पृष्ठ ४७४२

महाधातु पु० कर्म० । स्वर्णे शब्दच० ।

महानदी स्त्री । १ ओड्रदेशस्थे नदीभेदे २ समुद्रगामिन्यां नद्याञ्च ।

महानन्द पु० महान् अतिवृहत् १ आनन्दो यत्र १ मोक्षे

हला० कर्म० । २ अतिशयानन्दे पु० “माघमासस्य या शुक्ला
नवमी लोकपूजिता । महानन्देति सा प्रोक्तेत्युक्तायां
३ माघशुक्लनवम्यां ४ सुरायां राजनि० ५ नदीभेदे च स्त्री ।

महानन्दि पु० कलौ क्षत्रान्तकरस्य महापद्मनृपभेदस्य

पितरि ।

महानवमी स्त्री कर्म० । आश्विनशुक्लमधिकृत्य “ततोऽनु

नवमी यस्मात् सा महानवमी स्मृता” इत्युक्तायाम्
आश्विनशुक्लनवम्याम् ।

महानस न० महदना संज्ञायाम् अच् । पाकस्थाने अमरः ।

महानाटक न० दृश्यकाव्यनाटकभेद “एवदेव यदा सर्वैः

पताकास्थानकैर्युतम् । अङ्कैश्च दशभिर्धौरा महाना-
टकमूचिरे” । सा ६ प० । २ हनुमन्नाटके च ।

महानाद पुंस्त्री० महान् नादोऽस्य । १ गजे स्त्रियां ङीष् ।

२ गर्जन्मेघे मेदि० ३ सिंहे पुंस्त्री० स्त्रियां ङीष् ४ कर्णे च
हेमच० । ५ उष्ट्रे पुंस्त्री० राजनि० स्त्रियां ङीष् ।
६ कण्ठवाद्ये पु० हारा० । कर्म० । ७ महति शब्दे च ।

महानिद्रा कर्म० । मरणे जटा० तत्र पुनः प्रत्युत्थाना-

भावात्तथात्वम् ।

महानिम्ब पु० कर्म० । (घोडानिम) वृक्षभेदे रत्नमा० ।

महानिशा स्त्री “महानिशा तु विज्ञेया मध्यमप्रहारद्वयम्”

इत्युक्ते रात्रेर्मध्यमप्रहरद्वये ।

महानील पु० कर्म० । १ भृङ्गराजे २ मणिभेदे “यत्तु वंर्णस्य

भूयस्त्वात् क्षीरे शतगुणे स्थितः । नीलतां तनुयात् सर्वं
महानीलः स उच्यतै” गरुड़पु० ७२६ अ० दनागभेदे
मेदि० ४ महाजम्ब्वाञ्च राजनि० ५ तन्त्रभेदे न० । ६ नीला-
पराजितायां स्त्री राजनि० गौरां० ङीष् ।

महानुभाव पु० महाननुभाव आशयो यस्य । महाशये शब्दर० ।

महापञ्चमूलक न० वृहत्पञ्चमूले । “बिल्वोऽग्निमन्थः श्यो-

नाकः काश्मर्य्यः पाटला तथा । सर्वैस्तु मिलितैरेतैः
स्यान्महापञ्चमूलकम्” राजनि० ।

महापञ्चविष “शृङ्गी च कालकूटश्च मुस्तको वतसनामकः ।

शङ्खकर्णीति योगोऽयं महापञ्चविषाभिधः” इत्युक्ते
पञ्चविधे विषे ।

महापत्त्रा स्त्री महत् पत्त्रमस्याः । महाजम्बूवृक्षे रत्नमा० ।

महापथ पु० कर्म० । १ राजमार्गे हेमच० । २ हिमालयोत्तरस्थे

३ स्वर्गारोहणपथे च ।

महापद्म पु० कर्म० । १ अष्टनागमध्ये नागभेदे हेमच० २ कुवेरस्य

निविभेदे जटा० “अर्बुदमब्जं खर्वनिखर्वमहापद्मेति”
लीलावत्युक्तायाम् ३ अयुतकोटिसंख्यायां ४ तत्संख्यान्विते
न० ५ नृपभेदे महानन्दिसुते च ६ शुक्लपद्मे रत्नमा० ।

महापातक न० “ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमः ।

महान्ति पातकान्याहुस्तत्संसर्गश्च पञ्चमः” इत्युक्तेषु पञ्चसु
पातकेषु महापापमप्यत्र ।

महापिण्डीतक पु० कर्म० । कृष्णवर्णे विपुलमदनवृक्षे राजनि०

महापीलु पु० कर्म० । मधुपीलौ राजनि० अतिमधुरत्वात्तस्य

हि महत्त्वम् ।

महापुराण न० न० “सृष्टिश्चापि विसृष्टिश्च स्थितिस्तेषाञ्च

पालनम् । कर्मणां वासना वार्त्ता मनूनाञ्च क्रमेण च ।
वर्णनं प्रलयानाञ्च मोक्षस्य च निरूपणम् । उत्कीर्त्तनं
हरेरेव देवानाञ्च पृथक् पृथक् । महापुराणं विज्ञेय-
मेकादशकलक्षणम्” ब्रह्मवै० ज० १३२ अ० इत्युक्तलक्षणे
व्यासप्रणीते पुराणभेदे ।

महापुरुष पु० कर्म० । १ श्रेष्ठे नरे २ नारायणे च । “वन्दे

महापुरुष! ते चरणारविन्दमि” ति भागवतम् ।

महापुरुषदन्ता पु० महापुरुषस्य विष्णोः दन्ता इव

महत्त्वात् मूलान्यस्य । शतमूल्याम् रत्नमा० ।

महापुष्पा स्त्री महत् यन्त्रपुष्पत्वेन प्रशस्तं, पत्त्र पेक्षया

वृहत् वा पुष्पं यस्याः । अपराजितायाम् शब्दच० ।

महाप्रलय पु० कर्म० । ब्रह्मणो दिनावसाने जायमानः

सर्वभूतक्षयः प्रलयः तस्यैव स्वमानेन शतवर्षावसाने
जायमानस्तु महान् प्रलयः १ तस्मिन् २ तदुपलक्षिते जन्य-
द्रव्यानधिकरणीभूते काले च । ३ जन्यभावानधिकरणी-
भूते काले इत्यन्ये । तत्रप्रमाणाभाव इति नव्यनैयायिकाः

महाप्रासाद पु० “पादोदकञ्च निर्माल्यं नैवेद्यञ्च विशेषतः ।

महाप्रसाद इत्युक्त्वा ग्राह्यं विष्णोः प्रयत्नतः” इत्युक्ते
१ देवनैवेद्यादौ २ विपुलप्रसन्नतायाञ्च ।

महाप्राण पुंस्त्री० महान् बहुकालस्थायित्वात् श्रेष्ठः प्राणो

यस्यं । १ द्रोणकाके राजान० स्त्रियां ङीष् कर्म० ।
२ वर्णोच्चारणस्य वाह्यप्रयत्रभेदे स च वर्ग्यद्वितीयचतुर्थवर्णानां
शषसहानामुच्चारणप्रयत्नः तेषामुच्चारणे हि प्राणवायो
र्भूयान् प्रयास इति तेषामपि महाप्राणत्वगुपचारात् ।

महाफल पु० महत् पत्त्रापेक्षाया वृहत् फलमस्य । १ विल्व

वृक्षे रत्नमा० । २ इन्द्रवारुण्यां (राखालशशा) स्त्री जटा० ।
पृष्ठ ४७४३

महाबल पु० महत् बलं यस्य । १ वायौ २ दशबले बुद्धे च

त्रिका० ३ महाबलयुते त्रि० । महत् बलं यस्मात् ५ ब० ।
४ सीसके न० हेमच० । ५ पीतवाट्यालके स्त्री रत्नमा० ।

महाभारत पु० न० “चत्वारश्चैकतो वेदा भारतञ्चैवमेकतः ।

पुरा किल सुरैः सर्वैः समस्य तुलया धृतम् । चतुर्भ्यः
सरहस्येभ्यो वेदेभ्योऽभ्यधिकं यदा । तदा प्रभृति
लोकेऽस्मिन् महाभारतमुच्यते । महत्त्वात् भारत-
त्वाच्च महाभारतमुच्यते” इत्युक्तलक्षणे व्यासप्रणीते
लक्षश्लोकात्मके ग्रन्थभेदे भारतशब्दे दृश्यम् ।

महाभीता स्त्री कर्म० । १ लज्जालुलतायाम् शब्दच० स्पर्शमात्रेण

हि सङ्कोचेन तस्या अतिभीतत्वम् । २ अतिभीते त्रि० ।

महाभूत न० कर्म० । सर्वेषां पञ्चात्माकताप्राप्त्या स्थूलता-

पन्नेषु वृहत्सु पृथिव्यप्तेजोवाय्वाकाशेषु १ पञ्चसु भूतेषु ।
“तं वेधा विदधे नूनं महाभूतसमाधिना” रघुः । २
परमेश्वरे पु० “तस्यैतस्य महाभूतस्थ निःश्वसितमेतत् यदृग्वेदः”
इत्यादि श्रुतिः ।

महाभूतघट पु० षोड़शमहादानान्तर्गते षोड़शे महादाने मत्स्यपु० ।

महाभृङ्ग पु० कर्म० । ३ नीलभृङ्गराजे राजनि० ।

महामनस् त्रि० महदुदारं मनस्तद्व्यापारोऽस्य । महाशये । हेमच० ।

महामात्र पु० “मन्त्रे कर्मणि भूषायाम् वित्ते माने

परिच्छदे मात्रा च महती येषां महामात्रास्तु ते स्मृताः”
इत्युक्ते प्रधानामात्ये ।

महामाया स्त्री कर्म० । अन्यस्मिन् अन्यधर्मावभासो हि माया

सर्वजगन्मूलत्वात्तस्या महत्त्वम् । १ जगत्कारणभूतायाम्
अविद्यायां २ तदधिष्ठात्र्यां दुर्गायाञ्च “महामाया
हरेश्चैषा यया संमोह्यते जगत्” देवोमा० ।

महामाष पु० कर्म० । राजमाषे (वरवटी) शब्दच० माषा-

षेक्षया तस्य हि महत्त्वात्तथात्वम् ।

महामूल पु० महत् वीर्य्यकारित्वात् श्रेष्ठं मूलमस्य ।

राजपलाण्डौ राजनि० ।

महामृग पुंस्त्री० महान् मृगः पशुः । १ गजे हेमच० शरभे च

राजनि० तयोर्हि पशुषु भहत्त्वात् तथात्वम् । स्त्रियां ङीष्

महामेद पु० स्त्री ६ ब० । वैद्यकप्रसिद्धाष्टवर्गोक्ते ओषधिभेदे

रत्नमाला । तत्रार्थे स्त्री राजनि० । “महामेदाभिधः
कन्दो योरक्षादौ प्रजायते । शुक्लार्द्रकनिभः कन्दो
लताजातः सपाण्डुरः । महामेदाभिधो ज्ञेयः” भावप्र० ।

महामोह पु० महान् मोहः म्नान्तिहेतुकी वस्तुतोऽनिष्टे-

ष्वपि रागः । १ संसारतद्विषयकारणरूपेऽज्ञानभेदे “तमोऽ
विवेको मोहः स्यादन्तःकरणविभ्रमः । महामोहस्तु
विज्ञेयो ग्राम्यभोगसुखैषणा” इत्युक्ते २ मैथुनादिसुखभोगे-
च्छारूपे अन्तःकरणवृत्तिभेदे च । वैषयिकसुखस्य वस्तु-
तोऽनिष्टत्वात् तथात्वम् । “दशविधो महामोहः” सा०
का० । शब्दादिषु पञ्चसु दिव्यादिव्यतया दशविधेषु
विषयेषु रञ्जनीयेषु राग आसक्तिः” त० कौ० उक्ते
३ दशविधविषयरागे च ।

महाम्ल न० कर्म० । १ अत्यम्ले २ तिन्तिड़ीफले च जटा० । ३ तद्वृक्षे पु० ।

महायज्ञ पु० कर्म० । नित्यं गृहस्थकर्त्तव्ये वेदाध्ययनाग्नि-

होत्रपितृतर्पणभूतबलिकर्मातिथिपूजनरूपेषु पञ्चसु कर्मसु ।

महारजत न० कर्म० । १ काञ्चनै २ धुस्तूरे च अमरः । तस्य

हि रञ्जकत्वात् महत्त्वम्, कर्म० । ३ वृहद्रौप्ये च ।

महारजन न० रजत्यनेन ल्युट् कर्म० । १ कुसुम्भपुष्पे अमरः

२ स्वर्णे च मेदि० ।

महारथ पु० “एकादश सहस्राणि योधयेद्यस्तु धन्विनाम् ।

शस्त्रशास्त्रप्रवीणश्च विज्ञेयः स महारथः” इत्युक्ते योधभेदे

महारस पु० ६ व० । १ खर्जूरे २ कशेरुणि ३ कोषकार मेदि०

४ इक्षौ पु० काञ्जिके न० जटा० । कर्म० ५ पारदे पु० राजनि० ।
“दरदः पारदं शस्यो वैक्रान्तं कान्तमभ्रकम् । माक्षिकं
विमलश्चेति स्युरेतेऽष्टौ महारसाः” राजनि० उक्तेषु
४ दरदादिषु पु० ।

महाराज(जि)क पु० महान् सन् राजते वुन् पृषो० इत्त्वं

वा । विंशत्यधिकशतद्वयसंख्याते गणदेवभेदे ।

महाराजद्रुम पु० कर्म० । आरग्बधे (सोन्दाल) राजनि० ।

महारात्रि स्त्री “ब्रह्मणश्च निपाते च महाकल्पो भवेन्नृप! ।

प्रकीर्त्तिता महारात्रिः” इत्युक्ते महाकल्पात्मके १
महाप्रलये “अर्द्धरात्रात पर यत्तु मुहूर्त्तद्वयमुच्यते । सा
महारात्रिरुद्दिष्टा” तन्त्रोक्ते अर्द्धरात्रोपरि मुहूर्त्त-
द्वयात्मके २ रात्रिकाले ।

महाराष्ट्र पु० कर्म० । (महाराट्ठा) १ देशभेदे । तद्देशः

कारणत्वेन अस्त्यस्या अच् गौरा० ङीष् । २ जलपिप्पल्याम्
३ शाकभेदे च स्त्री राजनि० ।

महारिष्ट पु० कर्म० । १ गिरिजाते निम्बभेदे राजनि० । २ अत्यशुभे न० ।

महारोग पु० कर्म० । “उन्मादो राजक्ष्मा च श्यावस्त्वग्-

दोष एव च । मधुमेहश्चाश्मरी च तथोदरभगन्दरौ ।
इत्येतेऽष्टौ महारोगा महापातकसम्भवाः” इत्युक्तेषु
महापतकजन्येषु उन्मदादिषु रोगेषु । (श्यावः श्यावदन्त
पृष्ठ ४७४४

महारौरव पु० कर्म० । “महारौरवसंज्ञस्तु ऊर्ध्वाधस्ताम्र-

संपुटे । धम्यते खदिराङ्गारैः प्रच्यते कालमक्षयम्”
इत्युक्ते नरकभेदे वह्निपु० ।

महार्घ त्रि० महानर्घो मूल्यं यस्य । बहुमूल्ये विश्वः ।

महार्णव पु० कर्म० । महासमुद्रे ।

महार्द्रक न० कर्म० । वनार्द्रके राजव० ।

महालय पु० महान् आत्यन्तिको लयो यत्र । १ पुरमात्मनि

२ तीर्थस्थाने ३ विहारे ४ कन्यास्थरविकमासकृष्णपक्षे न० ।
“तस्यां दद्यात् न चेद्दत्तं पितॄणां वै महालये” इति
भविष्यपु० । कर्म० । ५ वृहदालये ।

महालक्ष्मी स्त्री कर्म० । चण्ड्याद्वितीयचरितदेवतारूपे “सेषे

सैरिभमर्दिनीमिह महालक्ष्मीं सरोजस्थिताम्” इत्युक्त-
लक्षणे अष्टादशभुजान्विते १ दुर्गाशक्तिभेदे तन्त्रोक्ते
२ लक्ष्मीभेदे च ।

महानीलसरस्वती स्त्री तारिणीभेदे तन्त्रसा० ।

महालोध्र पु० कर्म० । लोध्रभेदे (पाठिया लोध) रत्नमा० ।

महावरा पु० वृणोति विस्तृणाति वृ--अच् कर्म० । दूर्वायाम्

शब्दर० ।

महावराह पु० कर्म० । वृहद्वराहरूपधारिणि भगवदवतारभेदे ।

महावरोह पु० महान् अवरोहोऽस्य । वटवृक्षे राजनि० ।

महावल्ली स्त्री कर्म० । माधवीलतायाम् शब्दच० ।

महावाक्य न० कर्म० । परस्परसंबद्धार्थके १ वाक्यसमुदायरूपे

एकवाक्ये “वाक्यानामेकवाक्यत्वं पुनः संहत्य जायते”
मीमांसकाः । वेदान्तोक्ते २ ब्रह्मविद्याप्रतिपादके तत्त्व-
मस्याद्युपनिषद्वाक्ये ३ दानादौ अभिलापवाक्ये च ।

महाविद्या स्त्री कर्म० । “काली तारा महाविद्या षोड़शी

भुवनेश्वरी । भैरवी छिन्नमस्ता च विद्या धूमावती तथा ।
वगला सिद्धविद्या च मातङ्गी कमलात्मिका । एताः
दशमहाविद्याः” इत्युक्तासु काल्यादिषु दशसु देवीसु ।

महाविष पु० ६ ब० । द्विमुखसर्पे जटा० ।

महाविषुव न० । रवेमेषसंक्रमणे । तत्संक्रमणञ्च स्वरूपतः

संक्रमणं प्रभापुञ्जस्य संक्रमणं वा । तत्र प्रभापुञ्जसंक्र-
मणमयनांशानुसारेण अष्टमासाधिकषट्षष्टिवत्सरैरेकै-
कांशं परित्यज्य ततः पश्चात्पश्चात्तरादौ स्थाने भवति
इदानीं च पञ्चादयनं पूर्वायने तु पूर्वपूर्वतरादौ स्थाने
भविष्यति । इत्यतस्तच्चलमनियतस्थानत्वात् स्वरूपसंक्रमस्तु
स्थिरः सर्वदैकस्थाने जायमानत्वात् । अयनसंक्रामिशब्दे
दृश्यम् ।

महावीचि पु० नास्ति वीचिः सुखं यत्र स अवीचिः कर्म० ।

१ सुखरहिते, “यत्र कल्लोलेन नीयते” इत्युक्ते
२ नरकभेदे च ।

महा(वी)वीर पु० कर्म० । १ गरुडे २ हनुमति ३ सिंहे ४ यज्ञाग्नौ

५ वज्रे ६ श्वेततुरङ्गे ७ सञ्चालखगे च मेदि० । ८ शेषजिने
च ९ कोकिले हेम० । १० धनुर्द्धरे ११ एकवीरवृक्षे राजनि०
१२ महाशूरे पु० १३ क्षीरकाकोलीवृक्षे स्त्री रत्नमा० ।
१४ यज्ञसाधने मृण्मये पात्रभेदे तन्निर्माणविधिः
कात्या० श्रौ० २६ । १ सूत्रादौ दृश्यः ।

महा(बी)वीर्य्य पु० ६ ब० । १ वाराहीकन्दे राजनि० । २ परमा-

त्मनि च शब्दर० । ३ अतिबलयुते त्रि० । ४ वनकार्पास्यां
स्त्री राजनि० । ५ संज्ञायां सूर्य्यपत्न्याञ्च स्त्री त्रिका० ।

महावृहती स्त्री कर्म० । वार्त्ताक्याम् त्रिका० ।

महावृक्ष पु० कर्म० । १ स्वुहीवृक्षे हला० । २ वृहत्तरौ च ।

महाव्याधि पु० कर्म० । महारोगे कुष्ठादौ रोगे ।

महाव्याहृति स्त्री कर्म० । वैदिके भूर्भुवःस्वरात्मके मन्त्रत्रये

महाव्रण न० कर्म० । (नालिघा) दुष्टव्रणे ।

महाव्रत न० कर्म० । १ अतिशयव्रते शारदीयदुर्गापूजादौ

“महाव्रतं महापुण्य शङ्कराद्यैरनुष्ठितम्” देवीपु०
२ द्वादशवार्षिके प्रायश्चित्तात्मके व्रतभेदे च ।

महाशङ्क पु० कर्म० । तन्त्रे वीराचारप्रसिद्धे नृकपाला-

स्थिजाते “नृललाटास्थिखण्डेन रचिता जपमालिका ।
महाशङ्कमयी माला ताराविद्याजपे प्रिया” इत्युक्ते
१ माल्यभेदे २ वृहच्छङ्खे च । “पौण्ड्रं दध्मौ महाश-
ङ्खम्” गीता ।

महाशठ पु० कर्म० । १ राजधस्तूरे राजनि० । २ अतिधूर्त्ते त्रि० ।

महाशणपुष्पी स्त्री शणस्येव पुष्पमस्य ङीप् कर्म० ।

वृहच्छणपुष्प्याम् राजनि० । स्वार्थे क० । तत्रैव ।

महाशता स्त्री शतं मूलानि सन्त्यस्य अच् कर्म० । वृह०

च्छतावर्य्याम् राजनि० ।

महाशताबरी स्त्री कर्म० । वृहच्छतावर्य्याम् राजनि० ।

महाशय त्रि० महान् उदार आशयो यस्य । महानुभावे

अमरः ।

महाशाखा स्त्री महती शाखास्याः । नागबलायाम् राजनि० ।

महाशालि पु० कर्म० । स्थूलशासौ हेमच० ।

महाशीता स्त्री महती शीता शीतलवीर्य्या । १ शतमूल्याम्

शब्दच० । २ अतिशीतले त्रि० ।

महाशुक्ति स्त्री महती मुक्ताकरत्वेन प्राशस्त्यत् शक्तिः ।

मुक्ताहेतौ शुक्तौ राजनि० ।
पृष्ठ ४७४५

महाशूद्र पु० कर्म० । १ आभीरे (आहीर) जातिभेदे २ तत्पन्न्यां स्त्री ङीष् ।

महाश्मशान न० कर्म० । काश्याम् समूलकर्मसहितसर्वजी

वानां पुनरनुत्पादनाय नाशाधारत्वात् तस्यास्तथात्वम् ।

महाश्यामा स्त्री कर्म० । १ श्यामालतायां रत्नमा० । २

शिंशपाभेदे राजनि० ।

महाश्रावणिका स्त्री कर्म० । (थुलकुड़ी) क्षुपभेदे राजनि०

महाश्वेता स्त्री कर्म० । १ सरस्वत्याम् त्रिका० २ कृष्णभूमि-

कुष्माण्डे च अमरः ।

महाष्टमी स्त्री कर्म० । “आश्विने शुक्लपक्षस्य भवेद् या तिथि

रष्टमी । महाष्टमीति सा प्रोक्ता” इत्युक्तायामाश्विन-
शुक्लाष्टम्याम् ।

महासर्ज पु० कर्म० । १ असनवृक्षे २ पनसवृक्षे च (काटाल) राजनि० ।

महासह पु० कर्म० । १ पुष्पप्रधाने कुब्जकवृक्षे राजनि० । २ माषप-

र्ण्याम् स्त्री ३ अम्लानवृक्षे च स्त्री अमरः । ४ अतिक्षमे त्रि०

महासान्तपन न० । कर्म० । सप्ताहसाध्ये स्मृत्युक्ते व्रतभेदे ।

महासार पु० महान् सारोऽस्य । दुष्खदिरे राजनि० ।

महासिंह पु० नित्यक० । १ शरभे राजनि० २ वृहत्सिंहे च

महासुगन्धा स्त्री सुष्ठु गन्धोऽहिहिंसा वाऽस्याः कर्म० ।

१ गन्धनाकुल्याम् राजनि० २ अतिसुगन्धयुक्ते त्रि० ।

महासेन पु० महती सेनाऽस्य । १ कार्त्तिकेये अमरः । २

वृहत्सेनाधिपतौ च ।

महास्कन्धा स्त्री महान् स्कन्धोऽस्याः । जम्बूवृक्षे राजनि० ।

महाहास पु० कर्म० । अट्टहासे उच्चैर्हासे शब्दर० ।

महाहिगन्धा पु० अहेर्गन्धो हिंसा यस्मात् अहिगन्धो

नकुलः समत्वेनास्त्यस्य अच् कर्म० । गन्धनाकुल्याम्
राजनि० ।

महाह्रस्वा स्त्री कर्म० । १ कपिकच्छ्वाम् (आलकुशी) शब्दमा० २ अतिखर्वे त्रि०

महि(ही) स्त्री मह--इन् वा ङीप् । १ पृथिव्याम् । ङीबन्तस्तु

मालवदेशस्थे २ नदीभेदेऽपि ।

महिका स्त्री मह्यते मह--क्वुन् । हिमे अमरः ।

महिमन् पु० महतो भावः इमनिच् डित्त्वेन टिलोपः ।

१ महत्त्वे २ ईश्वरैश्वर्य्यभेदे हेमच० ।

म(मि)हिर पु० मह--(मिह--)वा किरच् । १ सूर्य्ये त्रिका० । २ अर्कवृक्षे च ।

महिला स्त्री मह--इलच् । १ योषिति अमरः । २ प्रियङ्गुलतायां

३ रेणुकागन्धद्रव्ये राजनि० ४ मत्तायां स्त्रियाञ्च शब्दर० ।
एलच् । महेलापि योषिति शब्दर० ।

