← वाचस्पत्यम्/य वाचस्पत्यम्/व
तारानाथ भट्टाचार्य
वाचस्पत्यम्/श →
पृष्ठ ४८३७

वकारः व्यञ्जनवर्णभेदः । स च स्पर्शोष्मवर्णयोरन्तःस्थितत्वात्

अन्तःस्थवर्णभेदः अस्योच्चारणस्थानं दन्तोष्टौ “दन्त्याष्ठ्यो
वः स्मृतो बुधैः” शिक्षोक्तेः । अस्योच्चारणे जिह्वा-
ग्रेण दन्तौष्ठयोरीषत्स्पर्शात् ईषत्स्पृष्टता आभ्यन्तर-
प्रयत्नः । बाह्यप्रयत्नाश्चास्य विवारनादघोषा अल्पप्राणश्च ।
अस्य दन्त्यौष्ठ्यत्वात् दन्त्यत्वं क्वचिच्च ओष्ठ्यत्वमाश्रित्य
कार्य्यभेदस्तेन संवुपूर्षतीत्यादौ ओष्ठ्यत्वमाश्रित्य लः
अणपरः । दन्त्यत्वमाश्रित्य च अनुस्वारस्थाने अनुनासिको
बो वा पक्षे अनुस्वारस्थितिः । अस्य मातृकान्यासे
वामस्कन्धे न्यस्यता । काव्यादौ प्रयोगे “व्यसनमथ लवौ” वृ०
र० टी० उक्तेः व्यसनं फलम् । वर्णाभिधाने अस्य वा०
चकशब्दा उक्ता यथा “वो वाणो वारुणी सूक्ष्मा
वरुणो मेदसंज्ञकः । खड्गीशो ज्वालिनी वक्त्रं कलसो
वारिवाचकः । उत्कारी शालिनी शान्ता वातः स्फिक
सागरः शुचिः । इन्द्रधारा च वामांसः करमूलं
च नर्त्तकः । जगद्भाषी सारिणी च देवोऽलिङ्गोऽनिरुद्धकः ।
गिरिराजो निवृत्तात्मा व्यङ्कद्या निन्दिनी करः” अस्य
ध्येयस्वरूपं यथा “वकारं चञ्चलापाङ्गि! कुण्डली
मोक्षमव्ययम । पञ्चप्राणमयं वर्णं त्रिशक्तिसहितं सदा ।
त्रिविन्दुसहितं वर्णमात्मादतत्त्वसंयुतम् । पञ्चदेवमयं
वृर्णं पीतविद्युल्लतोपमम् । चतुर्वर्गप्रदं वर्णं सर्वसिद्धि-
प्रदायकम्” कामधेनुत० “अस्याधिष्ठातृध्येयरूपं यथा “कुन्द-
पुष्पप्रभां देवीं द्विभुजां पङ्कजेक्षणाम् । शुक्लमाल्याम्बर-
धरां रत्नहारोज्ज्वलां पराम् । साधकाभीष्टदां सिद्धा
सिद्धिदां सिद्धसेविताम् । एवं ध्यात्वा वकारं तु तन्मन्त्रं
दशधा जपेत्” वर्णोद्धारतन्त्रम् ।

पु० वा--ड । १ वायौ २ वरुणे ३ सान्त्वने ४ मन्त्रणे मेदि०

५ राहौ ६ कल्याणे ७ बलवति ८ वसतौ ९ समुद्रे च शब्द-
च० १० व्याघ्रे० ११ वसने १३ शालूके १३ वन्दने च एकाक्षर-
को० । १४ सादृश्ये अव्य० मेदि० “शात्रवं व यशः पपुः”
रघुः । १५ वरुणे न० मेदि० । १६ वरुणवीजे मान्तमव्यवम् ।

वंश पु० वमति उद्गिरति वम--श तस्य नेत्त्वम् । १ पुत्रपौत्रा-

द्यपत्यवर्गे २ तृणजातिभेदे (वाँश) अमरः ।
“वंशः सरो हिमः स्वादुः कषायो वस्तिशोधनः ।
छेदनः कफपित्तघ्नः कुष्ठास्रव्रणशोथजित् । तत्करीरः
कटुः पाकरसे रूक्षो गुरुः सरः । कषायः कफकृत्
स्वादुर्विदाही वातपित्तलः । तद्यवास्तु सरा रूक्षाः
कषायाः कटुपाकिनः । वातपित्तकरा उष्णा बद्धमूत्राः
कफापहाः” भावप्र० । ३ पृष्ठावयवे ४ वर्गे च मेदि०
५ इक्षौ ६ सालवृक्षे च राजनि० । ७ वाद्यभेदे पुंस्त्री०
धरणिः स्त्रीत्वे गौरा० ङीष् “वंशीकलेन वडिशेन”
इति वृन्दावनचम्पूः । तद्विवृतिर्यथा
“तालेन राजते गीतं तालो वादित्रसम्भवः । गरीय-
स्तेन वादित्रं तच्चतुर्विधमुच्यते । ततं शुषिरमानद्धं
घनमित्थं चतुर्विधम् । ततं तन्त्रीगतं वाद्यं वंशाद्यं
शुषिरं तथा । चर्मावनद्धमानद्धं घनं तालादिकं
मतम्” । तत्र शुषिरं यथा “वंशोऽथ पारी मधुरी
तित्तिरी शङ्खबाहुला । तोड़ही मुरली वुक्का शृङ्गिका
स्वरनाभयः । शृङ्गं कापालिकं वंशश्चर्मवंशस्तथा परः ।
एते शुषिरभेदास्तु कथिताः पूर्वसूरिभिः । वर्त्तुलः
सरलश्चैव प्रर्वदोषविवर्जितः । वैणवः खादिरो वापि
रक्तचन्दनजोऽथ वा । श्रीखण्डजोऽथ सौवर्णो दन्ति-
दन्तमयोऽपि वा । राजतस्ताम्रजो वापि लौहजः
स्फाटिकोऽथ वा । कनिष्ठाङ्गुलितुल्येन गर्भरन्ध्रेण
शोभितः । शिल्पविद्याप्रवीणेन वंशःकार्य्यो मनोहर ।
वंशेनैव मतःप्रीतिः मतङ्गमुनिनोदितम । ततोऽन्येऽपि
तदाकारा वंशा एव प्रकीर्त्तिताः । तत्र त्यक्त्वा शिरो-
देशादधोद्विमितमङ्गुलम् । फुत्काररन्ध्र कुर्वीत
मितमङ्गुलिपर्वणा । पञ्च ङ्गुलानि संत्यज्य ताररन्ध्राणि
कारयेत् । कुर्य्यात्तथान्यरन्ध्राणि सप्तसंख्यानि कौशलात् ।
बदरीवीजतुल्यानि संत्यज्यार्द्धार्द्धमङ्गुलम् । प्रान्तयो-
बन्धनं कार्य्यं स्वराद्यैर्नादहेतवे । सिक्थकेन कला देया
तेन सुस्वरता भवेत् । पञ्चाङ्गुलोऽयं वंशः स्यादेकैका-
ङ्गुलिवृद्धितः । षड़ङ्गुलानि नाम्ना स्यात् यावदष्टादशा-
ङ्गुलम् । फुत्कारताररन्ध्रस्य यावदङ्गुलिमन्तरम् । तदेव
नाम वंशस्य वांशिकैः परिकीर्त्त्यते । एकाङ्गुलोद्व्यङ्गुलश्च
त्र्यङ्गुलश्चतुरङ्गुलः । अतितारतरत्वेन वांशिकैः समुपे-
क्षितः । त्रयोदशाङ्गुलो वंशोऽपरः पञ्चदशाङ्गुलः ।
निन्दितो वंशतत्त्वज्ञैस्तथा सप्तदशाङ्गुलः । महानन्दस्तथा-
नन्दो विजयोऽथ जयस्तथा । चत्वार उत्तमा वंशा मतङ्ग
मुनिसम्मताः । दशाङ्गुलो महानन्दोनन्द एकादशा-
ङ्गुलः । दृदशाङ्गुलमानस्तु विजयः परिकीर्त्तितः ।
चतुर्दशाङ्गुलमितो जय इत्यभिधीयते । ब्रह्मा रुद्रो
रविर्विष्णुः क्रमादत्र व्यवस्थिताः । नैविड्यं प्रौढ़ता-
चापि मुस्वरत्वञ्च शीघ्रता । माधुर्य्यमिति पञ्चामी फुत्-
कृतेषु गुणाः स्मृताः । शीत्कारबहुलः स्तब्धो विस्यरः
स्फुटितो लघुः । अमधुरश्च विज्ञेयाः षड्दोषाः फुत्कृते
क्रमात् । वृथा प्रयोगबाहुल्यमल्पता गीतवादने ।
एभिर्दोषैर्युतोऽतीव निन्दितो वांशिको मतः । स्थानका
दिनयाभिज्ञोगमकाढ्यः स्फुटाक्षरः । शीघ्रहस्तः
कलाभिज्ञो वांशिको रक्त उच्यते । प्रमुक्तिर्वद्धमुक्तिश्च
युक्तिश्चेत्यङ्गुले गुणाः । सुस्थानत्वं सुस्वरत्वमङ्गुली-
सारणक्रिया । समस्तगमकज्ञानं रागरागाङ्गवेदिता ।
क्रियाभाषाविभाषासु दक्षता गीतवादने । स्वस्थाने
चापि दुःस्थाने नादनिर्माणकौशलम् । गातॄणां स्थान-
दातृत्वं तद्दोषाच्छादनं तथा । वांशिकस्य गुणा एते
मया संक्षिप्य दर्शिताः” सङ्गीतदा० ।

वंशक पु० वंश इव कायति कै--क । (सोमशाडा) १ इक्षुभेदे

रत्नमा० २ मत्स्यभेदे (राउत) शब्दमा० । ३ अगुरुचन्दने
न० हारा० ।

वंशकर्पूररोचना स्त्री कर्पूरमिव रोचते रुच--ल्यु ६ त० । वंशरोचनायाम् राजनि० ।

वंशक्षीरी स्त्री वंशस्य क्षोरमिवास्त्यस्या अच् गौरा० ङीष् ।

वंशरोचनायाम् राजनि० ।

वंशज पु० वंशात् जायते जन--ड । १ वंशवृक्षजाते यवाकारे

वेणुयवे राजनि० २ सत्कुलजाते त्रि० । ३ वंशरोचनायां
स्त्री टाप् शब्दर० ।

वंशतण्डुल पु० ६ त० । वेणुजाते तण्डुलाकारे वेणुयवे राजनि० ।

वंशधर त्रि० वंशं धरति । कुलाविच्छेदकारके सन्ताने ।

वृध--णिच् ल्यु । वंशवर्द्धनीऽप्यत्र ।

वंशनेत्र न० वंशस्येव नेत्रमस्य । इक्षुमूले राजनि० ।

पृष्ठ ४८३८

वंशपत्त्र पु० वंशस्य पत्त्रमिव पत्त्रमस्य । १ नलनामके तृणे

राजनि० । १ त० । २ वंशदले न० । कप तत्रैव । ३ नाड़ी-
हिङ्गौ स्त्री राजनि० गौरा० ङीष् ।

वंशपत्त्रपतित न० सप्तदशाक्षरपादके छन्दोभेदे । “दिङ्

मुनि वंशपत्रपतितं भरनभननगेः” छन्दो० ।

वंशपीत पु० वंशस्तत्पत्त्रमिव पीतः । कणगुग्गुलौ राजनि० ।

वंशपुष्पा स्त्री वशस्य पुष्पमिव पुष्पमस्याः । सहदेवीलता-

याम् राजनि० ।

वंशपूरक न० वंशस्येव पूरकं यस्य । इक्षुमूले राजनि० ।

वंशरो(लो)चना स्त्री वंशेषु रोचते रुच--ल्यु वा रस्य लः ।

वंशपर्वस्थिते श्वेतवर्णे कर्पूराकारे द्रव्ये । (वंशलोचन) ।
“वंशजा वृंहणी वृष्या बल्या स्वाद्वी च शीतला ।
तृष्णाकासज्वरश्वासक्षयपित्तास्रकामलाः । हरेत् कुष्ठं
प्रणं पाण्डुं कषायवातकृच्छ्रजित् भावप्र० ।

वंशशर्करा स्त्री वंशस्य शर्करेव । (वंशलोचन) पदार्थे

राजनि० ।

वंशशलाका स्त्री० वंशस्य शलाकेव कठिनत्वात् । वीरणमूले हेमच० ।

वंशस्तनित न० । द्वादशाक्षरपादके वंशस्थबिलापरपर्य्याये

छन्दोभेदे शम्भः ।

वंशस्थबिल न० । द्वादशाक्षरपादके छन्दोभेदे । “वदन्ति वंशस्थबिलं जतौ जरौ” छन्दो०

वंशाग्र न० वंशस्य अग्रं मूलम् । वंशाङ्कुरे (क्ॐड़) राजनि०

वंशाङ्कुर पु० ६ त० । (क्ॐड़) इति ख्याते पदार्थे राजनि०

वंशिक न० वंशोऽस्त्यस्य ठन् वंश इव वा कन् । १ अगुरु-

चन्दने अमरः २ वंश्यां स्त्री शब्दच० टाक् ।

वंशीधर पु० वंशीं वंशजवाद्यभेदं धरति धृ--अच् । श्रीकृष्णे

वंश्य त्रि० वंशे सत्कुले जातः यत् । सत्कुलजाते ।

वक कौटिल्ये अक० गतौ सक० भ्वा० आ० सेट् इदित् । वङ्कते

अवङ्किष्ट ।

वक पुंस्त्री० वकि--अच् पृषो० नलोपः । स्वनामख्याते

विहगे अमरः स्त्रियां ङीष् । २ स्वनामख्याते पुष्पवृक्षे
“अगस्तिकुसुमं शीतं चातुर्थकनिवारकम् । नक्तान्ध्यनाशनं
तिक्तं कषायं कटुपाकि च । पीनसश्लेष्मपित्तघ्नं वातघ्नं
मुनिमिर्मतम्” भावप्र० । ३ औषधादिपाचनयन्त्रभेदे
“जलकच्छपपातालदोलाभूधरवालुकाः । वकाद्या यन्त्रभेदाः
स्युर्वज्रन्ध्वाद्याश्च मूषिकाः” शब्दच० । अस्य लक्षणं यथा
“दीर्घकण्ठकाचकुप्या गिलयेत् खल्पभाण्डकम् । तिर्य्यक्
कृत्वा पचेत् चुल्ल्यां वकयन्त्रमिति स्मृतम् ।” वैद्यकम् ।
३ कुवेरे ४ राक्षसभेदे मेदि० यो भीमेन हतः भा० व० १४
अ० । श्रीकृष्णैन हते दैत्यभेदे च भाग० १० । ११ अ० ।

वकजित् पु० वकं जितवान् जि--क्विप् ६ त० । १ श्रीकृष्णे

२ भामसेने च वकान्तकादयोऽप्यत्र ।

वकधूप पु० वक इव शुभ्रो धूपः । वृकधूपे अमरः ।

वकपञ्चक न० । कार्त्तिकशुक्लपक्षस्यैकादश्यादितिथिपञ्चके ।

तत्र मत्स्यादवकैरपि मत्स्यत्यागेन व्रताचरणात् तथात्वम्

वकपुष्प पु० वक इव कुटिलं पुष्पमस्य । स्वनामख्याते पुष्प-

वृक्षे शब्दच० ।

वकवृत्ति पु० वकस्येव स्वार्थपरा वृत्तिश्चेष्टा यस्य । “अर्वाग्-

वृष्टिर्नैकृतिकः स्वार्थसाधनतत्परः । शठो मिथ्याविनीतश्च
वकवृत्तिरुदाहृतः” इत्युक्तलक्षणे परवञ्चके जने ।

वकव्रतपर पु० वक इव व्रतं धारयति धृ--अच् । “अधो-

दृष्टिर्नैकृतिकः स्वार्थसाधनतत्परः । शठो मिथ्याविनी-
तश्च वकव्रतधरो द्विजः” इत्युक्ते स्वार्थसाधनतत्परे
वञ्चके विप्रादौ ।

वकव्रतिन्(क) पु० वकव्रत + अस्त्यर्थे इनि ठन् वा । वकव्रतधरे ।

वकुल पु० वकि--कुलच् नलोपः । १ स्वनामख्याते पुष्पवृक्षे

अमरः । २ कटुकायां स्त्री राजनि० टाप् । काकोल्यां
ङीप् पृषो० । वकूलोऽपि वकुले पु० ।
“वकुलो मधुगन्धश्च सिंहकेसरकस्तथा । वकुलस्तुवरोऽ-
नुष्णः कटुः पाके रसे गुरुः । कफपित्तविषश्वित्रि कृमि-
दन्तगदापहः” भावप्र० । अस्य ओष्ठ्यादित्वमिच्छन्त्यन्ये ।

वक्क गतौ भ्वा० आत्म० सक० सेट् । वक्कते अवक्किष्ट ।

वक्तव्य त्रि० वच--तव्य । १ कुत्सिते २ हीने ३ दुष्टे च मेदि०

“दिवा वक्तव्यता पाले” स्मृतिः । ४ कथनीये च । भावे
क्त । ५ कथने ६ दूषणे च न० ।

वक्तृ त्रि० उचितं बहु वक्ति वच--तृच् । १ उचितबहुवादिनि

अमरः स्त्रियां ङीप् । २ पण्डिते पु० मेदि० ।

वक्त्र न० वक्त्यऽनेन वच--करणे ष्ट्रन् । १ मुखे अमरः ।

२ तगरमूले शब्दर० । ३ वसनभेदे मेदि० । वक्त्रं “नाद्या-
न्नसौ स्यातामब्धेर्योऽनुष्टुभि ख्यातम्” वृ० र० उक्ते
४ छन्दोभेदे च ।

वक्त्रभेदिन् पु० वक्त्रं भिनत्ति मिद--णिनि । १ तिक्तरसे

हेमच० । २ मुखविदारके त्रि० स्त्रियां ङीप् ।

वक्त्रवास पु० वक्त्रं वासयति सुरभीकरोति वासि--अण् उप०

स० । १ नागरङ्गे हेमच० । ६ त० २ मुखगन्धे पु० ।

वक्त्रशोधिन् पु० वक्त्रं शोधयति शुध--णिच्--णिनि ।

१ जम्बीरे २ मुखशोधके ३ ताम्बूलादौ त्रि० स्त्रियां ङीप् ।
पृष्ठ ४८३९

वक्त्रासव पु० वक्त्रस्यासव इव । अधररसे विका० ।

वक्र न० वकि--रन् पृषो० नलोपः । १ नदीवङ्के अमरः

२ शनैश्चरे पु० मेदि० ३ मङ्गलग्रहे पु० हेम० ४ रुद्रे ५ त्रि-
पुरासुरे पु० धरणिः ६ पर्वटे कुटिलगतौ च स्त्री । ८ तद्वति
त्रि० । ग्रहाणां वक्रगतिकारणं खगगतिशब्दे उक्तम् ।
सामान्यतः ज्यो० त० उक्तं यथा “वक्राः स्युः पञ्च
षष्ठेऽर्के अतिवक्रा नगाष्टगे । नवमे दशमे चैव जायते
सहजा गतिः । द्वादशैकादशे सूर्य्ये भजन्ते शीघ्रतां
पुनः । रविस्थित्यंशकत्रिंशावधेः संख्यात्र कल्प्यते ।
न तु राश्यन्तरस्पर्शात् पञ्चमादिनिरूपणम् । राहुकेतू
सदा वक्रौ” ।

वक्रकण्ट पु० वक्रः कुटिलः कण्टः कण्टकोऽस्य । वदरवृक्षे

राजनि० । ततः संज्ञायां कन् । खदिरवृक्षे राजनि० ।

वक्रखड्ग पु० कर्म० । करवाले राजनि० ।

वक्रग्रीव पुंस्त्री० वक्रा ग्रीवा यस्य । १ उष्ट्रे त्रिका० स्त्रियां

ङीष् । ३ कुटिलग्रीवायुते त्रि० स्त्रियां टाप् ।

वक्रपुच्छ पुंस्त्री० वक्रं पुच्छं यस्य । १ कुक्कुरे त्रिका० स्त्रियां

ङीष् । वक्रलाङ्गूलादयोऽप्यत्र ।

वक्रपुष्प न० वक्राणि पुष्पाण्यस्य । १ वकवृक्षं शब्दर०

२ पलाशवृक्षे च राजनि० ।

वक्रशल्या स्त्री वक्रं शल्यमिव पत्त्रादि यस्याः । कुटुम्बिनीवृक्षे राजनि० ।

वक्राङ्ग पुंस्त्री० वक्राण्यङ्गान्यस्य । १ हंसे स्त्रियां ङीष् ।

२ कुटिलावयवयुते त्रि० स्त्रियां वा ङीप् । कर्म०
३ कुटिले देहे न० ।

वक्रिमन् पु० वक्रस्य भावः इमनिच् । कौटिल्ये “वशितवक्रिम

प्रेक्षितम्” मालतीमाधवम् । पृषो० । अदन्तोऽप्यत्र ।

वक्रोक्ति स्त्री कर्म० । १ कुटिलोक्तौ “अन्यस्यान्यार्थकं वाक्य-

मन्यथा योजयेद्यदि । अन्यः श्लेषेण काक्का वा सा
वक्रोक्तिस्ततो द्विधा” सा० द० उक्ते २ अर्थालङ्कारभेदे
३ काकुवचने च ।

वक्ष रोषे भ्वा० पर० सक० सेट् । वक्षति अवक्षीत् ।

वक्षस् न० वह--असुन् सुट् च । १ हृदये २ उरसि च अमरः ।

वक्षः(क्ष)स्थल न० वक्षःस्थलमिव वा विसर्गलोपः । प्रशस्त-

वक्षसि ।

वक्षोज पु० वक्षसि जायते जन--ड । १ स्तने “वक्षोजयोर्मन्दता” सा० द० ।

वक्षोरुह पु० वक्षसि रोहति रुह--क । स्तने त्रिका० ।

वख गतौ भ्वा० पर० सक० सेट् इदित् । वङ्खति अवङ्खीत्

अनिदप्ययम् वखति अवखीत् अवाखीत् ।

वग खञ्जे भ्वा० पर० अक० सेट् इदित् । वङ्गति अवङ्गीत् ।

वगाह पु० अव + गाह--घञ अवातो लोपः । अवगाहने ।

वघ गतौ निन्दायाम् आरम्भे च सक० जवे अक० भ्वा० आत्म०

सेट् इदित् । वङ्घते अवङ्घिष्ट ।

वङ्क पु० वकि--घञ् । १ नदीवक्रे भरतः । २ पल्ययने

(पालाभ) स्त्री त्रिका० टाप् ।

वङ्क्रि स्त्री वकि--रि । १ वार्श्वास्त्नि हेमच० । २ वाद्यभेदे

पुंन० उणादिको० । २ गृहदारुणि पुंन० सि० कौ० ।

वङ्ग न० वगि--अच् । धातुभेदे (राङ्) रङ्गशब्दे दृश्यम् ।

“रत्नाकारं समारभ्य ब्रह्मपुत्रान्तगं प्रिये! । वङ्गदेश इति
प्रोक्तः” उक्ते देशभेदे पु० ब० व० । ३ चन्द्रवंश्ये नृपभेदे पु०
गरु० १३ अ० । ४ वार्त्ताकौ ५ कार्पासे च पु० मेदि० ।

वङ्गज न० वङ्गात् धातोः जायते जन--ड । १ सिन्दूरे रत्नमा०

२ वङ्गदेशजाते त्रि० ।

वङ्गन पु० वगि--ल्यु । वार्त्ताकौ शब्दर० ।

वङ्गशुल्वज न० वङ्गशुल्वाभ्यां रङ्गताम्राभ्यां जायते जन--ड ।

रङ्गताम्रमिश्रितजाते कांस्ये धातौ हेमच० ।

वङ्गसेन पु० वङ्गमिव शुभ्रा सेना पुष्पमस्य । वकवृक्षे त्रिका०

वङ्गारि पु० ६ त० । हरिताले हेमच० तस्य वङ्गधातुजारणा-

त्तथात्वम् ।

वङ्क्षण पु० वक्ष--ल्युट् पृषो० गुम् । ऊरुसन्धो (कुच्की) अमरः

वच सन्देशे सक० कथने द्विक० चुरा० उभ० सेट् । वाचयति ते

वच कथने अदा० द्विक० पर० अनिट् । वक्ति । “न हि

वचिरन्तिपरः प्रयुज्यते” अभियुक्तोक्तेरस्मान्न अन्ति”
अवोचत् त । उवाच ऊचतुः वक्ता उक्तः ।
  • अमु + उक्तस्य पुनःकथने अनुवादे ।
  • निर् + अबवार्थकथने निरुक्तिः निर्वचनम् ।
  • प्र + प्रकर्षेण कथने वाख्यानार्थमुक्तस्य कथने प्रवचनम् ।

वचन न० वच--ल्युट् । १ कथने २ वाक्ये अमरः ३ शुण्ठ्याम्

शब्दच० कर्त्तरि ल्यु । व्याकरणोक्ते संख्यार्थके सुप्-
तिङस्वरूपे प्रत्यये च । “सदृशं त्रिषु लिङ्गेषु विभक्ति-
वचनेषु च” ।

वचनग्राहिन् त्रि० वचनं गृह्णाति तदनुसारेणाचरति ग्रहणिनि । वचने स्थिते वशीभूते अमरः ।

वचनीय त्रि० वच--अनीयर् । १ कथनीये २ निन्दनीये लोका-

पवादे न० “वचनीयमिदं व्यवस्थितम्” कुमारः ।

वचनेस्थित त्रि० वचने वाक्ये तदुपदिष्टाचारे तिष्ठति स्था-

क्त अलुक्स० । वाक्यप्रतिपालके वशीभूते अमरः ।

वचर पुंस्त्री० वच--अरन् । १ कुक्कुटे स्त्रियां ङीष् । २ शठे त्रि० मेदि-

पृष्ठ ४८४०

वचस् न० वच--म्रसुन् । वाक्ये वाक्पदार्थे अमरकोषः ।

वचसांपति पु० ६ त० अलुक्स० । वृहस्पतौ दीपिका ।

वचस्कर त्रि० वचः करोति कृ--अच् कस्कादि० । वाक्यप्रति-

पालके वश्ये ।

वचा स्त्री वच--अच् । (वच) इति ख्याते द्रव्ये ।

“वचोग्रगन्धा कदुका तिक्तोष्णा वान्तिवह्निकृत् ।
विबन्धाध्मानशूलघ्नी शकृन्मूत्रविशोधनी । अपस्मार-
कफोन्मादभूतजन्त्वनिलान् हरेत्” । (खुरासानी
वचा) । “पारसीकवचा शुक्ला प्रोक्ता हैमवतीति सव ।
हैमवत्युदिता तद्वत् शूलं हन्ति विशेषतः ।” अथ (महा-
भरी) वचा । यस्या लोके (कुलीवच इति) नामान्तरम् ।
“सुगन्धाप्यग्रगन्धा च विशेषात् कफकासनुत् । सुस्वरत्व-
करी रुच्या हृत्कण्ठमुखशोधिनी” । अपरा सुगन्धा
स्थूलग्रन्थिर्यस्या लोके महाभरा इति नास । “स्थूल-
ग्रन्थिः सुगन्धान्या ततो हीनगुणा स्मृता” । (सोप-
चीनीति) लोके प्रसिद्धा । तस्या गुणाः “द्वीपा-
न्तरवचा कद्वी तिक्तोष्णा वह्निदीप्तिकृत् । विवन्धाध्मान
शूलघ्नी शकृन्मूत्रविशोधनी । वातव्याधीनपस्मार-
मुन्मादत्नुवेदनाम् । व्यपोहति विशेषेण फिरङ्गामय
नाशिनी” भावप्र० ।

