← अध्यायः ३ वायुपुराणम्
अध्यायः ४
वेदव्यासः
अध्यायः ५ →
वायुपुराणम्/पूर्वार्धम्
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१

ऋषयस्तु ततः श्रुत्वा नैमिषारण्यवासिनः।
प्रत्यूचुस्ते ततः सर्वे सूतं पर्याकुलेक्षणाः ।।१।।
भवान् वै वंशकुशलो व्यासात् प्रत्यक्षदर्शवान्।
तस्मात्त्वं भवनं कृत्स्नं लोकस्यामुष्य वर्णय ।।२।।
यस्य यस्यान्वया ये ये तांस्तानिच्छाम वेदितुम्।
तेषां पूर्वर्षिसृष्टिं च विचित्रां तां प्रजापतेः ।।३।।
असकृत्परिपृष्टस्तैर्महात्मा लोमहर्षणः।
विस्तरेणानुपूर्व्या च कथयामास सत्तमः ।।४।।
।।लोमहर्षण उवाच।।
पृष्टां चैतां कथां दिव्यां श्लक्ष्णां पापप्रणाशिनीम्।
कथ्यमानां मया चित्रां बह्वर्थां श्रुतिसम्मताम् ।।५।।
यश्चेमांधारयेन्नित्यं श्रृणुयाद्वाप्यभीक्ष्णशः।
श्रावयेच्चापि विप्रेभ्यो यतिभ्यश्च विशेषतः ।।६।।
शुचिः पर्वसु युक्तात्मा तीर्थेष्वायतनेषु च।
दीर्घमायुरवाप्नोति स पुराणानुकीर्त्तनात्।
स्ववंशधारणं कृत्वा स्वर्गलोके महीयते ।।७।।
विस्तारावयवं तेषां यथाशब्दं यथाश्रुतम्।
कीर्त्त्यमानं निबोधध्वं सर्वेषां कीर्त्तिवर्द्धनम् ।।८।।
धन्यं यशस्यं शत्रुघ्नं स्वर्ग्यमायुर्विवर्धनम्।
कीर्त्तनं स्थिरकीर्त्तीनां सर्वेषां पुण्यकारिणाम् ।।९।।
सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च।
वंशानुचरितञ्चेति पुराणं पंचलक्षणम् ।।१०।।
कल्पेभ्योऽपि हि यः कल्पः शुचिभ्यो नियतः शुचिः।
पुराणं सम्प्रवक्ष्यामि मारुतं वेदसम्मितम् ।।११।।
प्रबोधः प्रलयश्चैव स्थितिरुत्पत्तिरेव च।
प्रक्रिया प्रथमः पादः कथ्यवस्तुपरिग्रहः ।।१२।।
उपोद्वातोऽनुषङ्गश्च उपसंहार एव च।
धर्म्यं यशस्यमायुष्यं सर्वपापप्रणाशनम् ।।१३।।
एवं हि पादाश्चत्वारः समासात् कीर्त्तिता मया।
वक्ष्याम्येतान् पुनस्तांस्तु विस्तरेण यथाक्रमम् ।।१४।।
तस्मै हिरण्यगर्भाय पुरुषायेश्वराय च।
अन्ताय प्रथमायैव विशिष्टाय प्रजात्मने।
ब्रह्मणे लोकतन्त्राय नमस्कृत्य स्वयम्भुवे ।।१५।।
महदाद्यं विशेषान्तं सवैरुप्यं सलक्षणम्।
पञ्चप्रमाणं षट्श्येतं पुरुषाधिष्ठितं नुतम्।
असंशयात् प्रवक्ष्यामि भूतसर्गमनुत्तमम् ।।१६।।
अव्यक्तं कारणं यत्तु नित्यं सदसदात्मकम्।
प्रधानं प्रकृतिं चैव यमाहुस्तत्त्व चिन्तकाः ।।१७।।
गन्धवर्णरसैर्हीनं शब्दस्पर्शविवर्ज्जितम्।
अजातं ध्रुवमक्षय्यं नित्यं स्वात्मन्यवस्थितम् ।।१८।।
जगद्योनिं महद्भूतं परं ब्रह्म सनातनम्।
विग्रहं सर्वभूतानामव्यक्तमभवत् किल ।।१९।।
अनाद्यन्तमजं सूक्ष्मन्त्रिगुणं प्रभवाव्ययम्।
असाम्प्रतमविज्ञेयं ब्रह्माग्रे समवर्त्तत ।।२०।।
