पृष्ठ ५३७०

स्फाति स्त्री स्फाय--भावे क्तिन् यलोप । वृद्धौ अमरः ।

स्फाय वृद्धौ भ्वा० आ० अक० सेट् । स्फायति अस्फायि-

अस्फायिष्ट । निष्ठायामनिट् यलोपे ईत् स्फीतः ।

स्फार पु० स्फाय--रक् । १ स्वर्णबुदुवुदे २ विपुले ३ विकटे मेदि०

४ प्रचुरे च त्रि० संक्षिप्त० ।

स्फारण न० स्फुर--णिच्--स्फारादेशः ल्युट् । विकाशने ।

स्फाल पु० स्फल--घञ । स्फूर्त्तौ ।

स्फिग्घातन पु० स्फिचं घातयति हन--स्वार्थे णिच्--ल्यु । कट्फले शब्दच० ।

स्फिच् स्त्री स्फाय--डिच् । १ कटिपोथे अमरः उपचारात् तत्स्थे

वातजे २ रोगभेदे च ।

स्फिट वृतौ हिंसे अनादर च चु० उभ० सक० सेट् । स्फेटयति ते अविस्फिटत् त ।

स्फिर त्रि० स्फय किरच् । १ प्रचुरे अमरः २ वृद्धे च ।

स्फीत त्रि० स्फाय--क्त स्फीभावः । १ वृद्धे २ समृद्धे च ।

स्फुट भेदे चु० उभ० सक० सेट । स्फोटयति ते अपुस्फुटत् त ।

स्फुट विकाशे भ्वा० प० अक० सेट् । स्फोटति इरित् अस्फुटत्

अस्फोटीत् ।

स्फुट विकाशे तु० कुटा० प० अक० सेट् । स्फुटति अस्फुटीत् पुस्फोट ।

स्फुट विदलने भ्वा० आत्म० अक० सेट् । स्फोटते अस्फो

टिष्ट ।

स्फुट परीहासे चुरा० उभ० अक० सेट् इदित् । स्फुण्टयति ते अपुस्फुण्टत् त ।

स्फुट हिंसे चु० उभ० सक० सेट् प्रायेणाङ्पूर्वः । आस्फोट-

यति ते आपुस्फुटत् त ।

स्फुट विकाशे अद० चु० उभ० सक० सेट् । स्फुटयति ते अपुस्फुटत् त ।

स्फुट त्रि० स्फुट--क । १ विकशिते २ व्यक्ते मेदि० । ३ भिन्ने ४ शुक्ले

च अजयः । ५ ज्योतिषोक्तेषु मेषादिराशिषु अंशविशेषस्थि
तेषु सूर्य्यादिग्रहेषु पु० तेषां ६ तत्तर्दशकसादिषु गतौ स्त्री ।
७ उत्प्रेक्षाया द्योतने न० । ८ सर्पफणायां स्त्री रामाश्रयाः
ग्रहाणां स्फुटताकरणप्रयोजनं सि० शि० उक्तं यथा
“यात्राविवाहोत्सवजातकादौ खेटैः स्फुटैरेव फल
स्फुटत्वम् । स्यात् प्रोच्यते तेन नभश्चराणां स्फुटक्रिया
दृग्गणितैक्यकृद् वा” इत्युपक्रमे स्पष्टाधिकारे प्रपञ्चितं
ग्रहाणां मृदूच्चादिकमुक्त्वोक्तम् “मृदूच्चेन हीनो ग्रहो
मन्दकेन्द्रं चलोच्चं ग्रहोनं भवेच्छीघ्रकेन्द्रम् । तुला-
जादिकेन्द्रे फलं स्वर्णमेवं मृदु ज्ञेयमस्माद्विलोमं च
शीघ्रम् । त्रिभिर्मैः पदं तानि चत्रारि चक्रे क्रमात्
स्यादयुक् युग्मसंज्ञा च तेषाम् । अयुम्मे पदे यातमेव्यं
तु युग्मे मुजो बाहुहीगं त्रिभं कोटिरुक्ता” इत्युक्त्वा
भुजकोटिफलादिकमुक्त्वा । “स्यात् संस्कृतो मध्यफलेन
मध्यो मन्दस्फुटः स्याच्चलवेन्द्रमुक्तम् । विधाय
शैघ्रेण फलेन चैव खेटः स्फुटः स्यादसकृत्फलाभ्याम् ।
दलीकृताभ्यां प्रथमं फलाभ्यां तताऽखिल भ्य मसकृत्
कुजस्तु । स्फुटौ रवीन्दू मृदुनैव वैद्यौ शीघ्राख्यतुङ्गस्य
तयोरभावात्” सि० शि० । आदौ ग्रहस्य मन्दफल-
मानीय तेन संस्कतोऽसौ मन्दसफुटः स्यात् । तं
शीघ्रोच्चाद्विशोध्य शीघ्रवन्द्रं कृत्वा ततः शीघ्रफलम् । तेन
संस्कृतो मन्दस्फटो ग्रहः स्यात् । तस्मात् स्फुटा०
न्मध्योच्चं विशोध्य मन्दमानीय तेन गणितागतो
मध्यसंस्कृता मन्दस्फुटः स्यात् । तेन पुनश्चलवेन्द्रं
ततश्चलफलं तेन मन्दस्फुटसंस्कृतः स्फुटः स्यात्
एवमसकृत् यावदविशेषः । तत्तु दलीकृताभ्यां प्रथमं
फलाभ्यामित्यादिना कुजस्य विशेष उक्तस्तत्रोपपत्तिरेव
वासना” प्रमिता० । ग्रहाणां तत्रोक्तः स्पष्टगत्यानयन-
प्रकारस्तु खगोलशब्दे २४३२ पृ० दृश्यः ।

स्फुटन न० स्फुट--ल्युट् । १ विकशने अमरः २ विदलीभावे च ।

स्फुटबन्धनी स्त्री स्फुटं बन्धनं यस्याः गौरा० ङीष् ।

कपोतपद्याम् रत्नमा० ।

स्फुटित त्रि० स्फुट--क्त । १ विकशिते हेमच० १ भिन्ने “दग्धे वा

स्फुटितेऽथ वा” पुराणम् । ३ व्यक्तीकृते ४ परिहासिते च

स्फुटि(टी) स्त्री स्फुट इन् वा ङीप् । १ पादस्फोटरोगे

(फोड़ा) २ कर्कटीफले च (फुटि) शब्दर० ।

स्फुट्ट अनादरे चु० उ० सक० सेट् । स्फुट्टयति ते अपुस्फुट्टत् त ।

स्फुड़ वरणे तु० कु० पर० सक० सेट् । स्फुडति अस्फु-

डीत् पुस्फोड़ ।

स्फुड विकाशे भ्वा० आत्म० अक० सेट् इदित् । स्फुण्डते अस्फुण्डिष्ट ।

स्फुड परिहासे चु० उ० सक० सेट् इदित् । स्फुण्डयति ते

अपुस्फुण्डत् त ।

स्फुत्कर पु० स्फुदित्यव्यक्तं शब्दं करोति कृ--अच् । अग्नौ शब्दच० ।

स्फुर स्फूर्त्तौ तु० कुटा० प० अक० सेट् । स्फुरति अस्फु-

रीत् पुस्फोर । “चारु पुस्फोर व हुः” भट्टिः । णिचि-
स्फारयति ।

स्फुर पु० स्फुर--क । फलके हेमच० । १ भावे घञ् । २ स्फुरणे अमरः ।

स्फुरण न० स्फुर--ल्युट् । ईषत्स्पन्दने अमरः । युच् ।

तत्रैव स्त्री । अङ्गभेदस्फुरफलमुक्तं यथा
“व्रूमोऽधुनाङ्गस्फुरतस्य सम्यक् प्रत्येकमव्यक्तफलप्रभा
वम् । सर्वत्र यत्रावगते स्वदेहाद्युत्पद्यते कर्मविपाक-
संवित् । मूर्ध्निस्फुरत्याशु पृथिव्यवाप्तिः स्थानप्रवृद्धिश्च
पृष्ठ ५३७१
ललाटदेशे । भ्रूघ्राणमध्ये प्रियसङ्गमः स्यात नामाक्षि-
मध्ये च सहायलाभः । दृगन्तमध्यस्फुरणेऽर्थलाभोत्कण्ठे
क्रमाद्विस्फुरिते दृगादौ । जयो दृशाध स्फुरणे रणः स्यात्
पियश्रुतिः स्यात् स्फुरिते च कर्णे । योषितसमृद्धिः
स्फरिते च गण्डे घ्राणे तु सौमुख्यमदौ भवेताम् ।
भोज्येष्टसङ्गावधरोर्द्धयोश्च स्कन्धे गले भोगविवृद्धिलाभौ ।
स्पन्दो भुजम्येष्टसमागमाय स्पन्दः करम्य द्रविणाप्तिहेतुः ।
स्पन्दश्च पृष्ठस्य पराजयाय स्पन्दो जयायोरसि मानवा
नाम् । पार्श्वप्रकम्पे विषयस्य लाभः कटिप्रकम्बे तु
बलप्रमोदौ । नाभिप्रकम्पे निजदेशनाशः धनर्द्धि
बन्धश्च भ्रुवि प्रकम्पे । दुखं धनान्तं हृदयस्य कम्पे
स्फिक्पायुकम्पेऽपि च वाहनाप्तिः । वरङ्गकम्पे
वरयोषिदाप्तिर्मुष्के सकम्पे तनयस्य जन्म । वस्तौ स
कम्पे युवतिप्रवृत्तिः दोषश्च कम्पे पुनरूरुष्टष्ठे ।
उरःप्रकम्पे सुमहायलाभः स्याज्जानुकम्पे त्वचिरेण
सिद्धिः । जङ्घाप्रकम्पे निजदेशनाशः स्थानाप्तिरुच्चा
चरणस्य कम्पे । यात्रा सलाभाऽङ्घ्रितलप्रकम्पे पुंसां सदा
दक्षिणदेहभागे । स्त्रीणाञ्च वामावयवे प्रजातः । स्पन्दः
फलानि प्रदिशत्यवश्यम्” वसन्तराजशाकुने ४ र्थप्र० ।

स्फुर्च्छ विस्मरणे भ्वा० प० सक० सेट् । स्फूच्छति अस्फू-

र्च्छीत् आदित् स्फूर्च्छितं स्फूणम् ।

स्फुर्ज वज्रशब्दे भ्वा० प० अक० सेट् । स्फूर्जति अस्फू-

र्जीत् द्वित् स्फूर्जथुः । आदित् स्फूर्जितं स्फूर्णम् ।

स्फुर्जथु पु० स्फुर्ज अथु नि० न दीर्घः । वजंनिर्घोषे अमरटीका ।

स्फुल स्फूर्त्तौ चले च अक० सञ्चये सक० तुदा० कृटा० प०

सेट् स्फुलति अस् फुलीत् । पुस् फोल ।

स्फुल न० स्फुल--क । १ वस्त्रागारे (ताँवु) शब्दर० । २ स्फूर्त्तियुते त्रि० ।

स्फुलन न० स्फुल--भावे ल्युट् । सफुरणे नीलकण्ठः ।

स्फुलिङ्ग पुंस्त्री० स्फुल--इङ्गच् स्फुत इतव्यक्तः शब्दो

लिङ्गति गच्छति यन्मात् लिगि--घञ् पृषो० वा । अग्नि-
कणे अमरः ।

स्फुलिङ्गिनी स्त्री स्फुलिङ्ग--अस्त्यर्थे इनि । १ अग्नि-

ज्वालायाम् जटा० २ स्फुलिङ्गयुक्ते त्रि० ।

स्फूर्जक पु० स्फुर्ज--ण्वुल् । तिन्दुवृक्षे अमरः ।

स्फूर्जथु पु० स्फुर्ज--अथु । वज्रपातशब्दे अमरः ।

स्फूर्त्ति स्त्री स्फुर्च्छ--स्फुर--वा क्तिन् । १ स्फुरणे २

विकशने ३ प्रतिभायाञ्च रमानाथः ।

स्फूर्त्तिमत् पु० स्फूर्त्तिरस्त्यस्य मतुप । १ पाशुपताख्ये शैवभेदे

त्रिका० । २ प्रतिभायुक्ते ३ विकाशयुक्ते च त्रि० स्त्रियां ङीप् ।

स्फेयस् त्रि० अतिशयेन स्फिरः, प्रचुरः इयसुन स फादेशः ।

अतिप्रचुरे स्त्रियां ङीप् । इष्ठन् । सफष्ठोऽप्यत्र त्रि० ।

स्फोट पु० स्फटत्यर्थोऽनेन स्फुट--करणे घञ । व्याकरणोक्ते

वर्णातिरिक्ते पूर्वपूर्ववर्णानुभवसहितचरमवर्णानुभवव्यङ्ग्ये
अर्थप्रत्यायके अखण्डे शब्दभेदे स्वार्थे क तत्रार्थे व्याक-
रणमते वर्णसमुदयानां नार्थबोधकत्वं किन्तु सफोट-
स्यैवेति प्रपञ्चितमस्माभिः शब्दार्थरत्ने यथा
“तत्र वर्णानां प्रत्युच्चारणमन्यथाप्रतीयमानतया अनित्य-
त्वेन आशुविनाशिनाञ्च तेषां मेलनासम्बवेन तत्समुदा-
यस्यापि सम्बन्धित्वाभावेन प्रत्येकं यर्णेषु वृत्तौ व्यभि-
चारेण च पूर्वपूर्ववर्णानुभवाहितसंस्कारवीजवति अन्त्य-
वर्णजनितपरिपाकशालिनि हृदये झटिति समुदीयमानस्य
स्फोटरूपस्यैव शब्दस्य नित्यतया तत्रैव नित्यसम्बन्धस्य
योग्यतया वृत्तिमत्त्वमुचितसित्याकरे स्पष्टम् । तथाहि ।
वर्णा यदि वाचकाः स्युः स्यादेव तेभ्यो व्यस्तेभ्योऽर्था-
वगतिः । न च तथा । प्रत्येकं वृत्तिमत्त्वाभांवेन
तत्समुदायस्य वृत्तिमत्त्वं सुदूरपराहतम् । आशुविना-
शिनां वर्णानां मेलनासम्भवेन तत्समुदायत्वासिद्धेः पूर्व-
पूर्ववर्णानुभवाहितसंस्कारसहितस्य चरमवर्णस्य
वाचकत्वन्तु सम्भावितमपि दिनान्तरीयतादृशसंस्कारा-
नादाय वर्त्तमानचरमवर्णमात्रानुभवेन अर्थावगत्यापत्त्या
निरासितम् । अन्त्यवर्णपर्थ्यन्तानामनुभवानन्तरं समुदा-
यानां सस्कारोदयकल्पनया पुनः समुदितवर्णानां स्मर-
णात्मकज्ञानतोऽर्थावगतिरित्यपि न सङ्गतं जाराराजे-
त्यादावविशेषेण तत्तद्वर्णसंस्कारसद्भावादुभयवैलक्षण्या-
नुपपत्तेः । अतोऽवश्यं वर्णातिरिक्तोऽन्त्यवर्णानुभवव्यङ्ग्यः
स्फोटनामा शब्दः स्वीकार्य्यः स्फुटत प्रकाशतेर्योऽने-
नेति व्युत्पत्त्या च तस्य सार्थकनामता बोध्या समर्थित-
श्चैष एव पक्षः पातञ्जलभाष्ये व्यासचरणैः “तदेतेषा-
मर्थसङ्केतेनावच्छिन्नानामुपसंहृतध्वनिक्रमाणां य एको
बुद्धिनिर्भासस्तत्पदं वाचकं वाच्यस्य संकेत्यते तदेकं
पदमेकबुद्धिविषय एकप्रयत्नाक्षिप्तमभागप्रक्रमवर्णं बौद्ध-
मन्त्यवर्णप्रत्ययोपस्थापितं प्रतीयते” इत्यन्तेन । अत्र
चानेकवर्णानां शक्ततावच्छेदकतापेक्षयैकस्यैव जातिरूप-
स्फाटत्वस्य शक्ततावच्छेदकत्वकल्पने लाघवम प द्रष्ट-
व्यम् । उक्तञ्च शब्दकौस्तुभे वोपदेवचरणैः “शक्यत्व
इव शक्तत्वे जातेर्लाघवमीक्ष्मताम् । औपाधिको वा
पृष्ठ ५३७२
भेदोऽस्तु वर्णानां तारमन्दवदिति” । तथा “शृणोति य
इमं स्फोटं सुप्ते श्रोत्रे च शून्यदृक् । येन वाक् व्यज्यते
यस्य व्यक्तिराकाश आत्मनः” इति मञ्जूषाधृतभागवतवचने
स्फोटात्मकशब्दश्रवणस्यात्मलिङ्गतोक्त्या स्फोटरूप-
शब्दोऽर्थायात इत्यवगम्यम् । हरिवंशेऽपि “अक्ष-
राणामकारस्त्वं स्फोटस्त्वं वर्णसंश्रयः” इति स्फोटस्य
व्यञ्जकवर्णाश्रयत्वमभिहितम् । एतन्मताभिप्रायेणैव
“स्फोट इत्याहेति” शारीरकभाव्ये स्फटव्युत्पादनम्
“वर्णाएव तु शब्द इति भगवानुपवर्ष इति” निराकरणन्तू-
सवर्ष ग्रहणात् तन्मताभिप्रायेण । “न स्फटः प्रतीत्यप्र
तीतिभ्यामिति” सांख्यसूत्रेऽपि स्फोटखण्डनमुपवर्षमता-
भिप्रायेणेति सर्वं सुस्थम् । स च स्फाटोवर्णपदादि-
भेदेन अनेकविधो बाहुल्यभयात् न प्रपञ्चितः । तस्य
स्फोटस्याभिव्यक्तौ प्राकृतस्य ध्वनेः कारणत्वं चिरचिर-
तरस्थितौ तु प्राकृतध्वनिजातवैकृतध्वनेरिति विवेफः ।
तथा च वाक्यपदीये “स्फोटस्य ग्रहणे हेतुः प्राकृतो
ध्वनिरिष्यते” इति । “स्थितिभेदे निमित्तत्वं वैकृतः प्रति-
वद्यते” इति च स्थितिभेदे चिरचिरतरकालस्थितौ ध्व
निस्तु पूर्वलक्षितः । तस्य च स्फोटस्य नित्यतया ध्वनि
गतह्रस्वदीर्घादिकालस्य तत्रोपचारः । प्रतिपादितञ्च
तथैव वाक्यपदीये “स्फाटस्याभिन्नकालस्य ध्वनिका-
लानुपातिनः । स्वभावतस्तु नित्यत्वात् ह्रस्वदीर्घप्लुता-
दिषु । प्राकृतस्य ध्वनेः कालः शब्दस्येत्युपचर्य्यते” ।
शब्दस्य स्फोटस्य नित्यतया अभिन्नकालस्य ह्रस्व-
दीर्घादिषु प्राकृतध्वनेः कालः तारत्वादिधीहेतुरुपच-
र्य्यते इति तदर्थः । एवञ्च विलम्बितोच्चारणस्थले तत्त-
द्वर्णानां तद्वोधजनितसंस्काराणां वा बहुक्षणपर्य्यन्त
स्थायित्वकल्पनामपेक्ष्य एकस्यैव शब्दस्याभिव्यक्त्यनन्तरं
जायमानेन वैकृतेन ध्वनिना बहुकालस्थितिकल्पने
लाघवमित्यपि द्रष्टव्यम् । भेरीशब्दादौ च ध्वन्यभि-
व्यक्त्यनन्तरं जायमानप्राकृतध्वनेर्बहुकालस्थायित्वदर्शनेन
अत्रापि तथाकल्पनौचित्यात् । अतएव च महाभाष्ये
“एवं तर्हि स्फाटः शब्दो ध्वनिः शब्दगुणः” इत्यादिना-
ऽभिव्यक्त्युपकारकत्वेन ध्वनेः स्फोटरूपशब्दगुणत्वमभि
हितमभिहितञ्च ध्वनेर्ह्रस्वदीर्घत्वेनापि भानम् यथा
“ध्वनिः स्फोटस्य शब्दानां ध्वनिस्तु खलु लक्ष्यते ।
ह्रस्वो महांश्च केषाञ्चित् स्वयं नैव स्वभावतः” इति न
स्वभावतस्तद्रूपेण स्फोटोलक्ष्यत इत्यर्थः । ध्वनिविकारे
च वायुसंयोगविशेषस्य हेतुत्वं तस्य बहुकालस्थायित्वे
विलम्बितत्वमल्पकालस्थायित्वे द्रुतत्वमिति विवेकः । एवं
वहुविधेषु स्फटेषु वक्यस्फोटस्यैव सिद्धान्ते निष्-
कृष्टतया तस्यैव बोधकत्वं तद्घटकपदानान्तु पदमध्यवर्त्ति-
वर्णवत् निरर्थंकत्वं विशिष्टार्थद्योतनायैव तेषां प्रयो-
गात् । तथा च “ब्राह्मणार्थो यथा नास्ति कश्चित्
ब्राह्मणकम्बले । देवदत्तादयोवाक्ये तथैव स्युर्निरर्थकाः”
इति । “पदे न वर्णा विद्यन्ते वर्णेष्ववयवा न च ।
वाक्यात् पदानामत्यन्तं प्रविवेको न कश्चनेति” च वाक्य-
पदीये पदाद्यसद्भावं दर्शयति । तथा “वाक्यस्फाटो-
ऽतिनिष्कर्षे तिष्ठतीति मतस्थितिरिति” हरिकारिकायां
सिद्धान्ते वाक्यस्फोटस्यैव सिद्धिरिति प्रतिपादितम्” ।
२ व्रणभेदे च (फोड़ा) राजनि० ।

स्फोटक पु० स्फुट--ण्वुल् । (फोड़ा) १ व्रणभेदे हेमच०

२ विदारके च ।

स्फोटन न० स्फुट--ल्युट् । १ विदारणे २ विकाशन च भरतः

स्फोटनी स्त्री स्फुट्यतेऽनया स्फुट--ल्युट् ङीप् ।

मणिवेधनकरणे यन्त्रभेदे (भोमरी) द्विरूपको० ।

स्फोटवीजक पु० स्फोटस्य व्रणभेदस्य वीजम् ततः स्वार्थे

क । भल्लातके राजनि० । तत्फलनिर्यादसांयागात्
व्रणोत्पत्तिर्लोकसिद्धा ।

स्फोटायन पु० स्फोट एवायनं अर्थबोधकतयाश्रयणं यस्य ।

अर्थवाधकत्वेन स्फोटाभ्युपगन्तरि वैयाकरणे मुनिभेदे
“अवङ्स्फोटायनस्य” पाणिनिः ।

स्फोटिका स्त्री स्फुट--ण्वुल् टपि अत इत्त्वम् । हापुत्रिकायां त्रिका० ।

स्फ्य न० स्फाय--यत् नि० । खङ्गाकारे यज्ञार्थे काष्ठभेदे ति० त०

स्फ्याश्लिष्टेज्याधिकरण न० अधिकरणभेदे ति० त०

“स्फ्याश्लिष्टेज्याधिकरणञ्च स्फ्यस्य खडूगाकारकाष्ठस्य
भक्ताश्लेषनिमित्तकेज्यायामिष्टित्वेन प्रकृतिवद्विकृतिरित्य-
तिदेशेन दर्शात्मकप्रकृविधर्माणां प्राप्तौ पूर्वदिनप्रातःका-
लीनं हवनीयदेवतावाहनमपि प्राप्तं तच्च तदानीं न
विधीयते नैमित्तिके निमित्तनिश्चयवतोऽधिकारितया
प्रकृते श्वाभाविभक्त श्लेषरूपनिमित्तसंशयेन प्रधानानधि-
कारिणाऽङ्गानधिकारात्तदुत्तरदिने च निमित्तनिश्चये
तदधिकारसिद्धावपि नावाहनानुष्ठानम् आवाहनस्य पूर्वदि-
नपातःकालनैयत्यादितीज्याया आवाहनं विनैवानुष्ठानम्”

स्म अव्य० स्मि--ड । १ अतीते २ पादपूरणे च अमरः ।

स्मय पु० स्मि--अच् । १ गर्वे २ अद्भुतरसस्थायिभाने च मेदि० ।

पृष्ठ ५३७३

स्मर पु० स्मरति प्रियमनेन स्मृ--करणे अप् । १ कामदेवे

अमरः । भावे अप् । २ स्मरणे ।

स्मरकूपक पु० स्मरस्य कूप इव कायति कै--क । कामगृहे त्रिका० ।

स्मरगृह न० स्मरस्य गृहमिव । १ स्त्रीचिह्नभेदे भगे जटा०

स्मरमन्दिरादयोऽप्यत्र ।

स्मरचक्र पु० “धृत्वा वामकरेणोरुं स्वपादस्योपरिस्थितम् ।

दृढ़ञ्च रमते कामी स्मरचक्रः प्रकीर्त्तितः” स्मरदोपकोक्ते
रतिवन्धभेदे ।

स्मरण न० स्मृ--ल्युट् । ज्ञातवस्तुनोऽनुभवाधीनसंस्कारजन्ये

उद्बाधकसहकारेण जांयमाने १ ज्ञानभेदे स्मृतिशब्दे
दृश्यम् । आध्याने हेमच० । २ चिन्तने जटा० । ३ अर्था-
लङ्कारभेदे सा० द० । अलङ्कारशब्दे ४०७ पृ० दृश्यम ।