वज गतौ भ्वा० पर० सक० सेट् । वजति । अवाजीत्--अव-

जीत ववजतुः ।

वज शरसंस्कारे गतौ च चुरा० उभ० सक० सेट् । वाजयति ते अवीवजत् त ।

वज्र पुंन० वज--रन् । १ हीरके २ इन्द्रस्यास्त्रभेदे च । तच्च

दधीचिमुन्थस्थितो जातम् भाग० ५ । १० अ० उक्तम् २ ब्रालके
३ धात्याम् न० मेदि० ४ काञ्जिके जटा० ५ वज्रपुष्पे शब्दर० ।
६ लौहभेदे ७ अभ्रम्भेदे न० भावप्र० ज्योतिषोक्ते विष्कुम्भादिषु
सप्तविंशतौ योगेषु मध्ये पञ्चदशे योनभेदे च न० ।
९ कोकिलाक्षवृक्षे १० श्वेतकुशे पु० राजनि० । ११ श्रीकृष्णस्य
प्रपौत्रे यदुवंश्ये नृपभेदे च पु० भाग० । १२ सेहुण्डुकवृक्षे
भावप्र० । हीरकवज्रलक्षणादि वृ० स० ८० अ० उक्तं यथा
“रत्नानि बलाद्दैत्याद्दधीचितोऽन्ये वदन्ति जातानि ।
केचिद्भुवः स्वभावाद् वैचित्र्यं प्राहुरुपलानाम् ।
इत्युपक्रमे ।”
“वेण्वातटे विशुद्धं शिरीषकुसुमोपमं च कौशणकम् ।
सौराष्ट्रकमाताम्रं कृष्णं सौर्पारकं वज्रम् । पत्ताम्रं
हिमवति मतङ्गज वल्लपुष्पसङ्काशम् । आपीतं च
कलिङ्गे श्यामं पौण्ड्रेषु सम्भूतम् । ऐन्द्रं षडश्रि-
शुक्लं याम्यं सर्पास्यरूपमसितं च । कदलीकाण्डनिकाशं
वैष्णवमिति सर्वसंस्थानम् । वारुणमबलाग्रह्यापमं भवेत्
कर्णिकारपुष्पनिभम् । शृङ्गाटकसंस्थानं व्याघ्राक्षिनिभ
च हौतभुजम् । व्रायव्यं च यवोपममशोककुसुमप्रभं
समुद्दिष्टम । स्रोतः स्वनिः पकीर्णकमित्याकरसम्भव-
स्त्रिविधः । रक्तं पीतं च शुभ राजन्यानां सितं
द्विजातीनाम् । शैरीषं वैश्यानां शूद्राणां शस्यतेऽसि-
निभम् । सितसर्षपाष्टकं तण्डुलो भवेत्तण्डुलैस्तु
विंशत्या । द्वे लक्षे मूल्यं द्विद्व्यूनिते चैतत् ।
पादत्र्यंशार्धोनं त्रिभागपञ्चांशषोडशांशाश्च । भागश्च पञ्च-
विंशः शतिकः साहस्रिकश्चेति । सर्वद्रव्याभेद्यं लघ्व-
म्भसि तरति रश्मिवत् स्रिग्धम् । तडिदनलशक्रचापोपलं
च वज्रं हितायोक्तम । काकपदमक्षिकाकेशधातुयुक्तानि
शर्कराविद्धम् । द्विग्रणाश्रि दिग्धकलुषत्रस्तविशीर्णानि
न शुभानि । यानि च बुद्बुददलिताग्नचिपिटवासी-
फलप्रदीर्घाणि । सर्व्रेषां चैतेषां मूल्याद्धागोऽष्टमो
हानिः । वज्रं न किञ्चिदपि धारयितव्यमेके पुत्रार्थि-
नीभिरबलाभिरुशन्ति तज्ज्ञाः । शृङ्गाटकत्रिपुटधान्यक-
वतस्थितं यच्छ्रोणीनिभं च शुभदं तनयार्थिनीनाम् ।
स्वजनविभवजीवितक्षयं जनयति वज्रमनिष्टलक्षणम् ।
अशनिविषभयारिनाशनं शुभमुरुभोगकरं च मूभृताम् ।”
ह्नीरकोत्पत्त्यादि गारुड़े ६८ अ० उक्तं यथा
“तस्या(ब्रलस्या)स्थिलेशो निपपात येषु भुवः प्रदेशेषु
कथञ्चिदेव । वज्राणि वज्रायुधनिर्जिगीषोर्भवन्ति नाना-
कृतिमन्ति तेषु । हैसमातङ्गसौराष्ट्राः पौण्ड्रकालिङ्ग-
लोषलाः । वेण्वातटाः मसोवीरा वज्रस्याष्टाविहाकराः ।
आतामा हिमशैलजाश्च शशिभा वेण्वातटीयाः स्मृताः
सौवीरे तुषिताब्जमेघसदृशास्ताम्राश्च सौराष्ट्रजाः ।
कालिङ्गाः कनकावदातरुचिराः पीतप्रभाः कोषले
श्यामाः पुण्ड्रभवा मतङ्गविषये नात्यन्तपीतप्रभाः ।
अत्यर्थं लघुवर्णतश्च गुणवत् पार्श्वेषु सम्यक् समं रेखा-
विन्दुकलङ्ककाकपदकत्रासादिभिर्वर्जितम् । लोकेऽस्मिन्
परमाणुमात्रमपि यत् वज्रं क्वचिद्दृश्यते तस्मिन्
देव! समाश्रयो ह्यवितथस्तीक्ष्णाग्रधारं वदि ।
वज्रेषु वर्णयुक्त्या देवानामपि परिग्रहः प्रोक्तः ।
वर्णेभ्यश्च विभागः कार्य्यो वर्णाश्रयादेव! । हरित
पीतपिङ्गश्यामाताम्राः स्वभावतो रुचिराः ।
हरिवरुणशक्रहुतवहपितृपतिमरुतां स्वकावर्णाः । विप्रस्य
पृष्ठ ४८४१
शङ्खकुमुदस्फटिकावदातः स्यात् क्षत्त्रियस्य शशबभ्रु
विलोचनाभः । वैश्यस्य कान्तकदलीदलसन्निकाशः
शूद्रस्य धौतकरवालसमानदीप्तिः । द्वौ बज्रवर्णौ पृथिवी-
पतीनां सद्भिः प्रतिष्ठौ न तु सार्वजन्यौ । यः स्याज्जवा
विद्रुमभङ्गशोणो यो वा हरिद्रारससन्निकाशः ।
ईशत्वात् सर्ववर्णानां गुणवत् सार्वचर्णिकम् । कामतो
धारयेद्राजा नत्वन्योऽन्थत् कथञ्चन । अधरोत्तरवृत्त्या हि
यादृक् स्याद्वणसङ्करः । ततः कष्टतरो वज्रो वर्णानां
सङ्करो मतः । न च मार्गविभागमात्रवृत्त्या विदुषा
वज्रपरिग्रहो विधेयः । गुणवद्गुणसम्पदां विभूति-
र्विपरोतो व्यसनोदयस्य हेतुः । एकमपि यस्य शृङ्गं
विदलितमवलोक्यते विशीर्णं वा । गुणवदपि तन्न-
धार्य्यं वज्रं श्रेयोऽर्थिभिर्भवने । स्फुटिताग्निविशीर्ण-
शृङ्कदेसं मलवर्णैः पृषतैरुपेतमध्यम् । न हि वज्रभृतोऽपि
वज्रमाशु श्रियमन्याश्रयलालसां न कुर्य्यात् । थस्यैकदेशः
क्षतजावभासो यद्वा भवेलोहितवर्णचित्रम् । न तन्न
कुर्य्याद्ध्रियमाणमाशु स्वच्छन्दमृत्योरपि जोवितान्तम् ।
कोट्यः पार्श्वानि धाराश्च षड़ष्टौ द्वादशेति च । उत्तुङ्ग-
समतीक्ष्णाग्रा वज्रस्याकरजा गुणाः । षट्कोटिशुद्ध-
ममलं स्फुटतीक्ष्णधारं वर्णान्वितं लघु सुपार्श्वमपेत
दोषम् । इन्द्रायुधांशुविसृतिच्छुरितान्तरीक्षमेवंविधं
भुवि भवेत् सुलभं न वज्रम् । तीक्ष्णाग्रं विमलमपैति
सर्वदोषं धत्ते यः प्रयततनुः सदैव वज्रम् । वृद्धिस्तं
प्रतिदिनमेति यावदायुः श्रीसम्पत्सुतधनधान्यगो,
पशूनाम् । व्यालवह्निविषव्याघ्रतस्कराम्बुभयानि च ।
दूरात्तस्य निवर्त्तन्ते कर्माण्याथर्वणानि च । यदि वज्रमपेत
सर्वदोषं विभृयात्तण्डुलविंशतिं गुरुत्वे । मणिशास्त्र-
विदो वदन्ति तस्य द्विगुणं रूपकलक्षमग्र्यमूल्यम् ।
त्रिमागहीनार्द्धतदर्द्धशेषं त्रयोदशं त्रिंशदतोर्द्धभागाः ।
अशीतिभागोऽथ शतांशभागः सहस्रभागोल्पसमान-
योगः । यत्तण्डुलैर्द्वादशभिः कृतस्य वज्रस्य मूल्यं प्रथमं
प्रदिष्टम् । द्वाभ्यां क्रमाद्धानिमुपागतस्य त्वेकावसानस्य
विनिश्चयोऽयम् । न चापि तण्डुलैरेव वज्राणां धारण-
क्रमः । अष्टाभिः सर्षपैर्गौरेस्तण्डुलं परिकल्पयेत् ।
वत्तु सर्वगुणैर्युक्तं वज्रं तरति वारिणि । रत्नवर्ग-
समस्तेऽपि तस्य धारणमिष्यते । अनेनापि हि
दोषेण लक्ष्यालक्ष्येण दूषितम् । स्वमूल्यात् दशमं भागं
वज्रं लभति मानवः । प्रकटानेकदोषस्य स्वल्पस्य मह-
तोऽपि वा । स्वमूल्याच्छतशोभागो वज्रस्य न विधी-
यते । स्पृष्टदोषमलङ्कारे वज्रं यद्यपि दृश्यते । रत्नानां
प्ररिकर्मार्थं मूल्यं तस्य भवेल्लघु । प्रथमं गुणसम्पदा-
भ्युपेतं प्रतिबद्धं समुपैति तच्च दोषम् । अलमाभरणेन
तस्य राज्ञो गुणहीनोऽपि मणिर्नभूषणाय । नार्य्या
वज्रमधार्य्यं गुणवदपि सुतप्रसूतिमिच्छन्त्या । अन्यत्र
दीर्घचिपिटह्रस्वाद्गुणैर्विमुक्ताच्च । अयसा पुष्परागेण
तथा गोमेदकेन च । वैदूर्य्यस्फटिकाम्याञ्च काचैश्चापि
पृथग्विधैः । प्रतिरूपाणि कुर्वन्ति वज्रस्य कुशलाजनाः ।
परीक्षा तेषु कर्त्तव्या विद्वद्भिः सुपरीक्षकैः । सुक्षारो-
ल्लेखशालाभिस्तेषां कार्य्यं परीक्षणम् । पृथिव्यां
यानि रत्नानि ये चान्ये लोहधातवः । सर्वाणि विलि-
स्वेद्वज्रं तच्च तैर्न विलिख्यते । गुरुता सर्वरत्नानां
गौरवाधारकारणम् । वज्रे तान्वैप्ररीत्येन सूरयः
परिचक्षते । जातिभिरजातिं विलिखन्ति वज्रकुरुविन्दाः ।
वज्रैर्वज्रं विलिखति नान्येन लिख्यते वज्रम् । वज्राणि
मुक्तामणयो याश्च काश्चन जातयः । न तेषां प्रतिबद्धानां
भा भवत्युर्द्ध्वगामिनी । तिर्य्यक्क्षतत्वात् केषाञ्चित्
कथञ्चिद्यदि दृश्यते । तिर्य्यमालिख्यमानानां सा पार्श्वे-
ष्वपि हन्यते । यद्यपि विशीर्णकोटिः सविन्दुरेखान्वितो
विवर्णो वा । तदपि धनधान्यपुत्रान् करोति सेन्द्रा-
युधो वज्रः । सौदामिनीविस्फुरिताभिराम राजा
यथोक्तं कुलिशं दधानः । पराक्रमाक्रान्तपरप्रतापः
समस्तसामन्तभुवं भुनक्ति” । ३ विद्युदग्नौ तन्निबारण-
हेतुर्यथा “प्रचण्डपवनाघाते मेघेषु स्तनितेषु यः ।
त्रिःपठेज्जैमिनीयोऽखि प्राङ्मुखो वाप्युदङ्मुखः । तस्य
मा भूद्भयं घोरं विद्युतीयोऽवसीदति आ० त० धृतब्रह्म-
पुराणम् । “मुनेः कल्याणमित्रस्य जैमिनेश्चापिकीर्त्तनात् ।
विद्युदग्निभयं नास्ति पठिते च गृहोदरे” । “लिखिते
च गृहोदरे” इति वा पाठः । जैमिनिश्च सुमन्तुश्च
वैशम्पायन एव च । पुलस्त्यः पुलहश्चैव पञ्चै ते वज्र-
वारकाः” पुराणम् ।
तत्पर्य्यायादि भावप्र० उक्तं यथा
“हीरकः पुंसि वज्रोऽस्त्री चन्द्रो मणिवरश्च सः ।
स तु श्वेतः स्मृतो विप्रो लोहितः क्षत्त्रियः स्मृतः ।
पीतो वैश्योऽसितः शूद्रश्चतुर्वर्णात्मकश्च सः । रसायने
मतो विप्रः सर्वसिद्धिप्रदायकः । क्षत्त्रियो व्याधिवि-
ध्वंसी जरामृत्युहरः स्मृतः । वैश्यो धनप्रदः प्रोक्त
पृष्ठ ४८४२
स्तथा देहस्य दार्ढ्यकृत् । शूद्रो नाशयति व्याधीन् वयः
स्तम्भं करोति च । पुंस्त्रीनपुंसकानीह लक्षणीयानि
लक्षणैः । सुवृत्ताः फलसंपूर्णास्तेजोयुक्ता वृहत्तराः ।
पुरुषास्ते समाख्याता रेखाविन्दुविवर्जिताः । रेखाविन्दु
समायुक्ताः षड़श्रास्ते स्त्रियः स्मृताः ।” षड़श्राः
षट्कोणाः । “त्रिकोणाश्च सुदीर्घास्ते विज्ञेयाश्च नपुं-
सकाः । तेषु स्युः पुरुषाः श्रेष्ठा रसबन्धनकारिणः ।
स्त्रियः कृर्वन्ति कायस्य कान्तिं स्त्रीणां सुखप्रदाः ।
नपुंसकास्त्ववीर्य्या स्युरकामाः सत्त्ववर्जिताः । स्त्रियः
स्त्रीभ्यः प्रदातव्याः क्लीवं क्लीवे प्रयोजयेत् । सर्वभ्यः
सर्वदा देयाः पुरुषाः वीर्य्यवर्द्धनाः । अशुद्धं कुरुते
वज्रं कुष्ठं पार्श्वव्यथान्तथा । पाण्डुताम्पङ्गुरत्वञ्च तस्मात्
संशोध्य मारयेत् ।” तच्छोधनविधिर्यथा
“कुलत्थकोद्रवक्काथे दोलायन्त्रे विपाचयेत् । व्याघ्री-
कन्दगतं वज्रं त्रिदिनं तद्विशुद्ध्यति” । व्याघ्री कण्ट-
कारिका । अन्यः शोधनविधिः । “गृहीत्वाग्निं शुभे
वज्रं व्याघ्रीकन्दोदरे क्षिपेत् । माहिषीविष्ठया लिप्ता
कारीषाग्नौ विपाचयेत् । त्रियामायां चतुर्यामं यामि-
त्यन्तेऽश्वमूत्रके । सेचयेत्पाचयेदेवं सप्तरात्रेण शुद्ध्यति ।”
अथ बज्रस्य मारणविधिः “हिङ्गुसैन्धवसंयुक्ते क्षिपेत्-
काथे कुलत्थजे । तप्तं तप्तं पुनर्वज्रम्भवेद्भस्म त्रिसप्तधा” ।
अन्योऽस्य मारणप्रकारः “मेषशृङ्गभुजङ्गास्थिकूर्मपृष्ठा-
म्लवेतसम् । शशदन्तं समम्पिष्ट्वा वज्रीक्षीरेण भेलकम् ।
कृत्वा तन्मध्यगं वज्रं म्रियते ध्मातमेवहि ।” मारितस्य
वज्रस्य गुणाः “आयुःपुष्टिं बलं वीर्य्यं वर्णं सौख्यं
करोति व । सेवितं सर्वरोगध्नं मृतं वज्रं न संशयः ।”
अभ्रभेदा तद्गुणाश्च भावप्र० उक्ता यथा
“पुरा बधाय वृत्रस्य वज्रिणा वज्रमुद्धृतम् । विस्फु-
लिङ्गास्ततस्तस्य गगने परिसर्पिताः । ते निपेतुर्घन-
ध्वानाच्छिखरेषु महीभृताम् । तेभ्य एव समापन्नं
तत्तद्गिरिषु च भ्रकम् । तद्वज्रं वज्रजातत्वादभ्रमम्रर-
घोद्भवात् । गगनात् स्खलितं यस्माद्गगनञ्च ततो मतम् ।
विप्रक्षत्त्रियविट्शूद्रभेदात्तत् स्याच्चतुर्विधम् । क्रमे-
णैषां सितं रक्तं पीतं कृष्णञ्च वर्णतः । प्रशस्यते
सितन्तारं रक्तं तत्तु रसायने । पीतं हेमनि, कृष्णन्तु
गदेषु द्रुतयेऽपि च । पिनाकं दर्दुरं नागं वज्रञ्चेति
चतुर्विधम् । मुञ्चत्यग्नौ विनिःक्षिप्तं पिनाकन्दलसञ्च-
यात् । अज्ञानाद्भक्षणं तस्य महाकुष्ठप्रदायकम् । दर्दुरं
त्वग्निनिःक्षिप्तं कुरुते दर्दुरध्वनिम् । गोलकान् बहुशः
कृत्वा स स्यान्मृत्युप्रदायकः । नागन्तु नागवद्वह्नौ
फुत्कारं परिमुञ्चति । तद्भक्षितमवश्यन्तु विदधाति
भगन्दरम् । वज्रन्तु वज्रवत्तिष्ठेत्तन्नाग्नौ विकृतिं व्रजेत् ।
सर्वाभ्रेषु वरं वज्रं व्याविबार्द्धक्यमृत्युहृत् । अभ्र-
मुत्तरशैलोत्थं बहुसत्त्वं गुणाधिकम् । दक्षिणाद्रिभवं
स्वल्पसत्त्वमल्पगुणप्रदम् । अभ्र कषायं मधुरं सुशीत-
मायुष्करं धातुविवर्द्धनञ्च । हन्यात् त्रिदोषं व्रणमेह
कुष्ठप्लीहोदरग्रन्थिविषक्रमींश्च । रोगान् हन्ति द्रढ-
यति वपुर्वीर्य्यवृद्धिं विधत्ते तारुण्याढ्यं रमयति
शतं योषितां नित्यमेव । दीर्घायुष्कान् जनयति सुतान्
विक्रमैः सिंहतुल्यान् मृत्योर्मीतिं हरति सततं
सेव्यमानं मृताभ्रम् ।

वज्रकण्टक पु० वज्रामव कठिनं कण्टकमस्य । १ स्नुहीवृक्षे

जटा० । २ कोकिलाक्षे राजनि० ।

वज्रचर्मन् वज्रमिव कठिनं चर्म यस्य । गण्डके खड्गिनि राजनि०

वज्रतुण्ड पु० वज्राकारं तुण्डमस्य । १ गणेशे २ गरुडे त्रिका०

३ मशके ४ गृध्रे च राजनि० ।

वज्रदन्त पु० वज्रमिव कठिनो दन्तोऽस्य । १ शूकरे २ मूषके च

शब्दमा० वज्रदशनादयोऽप्यत्र ।

वज्रद्रु पु० वज्राकारो द्रुः ॥ स्नुहीवृक्षे अमरः । वज्रद्रुमादयो-

ऽप्यत्र ।

वज्रधर पु० वज्रं धरति धृ--अच् । १ इन्द्रे हला० २ पेचके च वज्रभृदादयोऽप्यत्र ।

वज्रनिर्घोष पु० ६ त० । वज्रस्तनितशब्दादौ उणा० वज्रनि-

ष्पेषोऽप्यत्र ।

वज्रपाणि पु० वज्रं पाणौ यस्य । १ इन्द्रे २ पेचके च त्रिका० वज्रहस्तादयोऽप्यत्र ।

वज्रपुट न० वज्रमिव कठिनं पुटमस्य । औषधपाचनपात्रभेदे

वज्रपुष्प न० वज्रमिव पुष्पम् । तिलपुष्प अमरः ।

वज्रपुष्पा स्त्री वज्रमिव पुष्पं यस्याः । शतपुष्पायाम् राजनि०

वज्रमय त्रि० वज्रात्मकम् मयट् । अतिकाठने स्त्रियां ङीप् ।

वज्रमूली स्त्री वज्रमिव कठिनं मूलमस्याः ङीप् ।

माषपण्याम् राजनि० ।

वज्रवल्ली स्त्री वज्रमिव कठिना वल्ली । (हाड़जीड़ा) अस्थिसञ्चारलतायाम् हारा० ।

वज्रवीजक पु० वज्रमिव कठिनं वीजमस्य कप् । लताकरञ्जे

राजनि० ।

वज्रवृक्ष पु० वज्रमिव कठिनो वृक्षः । सेहुण्डवृक्षे (सेओड़ा) राजनि० ।

वज्रा स्त्री वज--रक् । १ गुडूच्याम् २ स्नुह्याञ्च मेदि०

३ दुर्गायां देवीपु० ४ स्नुहीभेदे ङीषन्तोऽपि मेदि० ।
पृष्ठ ४८४३

वज्राकृति पु० वज्रस्येवाकृतिरस्य । जिह्वामूलीयसूचके

वर्णभेदे ।

वज्राङ्गी स्त्री “वज्रमिवाङ्गं यस्याः । गवेधुकाधान्यभेदे (गड़-

गड़े) शब्दच० २ लताभेदे (हाड़जोड़ा) भावप्र० ।

वज्रास्थिशृङ्खला स्त्री वज्रमिवास्थ्नि शृङ्खला बन्धनं

यस्याः । कोकिलाक्षवृक्षे राजनि० ।

वज्रिन् पु० वज्रमस्त्यस्य इनि । १ इन्द्रे अमरः २ पेचके च । ३ बुद्धे मेदि० ।

वञ्चक पुंस्त्री० वन्च--णिच्--ण्वुल् । १ शृगाले अमरः स्त्रियां

ङीष् २ गृहबभ्रौ च । ३ खले ४ प्रतारके च त्रि० मेदि० ।

वञ्चन न० वन्च--ल्युट् । प्रतारणे अन्यथास्थितस्य वस्तुनो-

ऽन्यथारूपेण कथनादिनाऽन्यमोहोत्पादने । युच् ।
वञ्चनाप्यत्र स्त्री ।

वञ्चुक त्रि० वन्च--उकञ् । वञ्चनाशीले शब्दर० ।

वञ्जुल पु० वन्च--उलच् पृषो० चस्य जः । १ तिनिशवृक्षे

२ अशोकवृक्षे अमरः । ३ वेतसवृक्षे मेदि० ४ स्थलपद्मवृक्षे
शब्दच० । ५ पक्षिभेदे च हला० । ६ बहुदुग्धायां गवि
स्त्री हेमच० । ७ वक्रे त्रि० वञ्जुलप्रियः ।

वञ्जुलद्रुम पु० वञ्जुलाख्यः द्रुमः । अशोकवृक्षे राजनि० ।

वञ्जुलप्रिय पु० वञ्जुलं वक्रं प्रीणाति प्री--क । वेतसे रत्नमा०

वट वेष्टने भागे च अद० चुरा० उभ० सक० सेट् । वटयति ते ।

अववटत् त ।

वट वेष्टने भ्वा० पर० सक० सेट् । वटति । अवटीत् अवाटीत् ववटतुः ।

वट विभाजने वा चुरा० उभ० पक्षे भ्वा० पर० सक० सेट् इदित् ।

वण्टयति ते वण्ठति । अववण्टत् त अवण्टीत् ।

वट कथने भ्वा० पर० द्विक० सेट् घटा० । वटयति अवाटीत्

अवटीत् । ववटतुः ।

वट स्तेये लौ० पर० सक० सेट् इदित् । वण्टति अवण्टीत् ।

वट पु० वट--अच् । १ स्वनामख्याते वृक्षे अमरः २

शणनिर्मिततन्तौ च त्रि० । (वेँटे) मेदि० ।
वटवृक्षस्य रुद्ररूपत्वमश्वत्थशब्दे ५१७ पृ० उक्तम् ।
“वटः शीतो गुरुर्ग्राही कफपित्तव्रणापहः । वर्ण्यो
विसर्पदाहघ्नः कषायो योनिदोषकृत्” भावप्र० । ३ साम्ये
हेमच० । ४ कपर्दे ५ गोले ६ भक्ष्यभेदे (वड़ा) मेदि० ।

वटक पु० वट--क्वुन् । पिष्टकभेदे (वड़ा) भावप्र० कृतान्नशब्दे

२१८२ पृ० दृश्यम् ।

वटपत्र पु० वटस्येव पत्रमस्य । १ सितार्जकवृक्षे राजनि० ।

२ पाषाणभेदीलतायां स्त्री ङीष भावप्र० । “वटपत्री
कषायोष्णा योनिसूत्रगदापहा” ३ त्रिपुरमालीवृक्षे
रत्नमा० टाप् ।

वटर पुंस्त्री० १ कुक्कुटे स्त्रियां ङीष् । २ शठे ३ चञ्चले ४ चौरे त्रि० शब्दर० ।

वटी स्त्री वट--अच् गौरा० ङीष् । १ रज्जौ अमरः गोलाकारे

(वडी) पदार्थे भावप्र० स्वार्थे क ह्रस्वः । वटिकाप्यत्र
“वटिका अथ कथ्यन्ते तन्नाम गुटिका वटी । मोदको
वटिका पिण्डी गुड़ो वर्त्तिस्तथोच्यते । लेहवत् साध्यते
वह्नौ गुड़ो वा शर्कराथ वा । गुग्गुलुर्वा क्षिपेत्तत्र
चूर्णं तन्निर्मिता वटी ।” तत्र वह्निसिद्धे गुड़ादौ ।
“कुर्य्यादवह्निसिद्धेन क्वचिद्गुग्गुलुना वटी” । द्रवेन मधुना
वापि गुटिकां कारयेद्बुधः । सिता चतुर्गुणा देया
वटीषु द्विगुणो गुड़ः । चूर्णे चूर्णसमः कार्य्यो गुग्गुलु-
र्मधु तत्समम् ।” तत्समम् चूर्णसमम् “द्रवं तु द्विगुणं
देयं मोदकेषु भिषग्वरैः” । द्रवं द्रवरूपद्रव्यम् । “कर्षप्रमाणं
तन्मात्रा बलं दृष्ट्वा प्रयुज्यते” । बलमिति कालादेरप्युप-
लक्षणम्” । नदीवटाख्ये २ वृक्षभेदे राजनि० ।

वटु पु० वट--उ । १ माणवके २ ब्रह्मचारिणि च हेमच० ।

वटुक पु० वट--उक । १ वालके शब्दर० २ भैरवभेदे च तन्त्रम्

वठ असहायकरणे भ्वा० आत्म० सक० सेट् इदित् । वण्ठते

अवण्ठिष्ट ।

वठ सामर्थ्ये भ्वा० पर० अक० सेट् । वठति । अवाठीत अवठीत् ववठतुः ।

वठर पु० वठ--अरन् । १ मूर्खे उणादि० २ अम्बष्ठे हेमच०

३ शठे ४ मन्दे च त्रिका० ।

वड विनजने चुरा० उभ० सक० सेट् इदित् । वण्डयति ते

अववण्डत् त ।

वड वेष्टने विभागे च भ्वा० आ० सक० सेट् इदित् । वण्डते अवण्डिष्ट ।

वड आरोहणे सौ० पल० सक० सेट् । वडति अवाडीत्

अवडीत् । ववडतुः ।

वडभि(भी) स्त्री वड्यते कारुह्यतेऽत्र वड--अभि वा ङीप् ।

१ गृहचूडायाम् (सदुनि) अमरः २ प्रासादामस्यगृहे च
(चिलेघर) रत्नमा० ।

वडा स्त्री वड--अच् । स्वनामख्याते पिष्टकभेदे शब्दच० ।

वडिश न० वड--इन् वडिं श्यति शो--क । मत्स्यधारणार्थे

वक्रलौहकण्टकयुक्ते पदार्थे अमरः । “वडिशेन
झषीरिवास्मान्” वृन्दावनचम्पूः ।

वड्र त्रि० वल--रक् लस्य डः । वृहति (वड़) अमरः ।

वण शब्दे भ्वा० पर० सक० सेट् । वणति अवाणीत्

अवणीत् । ऋदित् चङि वा ह्रस्वः ।

वण्ट विभाजने अद० चुरा० उभ० सक० सेट । वण्टयति

ते अववण्टत् त ।
पृष्ठ ४८४४

वण्ट पु० वण्ट--अच् । १ भागे २ दात्रादेः धारणस्थाने (वाँठ) ३ अकृतोद्वाहे च । (डेङ्गो) शब्दमा०

वण्टक पु० वण्ट--घञ् स्वार्थे क । १ भागे अमरः

ण्वुल् । २ विभाजके त्रि० ।

वण्ठ त्रि० वण--ठ तस्य नेत्त्वम् । १ खर्वे (वेँटे) । २ कुन्तायुधे ३ अकृतोद्वाहे च मेदि० ।

वण्ठर पु० वठि--अरन् । १ स्थगिकारज्जौ २ कुक्कुरलाङ्गूले

३ करीरकोषे ४ तालस्य पल्लवे ५ पयोधरे च मेदि० । अय
मौष्ठादिरपि तत्रार्थे ।

वण्ड त्रि० वडि--अच् । १ अकृतोद्वाहे २ हस्ताद्यङ्गविकले (वेँडे)

३ अनावृतमेढ्रे हेमच० ४ पांशुलायां स्त्रियां स्त्री मेदि० ।

वण्डाल पु० वडि--आलच् । १ शूरयुद्धे २ नौकायां खनित्रे

च मेदि० ।

वत् अव्य० वा--डति । सादृश्ये अमरः वतिप्रत्ययान्तोऽप्यत्रार्थे अव्य० राजवत शूद्रवत् इत्यादि ।