तस्यात्मना सर्वमिदं व्याप्तमासीत्तमोमयम्।
गुणसाम्ये तदा तस्मिन् गुणभावे तमोमये ।।२१।।
गर्गकाले प्रधानस्य क्षेत्रज्ञाधिष्ठितस्य वै।
गुणभावाद्वाच्यमानो महान् प्रादुर्बभूव ह ।।२२।।
सूक्ष्मेण महता सोऽथ अव्यक्तेन समावृतः।
सत्वोद्रिक्तो महानग्रे सत्त्वमात्रप्रकाशकम्।
मनो महांश्च विज्ञेयो मनस्तत्कारणं स्मृतम् ।।२३।।
लिङ्गमात्रसमुत्पन्नः) क्षेत्रज्ञाधिष्ठितस्तु सः।
धर्मादीनान्तु रूपाणि लोकतत्त्वार्थहेतवः।
महांस्तु सृष्टिं कुरुते नोद्यमानः सिसृक्षया ।।२४।।
मनो महान्मतिर्ब्रह्मा पूर्बुद्धिः ख्यातिरीश्वरः।
प्रज्ञा चितिः स्मृतिः संवित् विपुरं चोच्यते बुधैः ।।२५।।
मनुते सर्वभूतानां यस्माच्चेष्टाफलं विभुः।
सौक्ष्मत्वेन विवृद्धानां तेन तन्मन उच्यते ।।२६।।
तत्त्वानामग्रजो यस्मान्महांश्च परिमाणतः।
शेषेभ्योऽपि गुणेभ्योऽसौ महानिति ततः स्मृतः ।।२७।।
बिभर्ति मानं मनुते विभागं मन्यतेऽपि च।
पुरुषो भोगसम्बन्धात् तेन चासौ मतिः स्मृतः ।।२८।।
बृहत्त्वादृंहणत्वाच्च भावानां सलिलाश्रयात्।
यस्माद्‌बृंहयते भावान् ब्रह्मा तेन निरुच्यते ।।२९।।
आपूरयित्वा यस्माच्च कृत्स्नान् देहाननुग्रहैः।
तत्त्वभावांश्च नियतां स्तेन पूरिति चोच्यते ।।३०।।
बुध्यते पुरुषश्चात्र सर्वभावान् हिताहितान् ।
यस्माद्बोधयते चैव तेन बुद्धिर्निरुच्यते ।।३१।।
ख्यातिः प्रत्युपभोगश्च यस्मात् संवर्त्तते ततः।
भोगश्च ज्ञाननिष्ठत्वात्तेन ख्यातिरिति स्मृतः ।।३२।।
ख्यायते तद्गुणैर्वापि नामादिभिरनेकशः।
तस्माच्च महतः संज्ञा ख्यातिरित्यभिधीयते ।।३३।।
साक्षात् सर्वं विजानाति महात्मा तेन चेश्वरः।
तस्माज्जाता ग्रहाश्चैव प्रज्ञा तेन स उच्यते ।।३४।।
ज्ञानादीनि च रूपाणि क्रतुकर्मफलानि च।
चिनोति यस्माद्भोगार्थान्तेनासौ चितिरुच्यते ।।३५।।
वर्त्तमानान्यतीतानि तथा चानागतान्यपि।
स्मरते सर्वकार्याणि तेनासौ स्मृतिरुच्यते ।।३६।।
कृत्स्नं च विन्दते ज्ञानं तस्मान्माहात्म्यमुच्यते।
तस्माद्विदेर्विदेश्चैव संविदित्यभिधीयते ।।३७।।
विद्यते स च सर्वस्मिन् सर्वं तस्मिश्च विद्यते।
तस्मात्संविदिति प्रोक्तो महान्वै बुद्धिमत्तरैः ।।३८।।
ज्ञानात्तु ज्ञानमित्याह भगवान् ज्ञानसन्निधिः।
द्वन्द्वानां विपुरीभावाद्विपुरं प्रोच्यते बुधैः ।।३९।।
सर्वेशत्वाच्च लोकानामवश्यं च तथेश्वरः।
बृहत्वाच्च स्मृतो ब्रह्मा भूतत्वाद्भव उच्यते ।।४०।।
क्षेत्रक्षेत्रज्ञविज्ञानादेकत्वाच्च स कः स्मृतः।
यस्मात् पुर्यनुशेते च तस्मात् पुरुष उच्यते।
नोत्पादितत्वात् पूर्वत्वात् स्वयम्भूरिति चोच्यते ।।४१।।