महिष पुंस्त्री० मह--टिषच् । १ स्वनामख्याते पशुभेदे,

स्त्रियां ङीष् । २ महिषासुरे च । ३ कृताभिषेकायां राज्ञ
स्त्रियां ४ सैरिन्ध्र्याम् ५ ओषधिभेदे च स्त्री मेदि० ङीष् ।
६ व्यभिचारिण्यां स्त्रियां माहिषिकशब्दे दृश्यम् ।

महिषध्वज पु० महिषो ध्वजः चिह्नं वाहनत्वेनाम्य ।

१ यमे २ जिनभेदे च हेमच० महिषवाहनादयोऽप्यत्र ।

महिषमर्दिनी स्त्री महिषं महिषासुरं मृद्नाति

मृदणिनि ङीप् ६ त० । दुर्गाभेदे ।

महिषाक्ष पु० महिषस्याक्षीव षच्समा० । गुग्लुभेदे । स्वार्थे क तत्रैव ।

महिषासुर पु० रम्भासुरेण महिष्यामुत्पादिते असुरभेदे ।

महिषासुरसम्भव पु० महिषासुरात्तन्मेदसः सम्भवति

सम् + भू--अच् । भूमिजगुग्गुलौ राजनि० ।

महीक्षित् पु० महीं क्षयते ईष्टे क्षि--ऐश्वर्य्ये क्विप् तुक् च । नृषे अमरः ।

महीज न० मह्या जायते जन--ड । १ आर्द्रके राजनि० ।

२ मङ्गलग्रहे ३ नरकासुरे च पु० ४ सीतायां स्त्री ।

महीध्र पु० महीं धारयति धृ--क । पर्वते अमरः । अच् । महीधरोऽप्यत्र ।

महीप्राचीर न० मह्याः प्राचीरमिवावरकत्वात् । समुद्रे

त्रिका० ।

महीभृत् पु० सहीं बिभर्त्ति धारयति पालयति वा भृक्विप् । १ पर्वते २ भूमिपाले च ।

महीयस् त्रि० अतिशयेन महान् महत् + ईयसुन् टिलोपः ।

अतिमहति “महतो महीयान्” श्रुतिः ।

महीय्यमान त्रि० महीयते मही + कण्डा० यक्--शानच् ।

१ पूज्ये २ श्रेष्ठे च “महीय्यमाना भवताऽतिमात्रम्” भट्टिः ।

महीरुह पु० मह्यां रोहति रुह--क । १ वृक्षे अमरः २ शाकवृक्षे

राजनि० ।

महीलता स्त्री मह्या लतेव । (केँचो) किञ्चुलुके अमरः ।

महेच्छ त्रि० महती इच्छा यस्य । महाशये अमरः ।

महेन्द्र पु० महान् इन्द्रः इन्द्रस्यापि नियन्तृत्वात् । १ परमे-

श्वरे २ महैश्चर्य्यवति इन्द्रे ३ जम्बुद्वीपस्थपर्वतभेदे च मेदि०

महेन्द्रकदली स्त्री महेन्द्रप्रिया तद्वर्णा वा कदली ।

कदलीभेदे राजनि० ।

महेन्द्रपुरी स्त्री ६ त० । अमरावत्याम् । महेन्द्रनगर्य्यादयोऽप्यत्र राजनि० ।

महेन्द्रवारुणी स्त्री महेन्द्रश्च वरुणश्च तयोरिथं प्रियत्वात्

अण् देवताद्वन्द्वे उत्तरपदवृद्धिः कर्म० । (वड़माकाल)
लताभेदे राजनि० ।

महेरणा स्त्री महं गजोत्सवमीरयात ल्यु । शल्लकीवृक्षे अमरः ।

महेश पु० कर्म० । शिवे । महेश्वरोऽप्यत्र “महेश्वरस्त्र्यम्यक

एव नापरः” इति रघुः ।

महेशबन्धु पु० ६ त० । बिल्ववृक्षे शब्दच० ।

पृष्ठ ४७४६

महैला स्त्री० कर्म० । स्थूलैलायाम् (वड़एलाची) राजनि० ।

महोक्ष पु० महान् उक्षा अच् समा० । वृहद्वृषे अमरः ।

“भहोक्षं वा महाजं वा श्रोत्रियाय प्रकल्पयेत्” मनुः ।

महोटी स्त्री महान्ति फलापेक्षया स्थूलानि उटानि पर्णा-

न्यस्याः ङीप् । वृहत्यां क्षुपभेदे भावप्र० ।

महोत्पल पु० कर्म० । १ पद्मे, २ सारसपक्षिणि च अमरः ।

महोत्सव पु० कर्म० । सन्ततमुखसम्पादकव्यापारे ।

महोत्साह त्रि० महान् उत्साहो यस्य । अत्यन्तोद्यमयुक्ते

महोद्यमोऽप्यत्र ।

महोदधि पु० कर्म० । समुद्रे

महोदय पु० महान् उदयो वृद्धिराधिपत्यं वा यत्र ।

१ कान्यकुब्जदेशे । २ तद्देशस्थे पुरभेदे न० । ३ मीक्षे पु० मेदि०
४ स्वामिनि पु० हेमर्च । “अमार्कपाते श्रवणम्” इत्यादि
लक्षणात् स्मृत्युक्तार्द्धोदययोगात् “किञ्चिदूने महोदयः”
इत्युक्ते किञ्चिदूने ५ योगभेदे पु० । ६ नागबलायां
स्त्री राजनि० ।

महोदरी स्त्री० महदुदरं यस्याः । १ शतमूल्याम् भावप्र० ।

२ वृहदुदरयुक्ते त्रि० ।

महोन्नत पु० कर्म० । १ तालवृक्षे भावप्र० । २ अत्यन्तोन्नतियुक्ते त्रि० ।

महोरग पु० कर्म० । वृहत्सर्पभेदे महोरगाकारोऽस्त्यस्य

अच् । २ तगरमूले न० रत्नमा० ।

महोल्का स्त्री कर्म० । वृहदुल्कायाम् ।

महौषध न० कर्म० । १ शुण्ठ्याम् २ लशुने ३ वाराहीकन्दे

वत्सनाभे ४ विषे, ५ भूम्याहुल्यके राजनि० ६ पिप्पल्याम्
शब्दच० ७ अतिविषायाम् अमरः ८ वीर्य्यबदौषधमात्रे च ।

महौषधि स्त्री कर्म० । १ दूर्वायां २ लज्जालुक्षुपे शब्दच० ।

“सहदेवी तथा व्याघ्री बला चातिबला त्वच । शङ्खपुष्पी
तथा सिंही अष्टमी च सुवर्चला । महोषध्यष्टकं प्रोक्तम्”
इत्युक्ते ३ देवादीनां स्नानीयद्रव्यभेदे । वा ङीप् । ४ श्वेत-
कण्टकार्य्यां ५ ब्राह्म्यां ६ कटुकायाम् ७ अतिविषायाञ्च
राजनि० ८ हिलमोचिकायाम् त्रिका० ।

महौषधिगण पु० “पृश्निपर्णो श्यामलता भृङ्गराजः

शताशतावरी । गुडूची सहदेवी च महौषधिगणः स्मृतः”
शब्दच० उक्ते पृश्निपर्ण्यादौ ओषधिगणे ।

मा शब्दे अक० माने सक० जु० आ० अनिट् । मिमीते अमित ममे ।

मा माने अदा० प० सक० अनिट् । माति अमासीत् ।

मा माने दि० ङित् आ० सक० अनिट् । मायते अमास्त ।

मा अव्य० ङिदनुबन्धात् दैवादिकात् आदादिकाद्वा माधातोः

किप् । १ वारणे । धातोर्ङित्त्वेन शब्दे ङित्त्वव्यवहा-
रात् “न माङ्योगे” पा० ङिदनुबन्धधातुनिष्पन्न योगे
न अडागमः तद्भिन्नयोगे तु स्यादेव “मा निषाद । प्रतिष्ठां
त्वमगमः” इति रामायणम् । मा--क--टाप् ।
२ लक्ष्म्याम् मेदि० ३ मातरि च स्त्री । मा--सम्प० भावे क्विप् ।
४ माने स्त्री शब्दर० ।

मांस न० मन--स दीर्घश्च । “मांस भक्षयित्रासुत्र यस्य मांस-

मिहाद्म्यहम् । इति मांसस्य मासत्वम्” मनूक्ते प्राणि-
देहस्थशोणितपरिपाकजे धातुभेदे भावप्रकाशे मांसवर्गे
तद्गुणाः उक्ता दृश्याः । पाकपचनशब्दं परे समासेऽस्या-
न्त्यलोपः “मांस्पचन्या उखायाः” महाभाष्यम् ।

मांसच्छदा स्त्री मांसं छादयति छद--णिच्--अच् ह्रस्वः ।

मांसरोहिण्यां लतायाम राजनि० ।

मांसज न० मांसाजायते जन--ड । देहस्थे मांसजन्ये

मेदसि हेमच० । असृक्करशब्दे दृश्यम् ।

मांसदलन पु० मांसं प्लोहात्मकं मांसं दलयति दल--णिच्-

ल्यु । प्लीहघातकवृक्षे शब्दच० ।

मांसद्राविन् पु० मांसं द्रावयति णिच्--णिनि । अम्लवेतसे राजनि० ।

मांसपेशि स्त्री ६ त० । गर्भस्थावयवभेदे । वा ङीप् तत्रैव

भावप्र० ।

मांसफला स्त्री मांसमिव कोमलं फलं यस्याः । वार्त्ताक्यान् राजनि० ।

मांसमासा स्त्री मस--परिणामे घञ् मांसस्य परिणामो

यस्याः ५ ब० । माषपर्ण्याम् राजनि०

मांसरोहिणी स्त्री मासं रोपयति रुह--णिच् णिनि वा न

पुक् । सुगन्धिद्रव्यभेदे (चामकषा) । राजनि० ।

मांसल त्रि० मांस + बलवत्यर्थे लच । १ बलवति असर ।

२ स्थूले ३ पुष्टे च ।

मांसलफला स्त्री मांसलं पुष्टं फलमस्याः । वार्त्ताक्याम् राजनि० ।

मांससार पु० ६ त० । मेदसि राजनि० । मांसस्नेहादयोऽप्यत्र

मांसहासा स्त्री मांसेन हस्यते कर्मणि घञ् । देहस्थचर्मणि

शब्दर० ।

मांसिक त्रि० मांसं पण्यमस्य ठक् । मांसविक्रयोपजीविनि । (कसाइ) अमरः ।

मांसिनी स्त्री मांसस्तदाकारस्तद्वेतुत्वं वाऽस्त्यस्याः इनि ।

जटामांस्याम् राजनि० ।

मांसी स्त्री मांसमस्त्यस्य अच् गौ० ङीष् । १ जटामांस्याम्

२ कक्कोल्याञ्च मेदि० ३ मांसच्छदायां राजनि० ।

मांसेष्टा स्त्री मांसमिष्टं यस्याः । वल्गुलायां खगभेदे राजनि०

माकन्द पु० माति मा--क्विप माः परिमितः कन्दोऽस्य ।

१ आम्ने । २ आमलक्यां स्त्री राजनि० ३ नगरभेदे च स्त्री
मेदि० गौरा० ङीष् । ४ पीतचन्दने शब्दच० ।
पृष्ठ ४७४७

माकरी स्त्री मकरस्य तत्स्थरविककालस्य इयम् अण् ।

मकरस्थितरविककाले तदारब्धमाघमासस्य शुक्लसप्तम्यां
“तन्मे रोगञ्च शोकञ्च माकरी हन्तु सप्तमी” ति० त० ।

माक्ष स्पृहायां भ्वा० पर० सक० सेट् इदित् । माङ्क्षति

अमाङ्क्षीत् ।

माक्षि(क्षी)क न० मक्षिकाभिः सम्भृत्य कृतम् अण् पृषो०

वा दीर्घः । १ मधुनि अमरः । तत्तुल्यगुणे उपधातुभेदे
२ स्वर्णमाक्षिके ३ रौप्यमाक्षिके च राजनि० ।

माक्षिकज न० माक्षिकाज्जायते जन--ड । सिक्थके (मोम) राजनि० ।

माक्षिकफल पु० माक्षिकमिव मधुरं फलमस्य । मधुनारिकेले

राजनि० ।

माक्षि(क्षी)कशर्करा स्त्री ६ त० । मधुजाते खण्डभेदे राजनि०

मागध पु० मगधदेशे भवः अण् । १ श्वेतजीरके मेदि० २ स्तुति-

पाठके अमसः क्षत्रियायां वैश्याजाते ३ वर्णसङ्करभेदे
(भाट) च । ४ यूथिकायां ५ पिप्पल्यां स्त्री मेदि० ङीप् ।
६ सूक्ष्मैलायां ७ शर्करायां शब्दच० ८ भाषाविशेषे च
स्त्री हेमच० । ९ मगधदेशजाते त्रि० ।

मागधखारिका स्त्री लीलावत्युक्ते ख रिकाभेदे ।

माघ पु० मघानक्षत्रयुक्ता पौर्णमासी अण् ङीप् माघी सात्र

मासे पुनरण् । चैवावधिके १ एकादशे चान्द्रे मासे ।
२ तत्पौर्णमास्यां स्त्री ङीप् ३ शिशुपालबधकाव्ये
४ तत्कर्त्तरि च पु० । “तावद्भा भारवेर्भाति यावन्माघस्य
नोदयः” इत्युद्भटः ।

माघ्य न० माथे भवं यत् । कुन्दपुष्प अमरः ।

माङ्गल्य न० मङ्गलमेव, मङ्गलाय हितं वा ष्यञ् । १ मङ्गले

२ मङ्गलसाधने च ।

माङ्गल्यार्हा स्त्री माङ्गल्यमर्हति अर्ह--अच् । त्रायमाणालतायाम् राजनि० ।

माचिका स्त्री मच--ण्वुल् । १ अम्बष्ठायां राजनि० । २ मक्षि-

कायाञ्च त्रिका० ।

माञ्जिष्ठ न० मञ्जिष्ठया रक्तमणे । १ रक्तवर्णे २ तद्वति त्रि०

माठर पु० मन--अरन् ठान्तादेशः ततः स्वार्थे अण् सूर्य्यस्य

परिपार्श्वं मठति मठ--अरण् वा । सूर्य्यस्य १ पारिपा
र्श्विकेगणभेदे अमरः । २ व्यासे मेदि० । ३ विप्रे हेमच० ।
४ शौण्डिके सि० कौ० ।

माण(न)क न० मा--अकच् णुट् मुट् वा । स्वनामख्याते

कन्दभेदे “हरिद्रा माण(न)कं कचुः” नवपत्रिकोक्तौ ।

माणव पु० मनोरपत्यं अण् अल्पार्थे णत्वम् । १ अल्पवयस्के

मनुष्ये शब्दच० । स्वार्थे क । तत्रार्थे हारभेदे च हेम० ।

माणवीन त्रि० माणवस्येदम् खञ् । बालकसम्बन्धिनि ।

माणव्य न० माणवाना समूहः यत् । बालकसमूहे ।

माणिक्य न० मणिरिव कायति कै--क स्वार्थे ष्यञ् । (माणिक)

१ रक्तवर्णे रत्नभेदे, २ गृहगोधिकायां स्त्री हेमच० ।

माणिबन्ध(मन्थ) न० मणिबन्ध(मन्थ) पर्वते भवः अण् ।

सैन्धवलवणे अमरः ।

मातङ्ग पुंस्त्री० मतङ्गस्य मुनेरयम् अण् । १ गजे अमरः ।

२ किरातजातिभेदे स्त्रियां ङीष् । ३ जैनभेदे पु० हेमच० ।
४ दशमहाविद्याभेदे स्त्री ङीप् ।

मातङ्गमकर पु० मातङ्ग इव मकरो जलजन्तुः ।

महामत्स्यभेदे राजनि० ।

मातरपितृ स्त्री द्वि० व० माता च पिता च द्वन्द्वे मातुर्वा

मातरादेशः । मात्रापित्रोः । पक्षे मातुरानङ् ।
मातापितृ तयोरर्थयोः द्वि० व० ।

मातरिश्वन् पु० मातरि आकाशे श्वयति वर्द्धते श्वि--कनिन्

डिच्च अलुक्स० । वायौ अमरः ।

मातलि पु० मतं साति ला--क मतलस्तस्यापत्यम् इञ् । इन्द्रसारथौ अमरः ।

माता स्त्री मा--अतच् । जनन्याम् । “विश्वेश्वरीं विश्वमाताम्”

इति दुर्मास्तवः ।

मातामह पु० मातुः पिता मातृ + डामह । १ मातुः पितरि २ तत्पत्न्यां स्त्री गौरा० ङीष् ।

मातुल पु० मातुर्भ्राता मातृ--डुलच् । १ मातुर्भ्रातरि अमरः

२ तत्पत्न्यां वा ङीष् वा आनुक् च । मातुलानी मातुली
मातुला च । मद--णिच्--उलच् पृषो० दस्य तः ।
३ धुस्तूरे ४ व्रीहिभेदे ५ मदनवृक्षे च मेदि० । ६ सर्पभेदे हेम० ।

मातुलपुत्रक न० मातुलस्य धुस्तूरस्य पुत्र इव कायति

कैक । १ धुस्तूरे अमरः । ६ त० स्वार्थे क । २ मातुलसुते ।

मातुलाहि पु० मातुल इवाहिः । मालुधाने सर्पे अमरः ।

मातुलुङ्ग पु० मातुलं गच्छति गम--खच् डिच्च पृषो० । १

वीजपूरे भरतः । २ मधुकुक्कुट्याम्० स्त्री रत्नमा० । स्वार्थे क ।
३ वीजपूरे अमरः ।

मातृ त्रि० मा--वृच् । १ प्रमाणकर्त्तरि २ परिमाणकर्त्तरि

३ जीवे ४ आकाशे च मातरिश्वा । मातारौ मातारः ।
मा--तृ । “ब्राह्मी माहेश्वरी चण्डी वाराही वैष्णवी
तथा । कौमारी चैव चामुण्डा चर्चिकेत्यष्ट मातरः”
इत्युक्ते ५ शिवसहचरीभेदे । ६ जनन्याम् ७ भूमौ ८ विभूतौ
शब्दर० । ९ लक्ष्म्याम् हेमच० १० रेवत्याम् अमरः ११ स्त्री
पृष्ठ ४७४८
गव्यां मेदि० १२ आखुकर्ण्याम् १३ इन्द्रवारुण्याम्
(राखालशशा) १४ जटामांस्यां राजनि० । चण्डीप्रसिद्धासु
१५ देवीशक्तिषु च । “मातॄः कोपमयाविष्टः” देवीमा० ।
आतिदेशिकमातरश्च ब्रह्मवै० पु० गण० ख० १५ अ० उक्ता यथा
“स्तन्यदात्री गर्भधात्री भक्ष्यधात्री गुरुप्रिया । अभीष्ट-
देवपत्नी च पितुः पत्नी च कन्यका । सगर्भजा या
भगिनी पुत्रपत्नी प्रियाप्रसूः । मातुर्माता पितुर्माता
सोदरस्य० प्रिया तथा । मातुः पितुश्च भगिनी मातु-
लानी तथैव च । जनानां वेदविहिता मातरः
षोड़श स्मृताः” ।
ब्रह्मवै० पु० जन्मख० ५९ अ० अन्यविधा उक्ता यथा
“गुरुपत्नी राजपत्नी देवपत्नी तथा बधूः । पित्रोः स्वसा
शिष्यपत्नी भृत्यपत्नी च मातुली । पितृपत्नी भ्रातृपत्नो
श्वश्रूश्च भगिनीसुता । गर्भधात्रीष्टदेवी च पुंसः
षोड़श मातरः” । तत्रैव २५ अ० “गुरोःपत्नी राजपत्नी
विप्रपत्नी च या सती । पत्नी च भ्रातृसुतयोर्मित्रपत्नी
च तत्प्रसूः । प्रसूः पित्रोस्तयोर्भ्रातुःपत्नी श्वश्रूः
स्वकन्यका । जननी तत्सपत्नी च भगिनी सुरभी तथा ।
स्वाभीष्टसुरपत्नी च धात्री कान्ता प्रदायिका । गर्भधात्री
स्वनाम्नी च भयात्रातुश्च कामिनी । एता वेदप्रणीताश्च
सर्वेषां मातरः स्मृतः” । अस्य रूपं मातरौ मातरः ।
वृद्ध्यादौ पूज्यासु गौर्य्यादिषु १६ देवीशक्तिभेदेषु “गौरी
पद्मा शची मेधा सावित्री विजया जया । देवसेना
स्वधा स्वाहा मातरो लोकमातरः । शान्तिः पुष्टि-
र्धृतिस्तुष्टिरात्मदेवतया सह” शु० त० गृह्यपु० ।

मातृका स्त्री मातेव कायति कै--क । १ उपमातरि २ ब्रह्मा-

ण्यादिषु चण्डीप्रसिद्धदेवीमूर्त्तिषु ३ सर्वशब्दोत्पादकेषु
अकारादिकोनपञ्चाशद्वर्णेषु ४ मातरि च मेदि० । मातृ +
स्वार्थे क । मातृशब्दार्थे ।

मातृबन्धु पु० ६ त० । “मातुः पितुःष्वसुः पुत्रा मातुर्मातुः-

ष्वसुः सुताः । मातुर्मातुलपुत्राश्च विज्ञेया मातृबन्धवः”
इत्युक्तेषु मातुः पितृष्वस्रीयादिषु । मातृबान्धवोऽप्यत्र ।

मातृष्वसृ स्त्री ६ त० । मातुर्भगिन्याम् अलुक्स० उभयत्रं

षत्वम् । मातुःष्वसाप्यत्र ।

मातृष्वस्रेय पु० मातृष्वसुरपत्यम् ढक् । १ मातुर्भगिनीपुत्रे

२ तत्कन्यायां स्त्री ङीप । छण् । मातृष्वस्रीयोऽप्यत्र ।

मातृसिंही स्त्री मातुः प्रमातुः सिंहीव । वासकवृक्षे शब्दर०

मात्र न० मा--त्रन् । १ साकल्ये २ अवधारणे च अमरः ।

३ परिच्छदे ४ अल्पे ५ परिमाणे स्त्री अमरः । ६ कर्णभूषायाम्
७ वित्ते ८ वर्णावयवभेदे च स्त्री मेदि० । “कालेन यावता
पाणिः पर्य्येति जानुमण्डम् । सा मात्रा कविभिः
प्रोक्ता” इत्युक्ते ९ ह्रस्ववर्णोच्चारणकाले च स्त्री ।
“एकमात्रो भवेद् ह्रस्वः” । मीयस्तेऽनया विषयाः मा--करणे
च्छ्रन् । १० इन्द्रियवृत्तौ । “मात्रास्पर्शास्तु कौन्तेय!” गीता ।