वत अव्य० वन--क्त । १ खेदे २ अनुकम्पायाम् ३ हर्षे ४

विस्मये ५ आमन्त्रणे च अमरः ।

वतंस पु० अव + तन्स--घञ् अवाल्लोपः । १ कर्णभूपणभेदे

२ शेखरे ३ शिरोभूषणे मेदि० ४ भूषणमात्रे च ।

वतण्ड पु० अव + तडि--अच् अवाल्लोपः । मुनिभेदे उणादि० ।

वतोका स्त्री अवगतं तोकं यस्याः प्रा० ब० अवाल्लोपः । अपत्य-

हीनायां स्त्रिवाम् अमरः ।

वत्स न० वस--स । १ वक्षःस्थले अमरः । २ गवादिशिशौ द्वि-

व० । ३ वत्सरे पु० अमरः । ४ चन्द्रवंशे राजभेदे च पु० ।

वत्सक न० वत्स इव इदार्थे कन् । १ पुष्पकासीसे राजनि०

२ कुटजे अमरः । ३ इन्द्रयवे च राजनि० ।

वत्सकवीज न० वत्सकस्य कुटजस्य वीजम् । इन्द्रयवे राजनि०

वत्सतर पुंस्त्री० क्षुद्रः वत्सः अल्पत्वे तरप् । १ क्षुद्रवत्से

अप्राप्तदमनकाले गवादौ अमरः स्त्रियां ङीप् । वत्सतरी

वत्सनाभ पु० वत्सान् पशुशिशून् नभ्यति हिनस्ति

नभअण् वत्सस्य नामिराकारेऽस्त्यस्य अच् वा । स्थावरे
विषभेदे अमरः । तल्लक्षणादि भावप्र० उक्तं यथा
“सिन्धुवारसदृक्पत्रोवत्सनाभ्याकृतिस्तथा । यत्
पार्श्वेन तरोर्वृद्धिर्वत्सनाभः स भाषितः । तस्य सामान्य
गुणा यथा । “विषं प्राणहरं प्रोक्तं व्यवायि च विकाशि
च । आग्नेय वातकफहृद्योगवाहि मदावहम्” ।
व्यवायि सकलकायव्यापनपूर्वकपाकगमनशीलम् ।
विकाशि ओजसःशोषणपूर्बकं सन्धिबन्धशिथिलीकरणशी-
लम् । आग्नेयम् अधिकाग्न्यंशं योगवाहि संसर्ग-
गुणग्राहकम् मदावहं तमोगुणाधिक्येन बुद्धिविध्यंस-
कम् । “तदेव युक्तियुक्तम् तु प्राणदायि रसायनम् ।
योगवाहि त्रिदोषघ्नं वृंहणं वीर्य्यवर्द्धनम् । ये दुर्गुणा
विषेऽशुद्धे ते स्युर्हीना विशोधनात् । तस्माद्विषं प्रयो-
गेषु शोधयित्वा प्रयोजयेत्” भावप्र० ।

वत्सपत्तन न० वत्सस्य वत्सराजस्य पत्तनम् । उत्तरदेश-

स्थायां कौशाम्ब्यां नगर्य्याम् हेमच० ।

वत्सपाल पु० वत्सान् पालयति पाल--अण् । १ श्रीकृष्णे

२ बलदेवे च ।

वत्सर पु० वस--सरन् । द्वादशमासात्मके काले अब्दशब्दे दृश्यम् ।

वत्सराज पु० चन्द्रवंश्ये नृपभेदे । “वत्सराजचरितम्” रत्ना०

वत्सरान्तक पु० वत्सरस्यान्तं करोति अन्त + णिच्--ण्वुल् ।

फाल्गुनमासे राजनि० वत्सरस्य चैत्रादिकत्वात् फालगु-
नस्य तदन्तकालत्वात्तथात्वम् ।

वत्सल त्रि० वत्सं लाति ला--क । १ स्नेहयुक्ते २ वात्सल्ये

रसे पु० ३ तद्वति त्रि० ४ विष्णौ पु० विष्णुस० ।

वत्साक्षी स्त्री वत्स्वस्याक्षीवाक्षि अस्य षच्समा० ।

गोडुम्बायाम् (गोमक) जटा० ।

वत्सादनी स्त्री वत्सैरद्यते प्रियत्वेन अद--ल्युट् ङीप् ।

१ गुडूच्याम् अमरः । वत्सः अदनमस्य । २ वृके पुंस्त्री०
राजनि० स्त्रियां ङीष् ।

वद नुतौ अभिवादने सक० भ्वा० आ० सेट् इदित् । वन्दते अवन्दिष्ट ।

वद वाक्ये सन्देशे च भ्वा० उभ० सक० सेट् । वदति ते

अवादीत् अवदिष्ट । ज्ञानयत्रादावात्मनेपदीत्यन्ये ।

वद वाचि भ्वा० पर० सक० सेट् यजा० । वदति अवादीत्

उवाद ऊदतुः उदितः ।
भासने उपसान्त्वते आत्म० शास्त्रे वादते भासमानो
वदतीत्यर्थः भृत्यानुपवदते सान्तयतीत्यर्थः । ज्ञानाद्युपाधौ
च आत्म० । तत्र ज्ञाने शास्त्रे वदते । यत्रे क्षेत्रे वदते ।
विमतौ क्षेत्रे विवदन्ते । उपच्छन्दने उपवदते प्रार्थयते
इत्यर्थः सि० कौ० । व्यक्तवाचां सम्भूयोच्चारणे आत्म०
प्रवदन्ते विप्राः । अति + मर्य्यादातिक्रमेणोक्तौ प०
अतिवदति । अनु + उक्तस्य पर्य्यायान्तरेण कथने अनुवादः
अकर्मकात् व्यक्तवाचामनुवादे तु आत्म० अनुवदते
कठःप्रलापस्य” सि० कौ० अव्यक्तवाचि तु प० अनुवदति वीणा
सकर्मकात्तु पर० उक्तमनुवदति । विरुद्धोक्तौ व्यक्तायां
वाचि वा आत्म० विप्रवदन्ते न्ति वैद्याः ।
  • अप + निन्दायाम् । अपवादः । विशेषविधाने च अपवादः विशेषविधिः
  • परि + निन्दात्रां मिथ्यादूषणे च पर० । परिवदति वरिवादः ।
पृष्ठ ४८४५
  • प्रति + विरुद्धतयोक्तौ पर० प्रतिवदति प्रतिवादः प्रतिवादी
प्रत्युत्तरोक्तौ च ।
वि + विरुद्धोक्तौ पक्षप्रतिपक्षग्रहणेनोक्तौ आत्म०
विवदन्ते पण्डिताः वादिप्रतिवादिनश्च ।

वद वाचि सन्देशे च सक० चुरा० उभ० सेट् । वादयति

ते अवीवदत् । अभि + प्रणामे ।

वद त्रि० वदति वद--अच् । वक्तरि अमरः ।

वदन न० उद्यतेऽनेन वद--करणे ल्युट् । १ मुखे अमरः ।

२ वचनेन्द्रिये भावे ल्युट् । २ कथने न० ।

वदा(द)न्य पु० वद--अन्य पृषो० वा दीर्घः । भूरिदानशीले अमरः ।

वदाम न० वद--आमन् । (वादाम) वातादे फलभेदे भावप्र० ।

“वातादो वातवैरो स्यान्नेत्रोपमफलस्तथा । वातादः
उष्णः सुस्निग्धो वातघ्नः शुक्रकृद्गुरुः । वातादमज्जा
मधुरो वृष्यः पित्तानिलापहः । स्निग्धोष्णः कफहृत्
श्रेष्ठो रक्तपित्तविकारिणाम्” भावप्र० ।

वदाल पुंस्त्री० वद--आल । पाठोनमत्स्ये (वोयाल) त्रिका०

स्त्रियां ङीष् । स्वार्थे क तत्रार्थे ।

वदावद पु० अत्यन्तं वदति वद--अच् नि० । बहुवक्तरि अमरः ।

वधू स्त्री उह्यते पितृगेहात् पतिगृहं वह--ऊ धुकच् ।

१ भार्य्यायाम् २ नवोढ़ायां ३ पुत्रजायायाम् अमरः ।
४ शठ्याञ्च मेदि० । अस्य ओष्ट्यादित्वमित्यन्ये

वधूजन पु० कर्म० । नारीजने त्रिका० ।

वधूटी स्त्री अल्पा वधूः टी । अल्पवयस्कायाम् गार्य्यां “गोप-

वधूटी दुकूलेति” भाषापरि० ।

वन सेवने सक० शब्दे अक० भ्वा० पर० सेट् । वनति अवानीत् अवनीत् ववनतुः ।

वन व्यापारे भ्वा० पर० सक० सेट् । वनति अवानीत्

अवनीत् । ज्वला० वनः वानः । घटा० वनयति ।

वन याचने द्विक० तना० आ० सेट् क्त्वा वेट् । वनुते अवनिष्ट ।

वन उपकारे उपतापे च सक० शब्दे अक० वा चु० उभ० पक्षे

भ्वा० पर० सेट् । वानयति ते वनति । अवीवनत् त ।
अवनीत् अवानीत् ।

वन न० स्त्री वन--अच् । १ वृक्षसमुदायात्मके अरण्ये अमरः

स्त्रोत्वे ङीष् । “सुवनी सम्प्रषदत्पिकापि का” नैष० ।
२ जले ३ निवासे ४ आलये च मेदि० । ५ प्रस्तरणे हेमच० ।

वनकदली स्त्री ७ त० । काष्ठकदल्याम् राजनि० ।

वनकन्द पु० वनजातः कन्दः । अरण्यजाते शूरणे राजनि०

वनकार्पासी स्त्री वनोद्भवा कार्पासी । (वनकापास) क्षुपभेदे

रत्नमा० ।

वनकोलि पु० वनोद्भवः कोलिः । (वमकुल) वृक्षे ।

वनचन्दन न० वनजातं चन्दनम् शा० क० । १ अगुरुचन्दने

२ देवदारुणि च विश्वः ।

वनचन्द्रिका स्त्री वने चन्द्रिकेव । मल्लिकायाम् राजनि० ।

वनचम्पक पु० ७ त० । (वनचाँपा) चम्पकभेदे राजनि० ।

वनच्छाग पु० वने जातश्छागः । (वनछागल) १ छागभेदे

राजनि० । वने छाग इव । २ शूकरे पुंस्त्री० शब्दमा०
स्त्रियां ङीष् ।

वनज न० वने जलेऽरण्ये वा जायते जन--ड । १ पद्मे

२ मुस्तकभेदे ३ वनशूरणे पु० राजनि० ४ गजे विश्वः ।
५ अश्वगन्धायां ६ गन्धपत्त्रायां ७ वनकार्पास्यां ८
वनोपोदक्याम् ९ मिश्रेयायां १० ऐन्द्रे स्त्री राजनि० । ११ मुद्र-
पर्ण्यां च स्त्री मेदि० । १२ वनजातमात्रे त्रि० ।

वनतिक्त पु० वनेषु वनजातेषु मध्ये तिक्तः । १

हरीतक्याम् शब्दमा० । २ पाठायां (आकनादि) च स्त्री
रत्नमा० । स्वार्थे क तत्रैव अमरः ।

वनदीप पु० वनस्य दोप इव । वनचम्पके राजनि० ।

वनपल्लव पु० वनमिव निविड़ पल्लवोऽस्य । शोभाञ्जने जटा० ।

वनपुष्पा स्त्री वनमिव सहत पुष्पं यस्याः । शतपुष्पायाम्

राजनि० ।

वनपूरक पु० पूरकः वीजपूरकः पूर्वपदलोपः वनोद्भवः पूरकः । वनवीजपूजरे राजनि० ।

वनप्रिय पुंस्त्री० वनं वनस्थं प्रीणाति प्री--क । १ कोकिले

स्त्री मेदि० स्त्रियां योपधत्वात् टाप् २ अरण्यप्रियमात्रे
त्रि० । ३ त्वचे न० राजनि० ।

वनभुज पु० वनं भुङ्क्ते भुज--क्विप् । १ ऋषभे २ तन्नामौ-

षधे शब्दच० ।

वनमक्षिका स्त्री वनोद्भवा मक्षिका । दंशे कीटभेदे (डाँश) अमरः ।

वनमल्ली स्त्री वनोद्भवा मल्ली । अरण्यमल्लिकायाम् शब्दर० ।

वनमाला स्त्री “आजानुलम्बिनी माला सर्वर्तुकुसुमो-

ज्ज्वला । मध्ये स्थूलकदम्बाद्या वनमालेति कीर्त्तिता”
इत्युक्तायां मालायाम् ।

वनमालिन् पु० वनमालाऽस्त्यस्य इनि । १ श्रीकृष्णे अमरः

२ वाराहीलतायाम् स्त्री मेदि० ङीप् ३ द्वारकापुर्य्यां स्त्री
त्रिका० ।

वनमुद्ग पु० वनोद्भवः मुद्गः । १ मुद्गभेदे (मुगानि) अमरः ।

२ मुद्गपर्ण्यां स्त्री राजनि० गौरा० ङीष् ।

वनमूर्द्धजा स्त्री वनस्य मूर्द्धजं शृङ्गमिवास्त्यस्याः अच् ।

(काकड़ाशिङ्गा) कर्कटशृङ्गाम् राजनि० ।

वनमोचा स्त्री वनोद्भवा मोचा । काष्ठकदल्याम् राजनि० ।

पृष्ठ ४८४६

वनलक्ष्मी स्त्री वनस्य लक्ष्मीरिव तदधिष्ठानत्वात् ।

कदल्याम राजनि० ।

वनवर्वर पु० वनोद्भवः वर्वरः । कृष्णार्जके । (वनवावुइ) वृक्षे राजनि० ।

वनवासिन् पु० वनं वासयति सुरभीकरोति वासि--णिनि ।

१ मुष्ककवृक्षे २ वाराहीकन्दे ३ शाल्मलीकन्दे ४
नीलमहिषकन्दे ५ ऋषभनामौषधे च राजनि० । वने वसति
वस--णिनि । ६ वनवासकर्त्तरि त्रि० स्त्रियां ङीष् ।

वनवीज पु० वीजो वीजपूरकः उत्तरपदलोपः ७ त० ।

वनवीजपूरे राजनि० ।

वनवृन्ताकी स्त्री वनस्य वृन्ताकी वार्त्ताकी । वृहत्याम् राजनि० ।

वनव्रीहि पु० वनस्य व्रीहिः। नीवारे (उड़िधान) हेमच० ।

वनशूकरी स्त्री वनस्य शूकरीव रामगत्वात् । १ कपिकच्छ्वाम्

राजनि० । ७ त० । २ वनवराहे पु० ३ वनशूकरयोषिति स्त्री ।

वनशृङ्गाट पु० वनस्य शृङाट इव कण्टकावृतत्वात् । गोक्षुरे

अमरः । स्वार्थे क । तत्रैवार्थे ।

वनशोभन न० वनं जलं शोभयति शुभ--णिच ण्वु । पद्मे शब्दच० ।

वनसङ्कट पु० सम् + कट--अच् ६ त० । मसूरे शब्दच० ।

वनसरोजिनी स्त्री वनस्य सरोजिनी पद्मिनीव शोभाकर

त्वात् । वनकार्पास्याम् शब्दर० ।

वनस्पति पु० वनस्य पतिः नि० सुट् । पुष्पं विना

जायमानफले १ अश्वत्थादौ वृक्षे अमरः । २ वृक्षमात्रे मेदि० ।

वनहास पु० वनस्य हास इव प्रकाशकत्वात् । काशतृणे

राजनि० ।

वनाखु पु० वने आखुरिव । शशके त्रिका० ।

वनाखुक पु० अव + नख--उकञ् अवाल्लोपः । मुद्गे त्रिका० ।

वनाटु पु० वनमटति अट--उन् । १ वर्वणायां नीलमक्षिका-

याञ्च शब्दच० । २ अपानदेशे उज्ज्व० ।

वनामल पु० वनस्यामल आमलक इव । करमर्दे शब्दमा० ।

वनाम्र पु० वनस्य आम्र इवः कोशाम्रे राजनि० ।

वनायु पु० वन--आयुच् । प्रशस्तघोटकोद्भवदेशभेदे (आरव)

राजनि० ।

वनायुज पु० वनायुदेशे जायते जन--ड । प्रशस्तघोटके (आरवि) शब्दर० ।

वनारिष्टा स्त्री वनस्य न रिष्टं यस्याः । वनहरिद्रायाम्

राजनि० ।

वनालिका स्त्री वनमलति मूषयति अल--ण्वुल् । हस्तिशुण्डीलतायाम् हारा० ।

वनि पु० वन--इन् । १ अग्नौ सि० कौ० २ राशौ उज्ज्वल० ।

३ याचने पु० ४ याचके त्रि० ।

वनिता स्त्री वन--याचने कर्मणि बा० इत । १ योषिति २ अनुरक्तायां स्त्रियाञ्च मेदि० ।

वनिन् पु० वनम् आश्रयतयाऽस्त्यस्य इनि । वानप्रस्थाश्रमयुक्ते

वनिष्णु त्रि० वन--इष्णुच् । याचके ।

वनीपक वनीयक + पृषो० यस्य पः । याचके उज्ज्वल० ।

“कृपण इव नवनीपकोपसेवितपर्वतः श्लेषात्” पमध्यता च

वनीयक स्त्री वन--इन् आत्मनो वनिं याचनमिच्छति क्यच्

ण्वुल् । याचके अमरः पृषो० यलोपः । वनीकोऽप्यत्र
सारसुन्दरी ।

वनेक्षुद्रा स्त्री ७ त० अलुक्स० । करञ्जे रत्नमा० ।

वनेचर त्रि० वने चरति चर--ट अलुक्स० । अरण्य-

चारिणि व्याधादौ स्त्रियां ङीप् ।

वनेसर्ज पु० सृजति--सृज--अच् ७ त० अलुक्स० । असनवृक्षे

रत्नमा० ।

वनोद्भवा स्त्री वन एव उद्भवति उद् + भू--अच् ७ त० । १ वनकार्पास्याम् रत्नमा० २ वनजाते त्रि० ।

वनौकस् पु० वनमेव ओकः स्थानं यस्य । १ वानरे अमरः ।

२ वनवासिनि त्रि० ।

वन्च प्रतारणे भ्वा० पर० सक० सेट् क्त्वा वेट् । वञ्चति अवञ्चीत्

वन्दन न० वदि--ल्युट् । १ स्तवने २ प्रणामे च । युच् ।

वन्दनाप्यत्र स्त्री । ३ वदने न० शब्दच० ।

वन्दनीय त्रि० वदि--अनीयर् । १ नमनीये २ स्तवनीये च

३ पीतभृङ्गराजे पु० राजनि० । ४ गोरोचनायां स्त्री त्रिका० ।

वन्दा स्त्री वदि--कर्मणि घञ् । (परगाछा) लताभेदे अमरः

२ भिक्षुक्यां ३ लताभेदे च मेदि० ।

वन्दाका स्त्री वदि--आकन् । वन्दायाम् हट्टच० । गौरा०

ङीष् तत्रार्थे स्त्री शब्दर० । तत्रार्थे पु० भावप्र०
“वन्दाकः स्याद्धिमस्तिक्तः कषायो मधुरे रसे । मङ्गल्यः
कफवातास्ररक्षोव्रणविषापहः” ।

वन्दारु त्रि० वदि--आरु । वन्दनशीले शब्दर० ।

वन्दि(न्दी) स्त्री वदि--इन् वा ङीप् । १ काराबद्धमनुष्यादौ

(कएदी) शब्दर० २ बन्दने ३ स्तुतौ च । ४ सोपानके उणा० ।

वन्दिग्राह पु० वन्दिमिव--गृह्णाति ग्रह--ण । बलावष्टम्भेन

घातके (डाकाइत) मिता० । “वन्दिग्राहांस्तथा वाजि-
कुञ्जराणां च हारिणः” मनुः ।

वन्दिपाठ पु० ६ त० । स्तुतिग्रन्थे त्रिका० ।

वन्दिन् पु० वन्दते स्तौति वदि--णिनि । राजादेः १ स्तुति-

पाठके अमरः ।

वन्द्य त्रि० वदि यत् । १ वन्दनीये । २ गोरोचनायाम् स्त्री भावप्र० ३ वन्दायां शब्दच० ।

वन्द्र न० वन्द--रन् । कल्याणे सि० कौ० । २ पूजके त्रि० उणादि०

पृष्ठ ४८४७

वन्य न० वने भवः यत् । १ त्वचे (दारचिनि) राजनि० ।

२ वनशूरणे ३ वाराहीकन्दे ४ देवनले पु० राजनि० । ५
वनजातमात्रे त्रि० । ६ मुद्गपर्ण्यां ७ गोपालकर्कट्यां ८
गुञ्जायां ९ मिश्रेयायां १० भद्रमुस्तायां ११ नन्धपत्रायां स्त्री
राजनि० । वनानामरण्यानां जलानां वा समूहः यत् ।
१३ जलसमूहे १४ वनसमूहे च स्त्री मेदि० ।

वप वीजवपने तन्तुवयने मुण्डने च सक० भ्वा० उभ० अनिट्

यजा० । वपति ते अवाप्सीत् अवप्त उवाप ऊपतुः ।
ड्वित् उप्त्रिमः । पित्रादिपिण्डदाने “पिण्डनिर्वपनं
चरेत्” स्मृतिः ।

वपन न० वप--ल्युट् । १ केशमुण्डने २ वीजाधाने ३ तन्त्वा-

धाने च मेदि० । “प्रयागे भास्करक्षेत्रे पितृमातृ-
वियोगतः । आधाने सोमपाने च वपनं पञ्चसु
स्मृतम्” प्रा० त० ।

वपनी स्त्री उप्यतेऽनया अत्र वा वप--ल्युट् ङीप् । १ नापि-

तास्त्रे २ तन्तुशालायां (तान्तवर) हेमच० २ तन्तुवयन-
यन्त्रभेदे (माकु) च ।

वपा स्त्री वप--अच् । १ मेदसि (चरवि) “वपाया हविषः”

इति श्रुतिः । ३ छिद्रे च अमरः ।

वपुन पु० वप--उनच् । देवतायां शब्दर० ।

वपुषा स्त्री वप--वा उषन् । हवुषायाम् भावप्र० ।

वपुष्टमा स्त्री अतिशयेन वपुः प्रशस्ताकृतिः तमप् षत्वम् ।

१ पद्मचारिण्याम् लतायाम् जटा० । २ काशीपतिकन्यायां
३ जनमेजयपत्न्यां च ।

वपुस् न० उप्यन्ते देहान्तरभोगसाधनवीजीभूतानि कमाण्यत्र

वप--उसि । १ शरीरे अमरः । २ प्रशस्ताकारे च मेदि० ।

वप्तृ पु० वप--तृच् । १ जनके २ कृषीवले च मेदि० ३ वीजादि-

वापके त्रि० ।

वप्र पुंन० उप्यतेऽत्र रन् । १ दुर्गनगरादौ परिखाया उद्धृत-

मृत्तिकास्तूपे अमरः । २ क्षेत्रे ३ रेणौ ४ तटे मेदि० ।
५ सीसके न० हेमच० । ६ जनके ७ प्राचीरे पु० विश्वः ।
८ प्रजापतौ च पु० संक्षिप्तसा० । ९ मञ्जिष्ठायां स्त्री
राजनि० ।

वप्रि पु० वप--रि १ क्षेत्रे केदारे सि० कौ० । २ दुर्गतौ ३ समुद्रे च संक्षिप्तसा० ।

वभ्र गतौ भ्वा० पर० सक० सेट् । वभ्रति अवभ्रीत् ।

वम उद्गारे भ्वा० पर० सक० सेट् । वमति अवमीत् । ट्वित्

वमथुः । ज्वला० वमः वामः । वमयति वामयति
उपसृष्टस्य नित्यं ह्रस्वः । फणा० वेमतुः ववमतुः । उदित्
वमित्वा वान्त्वा वान्तः ।

वमथु पु० वम--अथुच् । वमने उद्गिरणे अमरकोषः ।

वमन न० वम ल्युट् । १ मर्दने २ छर्दने मेदि० ३ आहुतौ विश्वः

४ निःसारणे च “स्वर्गाभिष्यन्दवमनम्” कुमारः । ५ शरो
पु० । ६ जलौकायां स्त्री राजनि० गौरा० ङीष् ।

वमि स्त्री वम--इन् । १ छर्दौ छर्दिशब्दे २९८० पृ० दृश्यम् ।

२ अग्नौ पु० मेदि० ३ धूर्त्ते त्रि० शब्दर० ।

वमित पु० वम णिच् क्त । कृतोद्गारे ।

वय गतौ भ्वा० आ० सक० सेट् । वयते अवयिष्ट । अवयि(ढ्व)ध्वम् ।

वयस् न० अज--असुन् वीमावः । १ विहगे २ वाल्याद्यवस्था-

याम् अमरः “वयोऽतिपातोद्गतवातेति” नैष० । ३ यौवने
च विश्वः ।

वय(यः)स्थ पुंस्त्री० वयसि यौवने तिष्ठति स्था--क खर्परे

शरि वा विसर्गलोपः । १ तरुणे २ विभीतक्यां स्त्री अमरः ।
“वयस्था नागरासङ्गात्” वैद्यकम् । ३ आमलक्यां ४
हरीतक्यां ५ सोमवल्लर्य्यां स्त्री अमरः । ६ गुडूच्यां ७ सूक्ष्मैलायां
८ काकोल्याम् ९ आलौ स्त्री मेदि० । १० शाल्मलौ स्त्री
हेमच० । ११ क्षीरकाकोल्याम् भावप्र० १२ अत्यल्पपर्ण्यां
मत्स्याक्ष्यां १४ युवतौ च स्त्री राजनि० ।

वयस्य पु० वयसा तुल्यः यत् । १ समानवयस्के अमरः ।

२ सख्यां स्त्री अमरः ।

वयुन न० वय--उनन् । १ ज्ञाने भाग० १० । ८० श्रीधरः ।

२ देवागारे त्रिका० । देवागारे पु० उणासू० ।

वयोधस पु० वयो यौवनं धत्ते धा--असुन् । तरुणे उणा० ।

वयोरङ्ग न० वयसा रङमिव । लीसके राजनि ।

वर ईप्से अद० चु० उभ० सक० सेट् । वरयति ते अववरत् त ।

वर न० व्रियते वृ--कर्मणि अप् वरि--अच् वा । १ कुङ्कुमे २

मनागभीष्टे अमरः “वरं प्राणान् परित्यक्ष्ये” इति तन्त्रम् ।
मावे अप् अच् वा । ३ इच्छायाम् ४ याचने ५ आवरणे
६ वेष्टने च । वृ--कर्मणि अप् । ७ अभीष्टे ८ श्रेष्ठे च त्रि०
अमरः । ९ जारे १० जामातरि शब्दर० ११ गुग्गुलौ शब्दच०
१२ पत्यौ च पु० हेमच० । “तपोभिरिष्यते यस्तु देवेभ्यः
स वरोमतः” इत्युक्ते १३ पदार्थे ।

वरक पु० वृ--वुन् । १ वनमुद्गे हेमच० २ पर्पटे ३

तृणधान्यभेदे (चीना) च राजनि० । ४ पोताच्छादनवस्त्रे न०
हारा० ।

वरचन्दन न० कर्म० । १ कालीये २ देवदारुणि च मेदि० ।

वरट न० वृ--अटन् । १ कुन्दपुष्पे शब्दर० । २ कीटमेदे (वोलता)

२ हसे पुंस्त्री० मेदि० । स्त्रियाम् अजादि० टाप् अमरः ।
ङीष् मेदि० । ४ कुसुम्भवीजे भावप्र० । सा च ५ गन्धोल्यां
मेदि० ।
पृष्ठ ४८४८

वरण न० वृ--ल्युट् । कन्यादिदानाय जामात्रादेरभ्यर्थनानु-

कूले १ व्यापारभेदे २ वेष्टने मेदि० । ऋत्विगादेः क्रियासु
नियोनाय ३ पूजनादौ ५ उष्ट्रे पुंस्त्री० हारा० । ६ प्राकारे
७ वरुणवृक्षे च । (साँको) ख्याते ८ पदार्थे च ९ काशीस्थे
नदीभेदे स्त्री शब्दर० । वरुणशब्दे दृश्यम् ।

वरण्ड पु० वृ--अण्डच् (वयसफोड़ा) १ मुखरोगभेदे मातङ्ग

युद्धार्थे मध्यवेदौ च मेदि० ।

वरण्डक पुंन० वृ--अण्डच् संज्ञायां क । १ वरण्डशब्दार्थे

२ वर्तुले मेदि० । ३ भित्तौ हेमच० । ४ विशाले ५ कृपणे
६ भीते च त्रि० शब्दर० ।

वरण्डालु पु० वरण्ड इवालुः । एरण्डवृक्षे त्रिका० ।

वरतिक्त पु० वरः श्रेष्ठस्तिक्तो रसो यस्य । कुटजवृक्षे

राजनि० । २ पाठायाम् (आकनादि) स्त्री राजनि०
स्वार्थे क तत्रैव ।

वरत्रा स्त्री वृ--अत्रच् । हस्तिकक्षस्थरज्जौ अमरः ।

वरत्वच पु० वरा त्वचा यस्य । १ निम्बवृक्षे रत्नमा० ।

२ श्रेष्ठत्वग्युते त्रि० ।

वरद त्रि० वरं ददाति दा--क । १ अभीष्टदातरि अमरः ।

२ प्रसन्ने च मेदि० ३ तच्चिह्नसूचके हस्तादिविन्यासरूपे
मुद्राभेदे न० “अभयं वरदञ्चैव” श्यामाध्यानम् ।
४ कन्यायाम् स्त्री मेदि० । ५ अश्वगन्धायाम् स्त्री भावप्र०
६ आदित्यभक्तायां स्त्री राजनि० ७ दुर्गायाञ्च स्त्री ।