पर्यायवाचकैः शब्दैस्तत्त्वमाद्यमनुत्तमम्।
व्याख्यातं तत्त्वभावज्ञैरेवं सद्भावचिन्तकैः ।।४२।।
महान् सृष्टिं विकुरुते चोद्यमानः सिसृक्षया।
सङ्कल्पोऽध्यवसायश्च तस्य वृत्तिद्वयं स्मृतम् ।।४३।।
धर्मादीनि च रूपाणि लोकतत्त्वार्थहेतवः।
त्रिगुणस्तु स विज्ञेयः सत्त्वराजसतामसः ।।४४।।
त्रिगुणाद्रजसोद्रिक्तादहङ्कारस्ततोऽभवत्।
महता चावृतः सर्गो भूतादिविकृतस्तु सः ।।४५।।
तस्माच्च तमसोद्रिक्तादहङ्कारादजायत।
भूततन्मात्रसर्गस्तु भूतादिस्तामसस्तु सः ।।४६।।

महाभूताः

आकाशं शुषिरं तस्मादुद्रिक्तं शब्दलक्षणम्।
आकाशं शब्दमात्रन्तु भूतादिश्चावृणोत् पुनः ।।४७।।
शब्दमात्रन्तदाकाशं स्पर्शमात्रं ससर्ज ह।
भूतादिस्तु विकुर्वाणः शब्दमात्रं ससर्ज्ज ह ।।४८।।
बलवान् जायते वायुः स वै स्पर्शगुणो मतः।
आकाशं शब्दमात्रन्तु स्पर्शमात्रं समावृणोत् ।।४९।।
रसमात्रास्तु ता ह्यापो रूपमात्राभिरावृणोत्।
आपो रसान् विकुर्वन्त्यो गन्धमात्रं ससर्ज्जिरे ।।५०।।
सङ्घातो जायते तस्मात्तस्य गन्धो गुणः स्मृतः।
रसमात्रन्तु तत्तोयं गन्धमात्रं समावृणोत् ।।५१।।
तस्मिंस्तस्मिंस्तु तन्मात्रा तेन तन्मात्रता स्मृता।
अविशेषवाचकत्वादविशेषास्ततः स्मृताः।
अशान्तघोरमूढत्वादविशेषास्ततः पुनः ।।५२।।
भूततन्मात्रसर्गोऽयं विज्ञेयस्तु परस्परात्।
वैकारिकादहङ्कारात्सत्वोद्रिक्तात्तु सात्विकात्।
वैकारिकः स सर्गस्तु युगपत्सम्प्रवर्त्तते ।।५३।।
बुद्धीन्द्रियाणि पञ्चैव पञ्च कर्मेन्द्रियाण्यपि।
साधकानीन्द्रियाणि स्युर्द्देवा वैकारिका दश।
एकादशं मनस्तत्र देवा वैकारिकाः स्मृता ।।५४।।
श्रोत्रं त्वक् चक्षुषी जिह्वा नासिका चैव पञ्चमी।
शब्दादीनामवाप्त्यर्थं बुद्धियुक्तानि वक्ष्यते ।।५५।।
पादौ पायुरुपस्थञ्च हस्तौ वाग्दशमी भवेत्।
गतिर्विसर्गो ह्यानन्दः शिल्पं वास्यञ्च कर्म च ।।५६।।
आकाशं शब्दमात्रञ्च स्पर्शमात्रं समाविशेत्।
द्विगुणस्तु ततो वायुः शब्द स्पर्शात्मकोऽभवत् ।।५७।।
रूपन्तथैव विशतः शब्दस्पर्शगुणावुभौ।
त्रिगुणस्तु ततश्चाग्निः स शब्दस्पर्शरूपवान् ।।५८।।
सशब्दस्पर्शरूपञ्च रसमात्रं समाविशत्।
तस्माच्चतुर्गुणा ह्यापो विज्ञेयास्ता रसात्मिकाः ।।५९।।
सशब्दस्पर्शरूपेषु गन्धस्तेषु समाविशत्।
संयुक्ता गन्धमात्रेण आचिन्वन्ति महीमिमाम्।
तस्मात्पञ्चगुणा भूमिः स्थूलभूतेषु दृश्यते ।।६०।।
शान्ता घोराश्च मूढाश्च विशेषास्तेन ते स्मृताः।
परस्परानुप्रवेशाद्धारयन्ति परस्परम् ।।६१।।
भूमेरन्तस्तिवदं सर्वं लोकालोकघनावृतम्।
विशेषा इन्द्रियग्राह्या नियतत्वाच्च ते स्मृताः ।।६२।।