मात्रापताका स्त्री छन्दोग्रन्थोक्ते मात्रावृत्तस्थलथुगुरु-

ज्ञानानुगुणे पताकाकारे चक्रे ।

मात्रामर्कटी स्त्री कन्दोग्रन्थोक्ते मात्रावृत्तस्थलघुगुरुज्ञाना-

नुगुणे मर्कटीजालचक्रभेदे ।

मात्रामेरु पु० छन्दोग्रन्थोक्ते मात्रावृत्तस्थलघुगुरुज्ञानानुनुणे मेरुचक्रे ।

मात्रावृत्त न० मात्रया कृतं वृत्तम् । आर्य्यादौ छन्दोभेदे ।

मात्सर्य्य न० मत्सरस्य भावः ष्यञ् । परगुणद्वेषे “मात्सर्य्य०

मुत्सार्य्य विचार्य्य धूर्य्याः” सा० द० ।

माथ बधे सक० क्लेशे अक० भ्वा० प० सेट् इदित् । मान्यति अमान्वीत्

माथ पु० मथ--घञ् । १ पथि त्रिका० । २ मन्थने शब्दर० ।

माथुर त्रि० मथुरायां भवो मथुरायाः आगतो वा अण् ।

१ मथुरानगरीभवे, २ तत आगते च ।

माद पु० मद--घञ् । १ दर्पे २ हर्षे च भरतः ।

मादक त्रि० मदयति मद--णिच्--ण्वुल् । १ मत्तताकारके

द्रव्ये । माद्यति कर्त्तरि ण्वुल् । २ दात्यूहे पुंस्त्री०
शब्दमा० स्त्रियां ङीष् ।

मादन न० मादयति मद--णिच्--ल्यु । १ लवङ्गे शब्दच० ।

२ कामदेवे ३ मदनवृक्षे च पु० । ४ विजयायां राजनि०
५ माकन्दाञ्च स्त्री भावप्र० गौरा० ङीष् । ६ हर्षकारके त्रि० ।

मादृ(क्ष)(श)श् त्रि० ममेव दर्शनमस्य दृश्--क्स ट क्विप् वा ।

मम तुल्यदर्शने मत्सदृशे ।

माद्री स्त्री मद्रे भवा अण् । १ पाण्डुराजस्य द्वितीयपत्न्याम् २ अतिविषायाञ्च राजनि० ।

माधव पु० माया धवः । १ नारायणे । मधु + स्वार्थे अण् ।

२ वसन्ते विश्वः “स माधवेनाभिमतेन सख्या” कुमारः ।
मधुने पुष्परसाय मद्याय वा हितः अण् । ३ वैशाखे मासि
तस्य बहुपुष्पवत्त्वाम् तद्धित्वम् । ४ मधूकवृक्षे तत्
पुष्पेण हि मद्यसम्भवः । ५ कृष्णमुद्गे च राजनि० । मधु
बाहुल्येनास्त्यस्याः अण् ६ वासन्तीलतायाम् स्त्री ङीप् ।

माधवीलता स्त्री कर्म० । स्वनामख्यातायां लतायाम् अमरः

माधवेष्टा स्त्री माधवे वैशाखे माधवस्य कृष्णस्य वा इष्टा ।

वाराहीकन्दे राजनि० ।

माधवोचित न० माधवे उचितः । १ कक्कोलके राजनि० २ माधवप्रिये त्रि० ।

पृष्ठ ४७४९

माधवोद्भव पु० माधवे वैशाखे उद्भवति फलवत्त्वेन उद् +

मूअच् । (पियाल) राजादन्याम् राजनि० ।

माधुर न० मधु--राति भ्रमरेभ्यो ददादि रा--क--स्वार्थे, मधुर-

स्येदं वा अण् । १ मल्लिकापुष्पे त्रिका० । २ मधुरसम्भवेत्रि० ।

माधुरी स्त्री मधुरस्य भावः ष्यञ् माधुर्य्यं षित्त्वात् स्त्रीत्व

पक्षे ङीष् यलोपः । १ माधुर्य्ये अधुरत्वे, “सद्यस्खलन्मा-
धुरी धारा” इत्युद्भटः । मधुरा + स्वार्थे अण् । २ मदिरायाम्

माधुर्य्य न० मधुरस्य भावः ष्यञ् । १ मधुरत्वे “चित्तद्रवी-

भावमयो ह्लादो माधुर्य्यमुच्यते” सा० द० उक्ते २ काव्य
गुणभेदे च । तद्व्यञ्जकवर्णाश्च तत्रोक्ता यथा “मूर्द्ध्नि
वर्गान्त्यवर्णेन युक्ताः टठडढान् विना । रणौ लघु च
तद्व्यक्तौ वर्णाः कारणतां गताः । अवृत्तिरल्पवृत्तिर्वा
मधुरा रचना मना” । तच्च सम्भोगशृङ्गादावनुगुणं
यथोक्तं तत्रैव “सम्भोगे करुणे विप्रलम्भे शान्तेऽधिकं
क्रमात् ३ लावण्ये हेम० । “रूपं किमप्यनिर्वाच्यं
तनोर्माधुर्य्यमुच्यते” उज्ज्वलमणौ तल्लक्षणमुक्तम् ।

माध्यन्दिन न० मध्यन्दिनमेव--अण् । मध्यमदिने तत्र

पाठ्यः अण् । शुक्लयजुर्वेदीयशास्वाभेदे ।

माध्वीक स्त्री मधुना मधूकपुष्पेण निर्वृत्तम् ईकक् । १ मधूक-

पुष्पजाते मद्ये अमरः । मधु एव अण् स्वार्थे ईकक् ।
२ द्रा फले “साध्वी माध्वीक! चिन्ता विजहत्विति
जयदेवः ।

माध्वीकफल पु० माध्वीकमिव मधुरं फलमस्य । मधुनारिकेले राजनि० ।

माध्वीमधुरा पु० माध्वीकमिव मधुरा पृषो० कलोपः ।

मधुरखर्जूरिकायाम् राजनि० ।

मान विचारे भ्वा० सक० सेट स्वार्थे सन् नेट् । मीमांसते

अमीमांसिष्ट अर्चायां च तत्र न स्वार्थे सन् ।

मान अर्च्चे वा चु० उ० पक्षे भ्वा० पर० सक० सेट् ।

मानयति ते मानति अमीमनत्--त अमानीत् ।

मान न० मा--ल्युट् । १ परिमाणे हस्ततुलाप्रख्याद्यैर्द्रव्यपरि-

च्छेदे भावप्र० मानपरिभाषा कर्षशब्दे दृश्या । २ प्रमाणे
“मानाधीनामेयसिद्धिः” भीमांसकाः । गानाङ्गे
कालक्रियायां तालविरामोपलक्षिते ३ कालव्यापारे च
मेदि० । मन--घञ् । आत्मनि उत्कर्षाभिमानात्मि-
कायां ४ चित्तसमुन्नतौ पु० अमरः । “स्वाभीष्टाश्लेषवी-
क्षादिविरोधी मान उच्यते” इत्युक्ते ५ अनुरक्त-
दम्पत्योः ६ अवस्थाभेदे पु० । “मुञ्च मयि मानमनिदानम्
जयदेवः । ७ सम्माने च ।

मानग्रन्थि पु० मानस्य ग्रन्थिर्बन्धनं यस्मात् । अपराधे हारा०

मानरन्ध्रा स्त्री मानाय कालप्रमाणज्ञानाय रन्ध्रं यस्याः ।

ताम्रनिर्मिते सच्छिद्रे कालज्ञानहेतौ घटीयन्त्रभेदे
त्रिका० ।

मानव पु० मनोरपत्यम् अण् । १ मनुष्ये अमरः । स्त्रियां

जातौ ङीष् । सा च २ स्वायम्भुवकन्यायाम् भारतम् ।
३ शासनदेवताभेदे हेमञ्च० । २ बाले पु० शब्द र० ।

मानस न० मन एव अण् । १ मनसि अमरः । कैलासान्ति-

कस्थे ब्रह्मणा मनसा कृते २ सरोवरभेदे च । मनस
इदम् अण् । ३ चित्तसम्बन्धिनि त्रि० ।

मानसव्रत न० मनसा कृतं मानसं कर्म० । “अहिंसासत्य-

मस्तेयं ब्रह्मचर्य्यमलुब्धता । एतानि मानसानि स्युर्व्र-
तानि” इत्युक्तेषु अहिंसादिषु ।

मानसौकस् पु० मानसमोको यस्य । हंसे अमरः मानसालयादयोऽप्यत्र ।

मानिनी स्त्री मान--इनि ङीप् । १ फलीवृक्षे मेदि० २

मनिवत्यां स्त्रियां च । ३ मानयुते त्रि० ४ सिंहे पु० राजनि० ।

मानुष पु० मनोरयम् अण् सुक् च । मानवे, ततोजातौ

स्त्रियां ङीप् मानुषी । मानुषस्येदम् अण् । २ मनुष्यसम्ब-
न्धिनि त्रि० स्त्रियां ङीप् सा च ३ चिकित्साभेदे शब्दर० ।

मानुष्य न० मादुषस्य भावः यत् । मनुष्यत्वे ।

मानोज्ञक न० मनोज्ञस्य भावः मनोज्ञा० वुञ् । मनोहरत्वे

मान्द्य न० मन्दस्य भावः ष्यञ् । १ रोगे हेम० २ मन्दतायाञ्च ।

मान्धातृ पु० मामिन्द्रं धयति धे--वृच् । “मामयं धास्यती-

त्यस्मात् मान्धातासौ प्रकीर्त्तितः” इति निरुक्ते
युवनाश्वराजपुत्रे नृपभेदे ।

मान्य पु० मान--अर्च्चायां कर्मणि ण्यत् । १ पूज्ये जटा० । २ मरुन्मालायां स्त्री शब्दमा० ।

मामक त्रि० मम--इदम् अस्मद् + बुण् ममादेशः । मत्सम्ब-

न्धिनि खञ् । मामकीनोप्यत्र ।

माया स्त्री मा--यत् बा० नैत्त्वम् । १ छद्मनि कापट्ये अमरः ।

२ इन्द्रजालादौ ३ मिथ्याबुद्धिहेत्वज्ञानभेदे, ४ कृपायां
५ दम्भे ६ लक्ष्म्यां च मेदि० । ७ बुद्धमातरि स्त्री अमरः ।
८ ईश्वरस्योपाध्रौ, अघटनघटनसाधिकायां शक्तौ वेदान्त० ।
९ पीताम्बरे १० असुरभेदे पु० मेदि० ।

मायाकृत् पु० मायामिन्द्रजालं करोति कृ--किप् । मायाकरे (बाजीकर) शब्दर० ।

मायादेवीसुत पु० ६ त० । बुद्धे अमरः ।

मायावत त्रि० माया + अस्त्यर्थे मतुप् मण्ड वः । १ माया

विशिष्टे० २ कंसराजे पु० शब्दर० । ३ कामपत्न्यां स्त्री
ङीप् जटा० ।
पृष्ठ ४७५०

मायाविन् त्रि० माया + अस्त्यर्थे विनि । १ मायाकरे स्त्रियां

ङीप् २ विड़ाले पु० राजनि० ।

मायिक त्रि० मायास्त्यस्य ठन् । मायाकरे जटा० । इनि मायीप्यत्न ।

मायु पु० मा--यु नाऽनादेशः । देहस्थे पित्ते धातौ अमरः ।

मायूर न० मयूराणां ममूहः तस्येवं वा अण् । १ मयूरसङ्घे ।

२ मयूरसम्बन्धिनि त्रि० स्त्रियां ङीप् ।

मायूरी स्त्री मयूरस्येदं प्रियत्वात् अण् ङीप् । अजमोदायाम् राजनि० ।

मार पु० मृ--घञ् । १ मरणे । मारयति मृ--णिच्--अच् ।

२ कामदेवे ३ विघ्ने मेदि० । ४ धुस्तूरे च शब्दच० ।

मारक पु० मृ--णिच्--ण्वुल् मृ--णिच् घञ् स्वार्थे क वा ।

१ मरके मारिभये त्रिका० । (वाज) २ पक्षिभेदे च ।
३ नाशके त्रि० । जन्मलग्नावधिकाष्टमस्थानपतौ ४ ग्रहभेदे
पु० “भाग्यव्ययाधिपत्येन रब्ध्रेशोमारकः स्मृतः” पराशरः ।
५ द्वितीयसप्तमाधीशे च मारकस्थानशब्दे दृश्यम् ।

मारकस्थान न० मारणकारणे स्थाने । “अष्टम चायुषः

स्थानमष्टमादष्टमञ्च यत् । तयोरपि व्ययस्थानं मारक-
स्थानमुच्यते, इत्युक्ते जन्मलग्नात् सप्तमे द्वितीये च
स्थाने ।

मारजित् पु० मारं कामं जितवान् जि--भूते क्विप् । १ जिनदेवे अमरः ।

मारण न० मृ--णिच्--भावे ल्युट् । १ बये अमरः । करणे ल्युट् ।

वैरिबधसाधने तन्त्रोक्ते अभिचारकर्मभेदे च ।

मारि(री) स्त्री मृ--णिच्--इन् । १ मारणे । वा ङीप् । “मारीभये

राजभये” इति वटुकस्तवः । ङीवन्तः २ दुर्गाशक्तिभेदे मेदि० ।

मारिष पु० रिष--हिंसायाम् क निषेधार्थकमाशब्देन स० ।

नाट्योक्तौ १ आर्य्ये हिंसानिवारकतया तस्य तथात्वम् ।
२ तण्डुलीयशाके च अमरः । ३ दक्षमातरि स्त्री मेदि० दाप्

मारीच पु० तारकाराक्षसीपुत्रे रावणानुचरे १ राक्षसविशेषे

२ कक्कोलके ३ याजकब्राह्मणे मेदि० । ४ राजगजे पुंस्त्री०
जटा० स्त्रियां ङीष् ।

मारुतव्रत न० “प्रविश्य सर्वभूतानि यथा चरति मारुतः ।

तथाचरैः प्रवेष्टव्यं व्रतमेतद्धि मारुतम्” मनूक्ते राज्ञां
धर्मभेदे ।

मारुतात्मज पु० ६ त० । १ हनुमति २ भीमे च इञ् । मारुतिरप्यत्र ।

मारुतापह पु० मारुतं वायुदोषमपहन्ति अप + हन--ड ।

१ वरुणवृक्षे राजनि० । २ वायुदोषनाशके त्रि० ।

मार्कण्ड पु० मृकण्डोरपत्यम् अण् पृषो० । १ मुनिभेदे

तत्सृष्टे २ लताभेदे (भुँखखसा) स्त्री भावप्र० स्वार्थे
क । तत्रार्थे ।

मार्कण्डेय पु० मृकण्डोरपत्यं शुभ्रा० ढक् पृषो० । १

मृकण्डुमुनिपुत्रभेदे तेन प्रोक्तम् अण् । व्यासप्रणीते पक्षि
मार्कण्डेयसंवादरूपे २ महापुराणभेदे न० । तत्प्रतिपाद्य-
विषयाश्च नारदपु० पूर्वभागे ९७ अ० उक्ता यथा ।
“यत्राधिकृत्य शकुनीन् सर्वधर्मनिरूपणम् । मार्कण्डेयेन
मुनिना जैमिनेः प्राक् समीरितम् । पक्षिणां धर्मसंज्ञानां
ततो जन्मनिरूपणम् । पूर्वजन्मकथा चैषां विक्रिया च
दिवस्पतेः । तीर्थयात्रा बलस्यातो द्रौपदेयकथानकम् ।
हरिश्चन्द्रकथा पुण्या युद्धमाजीवकाभिधम् । पितापुत्र-
समाख्यानं दत्तात्रेयकथा ततः । हैहयस्याथ चरितं
महाख्यानसमाचितम् । मदालसाकथा प्रोक्ता
ह्यलर्काचरिताचिता । सृष्टिसंकीर्त्तनं पुण्यं नवधा
परिकीर्त्तितम् । कल्पान्तकालनिर्देशो यक्ष्मसृष्टिनिरू-
पणम् । रुद्रादिसृष्टिरप्युक्ता द्वीपवर्षानुकीर्त्तनम् ।
मनूनाञ्च कथा नाना कीर्त्तिताः पापहारिकाः । तासु
दुर्गाकथात्यन्तं पुण्यदा चाष्टमेऽन्तरे । तत्पश्चात् प्रण-
वोत्पत्तिस्त्रयोतेजःसमुद्भवः । मार्त्तण्डस्य च जन्मा-
ख्या तन्माहात्स्यसमाचिता । वैवस्वतान्वयश्चापि वत्स-
प्र्यश्चरितं ततः । खनित्रस्व ततः प्रोक्ता कथा पुण्या
महात्मनः । अविक्षिच्चरितं चैव किमिच्छव्रतकीर्त्तनम् ।
नरिष्यन्तस्य चरितं इक्ष्वाकुचरितं ततः । तुलस्याश्चरितं
पश्चाद्रामचन्द्रस्य सत्कथा । कुशवंशसमाख्यानं सोमवंशा-
नुकीर्त्तनम् । पुरूरवःकथा पुण्या नहुषस्य कथाद्भुता ।
ययातिचरितं पुण्यं यदुवंशानुकीर्त्तनम् । श्रीकृष्णवाल-
चरितं माथुरं चरितं ततः । द्वारकाचरितञ्चाथ कथा
सर्वावतारजा । ततः साङ्ख्यसमुद्देशः प्रपञ्चासत्त्व-
कीर्त्तनम् । मार्कण्डेयस्य चरितं पुराणश्रवणे फलम्” ।
यः शृणोति नरो मक्त्या पुराणमिदमादरात् । मार्क-
ण्डेयाभिधं वत्स! स लभेत् परमां गतिम् । यस्तु व्या-
कुरुते चैतच्छैवं स लभते पदम् । तत्प्रयच्छेल्लिखित्वा
यः सौवर्णकरिसंयुतम् । कार्त्तिक्यां द्विजवर्य्याय स लभेद्
ब्रह्मणः पदम् । शृणोति श्रावयेद् वापि यश्चानुक्रमणी-
मिमाम् । मार्कण्डेयपुराणस्य स लभेद् वाञ्छितं
फलम्” ।

मार्कव पु० मारयति क्विप्--मारि केशक्लेशे कूयते कू अच् ।

भृङराजे (केशरिया) अमरः ।

मार्ग संस्कारे सर्पणे च चुरा० उम० सक० सेट् । मार्गयति अममार्गत् त ।

मार्ग अन्वेषणे वा चु० उभ० पक्षे भ्वा० प० सक० सेट् । मार्ग-

थति--ते मार्गति । अममार्गत् त । अमार्गीत् ।
पृष्ठ ४७५१

मार्ग पु० मृज--शुद्धौ--मार्ग--अन्वेषणे वा घञ् । १ पथि अमरः ।

तद्भेदा यथा “त्रिंशद्धनूंषि विस्तीर्णो देशमार्गस्तु तैः कृतः ।
विंशद्धनुर्ग्राममार्गः सीमामार्गो दशैव तु । धनूंषि दश
विस्तीर्णः श्रीमान् राजपथः स्मृतः । नृवाजिरथनागा-
नामसम्बाधः सुसञ्चरः । धनूंषि चैव चत्वारि शाखार-
थ्यास्तु निर्म्मिताः । त्रिकराश्चोपरथ्यास्तु द्विकरावो-
परथ्यका । जङ्घापथश्चतुष्पादस्त्रिपादश्च गृहान्तरम् ।
व्रतिपादस्त्वर्द्धपादः प्राग्वंशः पादकः स्मृतः । अवकरः
परिवारः पादमात्रः समन्ततः । प्रावृट्काले तु प्रावृत्ती
कर्त्तव्या अन्यथा नहि” देवीपु० ।

मार्गण न० मार्ग--ल्युट् । १ अन्वेषणे अमरः । २ याचने ३ प्रणये

च मेदि० । कर्त्तरि ल्यु । ४ याचके त्रि० ५ शरे पु०
अमरः ।

मार्गशिर पु० मृगशिरया युक्ता पौणैमासी अण् सा थत्र

मासे पुनरण् । चान्द्रे १ अग्रहायणे मासि २ तत्पौर्ण-
मास्यां स्त्री ङीप् शब्दर० ।

मार्गशीर्ष पु० साधनं मार्गशिरवत् । १ अग्रहायणे मासि ।

अमरः । २ तत्पौर्णमास्यां स्त्री ङीप् ।

मार्गित त्रि० मार्ग--क्त । अन्वेषिते ।

मार्ज्ज मार्जने सक० ध्वनौ अक० चुरा० उभ० सेट् । मार्ज-

यति--ते अममार्जत्--त ।

मार्ज्जन न० मृज--ल्युट् । प्रोञ्छनादिना निर्मलीकरणे ।

युच् । तत्रैवार्थे स्त्री । सा च २ मुरजघ्वनौ हेमच० ।
करणेल्युट् । सम्मार्जन्याम् (झाँटा) । स्त्री ङीप् अमरः ।

मार्ज्जार(ल) पुंस्त्री० मृज--आरन् वा रस्य लः । १ विड़ाले

अमरः स्त्रियां ङीष् । २ रक्तचित्रके पु० राजनि० ।
३ खट्टासे च हेमच० । ततः संज्ञायां कन् । मयूरे ।

मार्ज्जारगन्धा स्त्री मार्ज्जारस्येव गन्धो यस्याः । मुद्गप-

र्णीभेदे रत्नमा० । स्वार्थे क अत इत्त्वम् । तत्रैव ।

मार्ज्जारी स्त्री मृज--आरक् गौरा० ङीष् । १ कस्तूर्य्याम्

२ खट्टासजन्तौ २ मार्जारयोषिति च मेदि० ।

मार्ज्जारी(ली)य पुंस्त्री० मार्ज्जार + (ल) स्वार्थे छ,

मृजआरीयक् रस्य लत्वम् वा । १ विड़ाले २ शूद्रे च स्त्रियां
टाप् ३ कायशोधने पु० मेदि० ।

मार्जित पु० मार्ज--क्त । २ शोधिते । दधि--खण्डमधुसर्पिर्मरि-

चादिकृते कर्पूरादिवासिते भक्ष्यभेदे स्त्री (रसा) । भरतः

मार्त्तण्ड पु० मृते अण्डे भवः अण् शक० । १ सूर्य्ये । तस्य

मृताण्डजन्म च “मारितञ्च यतः प्रोक्तमेतदण्डं त्वयो-
दित । तस्मान्मुने! सुतस्तेऽयं मार्त्तण्डाख्यो
भविष्यतति” मार्क० पु० । २ अर्कवृक्षे अमरः । ३ शूकरे पुंस्त्री०
मेदि० स्त्रियां ङीष् ।

मार्त्तिक न० मृत्तिकया निर्मितम् अण् । १ शरावे (शरा)

शब्दर० । २ मृण्मये त्रि० ।

मार्द्दङ्गिक त्रि० मृदङ्गः तद्वादनं शिल्पमस्य टक् । मृदङ्गवादके अमरः ।

मार्द्दव न० मृदोर्भावः अण् । १ मृदुत्वे २ परदुःखासहिष्णु-

तायाम् ३ द्रवीभावे च “अभितप्तमेयोऽपि मार्द्दवं भजते
कैव कथा शरीरिणाम्” रघुः । ४ सङ्कीर्णजातिभेदे पुंस्त्री०
जटा० । स्त्रियां ङीष् ।

मार्ष पु० मृष--क ततः स्वार्थे अण् । १ तण्डुलीयशाके भरतः २ नाट्योक्तौ श्रेष्ठे हेमच० ।