स्मरदशा स्त्री स्मरकृता दशा । कामिनां स्मरकृतासु अङ्गा-

सोष्ठवादिषु दशसु दशासु ।
“अङ्गेष्वसौष्ठवं तापः पाण्डुता कृशताऽरुश्चिः । अधृतिः
स्यादनालम्बस्तन्मयोन्मादमूर्च्छनाः । मृतिश्चेति क्रमाज्-
ज्ञेया दश स्मरदशा इह । असौष्ठवं मलापत्तिस्तापस्तु
विरहज्वरः । अरुचिर्वस्तुवैराग्यं सर्वत्रारागिताऽधृतिः ।
अनालम्बनता चापि शून्यता मनसः स्मृता । तन्मय
तत्प्रकाशो हि बाह्याभ्यान्तरतस्तथा । रसविच्छेदहेतु-
त्वात् मरणं नैव वर्ण्यते । वर्ण्यतेऽपि यदि प्रत्युज्जीवनं
स्याददूरतः” इति सा० द० ।

स्मरध्वज न० ६ त० । स्त्रीचिह्ने शब्दर० । २ वाद्ये पु० हेमच० ।

स्मरप्रिया स्त्री ६ त० । स्मरभार्य्यायां रतौ जटा० ।

स्मरलेखनी स्त्री स्मरस्य लेखनीव । स्वरेण कामोद्दीपके

शारिकाखगे शब्दर० ।

स्मरवीथिका स्त्री स्मरस्य वीथिकेव प्राप्तिहेतुत्वात् । वेश्यायाम् राजनि० ।

स्मरवृद्धि पु० स्मरस्य वृद्धिर्यस्मात् । १ कामवृद्धिक्षुपे राजनि० ।

६ त० । २ कामवृद्धौ स्त्री ।

स्मरस्तम्भ पु० स्मरस्य तद्व्यापारस्य स्तम्भ इव । उपस्थे शब्दर० ।

स्मरस्मर्य्य पु० स्मरः सर्य्यो यस्य । गर्दभे त्रिका० ।

स्मरहर पु० स्मर हरति नांशयति हृ--अच् । १ महादेवे

अमरः । स्मरमर्दनादयाऽप्यत्र ।

स्मराङ्कुश पु० स्मर तत्कार्य्येऽङ्कुश इव उत्तेजकत्वात् । नखे

शब्दर० नखाघातेन हि स्त्रीणां स्मरोद्दीपनं प्रसिद्धम् ।

स्मराम्र पु० स्मरप्रिय आम्रः । राजाम्रे राजनि० ।

स्मरासव पु० स्मराद्दोपक आसव इव । लालायाम त्रिका०

कामिनां तत्पाने हि स्मराद्दीपनात्तस्यास्तथात्वम् ।

स्मार्त्त त्रि० स्मृतौ विहितः, स्मृतिं वेत्त्यधीते वा अण् ।

१ स्मृतिविहिते दानादो “अन्योऽपि स्मार्त्तमाचरेत्” इति
“स्मार्त्तं वैदिकवत् चरेत्” च स्मृतिः । २ स्मृतिशास्त्राभिज्ञे च

स्मि(ष्मि) अनादरे सक० विस्मये अक० चु० आ० सेट् । स्मापयते

असिष्मपत । अयं षोपदेश एव । अन्यतो विस्मये स्माय-
यतीत्येव । अयं भ्वादिरपि अनिट् । स्मयते अस्मेष्ट
सिष्मिये षोपदेशत्वात् षत्वम् ।

स्मिट अनादरे सक० स्नेहे अक० चु० उभ० सेट् । स्मेटयति । ते असिस्मिटत् त

स्मित न० स्मि--भावे क्त । १ ईषद्धास्ये अमरः “मुह्हं विकशित-

स्मतम्” मालतीमाधवम् । कर्त्तरि क्त । २ विकशिते
३ ईषद्धास्यान्विते च त्रि० ।

स्मील निमेषणे भ्वा० पर० सक० सेट् । स्मीलति अस्मीलीत् ।

स्मृ स्मरणे भ्वा० प० अनिट् । स्मरति अस्मार्षीत् सस्मार

सुस्मूर्षति । अषोपदेशत्वात् न षत्वम् । एतद्योगे कर्मणि षष्ठी ।
अयमौत्सुक्ये सक० घटा० स्मरयति ।

स्मृत त्रि० स्मृ--क्त । १ कृतस्मरण २ स्मतिविषये च ।

स्मृति स्त्री स्मृ--क्तिन् । अनुभूतवस्तुन उद्बोधकसहकारेण

संस्काराधीने १ ज्ञानभेदे । स्मर्यते वेदवर्मोऽनेन करणे
क्तिन् । २ धर्मशासनशास्त्रे वेदार्थानुभवजन्ये वेदार्थानु-
वादके मुनिप्रणीते वाक्यरूपे शास्त्रे । “वेदाऽखिलो
धर्ममूलं स्मृतिशीले च तद्विदाम्” मनुः ।
ज्ञानभेदस्मृतिरूपलक्षणादिकं पात० सू० भा० विवरणे-
षूक्तम् उक्तं यथा
“अनुभूतविषयाऽसंप्रमोषः स्मृतिः” सू० । “किं प्रत्य-
यस्य चित्तं स्मरति । आहोस्वित् विषयस्येति । ग्राह्यो-
परक्तः प्रत्ययो ग्राह्यग्रहणोभयाकारनिर्भासः
तथाजातीयकं संस्कारमारमते स संस्कारः स्वव्यञ्जकाञ्जनं
तदाकारमेव ग्राह्यग्रहणोभयात्मिकां स्मृतिञ्जनयति ।
तत्र ग्रहणाकारपूर्वा बुद्धिः ग्राह्याकारपूर्वा स्मृतिः । सा
च द्वयी, भावितस्मर्त्तव्या चाभावितस्मर्त्तव्या च खप्ने भावि-
तस्मर्त्तव्या जाग्रत्समये त्वभावितस्मर्त्तव्येति । सर्वाः
स्मृतयः प्रमाणविपर्य्ययविकल्पनिद्रास्मृतीनामनुभवात्
प्रभवन्ति” भा० । “अनुभूतविमयाऽसम्प्रमोपः स्मृतिः
प्रमाणादिभिरनुभूते विमयेऽसम्प्रमोषः अस्तेयः सा
स्मृतिः संस्कारमात्रजन्यस्य हि ज्ञानस्थ संस्कारका-
रणानुभावभासिती विषय आत्मीयस्तदधिकविषयपरि-
ग्रहस्तु सम्प्रमोषः स्तेयः कस्मात् साद्वश्यात् ।
मुषस्तेय इत्यस्मात् सम्प्रमोषपदव्युत्पत्तेः । एतदुक्तं भवति ।
पृष्ठ ५३७४
सर्वे प्रमाणादयोऽनधिगतमर्थं सामान्यतः प्रकारतो
वाधिगमयन्ति, स्मृतिः पुनर्न पूर्वानुभवमर्य्यादामतिक्रा-
मति तद्विषया तदूनविषया वा न तु तदधिकविषपा
सोऽयं कृत्त्यन्तराद्विशेषः स्मृतेरिति । विमृषति किंप्रत्य-
यस्येति ग्राह्यप्रवणत्वात् अनुभवस्य स्वानुभवात्तज्जः
संस्कःरो ग्राह्यमेव स्मारयतीति । प्रतिभासयति अनुभ
वमात्रजनितत्वाच्चानुभवमेवेति । विमृश्यपपत्तित
उभयस्मरणमवधारयति ग्राह्यप्रवणतया ग्राह्योपरक्तः
परमार्थतस्तु ग्राह्यग्रहणे एव उभयं तयोराकारं स्वरूपं
निर्भासयति प्रकाशयति । स्वव्यञ्जकं कारणमञ्जनमा-
कारो यस्य स तथोक्तः । स्वकारणाकार इत्यर्थः । व्यञ्जक-
मुद्बोधकं तेनाञ्जनं फलाभिमुखीकरणं यस्येति वेत्यर्थः ।
ननु यदि कारणविचारेण बुद्धिस्मरणयाः सारूप्यं
कस्तर्हि भेद इत्यत आह त्तत्र ग्रहणेति । ग्रहण-
मुपादानं न च गृहीतस्योपदानं सम्भवति तदनेनान-
धिगतबाधनं वुद्धेरित्यक्तं ग्रहणाकारो ग्रहणरूपं पूर्वं
प्रधानं यस्याः सा तथोक्ता विकल्पितश्चायम् अभेदेऽपि
गुणप्रधानभाव इति ग्राह्याकारः पूर्वः प्रथमो यस्याः
सा तथोक्ता, इदमेव च ग्राह्याकारस्य ग्राह्यस्य पूर्बत्वं
यदृत्त्यन्तरविषयीकृतत्वमर्थस्य तदनेन वृत्त्यन्तरविषयिकृत-
गोचरा स्मृतिरित्युक्तं भवति सोऽयसम्प्रमोष इति । ननु
अस्ति स्मृतेरपि सम्प्रमोषः दर्शयति हि पित्र्यादेरतीतस्य
देशकालान्तरानुभूतस्याननुभूतचरदेशकालान्तरसम्बन्धं स्वप्ने
इत्यत आह सा च द्वयीति भावितः कल्पितः स्मर्त्तव्योयया
सा तथोक्ता । अभावितोऽकल्पितः पारमार्थिक इति
यावत् । नेयं स्मृतिरपि तु विपर्य्ययस्तल्लक्षणोपपन्नत्वात्
स्मृत्याभासतया तु स्मृतिरुक्ता प्रमाणाभासमिवेति भावः ।
कस्मात् पुनरन्ते स्मृतरुपन्यास इत्यत आह । सर्वाः
स्मृतय इति अनुभवप्राप्तिपूर्वा वृत्तिः स्मृतिस्ततः स्मृती-
नामन्ते निवेश इत्यर्थः” ।
धर्मशस्त्रशब्दे स्मृतिभेदादिकं ३८६३ पृ० दृश्यम् ।

स्मृतिहेतु पु० ६ त० । १ सस्कारे वासनारूपे गुणभेदे जटा० ।

स्मेर त्रि० स्मि--रन् । १ विकशिते हेमच० २ ईषद्धास्यान्विते

च संक्षिप्त० “महाजनः स्मेरमुखो भविष्यति” कुमारः ।

स्यद पु० स्यन्द--घञर्थे क । वेगे अमरः ।

स्यन्द स्रवणे भ्वा० आ० लुङि, ऌटि, ऌङि च उभ० अक०

ऊदित् वेट् । स्यन्दते ऌदित् अस्यद्त अस्यन्दिष्ट अस्यन्त ।
तषोपदेशत्वेऽपि विधिबलान्निष्यन्दते इत्यादौ षत्वम् ।

स्यन्द पु० स्यन्द--भावे घञ् । द्रवद्रव्यक्षरणे प्रस्रवे ।

स्यन्दन न० स्यन्द--भावे ल्युट् । १ क्षरणे । “स्यन्दनञ्च सन्नि-

कृष्टदेशस्य द्रवद्रव्यस्य च संयागानुकूला व्यापारः
गमनत्वव्याप्यजातिभेदो वा “भ्रमणं ऐचनं स्यन्दनोर्द्ध्वज्वनमेव
च । तिर्य्यग्गमनमप्यत्र गमनादेव लभ्यते” भापा० ।
कर्त्तरि ल्यु । २ जले न० । ३ रथे मेदि० । ४ तिनिसवृक्षे च
पु० अमरः ।

स्यन्दनद्रुम पु० कर्म० । तिनिशवृक्षे शब्दर० ।

स्यन्दनारोह पु० स्यन्दनमारोहति युद्धार्थम्, आ + रुह अण् ।

रथाराहेण योद्धरि अमरः ।

स्यन्दनि पु० स्यन्द्र--अनि । तिनिशवृक्षे रत्नमा० ङीप् । लालायां स्त्री अमरः ।

स्यन्दिन् त्रि० स्यन्द + णनि । १ प्रस्रविणि । २ लालायां स्त्री

अमरः ङीप् ।

स्यन्न त्रि० स्यन्द--क्त । स्रुते जलादौ अमरः ।

स्यन्नवीण त्रि० स्यन्ना वीणा यत्र । स्तुते हेमच० ।

स्यम ध्वनने भ्वा० पर० अक० सेट् क्ता वेट् फणादि० । स्य

मति अस्यमीत् स्योमतु सस्यमतुः ।

स्यम वितर्के चु० उ० सक० सेट् । स्यामयति ते असिस्यमत् त ।

स्यम ध्वाने अद० चु० उभ० सक० सेट् । स्यमयति असिस्य०

मत् त ।

स्यमन्तक पु० स्यम--झच् संज्ञायां कन् । १ श्रीकृष्णस्य हस्तस्थे

मणिभेदे हेमच० । २ वृक्षभेदे पु० मेदि० । ३ सूर्य्यदत्ते
सत्राजितो मणिभेदे तत्कथा भाग० १०५६ अ० ।
“आसीत् सत्राजितः सूर्य्योभक्तस्य परमः सखा । प्रीत-
स्तस्मै मणिं पादात् स च तुष्टः स्यमन्तकम्” इति । “दिने
दिने स्वर्णभारानष्टौ स सृजति प्रभो! । दुर्भिक्षमार्य्य-
रिंष्टानि सर्पाधिव्याधयोऽशुभाः । न सन्ति मायिनस्तत्र-
यत्रास्तेऽभ्यर्चितो मणिः” एतदुपाख्यानं स्यमन्तकोपाख्यान
तच्च सौरभाद्रचतुर्थीचन्द्रदर्शने श्राव्यम्” ति० त० रघु० ।

स्यमीका स्त्री स्यम--ईकक् । १ वल्मीके २ काले ३ मेषे च पु०

४ नीलोषधौ स्त्री मेदि० ।

स्यूत त्रि० सिव--कर्मणि क्त । १ सूच्यादिना ग्रथिते वस्त्रादौ

अमरः । सूत्ररचितपात्रे (धोकड़ी) पु० अमरः । पृषो०
ओत् । स्योतोऽप्यत्र भरतः ।

स्यूति स्त्री सिव--भावे क्तिन् । सूच्यादिना वस्त्रादिसीवने ।

स्यून पृ० सिव--नक् । १ सूर्य्ये २ किरणे मेदि० ३ सृच्यादि-

स्यूतखण्डवस्त्रनिर्मिते पदार्थे (धुकड़ी) च शब्दर० ।

स्यूम न० सिव--मक् । १ जले २ किरणे संक्षिप्त० किरणे पु० उणा-

पृष्ठ ५३७५

स्योन पु० स्यून + पृषो० । १ धौतकटे (धुकड़ी) अमरटी० भरतः

२ सूर्य्ये ३ किरणे मेदि० । ४ सुखे निघण्टुः । ५ मुखकरे
त्रि० “स्योना पृथिवी नोमवानृक्षरा” यजु० ३५ अ० २१ ।

स्रंसन न० स्रन्स--णिच्--ल्युट् । ऊर्द्ध्वगतस्याधोनयने पतने

थुच् । स्रंसनाप्यत्र स्त्री ।

स्रंसिन् त्रि० स्रन्स--णिनि । १ अधःपतनशीले स्त्रियां ङीप् २ पीलुवृक्षे पु० अमरः ।

स्रंसिफल पु० स्रंसि फलमस्य । शिरीषवृक्षे शब्दमा० ।

स्रक गतौ भ्वा० आत्म० सक० सेट् इदित् । स्रङ्कते अस्रङ्किष्ट

स्रग्वत् त्रि० स्रक् माल्यमस्त्यस्य मतुप् मस्य वः कुत्वम् ।

माल्यवति । विनि । स्रग्वीत्यप्यत्र । उभयत्र स्त्रियां ङीप् ।

स्रज् स्त्री सृज्यते सृज--क्विन् नि० । माल्ये अमरः ।

स्रज्वा स्त्री सृज--वा नेत्त्वम् नि० । १ प्रजापतौ २ तन्तुसंघाते

३ रज्ज्वाञ्च संक्षिप्तसारः ।

स्रन्स पतने भ्वा० आत्म० लुङि उ० अक० सेट् उदित् क्त्वा

वेट् । स्रंसते इरित् अस्रसत् अस्रंसिष्ट । “नास्रसत्
करिणां ग्रैवम्” रघुः ।

स्रन्स प्रसादे भ्वा० आ० अक० सेट् उदित् क्त्वा वेट् । स्रंसते अस्रंसिष्ट ।

स्रम्भ विश्वासे भ्वा० आत्म० ऌदित् लुङि उ० सक० सेट् उदित्

क्ता वेट् । स्रम्भते अस्रभत् अस्रम्भिष्ट ।

स्र(स्रा)व पु० स्रु--अप् घञ् वा । १ क्षरणे अमरः । कर्त्तरि

अच् । २ निर्झरे हेमच० ।

स्रवण न० स्रु--ल्यु । १ मूत्रजले राजनि० २ घर्मे च शब्दर० भावे ल्युट् । ३ क्षरणे ।

स्रवद्गर्भा स्त्री स्रवन् गर्भो यस्याः । १ दैववशात् पतितगर्भायां

गवि अमरः । २ तथाभूत स्त्रियाञ्च ।

स्रवद्रङ्ग पु० स्रवन् रङ्गो यत्र । पणग्रन्थौ (हट्टे) हारा० ।

स्रवन्ती स्त्री स्रु--झिच् ङीप् । १ नद्याम् अमरः । २ ओषधि-

भेदे ३ गुल्मस्थाने च मेदि० । शतृ । स्रवविशिष्टे त्रि० ।
स्त्रियां ङीप् ।

स्रवा स्त्री स्रु--अच् । १ मूर्वायाम् रायमुकु० २ क्षरणयुते त्रि०

स्रष्टृ पु० सृज--तृच् नियमम् । १ जगत्कर्त्तरि चतुर्मुखे अमरः

२ शिवे हला० । ३ सर्जनकर्त्तरि त्रि० स्त्रियां ङीप् ।

स्रस्त त्रि० स्रन्स--क्त । च्युते पतिते अमरः ।

स्रस्तर पु० स्रन्स--तरच् किच्च । आसने शु० त० रधु० ।

स्राक् अव्य० स्रु--डाकु । त्वरिते द्रागित्यर्थे अमरः ।

स्रावक न० स्रावयति स्रु--णिच्--ण्वुल् । १ मरिचे शब्दच०

२ निःस्रावके त्रि० ।

स्रिम्भ हिंमे भ्वा० व० सक० सेट् उदित् क्त्वा वेट् । स्रिम्भति अस्रिम्भीत् ।

स्रिभ हिंसे भ्वा० प० सक० सेट् उदित् क्त्वा वेट् । स्रेभति अस्रेभीत् ।

स्रिव शोषे अक० दिवा० प० गतौ सक० सेट् उदित् क्त्वावेट् ।

स्रीव्यते अस्रेवीत् ।

स्रु गतौ सक० क्षरणे अक० भ्वा० प० अनिट् । स्रवति असुस्रुवत् ।

स्रुग्दारु स्रुचे यज्ञपात्राय दारु यस्य । विकङ्कतवृक्षे जटा० ।

स्रुघ्न पु० १ देशभेदे । स उत्पत्तिस्थानत्वेनास्त्यस्याः अच् गौरा०

ङीष् । २ सर्जिकाक्षारे स्त्री हमच० ।

स्रुच्(चा) स्त्री स्रु--क्विप् चिट् च वा टाप् । वटपत्राकृतौ विक

ङ्कतकाष्ठजे बाहुमात्रे यज्ञपात्रभेदे शब्दच० ।

स्रुत त्रि० स्रु--क्त । १ क्षरिते जलादौ २ गते च । ३ हिङ्गुपत्र्यां स्त्री शब्दच०

स्रुव पुंस्त्री० स्रु--क । १ खदिरकाष्ठभवे हस्तमिते यत्त्रषात्रभेदे

यज्ञपत्रशब्दे दृश्यम् । १ सल्लक्याम् २ मूर्वायाञ्च स्त्री मेदि०

स्रुवावृक्ष पु० स्रवायाः साधनं वृक्षः । विकङ्कतवृक्षे (वँइचि)

अमरः ।

स्रू स्त्री स्रु--क्विप् नि० । १ यज्ञपात्रभेदे २ निर्झते च हेम्च० ।

स्रै विकॢत्तौ--भ्वा० पर० अक० अनिट् । स्रायति अस्रासीत् ।

स्रोत न० स्रु--तन् । स्रोतसि वेगेन स्वतोजलनिःसरणे भरतः

स्रोतस् न० स्रु--तसि । १ वेगेन स्वतो जलनिःसरणे अमरः ।

२ रेतसि च ऊर्द्ध्वस्रोताः । ३ देहस्थच्छिद्रे च ।

स्रोतईश पु० ६ त० । समुद्रे हेमच० ।

स्रोतस्वत् त्रि० स्रोतोऽस्त्यस्य मतुप् मस्य वः । १ स्रोतोयुक्ते

२ नद्यां स्त्री अमरः ङीप् ।

स्रोतस्विनी स्रोतस् + अस्त्यर्थे विनि ङीप् । १ नद्याम् २ स्रोतोयुक्ते त्रि० ।

स्रोतोऽञ्जन न० स्रोतसि यमुंनास्रोतो जलसन्निकृष्टसौवीरदेशे

भवम् अञ्जनम् । सौवीरदेशजेऽञ्जने अमरः ।
“वल्मीकशिखराकारं भिन्नं नीलाञ्जनप्रभम् । घृष्टे
च गैरिकावर्णं श्रेष्ठं स्रोतोऽञ्चनञ्च तत्” राजनि० ।
“स्रोतोऽञ्जनं तत्र श्रेष्ठं विशुद्धं सिन्धुसम्भवम् । दृष्टेः
कण्डूमलहरं दाहक्लेदरुजापहम् । अक्ष्णो रूपावह-
ञ्चैव सहते मारुतातपौ । नेत्ररोगा न जायन्ते तस्मा-
दञ्जनमाचरेत्” । “अञ्जनं यामुनञ्चापि कापोताञ्जन-
मित्यपि । तत्र स्रोतोऽञ्जनं कृष्णं सौवीरं श्वेतमीरि-
तम् । स्रोतोऽञ्जनसमं ज्ञेयं सौवीरं तत्तु पाण्डरम् ।
स्रोतोऽञ्जनं भवेत् स्वादु चक्षुष्यं कफपित्तनुत् । कषायं
लेखनं स्निग्धं ग्राहि च्छर्दिविषापहम् । सिध्मक्षयास्रहृत्-
शीतं सेवनीयं सदा बुधैः । सौतोऽञ्जनगुणाः सर्वे सौवी-
रेऽपि मता बुधैः । किन्तु द्वयोरञ्जनयोः श्रेष्ठं स्रोतो-
ऽञ्जनं स्मृतम्” भावप्र० ।

स्रोतोवहा स्त्री स्रतसा वहति सरति वह--अच् । नद्याम् जटा०

पृष्ठ ५३७६

स्व न० स्यन--ड । १ धने अमरः । २ आत्मनि ३ ज्ञातौ च पु०

अमरः । ४ आत्मीये त्रि० । आत्मनि आत्मोये चार्थेऽस्य
सर्वनामता ।

स्वकम्पन पु० स्वेनैव पराप्रयुज्यमान एव कम्पते

कपियुच । वायौ शब्दर० ।

स्वकर्म्मन् न० स्वस्य कर्म । स्ववर्णोचिते कृत्ये “स्वकर्मनिरतः सदा” गीता

स्वकीय त्रि० स्वस्येदम् छ कुक् च । आत्मीये । अत्र नित्य

मेव कुक्, अकुक्युक्तप्रयोगस्तु अपाणिनीयः ।

स्वग सर्पणे भ्वा० प० सक० सेट् इदित् । स्वङ्गति अपङ्गीत् ।

स्वगत त्रि० स्वस्मिन् मनसि आत्मनि वा गतम् गम--क्त ।

१ मनोगते २ आत्मगते च । नाटकाभिनये प्रतिपाद्यपुरुषा
श्राव्ये रङ्गभूमिस्थसामाजिकजनश्रवणयोग्ये वाक्ये
न० । “अश्राव्यं खलु यद्वस्तु तदिह स्वगतं मतम्” सा० द० ।

स्वगुप्ता स्त्री स्वेनैव गुप्ता । १ शूकशिम्ब्याम् शब्दर० ।

२ लज्जालुलतायाञ्च राजनि० ।

स्वगृह पुंस्त्री० स्वकृत गृहं यस्य । १ कलिकारखगे जटा०

६ त० । २ निजमन्दिरे ३ निजराशौ च ज्यो० ।

स्वच्छ त्रि० सुष्ठु अच्छः प्रा० । १ अतिनिर्मले कालुष्यरहिते

२ मुक्तायां ३ स्फटिके च पु० राजनि० । ४ श्वेतदूर्वायाम्
स्त्री राजनि० । ५ विमलोपरमे न० ६ रोगवियुते त्रि०
शब्दर० । ७ शुक्ले च ।