वरदाचतुर्थी स्त्री माघशुक्लचतुर्थ्याम् । तामधिकृत्य “चतुर्थी

वरदा नाम तस्यां गौरी सुपूजिता” ति० त० भविष्यपु० ।

वरदातु पु० दा--तुन् ६ त० । भूमीसहे वृक्षे राजनि० ।

वरपर्ण पु० वराणि पर्णाण्यस्य । क्षीरकञ्चु कीवृक्षे रत्नमा० ।

वरप्रदा स्त्री वरं प्रददाति दा--क । लोपामुद्रायां हेसच० ।

२ वरप्रदातरि त्रि० ।

वरफल पु० वरं फलमस्य । १ नारिकेले वृक्षे शब्दच० । कर्म० ।

२ श्रेष्ठे फले न० ।

वरमुखी स्त्री वरं मुखं यस्याः ङीप् । रेणुकानामगन्धद्रव्ये शब्दच० ।

वरम् अव्य० वृ--अमु । ईषदभिष्टे मेदि० ।

वरम्बरा स्त्री वरं बृणोति वृ--खुच् मुम् । (चाकुलिया)

१ चक्रपर्ण्याम् शब्दच० । २ पतिम्बरायां कन्यायाञ्च ।

वररुचि त्रि० वरा रुचियेस्य । १ श्रेष्ठप्रीतियुते । २ पाणिनि-

सूत्रवार्त्तिककारे कात्यायनमुनो त्रिका० । ३ विक्रमादित्य-
सभास्थे पण्डितभेदे च । नवरत्नशब्दे ३९९२ पृ० दृश्यम ।

वरल पु० वृ--अलच् । १ वरटे त्रिका० २ कीटभेदे शब्दमा०

स्त्रियां गौरा० ङीष् वरटाया स्त्री जटा० अजा० टाप् ।

वरलब्ध पु० वरः उत्कर्षः पुष्पेषु लब्धो येन परनि० । १ चम्पके

त्रिका० २ प्राप्तवरे त्रि० ।

वरवर्णिनी स्त्री वरः श्रेष्ठो वर्णः प्रशंसाऽस्त्यस्याः इति ।

उत्तमस्त्रियाम् अमरः । २ लाक्षायां ३ हरिद्रायां ४
रोचनायां ५ फलिन्यां ६ साध्व्यां स्त्रियां मेदि० । ७ गौर्य्यां
८ लक्ष्म्यां ९ पार्वत्यां च शब्दर० ।

वरवाह्लीक न० कर्म० । कुङ्कुमे अमरः ।

वरा स्त्री वृ--अच् । हरितक्यामलकीवयस्थारूपे फलत्रिके

मेदि० । २ रेणुकानासगन्धद्रव्ये शब्दच० । ३ मुडूच्याम्
४ मेदायां ५ ब्राह्म्याम् ६ विडङ्गे ७ पाठायाम् ८ हरिद्रा-
याञ्च राजनि० ।

वराक पु० वृ--षाकन् । १ शिवे मेदि० । २ युद्धे न० हेमच० ।

३ अवरे त्रि० शब्दर० । ४ शोचनीये च त्रि० मेदि० खियां
ङीष् ।

वराङ्ग न० कर्म० । १ मस्तके । व्रियते आव्रियते गुप्यते

वृअप् । २ गुह्ये अमरः । ३ योनौ ४ गुड़त्वचि च त्रिका० ।
६ ब० । ५ गजे पुंस्त्री० त्रिका० स्त्रियां ङीष् ६ विष्णौ
विष्णुस० । ७ कामदेवे च पु० । ८ श्रेष्ठावयवयुक्ते त्रि० ।
८ हरिद्रायाम् स्त्री राजनि० । गौरा० ङीष् । संज्ञायां
कन् । गुड़त्वचि (दाराचनि) न० अमरः ।

वराङ्गिन् पु० वराङ्गमस्त्यस्या इनि । १ अम्लवेतसे रत्नमा० ।

२ श्रेष्ठाङ्गयुते त्रि० स्त्रियां ङीप् ।

वराट पु० वरमल्पमटति अट--अण् । १ कपर्दे राजनि० ।

२ रज्जौ च पु० रत्नको० । स्वार्थे क । तत्रार्थे “वराटकानां
दशकद्वयं यत्” लीला० अट--ण्वुल् । वराटक पद्मवीजा-
धारे कोषे पु० अमरः ।

वराटकरजस् पु० वराटके इव रजोऽत्र । नागकेशरे वृक्षे शब्दमा० ।

वराण पु० वृ--आनन् । १ इन्द्रे त्रिका० । २ वरुणवृक्षे शब्दर०

वरादन न० वरैर्नृपैरद्यते अद--ल्युट् । राजादने (पिया-

साल) शब्दच० ।

वराम्र पु० वरः आम्र इव । करमर्दे रत्नमा० ।

वरारोह पु० वर आरोहो मध्यं यस्य । १ हस्तिनि विश्वः

२ प्रशस्तनितम्बवत्यां स्त्रियां स्त्री अमरः ।

वरालिका स्त्री वरानामालिर्यस्यां कप् । दुर्गायां त्रिका० ।

वराशि पु० वरमावरणमश्नुते अश--इन् । स्थूलवस्त्रे अमरः ।

पृष्ठ ४८४९

वरासन न० वराय वरणीयायास्यते क्षिप्यते अस--ल्युट् ।

१ जवापुष्पे शब्दमा० । कर्म० । २ उत्तमे आसने न० ।
वरं पतिमस्यति अस--ल्यु । ३ षिड्गे जारे पु० । वरान्
श्रेष्ठानपि अस्यति दूरीकरोति ल्यु । ४ द्वारपाले च पु०
विश्वः ।

वरासि पु० वरायावरणायास्यते अस--इन् । १ स्थूलवस्त्रे २ खङ्गधरे च धरणिः ।

वराह पुस्त्री० वराय अभीष्ठाय मुस्तादिलाभाय आहन्ति

खनति भूमिम् आ + हन--ड । १ शूकरे अमरः स्त्रियां
ङीष् । २ यज्ञवराहाख्ये भगवतोऽवतारभेदे पु० ३ पर्वत-
भेदे ४ मुस्तके ५ मानभेदे मेदि० । ६ शिशुमारे ७ वाराही-
कन्दे पु० राजनि० ८ अष्टादशद्वीपमध्ये द्वीपभेदे च ।
“गन्धर्वो वरुणः सौम्यो वराहः कङ्क एव च । कुमु-
दस कसेरुश्च नागो भद्रारकस्तथा । चन्द्रेन्द्र मलयाः
शङ्ख यवाङ्गक गभस्तिपान् । ताम्राङ्गस कुमारी च तत्र
द्वीपा दशाष्टभिः” शब्दमा० ।

वराहकन्द पु० वराहप्रियः कन्दः शा० त० । स्वनामख्याते

वृक्षभेदे राजनि० ।

वराहकान्ता स्त्री वराहाणां कान्ताऽभीष्ठा । वराहकन्दे शब्दर० ।

वराहक्रान्ता स्त्री वराहेण क्रान्तेव । १ लज्जालुलतायाम्

शब्दच० २ वाराह्यां (चामरालु) सुभूतिः ।

वराहिका स्त्री वराहो भक्षकत्वेनास्त्यस्याः ठन् ।

कपिकच्छ्वाम् राजनि० ।

वराही स्त्री वराहो भक्षकत्वेनास्त्यस्या अच् गौरा० ङीष् ।

१ भद्रमुस्तायाम् २ वराहकन्दे च राजनि० ।

वरिवस् न० वृ + वसुन् इट् च । १ पूजने २ धने च निघण्टुः ।

वरिवसि(स्यि)त त्रि० वरिवः पूजनं करोति क्यच्--क्त वा

नलोपः । पूजिते अमरः ।

वरिवस्या स्त्री वरिवम् + कृत्यर्थे क्यच्--भावे अ । १ पूजने २ शुश्रूषायाम् अमरः ।

वरिष्ठ त्रि० अतिशयेन उरुः इष्ठन् वरादेशः । १ उरुतमे

२ तित्तिरिविहगे पुंस्त्री० स्त्रियां ङीष् ३ नागरङ्गवृक्षे
पु० र जनि० । ४ ताम्रे न० अमरः । ५ मरिचे न० मेदि०
६ वत्से अजयः । ७ आदित्यभक्तायां स्त्री राजनि० ।

वरी स्त्री वरी शतावरी पूर्वपदलोपः । १ शतावर्य्याम् अमरः

२ सूर्य्यपत्न्याञ्च त्रिका० ।

वरीयस् त्रि० अतिशयेन उरुः श्रेष्ठः ईयञ्चत् वरादेशः ।

१ उरुतमे विष्कन्धादिषु मध्ये २ अष्टादशे योगभेदे पु०
ज्यो० त० ।

वरी(ली)वर्ह् पु० वृध--यड्--लुक् अच् पृषो० रख वा लः । वृषभे अमरः ।

वरुट पुंस्त्री० म्लेच्छजातिविशेषे स्त्रियां ङीष् । “पुलिन्दा

नाहला निष्ट्याः शवरा वरुटा भटाः । मालाः भिल्लाः
किराताश्च सर्वेऽपि म्लेच्छजातय” हेमच० ।

वरुड पु० वृ--उडन् । अन्त्यजजातिभेदे स्त्रियां ङीष् ।

“रजकश्चर्मकारश्च नटोवरुड एव च” मनुः ।

वरुण पु० वृ--उनन् । पश्चिमाशापतौ १ जलेशे स्वनामख्याते

देवभेदे अमरः । २ जले मेदि० ३ सूर्य्ये च विश्वः । ५ द्वीप-
भेदे वराहशब्दे दृश्यम् । ६ काशीस्थे नदीभेदे स्त्री ।
काशीस्थनदीभेदस्योत्पत्त्यादिकं वामनपु० ३ अ० उक्तं यथा
“प्रयागे वसते नित्यं योगशायी तु विश्रुतः । चरणाद्द-
क्षिणात्तस्य विनिर्याता सरिद्वरा । विश्रुता वरु(र)णेत्येर्व
सर्वपापहरा शुभा । सव्यात् पादात् द्वितीया च
असिरित्येव विश्रुता । ते उभे च सरित्श्रेष्ठे लोकपूज्ये
बभूवतुः । तयोर्मध्ये तु यो देशस्तत्क्षेत्रं योगशा-
यिनः । त्रैलोक्यप्रभवं तीर्थं सर्वपापप्रमोचनम् । न
तादृशोऽस्ति गगने न भूम्यां न रसातले । तत्रास्ति
नगरी पुण्या ख्याता वाराणसो शुभा” ।
७ स्वनामख्यातवृक्षभेदे पु० अमरः “वरुणः पित्तलो भेदी
श्लेष्मकृच्छ्राश्ममारुतान् । निहन्ति गुल्मवातास्र
क्रिमींश्चीष्णोऽग्निदोपनः । कषायो मधुरस्तिक्तः कटुक्तो
रूक्षको लघुः” भावप्र० ।

वरुणात्मजा स्त्री वरुणस्य जलस्यात्मजेव जन्यत्वात् ।

जलभवे मद्ये अमरः ।

वरुणानी स्त्री वरुणस्य पत्नी ङीष् आनुक् च । वरुणपत्न्याम् जटा० ।

वरुत्र न० वृ--उत्र । उत्तरीयवस्त्रे सि० कौ०

वरूथ न० वृ--ऊथन् । तनुत्राणे हेमच० २ चर्मणि मेदि० ।

३ रथगुप्तिस्थाने परप्रहाररक्षार्थमावृते स्थाने पु० अमरः ।

वरूथिनी स्त्री वरूथोऽस्त्यस्याः इनि । सेनायाम् अमरः ।

वरेण्य न० वृ--एन्य । १ कुङ्कुमे राजनि० २ प्रधाने ३ प्रार्थ-

नीये च त्रि० अमरः ।

वरेन्द्री स्त्री गौडदेशे त्रिका० । साभिजमोऽस्य अण् । वारेन्द्र विप्रभेदे ।

वरोट न० वराण्युटानि दलान्यस्य । मरुवकपुष्पे अमरः ।

वरोल पुंस्त्री० वृ--ओल । वरटे कीटभेदे त्रिका० । स्त्रियां ङीष

वर्कर पु० वृक--अरन् । १ तरुणपशौ अमरः २ मेषशावके

भरतः ३ छागमात्रे पुंस्त्री० स्त्रियां ङीष् ४ परिहासे मेदि०

वर्ग पु० वृज--घञ् । १ सजातीयसमूहे अमरः । यथा मनुष्य-

वर्गः पशुवर्गः । समानधर्मिभिः प्राण्यप्राणिभिः कृते
२ संघे च यथा कवर्गः चवर्गः । अत्र कत्वलत्वादिना
पृष्ठ ४८५०
विजातीयत्वेऽपि स्थानसाम्यमस्ति । ३ ग्रन्थपरिच्छेदे यथा
स्वर्गवर्गः पातालवर्गः । ४ अङ्कशास्त्रोक्ते समानाङ्कद्वयस्य
परम्परगुणने यथा द्विकस्य चत्वारि, त्रिकस्य नव,
चतुष्कस्य षोड़श इत्यादि । “स्थाप्योऽन्त्यवर्गः” “वर्गं मूलं
पदं कृतिम्” इति च लीला० । वृज--घञ् । ५ त्यागे । ग्रन्थ
परिच्छेदाश्च बहुविधाः यथा “सर्गोवर्गपलिच्छेदोद्घाता-
ध्यायाङ्कसंग्रहाः । उच्छ्वासः परिवर्त्तश्च पटलः काण्ड-
मस्त्रियाम् । स्थानं प्रकरणं पर्वाह्णिकञ्च ग्रन्थसन्धयः”
त्रिका० ।

वर्गप्रकृति वीजगणितोक्ते गणनाप्रकारभेदे तत्र दृश्यम् ।

वर्गमूल न० वर्मस्य समद्विघातात्मककृतेः मूलम् । अङ्कशास्त्र-

प्रसिद्धं समाङ्कद्वयेन हताङ्कमङ्क्यायाः यन्मूलं घातसाधनं
तत्र । यथा षोड़शानां चत्वारि नवानां त्रयः चतुर्णां
द्वौ इत्यादि ।

वर्गोत्तम पु० वर्गेषु षट्सु क्षेत्रादिषु उत्तमः मवांशः ।

“चराणां प्रथमे चांशे स्थिराणां पञ्चमे तथा । ह्यात्म-
कानाञ्च नवमे वर्गोत्तम इति स्मृतः” इति ज्योतिषोक्ते
त्रिंशांशकात्मकराशेर्नवांशभेदे ।

वर्च दीप्तौ भ्वा० आत्म० अक० सेट् । वर्चते अवर्चिष्ट ।

वर्चस् न० वर्च--असुन । १ रूपे २ शुक्रे ३ तेजसि ४ विष्ठा-

याञ्च मेदि० । ५ चन्द्रपुत्रे पु० “रोहिण्यामभवद्वर्च्चा वर्चम्बी
येन चन्द्रमा” वह्निपु० । स्वार्थे क । विष्ठायाम् अमरः ।

वर्च्चस्विन् त्रि० वर्चस् + अस्त्यर्थे विनि । तेजस्विनि स्त्रियां

ङीप् ।

वर्जन न० वृज ल्युट् । १ त्यागे २ हिंसायां च ३ मारणे मेदि०

वर्ण्ण स्तुतौ विस्तारे शुक्लादिवर्णकरणे उद्योगे दीपने च

अदु० चु० उभ० सक० सेट । वर्णयति ते अववर्णत् त ।

वर्ण्ण वर्णने चु० उभ० सक० सेट् । वर्णयति ते अववर्णत् त ।

वर्ण न० वर्ण--अच् । १ कुङ्कुम न० २ स्वर्णे ३ व्रते ४ शुक्लादिरूपे

५ अकाराद्यक्षरे ६ भेदे ७ गीतक्रमे ८ चित्रे ९ तालभेदे
१० अङ्गरागे पु० हेमच० । ११ गजचित्रकम्बले पु० अमरः
१२ यशसि १३ गुणे १४ स्तुतौ पु० मेदि० । भेद रूपे अक्षरे
पु० न० मेदि० । १५ ब्राह्मणादिजातौ पु० अमरः ।
“चातुर्वर्ण्यं मया सृष्टम्” गीता ।
तत्र विप्रादिवर्णानां सृष्टिः तद्धर्माश्च मनुना उक्ता यथा
“लोकानान्तु विवृद्ध्यर्थं सुखबाहूरूपादतः । ब्राह्मणं
क्षत्त्रियं वैश्यं शूद्रञ्च निरवर्त्तयत्” । “मुस्ववाहूरूपज्जानां
पृथक् कर्माण्यकल्पयत् । अध्यापनमध्ययनं यजनं
याजनस्तथा” “ब्राह्मणोऽमा मुखमासीद्बाहूराजन्यः
कृतः । ऊरू तदस्य यद्वैश्यः पद्भ्यां शूद्रो अजायत”
यजु० ३१ ११ तेषां ब्राह्मणस्य श्रैष्ठ्ये कारणं मनुनोक्तं
यथा “ऊर्ध्यनाभेर्मेध्यतरः पुरुषः परिकीर्त्तितः ।
तस्मान्मेध्यतमं त्वस्य मुखमुक्तं स्वयम्भुवा । उत्तमा-
ङ्गोद्भवात् ज्यैष्ट्याद् ब्रह्मणश्चैव धारणात् । सर्वस्यै-
वास्य सर्गस्य धर्मतो ब्राह्मणः प्रभुः” वर्णधर्माश्च जाति-
धर्मशब्दे ३१०५ पृ० दृश्याः ।
तत्र अक्षररूपवर्णोत्पत्तिक्रमः तत्भेदाश्च शब्दार्थरत्ने-
ऽस्माभिरुक्ता यथा
“अथ वर्णोत्पत्तिप्रकारस्तावदभिधीयते । चेतनेन ज्ञाता-
र्थविवक्षया तद्बोधकशब्दनिष्पादनाय प्रेरितमन्तःकरणं
मूलाधारस्थितमनलं चालयति तच्चालितश्चानलः
तत्स्थलस्थानिलचालनाय प्रभवति तच्चालितेन चानिलेन
तत्रैव सूक्ष्मरूपेणोत्पादितः शब्दः परा वागित्यभि-
चीयते । ततोनाभिदेशपर्य्यन्तं चलितेन तेन तद्देश
संयोगादुत्पादितः शब्दः पश्यन्तीति व्यवह्रियते
एतद्वयस्य सृक्ष्मसूक्ष्मतरतया ईश्वरयोगिमात्रगम्यता नास्म-
दोयश्रुतिगीचरता । ततस्तेनैव हृदयदेशं परिसरता
हृदयसंयोगेन निष्पादितः शब्दो मध्येत्युच्यते सा च
स्वकर्णपिधानेन ध्वन्यात्मकतया सूक्ष्मरूपेण कदाचिद-
स्याकभवि समधिगम्या । तती मुखपर्य्यन्तमागच्छता तेन
कण्ठदेशं प्राप्य आहत्य मूर्द्धानं तत्प्रतिघातेन
परावृत्य च मुखविवरे कण्ठादिषु तत्तदष्टस्थानेषु स्वाभिघाते-
नोत्पादितः शब्दो वैस्वरीत्युच्यते । तदुक्तं शिक्षायाम्
“आत्मा बुद्ध्या समेत्यार्थान् मनो युङ्क्ते विवक्षया ।
मनः कायाग्निमाहन्ति स प्रेरयति मारुतम् ।
सोदीर्णो मूर्घ्न्यमिहतो वक्त्रमापद्य मारुतः । वर्णान्
जनयते तेषां विभागः पञ्चधा मतः । स्वरतः कालतः
स्थानात् प्रयत्नानुप्रदानतः” इति । संस्काररूपेण स्वगता-
नर्थान् बुद्ध्या बुद्धिवृत्त्या समेत्य विवयीकृत्येर्थः । तथा ।
“प्राणापानान्तरे देवी वाग्वै नित्यं हि तिष्ठति ।
स्थानेषु विकृते वायौ कृतवर्णपरिग्रहा । वैखरी वाक्
प्रयोक्तॄणां प्राणवृत्तिनिवन्धिनी । केवलं बुद्धुव्रपादा-
ना क्रमरूपानुपातिनी । प्राणवृत्तिमनुक्रम्य मध्यमा
वाक् प्रवर्त्तते । अविभागा तु पश्यन्ती सर्वतः संहृत-
क्रमा । स्वरूपज्योतिरेवातः परा वागनपायिनीति”
भारतेऽप्युक्तम् । अत्र प्राणापानान्तरे इत्यधिकरणनिदे-
पृष्ठ ४८५१
शादाकाशस्थायिता नित्यमित्यभिधानात् यावत्प्रलय-
पर्य्यन्तस्थायिता प्राणापानादेरपि तथैव नित्यत्वाभ्युप-
गमात् । न तु क्षणिकता मध्ये उत्पत्तिविनाशकल्पने
गोरवात् शब्दार्थयोर्नित्यसम्बन्धस्वीकारादनित्येन शब्देन
नित्यार्थमम्बन्धस्वीकारेऽयुक्तत्वापत्तेश्च । नित्यत्वेऽपि तेषां
व्यञ्जकसद्भावाभावाभ्यां प्रत्ययापत्ययावित्यन्यत्र विस्तरः ।
स्थानेषु कण्ठताल्वाद्यष्टस्थानेषु वायौ मूलाधारस्थे
विकृते विवक्षाप्रेरितमनोनियुक्ताम्बिसंक्षोभाच्चलिते
इत्यर्थः । कृतवर्णपरिग्रहा वर्णभावापन्ना, तच्च स्थाने-
ष्विति व्यवहितेनान्वितम् । प्राणवृत्तिनिबन्धिनीत्यनेन
व्राणवृत्तेर्वायोस्तत्तद्देशपर्य्यन्तगमनमभिहितं, केबलमित्य-
नेन कण्ठताल्वादिस्थानानपेक्षाभिहिता । बुद्ध्युपा-
दानेत्यनेन हृदयस्थानगमनमुक्तं बुद्धेर्हृदयस्थत्वात् ।
सर्वतः सहृतक्रमेत्यनेन हृदयस्थानगमनानपेक्षाभि-
हिता । अविभागेत्यनेन मध्यमाया विभागरूपविशे-
षस्य कर्णपिधानेनाप्यवगमात् पश्यन्त्यास्तु तद्व्युदासः ।
अनपायिनी स्वस्थानादचलिता प्राणापानान्तरे मूला-
धारस्थितेति यावत् । अतो यथाप्रदर्शितं परादीनां
विभागं प्रतिपादयतीदं महाभारतीयमलं विस्तरेण ।”
अभिघातस्थानानि चाष्टविधानि सामान्यतो वेदित-
व्यानि “अष्टौ स्थानानि वर्णानामुरः कण्ठः शिरस्तथा ।
जिह्वामूलञ्च दन्ताश्च नासिकोष्ठौ च तालु चेति” शिक्षा
कृदुक्तेः । वर्णाश्च मतभेदेन त्रिषष्टिश्चतुःषष्टिर्वा शिक्षा-
यामभिहिता वेदितव्याः । यथा “चतुःषष्टिस्त्रिष-
ष्टिवा वर्णाः सम्भवतो मताः । स्वरा विंशतिरेकश्च
स्पर्शानां पञ्चविंशतिः । यादयश्च स्मृता ह्यष्टौ चत्वा
रश्च यमाः स्मृताः । अनुस्वारो विसर्गश्च + कँओपौ चापि
पराश्रितौ । दुःस्पृष्टश्चेति विज्ञेयो ऌकारः प्लुत एव
वेति” । अस्यार्थः अ इ उ ऋ इत्येषां ह्रस्वदीर्घप्लुताः
कालकृता द्वादश भेदाः ऌकारस्यैकौ भेदोऽस्य दीर्घाभावात्
प्लुतस्तूत्तरं प्रतिपादितः । एवां चतुर्णां ह्रस्वाभावात्
दीघप्लुतभेदेनाष्टौ भेदाः इत्येकविंशतिः स्वराः । स्पर्शाः
कादयो मावसानाः पञ्चविंशतिः । यादयो हान्ता
अष्टौ । यमाः वर्गेष्वाद्यानां चतुर्णां पञ्चमे परे मध्ये
पूर्बसदृशाः प्रातिशाख्ये प्रसिद्धाश्चत्वारो वर्णाः । यथा
पलिक्ँक्री चख्ँग्नतुः । अग्ँग्निः । पतिघ्ँध्नी-
त्यादौ । अनुस्वारादयश्चत्वारः स्पष्टाः । + कँपौ
चापि परामितावित्युक्तिस्तु फखयोः परवोरेकविधः
पफयो परयोरन्यविधः कण्ठ्योष्ठ्यत्वभेदादिति ज्ञाप-
नाय । दुःस्पृष्टः ईषत्स्पृष्टः ऌकारः । “अचोऽस्पृष्टा
षणस्त्वीषन्नेमस्पृष्टाः शलस्तथा” इत्यनेन प्रतिपादितस्य
यण्पदाभिधेययवरलो धर्मस्य ईषत्स्पृष्टत्वस्य ऌकारे
कथनात् ऌकारस्य स्वरत्वयण्त्वोभयधर्मसमावेशात् द्विवि-
धता इति त्रिषष्टिर्भेदाः । ऌकारस्य प्लुतत्वे चतुः-
षष्टिर्भेदाः । एवं वर्णानां सामान्यतो भेदे वोघिते
एतेषामुत्पत्तिस्थानानि बाह्याभ्यन्तरप्रयत्नमेदान प्रद-
र्श्यन्ते । तत्र स्थानानि “हकारं पञ्चमैर्युक्तमन्त-
स्थाभिश्च संयुतम् । औरस्यन्तं विजानीयात् कण्ठ्य-
माहुरसंयुतम् । कण्ठ्यावहाविचुयशास्तालव्या ओष्ठ-
जावुपू । स्युर्मूर्द्धन्था ऋटुरषा दन्त्या ऌतुलसाः
स्मृताः । जिह्वामूले तु कुः प्रोक्तः दन्त्यौष्ट्यो वः स्मृतो
बुधैः । ए ऐ तु कण्ठ्यतालव्यावोऔ कण्ठ्योष्ठजौ
स्मृतौ । अर्द्धमात्रा तु कण्ठ्या स्यादेकारैकारयोर्भवेत् ।
ओकारौकारयोस्तद्वदिति” । “अनुस्वारयमानाञ्च नासिका
स्थानमुच्यते । अयोगवाहा विज्ञेया आश्रयस्थान०
भागिन इति शिक्षाकृदुक्तानि बेदितव्यानि । यद्यपि
सर्वेषां वर्णानामुच्चारणे कण्ठव्यापार आवश्यकस्तथापि
चकाराद्युच्चारणे ताल्वादिव्यापारोऽप्यपेक्षित इति तन्मा-
त्रामात्रकृतत्वेन वर्णानां वैलक्षण्यम् । “जिह्वमूले तु
कुः प्रोक्तः” इति पाणिनिशिक्षाभिधानात् कवर्गस्य
कण्ठ्यत्वव्यवहारस्तु कण्टशब्दस्य कण्टमूलपरतया
भाक्त एव तवर्गस्य दत्तमूलीयत्वेन दन्त्यत्ववत् अन्यथा
भग्नदन्तस्य तदनुच्चारापत्तेः । जिह्वामूलीयस्य आश्र-
यस्थानभागित्वेन तदाश्रयस्य कोरपि जिह्वामूलस्थान-
त्वौचित्यात् । दन्त्योष्ठ्योव इत्यादावुभयोरेव प्रत्येक
वकारस्थानत्वं नं तु समुदितयोः तथा सति दन्तोष्ठ्य
इत्येव परिशिक्ष्येत । अतस्तस्य दन्त्वौष्ठ्योमयकार्य्यनि-
मित्तता एवमग्रेपि द्रष्टव्यम् । यमानां प्रातिशाख्य-
प्रसिद्धानां काँदिचतुष्टयानां पूर्वोदितानां यम्संज्ञा-
नोधितानाञ्च नासिकापि स्थानमधिकमुपदिश्यते । तत्रा
च यमेत्युपलक्षणम् । “अमोऽनुनासिका नह्रौ” इत्युक्त्य ।
हकाररकारभिन्नानाममानां नासिका स्थानत्वाभिधानात्
नासामनुगतः स्थानत्वेनेत्यनुनासिकशब्दव्युत्पत्त्या
नासिकास्थानत्वप्राप्तेश्च । तत्र नह्राविति पुनः हकार-
रकारयोः पर्य्युदासः । “मुखनासिकावचनोऽनुनासिकाः
इति पा० सूत्रे मुखपदस्य कण्ठादितत्तत्स्थानपरतया
पृष्ठ ४८५२
यमानामुभयस्थानत्वम् । अयोगवाहा विसर्गा जिह्वा-
मूलीयोपाध्मानीययोरपि विसर्गविशेषरूपत्वेनाश्रयस्थान-
भागित्वम । आश्रयस्थानभागित्वञ्च यमाश्रित्यैते
उच्चार्य्यन्ते तत्स्यानभागित्वमतः विसर्गस्य कखयोः
परयोर्जिह्वामूलोच्चार्य्यमाणयोराश्रयत्वेन तत्स्थानभागि-
त्वात् जिह्वामूलीयरूपान्वितनामता समुन्नेया । पफयोः
परयोरोष्ठोच्चार्य्यमाणयोराश्रयत्वेनोप ध्मानीयता । उश्च
पश्च आध्मायेते अनेन स्थाननेति व्युत्पत्तेः उपाध्मान
शब्द ओषवचनः । तत्स्थानयोग्यत्वादन्वितनामता
चावधेया । अतएव “कौमुद्यां जिह्वामूलीयस्य जिह्वा-
मूलमुपाध्मानीयस्योष्ठावित्युक्तम् । यद्यपि सर्वेषां वर्णा-
नामाकाशस्थानत्वं करणत्वञ्च कण्ठादीनां तदुत्पत्तौ
युक्तं तथापि तेषां स्थानत्वव्यवहारो वर्णाभिव्यञ्जक-
ताल्वादौ वर्णजनकवायुसंयोगाधारे वर्णाधारत्वारोपेण
भाक्त एव । तत्तत्स्थानेषु जिह्वाग्रादिसम्बन्धेन वर्णोत्-
पत्त्या जिह्वाग्रादिस्थिते तत्सम्बन्धजनकप्रयत्नविशेषे
आभ्यन्तरप्रयत्नवाच्ये स्पृष्टतादावेव करणत्वव्यवहारः
समुचित । वर्णाभिव्यक्त्यनन्तरभाविनस्त आन्तरतम्य-
परीक्षोपयुक्ताः कण्ठविवरविकाशादेरास्यवहिर्देशाव-
च्छिन्नकार्य्यस्य जनका बाह्या यत्ना गुणशब्देनोच्यन्ते
इत्यादिकं शेखरादौ स्पष्टम् । आभ्यन्तरप्रयत्नास्तु
वर्णोत्पत्तेः प्राग्भाविनो वाह्यास्तु तदुत्पत्तेः पश्चाद्भाविन
इति विवेकः । तथाहि नाभिदेशात् प्तयत्नप्रेरितः
प्राणवायुरूर्द्ध्वमागच्छन्नुरःप्रमृतीनि स्थानान्याहन्ति
उत्पादयति च ततो वर्णान् तदभिव्यञ्जकध्वनींश्च तत्र
वर्णोत्पत्तेः प्राक् जिह्वाग्रोपाग्रमध्यमूलानि तत्तद्वर्णो
त्पत्तिस्थानं ताल्वादिकं यदा सम्यक् स्पृशन्ति तदा
स्पृष्टता प्रयत्नो यदा ईषत् स्पृशन्ति तथा ईषत्स्पृष्टता
समीपावस्थाने संवृतता दूरावस्थाने विवृतता इत्येव-
माभ्यन्तरप्रयत्नभेदात् वर्णानां भेदाः । अतएव
इचवर्गयशानां तालव्यत्वाविशेषेऽपि चवर्गोच्चारणे कर्त्तव्ये
तालुस्थानेन सह जिह्वाग्रादीनां सम्यक् स्पर्शः,
यकारोच्चारणे तु ईषत् स्पर्शः शकारेकारोच्चारणे दूरमनो-
पावस्थानमिति । एतेषां चाभ्यन्तरत्वं ओष्ठप्रभृति-
काकलीजनककाकलस्थानपर्य्यन्तरूपास्यान्तर्गततत्तत्स्थानेषु
जिह्वाग्रादीनां स्पर्शादिचतुष्टयरूपाभ्यन्तरकार्य्यकारि-
त्वात् वर्णोत्पत्त्यव्यवहितप्राग्भावित्वाच्च बोध्यम् ।
विवारसंवारौ तु गलतिलस्य विकाशाविकाशात्मकौ
बाह्यौ प्रयत्नौ विवृतसंवृताभ्यां भिन्नावेव तयोः समीप-
दूरावस्थानात्मकत्वादिति विवेक्तव्यम् । ते च आभ्य-
न्तराः प्रयत्नाः केषां वर्णानाङ्के इत्येतत्तावदधीयते ।
कादिमावसानानां स्पृष्टता अतएव तेषां सक्यक्स्पर्श-
वत्त्वेन स्पर्शपदवाच्यता । यणः ईषत् स्पृष्टता । तेषाञ्च
स्पृष्टविवृतयोर्मध्यस्थितत्वेन लौकिकव्यवहारेष्वपि
शसादीनां वर्ग्याणाञ्च मध्यस्थितत्वेन चान्तःस्थवर्णत्वम् अन्तः-
स्थाभिश्च संयुतमित्युक्तेरन्तःस्थाशब्दः आदन्तः । शषसहानां
अचाञ्च विवृतता । शसहानाञ्च उष्मशब्दाभिधेयवायु-
प्रधानत्वात् ऊष्मशब्दवाच्यता । अचाञ्च स्वयं राजमान-
त्वात् उदात्तादिस्वरवत्त्वाच्च स्वराभिधेयता । “अचः स्वयं
विराजन्ते” इत्युक्तेः “उदात्तश्चानुदात्तश्च स्वरितश्च स्वरा-
स्त्रयः । ह्रस्वो दीर्घः प्लुतश्चेति कालतो नियमा
अचित्युक्तेश्च । तत्र ह्रस्वस्य संवृतता । “संवृतं त्वेकमात्रं स्यात्
विवृतन्तु द्विमात्रकम्” इत्युक्तेः ह्रस्वस्यैकमात्रतया प्रयोगे
संवृतता प्रक्रियायान्तु विवृततैव । तत्र मूलं “अचो-
स्पृष्टा यणस्त्वोषन् नेमस्पृष्टाः शलस्तथा । शेषाः
स्पृष्टा हलः प्रोक्ता” इति शिक्षावाक्यमेव बोध्यम् ।
अत्राचः स्पर्शाभावरूपविवृतत्ववन्तः यणः यवरणस्त्वीषत्
स्पृष्टा इत्यर्थः नेमैत्यर्द्धवाची । शलः शषसहा
नेमस्पृष्टा अर्द्धस्पृष्टा अर्थादर्द्धविवृताः । “स्वराणामुश-
णाञ्चैव विवृतं करणं स्मृतम्” इत्येकवाक्यत्वात् । एते च
स्थानप्रयत्नाः सवर्णसंज्ञायामुपयुक्ताः बाह्यप्रयत्नास्तु
आन्तरतम्यपरीक्षायासेवोपयोगिन इति “तुल्यास्यप्रयत्नं
सवणमिति” पा० सूत्रभाष्यादौ स्पष्टम् । तेन तकारस्थाने
विवारश्वासघोषाल्पप्राणरूपबाह्यप्रयत्नसाम्येन चकारटका-
रादेशः “स्थानेऽन्तरतमः” इति पा० सूत्रभाष्ययोः स्पष्टम् ।
बहुसमानघर्मत्वमेवान्तरतम्ये हेतुरिति बोध्यम् ।”
“बाह्याःप्रयत्नाश्चाष्टविधाः काकलकाधःस्थलगलबिलसङ्कोच-
विकाशश्वासोत्पत्तिध्वनिविशेषघोषाल्पघोषप्राणाल्पत्वमहत्त्व
रूपकार्य्यकरा यथाक्रमं विवारसवारश्वासनादघोषाल्प-
घोषाल्पप्राणमहाप्राणनामानो मन्तव्याः । प्रयत्नप्रेरितो
वायुर्वर्णानभिव्यञ्ज्य यत्नविशेषेण गलविलविकाशादीनपि
सम्पादयति अतो गलबिलविकाशादिकरत्वादास्यवहि-
र्देशकार्य्यकरत्वात् चैते बाह्या इति । ते च “स्वयां
यमाः खयः + कँपौ विसर्गः शर एव च । एते श्वासा-
नुप्रदाना अघोषाश्च विवृण्वते । कण्ठमन्ये तु घोषाः
स्युः संवारा नादभागिनः । अयुग्मा वर्गयमगायणश्चा-
पृष्ठ ४८५३
ल्पासवः स्मृताः” इति सिद्धान्तकौमुद्युक्तदिशावसेयाः ।
खयां स्थाने जाता ये यमाः पूर्वोक्ताः प्रातिशाख्ये
प्रसिद्धाः । खयः, शरः शषसहाः । एते श्वासानुप्रदाना
अघोषाः कण्ठं विवृण्वते च । अन्ये एतद्भिञ्चाः सर्वे
वर्णा घोषसंवारनादबाह्यप्रयत्नवन्तः । वर्गीयप्रथमतृतीय-
पञ्चमवर्णाः प्रथमतृतीयवर्गजातयमाश्च पूर्वोक्ताः यणश्च
एते अल्पपाणास्तद्भिन्नाः सर्वे महाप्राणा इति
विवेकः ।” “तथा उदात्तानुदात्तस्वरितरूपास्त्रिविधाः
स्वरा ह्रस्वदीर्घप्लुतकालभेदाश्च स्वराणां विशेषाधाने
हेतवो वेदितव्याः । तथा हि “विभागः पञ्चधा मतः”
इत्युपक्रम्य “स्वरतः कालतः स्थानात् प्रयत्नानुप्रदानतः”
इति स्वरकालस्थानप्रयत्नानुप्रदानाभिधेयबाह्यप्रयत्नान्
वर्णविमाजकान् पञ्च सामान्यतो निर्दिश्य शिक्षाकृता
उदात्तश्चानुदात्तश्चेत्यादिना अच्येव स्वरकालयोर्विभा-
जकताऽभिहिता । तत्र ताल्वादिषु स्थानेषूर्द्धभागे
निष्पन्नोजुदात्तः नीचैरुच्चार्य्यमाणोऽनुदात्तः प्रथममर्द्ध-
मुदात्ततयोच्चार्य्य उत्तरार्द्धमनुदात्ततयोचार्य्यमाणः
स्वरितः इति “उच्चैरुदात्तः नीचैरनुदात्तः समाहारः
स्वरितः तस्य आदित उदात्तमर्द्धह्रस्वमिति” पाणिनि-
सूत्रजातेभ्यः । तदेवं परस्परविभाजकस्थानबाह्या-
भ्यन्तरप्रयत्नस्वरकालकृतविशेषात् वर्णानां परस्परविशेष-
रूपता । सर्वे हि वर्णाः पुरस्कृत्यैव किञ्चिद्विशेषं
विशेषताभाजो भवन्तीति ।”
विवाहोपयोगिनि नक्षत्रविशेषकृते १६ वर्णकूटे उपयम
शब्दे वर्णकूटोक्तौ १२४९ पृ० दृश्यम् ।

