वार्शाणि त्रीणि

आ ते दक्षं मयोभुवं वह्निमद्या वृणीमहे ।
पान्तमा पुरुस्पृहं ॥ ४९८ ॥ ऋ. ९.६५.२८

टिप्पणी

अथ वार्शम्। वृशो वै जानस् त्रियरुणस्य त्रैवृष्णस्यैक्ष्वाकस्य राज्ञः पुरोहित आस। अथ ह स्म ततः पुरा राजभ्यः पुरोहिता एव रथान् संगृह्णन्त्य् औपद्रष्ट्र्याय - नेद् अयं पापं करवद् इति। तौ हाधावयन्तौ ब्राह्मणकुमारं पथि क्रीडन्तं रथचक्रेण विचिच्छिदतुः। इतरो हाधावयन्न् अभिप्रयुयावापेतर आययाम। स हाधिगत्य न शशाकापायन्तुम् । तं ह तद् एव विचिच्छिदतुः। तस्मिन् होदाते - त्वं हन्तासि त्वं हन्तासीति। स ह वृशो ऽभीशून् प्रकीर्यावतिष्ठन्न् उवाच - त्वं हन्तासीति। नेति होवाच। यो वै रथं संगृह्णाति स रथस्येशे। त्वं हन्तासीति। नेति हेतर उवाचाप वा अहम् आयांसं, स त्वम् अभिप्रायौषीस्, त्वम् एव हन्तासीति॥जैब्रा ३.९४

तौ वै - पृच्छावहा इति। तौ हेक्ष्वाकून् एव प्रश्नम् एयतुः। ते हेक्ष्वाकव ऊचुर् - यो वाव रथं संगृह्णाति स रथस्येशे। त्वम् एव हन्तासीति वृशम् एव पराब्रुवन्। सोऽकामयतोद् इत इयां, गातुं नाथं विन्देय । सम् अयं कुमारो जीवेद् इति। स एतत्सामापश्यत्। तेनैनं समैरयद् आ ते दक्षं मयोभुवम् इति(वार्शाणि त्रीणि)। प्राणा वै दक्षाः। प्राणान् एवास्मिंस् तद् अदधात्। जैब्रा ३.९५

"https://sa.wikisource.org/w/index.php?title=वार्शाणि(आतेदक्षं)&oldid=306135" इत्यस्माद् प्रतिप्राप्तम्