
पराधीनः पराकृतः पराङ्मुखः” । १३ बन्ध्याकर्कोट्यां
“परा वागनपायिनी” इत्युक्ते १ ४ मूलाधारस्थे शब्दभेदे
“सा परा ययाऽक्षरमधिगम्यते” इति श्रुत्युक्तायां १५
ब्रह्मविद्यायाञ्च स्त्री ।

पराक पु० प्रायश्चित्तरूपे व्रतभेदे यथाह प्राय० वि०

“यदात्मनोऽप्रमत्तस्य द्वादशाहमभोजनम् । पराको नाम
कृच्छ्रोऽयं सर्वपापापनोदनः” मनुः । “जपहोमरतः
कुर्य्याद्द्वादशाहमभोजनम् । पराक एष विख्यातः सर्व-
पापप्रणाशनः” वृहस्पतिः । “पराके पञ्च धेनवः” इत्युक्तेः
पराकस्य पञ्चधेनुतुल्यत्वम् । यथाह अङ्गिराः “षड़्-
भिर्वर्षैः कृच्छचारी ब्रह्महा तु विशुध्यति । मासि मासि
पराकेण त्रिभिर्बर्षैर्व्यपोहति” । अत्र षड्भिर्वर्षैः
साशीतिशतप्राजापत्यानि पूर्वमुक्तानि तथा प्रतिमा-
स्येकैकपराकेण वर्षे द्वादश पराकाः वर्षत्रये षट्त्रिंशत्-
पराकाः । ततश्च षट्त्रिंशत्पराकाशीत्युत्तरप्राजापत्यश-
तयोः प्रत्येकं ब्रह्मबधपापक्षयैककार्य्यकरत्वात् तुल्यत्वम् ।
षट् त्रिंशतश्च पञ्चगुणमशीत्युत्तरशतं भवतीति” प्रा० त० ।

पराके अव्य० परा + अक बा० डे । दूरे निघण्दुः ।

पराकाश पु० वाचा प्रतिज्ञातस्यार्थस्य कर्मणाऽकृतस्य

परीक्षायाम् शत०ब्रा० १४९४११ भाष्यम् ।

पराक्पुष्पी स्त्री पराक् पुष्पं यस्याः ङीप् । अपामार्गे राजनि० ।

पराक्रम पु० परा + क्रम--करणे घञ् न वृद्धिः । बले

देहसामर्थ्ये अमरः ।

पराग पु० परागच्छति परा + गम--ड । १ धूलिमात्रे २ पुष्प-

रजसि माघः ६ । १ ३ स्नानीयद्रव्ये कुङ्कुमचूर्णादौ
अमरः । ४ उपरागे ५ चन्दने च मेदि० ६ स्वच्छन्दगतौ
शब्दच० ।

पराङ्ग न० ६ त० । १ अन्यस्याङ्गे “पराङ्गवत् स्वरे” पा०

२ श्रेष्ठाङ्गे ।

पराङ्गद पु० परमङ्गदमस्य उत्कृष्टाङ्गेन दायति दै--क वा । १ शिवे २ उत्कृष्टाङ्गयुक्तं त्रि० ।

पराङ्गव पु० पराङ्गम् उत्कृष्टाङ्गं जलवृद्ध्या वाति याति

वा--क । समुद्रे त्रिका० ।

पराङ्मुख त्रि० पराक् मुखमस्य । १ विमुखे २ क्रियादौ

प्रतीपाचारिणि स्त्रियां ङीप् । ३ निवृत्तकृत्ये “कामवीज्रं
मुखे माया शिरस्यङ्कुशमेव च । असौ पराङ्मुखः
प्रोक्तो मध्ये तु विन्दुलाञ्छितः” तन्त्रसारोक्ते ४ मन्त्रभेदे पु०

पराच् त्रि० परा--अञ्चति--क्विप् । १ प्रतिलोमगामिनि २ ऊर्द्ध्व-

गामिनि च “ये चामुष्मात् पराञ्चो लोकाः” छा० उ० ।
३ अप्रत्यक्षगम्ये परस्यात्मादौ पु० । पुंसि सर्वनामस्थाने
पराङ् पराञ्चौ इत्यादि स्त्रियां ङीप् । पराची ।
पराञ्चति क्विप् । ४ परगामिति बाह्यपुदार्थबोधके ५ प्रत्यग्रू
पात्मभिन्ने च “पराञ्चि खानि व्यतृणत् स्वयम्भूः,
तस्मात् पराङ् पश्यति नान्तरात्मन् । कश्चिद्धीरः
प्तत्यगात्मानमैक्षदावृत्तचक्षुरमृतत्वमिच्छन्” कठोप० ।
“पराञ्चि परागच्छन्तीति स्वोपलक्षितानि श्रोत्रादीनी-
न्दियाणि खानीत्युच्यन्ते । तानि पराञ्च्येव शब्दादि-
विषयप्रकाशनाय प्रवर्त्तन्ते । यस्मादेवं स्वाभाविकानि
तानि व्यतृणद्धिंसितवान् हननं कृतबानित्यर्थः । कोऽसौ
स्वयम्भूर्य्यः परमेश्वरः स्वयमेव स्वतन्त्रो मवति सर्वदा
न परतन्त्र इति । तस्मात् पराङ प्रत्यग्रूपभिन्नाना-
त्मभूतान् शब्दादीन् पश्यत्युपलभते नान्तरा-
त्मन् नान्तरात्मानमित्यर्थः । एवं स्वभावेऽपि सति
लोकस्य कश्चिन्नद्याः प्रतिस्रोतःप्रवर्त्त नमिव धीरो धीमान्
विवेकी प्रत्यगात्मानं प्रत्यक् चासावात्मा चेति प्रत्यगात्मा
प्रतीच्येवात्मशब्दो रूढो लोके नान्यस्मिन् व्युत्पत्ति
पक्षेऽपि तत्रैवात्मशब्दो वर्त्तते “यच्चाप्नोति यदादत्ते
यच्चात्ति विषयानिह । यच्चास्य सन्ततो भावस्तस्मादा-
त्मेति कीर्त्त्यते” इत्यात्मशब्दव्युत्पत्तिस्मरणात् । तं
प्रत्यगात्मानं स्त्वस्वभावमैक्षद् पश्यतीत्यर्थः छन्दमि
कालानियमात् । कथं पश्यतीत्युच्यते । आवृत्तचक्षु-
रावृत्तं व्यावृत्तं चक्षुः श्रोत्रादिकमिन्द्रियजातमशेषविषया-
द्यस्य स आवृत्तचक्षुः स एवं संस्कृतः प्रत्यगात्मानं
पश्यति । न हि बाह्यविषयालोचनपरत्वं प्रत्यगात्मेक्षण-
ञ्चैकस्य सम्भवतीति । किमिच्छन् पुनरित्थं महता
प्रयासेन स्वभावप्रवृत्तिनिरोधं कृत्वा धीर प्रत्यगात्मान
पश्यतीत्युच्यते अमृतत्वममरणधर्मत्वं नित्यस्वभावता-
मिच्छन्नात्मन इत्यर्थः” भा० ।
पृष्ठ ४२४१