वर्ण्णक न० वर्णयति वर्ण--ण्वुल् । १ हरिताले रत्नमा० २ अनु

लेपनयोग्ये अमरः ३ पिष्टे ४ घृष्टे वा चन्दनादौ द्रव्ये
च । ५ हिङ्गलादौ पुंस्त्री० भरतः ६ मण्डने शब्दर० ।
एकस्यैव सूत्रादेः पक्षान्तरव्याख्यानरूपे ५ ग्रन्थभेदे न०
“लिप्सासूत्रे तृतीयवर्णके” मिता० । ८ चारणे पु० मेदि० ।

वर्ण्णकूपिका स्त्री वर्णानामक्षराणां लेखनाय क्षुद्रः कूपः

कूपी सेव कन् । मस्याधारे त्रिका० ।

वर्ण्णचारक पु० वर्णं शुक्लादिरूपं चारयति चर--णिच्-

ण्वुल् । चित्रकरे शब्दमा० ।

वर्ण्णज्येष्ठ पु० वर्णेषु ज्येष्ठः प्रथममुत्पन्नत्वात् । १ अग्रजे

विप्रे । स्वस्वापेक्षया २ श्रेष्ठवर्णकूटयुते त्रि० । “वर्ण-
ज्येष्ठा च या नारी” स्मृतिः ।

वर्ण्णतूलि(ली) स्त्री वर्णानां लेखनसाधनं तूलिः । लेख-

न्याम् शब्दर० स्वार्थे क । अत्रैव

वर्ण्णद न० वर्णं ददाति दा--क । १ कालीयके गन्धद्रव्ये । जटा० । २ वर्णप्रदे त्रि०

वर्ण्णदात्री स्त्री वर्णं रूपं ददाति दा--तुच् ङीप् । १

हरिद्रायाम् राजनि० २ वर्णदातरि त्रि० ।

वर्ण्णदूत पु० वर्णा एव दूतो यत्र । लिपौ त्रिका० ।

वर्णधर्म्म पुंन० ६त०। विप्रादीनामसाधारणे धर्मे यथा

विप्रस्य याजनाध्यापनप्रतिग्रहादिः । क्षत्रियस्य प्रजा-
पालनादिः पु० जातिधर्मशब्दे दृश्यम् ।

वर्णमातृ स्त्री ६ त० । वर्णानां मातेव । लेखन्यां हारा० ।

वर्णमातृका स्त्री सरस्वत्यां शब्दच० ।

वर्णमाला स्त्री ६ त० १ जातिमालायां २ अक्षरश्रेणौ

३ अन्तर्यागकर्मणि पञ्चाशद्वर्णात्मकमाल्यभेदे । अक्षमाला
शब्दे ४३ पृ० दृश्यम् ।

वर्णरेखा स्त्री वर्णान् लिखत्यनया लिख करणे घञ् रस्य

वः । कठित्यां (खडि) त्रिका० ।

वर्णवती स्त्री वर्ण + मतुप मस्य व । १ हरिद्रायां जटा० ।

२ वर्णविशिष्टे त्रि० स्त्रियां ङीप् ।

वर्णविलोड़क पु० १ श्लोकचौरे २ सन्धिचौरे मेदि०

वर्णसङ्कर पु० सम् + कृ--अप् वर्णतः सङ्करः । विप्रादिभ्यो

वर्णेभ्योऽनुलोमजाते प्रतिलोमजाते मूर्द्धावसिक्तादौ
मागधादौ च जातिभेदे “जायते वर्णसङ्करः” गीता ।
जातिशब्दे ३०९३ तद्भेदादिकं दृश्यम् ।

वर्णसि पु० वर्ण--असिच् । जले उणादि० ।

वर्णा स्त्री प्रशस्तवर्णोऽस्यस्त्याः फलपुष्पादौ अच् ।

आढक्याम् शब्दच० ।

वर्णाङ्का स्त्री वर्णा अक्षराणि अङ्क्यन्तेऽनया अङ्कि--अच् । लेखन्याम् शब्दच० ।

वर्णात्मन् पु० वर्ण आत्मा स्वरूपं यस्य । ध्वन्यात्मकाद्वि-

लक्षणे अकाराद्यक्षरे शब्दभेदे जटा० ।

वर्णार्ह पु० वर्णं स्तुतिमर्हति अर्ह--अण् । मुद्गे राजनि० ।

वर्णिका स्त्री वर्णा अक्षराणि लेख्यत्वेन सन्त्यस्याः ठन् ।

१ लेखन्याम् २ कठिन्यां हारा० ३ मस्यां त्रिका० ।

वर्णित त्रि० वर्ण--क्त । १ स्तुते अमरः २ कृतवर्णने ३ रूपा-

न्तरमापादिते च ।

वर्णिन् पु० वर्णोऽस्त्यस्य इनि । १ चित्रकरे २ लेखके ३ ब्रह्म-

चारिणि मेदि० । “अथाह वर्णी विदितो महेश्वरः”
कुमारः । ४ विप्रादिजातौ च “वर्णिनां हि बधो यत्र”
स्मृतिः ।

वर्णिनी स्त्री वर्णः अस्त्यस्याः प्राशस्त्ये इनि ङीप् । हरिद्रायाम अमरः ।

पृष्ठ ४८५४

वर्णु पु० वर्ण--उन् । १ नदभेदे उणादि० २ आदित्ये संक्षिप्त० ।

वर्त्तक पु० वृत--ण्वुल् । (भारुइ) १ पक्षिभेदे वर्त्तकाप्यत्र ।

२ अश्वस्य क्षुरे च अमरः । ३ वर्त्तलोहे न० हेमच० ।

वर्त्तन न० वृत--ल्युट् । १ वृत्तौ २ स्थितौ अमरः । णिच्-

भावे ल्युट् । २ स्थापने णिच् करणे ल्युट् । ३ जीवनो-
पाये स्त्री ङीप् । ४ तक्रुवीठे न० मेदि० । ल्यु । ६ वृत्ति-
मति वर्त्तिष्णौ च त्रि० अमरः । ७ बामने त्रि० मेदि० ।
८ साधारणवर्तुले न० शब्दर० ।

वर्त्तनी स्त्री वर्त्त्येते पादावत्र वृत--णिच् आधारे ल्युट् ।

१ पथि २ पेषणे शब्दर० । पृषो० ह्रस्वः पूर्वदेशे त्रिका० ।

वर्त्तमान पु० वृत--शानच् । कालभेदे शब्दप्रयोगाधारे

आरब्धापरिसमाप्ते १ काले २ तत्कालवृत्तौ त्रि० ।
वर्त्तमानकालश्च चतुर्विधः । यथा “प्रवृत्तोतरत
१श्चैव वृत्ताविरत २ एव च । नित्यः प्रवृत्तः ३ सामीप्यो ४
वर्त्तमानश्चतुर्विधः । क्रमेणोदाहरणाति । मांसं न
खादति आदौ प्रवृत्तं मांसभोजनं निवर्त्तयतीत्यर्थः ।
इह कुमाराः क्रीड़न्ति २ तदानीन्तमक्रीड़नाभावेऽपि
पूर्वक्रीड़ानां बुद्धौ वर्त्तमानत्वात् । पूर्वतास्तिष्ठन्ति ३ नित्य
प्रदृत्तत्वात् । किञ्च पर्वतानां स्थितत्वेन वर्त्तमानत्वेऽपि
भूतभवविष्यत्कालाभ्यां सम्बन्धविवक्षया पर्वतास्तस्थुः
स्थास्यन्ति इत्यपि स्वात् । सामीप्यो ४ द्विविधः । भूत
सामीप्यो भविष्यत्सामीप्यश्च यथा कदा आगतोऽसि
इतिप्रश्ने अध्वस्वेदादेर्वर्त्तमानत्वात् एषोऽहमागच्छामि
इति आगतोऽपि वदति । भविस्यत्सामीप्यो यथा ।
कदा गमिष्यास इति प्रश्ने एषोऽहं गच्छामि इति
गमने क्रियमाणोद्यमोऽपि वदति” दुर्गादासः ।

वर्त्तरूक पु० १ नदीभेदे २ काकलीभेदे ३ जलावर्त्ते मेदि० ।

४ द्वारपाले त्रिका० ।

वर्त्तलोह न० वर्त्त्यते वृत--णिच्--कर्मणि अच् कर्म० । आवर्त्तनयोग्यो लौहभेदे ।

वर्त्ति(र्त्ती) स्त्री वृत--इन् वा ङीप् । १ लेखे २ नयनाञ्जने

३ गात्रानुलेपने ४ दीपदशायां ५ भिषजां निर्मेयौषधभेदे
(वाति) “कतकस्य फलं शङ्खः सैन्धवं त्र्यूषणं वचा ।
केणो रसाञ्जनं क्षौद्रं विडङ्गानि मनःशिला । एषां
वर्त्तिर्हन्ति कार्च तिमिरं पटलं तथा” गरुड़पु० १९८ अ० ।
६ दीपे च मेदि० ।

वर्त्तिक पुंस्त्री वृत--तिकन् । (वटेर) १ विहगभेदे राजनि०

स्त्रियां ङीष् । वर्त्मनि वर्त्तते वृत--अच वर्त्तः तत्र
साधुः हितो वा ठन् । (भारुइ) २ स्वगे अमरः ।
३ अजशृङ्ग्यां स्त्री० राजनि० ४ दीपदशायां स्त्री सा च
पञ्चविधा यथा “पद्मसूत्रभवा दर्भगर्भसूत्रभवाऽथ वा ।
शाणजा वादरी वापि फलकोषोद्भवाथ वा । वर्त्तिका-
दीपकृत्येषु सदा पञ्चविधा स्मृता” कालिकापु० ६८ अ० ।

वर्त्तिन् त्रि० वृत--णिनि । वर्त्तनशीले ।

वर्त्तिष्णु त्रि० वृत--इष्णुच् । वर्त्तमशीले ।

वर्त्तिष्यमाण पु० वृत--शानच् ऌटः सद्वेति स्यट् ।

भविष्यत्काले । २ तद्वृत्तौ त्रि० ।

वर्त्तुल त्रि० वृत--उलच् । १ गोलाकारे पदार्थे अमरः ।

२ मृञ्जने न० राजनि० । ३ कलायभेदे पु० शब्दमा० ।
४ तर्कुपीठ्याम् स्त्री हारा० ५ गजपिष्पल्याम् स्त्री राजनि०
ङीप् ।

वर्त्मन् न० वृत--मनिन् । १ पथि अमरः २ आचारे “आ

मनोर्वर्त्मनः” रघुः । ३ नेत्रच्छदे च मेदि० । अक्षिशब्दे ४५ पृ०
दृश्यम् । वर्त्मलक्षणं तद्गतरोगभेदाश्च सुश्रुते उक्ता यथा
“द्व्यङ्गुलं सर्वतः सार्द्धं भिषग्नयनबुद्वुदम् । सुवृत्त
गोस्तनाकारं सर्वभूतगुणोद्भवम् । पलं भुवोऽग्नितो
रक्तं वातात्कृष्णं सितं जलात् । आकाशादश्रुमार्गाश्च
जायन्ते नेत्रबुद्वुदे । दृष्टिञ्चात्र तथा वक्ष्ये यथाब्रूया-
द्विशारदः । नेत्रायामत्रिभागन्तु कृष्णमण्डलमुच्यते ।
कृष्णात् सप्तममिच्छन्ति दृष्टिं दृष्टिविशारदाः । मण्ड-
लानि च सन्धींश्च पटलानि च लोचने । यथाक्रमं-
विजानीयात् पञ्चषट् च षडेव च । पक्ष्मवर्त्मश्वेतकृष्ण०
दृष्टीनां मण्डलानि तु । अनुपूर्वन्तु ते मध्याश्चत्वारो-
ऽन्त्या यथोत्तरम् । पक्ष्मवर्त्मगतः सन्धिर्वर्त्मशुक्लगतो-
ऽपरः । शुक्लकृष्णगतस्त्वन्यः कृष्णदृष्टिगतोऽपरः । ततः
कनीनकगतः षष्ठश्चापाङ्गगः स्मृतः । द्वे वर्त्मपटले
विद्याच्चत्वार्य्यन्यानि चाक्षिणि । जायन्ते तिमिरं येषु
व्याधिः परमदारूणः ।”
“पृथग्दोषाः समस्ताश्च यदा वर्त्मव्यपाश्रयाः । सिरा
व्याप्यावतिष्ठन्ते वर्त्मस्वधिकमूर्च्छिताः । विवर्द्ध्य-
मांसं रक्तञ्च तदः वर्त्मव्यपाश्रयान् । विकाराञ्जनय-
न्त्याशु नामतस्तान्निबोधत । उत्सङ्गिन्यथ कुम्भीका
पोथक्यो वर्त्मशर्करा । तथार्शोवर्त्मशुष्कार्शस्तथैवा-
ञ्जननामिका । बहलं वर्व्य यच्चापि व्याधिर्वर्त्माव-
बन्धकः । क्लिष्टकर्दमवर्त्माख्यौ श्याववर्त्म तथैव च ।
प्रक्लिक्षमपरिक्लिन्नं वर्त्मवातहतन्तु यत् । अर्वुदं निमि-
पश्चापि शोणितार्शश्च यत्स्मृतम् । लगणो विषनामा च०
पृष्ठ ४८५५
वक्ष्मकोपस्तथैव च । एकविंशतिरित्येते विकारा वर्त्म-
संश्रयाः । नामभिस्ते समुद्दिष्टा लक्षणैस्तान् प्रचक्ष्महे ।
पिडकाभ्यन्तरमुखी वाह्याधोवर्त्मसंश्रया । विज्ञेयोत्-
सङ्गिनी १ नाम तद्रुपपिडकान्विता । कुम्भीकवीम-
प्रतिमाः पिडकाः पक्ष्मवर्त्मनोः । आध्मायन्ते तु भिन्ना
या कुम्भीकपिडका २ स्तु ताः । कण्डूस्रावान्वितां गुर्व्यो
रक्तसर्षपसन्निभाः । पिडकाश्च रुजावत्यः पोथक्य ३ इति
संज्ञिताः । पिडकामिः सुसूक्ष्माभिर्घनाभिरभिसंवृता ।
पिडका या खरा स्थूला सा ज्ञेया वर्त्मशकेरा ४ ।
सूक्ष्माः खराश्च वर्त्मस्थास्तदर्धोवर्त्म ५ कीर्त्त्यते । दीर्घो-
ऽङ्कुरः खरः स्तब्धा दारुणो वर्त्मसम्भवः । व्याविरेष
समाख्यातः शुष्कार्श ६ इति संज्ञितः । दाहतोदवती
ताम्रा पिडका वर्त्मसम्भवा । मृद्वी मन्दरुजा सूक्ष्मा
ज्ञेया साऽञ्जननामिका ७ । वर्त्मोपचीयते यस्य पिडकाभिः
समन्ततः । सवर्णाभिः समाभिश्च विद्याद्वहलवर्त्म ८ तत् ।
कण्डूमताल्पतोदेन वर्त्मशोफेन यो नरः । स समं
छादयेदक्षि भवेद्बन्धः ९ स वर्त्मनः । मृद्वल्पवेदनं ताम्रं
तद्वर्त्म सममेव च । अकस्माच्च भवेद्रक्तं क्लिष्टवर्त्म १० तदा
दिशेत् । क्लिष्टं पुनः पित्तयुक्तं विदहेच्छोणितं यदा ।
तदा क्लिन्नत्वमापन्नमुच्यते वर्त्मकर्दमम् ११ । यद्वर्त्म बाह्य
तोऽन्तश्च श्यावं शूनं सवेदनम् । दाहकण्डूपरिक्लेदि श्या-
ववर्त्मेति १२ तन्मतम् । अरुजं बाह्यतः शूनमन्तःक्लिन्नं
स्रवत्यपि । कण्डूनिस्तोदभूयिष्ठं क्लिन्नवर्त्म १३ तदुच्यते ।
यस्य धौतानि धौतानि सम्बन्ध्यन्ते पुनः पुनः । वत्मा-
न्यपरिपक्वानि विद्यादक्लिन्नवर्त्म १४ तत् । विमुक्तसन्धि
निश्चेष्टं वर्त्म यन्न निमील्यते । एतद्वातहतं १५ विद्यात्
सरुजं यदि वाऽरुजम् । वर्त्मान्तरस्थं विषमं ग्रन्थिभूत-
मवेदनम् । विज्ञेयमर्बुदं १६ पुंसां सरक्तमवलम्बितम् ।
निमेषणीः सिरा वायुः प्रविष्टो वर्त्मसंश्रयाः । चालये
दतिवर्त्मानि निमेषः १७ स गदो मतः । छिन्नाश्छिन्ना
विवर्द्धन्ते वर्त्मस्था मृदवोऽङ्कुराः । दाहकण्डूरुजो-
पेतास्तेऽर्शःशोणितसम्भवाः १८ । अपाकः कठिनः स्थूलो
ग्रन्थिर्वर्त्मभवोऽरुजः । सकण्डूः पिच्छिलः कोलप्रमाणो
लगण १९ स्तु सः । शूनं यद्वर्त्म बहुभिः सूक्ष्मैश्छद्रै
समन्वितम् । विषमन्तर्जल इव विषवर्त्मेति २० तन्मतम् ।
पक्ष्माशयगता दोषास्तीक्ष्णाग्राणि खराणि च । निर्व
र्त्तयान्त पक्ष्माणि तैर्जुष्टञ्चाक्षि दूयते । उत्पाटितैः
पुनः शान्तिः पक्ष्मभिश्चोपजायते । वातातपानलद्वेषीं
पक्ष्मकोपः २१ स उच्यते ।” तच्चिकित्सा तत्र दृश्या ।

वर्त्मनि स्त्री वृत--अनि मुट् च । पथि उणा० ।

वर्द्ध छेदने पूरणे च चु० उभ० सक० सेट् । वर्द्धयति ते

अववर्द्धत् त ।

वर्द्ध पु० वृध--अच् । १ ब्राह्म्याम् (वामनहाटि) जटा० वर्द्धभावे अच् । २ पूरणे ३ छेदे च ।

वर्द्धक पु० वृध--ण्वुल् । १ ब्राह्मणयष्टौ (वामनहाटी) अमरः

वृध--वा वर्द्ध--ण्वुल् । २ पूरके ३ छेदके ४ वृद्धिकारके च त्रि० ।

वर्द्धकि पु० वर्द्ध--छेदने अच् कष--डि कर्म० । त्वष्टरि (छुतार)

अमरः ।

वर्द्धकिन् पु० वर्द्धकः वर्द्धोऽस्त्यस्य इनि । त्वष्टरि (छुतार) जातिभेदे शब्दर० ।

वर्द्धन न० वृध--वर्द्ध--भावे ल्युट् । १ छेदने २ पूरणे च मेदि० ।

वृध णिच्--ल्यु । २ वृद्धिकारके त्रि० । “करोमि क्षितिवर्द्ध-
नम्” भट्टिः । वृध--ल्यु । ४ वृद्धियुक्ते त्रि० ।