स्वच्छन्द त्रि० स्वस्य छन्दोऽभिपायः स्वकृते यस्य । स्वाधीने अमरः ।

स्वच्छपत्त्र ने० स्वच्छं पत्यं थस्य । अभ्रके हेमच० ।

स्वच्छमणि पु० कर्म० । स्फाटिके मणौ राजनि० ।

स्वच्छबालुक न० स्वच्छा बालुकेव यत्र । विमलोपरसे राजनि०

स्वज न० स्वस्मात् देहात् आत्मनी वा जायते । १ रुधिरे मेदि०

३ पुत्रे पु० ४ कन्यायां स्त्री मेदि० । ५ आत्मजाते त्रि० ।

स्वजन पु० स्वस्येव जनो जननमेककुले यस्य । १ ज्ञातौ अमरः ।

६ त० । २ आत्मसम्बन्धिलोके ।

स्वठ गतौ संस्कारेऽसंस्कारे च चु० उ० सक० सेट् । स्वठयति--ते असिस्वठत्--त ।

स्वतन्त्र त्रि० स्वस्य तन्त्रं वशीकारः स्रकृत्ये यस्य । १ स्वाधीने

अपराधीने अमरः । तत्त्वञ्च इतरव्यापारानधीनव्यापार-
वत्त्वम् । २ कर्त्तरि च सहि समभिव्याहृतक्रियाकारकान्त-
रानधीनव्यापारवान् इति शाब्दिकाः “स्वतन्त्रः कर्त्ता”
पा० कर्त्तृशब्दे १७१६ पृ० दृश्यम् ।

स्वतस् अव्य० स्व + तसिल् । आत्मतः इत्यर्थे ।

स्वता स्त्री स्वस्य स्वकीयस्य भावः तल् । स्वकीयत्वे “कामः

स्वतां पश्यति” शकृन्तणा ।

स्वतोग्राह्य न० स्वग्राहकसामग्रीग्राह्ये ज्ञानप्रामाण्ये वेदा-

न्तादिमनस “प्रामाण्यं अन् स्वतोग्राह्यं संशयानुपपत्तितः”
भाषा० उक्तेर्न तत् स्वतोग्राह्यमिति न्यायमतम् ।

स्वत्व न० स्वस्य भावः त्व । द्रव्याणां यथेष्टक्रयविक्रयादिक्रि-

यासु विनियोजके १ धर्मभेदे २ स्वाभित्वे च, तच्च सम्बन्ध-
भेदेन द्रव्यगतमात्मगतञ्च । स्वत्वपदार्थस्तु दायभा० टोकायां
श्रीकृष्णतर्कालङ्कारेण निरूपितो यथा
“स्वत्वञ्च यथेष्टविनियोगार्हत्वेन शास्त्रबोधितत्वमिति
प्राञ्चः । अतिरिक्तः पदार्थ इति शिरोमणिः । स्वामि-
त्वञ्च तन्निरूपक्तत्वं निरूपकतया तदेव वा तच्च द्रव्यगतं
गुणगतञ्च द्रव्यस्य दानादिश्रुतेः नीलं वा वृषमुत्सृजे-
दित्यादौ लौःहत्यादिगुणावशिष्टपारिभाषिकनीलवृषोत्-
सर्गश्रुतेश्च । वस्तुतस्तु आत्मसमवत स्वामित्वामतिरिक्तः
पदार्थः विक्रयदानादीनां तन्नाशकत्वेतद्धेतुत्वे च सम्ब-
न्धलाघवात् तदेव निरूपकरया स्वत्वव्यवहारहेतुः
विषयतया ज्ञाततावत् । अतएव निबन्धादौ भाविन्यपि
स्वत्वम् अन्यथा प्रतिमासं प्रतिवर्षं वा देयत्वन प्रति-
श्रुतस्य धान्यादिरूपस्य भावित्वेन तत्र तदुत्पत्त्यनुप
पत्तेरिति चूड़ामणिसम्मतोलीलावतीरहस्यसिद्धः
समीचीलः पन्थाः ।
तच्च स्वत्व लौकिकमिति मिता० व्यवस्थापितं यथा
“स्वत्वमेव तावन्निरूप्यते किं शास्त्रैकसमधिगम्यं स्वत्वमुत
प्रमाणान्तरसमधिगम्यमिति । तत्र शास्त्रैकसमधिगम्य-
मिति तावद्युक्तं गौतमवचनात् । स्वामी ऋक्थक्रयसं
विभागपरिग्रहाधिगमेषु ब्राह्मणस्याधिकं लब्ध क्षत्र-
गस्य विजित निर्विष्टं वैश्यशूद्रयोरिति” प्रभाणान्तर-
गम्ये स्वत्वे नेदं वचनम् । तथा स्तेनातिदेशे मनुः
“योऽदत्तादायिनो हस्ताल्लिप्सेत ब्राह्मणो धनम् ।
याजनाध्यापनेनापि यथा स्तनस्तथैव सः” इत्यदत्तादायिनः
सकाशात् याजनादिकरणन द्रव्यमर्जयतां दण्डविधान-
मनुपपन्नं स्यात् स्वत्वस्य लौकिकत्वे । अपि च ।
लौकिकं चेत् स्वत्वं मम स्वमपहृतमनेनेति न मयात्
अपहर्तुरेव स्वत्वादथान्यस्य स्वन्तेनापहृतमिति
नापहर्तुः स्वम् । एवं तर्हि सुवर्णरजतादिस्वरूपवदस्य वा
स्वमन्यस्य वा स्वमिति सशथो न स्वात् तस्माच्छास्त्रैक-
समधिगम्यं स्वत्वमिति । अत्रोच्यते । कौकिकमेव स्वत्व-
लौकिकार्थक्रियासाधनत्वात् व्रोह्यादिवत् ।
आहवनीयादीनां हि शास्त्रगस्यानां न लीकिलक्रियासाध-
पृष्ठ ५३७७
नत्वमस्ति । नन्वाहवनीयादीनामपि पाकादिसाधनत्व
मस्त्वेव । नैतत् । न हि तत्राहवनींयादिरूपेण
पाकादिसाधनत्वं किं तर्हि प्रत्यक्षादिपरिदृश्यमाना-
ग्न्यादिरूपेण । इह तु सुवर्णादिरूपेण न क्रयादि
साधनत्वमपि तु स्वत्वेनैव । न हि यस्य यत्स्वं न
भवति तत्तस्य क्रयाद्यर्थक्रियां साधयति । अपि च
प्रत्यन्तवासिनामप्यदृष्टशास्त्रव्यवहाराणां स्वत्वव्य्वहारो
दृश्यते क्रयविक्रयादिदर्शनात् । किञ्च । नियतोपायकं
स्वत्वं लोकसिद्धमेवेति न्यायविदो मन्यन्ते । तथा हिं
लिप्सासूत्रे तृतीयवर्णके द्रव्यार्थननियमानां क्रत्वर्थत्वे
स्वत्वमेव न स्यात् स्वत्वस्यालौकिकत्वादिति पूर्वपक्ष-
सम्भायमाशङ्ख्य द्रव्यार्जनस्य पितग्रहादना स्वत्वसाधनत्वं
लोककिद्धमिति पूर्वपक्षः समर्थितो गुरुणा । ननु द्रव्या-
र्जनस्य क्रत्वर्थत्वे स्वमेव न भवतीति याग एव न संप्रव
त्तेत । प्रलपितमिदङ्गेनापि अर्जनं स्वत्वं नापादय-
तीति विप्रतिसिद्धमिति वदता । तथा सिद्धद्वान्तेऽपि स्वत्वस्य
लौलिकत्वमङ्गीकृत्यैव विचारप्रयोजनमुक्तम् । अतो
नियमातिक्रमः पुरुषस्य न क्रतोविति । अस्य चार्थ एवं
विवृतः । यदा द्रव्यार्जगनियमानां क्रत्वर्थत्वं तदा
नियषार्जितेनैव द्रव्येण क्रतुसिद्धिः । नियमातिक्रमा-
र्जितेन द्रव्येण न क्रतुमिद्धिरिति न पुरुषस्य नियमाति
क्रमदोषः पूर्वपक्षे । सिद्धान्ते तु अर्जननियमस्य पुरुषार्थ
त्वात्तदतिक्रमेणार्जितेनापि द्रव्येण क्रतुसिद्धिर्भवति ।
पुरुषस्यैव नियमातिकसाद्दोष इति नियनातिक्रमार्जित-
स्यापि स्वत्वमङीकृतम् अन्यथा क्रतुसिद्ध्यभावात्
ग चैतावता चौर्य्यादिप्राप्तस्य पि स्वत्वं स्यादिति प्रन्तव्यम्
लोके तत्र स्वत्वप्रसिद्ध्यभावाद् व्यवहारविसवादाच्च ।
एवं प्रतिग्रहाद्युपायके स्वत्वे लौकिके स्थिते ब्राह्मणस्य
प्रतिग्रहादय उपायाः । क्षत्रियस्य विजितादय उपाया
वैश्यस्य कृष्यादयः शूद्रस्य शुश्रूषादय इत्यदृष्टार्था
नियमाः । ऋक्थादयस्तु सर्वसाधारणाः “स्वामी ऋक्थ-
क्रयसंविभागपरिग्रहाधिगमेष्वित्युक्ताः । तत्राप्रति-
बन्धा दायो रिक्थम् । क्रयः प्रसिद्धः संयिभागः स
प्रतिबन्धो दायः । परिग्रहोऽनन्यपूवस्य जलतृणकाष्ठादेः
स्वाकारः । अधिगमो निधादेः प्राप्निः । एतषु निमि
त्तेषु सत्सु खामी भवति । ज्ञातेषु ज्ञायते स्वामी
ब्राह्मणस्याधिकं लब्धमिति ब्राह्मणस्य प्रतिग्रहाद् अन”
यल्लब्ध तदधिकमसाधारणम् । क्षत्रियस्य विजितमित्य
त्राधिकमित्यनुवर्तते क्षत्रियस्य विजयदण्डादिलब्ध्रमसा-
धारणम् । निर्विष्टं दैश्यशूद्रयोरिति । अत्राप्यधिक-
मित्यनुवर्त्तते वैश्यस्य कृषिगोरक्षादिलब्धन्निर्विष्टं
तदसाधारणं शूद्रस्य द्विजशुश्रुषादिना भृतिरूपेण यल्लब्धं
तदसाधारणमेवमनुलोमजानां प्रतिलामजानञ्च
लोकप्रसिद्धेषु स्वत्वहेतुषु यद्यदसाधारणमुक्तम् “सूतानामश्व-
सारथ्यम्” इत्यादि तत्तत् सर्वं निर्विष्टशब्देनोच्यते सर्वस्यापि
भृतरूपत्वात् “निर्वेशी भृतिभोगयीरिति” त्रिकाण्डी-
स्मरणात् । तत्तदसाधारणं वेदितव्यम् । यदपि पत्नी-
दुहितरश्चेत्यादिस्मरणम् । तत्रापि स्वामिसम्बन्धितया
बहुषु दायविभागितया प्राप्तेषु लोकप्रसिद्धेऽपि स्वत्वे
व्यमोहमिवृत्त्यर्थं स्मरणमिति सर्वमनवद्यम्” ।
तच्च स्वत्वं जन्मनैवेति मिताक्षरादयः । पित्रादिमरणा-
दिनैवति दायभागादयः । तत्रापि समुदायद्रव्ये स्वत्वमिति
मिताक्षरादयः । प्रदेशभेदे इति दायभागादयः । तत्तद्-
ग्रन्थ विस्तरा दृश्यः

स्वदन न० स्वद--भावे ल्युट् । १ आस्वादे २ लेहने च राजनि० । सुष्ठु अदनम् । ३ सुभक्षणे हेमच० ।

स्वधर्म्म पु० स्वस्य येदादिविहतो धर्मः । स्वानुरुपे वेटाद्युक्ते

आचारादिधर्मे । “यो यस्य विहितो धर्मः स तज्जातिः
प्रकीर्त्तितः । तस्मात् स्ववर्मं कुर्य्याच्च द्विजो नित्यमना-
पदि” नरसिहपु० । “श्रेयान् स्वधर्मो विगुणः
परघर्मात् स्वनुष्ठितात् । स्वधर्मे निधनं श्रेयः परधर्मो
भयावहः” गीता ।

स्वधा अव्य० स्वद--आ पुषो० दस्य धः । १ पितृदेवोद्देशेप्र

हविस्त्यागे अमरः । स्वेन धयति धै--क आप् । २ मातृ-
काभेदे स्त्रा “नमःस्वधायै स्वाहायै” इति पितृगाथा ।
“निपातस्वधायोगे त्यागोद्देश्यपदात् चतुर्थी पितृभ्यः स्वधे-
त्यादौ पित्र्यद्देश्यकस्त्याग इति बोधः । तदर्थश्च विषयतया
अन्न दावन्वयी तस्य निपातत्वेन तदर्थस्य भेदान्वयस्य व्युत्-
पत्तिसिद्धत्वात् । इदमन्नं पित्रे स्वधेत्यादौ पित्र्युद्देशक-
त्यागविषय इदमन्नमित्यादि वोधः । मातृभेदस्व्धा च दक्ष-
कन्या ब्रह्मणो मानसी कन्था च पितृपत्नी । तन्नामोच्चारणे
पित्रादिश्राद्धकरणरूपोऽस्यावरो ब्रह्मणा दत्तः । “ब्रह्मा च
मानसीं कन्यां ससृजे तां मनोहराम्” “स्वधामिधानां
सुदतीं लक्ष्मीलक्षणसंयुताम्” “पितृभ्यस्तां ददौ ब्रह्मा
तुष्टेभ्यस्तुष्टिरूपिणीम् । ब्राह्मणानामुपदेशं चकार
लोमनायकः । स्वधान्तं मन्त्रमुव्वाय्य पितृभ्योदेहि चेति च ।
क्रमेण तेन विप्राश्च पित्रे दानं ददुः पुरा” ब्रह्मयै० प्र०
स्वधानामकस्वधाशब्दस्यापि पितृदाने विनियोग इति
बोध्यम् ।
पृष्ठ ५३७८

स्वधाप्रिय पु० स्वधाशिनां प्रियः शाक० । १ कृष्णतिले शब्दर०

२ स्वधोपलक्षितश्राद्धादिप्रिये पित्रादौ च । स्वधा प्रिया
यस्य । ३ पितृलोके स्वधाशब्देमूलं दृश्यम् ।