मार्ष्टि स्त्री मृज--क्तिन् । शोधने ।

माल पु० मल--संज्ञायां कर्त्तरि घञ् । “माला मिल्लाः

किराताश्च सर्वेऽपि म्लेच्छजातयः” हेमच० उक्ते १ म्लेच्छ-
भेदे २ विष्णौ पु० भरतः । ३ देशभेदे ४ क्षेत्रे मेदि० ५ कपटे
६ वने हेमच० ।

मालक न० मल ण्वुल् । १ स्थलपद्मे जटा० । २ नारिकेल-

पात्रभेदे पु० (माला) । ३ निम्बवृक्षे पु० अमरः ।

मालकोश पु० रागभेदे तस्य गानसमयः शरद्वतौ रात्रिशेषः ।

मालती स्त्री मां लक्ष्मीं शोभां वा लतति वेष्टते लत--अच्

६ त० ङीप् । १ जातीलतायां २ युवत्यां अमरः । ३
काकमाच्यां ४ नदीभेदे ५ विशल्यायां ज्योत्स्नायां ७ निशा-
याञ्च हेमच० ।

मालतीतीरज पु० मालत्या नदीभेदस्य तीरे जायते

जनड । टङ्कणे (सोहागा) हेम० । मालतीतीरभवादयोऽप्यत्र

मालतीपत्री स्त्री मालत्यास्तन्नामकजात्याइव पत्रमस्याः ।

जातीपत्र्याम् (जैयत्री) राजनि० ।

मालतीफल न० मालत्यास्तनामकजात्याः फलम् । (जायफल) जातीफले राजनि० ।

मालभारिक त्रि० मालानां भारोऽस्त्यस्य ठन् पूर्वपदह्रस्वः ।

मालानां मारवति ।

मालव पु० । १ अवन्तिदेशे (मालओयार देश) २ रागभेदे च सङ्गीतदा० ।

मालविका स्त्री मालवे भवा ठक् । त्रिवृति (तेओड़ि)

राजनि० ।

मालसी स्त्री मालं मलनं जटादिना दुष्टत्वं स्यति सी--क

गौरा० ङीष् । १ केशपुष्टिकारके वृक्षे शब्दच० । २ रागिणी-
भेदे च मङ्गीतदा० ।

माला स्त्री मल--संज्ञायां कर्त्तरि घञ् । १ चेण्यां हेम-

जपसंख्यार्थे रुद्राक्षादिवीजसघात्मके २ माल्यभेदे च ।
पृष्ठ ४७५२

मालाकण्ट पु० मालाकारः कण्टः कण्टको यस्य । अपामार्गे

राजनि० ।

मालाकन्द पु० मालाकारः कन्दो यस्य । मूलभेदे राजनि० ।

मालाकार पुंस्त्री० मालां करोति कृ--अण् । (माली) १ वर्ण-

सङ्करभेदे स्त्रियां ङीष् । २ माल्यकारके त्रि० ।

मालाग्रन्थि पु० मालया ग्रन्थिरत्न । मालादूर्वायाम् राजनि०

मालातृण न० मालाकारं तृणम् । भूस्तृणे अमरः ।

स्वार्थे क । तत्रैव ।

मालादीपक म० अर्थालङ्कारभेदे अलङ्कारशब्दे दृश्यम् ।

मालादूर्वा स्त्री मालाकारा दूर्वा । (गाठिदूर्वा) दूर्वाभेदे

राजनि० ।

मालारिष्टा स्त्री मालाभतमरिष्टं यस्याः ५ ब० । पाच्याम् राजनि०

मालाली स्त्री मालामलति भूषयति अक--अण् ङीप् ।

पृकायां (पिडिङ्गशाक) राजनि० स्वार्थे क । तत्रैव ।

मालिक पुस्त्री० माला तन्निर्माणं शिल्पमस्य ठन । १ माला-

कारे जातिभेदे अमरः २ पक्षिभेदे पुंस्त्री० मेदि० स्त्रियां
ङीष् । ३ रञ्जके शब्दर० । ४ माल्यकारके त्रि० ।

मालिका स्त्री मालैव कन् अत इत्त्वम् । १ वनमल्लिकायां

२ ग्रोवालङ्करणे ३ नदीभेदे ४ पुष्पमाल्ये ५ पुत्र्याञ्च मेदि०
६ सुरायां हारा० । ७ अतस्याम् शब्दच० “पाशाक्षमालि-
काम्भोज” इति लक्ष्मीध्यानम् ।

मालिन् पु० माला शिल्पमस्त्यस्य इनि । १ मालाकारे

२ माल्यवति त्रि० ३ मालाकारपन्त्र्यां ४ पञ्चदशाक्षरपादके,
“ननमयययुतेयं मालिनी भोगिलोकैः” वृ० र० उक्ते
५ छन्दोभेदे । ६ गौर्य्याम् ७ चम्पानगर्य्यां ८ मन्दाकिन्यां
कण्वाश्रमान्तिकस्थे ९ नदीभेदे १० मातृकाभेदे च स्त्री
मेदि० ङीप् । ११ अग्निशिखावृक्षे दुरालाभायां स्त्री
शब्दच० ङीप् ।

मालु स्त्री मल--उण् । १ पत्रलतायां (पातलता) २ नार्य्याञ्च मेदि०

मालुधान पु० मालुरिव पत्रलतेव धीयतेऽसौ धा--कर्मणि

ल्युट् । (मालुयासाप) १ सर्पभेदे अमरः । २ लताभेदे
रत्वो ङीप् मेदि० ।

मालूर पु० मां लक्ष्मीं परेषां लुनाति लू--रक् । १ विल्वे अमरः २ कपित्वे च राजनि० ।

मालेय त्रि० मालायां साधुः ढक् । १ मालारचनानिपुणे

२ स्थूलैलायां स्त्री रत्नमा० ।

माल्य न० मालायै हितं यत् । १ पुष्पे । स्वार्थे ष्यञ् ।

२ पुष्पमालायाम् । ३ मूर्द्धिस्थायां पुष्पमालायाञ्च अमरः ।

माल्यपुष्प पु० मालायै हितं माल्यं पुष्पमस्य । १ शणवृच

२ शणपुष्प्याम् स्त्री राजनि० ङीप् । कप् । माल्य-
पुष्पिका तत्रैवार्थे ।

माल्यवत् त्रि० माल्यमस्त्यस्य मतुप् मस्य वः । १ माल्ययुक्त

केतुमालेनावृतवर्षयोः सीमाभूते २ पर्वतभेदे ३ सुकेशराक्षस
पुत्रे रावणमन्त्रिणि राक्षसभेदे च ।

माशब्दिक त्रि० मेति शब्दं निषेधाय करोति ठक् । निषेधके त्रिका० ।

माष पु० मप--संज्ञायां कर्त्तरि घञ् । (माषकलाइ) व्रीहिभेदे

“दशार्द्धगुञ्जं प्रबदन्ति माषम्” इत्युक्ते “गुञ्जाभिर्दशभिर्माष
इत्युक्ते च २ परिमाणभेदे । स्वार्थे क । तत्रार्थे ।

माषकलाय पु० माषाख्यः कलायः । स्वनामख्याते व्रीहौ

माषपर्णी स्त्री माषस्येव पर्णान्यस्याः ङीप् । वनमाषे अमरः

माषभक्तबलि पु० माषमिश्रितं भक्तमेव बलिः पूजोपहार

द्रव्यम् । माषमिश्रिते भक्तरूपे पूजोपहारे ।

माषवर्द्धक पु० माषं माषपरिमितं स्वर्णं वर्द्धयति आच्छि-

नत्ति अपहरति वृध--छेदने ण्वुल् । स्वर्णकारे शब्दमा० ।

माषीण न० माषाणां भवनं क्षेत्रं खञ् । माषव्रीहिभवन

योग्ये क्षेत्रे । यत् । माष्यमप्यत्र ।

मास् पु० माति परिच्छिनत्ति स्वगत्या कालस् मा--असुन् ।

१ चन्द्रे २ त्रिंशदिनात्मककालरूपे मासे च ।

मास पु० माएव अण् । १ चन्द्रे त्रिंशद्दिनात्मके २ काले च । स

च सौरसावनचान्द्रनाक्षत्रभेदाच्चतुर्विधः । मासश्चन्द्र-
स्वयम् अण् । ३ चान्द्रे मासे तु मुख्यः । मस्यते परिमी-
यतेऽनेन मस परिमाणे करणे घञ् । परिमाणपञ्चगुञ्जा-
त्मके भरतः । स्वार्थे क । मासक तत्रैवार्थे ।

मासन न० मासं नयति नी--ड । सोमराजीलतायाम् शब्दच० ।

मासप्रमित पु० मासं प्रमातुमारब्धः प्र + मा--क्त । “कालाः

परिमाणे” पा० स० । प्रतिपच्चन्द्रे ।

मासर पु० मस--परिणामे घञ् मासं परिणामं राति रो--क ।

भक्तमण्डे अमरः ।

मासान्त पु० मासस्य सौरस्य चान्द्रस्य वाऽन्तः अबमानम् मासावसाने संक्रान्त्यादौ ।

मासिक त्रि० मासे भवः कालाट्टञ् । १ मासभवे प्रेतो-

द्देशेन मृतसञ्जातीयतिथौ, पतिमासम् अमावस्यायां च
कर्त्तव्ये २ श्रा न० । “मासि मासि स्वकीये तु” स्मृतिः ।
“पितॄणां मासिकं श्राद्धमन्वाहार्य्यं विदुर्बुध ।” स्मृतिः ।

मास्म अव्य० मस० णिच्--बा० मप् । निवारणे ।

माह माने भ्वा० उम० सक० सेट् । माहति ते अमाहीत्

अमाहिष्ट । ऋदित् चङि न ह्रस्वः ।
पृष्ठ ४७५३

माहाकुल त्रि० महाकुले भवः अण् महाकुलोद्भवे । स्वञ्

माहाकुलीनोऽप्यत्र त्रि० ।

माहात्म्य न० महात्मनो भावः ष्यञ् । महिमनि महत्त्वे ।

माहिष न० महिष्या इदम् अण् । १ महिषीदुग्धादौ महिष-

स्येदम् अण् । २ तच्छृङ्गादौ त्रि० ।

माहिषिक पु० “महिषीत्युच्यते नारी या च स्याद् व्यभि-

चारिणी । तां दुष्टां कामयति यः स वै नाहिषिकः
स्मृतः” कालीपु० उक्ते १ व्यभिचारिणीपतौ “महिषी-
त्युच्यते नार्य्या भगेनोपार्जितं धनम् । उपजीवति
यस्तस्याः स वै माहिषिकः स्मृतः” विष्णुपु० व्याख्यायां
श्रीधरधृतवाक्योक्ते व्यभिचारिस्त्रिया २ भगोपार्जितद्रव्यो
जीविनि च ।

माहिष्य पु० महिष्यां भवः ष्यञ् । क्षत्रेण वैश्यायामुत्पादिते सङ्करजातिभेदे अमरः ।

माहेन्द्र पु० महेन्द्रस्यायम् अण् । ज्योतिषोक्ते महेन्द्रसम्ब-

न्धिनि १ दण्डभेदे । २ पूर्वस्यां दिशि ३ इन्द्रपत्न्यां ३ गवि च
स्त्री राजनि० ङीप् ।

माहेय पु० मह्या अपत्यम मही + ढक् । १ मङ्गले २ नरकासुरे च स्त्रीगव्या स्त्री अमरः ङीप् ।

माहेश्वर त्रि० महेश्वरादधिगतम् तत्य आगत अण् । १

महेश्वरतः प्राप्ते सि० कौ० । २ यवतिक्तायां स्त्री राजनि० ङीप्
तस्येदम् अण् “माहेश्वरी वृषारूढा” इत्युक्ते ३ मातृभेदे
४ दुर्गामात्रे स्त्री ङीप् ।

मि क्षेपे स्वा० उभ० सक० अनिट् । मिनोति मिनुते

अमासीत् अमास्त । ड्वित् क्त्रि मप् च मित्रिमम् ।
  • अनु + व्याप्तिहेतुके परामर्शाधीनज्ञाने ।
  • उप + सादृश्यहेतुके ज्ञानभेदे ।
  • प्र + यथार्थज्ञाने ।

मिच्छ बाधे तुदा० पर० सक० सेट् । मिच्छति अमिच्छीत् ।

मित त्रि० मि मा--वा--क्त । १ परिमिते, २ शब्दिते ३ क्षिप्ते च ।

मितङ्गम पुंस्त्री० मितं परिमितं मृदु--गच्छति गम--खच्

मुम् च । १ गजे सि० कौ० स्त्रियां ङीष् । २ परिमितगा-
मिनि त्रि० स्त्रियां टाप् ।

मितद्रु पु० मितं द्राति द्रवति वा कु नि० । समुद्रे हेमच० ।

मितम्पच पु० मितं पचति पच खच् मुम् च । १ कृपणे

अनरः । २ परिमितपाचके त्रि० ।

मिति स्त्री मा--मि--वा क्तिन् । १ ज्ञाने, २ माने, ३ अवच्छेदे,

४ विक्षेपे च । ज्ञानमात्रस्य मितिमातृमेयविषयकत्वमिति
गुरवः ।

मि(त्त्र)त्र न० मिद्यति स्निह्यति मिद--त्र । १ स्नेहान्विते सुहृदि,

राज्ञां विषयानन्तरितनृपादितरस्मिन् २ राजनि
तयोर्द्वयोरपि मध्यस्थनृपस्य राज्यहरणरूपैककार्य्यकरत्वात्
मित्त्रत्वम् । मि--त्र । एकतकारः ३ सूर्य्ये पु० अमरः
४ अर्कवृक्षे ।

मित्त्रयु पु० मित्त्रं याति या--कु । मित्त्रवत्सले हेमच० ।

मिथ बधे मेधायाञ्च सक० भ्वा० उभ० सेट् । मेथति--ते

अमेथीत् अमेथिष्ट । ऋदित् चङि न ह्रस्वः ।

मिथस् अव्य० मिथ--असुन् । १ रहसि, २ अन्योन्यस्मिन्नित्यर्थे अमरः ।

मिथि पु० निमिराजपुत्रे विष्णुपु० ।

मिथिला स्त्री मिथि + अस्त्यर्थे लच् । स्वनामख्यातायां मिथि-

राजधान्याम् ।

मिथुन न० मिथ--उनन् किच्च । १ स्त्रीपुंसयोर्युग्ये २ मेषादितस्तृतीये राशौ च ।

मिथ्या अव्य० मिथ--क्यप् । अयथार्थे असत्ये ।

मिथ्यादृष्टि स्त्री मिथ्या--सफलस्यापि अफलत्वेन दृष्टिः ।

नास्तिकतायां सफलस्यापि वैदिककर्मणो निष्फलत्वज्ञाने
अमरः ।

मिथ्यानिरसन न० मिथ्या निरस्यतेऽनेन निर् + असक्षेपे करणे ल्युट् । शपथे भरतः ।

मिथ्याभियोग पु० मिथ्याभूतेनासत्येनाभियोगः राज्ञोऽन्तिके

वेदनम् अभि--युज--धञ् । शतं मे धारयतीत्यसत्यमुक्त्वा
राज्ञोऽन्तिके अभियोगे अमरः ।

मिथ्याभिशंसन न० मिथ्याभूतेनासत्येनाभिशंसनम्

अपवादः “त्वया स्वर्णमपहृतम्” इत्यपवादकथने ।

मिथ्याभिशाप पु० मिथ्यामूतेनासत्येनाभिशापोऽपवादः ।

मिथ्यापवादे ।

मिथ्यामति स्त्री मिथ्याभूतस्य मतिः मन--क्तिन् । भ्रान्तौ--अतद्वति तद्वत्त्वेन ज्ञाने ।

मिथ्योत्तर न० कर्म० । व्यवहारे “मिथ्यैतत् नाभिजानामि

तटा तत्र न सन्निधिः । अजातश्चास्मि तत्काले इति
मिथ्या चतुर्विधम्” इत्युक्तप्रकारे, उत्तरभेदे, (“मिथ्यो-
त्तरे पूर्ववादे”) इति स्मृतिः ।

मिद बाधे मेधायाञ्च भ्वा० उ० सक० सेट् । मेदति--ते अमेदीत् ऋदित् चङि न ह्रस्वः ।

मिद स्नेहे भ्वा० आ० लुङि प० अक० सेट् । मेदते इरित्

अमिदत् आदित् भावादौ क्ते मिन्नं मेदितम् ।

मिद स्नेहे वा चु० उभ० पक्षे भ्वा० अक० सेट् इदित् । मिन्द-

यति अमिन्दत्--त । पक्षे मिन्दति अमिन्दीत् ।

मिद स्नेहे दि० पर० सक० सेट् । मेद्यति--ते इरित्

अमिदत् अमेदीत् । आदित् क्त मेदितं भिन्नम् ।

मिद स्नेहे चु० उम० सक० सेट्’ मेदयति--ते अमीमिदत्--त

पृष्ठ ४७५४

मिन्मिल त्रि० सानुनासिकशब्दकारके १ रोगभेदे २ तद्युते

त्रि० । “आवृत्य वायुः सकफो धमनीः शब्दवाहिनीः ।
नरान् करोत्यक्रियकान् मूकमिन्मिलगदगदान्”
अवचनान् ईषदर्थे नञ् । तत्र वायोर्बाहुल्ये मूकत्वम् मध्यमत्वे
सानुनासिकशब्दकारकता अल्पत्वे गद्गदकरत्वमिति भेदः ।

मिल श्लेषे तु० उभ० सक० सेट् । मिलति अमेलीत् अमेलिष्ट

कुटादिरयमित्येके तेन अमिलीत् ल्युटि मिलनम् ।

मिव सेके भ्वा० पर० सक० सेट् इदित । मिन्वति अमिन्वीत् ।

मिश ध्वनौ अक० कोपे सक० भ्वा० पर० सेट् । मेशति

अमेशीत् ।

मिशि(शी) स्त्री मिश--इन् वा ङीष् । १ मधुरिकायां (मौरी)

२ शतपुष्पायां, (सुलफा) भरतः ३ जटामांस्याञ्च शब्दर० ।
अत्र पृषो० मिषि मिषी मिसि--मिसी इत्यादयः उक्तार्थेषु ।
तत्र पाठान्तरम् ।

मिश्र (स्र) योजने अद० च० उभ० सक० सेठ् । मिश्र(स्र) यति--ते अमिमिश्र(स्र)त् त ।

मिश्र त्रि० मिश्र अच् । १ संयुते उत्तरपदस्थः २ श्रेष्ठार्थे । यथा

आर्य्यमिश्राः । ३ गजजातिभेदे पु० हेमच० । ४ ज्योति-
भोक्ते कृत्तिकाविशाखानक्षत्रगणे च पु० । संज्ञायां कन् ।
५ इन्द्रवने जटा० ६ औषरलवणे राजनि० ।

मिश्रकावण न० मिश्रकनामकं वनं पूर्वदीर्घो णत्वञ्च ।

१ इन्दोद्याने ।

मिश्रपुष्पा स्त्री मिश्रं पुष्पं यस्याः अजा० टाप् । मेथिकायाम् राजनि० ।

मिश्रवर्ण म० मिश्रश्चित्रो वर्णो यस्य । १ कृष्णागुरुणि

राजनि० २ मिश्रितवर्णमात्रे त्रि० ।

मिश्रवर्णफला स्त्री मिश्रवर्णं चित्ररूपान्वितं फलं यस्याः । वार्त्ताक्यां राजनि०

मिश्रव्यवहार पु० लीलावत्युक्ते गणनाभेदे ।

मिश्रिता स्त्री “मिश्रिता चैव विज्ञेया मिश्रितर्क्षैस्तु संक्रम”

इत्युक्ते १ कृत्तिकाविशास्वानक्षत्रकाले रविसंक्रमणे ।
२ गौरविते न० जटा० ३ मिलिते त्रि० ।

मिश्रेया स्त्री मिश्र--अच् मिश्रा ईयते ई गतो यत् एया कर्म०

शक० । १ मधुरिकायां (मौरी) अमरः । २ शतपुष्पायाञ्च
(सुलफा) राजनि० ।

मिष सेचने भ्वा० पर० सक० सेट् । मेषति अमेषीत् । उदित् क्त्वा वेट् ।

मिष पराभिभवेच्छायाम् तु० पर० सक० नेट् । मिषति

अमेषीत् मिमेष ।

मिष न० मिष--क । १ छले २ स्पर्द्धने पु० मेदि० ।

मिषिका स्त्री० मिषी + स्वार्थे क । जटामांस्याम् शब्दात्ना० ।

मिष्ट त्रि० मिष--क्त । १ सिक्ते २ स्पर्द्धिते च । ३ मधुररसे पु०

४ तद्वति त्नि० भावप्र० ।

मिह सेचने भ्वा० पर० सक० अनिट् । मेहति अमिक्षत् ।

मिहिका स्त्री मिह--क्वुन् अत इत्त्वम् । नीहारे शब्दर० ।

मिहिर पु० मिह--किरच् । १ सूर्य्ये २ अर्कवृक्षे ३ वृद्धे मेदि०

४ मेघे हेमच० ५ वायौ, ६ चन्द्रे, विक्रमादित्यसभास्थे
नवरत्नमध्यस्थे पण्डितभेदे च शब्दक० । तच्चिन्त्यम् ।
“धन्वन्तरिक्षपणकामरसिंहशङ्कुवेतालभट्टघटकर्परकालि-
दासः । ख्यातो वराहमिहिरो नृपतेः सभायां रत्नानि वै
वररुचिर्नवविक्रमस्य” ज्योतिर्विदाभरणवाक्ये वराहः
मिहिराइवेत्येव तत्र समासे वराहमिहिर इत्येकः
“वराहमिहिरात्मजेन पृथुयशसा” तत्पुत्रकृतषट्पञ्चा-
शिकायामुक्तेः द्वित्वे वररुचिना सह दशसंख्यापत्तेश्च ।

मी बधे दि० आ० सक० अनिट् । मीयते अमेष्ट ।

मी बधे क्य्रा० उ० सक० सेट् । मीनाति मीनीते अमासीत्

अमास्त । ओदित् क्त मीनः ।

मी गत्यां मत्याञ्च बा चु० उभ० पक्षे भ्वा० पर० सक० अनिट् ।

माययति ते मयति अमीमत्--त अमैषीत् ।

मीढ त्रि० मिह--क्त । मूत्रिते ।

मीढुष्टम पु० मीड्वस् + अतिशय तमप् नि० । शिवे ।

मीढ्वस् पु० मिह--क्वसु नि० । शिवे ।

मीन पुंस्त्री० मी--नक् । १ मत्स्ये अमरः स्त्रियां ङीष् मेषा-

दितोद्वादशे २ राशौ ३ भगवदतारभेदे च पु० ।

मीनकेतन पु० मीनः केतनं यस्य । कन्दर्पे अमरः ।

मीनघ्वजादयोप्यत्र ।

मीननेत्रा स्त्री मीनस्य नेत्रमिव ग्रन्थिरस्याः ।

गण्डदूर्वायां राजनि० मीनाक्षीत्यादयोऽप्यत्र ।

मीनाण्डा स्त्री मीनस्याण्डस्तदाकारा रेणुकाऽस्त्यस्य अच्

गौ० ङीष् । शर्करायाम् राजनि० ।

मीम शब्दे अक० गतौ सक० भ्वा० पर० सेट् । मीमति

अमीमीत् । ऋदित् चङि च ह्रस्वः ।

मीमांसक पु० मीमांसां वेत्त्यधीते वा वुन् । १ मीमांसा-

शास्त्रन्ने २ तदध्येतरि च । भान--विचारे स्वार्थे सन्
ण्वुल् । ३ सिद्धान्तकारके ।

मीमांसा स्त्री मान--विचारे स्वार्थे सन् अ । १ विचारपूर्वक-

तत्त्वनिर्णये २ तत्प्रतिपादकग्रन्थभेदे च स च ग्रन्थः कर्म-
ब्रह्मविषयभेदेन द्विविधस्तत्र कर्मकाण्डबिषयसंशयनिवारको
ग्रन्थो जैमिनिप्रणीतः स च पूर्बमीमांसात्वेन प्रसिद्धः
ब्रह्मविषयसंशयनिवारकश्चरमः स वेदान्तत्वेन प्रसिद्ध ।