पराचित त्रि० परेणाचितः । परपुष्टे अमरः ।

पराची स्त्री परा--अन्च--क्विप् ङीप् । अनुलोमेनानावृत्ताया

मृचि “तिसृभ्यो हिङ्करोति स पराचीभिः” ताण्ड्य० ब्रा०
२ परिवर्त्तिम्यां विष्टुतौ च “सैषा पराची” भा०
पराचीमिरनावृत्ताभिः ऋग्भिर्गीयते यथा प्रथमे पर्य्याये
अनावृत्ताभिर्गानं तथोत्तरयोरपीति” भा० ।

पराचीन त्रि० पराचि भवः स्व । १ उत्तरकालभवे २ परा०

ङमुखे अमरः ।

पराचैस् अव्य० परा--चि डैसि । दूरे निघण्टुः ऋ० १ । २४ ९

पराजय पु० परा + जि--अच् । पराभवे (हारि) अमरः ।

पराजित त्रि० परा + जि--कर्मणि क्त । पराभूते कृतपराजये ।

पराञ्ज पु० परतोऽज्यते अन्ज--बा० अच् । १ तैलयन्त्रफेने

२ छरिकाफले च शब्दर० । ल्युट् । पराञ्जनमप्यत्र न० ।

पराण् पु० परा + अन--विच् “अन्तः” पा० (पदान्तस्यानितेर्णत्वं

स्यादुपसर्गस्थात् निमित्तात् परश्चेत्) णत्वम् । जोवनयुक्ते
एवं प्राण् इत्यादावपि णत्वम् ।

परात्पर पु० परस्मात्परः अलुक्स० । १ गुरुभेदे परमेष्ठिन्-

शब्दे दृश्यम् । २ परमेश्वरे तस्य सर्बेभ्यः परत्वात्
तथात्वम् । “इन्द्रियेभ्यः परे ह्यर्था ह्यर्थेभ्यश्च परं मनः ।
मनसस्तु परा बुद्धिः बुद्धेरात्मा महान् परः । महतः
परमव्यक्तमव्यक्तात् पुरुषः परः । पुरुषान्न परं किञ्चित्
सा काष्ठा सा परा गतिः” कठवल्ली गीता च “परात्परं
साम्यमुपगि दिव्यम्” श्रुतिः ।

परात्प्रिय त्रि० परेणाद्यते अद--भाबे क्विप् तत्र परस्यादने

प्रियम् । (उलु) तृणभेदे शब्दच० ।

परात्मन् पु० कर्म० । १ परमात्मनि ६ त० । २ परस्यात्मनि च ।

परादन पुंस्त्री० परमुत्कृष्टमदनं यस्य । पारस्यदेशोद्भवेऽश्वे

(आरवीघोड़ा) त्रिका० ।

परादान न० परस्मै आदानं सम्यग् दानम् । षरोपकाराय

दयादिना कृपणादिभ्यः सम्यग्दाने यजु० १८ । ६४
वेददीपे दृश्यम् ।

पराधि पु० ६ त० । १ अन्यस्याधौ कर्म० । २ परममानसव्यथायाम् ।

पराधीन त्रि० पर + ङि अधि इति अलौकिकवाक्ये समासे

अध्युत्तरपदात् ख, परस्याधीनो वा । परायत्ते अमरः ।

परान(ण)सा स्त्री पराणित्यनया परा + अन--करणे वा०

अस । चिकित्साया शब्दत० । णत्वमध्यस्तु साधुः ।

परान्तक पु० परोऽन्तकः । सर्वनाशके महादेवे काशीख०

८ अ० । “मृत्युर्यस्योपसेचनम्” इति श्रुतः तस्य मृत्योर्ना-
शकत्वात् परान्तकत्वम् ।

परान्तकाल पु० परः ससारोत्तरं अन्तकालः । मुमुक्षूणां

संसारहानौ देहान्तकाले “ते ब्रह्मलोकेषु परान्तकाले
परामृताः परिमुच्यन्ति सर्वे” मुण्ड० ३ । २ । ६ संसारिणा ये
मरणकालास्ते अन्तकालास्तानपेक्ष्य मुमुक्षूणां संसार-
हानौ देहपरित्यागकालः परान्तकालः” भा० । वस्तुतः
कार्य्यब्रह्मणः आयुःकालरूपपरशब्दार्थस्यान्तकालः
परान्तकालः “कार्य्यात्यये तदध्यक्षेण सहातः परमा-
म्नानादिति” शा० सूत्रे तत्काले तेषां लयस्योक्तेः
ब्रह्मलोकेषु इति विशेषणाच्च तत्रैव तेषां मोक्ष इत्येव
युक्तम् ।