स्वधाभुज् स्वधेत्यनेन त्यक्तद्रव्यं भुङ्क्ते भुज--क्विप् । १ पितृगणे २ देवे च

स्वधि(ती)ति स्त्री स्वेन धीयते धा--क्तिच् वा ङीप् । कुठारे

परश्वधे अमरः पृषो० । श्वधितिरप्यत्र ।

स्वन शब्दे भ्वा० पर० अक० सेट् । स्वनति अस्वनीत् अस्वा-

नीत् । फणा० स्वेनतुः सस्वनतुः । अयं भूषणे वा घटा०
(स्वा)स्वनयति ।

स्वन ध्वाने अद० चु० उभ० अक० सेट् । स्वनयति--ते असस्वनत्--त ।

स्वन पु० स्वन + अप् । शब्दे अमरः ।

स्वनि पु० स्वन + इन् । शब्दे हेमच० ।

स्वनित त्रि० स्वन--कर्त्तरि--क्त । १ शब्दिते अमरः । मावे

क्त । २ शब्दे ३ मेघगर्जिते च न० हेमच० ।

स्वनिताह्वय पु० स्वनितमाह्वयते आ + ह्वेश । तण्डुलीय-

शाके राजनि० ।

स्वनोत्साह पुंस्त्री० स्वने उत्साहो यस्य । गण्डके शब्दर० स्त्रियां ङीष् ।

स्वपन न० स्वप--ल्युट् । १ शयने २ निद्रायाञ्च शब्दर० ।

स्वपिण्डा स्त्री स्वेनैव पिण्डः पिण्डाकारोऽस्त्यस्याः अच् ।

पिण्डखर्जूर्य्याम् राजनि० ।

स्वप्न पु० स्वप--भावे नन् । १ निद्रायाम् अमरः २ शयने ३

मानसिकज्ञानभेदे ५ दर्शने च मेदि० आर्षे न० । स्वप्नदृष्टपदा-
र्थस्य मायामात्रत्वं शा० सू० भाष्ययोर्व्यवस्थापितं यथा
“सन्ध्ये सृष्टिराह हि” सू० ।
“अतिक्रान्ते पादे पञ्चाग्निविद्यामुदाहृत्य जीवस्य संसा
रगतिप्रभेदः प्रपञ्चितः इदानीं तस्यैवावस्थाभेदः प्रप-
ञ्च्यते । इदमामनन्ति “स यत्र प्रस्वपिति” इत्युपक्रम्य
“न तत्र रथा न रथयोगा न पन्थानो भवन्ति अथ रथान्
रथयोगान् पथः सृजते” इत्यादि । तत्र संशयः किं
प्रवोध इव स्वप्नेऽपि पारमार्थिकी सृष्टिराहोस्विन्माया-
मयीति । तत्र तावत् प्रतिपद्यते । सन्ध्ये सृष्टिरिति ।
सन्ध्यमिति स्वप्नस्थानमाचष्टे वेदे प्रयोगदर्शनात् “सन्ध्य
तृतीयं स्वप्नस्थानम्” इति । द्वयोर्लाकस्थानयोः प्रबोध
सम्प्रसादस्थानयोर्वा सन्धो भवतीति सन्ध्यं तस्मिन् सन्ध्ये
स्थाने तथ्यरूपैव सृष्टिर्मवितुमर्हति । कुतः, यतः
प्रमाणभूता श्रुतिरेवमाह “अथ रथान् रथयोगान्
पथः सृजते” इत्यादि । स हि कर्त्तेति चोपसंहारादेव-
मेवावगम्यते” भा० । “निर्मातारं चैके पुत्रादयश्च” । सू० “अपि
चैके शाखिनोऽस्मिन्नेव सन्ध्ये स्थाने कामानां निर्मा-
तारमात्मानमामनन्ति “य एष सुप्तेषु जागर्ति कामं
कामं पुरुषो निर्मिमाणः” इति । पुत्रादयश्च तत्र
कामा अभिप्रेयन्ते काम्यन्त इति । ननु
कामशब्देनेच्छाविशेषा एवोच्येरन्, न, “शतायुषः पुत्र-
पौत्त्रान् वृणीष्व” इति प्रकृत्य “अन्ते कामानान्त्वा
कामभाजं करोमि” इति प्रकृतेषु तत्र पुत्रादिषु
कामशब्दस्य प्रयुक्तत्वात् । प्राज्ञं चैनं निर्मातारं प्रकरण-
वाक्यशेषाभ्यां प्रतीमः । प्राज्ञस्य हीदं प्रकरणम्
“अन्यत्र धर्मादन्यत्राधर्मात्” इत्यादि । तद्विषय एव च
वाक्यशेषोऽपि-- “तदेव शुक्रं तदब्रह्म तदेवामृतमुच्यते ।
तस्मिँल्लोकाः श्रिताः सर्वे तदु नात्येति कश्चन” । इति
प्राज्ञकर्तृका च सृष्टिस्तथ्यरूपा समधिगता यथा
जागरिताश्रया तथा स्वप्नाश्रयापि सृष्टिर्भवितुमर्हति । तथा च
श्रुतिः “अथो खल्वाहुर्जागरितदेश एवास्यैष इति यानि
ह्येव जाग्रत् पश्यति तानि सुषुप्तः” इति स्वप्नजागरितयोः
समानन्यायतां श्रावयति । तस्मात् तथ्यरूपैव सन्ध्ये
सृष्टिरित्येवं प्राप्ते प्रत्याह । “मायामात्रन्तु कात्स्न्ये-
नानभिव्यक्तस्वरूपत्वात्” सू० । “तुशब्दः पक्षं व्यावर्त्तयति ।
नैतदस्ति यदुक्तं सन्ध्ये सृष्टिः पारमार्थिकीति ।
मायामय्येव सन्ध्ये सृष्टिर्न परमार्थतोऽप्यस्ति । कुतः
कात्स्न्येनानभिव्यक्तस्वरूपत्वात् । न हि कात्स्न्येन
परमार्थवस्तुधुर्मेणाभिव्यक्तस्वरूपः स्वप्नः । किं पुनरत्र
कात्र्स्न्यमभिप्रेतं, देशकालनिमित्तसम्पत्तिरबाबधश्च । न
हि परमार्थवस्तुविषयाणि देशकालनिमित्तानि अबाधश्च
स्वप्ने रथादीनामुचितो देशः सम्भवति, न तावत् संवृते
देहदेशे रथादयोऽवकाशं लभेरन् । स्यादेतत्,
बहिर्देहात् स्वप्नं द्रक्ष्यति देशान्तरितद्रव्यग्रहणात् । दर्श-
यति च श्रुतिः बहिर्देहात् स्वप्नं “यहिःकुलायाद-
मृतश्चरित्वा स ईयते अमृतो यत्र कामम्” इति ।
स्थितिगतिप्रत्ययभेदश्च नानिष्क्रान्ते जन्तौ सामञ्जस्य-
मश्नुवीतेति । नेत्युच्यते, न हि सुप्तस्य जन्तोः क्षण-
मात्रेण योजनशतान्तरितं देशं पर्य्येतुं विपर्य्येतुञ्च ततः
सामर्थ्यं सम्भःव्यते । क्वचिच्च प्रत्यागमनवर्जित स्वप्र
श्रावयति “कुरुष्यहं शय्यायां शयानो निदूयाभप्लुतः
स्वप्रे पञ्चालानभिगतश्चास्मिन् प्रतिबुद्धश्च” इति । देहा-
पृष्ठ ५३७९
च्चेदपेयात् पञ्चालेष्वेव प्रतिबुध्येत तानसावभिगत इति
करुष्वोव तु प्रतिबुध्यते । येन चायं देहेन देशान्तर-
मश्नुवानो मन्यते तमन्ये पार्श्चस्थाः शयनदेश एव
पश्यन्ति । यथाभूतानि चायं देशान्तराणि स्वप्ने पश्यति
न तानि तथाभूतान्येव भवन्ति, परिधावंश्चेत् पश्येज्जा-
ग्रद्वस्तुभूतमर्थमाकलयेत् । दर्शयति च श्रुतिः “अन्तरेव
देहे स्वप्नं स यत्रैतत् स्वप्नयाचरति” इत्युपक्रम्य “स्वे
शरीरे यथाकामं परिवर्त्तते” इति । अतश्च श्रुत्युपपत्ति-
विरोधाद्बहिःकुलायश्रुतिर्गौणी व्याख्यातव्या वहिरिव
कुलायादमृतश्चरित्वा, इति यो हि वसन्नपि शरीरे न
तेन प्रयोजनं करोति स वहिरिव शरीराद्भवति इति ।
स्थितिगतिप्रत्ययभेदोऽप्येवं सति विप्रलम्भ एवाप्युप-
गलव्यः, कालविसंवादोऽपि च स्वप्ने भवति रजन्यां
सुप्तो वासुरं भारते वर्षे मन्यते तथा मुहूर्त्तमात्रप्रवर्त्तिनि
स्वप्ने कदाचिद् बहून् वर्षपूगानतिवाहयति । निमि-
त्तान्यपि च स्वप्ने न बुद्धये कर्मणे वोचितानि विद्यन्ते,
करणोपसंहाराद्धि नास्य रथादिग्रहणाय चक्षुरादीनि
सन्ति, रथादिनिर्वर्त्तनेऽपि कुतोऽस्य निमेषमात्रेण
सामर्थ्यं दारुणि वा । बाध्यन्ते चैते रथादयः स्वप्न-
सृष्टाः प्रबोधे, स्वप्न एव चैते सुलभबाधा भवन्ति
आठ्यन्तयोर्व्यभिचारदर्शनात्, रथोऽयमिति हि
कदाचित् स्वप्ने निर्द्धारितः क्षणेन मनुष्यः सम्पद्यते, मनुष्यो-
ऽयमिति वा निर्द्धारितः क्षणेन वृक्षः । स्पष्टञ्चाभावं
रथादीनां स्वप्ने श्रावयति शास्त्रम् “न वत्र रथा न
रथयोगा न पन्थानो भवन्ति” इत्यादि । तस्मान्मया-
मात्रं स्वप्नदर्शनम्” भा० । “सूचकश्च हि श्रुतेराचक्षते च
तद्विदः” सू० । “मायामात्रत्वात् तर्हि न कश्चित् स्वप्ने
परमार्थगन्ध इति, नेत्युच्यते । सूचकश्च हि स्वप्नो
भवति भविष्यतोः साध्वसाधुनोः । तथा हि श्रूयते
“यदा कर्मसु काम्येषु स्त्रियं स्वप्नेषु पश्यति । समृद्धिं
तत्र जानीयात् तस्मिन् स्वप्ननिदर्शने” इति । तथा
“पुरुषं कृष्णं कृष्णदन्तं पश्यति स एनं हन्ति” इत्येव-
मादिभिः स्वप्नैरचिरजीवित्वमावेद्यत इति श्रावयति ।
आचक्षते च स्वप्नाध्यायविदः “कुञ्जरारोहणादीनि
स्वप्ने धन्यानि खरयानादीन्यधन्यानि” इति । मन्त्रदेवता-
द्रव्यविशेषनिमित्ताश्च केचित् स्वप्नाः सव्यार्थगन्धितो
भवन्तीति मन्यन्ते । तत्रापि भवतु नाम सूच्यमानस्य वस्तुनः
सत्यत्वं, सूचकस्य तु स्त्रीदर्शनादेर्भवत्येव वैतथ्यं बाध्य-
मानत्वादित्यभिप्रायः । तस्मादुपपन्नं स्वप्नस्य माया-
मात्रत्वम् । यदुक्तमाह हीति तदेवं सति भाक्तं व्या-
ख्यातव्यं यथा लाङ्गलं गवादोनुद्वहतीति निमित्तमात्र-
त्वादेवमुच्यते न तु प्रत्यक्षमेव लाङ्गलं गवादीनुद्वहति,
एवं निमित्तमात्रत्वात् सुप्तो रथादीन् सृजते स हि
कर्त्तेति चोच्यते न तु प्रत्यक्षमेव सुप्तो रथाटीन्
सृजति । निमित्तत्वन्त्वस्य रथादिप्रतिभाननिमित्तमोदत्वा-
सदर्शनात् तन्निमित्तभूतयोः सुकृतदुष्कृतयोः कर्तृत्वे-
नेति वक्तव्यम् । अपि च जागरिते विषयेन्द्रियसंयोगा-
दादित्यादिज्योतिर्व्यतिकराच्चात्मनः स्वयं ज्योतिष्ट्वं द्रष्ट-
र्दुर्विवेचनमिति तद्विवेचनाय स्वप्न उपन्यस्तः, तत्र यदि
रथादिसृष्टिवचनं श्रुत्या नीयेत स्वयं ज्योतिष्ट्वं न
निर्णींतं स्यात् । तस्माद्रथाद्यभाववचनश्रुत्या रथादिसृष्टि-
वचनं भाक्तमिति व्याख्येयम् । एतेन निर्माणश्रवणं
व्याख्यातम् । यदन्युक्तम् “प्राज्ञमेनं निर्मातारमामनन्ति”
इति, तदप्यसत् श्रुत्यन्तरे स्वयं विहृत्य स्वयं निर्माय
स्वेन भासा स्वेन ज्योतिषा प्रस्वपिति” इति जोवव्यापार-
श्रवणात् । इहापि च “य एष सुप्तेषु जागर्त्ति इति
प्रसिद्ध्वानुवादाज्जीव एवायं कामानां निर्माता सङ्कीर्त्यते,
तस्य तु वाक्यशेषेण “तदेव शुक्रन्तद्व्रह्मेति” जीवभावं
व्यावर्त्य ब्रह्मभाव उपदिश्यते “तत्त्वमसि” इत्यादिव-
दिति न ब्रह्मप्रकरणत्वं विरुध्यते । त्म चास्माभिः स्वप्ने-
ऽपि प्राज्ञव्यापारः प्रतिषिध्यते, तस्य सर्वेश्वरत्वात् सर्वा-
स्वप्यवस्थास्वथिष्ठातृत्वोपपत्तेः । पारमार्थिकस्तु नायं
सन्ध्याश्रयः सर्गो वियदादिसर्गवदित्येतावत् प्रतिपाद्यते ।
न च वियदादिसर्गस्यात्यन्तिकं सत्यत्थमस्ति, प्रतिपादितं
हि “तदनन्यत्वमारम्भणशब्दादिभ्यः, इत्यत्र समस्तस्य
मायामात्रत्वम् । प्राक् च ब्रह्मात्मदर्शनात् वियदादि-
प्रपञ्चो व्यवस्थितरूपो भवति, सन्ध्याश्रयस्तु प्रपञ्चः प्रति-
दिनं बाध्यत इत्यतो वैशेषिकं सन्ध्यस्य मायामात्रत्वमुदि-
तम्” भा० । “पराभिध्यानात् तु तिरोहितं ततो ह्यस्य
बन्धविपर्य्ययौ” सू० । “अथापि स्यात् परस्यैव तावदान-
नोऽंशो जीवोऽग्नेरिव विस्फुलिङ्गः । तत्रैवं सति
यथाऽग्निविस्फुलिङ्गयीः समाने दहनप्रकाशनशक्ती
भवतः एवं जीवेरश्वयोरपि ज्ञानैश्वर्य्यशक्ती, ततश्च
जीवस्यैश्वर्य्यवशात् साङ्कल्पिकी स्वप्ने रथादिसृष्टि-
र्भविष्यतीति, अत्रोच्यते । सत्यपि जीवेश्वरयोरंशांशी-
भावे प्रत्यक्षमेव जीवेश्वरविपरीतवर्मत्वं, किं पुनर्जी-
पृष्ठ ५३८०
वस्यैश्वरसमानधर्मत्वं नास्त्येव न नास्तीति, विद्यमान-
मपि तु तत् तिरोहितं, अविद्यादिव्यवधानात् । तत्
पुनस्तिरोहितं सत् परमेश्वरमभिध्यायतो यतमानस्य
जन्तोर्विधूतध्वान्तस्य तिमिरतिरस्कृतस्येव दृक्शक्तिरौषध-
वीर्य्यादिवेश्वरप्रसादात् संसिद्धस्य कस्यचिदेवाविर्भवति न
स्वभावत एव सर्वेषां जन्तूनां, कुतस्ततो हि ईश्वरा
द्धेतोरस्य जीवस्य बन्धमोक्षौ भवतः, ईश्वरस्य स्वरूपा
परिज्ञानाद् बन्धः तत्स्वरूपपरिज्ञानात्तु मोक्षः । तथा
च श्रुतिः “ज्ञात्वा देवं सर्वपाशापहानिः क्षीणैः
क्लेशैर्जन्ममृत्युप्रहाणिः” । तस्याभिध्यानात् तृतीयं
देहभेदे विश्वैर्श्वर्य्यं केवल आप्तकामः” इत्येवमाद्या” भा० ।
“देहयोगाद् वा सोऽपि” सू० । “कस्मात् पुनर्जीवः परमा-
त्मांश एव सन् तिरस्कृतज्ञानैश्वर्य्यो भवति युक्तन्तु ज्ञानै-
श्वर्य्ययोरतिरस्कृतत्वं विस्फुलिङ्गस्वेव दहनप्रकाशयो-
रिति । उच्यते सत्यमेवैतत्, सोऽपि तु जीवस्य ज्ञानै
श्वर्य्यतिरोभावो देहयोगाद्देहेन्द्रियमनोबुद्धिविषयवेदना-
नादियोगाद्भवति । अस्ति चात्रोपमा यथाग्नेर्दहन-
प्रकाशनसम्पन्नस्याप्यरणिगतस्य दहनप्रकाशने तिरो-
भवतः, यथा वा भस्मनाच्छन्नस्य, एवमविद्याप्रत्युपस्था-
पितनामरूपकृतदेहाद्युपाधियोगात् तदविवेकभ्रमकृतो
जीवस्य ज्ञानैश्वर्य्यतिरोभावः । वाशब्दो जीवेश्वरयोरन्य-
त्वाशङ्काव्यावृत्त्यर्थः । नन्वन्थ एव जीव ईश्वरादस्तु
तिरस्कृतज्ञानैश्वर्य्यत्वात् किं देहयोगकल्पनया । नेत्युच्यते,
न ह्यन्यत्वं जीवस्येश्वरादुपपद्यते “सेयं देवतैक्षत” इत्यु-
पक्रम्य “अनेन जीवेनात्मनानुप्रविश्य” इत्यात्मशब्देन
जीवस्य परामर्शात् । “तत्सत्यं स आत्मा तत्त्वमसि
श्वेतकेतो” इति च जीवस्योपदिशतीश्वरात्मत्वम्, अ
तोऽनन्य एवेश्वरात् जीवः सन् देहयोगात् तिरोहित-
ज्ञानैश्वर्य्यो भवति, अतश्च न साङ्कल्पिकी जीवस्य स्वप्ने
रथादिसृष्टिसिद्धिर्घटते! यदि च साङ्कल्पिकी स्वप्ने
सृष्टिसिद्धिः स्यात् नैवानिष्टं कञ्चित् स्वप्नं पश्येत् ।
न हि कश्चिदनिष्टं सङ्कल्पयते । यत् पुनरुक्तं जागरित
देशश्रुतिः स्वप्नस्य सत्यत्वं ख्यापयतीति न तत्साम्यवचनं
सत्यत्वाभिप्रायं स्वयंज्योतिष्ट्वविरोधात्, श्रुत्यैव च स्वप्ने
रथाद्यभावस्य दर्शितत्वात्, जागरितप्रभववासनानिमित्त-
त्वात् तु स्वप्नस्य तत्तुल्यनिर्भासत्वाभिप्रायं तत् । तस्मा-
दुपपन्नं स्वप्नस्य मायामात्रत्वम्” ।
स्वप्नभेदस्य शुभाशुभसूचकत्वं नानापुराणेषुक्तं तत्र दिङ-
मात्रं मत्स्यपुराणे २४२ अध्याये उक्तमत्र प्रदर्श्यते यथा
“इदानीं कथयिष्यामि गिमित्तं स्वप्नदर्शने । नाभिं
विनान्यगात्रेषु तृणवृक्षसमुद्भवः । चूर्णनं मूर्ध्नि कांस्यानां
मुण्डनं नग्नता तथा । मलिनाम्बरधारित्वमभ्यङ्गः
पङ्कदिग्धता । उच्चात् प्रपतनञ्चैव दोलारोहणमेव च ।
अर्जनं पक्वलोहानां हयानामपि मारणम् । रक्तपुष्प-
द्रुमाणाञ्च मण्डलस्य तथैव च । वराहर्क्षखरोष्ट्राणां
तथा च रोहणक्रिया । भक्षणं पक्वमांसानां तैलस्य
कृसरस्य च । नर्त्तनं हसनञ्चैव विवाहा गीतमेव च ।
तन्त्रीवाद्यविभिन्नानां वाद्यानामभिवादनम् । स्रोतो-
ऽवगाहगमनं स्नानं गोमयवारिणा । पङ्कोदकेन च
तथा महीतोयेन चाप्यथ । मातुः प्रवेशो जठरे चिता-
रोहणमेव च । शक्रध्वजाभिपतनं पतनं शशिसूर्य्ययोः ।
दिव्यान्तरिक्षभौमानामुत्पातानाञ्च दर्शनम् । देवद्विजाति-
भूपालगुरूणां क्रोध एव च । आलिङ्गनं कुमारीणां
पुरुषाणाञ्च मैथुनम् । हानिश्चैव स्वगात्राणां विरेक-
कवमनक्रिया । दक्षिणाशाभिगमनं व्याधिनाभिभवस्तथा ।
फलापहानिश्च तथा पुष्पहानिस्तथैव च । गृहाणाञ्चैव
पातश्च गृहसम्भार्जनन्तथा । क्रीड़ा पिशाचक्रव्यादवान-
रर्क्षनरैरपि । परादभिभवश्चैव तस्माच्च व्यसनोद्भवः ।
काषायवस्त्रधारित्वं तद्वत् स्त्रीक्रीड़नन्तथा । स्नेहपाना-
वगाहौ च रक्तमाल्यानुलेपनम् । एवमादीनि चान्यानि
दुःस्वप्नानि विनिर्दिशेत् । एषां सङ्कथनं धन्यं भूयः प्रस्व-
पनं तथा । कल्कस्नानं तिलैर्होमो व्राह्मणानाञ्च
पूजनम् । स्तुतिश्च वासुदेवस्य तथा तस्यैव पूजनम् ।
नागेन्द्रमोक्षश्रवणं ज्ञेयं दुःस्वप्ननाशनम् । स्वप्नास्तु प्रथमे
यामे संवत्सरविपाकिनः । षड्सिमांसैर्द्वितीये तु त्रि-
मिर्मासैस्तृतीयके । चतुर्थे मासमात्रेण पश्यतो नात्र
संशयः । अरुणोदयवेलायां दशार्हन फलं भवेत् ।
एकस्यां यदि वा रात्रौ शुभं वा यदि वा शुभम् ।
पश्चाद् दृष्टस्तु यस्तत्र तस्य पाकं विनिर्दिशेत् । तस्मा-
च्छोभनके स्वप्ने पश्चात् स्वप्नं न पश्यति । शैलप्रासाद
नागाश्ववृषभारोहणं हितम् । द्रुमाणां श्वेतपुष्पाणां
गमने च तथा द्विज! । द्रुमतृणोद्भवो नाभौ तथैव
बहुवाहुता । तथैव बहुशीर्षत्वं फलितोद्भव एव च ।
सुशुक्लमाल्यधारित्वं सुशुक्लाम्बरधारिता । चन्द्रार्कता-
राग्रहणं परिमार्जनमेव च । शक्रध्वजालिङ्गनञ्च
तदुच्छ्रायक्रिया तथा । भूम्यम्बुधीनां ग्रसनं शत्रूणाञ्च
पृष्ठ ५३८१
बधक्रिया । जयो विवादे द्यूते च संग्रामे च तथा
द्विज! । भक्षणञ्चार्द्रमांसानां मत्स्यानां पायसस्य च ।
दर्शनं रुधिरस्यापि स्नानं वा रुधिरेण च । सुरारुधिर-
मद्यानां पानं क्षीरस्य चाथ वा । अन्त्रैर्वा वेष्टनं भूमौ
निर्मलं गमनं तथा । मुखेन दोहनं शस्तं महिषीणां
तथा गवाम् । सिंहीनां हस्तिनीनाञ्च वड़वानां तथैव
च । प्रसादो देवविप्रेभ्यो गुरुभ्यश्च तथा शुभः । अम्भसा
त्वभिषेकस्तु गवां शृङ्गाश्रितेन वा । चन्द्राद् भ्रष्टेन वा
राजन्! ज्ञेयो राज्यप्रदो हि सः । राज्याभिषेकश्च
तथाच्छेदनं शिरसस्तथा । मरणं वह्निदाहश्च वह्निदाहो
गृहादिषु । लब्धिश्च राज्यलिङ्गानां तन्त्रीवाद्याभिवाद-
नम् । तथोदकानां तरणं तथा विषमलङ्घनम् । हस्ति-
नीबड़वानाञ्च गवाञ्च प्रसवो गृहे । आरोहणमथा-
श्वानां रोदनञ्च तथाशुभम् । वरस्त्रीणां तथालाभस्तथा-
लिङ्गनमेव च । निगड़ैर्बन्धनं धन्यं तथा विष्ठानुलेप-
नम् । जीवतां भूमिपालानां सुहृदामपि दर्शनम् । दर्शनं
देवतानाञ्च विमलानां तथाम्भसाम् । शुभान्यथैतानि नरस्तु
दृष्ट्वा प्राप्नोत्ययत्नाद् ध्रुवमर्थलाभम् । स्वप्नानि वै धर्म-
मृतां वरिष्ठ! व्याधेर्विमोक्षञ्च तथातुरोऽपि” आर्षं न० ।

स्वप्नकृत् न० स्वप्नं निद्रां करोति कृ--क्विप् । (सुमुनि) शाके

शब्दच० ।

स्वप्नज् त्रि० स्वप--नजिङ् । शयनशीले अमरः ।

स्वभाव पु० स्वस्य भावः । १ निसर्गे अजन्ये स्वतःसिद्धे भावे

च अमरः । “वहिर्हेत्वनपेक्षी तु स्वभावोऽथ प्रकी
र्त्तितः । निसर्गश्च स्वभावच इत्येष भवति द्विधा ।
निसर्गः सुदृढ़भ्यासजन्यः संस्कार उच्यते । अजनयस्तु
स्वतः सिद्धः स्वरूपो भाव उच्यते” उज्ज्वलद० ।

स्वभावोक्ति स्त्री स्वभावस्योक्तिरत्र । १ अर्थालङ्कारभेदे

अलङ्कारशब्दे ४०८ पृ० दृश्यम् । ६ त० । २ स्वभावस्य कथने ।

स्वभू पु० स्वेनैव भवति मू--क्विप् । १ ब्रह्मणि मेदि० २ विष्णौ

अमरः । ३ शिवे ४ ईश्वरे ५ कामे च ।

स्वयंवर पु० स्वयमात्मना वरो वरणम् । कन्ययात्मनैव

स्वपतेर्वरणे “सदसि स्वयंवरः” नैष० । स्वयं वृणुते पतिम् ।
वृ--अच् । आत्मनैव पतिवरणकर्त्त्र्यां २ कन्याकायां स्त्री ।

स्वयंहारिका स्त्री ब्रह्मणो मानससृष्टपुत्रस्य दुःसहस्य

निर्माष्ट्या भार्य्यायामुत्पन्ने कन्याभेदे मार्कण्डेयपु० । तत्
कन्याश्चाष्टौ नियोजिकादयः तासां कर्माणि तत्रोक्तानि
तत्र “एतासां कर्म वश्यामि दापप्रशमनञ्च यत्” इत्युपक्रमे
“धान्यं खलात् गृहात् गोष्ठात् पयःसर्पिस्तथा परा ।
समृद्धिमृद्धिवद्द्रव्यमपहन्ति च कन्यका । सा स्वयंहारि-
केत्युक्ता सदान्तर्द्धानतत्परा” इति तस्याः कर्मोक्तम् ।

स्वयङ्कृत पु० स्वयमात्मना कृतः । १ कृत्रिमे पुत्रे “माता

पितृविहीनस्तु कृत्रिमः स्यात् स्वयंकृता” स्मृतिः । २ आत्म-
कृते त्रि० । “पूर्वजुष्टः स्वयंकृतः” (पुरोहितः) स्मृतिः ।

स्वयङ्गुप्ता स्त्री स्वयमात्मनैव गुप्ता । शूकशिम्ब्याम् शब्दच० ।

स्वयन्दत्त पु० स्वयमात्मनैव न तु पितृमातृभ्यां दत्तः उपनतः

दत्तात्मके पुत्त्रभेदे “दत्तात्मा तु स्वयन्दत्तः” याज्ञ० ।
“दत्तात्मा तु पुत्रो मातापितृविहीनस्ताभ्यां विमुक्तो वा
तवाह पुत्रो भवामीति स्वयंदत्त उपनतः” मिता० ।

स्वयम् अव्य० सु + अय--अमु । आत्मनेत्यर्थे अमरः ।

स्वयम्भु पु० स्वयम् + भू--डु । ब्रह्मणि द्विरूप० ।

स्वयम्भुवा पु० स्वयम्भवति भू--मूलवि० क । धूम्रपत्त्रायाम् राजनि० ।

स्वयम्भू पु० स्वयं भवति भू--क्विप् । १ चतुर्मुखे ब्रह्मणि

अमरः ३ कुचे च । ४ काले शब्दर० ४ कामदेवे ५ विष्णौ
६ शिवे च । ७ माषपर्ण्यां षलिङ्गिन्याम् राजनि० ।
९ जिनभेदे हेमच० । १० परमेश्वरे “ततः स्वयम्भूर्भगवान्”
मनुः ।

स्वर आक्षेपे अद० चुरा० उभ० सक० सेट् । स्वरयति--ते असस्वरत्--त ।

स्वर् अव्य० स्वृ--विच् । १ स्वर्गे अमरः “यन्न दुःखेन संभिन्नं

न च ग्रस्तमनन्तरम् । अभिलाषोपनीतञ्च तत्सुखं स्वः-
पदास्पदम्” इत्युक्ते दुःखासंभिन्ने २ सुखसन्ताने ३
परलोके ४ आकाशे ५ शोभने च शब्दच० । दुःखासंभिन्नत्वं
च स्वावच्छेदकशरीरानवच्छिन्नत्वं तेन दुःखासमान-
कालीने सुखे नातिव्याप्तिः ।

स्वर पु० स्वर--अच् स्वृ--अप् वा । १ उदात्तानुदात्तस्वरितरूपे

वर्णोच्चारणयत्नभेदे तादृशस्वरवत्त्वाच्च २ व्यञ्जनभिन्नवर्णेषु
अकारादिषु शिक्षा । तन्त्रोक्ते २ प्राणादिवायोर्व्यापारभेदे
३ काक्वादिकृते वर्णाद्युच्चारणध्वनिविशेषे ४ निषादादिषु
तन्त्रीकण्ठोत्थेषु गानजध्वनिषु च अमरः ।
“उदात्तश्चानुदात्तश्च स्वरितश्च स्वरास्त्रयः” शिक्षा०
अकारादीनां स्वयंराजमानत्वात् स्वरवत्त्वाच्च स्वरपदाभिधेय-
ता, “अचः स्वयं विरोजन्ते हलस्तु परगामिनः”
इत्युक्ते । “यदात्तश्चादुदात्तश्च स्वरितश्च स्वरास्त्रयः । ह्रस्वो
दीर्घः प्लुतश्चेति कालतो नितमा अचि” शिक्षोक्तेश्च ।
निषादादिसवराणां प्राणिभेदस्वरतुल्यता नारदेनोक्ता यथा
“षड्जं रौति मयूरो हि दृषो नर्दति चर्षभम् । अजा
पृष्ठ ५३८२
विरौति गान्धारं क्रौञ्चो नर्दति मध्यमम् । पुष्पसाधारणे
काले कोकिलो रौति पञ्चमम् । अश्वश्च धैवतं रौति
निषादं रौति कुञ्जरः” इति । “अश्वस्तु धैवतं सोऽपि
मत्तः पञ्चमसंज्ञकम् । निषादन्तु गजो गर्जत्युन्मदोऽसौ
सपञ्चमम्” इति । भरतोऽप्याह “षड्जञ्च पञ्चमञ्चेति
मयूरो नदति द्विधा । अश्वाद्या धैवतादींश्च प्राहुर्मत्ताश्च
पञ्चमम्” इति । निषादादिशब्दनिरुक्तिश्च “निषीदन्ति
स्वरा अस्मिन्निषादस्तेन हेतुना । अशेषसन्धिविषयं
स हि व्याप्यावतिष्ठते” । “वायुः समुद्गतो नाभेः
कण्ठशीर्षसमुद्गतः । नदत्यृधभवद् यस्मात्तैनैप ऋषभः
स्मृतः” “वायुः समुद्गतो नाभेः कण्ठशीर्षंसमाहतः ।
नानागन्धवहः पुण्यो गान्धारस्तेन हेतुना । “नासां
कण्ठमुरस्तालुजिह्वां दन्तांश्च संश्रितः । षड्भ्यः सं
जायते यस्मात्तस्मात् षड्ज इति स्मृतः” ।
“तद्वदेवोत्थितो वायुरुरःकण्ठसमाहतः । नाभिप्राप्तो
महानादो मध्यभस्तेन स स्मृतः” । “अभिसन्धयते
यस्मात् स्वरांस्तेनेष धैवतः । स तु तावत् प्रधानत्वात्
ललाटे व्यवतिष्ठते । “वायुः समुद्गतो नाभेरुरोहृत्-
कण्ठमूर्द्धसु । विचरन् पञ्चमस्थानप्राप्त्या पञ्चम
उच्यते” । “स स्वरो यः श्रुतिस्थाने स्वरन् हृदयरञ्जकः ।
षड्ज ऋषभगान्धारा मध्यमः पञ्चमस्तथा । धैवतश्च
निषादश्च स्वराः सप्त प्रकीर्त्तिताः” भरतः ।
बालादिस्वराश्च चक्रशब्दे २८११ पृ० दृश्याः ।

स्वरघ्न पु० स्वरं हन्ति हन--क । गलरोगभेदे “अष्टादशगलरो-

गोपक्रमे “यस्ताम्यमानः श्वसिति प्रसक्तं भिन्नस्वरः शुष्क-
विमुक्तकण्ठः । कफोपदुष्टेष्वनिलायनेषु ज्ञेयः सरोगः
श्वसनात् स्वरघ्नः” । ताम्यमानः तमः पश्यन् शुष्को विमु-
क्तोऽस्वाधीनकण्ठो यस्यसः अस्वाधीनता भक्तं गिलितुम-
शक्यत्वात् अनिलायनेषु वातवर्त्मशु श्वसनाद्वातात्” भावप्र०