मील निमेषे भ्वा० पर० अक० सेट् । मीलति अमीलीत् ।

ऋदित् चङि वा ह्रस्वः ।
पृष्ठ ४७५५

मीलन न० मील ल्युट् । १ मुद्रणे २ सङ्कोचने च ।

मीलित त्रि० मील--क्त । १ अप्रफुल्ले २ सङ्कुचिते च “मीलितं

यदभिरामताधिके” इति काव्यप्रकाशः ।

मीव स्थूलीभवने भ्वा० पर० अक० सेट् । भीवति अमीवीत् ।

मु पु० मोचयति जीवान् ण्यर्थे मुच डु । १ महेशे हट्टच०

२ बन्धने एका० ।

मुकन्दक पु० मुदः मुदे कन्दो यस्य कप् पृषो० मुदो दलोपः । पलाण्डौ भरतः ।

मुकु पु० मुच--कु पृषो० चस्य कः । १ मोक्षे हट्टच० २ उत्सर्गे च

मुकुट पु० मकि--उट पृषो० । १ शिरोभूषणे अमरः । २ अङ्गुली-

मोटने स्त्री शब्दर० ङीप् ।

मुकुन्द पु० मुकुं ददाति दा--क पृषो० मम् । “मुकुमध्ययमान्तञ्च

निर्वाणमोक्षवाचकम् । तद्दाति च यो देवः मुकुन्दस्तेन
कीर्तितः” “मुकुम् भक्तिरसप्रेमवचनं वेदसम्मतम् ।
यस्तद् ददाति भक्तेभ्यो मुकुन्दस्तेन कीर्त्तितः” ब्रह्मवै०
जन्मख० ११० अ० इति वा निरुक्ते विष्णौ ।

मुकुम् अव्य० मकि उमुच् पृषो० । १ निर्वाणमोक्षे २ भक्तिप्रेम-

रसे च मुकुन्दशब्दे दृश्यम् ।

मुकुर पु० मकि--उरच् पृषो० । दर्पणे, २ वकुलवृक्षे ३ कुलाल-

दण्डे, मेदि० ४ मल्लिकावृक्षे, विश्वः ५ कोलीवृक्षे,
शब्दर० । ६ कोरके च हेमच० ।

मुकुल पु० न० मकि--उलच् पृषो० । १ ईषद्विकाशितकलि-

कायाम् अमरः २ देहे, ३ आत्मनि च धरणिः ।

मुकुष्टक पु० मुकुर्नलोत्सर्गस्तं स्तकति स्तक--अच् पृ० षत्वम् ।

वनमुद्गे अमरः पृषो० मुकुष्ठक तत्रार्थे ।

मुकूलक पु० मकि--जलच् सज्ञायां कन् । दन्तिवृक्षे ।

रामाश्रमः ।

मुक्त त्रि० मुच क्त । १ त्यक्ते, २ प्राप्तमोक्षे मेदि० । ३ आनन्दिते च शब्दर० ।

मुक्तरसा स्त्री मुक्तो रसो यस्याः । रास्नायाम् रत्नमा० ।

मुक्तसङ्ग त्रि० मुक्तः सङ्गोविषयासक्तिर्येन । १ त्यक्तसर्वविष-

यासङ्गे २ परिव्राजक पु० ।

मुक्तहस्त त्रि० मुक्तः दानाय प्रसारितः न बद्ध इति यावत् हस्तो येन । दानत्गरे ।

मुक्ता स्त्री मुच--क्त । १ रास्नायाम् रत्नमा० २ शुक्तिजे (मति)

रत्नभेदे च ।

मुक्तापुष्प पु० मुक्तेव शुभ्रं पुष्पमस्य । कुन्दवृक्षे राजनि० ।

मुक्ताप्रसू स्त्री मुक्तां प्रसूते प्र + सू--क्विप् ६ त० । शुक्तौ

राजनि० ।

मुक्ताप्रालम्ब पु० मुक्तया मुक्ताविशिष्टतया प्रालम्बते अच् । मुक्ताहारे हेमच० ।

मुक्ताफल न० मुक्ता फलमिव । १ मौक्तिके, २ सवलीफले,

(नोयाड़) ३ कर्पूरे च मेदि० । ४ वोपदेवकृते भक्तिप्रधाने
ग्रन्थभेदे च “चतुरेख चतुर्वर्गचिन्तामणिबणिज्यया ।
हेमाद्रिर्वोपदेवेन मुक्ताफलमचीकरत्” तद्ग्रन्थस्थ पद्यम् ।

मुक्तालता स्त्री मुक्तया लतेव । मुक्ताहारे हेमच० ।

मुक्तावली स्त्री मुक्तया आवली हारभेदः । १ मुक्ताहारे

अमरः । ६ त० । २ मुक्ताश्रेणौ भाषापरिच्छेदग्रन्थ-
टीकायां ३ सिद्धान्तमुक्तावल्यां च ।

मुक्तास्फोट पु० स्फुट्यते विदीर्य्यते स्फोटः मुक्तायै स्फोटः । शुक्तौ अमरः ।

मुक्ति स्त्री मुच क्तिन् । १ मोचने २ संसारबन्धनराहित्ये

मतभेदेन ३ आत्यन्तिकदुःखनिवृत्तौ, ४ ब्रह्मस्वरूपावाप्तौ च
देहेन्द्रियाभ्यामात्मनो ५ बन्धशून्यत्वे च ।

मुक्तिमण्डप पु० मुक्तिप्रदो मण्डपुः शाक० त० । १ काशीस्थे

२ जगन्नाथक्षेत्रस्थे च मण्डपभेदे तीर्थे ।

मुक्तिमुक्त पु० मुक्तिर्मोचनं तया मुक्तोरहितः । सिह्लके रत्नमा० ।

मुख न० खन--अच् डित् धातोः पूर्वं मुट् च । “प्रजासृजा

यतः खातं तस्मादाहुर्मुखं बुधाः” इत्युक्ते देहावयवभेदे ।
“ओष्ठौ च दन्तमूलानि दन्ता जिह्वा च तालु च । गलो
गलादि सकलं सप्ताङ्गं मुखमुच्यते” इत्युक्ते गलादि-
सप्तात्मकावयववति २ वदने भावप्र० । ३ गृहस्य निस्मरण-
र्वर्त्मनि, अमरः । ४ हट्टमण्डपादेः प्रवेशनिर्गमे, ५ आरम्भे,
६ उपाये, ७ नाटकादौ सन्धिभेदे मेदि० ८ नाटकादि-
शब्दभेदे, ९ आद्ये, १० प्रधाने, ११ शब्दे, १२ वेदे, च
शब्दर० । १३ लकुचवृक्षे पु० (डेओ) शब्दच० ।

मुखगन्धक पु० मुखस्य गन्धो यस्य सेवनात् कप् । पलाण्डौ राजनि०

मुखचपला स्त्री आर्य्यावान्तरभेदे मात्राभेदे वृ० र० ।

मुखज पु० ब्रह्मणो मुखाज्जायते जन--ड । १ विप्रे “ब्राह्म-

णोऽस्य मुस्वमासीदि” ति श्रुतिः २ वदनजातमात्रे त्रि० ।

मुखदूषण पु० भुखं दूपयति सेवनात् दुर्गन्धेन दूष--णिच्

ल्यु । पलाण्डौ राजनि० ।

मुखधौता स्त्री धौतं मुखं यया धाव--क्त ऊठ् परनि० ।

ब्राह्मणयष्टौ (वामनहाटि) शब्दच० ।

मुखनिरीक्षक त्रि० मुखमितरास्यं निरीक्षते निर् + ईक्ष

ण्वुल् । १ अलमे शब्दर० । स हि अन्योयदि स्वकृत्य
कुर्य्यात् तदानाहं करोमीत्याशयेन इतरमुखं निरीक्ष-
माणः स्वकार्य्ये न प्रवर्त्तते । इति तस्य तथात्वम् ।

मुखपूरण न० मुखं पूरयति पूर--ल्यु । गण्डूषमितजलादौ ।

मुखप्रिय न० मुखं प्रीणाति प्री--क--उप० स० । १ लवङ्गे भावप्

२ मुखरोचकमात्रे त्रि० ।
पृष्ठ ४७५६

मुखभूषण न० मुखं भूषयति भूष--ल्यु । १ ताम्बूले । २

मुखमण्डने च ।

मुखमण्डनक पु० मुखस्य भण्डनमिव इवार्थे कन् ।

१ तिलकवृक्षे राजनि० । ६ त० । स्वार्थे क । २ मुखभूषणे
न० । मण्डयति--ल्यु स्वार्थे क ६ त० । ३ मुखभूषके त्रि० ।

मुखमोद पु० मुखं मोदयति मुद--णिच्--अण् उप० स० ।

शोभाञ्जने राजनि० ।

मुखर त्रि० मुखं मुखव्यापारं कथनं राति दत्ते

करोतीति यावत् रा--क । १ अप्रियवादिनि अमरः । २ अग्रे-
वादिनि च “मुखरस्तत्र हन्यते” इति हितोपदेशः ।
३ काके पुंस्त्री० स्त्रियां ङीष् । ४ शङ्खे पु० राजनि० ।

मुखरित त्रि० मुखर इवाचरितः । मुखर + क्विप्--क्त । शब्दायमाने

मुखरोग पु० सप्ताङ्गस्य मुखस्य रोगः । सप्ताङ्गमुखस्य

रोगभेदे तन्निदानादि यथा
“ओष्ठौ च दन्तमूलानि दन्ता जिह्वा च तालु च । गलो
गलादि सकलं सप्ताङ्गं मुखमुच्यते” । अथ मुखरोगाणां
संङ्ख्यामाह “स्युरष्टावोष्ठयोर्दन्तमूले तु दश षट् तथा ।
दन्तेष्वष्टौ रसज्ञायां पञ्च स्युर्नव तालुनि । कण्ठे त्वष्टा-
दश प्रोक्तास्त्रयः सर्वसराः स्मृताः । एवं मुखामयाः
सर्वे सप्तषष्टिर्मता बुधैः” मुखरोगाणां निदानान्याह
“अनूपपिशितक्षीरदधिमाषादिसेवनात् । मुखमध्ये गदान्
कुर्युः क्रुद्धा दोषाः कफोत्तराः” भावप्र० ।

मुखलाङ्गल पुंस्त्री० मुखं लाङ्गलमिव भूमिविदारकं यस्य ।

शूकरे जटा० स्त्रियां ङीष् ।

मुखवल्लभ पु० ६ त० । १ दाड़िमवृक्षे शब्दमा० तत्फलस्य

मुखप्रियत्वात् तस्य तथात्वम् । २ मुखप्रिये त्रि० ।

मुखवाचिका स्त्री मुखं वाचयति अजडीकरोति सेवनात्

वच--णिच्--ण्वुल् । अम्बष्ठायामु राजनि० ।

मुखवास पु० मुखं वामयति सुरभीकरोति वासि--अण्

उप० स० । १ गन्धतृणे राजनि० । २ कर्पूरादौ च ।

मुखवासन पु० मुखं वासयति वासि ल्यु । १ मुखसौरभ-

कारके गन्धे । २ तद्वति त्रि० अमरः ।

मुखविष्ठा स्त्री मुखं विष्ठेव दुर्गन्धं यस्याः । तैलपायिकायां

हेमच० तन्मुखस्पर्वमात्रे हि द्रव्यान्तरे दुर्घन्धो भवति ।

मुखव्यादानं न० वि + आ + दा--ल्युट् ६ त० । मुखप्रसारणे ।

मुखशोधन न० मुखं शोधयति शुध--णिच्--ल्यु । १ त्वचे (दार-

चनि) राजनि० । २ कदरमे पु० हेमच० ।

मुखशोधिन् पु० मुखं शोधयति शुध--णिच्--णिनि । जम्बीरे राजनि० ।

मुखस्राव पु० स्रवति स्रु--ण ५ त० । लालाख्ये मुखस्यन्दि-

जले राजनि० ।

मुखाग्नि पु० मुखमेवाग्नितुल्यं शापदानेन दाहकत्वात्

यस्य । १ विप्रे कर्म० वड़वामुखजे २ दावानले च शब्दमा० ।

मुखास्त्र पु० मुखमेवास्त्रं यस्य । कर्कटे त्रिका० ।

मुख्य त्रि० मुखे आदौ भवः यत् । १ प्रथमकल्पे अमरः २ श्रेष्ठे च ।

मुग्ध त्रि० मुह--क्त । १ मूढे । मोहयति अन्तर्भूतण्यर्थे

मुहकर्त्तरि क्त । २ सुन्दरे विश्वः । ३ नायिकाभेदे स्त्री सा० द० ३ प०

मुच दम्भे शाठ्ये भ्वा० आत्म० सक० सेट् । मोचते अमोचिष्ट

इदिदप्ययम् तत्रार्थे । मुञ्चते ।

मुच त्यागे चुरा० उ० सक० सेठ् । मोचयति ते अमूमुचत्--त

मुच त्यागे तु० मुचादि० उभ० सक० अनिट् । मुञ्चति--ते

ऋदित् अमुचत् अमुक्त । कर्मकर्त्तरि अकर्मकः “मुच्यते
सर्वपापेभ्यः” इति पुराणम् ।

मुचकुन्द पु० मुच--कु मुचुः कुन्द इव । १ स्वनामख्याते पुष्पवृक्षे

भावप्र० मान्धातृनृपपुत्रे २ नृपभेदे च ।

मुज ध्वनौ अक० मार्ज्जने सक० वा चुरा० पक्षे भ्वा० पर०

सेट् । माजयति ते मोजति अमूमुजत् त अमोजीत् ।
इदिदप्यत्रार्थे । मुञ्जयति ते मुञ्जति अमुमुञ्जत् त
अमुञ्जीत् ।

मुञ्ज पु० मुजि--अच् । (मुज) रज्ज्वुसाधने तृणभेदे राजनि० ।

“मृञ्जद्वयन्तु मधुरं तुवरं शिशिरं तथा । दाहतृष्णा
विसर्पास्रमूत्रवस्त्यक्षिरोगजित् । दोषत्रयहरं वृष्य
मेखलासूपयुज्यते” भावप्र० ।

मुञ्जकेशिन् पु० मुञ्जैव केशः अस्त्यस्य इनि । विष्णौ हेमच० ।

मुञ्जर न० मुजि--अरन् । शालूके शब्दमा० ।

मुट मर्दने भ्वा० पर० सक० सेट् इदित् । मुण्टति अमुण्टीत् । मुण्ट्यते ।

मुट क्षोदे वा चु० उभ० पक्षे भ्वा० पर० सक० सेट् ।

मोदयति ते मोटति अमूमुटत् त अमोटीत् ।

मुठ क्षोदने आक्षेपे च तु० कु० पर० सक० सेट् । मुटति

अमुटीत् भुमोट ।

मुठ पलायने भ्वा० आ० अक० सेट् इदित् । मुण्ठते अमुण्ठिष्ट ।

मुड केशादिच्छेदे मर्दने च भ्वा० पर० सक० सेट् इदित् ।

मुण्डति अमुण्डीत् ।

मुड मज्जने भ्वा० आ० अक० सेट् इदित् । मुण्डते अमुण्डिष्ट ।

मुण प्रतिज्ञाने तु० पर० सक० सेट् । मुणति अमोणीत् ।

पृष्ठ ४७५७

मुण्ड न० मुडि--कर्मणि घञ् । १ मस्तके अमरः । २ वोले ३ मुण्डा-

यसे च राजनि० ४ दैत्यभेदे, ५ राहुग्रहे पु० मेदि० ।
६ नापिते जटा० ७ स्थाणुवृक्षे च पु० । ८ मुण्डिते त्रि० ।
९ महाश्रावणिकायां १० मुण्डीरिकायाञ्च स्त्री टाप् मेदि०
२ उपनिषद्भेदे “मुण्डमाण्डूक्यतित्तिरिः” ।

मुण्डक पु० मुण्डयति मुडि--णिच्--ण्वुल् । १ नापिते हेमच० ।

मुण्डचणक पु० मुण्डश्चणकैव । कलाये राजनि० ।

मुण्डन न० मुडि--भावे ल्युट् । केशच्छेदे वपने हेमच० ।

मुण्डफल पु० मुण्डं शिरैव फलमस्थ । नारिकेले शब्दर० ।

मुण्डशालि पु० मुण्डः शूकशून्यः शालिः । निःशूके शालि

भेदे राजनि० ।

मुण्डायस न० मुण्डमयः अच् समा० । लौहभेदे राजनि० ।

मुण्डितिका स्त्री मुडि--इत खार्थे क अत इत्त्वम् टाप् ।

(मुण्डीरी) वृक्षभेदे रत्नमाः ।

मुण्डिन् पु० मुण्डयति मुडि--णिच्--णिनि । नापिते अमरः ।

मुण्डीरी स्त्री मुडि--ईरच् गौरा० ङीष् । स्वनामख्याते

वृक्षभेदे जटाधरः ।

मुथशील पु० ९२५ पृ० दर्शिते नी० ता० उक्ते इत्थशालयोगे

मुद समार्ज्जने चु० उ० सक० सेट् । मोदयति ते अमूमुदत् त

मुद हर्षे भ्वा० आ० अक० सेट् । मोदते अमोदिष्ट । मुमुदे ।

मुद(दा) स्त्री मुद० सम्प० भावे क्विप् वा टाप् । १ हर्षे अमरः ।

२ वृद्धिनामौषधौ राजनि० ।

मुदिर पु० मुद--किरच् । १ मेघे अमरः २ भेके च संक्षिप्तसा०

३ कामुके त्रि० मेदि० ।

मुद्ग पु० मुद--गक् नेट् । १ कलायभेदे(मुग) पु० मेदि० २ पक्षिभेदे ३ जलकाके च हेमच० ।

मुद्गपर्णो स्त्री मुद्गस्येव पणमस्याः । (मुगानी) वनमुद्गे अमरः ।

मुद्गर न० मुदं गिरति गॄ--अच् । १ माल्लकाभेदे २ लोष्टभेदने

(मुगुर) मेदि० । ३ पुष्पप्रधानवृक्षभेदे ४ कर्मारवृक्षे (काम-
राङ्गा) च पु० राजनि० । स्वार्थे क । तत्रैव ।

मुद्गल न० मुदं गिलति गृ--अच् रस्य लः । १ रोहिषतृणे

राजनि० । २ गोत्रप्रवरर्षौ मुनिभेदे, ३ नृपभेदे पु० ।

मुद्गष्ट पु० मुद्गं स्तकति प्रतिबध्नाति स्तक--ड पृषो० षत्वम् ।

वनमुद्गे अमरः । अच् मुद्गष्टकोऽप्यत्र ।

मुद्रा स्त्री मुद--रक । १ प्रत्ययकारिण्याम् (मोहर) त्रिका०

२ अङ्गुलिस्थे मुद्राङ्कनयुक्ताङ्गुलीयके शब्दर० ३ स्वर्णरौप्या-
दितङ्कायाम ४ अप्रकाशे । “मुद्रालिपिः शिल्पलिपिर्लिपि-
र्लेखनिसम्भवा । गुण्डिकाघुणसम्भूता लिपयः पञ्चधा
मताः” इत्युक्तलिपिमध्ये ५ लिपिभेदे वाराहीतन्त्रम् ।
“लेखन्या लिखितं विप्रैर्मुद्वाभिरङ्कितञ्च यत् । शिल्पा-
दिनिर्मितं यच्च पाठ्यं धार्य्यञ्च सर्वदा” मुण्डमालात० ।
६ तन्त्रप्रसिद्धे वीराचरसेव्ये “पृथुकास्तण्डुला भ्रष्टा
गोधूमचणकादयः । तस्य नाम भवेन्मुद्रा” इत्युक्ते पञ्च-
मकारान्तर्गतद्रव्यभेदे ७ देवविशेषाराधनायाङ्गुल्यादिसन्नि-
वेशविशेषे तन्त्रसारः “योजनात् सर्वदेवानां द्रावणात्
पापसहतेः । तस्मात् मुद्रेति सा ख्याता सर्वकामार्थ-
साधनी “मुद्रामक्षगुणमि” ति तन्त्रम् ८ सङ्कोचे च ।

मुद्रालिपि स्त्री मुद्रया लिपिः । पञ्चधाविभक्तलिपिमध्ये

लिपिभेदे (छापार अक्षर)

मुद्रिका स्त्री मद्रैव क्षुद्रा वा मुद्रा कन् । स्वर्णरौप्यादि

निर्मिते अङ्गुलिस्थे अङ्कनसाधनयोग्ये पदार्थे ।

मुद्रित त्रि० मुद्रा जाताऽस्य इतच् । १ अप्रकाशिते २ अङ्किते च

मुधा अव्य० मुह--का पृषो० हस्य व । मिथ्याशब्दार्थे अमरः

मुनि पु० मन--इन् पृषो० उत्वम् । “दुःखेष्वनुद्विग्नमनाः सुणेषु

विगतस्पृहः । वीतरागभयक्रोधः स्थिरधीर्मुनिरुच्यते”
गीतोक्तलक्षणे स्थिरचित्ते वीतरागादौ जने । ते च
मन्वत्रिविष्णुहारोतादय । २ सप्तसंख्यायाञ्च । ३ वङ्ग-
सेनतरौ ४ जिने मेदि० । ५ पियालवृक्षे ६ पराशरवृक्षे हेमच०
७ दमनकद्धक्षे राजनि० । “मननान्मुनिरुच्यते” इत्युक्ते
८ मननयुते त्रि० ।