परान्तिका स्त्री “अस्य युग्मरचिता परान्तिका” वृ० र० उक्ते

गीतिरूपमालावृत्तभेदे अपरान्तिकेति तत्र पाठे तत्रार्थे

परान्न न० ६ त० । १ अन्यस्वामिकभक्तपिष्टकादौ । २ परकृत-

शस्यपाकजद्रव्यमात्रे ३ परपक्वान्ने च ।
व्रतादौ परान्नस्य त्याज्यत्वं यथा “परान्नं परवासश्च
नित्यं धर्मरतस्त्यजेत्” इति स्मृति । संयमदिने तस्य त्या-
ज्यत्वं यथा “कांस्यं मांसं मसूरञ्च चणकं कोरदूषकम् ।
शाकं मधु परान्नञ्च त्यजेदुपवसन् स्त्रियम्” । पारणदिने
तस्य त्याज्यत्वं यथा “अभ्यङ्गञ्च परान्नञ्च तैलं निर्मा-
ल्यलङ्घनम् । तुलसीचयनं द्यूतं पुनर्भोजनमेव च ।
वस्त्रपीड़ां तथा क्षारं द्वादश्यां वर्जयेद्बुधः” एका० त० ।
तद्भोक्तुर्यागादेर्विफलत्वं यथा “परपाकेण जुष्टस्य
द्विजस्य गृहमेधिनः । इष्टं दत्तं तपोऽधीतं यस्यान्नं
तस्य तद्भवेत्” । तद्भुक्त्वा पुत्रोत्पादने दोषो यथा
“यस्यान्नेन तु भुक्तेन भार्य्यां समधिगच्छति । यस्यान्नं
तस्य ते पुत्रा अन्नाद्रेतः प्रवर्त्तते” ब्राह्मणादिपरस्वा-
मिकान्नभोजने दोषो यथा “ब्राह्मणान्नेम दारिद्र्यं
क्षत्रियान्नेन प्रेष्यताम् । वैश्यान्नेन तु शूद्रत्वं शूद्रान्नै-
र्नरकं ब्रजेत्” इत्येकादशीत० । परान्नभोजनेन तीर्थगमने
फलस्याल्पत्वं यथा “षोडशांशं स लभते यः परान्नेन
गच्छति । अर्द्धं तीर्थफलं तस्य यः प्रसङ्गेन गच्छति”
प्राय० त० । महागुरुनिपाते तस्य व्याज्यत्वं यथा “अन्य-
श्राद्धं परान्नञ्च गन्धं माल्यञ्च मैथुनम् । वर्जयेद्गुरु
पाते तु यावत् पूर्णो न वत्सरः” शुद्धित० । तद्भोक्तुर्मन्त्र-
सिद्धिहानिर्यथा “जिह्वा दरघा परान्नेन करौ दग्धौ
पृष्ठ ४२४२
प्रतिग्रहात् । मनो दग्धं परस्त्रीभिः कथं सिद्धिर्वरा-
नने” तन्त्र० । तद्भोजने प्रतिप्रसवो यथा “गुर्वन्नं मातु-
लान्नं वा श्वशुरान्नं तथैव च । पितुः पुत्रस्य चैवान्नं
न परान्नमिति स्मृतिः” एकादशीत० ।

पराप त्रि० परागता आपोयतः अच्समा० वा अतईत्त्वम् ।

परागतजलापादने । पक्षे ईत्त्वे परेप तत्रार्थे ।

परापर न० परमापिपर्त्ति आ + पृ--अच् । १ परूषके भावप्र०

२ देवतारूपे गुरुभेदे परात्पर इत्यत्र पाठान्तरम् ।
परमेष्ठिन्शब्दे दृश्यम् । परञ्च अपरञ्च द्वन्द्वः । ३ परत्वा-
परत्वयुक्ते तस्य भावः त्व परापरत्व तद्भावे न० “परा-
परत्वधीहेतुरेका नित्या दिगुच्यते” भाषा० ।

परापुर् स्त्री परा स्थूलाः पूः समासान्तविधेरनित्यत्वात् न

समान्तः । स्थूलदेहे यजु० २ । ३० ।

पराभव पु० परा + भू--अप् । १ तिरस्कारे २ अभिमये ३ विनाशे

च मेदि० । आर्षे तु ऋदोरपं बाधित्वा क्वचित् घञ् ।
पराभाय तत्रार्थे भा० भी० ४३ अ० उदा० ।

पराभिक्ष पु० परमाभिक्षते आ + भिक्ष--अण् उप० स० । परस्य

गृहे भिक्षाया ईषत्कारके वानप्रस्थभेदे “अश्मकुट्टाशनाः
केचित् पराभिक्षास्तथापरे” हरिवं० २६८ अ० ।

परामर्श पु० परा + मृश--भावे घञ् । १ युक्तौ २ विवेचने

३ न्यायोक्ते अनुमितिकारणे ज्ञानभेदे यथोक्तं “व्याप्तस्य
पक्षधर्मत्वधीः परामर्श उच्यते” भाषा० “व्याप्तस्य पक्ष-
घर्मत्वधीरिति । व्याप्तिविशिष्टस्य पक्षेण सह वैशिष्ट्या-
वगाहिज्ञानमनुमितिजनकम् । तच्च व्याप्यः पक्षे इति
ज्ञानम् । पक्षो व्याप्यवानिति वा । अनुमितिस्तु पक्षे
व्याप्य इति ज्ञानात् पक्षे साध्यम् इत्याकारिका । पक्षो
व्याप्यवानिति ज्ञानात् पक्षः साध्यवानित्याकारिका ।
द्विविधादपि परामर्शात् पक्षः साध्यवानित्येवानुमिति-
रित्यन्ये । ननु वह्निव्याप्यधूमवान् पर्वत इति ज्ञानं
विनापि यत्र पर्वतो धूमवानिति प्रत्यक्षं ततो धूमो
वह्निव्याप्य इति स्मरणं भवति तत्र ज्ञानद्वयादनुमिति-
दर्शनात् व्याप्तिविशिष्टविशिष्ट्याबगाहिज्ञान सर्वत्र न
कारणं किन्तु व्याप्यतावच्छेदकप्रकारकपक्षधर्मताज्ञानत्वेन
कारणत्वम् आवश्यकत्वात् । विशिष्टवैशिष्ट्यज्ञानकल्पने
गौरवाच्चेति चेन्न व्याप्यतावच्छेदकाज्ञानेऽपि वह्नि-
व्याप्यवानिति ज्ञानादनुमित्युत्पत्तेः । लाघवाच्च व्या-
प्तिप्रकारकपक्षधर्मताज्ञानत्वेनैव कारणत्वम् । किञ्च
ध्मवान् पर्वत इति ज्ञानादनुमित्यापत्तिः व्याप्यतावच्छे-
दकीभूतधूमत्वप्रकारकधर्मताज्ञानस्य सत्त्वात् । न च
तदानीं गृह्यमाणव्याप्यतावच्छेदकप्रकारकपक्षधर्मताज्ञा-
नस्य हतुत्वमिति वाच्यम् । चैत्रस्य व्याप्तिग्रहे मैत्रस्य
पक्षधर्मताज्ञानादनुमितिः स्यादिति । यदि तु तत्पुरुषी-
यगृह्यमाणव्याप्यतावच्छेदकप्रकारकतत्पुरुषीयपक्षधर्मता-
ज्ञानं तत्पुरुषीयानुमितौ हेतुरुच्यते तदा अनन्तकार्य-
कारणभावः । मन्मते तु समवायेन व्याप्तिप्रकारकपक्ष-
धर्मताज्ञानं समवायेनानुमितिं जनयतीत्यतो नानन्त-
कार्य्यकारणभावः । यदि तु व्याप्तिप्रकारकं ज्ञानं पक्ष-
धर्मताज्ञानञ्च स्वतन्त्रं कारणमित्युच्यते तदा कार्य्य-
कारणभावद्वयं वह्निव्याप्यो धूम आलोकवान् पर्वत
इति ज्ञानादप्यनुमितिः स्यादिति । इत्थञ्च यत्र ज्ञान-
द्वयं तत्रापि विशिष्टज्ञानं कल्पनीयम् फलमुखगौरवस्या-
दोषत्वात्” सि० मुक्ता० । परामर्शस्तु अनुमितौ करणं
व्याप्तिज्ञानरूपकरणजन्यत्वात् अनुमितिहेतुत्वाच्च यथोक्तं
“व्यापारस्तु परामर्शः करणं व्याप्तिधीर्भवेत्” भाषा०
“अनुमायाम् अनुमितौ व्याप्तिज्ञानं करणम् परामर्शो
व्यापारः । तथा हि येन पुरुषेण महानसादौ धूमे
वह्नेर्व्याप्तिर्गृहीता पश्चात् स एव पुरुषः क्वचित् पर्व-
तादौ अविच्छिन्नमूलां धूमलेखां पश्यति तदनन्तरं धूमो
वह्निव्याप्य इत्येवं रूपं व्याप्तिस्मरणं भवति । तस्माच्च
वह्निव्याप्यधूमवानयमिति ज्ञानं मवति स एव परामर्श
इत्यच्यते । तदनन्तरं पर्वतोऽयं वह्निमानिति ज्ञानं
जायते । तदेवानुमितिः” सि० मुक्ता० । तत्र विवेचनं
च युक्त्या श्रुतार्थावधारणम् “नोपदेशश्रवणेपि
कृतकृत्यता परामर्शादृते विरोचनवत्” सा० सू० “परामर्शो
गुरुवाक्यतात्पर्य्यनिर्णायको विचारः” भा० ।