स्वरचक्र न० स्वरोदयोक्ते चक्रभेदे चक्रशब्दे २८ । ० पू० दृश्यम् ।

स्वरपत्तन न० स्वराणां निषादादीनां गानध्वनिविशेषाणां

पत्तनमाश्रयः । सामवेदे त्रिका० ।

स्वरभङ्ग पु० स्वरस्य कण्ठध्वनिभेदस्य भङ्गो यस्मात् ।

रोगभेदे स्वरभेदोऽप्यत्र तल्लक्षणादि सुश्रु० उक्तं यथा
“अथातः स्वरभेदप्रतिषेधमध्यायं व्याख्यास्यामः । अत्यु-
च्चभाषणविषाध्ययनाभिघातशीतादिभिः प्रकुपिताः
पवनादयस्तु । ते शब्दवाहिधमनीषु गताः प्रतिष्ठां हन्युः
स्वरं भवति चापि हि षड्विधः सः । वातेन कृष्णनय-
नाननमूत्रवर्च्चा भिन्नं शनैर्वदति गर्दभवत्स्वरञ्च । पित्तेन
पीतवदनाक्षिपुरीषमूत्री ब्रूयाद्गलेन च विदाहसमन्वि-
तेन । कृच्छ्रात्कफेन सततं कफरुद्धकण्ठो मन्दं शनैर्वदति
वापि दिवा विशेषात् । सर्वात्मके भवति सर्वविकारसम्पद-
व्यक्तता च वचसस्तमसाध्यमाहुः । धूप्येत वाक्क्षयकृते
क्षयमाप्नुयाच्च वागेष वापि हतवाक् परिवर्जनीयः ।
अन्तर्गतस्वरमलक्ष्यपद चिरेण मेदोऽन्वयाद्वदति दिग्धग-
लोष्ठतालुः । क्षीणस्य वृद्धस्य कृशस्य चापि चिरोत्थितो यश्च
सहोपजातः । मेदस्वितः सर्वसमुद्भवश्च स्वरामयी यो न
स सिद्धिमेति । स्निग्धात् स्वरातुरनरानपकृष्टदोषान्
संयोजयेद्वमनरेचनवस्तिभिश्च । नस्यावपीड़मुखधावन-
धूमलेहैः सम्पादयेच्च विविधैः कबलग्रहैश्च” ।

स्वरमण्डलिका स्वराणां मण्डलमस्त्यस्य ठन् । वीणायाम्

६ त० । २ स्वरसमूहे ।

स्वरलासिका स्त्री स्वरैः निषादादिभिः लस्यति नृत्यतीव

लस--ण्वुल् । १ वीणायां २ वंश्याञ्च शब्दर० ।

स्वरस पु० स्वेन स्वभावेन रसः आस्वाद्यः । १ शिलापिष्टकल्कभेदे

शब्दर० २ क्वाथभेदे च । “सद्यः क्षुण्णादार्द्रद्रव्याद्वस्त्र-
यन्त्रादिपीड़नात् । यो रसस्त्वभिनिर्याति स्वरसः सः
प्रकीर्त्तितः” वैद्यक० । स्वस्य रसः रागः । ३ स्वाभि-
प्राये ३ स्वतात्पर्य्ये ४ वाक्यादौ रचनाभङ्गीभेदे च ।

स्वरसन्धि पु० स्वरनिमित्तकः सन्धिः । व्याकरणोक्ते स्वर-

निमित्तके दीर्घादौ कार्य्ये ।

स्वरसामन् पु० गवामयनयज्ञीयषष्ठमासीयदिनभेदे गवामयनशब्दे २५६४ पृ० दृश्यम् ।

स्वरा स्त्री ब्रह्मणः प्रथमपत्न्यां पद्मपु० ।

स्वरापगा स्त्री स्वः स्वर्गस्यापगा । गङ्गायाम् हेमच० । स्वर्गा-

पगादयोऽप्यत्र ।

स्वरालु पु० स्वराय अलति पर्य्याप्नोति अल--उण् । वचायां

शब्दच० तत्सेवने हि स्वरस्वोत्तेजनात्तस्यास्तथात्यम् ।

स्वराज् पु० स्वेनैव राजते राज--क्विप् । ईश्वरे “अर्थेष्वभिज्ञः

स्वराड़िति” भागवतम् १ । १ । १ ।

स्वरित पु० स्वरो जातोऽस्य इतच् । १ जातस्वरे २ उदारत्ता-

नुदात्तसमाहाररूपे स्वरभेदे पा०
“उच्चेरुदात्तः” “नीचैरनुदात्तः” । “समाहारः स्वरितः”
पा० “उदात्तानुदात्तत्वे वर्णधर्मौ समाह्रियेते यस्मिन्
सोऽच् स्वरितसंज्ञः स्यात्” सि० कौ० । “तस्यादित उदात्तम-
र्द्धह्रस्वम्” पा० “ह्रस्वग्रहणमतन्त्रम् स्वरितस्यादितो-
ऽर्द्धमुदात्तम्बोध्यम् उत्तरार्द्धन्तु परिशेषादनुदात्तम् । तस्य
पृष्ठ ५३८३
चोदात्तस्वरितपरत्वे श्रवणम् स्पष्टम्” सि० कौ० । स्वरिताः
शब्दाश्च पाणिनिना फिट्सुत्रेण च अनुशिष्टा यथा ।
“तित् स्वरितम्” पा० तकारेत् प्रत्ययः स्वरितः स्यात् ।
“विल्वतिष्ययोः स्वरितो वा” फिट्सू० १ पादः ।
“अनयोरन्तः स्वरितो वा पक्षे उदात्तः” सि० कौ० ।
“उदात्तस्वरितयोर्य्यणः स्वरितोऽनुदात्तस्य” पा० “उदात्त-
स्थाने स्वरितस्थाने च यो यण् ततः परस्यानुदात्तस्य
स्वरितः स्यात् । अभ्यभि हि । स्वरितस्य यणः । स्वल-
प्व्याशा । अस्य स्वरितस्य त्रैपादिकत्वेनासिद्धत्वाच्छेषनि-
घातो न” सि० कौ० “स्वरिती वाऽनुदात्ते पदादौ” पा०
“अनुदात्ते पदादौ परे उदात्तेन सहैकादेशः स्वरितो वा
स्यात् । पक्षे पूर्वसूत्रेणोदात्तः । वीदं ज्योतिर्हृदये ।
अस्य श्लोको दिवीयते । व्यवस्थितविभषात्वादिकारयोः
स्वरितः दीर्घप्रवेशे तूदात्तः । किञ्च एङः पदान्ता-
दिति पूर्वरूपे स्वरित एव । तेऽवदन् । सोऽयमागात् ।
उक्तञ्च प्रातिशाख्ये “इकारयोश्च प्रश्लेषे क्षैप्राभिनि-
हतेषु चेति” सि० कौ० । “उदात्तादनुदात्तस्य स्वरितः”
पा० “उदात्तात् परस्यानुदात्तस्य स्वरितः स्यात् । अग्नि-
मीले” । अस्याप्यसिद्धत्वाच्छेषनिघातो न । “तमीशानासः”
सि० कौ० । “नोदात्तस्वरितपरोऽगार्ग्यकाश्यपगालवानाम्”
पा० उदात्तपरः स्वरितपरश्चानुदात्तः स्वरितो न स्यात् ।
गार्ग्यादिमते तु स्यादेव । प्रय आरुः । क्व वोऽश्वाः ३ ।
क्वा ३ भीशवः” सि० कौ० । “न्यङ्स्वरौ स्वरिती” फि०
“एतौ स्वरितौ । न्यङुत्तानः । व्यचक्षयत् सुः” सि० कौ ।
“न्यर्वुदव्यल्कयोरादिः” फि० । स्वरितः स्यात् । “तिल्य-
शिक्यकाश्मर्य्यधान्यकन्याराजन्यामनुष्याणामन्तः” फि० ।
स्वरितः स्यात् । “तिलानां भवनं क्षेत्रं तिल्यम् । यतो
ऽनाव इति प्राप्ते” सि० कौ० । “बिल्वभक्ष्यवीर्य्याणि छन्दसि”
फि० ४ र्थपादः । “अन्तस्वरितानि” सि० कौ० । “स्वरितेनाधि-
कारः” पा० “स्वरितत्वयुक्तशब्दस्वरूपमधिकृते, वीध्यम्” सि०
कौ “स्वरितेनेति इत्थं भावे तृतीया स्वरितत्वज्ञाप्योऽधिकार
इत्यर्थः । स्वरितत्वञ्च दोषविशेषजन्थमज्झल्माधारणाश्रयम्
अरिक्रियमाणपदघटकाजाश्रितं वा बोध्यम् । तच्चानु
नासिकत्ववत् प्रतिज्ञयैव निश्चीयते अधिकारश्च कियद्-
दूरमित्यत्रामति बाधके व्याख्यानमेव शरणम्” शब्देन्दु० ।
“स्वरितञित आत्मनेपदं कर्त्त्रभिप्राये क्रियाफले” पा०
स्वरितेतो ञितश्च धातोरात्मनेपदं स्वात् कर्त्रभिपाये
क्रियाफले” सि० कौ० । स्वर--क्त । ४ स्वरयुक्ते त्रि० ।

स्वरु पु० स्वृ--उ । १ वज्रे अमरः २ यूपखण्डे ३ वाणे ४ यज्ञे

मेदि० । ५ सूर्य्यकिरणे ६ वृश्चिकभेदे च उणा० ।

स्वरुचि त्रि० स्वस्यैव रुचिः प्रवर्त्तिका स्वकृत्ये यस्य । १

स्वतन्त्रे हेमच० ६ त० । २ स्वस्याभिलाषे स्त्री ।

स्वरूप न० स्वस्य रूपम् । १ स्वभावे अमरः । स्वमेव रूपम् ।

२ स्वात्मके पदार्थे । स्वं यथ स्वं रूपयति रूप--अण् ।
३ यथास्वरूपाभिज्ञे पण्डिते पु० अमरः । स्वेन स्वभावेनैव
रूपमस्य । ४ मनोज्ञे त्रि० अमरः ।

स्वरूपसंबन्ध पु० स्वरूपं सम्बन्धः स्वरूपयोर्वा सम्बन्धः ।

न्यायोक्ते स्वात्मके सम्बन्धे षट्पदार्थातिरिक्ते पदार्थभेदे
यथा प्रतियोगित्वम् विषयत्वमित्थादि ।

स्वरोदय पु० स्वरणामुदयो शुभादिज्ञापकतया यत्र । स्वरस्य

श्वासविशेषस्य शुभाशुभत्वज्ञानसाधने तन्त्रशास्त्रभेदे
चक्रशब्दे २८१० पृ० दृश्यम् ।

स्वर्ग पु० स्वरिति गीयते गै--क सु + ऋज--घञ् वा । १ दुःखा-

सम्भिन्ने सुखे २ देवानाभावासस्थाने च अमरः ।
स्वर्गकारणस्वरूपादिकं भा० व० २६० अ० उक्तं यथा
“उपरिष्टाच्च स्वर्लोको योऽयं स्वरिति संज्ञितः । ऊर्द्ध्वगः
सत्पथः शश्वद्देवयानचरो मुने! । नातप्नतपसः पुंसो
नामहायज्ञयाजिनः । नानृता नास्तिकाश्चैव तत्र गच्छन्ति
मुद्गल! । धर्मात्मानो जितात्मानः शान्ता दान्ता विमत्-
सराः । दानधर्मरताः लोका शूराश्चाहवलक्षणाः । तत्र
गच्छन्ति धर्माग्र्यं कृत्वा शमदमात्मकम् । लोकान्
पुण्यकृतान् ब्रह्मन्! सद्भिराचरितान्नृमिः । देवाः
साध्यास्तथा विश्वे तथैव च महर्पयः । यामा धामाश्च
मौद्गल्य! गन्धर्वाप्सरसस्तथां । एषां देवनिकायानां पृथक्
पृथगनेकशः । भास्वन्तः कामसम्पन्ना लोकास्तेजोमयाः
शुभाः । त्रयस्त्रिंशतसहस्राणि योजनानि हिरण्मयः ।
मेरुः पर्वतराड् यत्र दिव्योद्यानानि सौद्गज! । नन्दाना-
दोनि पुण्यानि विहाराः पुण्यकर्मणाम् । न क्षुत्पिपामे
न ग्लानिर्न शीतोष्णे भयं तथा । बीभत्समशुभं
वाऽपि तत्र किञ्चिन्न विद्यते । मनोज्ञाः सर्वतो गन्धाः
मुखस्पर्शाश्च सर्वशः । शब्दाः श्रुतिमनोग्राह्याः सर्वतस्तत्र
वै मुने! । न शोको न जरा तत्र नायासपरिदेवने ।
ईदृशः स मुने! लीकः स्वकर्मफलहेतुकः । सुकृतैस्तत्र
पुरुषाः सम्भवन्त्यात्मकर्मभिः । तैजसानि शरीराणि
भवन्त्यत्रोपपद्यताम् । कर्मज न्येव मौद्गल्यो! । न मातृ-
पितृजान्युत । न संस्वेदो न दौगन्ध्यं पुरीषं मूत्रमेव
पृष्ठ ५३८४
च । तेषां न च रजो वस्त्रं बाधते तत्र वै मुने! । न
म्लावत्वि स्रजस्तेषां दव्यगन्धा सनोरमाः । संयुज्यन्ते
विमानैश्च ब्रह्मन्नेवंविधैश्च ते । ईर्षाशोकक्लमापेता
मोहमात्शर्य्यवजिताः । सुखं स्वर्गजितस्तत्र वर्त्तयन्ते
महामुने! । तेषां तथाविधानान्तु लोकानां मुनिपुङ्गव! ।
उपर्य्यपरि लोकस्य लोका दिव्या गुणान्विताः । पुरस्ताद्
ब्रह्मणास्तत्र लोकास्तेजीमयाः शुभाः । यत्र यान्त्यृ-
षथो ब्रह्मन्! पूताः स्वैः कर्मभिः शुभैः । ऋभवो नाम
तत्र न्ये देवानासपि देवताः । तेषां लोकाः परतरे यान्
यजन्तीह देवताः । स्वयस्प्रभास्ते भाम्वन्तो लोकाः काभ
दुचाः परे । न तेषां स्त्रीकृतस्तापी न लोकैश्वर्य्यमत्-
सरः । च वर्त्तयन्त्याहुतिभिस्तेनाप्यभृतभोजनाः ।
तथा दिव्यशरीरास्ते न च विग्रहमूर्त्तयः । न सुखे
सुखकामास्ते देवदेवाः सनातनाः । न कल्पपरिवर्त्तेषु
परिवर्त्तन्ति ते तथा । जरा मृत्युः कुतस्तेषां हर्षः
पीतिसुखं न च । न दुःखं न सुखञ्चापि रागद्वेषौ
कुतो मुने! । देवानामपि मौद्गल्य! काङ्क्षिता सा
गतिः परा । दुष्प्रापा परमा सिद्धिरगम्या कामगोचरैः ।
त्रयस्त्रि शदिमे देवा येषां लोका मनीषिभिः ।
गम्यन्ते नियसैः श्रेष्ठैर्दानैर्वा विधिपूर्वकैः । सेयं
दानकृता व्युष्टिरनुप्राप्त्वा सुखं त्वया । तां भुङ्क्ष्व सुकृतै-
लब्धां तपस्याद्योतितप्रभः । एतत् स्वर्गसुखं विप्र! लोका
नानाविधास्तथा । गुणाः स्वर्गस्य प्रोक्तास्ते दीषानपि
निबोध मे । कृतस्य कर्मणस्तत्र भुज्यते यत् फलं दिवि ।
न चान्यत् क्रियते कर्म मूलच्छेदेन भुज्यते । सोऽत्र
दोषो मम मतस्तस्यान्ते षतनञ्च यत् । सुखव्याप्तमत्
स्कानां पतनं यच्च मुद्गल! । असन्तोषः परीतापो
दृष्ट्वा दोप्ततराः श्रियः । यद्भवत्यवरे स्थाने स्थितानां तत्
सुदुष्करम् । संज्ञा मोहश्च पततां रजसा च प्रधर्षणम् ।
प्रम्लानेषु च माल्येषु ततः पिपतिषोर्भयम् । आब्रह्मभव-
नादेते दोषा मौद्गल्य! दारुणाः । ताकलोके सुकृतिनां
गुणास्त्वयुतशो नृणाम् । अय त्वन्यो गुणः श्रेष्ठश्च्युतानां
स्वर्गतो मुने! । शुभानुशययोगेन मनुष्येषूपजायते ।
तत्रापि स महाभागः सुखभागभिजायते । न चेत्
सम्बुध्यते तत्र गच्छत्यधमतां ततः । इह यत् क्रियते
कर्म तन् परत्रोपभुज्यते । कर्मभूमिरिवं व्रह्मत्! फल
भूमिरमो मतः” । स च लोकी भूरादिषु ऊर्द्ध्वस्थस्तृतीयः ।

स्वर्गङ्गा स्त्री ६ त० । मन्दाकिन्यां शब्दर० ।

स्वर्गनाथ पु० ६ त० । इन्द्रे स्वर्गपत्यादयोऽप्यत्र हेमच० ।

स्वर्गबधू स्त्री ६ त० । अप्सरःसु हेमच० ।

स्वर्गाचल पु० स्वर्गलोकस्थोऽचलः । सुमेरुपर्वते स्वर्गगिर्य्या

दयोऽप्यत्र हेमच० ।

स्वर्गिन् पु० स्वर्गोऽस्त्यस्य भोग्यत्वेन इनि । १ देवे त्रि० २

देवलोकगामिनि च त्रि० स्वर्गगामित्वसूचकगुणभेदा गुरुड़-
पु० उक्ता यथा “समाभूतषु सवादः परलोकं प्रति क्रिया ।
सतां परहिताः योक्तिर्वेदप्रामाण्यदर्शनम् । गुरुदेवर्षि-
पूजा च केवलं साधुसङ्गमः । सत्क्रियाभ्यसनं मैत्री
स्वर्गिणां लक्षणं विदुः” ।

स्वर्गौकस् पु० स्वर्ग ओको यस्य । देवे हला० ।

स्वर्जिक पु० सु + अर्ज--घञ् ततः अस्त्यर्थे ठन् । सर्जिकाक्षारे

राजनि० २ यवक्षारे स्त्री भावप्र० ।
“कथितः स्वर्जिकाभेदः विशेषज्ञैः सुवर्चिका । यवक्षारो
लघुः स्निग्धः सुसूक्ष्मो वह्निदोपनः । निहन्ति शूलं
वातामश्लेष्मश्वासगलामयान् । स्वर्जिकाल्पगुणा तस्मात्
विशेषात् गुल्मशूलहृन्” भावप्र० । कर्म० स्वर्जिकाक्षारोऽपि
तत्रार्थे राजनि० णिनि स्वर्जिन् तत्रार्थे राजनि० ।

स्वर्ण न० मुष्ठु आर्णो वर्णो यस्य । १ काञ्चने २ धुस्तूरे अमरः

३ नागकेशरे ४ गौरवर्णशाके च राजनि० । सुवर्णशब्दे
दृश्यम् ।

स्वर्णकण न० स्वर्णमिव पीतत्वात् कणोऽस्य । १ कणगुग्गुलौ राजनि० । ६ त० २ सुवर्णस्य लेशे पु० ।

स्वर्णकदली स्त्री स्वर्णमिव कदली (चाँपाकत्वा)कदलीभेदे ।

स्वर्ण्णकाय पु० स्वर्णमिव पीतत्वात् कायोऽस्य । १ गरुड़े

हेमच० । २ स्वर्णवर्णदेहयुते त्रि० ।

स्वर्णकार पु० स्वर्ण्ण स्वर्णमयमलूङ्कारादि करोति कृ० अण् ।

(मेकरा) जातिभेदे । “विश्वकर्मा तु शूद्रायां वीर्य्याधानं
चकार सः । ततो बभूवुः पुत्राश्च नवैते शिल्पकारिणः ।
मालाकारः कर्मकारः शङ्खकारः कुविन्दकः । कुम्भ-
कारः कंसकारः षडेते शिल्पिनां वराः । सूत्रधार-
श्चित्रकरः स्वर्णकारस्तथैव च । पतितास्ते ब्रह्मशापा-
दयाज्या वर्णसङ्कराः । स्वर्णकारः स्वर्णचौर्य्यात्
ब्रह्मणानां द्विजोत्तम! बभूव सद्यः पतितो ब्रह्मशापेन
कर्मणा” ब्रह्मवै० व्र० ख० १० अ० । “तैलचौरस्तैलकीटो
मूर्ध्निकीटस्त्रिजन्मकम् । ततो भवेत् स्वर्णकारो जन्मैकं
दुष्टमानसः” ब्रह्मवै० जन्मख० ८५ अ० । तज्जातिलाभकर्म ।

स्वर्णकृत् पु० स्वर्ण्णं तन्मयभूषादिकं करोति कृ--क्विप् ।

स्वर्णकारे शब्दमा० ।
पृष्ठ ५३८५

स्वर्णकेतकी स्त्री स्वर्णमिव पीतत्वात् केतकी । पीतकेतक्याम्

राजनि० । तत्पुष्पादिगुणाः “केतकीकुसुमं वर्ण्यं
केशदौर्गन्ध्यनाशनम् । हेमाभं मदनोन्मादब हुल्यसौख्य
कारि च । तस्याः स्तनोऽतिशिशिरः कटुः पित्तकफा-
पहः । रसायनकरो वर्ण्यो देहदार्ढ्यकरः परा”
राजनि० ।

स्वर्णक्षीरी स्त्री स्वर्णमिव पीतत्वात् क्षीरं निर्य्यासो यस्याः

गौरा० ङीष् । ओषधिभेदे सा च हिमालये जायते ।
“हेमवर्णो रसस्तस्या हिमबद्भूमिसम्भवा । सा
नागजिह्विकाकारा तन्मूलं वाणिजौषधम् । स्वर्ण्णक्षीरी
हिमा तिक्ता कृमिपित्तकफापहा । मूत्रकृच्छाश्मरी
शाथदाहस्वरहरा परा” राजनि० ।

स्वर्णगैरिक न० स्वर्णमिव पीतं गैरिकम् । (वर्णकमाटि)

पदार्थभेदे राजनि० ।

स्वर्णग्रीवा स्त्री नदीभेदे । “या निःसृता पूर्वभागात् तस्मात्

गिरिवरात् (नाटकशैलात्) नदी । स्वर्णग्रीवेति विख्याता
सा गङ्गासदृशीफले” कालिकापु० ८२ अ० ।

स्वर्णचूड़ पुंस्त्री० स्वर्ण्णमिव पीतत्वात् चूड़ा यस्य ।

चाषपक्षिणि जटा० स्त्रियां ङीष् ।

स्वर्णज न० स्वर्णात् जायते जन--ड । १ वङ्गे हेमच० २ स्वर्णजातमात्रे त्रि० ।

स्वर्णजीवन्ती स्त्री० स्वर्णमिव पीतत्वात् जीवन्ती ।

पीतपुष्पजीवन्त्याम् राजनि० ।

स्वर्णदी स्त्री स्वर्णं द्यति अपसारयति तुल्यवर्णत्वात् दो--क

गौरा० ङीष् । १ वृश्चिकाल्याम् राजनि० । ६ त० णत्वम् ।
२ गङ्गायाम् अमरः ।

स्वर्णदीधिति पु० स्वर्णमिव भास्वरा दीधितिरस्य । १ अग्नौ, २ चित्रकवृक्षे च त्रिका० ।

स्वर्णद्रु पु० स्वर्णमिव पुष्पे पीतो द्रुः । आरग्बधे राजनि० ।

स्वर्णपक्ष पु० स्वर्णमिव पीतः पक्षोऽस्य । गरुड़े त्रिका० ।

स्वर्णपाटक पु० स्वर्णं पाटयति पट--णिच्--ण्वुल् । दङ्कणे

(सोहागा) शब्दर० ।

स्वर्णपुष्प पु० स्वर्णमिव पीतं पुष्पमस्य । १ चम्पके २ आरग्बधे

पुंस्त्री० राजनि० स्त्रीत्वे ङीप । सा च ३ स्वर्णकेत-
क्याञ्च राजनि० । ४ सातलायार ५ कलिकारौ स्त्री
राजनि० टाप् ।