मुनिखर्ज्जूरी स्त्री मुनिप्रिया खर्जूरी । खर्ज्जूरीभेदे राजनि० ।

मुनिच्छद पु० मुनिसंख्याताः सप्तसंख्याताः छदाः प्रतिपर्णं

यस्य । सप्तच्छदे (छातिम) राजनि० ।

मुनितरु पु० मुनिरगस्त्यनामकस्तरुः । वकवृक्षे रत्नमा० ।

मुनिद्रुम पु० मुनीनां प्रियो मुनिनामको वा द्रुमः । १ श्यो-

नाकवृक्षे रत्नमा० २ वकवृक्षे च राजनि० ।

मुनिपुत्रक पु० मुनेः पुत्रः संज्ञायां कन् । १ दमनवृक्षे भावप्र०

२ खञ्जने च त्रिका० । ६ त० । ३ ऋषिसुते ।

मुनिपुष्प न० मुनिद्रुमस्य पुष्पं भौमो भीमसेनवदुत्तरपदलोपः । वकपुष्पे ।

मुनिभेषज न० मुनीनां भेषजमिव । १ हरीतक्यां २ अगस्त्ये,

मुनौ, ३ भोजनाभावे च मेदि० ।

मुनीन्द्र पु० मुनिः इन्द्र इव । १ वृद्धे अमरः । ७ त० । २ ऋषिश्रेष्ठे ।

मुन्थ गत्यां भ्वा० पर० सक० सेट् क्त्वा वेट् । मुन्यति अमुन्यीत्

मुन्था स्त्री नी० क० ताजकप्रसिद्धे इन्थिहाशब्दार्थे । इन्थिहा-

शब्दे ९२९ पृ० वृश्यम् ।

मुन्यन्न न० मुनियोग्यमन्नम् । नीवारकन्दादौ ।

मुमुक्ष त्रि० मोक्तुमिच्छुः मुच--सन्--उ । मोक्षेच्छावति ।

१ संसारबन्धनाभावेच्छावति । २ यतौ पु० ।

मुमूचान पु० मुच कान पृषो० दीर्घः । १ मेघे २ मुक्तवति त्रि० ।

“द्रुपदादिव मुमूचानः” इति सन्थ्याङ्गपाठ्यमन्त्रः ।
पृष्ठ ४७५८

मुमूर्षु त्रि० मर्त्तुमिच्छुः मृ--सन्--उ । आसन्नमरणे ।

मुर वेष्टने तु० पर० सक० सेट् । मुरति अमीरीत् ।

मुर पु० मुर--क । १ दैत्यभेदे “पार्थेनाथ द्विषन् मुरम्” माधः

२ वेष्टने । ३ स्वनामख्याते गन्धद्रव्ये स्त्री अमरः टाप् ।

मुरज पु० मुरात् वेष्टनात् जायते जन--ड । मृदङ्गे वाद्यभेदे

अमरः । स इव बन्धः । मुरजबन्धः । चित्रासङ्कारभेदे ।

मुरजफल पु० मुरज इव फलं यस्य । पनसवृक्षे त्रिका० ।

मृदङ्गफलादयोऽप्यत्व ।

मुररिपु पु० ६ त० । विष्णौ । मुरारिमुरमथनादयोप्यत्र ।

मुरला स्त्री मुरं लाति ला--क । १ नर्मदायाम् । “मुरला-

मारुतोद्बूतम्” रघुः । २ वंशीनाम्नि बाद्ये गौरा० ङीष् ।

मुरलीधर पु० मुरलीं धरति धृ अच् । श्रीकृष्णे मुरलीवाद-

नादयोऽप्यत्र ।

मुर्च्छ मोहे वृद्धौ च भ्वा० पर० सक० सेट् । मूर्च्छति

अमूर्च्छीत् । आदित् भावे क्त । मूर्तम् मूर्च्छितम् ।

मुर्मुर पु० मुर--क पृषो० द्वित्वम् । १ तुषाग्नौ २ कन्दर्पे सूर्य्याश्चे

च मेदि० ।

मुर्व बन्धे भ्वा० पर० सक० सेट् । भूर्वति अमूर्वीत् निष्ठापामनिट् मूर्णः ।

मुल रोपणे चु० उभ० सक० सेट् । मोलयति ते अमूमुलत् त ।

मुशटी स्त्री मुष--अटच् गौरा० ङीष् पृषो० । सितकङ्गौ

हेमच० ।

मुश(स)ली स्त्री मुष मुस वा कसच् पृषो० षस्य शः गौरा०

ङीष् । १ तालमूल्याम् २ गृहगोधिकायाम् राजनि०
संज्ञायां कन् । वल्ल्याम् हका० ।

मुष १ वधे भ्वा० पर० सक० सेट् । मोषति अमोषीत् ।

मुष छेदने दिवा० पर० सक० सेट् । मुष्यति इरित् अमुषत्-

अमोषीत् पुषादिरयमित्यन्ये ।

मुष लुण्टने क्य्रा० पर० द्विक० सेट् । मुष्णाति अमोषीत् ।

मुष(स)(श)स पु० मुष--कलन् पृषो० । अयोग्रे स्वनामख्याते

धान्यादिकण्डनसाधने पदार्थे अमरः ।

मुषा स्त्री० मुप--क--टाप् । धातुद्रावणे पात्रभेदे (मुची) रायमु० ।

मुषित त्रि० मुप--क्त । अपहृतद्रव्ये जने अमरः ।

मुष्क पु० मुष--कक् । १ पुरुषचिह्नभेदे अण्डकोषे (घण्ठा-

पारुस) २ मोक्षकवृक्षे ३ संहृते च मेदि० ४ तस्करे,
५ मांसव्ये च हेमच० । स्वार्थे क । तत्रैव ।

मुष्कशुन्य पु० ३ त० । वृषणरहिते राज्ञामन्तःपुररक्षके (खोजा हेमच० ।

मुष्टि पुंस्त्री० मुष--णिच् । १ बद्धपाणौ अमरः २ पलपरिमाणे

पु० हेमच० ३ कुञ्यष्टभागे च । क्तिन् । ४ र्मोषणे स्त्री ।

मुष्टिक पु० मुष्ट्या कायति कै--क । १ कंसराजमल्लभेदे । मुष्टि

र्मोषणं प्रथोजनमस्य कन् । २ स्वर्णकारे हेमच० ।

मुष्टिकान्तक पु० ६० । वतदेवे शब्दर० तस्य मुष्टिकासुर-

हननात्तथात्वम् ।

मुष्टिद्यूत न० । ३ त० । कपर्दकमुष्ट्याक्रीड़ने (पुरमुट्) शब्दमा०

मुष्टिन्धय पु० मुष्टिं धयति धे--खच् मुम् च । बालके त्रिका० ।

मुष्टिबन्ध पु० मुष्टेर्बन्धो यत्र । १ संग्रहे अमरः । ६ त० । २ मुष्टि-

बन्धने ।

मुस खण्डने दि० पर० सक० सेट् । मुस्यति इरित् अमुसत् आभोसीत् पुषादिरयमित्यन्ये ।

मुस(ष)(श)लिन् मुस(ष)(श)ल + अस्त्यर्थे इनि । बलदेवे

अमरः ।

मुस(ष)(श)ल्य त्रि० मुस(ष)(श)लेन वेध्यः यत् । मुषलवेध्ये अमरः ।

मुसल्लह पृ० नी० ता० उक्ते नवांशे “मुसल्लहे पञ्च सवाः

प्रदिष्टाः” नी० ता० ।

मुस्त संहतौ चु० उभ० सक० सेट् । मुस्तयति ते अमुमुस्तत् त ।

मुस्त पु० गुस्त अच् स्त्रीत्वे टाप् । मुस्तके (मुथा) हारा०

तत्रार्थे स्त्री अमरः स्वार्थे क । अत्रैव अस्त्री० अमरः ।
स्थावरविषभेदे पु० हेमच० ।

मुस्ताभ न० मुस्तेव भाति भा--क । (नागरमुथा) मुस्तकभेदे अमरः ।

मुह मोहे वैचित्त्ये दि० उभ० अक० सेट् मुह्यति ऌदित्

अमुहत् ऊदित् मोहिता, मोग्धा, मोढ़ा ञीत् ।
मूढ़ोऽस्ति ।

मुहिर पु० मुह किरच् । १ कामे, २ मूर्खे च मेदि० ।

मुहुस् अव्य० मुह--उसिक् । पौनः पुन्ये अमरः ।

मुहूर्त्त स्त्री० हुर्च्छ--क्त धातोः पूर्बं मुट् च । १ द्वादशक्षणमिते

काले, पञ्चदशधाविभक्तस्य दिनस्व पञ्चदशभागे, किञ्चिन्-
न्यूनाधिकघटिकाद्वयरूपे २ काले च ।

मू बन्धे भ्वा० आ० सक० सेट् । मवते अमविष्ट मुमुवे ।

मूक पु० मू--कक् । १ मत्स्ये त्रिका० २ दैत्यभेदे भेदि० ३ दीवे

हेम० वाक्शक्तिरहिते च त्रि० अमरः ।

मूढ़ त्रि० मुह--क्त । १ मूर्खे अमरः । २ बाले ३ तन्द्रिते मेदि० ४ भड़े हेमच० ।

मूत त्रि० मू + बन्धे क्त । १ बद्धे २ संयते च अमरः ।

मूत्र खावे अद० चु० उभ० अक० सेट् । मूत्रयति ते अमुमूत्रत् त

मूत्र न० मुत्र--अच् । प्रस्रावे उपस्यात् क्षरितजले अमरः ।

मूत्रकृच्छ्र न० । रोगभेदे “व्यायामतीक्ष्णौषधरूक्षमद्य-

प्रसङ्गनृत्यद्रुतपृष्ठयानात् । आनूपषत्स्याध्यशनादनीर्णात्
स्युर्मूत्रकृच्छ्राणि शृणां तथाष्टौ” भावप्र० ।
पृष्ठ ४७५९

मूत्रदोष पु० मूत्रस्य दोषो यस्मात् दुष--घञ् ६ त० । प्रमेहरोगे

राजनि० ।

मूत्रनिरोध पु० मूत्रं निरुणद्धि नि + रुध--अण् । मूत्रप्रति-

बन्धकरोगे ।

मूत्रफला स्त्री० मूत्रमेव फलं यस्याः । १ त्रपुस्याम् (शशा) २ कर्कोठ्याञ्च राजनि० ।

मूत्राघात पु० मूत्रमाहन्ति आ + हन--अण् । मूत्रहनन-

कारिणि रोगभेदे । “प्रायो मूत्रविघाताद्यैर्वातकुण्ड-
लिकादयः । जायन्ते कुपितैर्दोषै मूत्राघातास्त्रयोदश”
भावप्र० ।

मूत्राशय पु० ६ त० । नामेरधोदेशे वस्तिनामकस्थाने भावप्र० ।

मूर्ख त्रि० मुह खमुरादेशः । १ मूढ़े २ गायत्रीरहिते ३ सार्थ-

गायत्रीरहिते च । “क्रियाहीनस्य मूर्खस्येऽति स्मृति-
व्याख्यायां निबन्धकारैस्तथार्थकतया व्याख्यानात् ।

मूर्च्छना स्त्री मुच्छं--युच् । “स्वरः संमूर्च्छितो यत्र रानतां

प्रतिपद्यते । मूर्च्छनामिति तां प्राहुः कवयो ग्रामस-
म्भवाम्” इत्युक्ते गानाङ्गभेदे “स्फुटीभवद्ग्रामविशेष
मूर्च्छनाम्” माघः ।

मूर्च्छा स्त्री मुर्च्छ--भावे अङ् । १ मोहे अमरः । २ अनिद्रा-

यामपि बाह्येन्द्रिय व्यापारशून्यावस्थायां “क्षीणस्य
बहुदोषस्य विरुद्धाहारसेविनः । वेगाघातादभिघातात्
हीनसत्त्वस्य वा पुनः । करणायतनेषूग्रा याह्येष्वाभ्य
न्तरेषु च । निविशन्ते यदा दोषास्तदा मूर्च्छन्ति
मानवाः” भावप्र० । ३ वृद्धौ च ।

मूर्च्छाल त्रि० मूर्च्छा + अस्त्यर्थे लच् । मूर्च्छाविशिष्टे अमरः ।

मूर्च्छित त्रि० मूर्च्छा जातास्य तार० इतच् । १ मूर्च्छायुक्ते

२ वृद्धे ३ उच्छ्रिते च मेदि०

मूर्त्त त्रि० मुर्च्छ--क्त । १ मूर्च्छान्विते अमरः । २ मूड़े ३ कठिने

च मेदि० । मूर्त्तिरस्त्यस्य अच् । ४ मूर्त्तिमति न्यायोक्तेषु
अवच्छिन्नपरिमाणवत्सु । क्षितिजलपावकपवनमनःसु च ।

मूर्त्ति स्त्री मुर्च्छ--क्तिन् । १ देहे २ काठिन्ये, अमरः ।

३ प्रतिमायाञ्च हेम० ।

मूर्त्तिमत् पु० मूर्त्तिरस्त्यस्य मतुप् । १ देहे । २ आकारयुक्ते

३ काठिन्यवति च त्रि० स्त्रियां ङीप् ।

मूर्द्धज पु० मूर्द्ध्नि जायते जन--ड । १ केशे जटा० । २ मस्तकजातमात्रे त्रि० ।

मूर्द्धन्य त्रि० मूर्द्ध्नि भवः यत् । १ मस्तकजाते । २ शिक्षाग्रन्थोक्तेषु

ऋकारटवर्व्रषवर्णेषु पु० ।

मूर्द्धन् पु० भुवं कनित् धुट, च । मस्तके अमरः ।

मूर्द्धपुष्प पु० मूर्द्ध्नि पत्त्रशिरसि पुष्पं यस्य । शिरीषवृक्षे शब्दमा०

मूर्वा स्त्री मुर्व--अच् । खवामख्याते धनुर्गुणोपयुक्ते लताभेदे

गौरा० ङीष् । मूर्तीत्यप्यत्र भरतः ।

मूल प्रतिष्ठायां भ्वा० उभ० अक० सेट् । मूलति ते अमूलीत् अमूलिष्ट ।

मूल रोपणे चुरा० उभ० सक० सेट् । मूलयति ते अमूमुलत् त ।

मूल न० मूल--क । १ शिफायाम् (जड़) (शिकड़) अमरः

२ आद्ये ३ निकुञ्जे ४ नक्षत्रभेदे ५ अन्तिके विश्वः ६ बाणि-
ज्याद्युपयोनिनि ७ मूलधने, मेदि० । ८ निजे अजयः ।
९ चरणे १० शूरणे शब्दमा० ११ पिप्पलीमूले १२ पुष्करमूले
राजनि० । १३ टीकादिना व्याख्येयग्रन्थे च अश्विन्यवधिके
ऊनविंशे नक्षत्रे अस्त्री० ति० त० शबदर० स्त्रीत्वमुक्तम् ।

मूलक न० मूल + संज्ञायां कन् । १ कन्दभेदे (मूला) बर्ज्जनीयं

सदा विप्रैर्मूलकं मदिरासमम्” इति ब्रह्मपु० । ३ विमभेदे
पु० हेमच० ।

मूलकपर्णी स्त्री मूलकवृक्षस्येव वर्णान्यस्याः ङीप् । शोभाञ्जने रत्नमा० ।

मूलकर्मन् न० मूलेन मन्त्रौषधादिना कर्मवशीकरणादि ।

औषधादिना वशीकरणकर्मणि ।

मूलकृच्छ पु० मूलेन क्वाथितवृक्षमूलेन कृच्छ्रः । “मूलकृच्छ्रः

स्मृतो मूलैरिति” स्मृत्युक्ते १ व्रतभेदे । तद् यस्य ।
२ तद्वति त्रि० ।

मूलज न० मूलाज्जायते जन--ड । १ आर्द्रके राजनि० ।

२ उत्पसादौ पु० हेमच० । ३ मूलनक्षत्रजातमात्रे त्रि० ।

मूलत्रिकोण न० “सिंहो वृषश्च मेषश्च कन्या घन्वी धटोघटः ।

“अर्कादीनां त्रिकोणानि मूलानि राशयः क्रमात्”
रव्यादीनां क्रमेण सिंहादिषु राशिषु । तदंशाश्च “रवि-
भौमजीवभार्गवशनैश्चराणां त्रिकोणभागाः स्युः । नस्न-
रविटिक्तिथिनस्यराज्ञेन्द्वो दिग्भांशकाः सूच्चात्” ज्यो० त० ।

मूलद्रव्य न० कर्म० । मूलधने यदबलम्ब्य बाणिज्यादिकं

क्रियते तस्मित् (पूँजि) मूलधनादयोऽप्यत्र ।

मूलपर्णी स्त्री मूलमारभ्य पर्णान्यस्याः ङीप् । मण्डूक-

पर्ण्याम् रत्नमा० ।

मूलपुष्कर न० पुष्करस्य मूलं राज० पर० । पुष्करजूलेराजनि० ।

मूलपोती स्त्री पू--तच् गौ० ङीष् मूलं प्रधाना पोती । पूति-

कायाम् राजनि० ।

मूलप्रकृति स्त्री मूलीभूता सर्वाद्या प्रकृतिः । मांख्यमतोक्ते

सर्वेषां कारणिभूते साम्यावस्थापन्ने सत्त्वरजस्तमोकृपे
त्रिगुणात्मके १ प्रधाने “मूलप्रकृतिरविकृठिः” सांख्यका-
रिका । २ दृर्गायाञ्च ब्रह्मवै० पु० ४० अ० ।

मूलफलद पु० मूलेऽपि फलां ददाति प्रसूते दा--क । पनसवृक्से राजनि० ।

पृष्ठ ४७६०

मूलरस पु० मूले रसो यस्य । मोरटालतायाम् रत्नमाला ।

मूलशाकट न० मूलानां क्षेत्रं मूल + शाकट । मूलभवन-

योग्ये क्षेत्रे शाखिन । मूलशाकिनोऽप्यत्र पु० ।

मूला स्त्री मूलानि बाहुल्येन सन्त्यस्याः अच् । शतमूल्याम् राजनि०

मूलाधार पु० ६ त० । १ नाभिलिङ्गयोर्मध्ये तस्य हि

शरीरस्य मकलनाड़ीनां मूलस्थानत्वात्तथात्वम् “भूलाधारे
त्रिकोणाख्ये इच्छाज्ञानक्रियात्मके । मध्ये स्वयम्भूलि-
ङ्गन्तु कोटिसूर्य्यसमप्रभम्” इत्युक्तलक्षणे त्रिकोणाकारे
तन्त्रोक्ते २ सुषुम्णानाडीस्थे चक्रभेदे च ।

मूलिन् पु० मूलमस्त्यस्य इनि । वृक्षे शब्दच० । ठन् । मूलिकोऽप्यत्र ।

मूल्य न० मूलाय पटादिकारणतन्त्वाद्यादानाय इदम् यत् ।

तन्त्वाद्यादानाय दीयमाने १ धने अमरः । मूल--णृत् ।
वपनयोग्ये त्रि० ।

मूष लुण्ठने भ्वा० पर० सक० सेट् । मूषति अमूषीत् । मुमूष

मूष पुंस्त्री० मूष--क । १ मूषिके रत्ना० स्त्रियां ङीष् । २

तैजसद्रव्यद्रावणपात्रे (मुचि) अमरः । ३ नवाक्षे “एकद्वित्र्या-
दि मूषावहने” ति लीला० ५ देवताड़वृक्षे च स्त्री शब्दच०

मूषक पुंस्त्री० मूष--ण्वुल् स्त्रीत्वे टाप् अत इत्त्वम् ।

उन्दुरौ शब्दच० ।

मूषकपर्ण्णी स्त्री मूषकस्तत्कर्ण इव पर्णान्यास्याः । (उन्दुर-

कानी) आखुकर्ण्याम् मूषिककर्ण्यादयोऽप्यत्र ।

मूषरिफ पु० नील० ता० उक्ते इशराफाख्ये योगभेदे “शीघ्रो

यदा मन्दगतेरथैकमप्यं शमत्येति तदेशराफः । कार्य्यक्षयो
मूषरिके खलोग्ये सौम्ये न हिल्लाजमतेन चिन्त्यम्” ।

मूषिक पुंस्त्री० मूष--इन् । १ उन्दुरौ अमरः स्त्रीत्वे टाप् ।

२ मुषिकपर्ण्यां स्त्री शब्दर० ३ मूषायां भरतः ।

मूषिकपर्ण्णी स्त्री मूषिककर्ण इव पर्णान्यस्याः जलजतृणभेदे शब्दर० ।

मूषी स्त्री मूष + इन् गौ० ङीष् । १ स्वर्णाद्रेर्द्रावणपात्रे (सुची)

२ महामूषिके राजनि० ।

मृ मृतौ तु० सार्वधातुवे लुङि आशीर्लिङि च आ० अन्यत्र

पर० अक० अनिट् म्रियते । अमृत । ममार मर्त्तासि
मृषीष्ट ।

मृकण्ड(ण्डु) पु० मुनिभेदे शब्दच० ।

मृक्ष संघाते भ्वा० प० अक० सेट् । मृक्षति अमृक्षीत् ।

मृग अन्वेषणे याचने च अद० चु० आ० सक० सेट् मृगयते

अमभृगत ।

मृग अन्वेषणे दिवा० पर० सक० सेट् । मृग्यति अमर्गीत् ।

मृग पु० मृग--क । १ पशुमात्रे, २ गजभेदे, ३ अश्विन्यवधिके

पञ्चमे न क्षत्रे पु० । अ० चु० मृग--भावे अच् । ४ अन्वेषणे पु०
५ याचने च मेदि० ६ यज्ञभेदे ७ मार्गशीर्षे मासि अजयः
अच् । ८ मृगमदे, भरतः ९ मकरराशौ च पु० ज्यो० त० ।
१० हरिणे अमरः सर्वतः जातौ स्त्रियां ङीष् ११ नरभेदे
“मृगे तुष्टा च चित्रिणी” रतिमञ्जरो ।

मृगगामिनी स्त्री मृग इव गच्छति गम णिनि ङीप् ।

१ विड़ङ्गायाम् राजनि० । २ मृगतुल्यगमनवति त्रि०
स्त्रियां ङीप् ।

मृगजीवन पु० मृगैस्तन्मांसादिविक्रयाभिर्जीवति जीव--ल्यु । व्याधे शब्दच० ।

मृगणा स्त्री मृग--युच् टाप् । नष्टद्रव्यस्यान्वेषणे अमरः ।

मृगतृष्णा स्त्री मृगाणां तृष्णेव तृष्णाहेतुत्वात् । सूर्य्यकिरणे

जलभ्रान्तौ अमरः । निर्जलदेशस्थं सूर्य्यकिरणं दूरता
वीक्ष्य मृगैर्जलभ्रान्त्या तृष्णार्त्तैः सद्भिः बम्भ्रम्यते न च
लभ्यते इति ग्रीष्मे मरुदेशे सिकतादौ पतितरविकिणेषु
जलभ्रान्तिरिति च लोकप्रसिद्धम् । स्वार्थे क । तत्रैव ।

मृगदंशक पुंस्त्री० मृगं दंशति दन्श ण्वुल् । कुक्वुरे अमरः

स्त्रियां जातित्वात् ङीष् ।

मृगधूर्त्तक पुंस्त्री० मृगेषु मध्ये धूर्त्तकः । शृगाले अमरः स्त्रियां ङीप् ।

मृगनाभि पु० मृगस्य नाभिः जन्महेतुर्यस्य । कस्तूर्य्याम्

मृगमदे अमरः ।

मृगनेत्रा स्त्री मृगो मृगशिरो नक्षत्रं नेता प्रापकः सर्व-

रात्रिप्रकाशकत्वात् यत्र अच्समा० । सौरमार्गस्य किञ्चि-
दधिकत्रयोविंशदिनावधिशेषपर्य्यन्तरात्रिषु ।

मृगनाभिजा स्त्री मृगस्य नामेर्जायते जन--ड । कस्तूर्य्याम्

हेमच० ।

मृगपति पु० ६ त० । मृगाणां पशूनां पतिः स्वामी । १ सिंहे हेमच० मृगेशादयोप्यत्र २ सिंहराशौ च ।

मृगप्रिय न० ६ त० । पर्वततृणे राजनि० ।

मृगबधाजीव पु० मृगबधेनाजीवति आ + जीव--अच् । व्याधे

अमरः मृगाजीवोऽप्यत्र ।

मृगबन्धनी स्त्री मृगोबध्यतेऽनया बन्ध--करणे ल्युट् ङीप् ।

मृगबन्धनार्थे जाले अमरः । करणस्य कर्त्तृत्वविवक्षायां
णिनि ङीप् । मृगवन्धिनीत्यप्यत्र अमरे पाठान्तरम ।

मृगभक्ष्या स्त्री मृगैर्भक्ष्यते भक्ष--कर्मणि ण्यत् । जटामांस्याम्

राजनि० ।

मृगमद पु० मृगस्य मदो गर्वो यस्मात् । कस्तर्य्याम् अमरः ।

मृगमदवासा स्त्री मृगमदस्येव वासः सौरभमस्याः । कस्तू-

रीमल्लिकायां राजनि० ।

मृगया स्त्री मृगं यात्यनया या--घञर्थे क । (स्नीकार)

पशुबधफलके व्यापारभेदे आखेटके अमरकोषः ।
पृष्ठ ४७६१

मृगयु पु० मृग--अस्त्यर्थे यु । १ ब्रह्मणि २ शृगाले ३ व्याधे च

मेदि० “मृगयुमिव मृगोऽथ दक्षिणेर्मा” भट्टिः ।

मृगरसा पु० मृगो मृगमांसं तस्येव रसोऽस्याः । सहदेवी-

लतायाम् राजनि० ।

मृगराज पु० मृगाणां पशूनां राजा टच्समा० । १ सिंहे

शब्दर० । मृगेण गजेन राजते अच् । २ चन्द्रे । ३ सिंह-
राशौ च । उपचारात् ४ मृगशिरानक्षत्रे च ।