परामृत न० परममृतं यस्मात् । मेघादिवर्षणे त्रिका० ।

परामृष्ट त्रि० परा + मृश--क्त । १ संबद्धे “क्लेशकर्मविपाका-

शयैरपरामृष्टः पुरुषविशेष ईश्वरः” पात० सू० । २ कृतपरा-
पर्शे यस्य वाक्यस्य तात्पर्य्यायधारणं कृतम् तस्मिन्
वाक्ये । साध्यव्याप्यतया हेतुमत्त्वेन ज्ञात ३ पक्षे च ।

परायण न० परमयनं णत्वम् । १ अत्यन्तासक्ता २ उत्तमाश्रये

च ६ ब० । ३ अत्यासक्ते यथा घमेपरायणः धम अत्यन्ता-
सक्तः । ४ तत्परे ५ अभीष्टे च त्रि० मेदि० परममुत्-
कृष्टं पुनर्वृत्तिरहितं स्थानमस्य । ६ विष्णौ पु० “निष्ठा
शान्तिः परायणः” विष्णुसं० ।
पृष्ठ ४२४३

परायति स्त्री परा + अय--गतौ बा० अति । प्रत्यग्गन्तरि

ऋ० ९ ७१७ भाष्ये दृश्यम् । आ + यम--क्तिन परस्यायतिः
आयत्तता अत्र । २ षराधीने त्रि० कर्म्म० । ३ उत्कृ-
ष्टायामायतौ उत्तरकाले स्त्री । पहु० ४ तद्युते त्रि० ।

परायत्त त्रि० । पराधीने हेमच० ।

परारि अव्य० पूर्वतरे वर्षे पूर्वतर + अरि नि० परादेशः ।

१ पूर्वतरवत्सरे गततृतीयवत्सरे । अस्य च सप्तम्यर्थमात्र-
वृत्तित्यम् । ततः भवार्थे त्न । परारित्र तत्र भवे त्रि० ।
परोऽरिः । ३ अत्यन्तशत्रौ पु०

परारु पु० परार्च्छति परा + ऋ--उण् । कारवेल्लवृक्षे (उच्छा) हारा० ।

परारुक पु० परा + ऋ--उक । प्रस्तरे त्रिका०

परार्थ त्रि० परस्मै इदम् “अर्थेन सह नित्यसमासोबिशेष्य

निघ्नता च” वार्त्ति० अर्थेन सह नित्यं चतुर्थीत० ।
१ परनिमित्तके । परः अर्थो उद्देश्यो यस्य वा तत्रार्थे
६ त० । २ परप्रयोजनादौ पु ।

परार्द्ध न० ऋध--अच कर्म० । १ चरमसंख्यायां “पारे परार्द्धं

गणितं यदि स्यात्” नैषधम् । “जलधिश्चान्त्यं मध्यं
परार्द्धमिति दशगुणोत्तराः संख्याः” लीला० तस्य सर्व-
शेषतया उक्तेस्तथात्वम् । परस्य ब्रह्मणः आयुषोर्द्धं
विग्रहे । ब्राह्मण आयुषो २ द्वितीयार्द्धे ।

परार्द्ध्य त्रि० परार्द्धं चरमसंख्यामुपचारात् श्रेष्ठत्वमर्हति

यत् । श्रेष्ठे “परार्द्ध्यवर्णास्तरणेति” रथुः

परावत् अव्य० परा + अव--वा० अति । १ दूरदेशे निघण्टुः

२ प्रकृष्टतमे च ऋ० १ । ३५ । ३ । “पराः परावतोऽयमस्ति”
छा० उ० भाष्ये तथा व्याख्यानात् ।

परावत न० परा + अव--बा० अत्रच् । परूषके राजनि० ।

परावरा स्त्री परं चावरञ्च विषयत्वेनास्त्यस्या अच् ।

१ विद्याभेदे “भारद्वाजोऽङ्गिरसे परावराम्” मुण्ड०
“परावराम् परस्मात् परस्मादवर्ण प्राप्तेति परावराम्
परावरसर्वविद्याविषयव्याप्तेर्वा तां परावरामङ्गिरसे प्रा-
हेत्यनुषङ्गः” भा० । परस्मादप्यवरः । ३ श्रेष्ठतमे त्रि० ।

परावर्त्त पु० परा + वृत--घञ् । १ परीवर्त्ते २ विनिमये हेमच०

३ प्रत्यावृत्तौ च ।

परावसु पु० परागतं यज्ञाख्यं वसु धनं यस्मात् प्रा० ब० ।

असुराणां होतृभेदे “निरस्तः परावसुरिति परावसुर्ह वै
नामासुराणां होता स तमेवैतद्धोतृसदनान्निरस्यति”
शत० ब्रा० १ । ५ । ३३ । २ रैभ्यसुनिपुत्रभेदे भा० व० १३५ अ० ।
३ गन्धर्वभेदे भाग० ८ । ११ । २४