वर्द्धनी स्त्री वर्द्ध्यतेऽनया वृध--णिच्--ल्युट् ङीप् । १ संमार्ज-

न्याम् २ खट्यां मेदि० । ३ सनालपात्रभेदे च (वद्ना) जटा० ।

वर्द्धमान पु० वृध--शानच् । १ एरण्डवृक्षे अमरः । २ वृद्धि-

शीले त्रि० । २ शराये मृत्पात्रभेदे ४ विष्णौ ५ पशुभेदे च
मेदि० । ६ जिनभेदे हेमच० । ७ वानना गृहभेदे हला० ।
८ देशभेदे वृ० स० १४ अ० कूर्मविभागशब्दे दृश्यम् ।
९ नगरभेदे च । १० वृद्धियुक्ते त्रि० ।

वर्द्धापन न० वर्द्धं छेदं करोति वर्द्ध + णिच्--आप् च ततो

मावे ल्युट् । नाडीच्छेदमलर्माङ्गे संस्कारभेदे ति० त०
रघु० ।

वर्द्धित न० वर्द्ध--क्त । १ छेदिते २ पूरिते ३ प्रस्तुते च ।

वर्द्धिष्णु त्रि० वृध--इष्णुच् । वृद्धिशीले ।

वर्ध्र न० वृध--ष्ट्रन् । १ चर्मणि उणादिको० । २ चर्मरज्जौ स्त्री भरतः ङीष् ।

वर्पस् न० वृ--असुन् पुक् । रूपे निघण्टुः ।

वर्फ गतौ बधे च भ्वा० पर० सक० सेट् । वर्फति अवर्फीत् ।

वर्म्मकण्टक पु० वर्म्म इव कण्टकोऽस्य । पर्पटे राजनि० ।

वर्म्मकषा स्त्री वर्म--कषति अच् । (चामकषा) सप्तलायाम्

शब्दर० ।

वर्म्मन् न० वृ--मनिन् । १ कवचे सन्नाहे अमरः । २ क्षत्रि-

योपाधौ पु० । “वर्म्मान्तं । क्षत्रियस्य तु” शातातपः ।

वर्म्महर पु० वर्म्म हरति हृ--अच् । सन्नाहधारणयोम्य

अवस्थाभेदे तरुणे । “वर्म्महरः कुमारः” रघुः ।

वर्म्मि पु० वृ--बा० मिन् । (वानि) मत्स्यभेदे राजनि० ।

वर्म्मित त्रि० वर्म करोति णिच्--क्त । १ कृतसन्नाहे २ उद्युक्ते च

वर्य्य त्रि० वृ--यत् । १ प्रधाने श्रेष्ठे च अमरः । २ कामदेक्षे

३ पतिम्बरायां कन्यायां अमरः । ४ कन्यामात्रे च स्त्री ।
पृष्ठ ४८५६

वर्वणा स्त्री वरिति वणति शब्दायते वण--अच् । (भणभणे)

मक्षिकाभेदे अमरः । अयमौष्ठ्यादिरित्यर्थे ।

वर्वर न० वृ--अरच् वुट्च् । १ हिङ्गुले २ पीतचन्दने

३ गन्धरसे च राजनि० । ४ पामरे ५ मूर्खे च त्रि० ।
“णत्वमिच्छन्ति वर्वरा” इत्युद्भटः । ६ केशभेदे (वाउरी)
७ देशभेदे कृष्णार्जके (कालवावुइ) वृक्षे च पु० राजनि० ।
९ मक्षिकाभेदे पुंस्त्री० शब्दर० (वावुइ) १० वृक्षेस्त्री टाप ङीप्
वा “वर्वरी करवी तुङ्गी खरदुग्धाजगन्धिका । पर्णासस्तत्र
कृष्णे तु कठिञ्जरकुढेरकौ । कालसारः करालश्च
मलूकः कृष्णमल्लिका । तत्र शुक्लेऽर्ज्जकः प्रोक्तो
वटीपञ्चस्ततीऽपरः । वर्वरीत्रितयं रूक्षं शीतं कटु विदाहि
च । तीक्ष्णं रुचिकरं हृद्यं दीपनं लघुपाकि च ।
पित्तलं कफवाताम्रदद्रुकृमिविषापहम्” भावप्र० । संज्ञायां
कन् । वर्वरिका चन्दनभेदे पुष्पभेदे स्त्री मेदि० ।

वर्वरीक पु० वृ--ईकन् फुर्फुरीका० नि० । १ ब्राह्मणयष्टिवृक्षे

२ कुटिलकेशे उणा० । ३ अजगन्धिकायां (वावुइतुलसी)
शब्दच० ४ महाकाले हेमच० ।

वर्वा स्त्री वृ--व तस्य नेत्त्वम् । (वावुइ) वृक्षभेदे शब्दच० ।

वर्वुर पु० वृ--उरच् वुट्च् । (वावला) वृक्षभेदे राजनि० ।

ओष्ठ्यादिरित्यन्ये ।

वर्ष पु० वृष--भावे घञ् कर्त्तरि अच् वा । १ वृष्टौ २ जम्बु-

द्वीपांशभेदे पुंन० अमरः ।
“लङ्कादेशाद्धिमगिरिरुदग्धेमकूटोऽथ तस्मात् तस्माच्चान्यो
निषध इति ते सिन्धुपर्यन्तदैर्घ्या । एवं सिद्धादुदगपि
पुराच्छृङ्गवच्छुक्लनीला वर्षाण्येषां जगुरिह बुधा अन्तरे
द्रोणिदेशान् । भारतवर्षमिदं ह्युदगस्मात किन्नरवर्षमतो
हरिवर्षम् । सिद्धपुराच्च तथा कुरु तस्म द्विद्धि हिरण्
मयरम्यकवर्षे । माल्यवांश्च यमकोटिपत्तनाद्रोमकाच्च किल
नन्धमादनः । नीलशैलनिषधावधो च तावन्तरालमन
योरिलावृतम् । माल्यवज्जलधिमध्यवर्ति यत् तत् तु
भद्रतुरगं जगुर्बुधाः । गन्धशैलजलराशिमध्यगं केतु-
मालकमिलाकलाविदः । निषधनीलसुगन्धसुमाल्यकैरल-
मिलावृतमावृतमावभौ । अमरकेलिकुलायसमाकुलं रुचि-
रकाञ्चनचित्रमहीतलम्” सि० शि० । “अत्र भूगोलस्थार्धमुत्तरं
जम्बूद्दीपम् । तस्य क्षाराब्धेश्च सन्धिर्निरक्षदेशः । तत्र
लङ्का रोमकं सिद्धपुरं यमकोटिरिति पुरचतुष्टयं
मूपरिधिचतुर्थाशान्तरे किल कथितम् । तेभ्यः पुरेभ्यो यस्यां
दिशि मेरुः सोत्तरा । अतो लङ्काया उत्तरतो हिमवान्
नाम गिरिः पूर्वापरसिन्धुपर्यन्तदैर्घ्योऽस्ति । तस्यात्तरे
हेभकूटः । सोऽपि समुद्रपर्यन्तदैर्घ्यः । तथा तदुत्तरे
निषधः । तेषामन्तरे द्रोणिदेशा वर्षसंज्ञाः । तत्रादौ
भारतवर्षम् । तदुत्तरं किन्नरवर्षम् । ततो हरिवर्षमिति ।
एवं सिद्धपुरादुत्तरतः शृङ्गवान् नाम गिरिः । ततः
श्वेतगिरिः । ततो नीलगिरिरिति । तेऽपि सिन्धु-
पर्यन्तदैर्घ्याः । तेषामन्तरे च वर्षाणि । तत्रादौ कुरुवर्षम् ।
तदुत्तरे हिरण्मयम् । ततो रम्यकमिति । अथ
यमकोटेरुत्तरतौ माल्यबान् नाम गिरिः । स तु निषधनी-
लपर्यन्तदैर्घ्यः । तस्य जलधेश्च मध्ये भद्राश्वं वर्षम ।
एवं रोमकादुत्तरतो गन्धमादनः । तस्य जलधेश्च मध्ये
केतुमालवर्षम् । एवं निषधनीलमाल्यवद्गन्धमादनैरावृत-
मिलावृतं नाम नवमं वर्षम् । सा स्वर्गभूमिः । अतस्तत्र
देवक्रोड़ागृहाणि” । ३ द्वादशमासात्मके काले ४ जम्बुद्वीपे
च पु० मेदि० । कर्त्तरि अच् । ५ मेष्ठे पु० हेमच० ६ प्रभ-
वादिषु षष्टिवतसरेषु पु० ।

वर्षकरी स्त्री वर्षं तत्सूचनं करोति रवेण कृ--ट । झिल्लि-

कायां हेमच० ।

वर्षकेतु पु० वर्षस्य वृष्टेः केतुरिव । १ रक्तपुनर्नवायाम् राजनि० २ वर्षाचले ।

वर्षकोष पु० वर्षस्य कोष इव । १ दैवज्ञे शब्दर० । २ मापे

हेमच० ।

वर्षणि स्त्री वृष--अनि । १ कृतौ २ वर्त्तने उणा० । ३ क्रतौ ४ वर्षणे संक्षिप्तसा० ।

वर्षपर्वत पु० वर्षाणां चिह्नभूतः सीमाभूतो वा पर्वतः ।

“हिमवान् हेमकूटश्च निषधो मेरुरेव च । चैत्रः
कर्णी च शृङ्गी च सप्तैते वर्षपर्वताः” इत्युक्तेषु पर्वतेषु
हारा० । द्वीपभेदेऽन्येऽपि वर्षपर्वता कुलपर्वतशब्दे
२१३२ पृ० दर्शिताः । सि० शि० उक्ता जम्बूद्वीपपर्वता
वर्षशब्दे द्रर्शिताः । तत्र नाममात्रे भेदः कल्पभेदात् ।

वर्षपाकिन् पु० वर्षेण पाकोऽस्त्यस्य इनि । आम्रातकवृत्त

हेमच० तस्य हि मुकुलोद्गमात् प्रायेण वत्सरानन्तर-
फलपाकः ।

वर्षपुष्पा स्त्री वर्षकाले पुष्पमस्याः । सहदेवीलतायाम् राजनि० ।

वर्षप्रिय पुंस्त्री० वर्षः प्रियोऽस्य । चातकपक्षिणि त्रिका०

स्त्रियां योपधत्वात् टाप् ।

वर्षबर पु० वर्षं रेतोवर्षण बृणोति आबृणोति बृ--अच् ।

“ये त्वल्पसत्त्वाः प्रथममात्मीयाः स्त्रीखभाविनः । जात्या
न दुष्टाः कार्य्येषु ते वे वर्षयराः स्मृता” इत्युक्तलक्षणे
राज्ञामन्तःपुररक्षके षण्डे (खोजा) अमरः । “नष्टं
वर्षबरैरिति” रत्नावली ।
पृष्ठ ४८५७

वर्षवृद्धि पु० वर्षस्य वृद्धिरधिकता यस्मिन् । १ जन्मतिथौ

२ तद्दिनकर्त्तव्ये पूजादौ च । “युगाद्या वर्षवृद्धिश्च
सप्तमी पार्वतीप्रिया । रवेरुदयमीक्षन्ते न तत्र तिथि
युग्मता” ति० त० । “तत्कृत्यं च मलमासे न कर्त्तव्यं
चान्दमासीयत्वेन सावकाशत्वात् न च सौरमासीयं
तथात्वे तत्तिथेः कदाचिदप्राप्तौ तद्वर्षे तत्कृत्यलोपापत्तेः
नं चेष्टापत्तिः “प्रतिसंवत्सरं चैव कर्त्तव्यश्च महोत्-
सवः” ब्रह्मपु० प्रतिसंवत्सरं तद्विधानात् ति० त० रघु० ।
अधिकं जन्मतिथिशब्दे दृश्याम् ।

वर्षा स्त्री ब० व० । वर्षन्ति मेघा अत्र । श्रावणभाद्रात्मके

मासद्वये ऋतौ “नभश्च नभस्यश्च बार्षिकावृतू” यजु० श्रुतिः
“वर्षासु च मघासु च” मनुः ।

वर्षाङ्गी स्त्री वर्षासु अङ्गमस्याः । पुनर्नवायाम् शब्दर० ।

वर्षापगम पु० वर्षाणामपगमो यत्र । १ शरत्काले ६ त० ।

२ वर्षासमाप्तौ ।

वर्षाभव पु० वर्षाषु भवति भू--अच् । रक्तपुनर्नवायाम् राजनि०

वर्षाभू पु० वर्षाषु भवति भू--क्विप् । १ भेके अमरः २ इन्द्र

गोपे राजनि० ३ महीलतायाम् मेदि० ४ पुनर्नवायां
५ भेक्याञ्च स्त्री मेदि० अमरे भेक्याम् गौरा० ङीष्
वर्षाभ्वीत्येव ६ वर्षाभवमात्रे त्रि० ।

वर्षामद पुंस्त्री० वर्षाषु माद्यति मद--अच् । मयूरे स्त्रियां ङीष् ।

वर्षिष्ठ त्रि० अतिशयेन वृद्धः इष्ठन् वर्षादेशः । अतिशयवृद्धे

वर्षीयस् त्रि० अतिशयेन वृद्धः वृद्ध + इयसुन् वर्षादेशः ।

अतिवृद्धे अमरः स्त्रियां ङीप् ।

वर्षुक त्रि० वृष--उकञ् । वर्षणशीले ।

वर्षोपल पु० वर्षस्य वृष्टेरुपलः प्रस्तर इव । करकेषु (शिल) अमरः ।

वर्स्मन् न० वृष--मनिन् । १ देहे २ पाषाणे च अमरः ।

३ अतिसुन्दरे त्रि० ।

वर्ह बधे सक० दीप्तौ अक० चु० उभ० सेट् । वर्हयति--ते अववर्हत् त ।

वर्ह उत्कर्षे भ्वा० आ० सक० सेट् । वर्हते अवर्हिष्ट ।

वर्ह न० वर्ह--अच् । मयूरपिच्छे अमरः अस्य पुंस्त्वमपि

“कं हरेदेष वर्हः” विक्रमो० प्रयोगात् । २ ग्रन्थिपर्णे वृक्षे
भरतः । ३ पत्रे शब्दर० ।

वर्हि(र्हिः)कुसुम न० वर्हिःवह्निरिव कूसुममस्य पृषो० या

सलोपः । ग्रन्थिपर्णे शब्दमा० ।

वर्हिःपुष्प न० वर्हिः वह्निरिव पुष्पमस्य । ग्रन्थिपर्ण भरतः

वर्हिःशुष्मन् पु० वर्हि कुशः शुष्म बलमस्य । १ वह्नौ अमरः

कुशेन हि वह्निरुद्दीप्यते ।

वर्हि(र्हिः)ष्ठ न० वर्हिरिव तिष्ठति स्था--क वा विसर्गलोपः

षत्वम् । ह्रीवेरे अमरः ।

वर्हिण पुंस्त्री० वर्हमस्यस्य इन । १ मयूरे अमरः स्त्रियां ङीष् इनि । वर्हीत्यप्यत्र ।

वर्हिर्ज्योतिस् पु० वर्हिषा कुशेन ज्योतिरस्य । वह्नौ हेम०

वर्हिर्मुख पु० वर्हिर्वह्निर्मुखं यस्य । देवे अमरः । तद्द्वारैव

हि देवा हविरश्नन्ति ।

वर्हिषद् पु० ब० व० वर्हिषि विप्रपाणिस्थेऽग्नौ सीदन्ति वर्हिस्

रद--क्विप् पृषो० । पितृगणभेदे “अग्निष्वात्ता वर्हिषद
ऊष्मपा आज्यपास्तथा” मनुः ।

वर्हिष्केश पु० बर्ह--दीप्तौ इसुन् वर्हिः दीप्तिमान् केशो यस्य वहनु ।

वर्हिस् स्त्री वृहि--इसुन् नि० नलोपश्च । १ वह्नौ मेदि०

“वर्हिषि रजतं न देयम्” श्रुतिः । २ ग्रन्थिपर्णे ३ चित्रके
च (चिते) अमरः । ३ कुशे पु० न० “वर्हिर्देवसदनम्” श्रुतिः
वर्ह--दीप्तौ इसुन् । ४ दीप्तियुक्ते त्रि० ।

वल संवरणे भ्वा० आत्म० सक० सेट् । वलते अवलिष्ट । ववलतुः वा घटा० ।

वल न० वल्यतेऽनेन वल--क । सैन्ये रायमु० बलशब्दार्थे च ।

वलक्ष पु० वल--क्विप् अक्ष--अच् कर्म० । १ धवले वर्णे

२ तद्वति त्रि० अमरः ।

वलन न० वल--भावे ल्युट् । १ सम्बरणे सि० शि० उक्ते दृक्व-

र्मादिसंस्काराङ्गे २ कदम्बयाम्योत्तरयोरन्तर तत्स्वरू-
पादिकं तत्रोक्तं प्रदर्श्यते
“तुलाजाद्योर्हि यंपाते विषुवत्क्रान्तिवृत्तयोः । स्यातां
याम्योत्तरे भिन्ने परक्रान्त्यन्तरे च ते । आयनं तलनं
तत्र जिनांशज्यासमं ततः । एकैवायनसंधौ तु तयोः
स्याद्दक्षिणोत्तरा । एकैव तद्वशात् प्राची तत्र नो वलनं
ततः । तदन्तरेऽनुपातेन स्वेटकोटिक्रमज्यका ।
जिनज्याघ्नी द्युजीवाप्तायनदिग्वलनं भवेत् । एवमेव हि
संपाते विषुवत्समवृत्तयोः । उन्मण्डलं भवेत् तत्र विषु-
वद्दक्षिणोत्तरा । क्षितिजं समवृत्तस्य पलज्या च तदन्त-
रम् । क्षितिजेऽक्षज्यया तुल्यमक्षजं वलनं ततः ।
तयोरेकैव याम्योदङ्न मध्ये वलनं ततः । नतक्रम-
ज्यया माध्यमन्तरे त्वनुपाततः । नतं खाङ्काहतं भक्तं
द्युदलेनाप्तभागकैः । क्रमज्याक्षज्यया क्षुण्णा द्युज्याभक्ता-
क्षजं मवेत् । प्राक् सौम्यं पश्चिमे याम्य” तच्चापैक्यान्त-
रात् स्फुटम् । एवमेव च संपातो यः क्रान्विममवृ-
त्तयोः । परमं तत्र तत्कालवलनैक्यान्तरं स्फुटम् ।
पृष्ठ ४८५८
अग्रतः पृष्ठतस्तस्मात् क्रान्तिवृत्ते त्रिभेऽन्तरे ।
तयोर्याम्योत्तरैकत्वात् तत्र नो बलनं स्फुटम् । न स्पष्ट-
बलनाभावस्तत्र स्यादुत्क्रमज्यया । क्रमज्यया ततः कार्यं
दाट्यार्थं कथ्यते पुनः । सर्वतः क्रान्तिसृत्राणां ध्रुवे
योगो भवेद्यतः । विषुवन्मण्डलप्राच्या ध्रुवे याम्या
तथोत्तरा । सर्वतः क्षेपसूत्राणां ध्रुवाज्जिनलवान्तरे ।
यागः कदम्बसंज्ञोऽयं ज्ञेयो वलनबोधकृत् । तत्राप-
मण्डलप्राच्या याम्या सौम्या च दिक् सदा । कदम्ब-
भ्रमवृत्तं च बध्नीयात् परितो ध्रुवात् । गोले तु
जिनतुल्यांशैस्तत्र ज्या क्रान्तिशिञ्जिनी । सर्वतः समवृत्ताच्च
याम्योदक्कुजसंगमे । तत्तिर्य्यग्गतसूत्राणां योगः स
समसंज्ञकः । समध्रुवकदम्बानामुपरि द्यचरान्नयेत् ।
सूत्राणि वृत्तरूपाणि वलनानि तदन्तरे । अक्षजं वलनं
मध्ये स्यात् समध्रुवसूत्रयोः । कदम्बध्रुवसूत्रान्तरायनं
च त्रिभे ग्रहात् । कदम्बसमसूत्रान्तः स्फुटं सर्वदिशां
च तत् । अथ वा परितः खेटात् खाङ्कभागान्तरे
न्यसेत् । त्रिज्यावृत्तं ततस्तत्र विषुवत्समवृत्तयोः । मध्ये-
ऽक्षवलनं विद्याद्विषुवत्क्रान्तिवृत्तयोः । अन्तरं चायनं
क्रान्तिसमवृत्तान्तरे स्थुटम् । तत्रापमण्डलं प्राची तस्या
याम्योत्तरः शरः । वलनानयने क्षेपः क्षिप्तो यैस्ते
कुबुद्धयः । नक्रादिश्च कदम्बश्च स्यातां याम्योत्तरे समम् ।
आयनं बलनं तस्मान्नायनादौ प्रजायते । ततो भ्रमति
गोले स मकरादिर्यथा यथा । तथा तथा भ्रमत्येम
कदम्बो निजमण्डले । कुम्भादावथ मीनादौ याम्यीदग्वल-
यस्थिते । जायते वलनं तद्यत् सौम्यसूत्रकदम्बयोः ।
अन्तरं शिञ्जिनीरूपं कदम्बभ्रममण्डले । अयनाद्गत-
कालांशक्रमक्रान्तिज्यका हि सा । उत्क्रमज्या यतो
वाणः शिञ्जिनी तु क्रमज्यका । सत्रिभार्कात् क्रम-
क्रान्तिज्यातो बलनमायनम् । यैरुक्तमुत्क्रमक्रान्त्या
भ्रान्त्या तैर्नाशितं हि तत् । युक्त्यानयैव विज्ञेयमक्षजं
च क्रमज्यया । परोक्तेरन्यथा ब्रूयाद्यः परान् न प्रदू-
षयेत् । तस्यैव दूषणं तद्धि न दोषोऽतोऽन्यढूषणे ।
उत्क्रमज्यानिरासोऽयमन्यथा वाथ कथ्यते । जिनांशै-
र्जिनवृत्ताख्यं कदम्बात् परितो न्यसेत् । क्रान्तियाम्यो-
त्तरं वृत्तं कदम्बद्वयकीलयोः । प्रोतं कृत्वा चलं न्यस्तं
द्वन्द्वःन्ते स्याद् ध्रुवोपरि । द्वन्द्वान्ताच्चाल्यतेऽंशैर्यैस्तैरेव
चलति ध्रुवात् । जिनवृत्ते तदंशानां तत्र ज्या क्रान्ति-
शिञ्जिनी । आयनं सैव वलनं द्युन्याग्रे जायते ग्रहात् ।
ग्रहध्रुवान्तरे यस्माद्द्युज्या चापांशकाः सदा । त्रिज्या-
वृत्ते यतो देयं तत्रातः परिणाम्यते । एवमक्षांशकैर्वृत्तं
समाख्यात् परितो न्यसेत् । समकीलकयोः प्रातं तथा
याम्योत्तरं चलम् । तत्तत्स्वेटोपरि न्यस्तं यैरंशैः
खार्धतो नतम् । समवृत्तेऽक्षवृत्ते च तैरेव स्यान्नतं
ध्रुवात् । समवृत्तनतांशज्याक्षज्यापरिणताक्षजम् ।
द्युज्याग्रे वलनं प्राग्वत् त्रिज्याग्रे परिणाम्यते ।
उपपत्त्यानया सम्यक् समवृत्तनतांशजम् । वलनं स्यात् तथा
वक्ष्ये स्वाहोरात्रनतादपि । अग्रानृतलयोर्योगः
ससदिक्त्वेऽन्यथान्तरम् । तत्त्रिज्यावर्गविश्लेषपदभक्ताक्षशि-
ञ्जिनी । नतासुदार्ज्यया क्षुण्णा बलनं पलजं स्फुटम् ।
नतं खाङ्काहतं भक्तं द्युदलेनाप्तभागकैः । क्रमज्याक्ष-
ज्यया क्षुण्णा स्थूलं वा द्युज्यया हृता । द्युज्यावृत्ताप-
वृत्तैक्ये न्यसेद्वा रविमण्डलम् । बिम्बाग्रे वलनं तद्
यदन्तरं वृत्तयास्तयोः । बिम्बान्तबिम्बमध्योत्थकान्तिमौर्व्यो-
स्तदनन्तरम् । अर्कदोर्भोम्यखण्डघ्नं बिम्बार्द्धं तत्त्वददस्र
हृत् । जिनज्याघ्नं त्रिभज्याप्तमेवं स्यादन्तरं हि तत् ।
विम्बार्धहृत् त्रिभज्याघ्नमेवं त्रिज्या नतं भवेत् ।
गुणहारकबिम्बार्धत्रिज्यानाशे कृते सति । भोग्यखण्डं
जिनांशज्यागुणं तत्त्वाश्विमाजितम् । सत्रिभार्कात्
क्रमक्रान्तेस्तत् तुल्यं जायतेऽथ वा । क्रमक्रान्तेरिदं
वीक्ष्य भ्रान्तिं त्यजत बालिशाः! । नामितं छत्रवद्बिम्बं
तिर्यक् क्रान्तिस्तु सा समा । अत्र द्युज्यानुपातो यस्त-
त्तिर्यक्करणाय सः” मू० । “अथ वलनेषु दृक्कर्मणि चोत्क्रम-
ज्यानिराकरणाय मूलसूत्रेऽपि बहूक्तं तथापि किञ्चि-
दिहोच्यते । विषुवद्वृत्तं समवृत्तं प्रकल्प्य दक्षिणो-
त्तरवृत्तस्थे ग्रहे आयनवलनस्योपपत्तिप्रतीत्यर्धं पृथग-
दर्शयेत् । अपमण्डलप्राच्यपराया एकः कदम्बा
याम्या अन्यः सौम्या दिक् । एवं विषुवद्वृत्तप्राच्यपराया
ध्रुवौ । यदा मकरादिर्याम्योत्तरवृत्ते तदैव कदम्बोऽपि ।
अतो विषुवत्क्रान्तिवृत्तयोरेकैव याम्योदक् । तया दक्षि-
णोत्तरवृत्तस्य कुम्भादेश्च मध्ये स्वाहोरात्रवृत्ते पञ्चगुणा-
ङ्कचन्द्रा १९३५ असवो वर्त्तन्ते । ते पष्ट्युद्धृताः
कालांशाः स्युः ३२ । १५ । अथ कुम्भादिर्यावद्दक्षणोत्तर-
वृत्तं नीयते तावत् कदम्बो निजमण्डले चक्रांशाङ्किते
तावद्भिरेव कालांशै ३२ । १५ र्दक्षिणोत्तरवृत्तसंपातात्
प्रत्यगवलम्बते । कदम्बयाम्योत्तरसूत्रयोरन्तरं वलनम् ।
सा च तेषामंशानां कदम्बवृत्ते ज्या । अतः क्रमज्या ।
पृष्ठ ४८५९
उत्क्रमज्या तु वाणरूपा भवति । कदम्बवृत्ते या ज्या
सा क्रान्तिज्या । अतस्तेषामंशानां क्रमक्रान्तिज्या
वलनम् । अथ वैकराशेः क्रमक्रान्तिज्या त्रिज्यागुणा द्युज्या-
हृता तथापि सैव भवति । अथ वान्यप्रकारेणोत्क्रमज्या-
निराकरणं द्युज्यानुपातश्च प्रतिपाद्यते । क्रान्तिवृतेऽ-
र्कस्थानेऽर्कविम्बं मुद्रिकाकारं विन्यस्य विम्बपरिधौ यत्र
खाहोरात्रवृत्तं लग्नं यत्र च क्रान्तिवृत्तं तयोरन्तरं
यद्दक्षिणोत्तरं तत् तत्र विम्बे प्राच्यपरयोर्वलनम् ।
तच्चार्कक्रान्तेर्विम्बार्धकलायुतस्यार्कस्य क्रान्तेश्चान्तरम् ।
अतस्तस्यानयनम् । रविदोर्ज्यायां क्रियमाणायां यद्भो-
ग्यखण्डं तेन मानार्धकला गुण्याः शरद्विदस्रै २२५
र्भाज्याः । फलं दोर्ज्ययोरन्तरं स्यात् । तत्र तावत्
स्फुटभोग्यखण्डज्ञानायागुपातः । यदि त्रिज्यातुल्यायां
कोटौ प्रथमं ज्यार्घं शरद्विदस्या भोग्यखण्डं तदाभिम-
तायामस्यां किमिति फलं स्फुटं भोग्यखण्डम् । तेन
गुणितं विम्बार्धं शरद्विदस्रैर्भाज्यम् । एवं स्थिते
शरद्विदस्वमितयोर्गुणहारयोर्नाशे कृते विम्बार्धस्य कोटिज्या
गुणस्त्रिज्या हरः । फलं दोर्ज्ययोरन्तरम् । ततः
क्रान्त्यर्थमनुपातः । यदि त्रिज्यया जिनज्या लभ्यते
तदानेन दोर्ज्यान्तरेण किमिति । फलं क्रान्त्यन्तरम् ।
तद्बिम्बव्यासार्धवृत्ते वलनम् । अथान्योऽनुपातः । यदि
बिम्बव्यासार्धवृत्ते एतावद्वलनं तदा त्रिज्याव्यासार्धवृत्ते
किमिति । अत्र त्रिज्यातुल्ययोर्गुणहरयोस्तथा विम्बा-
र्धमितयोश्च तुल्यत्वान्नाशे कृते कोटिज्याया जिनांशज्या
गुणस्त्रिज्या हरः । फलं कोटिक्रमक्रान्तिज्या । तत्
त्रिज्यावृत्ते बलनम । एवं विषुवद्वृत्तस्थित एव ग्रहे ।
यतो भूमध्यात् खखस्तिकस्थविम्बमध्यं प्रति यत् सूत्रं
नीयते तत् त्रिज्यासूत्रं दण्डवत् । तदुपरिस्थं बिम्बं
छत्रवत् समन्तात् सममेव । यत् तत्परितस्त्रिज्यावृत्तं
यत्र च बलनज्या देया तदपि भूसममेव स्थितम् ।
अतस्तत्र यथागतमेव वलनम् । यदा किल मेषान्ते ग्रह-
स्तदा तत्क्रान्त्या खखस्तिकादुत्तरे नतं बिम्बं स्यात् ।
त्रिज्यासूत्रं तदा कर्णरूपम् । बिम्बमध्याच्च लम्बसूत्रं
ध्रुवयष्ट्यन्तं द्युज्या । सा तत्र कोठिः । क्रान्तिज्या
भुजः । यथा किञ्चित् कर्णस्थित्या धृते दण्डे छत्रमपि
तत्स्पर्धिन्यां दिशि कर्णरूपं भवति । तत्र वलनज्ययापि
कर्णरूपिण्या भवितव्यम् । यत् पूर्वमानीतं क्रान्त्यन्तरं
लम्बसूत्रप्रतिस्पर्धि तत् कोढिरूपं जातम् । तस्य कर्ण-
करणायानुपातः । यदि द्युज्याकोट्या त्रिज्या कर्णस्तदा-
ऽनया किमिति । पूर्बं कोटिज्याया जिनज्या
गुणस्त्रिज्या हरः । इदानीं त्रिज्या गुणो द्युज्या हरः ।
अत्रापि त्रिज्यातुल्ययोर्गुणहरयोर्नाशे कृते कोटिज्या
जिनज्यागुणा द्युज्यया भक्ता वलनं स्यादित्युपपन्नम् ।
युक्त्यानयैव विज्ञेयमक्षजं च क्रमज्ययेति । यथायनवल-
ज्ञानार्थं ध्रुवात् परितो जिनभागैः कदम्बभ्रमवृत्तं
निबद्धं तथा याम्योत्तरक्षितिजयोर्यः संपातः स
समसंज्ञकः । तस्मादप्यक्षांशैः परितोऽक्षवलनज्ञानार्थं वृत्तं
बध्नीयात् । तत् किलाक्षवलयसंज्ञम् । तदपि भांशै-
रङ्क्यम् । तत्राक्षवलनोपपत्तिर्दर्शनीया । तद्यथा
मध्यह्नेऽर्कात् समचिह्नं प्रति नीयमानं वृत्ताकारं
सूत्रं ध्रुवचिह्नलग्नं याति । अतस्तत्र विषुवत्समवृत्त-
योरेकैव याम्योत्तरा वलनाभाव इत्यर्थः । अथ यदि
देनार्धान्नतं सूर्य्यं कृत्वा समचिह्नात् सूर्य्यं प्रति
नीयमानं सूत्रं यत्र सममण्डले लगति तत्खखस्तिक-
योर्मध्ये यावन्तोऽंशास्तावन्त एवाक्षवृत्ते समसूत्रध्रुवयो-
र्मध्ये भवन्ति । यतस्तत्समवृत्तानुकारं बद्धम् । तेषां
भागानामक्षबलये यावती क्रमज्या तावदेव सममूत्रध्रुव-
योरन्तरम् । अथ क्षितिजस्थेऽर्के क्षितिजमेव
समसूत्रम् । तत्राक्षवृत्ते च नवतिर्नतांशाः । तेषां ज्याऽक्ष-
वलयेऽक्षज्यातुल्या स्यात् । अतः सममण्डलगतेर्नतांशै-
र्वलनं साधयितुं युज्यते । ते तु महायासेन ज्ञायन्ते ।
न तु सुखेन । अतस्तज्ज्ञानार्यं स्थूलोऽनुपातः सुखार्थं
कृतः । यदि दिनार्धतुल्येन स्वाहोरात्रनतेन नवतिः
सममण्डलनतांशा लभ्यन्ते तदेष्टेन किमिति । लब्ध-
नतांशानां या क्रमज्या साऽक्षज्यावृत्ते परिणाम्यते ।
वदि त्रिज्यावृत्ते एतावती ज्या तदाक्षज्यावृत्ते
कियतीति । लब्धं किल वलनज्या स्यात् । परं सा द्युज्या-
ग्रे, न त्रिज्याग्रे । यतः समसूत्रध्रुवयोरन्तरं तत् ।
ग्रहध्रुवयोर्मध्ये द्युज्याचापांशा एव वर्त्तन्ते । यदि
द्युज्यावृत्त एतावती तदा त्रिज्यावृत्ते कियतीति ।
एवं सति पूर्वत्रैराशिके त्रिज्या हरः । इदानीं
गुणः । तुल्यत्वात् तयोर्नाशे कृते नतांशज्याया अक्षज्या
गुणो द्युज्या हरः । फलं स्थूला वलनज्या स्यात् ।
अथ सूक्ष्माप्युच्यते । ग्रहणकालोऽर्कस्य शङ्कुः शङ्कु-
तणमग्रा च साध्या । अग्राशङ्कुतलयोः समदिशीरैक्य-
मन्यधान्तरं स किल बाहुः पूर्वं प्रतिपादित एव ।
पृष्ठ ४८६०
ग्रहसमवृत्तयोरन्तरं ज्यारूपं दक्षिणोत्तरं बाहुतुल्यं
स्यात् । यथा विषुवद्वृत्तादुत्तरतो दक्षिणतो वा
क्रान्तिज्यान्तरे द्युज्यावृत्तं तथा समवृत्तादपि बाहु-
वशादुत्तरतो दक्षिणतो वा बाहुतुल्येऽन्तरे उपवृत्तं
कल्प्यम् । तद्रपि भांशैरङ्क्यम् । बाहुवर्गोनत्रिज्या-
वर्गस्य पदं तस्मिन् वृत्ते द्युज्यापद्व्यासार्धम् । अथ
द्युज्यावृत्तोपवृत्तयोर्यौ प्र क्पश्चात्संपातौ तयोर्जीवावद्
यत् सूत्रं निबध्यते तस्यार्धमुपवृत्ते नतांशानां ज्या ।
सैवाहोरात्रवृत्तनतांशानां भुजज्या । अथ तदानय-
नम् । नतासूनां या भुजजीवा सा द्युज्यावृत्ते
परिणाम्यते । यदि त्रिज्यावृत्ते एतावती तदा द्युज्यावृत्ते
कियतीति । एवमुपवृत्तनतांशज्या भवति । ततो यद्युप-
वृत्तव्यासार्धे एतावती तदाक्षज्याव्यासार्धे कियतीति ।
ततो द्युज्याग्रे एतावती वलनज्या तदा त्रिज्याग्रे
कियतीति । अत्र प्रथमेऽनुपाते त्रिज्या हरो द्युज्या
गुणः । तृतीयेऽनुपाते त्रिज्या गुणो द्युज्या हरोऽत-
स्तुल्यत्वात् तयोर्नाशे कृते नतासूनां भुजज्याक्षजीवया
गुणितोपवृत्तव्यासार्धेन भक्ता सा सूक्ष्मा वलनज्या
स्वात् । अत उक्तमग्रानृतलयोर्योग इत्यादि । अथ
दृष्टान्तः । यत्र किल वृषभान्तक्रान्तितुल्योऽक्षः २० । ३८
तत्र वृषभान्तस्थोऽर्को दिनार्धे खखस्तिके भवति । तदा
क्रान्तिवृत्तं दृङ्मण्डलाकारं स्यात् । सत्रिगृहोऽर्को
राशिपञ्चकं सिंहान्तः । स च तदा क्षितिजे वर्त्तते ।
तत् प्राक्परयोरन्तरं क्षितिजे प्रत्यक्षं वलनं दृश्यते ।
सा च सिंहान्तस्याग्रा । तत् कथं सत्रिगृहार्कोत्क्रम-
क्रान्तिर्वलनम् । अतोऽसत् । अस्मदानयनं विना
नेदमग्रारूप वलनमुत्पद्यत इत्यर्थः । अथान्यो महान्
दृष्टान्तः । यत्र देशे षट्वष्टिभागाः ६६ अक्षः । तत्र
मेषादौ क्षितिजस्थे सर्वेऽपि राशयः समकालमेव
क्षितिजस्था भवन्ति । तदा क्रान्तिवृत्तमेव क्षितिज
भवतीत्यर्थः । तत्र मेषादौ वृषभादौ मिथुनादौ वा
स्थिते रवौ परमं त्रिज्यातुल्यमेव स्फुटं वलतं स्यात् ।
यतः क्रान्तिवृत्तप्राच्युत्तरा जाता । तथा विक्षेपाभावे
सति तदा रवेर्दक्षिणस्यां दिशि स्पशः । चन्द्रस्वोत्तर-
स्यामित्यर्थः । एतदुक्तं भवति । तत्र देशे तस्मिन् काले
तस्य त्रिज्यातुल्यस्य वलनस्यान्यथानुपपत्त्यास्मदीयमेव
वलनानयनं समीणीनम् । तत्र देशेऽक्षज्या ३१४० ।
मेषादिगे रवौ द्युज्या १४३८ । चरज्यासवः० ।
क्षितिजस्थेऽर्के नतघटिकाः १५ । आयनवलनचापांशाः
२४ । आक्षवलनचापांशाः ६६ । स्फुटवलनस्य
चापांशाः ९० । वृषादिगे रवौ द्युज्या ३३६६ । चरज्या-
सवः १६७० । नतघटिकाः १९ । ३८ । आयनवलन-
चापाशाः २१ । ४ । अक्षजस्य ६८ । ५६ । स्फुटवल-
नस्य चापांशाः ९० । मिथुनादिगे द्युज्या १२१८ ।
चरासवः ३४६५ । नतघटिकाः २४ । ३७ ।
आयनवलनांशाः २१ । ३२ । अक्षजस्य ७७ । २८ । स्फुटस्य
९० । एवं सर्वत्र ।”