स्वर्णफला स्त्री स्वर्णमिव पीतं फलमस्याः । (चांपाकला) सुवर्णकदल्याम् राजनि० ।

स्वर्णबणिज् पु० ६ त० । सुवर्णबणिजि जातिभेदे ।

स्वर्णभृङ्गार पु० स्वर्णमिव स्वर्णमयो वा भृङ्गारः । १

पीतभृङ्गराजे राजनि० । २ स्वर्णमयकलसभेदे च ।

स्वर्णमाक्षिक न० स्वर्णमिव पीतं माक्षिकम् । स्वनामख्याते

उपधातुभेदे “किञ्चित् सुवर्णसाहित्यात् स्वर्ण्णमाक्षिक-
मीरितम् । उपधातुः सुवर्णस्य किञ्चित्स्वर्णगुणान्वितम् ।
तथा च काञ्चनाभावे दीयते स्वर्णमाक्षिकम् । किन्तु
तस्यानुकल्पत्वात् किञ्चिद्धीनगुणास्ततः । न केवलं स्वर्ण-
गुणा वर्त्तन्ते स्वर्णमाक्षिके । द्रव्यान्तरस्य संसर्गात् सन्त्य-
न्येऽपि गुणास्ततः । सुवर्णमाक्षिकं स्वादु तिक्तं वृष्यं
रसायनम् । चक्षुष्यं वस्तिरुक्कण्ठपाण्डुमेहविषोदरम् ।
अर्शःशोथं विषं कण्डुं त्रिदोषमपि नाशयेत्” । अशुद्ध-
स्वर्णमाक्षिकस्य दोषमाह “मन्दानलत्वं बलहानिमुग्रां
विष्टम्भितां नेत्रगदान् सकुष्ठान् । मालां तथैब ब्रण-
पूर्विकाञ्च कुर्य्यादशुद्धं खलु माक्षिकञ्च” । तद्दोषशान्त्यर्थं
शोधनमाह “माक्षिकस्य त्रयो भागा भागैकं सैन्धवस्य च ।
मातुलुङ्गद्रवैर्वाथ जम्बीरस्य द्रवैः पचेत् । चालयेल्लोहजे
पात्रे यावत् पात्रं सुलोहितम् । भवेत्ततस्तु संशुद्धं
स्वर्णमाक्षिकमीरितम्” । तन्मारणं यथा “कुलत्थस्य
कषायेण घृष्ट्वा तैलेन वा पुटेत् । तैलेनैवाजमूत्रेण म्रियते
स्वर्णमाक्षिकम्” भावप्र० ।

स्वर्णयूथी स्त्री स्वर्णमिव पीता यूथी । पीतयूथिकायाम् शब्दच० ।

स्वर्णलता स्त्री स्वर्णमिव पीता लता । ज्योतिष्मत्यां राजनि०

स्वर्णवर्णा स्त्री स्वर्णमिव वर्णोरूपमस्याः । १ हरिद्रायाम्

राजनि० । २ सुवर्णवर्णे त्रि० ३ हेममूल्यज्ञापके वर्णे च ।

स्वर्णवल्कल पु० स्वर्णमिव पीतं बल्कलमस्य । स्योनाकवृक्षे

शब्दच० ।

स्वर्णवल्ली स्त्री स्वर्ण्णमिव पीता वल्ली । लताभेदे

“स्वर्णवल्ली रक्तफला काकायुः काकवल्ल्यपि । शिरा-
पीड़ा त्रिदोषघ्नी दुग्धदात्री तु सा मता” राजनि० ।

स्वर्णशेफालिका स्त्री स्वर्णमिव पीता शेफालिका । १

पीतशेफालिकायाम् । २ आरग्बधे राजनि० ।

स्वर्णाङ्ग गु० स्वर्णमिवाङ्गं पुष्पं यस्य । १ आरग्बधे राजनि०

२ पीतवर्णदेहयुते त्रि० स्त्रियां ङीष् ।

स्वर्णारि पु० ६ त० । गन्धके तस्य स्वर्णमारकत्वात्तथात्वम् ।

स्वर्णुली स्त्री स्वर्ण्णं तद्वर्णं लीयते पुष्पेऽत्र ली--आधारे

क्विप् पृषो० । स्वर्णुली हेमपुष्पी च स्वर्णपुष्पाध्वजा तथा ।
सा कषाया कटुः शीता व्रणहा परिकीर्त्तिता” राजनि०
उक्ते लताभेदे ।

स्वर्त्त गतौ सक० दुखेन जीवने अक० चु० उ० सेट् । स्वर्त्तयति ते असस्वर्त्तत् त ।

स्वर्द्द प्रीतौ अक० प्रीणने लेहने च सक० भ्वा० आत्म० सेट् ।

स्वर्दृते अस्वर्द्दिष्ट ।
पृष्ठ ५३८६

स्वर्भानव पु० निस्वर्भानो राहोः प्रियः अण् नि० नादिवृद्धिः । गोमेदमणौ राजनि० ।

स्वर्भानु पु० स्वः स्वर्गे भानुर्दीप्तिरस्य । रहौ अमरः । तस्य

भूमिच्छायारूपतया भूमिस्थैर्भानुमत्त्वेनादर्शनात् दिवि
दीप्तिमत्त्वात्तथात्वम् ।

स्वर्लोक पु० स्वरेव लोकः भुवनम् । १ स्वर्गे ६ त० । २ स्वर्गस्थे लोके शब्दच० ।

स्वर्वापी स्त्री स्व० स्वर्गस्य वापीव । १ गङ्गायाम् हेमच० ।

स्वर्वेश्या स्त्री स्वः स्वर्गस्य वेश्या । मेनकाद्यप्सरस्मु अमरः ।

स्वर्वैद्य पु० द्वि० च० । स्वः स्वर्गस्य वैद्यौ । अश्विनीकुमारयोः

अमरः । आयुर्वेदशब्दे ७७९ पृ० दृश्यम् ।

स्वलीन पु० दानवेभेदे वह्निपु० ।

स्वल्प त्रि० सुष्ठु अल्पम् प्रा० स० । अत्यल्पे क्षुद्रे ।

स्वल्पकेशरिन् पु० स्वल्पः केशरो नित्यमस्त्यस्य इनि । कोवि

दारवृक्षे राजनि० ।

स्वल्पकेशिन् त्रि० स्वल्पः केशो नित्यमस्त्यस्य! १ अत्यल्पकेश-

युते स्त्रियां ङीप् । २ पिशाचभेदे पु० शब्दच० ।

स्वल्पपत्त्रक पु० स्वल्पं पत्त्रमस्य कप् । गौरशाके मधूकभेदे रत्नमा० ।

स्वल्पफला स्त्री स्वल्पं फलं यस्याः । हपुसाभेदे राजनि० ।

स्ववासिनी स्त्री स्वस्मिन् पित्रालये वसति वस--णिनि ङीप् ।

चिरं पितृगृहादिवासिन्यामूढ़ायामनूढायां वा स्त्रि
याम् । सुवासिनीत्यस्य स्वाने अमरे पाठान्तरम् ।

स्ववीज पु० स्वमेव वीजं यस्य । १ आत्मनि शब्दर० । २ पुत्रे

३ कन्यायां स्त्री ६ त० । ४ निजकारणे न० ५ स्थस्य वीर्य्ये
च न० ।

स्वसृ स्त्री सु + अस--ऋन् । भगिन्याम् अमरः ।

स्वस्क गतौ व्या० आ० सक० सेट् । स्वस्कते असस्किष्ट ।

स्वस्ति अव्य० सु--अस--क्तिच्, अस्तीति विभक्तिप्रतिरूपकम्

अव्ययं प्रादि० वा । १ क्षेमे २ आशिषे ३ पुण्यादौ अमरः
४ स्वीकारसूचने च । एतद्योगे क्षेमादिलम्बन्धिनि
चतुर्थी ।

स्वस्तिक पुनि० । स्वस्ति शुभाय हितम् ठत् । “स्रस्तिकं

प्राङमुखं यत् स्यादलिन्द्यानुगतं भवेत् । तत्पार्श्वौनु-
गतौ चान्यौ तत्पर्य्यन्तगतोऽपरः” इत्युक्तलक्षणे गृहभेदे
साञ्जः । २ सितावरशाके पु० राजनि० ३ आसनभेदे
तल्लक्षणम् आसनशब्दे ८८६ पृ० दृश्यम् । ४ तण्डुल
चूर्णनिर्मिते त्रिकोणाकारे द्रव्यभेदे च “घृतं स्वस्तिक-
सिन्दूरम्” इत्यधिवासनद्रव्यज्ञापकवाक्यम् ५ चतुष्पथे पु०
मेदि० । ६ जिनध्वजभेदे हेमच० । ७ रततालिके विश्वः

स्वस्तिमुख पु० स्वस्ति मुखे वक्त्रे आदौ वा यस्य । १ लेख्ये

पत्रादौ २ विप्रे पु० ३ स्वस्तिवादिनि त्रि० मेदि० ।

स्वस्तिवाचन न० स्वस्ति शुभस्य विप्रद्वारा वाचनम् । कर्मा-

रम्भे विघ्नोपशान्तये ब्राह्मणाद्वारा कर्त्तव्यकर्मणां शुभता-
वाचने । “संपूज्य गन्धपुष्पाद्यैर्ब्राह्मणान् स्वस्ति वाचयेत् ।
धर्म्ये कर्मणि माङ्गल्ये संग्र मेऽद्भुतदर्शने” व्यासः ।

स्वस्तिवाचनिक त्रि० स्वस्तिवाचनाय हितं तत आगतम्

तत्र भवं वा ठन् । १ स्वस्तिवाश्चनसाधने २ तदुक्तिलब्धे
३ तत्सम्बन्धिनिञ्च ।

स्वस्त्ययन न० स्वस्ति शुभस्यायनं लाभो यस्मात् । शुभार्थं

क्रियमाणे येदादिविहिते ग्रहयानादौ ।

स्वस्थ त्रि० स्वः परलोके तिष्ठति स्वेन स्वभावेन सुखेन, वा

वा तिष्ठति स्था--क वा विसर्गलोपः । स्वभावस्थे २ स्वर्ग-
स्थिते ३ विनायासेन सुखेनावस्थिते च । “स्वस्था भवन्तु
मयि जीवति धार्त्तराष्ट्राः” वेणीसं० ।

स्वस्रीय पु० स्वसुरपत्यम् छ । १ भागिनेये अमरणः २ भागि-

नेय्यां स्त्री टाप् ।

स्वागत न० सुखेन आगतम् सु + आ + गम्--भावे क्त । १ सुखे०

नागमने “स्वागतं स्वानधीकारान्” कुमारः तदस्यास्ति
अच् । २ कुशले ३ कुशलप्रश्ने हारा० ।
स्वापतञ्च षोड़शोपचारमध्यो द्वितीयोपचारः आसनं
स्व गतं पाद्यभित्यादि । उपचारशब्दे दृश्यम् ।

स्वाङ्किक पु० साङ्कमर्हति ठक् । १ मृदङ्गे २ तद्धादके शब्दर० ।

स्वाच्छन्द्य न० स्वच्छन्दस्य भावः ष्यञ् । १ स्वाधीनत्वे

२ स्वास्थ्ये च ।

स्वातन्त्र्य न० स्वतन्त्रस्य भावः ष्यञ् । १ स्वाधीनत्वे २

परानधानत्वे । व्या० उक्ते इतरव्यापारानधीनव्यापारवत्त्व-
रूपे कर्तृत्वे कर्तृशब्दे १७१६ पृ० दृश्यम् ।

स्वाति(ती) पुंस्त्री० स्वेनैव अतति अत--इन् स्त्रीत्वपक्षे वा

ङीप् । १ अश्विन्यादिषु पञ्चदशे नक्षत्रे अमरः “हस्ता-
स्वातिः श्रवणा अक्लीवे” ति० त० उक्तेरुभयलिङ्गताऽस्य ।
२ सूर्व्यपत्नीभेदे स्त्री त्रिका० ३ स्वगे धरणिः ।
स्वातिनक्षत्राधिष्ठात्यदेवयोगतारास्वरूपादिकम् अश्लेषा-
शब्दे ४९७ पृ० दृश्यम् ।

स्वातियोग पु० आशाडशुभ्रपक्षे कस्यां तित् तिथौ माघकृष्ण-

पक्षसप्तभ्या तिथौ च स्वातिनक्षत्रस्थचन्द्रस्य शुभफलादि-
ज्ञापके योमभेदे यथोक्तं वृ० सं० २५ अ०
“यद्रोहिणीयामभफलं तदेव स्वातावषाढ़ासहिते च चन्द्रे ।
पृष्ठ ५३८७
च चन्द्रे । आषाढ़शुक्ले निखिलं विचिन्त्यं योऽस्मिन् विशे-
षन्तमहं प्रवक्ष्ये । स्वातौ निशांशे प्रथमेऽभिवृष्टे शस्यानि
सर्वाण्युपयान्ति वृद्धिम् । भागे द्वितीये तिलमुद्गमाषा ग्रैष्मं
तृतीयेऽस्ति न शरदानि । वृष्टेऽह्नि भागे प्रथमे सुवृष्टि-
स्तद्वद्वितीये तु सकीटसर्पा । वृष्टिस्तु मध्यापरभागवृष्टे
निश्छिद्रवृष्टिर्द्युनिशं प्रवृष्टे । सममुत्तरेण तारा चि
त्रायाः कीर्त्यते ह्यपांवत्सः । तस्यासन्ने चन्द्रे स्वाते-
योगः शिवो भवति । सप्तम्यां स्वातियोगे यदि पतति
हिमं माघमासान्धकारे वायुर्वा चण्डवेगः सजलजल-
धरो वापि गर्जत्यजसम् । विद्युन्मालाकुलं वा यदि
भवति नभो नष्टचन्द्रार्कतारं विज्ञेया प्रावृडेषा मुदित-
जनपदा सर्वशस्यैरुपेता । तथैव फाल्गुने चैत्रे वैशा-
खस्यासितेऽपि वा । स्वातियोगं विजानीयादाषाढ़े च
विशेषतः” ।

स्वाद पीतौ अक० प्रीणने लेहने च सक० भ्वा० आ० सेट् । स्वादते आस्वादिष्ट ।

स्वाद पु० स्वद--स्वाद--वा घञ् । १ रसानुभवे २ प्रीतौ ३ प्रीणने

४ लेहने च । ल्युट् । स्वादनमप्यत्र न० । रसानुभवप्रकारः
सा० द० उक्तो यथा
“न जायते तद स्वादो विना रत्थादिवासनाम्”
वासना चेदानीन्तनी प्राक्तनी च रसास्वादहेतुः । तत्रा ।
यदि आद्या न ल्याच्छोत्रियजरन्मीमांसकादीनामपि
सा स्यात् । यदि द्वितीया न स्याद् यद्रागिणामपि
केषाञ्चिद्रसोद्बीधो न दृश्यते तन्न स्मात् । उक्तञ्च धर्म-
दत्तेन “सवासनानां सभ्यानां रसस्यास्वादनं भवेत् ।
निर्वासतास्वु रङ्गान्तःकाष्ठकड्याश्मसन्निभाः” ।

स्वादिष्ठ त्रि० अतिशथेन स्वादुः । इष्ठन् डित् । अतिमधुरे

ईःसुन् । स्वादीयस् तत्रार्थे त्रि० स्त्रियां ङीप् ।

स्वादु पु० स्वद--उण् । १ मधुररसे हेमच० २ गुड़े त्रिका०

३ जोवकौषधौ जटा० । ४ रष्टे ५ मधुरे ६ मनोज्ञे च त्रि-
मेदि० स्त्रियां वा ङीप् । सा च ७ द्राक्षायां अमरः
८ अगुरुसारे गन्धद्रव्ये पु० राजनि० ।

स्वादुकण्टक पु० स्वादुः कण्टकोऽस्य । विकङ्कतवृक्षे राजनि०

स्वादुकन्दा स्त्री स्वादुः कन्दोऽस्याः । विदार्य्याम् राजनि० ।

स्वादुका स्त्री स्वादुना सधुररसेन कायति कै--क ।

नागदन्त्याम् राजनि० ।

स्वादुखण्ड प० स्वादुः मिष्टः खण्डोऽस्य । गुड़े शब्दर० कर्म० । २ मधुरे भागे ।

स्वादुगन्धा स्त्री स्वादुरिष्टगोन्धोऽस्याः । १ रक्तशोभाञ्जने

रत्नमा० । २ भूमिकुष्माण्ड्याञ्च जटा० ।

स्वादुपर्णी स्त्री स्वादूनि पर्णान्यस्याः ङीप् । दुग्धिकायाम्

राजनि० ।

स्वादुपाका स्त्री स्वादुः पाकोऽस्याः । काकमाच्याम् राजनि०

स्वादुपिण्डा स्त्री स्वादुः पिण्डः पिण्डाकारफलमस्याः ।

पिण्डस्वर्जूर्य्याम् राजनि० ।

स्वादुफला स्त्री स्व दु फलमस्याः । १ वदरीफले शब्दर० कर्म० ।

२ मिष्टे फले न० । ३ कोलौ स्त्री शब्दर० टाप् ।

स्वादुमज्जन् पु० स्वादुः मज्जा यस्य । पर्वतजे पीलौ जटा०

स्वादुमांसी स्त्री स्वादु मांसमिव फलमस्याः गौरा० ङीष् ।

कालोल्याम् राजनि० ।

स्वादुमूल न० स्वादु मूलमस्य । गर्जरे (गाँजर) राजनि० ।

स्वादुरसा स्त्री स्वादुः रसो यस्याः । १ काकोल्याम् अमरः

२ मदिरायाम् हेमच० । ३ शतावर्य्यां ४ द्राक्षायाम् ५ आम्रा-
तके च शब्दर० ।

स्वादुलता स्त्री स्वाद्वी लता । विदार्य्याम् राजनि० ।

स्वादुपुष्प पु० स्वादु पुष्पं यस्य । कटभ्यां राजनि० ।

स्वादूदक पु० स्वादु उदकं यस्य । समुद्रभेदे सि० शि० ।

स्वाद्वम्ल पु० स्वादुः अम्लः । दाड़िमे त्रिका०

स्वाधिष्ठान न० लिङ्गमूलस्थे सुषुम्णान्तर्गते षड्दलपद्मभेदे ।

“षड्दले वैद्युतनिभे स्वाधिष्ठानेऽनचन्धिषि । बभमैर्यरलै-
र्युक्ते वर्णैः षङ्मिश्च सुव्रत!” तन्त्रसा० । “सिन्दूरपूर-
रुचिरारुणपद्ममन्यत्सौषुम्णमध्यघटितं ध्वजमूलदेशे ।
अङ्गच्छदैः परिवृतं तड़िताभवर्णैर्बाद्यैः सविन्दुलसितैश्च
पुरन्दरान्तैः (लान्तैः) । तस्यान्तरे प्रविलसद्विशदप्रकाशम-
म्भोजमण्डलमथो वरुणस्य तस्य । अर्द्धेन्दुरूपलसितं
शरदिन्दुशुभ्रं वङ्कारवीजमलं मकराधिरूढ़म् । तस्याङ्कदेशे
लसितो हरिरेव पायान्नीलप्रकाशरुचिरश्रियमादधानः ।
पीताम्बरः प्रथमयौवनगर्भधारी श्रीवत्सकौस्तुभधरो
धृतवेदवाहुः । तत्रैव भाति सततं खलु राकिणी सा
नीलाम्बुजद्युतिसहोदरकान्तिशोभा । नानायुधोद्यतकरै-
र्ललिताङ्गलक्ष्मीर्दिव्याम्बराभरणभूषितमत्तचित्ता । स्वाषि-
ष्ठानाख्यमेतत् सरसिजममलं चिन्तयेद्यो मुनोन्द्रस्तम्या-
हङ्कारदोषादिकसकलरिपुः क्षीयते तत्क्षणेन” पूर्णानन्द-
षट्चक्रम् ।

स्वाधीन त्रि० स्वस्याधीनः । स्वायत्ते स्वतन्त्रे ।

पृष्ठ ५३८८

स्वाधीनपतिका स्त्री स्वाधीनः पतिर्यस्याः कप् । नायि-

काभेदे स्वाधीनभर्तृकादयोऽप्यत्र ।
“कान्तो रातगुणाकृष्टो न जहाति यदन्तिकम् । वि-
चित्रबिभ्रमा मत्ता सा स्यात् स्वाधीनभर्तृका” सा० द० ।
सा च पञ्च वधा “मुग्धा मध्या प्रौढ़ा स्वकीया सामान्या
चेति” रसमञ्जरी ।

स्वाध्याय पु० स्वः स्वकीयत्वेन विहित अध्यायः द्विजानाम्,

अधि + इङ--कर्मणि घञ् । १ द्विजैः पाठ्येवेदभागभेदे
“स्वाध्यायोऽध्येतव्यः” इति श्रुतिः । सु + आ + अधि
इङ भावे घञ् । २ अवश्यपाठ्यवेदाध्ययने “स्वाध्यायो
जप इत्युक्तो येदाध्ययनकर्मणीतिं” स्मृतिः ।

स्वान्त न० स्वन--क्त । १ मनसि अमरः २ गह्वरे मेदि० । ३ श

ब्दिते त्रि० ।

स्वाप पु० स्वप--घञ् । निद्रायाम् अमरः । २ शयने ३ अज्ञाने ४ स्पर्शाज्ञतायां च मेदि० ।

स्वापतेय न० स्वपतेरागतः ढञ् । धने अमरः ।

स्वाभाविक त्रि० स्वभावादागतः ठञ् । स्वभावसिद्धे स्त्रियां

ङीप् (स्वाभाविको स्वच्छतेत्युद्भटः) ।

स्वामिन् पु० सव + अस्त्यर्थे मिनि दीर्घः । १ भर्त्तरि पत्यौ

धरणिः । २ कार्त्तिकेये मेदि० । ३ राजनि अमरः । ४ विभौ
५ हरे ६ हरौ च शब्दर० । ७ वात्स्यायनमुनौ त्रिका० ।
८ अधिपतौ त्रि० अमरः । ९ जैनभेदे पु० हैमच० । १० परिव्रा
जकोपाधिभेदे पु० । तस्य भावः त्व स्वामित्व स्वत्वनिरूपिते
क्रयाद्यधीने आत्मवृत्तौ पदार्थभेदे स्वत्वशब्दे दृश्यम् ।