परावह पु० परावहति परा + वह--अच् । सप्तवायमध्ये

परिवहवायोरूर्द्ध्वस्थे वायुभेदे अनिलशब्दे १६ ४ पृ०
आवहशब्दे ८ २९ पृ० च दृश्यम् ।

पराविद्ध पु० परा + व्यध--क्त । १ कुवेरे शब्दमा० ३ प्रत्याविद्धमात्रे त्रि० ।

परावृज् पु० परावृनक्ति तपसा पापं वर्जयति परा + वृजी

वर्जने क्विप् । ऋषिभेदे ऋ० १ । ११२ । ८

परावृत्ति स्त्री परा + आ + वृत--क्तिन् । १ प्रत्यावृत्तौ येन

पथागतिस्तत्पथेन पुनरावृत्तौ हरिवं ५६ अ० । २ परिवर्त्ते
च परिवर्त्तिन्शब्दे दृश्यम् ।

परावेदी स्त्री परमुत्कर्समाविन्दति विद--लाभे अण् उप०

स० । वृहत्याम् शब्दकल्पद्रु० ।

पराशर पु० परान् आ + शृणाति आ + शॄ हिंसायां अच ।

१ नागभेदे भा० आ० ५७ अ० । २ इन्द्रे यातूनां पराशर-
णात् तथात्वं “इन्द्रो यातूनामभवत् पराशरः” ऋ०
७ १० ४ २१ इति श्रुतेः । “पराशरः पराशीर्णस्य स्थवि-
रस्य वशिष्ठस्य (कुले) जज्ञे” निरुक्तोक्तेः पराशीर्णस्य
स्थविरवसिष्ठस्य कुले जातत्वात् वसिष्ठपुत्रशक्तिपुत्रे
अदृश्यन्तीगर्भजाते ३ऋषिभेदे तज्जन्मकथा भा० आ०
१७८ अ० । तन्नामनिरुक्तौ तत्राध्याये “परासुः स
यतस्तेन वसिष्ठः स्थापितो मुनिः । गर्भस्थेन ततो
लोके पराशर इति स्मृतिः” “परासोराशासन
मवस्थानं येन स पराशरः । आङ्पूर्य्याच्छासतेः डरन्
नीलकण्ठः” पृषो० सुलोपः । तालव्यमध्यत्व” वाग्य स च
कृष्णद्वैपायनस्य पिता द्वैपायनशब्दे दृश्यम् । तेन च
कलिकर्त्तव्यधर्मसंहितां चक्रे सा च द्वादशाध्यायात्मिका
तत्र १ अ० युगभेदे धर्मभेदसहिताभेदादिकथनम् । २ अ०
कलौ गृहस्थधर्मः । ३ अ० अशौचम् आत्महरणादि-
दोषाः । ४ अ० प्रायश्चित्तविशेषान्त्येष्टिकर्त्तव्यतोक्तिः ।
६ अ० प्राणिहत्याप्रायश्चित्तादि । ७ अ० द्रव्यशुद्ध्यादि ।
८ अ० गोबधादिप्रायश्चित्तम् । ९ अ० गोबधापवादादि ।
१० अ० अगम्यागमनादि प्रायश्चित्तम् । ११ अ० अमेध्या-
दिभक्षणप्रायश्चित्तम् । १२ अ० प्रायश्चित्ताङ्गस्नानभेदादि ।
पराशरेण प्रोक्तम् अण् । पाराशर पराशरप्रोक्ते त्रि०
चक्रदत्तप्रदर्शिते घृतभेदे न० “यष्टी वला गुडूच्यल्प-
पञ्चमूली तुलां पचेत् । शूर्पेऽपामष्टभागस्थे तत्र
पात्रे पचेद् घृतम् । धात्रीविदारीक्षुरसे त्रिपात्रे
पयसोर्मले । सुपिष्टैर्जीवनीयैश्च पाराशरमिद घृतम् ।
स शैत्यं राजयक्ष्माणमुन्मूलयति शीलितम्” । स्त्रियां
ङीप् । “कलौ पारशरी स्मृतिः” पराशरः ।
पृष्ठ ४२४४

प(पा)राशरिन् ब० व० पराशरस्यापत्यम् गर्गा० यत् पारा-

शर्य्येण प्यासेन प्रोक्तं भिक्षुसूत्रं शरीरकसूत्रमधीयते
“पाराशर्य्यशिलालिभ्यां भिक्षु नटसूत्रयोः” पा० बहुत्वे
णिनेर्वा लोपः । भिक्षुसूत्राध्येतृषु पृषो० ह्रस्वः इति
भरतः तन्मूलम् मृग्यम् । तथाऽमरे एकवचनत्वोक्ति-
र्निर्मूला बहुत्वे एव तद्विधानात् ।