गुणं पूर्वस्य पूर्वस्य प्राप्नुवन्त्युत्तरोत्तरम्।
तेषां यावच्च यद्यच्च तत्तत्तावद्गुणं स्मृतम् ।।६३।।
उपलभ्य शुचेर्गन्धं केचिद्वायोरनैपुणात्।
पृथिव्यामेव तद्विद्यादेषां वायोश्च संश्रयात् ।।६४।।
एते सप्त महावीर्या नानाभूताः पृथक् पृथक्।
नाशक्नुवन् प्रजाः स्रष्टुमसमागम्य कृत्स्नशः।
ते समेत्य महात्मानो ह्ययोन्यस्यैव संश्रयात् ।।६५।।
पुरुषाधिष्ठितत्वाच्च अव्यक्तानुग्रहेण च।
महदाद्या विशेषान्ता अण्डमुत्पादयन्ति ते ।।६६।।
एककालं समुत्पन्नं जलबुद्‌बुदवच्च तत्।
विशेषेभ्योऽण्डमभवद् बृहत्तदुदकं च यत्।
तत्तस्मिन् कार्यकरणं संसिद्धं ब्रह्मणस्तदा ।।६७।।
प्राकृतेऽण्डे विबुद्धे सन् क्षेत्रज्ञो ब्रह्मसंज्ञितः।
स वै शरीरी प्रथमः स वै पुरुष उच्यते ।।६८।।
आदिकर्त्ता च भूतानां ब्रह्माऽग्रे समवर्त्तत।
हिरण्यगर्भः सोऽग्रोऽस्मिन् प्रादुर्भूतश्चतुर्मुखः।
सर्गे च प्रति सर्गे च क्षेत्रज्ञो ब्रह्मसंज्ञितः ।।६९।।
करणैः सह सृज्यन्ते प्रत्याहारे त्यजन्ति च।
भजन्ते च पुनर्देहानसमाहारसन्धिषु ।।७०।।
हिरण्मयस्तु यो मेरुस्तस्योल्बं तन्महात्मनः।
गर्भोदकं समुद्राश्च जराद्यस्थीनि पर्वताः ।।७१।।
तस्मिन्नण्डे त्विमे लोका अन्तर्भूतास्तु सप्त वै।
सप्तद्वीपा च पृथ्वीयं समुद्रैः सह सप्तभिः ।।७२।।
पर्वतैः सुमहद्भिश्च नदीभिश्च सहस्रशः।
अन्तस्तस्मिंस्त्विमे लोका अन्तर्विश्वमिदं जगत् ।।७३।।
चन्द्रादित्यौ सनक्षत्रौ सग्रहौ सह वायुना।
लोकालोकं च यत् किंचिच्चाण्डे तस्मिन् समर्पितम् ।।७४।।
अद्भिर्दशगुणाभिस्तु बाह्यतोऽण्डं समावृतम्।
आपो दशगुणा ह्येवन्तेजसा बाह्यतो वृताः ।।७५।।
तेजौदशगुणेनैव बाह्यतो वायुना वृतम्।
वायोर्द्दशगुणेनैव बाह्यतो नभसा वृतम् ।।७६।।
आकाशेन वृतो वायुः खं च भूतादिना वृतम्।
भूतादिर्महता चापि अव्यक्तेन वृतो महान्।
एतैरावरणैरण्डं सप्तभिः प्राकृतैर्वृतम् ।।७७।।
एतास्वावृत्य चान्योन्यमष्टौ प्रकृतयः स्थिताः।
प्रसर्गकाले स्थित्वा च ग्रसन्त्येताः परस्परम् ।।७८।।
एवं परस्परोत्पन्ना धारयन्ति परस्परम्।
आधाराधेयभावेन विकारस्य विकारिषु ।।७९।।
अव्यक्तं क्षेत्रमुद्दिष्टं ब्रह्मा क्षेत्रज्ञ उच्यते।
इत्येष प्राकृतः सर्गः क्षेत्रज्ञाधिष्ठितस्तु सः।
अबुद्धिपूर्वं प्रागासीत् प्रादुर्भूता तडिद्यथा ।।८०।।
एतद्धिरण्यगर्भस्य जन्म यो वेद तत्त्वतः।
आयुष्मान् कीर्तिमान् धन्यः प्रजावांश्च भवत्युत ।।८१।।
निवृत्तिकामोऽपि नरः शुद्धात्मा लभते गतिम्।
पुराणश्रवणान्नित्यं सुखं च क्षेममाप्नुयात् ।।८२।।
इति महापुराणे वायुप्रोक्ते सृष्टिप्रकरणं नाम चतुर्थोऽध्यायः ।। ४ ।।