स्वामिपालविवाद पु० स्वामी च पालौ च तयार्विवादः

विवादभेदे तत्स्वरूपादिकं वीरमि० उक्तं यथा
“अथ स्वामिपालविवादाख्यव्यवहारपदम् । तत्र मनु
स्तदभिधानप्रतिज्ञां करोति । “पशुषु स्वामिनां चैव
पालानाञ्च व्यतिक्रमे । विवादं संपवक्ष्यामि यथावद्धर्म
तत्त्वतः” इति । स्यामिपालयोः प्रतिदिनकृत्यमाह
नारदः “उपानयेद्गा गोपाय प्रत्यहं रजनीक्षये । चीर्णाः
पीताश्च ता गोपः सायाह्ने प्रत्युपानयेद्” इति । चीर्णा
स्तृणादिकं भक्षितवतीः । पीताः पीतवतीः । स्वा-
मिना प्रातर्यावत्यः समर्पितास्तावत्यो गोपालेन सायं
प्रत्यर्पणीया इत्यर्थः । गोग्रहणं पशुमात्रोपलक्षणा-
र्थम् । तथा च याज्ञवल्क्यः “यथार्पितान् वशून् योपः
सायं प्रत्यर्पयेत् तथा” इति । गवादिपरिपालकस्य भृति
परिमाणमाह नारदः “गवां शताद्वत्सतरी धेनुः स्याद् द्वि-
शताद् मृतिः । प्रतिसंवत्सरं गोपे सन्दोहश्चाष्टमेऽहनि”
इति । प्रतिसंवत्सरं संवत्सरे संवत्सरे गोशतपरि-
पालने वत्सतरी द्विहायनी गौर्भृतिः । द्विशतपरिपालने
सेनुर्दोगुध्री सवत्सेति यावत् । अष्टमे दिवसे सन्दोहः
सर्वासां गवान्दोहश्च भृतित्वेन कल्पनीय इत्यर्थः ।
वृहस्पतिरपि “तथा धेनुभृतः क्षीरं लभेताप्यष्टमेऽहनि”
इति । धेनुभृतः धेन्वाभृतः द्विशतपालक इत्यर्थः । तथा
च सन्दोहो धेन्वा समुच्चीयते न वत्सतर्य्येति मदनरत्ने ।
कल्पतरौ तु धेनुभृतो गोपाल इति व्याख्यातन्तेन वत्स-
तर्यापि समुच्चीयत इति गम्यते । गोग्रहणं महिष्या-
दीनामुपलक्षणम् । न्यूनाधिकपरिपालने तु तदमुसा-
रेण भृतिकल्पना द्रव्यव्या । इयञ्च वत्सतर्यादिभृति-
कल्पनापरिभाषितभृत्यभावविषया । परिभापिते तु
परिभाषानतिक्रमेणैव देया । मनुस्तु प्रकारान्तरेण भृति-
परिमाणमाह “गोपः क्षीरभृतो यस्तु स दुह्याद्दशतो
वराम् । गास्वाम्यनुमतो भृत्यः सा स्यात् पालेऽभृते
भृतिः” इति । दशानान्दोग्ध्रीणां मध्ये वरासुत्कृष्टां
स्वीकृत्य तत्क्षीरभृतो भृत्यो गोपः दशदोग्ध्रीपालनकृद्
गृह्णीयाद् भृत्यर्थम् । सैषा भृतिः पूर्वं द्रव्यान्तरेणाभृते
ज्ञेया । यस्तु द्रव्यान्तरेण भृतः तत्र तदेव भृतिरित्यर्थः ।
यस्तु भृतिं गृहीत्वा पशून्मारयेत् विनाशयति वा तं
प्रत्याह याज्ञवल्क्यः “प्रमादमृतनष्टांश्च प्रदाप्यः
कृतवेतनः” इति । प्रमादग्रहणं प्रशुपालकदोषोपलक्षणा-
र्थम् मनुना प्रमादनाशः स्पष्टोकृतः “नष्टं विनष्टं
कृमिभिः श्वहतं विषगे सृतम् । हीनं पुरुषकारेण प्रद०
द्यात् पाल एव तु” इति । श्वहतम् शुना हतम् ।
विषमे दुर्गमप्रदेशे । पुरुषकारः पुरुषप्रयत्नः । यत् पुरुष-
प्रयत्नेन हीनं सन्नाशादिकं प्राप्तं तद्दातव्यमित्यर्थः ।
पुरुषकारश्च वृहस्पतिना दर्शितः “कृमिचोरव्याघ्रभया-
द्दरीश्वभ्राच्च पालयेत् । व्यायच्छेच्छक्तितः क्रोशे स्वामिने
वा निवेदयेत्” इति । व्यायच्छेत् व्यसनामावाय यतेते-
त्यर्थः । चौरैर्बलात्कारेणापहृते न दाप्यं इत्याह मनुः
“विघुव्य तु हृतञ्चौरैर्न पालोदातुमर्हति । यदि
देशे च काले च स्वामिनः स्वस्य शंसति” इति । विघुष्य
शृङ्गकादिभिर्थोषं कृत्वा । देशे स्वाम्यवस्थानदेशे । काले
अपहरणकालाव्यवहितकाले । विषयविशेषे पशुपालस्य
दण्डमाह व्यासः “गृहीतमूल्यो गोपालस्तांस्त्यक्त्रा नि०
र्जने वने । ग्रामचारी नृपैर्वाध्यः शलाकी च वनेचरः”
इति । शलाकी नापित इति कल्प्तरौ । पुरुषेण
प्रयत्नाकरणे दण्डमाह नारदः “स्याच्चेद्गोव्यसनं गोपो-
व्यायच्छेत् तत्र शक्तितः । अशक्तस्तूर्णमागम्य स्वामिने
च निवेदयेत्” । अव्यायच्छन्नविक्रोशन् स्वामिने चा-
पृष्ठ ५३८९
निनेदयन् । वोढुमर्हति गोपस्तं विनयञ्चैव राजनि”
इति । तङ्गवादिकम् । पशूनां दैवान् मरणे पालकस्य
दोषाभावज्ञानोपाथमाह व्यासः “मृतेषु च विशुद्धः
स्याद् बालशृङ्गादिदर्शनात्” । आदिशब्देन कर्णा-
दीनां ग्रहणम् । तथा च मनुः “कर्णौ चर्म च बालांश्च
वस्तिं स्रायुञ्च रोचनाम् । पशुषु स्वामिनां दद्यान्मृते-
ष्वङ्गानि दर्शयेत्” इति । अङ्कादि दर्शयेदिति क्वचित्
पाठः । अङ्कः शृङ्गकर्णादिरूपञ्चिह्नम् । आदिशब्दः
साक्षिसंग्रहार्थः । पशुषु मृतेष्वङ्कादिकं स्वामिने दर्शयेत् ।
रोचनादिकं यत्प्रयोजनं तत् तस्मै दद्याच्चेत्यर्थः । नष्ट-
गवादिदानञ्च तत्स्वामिने मूल्यद्वारेण ज्ञातव्यम् ।
अतएव विष्णुः “दिवा पशूनां वृकाद्युपघाते पालेऽत्व-
नायति पालकदोषो विनष्टपशूनां मूल्यं स्वामिने
दद्यादिति” । अनायति अनागच्छति । विनयद्रव्यप्र-
म णमाह याज्ञवल्क्यः “पालदोषविनाशे तु पाले
दण्डो विधीयते । अर्द्ध्वत्रयोदपणः स्वामिनो द्रव्यमेव च”
इति । अर्द्धत्रयोदशपणः अर्द्धरहितत्रयोदशपणः ।
सार्द्धद्वादशपण इति यावत् । उत्तरपदलोपी कर्मधारयः ।
यत् तु केनचिदर्द्धाधिकत्रयोदशपणो दण्ड इति व्या-
ख्यातं तत् सार्द्धद्विमात्रादिषु अर्द्धत्रिमात्रादि महा
भाष्यकारशब्दप्रयोगदर्शनादुपेक्ष्यम् । पालदोषमाह मनुः
“अजाविके तु संरुद्धे वृकैः पाले त्वनायति । यां
प्रसह्य वृको हन्यात् पाले तत् किल्विषं भवेत्”
इति । अनौयति उपद्रवनिवारणाय अनागच्छ-
तीत्यर्थः । याम् अजाविकजातीयाम् । सुगमस्थलस्थ
विषयमेतत् । दुर्गमस्थलस्थविषये त्वाह स एव “तासा
ञ्चेदवरुद्धानां चरन्तीनां मिथोवने । यामुत्प्लुव्य वृको
हन्यान्न पालस्तत्र किल्विषी” इति । अवरुद्धानां
पालकेन स्थापितानामित्यर्थः । गवादिप्रचारणार्थं भूमिमाह
याज्ञवल्क्यः “ग्राम्येच्छया गोप्रचारो भूमीराजवशेन वा” ।
ग्राम्येच्छया ग्रामीणजनवशेन राजेच्छया वा । गोप्र-
चारो गवां तृणादिभक्षणार्थं कियानपि भूभागोऽकृष्टः
परिकल्पनीय इत्यर्थः । गवां स्थानासनसौकर्य्याय ग्राम
क्षेत्रयोरन्तरमाह स एव “धनुः शतपरीणाहो ग्राम-
णेत्रान्तरं भवेत् । द्विशते खर्वटस्य स्यान्नगरस्य चतुः
शतम्” इति । परीणाहशब्देनात्र सर्वासु दिक्षु अनुप्त-
शस्यस्थलं गृह्यते । एतादृशं धनुः शतं परिमितं ग्राम-
क्षेत्रयोरन्तरं काय्यैम् । खर्वटस्य शतद्वयपरिमितमि-
त्यर्थः । खर्वटः अनेककारुकृषीवलयुक्तो ग्राम इति
मदनरत्ने । माधवाचार्य्यैस्तु प्रचुरकण्डकसन्तानो ग्राम
इति व्याख्यातम् । तत्र शस्योत्पत्तेः प्रागेवावरणं कार्य्य-
मित्याह कात्यायनः “अजातेष्वेव शस्येषु कुर्य्यादावरणं
महत् । दुःखेन विनिवार्य्यन्ते लब्धस्वादरसा मृगाः” इति ।
एवं पशुनिवारणार्थं कृतेऽप्यावरणे तमतिक्रम्य पशुभिः
शस्यादिविनाशे कृते कर्त्तव्यमाह मनुः “पथिक्षवे
परिवृते ग्रामान्तीयेऽथ वा पुनः । स पालः शतदण्डार्हो
विपालं वारयेत् पशुम्” इति । पथिक्षेत्रे मार्गसमीपे
क्षेत्रे । ग्रामान्तीये ग्रामसमीपवर्त्तिनि । सपालः पशुः
पणशतदण्डार्हः तत्पशुपालः पणशतं दण्डनीय
इत्यर्थः । अयञ्च दण्डः पशुपालने समर्थेन सता पशाव-
निवार्य्यमाणे वेदितव्यः । अतएव नारदः “उत्क्रम्य तु
वृतिं यः स्याच्छस्यघातो गवादिभिः । पालः शास्यो
भवेत् तत्र न चेच्छक्तो निवारयेत्” इति । आवरणा-
भायेनापरिहार्य्ये शस्योपघातेऽपि न पालस्य दण्डः ।
तथा च मनुः “तत्रापरिवृतं धान्यं विहिंस्युः पशवो
यदि । न तत्र प्रणयेद्दण्डं नृपतिः पशुरक्षिणास” इति ।
अनेनावृतक्षेत्रशस्योपघ ते पशुरक्षिणां दण्ड इत्यर्था-
दुक्तं भवति । अदीर्घकालप्रचारविषयमेतत् । दीर्घ-
कालप्रचारे तु अपरिवृतेऽपि पशुपालो दण्डार्होभवति ।
अतएवाल्पकालप्रचारे दोषाभावं दर्शयति विष्णुः “पथि
ग्रामविवीतान्ते न दोषोऽल्पकालमिति” । पशुविशेषे दण्ड-
परिमाणमाह याज्ञवल्क्यः “माषानष्टौ तु महिषी
शस्यघातस्य कारिणी । दण्डनीया तदर्द्धं तु गौस्त-
दर्द्धमजाविकम् । भक्षयित्वोपविष्टानां यथोक्ताद् द्वि-
गुणो दमः । सममेषां विवीतेऽपि खरोष्ट्रं महिषीसमम्”
इति । परशस्यर्घातकारिण्या महिष्याः स्वामी अष्टौ
माषान् दण्ड्य । गोः स्वामी चतुरः । छागस्वामी
मेषस्वामी च द्वौ । एतेषां पशूनां शस्यभक्षणादारभ्य तत्रैव
उपविष्टानां स्वामी यथोक्तदण्डाद् द्विगुणं ग्राह्यः । विवी-
तस्थतृणाद्युपघातेऽपि शस्योपघातवद्दण्डनीयः । स्वर-
स्वाम्युष्ट्रस्वामी च महिषीस्वामिवद्दण्डनीयः । अत्र
वशुस्वामिनो दण्ड इत्यभिधातव्ये महिष्यादिग्रहणं प्रति-
पशुदण्डप्राप्त्यर्थम् । भक्षयित्वोपविष्टवत्साविषये
ययोक्ताच्चतुर्गुणो दण्डः । तथा च स्मृत्यन्तरम् “वसतां
द्विगुणः प्रोक्तः सवत्सानां चतुर्गुणः” इति । अत्रापरा-
धानुसारेण दण्डनार्थं ताम्रिकमाषो ग्राह्यः न पुनः
पृष्ठ ५३९०
सौवर्णो राजतो वेति स्मृतिचन्द्रिकायाम् । ताम्रिक-
माषर्श्चकर्षपरिभाषितस्य षोड़शो भागो भवति । अयमेव
“पणस्यैपञ्च वापि प्रकीर्त्तिताः इति याज्ञवल्क्योक्तपञ्चसुव-
र्णपरिमितत्वपक्षे पणचतुर्थाऽंशस्य विंशतिमाषात्मककार्षा-
पणस्य “माषो विंशतिमोभागः पणस्य परिकीर्त्तितः” इति
नारदोक्तो विंशो भागोऽपि भवति । एतेन स्मृतिचन्द्रि-
कायाम् अपराधानुसारेण दण्डनार्थं माषो “विंशतिमो
भागः पणस्य परिकीर्त्तित” इति नारदोक्तो माषः कैश्चित्
स्वीकृत इत्येकीयमतत्वेनोपन्यस्य “सङ्ख्या रश्मिरजोमूला
मनुनासमुदाहृता । कार्षापणान्ता सा दिव्ये नियोज्या
विनये तथा” इति वृहस्पतिवचनविरोधेन दूषितं तदुभयथा-
प्यर्थभेदाभावेन विरोधाभावान्निरस्तं मन्तव्यम् । यत् तु,
मनुनोक्तम् “सपादं पणमर्हतीति” तत् स्वामिनो मतिपूर्वं
पशुव्यतिक्रमविषयम् । याज्ञवल्क्यवचनन्त्ववुद्धिपूर्वविष-
यमिति न तयोर्विरोधः । यत् तुं “पणस्य पादौ द्वौ
गान्तु द्विगुणं महिषीं तथा । तथाजाविकवत्सानां
पादो दण्डः प्रकीर्त्तित” इति स्मृत्यन्तरं तद्भक्षयित्वो-
पविष्टगवादिविषयम् । यत् पुनर्नारदेनाभिहितम्
“माभङ्गां दापयेद् दण्डं द्वौ माषौ महिषीं तथा । तथा
जाविकवत्सानां दण्डः स्यादर्द्धमाषिकः” इति । तन्मु-
हूर्त्तमात्रभक्षणविषयम् अत एवाहतुः शङ्खलिखितौ ।
“रात्रौ चरन्ती गौः पञ्चमाषां दिवा त्रोन्मुहूर्त्तो माषं
ग्रामे त्वदण्डमिति” । ग्रासे त्वदण्ड इत्यस्यायमर्थः ।
महिष्यादिभिः परशस्येषु कबलमात्रभक्षणे कथञ्चित् कृते
पालकस्य स्वामिनो वा स्वल्पोऽपि दण्डी नास्तीति ।
आतुरपशुविषये बहुशम्यनाशेऽप्येवमेव दण्डाभावप्रतिपादन-
मुखेनाह नारदः “राजग्रहगृहीतो वा वज्राशनिहतो-
ऽपि वा । अथ सर्पेण दष्टो वा वृक्षाद् वा पतितो
भवेत् । व्याघ्रादिभिर्हतो वापि व्याधिभिर्वाप्युपद्रुतः ।
न तत्र दोषः पालस्य न च दोषोऽस्ति गोमिनाम्” इति ।
गोमिनां गोस्वामिनाम् । आतुराणामनिवार्यत्वादित्य-
भिप्रायः । अनातुराणामपि केषाञ्चित् पशूनां दण्डा-
भावमाह स एव “गौः प्रसूता दशहात् तु महोक्षा
वाजिकुञ्जराः । न निवार्याः प्रयत्नेन तेषां स्वामी न
दण्डभाग्” इति । दशदिनपर्य्यन्तं प्रसूताया निरोद्धु-
मशक्यत्वान्न स्वामी दण्ड्यभाक् । सहोक्षस्य सर्वासाङ्ग
र्भाधानार्थं सर्वदा बन्धनायोगात् तत्स्वामी न दण्डभाक् ।
वाजिकुञ्जराणां स्वामिनोऽदण्डभागित्वे हेतुमाहोशनाः


“अदण्ड्या हस्तिनो ह्यश्वा प्रजापालाहि ते स्मृताः”
स्वामिग्रहणं पालकस्याप्युपलक्षणार्थम् । यदाह मनुः
“अनिर्दशाहां गा सृतां वृषान् देवपशूंस्तथा । सपालान्
वा विपालान् वा अदण्ड्यान्मनुरव्रवीत्” इति । वृषाः
महोक्षाः । यद् वा वृषोत्सर्गविधानेनोत्सृष्टाः । देव
पशवः देवालयेषु देवोपभोगार्थं स्थापिताः पशवः । याज्ञ-
वल्क्योऽपि “महोक्षोत्सृष्टपशवः सूतिकागन्तुकादयः ।
पालोयेषान्न ते मोच्या दैवराजपरिप्लुताः” । अनिर्दशाहा
आगन्तुकः स यूथात्परि भ्रष्टः सन् देशान्तरात्
समागतः । येषां पालो नास्ति तेऽपि दैवराजोपहताः
शस्यादिनाशकारिणो न दण्ड्या इत्यर्थः । आदिशब्देन
मृतवत्सादीनां ग्रहणम् । अतएवोशनाः “अदण्ड्या
मृतवत्सा च संज्ञा रोगवती कृशा । अदण्ड्याः
काणकूटाश्च वृषाश्च कृतलक्षणाः । अदण्ड्यागन्तुका गौश्च
सूतिका चाभिसारिणी” इति । कूटः एकशृङ्गः ।
कृतलक्षणः प्रतप्तायसेन कृतलाश्छनः । अभिसारिणीं
स्वयूथात् प्रच्युता पुनः स्वयूथगामिनी । परशस्यर्विनाशे न
केवलं पशुस्वामी दण्डनीयः सदमपि दापनीय इत्याह
वृहस्पतिः “शस्यान्निवारयेद्गास्तु चीर्णे दोषो द्वयोर्भवेत् ।
स्वामी सददमं दाप्यः पालस्ताड़नमर्हति” इति । सदश्च
दमश्च सददमम् । समूलशस्यनाशविषयमेतत् । अतएव
नारदः “समूलशस्यनाशे तु तत्स्वामी प्राप्नुयात् सदम् ।
वधेन गौ र्योमुच्येत दण्डं स्वामिनि पातयेत्” इति ।
तत्स्वामी शस्यस्वामी सदं प्राप्नुयात् । पशुस्वामिनः
सकाशादिति शेषः । बधोऽत्र कशादिना ताड़नम् ।
न प्राणच्छेदः । पालस्तड़नमर्हतीति वचनात् । सदश्च
सःमन्तादिभिः परिकल्पितो देयः । अतएव स एवाह
“गोभिस्तु भक्षितं शस्यं यो नरः प्रतियाचते । सामन्ता-
नुमतं देयं धान्यं यत् तत्र वापितम्” इति । यत् तु
सदयाचननिषेधनम् “गोभिर्विनाशितं धान्यं यो नरः
प्रतियाचते । पितरस्तस्य नाश्नन्ति न वापि त्रिदिवौकसः” ।
इत्युशनोवचनन्तद् ग्रामादिसमीपस्थ नावृतक्षेत्रविषय-
मिति माधवाचार्य्याः । श्राद्धकालादौ गोभक्षितविषय-
मिति मदनरत्नकृतः । सर्वासाङ्गवामुत्सने श्राद्धदिवसे
चादण्ड्यत्वमाह स एव “अदण्ड्याश्चोत्सवे गावः श्राद्ध-
काले तथैव च” इति । गोभिः श्राद्धकालादौ भुक्तमति-
श्रेयस्करमित्याशयेनाह । व्यासः “आक्रम्य च द्विजै-
र्भुक्तं परिक्षीणञ्च बान्धवैः । गाभिश्च नरशार्दूल!
पृष्ठ ५३९१
वाजपेयाद्विशिष्यते” इति एतत्पदमुपसंहरति मनुः
“एतद्विधानमातिष्ठेद्धार्मिकः पृथिवीपतिः । स्वामिनाञ्च
पशूनाञ्च पालानाञ्च व्यतिक्रमे” ।

स्वायम्भुव पु० स्वयंभुवोऽपत्यम्, तस्येदम् वा अण्

ओरोदिति वक्तव्ये ओर्गुण इत्युक्त्या संज्ञापूर्वकविधेरनित्य-
त्वज्ञापनान्न गुणः उवड् । १ स्वयम्भूपुत्रे मनौ २ स्वयम्भू-
सम्बन्धिनि त्रि० “धाम स्वायम्भुवं ययुः” कुमारः ।
स्त्रियां ङीप् । सा च ३ ब्राह्म्याम् । “भार्गवी
नारदोया च वार्हस्पत्याङ्गिरस्यपि । स्वायम्भुवस्य शास्त्रस्य
चतस्रः संहिता मताः” इति तदुक्तधर्मशास्त्रसंहिता-
चतुष्टयम् । तदुत्पत्त्यादिकं यथा
“ततः कालेन महता तस्याः पुत्रोऽभवन् मनुः । स्वाय-
म्भुव इति ख्यातः स विराडिति नः श्रुतम् । तद्रूपगुण-
सामान्यादविपूरुष उच्यते । वैराजा यत्र ते जाता
वहवः संशितव्रताः । स्वायम्भुवान् महाभागाः सप्त सप्त
तथापरे । स्वारोचिषाद्या ते सर्वे ब्रह्मतुल्यस्वरूपिणः ।
औत्तमिप्रमुखास्तद्वद् येषान्त्वं सप्तमोऽधुना” मत्स्यपु०
४ अ० । “ऋषीस्तेषां प्रवक्ष्यामि पुत्रान् देवगणांस्तथा ।
मरीचिरत्रिर्भगवानङ्गिराः पुलहः क्रतुः । पुलस्त्यश्च
वशिष्ठश्च सप्तैते ब्रह्मणः सुताः । उत्तरस्यां दिशि तथा
राजन्! सप्तर्षयः स्थिताः । यामा नाम तथा देवास्त्वासन्
स्वायम्भुवेऽन्तरे । आग्नीध्रश्चग्निबाहुश्च मेधा मेधातिथि-
र्वसुः । ज्योतिष्मान् द्युतिमान् हव्यः स नः पुत्र एव च
मनोः स्वा म्भुवस्यैते दश पुत्रा महौजसः । एतत्ते
प्रथमं राजन्! मन्वन्तरमुदाहृतम्” हरिवं० ७ अ० ।

स्वाराज् पु० स्वः स्वर्गे राजते राज--क्विप् । इन्द्रे अमरः ।

स्वाराज्य न० स्वराजः भावः ष्यञ् । ब्रह्मत्वे स्वाराज्यसिद्धिः ।

स्वारोचिष पु० द्वितीये मनौ । “और्वो वशिष्ठपुत्रश्च स्तम्बः

काश्यप एव च । प्राणो वृहस्पतिश्चैव दत्तो निश्च्यवन-
स्तथा । एते महर्षयस्तात! वायुप्रोक्ता महाव्रताः ।
देवाश्च तुषिता नाम स्मृताः स्वारोचिषेऽन्तरे । हविर्ध्रः
सुकृतिर्ज्योतिरापो मूर्त्तिरयस्ययः । प्रथितश्च नभस्यश्च
नभ ऊर्जस्तथैव च । स्वारोचिषस्य पुत्रास्ते मनोस्तात
महात्मनः । कीर्त्तिताः पृथिवीपाल! महावीर्य्यपराक्रमाः ।
द्वितीयमेतं कथितं तव मन्वन्तरं मया” हरिवं० ७ अ० ।

स्वार्थ पु० स्वस्य अर्थः प्रयोजनम् अभिधेयो वा । १ स्वाप्रयो-

जने २ स्वाभिधेये च “स्वार्थकः स्वार्थबोधकृदिति” शब्दश०

स्वार्थिक त्रि० स्वार्थे विहितः ठण् । स्वार्थविहिते व्याकर-

णोक्ते प्रत्यये । “स्वार्थिकाः प्रत्ययाः प्रकृतितो लिङ्गवच-
नान्यनुवर्त्तन्ते” महाभाव्यं यथा बहुगुड़ोद्राक्षा “क्वचित्
स्वार्थिका अपि प्रत्ययाः प्रकृतितो लिङ्गवचनान्यतिवर्त्तन्ते”
महाभाष्यम् । देवता अपकृष्टशुण्डा शुण्डीर इत्यादि ।

स्वास्थ्य न० स्वस्थस्य भावः ष्यञ् । १ आरोग्ये २ सन्तोषे अमरः ।

स्वाहा अव्य० सु + आ + ह्वे--डा । १ देवोद्देशेन हविस्त्यागे

अमरः । २ अग्निभार्य्यायां स्त्री “स्वाहयेव हविर्भुजम्”
रघुः । ३ मातृकाभेदे च स्त्री “नमः स्वधायै स्वाहायै” इति
पितृगाथा । “प्रकृतेः कलया चैव सर्वशक्तिस्वरूपिणी ।
वभूव दाहिका शक्तिरग्नेः स्वाहा स्वकामिनी । ग्रीष्म-
मध्याह्णामार्त्तण्डप्रभाच्छादनकारिणि । त्वमग्नेर्दाहिका
शक्तिर्भवपत्नी च सुन्दरी । दग्धुं न शक्तस्त्वदृते
हुताशश्च त्वया विना । त्वन्नामोचार्य्य मन्त्रान्ते यो
दास्यति हविर्नरः । सुरेभ्यस्तत्प्राप्नुवन्ति सुराः स्वानन्द-
पूर्वकम् । अग्नेः सम्पत्स्वरूपा च श्रीरूपा सा गृहे-
श्वरी । देवानां पूजिता शश्वत् नरादीनां भवाम्बिके!”
ब्रह्मवै० प्र० ३७ अ० । ३ दुर्गाशक्तिभेदे “दुर्गा शिवा क्षमा
धात्री स्वाहा स्वधा नमोऽन्तु ते” दुर्गापूजामन्त्रः ।