पराश्रय त्रि० पर आश्रयो यस्य । १ अन्याश्रिते वृक्षोपरि-

जातायां लतायां २ वन्दायां स्त्री शब्दच० ।

परासन त्रि० परा--अस--क्षेपे भावे ल्युट् । मारणे बधे अमरः ।

परासु त्रि० परागता असवोऽस्य । मृते गतप्राणे अमरः ।

परास्कन्दिन् त्रि० परमास्कन्दति आ + स्कन्द--णिनि ।

चौरभेदे (डाकाइत) अमरः ।

पराह पु० परमुत्तरवर्त्ति अहः टच्समा० । “अह्नान्ताः

पुंसि” पा० पुंस्त्वम् । परस्मिन् दिने ।

पराह्ण पु० परः परभागोह्नः एकदेशिस० टच् अह्नादेशः

णत्वञ्च । दिनस्य परभागे अपराह्णे ।

परि अव्य० षॄ--इन् । १ समन्ततोभावे २ व्याप्तौ ३ दोषकथने

४ भूषणे ५ आश्लेषे ६ पूजने ७ वर्जने ८ मर्य्यादायाम्
९ आच्छादने गणरत्नटी० । तत्र च क्रमेणोदाहृतं यथा “१
परिभ्रमति २ परिणतः ३ परिवादः ४ परिष्करोति । ५
परिष्वजते ६ परिचरति ७ परि त्रिगर्त्तात् ८ परिच्छिद्यते वासः
९ परिदेवनम्” १० व्याधौ ११ शेषे च मेदि० । १२ उपरमे
१३ शोके हेमच० १४ सन्तोषभाषणे शव्दरत्ना अस्य
उपसर्गत्वमर्थभेदे कर्मप्रवचनीयत्वञ्च पा० उक्तं यथा “लक्षणे
त्थम्भूताख्यानभागवीप्सासु प्रतिपर्य्यनवः” पा० “एष्व-
र्थेषु विषयभूतेषु प्रत्यादयः कर्मप्रवनीयसंज्ञाः स्युः ।
लक्षणे वृक्षम्प्रति पर्य्यनु वा विद्योतते विद्युत् । इत्थ
म्भूताख्याने भक्तो विष्णुम्प्रति पर्य्यनु वा । भामे लक्ष्मो
र्हरिम्प्रति पर्य्यनु वा हरेर्भाग इत्यर्थः । वीप्सायाम्
वृक्षं वृक्षं प्रति पर्य्यतु वा सिञ्चति । अत्रोपसर्गत्वा
भावान्न षत्वम् । एषु किम् परिषिञ्चति” सि० कौ० “अधि-
परी अनर्थकौ” पा० “उक्तसंज्ञौ स्तः । कुताऽध्याग-
च्छति । कुतः पर्य्यागच्छति । गतिसंज्ञाबाधाद् गतिर्गता-
विति निघातो न” सि० कौ० । “अपपरी वर्जने” पा० एतौ
वर्जने मर्मप्रवचनीयौ स्तः “पञ्चम्यपाङ्परिभिः” पा०
एतैः कर्मप्रवचनीयैर्योगे पञ्चमी स्यात् । अप हरेः परि
हरे । संसारः । परिरत्र वर्जने लक्षणादौ तु बितीया
हरिफगि । सपरमे परिसान्वः शोके परिदेपमम् ।
“अक्षशलाकासंख्याः परिणा” पा० द्यूते व्यवहारे
पराजये च अक्षादीनां परिणा समासः । न पूर्वनिपातः
द्यूते अक्षं विपरीतं वृत्तम् अक्षपरि । एवं शलाकापरि
एकपरि इत्यादि । सन्तोषे परितोषः । “परेश्च घाङ्कयोः”
पा० रस्य वा लः । परिघः पलिघः पल्यङ्कः पर्य्यङ्कः ।

परिंश पु० लेशे ऋ० १ । १८७ । ८ भाष्यम् ।

परिकथा स्त्री परितः कथा । कथाभेदे “अथ वाङ्मयभेदाः

स्युश्चम्पूः खण्डकथा कथा । आख्यायिका परिकथा
कलाषकविशेषकौ” त्रिका० ।

परिकम्प पु० परिकम्पते अनेन परि + कम्प--करणे घञ् ।

१ भवे । भावे वञ् । २ परितः कम्पे च

परिकर पु० परि + कॄ--अप् । १ पर्य्यङ्के २ परिवारे ३ समारम्भे

च अमरः ४ समूहे ५ पगाढगात्रबन्धे हेमच० ६ विवेके
मेदि० ७ सहकारिणि च विश्वः ।

परिकर्त्तृ पु० अनूढक्येष्ठे कनिष्ठस्य विवाहसंस्कारकर्त्तरि

याजके सरिवेत्तृशब्दे दृश्यम् ।

परिकर्मन् न० परि + कृ--मनिन् । १ कुङ्कुमादिनाऽङ्गादेः

२ संस्कारे अङ्कानां गुणभाबादौ च । योगवियोगगुणभाग
वर्गवर्गमूलघनघगमूलात्मतं परिकर्माष्टकं तथाविधं
भिन्नपरिकर्माष्टकं च लीचा० उक्तं दृश्यम् । योगशास्त्र-
प्रसिद्धे चित्तस्य प्रसादनोपाये ३ मैत्र्यादौ उपेक्षाशब्दे
दृश्यम् परितः कर्माऽस्य । ४ परिचारके त्रि० रत्नमा०
परिकर्म कार्य्यतयाऽस्त्यस्य ब्रीह्या० इनि । परिकर्मिन्
परिकर्म्मकारके आश्व० श्रौ० २ ४

परिकर्ष पु० परि + कृष--भावे घञ् । समाकर्षणे कर्षस्य वर्ज्र-

नम् अव्ययी० कर्षवर्जने अव्य० निरुदका० तस्यान्तोदात्तता

परिकलित न० परि + कल--भावे क्त । आकलने तत्कृतमनेन

इष्टादि० इनि परिकतितिन् तस्य कर्त्तार । स्त्रियां
ङीप् ।

परिकाङ्क्षित पु० परित्यक्तं काङ्क्षितं स्रक्चन्दनाद्य-

भिलाषो येन प्रा० य० । तपस्विनि शयदच०

परिकूट न० परिभूषितं कूटम् शा० त० । पुरद्वारकूटके हस्तिनखेहेमच० ।

परिकूल न० परितः कूलम् । उभयत्रस्थितकूले निरुद० अस्या-

न्तोदात्तता ।

परिकेश अव्य० केशस्योपरि । केशोपरिभागे निरुद० अन्तोदात्तताऽस्य । परिहस्तेऽपि तथास्वरः ।

परिक्रम पु० परि + क्रम--भावे घञ् न वृद्धिः । १ समन्तात्

भ्रमणे २ प्रदचिणोकरणे ३ क्रीड़ार्थं पद्ध्यां गमने च ।
तत्र पयिव्याः परिकपे फलादिकसत्र वराहप्र० “शृणु
पृष्ठ ४२४५
मद्रे! महापुण्यं पृथिव्यां सर्वतो दिशम् । परिक्रम्य
यथाध्वानं प्रमाणगणितं शुभम् । भूम्याः परिक्रमे सम्यक्
प्रमाणं योजनानि च । षष्टिकोटिसहस्राणि षष्टिको-
टीशतानि च । तीर्थान्येत नि देवाश्च तारकाश्च
नभस्तले । गणितानि समस्तानि वायुना जगदायुषा ।
ब्रह्मणा लोमशेनैव नारदेन ध्रुवेण च । जाम्बवता
सपुत्रेण रावणेन हनूमाता । एतैरनेकधा देवैः ससागरवना
मही । क्रमिता वालिना चैव बाह्यमण्डलरेखया ।
अन्तरे भ्रमणेनैव सुग्रीवेण महात्मना । तथा च पूर्व-
देवैन्द्रैः पञ्चभिः पाण्डुनन्दनैः । योगसिद्धैस्तथा कैश्चि-
न्मार्कण्डेयमुखैरपि । क्रमिता न क्रमिष्यन्ति न पूर्वे
नापरे जनाः । अल्पसत्बबलोपेतैः प्राणिभिश्चाल्पबु-
द्धिभिः । मबसापि न शक्यन्ते गमनस्य च का कथा ।
सप्तद्वीपे तु तीर्थानि भ्रमणाद्यत् फलं भवेत् । प्राप्यते
चाधिकं तस्मान् मथुरायाः परिक्रमे । मथुरां समनु
प्राप्य यस्तु कुर्य्यात् प्रदक्षिणम् । प्रदक्षिणीकृता तेन
सप्तद्वीपा वसुन्धरा । तस्मात् सर्वप्रयत्नेन सवैकामानभी-
प्सुभिः । कर्त्तव्या मथुरां प्राप्य नरैः सम्यक् प्रदक्षिणा” ।
ल्युट् । परिक्रमणं तत्रार्थे न० ।