वलभि(भी) स्त्री वल्यते आच्छाद्यते वल--अभि वा ङीप् ।

वडभीशब्दार्थे गोपानस्याम् अमरटी० ।

वलय पुंन० वल--अयन् । १ हस्तपादकटकादौ अमरः ।

उत्तरपदस्थः तदाकारवेष्टने यथा भूवलयम् । ३ वेष्टन-
भूमौ ४ गोले च । ५ गलरोगभेदे प्रावप्र० “वलास
एवायतमुन्नतञ्च शोथं करोत्पन्नगतिं निबार्य । तं सर्वथैवा-
प्रतिकार्य्यवीर्य्यं विवर्जनीयं वलयं वदन्ति” । ६ वेलायां
७ कङ्कणे जटा० ।

वलयित त्रि० वलयमिव आचरितम् वलय + क्वि--क्त । वेष्टिते अमरः ।

वला स्त्री वल--अच् । (वेड्याला) ओषधिभेदे रायमुकुटः ।

२ बलाशब्दार्थे च ।

वलाक पुंस्त्री० वल--आकन् । वकपक्षिणि अमरः स्त्रियां अजा० टाप् ।

वलाहक पु० वारि वहति पृषो० । १ मेघे २ मुस्तके च अमरः ।

३ पर्वते दैत्यभेदे ५ नागभेदे मेदि० श्रीकृष्णस्य हयभेदे
“स्यन्दनस्तु सदानन्दः सारथिश्चास्य दारुकः । तुरङ्गाः
शैव्यसुग्रीवमेघपुष्पवलाहकाः” त्रिका० ।

वलि पु० वल--इन् । उपहारद्रव्ये ओष्ठ्यादित्वमित्यन्ये ।

वलिर त्रि० वल--घञर्थे क वलसंवरणमस्त्यस्य इरन् ।

केकरे अमरः ।

वलिश न० वलिना उपहारद्रव्येण श्यति मत्स्यान् शो--क ।

वड़िशशब्दार्थे ।

वलीक न० वल्यते संव्रियतेऽनेन ईकन् । वनीकशब्दार्थे पटले जटा० ।

वलूक न० वल--बा ऊक । १ असुरे २ पक्षिभेदे सि० कौ० ।

वल्क भाषणे चु० उभ० द्वि० येट् । वल्कयति ते अववल्कत् त ।

वल्क न० वल--संवरणे क कस्य नेत्त्वम् । १ वृक्षादीनां त्वचि

वल्कले २ मत्स्यानां त्वचि शल्के (आँइस) मेदि० । ३ खण्डे
च विश्वः । ४ पद्विकालोध्रे पु० राजनि० ।

वल्कतरु पु० वल्कप्रधान तरुः शा० त० । गुवाकवृक्षे राजनि० ।

वल्कद्रुम पु० वल्कप्रधानो द्रुमः । भूर्जपत्त्रवृक्षे राजनि० ।

पृष्ठ ४८६१

वल्कल न० वल--कलन् कस्य नेत्त्वम् । १ त्वचे (दारचिति)

वृक्षे राजनि० २ त्वचि (छाल) पुंन० अमरः । ३ शिला-
वलकायां स्त्री राजनि० ।

वल्कलीध्र पु० वल्कभवा लोध्रः । पट्टिकालोध्रे राजनि० ।

वल्ग गतौ प्लुतगतौ च भ्वा० पर० सक० सेट । वल्गति

अवल्गीत् ।

वल्गा स्त्री वल्ग--अच् । (लागाम) अश्वमुखस्थे रज्जुभेदे हेमच०

वल्गित न० वल्ग--भावे क्त । १ अश्वस्य गतिभेदे प्लुतगतौ

अमरः । २ गमने ३ बहुभाषणे च ।

वल्गु पु० वल--संवरणे उ--गुक् च । १ छागे २ मनोहरे त्रि०

मेद्रि० । सज्ञायां कन् । वल्गुक चन्दने वने पणे
च न० । चारुणि सुन्दरे च त्रि० अजयः । अस्यौ-
ष्ठ्यादित्वमित्यन्ये ।

वल्गुपत्त्र पु० वल्गूलि पत्त्राणि यस्य । वनमुद्गे शब्दर० ।

वल्गुला स्त्री वल्ग--उल । १ वागुच्यां सोमराज्यां २ खगभेदे

राजनि० संज्ञायां कन् । वल्गुलिका तैलपाचिकायां हेमच०

वल्भ पक्षणे भ्वा० आत्म० सक० सेट् । वल्भते अवल्भिष्ट ।

वल्मिकि पु० वल--इकि मुट् च । कीटविशेषकृते मृत्तिका-

स्तूपे (उयेर डिपि) शब्दर० । बल इक मुट् च । वल्मिक
तत्रार्थे भरतः ।

वल्मीक पुंन० वल--ईक मुट् च । क्षुद्रकीटकृतमृत्स्तूपे अमरः

तन्मृष्टा शौचनिषेधो विष्णुपु० उक्तो यथा
“वल्मीकमृषिकोत्खातां मृदमन्तर्जलां तथा । शौचाव-
शिष्टां गेहाच्च नादद्यात् लेपसम्भवाम्” । देवप्रतिमायाः
शिल्पिदोषशान्तये तन्मृदा प्रतिमाक्षालनं विहितं यथा
“वल्मीकमृत्तिकाभिश्च गोमयेन सुभस्मना । क्षालयेत्
शिल्पिसंस्पर्शदोषाणामुपशान्तये” देवप्र० व० ।
तेन देवमूर्त्तीनां स्नापनमपि देवप्र० त० विहितं यथा
“स्नापयेत् प्रथमं देवं तोयैः पञ्चविधैरपि । पञ्चामृतैः
पञ्चगव्यैः पञ्चमृत्षिण्डकेरपि । मृत्तिका करिदन्तस्य
पर्वताश्वखुरस्य च । कुशवल्मीकसंम्भूता मृत्पञ्चक-
मुदीरितम्” देवप्र० त० । तत्राविर्भूते प्राचेतके स्वनाम-
ख्याते रामायणकर्त्तरि २ मुनिभेदे ३ रोगभेदे च विश्चः ।
दद्रोशनिदानादि भावप्र० उक्तं यथा
“ग्रीवांसकक्षाकरपाददेशे सन्धौ गले वा त्रिभिरेव
दोषैः । ग्रन्थिः स वल्मीकवदक्रियाणां जातः क्रमे-
खैव गतप्रवृद्धिः । मुखैरनेकैस्त्वतितोदवद्भिः विसर्पवत्
सर्पति चोन्नतापौ । वल्मीकमाहुर्मिषजी विकारम्
निष्प्रत्यनीकं चिरजं विशेषात्” । वल्मीकवदित्यनेन
प्रचुरशिखरत्वमुच्चत्वमवगाढमूलत्वञ्च सूच्यते निष्प्रत्यनीक-
मुपचारायोग्यम्” । ततः भवार्थ इञ् । वाल्मीकि
वल्मोकभवे प्राचेतसे मुनौ शब्दरत्न० ।

वल्मीकशीर्ष न० वल्मीकस्य शीर्षमिव । स्रोतोऽञ्जने राजनि०

वल्मीकूट न० वल्मीकं कूटमिव पृषो० । वल्मीके हेमच०

वल्यु(ल्यू)ल छेदने पवित्रताकरणे च अद० चुरा० उभ० सक०

सेट् । वल्यु(ल्यू)लयति ते अववल्यु(ल्यू)लत् त ।

वल्ल संवरणे भ्वा० आत्म० सक० सेट् । वल्लते अवल्लिष्ट ।

वल्ल पु० वल्ल घञ् । १ गुञ्जत्रयपरिमाणे “वल्लस्त्रिगुञ्ज” लीला०

२ गुञ्जाद्वये वैद्यकम् ३ सार्द्धगुञ्जामाने “गोधूमद्वितयोन्मिता
तु कथिता गुञ्जा तया सार्द्धया वल्लः” राजनि० ।

वल्लकी स्त्री वल्ल--क्कुन् गौरा० ङीष् । १ वीणायाम् अमरः ।

२ सल्लकीवृक्षे च राजनि० ।

वल्लभ पु० वल्ल--अभच् । १ दयिते २ अध्यक्षे अमरः । ३ उत्त-

माश्वे च मेदि० । ४ दयितायां स्त्री हमच० ।

वल्लभपाल पु० वल्लमं पालयति पाल--अण् । अश्वपाले

वल्लर न० वल्ल अरन् । १ कृष्णागुरुणि मेदि० २ गहने ३ कुञ्जे

च राजनि० । ४ मञ्जर्य्यां शब्दर० ।

वल्लरि(री) स्त्री वल्ल--अरि वा ङीप् । १ मञ्जर्य्याम् अमरः ।

२ मेथिकायां ३ चित्रमूले च राजनि० ।

वल्लव पुंस्त्री० वल्ल--घञ् तं वाति वा--क । १ गोपे अमरः

स्त्रियां ङीष् । २ पाचके अमरः ३ भौमसेने मेदि० ।

वल्लि(ल्ली) स्त्री वल्ल--इन् वा ङीप् । १ लतायाम् अमरः ।

२ पृथिव्याञ्च शब्दच० दीर्घान्तस्तु ३ अजमोदायां मेदि०
४ कैवर्त्तिकायाम् ५ चव्ये च राजनि० ।

वल्लीज न० वल्ल्यां जायते--जन--ड । मरिचे राजनि० ।

वल्लीदूर्वा स्त्री वल्लीरूपा दूर्वा । मालादूर्वायाम् राजनि० ।

वल्लीबदरी स्त्री वल्लीरूपा वदरी । भूमिवदर्य्याम् राजनि० ।

वल्लीमुद्ग पु० वल्लीप्रवानः मुद्गः । वनमुद्गे (मुगानि) राजनि०

वल्लीवृक्ष न० वल्लीव दीर्घो वृक्षः । सालवृक्षे राजनि० ।

वल्लुर न० वल्लु--उरन् । १ कुञ्जे २ मञ्जर्य्यां ३ क्षेत्रे ४ निर्जन-

स्थाने ५ शाद्वले हेमच० । ६ गहने च मेदि० वल्ल--अरन् ।
वल्लर तत्रार्थे न० शब्दर० ।

वल्लूर त्रि० वल्ल--ऊरन् । आतपादिना १ शुष्कमांसे अमरः

२ शूकरभांसे मेदि० ३ वनक्षेत्रे ४ वाहने ५ उषरभूमौ च
हेमच० ।

वल्ल्या स्त्री वल्ल--यत् । धात्रीवृक्षे राजनि० ।

पृष्ठ ४८६२

वल्वज पु० वलते भुवं वेष्टयति वल--क्विप् तादृशः सन् वजति

गच्छति वज--अच् । १ उलपे तृणभेदे अमरः । (वावुइ)
२ वृक्षभेदे स्त्री राजनि० ।

वल्ह दीप्तौ चु० उभ० अक० सेट् । वल्हयति अववल्हत् त

वल्ह उत्कर्षे भ्वा० आ० सक० सेट् । वल्हते अवल्हिष्ट ।

वव पु० वा ड प्रकारे द्वित्वम् ज्योतिषोक्ते तिव्यर्द्धात्मके

प्रथमे करणे । अस्य औष्ठप्रादित्वमित्यन्ये ।

वश स्पृहायाम् अदा० पर० सक० सेट । वष्टि उष्टः उशन्ति ।

अवट् अवाशीत् अवशीत् उवाश ऊशतुः ।

वश पुंन० वश--भावे अप्, कर्त्तरि अच् वा । १ आयत्तत्वे

२ प्रभुत्वे च आयत्ते त्रि० शब्दर० ।

वशंवद त्रि० वशं वशकरं मधुरं, वशोऽहनिति वा वदति

वद--खच् मुम् च १ प्रियवाक्यवादिनि २ मधुरवादिनि
(तवाहं वशः) इति २ वादिनि च ।

वशक्रिया स्त्री वशस्य क्रिया करणं कृ--भावे श । वशीकरणे ।

वशग त्रि० वशं गच्छति गम--ड । वशीभूते ।

वशवत्तिन् त्रि० वशे वर्त्तते वृत--णिनि । वशीभूते ।

वशा स्त्री वश--अच् । १ बन्ध्यायां २ योषायां ३ सुतायां

४ क५ रिण्यां स्त्रीगव्याञ्च मेदि० । अनेन जातेः समासे
परनि० गोवशा ।

वशिक त्रि० वशोऽस्त्यस्य ठन् । १ शून्ये अमरः २ अगुरुचन्दने स्त्री ।

वशित्व न० वशिनो भावः त्व । १ स्वातन्त्र्ये २ ईशरय्स ऐश्वर्य्य-

भेदे च । तल् । वशिताप्यत्र स्त्री ।

वशिन् त्रि० वशोऽस्त्यस्य इनि । १ जितेन्द्रिये २ स्वाधीने स्वतन्त्रे च ।

वशिर न० वश--इरन् । १ सामुद्रलवणे अमरः । २ नजपिप्प-

ल्याम् ३ चव्ये च पु० राजनि० ।

वशिष्ठ अतिशयेन वशी इष्ठन् इनेर्लुक् । अतिशयजिते-

न्द्रियतायुक्ते मुनिभेदे ।

वशीकरण न० अवशः वशः क्रियतेऽनेन वश--च्वि--कृ--ल्युट् ।

तन्त्राद्युक्ते वशतासम्पादके मणिमन्त्रादौ ।

वशीर पु० वश--ईरन् । गजपिष्पल्याम् जटा० ।

वश्य न० वश--यत् । १ लवङ्गे शब्दर० । २ आबत्ते त्रि० अमरः

वष वधे भ्वा० पर० सक० सेट् । वषति अवषीत् अवाषीत् ।

ववषतुः ।

वषट् अव्य० वह--डषटि । देवोद्देश्यकहविस्त्यागे अमरः ।

वषट्कार पु० वषट् + कृ--घञ् १ दीयोद्देशकत्यागरूपे यज्ञे

२३ षडिति करणे यजतिशब्दे कात्य वाक्य दृश्यम् ।

वषट्कृत त्रि० वषट इति कृत्व हुते अमरः ।

वष्क गतौ भ्वा० आत्म० सक० सेट् । वष्कते अवष्किष्ट ।

वष्कय पु० वष्क--अयन् । एकहायने वत्से अमरः ।

वष्कयणी स्त्री वष्कयमेकहायनवत्सं नयति स्थानान्तरं

नी--ड गौरा० ङीष् णत्वम् । चिरप्रसूतायां गवि
अमरः । जात्या समासेऽस्य परनि० गोवष्कयणो ।

वष्कयिणी स्त्री वष्कय एकहायनो वत्सोऽस्त्यस्या इनि ।

चिरप्रसूतायां गवि अमरः वष्कयणीति वा पाठः ।
“वष्कयिण्यास्त्रिदोषघ्नं तर्पणं वलकृत्पयः” भावप्र० ।

वस स्नेहे छेदने बधे च सक० चु० उभ० सेट् । वासयति ते

अवीवसत् त । अधि + गन्धादिनासस्कारे सक० ।

वस स्तम्भे दिवा० पर० सक० सेट् । वस्यति इरित् अवसत्

अवासीत् उदित् क्त्वा वेट् ।

वस निवासे भ्वा० पर० सक० अनिट् यजा० । वसति अवात्सीत्

उवास ऊसतुः उषितः उषित्वा । अधि + अनु + उप--आ + वा
वसतेराधारस्य कर्मता अधिवसति वैकुण्ठ हरिः सि० कौ०
अनुवसति उपवसति आवसति । उप + अभोजने तत्र
नाधारस्य कर्मता “एकादश्यामुपवसेत्” इत्यादि ।

वस आच्छादने अदा० आ० सक० सेट् । वस्ते अवसिष्ट ।

वस वासने सुरभीकरणे अद० चु० उभ० सक० सेट् । वसयति ते

अववसत् त ।

वसति(ती) स्त्री वस--अति वा ङीप् । १ वासे २ यामिन्याम्

“वसतीरुषित्वा” रघुः । ३ निकेतने मेदि० ४ स्थाने च
५ शिविरे सि० कौ० ।

वसतिवरी स्त्री ब० व० सोमग्रहनार्थाषु अप्सु । “अग्नीषो-

मीयस्य वपामार्जनान्ते वसतीवरीग्रहणं स्यन्दमानाना-
मनस्तमिते” कात्या० श्री० ८९७ “सोमार्था आपो
वसतीवरीशब्देनोच्यन्ते” कर्क० । अथ सोमाभिषवोप-
युक्तानां वसतीवरीसंज्ञानामपां ग्रहणममिधीयते
वेददी० यजु० ६-२३ ।

वसन न० वस--आच्छादने कर्मणि ल्युट् । १ वस्त्रे अमरः ।

भावे ल्युट् । २ छादने मेदि० वस--वासे आधारे ल्युट् ।
३ निवासे ४ स्त्रीकटीभूषणे च शब्दर० ।

वसन्त पु० वस--झ । मधुमाधवात्मके ऋतुभेदे “मधुश्च

माधवश्च वासन्तिकावृतुः” यजु श्रुतिः । २ अतिसारे शब्दर० ।
३ नाट्ये विदूषकोपाधौ । ४ रागभेदे च ।
“आन्दोलिता च देशाख्या लोला प्रथममञ्जरी । मन्दारी
चेति रागिण्यो वसन्तस्य सदानुगाः” इत्युक्ता अस्य
पञ्च रागिण्यः षट् इत्यन्ये रामिणीशब्दे दृश्याः ।
पृष्ठ ४८६३
अस्य गानकालः । “श्रीपञ्चमी समारभ्य यावत् स्याच्छ-
यनं हरेः । तावद्वसन्तरागस्य गानमुक्तं मनीषीभिः”
सङ्गीतदा० । ४ तालविशेषे । “जयमङ्गलगन्धर्वमकरन्द-
त्रिभङ्गमाः । रतितालो वसन्तश्च जगझम्पोऽथ गारुणिः”
वसन्तताले कर्त्तव्यो नगणो मगणस्तथा ।” सङीतदा० ।

वसन्तक पु० वसन्ते कायति कै--क । श्योनाकवृक्षे शब्दमा०

वसन्तकुसुम पु० वसन्ते कुसुमं यस्य । सेलुवृक्षे शब्दमा० ।

वसन्तकुसुमाकर पु० प्रमेहरोगनाशके औषधभेदे ।

“प्रवालरसमौक्तिकाम्बरमिदं चतुर्भागभाक् पृथक्
पृथगथ स्मृते रजतहेमतो द्व्यं शके । अयोभुजगरङ्गकं त्रि-
लवकं विमर्द्याखिलं शुभेऽहनि विभावयेत् भिषगिदं
धिया सप्तशः । द्रवैर्वृषनिशेक्षुजैः क्वमलमालतीपुष्पजैः
पयःकदलिकन्दजैर्मलयजैणनाभ्युद्भवैः । वसन्तकुसुमा-
करोरसपतिर्द्विवल्लोऽशितः समस्तगदहृद्भवेत् किल
निजानुपानैरयम्” वृद्धयोगतरङ्गणी ।

वसन्तजा स्त्री वसन्ते जायते जन--ड । माधवीलतायाम् राजनि० ।

वसन्ततिलक न० ज्ञेयं वसन्ततिलकं तभजा जनौ गः”