स्वाहाप्रिय पु० ६ त० । अग्नौ हला० स्वाहापत्यादयोऽप्यत्र ।

स्वाहाभुज् पु० स्वाहेतिमन्त्रेण त्यक्तद्रव्यं भुङ्क्ते भुज--क्विप् ।

देवे अमरः ।

स्विद् अव्य० स्विद--क्विप् । १ पश्ने २ वितर्के अमरः ३ पादपूरणे च मेदि०

स्विन्न त्रि० स्विद--क्त । १ थर्मयुक्ते २ स्वेदान्विते च ३ पक्वे

“स्विन्नमन्नमुदाहृतम्” स्मृतिः ।

स्वीकार पु० अखस्य स्वस्य कारः करणं स्व + च्वि + कृ--घञ् । अङ्गीकारे ।

स्वीय त्रि० स्वस्येदम् छ अपाणिनीयैरत्र न कुगिति मन्यते ।

१ निजसम्बन्धिनि २ नायिकाभेदे स्त्री नायिकाशब्दे
दृश्यम् ।

स्वुर्च्छ विस्मृतौ भ्वा० प० सक० सेट् ।

स्वूर्च्छति अस्वूर्च्छीत् आदित् स्वूर्णं स्वूर्च्छितम् ।

स्वृ शब्दे अक० उपतापे सक० भ्वा० प० येट् । खरति अस्वा-

रीत् अस्वार्षीत् ।

स्वॄ हिंसने क्र्या० प्वा० प० सक० सेट् । स्वृणाति अस्वारीत् ।

स्वेक गतौ भ्वादि० आत्म० सक० सेट् ऋदित् चङि न ह्रस्वः ।

स्वेकते अस्वेकिष्ट ।

स्वेच्छा स्त्री ६ त० । स्वाभिलाषे हेमच० ।

स्वेच्छामृत्यु पु० स्वेच्छया मृत्युर्यस्य ।

१ भीष्मे त्रिका० २ स्वेच्छाघीनमृत्युयुक्ते त्रि० ।
पृष्ठ ५३९२

स्वेद पु० स्विद--भावे घञ् । १ पाकभेदे (सेका) २ घर्मे

गात्रादितो जलादेः निष्यन्दने । णिच् भावे अच् ।
वर्मनिस्रावणे तत्प्रकारादिकं चरकेणाभिहितं यथा
“अतः स्वेदाः प्र क्ष्यन्ते यैर्यथावत् प्रयोजिताः । स्वेद-
साध्याः प्रशाम्यन्ति गदा वातकफात्मकाः । स्नेहपूर्वं
प्रयुक्तेन स्वेदेनावर्जितेऽनिले । पुरीषमूत्ररेतांसि न
सज्जन्ति कथञ्चन । शुष्काण्यपि हि काष्ठानि स्नेदं
स्वेदापपादनैः । गमयन्ति यथान्यायं किं पुनर्जीवतो
मरान् । रोगर्त्तुव्याधितापेक्षोनात्युष्णोऽतिमृदुर्न च ।
द्रव्यवान् कल्पितो देशे स्वेदः कार्य्यकरो मतः । व्याधौ
शीते शरीरे च महान् स्वेदो महाबले । दुर्बले दुर्बलः
स्वेदो मध्यमे मध्यमो हितः । वातश्लेष्मणि वाते वा
कफे वा स्वेष्ट इष्यते । स्निग्धरूक्षस्तथा स्निग्धोऽरूक्षश्चा
प्यपकल्पितः । आमाशयगते वाते कफे पक्वाशयाश्रिते ।
रूक्षपूर्वो हितः स्वेदः स्नेहपूर्वस्तथैव च । वृषणौ
हृदयं दृष्टी स्वेदयेन् मृदुनैव वा । मध्यमं वङ्क्षणौ
शेषमङ्गावयवमिष्टतः । सुशुद्धैर्नक्तकैः पिण्ड्या गोधूमाना-
मथापि वा । पद्मोत्पलपलाशैर्वा स्वेद्यः संवृत्य चक्षुषी ।
मुक्तावलीभिः शीताभिः शीतलैर्भाजनैरपि । जलार्द्रै-
र्जलजैर्हस्तैः स्विद्यतो हृदयं स्पृशेत् । शीतशूलव्युप-
रमे स्तम्भगौरवनिग्रहे । सञ्जाते मार्दवे स्वेदे स्वेदनाद्
विरतिर्मता । पित्तप्रकोपो मूर्च्छा च शरीरसदनं तृषा ।
दाहः स्वेदाङ्गदौर्बल्यमतिस्निग्धस्य लक्षणम् । उक्त
स्तस्याश्रितीये यो ग्रैष्मिकः सर्वशो विधिः । सोऽति-
सिन्नस्य कर्त्तव्यो मधुरः स्निग्धशीतलः । कषायमद्य-
नित्यानां गर्भिण्या रक्तपित्तिमाम् । पित्तिनां साति-
साराणां रूक्षाणां मधुमेहिनाम् । विदग्धभ्रष्टनाड़ीनां
विषमद्यविकारिणाम् । श्रान्तानां नष्टसंज्ञानां स्थूलानां
पित्तमेहिनाम् । तृष्यतां क्षिधितानाञ्च क्रुद्धानां
शोचतामपि । कःमल्युदरिणाञ्चैव क्षतानामाढ्यरोगिणाम् ।
दुबेलातिविशुष्काणामुपक्षीणौजसां तथा । मिषक्
तैमिरिकाणाञ्च न स्वेदमवतारयेत् । प्रतिश्याये च कासे
च हिक्काश्वासेष्वलाघवे । कर्णमण्यां शिरः शूले स्वरभेदे
गलग्रहे । अर्दितैकाङ्गनर्पाङ्गपक्षाघाते विनामके ।
कोष्ठानाहविबन्धेषु शुक्राघाते विजम्भके । पार्श्वपृष्ठकटी-
कुक्षिसंग्रहे गृध्रसीपु च । मत्रकृच्छ्रे महत्त्वे च मुष्क-
यारङ्गमर्दके । पादोरुजानुजङ्घार्त्तिसग्रहे श्वयथावपि ।
स्वल्लीषामेषु शीते च वेपथौ वातकण्टके । सङ्कोदायाम
शूलेषु स्तम्भगौरवसुप्तिषु । मर्वाङ्गेषु विकारेषु स्वेदनं
हितमुच्यते । तिलमाषकुलत्थाम्लवृततैलामिषौदनैः ।
पायसैः कृशरैर्मांसैः पिण्डस्वेदं प्रयोजयेत् । गोखरोष्ट्र-
वराहाश्वशकृद्भिः सतुषैर्यवैः । सिकतापांशुपाषाणकरी-
षायसपूटकैः । श्लैष्मिकान् स्वेदयेत् पूर्वैर्वातिकान्
समुपाचरेत् । द्रव्याण्येतानि शस्यन्ते यथास्वं प्रस्तरेष्वपि ।
भूगृहेषु च जेन्ताकेषूष्णगर्भगृहेषु च । विधूमाङ्गारतप्ते-
ष्वभ्यक्तः स्विद्यति ना सुखम् । ग्राम्यानूपोदकं मांसं
पयोवस्तशिरस्तथा । वराहमध्यपित्तासृकस्नेहवत्तिल-
तण्डुलान् । इत्येतानि समुत्क्वाथ्य नाड़ीस्वेदं प्रयो-
जयेत् । देशकालबिभागज्ञो युक्त्यपेक्षा भिषक्तमः ।
वारणाघृतकैरण्डशिग्रुमूलकसर्षपैः । वासावंशकरञ्जाकं-
पत्रैरश्मन्तकस्य च । शोभाञ्जनकशेरीयमालतीसुरसा-
र्जकैः । पत्रैरुत्क्वाथ्य सलिलं नाड़ीस्वेदं प्रयोजयेत् ।
भूतीकपञ्चमूलाभ्यां सुरया दधिलस्तुना । पत्रैरम्लैश्च
सस्नेहैर्नाड़ीस्वेदं प्रयोजयेत् । अतएव च निर्य्यूहाः
प्रयोज्या जालकोष्टके । स्वेदनार्थं घृतक्षीरतैलकोष्टांश्च
कारयेत् । गोचूमशकलैश्चूर्णैर्यवानामम्लसंयुतैः । सस्नेह-
किण्वलवणैरुपनाहः प्रशस्यते । गन्धैः सुरायाः किट्टेन
जीवन्त्या शतपुष्पवा । उमया कुष्ठतैलाम्यां युक्तया
चोपनाहयेत् । चर्मभिश्चोपनद्धव्यः सलोमभिरपुतिभिः ।
उष्णवीर्य्यैरलाभे तु कौशेयाविकशास्टकैः । रात्रौ बद्धं
दिवा मुञ्चेत् मुञ्चेद्रात्रौ दिवाकृतम् । विदाहपरिहारार्थं
स्यात् प्रकर्षस्तु शीतले । सङ्करः १ प्रस्तरो २ नाड़ी ३
परिषेको ४ ऽवगाहनम् ५ । जेन्ताको ६ ऽश्यथघनः ७ कर्षूः ८
कुटी ९ भूः १० कुम्भिकैव ११ च । कूपो २१ दालाक १३ इत्येते
स्वेदयन्ति त्रयोदश । तान् यथावत् प्रवक्ष्यामि सर्वा-
नेवानुपूर्वशः” इति । तत्र वस्त्रान्तरितैरवस्त्रान्त-
रितैर्वा पिण्डैर्यथोक्तैरुपस्वेदनं सङ्करस्वेद १ इति
विद्यात् । शूकशमीधान्यपुलाकानां वेशवारायसकृशरोत्-
कारिकादीनां वा प्रस्तरे कौशेयाविकोत्तरप्रच्छदे पञ्चा-
ङ्गुलोरुवकार्कपत्रप्रच्छेदे वा स्वभ्यक्त्रसर्वगात्रस्य
शयानस्योपरि स्वेदनं प्रस्तरस्वेद २ इति विद्यात् । स्वेद-
नद्रव्याणां पुनर्मूलफलपत्रभङ्गादीनां मृगशकुनपि
शितशिरस्पदादीनामुष्णस्वभावानां वा यथार्हमम्ललवण-
स्नेहोपसंहितानां मूत्रक्षीरादीनां वा कुम्भ्यां वाष्पम-
नुद्वमन्त्यामुत्क्वथितानां नाड्या शरेषीकावंशदलकरञ्जार्क-
पत्रान्यतमकृतया गजाग्रहस्तसंस्थानया व्यामदोर्घया
व्यामार्द्धदीर्घया वा व्यामचतुर्भागाष्टभागमूलाग्रपरिणाह-
स्रोतसा सर्वतो वातहरपत्रसंवृतच्छिद्रया द्विस्त्रिर्या विना-
पृष्ठ ५३९३
मितया वातहरसिद्धस्नेहाभ्यक्तगात्रो वाष्पवपहरेत् ।
वाष्पो ह्यनूर्द्धगामी विहतचण्डवेगस्त्वचमविदहन् सुस्थं
स्वेदयतीति नाड़ीस्वेदः ३ । वातिकोत्तरवातिकानां पुनर्मू
षादीनामुत्क्वाथैः सुखोष्णैः कुम्भीर्वाधुलिकाः प्रनाड़ीर्वा-
पूरयित्वा यथार्हसिद्धस्नेहाभ्यक्तगात्रं वस्त्रावच्छन्नं
परिषेचयेदिति परिषेकः ४ । वातहरोत्क्वाथक्षीरतेलघृतपिशि-
तरसोष्णसलिलकोष्ठकावगाहस्तु यथोक्त एवावगाहः” ५ ।
“अथ जेन्ताकं चिकीर्षुर्भूमिं परोक्षत इत्यादि” ।
(जेन्ताकशब्दे ३१४४ पृ० अस्य लक्षणाद्युक्तप्रायम् ६ ।)
“शयानस्य प्रमाणेन घनामश्ममयीं शिलाम् । ताप
यित्वामारुतघ्नैर्दारुभि सम्प्रदीपितैः । व्यपोज्झ्य सर्वा-
नङ्गारान् प्रोक्ष्य चैवोष्णवारिणा । तां शिलामथ
कुर्वीत कौषेयाविकसंस्तराम् । तस्यां स्वभ्यक्तसर्वाङ्ग
शयानः स्विद्यते सुखम् । रौरवाजिनकौषेयप्रावा-
राद्यैः सुसंवृतः । इत्युक्तोऽश्मथनस्वेदः ७ । कर्षू-
स्वेदः प्रबक्ष्यते । स्वानयेच्छयनस्याधः कर्षूं स्थान-
विभागवित् । दीप्तैरधूमैरङ्गारैस्तां कर्षूं पूरयेत् ततः ।
तस्यामुपरि शय्यायां स्वप्रन् स्विद्यति ना सुखम् ८ ।
अनत्युत्सेधविस्तारां वृत्ताकारामलोचनाम् । घनभित्तिं
कुटीं कृत्वा कुष्ठाद्यैः सम्प्रप्रलेपयेत् । कुटीमध्ये भिषक्
शय्यां स्वास्तीर्णाञ्चोपकल्पयेत् । प्रावाराजिनकौषेयकुत्थ-
कम्बलगोलकैः । हसन्तिकाभिरङ्गारपूर्णाभिस्ताञ्च सर्वशः ।
परिवार्य्यान्तरारोहेदभ्यक्तः स्विद्यते सुखम् ९ । य
एवाश्मघ० स्वे दबिधिर्भूमौ स एव तु । प्रशस्तायां निवाताया
समायामुपदिश्यते १० । कुम्भीं वातहरक्वाथपूर्णां भूमौ
निखातयेत् । अर्द्धभागं रिभा गं वा शयनं तत्र चोपरि ।
स्थापयेदासनं वापि नातिसान्द्रपरिच्छदम् । अथ कुम्भ्य
सुसन्तप्तान् प्रक्षिपेदयसोगुड़ान् । पाषाणान् वोष्मणा
तेन तत्स्थः स्विद्यति ना सुखम् ११ । सुसंवृताङ्गः स्वभ्यङ्गः
स्नेहैरनिलनाशनैः । कूपं शयनविस्तारं द्विगुणञ्चापि
वेधतः । देशे निवाते शस्ते च कुर्य्यादन्तः सुमाजितम् ।
हस्त्यश्वगोखरोष्ट्राणां करोषैर्दग्धपूरिते । स्ववच्छन्नः सुसं-
स्तीर्णेऽभ्यक्तः स्विद्यति ना सुखम् १२ । वीथीकान्तु
करोषाणां यथोक्तानां प्रदीपयेत् । शयनान्तः प्रमाणेन शय्या-
मुपरि तत्र च । सुदग्धायां विधूमायां यथीक्तामुपकल्प-
येत् । स्ववच्छन्नः स्वपंस्तत्राभ्यक्तः स्विद्यति ना सुखम् ।
दोलाकस्वेद १३ इत्येष सुखः प्रोक्तो सहर्षिणेति” । इति
त्रयादशविधः स्वेदोऽग्निगुणसंश्रयः । व्यायाम उष्णसदनं
गुरुपावरणं क्षुधा । बहुपानं भयक्रोधावुपनाहाहवा-
तपाः । स्वेदयन्ति दशैतानि नरमग्निगुणादृते । इत्युक्तो
द्विविधः स्वेदः संयुक्तोऽग्निगुणैर्न च । एकाङ्गसर्वाङ्गगतः
स्निग्धो रूक्षस्तथैव च । इत्येतत् त्रिविधं द्वन्द्वं स्वेद-
मुद्दिश्य कीर्त्तितम् । स्निग्धः स्वेदैरुपक्रम्यः स्विन्नः
पथ्याशनो भनेत् । तदहः स्विन्नगात्रस्तु व्यायामं वर्ज-
येन्नरः” इति । तत्र श्लोकाः “स्वेदा यथा कार्य्यकरो-
हितो येभ्यश्च यद्विधः । यत्र देशे यथायोग्या देशो रक्ष्यश्च
यो यथा । स्विन्नातिस्विन्नरूपाणि तथातिस्विन्नभेषजम ।
अस्वेद्याः स्वेदयोग्याश्च स्वेदद्रव्याणि कल्पना । त्रयोदश-
विधः स्वेदो विना दशविधोऽग्निना । सग्रहेण च षट्स्वेदाः
स्वेदाध्याये निदर्शिताः । स्वेदाधिकारे यद्वाच्यमुक्तमेतन्म-
हर्षिणा । शिष्यैस्तु प्रतिपत्तव्यसपदेष्टा पुनर्वसुरि त” ।

स्वेदज पु० स्वेदाज्जायते जन--ड । १ स्वेदजाते दंशादिजन्तौ

अमरः २ स्वेदजातमात्रे त्रि० ।
“संस्वेदजविकाराश्च यथा येभ्यो भवन्ति च । मानुषस्वेद-
मलजा मक्षिकाद्या भवन्ति च । नवमेघप्रसिक्तायां
पिपीलिकगणादयः । संस्वेदजास्तु विज्ञेया वृक्षगोपशु-
जन्तवः । समिद्भ्या माषमुद्गेभ्यः फलेभ्यश्चैव जन्तवः ।
जायन्ते क्रिमयो विप्राः! काष्ठेभ्यो घुणकादयः । तथा
शुक्रविकारेभ्यः पूतिकाः प्रभवन्ति च । संस्वेदजाश्च
जायन्ते वृश्चिकाः शुष्कगोमयात् । गाभ्यो हि महिषे-
भ्यश्च मानुषेभ्यश्च जन्तवः । मत्स्यादिम्यश्च विविधा
अन्तःकुक्षौ विशेषतः । अथान्यानि च सूक्ष्माणि सूक्ष्म-
यूकास्तथैव च । गोभ्योऽश्वेभ्यस्तथा चैव अष्टास्पदकिनी-
नकाः । माक्षिकाणां विकाराश्च उत्सृष्टोदककर्दमैः ।
शरावति विकाराश्च करीषेभ्यो भवन्ति हि । एवमादि-
रसंख्यातो गणः संस्वेदजो मया । सर्वासान्निहितो
ह्येष प्राक्कर्मवशजः स्मृतः” वह्निपु० ।

स्वेदन न० स्विद--णिच् ल्युट् । गात्रादितो घर्मादेर्निःसारण-

व्यापारे (भापरा) । स्वेदशब्दे दृश्यम् ।

स्वेदनी स्त्री स्विद्यते पच्यतेऽनया सिद--ल्युट् । लौहपात्र-

भेदे (ताओया) अमरः । संज्ञायां कन् टापि ह्रस्वः
स्वेदनिका कन्दुरूपे पात्रे हेमच० भर्जवपात्रे शब्दमा०

स्वैर न० स्वस्य ईरम् ईर--अच् वृद्धिः । १ स्वेच्छायाम् २ तद्वति

३ मन्दे च त्रि० मेदि० ।
पृष्ठ ५३९४

स्वैरिन् त्रि० स्वेनैव ईरयितुं शीलमस्य ईर--णिनि वृद्धिः ।

१ स्वेच्छाचारिणि स्वतन्त्रे । २ व्यभिचारिस्त्रियां स्त्री
ङीप् । ३ परपुरुषचतुष्कगामिन्यां स्त्रियां च । “नातश्चतुर्थं
प्रसवमापत्स्वपि वदन्त्युत । अतःपरं स्वैरिणी स्यात्
बन्धकी पञ्चमे भवेत्” भा० आ० १२३ अ० ।

स्वोपार्जित त्रि० स्वेन उपार्जितम् । स्वयमर्जिते धनादौ ।

तस्य विभागो दायभागे दर्शितो यथा
“सम्प्रति विमाज्यमविभाज्यञ्चोच्यते । तत्र कात्यायनः
“पैतामहञ्च पित्र्यञ्च यच्चान्यत् स्वयमर्जितम् । दायादानां
विभागे तु सवंमेतद्विभज्यते” । “यच्चान्यदिति चकारः
स्वयमित्यनेन संबध्यते स्वयञ्चार्जितमिति चकाराद्यन्य
स्यापि तदर्जनं साधारणधनद्वारेणेत्यर्थः । अनुप-
घातोपात्तमुविभाज्यमाहतुर्मनुविष्णू “अनुपघ्नन् पितृ-
द्रव्यं श्रमेण यदुपार्जयेत् । स्वयमीहितलब्धं तन्ना-
कामो दातुमर्हति” । पितृद्रव्योपघाताभावेन द्रव्य-
द्वारेण नेतरेषां व्यापारः, स्वचेष्टालब्धत्वेन शारीरो-
ऽपि व्यापारो नेतरेषामिति अर्जकस्यैव तदसाधा-
रणं स्वयमीहितलब्धं तदिति हेतुत्वेनोपन्यासात् ।
तथा च व्यासः “अनाश्रित्य पितृद्रव्यं स्वशक्त्या-
प्नोति, यद्धनम् । दायादेभ्यी न तद्दद्याद्विद्यालब्धन्तु
यद्भवेत्” । स्वशक्तिमात्रेण यत् प्राप्तमिति सामान्ये-
नाभिधानात् सर्वमेवंविधं स्वीयमसाधारणं द्रष्टव्यम् ।
स्वशक्तिप्राप्तस्यापि विद्याधनस्य समाधिकविद्यैः साधा-
रणत्वात् न्यूनविद्याविद्यनिराकरणार्थं विद्यालब्ध
पदम् । तथा याज्ञवल्क्यः “पितृद्रव्याविरोधेन यद
न्यत् स्वयमर्जितम् । मैत्रमौद्वाहिकञ्चैव दायादानां न
तद्भवेत्” । मैत्रादिग्रहणं प्रदर्शनार्थं, एवमादिषु
प्रायेणानुपघातसम्भवात् । तथा मनुः “विद्याधनन्तु
यद्यस्य तत्तस्यैव धनं भवेत् । मैत्रमौद्वाहिकञ्चैव
माधुपर्किकमेव च” । तथा व्यासः “विद्याप्राप्तं शौर्य्य-
धनं यच्च सौदायिकं भवेत् । विभागकाले तत्तस्य
नान्वेष्टव्यं स्वरिक्थिभिः” । पितृपितृव्यादिभ्यः सुदा-
यससम्बन्धिभ्यः प्रसादादिना लब्धं सौदायिकम् । तथा
नारदः “शौर्य्यभार्य्याधने, हित्वा, यच्च विद्याधनं भवेत्
त्रीण्येतान्यविभाज्यानि प्रसादो यश्च षैतृकः” । भार्य्या-
प्राप्तिकाले लब्धं भार्य्याधनम् औद्वाहिकमित्यर्थः, एतानि
वर्जयित्वा अन्यद्विभजेदित्यनुवर्त्तते वाक्यान्तरीयम् ।
तदवमादिभिः शौर्य्यादिधनत्वमविभाज्यत्वे कारणं
नोच्यते शौर्य्याद्यर्जितस्यावि विभागश्रुतेः । तथा च व्यासः
“साधारणं समाश्रित्य यत् किञ्चिद्वाहनायुधम् । शौर्य्या-
दिनाप्नोति धनं भ्रातरस्तत्र भागिनः । तस्य भागद्वयं
देयं शेषास्तु समभागिनः । साधारणद्रव्येणार्जितस्य
धनस्य विभागं वदति । तथा नारदः “कुटुम्बं विभृयाद्
भ्रातुर्यो विद्यामधिगच्छतः । भागं विद्याधनात्तस्मात्
स लभेताश्रुतोऽपि सन्” । विभृयादित्येकवचननिर्देशात्
यटि विद्यामभ्यस्यतो भ्रातुः कुटुम्बमपरो भ्राता स्वधन-
व्ययशरीरायासाभ्यां संवर्द्धयति तदा तद्विद्योपार्जित-
धने तस्याप्यधिकारः । तथा “वैद्योऽविद्याय नाकामो
दद्यादंशं स्वतो धनात् । पित्र्यं द्रव्यं समाश्रित्य न
चेत्तेन तदर्जितम्” । पत्रपदं साधारणघनपरं तदना-
श्रित्यार्जितं वैद्योऽविद्याय अनिच्छन्न दद्यात् वैद्याय
विदुषे पुनः साधारणमन्तरेणाप्यर्जितं दद्यादेव । तथा च
गौतमः “स्वयमर्जितमवैद्येभ्यो वैद्यः कामं न दद्यात्” ।
असाधारणधनशरीरव्यापारार्जितं स्वयमर्जितं
अविद्वद्भ्यो दातुमनच्छिन् न दद्यात् विद्वद्भ्यः पुनर्दद्यादेव ।
एतच्च विद्याधनमात्रविषयम् । तदाह कात्यायनः
“नाविद्यानान्तु वैद्येन देयं विद्याधनं क्वचित् । समविद्या-
धिकानान्तु देयं वैद्येन तद्धनम्” । तन्त्रोच्चरितविद्या-
पदम् उभाभ्यां समाधिकपदाभ्यां संबध्यते तेन समविद्या-
धिकविद्यानां दातव्यं न्यूनविद्याविद्ययोः पुनरनधि-
कारः । “तदेवमादिवनैर्विद्याशौर्य्यादिधनेष्वपि साधा-
रणधनोपघातानुपघाताभ्यां विभागाविभागयोरवगमात्
तस्यैव प्रयोजकत्वात् तत्पदवत्येव श्रुतिः कल्पनीया-
उपघातःर्जितं विभजेदिति, न पुनः शौर्य्यादिपदवत्यपि,
अवश्यकल्पनीयसामान्यश्रुतिकल्पनयैवोपपत्तेः । होला-
काधिकरणन्यायस्यायमेव विषयः । यद्वा न्यायप्राप्त
एवायमर्थः, यद्येनार्जितं तत् तस्मिन् जीवति तस्यैव,
असति विशेषवचने, यत्र पुनः साधारणधनमात्रेणैकस्य
व्यापारोऽपरस्य धनशरीराभ्यां तत्रैकस्यैको भागोऽपरस्य
भागद्वयं न्यायावगतमेवं सिद्धम् । एतेन चैतदपि
सिध्यति, यत् साधारणधनोपघाते सति यस्य यावतो-
ऽंशस्य स्वल्पस्य महतोवोपघातः, तस्य तदनुसारेण
भागकल्पना कार्य्या । किञ्च कात्यायनवचनम् “विभक्ताः
पितृवित्ताच्चेदेकत्र प्रतिवासिनः । विभजेयुः पुनद्र्व्यंशं
सलभेतोदयो यतः” ।
इति श्रीतारानाथतर्कवाचस्पतिभट्टाचार्य्यसङ्कलिते
वाचस्पत्ये सकारादिशब्दार्थसङ्कलनम् ।
"https://sa.wikisource.org/w/index.php?title=वाचस्पत्यम्/स्फाति&oldid=316106" इत्यस्माद् प्रतिप्राप्तम्