परिक्रमसह पुंस्त्री परिक्रमं सहते सह--अच् । छागे त्रि०

स्त्रियां जातित्वात् ङीष् ।

परिक्रय पु० परि + क्री--अच् । १ विनिमये तुल्यरूपदानेन

क्रयणे “कोषान् रक्षार्द्धकोषेण मर्वकोषेण वा पुन् । शेष
प्रकृतिरक्षार्थं परिक्रय उदाहृतः” कामन्द० । नियतकालं
नृत्या ३ स्वीकरणे सि० कौ० तत्रार्थे करणस्य वा सम्प्र-
दानता शतेन शताय वा परिक्रीतः । ल्युट् । परिक्र-
य तत्रार्थे न० “परिक्रयणे सम्प्रदानमम्यतरस्याम्” पा०

परिक्रिया स्त्री परितः क्रिया । १ परिखादिना वेष्टने अमरः

२ एकाहयागभेदे “सद्यस्क्रिया अनुक्रिया परिक्रिया वा
स्वर्गकामः” आश्व० श्रौ० ९५१२ परिक्रियाप्येकाहा
भवति एषामन्यतमेन स्वर्गकामो यजेतेति” नारा० ।

परिक्वणन पु० परि + क्वण--कर्त्तरि ल्य । मेघे निरु० ६१

परिक्षय पु० परि + क्षि--भावे अच् । नाशे मनुः ९ ५९

परिक्षाण न० परि + क्षै--भावे ल्युट् । परीक्षायां “यानि

परिक्षाणान्यासंस्ते कृष्णाः पशवोऽभवन्” ऐत० ब्रा० ३३४

परिक्षित् पु० परिक्षीणे क्षयति वर्द्धते क्षि--क्विप् । १ अभिम-

न्युपुत्रे नृपभेदे तन्नामनिरुक्तिः भा० सी० १६ अ० “विराटस्य
सुनां पूर्वं स्नुषां गाण्डीवधन्वनः । उपप्लवगतां दृद्धा
सत्यवाक् ब्राह्मणोऽब्रवीत् । परिक्षीणेषु करुषु पुत्रस्तव
भविष्यति । एतदस्य परिक्षित्त्वं गर्भस्थस्य भविष्यति ।
तस्य तद्ववचनं साधोः सत्यमेतद् भविष्यति । परिक्षिद्
भयिता ह्येषां पुनर्वंशकरः सुतः” । क्विपि उपसर्गदीर्थे
परीक्षित् अप्यत्र । कर्त्तरि क्त परिक्षितोऽप्यत्र पब्दर० ।
२ कुवेरपुत्रभेदे पु० हरिवं० ३ २ अ० । “द्वावृक्षौ तव वंश्ये-
ऽस्मिन् द्वावेव च परिक्षितौ” तत्रैवाध्याये । ३ अविचतः
पुत्रे नृपभेदे च “अविक्षितः परिक्षित्तु शबलाश्वश्च
वीर्य्यवान्” भा० आ० ९४ अ० ।

परिक्षेप पु० परितः क्षिप्यते विषयवासनया जीवात्मा येन

परि + क्षिप--करणे घञ् । १ इन्द्रिये “एकादशपरिक्षेपं
मनोव्याकरणात्मकम्” भा आश्व० ३६ अ० भावे घञ् ।
२ परितश्चालने च ।

परिक्षेपक त्रि० परि + क्षिप--ताच्छील्ये वुञ् । परितश्चलनशीले

परिक्षेपिन् त्रि० परि + क्षिप--ताच्छीले घिनुण् । परितः क्षे-

पणशीले स्त्रियां ङीप् ।

परिखा स्त्री परितः खन्थते खन--हृ । पुरादौ रिपुप्रभृतीनां

दुष्प्रवेशतासिद्धये गर्त्तरूपायां जलाधारस्थाने वेष्टना-
कारभूमौ अमरः । परिखामानञ्च ब्रह्मवै पु० जन्मख०
२०२ अ० उक्तं यथा “प्रस्ये च परिखामानं शतहस्तं
प्रशस्तकम् । परितः शिविराणाञ्च गम्भीरदशहस्त-
कम् । सङ्केतपूर्वकञ्चैव परिखाद्वारमीप्सितम् ।
शत्रोरगम्यं मित्रस्य गम्यमेव सुखेन च” । ततः भवाद्यर्थे
पलाद्या० अण् । पारिख तद्भवादौ त्रि० । तत्र गणे
परिखात इति पाठान्तरे पारिखात इत्यपि तत्रार्थे

परिखात न० परितः खातम् । १ परिखायाम् । २ परिखन

कर्मणि त्रि० ।

परिगणन न० परि + गण--मावे ल्युट् । १ सर्वतोभावेन

गणने २ विधिनिषेधशास्त्रयोः विशेषतः कीर्त्तने च

परिगणित त्रि० परि + गण--क्त । १ विधिनिषेधयों विशेष-

रूपेण कीर्त्तिते च । २ संख्याते च

परिगत त्रि० परि + गम--क्त । १ व्याप्ते २ स्मृते ३ ज्ञाते ४

चेष्टिते च मेदि० । ५ गते हेमच० ६ वेष्टिते च । कर्त्तरि क्त ।
७ परितो गन्तरि त्रि० ।

परिगदित न० परि + गद--क्त । परिकथने तत्कतमनेन

इष्टा० इनि परिनदितिन् तत्कर्त्तरि रित्रयां ङीप् ।

परिगहन न० परि + गह--माये व्युट् क्षुभ्रा० न णत्वम् ।

अत्यन्वनहने
पृष्ठ ४२४६

परिगूढ़ त्रि० परि + गुह क्त । अत्यन्वगुप्ते ततः चतुरर्थ्यां

ऋश्यादि० क । परिगूढक तस्यादूरदेशादौ त्रि० ।

परिगृहीत त्रि० परि + ग्रह--कर्मणि क्त । स्वीकृते

आचिता० नास्यान्तोदात्तता ।

परिगृहीति स्त्री परि + ग्रह--क्तिन् इट्--इटो दीर्घः ।

परिग्रहे ऐत० ब्रा० २ । १५ ।

परिगृह्या स्त्री परि + ग्रह--कर्मणि क्यप् । पाणिगृहीतायां स्त्रियां शब्दच० ।

परिग्रह पु० परि + ग्रह--अप् । १ स्वीकारे । कर्मणि थ ।

२ सैन्यपश्चाद्भागे ३ भार्य्यायां परिजने च । करणे घ ।
४ मूले ५ शपथे च अमरः । परितोः ग्रहः । ६ राहुणा
सूर्येन्घोर्ग्रहणे ७ विष्णौ पु० “परमेष्ठी परिग्रहः” विष्णुसं०
“शरणार्थिभिः परितो गृह्यते सर्वगतत्वात् परितो
ज्ञायते इति वा पत्रपुष्पादिकं भक्तैरर्पितं गृह्णातीति
वा परिग्रहः” भा० ।