मृगराटिका स्त्री मृगं रटति जीव्यत्वेन रट--अण् गौ०

ङीष् स्वार्थे क । जीवन्त्यामोषधौ राजनि० ।

मृगरिपु पु० ६ त० । १ सिंहे मृगशत्रुप्रभृतयोऽप्यत्र । २ सिंहराशौ च ।

मृगलाञ्छन पु० मृगो लाञ्छनं यस्य । १ चन्द्रे शब्दर० । मृगा-

ङ्कादयोप्यत्र उपचारात् २ मृगशिरानक्षत्रे च ।

मृगवल्लभ न० ६ त० । कुन्दरतृणे राजनि० ।

मृगवाहन पु० मृगो वाहनं यस्य । १ वायौ “धावन् हरिण-

पृष्टस्थः” इति वायुध्यानम् । २ स्वातिनक्षत्रे च ।

मृगव्य न० मृगान् व्यथतेऽत्र व्यथ--ड । मृगयायाम् अमरः ।

मृगशिरस् न० पु० । मृगस्येव शिरोऽस्य । अश्विन्यवधिके

पञ्चमे नक्षत्रे मृगशिराप्यत्र स्त्री टाप् शब्दर० ।
मृगशीर्षन्, न० रायमु० मृगशीर्ष पु० एतावप्यत्र भरतः ।

मृगा स्त्री मृगो मृगमांसतुल्यरसोऽस्त्यस्य अच् । सहदेवी-

लतायाम् राजनि० ।

मृगाक्षी स्त्री मृगस्येवाक्षि तत्तुल्यं पुष्पं वा यस्याः षच्सभा०

ङीष् । १ विशालायां २ मृगतुल्यनयनवत्यां स्त्रियां च
मेदि० ।

मृगाण्डजा स्त्री मृगस्याण्डाकारात् नाभिस्थितमांसपिण्डात् जायते जन--ड । कस्तूर्य्याम् राजनि० ।

मृगादन पुंस्त्री० मृगान् अत्ति अद--ल्यु । क्षुद्रव्याघ्रे अमरः ।

स्त्रियां ङीष् । मृगान्तकोऽप्यत्र ।

मृगादनी स्त्री मृग इवाद्यते अद--कर्मणि ल्युट् । १

सहदेव्याम् २ इद्रवारुण्याम् (राखालशशा) ३ कर्कोटीभेदे च
राजनि० ।

मृगाराति पु० ६ त० । १ कुक्कुरे शब्दमा० । मृगशत्रौ २ सिंहे च । ३ सिंहराशौ च ।

मृगारि पु० ६ त० । १ कुक्वुरे २ सिंहे ३ व्याध्रे ४ रक्तशोभाञ्जने

च राजनि० तत्सेवने हि तस्य नाशः । ५ सिंहराशौ च ।

मृगाविध् पु० मृगं विध्यति व्यध + क्विप् पूर्वदीर्घः । व्याधे

जटाधरः ।

मृगित त्रि० मृग--क्त । १ अन्वेषिते अमरः २ याचिते च ।

मृगेन्द्र पु स्त्री० मृगः इन्द्र इव । सिंहे अमरः स्त्रियां ङीष् ।

मृगेन्द्रचटक पु० मृगेन्द्र इव हिंस्रश्चटकः पक्षी । श्येन-

पक्षिणि जटा० ।

मृगेन्द्राशी स्त्री मृगेन्द्रेण सिंहेनाश्यते भक्ष्यते अश--कर्मणि

घञर्थे क गौरा० ङीष् । वासके राजनि० ।

मृगेर्वारु स्त्री मृगप्रिया इर्वारुः कर्कोटी । श्वेतायामिन्द्र-

वारण्याम् (सादा राखालशशा) राजनि० ।

मृगेष्ट पु० ६ त० । मुद्गवृक्षे राजनि० ।

मृगेक्षणा स्त्री मृगस्य ईक्षणमिवेक्षणं पुष्पं वा यस्याः ।

१ मृगेर्वारौ राजनि० २ मृगतुल्यनेत्रायां स्त्रियां च ।

मृज शोधने भूषणे च वा चु० उभ० पक्षे अदा० सक० वेट् ।

मार्जयति--ते मार्ष्टि अमीमृजत्--त अममार्जत्--त
अमार्क्षीत् आम्राक्षीत् अमृक्षत् षित् मृजा ।

मृजा स्त्री मृज--अङ् । मार्जने अमरः “शिरसा च मृजावता” भट्टिः

मृड तोषणे क्र्या० तु० च पर० सक० सेट् । मृड्णाति

मृडति अमर्डीत् ममर्ड ।

मृड पु० मृड--क । १ शिवे अमरः २ तत्पम्त्याम् स्त्री ङीष् आनुक् च मृडानी ।

मृण हिंसे तु० प० सक० सेट् । मृणति अमर्णीत् ।

मृणाल पुंन० मृण--कालन् । १ पद्मादेर्नालस्थे सूत्रे अमरः

२ वीरणमूले न० मेदि० गौरा० ङीष् । मृणालीत्ययि
३ विसतन्तौ स्त्री राजनि० ।

मृणालिन् स्त्री मृणालं विद्यतेऽस्य अच् मृणालं पद्मं ततः

समूहे तद्युक्तदेशे वा इनि । १ पद्मसमूहे २ पद्मयुक्तदेशे
३ तद्युक्तलतायाञ्च जटा० ।

मृत न० मृ--भावे क्त । १ मरणे । २ तत्तुल्यदुःखजनके याचि-

तके वृत्तौ च अमरः । कर्त्तरि क्त । ३ गतप्राणे त्रि० ।

मृतक न० मृतेन मरणेन कायति कै--क । मरणाशौचे

“सूतके मृतकेऽथ वा” इति स्मृतिः ।

मृतकल्प त्रि० ईषदसमाप्तो मृतः मृत + कल्पप् । मृतप्राये ।

मृतकान्तक पुंस्त्री० मृतः शवदेहः कान्तोऽभिमतो यस्य

कप् । शृगाले हारा० स्त्रियां ङीष् ।

मृतजीव पु० मृतः नष्टः सन् पुनर्जीवति जीव--अच् ।

तिलकवृक्षे राजनि० ।

मृतवत्सा स्त्री मृतोवत्सो यस्याः । मृतापत्यायां १ स्त्रियां

२ स्त्रीगव्याञ्च “मृतवत्सा च या नारीति” तन्त्रम् ।

मृतसञ्जीवनी स्त्री मृतान् संजीवयति सम् + जीव--णिच्-

ल्यु गौरा० ङीष् । १ गोरक्षदुग्धायामोषधौ राजनि०
तन्त्रोक्ते २ विद्याभेदे च ।

मृतस्नात त्रि० मृतं मरणं तन्निमित्तं स्नातः स्ना--क्त ।

पृष्ठ ४७६२

मृतालक न० मृतमालयति भूषयति अल--णिच् ण्वुल् ।

आढक्याम् अचरः । मृत् मृत्तिका तालः प्रतिष्ठा यस्य
वा कप् । मृत्तालकमप्यत्र शब्दर० । सौराष्ट्रमृदि राजनि०

मृत्तिका स्त्री मृद + तिकन् टाप् । १ मृदि (माटि) सा

क्षेत्रत्वेनाऽस्त्यस्य अच् टाप् । २ आढक्याम् राजनि० ।

मृत्फली स्त्री नृदि फलमस्याः ङीप् । कुष्ठौषधौ । (कुड़)

हारा० ।

मृत्यु पु० मृ--त्युक् । १ यमे हेम० देहादिभ्यः २ प्राणवियोगे

विजातीयात्ममनःसंयोगनाशे वा ३ मरणे च अमरः ।
“मृत्योः स मृत्युमाप्नोति” श्रुतिः भयात् मायायां जाते
४ पुत्रभेदे पु० भयाज्ज्ञेऽथ वै माया मृत्युं भूतापहा-
रिणम् । निरृतिश्च तथा कन्या मृत्योर्भार्य्याऽभवन्मुने! ।
अलक्ष्मीर्नाम तस्यां च मृत्योः पुत्राश्चतुर्दश” मार्क० पु० ।

मृत्युञ्जय पु० मृत्युं जयति जि--अच् । १ महादेवे अमरः

“कतिधा मृत्युकन्यानां ब्रह्मणां कोटिशोलये । काले न
लीनः शम्भुश्च सत्त्वरूपी च निर्गुणः । मृत्युकन्या
जिता शस्वत् शिवेन गुरुणा मम । न मृत्युना जितः
शम्भुः कल्पे कल्पे श्रुतौ श्रुतम्” ब्रह्मवै० प्र० ५१ अ० ।

मृत्युनाशक पु० सृत्युं नाशयति नाशि--ण्वुल् । १ पारदे

राजनि० तस्य हि रसायनक्रियादिना शोधयित्वा सेवने
मृत्युनाशकत्वम् । २ मृत्युनाशकमात्रे त्रि० ।

मृत्युपुष्प पु० मृत्यवे स्यामिमरणाय पुष्पं यस्य । इक्षौ

रत्नमा० तस्मिन् पुष्पिते हि तत्स्यामिनो नाशः ।

मृत्युफला स्त्री मृत्यवे स्वनाशाय फलं यस्याः । कदल्यां

मेदि० कलपाके हि तस्या नाशो लोकसिद्धः ।

मृत्युवीज पु० मृत्युस्तद्धेतुर्दाह एव वीजं कारणमस्य । वंशे त्रिका० ।

मृत्युसूति स्त्री मृत्यवे सूतिः प्रलवोऽस्याः । कर्कटकयोषिति

प्रसवेन हि तस्या नाशः “यथा कर्कटकी गर्भमादत्ते
मृत्यवे निजम्” इति पुराणम् ।

मृत्(सा)स्ना स्त्री मृद् + प्रशस्तार्थे स स्न वा । १ प्रशस्तमृत्तिका-

याम् अमरः । अर्शआद्यच् स्नान्तः । २ आढक्याम् अमरः ।

मृद क्षोदे क्र्य० प० सक० सेट् । मृद्गाति अमर्द्दीत् ममर्द ।

मृद्(दा) स्त्री मृद्यते मृद--कर्मणि क्विप् । मृत्तिकायाम्

(माटी) अमरः हलन्तत्वात् वा टाप् । मृदाप्यत्र ।

मृदङ्ग पु० मृद अङ्गच् किच्च । १ वाद्यभेदे अमरः । २ कोषा-

तक्या स्त्री रत्नमा० गौरा० ङीष् ।

मृदङ्गफल पु० मृदङ्ग इव फलमस्य । पनसवृक्षे शब्दर० ।

मृदङ्गफलिनी स्त्री मृदङ्ग इव फलमस्त्यस्या इनि ङीप् ।

कोषातक्याम् राजनि० । तत्फलं साम्यादस्त्यस्य अच् ।
मृदङ्गतुल्यफले पनसवृक्षे पु० शब्दर० ।

मृदु त्रि० मृद--कु । १ कोमले अमरः । स्त्रियां वा ङीष्

मृद्वी मदुः । सा च २ गृहकन्यायाम् । ३ चित्रानुराधा-
मृगरेवतीनक्षत्ररूपे नक्षत्रगणभेदे च त्रि० ज्यो० त० ।

मृदुचर्मिन् पु० मृदु कोमलं चर्म त्वचास्त्यस्य ब्रीह्मा० इनि ।

भूर्जवृक्षे राजनि० ।

मृदुच्छद पु० छाद्यतेऽनेन छदः त्वक् ६ ब० । १ भूर्जवृक्षे

२ पर्वतजपीलुवृक्षे जटा० ३ कुक्कुरवृक्षे ४ श्रीतालवृक्षे च
राजनि० ।

मृदुताल स्त्री कर्भ० । श्रीतालवृक्षे (तेडेत) राजनि० ।

मृदुत्वच्(च) पु० मृदुः त्वक् त्वघा वा यस्य । भूर्जत्वचवृक्षे

अमरः ।

मृदुपत्त्र पु० मृदूनि पत्त्राण्यस्य । १ नले राजनि० । कर्म० ।

२ कोमलपर्णे न० ६ ब० । ३ तद्वति त्रि० । ४ चिल्लीशाके
स्त्री राजनि० गौरा० ङीष् ।

मृदुपर्वक पु० मृदूनि पर्वाण्यस्य कप् । १ वेत्रे राजनि० । २ मृदुग्रन्धियुक्ते त्रि० ।

मृदुपुष्प पु० मृदूनि पुष्पाण्यस्य । १ शिरीषवृक्षे रत्नमा० ।

६ ब० । २ मृदुकुसुमयुते त्रि० । कर्म० । ३ कोमलपुष्पे न० ।

मृदुफल न० मृदूनि फलान्यस्य । १ विकङ्कते (वैचि) २

मधुनारिकेले च राजनि० । ३ कोमलफलयुते त्रि० ।
कर्म० । ४ कोमलफले न० ।

मृदुल न० मृद--कुलच् । १ जले शब्दच० २ कोमलमात्रे त्रि० अमरः ।

मृदुलोमक पु० ६ ब० । १ शशके हेमच० । २ कोमललोमयुक्ते

त्रि० । कर्म० । ३ कोमललोम्नि न० ।

मृदूत्पल न० कर्म० । १ नीलोत्पले शब्दर० । २ नीलपद्मे च

मृद्वीका स्त्री मृदु + ईकन् । १ द्राक्षायाम् अमरः २ कपिल-

द्राक्षायाञ्च राजनि० ।

मृध न० मृध्यतेऽत्र घञर्ये आधारे क । युद्धे अमरः ।

मृध आर्द्रीभावे भ्वा० उभ० सक० सेट् चदित् क्त्वा वेद ।

मर्द्धति--ते अमर्द्धीत् अमर्द्धिष्ट ममर्द्ध ममृवे ।

मृश स्पर्शने प्रणिधाने च तु० पर० सक० अनिट् । मृशति

अम्राक्षीत् अमार्क्षीत् अमृक्षत् ममर्श ।

मृष क्षमायाम् अद० चु० उभ० सक० सेट् । मृषयति ते

अमीमृषत् त ।

मृष क्षान्तौ अद० भ्वा० उभ० सक० सेट् । मृषति ते अमृषीत् अमृषिष्ट ।

मृष सेचने भ्वा० पर० सक० सेट् । मर्षति अमर्षीत् उदित् क्त्वा

वेट् ।
पृष्ठ ४७६३

मृष क्षमायां चु० उभ० सक० सेट् । मर्षयति ते अमीमृषत् त

अममर्षत् त ।

मृष क्षमायां भ्वा० उभ० सक० सेट् । मर्षति ते अमर्षीत् अमृषिष्ट उदित् क्ता वेट् ।

मृष क्षमायां चु० पक्षे दिवा० च उभ० सक० सेट् । मृष्यति ते ।

मर्षयति ते । मर्षितः मर्षित्वा ।

मृषा अव्य० मृष--का । मिथ्याशब्दार्थे अमरः ।

मृषार्थक न० मृषा अत्यन्तासम्भूतोऽर्थो यस्य । “कूर्मलोम-

तनुत्राणः शशशृङ्गधनुर्द्धरः” इत्यादि मिथ्यार्थकवाक्ये ।

मृषालक पु० मृषालक इव मञ्जर्य्यामस्त्यस्य अच् । आम्रवृक्षे

शब्दर० ।

मृषावाद पु० मृषा + वद--घञ् । मिथ्यावाक्ये जटा० यथा ह्रदो वह्णिमानित्यादिवाक्यम् ।

मृषोद्य न० मृषा + वद--भावे क्यप् । १ मिथ्याकथने तद्विद्यते-

ऽम्य अच । २ मिथ्यावादिनि त्रि० शब्दमा० ।

मृष्ट न० मृज(ष)--क्त । १ मरिचे राजनि० २ धृष्ट्रे ३ शोधिते च त्रि० अमरः

मॄ बधे क्या० प्वा० प० सक० सेट् । मृणाति अमारीत् ।

मे प्रतीदाने भ्व० आत्म० सक० अनिट् । मयते अमास्त ।

मेक(ख)ल पु० मि--कलच् खलच् वा नात्त्वम् । १ अद्रिभेदे

मे इति कलो यस्य क मध्यः । २ छागे पुंस्त्री० राजनि०
स्त्रियां ङीष् ।

मेक(ख)लकन्यका स्त्री ६ त० । नर्मदानद्याम् अमरः ।

मेक(ख)लाद्रिजा स्त्री मेक(ख)लाद्रेर्जायते जन--ड ।

नर्मदानद्याम् हेमच० ।

मेक्षण न० “इध्मजातीमिध्मार्द्धप्रमाणं मेक्षणं भवेत् । वृत्तं

वार्क्षं च पृथ्वग्रमवदानक्रियाक्षमम्” छन्दोगप० उक्ते यज्ञ-
पात्रभेदे । इध्मप्रमाणं प्रादेशद्वयम् ।

मेखला स्त्री मि--खलच् । “मेखला त्वष्टयष्टिका” उक्ते १ स्त्री-

कट्याभूषणभेदे अमरः । उपनयनकाले ब्रह्मचारिधार्य्ये
मौञ्ज्यादौ २ कटीसूत्रे “मौञ्जी त्रिवृत् समा श्लक्ष्णा कार्य्या
विप्रस्य मेखला । क्षत्रियस्य च मौरीया वैश्यस्य
शणतन्तुजा” मनुः । ३ खड्गादर्मुष्ट्याधारणार्थे ४ उपर्य्यधो-
भागेन बन्धे ५ शैलनितम्बे सेदि० ६ नर्मदायां शब्दर०
७ पृश्निपर्ण्याम् राजनि० । होमकुण्डोपरिस्थे मृत्कृते
८ वेष्टनभेदे च ।

मेघ पु० मिह--घञ् कुत्वम् । धूमज्योतिःपवनसलिलसंघात-

जन्ये १ जलधरे २ मुस्तके च अमरः । ३ राक्षसभेदे शब्दच०
४ रागभेदे च स० गी० ।

मेघजीवन पुंस्त्री० मेघो जीवनं यस्य । चातकखगे राजनि० स्त्रियां ङीष् ।

मेघज्यातिस् न० मेघजन्यं ज्योतिः शा० त० । वज्राग्नौ अमरः

मेघनाद पु० मेघस्येव नादोऽस्य । १ वरुणे २ रावणस्य पुत्रे

इन्द्रजिति । ६ त० । ३ मेघशब्दे च मेदि० ।

मेघनादानुलासक पुंस्त्री० मेघस्य नादेनानुलस्यति अनु +

लस ण्वुल् । मयूरे राजनि० स्त्रियां ङीष् । णिनि ।
मेघनादानुलासिन् मयूरे अमरः ।

मेघनामन् पु० मेघस्य नामेव नाम यस्य । मेघवाचक-

शब्दवाच्ये मुस्तके अमरः ।

मेघपुष्पक म० मेघस्य पुष्पमिव । जले अमरः ।

मेघयोनि स्त्री० ६ त० । धूमे शब्दरत्ना० ।

मेघवर्ण्णा स्त्री मेघस्येव वर्णोऽस्याः । नीलीवृक्षे शब्दच० ।

मेघवर्त्मन् न० ६ त० । आकाशे त्रिका० । मेघवीथ्यादयोऽप्यत्र ।

मेघवह्नि पु० मेघजन्यो वह्निस्तद्घर्षणजातोग्निः । वज्राग्नौ

हेमच० । एवं मेघानलादयोप्यत्र ।

मेघवाहन पु० मेघो वाहनमिव यस्य, मेघान् वाहयति

चालयति वह--णिच् ल्यु वा । इन्द्रे अमरः ।

मेघसार पु० मेघस्य कर्पूरस्या सारः । चीनकर्पूरे राजनि० ।

मेघस्तनितोद्भव पु० मेघस्तनितादुद्भवति उद् + भू--अच् ।

विकण्ठकवृक्षे राजनि० ।

मेघागम पु० मेघानामागमो यत्र । वर्षाकाले वर्षर्पौ शब्दर०

मेघानन्दिन् पु० मेघेन तद्ध्वनिना आनन्दति आ + नन्द-

णिनि । मयूरे अच् मेघानन्दा । वलाकायां राजनि० ।

मेघान्त पु० मेघानामन्तो यत्र । शरत्काले राजनि० मेघा-

त्ययादयोऽप्यत्र ।

मेघास्थि न० मेघानामस्थीव संहतकठिनत्वात् । करकायाम् त्रिका० ।

मेचक न० मच--वुन् पृषो० । १ अन्धकारे २ स्रोतोऽञ्जने च

मेदि० ३ नीलाञ्जने राजनि० । ४ मयूरचन्द्रके ५ कृष्णवर्णे
मेदि० । ६ धूमे ७ मेघे ८ शोभाञ्जने शब्दर० ९ कृष्णवर्ण-
युते त्रि० अमरः ।

मेट(ड) उन्मादे भ्वा० पर० सक० सेट् ऋदित् चङि न

ह्रस्वः । मेट(ड)ति अमेटी(डी)त् ।

मेटुला स्त्री मेट--उलच् । आमलक्याम् शब्दच० ।

मेढ्र पुंस्त्री० मिह--ष्ट्रन् । १ मेषे स्त्रियां ङीष् २ पुंसोऽसाधा-

रणचिह्ने च पु० अमरः ।

मेढ्रशृङ्गी स्त्री मेढ्रस्येप शृङ्गं यस्याः ङीष् । मेषशृङ्ग्याम् गाडरशिङा) रत्नमा० ।

मेथ बधे मेधायाञ्च सक० सङ्गे अक० भ्वा० उभ० सेट् ।

मेथति ते अमेथीत् अमेथिष्ट । ऋदित् चङि न ह्रस्वः ।

मेथि(धि) पु० मेथ (घ)--इन् । धान्यमर्द्दनार्थं पशुबन्धान-

काष्ठे (मेइकाठ) हेमच० ।
पृष्ठ ४७६४

मेथिका स्त्री मेथ--ण्वुल् । (मेथि) शाकभेदे राजनि० ।

णिनि मेथिनी । अत्रैव स्त्री ङीप् । अच् गौरा० ङीष् ।
मेथी अत्रैवार्थे राजनि० ।

मेद बधे मेधायाञ्च सक० भ्वा० उभ० सेट् । मेदति ते

अमेदीत् अमेदिष्ट । ऋदित् चङि न ह्रस्वः ।

मेदःसारा स्त्री मेदसः इव सारोऽस्याः । अष्टवर्गप्रसिद्धौषधि

भेदे मेदायां राजनि० ।

मेदक पु० मेद--ण्वुल् । जगले (मेओया) अमरः ।

मेदज पु० मेदात् महिषासुरमेदसो जायते जन--ड । भूमिज

गुग्गुलौ राजनि० । मेदोजातमात्रे त्रि० ।

मेदस् न० मेद--असुन् । मांसजन्ये धातुभेदे (वसा) अच् ।

मेद अत्रैव पु० ।

मेदस्कृत् न० मेदः करोति स्वपरिपाकेण जनयति कृ--क्विप् । मांसे हेमच० ।

मेदा स्त्री मेदः कारणत्वेनास्त्यसाः अच् । अष्टवर्गप्रसिद्धौ-

षधिभेदे भावप्र० ।

मेदिनी स्त्री मेदः मधुकैटममेदोऽस्त्यस्याः कारणत्वेन इनि ।

१ वसुन्धरायाम् “मधुकैटभयोरासीन्मेदसैव परिप्लुता ।
तेनेयं मेदिनो देवी प्रोच्यते” इति पुराणम् । २ मेदायाञ्च ।

मेदुर त्रि० मिद--घुरच् । १ अतिशयस्निग्धे । “मेषैर्मेदुरमम्ब-

रम्” जयदेवः । २ काकोल्यां स्त्री राजनि० टाप ।

मेदोज न० मेदसो वसातो जायते जन--ड । देहस्थे मज्ज-

हेतौ अस्थिनामके धातौ ।

मेदोद्भवा स्त्री मेदादुद्भवति उद् + भू--अच् । अष्टवर्गप्रसिद्धौषधिभेदे राजनि०

मेध मेथवत् सर्वम् । मेधति ते अमेधीत् अमेधिष्ट ।

मेधस् पु० मेध--असुन् । स्वायम्भुवस्थ मनोः पुत्रभेदे ।

मेधा स्त्री मेध--अङ् । १ वारणावत्यां बुद्धौ यया बुद्ध्या ज्ञातस्य

न विस्मरणं तत्र । नञ्दुःसुशब्दात् बहु० असिच्समा० ।
अमेधाः दुर्मेधाः सुमेधाः इत्यादि । आधारे घञ् ।
२ यागे पु० ।