छन्दो० उक्ते चतुर्दशाक्षरपादके छन्दोभेदे

वसन्तदूत पु० वसन्तस्य दूत इव । १ कोकिले २ आम्रवृक्षे

२ पञ्चमरागे च विश्वः । ४ माधवीलतायाम् ५ पाटलीवृक्षे
स्त्री मेदि० गौ० ङीष् ६ गणिकारिकायां ७ पिक्याञ्च
स्त्री ङीष् राजनि० ।

वसन्तद्रु पु० वसन्तस्य द्रुः । आम्रवृक्षे शब्दर० तत्काले तस्य

जायमानमुकुलत्वात् तथात्वम् वसन्तवृक्षादयोऽप्यत्र ।

वसन्तसख पु० वसन्तस्य सखा अच्समा० । कामदेवे हला०

वसा स्त्री वस--अच् । १ नांसजाते देहस्थे धातुभेदे मेदसि

अमरः । असृक्करशब्दे ५५८ पृ० दृश्यम् । २ मांसरोहिण्यां
लतायाञ्च राजनि० ।

वसाढ्य पुंस्त्री० वसाभिः आढ्यः । प्रचुरमेदष्के शिशुमारे त्रिका० ।

वसि पु० वस--इन् । वसने उणा० ।

वसिर न० वस--इरन् । १ सामुद्रलवणे २ गजपिप्पल्यां च धरणिः ।

वसिष्ठ पु० वरिष्ठ + पृषो० । ब्रह्मणः मानसपुत्रेषु सप्तर्षिषु

मुनिभेदे भा० अनु० अन्याऽपि तन्निरुक्तिर्यथा “वरि-
ष्ठोऽस्मि वसिष्ठोऽस्मि वसे वासगृहेष्वपि । वरिष्ठत्वाच्च
वासाच्च वसिष्ठ इति विद्धि माम्” ।

वसु न० वस--उ । १ धने २ रत्ने अमरः ३ वृद्ध्यौषधे ४ श्यामे

मेदि० । ५ स्वर्णे विश्वः ६ जले च सि० कौ० । ७ वकवृक्षे
८ सूर्य्ये ९ वह्नौ १० रश्मौ ११ गणदेवताभेदे च पु० अमरः ।
“धरो ध्रुवश्च सोमश्च अहश्चैवानिलोऽनलः । प्रत्यूषश्च
प्रभासश्च वसवोऽष्टाविति स्मृताः” भा० आ० ६६ अ० ।
१२ अष्टसङ्ख्यायाञ्च १३ मधुरे १४ शुष्के च त्रि० हेमच० ।
१५ दीप्तौ १६ वृद्ध्यौषधौ च स्त्री शब्दच० । १७ वसुदेव-
ताके धनिष्ठानक्षत्रे पु० ज्यो० त० । १८ चेदिराजाख्येदेवभेदे

वसुक पु० वसुना सूर्य्यनाम्ला कायति कै--क । १ अर्कवृक्षे

अमरः । २ वकवृक्षे च मेदि० ।

वसुकीट पु० वसुनि धने कीट इव । याचके हारा० ।

वसुच्छिद्रा स्त्री वसुसङ्ख्यातानि पुष्पे छिद्राण्यस्याः ।

महामेदायाम् रत्नमा० ।

वसुदेव पु० वसुना दीव्यति दिव--अच् । श्रीकृष्णजनके यादवे क्षत्रियभेदे अमरः ।

वसुदेवभू पु० वसुदेवात् भवति भू--क्विप् । श्रीकृष्णे वसुदेव-

सुतादयोऽप्यत्र ।

वसुधा स्त्री वसूनि धीयन्तेऽस्यां धा घञर्थे आधारे क, वसूनि दधाति घा--क वा । पृथिव्याम् अमरः

वसुधारा स्त्री वसोश्चेदिराजस्य प्रियार्थं धारा घृतादिस्रव-

सन्ततिः । माङ्गल्येषु चेदिराजवसूद्वेशेन दीयमानायां
घृतादिधारायाम् ।
“कुड्यलग्नां वसोर्धारां सप्त वारान् घृतेन तु । कारयेत्
पञ्च वारान् वा नातिनीचां न चोच्छ्रिताम् । आयुष्मा०
निति शान्त्यर्थं जत्या तत्र समाहितः । षडभ्यः
पितृभ्यस्तदनु श्राद्धदानमुपक्रमेत्” छन्दोगप० ।
२ जिनशक्तिभेदे हेमच० । ३ कुवेरपुर्य्या शब्दमा० ।

वसुन्धरा स्त्री वसूनि धारयति धृ--खच् मुम् ह्रस्वश्च । पृथि-

व्याम् अमरः ।

वसुप्राण पु० वसुर्दीप्तः प्राण इव यस्य । अग्नौ शब्दर० ।

वसुमती स्त्री वसूनि सन्त्यस्यां मतुप् । पृथिव्याम् अमरः ।

वसुरोचिस् पु० वसुने धनाय रोचते रुच--इसुन् । यज्ञे सि० कौ०

वसुल पु० वसुं दीप्तिं लाति ला--क । देवे त्रिका० ।

वसुहट्ट पु० वसूनां दीप्तीनां हट्ट इव । वकवृक्षे जटा० ।

वस्त बध गतौ च सक० याचने द्वि० चु० उभ० सेट् । वस्त-

यति ते अववस्तत् त ।

वस्त पुंस्त्री वस्त्यते बध्यते यज्ञार्थं वस्त--कर्मणि घञ् । छागे अमरः स्त्रियां ङीष् ।

वस्तक न० वस्त इव कायति कै--क । कृत्रिमलवणे हेमच० ।

वस्तकर्ण पु० वस्तस्य कर्णः पत्राकारेऽस्त्यस्य अच् । सालवृक्षे

राजनि० ।

वस्तगन्धा स्त्री वस्तस्येव गन्धोऽस्याः । अजगन्धायाम्

राजनि० ।

वस्तमोदा स्त्री वस्तस्येव मोदो यस्याः । अजमोदायाम् राजनि० ।

पृष्ठ ४८६४

वस्ति पु० वस्ते आवृणोति मूत्रम् वस--तिच् । नाभेरधो-

भगे मूत्राधारे १ स्थाने २ वासे च ३ वसनदशायां पुंस्त्री
ब० व० अमरः (पिचकारी) औषधदानार्थे द्रव्यभेदे
पु० तद्विधिः भावप्र०
“वस्तिर्द्विधानुवासाख्यो निरूहश्च ततः परम् ।
यः सेहो द्रीयते सः स्यादनुवासननामकः । कषाय
क्षीरतैलैर्यो निरूहः स निगद्यते । वस्तिभिदींयते
यस्मात्तस्माद्वस्तिरिति स्मृतः ।” वस्तिभिः मृगादीनां
मूत्राशयैः “तत्रानुवासनाख्यो हि वस्तिर्यः सोऽत्र
कथ्यते । अनुवासनभेदश्च मात्रावस्तिरुदीरितः । पल
द्वयन्तस्य मात्रा तस्मादर्द्धापि वा भवेत् । अनुवास्यस्तु
रूक्षः स्यात्तीक्ष्णाग्निः केवलानिली । नानुवास्यस्तु कुष्ठी
स्यान्मेही स्थूलस्तथोदरी । नास्थाप्या नानुवास्याश्च
जीर्णोन्मादतृड़र्दिताः । शोथमूर्च्छारुचिभयश्चासकास-
क्षयातुराः । नेत्रं कार्य्यं सुवर्ण्णादिधातुभिर्वृक्ष-
वेणुभिः । नलैर्दन्तैर्विषाणाग्रैर्मणिभिर्वा विधीयते ।”
नेत्रं नाड़ी तथा चोक्तं विश्वप्रकाशे “नेत्रं मन्थगुणे
वस्त्रे तरुमूले विलोचने । नेत्रवन्धे च नाड्याञ्च नेत्रो
नेतरि भेद्यवदिति” । “एकवर्षात्तु षड्वर्षाद् यावन्मानं
षडङ्गुलम् । ततो द्वादशकं यावन्मानं व्यादष्टसम्मितम् ।
ततः प्ररं द्वादशमिरङ्गुलैर्नेत्रदीर्घता । मुखच्छिद्रं
कलायाभं छिद्रं कोलास्थिसन्निभम् । यथासङ्ख्यं
भवेन्नेत्रं श्लक्ष्णं गोपुच्छसन्निभम् । गोपुच्छसन्निभं मूले
तस्मात् क्रमात् क्रमात् कृशम्” । मुखच्छिद्रादिप्रमाणं नेत्रं
क्रमेण पड्वर्षा यद्वा दशवर्षा यद्वा तदूर्द्ध्वं वर्षाश्च
ज्ञेयाः । “आतुराङ्गुष्ठमानेन मूले स्थूलं विधीयते ।
कनिष्ठिकापरीणाहमग्रे च गुटिकामुखम् ।”
परिणाहोऽत्र स्थौल्यम् “तन्मूले कर्णिके द्वे च कार्य्ये
भागाच्चतुर्थकात् ।” कर्णिका गवादिकर्णवत् “योजयेत्तत्र
वस्तिञ्च बन्धद्वयविधानतः । मृगाजशूकरगवां
महिषस्यापि वा भवेत् ।” वस्तिरिति शेषः । “मूत्रकोषस्य
वस्तिस्तु तदलाभे तु चर्मणः । कषायरक्तः स मृदु
र्वस्तिः स्निग्धो दृढोहितः । व्रणवस्तेस्तु नेत्रं स्यात्
श्लक्ष्णमष्टाङ्गुलोन्मितम् । मुद्गच्छिद्रं गृध्रपक्षनालिका
परिणाहि च । शरीरोपचयं वर्णं वलमारोग्यमायुषः ।
कुरुते परिवृद्धिञ्च वस्तिः सम्यगुपासितः । दिवा शीते
वमन्ते च स्नेहवस्तिः प्रदोयते । ग्रीष्मवर्षाशरत्काले
रात्रौ स्यादनुवासनम् । न चातिस्निग्धगशनं गोजति-
त्वानुवासयेत् । मदं मूर्च्छाञ्च जनयेद्विधा स्नेहः प्रयो-
जितः ।” द्विधा भोजने वस्तौ च । “रूक्षं मुक्तवतोऽन्यन्तं
बलं वर्णञ्च हापयेत् । युक्तस्नेहमतो जन्तुं भोजयित्वानु-
वासयेत्” । युक्तस्नेहं यथोचितस्नेहं भोज्यं भोजयि-
त्वेत्यर्थः । “हीनमात्रावुभौ वस्ती नातिकार्य्यकरौ
सृतौ । अतिमात्रौ तथानाहक्लमातीसारकारकौ”
उभौ वस्ती अनुवासननिरूहाख्यौ । “उत्तमा स्यात्पलैः
षड्भिर्मध्यमा स्यात्पलैस्त्रिभिः । पलाद्यर्द्धेन हीना स्यादु-
क्तमात्रानुवासने । शताह्वासैन्धवाभ्याञ्च देयं स्नेहे च
हूर्णकम् । तन्मात्रोत्तममध्यान्त्या षट्चतुर्द्धयमाषकैः ।
विरेचनात्सप्तरात्रे गते जातबलाय च । भुक्तान्नायानु-
वास्याय वस्तिर्देयोऽनुवासनः । अथानुवास्यं स्वभ्यक्त-
मुष्णाम्बु स्वेदितं शनैः । भोजयित्वा यथाशास्त्रं कृतञ्च-
ङ्क्रमण ततः । उत्सृष्टानिलविण्मूत्रं योजयेत् स्नेह-
वस्तिना” उष्णाम्बुस्वेदितम् उष्णाम्बुना स्नापितम् ।
“सुप्तस्य वामपार्श्वेन वामजङ्घाप्रसारिणः । कुञ्चितापर-
जङ्घस्य नेत्रं स्निग्धे गुदे न्यसेत् । बद्धं वस्तिमुखं सूत्रै-
र्वामहस्तेन धारयेत् । पीड़येद्दक्षिणेनैव मध्यवगेन
घीरधीः । जृम्भाकासक्षयादींश्च यस्तिकाले न कारयेत् ।
त्रिंशन्मात्रामितः कालः प्रोक्तो वस्तेस्तु पीड़ने । ततः
प्रणिहिते स्नेहे उत्तानो वाग्यतो भवेत् । स्वजानुनः
करावर्त्तं कुर्य्याच्छोटिकया पुनः । एषा मात्रा भवेदेका
सर्वत्रैवेष निश्चयः । निमिषोन्मेषणं पुंसामङ्गुल्या च्छोटि-
काथ वा । गुर्वक्षरोच्चारणं वा स्यान्मात्रेयं स्मृता बुधैः ।
प्रमारितैः सर्वगात्रैर्यथावीर्य्यं प्रसर्षति” यथावीर्य्यं
स्नेहादि । “ताड़येत्तलयोरेनन्त्रींस्त्रीन्वारान् शनैः शनैः ।
स्फिजोश्वैव तथा श्रीणीं शय्याञ्चैवोत्क्षिपेत्ततः ।
स्फिजोश्चैनं स्वपाणिभ्यां पूर्ववत्ताड़येद्बुधः । शय्याञ्च
पदतस्तस्य त्रीन् वारान्नुत्क्षिपेत्ततः । जाते विधाने तु तत
कुर्य्यान्निद्रां यथासुखम् । सानिलः सपुरीषश्च स्नेहः
प्रत्येति यस्य तु । उपद्रवं विना शीघ्रं स सम्यगनुवासितः ।
जीर्णान्नमथ सायाह्ने स्नेहे प्रत्यागते पुनः । लघ्वन्नं
भोजयेत्कामं दीप्ताग्निस्तु नरो यदि । अनुवासिताय
दातव्यमितरेऽह्नि सुखोदकम् । धान्यशुण्ठीकषायं वा
स्नेहव्यापत्तिनाशनम्” । सुखोदकमुष्णोदकं व्यापत्तिर्व्या-
धिः । “अनेन विधिना षड्वा सप्त चाष्टौ नवापि वा ।
विधेया वस्तयस्तेषामन्ते चेव निरूहणम् । दत्तस्तु प्रथ-
मो वस्ति स्नेहयेद्वस्तिवङ्क्षणौ । सम्यग्दत्ती द्वितीयस्तु मू
पृष्ठ ४८६५
र्द्धस्थमनिलं जयेत् । बलं वर्णञ्च स जयेत्तृतीयस्तु प्रयो-
जितः । चतुर्थपञ्चमौ दत्तौ स्नेहयेतां रसासृजी ।
षष्ठो मांसं स्नेहयति सप्तमो मेद एव च ।
अष्टमो नवमश्चापि मज्जानञ्च यथाक्रमम्” । यथाक्रम-
मिति वचनादष्टमोऽस्थि स्नेहयेत् । “एवं शुक्रगतान्
दोषान् द्विगुणः साधु साधयेत् ।” अष्टादशदिवसावधि-
कवस्तिफलम् “अष्टादशाष्टादशकाद्दिनाद् यो ना विषेवते ।
स कुञ्जरबलोऽश्वस्य जवतुल्योऽमरप्रभः । रूक्षाय
बहुवाताय स्नेहवस्तिं दिने दिने । दद्याद्वैद्यस्तथान्येषा-
मग्न्याबाधभयात् त्र्यहात् । स्नेहोऽल्पमात्रो रूक्षाणां
ष्टीर्घकालमनत्ययः ।” अनत्ययः अबाधः । “तथा
निरूहः स्निग्धानामल्पमात्रः प्रशस्यते । अथ वा यस्य
तत्कालं स्नेहो निर्याति केवलः । तस्याप्यल्पतरो देयो
न हि स्निग्धेऽवतिष्ठते ।” अवतिष्ठते दत्तः स्नेह इति
शेषः “अशुद्धस्य मलोन्मिश्रः स्नेहो नैति यदा पुनः ।
तदाङ्गसदनाध्माने शूलं श्वासश्च जायते । पक्वाशये
गुरुत्वञ्च तत्र दद्यान्निरूहणम् । तीक्ष्णं तीक्ष्णौषधै-
र्युक्तं फलवर्त्तिमथापि वा । यथानुलोत्रनो वायुर्मलः
स्नेहश्च जायते । तथा विरेचनं दद्यात्तीक्ष्णं नस्यञ्च
शस्यते । यस्य नोपद्रवं कुर्य्यात् स्नेहवर्त्तिरनिःसृता ।
सर्वोऽल्पो व्यावृतो रौक्ष्यादुपेक्ष्यः स विजानता ।
अनायातन्त्वहोरात्रे स्नेहं संशोधनैर्हरेत् । स्नेहवस्ता-
वनायाते नान्यः स्नेहो विधीयते । गुडूच्येरण्डपूती-
सभार्गीवृषकरौहिषम् । शतावरीं सहचरं काकनासां
प्रलोन्मिताम् । यवमाषातसीकोलकुलत्थान् प्रसृतो-
न्मितान् । अतुर्द्रोणेऽम्भसः पक्त्वा द्रोणशेषेण तेन च ।
पचेत्तैलाढकं सर्वैर्जीवनीर्वै पलोन्मितैः । अनुवासन-
मेतद्वि सर्ववातविकारनुत् ।” पूतीकः करञ्जः रौहिषं
ईषत्सुगन्धतृणविशेषः । काकनासा (काकाठोठी)
प्रसृतम् प्रलद्वयम् । “षोढा सप्त व्यापदस्तु जायते
वस्तिकर्मणः । द्रषितान् समुदायेन तांश्चिकित्स्यात्तु
सुश्रुतात् । समुदायेन सनुचितनेत्रादिसामग्र्या ।
“मानाहारविहाराश्च परिहाराश्च कृत्स्नशः श्नेह-
पानसमाः कार्य्या नात्र कार्य्या विचारणा ।”

वस्तिकर्माढ्य पु वस्तिकर्मणा तच्छोघनव्यापारेणाढ्यः ।

अरिष्टवृक्षे शब्दच० ।

वस्तिमल न० ६ त० । मूत्रे हेमच० ।

वस्तु न० वस--तुन् । १ द्रव्ये २ पद्रार्थे त्रिका० ३ सत्यपद्रार्थे च ।

वस्तुक न० वस्तु + इवार्थे कन् । १ वास्तुके शाकभेदे २ श्वेत-

चिल्लीशाके च स्त्री राजनि० ।

वस्त्य न० वस्तौ साधु यत् । गृहे अमरः ।

वस्त्र न० वस--ष्ट्रन् । परिधानाद्युपयुक्ते कार्पासादौ वसने ।

वस्त्रधारणगुणाः यथा “स्नातस्यानन्तरं सम्यग्वस्त्रेण
तनुमार्जनम् । कान्तिप्रदं शरीरस्य कण्डूयादोषनाश-
नम् । कौषेयं चित्रवस्त्रञ्च रक्तवस्त्रं तथैव च ।
वातश्लेष्महरं तत्तु शीतकाले विघारयेत् ।” कौषेयं पट्टा-
म्बरं तसरवस्त्रञ्च । “मेध्यं सुशीतं पित्तघ्नं काषायं
वस्त्रमुच्यते । तद्धारयेदुष्णकाले तच्चापि लघु शस्यते ।”
काषायं (कोकटी) इति लोके । कषायरागरक्तं वा ।
“शुक्लन्तु शुभदं वस्त्रं शीतातपनिवारणम्ः । नचोष्णं
नच वा शीतं तत्तु वर्षासु धारयेत् । यशस्यं काम्य-
मायुष्यं श्रीमदानन्दबर्द्धनम् । त्वच्यं वशीकरं रुच्यं
नवं निर्मलमम्बरम् ।” काम्यं कामोद्दीपकम् । “कदापि
न जनैः सद्भिर्धार्य्यं मलिनमम्बरम् । तत्तु कण्डू
कृमिकरं ग्लान्यलक्ष्मीकरं परम् ।” अलक्ष्मीरशोभा
दारिद्र्यं वा ।” भावप्र०
अस्य परिधानविधिर्यथा भृगुः “विकच्छोऽनुत्तरीयश्च
नग्नश्चावस्त्र एव च । श्रौतं स्मार्त्तं तथा कर्म न नग्न-
श्चिन्तयेदपि । विकच्छः परीघानाद् गलितकच्छः । तथा च
“परीधानात्वहिः कच्छा निबद्धा ह्यासुरी भवेत्” स्मृतिः
“वामे पृष्ठे तथा नाभौ कच्छत्रयमुदाहृतम् । एभिः
कच्छैः परीधत्ते यो विप्रः स शुचिः स्मृतः” । वौधायनः
“नाभौ धृतञ्च यद्वस्त्रमाच्छादयति जानुनी । अन्तरीयं
प्रशस्तं तदच्छिन्नमुभयोस्तयोः ।” प्रचेताः “दशा नाभौ
प्रयोजयेत्” स्मृतिः “न स्यात् कर्मणि कञ्चुकीति” ।
उत्तरीयधारणं चोपवीतवत् “यथा यज्ञोपवीतञ्च
धार्य्यते च द्विजोत्तमैः । तथा सन्धार्य्यते यत्नादुत्तरा-
च्छादनं शुभम्” स्मृतेः । अत्र यथा द्विजोत्तमैः
सव्यापसव्यत्वादिना उपवीतं धार्य्यते तथा उत्तराच्छा-
दनमपि द्विजोत्तमैरिति प्रदर्शनमात्रम् प्रागुक्तभृगु-
वचनेन सर्वेषां द्विवस्त्रताप्रतीतेः” पारस्करः “एकञ्चे-
द्वासो भवति तस्य उत्तरार्द्धेण प्रच्छादयतीति” आ०
त० रघु० । “वस्त्रपरीधाननक्षत्रादि “ब्रह्मानुराधवसुतिष्यवि-
शाखहस्तचित्रोत्तराग्निपवनादितिरेवतीषु । जन्मर्क्षजीव
बुधशुक्रदिनोत्सवादौ धार्य्यं नवं वसनमीश्वर
देवतुष्ट्यै ।” ज्यो त० । “सूर्य्ये चाल्पधनं,
पृष्ठ ४८६६
व्रणः शशिदिने, क्लेशः सदा भूमिजे, वस्त्राणां बहुता
वुधे, सुरगुरौ विद्यागमः सम्पदः । नानाभोगयुतप्रमोद
शयनं विद्याङ्गना भार्गवे, शौरौस्युः खलु रोगशोककलहा
वस्त्रे धृते नूतने” कर्मलोचनम् । अस्य क्षारसंयोग
निषिद्धदिनानि यथा । “मन्दमङ्गलषष्ठीषु द्वादश्यां श्राद्ध-
वासरे । वस्त्राणां क्षारसंयोगात्दहत्यासप्तमं कुलम् ।”
आ० त० ।
परकीयवस्त्रधारणनिषेधो यथा “आसनं वसनं शय्या जाया-
पत्यं कमण्डलुः । आत्मनः शुचिरेतानि न परेषां
कदाचन” । ईषद्धौतादिवस्त्रस्य पश्चिमाग्रादिप्रसारितवस्त्रस्य च
अधौतत्वं यथा, “ईषद्धौतं स्त्रिया धौतं यद्धौतं
रजकस्य तु । अधौतं तद्विजानीद्दशादक्षिणपश्चिमे ।”
कर्मलोचनम् । सत्यतपाः “प्रागग्रमुदग्रं वा घौतं
वस्त्रं प्रसारयेत् । पश्चिमाग्रं दक्षिणाग्रं पुनः प्रक्षा-
लनात् शुचि” अत्राग्रं दशा वृक्षवत् । प्रचेताः “स्वयं
धोतेन कर्त्तव्या क्रिया धर्म्या विपश्चिता । न च
रजकघौतेन नाधौतेन भवेत् क्वचित् । पुत्रमित्रकलत्रेण
स्वजातिबान्धवेन च । दासवर्गेण यद्धौतं तत् पवित्र-
मिति स्थितिः” । स्नानोत्तरं उष्णीषवस्त्रस्य धार्य्यत्वं
यथा उष्णीषधारणं शिरोजलापनयनाय । तेन
म्नानानन्तरं धार्य्यम् । तथा च महाभारतम् “आप्लुत-
स्याधिवासेन जलेन च सुगन्धिना । राजहंसनिभं प्राप्य
उष्णीषं शिथिलार्पितम् । जलक्षयनिमित्तं वै वेष्टया-
मास मूर्द्धनि” । शिथिलार्पितम् अगाढ़बद्वम् । निषिद्ध-
वस्त्राणि यथा भारते “न स्यूतेन न दग्धेन
पारक्येण विशेषतः । मूषिकोत्कीर्णजीर्णेन कर्म कुर्य्याद्विच-
क्षणः ।” नारसिंहे “न रक्तमुल्वर्ण वासी न नीलञ्च
प्रशस्यते । मलाक्तञ्च दशाहीनं वर्जयेदम्बरं बुधः ।
उल्वणम् उत्कटरक्तविशेषम् । आचाररत्ने उशना
“दशाहीनेन वस्त्रेण कुर्य्यात् कर्माण्यभावतः” । विष्णु-
धर्मोत्तरे “वस्त्रं नान्यधृतं धार्य्यं न रक्तं मलिनं
तथा । जीर्णं वाऽपदशञ्चैव श्वेतं धार्य्यं प्रयत्नतः ।
उपानहं नान्यधृतां ब्रह्मसूत्रञ्च धारयेत् । न जीर्णमलव-
द्वासा भवेच्च विभवे सति ।” योगियाज्ञवल्क्यः
“म्नात्वैवं वाससी धौते अक्लिन्ने परिधाय च । प्रला-
ल्योरू मृदद्भिश्च हस्तौ प्रक्षालयेत्ततः । अभावे
धौतवस्त्राणां शाणक्षौमाविकानि च । कुतपो योगपट्टं वा
द्विर्वासा येन वा भवेत् । अधौतेन च वस्त्रेण नित्यनैमि-
त्तिकीं क्रियाम् । कुर्वन् फलं न चाप्नोति दत्तं भवति
निष्कलम्” । कुतपो नेपालकम्बलः । तत्रापवादः
“राङ्गवे पट्टसूत्रे च सूचीविद्धं न दुष्यति” विधानपा०
“नीलीरक्तं न दुष्यति” इति मिता० पाठः । तर्पणात् पूर्वं
म्रानवस्त्र निष्पीड़ने निषेधो यथा “निष्पीड़यति यः
पूर्वं स्नानवस्त्रन्तु तर्पणात् । निराशास्तस्य गच्छन्ति
देवाः पितृगणैः सह” । जावालिः “म्नानं कृत्वार्द्रवासास्तु
विण्मूत्रं कुरुते यदि । प्राणायामत्रयं कृत्वा पुनः स्नानेन
शुध्यति । नार्द्रमेकञ्च वसनं परिदध्यात् कथञ्चन” ।
हारोतः “आर्द्रञ्च सप्तवाताहतमपि शुद्धमिति” ।
संक्रान्त्यादौ वस्त्रनिष्पीड़ननिषेधो यथा षट्त्रिंशन्मत-
निगमौ “संक्रान्त्यां पञ्चदश्याञ्च द्वादश्यां श्राद्धवासरे ।
वस्त्रं न पीड़येत्तत्र नच क्षारेण योजयेत्” ति० त०

वस्त्रकुट्टिम न० वस्त्रनिमिंतं कुट्टिमं यत्र । १ वस्त्रगृहे

(तामु) २ छत्रे त्रिका० ।

वस्त्रगृह न० वस्त्रनिर्मितं गृहम् शाक० । (तामु) वस्त्रनिर्मिते गृहे त्रिका० ।

वस्त्रग्रन्थि पु० ६ त० नीव्याम् त्रिका० ।

वस्त्रपुत्रिका स्त्री वस्त्रनिर्मिता पुत्रिका । वस्त्रनिर्मितपुत्त-

लिकायाम् शब्दमा० ।

वस्त्रभूषण स्त्री वस्त्रस्य भूषणं यस्याः ५ ब० । १ मञ्जिष्ठायाम् २ साकरण्डवृक्षे च राजनि० ।

वस्त्रयोनि स्त्री ६ त० । त्वक्फलकृमिरोमादौ अमरः ।

वस्त्ररञ्जन पु० वस्त्रं रञ्जयति रन्ज--णिच्--ल्यु । कुसुम्भो

राजनि० ।

वस्न न० वस--मन् । १ वेतने २ मूल्ये ३ वस्त्रे ४ द्रव्ये च विश्वः

५ धने ६ मृत्यौ च अमरटीकायां रमानाथः । मूल्ये पु०
अमरः ।

वस्नसा स्त्री वस्नंस्यति सो--क स्नायौ श्रमरः ।

वस्वौकसारा स्त्री वसूनामोकस्य सारो यत्र । १ इन्द्रनगर्य्याम्

२ इन्द्रनद्यां ३ कुवेरपुर्य्यां ४ कुवेरनद्याञ्च हेम० ।

वह दीप्तौ चु० उभ० सक० सेट् इदित् । वंहयति ते अवंहिष्ट।

वह प्रापणे भ्वा० उभ० द्विक० यजा० अनिट् । वहति ते

अवाक्षीत् अवोढ़ उवाह ऊहे ऊढ़ः । अस्य प्रधानकर्म-
ण्यंव लकारादयः ।

वह पु० उह्यतेऽनेन वह--अच् । १ वृषस्कन्धदेशे अमरः ।

वह--कर्त्तरि अच् । २ घोटके ३ वाहौ ४ पथि त्रिका०
५ नद्यां स्त्री हेमच० ।

वहत पु० वह--अतच । १ वृषे २ प्रान्धे च उणादिकोषः

"https://sa.wikisource.org/w/index.php?title=वाचस्पत्यम्/व&oldid=312690" इत्यस्माद् प्रतिप्राप्तम्