परिग्राम अव्य० ग्रामस्याभिमुखम् । ग्रामस्यामुख्ये ततः

भवाद्यर्थे ठञ् । पारिग्रामिक तद्भवादौ त्रि० ।

परिग्राह पु० परि + ग्रह--“परौ यज्ञे” पा० घञ् । यज्ञार्थे

स्फ्येन वेदेः स्वीकारे सि० कौ० ।

परि(लि)घ पु० परिहन्यतेऽनेन “परौ घः” पा० परौ हन्तेरप्

घश्चान्तादेशः रस्य वा लः । १ लोहबद्धलगुड़े २ लोहमयल-
गुड़े च अमरः । विस्कम्भादिषु ३ उनविंशे योगे ४ अर्गले
द्वारावरोधिकाष्ठे मेदि० । ५ मुद्गरे ६ शूले अजयः । ७ गृहे
८ कुम्भे ९ काचघटे शब्दरत्ना० । १० कुमारानुचरगणभेदे
भा० शल्य० ५६ अ० । ११ चण्डालभेदे भा० शा० १ ३८ अ० ।

परिघट्टन न० परि + घट्टा--भावे ल्युट् । परितश्चालने

“मासर्त्तुदर्वीपरिघट्टनेन” भा० व० यक्षप्रश्ने ।

परिघर्म पु० परि + घृ--मन् । यज्ञाङ्गमहावीरपात्रपतितफेनादेः

क्षरणे परिघर्मस्येदम् यत् । परिघर्म्य महावीराङ्ग-
घर्मसम्बन्धिपात्ने “परिघर्म्यमौदुम्बरम्” कात्या० श्रौ०
२६ । २ । ६ “परिघर्म्यं घर्मसम्बन्धि यत् पात्रजातं
काष्ठमयमुखादि तदौदुम्बरम्” देवनाथः ।

परिघात पु० परिहन्यतेऽनेन घञ् । परिघातास्त्रे

परिघातन पु० परिथातयति परि + हन--खार्थे णिच्

कर्त्तरिल्यु । १ परिघातास्त्रे अमरः । २ सर्वतोहननकर्त्तरि
भावे ल्युट् । २ परितीहनने च धरणिः ।

परिघृ(पृ)ष्टिक पु० परितः घृ(पृ)ष्टं ग्राह्यत्वेनास्त्यस्य ठन् ।

१ वानप्रस्थभेदे भा० आश्व० ९२ अ० । नीलकण्ठेन तत्र
“परिपृष्टिका वैधसिका इति पठित्वा “परिपृष्टमेव गृह्णन्ति
नान्यथेति व्याख्यातम्” । तेन तत्र परिपृष्टिका इत्थेव
पाठः तत्र परिपृच्छिका इति पाठान्तरमुक्तं तेन तस्या
प्येतदर्थकता “परिघृष्टिका वैद्यसिका” इति “मुद्रितपु-
स्तके पाठः” अनाकारः परिपृच्छया गृह्णातीति वाच्यम् ।

परिचक्षा स्त्री परि + चक्ष--भावे श सार्वधातुकत्वात् न

ख्यादेशः । १ निन्दायां शत० ब्रा० १ ३ ५ १४ भाष्ये
दृश्यम् परि + वर्जने अ । २ वर्जने स्त्री ।

परिचक्ष्य त्रि० परि + वर्जने चक्ष--ण्यत् वर्जनार्थत्वात् न ख्या-

देशः । वर्जनीये

परिचतुर्दश त्रि० परिहीन श्चतुर्दश यतः प्रा० व० ड समा०

एकाधिकचतुर्दशरूपपञ्चदशसंख्यान्विते आर्षे तु समासा
न्तविधेरनित्यत्वात् न ड । “इन्द्रसेनादयश्चैव भृत्या
परिचतुर्दश” भा० व० १ अ० ।

परिचय पु० परि + चि--अच् । १ ज्ञातस्य पौनःपुन्येन ज्ञाने

संस्तवे २ पणये च अमरः । ३ सर्वतश्चयने माघः २ । ७५ ।

परिचर त्रि० परितः चरति चर--ट । १ भृत्ये २ परप्रहारात्

रथरक्षके पु० अमरः । ३ प्रजासामन्तादिव्यवस्थापनका-
रिणि ४ राजभृत्यभेदे च ।

परिचर्य्या स्त्री परि + चर--क्यप् । सेवायाम् अमरः ।

परिचाय्य पु० परिचीयते संस्क्रियतेऽसौ परि + चि--ण्यत् ।

यज्ञाग्नौ अमरः “परिचाय्यं चिन्वीत ग्रामकामः”
शत० ब्रा० ५ । ४ । ११ । ३

परिचार पु० परि + चर--भावे घञ् । सेवायां भा० ब० ९७ अ०

परिचारे प्रसृतः ठन् । परिचारिक दासे भा० अनु० ७ ८१०

परिचारक त्रि० नि० परि + चर--ण्वुल् । मेवक अमरः ।

परिचित् त्रि० परितश्चीयते चि--कर्मणि क्विप् । १ परितः

स्थापिते यजु० १२ । ४६ कर्त्तरि क्विप् । २ परिचयक-
र्त्तरि त्रि० ।

परिचित त्रि० परि + चि--कर्मणि क्त । १ परिचययुक्ते २ तत्कर्मणि ।

परिच्छद् त्रि० परिच्छादयति परि + छद + णिच्--क्विप्

ह्रस्वः । परिच्छदशब्दार्थे “सेनापरिच्छदस्तस्य” रघुः ।

परिच्छद पु० परि + छद--णिच्--घ ह्रस्वः । १ उपकरणे ३ ह

स्त्यश्वरथपादाते ३ वस्त्रादिभूषणे ४ परिवारे च हेमच० ।
५ आच्छादने च ।

परिच्छित्ति स्त्री परि + छिद--मावे क्तिन् । १ अवधारणे

“द्वयोरेकतरप्य वाप्यसान्नकृष्टार्थपरिच्छित्तिः पग्रा
सां० सू “अर्थस्य वस्तुनः परिच्छित्तिरवषारणं प्रना” भा
२ पारच्छेदशब्दार्थे० ।
"https://sa.wikisource.org/w/index.php?title=वाचस्पत्यम्/पताका&oldid=57808" इत्यस्माद् प्रतिप्राप्तम्