मेधाविन् पु० मेधा + अस्त्यर्थे विनि । १ शुकखगे । २ मेधावति त्रि० मेदि० स्त्रियां ङीप् ।

मेधिर त्रि० मेधा + अस्त्यर्थे इरच् । मेधावति त्रिका० ।

मेधिष्ठ त्रि० अतिशययेन मेधावान् इष्ठन् मतोर्लुक् । अतिश-

यमेधावति जने । ईयसुन् मेधीयस् तत्रार्थे स्त्रियां ङीप्

मेध्य त्रि० मेध--ण्यत् । १ पवित्रे अमरः २ शुचौ च मेदि०

मेधाय यज्ञाय हितः यत् । ३ छागे ४ खदिरे ५ यवे च पुं०
मेदि० । ६ केतक्यां ७ शखपुष्प्यां ८ रक्तवचायाम् ९
रोचनायां, १० शम्याम्, ११ भण्डूक्यां १२ ज्योतिष्मतीलता-
याम् खी राजनि० ।

मेनका स्त्री मि--नक । १ स्वर्वेश्याभेदे शब्दर० । मेनैव स्वार्थे

क । २ हिनालयप्रत्न्याम् ।

मेनकात्मजा स्त्री ६ त० । हैमवत्यां दुर्गायाम् मेनासुतादयोऽप्यत्र ।

मेना स्त्री मि--न । हिमालयपन्त्याम् पितॄणां मानस्यां

कन्यायाम् । “मेनां मुनीनामपि माननीयाम्” कुमा० ।

मेनाद पुंस्त्री० मे इति नादो यस्य । १ विड़ाले २ छागे

३ मयूरे च मेदि० स्त्रियां ङीष् ।

मेन्धी स्त्री मा लक्ष्मीः इध्यते यया इन्ध--घञ् गौरा० ङीष् ।

(मेइदी) वृक्षे तत्पत्रमर्द्दने हि लक्ष्मीतुल्यरक्तहस्तता ।

मेप गतौ भ्वा० आ० सक० सेट् । मेपते अमेपिष्ट । अदित्

चङि न ह्रस्वः ।

मेय त्रि० मा--मि--वा यत् । १ परिच्छेद्ये २ ज्ञेये च “मानाधीनामेयसिद्धिः” ।

मेरु पु० मि--रु । सर्ववर्षेभ्य उत्तरस्थे १ पर्वतभेदे जपमालोप-

रिस्थे २ फलवीजादिके ३ कररूपमालायामङ्गलिपर्वभेदे च

मेरुक पु० मेरुरिव पीतवर्णत्वात् इवार्थे कन् । यक्षधूपे (घुना)

शब्दच० ।

मेरुसावर्ण पु० । चतुर्द्दशसु मनुषु एकादशे मनौ ।

मेलक त्रि० मेलयति मिल--णिच--ण्वुल् । १ विवाहे--योटकमेदे

मिल--भावे घञ् स्वार्थे क । २ सङ्गे अमरः ।

मेला स्त्री मिल--णिच्--अच् टाप् । १ नीलीवृक्षे राजनि० ।

२ मस्याम् ३ अञ्जने ४ मेलने च मेदि० ।

मेलान्धु पु० मेलाया मस्या अन्धुरिव । मस्याधारे (दोआत) जटा० ।

मेलापकाख्या स्त्री नी० ता० उक्ते ग्रहदृष्टिभेदे ग्रहदृष्टि-

शब्दे २७५३ पृ० दृश्यम् ।

मेव सेवने भ्वा० आ० सक० सेट् । मेवते अमेविष्ट । पदित् चङि न ह्रस्वः ।

मेष पुंस्त्री० मिष--अच् । (मेडा) १ पशुभेदे अमरः स्त्रियां

ङीष् । २ चक्रमर्दवृक्षे मेदि० । ज्योतिश्चक्रस्य द्वादशांशे
अश्विनीभरणीकृत्तिकानक्षत्राद्यपादात्मके ३ राशिभेदे ।

मेषकम्बल पु० मेषेण तल्लोम्ना निर्मितः कम्यलः ।

मेषलोमजाते वस्त्राकारे पदार्थे अमरः ।

मेषलोचन पु० मेषस्य लोचनमिव पुष्पमस्य । १ चक्रमर्दे

भावप्र० । २ मेषतुल्यनेत्रे त्रि० मेषनेत्रादयोप्यत्र ।

मेषवल्ली स्त्री मेषस्य शृङ्गाकारफलयुता वल्ली शाक० त० ।

(गाडरशिङ्ग) लताभेदे भावप्र० ।

मेषविषाणी स्त्री मेषस्य विपाणं शृङ्गमिप फलं यस्याः

गौरा० ङीष् (गाडरशिद) लताभेदे रत्नमा० । स्वार्थे क
अत इत्त्वम् । मेषविषाणिका तत्रैवार्थे ।

मेषशृङ्ग पु० मेषशृङ्गमिवाकारेऽस्तस्य अध । १ स्वावरविप

भेदे हेमच० । २ अजशृङ्ग्यां (गाडरशिङा) स्त्री गौरा०
ङीष् रत्नमा० ।
पृष्ठ ४७६५

मेषा स्त्री मिष--कर्मणि घञ् । सूक्ष्मैलायाम् (गुजराटी) शब्दच० ।

मेषाक्षिकुसुम पु० मेषाक्षीव कुसुमं यस्य । चक्रमर्दे रत्नमा०

मेषपुष्पादयोऽप्यत्र ।

मेषाण्ड पु० मेषस्याण्ड एवाण्डोऽस्य । इन्द्रे तस्य हि दक्ष-

यज्ञेऽण्डनाशे मेषाण्डेन तत्करणमिति पुराणप्रसिद्धम् ।

मेषालु पु० मेषाणामालुरिव प्रियः । वर्वरीवृक्षे शब्दच० ।

मेषी स्त्री मिष--अच् गौ० ङीष् । १ जटामांस्यां २ तिनिशवृक्षे

च राजनि० । जातौ ङीष् । ३ मेषजातिस्त्रियाम् ।

मेसूरण न० लग्नावधिदशमस्थाने ज्यो० त० ।

मेह पु मिह--घञ् । १ प्रस्रावे हेमच० २ प्रमेहरोगभेदे च

अमरः । प्रमेहशब्दे दृश्यम् । अच् । ३ मेघे शब्दच० ।

मेहघ्नी स्त्री मेहं हन्ति हन--टक् ङीप् । हरिद्रायाम् रत्नमा०

आर्द्रतन्मूलरससेवनाद्धि मेहनाश इति वैद्यकप्रसिद्धिः ।

मेहन न० मिह्यतेऽनेन मिह--करणे ल्युट् । १ शिश्ने अमरः ।

कर्मणि ल्युट् । २ मूत्रे मेदि० । भावे ल्युट् । ३ मूत्रोत्सर्गे ।

मैत्त्र(त्र) न० मित्रो देवतास्य अण् मैत्रं पायुस्तस्येदं पुनरण् ।

१ विष्ठोत्सर्गे “मैत्रं कर्म समाचरेत्” इति स्मृतिः । मित्रो
देवताऽस्य, मित्त्रत आगतं तस्येदं वा अण् । २
अनुराधानक्षत्रे न० । तस्य हि मित्रो देवता । ३ मित्त्रतः
प्राप्ते “मैत्त्रमौद्वाहिकञ्चैव” स्मृतिः । ३ सुहृत्सम्बन्धिनि
च त्रि० । मित्त्रमेव स्वार्थे प्रज्ञाद्यण् । ५ मित्त्रे
६ ब्राह्मणे च पु० त्रिका० ।

मैत्रावरुण पु० मित्रश्च वरुणश्च देवताद्वन्द्वे आनङ् मित्राव-

रुणयोरपत्यम् अण् । अगस्त्ये । इञ् । भैत्रावरुणिरप्यत्र
कल्पभेदे हि तस्य तयोः पुत्रत्वं पुराणप्रसिद्धम् ।

मैत्त्री न० मित्त्रस्य भावः अण् वा ष्यञ् पक्षे ङीप् यलोपः ।

सौहार्दे मैत्त्र्यमप्यत्र न० ।

मैत्रेय पु० मित्राया अपत्ययम् ढक् । १ मुनिभेदे २ बुद्धदेवे त्रिका० ।

मैथिली स्त्री मिथिलायां भवां अण् ङीप् । १ सीतायाम् ।

मिथिलाया राजा अण् । २ मिथिलादेशाधिपे पु० ।

मैथुन न० मिथुनेन स्त्रीपुंसाभ्यां निर्वृत्तम् अण् । १ अग्न्या-

धानादौ, कर्मणि “सा प्रशस्ता द्विजातीनां दारकर्मणि
मैथुने” इति स्मृतिः । अग्न्याधाने हि सपत्नीकस्यैवाधि-
कार इति तस्य तत्साध्यत्वम् । २ स्त्रीपुंससङ्गमरूपे
ग्राम्यधर्मे च अमरः ।

मैनाक पु० मेनकायां भवः अण् । हिमासयसुते पर्वतभेदे जटा० ।

मैरेय न० मिरायां देशभेदे ओषधिमेदे वा भवं ढक् । मिरा

देशजाते १ आसवे “मैयेयं धातकीपुष्पगुड़धानाम्लसम्भवम्”
माधवोक्ते २ मद्यभेदे च न० ।

मोक्ष क्षेपे वा चु० उम० पक्षे भ्वा० पर० सक० सेट् ।

मोक्षयति ते मोक्षति अमुमोक्षत् त अमोक्षीत् ।

मोक्ष पु० मोक्ष--घञ् । १ अपवर्गे २ मोचने “नीविमोक्षोहि

मोक्षः” सा० द० । ३ पाटलिवृक्षे मेदि० । ४ मरणे हेमच० ।

मोघ त्रि० मुह--घ अच् वा कुत्वम् । १ निरर्थके अमरः २ हीने

३ पाटलावृक्षे मेदि० ४ विड़ङ्गे च स्त्री हेम० ५ प्राचीरे
पु० शब्दमा० ।

मोघपुष्पा स्त्री मोघं पुष्पमार्त्तवं यस्याः । बन्ध्यायां स्त्रियाम् राजनि० ।

मोच न० मुच--अच् । १ कदलीफले २ शोभाञ्जने पु० अमरः ।

३ कदल्यां ४ शाल्मलिवृक्षे ५ नीलीवृक्षे, च स्त्री मेदि०
टाप् ।

मोचक पु० मुच--ण्वुल् । १ मोक्षे २ कदल्यां ३ शोभाञ्जने

च ४ वैराग्यवति त्रि० हेमच० ५ मुष्ककवृक्षे राजनि० ।

मोचन न० मुच--णिच्--वा भावे ल्युट् । १ मुक्तौ २ मोचने

दम्भे ४ शाट्ये च । मुच्यते रोगात् अनया मुच--करणे
ल्युट् । ५ कण्टकार्य्याम् स्त्री जटा० ङीप् ।

मोचरस पु० ६ त० । शाल्मलिनिर्यापे स्वनामख्याते पदार्थे राजनि० ।

मोचाट पु० मुच--णिच्--अच् मोचाय रोगमोचनाय अटति

अट--अच् । १ कृष्णजीरके २ रम्भास्थ्नि ३ मलयोद्भवे च मेदि०

मोटक न० मुट--ण्वुल् । श्राद्धे पितृदानार्थं १ मुग्नकुशपत्त्र-

द्वये २ रागिणीभेदे स्त्री हला० ङीप् ।

मोटा स्त्री मुट--अच् । बलायाम् राजनि० ।

मोट्टायित न० “कान्तस्मरणवार्त्तादौ हृदि तद्भावभावतः ।

प्राकट्यमभिलाषस्य मोट्टायितमुदीर्य्यते” उज्ज्वमण्युक्ते
स्त्रीणामभिलाषभेदे ।

मोद पु० मुद--घञ् । हर्षे शब्दर० ।

मोदक पु० मोदयति मुद--णिच्--ण्वुल् । १ खाद्यभेदे (मोया)

अमरः । शूद्रायां क्षत्रियाज्जाते २ वर्णसङ्करजातिभेदे
(मयरा) स्मृतिः ।

मोदमोदिनी स्त्री मोद इव मोदयति मुद--णिनि । जम्ब्वाम् राजनि० ।

मोदयन्ती स्त्री मुद--णिच्--शतृ ङीप् । वनमल्लिकायाम्

(काठमल्लिका) शब्दर० ।

मोदा स्त्री मोदयति अजान् मुद--णिच् अच् । अजमोदायाम् राजनि० ।

मोदाढ्या स्त्री मोदः अजमोदस्तेनाद्या । १ अजमोदायाम्

२ हर्षयुक्ते त्रि० राजनि० ।
पृष्ठ ४७६६

मोदिनी स्त्री मोदयति मुद णिच्--णिनि । १ अजमोदायाम्

२ मल्लिकायाम् ३ यूथिकायां ४ कस्तूर्य्यां ५ मदिरायाञ्च
राजनि० ।

मोरट न० मुर--अटन् । १ इक्षुमूले, २ अङ्कोटपुष्पे ३ सप्त-

रात्रोषितक्षीरे च मेदि० । ४ मूर्वालतायां स्त्री अमरः ।
५ क्षीरमोरटायां पु० राजनि० ।

मोषक पु० मुष्णाति मुष--ण्वुल् । तस्करे चौरे अमरः ।

मोषण न० मुष--ल्युट् । १ लुण्ठने २ छेदने, ३ वधे च ।

मोह पु० मुह--घञ् । १ मूर्च्छायाम् भ्रान्तिसाधने २ अज्ञाने

मेदि० ३ वेदान्तोक्ते अविद्यावृत्तिभेदे ३ दुःखे शब्दर०
४ देहादिष्वात्माभिमाने च ।

मोहन पु० मोहयति मुह--णिच्--ल्यु । १ धुस्तूरे राजनि०

कन्दर्पस्य २ शरभेदे च त्रिका० । ३ मोहकारके त्रि०
स्त्रियां टाप् । सा च ४ त्रिपुरमालीपुष्पे रत्नमा० । ५
मरुन्मायां शब्दमा० । ६ उपोदक्यां स्त्री राजनि० । ७ वटपत्र्यां
भावप्र० उभयत्र गौरा० ङीष् ।

मोहरात्रि स्त्री ब्रह्मणो निजपरिमाणेन पञ्चाशदव्दे गते

प्रलयभेदे “कालरात्रिर्महारात्रिर्मोहरात्रिश्च” चण्डी

मोहिनी स्त्री मुह--णिनि । १ अप्सरीभेदे यस्याः शापात्

ब्रह्मणोऽपूज्यत्वं तत्कथा ब्रह्मवै० ज० ख० ३३ अ० ।
अमृतमन्थनकाले दैत्यानां मोहनाय स्त्रीरूपिणि
भगवदवतारभेदे च ।

मौक्तिक न० मुक्तैव स्वार्थे ठक् । मुक्तायाम् अमरः ।

मौक्तिकप्रसवा स्त्री मौक्तिकं प्रसूते प्र + सू--अच् । मुक्ता-

स्फोटे शुक्तौ राजनि० ।

मौक्तिकशुक्ति स्त्री ६ त० । मुक्तास्फोटे शुक्तौ राजनि० ।

मौञ्जी स्त्री मुञ्जस्येयम् अण् । कटिसूत्रे त्रिरावृत्तमुञ्जकृतायां

मेखलायाम् मनुः ।

मौञ्जीपत्त्री स्त्री मौञ्ज्याइव पत्रमस्याः । वल्वजायाम् राजनि० ।

मौञ्जीबन्ध पु० मौञ्ज्या मेखलाया वन्धोयत्र । १ उपनयन-

सस्कारे “मौञ्जीबन्धः शुभः प्राक्तश्चैत्रे मीनगते
रवापि” ति ज्यो० । ल्युट् मौञ्जीबन्धन तत्रार्थे न० ।
“द्विठीयं मौञ्जीबन्धनम्” मनुः । ६ त० । २ तद्बन्धने च ।

मौढ्य न० मूढ़स्य भावः ष्यञ । १ मोहे हेम० २ बाल्ये च ।

मौद्गल्य पु० मुद्गलस्य मुनेर्गोत्रापत्यं गर्गा० यञ् । सुद्गल

गोत्रापत्ये मुनिभेदे ।

मौद्गीन न० मुद्गानां भवनं क्षेत्रं खञ् । मुद्गभवनेयोग्ये क्षेत्रे अमरः ।

मौन न० मुनेर्भावः । वाग्व्यापारराहित्ये “उच्चारे

मैथुने चैव प्रस्नावे दन्तधावने । स्नाने भोजनकाले च
षट्सु मौनं समाचरेत्” इति स्मृतिः ।

मौनिन् त्रि० मौनमस्त्यस्व इनि । १ वाग्व्यापाररहिते ।

२ मुनौ पु० जटा० ।

मौनेय पु० मुनेः कश्यपपत्नीभेदस्यापत्यम् ढक् । गन्धर्वभेदे राजनि० ।

मौरजिक त्रि० मुरजस्तद्वादनं शिल्पमस्य ठक् । मृदङ्क-

वादनशीले अमरः ।

मौर्ख्य न० मूर्खस्य भावः ष्यञ् । १ जाड्ये हेमच० ३ मूर्खतायाञ्च

मौर्वी स्त्री मूर्वा लता तत्तन्तुना निर्वृत्ता अण् । १ धनुर्गुणे

अमरः । २ अजशृङ्ग्याञ्च रत्नमा० ।

मौल त्रि० भूलं वेत्ति मूलादागतो वाऽण् । भूम्यादेरागमादि-

मूलज्ञे, “यं परम्परया मौलाः सामन्ताः स्वामिनं विदु”
रिति स्मृतिः २ मूलादागते च ।

मौलि पुंस्त्री० मूलस्यादूरभवः इञ् । १ चूड़ायां २ किरीटे

३ संयतकेशेषु अमरः ४ मस्तके हेमच० । ५ अशोकवृक्षे
पु० । ६ भूमौ स्त्री मेदि० वा ङीप् ।

मौषल न० मुषलस्येदम् तत्सदृशं वाऽण् । १ मुषलसम्बन्धिनि

२ मुषलतुल्यनिश्चेष्टे “गङ्गायां मौषलं स्नानं महापातक-
नाशनम्” इति पुराणम् । मुषलमधिकृत्य कृतो ग्रन्थः
अण् । महाभारतान्तर्गते “मुषलं कुलनाशनम्”
इत्यादिप्रतिपादके षोड़शे ३ पर्वणि ।

मौहूर्त्त पु० मुहूर्त्तं तत्प्रतिपादकं शास्त्रं वेत्त्यधीते

वाऽण् । ज्योतिःशास्त्रज्ञे । ठक् । मौहूर्त्तिक तत्रैव
अमरः ।

म्रा अभ्यासे भ्वा० पर० सक० सेट् । मनति अम्नासीत् मम्नौ ।

म्रक्ष संयोजने स्नेहने च चु० उभ० सक० सेट् । म्रक्षयति ते

अमम्रक्षत् त ।

म्रक्ष संघाते अक० संयोजने सक० भ्वा० पर० सेट् । म्रक्षति अम्रक्षीत् ।

म्रक्षण न० म्रक्ष--भावे ल्युट् । १ संयौजने २ राशीकरणे ३ तैले

हेमच० ।

म्रद क्षोदे भ्वा० आ० सक० सेट् । म्रदते अम्रदिष्ट । घटा०

म्रदयति । षित् अङ् म्रदा ।

म्रदिमन् पु० मृदोर्भावः मृदु + इमनिच् डित् ऋतोरः । मृदुत्वे ।

म्रदिष्ठ त्रि० अतिशयेन मृदुः इष्ठन् डित् ऋतोरः । अतिमृदु-

त्ववति । ईयसुन् । म्रदीयस् तत्रार्थे त्रि० स्त्रियां ङीप् ।

म्रुच गतौ भ्वा० पर० सक० सेट् । म्रोचति इरित् अम्रुचत्

अम्रोचीत् मुम्रोच । उदित् क्त्वा वेट् ।

म्रुन्च गतौ सर्वं म्रुचवत् । म्रुञ्चति अम्रुचत् अम्नुञ्चीत् ।

पृष्ठ ४७६७

म्रेट(ड) उन्मादे भ्वा० पर० सक० सेट् । म्रेट(ड)ति

अम्रेटी(डी)त् । ऋदित् चङि न ह्रस्वः ।

म्लक्ष चु० म्रक्षबत् सर्वम् । म्लक्षयति ते । अमम्लक्षत् त ।

म्लान त्रि० म्लै कान्तिक्षये--क्त तस्य नः । १ मलिने हेमच०

२ म्लानियुक्ते च ।

म्लानि स्त्री म्लै--क्तिन् । कान्तिक्षये ।

म्लिष्ट न० म्लेच्छ--क्त नि० । १ अविस्पष्टवाक्ये २ तद्वाक्ययुक्ते ३ म्लाने च त्रि० मेदि०

म्लुच गतौ भ्वा० पर० सक० सेट् । म्लोचति । इरित् अम्लु चत्

अम्लोचीत् । उदित् क्त्वा वेट् ।

म्लुन्च गतौ म्लुचवत् सर्वम् । म्लुञ्चति अम्लुचत् अम्लुञ्चीत्

म्लेच्छ अपशब्दे वा चु० उभ० पक्षे भ्वा० पर० अक०

सेट् । म्लेच्छयति ते म्लेच्छति अमम्लेच्छत् त अम्लेच्छीत्

म्लेच्छ पु० म्लेच्छ--घञ् । १ अपशब्दे “म्लेच्छोह वा नाम

यदप्रशब्द” इति श्रुतिः । कर्त्तरि अच् । २ पामरजातौ,
३ नीचजातौ च पुंस्त्री० स्त्रियां ङीष् “गोमांसखादको
यस्तु विरुद्धं बहु भाषते । सर्चाचारविहीनश्च म्लेच्छ
इत्यभिधीयते” बौधायनः । ४ पापरते त्रि० मेदि० ।
५ हिङ्गुले न० राजनि० ।

म्लेच्छकन्द पु० म्लेच्छप्रियः कन्दः शा० त० । लशुने राजनि०

म्लेच्छजाति स्त्री म्लेच्छाभिधा जातिः । गोमांसादिभक्षके

किरातादिजातिभेदे अमरः ।

म्लेच्छदेश पु० म्लेच्छाधारो देशः । चातुर्वर्ण्याचाररहिते

देशे अमरः । “चातुर्वर्ण्यव्यवस्थानं यस्मिन् देशे न
विद्यते । म्लेच्छदेशः स विज्ञेय आर्य्यावर्त्तस्ततःपरम्” ।

म्लेच्छभोजन न० म्लेच्छैर्भुज्यते भुज--कर्मणि ल्युट् ।

१ यावके अन्नभेदे शब्दर० । २ गोधूमे पु० त्रिका० ।

म्लेच्छमण्डल न० ६ त० । म्लेच्छदेशे हेमच० ।

म्लेच्छमुख न० म्लेच्छानां मुखमिव रक्तत्वात् । ताम्रे अमरः ।

म्लेच्छास्यमप्यत्र हारा० ।

म्लेच्छित न० म्लेच्छ--क्त । अपशब्दे असंस्कृतशब्दे हारा० ।

म्लेट(ड) उन्मादे भ्वा० पर० सक० सेट् । म्लेट(ड) ति

अम्लेटी(डी)त् । ऋदित् चङि न ह्रस्वः ।

म्लेव सेवने भ्वा० आ० सक० सेट् । म्लेवते अम्लेविष्ट ।

ऋदित् चङि न ह्रस्वः ।

म्लै कान्तिक्षये भ्वा० पर० सक० अनिट् । म्लायति म्लासीत् मम्लौ म्लानः म्रानिः ।

इति श्रीतारानाथतर्कवाचस्पतिभट्टाचार्य्यसङ्कलिते
वाचस्पत्ये मकारादिशब्दार्थसङ्कलनम् ।
"https://sa.wikisource.org/w/index.php?title=वाचस्पत्यम्/महाधातु&oldid=57835" इत्यस्माद् प्रतिप्राप्तम्